SoumilB7's picture
Upload 18 files
35001ce verified
जनमेजय उवाच
कथं विराटनगरे मम पूर्वपितामहाः
अज्ञातवासमुषिता दुर्योधनभयार्दिताः
वैशंपायन उवाच
तथा तु स वराँल्लब्ध्वा धर्माद्धर्मभृतां वरः
गत्वाश्रमं ब्राह्मणेभ्य आचख्यौ सर्वमेव तत्
कथयित्वा तु तत्सर्वं ब्राह्मणेभ्यो युधिष्ठिरः
अरणीसहितं तस्मै ब्राह्मणाय न्यवेदयत्
ततो युधिष्ठिरो राजा धर्मपुत्रो महामनाः
संनिवर्त्यानुजान्सर्वानिति होवाच भारत
द्वादशेमानि वर्षाणि राष्ट्राद्विप्रोषिता वयम्
त्रयोदशोऽयं संप्राप्तः कृच्छ्रः परमदुर्वसः
स साधु कौन्तेय इतो वासमर्जुन रोचय
यत्रेमा वसतीः सर्वा वसेमाविदिताः परैः
अर्जुन उवाच
तस्यैव वरदानेन धर्मस्य मनुजाधिप
अज्ञाता विचरिष्यामो नराणां भरतर्षभ
किं तु वासाय राष्ट्राणि कीर्तयिष्यामि कानिचित्
रमणीयानि गुप्तानि तेषां किंचित्स्म रोचय
सन्ति रम्या जनपदा बह्वन्नाः परितः कुरून्
पाञ्चालाश्चेदिमत्स्याश्च शूरसेनाः पटच्चराः
दशार्णा नवराष्ट्रं च मल्लाः शाल्वा युगंधराः
एतेषां कतमो राजन्निवासस्तव रोचते
वत्स्यामो यत्र राजेन्द्र संवत्सरमिमं वयम्
युधिष्ठिर उवाच
एवमेतन्महाबाहो यथा स भगवान्प्रभुः
अब्रवीत्सर्वभूतेशस्तत्तथा न तदन्यथा
अवश्यं त्वेव वासार्थं रमणीयं शिवं सुखम्
संमन्त्र्य सहितैः सर्वैर्द्रष्टव्यमकुतोभयम्
मत्स्यो विराटो बलवानभिरक्षेत्स पाण्डवान्
धर्मशीलो वदान्यश्च वृद्धश्च सुमहाधनः
विराटनगरे तात संवत्सरमिमं वयम्
कुर्वन्तस्तस्य कर्माणि विहरिष्याम भारत
यानि यानि च कर्माणि तस्य शक्ष्यामहे वयम्
कर्तुं यो यत्स तत्कर्म ब्रवीतु कुरुनन्दनाः
अर्जुन उवाच
नरदेव कथं कर्म राष्ट्रे तस्य करिष्यसि
विराटनृपतेः साधो रंस्यसे केन कर्मणा
मृदुर्वदान्यो ह्रीमांश्च धार्मिकः सत्यविक्रमः
राजंस्त्वमापदा क्लिष्टः किं करिष्यसि पाण्डव
न दुःखमुचितं किंचिद्राजन्वेद यथा जनः
स इमामापदं प्राप्य कथं घोरां तरिष्यसि
युधिष्ठिर उवाच
शृणुध्वं यत्करिष्यामि कर्म वै कुरुनन्दनाः
विराटमनुसंप्राप्य राजानं पुरुषर्षभम्
सभास्तारो भविष्यामि तस्य राज्ञो महात्मनः
कङ्को नाम द्विजो भूत्वा मताक्षः प्रियदेविता
वैडूर्यान्काञ्चनान्दान्तान्फलैर्ज्योतीरसैः सह
कृष्णाक्षाँल्लोहिताक्षांश्च निर्वर्त्स्यामि मनोरमान्
आसं युधिष्ठिरस्याहं पुरा प्राणसमः सखा
इति वक्ष्यामि राजानं यदि मामनुयोक्ष्यते
इत्येतद्वो मयाख्यातं विहरिष्याम्यहं यथा
वृकोदर विराटे त्वं रंस्यसे केन कर्मणा
भीम उवाच
पौरोगवो ब्रुवाणोऽहं बल्लवो नाम नामतः
उपस्थास्यामि राजानं विराटमिति मे मतिः
सूपानस्य करिष्यामि कुशलोऽस्मि महानसे
कृतपूर्वाणि यैरस्य व्यञ्जनानि सुशिक्षितैः
तानप्यभिभविष्यामि प्रीतिं संजनयन्नहम्
आहरिष्यामि दारूणां निचयान्महतोऽपि च
तत्प्रेक्ष्य विपुलं कर्म राजा प्रीतो भविष्यति
द्विपा वा बलिनो राजन्वृषभा वा महाबलाः
विनिग्राह्या यदि मया निग्रहीष्यामि तानपि
ये च केचिन्नियोत्स्यन्ति समाजेषु नियोधकाः
तानहं निहनिष्यामि प्रीतिं तस्य विवर्धयन्
न त्वेतान्युध्यमानान्वै हनिष्यामि कथंचन
तथैतान्पातयिष्यामि यथा यास्यन्ति न क्षयम्
आरालिको गोविकर्ता सूपकर्ता नियोधकः
आसं युधिष्ठिरस्याहमिति वक्ष्यामि पृच्छतः
आत्मानमात्मना रक्षंश्चरिष्यामि विशां पते
इत्येतत्प्रतिजानामि विहरिष्याम्यहं यथा
युधिष्ठिर उवाच
यमग्निर्ब्राह्मणो भूत्वा समागच्छन्नृणां वरम्
दिधक्षुः खाण्डवं दावं दाशार्हसहितं पुरा
महाबलं महाबाहुमजितं कुरुनन्दनम्
सोऽयं किं कर्म कौन्तेयः करिष्यति धनंजयः
योऽयमासाद्य तं दावं तर्पयामास पावकम्
विजित्यैकरथेनेन्द्रं हत्वा पन्नगराक्षसान्
श्रेष्ठः प्रतियुधां नाम सोऽर्जुनः किं करिष्यति
सूर्यः प्रतपतां श्रेष्ठो द्विपदां ब्राह्मणो वरः
आशीविषश्च सर्पाणामग्निस्तेजस्विनां वरः
आयुधानां वरो वज्रः ककुद्मी च गवां वरः
ह्रदानामुदधिः श्रेष्ठः पर्जन्यो वर्षतां वरः
धृतराष्ट्रश्च नागानां हस्तिष्वैरावतो वरः
पुत्रः प्रियाणामधिको भार्या च सुहृदां वरा
यथैतानि विशिष्टानि जात्यां जात्यां वृकोदर
एवं युवा गुडाकेशः श्रेष्ठः सर्वधनुष्मताम्
सोऽयमिन्द्रादनवरो वासुदेवाच्च भारत
गाण्डीवधन्वा श्वेताश्वो बीभत्सुः किं करिष्यति
उषित्वा पञ्च वर्षाणि सहस्राक्षस्य वेश्मनि
दिव्यान्यस्त्राण्यवाप्तानि देवरूपेण भास्वता
यं मन्ये द्वादशं रुद्रमादित्यानां त्रयोदशम्
यस्य बाहू समौ दीर्घौ ज्याघातकठिनत्वचौ
दक्षिणे चैव सव्ये च गवामिव वहः कृतः
हिमवानिव शैलानां समुद्रः सरितामिव
त्रिदशानां यथा शक्रो वसूनामिव हव्यवाट्
मृगाणामिव शार्दूलो गरुडः पततामिव
वरः संनह्यमानानामर्जुनः किं करिष्यति
अर्जुन उवाच
प्रतिज्ञां षण्ढकोऽस्मीति करिष्यामि महीपते
ज्याघातौ हि महान्तौ मे संवर्तुं नृप दुष्करौ
कर्णयोः प्रतिमुच्याहं कुण्डले ज्वलनोपमे
वेणीकृतशिरा राजन्नाम्ना चैव बृहन्नडा
पठन्नाख्यायिकां नाम स्त्रीभावेन पुनः पुनः
रमयिष्ये महीपालमन्यांश्चान्तःपुरे जनान्
गीतं नृत्तं विचित्रं च वादित्रं विविधं तथा
शिक्षयिष्याम्यहं राजन्विराटभवने स्त्रियः
प्रजानां समुदाचारं बहु कर्मकृतं वदन्
छादयिष्यामि कौन्तेय माययात्मानमात्मना
युधिष्ठिरस्य गेहेऽस्मि द्रौपद्याः परिचारिका
उषितास्मीति वक्ष्यामि पृष्टो राज्ञा च भारत
एतेन विधिना छन्नः कृतकेन यथा नलः
विहरिष्यामि राजेन्द्र विराटभवने सुखम्
युधिष्ठिर उवाच
किं त्वं नकुल कुर्वाणस्तत्र तात चरिष्यसि
सुकुमारश्च शूरश्च दर्शनीयः सुखोचितः
नकुल उवाच
अश्वबन्धो भविष्यामि विराटनृपतेरहम्
ग्रन्थिको नाम नाम्नाहं कर्मैतत्सुप्रियं मम
कुशलोऽस्म्यश्वशिक्षायां तथैवाश्वचिकित्सिते
प्रियाश्च सततं मेऽश्वाः कुरुराज यथा तव
ये मामामन्त्रयिष्यन्ति विराटनगरे जनाः
तेभ्य एवं प्रवक्ष्यामि विहरिष्याम्यहं यथा
युधिष्ठिर उवाच
सहदेव कथं तस्य समीपे विहरिष्यसि
किं वा त्वं तात कुर्वाणः प्रच्छन्नो विचरिष्यसि
सहदेव उवाच
गोसंख्याता भविष्यामि विराटस्य महीपतेः
प्रतिषेद्धा च दोग्धा च संख्याने कुशलो गवाम्
तन्तिपाल इति ख्यातो नाम्ना विदितमस्तु ते
निपुणं च चरिष्यामि व्येतु ते मानसो ज्वरः
अहं हि भवता गोषु सततं प्रकृतः पुरा
तत्र मे कौशलं कर्म अवबुद्धं विशां पते
लक्षणं चरितं चापि गवां यच्चापि मङ्गलम्
तत्सर्वं मे सुविदितमन्यच्चापि महीपते
वृषभानपि जानामि राजन्पूजितलक्षणान्
येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते
सोऽहमेवं चरिष्यामि प्रीतिरत्र हि मे सदा
न च मां वेत्स्यति परस्तत्ते रोचतु पार्थिव
युधिष्ठिर उवाच
इयं तु नः प्रिया भार्या प्राणेभ्योऽपि गरीयसी
मातेव परिपाल्या च पूज्या ज्येष्ठेव च स्वसा
केन स्म कर्मणा कृष्णा द्रौपदी विचरिष्यति
न हि किंचिद्विजानाति कर्म कर्तुं यथा स्त्रियः
सुकुमारी च बाला च राजपुत्री यशस्विनी
पतिव्रता महाभागा कथं नु विचरिष्यति
माल्यगन्धानलंकारान्वस्त्राणि विविधानि च
एतान्येवाभिजानाति यतो जाता हि भामिनी
द्रौपद्युवाच
सैरन्ध्र्योऽरक्षिता लोके भुजिष्याः सन्ति भारत
नैवमन्याः स्त्रियो यान्ति इति लोकस्य निश्चयः
साहं ब्रुवाणा सैरन्ध्री कुशला केशकर्मणि
आत्मगुप्ता चरिष्यामि यन्मां त्वमनुपृच्छसि
सुदेष्णां प्रत्युपस्थास्ये राजभार्यां यशस्विनीम्
सा रक्षिष्यति मां प्राप्तां मा ते भूद्दुःखमीदृशम्
युधिष्ठिर उवाच
कल्याणं भाषसे कृष्णे कुले जाता यथा वदेत्
न पापमभिजानासि साधु साध्वीव्रते स्थिता
युधिष्ठिर उवाच
कर्माण्युक्तानि युष्माभिर्यानि तानि करिष्यथ
मम चापि यथाबुद्धि रुचितानि विनिश्चयात्
पुरोहितोऽयमस्माकमग्निहोत्राणि रक्षतु
सूदपौरोगवैः सार्धं द्रुपदस्य निवेशने
इन्द्रसेनमुखाश्चेमे रथानादाय केवलान्
यान्तु द्वारवतीं शीघ्रमिति मे वर्तते मतिः
इमाश्च नार्यो द्रौपद्याः सर्वशः परिचारिकाः
पाञ्चालानेव गच्छन्तु सूदपौरोगवैः सह
सर्वैरपि च वक्तव्यं न प्रज्ञायन्त पाण्डवाः
गता ह्यस्मानपाकीर्य सर्वे द्वैतवनादिति
धौम्य उवाच
विदिते चापि वक्तव्यं सुहृद्भिरनुरागतः
अतोऽहमपि वक्ष्यामि हेतुमात्रं निबोधत
हन्तेमां राजवसतिं राजपुत्रा ब्रवीमि वः
यथा राजकुलं प्राप्य चरन्प्रेष्यो न रिष्यति
दुर्वसं त्वेव कौरव्या जानता राजवेश्मनि
अमानितैः सुमानार्हा अज्ञातैः परिवत्सरम्
दिष्टद्वारो लभेद्द्वारं न च राजसु विश्वसेत्
तदेवासनमन्विच्छेद्यत्र नाभिषजेत्परः
नास्य यानं न पर्यङ्कं न पीठं न गजं रथम्
आरोहेत्संमतोऽस्मीति स राजवसतिं वसेत्
अथ यत्रैनमासीनं शङ्केरन्दुष्टचारिणः
न तत्रोपविशेज्जातु स राजवसतिं वसेत्
न चानुशिष्येद्राजानमपृच्छन्तं कदाचन
तूष्णीं त्वेनमुपासीत काले समभिपूजयन्
असूयन्ति हि राजानो जनाननृतवादिनः
तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा
नैषां दारेषु कुर्वीत मैत्रीं प्राज्ञः कथंचन
अन्तःपुरचरा ये च द्वेष्टि यानहिताश्च ये
विदिते चास्य कुर्वीत कार्याणि सुलघून्यपि
एवं विचरतो राज्ञो न क्षतिर्जायते क्वचित्
यत्नाच्चोपचरेदेनमग्निवद्देववच्च ह
अनृतेनोपचीर्णो हि हिंस्यादेनमसंशयम्
यच्च भर्तानुयुञ्जीत तदेवाभ्यनुवर्तयेत्
प्रमादमवहेलां च कोपं च परिवर्जयेत्
समर्थनासु सर्वासु हितं च प्रियमेव च
संवर्णयेत्तदेवास्य प्रियादपि हितं वदेत्
अनुकूलो भवेच्चास्य सर्वार्थेषु कथासु च
अप्रियं चाहितं यत्स्यात्तदस्मै नानुवर्णयेत्
नाहमस्य प्रियोऽस्मीति मत्वा सेवेत पण्डितः
अप्रमत्तश्च यत्तश्च हितं कुर्यात्प्रियं च यत्
नास्यानिष्टानि सेवेत नाहितैः सह संवसेत्
स्वस्थानान्न विकम्पेत स राजवसतिं वसेत्
दक्षिणं वाथ वामं वा पार्श्वमासीत पण्डितः
रक्षिणां ह्यात्तशस्त्राणां स्थानं पश्चाद्विधीयते
नित्यं विप्रतिषिद्धं तु पुरस्तादासनं महत्
न च संदर्शने किंचित्प्रवृद्धमपि संजपेत्
अपि ह्येतद्दरिद्राणां व्यलीकस्थानमुत्तमम्
न मृषाभिहितं राज्ञो मनुष्येषु प्रकाशयेत्
यं चासूयन्ति राजानः पुरुषं न वदेच्च तम्
शूरोऽस्मीति न दृप्तः स्याद्बुद्धिमानिति वा पुनः
प्रियमेवाचरन्राज्ञः प्रियो भवति भोगवान्
ऐश्वर्यं प्राप्य दुष्प्रापं प्रियं प्राप्य च राजतः
अप्रमत्तो भवेद्राज्ञः प्रियेषु च हितेषु च
यस्य कोपो महाबाधः प्रसादश्च महाफलः
कस्तस्य मनसापीच्छेदनर्थं प्राज्ञसंमतः
न चोष्ठौ निर्भुजेज्जातु न च वाक्यं समाक्षिपेत्
सदा क्षुतं च वातं च ष्ठीवनं चाचरेच्छनैः
हास्यवस्तुषु चाप्यस्य वर्तमानेषु केषुचित्
नातिगाढं प्रहृष्येत न चाप्युन्मत्तवद्धसेत्
न चातिधैर्येण चरेद्गुरुतां हि व्रजेत्तथा
स्मितं तु मृदुपूर्वेण दर्शयेत प्रसादजम्
लाभे न हर्षयेद्यस्तु न व्यथेद्योऽवमानितः
असंमूढश्च यो नित्यं स राजवसतिं वसेत्
राजानं राजपुत्रं वा संवर्तयति यः सदा
अमात्यः पण्डितो भूत्वा स चिरं तिष्ठति श्रियम्
प्रगृहीतश्च योऽमात्यो निगृहीतश्च कारणैः
न निर्बध्नाति राजानं लभते प्रग्रहं पुनः
प्रत्यक्षं च परोक्षं च गुणवादी विचक्षणः
उपजीवी भवेद्राज्ञो विषये चापि यो वसेत्
अमात्यो हि बलाद्भोक्तुं राजानं प्रार्थयेत्तु यः
न स तिष्ठेच्चिरं स्थानं गच्छेच्च प्राणसंशयम्
श्रेयः सदात्मनो दृष्ट्वा परं राज्ञा न संवदेत्
विशेषयेन्न राजानं योग्याभूमिषु सर्वदा
अम्लानो बलवाञ्शूरश्छायेवानपगः सदा
सत्यवादी मृदुर्दान्तः स राजवसतिं वसेत्
अन्यस्मिन्प्रेष्यमाणे तु पुरस्ताद्यः समुत्पतेत्
अहं किं करवाणीति स राजवसतिं वसेत्
उष्णे वा यदि वा शीते रात्रौ वा यदि वा दिवा
आदिष्टो न विकल्पेत स राजवसतिं वसेत्
यो वै गृहेभ्यः प्रवसन्प्रियाणां नानुसंस्मरेत्
दुःखेन सुखमन्विच्छेत्स राजवसतिं वसेत्
समवेषं न कुर्वीत नात्युच्चैः संनिधौ हसेत्
मन्त्रं न बहुधा कुर्यादेवं राज्ञः प्रियो भवेत्
न कर्मणि नियुक्तः सन्धनं किंचिदुपस्पृशेत्
प्राप्नोति हि हरन्द्रव्यं बन्धनं यदि वा वधम्
यानं वस्त्रमलंकारं यच्चान्यत्संप्रयच्छति
तदेव धारयेन्नित्यमेवं प्रियतरो भवेत्
संवत्सरमिमं तात तथाशीला बुभूषवः
अथ स्वविषयं प्राप्य यथाकामं चरिष्यथ
युधिष्ठिर उवाच
अनुशिष्टाः स्म भद्रं ते नैतद्वक्तास्ति कश्चन
कुन्तीमृते मातरं नो विदुरं च महामतिम्
यदेवानन्तरं कार्यं तद्भवान्कर्तुमर्हति
तारणायास्य दुःखस्य प्रस्थानाय जयाय च
वैशंपायन उवाच
एवमुक्तस्ततो राज्ञा धौम्योऽथ द्विजसत्तमः
अकरोद्विधिवत्सर्वं प्रस्थाने यद्विधीयते
तेषां समिध्य तानग्नीन्मन्त्रवच्च जुहाव सः
समृद्धिवृद्धिलाभाय पृथिवीविजयाय च
अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश्च तपोधनान्
याज्ञसेनीं पुरस्कृत्य षडेवाथ प्रवव्रजुः
वैशंपायन उवाच
ते वीरा बद्धनिस्त्रिंशास्ततायुधकलापिनः
बद्धगोधाङ्गुलित्राणाः कालिन्दीमभितो ययुः
ततस्ते दक्षिणं तीरमन्वगच्छन्पदातयः
वसन्तो गिरिदुर्गेषु वनदुर्गेषु धन्विनः
विध्यन्तो मृगजातानि महेष्वासा महाबलाः
उत्तरेण दशार्णांस्ते पाञ्चालान्दक्षिणेन तु
अन्तरेण यकृल्लोमाञ्शूरसेनांश्च पाण्डवाः
लुब्धा ब्रुवाणा मत्स्यस्य विषयं प्राविशन्वनात्
ततो जनपदं प्राप्य कृष्णा राजानमब्रवीत्
पश्यैकपद्यो दृश्यन्ते क्षेत्राणि विविधानि च
व्यक्तं दूरे विराटस्य राजधानी भविष्यति
वसामेह परां रात्रिं बलवान्मे परिश्रमः
युधिष्ठिर उवाच
धनंजय समुद्यम्य पाञ्चालीं वह भारत
राजधान्यां निवत्स्यामो विमुक्ताश्च वनादितः
वैशंपायन उवाच
तामादायार्जुनस्तूर्णं द्रौपदीं गजराडिव
संप्राप्य नगराभ्याशमवतारयदर्जुनः
स राजधानीं संप्राप्य कौन्तेयोऽर्जुनमब्रवीत्
क्वायुधानि समासज्य प्रवेक्ष्यामः पुरं वयम्
सायुधाश्च वयं तात प्रवेक्ष्यामः पुरं यदि
समुद्वेगं जनस्यास्य करिष्यामो न संशयः
ततो द्वादश वर्षाणि प्रवेष्टव्यं वनं पुनः
एकस्मिन्नपि विज्ञाते प्रतिज्ञातं हि नस्तथा
अर्जुन उवाच
इयं कूटे मनुष्येन्द्र गहना महती शमी
भीमशाखा दुरारोहा श्मशानस्य समीपतः
न चापि विद्यते कश्चिन्मनुष्य इह पार्थिव
उत्पथे हि वने जाता मृगव्यालनिषेविते
समासज्यायुधान्यस्यां गच्छामो नगरं प्रति
एवमत्र यथाजोषं विहरिष्याम भारत
वैशंपायन उवाच
एवमुक्त्वा स राजानं धर्मात्मानं युधिष्ठिरम्
प्रचक्रमे निधानाय शस्त्राणां भरतर्षभ
येन देवान्मनुष्यांश्च सर्पांश्चैकरथोऽजयत्
स्फीताञ्जनपदांश्चान्यानजयत्कुरुनन्दनः
तदुदारं महाघोषं सपत्नगणसूदनम्
अपज्यमकरोत्पार्थो गाण्डीवमभयंकरम्
येन वीरः कुरुक्षेत्रमभ्यरक्षत्परंतपः
अमुञ्चद्धनुषस्तस्य ज्यामक्षय्यां युधिष्ठिरः
पाञ्चालान्येन संग्रामे भीमसेनोऽजयत्प्रभुः
प्रत्यषेधद्बहूनेकः सपत्नांश्चैव दिग्जये
निशम्य यस्य विस्फारं व्यद्रवन्त रणे परे
पर्वतस्येव दीर्णस्य विस्फोटमशनेरिव
सैन्धवं येन राजानं परामृषत चानघ
ज्यापाशं धनुषस्तस्य भीमसेनोऽवतारयत्
अजयत्पश्चिमामाशां धनुषा येन पाण्डवः
तस्य मौर्वीमपाकर्षच्छूरः संक्रन्दनो युधि
दक्षिणां दक्षिणाचारो दिशं येनाजयत्प्रभुः
अपज्यमकरोद्वीरः सहदेवस्तदायुधम्
खड्गांश्च पीतान्दीर्घांश्च कलापांश्च महाधनान्
विपाठान्क्षुरधारांश्च धनुर्भिर्निदधुः सह
तामुपारुह्य नकुलो धनूंषि निदधत्स्वयम्
यानि तस्यावकाशानि दृढरूपाण्यमन्यत
यत्र चापश्यत स वै तिरो वर्षाणि वर्षति
तत्र तानि दृढैः पाशैः सुगाढं पर्यबन्धत
शरीरं च मृतस्यैकं समबध्नन्त पाण्डवाः
विवर्जयिष्यन्ति नरा दूरादेव शमीमिमाम्
आबद्धं शवमत्रेति गन्धमाघ्राय पूतिकम्
अशीतिशतवर्षेयं माता न इति वादिनः
कुलधर्मोऽयमस्माकं पूर्वैराचरितोऽपि च
समासजाना वृक्षेऽस्मिन्निति वै व्याहरन्ति ते
आ गोपालाविपालेभ्य आचक्षाणाः परंतपाः
आजग्मुर्नगराभ्याशं पार्थाः शत्रुनिबर्हणाः
जयो जयन्तो विजयो जयत्सेनो जयद्बलः
इति गुह्यानि नामानि चक्रे तेषां युधिष्ठिरः
ततो यथाप्रतिज्ञाभिः प्राविशन्नगरं महत्
अज्ञातचर्यां वत्स्यन्तो राष्ट्रे वर्षं त्रयोदशम्
वैशंपायन उवाच
ततो विराटं प्रथमं युधिष्ठिरो; राजा सभायामुपविष्टमाव्रजत्
वैडूर्यरूपान्प्रतिमुच्य काञ्चना;नक्षान्स कक्षे परिगृह्य वाससा
नराधिपो राष्ट्रपतिं यशस्विनं; महायशाः कौरववंशवर्धनः
महानुभावो नरराजसत्कृतो; दुरासदस्तीक्ष्णविषो यथोरगः
बलेन रूपेण नरर्षभो महा;नथार्चिरूपेण यथामरस्तथा
महाभ्रजालैरिव संवृतो रवि;र्यथानलो भस्मवृतश्च वीर्यवान्
तमापतन्तं प्रसमीक्ष्य पाण्डवं; विराटराडिन्दुमिवाभ्रसंवृतम्
मन्त्रिद्विजान्सूतमुखान्विशस्तथा; ये चापि केचित्परिषत्समासते
पप्रच्छ कोऽयं प्रथमं समेयिवा;ननेन योऽयं प्रसमीक्षते सभाम्
न तु द्विजोऽयं भविता नरोत्तमः; पतिः पृथिव्या इति मे मनोगतम्
न चास्य दासो न रथो न कुण्डले; समीपतो भ्राजति चायमिन्द्रवत्
शरीरलिङ्गैरुपसूचितो ह्ययं; मूर्धाभिषिक्तोऽयमितीव मानसम्
समीपमायाति च मे गतव्यथो; यथा गजस्तामरसीं मदोत्कटः
वितर्कयन्तं तु नरर्षभस्तदा; युधिष्ठिरोऽभ्येत्य विराटमब्रवीत्
सम्राड्विजानात्विह जीवितार्थिनं; विनष्टसर्वस्वमुपागतं द्विजम्
इहाहमिच्छामि तवानघान्तिके; वस्तुं यथा कामचरस्तथा विभो
तमब्रवीत्स्वागतमित्यनन्तरं; राजा प्रहृष्टः प्रतिसंगृहाण च
कामेन ताताभिवदाम्यहं त्वां; कस्यासि राज्ञो विषयादिहागतः
गोत्रं च नामापि च शंस तत्त्वतः; किं चापि शिल्पं तव विद्यते कृतम्
युधिष्ठिर उवाच
युधिष्ठिरस्यासमहं पुरा सखा; वैयाघ्रपद्यः पुनरस्मि ब्राह्मणः
अक्षान्प्रवप्तुं कुशलोऽस्मि देविता; कङ्केति नाम्नास्मि विराट विश्रुतः
विराट उवाच
ददामि ते हन्त वरं यमिच्छसि; प्रशाधि मत्स्यान्वशगो ह्यहं तव
प्रिया हि धूर्ता मम देविनः सदा; भवांश्च देवोपम राज्यमर्हति
युधिष्ठिर उवाच
आप्तो विवादः परमो विशां पते; न विद्यते किंचन मत्स्य हीनतः
न मे जितः कश्चन धारयेद्धनं; वरो ममैषोऽस्तु तव प्रसादतः
विराट उवाच
हन्यामवध्यं यदि तेऽप्रियं चरे;त्प्रव्राजयेयं विषयाद्द्विजांस्तथा
शृण्वन्तु मे जानपदाः समागताः; कङ्को यथाहं विषये प्रभुस्तथा
समानयानो भवितासि मे सखा; प्रभूतवस्त्रो बहुपानभोजनः
पश्येस्त्वमन्तश्च बहिश्च सर्वदा; कृतं च ते द्वारमपावृतं मया
ये त्वानुवादेयुरवृत्तिकर्शिता; ब्रूयाश्च तेषां वचनेन मे सदा
दास्यामि सर्वं तदहं न संशयो; न ते भयं विद्यति संनिधौ मम
वैशंपायन उवाच
एवं स लब्ध्वा तु वरं समागमं; विराटराजेन नरर्षभस्तदा
उवास वीरः परमार्चितः सुखी; न चापि कश्चिच्चरितं बुबोध तत्
वैशंपायन उवाच
अथापरो भीमबलः श्रिया ज्वल;न्नुपाययौ सिंहविलासविक्रमः
खजं च दर्वीं च करेण धारय;न्नसिं च कालाङ्गमकोशमव्रणम्
स सूदरूपः परमेण वर्चसा; रविर्यथा लोकमिमं प्रभासयन्
सुकृष्णवासा गिरिराजसारवा;न्स मत्स्यराजं समुपेत्य तस्थिवान्
तं प्रेक्ष्य राजा वरयन्नुपागतं; ततोऽब्रवीज्जानपदान्समागतान्
सिंहोन्नतांसोऽयमतीव रूपवा;न्प्रदृश्यते को नु नरर्षभो युवा
अदृष्टपूर्वः पुरुषो रविर्यथा; वितर्कयन्नास्य लभामि संपदम्
तथास्य चित्तं ह्यपि संवितर्कय;न्नरर्षभस्याद्य न यामि तत्त्वतः
ततो विराटं समुपेत्य पाण्डवः; सुदीनरूपो वचनं महामनाः
उवाच सूदोऽस्मि नरेन्द्र बल्लवो; भजस्व मां व्यञ्जनकारमुत्तमम्
विराट उवाच
न सूदतां मानद श्रद्दधामि ते; सहस्रनेत्रप्रतिमो हि दृश्यसे
श्रिया च रूपेण च विक्रमेण च; प्रभासि तातानवरो नरेष्विह
भीम उवाच
नरेन्द्र सूदः परिचारकोऽस्मि ते; जानामि सूपान्प्रथमेन केवलान्
आस्वादिता ये नृपते पुराभव;न्युधिष्ठिरेणापि नृपेण सर्वशः
बलेन तुल्यश्च न विद्यते मया; नियुद्धशीलश्च सदैव पार्थिव
गजैश्च सिंहैश्च समेयिवानहं; सदा करिष्यामि तवानघ प्रियम्
विराट उवाच
ददामि ते हन्त वरं महानसे; तथा च कुर्याः कुशलं हि भाषसे
न चैव मन्ये तव कर्म तत्समं; समुद्रनेमिं पृथिवीं त्वमर्हसि
यथा हि कामस्तव तत्तथा कृतं; महानसे त्वं भव मे पुरस्कृतः
नराश्च ये तत्र ममोचिताः पुरा; भवस्व तेषामधिपो मया कृतः
वैशंपायन उवाच
तथा स भीमो विहितो महानसे; विराटराज्ञो दयितोऽभवद्दृढम्
उवास राजन्न च तं पृथग्जनो; बुबोध तत्रानुचरश्च कश्चन
वैशंपायन उवाच
ततः केशान्समुत्क्षिप्य वेल्लिताग्राननिन्दितान्
जुगूह दक्षिणे पार्श्वे मृदूनसितलोचना
वासश्च परिधायैकं कृष्णं सुमलिनं महत्
कृत्वा वेषं च सैरन्ध्र्याः कृष्णा व्यचरदार्तवत्
तां नराः परिधावन्तीं स्त्रियश्च समुपाद्रवन्
अपृच्छंश्चैव तां दृष्ट्वा का त्वं किं च चिकीर्षसि
सा तानुवाच राजेन्द्र सैरन्ध्र्यहमुपागता
कर्म चेच्छामि वै कर्तुं तस्य यो मां पुपुक्षति
तस्या रूपेण वेषेण श्लक्ष्णया च तथा गिरा
नाश्रद्दधत तां दासीमन्नहेतोरुपस्थिताम्
विराटस्य तु कैकेयी भार्या परमसंमता
अवलोकयन्ती ददृशे प्रासादाद्द्रुपदात्मजाम्
सा समीक्ष्य तथारूपामनाथामेकवाससम्
समाहूयाब्रवीद्भद्रे का त्वं किं च चिकीर्षसि
सा तामुवाच राजेन्द्र सैरन्ध्र्यहमुपागता
कर्म चेच्छाम्यहं कर्तुं तस्य यो मां पुपुक्षति
सुदेष्णोवाच
नैवंरूपा भवन्त्येवं यथा वदसि भामिनि
प्रेषयन्ति च वै दासीर्दासांश्चैवंविधान्बहून्
गूढगुल्फा संहतोरुस्त्रिगम्भीरा षडुन्नता
रक्ता पञ्चसु रक्तेषु हंसगद्गदभाषिणी
सुकेशी सुस्तनी श्यामा पीनश्रोणिपयोधरा
तेन तेनैव संपन्ना काश्मीरीव तुरंगमा
स्वरालपक्ष्मनयना बिम्बोष्ठी तनुमध्यमा
कम्बुग्रीवा गूढसिरा पूर्णचन्द्रनिभानना
का त्वं ब्रूहि यथा भद्रे नासि दासी कथंचन
यक्षी वा यदि वा देवी गन्धर्वी यदि वाप्सराः
अलम्बुसा मिश्रकेशी पुण्डरीकाथ मालिनी
इन्द्राणी वारुणी वा त्वं त्वष्टुर्धातुः प्रजापतेः
देव्यो देवेषु विख्यातास्तासां त्वं कतमा शुभे
द्रौपद्युवाच
नास्मि देवी न गन्धर्वी नासुरी न च राक्षसी
सैरन्ध्री तु भुजिष्यास्मि सत्यमेतद्ब्रवीमि ते
केशाञ्जानाम्यहं कर्तुं पिंषे साधु विलेपनम्
ग्रथयिष्ये विचित्राश्च स्रजः परमशोभनाः
आराधयं सत्यभामां कृष्णस्य महिषीं प्रियाम्
कृष्णां च भार्यां पाण्डूनां कुरूणामेकसुन्दरीम्
तत्र तत्र चराम्येवं लभमाना सुशोभनम्
वासांसि यावच्च लभे तावत्तावद्रमे तथा
मालिनीत्येव मे नाम स्वयं देवी चकार सा
साहमभ्यागता देवि सुदेष्णे त्वन्निवेशनम्
सुदेष्णोवाच
मूर्ध्नि त्वां वासयेयं वै संशयो मे न विद्यते
नो चेदिह तु राजा त्वां गच्छेत्सर्वेण चेतसा
स्त्रियो राजकुले पश्य याश्चेमा मम वेश्मनि
प्रसक्तास्त्वां निरीक्षन्ते पुमांसं कं न मोहयेः
वृक्षांश्चावस्थितान्पश्य य इमे मम वेश्मनि
तेऽपि त्वां संनमन्तीव पुमांसं कं न मोहयेः
राजा विराटः सुश्रोणि दृष्ट्वा वपुरमानुषम्
विहाय मां वरारोहे त्वां गच्छेत्सर्वचेतसा
यं हि त्वमनवद्याङ्गि नरमायतलोचने
प्रसक्तमभिवीक्षेथाः स कामवशगो भवेत्
यश्च त्वां सततं पश्येत्पुरुषश्चारुहासिनि
एवं सर्वानवद्याङ्गि स चानङ्गवशो भवेत्
यथा कर्कटकी गर्भमाधत्ते मृत्युमात्मनः
तथाविधमहं मन्ये वासं तव शुचिस्मिते
द्रौपद्युवाच
नास्मि लभ्या विराटेन न चान्येन कथंचन
गन्धर्वाः पतयो मह्यं युवानः पञ्च भामिनि
पुत्रा गन्धर्वराजस्य महासत्त्वस्य कस्यचित्
रक्षन्ति ते च मां नित्यं दुःखाचारा तथा न्वहम्
यो मे न दद्यादुच्छिष्टं न च पादौ प्रधावयेत्
प्रीयेयुस्तेन वासेन गन्धर्वाः पतयो मम
यो हि मां पुरुषो गृध्येद्यथान्याः प्राकृतस्त्रियः
तामेव स ततो रात्रिं प्रविशेदपरां तनुम्
न चाप्यहं चालयितुं शक्या केनचिदङ्गने
दुःखशीला हि गन्धर्वास्ते च मे बलवत्तराः
सुदेष्णोवाच
एवं त्वां वासयिष्यामि यथा त्वं नन्दिनीच्छसि
न च पादौ न चोच्छिष्टं स्प्रक्ष्यसि त्वं कथंचन
वैशंपायन उवाच
एवं कृष्णा विराटस्य भार्यया परिसान्त्विता
न चैनां वेद तत्रान्यस्तत्त्वेन जनमेजय
वैशंपायन उवाच
सहदेवोऽपि गोपानां कृत्वा वेषमनुत्तमम्
भाषां चैषां समास्थाय विराटमुपयादथ
तमायान्तमभिप्रेक्ष्य भ्राजमानं नरर्षभम्
समुपस्थाय वै राजा पप्रच्छ कुरुनन्दनम्
कस्य वा त्वं कुतो वा त्वं किं वा तात चिकीर्षसि
न हि मे दृष्टपूर्वस्त्वं तत्त्वं ब्रूहि नरर्षभ
स प्राप्य राजानममित्रतापन;स्ततोऽब्रवीन्मेघमहौघनिःस्वनः
वैश्योऽस्मि नाम्नाहमरिष्टनेमि;र्गोसंख्य आसं कुरुपुंगवानाम्
वस्तुं त्वयीच्छामि विशां वरिष्ठ; तान्राजसिंहान्न हि वेद्मि पार्थान्
न शक्यते जीवितुमन्यकर्मणा; न च त्वदन्यो मम रोचते नृपः
विराट उवाच
त्वं ब्राह्मणो यदि वा क्षत्रियोऽसि; समुद्रनेमीश्वररूपवानसि
आचक्ष्व मे तत्त्वममित्रकर्शन; न वैश्यकर्म त्वयि विद्यते समम्
कस्यासि राज्ञो विषयादिहागतः; किं चापि शिल्पं तव विद्यते कृतम्
कथं त्वमस्मासु निवत्स्यसे सदा; वदस्व किं चापि तवेह वेतनम्
सहदेव उवाच
पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः
तस्याष्टशतसाहस्रा गवां वर्गाः शतं शताः
अपरे दशसाहस्रा द्विस्तावन्तस्तथापरे
तेषां गोसंख्य आसं वै तन्तिपालेति मां विदुः
भूतं भव्यं भविष्यच्च यच्च संख्यागतं क्वचित्
न मेऽस्त्यविदितं किंचित्समन्ताद्दशयोजनम्
गुणाः सुविदिता ह्यासन्मम तस्य महात्मनः
आसीच्च स मया तुष्टः कुरुराजो युधिष्ठिरः
क्षिप्रं हि गावो बहुला भवन्ति; न तासु रोगो भवतीह कश्चित्
तैस्तैरुपायैर्विदितं मयैत;देतानि शिल्पानि मयि स्थितानि
वृषभांश्चापि जानामि राजन्पूजितलक्षणान्
येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते
विराट उवाच
शतं सहस्राणि समाहितानि; वर्णस्य वर्णस्य विनिश्चिता गुणैः
पशून्सपालान्भवते ददाम्यहं; त्वदाश्रया मे पशवो भवन्त्विह
वैशंपायन उवाच
तथा स राज्ञोऽविदितो विशां पते; उवास तत्रैव सुखं नरेश्वरः
न चैनमन्येऽपि विदुः कथंचन; प्रादाच्च तस्मै भरणं यथेप्सितम्
वैशंपायन उवाच
अथापरोऽदृश्यत रूपसंपदा; स्त्रीणामलंकारधरो बृहत्पुमान्
प्राकारवप्रे प्रतिमुच्य कुण्डले; दीर्घे च कम्बू परिहाटके शुभे
बहूंश्च दीर्घांश्च विकीर्य मूर्धजा;न्महाभुजो वारणमत्तविक्रमः
गतेन भूमिमभिकम्पयंस्तदा; विराटमासाद्य सभासमीपतः
तं प्रेक्ष्य राजोपगतं सभातले; सत्रप्रतिच्छन्नमरिप्रमाथिनम्
विराजमानं परमेण वर्चसा; सुतं महेन्द्रस्य गजेन्द्रविक्रमम्
सर्वानपृच्छच्च समीपचारिणः; कुतोऽयमायाति न मे पुरा श्रुतः
न चैनमूचुर्विदितं तदा नराः; सविस्मितं वाक्यमिदं नृपोऽब्रवीत्
सर्वोपपन्नः पुरुषो मनोरमः; श्यामो युवा वारणयूथपोपमः
विमुच्य कम्बू परिहाटके शुभे; विमुच्य वेणीमपिनह्य कुण्डले
शिखी सुकेशः परिधाय चान्यथा; भवस्व धन्वी कवची शरी तथा
आरुह्य यानं परिधावतां भवा;न्सुतैः समो मे भव वा मया समः
वृद्धो ह्यहं वै परिहारकामः; सर्वान्मत्स्यांस्तरसा पालयस्व
नैवंविधाः क्लीबरूपा भवन्ति; कथंचनेति प्रतिभाति मे मनः
अर्जुन उवाच
गायामि नृत्याम्यथ वादयामि; भद्रोऽस्मि नृत्ते कुशलोऽस्मि गीते
त्वमुत्तरायाः परिदत्स्व मां स्वयं; भवामि देव्या नरदेव नर्तकः
इदं तु रूपं मम येन किं नु त;त्प्रकीर्तयित्वा भृशशोकवर्धनम्
बृहन्नडां वै नरदेव विद्धि मां; सुतं सुतां वा पितृमातृवर्जिताम्
विराट उवाच
ददामि ते हन्त वरं बृहन्नडे; सुतां च मे नर्तय याश्च तादृशीः
इदं तु ते कर्म समं न मे मतं; समुद्रनेमिं पृथिवीं त्वमर्हसि
वैशंपायन उवाच
बृहन्नडां तामभिवीक्ष्य मत्स्यरा;ट्कलासु नृत्ते च तथैव वादिते
अपुंस्त्वमप्यस्य निशम्य च स्थिरं; ततः कुमारीपुरमुत्ससर्ज तम्
स शिक्षयामास च गीतवादितं; सुतां विराटस्य धनंजयः प्रभुः
सखीश्च तस्याः परिचारिकास्तथा; प्रियश्च तासां स बभूव पाण्डवः
तथा स सत्रेण धनंजयोऽवस;त्प्रियाणि कुर्वन्सह ताभिरात्मवान्
तथागतं तत्र न जज्ञिरे जना; बहिश्चरा वाप्यथ वान्तरेचराः
वैशंपायन उवाच
अथापरोऽदृश्यत पाण्डवः प्रभु;र्विराटराज्ञस्तुरगान्समीक्षतः
तमापतन्तं ददृशे पृथग्जनो; विमुक्तमभ्रादिव सूर्यमण्डलम्
स वै हयानैक्षत तांस्ततस्ततः; समीक्षमाणं च ददर्श मत्स्यराट्
ततोऽब्रवीत्ताननुगानमित्रहा; कुतोऽयमायाति नरोऽमरप्रभः
अयं हयान्वीक्षति मामकान्दृढं; ध्रुवं हयज्ञो भविता विचक्षणः
प्रवेश्यतामेष समीपमाशु मे; विभाति वीरो हि यथामरस्तथा
अभ्येत्य राजानममित्रहाब्रवी;ज्जयोऽस्तु ते पार्थिव भद्रमस्तु च
हयेषु युक्तो नृप संमतः सदा; तवाश्वसूतो निपुणो भवाम्यहम्
विराट उवाच
ददामि यानानि धनं निवेशनं; ममाश्वसूतो भवितुं त्वमर्हसि
कुतोऽसि कस्यासि कथं त्वमागतः; प्रब्रूहि शिल्पं तव विद्यते च यत्
नकुल उवाच
पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः
तेनाहमश्वेषु पुरा प्रकृतः शत्रुकर्शन
अश्वानां प्रकृतिं वेद्मि विनयं चापि सर्वशः
दुष्टानां प्रतिपत्तिं च कृत्स्नं चैव चिकित्सितम्
न कातरं स्यान्मम जातु वाहनं; न मेऽस्ति दुष्टा वडवा कुतो हयाः
जनस्तु मामाह स चापि पाण्डवो; युधिष्ठिरो ग्रन्थिकमेव नामतः
विराट उवाच
यदस्ति किंचिन्मम वाजिवाहनं; तदस्तु सर्वं त्वदधीनमद्य वै
ये चापि केचिन्मम वाजियोजका;स्त्वदाश्रयाः सारथयश्च सन्तु मे
इदं तवेष्टं यदि वै सुरोपम; ब्रवीहि यत्ते प्रसमीक्षितं वसु
न तेऽनुरूपं हयकर्म विद्यते; प्रभासि राजेव हि संमतो मम
युधिष्ठिरस्येव हि दर्शनेन मे; समं तवेदं प्रियदर्श दर्शनम्
कथं तु भृत्यैः स विनाकृतो वने; वसत्यनिन्द्यो रमते च पाण्डवः
वैशंपायन उवाच
तथा स गन्धर्ववरोपमो युवा; विराटराज्ञा मुदितेन पूजितः
न चैनमन्येऽपि विदुः कथंचन; प्रियाभिरामं विचरन्तमन्तरा
एवं हि मत्स्ये न्यवसन्त पाण्डवा; यथाप्रतिज्ञाभिरमोघदर्शनाः
अज्ञातचर्यां व्यचरन्समाहिताः; समुद्रनेमीपतयोऽतिदुःखिताः
जनमेजय उवाच
एवं मत्स्यस्य नगरे वसन्तस्तत्र पाण्डवाः
अत ऊर्ध्वं महावीर्याः किमकुर्वन्त वै द्विज
वैशंपायन उवाच
एवं ते न्यवसंस्तत्र प्रच्छन्नाः कुरुनन्दनाः
आराधयन्तो राजानं यदकुर्वन्त तच्छृणु
युधिष्ठिरः सभास्तारः सभ्यानामभवत्प्रियः
तथैव च विराटस्य सपुत्रस्य विशां पते
स ह्यक्षहृदयज्ञस्तान्क्रीडयामास पाण्डवः
अक्षवत्यां यथाकामं सूत्रबद्धानिव द्विजान्
अज्ञातं च विराटस्य विजित्य वसु धर्मराट्
भ्रातृभ्यः पुरुषव्याघ्रो यथार्हं स्म प्रयच्छति
भीमसेनोऽपि मांसानि भक्ष्याणि विविधानि च
अतिसृष्टानि मत्स्येन विक्रीणाति युधिष्ठिरे
वासांसि परिजीर्णानि लब्धान्यन्तःपुरेऽर्जुनः
विक्रीणानश्च सर्वेभ्यः पाण्डवेभ्यः प्रयच्छति
सहदेवोऽपि गोपानां वेषमास्थाय पाण्डवः
दधि क्षीरं घृतं चैव पाण्डवेभ्यः प्रयच्छति
नकुलोऽपि धनं लब्ध्वा कृते कर्मणि वाजिनाम्
तुष्टे तस्मिन्नरपतौ पाण्डवेभ्यः प्रयच्छति
कृष्णापि सर्वान्भ्रातॄंस्तान्निरीक्षन्ती तपस्विनी
यथा पुनरविज्ञाता तथा चरति भामिनी
एवं संपादयन्तस्ते तथान्योन्यं महारथाः
प्रेक्षमाणास्तदा कृष्णामूषुश्छन्ना नराधिप
अथ मासे चतुर्थे तु ब्रह्मणः सुमहोत्सवः
आसीत्समृद्धो मत्स्येषु पुरुषाणां सुसंमतः
तत्र मल्लाः समापेतुर्दिग्भ्यो राजन्सहस्रशः
महाकाया महावीर्याः कालखञ्जा इवासुराः
वीर्योन्नद्धा बलोदग्रा राज्ञा समभिपूजिताः
सिंहस्कन्धकटिग्रीवाः स्ववदाता मनस्विनः
असकृल्लब्धलक्षास्ते रङ्गे पार्थिवसंनिधौ
तेषामेको महानासीत्सर्वमल्लान्समाह्वयत्
आवल्गमानं तं रङ्गे नोपतिष्ठति कश्चन
यदा सर्वे विमनसस्ते मल्ला हतचेतसः
अथ सूदेन तं मल्लं योधयामास मत्स्यराट्
चोद्यमानस्ततो भीमो दुःखेनैवाकरोन्मतिम्
न हि शक्नोति विवृते प्रत्याख्यातुं नराधिपम्
ततः स पुरुषव्याघ्रः शार्दूलशिथिलं चरन्
प्रविवेश महारङ्गं विराटमभिहर्षयन्
बबन्ध कक्ष्यां कौन्तेयस्ततस्तं हर्षयञ्जनम्
ततस्तं वृत्रसंकाशं भीमो मल्लं समाह्वयत्
तावुभौ सुमहोत्साहावुभौ तीव्रपराक्रमौ
मत्ताविव महाकायौ वारणौ षष्टिहायनौ
चकर्ष दोर्भ्यामुत्पाट्य भीमो मल्लममित्रहा
विनदन्तमभिक्रोशञ्शार्दूल इव वारणम्
तमुद्यम्य महाबाहुर्भ्रामयामास वीर्यवान्
ततो मल्लाश्च मत्स्याश्च विस्मयं चक्रिरे परम्
भ्रामयित्वा शतगुणं गतसत्त्वमचेतनम्
प्रत्यपिंषन्महाबाहुर्मल्लं भुवि वृकोदरः
तस्मिन्विनिहते मल्ले जीमूते लोकविश्रुते
विराटः परमं हर्षमगच्छद्बान्धवैः सह
संहर्षात्प्रददौ वित्तं बहु राजा महामनाः
बल्लवाय महारङ्गे यथा वैश्रवणस्तथा
एवं स सुबहून्मल्लान्पुरुषांश्च महाबलान्
विनिघ्नन्मत्स्यराजस्य प्रीतिमावहदुत्तमाम्
यदास्य तुल्यः पुरुषो न कश्चित्तत्र विद्यते
ततो व्याघ्रैश्च सिंहैश्च द्विरदैश्चाप्ययोधयत्
पुनरन्तःपुरगतः स्त्रीणां मध्ये वृकोदरः
योध्यते स्म विराटेन सिंहैर्मत्तैर्महाबलैः
बीभत्सुरपि गीतेन सुनृत्तेन च पाण्डवः
विराटं तोषयामास सर्वाश्चान्तःपुरस्त्रियः
अश्वैर्विनीतैर्जवनैस्तत्र तत्र समागतैः
तोषयामास नकुलो राजानं राजसत्तम
तस्मै प्रदेयं प्रायच्छत्प्रीतो राजा धनं बहु
विनीतान्वृषभान्दृष्ट्वा सहदेवस्य चाभिभो
एवं ते न्यवसंस्तत्र प्रच्छन्नाः पुरुषर्षभाः
कर्माणि तस्य कुर्वाणा विराटनृपतेस्तदा
वैशंपायन उवाच
वसमानेषु पार्थेषु मत्स्यस्य नगरे तदा
महारथेषु छन्नेषु मासा दश समत्ययुः
याज्ञसेनी सुदेष्णां तु शुश्रूषन्ती विशां पते
अवसत्परिचारार्हा सुदुःखं जनमेजय
तथा चरन्तीं पाञ्चालीं सुदेष्णाया निवेशने
सेनापतिर्विराटस्य ददर्श जलजाननाम्
तां दृष्ट्वा देवगर्भाभां चरन्तीं देवतामिव
कीचकः कामयामास कामबाणप्रपीडितः
स तु कामाग्निसंतप्तः सुदेष्णामभिगम्य वै
प्रहसन्निव सेनानीरिदं वचनमब्रवीत्
नेयं पुरा जातु मयेह दृष्टा; राज्ञो विराटस्य निवेशने शुभा
रूपेण चोन्मादयतीव मां भृशं; गन्धेन जाता मदिरेव भामिनी
का देवरूपा हृदयंगमा शुभे; आचक्ष्व मे का च कुतश्च शोभना
चित्तं हि निर्मथ्य करोति मां वशे; न चान्यदत्रौषधमद्य मे मतम्
अहो तवेयं परिचारिका शुभा; प्रत्यग्ररूपा प्रतिभाति मामियम्
अयुक्तरूपं हि करोति कर्म ते; प्रशास्तु मां यच्च ममास्ति किंचन
प्रभूतनागाश्वरथं महाधनं; समृद्धियुक्तं बहुपानभोजनम्
मनोहरं काञ्चनचित्रभूषणं; गृहं महच्छोभयतामियं मम
ततः सुदेष्णामनुमन्त्र्य कीचक;स्ततः समभ्येत्य नराधिपात्मजाम्
उवाच कृष्णामभिसान्त्वयंस्तदा; मृगेन्द्रकन्यामिव जम्बुको वने
इदं च रूपं प्रथमं च ते वयो; निरर्थकं केवलमद्य भामिनि
अधार्यमाणा स्रगिवोत्तमा यथा; न शोभसे सुन्दरि शोभना सती
त्यजामि दारान्मम ये पुरातना; भवन्तु दास्यस्तव चारुहासिनि
अहं च ते सुन्दरि दासवत्स्थितः; सदा भविष्ये वशगो वरानने
द्रौपद्युवाच
अप्रार्थनीयामिह मां सूतपुत्राभिमन्यसे
विहीनवर्णां सैरन्ध्रीं बीभत्सां केशकारिकाम्
परदारास्मि भद्रं ते न युक्तं त्वयि सांप्रतम्
दयिताः प्राणिनां दारा धर्मं समनुचिन्तय
परदारे न ते बुद्धिर्जातु कार्या कथंचन
विवर्जनं ह्यकार्याणामेतत्सत्पुरुषव्रतम्
मिथ्याभिगृध्नो हि नरः पापात्मा मोहमास्थितः
अयशः प्राप्नुयाद्घोरं सुमहत्प्राप्नुयाद्भयम्
मा सूतपुत्र हृष्यस्व माद्य त्यक्ष्यसि जीवितम्
दुर्लभामभिमन्वानो मां वीरैरभिरक्षिताम्
न चाप्यहं त्वया शक्या गन्धर्वाः पतयो मम
ते त्वां निहन्युः कुपिताः साध्वलं मा व्यनीनशः
अशक्यरूपैः पुरुषैरध्वानं गन्तुमिच्छसि
यथा निश्चेतनो बालः कूलस्थः कूलमुत्तरम्
तर्तुमिच्छति मन्दात्मा तथा त्वं कर्तुमिच्छसि
अन्तर्महीं वा यदि वोर्ध्वमुत्पतेः; समुद्रपारं यदि वा प्रधावसि
तथापि तेषां न विमोक्षमर्हसि; प्रमाथिनो देवसुता हि मे वराः
त्वं कालरात्रीमिव कश्चिदातुरः; किं मां दृढं प्रार्थयसेऽद्य कीचक
किं मातुरङ्के शयितो यथा शिशु;श्चन्द्रं जिघृक्षुरिव मन्यसे हि माम्
वैशंपायन उवाच
प्रत्याख्यातो राजपुत्र्या सुदेष्णां कीचकोऽब्रवीत्
अमर्यादेन कामेन घोरेणाभिपरिप्लुतः
यथा कैकेयि सैरन्ध्र्या समेयां तद्विधीयताम्
तां सुदेष्णे परीप्सस्व माहं प्राणान्प्रहासिषम्
तस्य तां बहुशः श्रुत्वा वाचं विलपतस्तदा
विराटमहिषी देवी कृपां चक्रे मनस्विनी
स्वमर्थमभिसंधाय तस्यार्थमनुचिन्त्य च
उद्वेगं चैव कृष्णायाः सुदेष्णा सूतमब्रवीत्
पर्विणीं त्वं समुद्दिश्य सुरामन्नं च कारय
तत्रैनां प्रेषयिष्यामि सुराहारीं तवान्तिकम्
तत्र संप्रेषितामेनां विजने निरवग्रहाम्
सान्त्वयेथा यथाकामं सान्त्व्यमाना रमेद्यदि
कीचकस्तु गृहं गत्वा भगिन्या वचनात्तदा
सुरामाहारयामास राजार्हां सुपरिस्रुताम्
आजौरभ्रं च सुभृशं बहूंश्चोच्चावचान्मृगान्
कारयामास कुशलैरन्नपानं सुशोभनम्
तस्मिन्कृते तदा देवी कीचकेनोपमन्त्रिता
सुदेष्णा प्रेषयामास सैरन्ध्रीं कीचकालयम्
सुदेष्णोवाच
उत्तिष्ठ गच्छ सैरन्ध्रि कीचकस्य निवेशनम्
पानमानय कल्याणि पिपासा मां प्रबाधते
द्रौपद्युवाच
न गच्छेयमहं तस्य राजपुत्रि निवेशनम्
त्वमेव राज्ञि जानासि यथा स निरपत्रपः
न चाहमनवद्याङ्गि तव वेश्मनि भामिनि
कामवृत्ता भविष्यामि पतीनां व्यभिचारिणी
त्वं चैव देवि जानासि यथा स समयः कृतः
प्रविशन्त्या मया पूर्वं तव वेश्मनि भामिनि
कीचकश्च सुकेशान्ते मूढो मदनदर्पितः
सोऽवमंस्यति मां दृष्ट्वा न यास्ये तत्र शोभने
सन्ति बह्व्यस्तव प्रेष्या राजपुत्रि वशानुगाः
अन्यां प्रेषय भद्रं ते स हि मामवमंस्यते
सुदेष्णोवाच
नैव त्वां जातु हिंस्यात्स इतः संप्रेषितां मया
वैशंपायन उवाच
इत्यस्याः प्रददौ कांस्यं सपिधानं हिरण्मयम्
सा शङ्कमाना रुदती दैवं शरणमीयुषी
प्रातिष्ठत सुराहारी कीचकस्य निवेशनम्
द्रौपद्युवाच
यथाहमन्यं पाण्डुभ्यो नाभिजानामि कंचन
तेन सत्येन मां प्राप्तां कीचको मा वशे कृथाः
वैशंपायन उवाच
उपातिष्ठत सा सूर्यं मुहूर्तमबला ततः
स तस्यास्तनुमध्यायाः सर्वं सूर्योऽवबुद्धवान्
अन्तर्हितं ततस्तस्या रक्षो रक्षार्थमादिशत्
तच्चैनां नाजहात्तत्र सर्वावस्थास्वनिन्दिताम्
तां मृगीमिव वित्रस्तां दृष्ट्वा कृष्णां समीपगाम्
उदतिष्ठन्मुदा सूतो नावं लब्ध्वेव पारगः
कीचक उवाच
स्वागतं ते सुकेशान्ते सुव्युष्टा रजनी मम
स्वामिनी त्वमनुप्राप्ता प्रकुरुष्व मम प्रियम्
सुवर्णमालाः कम्बूश्च कुण्डले परिहाटके
आहरन्तु च वस्त्राणि कौशिकान्यजिनानि च
अस्ति मे शयनं शुभ्रं त्वदर्थमुपकल्पितम्
एहि तत्र मया सार्धं पिबस्व मधुमाधवीम्
द्रौपद्युवाच
अप्रैषीद्राजपुत्री मां सुराहारीं तवान्तिकम्
पानमानय मे क्षिप्रं पिपासा मेति चाब्रवीत्
कीचक उवाच
अन्या भद्रे नयिष्यन्ति राजपुत्र्याः परिस्रुतम्
वैशंपायन उवाच
इत्येनां दक्षिणे पाणौ सूतपुत्रः परामृशत्
सा गृहीता विधुन्वाना भूमावाक्षिप्य कीचकम्
सभां शरणमाधावद्यत्र राजा युधिष्ठिरः
तां कीचकः प्रधावन्तीं केशपक्षे परामृशत्
अथैनां पश्यतो राज्ञः पातयित्वा पदावधीत्
ततो योऽसौ तदार्केण राक्षसः संनियोजितः
स कीचकमपोवाह वातवेगेन भारत
स पपात ततो भूमौ रक्षोबलसमाहतः
विघूर्णमानो निश्चेष्टश्छिन्नमूल इव द्रुमः
तां चासीनौ ददृशतुर्भीमसेनयुधिष्ठिरौ
अमृष्यमाणौ कृष्णायाः कीचकेन पदा वधम्
तस्य भीमो वधप्रेप्सुः कीचकस्य दुरात्मनः
दन्तैर्दन्तांस्तदा रोषान्निष्पिपेष महामनाः
अथाङ्गुष्ठेनावमृद्नादङ्गुष्ठं तस्य धर्मराट्
प्रबोधनभयाद्राजन्भीमस्य प्रत्यषेधयत्
सा सभाद्वारमासाद्य रुदती मत्स्यमब्रवीत्
अवेक्षमाणा सुश्रोणी पतींस्तान्दीनचेतसः
आकारमभिरक्षन्ती प्रतिज्ञां धर्मसंहिताम्
दह्यमानेव रौद्रेण चक्षुषा द्रुपदात्मजा
द्रौपद्युवाच
येषां वैरी न स्वपिति पदा भूमिमुपस्पृशन्
तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत्
ये दद्युर्न च याचेयुर्ब्रह्मण्याः सत्यवादिनः
तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत्
येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयतेऽनिशम्
तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत्
ये ते तेजस्विनो दान्ता बलवन्तोऽभिमानिनः
तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत्
सर्वलोकमिमं हन्युर्धर्मपाशसितास्तु ये
तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत्
शरणं ये प्रपन्नानां भवन्ति शरणार्थिनाम्
चरन्ति लोके प्रच्छन्नाः क्व नु तेऽद्य महारथाः
कथं ते सूतपुत्रेण वध्यमानां प्रियां सतीम्
मर्षयन्ति यथा क्लीबा बलवन्तोऽमितौजसः
क्व नु तेषाममर्षश्च वीर्यं तेजश्च वर्तते
न परीप्सन्ति ये भार्यां वध्यमानां दुरात्मना
मयात्र शक्यं किं कर्तुं विराटे धर्मदूषणम्
यः पश्यन्मां मर्षयति वध्यमानामनागसम्
न राजन्राजवत्किंचित्समाचरसि कीचके
दस्यूनामिव धर्मस्ते न हि संसदि शोभते
न कीचकः स्वधर्मस्थो न च मत्स्यः कथंचन
सभासदोऽप्यधर्मज्ञा य इमं पर्युपासते
नोपालभे त्वां नृपते विराट जनसंसदि
नाहमेतेन युक्ता वै हन्तुं मत्स्य तवान्तिके
सभासदस्तु पश्यन्तु कीचकस्य व्यतिक्रमम्
विराट उवाच
परोक्षं नाभिजानामि विग्रहं युवयोरहम्
अर्थतत्त्वमविज्ञाय किं नु स्यात्कुशलं मम
वैशंपायन उवाच
ततस्तु सभ्या विज्ञाय कृष्णां भूयोऽभ्यपूजयन्
साधु साध्विति चाप्याहुः कीचकं च व्यगर्हयन्
सभ्या ऊचुः
यस्येयं चारुसर्वाङ्गी भार्या स्यादायतेक्षणा
परो लाभश्च तस्य स्यान्न स शोचेत्कदाचन
वैशंपायन उवाच
एवं संपूजयंस्तत्र कृष्णां प्रेक्ष्य सभासदः
युधिष्ठिरस्य कोपात्तु ललाटे स्वेद आसजत्
अथाब्रवीद्राजपुत्रीं कौरव्यो महिषीं प्रियाम्
गच्छ सैरन्ध्रि मात्र स्थाः सुदेष्णाया निवेशनम्
भर्तारमनुरुध्यन्त्यः क्लिश्यन्ते वीरपत्नयः
शुश्रूषया क्लिश्यमानाः पतिलोकं जयन्त्युत
मन्ये न कालं क्रोधस्य पश्यन्ति पतयस्तव
तेन त्वां नाभिधावन्ति गन्धर्वाः सूर्यवर्चसः
अकालज्ञासि सैरन्ध्रि शैलूषीव विधावसि
विघ्नं करोषि मत्स्यानां दीव्यतां राजसंसदि
गच्छ सैरन्ध्रि गन्धर्वाः करिष्यन्ति तव प्रियम्
द्रौपद्युवाच
अतीव तेषां घृणिनामर्थेऽहं धर्मचारिणी
तस्य तस्येह ते वध्या येषां ज्येष्ठोऽक्षदेविता
वैशंपायन उवाच
इत्युक्त्वा प्राद्रवत्कृष्णा सुदेष्णाया निवेशनम्
केशान्मुक्त्वा तु सुश्रोणी संरम्भाल्लोहितेक्षणा
शुशुभे वदनं तस्या रुदन्त्या विरतं तदा
मेघलेखाविनिर्मुक्तं दिवीव शशिमण्डलम्
सुदेष्णोवाच
कस्त्वावधीद्वरारोहे कस्माद्रोदिषि शोभने
कस्याद्य न सुखं भद्रे केन ते विप्रियं कृतम्
द्रौपद्युवाच
कीचको मावधीत्तत्र सुराहारीं गतां तव
सभायां पश्यतो राज्ञो यथैव विजने तथा
सुदेष्णोवाच
घातयामि सुकेशान्ते कीचकं यदि मन्यसे
योऽसौ त्वां कामसंमत्तो दुर्लभामभिमन्यते
द्रौपद्युवाच
अन्ये वै तं वधिष्यन्ति येषामागः करोति सः
मन्ये चाद्यैव सुव्यक्तं परलोकं गमिष्यति
वैशंपायन उवाच
सा हता सूतपुत्रेण राजपुत्री समज्वलत्
वधं कृष्णा परीप्सन्ती सेनावाहस्य भामिनी
जगामावासमेवाथ तदा सा द्रुपदात्मजा
कृत्वा शौचं यथान्यायं कृष्णा वै तनुमध्यमा
गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा
चिन्तयामास रुदती तस्य दुःखस्य निर्णयम्
किं करोमि क्व गच्छामि कथं कार्यं भवेन्मम
इत्येवं चिन्तयित्वा सा भीमं वै मनसागमत्
नान्यः कर्ता ऋते भीमान्ममाद्य मनसः प्रियम्
तत उत्थाय रात्रौ सा विहाय शयनं स्वकम्
प्राद्रवन्नाथमिच्छन्ती कृष्णा नाथवती सती
दुःखेन महता युक्ता मानसेन मनस्विनी
सा वै महानसे प्राप्य भीमसेनं शुचिस्मिता
सर्वश्वेतेव माहेयी वने जाता त्रिहायनी
उपातिष्ठत पाञ्चाली वाशितेव महागजम्
सा लतेव महाशालं फुल्लं गोमतितीरजम्
बाहुभ्यां परिरभ्यैनं प्राबोधयदनिन्दिता
सिंहं सुप्तं वने दुर्गे मृगराजवधूरिव
वीणेव मधुराभाषा गान्धारं साधु मूर्च्छिता
अभ्यभाषत पाञ्चाली भीमसेनमनिन्दिता
उत्तिष्ठोत्तिष्ठ किं शेषे भीमसेन यथा मृतः
नामृतस्य हि पापीयान्भार्यामालभ्य जीवति
तस्मिञ्जीवति पापिष्ठे सेनावाहे मम द्विषि
तत्कर्म कृतवत्यद्य कथं निद्रां निषेवसे
स संप्रहाय शयनं राजपुत्र्या प्रबोधितः
उपातिष्ठत मेघाभः पर्यङ्के सोपसंग्रहे
अथाब्रवीद्राजपुत्रीं कौरव्यो महिषीं प्रियाम्
केनास्यर्थेन संप्राप्ता त्वरितेव ममान्तिकम्
न ते प्रकृतिमान्वर्णः कृशा पाण्डुश्च लक्ष्यसे
आचक्ष्व परिशेषेण सर्वं विद्यामहं यथा
सुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम्
यथावत्सर्वमाचक्ष्व श्रुत्वा ज्ञास्यामि यत्परम्
अहमेव हि ते कृष्णे विश्वास्यः सर्वकर्मसु
अहमापत्सु चापि त्वां मोक्षयामि पुनः पुनः
शीघ्रमुक्त्वा यथाकामं यत्ते कार्यं विवक्षितम्
गच्छ वै शयनायैव पुरा नान्योऽवबुध्यते
द्रौपद्युवाच
अशोच्यं नु कुतस्तस्या यस्या भर्ता युधिष्ठिरः
जानन्सर्वाणि दुःखानि किं मां त्वं परिपृच्छसि
यन्मां दासीप्रवादेन प्रातिकामी तदानयत्
सभायां पार्षदो मध्ये तन्मां दहति भारत
पार्थिवस्य सुता नाम का नु जीवेत मादृशी
अनुभूय भृशं दुःखमन्यत्र द्रौपदीं प्रभो
वनवासगतायाश्च सैन्धवेन दुरात्मना
परामर्शं द्वितीयं च सोढुमुत्सहते नु का
मत्स्यराज्ञः समक्षं च तस्य धूर्तस्य पश्यतः
कीचकेन पदा स्पृष्टा का नु जीवेत मादृशी
एवं बहुविधैः क्लेशैः क्लिश्यमानां च भारत
न मां जानासि कौन्तेय किं फलं जीवितेन मे
योऽयं राज्ञो विराटस्य कीचको नाम भारत
सेनानीः पुरुषव्याघ्र स्यालः परमदुर्मतिः
स मां सैरन्ध्रिवेषेण वसन्तीं राजवेश्मनि
नित्यमेवाह दुष्टात्मा भार्या मम भवेति वै
तेनोपमन्त्र्यमाणाया वधार्हेण सपत्नहन्
कालेनेव फलं पक्वं हृदयं मे विदीर्यते
भ्रातरं च विगर्हस्व ज्येष्ठं दुर्द्यूतदेविनम्
यस्यास्मि कर्मणा प्राप्ता दुःखमेतदनन्तकम्
को हि राज्यं परित्यज्य सर्वस्वं चात्मना सह
प्रव्रज्यायैव दीव्येत विना दुर्द्यूतदेविनम्
यदि निष्कसहस्रेण यच्चान्यत्सारवद्धनम्
सायंप्रातरदेविष्यदपि संवत्सरान्बहून्
रुक्मं हिरण्यं वासांसि यानं युग्यमजाविकम्
अश्वाश्वतरसंघांश्च न जातु क्षयमावहेत्
सोऽयं द्यूतप्रवादेन श्रिया प्रत्यवरोपितः
तूष्णीमास्ते यथा मूढः स्वानि कर्माणि चिन्तयन्
दश नागसहस्राणि पद्मिनां हेममालिनाम्
यं यान्तमनुयान्तीह सोऽयं द्यूतेन जीवति
तथा शतसहस्राणि नृणाममिततेजसाम्
उपासते महाराजमिन्द्रप्रस्थे युधिष्ठिरम्
शतं दासीसहस्राणि यस्य नित्यं महानसे
पात्रीहस्तं दिवारात्रमतिथीन्भोजयन्त्युत
एष निष्कसहस्राणि प्रदाय ददतां वरः
द्यूतजेन ह्यनर्थेन महता समुपावृतः
एनं हि स्वरसंपन्ना बहवः सूतमागधाः
सायंप्रातरुपातिष्ठन्सुमृष्टमणिकुण्डलाः
सहस्रमृषयो यस्य नित्यमासन्सभासदः
तपःश्रुतोपसंपन्नाः सर्वकामैरुपस्थिताः
अन्धान्वृद्धांस्तथानाथान्सर्वान्राष्ट्रेषु दुर्गतान्
बिभर्त्यविमना नित्यमानृशंस्याद्युधिष्ठिरः
स एष निरयं प्राप्तो मत्स्यस्य परिचारकः
सभायां देविता राज्ञः कङ्को ब्रूते युधिष्ठिरः
इन्द्रप्रस्थे निवसतः समये यस्य पार्थिवाः
आसन्बलिभृतः सर्वे सोऽद्यान्यैर्भृतिमिच्छति
पार्थिवाः पृथिवीपाला यस्यासन्वशवर्तिनः
स वशे विवशो राजा परेषामद्य वर्तते
प्रताप्य पृथिवीं सर्वां रश्मिवानिव तेजसा
सोऽयं राज्ञो विराटस्य सभास्तारो युधिष्ठिरः
यमुपासन्त राजानः सभायामृषिभिः सह
तमुपासीनमद्यान्यं पश्य पाण्डव पाण्डवम्
अतदर्हं महाप्राज्ञं जीवितार्थेऽभिसंश्रितम्
दृष्ट्वा कस्य न दुःखं स्याद्धर्मात्मानं युधिष्ठिरम्
उपास्ते स्म सभायां यं कृत्स्ना वीर वसुंधरा
तमुपासीनमद्यान्यं पश्य भारत भारतम्
एवं बहुविधैर्दुःखैः पीड्यमानामनाथवत्
शोकसागरमध्यस्थां किं मां भीम न पश्यसि
द्रौपद्युवाच
इदं तु मे महद्दुःखं यत्प्रवक्ष्यामि भारत
न मेऽभ्यसूया कर्तव्या दुःखादेतद्ब्रवीम्यहम्
शार्दूलैर्महिषैः सिंहैरागारे युध्यसे यदा
कैकेय्याः प्रेक्षमाणायास्तदा मे कश्मलो भवेत्
प्रेक्षासमुत्थिता चापि कैकेयी ताः स्त्रियो वदेत्
प्रेक्ष्य मामनवद्याङ्गी कश्मलोपहतामिव
स्नेहात्संवासजान्मन्ये सूदमेषा शुचिस्मिता
योध्यमानं महावीर्यैरिमं समनुशोचति
कल्याणरूपा सैरन्ध्री बल्लवश्चातिसुन्दरः
स्त्रीणां च चित्तं दुर्ज्ञेयं युक्तरूपौ च मे मतौ
सैरन्ध्री प्रियसंवासान्नित्यं करुणवेदिनी
अस्मिन्राजकुले चेमौ तुल्यकालनिवासिनौ
इति ब्रुवाणा वाक्यानि सा मां नित्यमवेदयत्
क्रुध्यन्तीं मां च संप्रेक्ष्य समशङ्कत मां त्वयि
तस्यां तथा ब्रुवत्यां तु दुःखं मां महदाविशत्
शोके यौधिष्ठिरे मग्ना नाहं जीवितुमुत्सहे
यः सदेवान्मनुष्यांश्च सर्पांश्चैकरथोऽजयत्
सोऽयं राज्ञो विराटस्य कन्यानां नर्तको युवा
योऽतर्पयदमेयात्मा खाण्डवे जातवेदसम्
सोऽन्तःपुरगतः पार्थः कूपेऽग्निरिव संवृतः
यस्माद्भयममित्राणां सदैव पुरुषर्षभात्
स लोकपरिभूतेन वेषेणास्ते धनंजयः
यस्य ज्यातलनिर्घोषात्समकम्पन्त शत्रवः
स्त्रियो गीतस्वनं तस्य मुदिताः पर्युपासते
किरीटं सूर्यसंकाशं यस्य मूर्धनि शोभते
वेणीविकृतकेशान्तः सोऽयमद्य धनंजयः
यस्मिन्नस्त्राणि दिव्यानि समस्तानि महात्मनि
आधारः सर्वविद्यानां स धारयति कुण्डले
यं स्म राजसहस्राणि तेजसाप्रतिमानि वै
समरे नातिवर्तन्ते वेलामिव महार्णवः
सोऽयं राज्ञो विराटस्य कन्यानां नर्तको युवा
आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः
यस्य स्म रथघोषेण समकम्पत मेदिनी
सपर्वतवना भीम सहस्थावरजङ्गमा
यस्मिञ्जाते महाभागे कुन्त्याः शोको व्यनश्यत
स शोचयति मामद्य भीमसेन तवानुजः
भूषितं तमलंकारैः कुण्डलैः परिहाटकैः
कम्बुपाणिनमायान्तं दृष्ट्वा सीदति मे मनः
तं वेणीकृतकेशान्तं भीमधन्वानमर्जुनम्
कन्यापरिवृतं दृष्ट्वा भीम सीदति मे मनः
यदा ह्येनं परिवृतं कन्याभिर्देवरूपिणम्
प्रभिन्नमिव मातङ्गं परिकीर्णं करेणुभिः
मत्स्यमर्थपतिं पार्थं विराटं समुपस्थितम्
पश्यामि तूर्यमध्यस्थं दिशो नश्यन्ति मे तदा
नूनमार्या न जानाति कृच्छ्रं प्राप्तं धनंजयम्
अजातशत्रुं कौरव्यं मग्नं दुर्द्यूतदेविनम्
तथा दृष्ट्वा यवीयांसं सहदेवं युधां पतिम्
गोषु गोवेषमायान्तं पाण्डुभूतास्मि भारत
सहदेवस्य वृत्तानि चिन्तयन्ती पुनः पुनः
न विन्दामि महाबाहो सहदेवस्य दुष्कृतम्
यस्मिन्नेवंविधं दुःखं प्राप्नुयात्सत्यविक्रमः
दूयामि भरतश्रेष्ठ दृष्ट्वा ते भ्रातरं प्रियम्
गोषु गोवृषसंकाशं मत्स्येनाभिनिवेशितम्
संरब्धं रक्तनेपथ्यं गोपालानां पुरोगमम्
विराटमभिनन्दन्तमथ मे भवति ज्वरः
सहदेवं हि मे वीरं नित्यमार्या प्रशंसति
महाभिजनसंपन्नो वृत्तवाञ्शीलवानिति
ह्रीनिषेधो मधुरवाग्धार्मिकश्च प्रियश्च मे
स तेऽरण्येषु बोद्धव्यो याज्ञसेनि क्षपास्वपि
तं दृष्ट्वा व्यापृतं गोषु वत्सचर्मक्षपाशयम्
सहदेवं युधां श्रेष्ठं किं नु जीवामि पाण्डव
यस्त्रिभिर्नित्यसंपन्नो रूपेणास्त्रेण मेधया
सोऽश्वबन्धो विराटस्य पश्य कालस्य पर्ययम्
अभ्यकीर्यन्त वृन्दानि दामग्रन्थिमुदीक्षताम्
विनयन्तं जवेनाश्वान्महाराजस्य पश्यतः
अपश्यमेनं श्रीमन्तं मत्स्यं भ्राजिष्णुमुत्तमम्
विराटमुपतिष्ठन्तं दर्शयन्तं च वाजिनः
किं नु मां मन्यसे पार्थ सुखितेति परंतप
एवं दुःखशताविष्टा युधिष्ठिरनिमित्ततः
अतः प्रतिविशिष्टानि दुःखान्यन्यानि भारत
वर्तन्ते मयि कौन्तेय वक्ष्यामि शृणु तान्यपि
युष्मासु ध्रियमाणेषु दुःखानि विविधान्युत
शोषयन्ति शरीरं मे किं नु दुःखमतः परम्
द्रौपद्युवाच
अहं सैरन्ध्रिवेषेण चरन्ती राजवेश्मनि
शौचदास्मि सुदेष्णाया अक्षधूर्तस्य कारणात्
विक्रियां पश्य मे तीव्रां राजपुत्र्याः परंतप
आसे कालमुपासीना सर्वं दुःखं किलार्तवत्
अनित्या किल मर्त्यानामर्थसिद्धिर्जयाजयौ
इति कृत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः
य एव हेतुर्भवति पुरुषस्य जयावहः
पराजये च हेतुः स इति च प्रतिपालये
दत्त्वा याचन्ति पुरुषा हत्वा वध्यन्ति चापरे
पातयित्वा च पात्यन्ते परैरिति च मे श्रुतम्
न दैवस्यातिभारोऽस्ति न दैवस्यातिवर्तनम्
इति चाप्यागमं भूयो दैवस्य प्रतिपालये
स्थितं पूर्वं जलं यत्र पुनस्तत्रैव तिष्ठति
इति पर्यायमिच्छन्ती प्रतीक्षाम्युदयं पुनः
दैवेन किल यस्यार्थः सुनीतोऽपि विपद्यते
दैवस्य चागमे यत्नस्तेन कार्यो विजानता
यत्तु मे वचनस्यास्य कथितस्य प्रयोजनम्
पृच्छ मां दुःखितां तत्त्वमपृष्टा वा ब्रवीमि ते
महिषी पाण्डुपुत्राणां दुहिता द्रुपदस्य च
इमामवस्थां संप्राप्ता का मदन्या जिजीविषेत्
कुरून्परिभवन्सर्वान्पाञ्चालानपि भारत
पाण्डवेयांश्च संप्राप्तो मम क्लेशो ह्यरिंदम
भ्रातृभिः श्वशुरैः पुत्रैर्बहुभिः परवीरहन्
एवं समुदिता नारी का न्वन्या दुःखिता भवेत्
नूनं हि बालया धातुर्मया वै विप्रियं कृतम्
यस्य प्रसादाद्दुर्नीतं प्राप्तास्मि भरतर्षभ
वर्णावकाशमपि मे पश्य पाण्डव यादृशम्
यादृशो मे न तत्रासीद्दुःखे परमके तदा
त्वमेव भीम जानीषे यन्मे पार्थ सुखं पुरा
साहं दासत्वमापन्ना न शान्तिमवशा लभे
नादैविकमिदं मन्ये यत्र पार्थो धनंजयः
भीमधन्वा महाबाहुरास्ते शान्त इवानलः
अशक्या वेदितुं पार्थ प्राणिनां वै गतिर्नरैः
विनिपातमिमं मन्ये युष्माकमविचिन्तितम्
यस्या मम मुखप्रेक्षा यूयमिन्द्रसमाः सदा
सा प्रेक्षे मुखमन्यासामवराणां वरा सती
पश्य पाण्डव मेऽवस्थां यथा नार्हामि वै तथा
युष्मासु ध्रियमाणेषु पश्य कालस्य पर्ययम्
यस्याः सागरपर्यन्ता पृथिवी वशवर्तिनी
आसीत्साद्य सुदेष्णाया भीताहं वशवर्तिनी
यस्याः पुरःसरा आसन्पृष्ठतश्चानुगामिनः
साहमद्य सुदेष्णायाः पुरः पश्चाच्च गामिनी
इदं तु दुःखं कौन्तेय ममासह्यं निबोध तत्
या न जातु स्वयं पिंषे गात्रोद्वर्तनमात्मनः
अन्यत्र कुन्त्या भद्रं ते साद्य पिंषामि चन्दनम्
पश्य कौन्तेय पाणी मे नैवं यौ भवतः पुरा
वैशंपायन उवाच
इत्यस्य दर्शयामास किणबद्धौ करावुभौ
द्रौपद्युवाच
बिभेमि कुन्त्या या नाहं युष्माकं वा कदाचन
साद्याग्रतो विराटस्य भीता तिष्ठामि किंकरी
किं नु वक्ष्यति सम्राण्मां वर्णकः सुकृतो न वा
नान्यपिष्टं हि मत्स्यस्य चन्दनं किल रोचते
वैशंपायन उवाच
सा कीर्तयन्ती दुःखानि भीमसेनस्य भामिनी
रुरोद शनकैः कृष्णा भीमसेनमुदीक्षती
सा बाष्पकलया वाचा निःश्वसन्ती पुनः पुनः
हृदयं भीमसेनस्य घट्टयन्तीदमब्रवीत्
नाल्पं कृतं मया भीम देवानां किल्बिषं पुरा
अभाग्या यत्तु जीवामि मर्तव्ये सति पाण्डव
ततस्तस्याः करौ शूनौ किणबद्धौ वृकोदरः
मुखमानीय वेपन्त्या रुरोद परवीरहा
तौ गृहीत्वा च कौन्तेयो बाष्पमुत्सृज्य वीर्यवान्
ततः परमदुःखार्त इदं वचनमब्रवीत्
भीमसेन उवाच
धिगस्तु मे बाहुबलं गाण्डीवं फल्गुनस्य च
यत्ते रक्तौ पुरा भूत्वा पाणी कृतकिणावुभौ
सभायां स्म विराटस्य करोमि कदनं महत्
तत्र मां धर्मराजस्तु कटाक्षेण न्यवारयत्
तदहं तस्य विज्ञाय स्थित एवास्मि भामिनि
यच्च राष्ट्रात्प्रच्यवनं कुरूणामवधश्च यः
सुयोधनस्य कर्णस्य शकुनेः सौबलस्य च
दुःशासनस्य पापस्य यन्मया न हृतं शिरः
तन्मे दहति कल्याणि हृदि शल्यमिवार्पितम्
मा धर्मं जहि सुश्रोणि क्रोधं जहि महामते
इमं च समुपालम्भं त्वत्तो राजा युधिष्ठिरः
शृणुयाद्यदि कल्याणि कृत्स्नं जह्यात्स जीवितम्
धनंजयो वा सुश्रोणि यमौ वा तनुमध्यमे
लोकान्तरगतेष्वेषु नाहं शक्ष्यामि जीवितुम्
सुकन्या नाम शार्याती भार्गवं च्यवनं वने
वल्मीकभूतं शाम्यन्तमन्वपद्यत भामिनी
नाडायनी चेन्द्रसेना रूपेण यदि ते श्रुता
पतिमन्वचरद्वृद्धं पुरा वर्षसहस्रिणम्
दुहिता जनकस्यापि वैदेही यदि ते श्रुता
पतिमन्वचरत्सीता महारण्यनिवासिनम्
रक्षसा निग्रहं प्राप्य रामस्य महिषी प्रिया
क्लिश्यमानापि सुश्रोणी राममेवान्वपद्यत
लोपामुद्रा तथा भीरु वयोरूपसमन्विता
अगस्त्यमन्वयाद्धित्वा कामान्सर्वानमानुषान्
यथैताः कीर्तिता नार्यो रूपवत्यः पतिव्रताः
तथा त्वमपि कल्याणि सर्वैः समुदिता गुणैः
मादीर्घं क्षम कालं त्वं मासमध्यर्धसंमितम्
पूर्णे त्रयोदशे वर्षे राज्ञो राज्ञी भविष्यसि
द्रौपद्युवाच
आर्तयैतन्मया भीम कृतं बाष्पविमोक्षणम्
अपारयन्त्या दुःखानि न राजानमुपालभे
विमुक्तेन व्यतीतेन भीमसेन महाबल
प्रत्युपस्थितकालस्य कार्यस्यानन्तरो भव
ममेह भीम कैकेयी रूपाभिभवशङ्कया
नित्यमुद्विजते राजा कथं नेयादिमामिति
तस्या विदित्वा तं भावं स्वयं चानृतदर्शनः
कीचकोऽयं सुदुष्टात्मा सदा प्रार्थयते हि माम्
तमहं कुपिता भीम पुनः कोपं नियम्य च
अब्रुवं कामसंमूढमात्मानं रक्ष कीचक
गन्धर्वाणामहं भार्या पञ्चानां महिषी प्रिया
ते त्वां निहन्युर्दुर्धर्षाः शूराः साहसकारिणः
एवमुक्तः स दुष्टात्मा कीचकः प्रत्युवाच ह
नाहं बिभेमि सैरन्ध्रि गन्धर्वाणां शुचिस्मिते
शतं सहस्रमपि वा गन्धर्वाणामहं रणे
समागतं हनिष्यामि त्वं भीरु कुरु मे क्षणम्
इत्युक्ते चाब्रुवं सूतं कामातुरमहं पुनः
न त्वं प्रतिबलस्तेषां गन्धर्वाणां यशस्विनाम्
धर्मे स्थितास्मि सततं कुलशीलसमन्विता
नेच्छामि कंचिद्वध्यन्तं तेन जीवसि कीचक
एवमुक्तः स दुष्टात्मा प्रहस्य स्वनवत्तदा
न तिष्ठति स्म सन्मार्गे न च धर्मं बुभूषति
पापात्मा पापभावश्च कामरागवशानुगः
अविनीतश्च दुष्टात्मा प्रत्याख्यातः पुनः पुनः
दर्शने दर्शने हन्यात्तथा जह्यां च जीवितम्
तद्धर्मे यतमानानां महान्धर्मो नशिष्यति
समयं रक्षमाणानां भार्या वो न भविष्यति
भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता
प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः
वदतां वर्णधर्मांश्च ब्राह्मणानां हि मे श्रुतम्
क्षत्रियस्य सदा धर्मो नान्यः शत्रुनिबर्हणात्
पश्यतो धर्मराजस्य कीचको मां पदावधीत्
तव चैव समक्षं वै भीमसेन महाबल
त्वया ह्यहं परित्राता तस्माद्घोराज्जटासुरात्
जयद्रथं तथैव त्वमजैषीर्भ्रातृभिः सह
जहीममपि पापं त्वं योऽयं मामवमन्यते
कीचको राजवाल्लभ्याच्छोककृन्मम भारत
तमेवं कामसंमत्तं भिन्धि कुम्भमिवाश्मनि
यो निमित्तमनर्थानां बहूनां मम भारत
तं चेज्जीवन्तमादित्यः प्रातरभ्युदयिष्यति
विषमालोड्य पास्यामि मा कीचकवशं गमम्
श्रेयो हि मरणं मह्यं भीमसेन तवाग्रतः
वैशंपायन उवाच
इत्युक्त्वा प्रारुदत्कृष्णा भीमस्योरः समाश्रिता
भीमश्च तां परिष्वज्य महत्सान्त्वं प्रयुज्य च
कीचकं मनसागच्छत्सृक्किणी परिसंलिहन्
भीमसेन उवाच
तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे
अद्य तं सूदयिष्यामि कीचकं सहबान्धवम्
अस्याः प्रदोषे शर्वर्याः कुरुष्वानेन संगमम्
दुःखं शोकं च निर्धूय याज्ञसेनि शुचिस्मिते
यैषा नर्तनशाला वै मत्स्यराजेन कारिता
दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम्
तत्रास्ति शयनं भीरु दृढाङ्गं सुप्रतिष्ठितम्
तत्रास्य दर्शयिष्यामि पूर्वप्रेतान्पितामहान्
यथा च त्वां न पश्येयुः कुर्वाणां तेन संविदम्
कुर्यास्तथा त्वं कल्याणि यथा संनिहितो भवेत्
वैशंपायन उवाच
तथा तौ कथयित्वा तु बाष्पमुत्सृज्य दुःखितौ
रात्रिशेषं तदत्युग्रं धारयामासतुर्हृदा
तस्यां रात्र्यां व्यतीतायां प्रातरुत्थाय कीचकः
गत्वा राजकुलायैव द्रौपदीमिदमब्रवीत्
सभायां पश्यतो राज्ञः पातयित्वा पदाहनम्
न चैवालभथास्त्राणमभिपन्ना बलीयसा
प्रवादेन हि मत्स्यानां राजा नाम्नायमुच्यते
अहमेव हि मत्स्यानां राजा वै वाहिनीपतिः
सा सुखं प्रतिपद्यस्व दासो भीरु भवामि ते
अह्नाय तव सुश्रोणि शतं निष्कान्ददाम्यहम्
दासीशतं च ते दद्यां दासानामपि चापरम्
रथं चाश्वतरीयुक्तमस्तु नौ भीरु संगमः
द्रौपद्युवाच
एकं मे समयं त्वद्य प्रतिपद्यस्व कीचक
न त्वां सखा वा भ्राता वा जानीयात्संगतं मया
अवबोधाद्धि भीतास्मि गन्धर्वाणां यशस्विनाम्
एवं मे प्रतिजानीहि ततोऽहं वशगा तव
कीचक उवाच
एवमेतत्करिष्यामि यथा सुश्रोणि भाषसे
एको भद्रे गमिष्यामि शून्यमावसथं तव
समागमार्थं रम्भोरु त्वया मदनमोहितः
यथा त्वां नावभोत्स्यन्ति गन्धर्वाः सूर्यवर्चसः
द्रौपद्युवाच
यदिदं नर्तनागारं मत्स्यराजेन कारितम्
दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम्
तमिस्रे तत्र गच्छेथा गन्धर्वास्तन्न जानते
तत्र दोषः परिहृतो भविष्यति न संशयः
वैशंपायन उवाच
तमर्थं प्रतिजल्पन्त्याः कृष्णायाः कीचकेन ह
दिवसार्धं समभवन्मासेनैव समं नृप
कीचकोऽथ गृहं गत्वा भृशं हर्षपरिप्लुतः
सैरन्ध्रीरूपिणं मूढो मृत्युं तं नावबुद्धवान्
गन्धाभरणमाल्येषु व्यासक्तः स विशेषतः
अलंचकार सोऽऽत्मानं सत्वरः काममोहितः
तस्य तत्कुर्वतः कर्म कालो दीर्घ इवाभवत्
अनुचिन्तयतश्चापि तामेवायतलोचनाम्
आसीदभ्यधिका चास्य श्रीः श्रियं प्रमुमुक्षतः
निर्वाणकाले दीपस्य वर्तीमिव दिधक्षतः
कृतसंप्रत्ययस्तत्र कीचकः काममोहितः
नाजानाद्दिवसं यान्तं चिन्तयानः समागमम्
ततस्तु द्रौपदी गत्वा तदा भीमं महानसे
उपातिष्ठत कल्याणी कौरव्यं पतिमन्तिकात्
तमुवाच सुकेशान्ता कीचकस्य मया कृतः
संगमो नर्तनागारे यथावोचः परंतप
शून्यं स नर्तनागारमागमिष्यति कीचकः
एको निशि महाबाहो कीचकं तं निषूदय
तं सूतपुत्रं कौन्तेय कीचकं मददर्पितम्
गत्वा त्वं नर्तनागारं निर्जीवं कुरु पाण्डव
दर्पाच्च सूतपुत्रोऽसौ गन्धर्वानवमन्यते
तं त्वं प्रहरतां श्रेष्ठ नडं नाग इवोद्धर
अश्रु दुःखाभिभूताया मम मार्जस्व भारत
आत्मनश्चैव भद्रं ते कुरु मानं कुलस्य च
भीमसेन उवाच
स्वागतं ते वरारोहे यन्मा वेदयसे प्रियम्
न ह्यस्य कंचिदिच्छामि सहायं वरवर्णिनि
या मे प्रीतिस्त्वयाख्याता कीचकस्य समागमे
हत्वा हिडिम्बं सा प्रीतिर्ममासीद्वरवर्णिनि
सत्यं भ्रातॄंश्च धर्मं च पुरस्कृत्य ब्रवीमि ते
कीचकं निहनिष्यामि वृत्रं देवपतिर्यथा
तं गह्वरे प्रकाशे वा पोथयिष्यामि कीचकम्
अथ चेदवभोत्स्यन्ति हंस्ये मत्स्यानपि ध्रुवम्
ततो दुर्योधनं हत्वा प्रतिपत्स्ये वसुंधराम्
कामं मत्स्यमुपास्तां हि कुन्तीपुत्रो युधिष्ठिरः
द्रौपद्युवाच
यथा न संत्यजेथास्त्वं सत्यं वै मत्कृते विभो
निगूढस्त्वं तथा वीर कीचकं विनिपातय
भीमसेन उवाच
एवमेतत्करिष्यामि यथा त्वं भीरु भाषसे
अदृश्यमानस्तस्याद्य तमस्विन्यामनिन्दिते
नागो बिल्वमिवाक्रम्य पोथयिष्याम्यहं शिरः
अलभ्यामिच्छतस्तस्य कीचकस्य दुरात्मनः
वैशंपायन उवाच
भीमोऽथ प्रथमं गत्वा रात्रौ छन्न उपाविशत्
मृगं हरिरिवादृश्यः प्रत्याकाङ्क्षत्स कीचकम्
कीचकश्चाप्यलंकृत्य यथाकाममुपाव्रजत्
तां वेलां नर्तनागारे पाञ्चालीसंगमाशया
मन्यमानः स संकेतमागारं प्राविशच्च तम्
प्रविश्य च स तद्वेश्म तमसा संवृतं महत्
पूर्वागतं ततस्तत्र भीममप्रतिमौजसम्
एकान्तमास्थितं चैनमाससाद सुदुर्मतिः
शयानं शयने तत्र मृत्युं सूतः परामृशत्
जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन ह
उपसंगम्य चैवैनं कीचकः काममोहितः
हर्षोन्मथितचित्तात्मा स्मयमानोऽभ्यभाषत
प्रापितं ते मया वित्तं बहुरूपमनन्तकम्
तत्सर्वं त्वां समुद्दिश्य सहसा समुपागतः
नाकस्मान्मां प्रशंसन्ति सदा गृहगताः स्त्रियः
सुवासा दर्शनीयश्च नान्योऽस्ति त्वादृशः पुमान्
भीमसेन उवाच
दिष्ट्या त्वं दर्शनीयोऽसि दिष्ट्यात्मानं प्रशंससि
ईदृशस्तु त्वया स्पर्शः स्पृष्टपूर्वो न कर्हिचित्
वैशंपायन उवाच
इत्युक्त्वा तं महाबाहुर्भीमो भीमपराक्रमः
समुत्पत्य च कौन्तेयः प्रहस्य च नराधमम्
भीमो जग्राह केशेषु माल्यवत्सु सुगन्धिषु
स केशेषु परामृष्टो बलेन बलिनां वरः
आक्षिप्य केशान्वेगेन बाह्वोर्जग्राह पाण्डवम्
बाहुयुद्धं तयोरासीत्क्रुद्धयोर्नरसिंहयोः
वसन्ते वाशिताहेतोर्बलवद्गजयोरिव
ईषदागलितं चापि क्रोधाच्चलपदं स्थितम्
कीचको बलवान्भीमं जानुभ्यामाक्षिपद्भुवि
पातितो भुवि भीमस्तु कीचकेन बलीयसा
उत्पपाताथ वेगेन दण्डाहत इवोरगः
स्पर्धया च बलोन्मत्तौ तावुभौ सूतपाण्डवौ
निशीथे पर्यकर्षेतां बलिनौ निशि निर्जने
ततस्तद्भवनश्रेष्ठं प्राकम्पत मुहुर्मुहुः
बलवच्चापि संक्रुद्धावन्योन्यं तावगर्जताम्
तलाभ्यां तु स भीमेन वक्षस्यभिहतो बली
कीचको रोषसंतप्तः पदान्न चलितः पदम्
मुहूर्तं तु स तं वेगं सहित्वा भुवि दुःसहम्
बलादहीयत तदा सूतो भीमबलार्दितः
तं हीयमानं विज्ञाय भीमसेनो महाबलः
वक्षस्यानीय वेगेन ममन्थैनं विचेतसम्
क्रोधाविष्टो विनिःश्वस्य पुनश्चैनं वृकोदरः
जग्राह जयतां श्रेष्ठः केशेष्वेव तदा भृशम्
गृहीत्वा कीचकं भीमो विरुराव महाबलः
शार्दूलः पिशिताकाङ्क्षी गृहीत्वेव महामृगम्
तस्य पादौ च पाणी च शिरो ग्रीवां च सर्वशः
काये प्रवेशयामास पशोरिव पिनाकधृक्
तं संमथितसर्वाङ्गं मांसपिण्डोपमं कृतम्
कृष्णायै दर्शयामास भीमसेनो महाबलः
उवाच च महातेजा द्रौपदीं पाण्डुनन्दनः
पश्यैनमेहि पाञ्चालि कामुकोऽयं यथा कृतः
तथा स कीचकं हत्वा गत्वा रोषस्य वै शमम्
आमन्त्र्य द्रौपदीं कृष्णां क्षिप्रमायान्महानसम्
कीचकं घातयित्वा तु द्रौपदी योषितां वरा
प्रहृष्टा गतसंतापा सभापालानुवाच ह
कीचकोऽयं हतः शेते गन्धर्वैः पतिभिर्मम
परस्त्रीकामसंमत्तः समागच्छत पश्यत
तच्छ्रुत्वा भाषितं तस्या नर्तनागाररक्षिणः
सहसैव समाजग्मुरादायोल्काः सहस्रशः
ततो गत्वाथ तद्वेश्म कीचकं विनिपातितम्
गतासुं ददृशुर्भूमौ रुधिरेण समुक्षितम्
क्वास्य ग्रीवा क्व चरणौ क्व पाणी क्व शिरस्तथा
इति स्म तं परीक्षन्ते गन्धर्वेण हतं तदा
वैशंपायन उवाच
तस्मिन्काले समागम्य सर्वे तत्रास्य बान्धवाः
रुरुदुः कीचकं दृष्ट्वा परिवार्य समन्ततः
सर्वे संहृष्टरोमाणः संत्रस्ताः प्रेक्ष्य कीचकम्
तथा सर्वाङ्गसंभुग्नं कूर्मं स्थल इवोद्धृतम्
पोथितं भीमसेनेन तमिन्द्रेणेव दानवम्
संस्कारयितुमिच्छन्तो बहिर्नेतुं प्रचक्रमुः
ददृशुस्ते ततः कृष्णां सूतपुत्राः समागताः
अदूरादनवद्याङ्गीं स्तम्भमालिङ्ग्य तिष्ठतीम्
समवेतेषु सूतेषु तानुवाचोपकीचकः
हन्यतां शीघ्रमसती यत्कृते कीचको हतः
अथ वा नेह हन्तव्या दह्यतां कामिना सह
मृतस्यापि प्रियं कार्यं सूतपुत्रस्य सर्वथा
ततो विराटमूचुस्ते कीचकोऽस्याः कृते हतः
सहाद्यानेन दह्येत तदनुज्ञातुमर्हसि
पराक्रमं तु सूतानां मत्वा राजान्वमोदत
सैरन्ध्र्याः सूतपुत्रेण सह दाहं विशां पते
तां समासाद्य वित्रस्तां कृष्णां कमललोचनाम्
मोमुह्यमानां ते तत्र जगृहुः कीचका भृशम्
ततस्तु तां समारोप्य निबध्य च सुमध्यमाम्
जग्मुरुद्यम्य ते सर्वे श्मशानमभितस्तदा
ह्रियमाणा तु सा राजन्सूतपुत्रैरनिन्दिता
प्राक्रोशन्नाथमिच्छन्ती कृष्णा नाथवती सती
द्रौपद्युवाच
जयो जयन्तो विजयो जयत्सेनो जयद्बलः
ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम्
येषां ज्यातलनिर्घोषो विस्फूर्जितमिवाशनेः
व्यश्रूयत महायुद्धे भीमघोषस्तरस्विनाम्
रथघोषश्च बलवान्गन्धर्वाणां यशस्विनाम्
ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम्
वैशंपायन उवाच
तस्यास्ताः कृपणा वाचः कृष्णायाः परिदेविताः
श्रुत्वैवाभ्यपतद्भीमः शयनादविचारयन्
भीमसेन उवाच
अहं शृणोमि ते वाचं त्वया सैरन्ध्रि भाषिताम्
तस्मात्ते सूतपुत्रेभ्यो न भयं भीरु विद्यते
वैशंपायन उवाच
इत्युक्त्वा स महाबाहुर्विजजृम्भे जिघांसया
ततः स व्यायतं कृत्वा वेषं विपरिवर्त्य च
अद्वारेणाभ्यवस्कन्द्य निर्जगाम बहिस्तदा
स भीमसेनः प्राकारादारुज्य तरसा द्रुमम्
श्मशानाभिमुखः प्रायाद्यत्र ते कीचका गताः
स तं वृक्षं दशव्यामं सस्कन्धविटपं बली
प्रगृह्याभ्यद्रवत्सूतान्दण्डपाणिरिवान्तकः
ऊरुवेगेन तस्याथ न्यग्रोधाश्वत्थकिंशुकाः
भूमौ निपतिता वृक्षाः संघशस्तत्र शेरते
तं सिंहमिव संक्रुद्धं दृष्ट्वा गन्धर्वमागतम्
वित्रेसुः सर्वतः सूता विषादभयकम्पिताः
तमन्तकमिवायान्तं गन्धर्वं प्रेक्ष्य ते तदा
दिधक्षन्तस्तदा ज्येष्ठं भ्रातरं ह्युपकीचकाः
परस्परमथोचुस्ते विषादभयकम्पिताः
गन्धर्वो बलवानेति क्रुद्ध उद्यम्य पादपम्
सैरन्ध्री मुच्यतां शीघ्रं महन्नो भयमागतम्
ते तु दृष्ट्वा तमाविद्धं भीमसेनेन पादपम्
विमुच्य द्रौपदीं तत्र प्राद्रवन्नगरं प्रति
द्रवतस्तांस्तु संप्रेक्ष्य स वज्री दानवानिव
शतं पञ्चाधिकं भीमः प्राहिणोद्यमसादनम्
तत आश्वासयत्कृष्णां प्रविमुच्य विशां पते
उवाच च महाबाहुः पाञ्चालीं तत्र द्रौपदीम्
अश्रुपूर्णमुखीं दीनां दुर्धर्षः स वृकोदरः
एवं ते भीरु वध्यन्ते ये त्वां क्लिश्यन्त्यनागसम्
प्रैहि त्वं नगरं कृष्णे न भयं विद्यते तव
अन्येनाहं गमिष्यामि विराटस्य महानसम्
पञ्चाधिकं शतं तच्च निहतं तत्र भारत
महावनमिव छिन्नं शिश्ये विगलितद्रुमम्
एवं ते निहता राजञ्शतं पञ्च च कीचकाः
स च सेनापतिः पूर्वमित्येतत्सूतषट्शतम्
तद्दृष्ट्वा महदाश्चर्यं नरा नार्यश्च संगताः
विस्मयं परमं गत्वा नोचुः किंचन भारत
वैशंपायन उवाच
ते दृष्ट्वा निहतान्सूतान्राज्ञे गत्वा न्यवेदयन्
गन्धर्वैर्निहता राजन्सूतपुत्राः परःशताः
यथा वज्रेण वै दीर्णं पर्वतस्य महच्छिरः
विनिकीर्णं प्रदृश्येत तथा सूता महीतले
सैरन्ध्री च विमुक्तासौ पुनरायाति ते गृहम्
सर्वं संशयितं राजन्नगरं ते भविष्यति
तथारूपा हि सैरन्ध्री गन्धर्वाश्च महाबलाः
पुंसामिष्टश्च विषयो मैथुनाय न संशयः
यथा सैरन्ध्रिवेषेण न ते राजन्निदं पुरम्
विनाशमेति वै क्षिप्रं तथा नीतिर्विधीयताम्
तेषां तद्वचनं श्रुत्वा विराटो वाहिनीपतिः
अब्रवीत्क्रियतामेषां सूतानां परमक्रिया
एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने
दह्यन्तां कीचकाः शीघ्रं रत्नैर्गन्धैश्च सर्वशः
सुदेष्णां चाब्रवीद्राजा महिषीं जातसाध्वसः
सैरन्ध्रीमागतां ब्रूया ममैव वचनादिदम्
गच्छ सैरन्ध्रि भद्रं ते यथाकामं चराबले
बिभेति राजा सुश्रोणि गन्धर्वेभ्यः पराभवात्
न हि तामुत्सहे वक्तुं स्वयं गन्धर्वरक्षिताम्
स्त्रियस्त्वदोषास्तां वक्तुमतस्त्वां प्रब्रवीम्यहम्
अथ मुक्ता भयात्कृष्णा सूतपुत्रान्निरस्य च
मोक्षिता भीमसेनेन जगाम नगरं प्रति
त्रासितेव मृगी बाला शार्दूलेन मनस्विनी
गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा
तां दृष्ट्वा पुरुषा राजन्प्राद्रवन्त दिशो दश
गन्धर्वाणां भयत्रस्ताः केचिद्दृष्टीर्न्यमीलयन्
ततो महानसद्वारि भीमसेनमवस्थितम्
ददर्श राजन्पाञ्चाली यथा मत्तं महाद्विपम्
तं विस्मयन्ती शनकैः संज्ञाभिरिदमब्रवीत्
गन्धर्वराजाय नमो येनास्मि परिमोचिता
भीमसेन उवाच
ये यस्या विचरन्तीह पुरुषा वशवर्तिनः
तस्यास्ते वचनं श्रुत्वा अनृणा विचरन्त्युत
वैशंपायन उवाच
ततः सा नर्तनागारे धनंजयमपश्यत
राज्ञः कन्या विराटस्य नर्तयानं महाभुजम्
ततस्ता नर्तनागाराद्विनिष्क्रम्य सहार्जुनाः
कन्या ददृशुरायान्तीं कृष्णां क्लिष्टामनागसम्
कन्या ऊचुः
दिष्ट्या सैरन्ध्रि मुक्तासि दिष्ट्यासि पुनरागता
दिष्ट्या विनिहताः सूता ये त्वां क्लिश्यन्त्यनागसम्
बृहन्नडोवाच
कथं सैरन्ध्रि मुक्तासि कथं पापाश्च ते हताः
इच्छामि वै तव श्रोतुं सर्वमेव यथातथम्
सैरन्ध्र्युवाच
बृहन्नडे किं नु तव सैरन्ध्र्या कार्यमद्य वै
या त्वं वससि कल्याणि सदा कन्यापुरे सुखम्
न हि दुःखं समाप्नोषि सैरन्ध्री यदुपाश्नुते
तेन मां दुःखितामेवं पृच्छसे प्रहसन्निव
बृहन्नडोवाच
बृहन्नडापि कल्याणि दुःखमाप्नोत्यनुत्तमम्
तिर्यग्योनिगता बाले न चैनामवबुध्यसे
वैशंपायन उवाच
ततः सहैव कन्याभिर्द्रौपदी राजवेश्म तत्
प्रविवेश सुदेष्णायाः समीपमपलायिनी
तामब्रवीद्राजपुत्री विराटवचनादिदम्
सैरन्ध्रि गम्यतां शीघ्रं यत्र कामयसे गतिम्
राजा बिभेति भद्रं ते गन्धर्वेभ्यः पराभवात्
त्वं चापि तरुणी सुभ्रु रूपेणाप्रतिमा भुवि
सैरन्ध्र्युवाच
त्रयोदशाहमात्रं मे राजा क्षमतु भामिनि
कृतकृत्या भविष्यन्ति गन्धर्वास्ते न संशयः
ततो मां तेऽपनेष्यन्ति करिष्यन्ति च ते प्रियम्
ध्रुवं च श्रेयसा राजा योक्ष्यते सह बान्धवैः
वैशंपायन उवाच
कीचकस्य तु घातेन सानुजस्य विशां पते
अत्याहितं चिन्तयित्वा व्यस्मयन्त पृथग्जनाः
तस्मिन्पुरे जनपदे संजल्पोऽभूच्च सर्वशः
शौर्याद्धि वल्लभो राज्ञो महासत्त्वश्च कीचकः
आसीत्प्रहर्ता च नृणां दारामर्शी च दुर्मतिः
स हतः खलु पापात्मा गन्धर्वैर्दुष्टपूरुषः
इत्यजल्पन्महाराज परानीकविशातनम्
देशे देशे मनुष्याश्च कीचकं दुष्प्रधर्षणम्
अथ वै धार्तराष्ट्रेण प्रयुक्ता ये बहिश्चराः
मृगयित्वा बहून्ग्रामान्राष्ट्राणि नगराणि च
संविधाय यथादिष्टं यथादेशप्रदर्शनम्
कृतचिन्ता न्यवर्तन्त ते च नागपुरं प्रति
तत्र दृष्ट्वा तु राजानं कौरव्यं धृतराष्ट्रजम्
द्रोणकर्णकृपैः सार्धं भीष्मेण च महात्मना
संगतं भ्रातृभिश्चापि त्रिगर्तैश्च महारथैः
दुर्योधनं सभामध्ये आसीनमिदमब्रुवन्
कृतोऽस्माभिः परो यत्नस्तेषामन्वेषणे सदा
पाण्डवानां मनुष्येन्द्र तस्मिन्महति कानने
निर्जने मृगसंकीर्णे नानाद्रुमलतावृते
लताप्रतानबहुले नानागुल्मसमावृते
न च विद्मो गता येन पार्थाः स्युर्दृढविक्रमाः
मार्गमाणाः पदन्यासं तेषु तेषु तथा तथा
गिरिकूटेषु तुङ्गेषु नानाजनपदेषु च
जनाकीर्णेषु देशेषु खर्वटेषु पुरेषु च
नरेन्द्र बहुशोऽन्विष्टा नैव विद्मश्च पाण्डवान्
अत्यन्तभावं नष्टास्ते भद्रं तुभ्यं नरर्षभ
वर्त्मान्यन्विष्यमाणास्तु रथानां रथसत्तम
कंचित्कालं मनुष्येन्द्र सूतानामनुगा वयम्
मृगयित्वा यथान्यायं विदितार्थाः स्म तत्त्वतः
प्राप्ता द्वारवतीं सूता ऋते पार्थैः परंतप
न तत्र पाण्डवा राजन्नापि कृष्णा पतिव्रता
सर्वथा विप्रनष्टास्ते नमस्ते भरतर्षभ
न हि विद्मो गतिं तेषां वासं वापि महात्मनाम्
पाण्डवानां प्रवृत्तिं वा विद्मः कर्मापि वा कृतम्
स नः शाधि मनुष्येन्द्र अत ऊर्ध्वं विशां पते
अन्वेषणे पाण्डवानां भूयः किं करवामहे
इमां च नः प्रियामीक्ष वाचं भद्रवतीं शुभाम्
येन त्रिगर्ता निकृता बलेन महता नृप
सूतेन राज्ञो मत्स्यस्य कीचकेन महात्मना
स हतः पतितः शेते गन्धर्वैर्निशि भारत
अदृश्यमानैर्दुष्टात्मा सह भ्रातृभिरच्युत
प्रियमेतदुपश्रुत्य शत्रूणां तु पराभवम्
कृतकृत्यश्च कौरव्य विधत्स्व यदनन्तरम्
वैशंपायन उवाच
ततो दुर्योधनो राजा श्रुत्वा तेषां वचस्तदा
चिरमन्तर्मना भूत्वा प्रत्युवाच सभासदः
सुदुःखा खलु कार्याणां गतिर्विज्ञातुमन्ततः
तस्मात्सर्वे उदीक्षध्वं क्व नु स्युः पाण्डवा गताः
अल्पावशिष्टं कालस्य गतभूयिष्ठमन्ततः
तेषामज्ञातचर्यायामस्मिन्वर्षे त्रयोदशे
अस्य वर्षस्य शेषं चेद्व्यतीयुरिह पाण्डवाः
निवृत्तसमयास्ते हि सत्यव्रतपरायणाः
क्षरन्त इव नागेन्द्राः सर्व आशीविषोपमाः
दुःखा भवेयुः संरब्धाः कौरवान्प्रति ते ध्रुवम्
अर्वाक्कालस्य विज्ञाताः कृच्छ्ररूपधराः पुनः
प्रविशेयुर्जितक्रोधास्तावदेव पुनर्वनम्
तस्मात्क्षिप्रं बुभुत्सध्वं यथा नोऽत्यन्तमव्ययम्
राज्यं निर्द्वन्द्वमव्यग्रं निःसपत्नं चिरं भवेत्
अथाब्रवीत्ततः कर्णः क्षिप्रं गच्छन्तु भारत
अन्ये धूर्ततरा दक्षा निभृताः साधुकारिणः
चरन्तु देशान्संवीताः स्फीताञ्जनपदाकुलान्
तत्र गोष्ठीष्वथान्यासु सिद्धप्रव्रजितेषु च
परिचारेषु तीर्थेषु विविधेष्वाकरेषु च
विज्ञातव्या मनुष्यैस्तैस्तर्कया सुविनीतया
विविधैस्तत्परैः सम्यक्तज्ज्ञैर्निपुणसंवृतैः
अन्वेष्टव्याश्च निपुणं पाण्डवाश्छन्नवासिनः
नदीकुञ्जेषु तीर्थेषु ग्रामेषु नगरेषु च
आश्रमेषु च रम्येषु पर्वतेषु गुहासु च
अथाग्रजानन्तरजः पापभावानुरागिणम्
ज्येष्ठं दुःशासनस्तत्र भ्राता भ्रातरमब्रवीत्
एतच्च कर्णो यत्प्राह सर्वमीक्षामहे तथा
यथोद्दिष्टं चराः सर्वे मृगयन्तु ततस्ततः
एते चान्ये च भूयांसो देशाद्देशं यथाविधि
न तु तेषां गतिर्वासः प्रवृत्तिश्चोपलभ्यते
अत्याहितं वा गूढास्ते पारं वोर्मिमतो गताः
व्यालैर्वापि महारण्ये भक्षिताः शूरमानिनः
अथ वा विषमं प्राप्य विनष्टाः शाश्वतीः समाः
तस्मान्मानसमव्यग्रं कृत्वा त्वं कुरुनन्दन
कुरु कार्यं यथोत्साहं मन्यसे यन्नराधिप
वैशंपायन उवाच
अथाब्रवीन्महावीर्यो द्रोणस्तत्त्वार्थदर्शिवान्
न तादृशा विनश्यन्ति नापि यान्ति पराभवम्
शूराश्च कृतविद्याश्च बुद्धिमन्तो जितेन्द्रियाः
धर्मज्ञाश्च कृतज्ञाश्च धर्मराजमनुव्रताः
नीतिधर्मार्थतत्त्वज्ञं पितृवच्च समाहितम्
धर्मे स्थितं सत्यधृतिं ज्येष्ठं ज्येष्ठापचायिनम्
अनुव्रता महात्मानं भ्रातरं भ्रातरो नृप
अजातशत्रुं ह्रीमन्तं तं च भ्रातॄननुव्रतम्
तेषां तथा विधेयानां निभृतानां महात्मनाम्
किमर्थं नीतिमान्पार्थः श्रेयो नैषां करिष्यति
तस्माद्यत्नात्प्रतीक्षन्ते कालस्योदयमागतम्
न हि ते नाशमृच्छेयुरिति पश्याम्यहं धिया
सांप्रतं चैव यत्कार्यं तच्च क्षिप्रमकालिकम्
क्रियतां साधु संचिन्त्य वासश्चैषां प्रचिन्त्यताम्
यथावत्पाण्डुपुत्राणां सर्वार्थेषु धृतात्मनाम्
दुर्ज्ञेयाः खलु शूरास्ते अपापास्तपसा वृताः
शुद्धात्मा गुणवान्पार्थः सत्यवान्नीतिमाञ्शुचिः
तेजोराशिरसंख्येयो गृह्णीयादपि चक्षुषी
विज्ञाय क्रियतां तस्माद्भूयश्च मृगयामहे
ब्राह्मणैश्चारकैः सिद्धैर्ये चान्ये तद्विदो जनाः
वैशंपायन उवाच
ततः शांतनवो भीष्मो भरतानां पितामहः
श्रुतवान्देशकालज्ञस्तत्त्वज्ञः सर्वधर्मवित्
आचार्यवाक्योपरमे तद्वाक्यमभिसंदधत्
हितार्थं स उवाचेमां भारतीं भारतान्प्रति
युधिष्ठिरे समासक्तां धर्मज्ञे धर्मसंश्रिताम्
असत्सु दुर्लभां नित्यं सतां चाभिमतां सदा
भीष्मः समवदत्तत्र गिरं साधुभिरर्चिताम्
यथैष ब्राह्मणः प्राह द्रोणः सर्वार्थतत्त्ववित्
सर्वलक्षणसंपन्ना नाशं नार्हन्ति पाण्डवाः
श्रुतवृत्तोपसंपन्नाः साधुव्रतसमन्विताः
वृद्धानुशासने मग्नाः सत्यव्रतपरायणाः
समयं समयज्ञास्ते पालयन्तः शुचिव्रताः
नावसीदितुमर्हन्ति उद्वहन्तः सतां धुरम्
धर्मतश्चैव गुप्तास्ते स्ववीर्येण च पाण्डवाः
न नाशमधिगच्छेयुरिति मे धीयते मतिः
तत्र बुद्धिं प्रणेष्यामि पाण्डवान्प्रति भारत
न तु नीतिः सुनीतस्य शक्यतेऽन्वेषितुं परैः
यत्तु शक्यमिहास्माभिस्तान्वै संचिन्त्य पाण्डवान्
बुद्ध्या प्रवक्तुं न द्रोहात्प्रवक्ष्यामि निबोध तत्
सा त्वियं साधु वक्तव्या न त्वनीतिः कथंचन
वृद्धानुशासने तात तिष्ठतः सत्यशीलिनः
अवश्यं त्विह धीरेण सतां मध्ये विवक्षता
यथामति विवक्तव्यं सर्वशो धर्मलिप्सया
तत्र नाहं तथा मन्ये यथायमितरो जनः
पुरे जनपदे वापि यत्र राजा युधिष्ठिरः
नासूयको न चापीर्षुर्नातिवादी न मत्सरी
भविष्यति जनस्तत्र स्वं स्वं धर्ममनुव्रतः
ब्रह्मघोषाश्च भूयांसः पूर्णाहुत्यस्तथैव च
क्रतवश्च भविष्यन्ति भूयांसो भूरिदक्षिणाः
सदा च तत्र पर्जन्यः सम्यग्वर्षी न संशयः
संपन्नसस्या च मही निरीतीका भविष्यति
रसवन्ति च धान्यानि गुणवन्ति फलानि च
गन्धवन्ति च माल्यानि शुभशब्दा च भारती
वायुश्च सुखसंस्पर्शो निष्प्रतीपं च दर्शनम्
भयं नाभ्याविशेत्तत्र यत्र राजा युधिष्ठिरः
गावश्च बहुलास्तत्र न कृशा न च दुर्दुहाः
पयांसि दधिसर्पींषि रसवन्ति हितानि च
गुणवन्ति च पानानि भोज्यानि रसवन्ति च
तत्र देशे भविष्यन्ति यत्र राजा युधिष्ठिरः
रसाः स्पर्शाश्च गन्धाश्च शब्दाश्चापि गुणान्विताः
दृश्यानि च प्रसन्नानि यत्र राजा युधिष्ठिरः
स्वैः स्वैर्गुणैः सुसंयुक्तास्तस्मिन्वर्षे त्रयोदशे
देशे तस्मिन्भविष्यन्ति तात पाण्डवसंयुते
संप्रीतिमाञ्जनस्तत्र संतुष्टः शुचिरव्ययः
देवतातिथिपूजासु सर्वभूतानुरागवान्
इष्टदानो महोत्साहः शश्वद्धर्मपरायणः
अशुभद्विट्शुभप्रेप्सुर्नित्ययज्ञः शुभव्रतः
भविष्यति जनस्तत्र यत्र राजा युधिष्ठिरः
त्यक्तवाक्यानृतस्तात शुभकल्याणमङ्गलः
शुभार्थेप्सुः शुभमतिर्यत्र राजा युधिष्ठिरः
भविष्यति जनस्तत्र नित्यं चेष्टप्रियव्रतः
धर्मात्मा स तदादृश्यः सोऽपि तात द्विजातिभिः
किं पुनः प्राकृतैः पार्थः शक्यो विज्ञातुमन्ततः
यस्मिन्सत्यं धृतिर्दानं परा शान्तिर्ध्रुवा क्षमा
ह्रीः श्रीः कीर्तिः परं तेज आनृशंस्यमथार्जवम्
तस्मात्तत्र निवासं तु छन्नं सत्रेण धीमतः
गतिं वा परमां तस्य नोत्सहे वक्तुमन्यथा
एवमेतत्तु संचिन्त्य यत्कृतं मन्यसे हितम्
तत्क्षिप्रं कुरु कौरव्य यद्येवं श्रद्दधासि मे
वैशंपायन उवाच
ततः शारद्वतो वाक्यमित्युवाच कृपस्तदा
युक्तं प्राप्तं च वृद्धेन पाण्डवान्प्रति भाषितम्
धर्मार्थसहितं श्लक्ष्णं तत्त्वतश्च सहेतुमत्
तत्रानुरूपं भीष्मेण ममाप्यत्र गिरं शृणु
तेषां चैव गतिस्तीर्थैर्वासश्चैषां प्रचिन्त्यताम्
नीतिर्विधीयतां चापि सांप्रतं या हिता भवेत्
नावज्ञेयो रिपुस्तात प्राकृतोऽपि बुभूषता
किं पुनः पाण्डवास्तात सर्वास्त्रकुशला रणे
तस्मात्सत्रं प्रविष्टेषु पाण्डवेषु महात्मसु
गूढभावेषु छन्नेषु काले चोदयमागते
स्वराष्ट्रपरराष्ट्रेषु ज्ञातव्यं बलमात्मनः
उदये पाण्डवानां च प्राप्ते काले न संशयः
निवृत्तसमयाः पार्था महात्मानो महाबलाः
महोत्साहा भविष्यन्ति पाण्डवा ह्यतितेजसः
तस्माद्बलं च कोशं च नीतिश्चापि विधीयताम्
यथा कालोदये प्राप्ते सम्यक्तैः संदधामहे
तात मन्यामि तत्सर्वं बुध्यस्व बलमात्मनः
नियतं सर्वमित्रेषु बलवत्स्वबलेषु च
उच्चावचं बलं ज्ञात्वा मध्यस्थं चापि भारत
प्रहृष्टमप्रहृष्टं च संदधाम तथा परैः
साम्ना भेदेन दानेन दण्डेन बलिकर्मणा
न्यायेनानम्य च परान्बलाच्चानम्य दुर्बलान्
सान्त्वयित्वा च मित्राणि बलं चाभाष्यतां सुखम्
सकोशबलसंवृद्धः सम्यक्सिद्धिमवाप्स्यसि
योत्स्यसे चापि बलिभिररिभिः प्रत्युपस्थितैः
अन्यैस्त्वं पाण्डवैर्वापि हीनस्वबलवाहनैः
एवं सर्वं विनिश्चित्य व्यवसायं स्वधर्मतः
यथाकालं मनुष्येन्द्र चिरं सुखमवाप्स्यसि
वैशंपायन उवाच
अथ राजा त्रिगर्तानां सुशर्मा रथयूथपः
प्राप्तकालमिदं वाक्यमुवाच त्वरितो भृशम्
असकृन्निकृतः पूर्वं मत्स्यैः साल्वेयकैः सह
सूतेन चैव मत्स्यस्य कीचकेन पुनः पुनः
बाधितो बन्धुभिः सार्धं बलाद्बलवता विभो
स कर्णमभ्युदीक्ष्याथ दुर्योधनमभाषत
असकृन्मत्स्यराज्ञा मे राष्ट्रं बाधितमोजसा
प्रणेता कीचकश्चास्य बलवानभवत्पुरा
क्रूरोऽमर्षी स दुष्टात्मा भुवि प्रख्यातविक्रमः
निहतस्तत्र गन्धर्वैः पापकर्मा नृशंसवान्
तस्मिंश्च निहते राजन्हीनदर्पो निराश्रयः
भविष्यति निरुत्साहो विराट इति मे मतिः
तत्र यात्रा मम मता यदि ते रोचतेऽनघ
कौरवाणां च सर्वेषां कर्णस्य च महात्मनः
एतत्प्राप्तमहं मन्ये कार्यमात्ययिकं हितम्
राष्ट्रं तस्याभियात्वाशु बहुधान्यसमाकुलम्
आददामोऽस्य रत्नानि विविधानि वसूनि च
ग्रामान्राष्ट्राणि वा तस्य हरिष्यामो विभागशः
अथ वा गोसहस्राणि बहूनि च शुभानि च
विविधानि हरिष्यामः प्रतिपीड्य पुरं बलात्
कौरवैः सह संगम्य त्रिगर्तैश्च विशां पते
गास्तस्यापहरामाशु सह सर्वैः सुसंहताः
संधिं वा तेन कृत्वा तु निबध्नीमोऽस्य पौरुषम्
हत्वा चास्य चमूं कृत्स्नां वशमन्वानयामहे
तं वशे न्यायतः कृत्वा सुखं वत्स्यामहे वयम्
भवतो बलवृद्धिश्च भविष्यति न संशयः
तच्छ्रुत्वा वचनं तस्य कर्णो राजानमब्रवीत्
सूक्तं सुशर्मणा वाक्यं प्राप्तकालं हितं च नः
तस्मात्क्षिप्रं विनिर्यामो योजयित्वा वरूथिनीम्
विभज्य चाप्यनीकानि यथा वा मन्यसेऽनघ
प्रज्ञावान्कुरुवृद्धोऽयं सर्वेषां नः पितामहः
आचार्यश्च तथा द्रोणः कृपः शारद्वतस्तथा
मन्यन्ते ते यथा सर्वे तथा यात्रा विधीयताम्
संमन्त्र्य चाशु गच्छामः साधनार्थं महीपतेः
किं च नः पाण्डवैः कार्यं हीनार्थबलपौरुषैः
अत्यर्थं वा प्रनष्टास्ते प्राप्ता वापि यमक्षयम्
यामो राजन्ननुद्विग्ना विराटविषयं वयम्
आदास्यामो हि गास्तस्य विविधानि वसूनि च
ततो दुर्योधनो राजा वाक्यमादाय तस्य तत्
वैकर्तनस्य कर्णस्य क्षिप्रमाज्ञापयत्स्वयम्
शासने नित्यसंयुक्तं दुःशासनमनन्तरम्
सह वृद्धैस्तु संमन्त्र्य क्षिप्रं योजय वाहिनीम्
यथोद्देशं च गच्छामः सहिताः सर्वकौरवैः
सुशर्मा तु यथोद्दिष्टं देशं यातु महारथः
त्रिगर्तैः सहितो राजा समग्रबलवाहनः
प्रागेव हि सुसंवीतो मत्स्यस्य विषयं प्रति
जघन्यतो वयं तत्र यास्यामो दिवसान्तरम्
विषयं मत्स्यराजस्य सुसमृद्धं सुसंहताः
ते यात्वा सहसा तत्र विराटनगरं प्रति
क्षिप्रं गोपान्समासाद्य गृह्णन्तु विपुलं धनम्
गवां शतसहस्राणि श्रीमन्ति गुणवन्ति च
वयमपि निगृह्णीमो द्विधा कृत्वा वरूथिनीम्
स स्म गत्वा यथोद्दिष्टां दिशं वह्नेर्महीपतिः
आदत्त गाः सुशर्माथ घर्मपक्षस्य सप्तमीम्
अपरं दिवसं सर्वे राजन्संभूय कौरवाः
अष्टम्यां तान्यगृह्णन्त गोकुलानि सहस्रशः
वैशंपायन उवाच
ततस्तेषां महाराज तत्रैवामिततेजसाम्
छद्मलिङ्गप्रविष्टानां पाण्डवानां महात्मनाम्
व्यतीतः समयः सम्यग्वसतां वै पुरोत्तमे
कुर्वतां तस्य कर्माणि विराटस्य महीपतेः
ततस्त्रयोदशस्यान्ते तस्य वर्षस्य भारत
सुशर्मणा गृहीतं तु गोधनं तरसा बहु
ततो जवेन महता गोपाः पुरमथाव्रजत्
अपश्यन्मत्स्यराजं च रथात्प्रस्कन्द्य कुण्डली
शूरैः परिवृतं योधैः कुण्डलाङ्गदधारिभिः
सद्भिश्च मन्त्रिभिः सार्धं पाण्डवैश्च नरर्षभैः
तं सभायां महाराजमासीनं राष्ट्रवर्धनम्
सोऽब्रवीदुपसंगम्य विराटं प्रणतस्तदा
अस्मान्युधि विनिर्जित्य परिभूय सबान्धवान्
गवां शतसहस्राणि त्रिगर्ताः कालयन्ति ते
तान्परीप्स मनुष्येन्द्र मा नेशुः पशवस्तव
तच्छ्रुत्वा नृपतिः सेनां मत्स्यानां समयोजयत्
रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम्
राजानो राजपुत्राश्च तनुत्राण्यत्र भेजिरे
भानुमन्ति विचित्राणि सूपसेव्यानि भागशः
सवज्रायसगर्भं तु कवचं तप्तकाञ्चनम्
विराटस्य प्रियो भ्राता शतानीकोऽभ्यहारयत्
सर्वपारसवं वर्म कल्याणपटलं दृढम्
शतानीकादवरजो मदिराश्वोऽभ्यहारयत्
शतसूर्यं शतावर्तं शतबिन्दु शताक्षिमत्
अभेद्यकल्पं मत्स्यानां राजा कवचमाहरत्
उत्सेधे यस्य पद्मानि शतं सौगन्धिकानि च
सुवर्णपृष्ठं सूर्याभं सूर्यदत्तोऽभ्यहारयत्
दृढमायसगर्भं तु श्वेतं वर्म शताक्षिमत्
विराटस्य सुतो ज्येष्ठो वीरः शङ्खोऽभ्यहारयत्
शतशश्च तनुत्राणि यथास्वानि महारथाः
योत्स्यमानाभ्यनह्यन्त देवरूपाः प्रहारिणः
सूपस्करेषु शुभ्रेषु महत्सु च महारथाः
पृथक्काञ्चनसंनाहान्रथेष्वश्वानयोजयन्
सूर्यचन्द्रप्रतीकाशो रथे दिव्ये हिरण्मयः
महानुभावो मत्स्यस्य ध्वज उच्छिश्रिये तदा
अथान्यान्विविधाकारान्ध्वजान्हेमविभूषितान्
यथास्वं क्षत्रियाः शूरा रथेषु समयोजयन्
अथ मत्स्योऽब्रवीद्राजा शतानीकं जघन्यजम्
कङ्कबल्लवगोपाला दामग्रन्थिश्च वीर्यवान्
युध्येयुरिति मे बुद्धिर्वर्तते नात्र संशयः
एतेषामपि दीयन्तां रथा ध्वजपताकिनः
कवचानि विचित्राणि दृढानि च मृदूनि च
प्रतिमुञ्चन्तु गात्रेषु दीयन्तामायुधानि च
वीराङ्गरूपाः पुरुषा नागराजकरोपमाः
नेमे जातु न युध्येरन्निति मे धीयते मतिः
एतच्छ्रुत्वा तु नृपतेर्वाक्यं त्वरितमानसः
शतानीकस्तु पार्थेभ्यो रथान्राजन्समादिशत्
सहदेवाय राज्ञे च भीमाय नकुलाय च
तान्प्रहृष्टास्ततः सूता राजभक्तिपुरस्कृताः
निर्दिष्टान्नरदेवेन रथाञ्शीघ्रमयोजयन्
कवचानि विचित्राणि दृढानि च मृदूनि च
विराटः प्रादिशद्यानि तेषामक्लिष्टकर्मणाम्
तान्यामुच्य शरीरेषु दंशितास्ते परंतपाः
तरस्विनश्छन्नरूपाः सर्वे युद्धविशारदाः
विराटमन्वयुः पश्चात्सहिताः कुरुपुंगवाः
चत्वारो भ्रातरः शूराः पाण्डवाः सत्यविक्रमाः
भीमाश्च मत्तमातङ्गाः प्रभिन्नकरटामुखाः
क्षरन्त इव जीमूताः सुदन्ताः षष्टिहायनाः
स्वारूढा युद्धकुशलैः शिक्षितैर्हस्तिसादिभिः
राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः
विशारदानां वश्यानां हृष्टानां चानुयायिनाम्
अष्टौ रथसहस्राणि दश नागशतानि च
षष्टिश्चाश्वसहस्राणि मत्स्यानामभिनिर्ययुः
तदनीकं विराटस्य शुशुभे भरतर्षभ
संप्रयातं महाराज निनीषन्तं गवां पदम्
तद्बलाग्र्यं विराटस्य संप्रस्थितमशोभत
दृढायुधजनाकीर्णं गजाश्वरथसंकुलम्
वैशंपायन उवाच
निर्याय नगराच्छूरा व्यूढानीकाः प्रहारिणः
त्रिगर्तानस्पृशन्मत्स्याः सूर्ये परिणते सति
ते त्रिगर्ताश्च मत्स्याश्च संरब्धा युद्धदुर्मदाः
अन्योन्यमभिगर्जन्तो गोषु गृद्धा महाबलाः
भीमाश्च मत्तमातङ्गास्तोमराङ्कुशचोदिताः
ग्रामणीयैः समारूढाः कुशलैर्हस्तिसादिभिः
तेषां समागमो घोरस्तुमुलो लोमहर्षणः
देवासुरसमो राजन्नासीत्सूर्ये विलम्बति
उदतिष्ठद्रजो भौमं न प्रज्ञायत किंचन
पक्षिणश्चापतन्भूमौ सैन्येन रजसावृताः
इषुभिर्व्यतिसंयद्भिरादित्योऽन्तरधीयत
खद्योतैरिव संयुक्तमन्तरिक्षं व्यराजत
रुक्मपृष्ठानि चापानि व्यतिषक्तानि धन्विनाम्
पततां लोकवीराणां सव्यदक्षिणमस्यताम्
रथा रथैः समाजग्मुः पादातैश्च पदातयः
सादिभिः सादिनश्चैव गजैश्चापि महागजाः
असिभिः पट्टिशैः प्रासैः शक्तिभिस्तोमरैरपि
संरब्धाः समरे राजन्निजघ्नुरितरेतरम्
निघ्नन्तः समरेऽन्योन्यं शूराः परिघबाहवः
न शेकुरभिसंरब्धाः शूरान्कर्तुं पराङ्मुखान्
कॢप्तोत्तरोष्ठं सुनसं कॢप्तकेशमलंकृतम्
अदृश्यत शिरश्छिन्नं रजोध्वस्तं सकुण्डलम्
अदृश्यंस्तत्र गात्राणि शरैश्छिन्नानि भागशः
शालस्कन्धनिकाशानि क्षत्रियाणां महामृधे
नागभोगनिकाशैश्च बाहुभिश्चन्दनोक्षितैः
आकीर्णा वसुधा तत्र शिरोभिश्च सकुण्डलैः
उपशाम्यद्रजो भौमं रुधिरेण प्रसर्पता
कश्मलं प्राविशद्घोरं निर्मर्यादमवर्तत
शतानीकः शतं हत्वा विशालाक्षश्चतुःशतम्
प्रविष्टौ महतीं सेनां त्रिगर्तानां महारथौ
आर्च्छेतां बहुसंरब्धौ केशाकेशि नखानखि
लक्षयित्वा त्रिगर्तानां तौ प्रविष्टौ रथव्रजम्
जग्मतुः सूर्यदत्तश्च मदिराश्वश्च पृष्ठतः
विराटस्तत्र संग्रामे हत्वा पञ्चशतान्रथान्
हयानां च शतान्यत्र हत्वा पञ्च महारथान्
चरन्स विविधान्मार्गान्रथेषु रथयूथपः
त्रिगर्तानां सुशर्माणमार्च्छद्रुक्मरथं रणे
तौ व्यावहरतां तत्र महात्मानौ महाबलौ
अन्योन्यमभिगर्जन्तौ गोष्ठे गोवृषभाविव
ततो रथाभ्यां रथिनौ व्यतियाय समन्ततः
शरान्व्यसृजतां शीघ्रं तोयधारा घनाविव
अन्योन्यं चातिसंरब्धौ विचेरतुरमर्षणौ
कृतास्त्रौ निशितैर्बाणैरसिशक्तिगदाभृतौ
ततो राजा सुशर्माणं विव्याध दशभिः शरैः
पञ्चभिः पञ्चभिश्चास्य विव्याध चतुरो हयान्
तथैव मत्स्यराजानं सुशर्मा युद्धदुर्मदः
पञ्चाशता शितैर्बाणैर्विव्याध परमास्त्रवित्
ततः सैन्यं समावृत्य मत्स्यराजसुशर्मणोः
नाभ्यजानंस्तदान्योन्यं प्रदोषे रजसावृते
वैशंपायन उवाच
तमसाभिप्लुते लोके रजसा चैव भारत
व्यतिष्ठन्वै मुहूर्तं तु व्यूढानीकाः प्रहारिणः
ततोऽन्धकारं प्रणुदन्नुदतिष्ठत चन्द्रमाः
कुर्वाणो विमलां रात्रिं नन्दयन्क्षत्रियान्युधि
ततः प्रकाशमासाद्य पुनर्युद्धमवर्तत
घोररूपं ततस्ते स्म नावेक्षन्त परस्परम्
ततः सुशर्मा त्रैगर्तः सह भ्रात्रा यवीयसा
अभ्यद्रवन्मत्स्यराजं रथव्रातेन सर्वशः
ततो रथाभ्यां प्रस्कन्द्य भ्रातरौ क्षत्रियर्षभौ
गदापाणी सुसंरब्धौ समभ्यद्रवतां हयान्
तथैव तेषां तु बलानि तानि; क्रुद्धान्यथान्योन्यमभिद्रवन्ति
गदासिखड्गैश्च परश्वधैश्च; प्रासैश्च तीक्ष्णाग्रसुपीतधारैः
बलं तु मत्स्यस्य बलेन राजा; सर्वं त्रिगर्ताधिपतिः सुशर्मा
प्रमथ्य जित्वा च प्रसह्य मत्स्यं; विराटमोजस्विनमभ्यधावत्
तौ निहत्य पृथग्धुर्यावुभौ च पार्ष्णिसारथी
विरथं मत्स्यराजानं जीवग्राहमगृह्णताम्
तमुन्मथ्य सुशर्मा तु रुदतीं वधुकामिव
स्यन्दनं स्वं समारोप्य प्रययौ शीघ्रवाहनः
तस्मिन्गृहीते विरथे विराटे बलवत्तरे
प्राद्रवन्त भयान्मत्स्यास्त्रिगर्तैरर्दिता भृशम्
तेषु संत्रास्यमानेषु कुन्तीपुत्रो युधिष्ठिरः
अभ्यभाषन्महाबाहुं भीमसेनमरिंदमम्
मत्स्यराजः परामृष्टस्त्रिगर्तेन सुशर्मणा
तं मोक्षय महाबाहो न गच्छेद्द्विषतां वशम्
उषिताः स्मः सुखं सर्वे सर्वकामैः सुपूजिताः
भीमसेन त्वया कार्या तस्य वासस्य निष्कृतिः
भीमसेन उवाच
अहमेनं परित्रास्ये शासनात्तव पार्थिव
पश्य मे सुमहत्कर्म युध्यतः सह शत्रुभिः
स्वबाहुबलमाश्रित्य तिष्ठ त्वं भ्रातृभिः सह
एकान्तमाश्रितो राजन्पश्य मेऽद्य पराक्रमम्
सुस्कन्धोऽयं महावृक्षो गदारूप इव स्थितः
एनमेव समारुज्य द्रावयिष्यामि शात्रवान्
वैशंपायन उवाच
तं मत्तमिव मातङ्गं वीक्षमाणं वनस्पतिम्
अब्रवीद्भ्रातरं वीरं धर्मराजो युधिष्ठिरः
मा भीम साहसं कार्षीस्तिष्ठत्वेष वनस्पतिः
मा त्वा वृक्षेण कर्माणि कुर्वाणमतिमानुषम्
जनाः समवबुध्येरन्भीमोऽयमिति भारत
अन्यदेवायुधं किंचित्प्रतिपद्यस्व मानुषम्
चापं वा यदि वा शक्तिं निस्त्रिंशं वा परश्वधम्
यदेव मानुषं भीम भवेदन्यैरलक्षितम्
तदेवायुधमादाय मोक्षयाशु महीपतिम्
यमौ च चक्ररक्षौ ते भवितारौ महाबलौ
व्यूहतः समरे तात मत्स्यराजं परीप्सतः
ततः समस्तास्ते सर्वे तुरगानभ्यचोदयन्
दिव्यमस्त्रं विकुर्वाणास्त्रिगर्तान्प्रत्यमर्षणाः
तान्निवृत्तरथान्दृष्ट्वा पाण्डवान्सा महाचमूः
वैराटी परमक्रुद्धा युयुधे परमाद्भुतम्
सहस्रं न्यवधीत्तत्र कुन्तीपुत्रो युधिष्ठिरः
भीमः सप्तशतान्योधान्परलोकमदर्शयत्
नकुलश्चापि सप्तैव शतानि प्राहिणोच्छरैः
शतानि त्रीणि शूराणां सहदेवः प्रतापवान्
युधिष्ठिरसमादिष्टो निजघ्ने पुरुषर्षभः
भित्त्वा तां महतीं सेनां त्रिगर्तानां नरर्षभ
ततो युधिष्ठिरो राजा त्वरमाणो महारथः
अभिद्रुत्य सुशर्माणं शरैरभ्यतुदद्भृशम्
सुशर्मापि सुसंक्रुद्धस्त्वरमाणो युधिष्ठिरम्
अविध्यन्नवभिर्बाणैश्चतुर्भिश्चतुरो हयान्
ततो राजन्नाशुकारी कुन्तीपुत्रो वृकोदरः
समासाद्य सुशर्माणमश्वानस्य व्यपोथयत्
पृष्ठगोपौ च तस्याथ हत्वा परमसायकैः
अथास्य सारथिं क्रुद्धो रथोपस्थादपाहरत्
चक्ररक्षश्च शूरश्च शोणाश्वो नाम विश्रुतः
स भयाद्द्वैरथं दृष्ट्वा त्रैगर्तं प्राजहत्तदा
ततो विराटः प्रस्कन्द्य रथादथ सुशर्मणः
गदामस्य परामृश्य तमेवाजघ्निवान्बली
स चचार गदापाणिर्वृद्धोऽपि तरुणो यथा
भीमस्तु भीमसंकाशो रथात्प्रस्कन्द्य कुण्डली
त्रिगर्तराजमादत्त सिंहः क्षुद्रमृगं यथा
तस्मिन्गृहीते विरथे त्रिगर्तानां महारथे
अभज्यत बलं सर्वं त्रैगर्तं तद्भयातुरम्
निवर्त्य गास्ततः सर्वाः पाण्डुपुत्रा महाबलाः
अवजित्य सुशर्माणं धनं चादाय सर्वशः
स्वबाहुबलसंपन्ना ह्रीनिषेधा यतव्रताः
संग्रामशिरसो मध्ये तां रात्रिं सुखिनोऽवसन्
ततो विराटः कौन्तेयानतिमानुषविक्रमान्
अर्चयामास वित्तेन मानेन च महारथान्
विराट उवाच
यथैव मम रत्नानि युष्माकं तानि वै तथा
कार्यं कुरुत तैः सर्वे यथाकामं यथासुखम्
ददान्यलंकृताः कन्या वसूनि विविधानि च
मनसश्चाप्यभिप्रेतं यद्वः शत्रुनिबर्हणाः
युष्माकं विक्रमादद्य मुक्तोऽहं स्वस्तिमानिह
तस्माद्भवन्तो मत्स्यानामीश्वराः सर्व एव हि
वैशंपायन उवाच
तथाभिवादिनं मत्स्यं कौरवेयाः पृथक्पृथक्
ऊचुः प्राञ्जलयः सर्वे युधिष्ठिरपुरोगमाः
प्रतिनन्दाम ते वाक्यं सर्वं चैव विशां पते
एतेनैव प्रतीताः स्मो यत्त्वं मुक्तोऽद्य शत्रुभिः
अथाब्रवीत्प्रीतमना मत्स्यराजो युधिष्ठिरम्
पुनरेव महाबाहुर्विराटो राजसत्तमः
एहि त्वामभिषेक्ष्यामि मत्स्यराजोऽस्तु नो भवान्
मनसश्चाप्यभिप्रेतं यत्ते शत्रुनिबर्हण
तत्तेऽहं संप्रदास्यामि सर्वमर्हति नो भवान्
रत्नानि गाः सुवर्णं च मणिमुक्तमथापि वा
वैयाघ्रपद्य विप्रेन्द्र सर्वथैव नमोऽस्तु ते
त्वत्कृते ह्यद्य पश्यामि राज्यमात्मानमेव च
यतश्च जातः संरम्भः स च शत्रुर्वशं गतः
ततो युधिष्ठिरो मत्स्यं पुनरेवाभ्यभाषत
प्रतिनन्दामि ते वाक्यं मनोज्ञं मत्स्य भाषसे
आनृशंस्यपरो नित्यं सुसुखः सततं भव
गच्छन्तु दूतास्त्वरितं नगरं तव पार्थिव
सुहृदां प्रियमाख्यातुं घोषयन्तु च ते जयम्
ततस्तद्वचनान्मत्स्यो दूतान्राजा समादिशत्
आचक्षध्वं पुरं गत्वा संग्रामे विजयं मम
कुमाराः समलंकृत्य पर्यागच्छन्तु मे पुरात्
वादित्राणि च सर्वाणि गणिकाश्च स्वलंकृताः
ते गत्वा केवलां रात्रिमथ सूर्योदयं प्रति
विराटस्य पुराभ्याशे दूता जयमघोषयन्
वैशंपायन उवाच
याते त्रिगर्तं मत्स्ये तु पशूंस्तान्स्वान्परीप्सति
दुर्योधनः सहामात्यो विराटमुपयादथ
भीष्मो द्रोणश्च कर्णश्च कृपश्च परमास्त्रवित्
द्रौणिश्च सौबलश्चैव तथा दुःशासनः प्रभुः
विविंशतिर्विकर्णश्च चित्रसेनश्च वीर्यवान्
दुर्मुखो दुःसहश्चैव ये चैवान्ये महारथाः
एते मत्स्यानुपागम्य विराटस्य महीपतेः
घोषान्विद्राव्य तरसा गोधनं जह्रुरोजसा
षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते
महता रथवंशेन परिवार्य समन्ततः
गोपालानां तु घोषेषु हन्यतां तैर्महारथैः
आरावः सुमहानासीत्संप्रहारे भयंकरे
गवाध्यक्षस्तु संत्रस्तो रथमास्थाय सत्वरः
जगाम नगरायैव परिक्रोशंस्तदार्तवत्
स प्रविश्य पुरं राज्ञो नृपवेश्माभ्ययात्ततः
अवतीर्य रथात्तूर्णमाख्यातुं प्रविवेश ह
दृष्ट्वा भूमिंजयं नाम पुत्रं मत्स्यस्य मानिनम्
तस्मै तत्सर्वमाचष्ट राष्ट्रस्य पशुकर्षणम्
षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते
तद्विजेतुं समुत्तिष्ठ गोधनं राष्ट्रवर्धनम्
राजपुत्र हितप्रेप्सुः क्षिप्रं निर्याहि वै स्वयम्
त्वां हि मत्स्यो महीपालः शून्यपालमिहाकरोत्
त्वया परिषदो मध्ये श्लाघते स नराधिपः
पुत्रो ममानुरूपश्च शूरश्चेति कुलोद्वहः
इष्वस्त्रे निपुणो योधः सदा वीरश्च मे सुतः
तस्य तत्सत्यमेवास्तु मनुष्येन्द्रस्य भाषितम्
आवर्तय कुरूञ्जित्वा पशून्पशुमतां वर
निर्दहैषामनीकानि भीमेन शरतेजसा
धनुश्च्युतै रुक्मपुङ्खैः शरैः संनतपर्वभिः
द्विषतां भिन्ध्यनीकानि गजानामिव यूथपः
पाशोपधानां ज्यातन्त्रीं चापदण्डां महास्वनाम्
शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय
श्वेता रजतसंकाशा रथे युज्यन्तु ते हयाः
ध्वजं च सिंहं सौवर्णमुच्छ्रयन्तु तवाभिभोः
रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता त्वया
छादयन्तु शराः सूर्यं राज्ञामायुर्निरोधिनः
रणे जित्वा कुरून्सर्वान्वज्रपाणिरिवासुरान्
यशो महदवाप्य त्वं प्रविशेदं पुरं पुनः
त्वं हि राष्ट्रस्य परमा गतिर्मत्स्यपतेः सुतः
गतिमन्तो भवन्त्वद्य सर्वे विषयवासिनः
स्त्रीमध्य उक्तस्तेनासौ तद्वाक्यमभयंकरम्
अन्तःपुरे श्लाघमान इदं वचनमब्रवीत्
उत्तर उवाच
अद्याहमनुगच्छेयं दृढधन्वा गवां पदम्
यदि मे सारथिः कश्चिद्भवेदश्वेषु कोविदः
तमेव नाधिगच्छामि यो मे यन्ता भवेन्नरः
पश्यध्वं सारथिं क्षिप्रं मम युक्तं प्रयास्यतः
अष्टाविंशतिरात्रं वा मासं वा नूनमन्ततः
यत्तदासीन्महद्युद्धं तत्र मे सारथिर्हतः
स लभेयं यदि त्वन्यं हययानविदं नरम्
त्वरावानद्य यात्वाहं समुच्छ्रितमहाध्वजम्
विगाह्य तत्परानीकं गजवाजिरथाकुलम्
शस्त्रप्रतापनिर्वीर्यान्कुरूञ्जित्वानये पशून्
दुर्योधनं शांतनवं कर्णं वैकर्तनं कृपम्
द्रोणं च सह पुत्रेण महेष्वासान्समागतान्
वित्रासयित्वा संग्रामे दानवानिव वज्रभृत्
अनेनैव मुहूर्तेन पुनः प्रत्यानये पशून्
शून्यमासाद्य कुरवः प्रयान्त्यादाय गोधनम्
किं नु शक्यं मया कर्तुं यदहं तत्र नाभवम्
पश्येयुरद्य मे वीर्यं कुरवस्ते समागताः
किं नु पार्थोऽर्जुनः साक्षादयमस्मान्प्रबाधते
वैशंपायन उवाच
तस्य तद्वचनं स्त्रीषु भाषतः स्म पुनः पुनः
नामर्षयत पाञ्चाली बीभत्सोः परिकीर्तनम्
अथैनमुपसंगम्य स्त्रीमध्यात्सा तपस्विनी
व्रीडमानेव शनकैरिदं वचनमब्रवीत्
योऽसौ बृहद्वारणाभो युवा सुप्रियदर्शनः
बृहन्नडेति विख्यातः पार्थस्यासीत्स सारथिः
धनुष्यनवरश्चासीत्तस्य शिष्यो महात्मनः
दृष्टपूर्वो मया वीर चरन्त्या पाण्डवान्प्रति
यदा तत्पावको दावमदहत्खाण्डवं महत्
अर्जुनस्य तदानेन संगृहीता हयोत्तमाः
तेन सारथिना पार्थः सर्वभूतानि सर्वशः
अजयत्खाण्डवप्रस्थे न हि यन्तास्ति तादृशः
येयं कुमारी सुश्रोणी भगिनी ते यवीयसी
अस्याः स वचनं वीर करिष्यति न संशयः
यदि वै सारथिः स स्यात्कुरून्सर्वानसंशयम्
जित्वा गाश्च समादाय ध्रुवमागमनं भवेत्
एवमुक्तः स सैरन्ध्र्या भगिनीं प्रत्यभाषत
गच्छ त्वमनवद्याङ्गि तामानय बृहन्नडाम्
सा भ्रात्रा प्रेषिता शीघ्रमगच्छन्नर्तनागृहम्
यत्रास्ते स महाबाहुश्छन्नः सत्रेण पाण्डवः
वैशंपायन उवाच
स तां दृष्ट्वा विशालाक्षीं राजपुत्रीं सखीं सखा
प्रहसन्नब्रवीद्राजन्कुत्रागमनमित्युत
तमब्रवीद्राजपुत्री समुपेत्य नरर्षभम्
प्रणयं भावयन्ती स्म सखीमध्य इदं वचः
गावो राष्ट्रस्य कुरुभिः काल्यन्ते नो बृहन्नडे
तान्विजेतुं मम भ्राता प्रयास्यति धनुर्धरः
नचिरं च हतस्तस्य संग्रामे रथसारथिः
तेन नास्ति समः सूतो योऽस्य सारथ्यमाचरेत्
तस्मै प्रयतमानाय सारथ्यर्थं बृहन्नडे
आचचक्षे हयज्ञाने सैरन्ध्री कौशलं तव
सा सारथ्यं मम भ्रातुः कुरु साधु बृहन्नडे
पुरा दूरतरं गावो ह्रियन्ते कुरुभिर्हि नः
अथैतद्वचनं मेऽद्य नियुक्ता न करिष्यसि
प्रणयादुच्यमाना त्वं परित्यक्ष्यामि जीवितम्
एवमुक्तस्तु सुश्रोण्या तया सख्या परंतपः
जगाम राजपुत्रस्य सकाशममितौजसः
तं सा व्रजन्तं त्वरितं प्रभिन्नमिव कुञ्जरम्
अन्वगच्छद्विशालाक्षी शिशुर्गजवधूरिव
दूरादेव तु तं प्रेक्ष्य राजपुत्रोऽभ्यभाषत
त्वया सारथिना पार्थः खाण्डवेऽग्निमतर्पयत्
पृथिवीमजयत्कृत्स्नां कुन्तीपुत्रो धनंजयः
सैरन्ध्री त्वां समाचष्ट सा हि जानाति पाण्डवान्
संयच्छ मामकानश्वांस्तथैव त्वं बृहन्नडे
कुरुभिर्योत्स्यमानस्य गोधनानि परीप्सतः
अर्जुनस्य किलासीस्त्वं सारथिर्दयितः पुरा
त्वयाजयत्सहायेन पृथिवीं पाण्डवर्षभः
एवमुक्ता प्रत्युवाच राजपुत्रं बृहन्नडा
का शक्तिर्मम सारथ्यं कर्तुं संग्राममूर्धनि
गीतं वा यदि वा नृत्तं वादित्रं वा पृथग्विधम्
तत्करिष्यामि भद्रं ते सारथ्यं तु कुतो मयि
उत्तर उवाच
बृहन्नडे गायनो वा नर्तनो वा पुनर्भव
क्षिप्रं मे रथमास्थाय निगृह्णीष्व हयोत्तमान्
वैशंपायन उवाच
स तत्र नर्मसंयुक्तमकरोत्पाण्डवो बहु
उत्तरायाः प्रमुखतः सर्वं जानन्नरिंदम
ऊर्ध्वमुत्क्षिप्य कवचं शरीरे प्रत्यमुञ्चत
कुमार्यस्तत्र तं दृष्ट्वा प्राहसन्पृथुलोचनाः
स तु दृष्ट्वा विमुह्यन्तं स्वयमेवोत्तरस्ततः
कवचेन महार्हेण समनह्यद्बृहन्नडाम्
स बिभ्रत्कवचं चाग्र्यं स्वयमप्यंशुमत्प्रभम्
ध्वजं च सिंहमुच्छ्रित्य सारथ्ये समकल्पयत्
धनूंषि च महार्हाणि बाणांश्च रुचिरान्बहून्
आदाय प्रययौ वीरः स बृहन्नडसारथिः
अथोत्तरा च कन्याश्च सख्यस्तामब्रुवंस्तदा
बृहन्नडे आनयेथा वासांसि रुचिराणि नः
पाञ्चालिकार्थं सूक्ष्माणि चित्राणि विविधानि च
विजित्य संग्रामगतान्भीष्मद्रोणमुखान्कुरून्
अथ ता ब्रुवतीः कन्याः सहिताः पाण्डुनन्दनः
प्रत्युवाच हसन्पार्थो मेघदुन्दुभिनिःस्वनः
यद्युत्तरोऽयं संग्रामे विजेष्यति महारथान्
अथाहरिष्ये वासांसि दिव्यानि रुचिराणि च
एवमुक्त्वा तु बीभत्सुस्ततः प्राचोदयद्धयान्
कुरूनभिमुखाञ्शूरो नानाध्वजपताकिनः
वैशंपायन उवाच
स राजधान्या निर्याय वैराटिः पृथिवींजयः
प्रयाहीत्यब्रवीत्सूतं यत्र ते कुरवो गताः
समवेतान्कुरून्यावज्जिगीषूनवजित्य वै
गाश्चैषां क्षिप्रमादाय पुनरायामि स्वं पुरम्
ततस्तांश्चोदयामास सदश्वान्पाण्डुनन्दनः
ते हया नरसिंहेन चोदिता वातरंहसः
आलिखन्त इवाकाशमूहुः काञ्चनमालिनः
नातिदूरमथो यात्वा मत्स्यपुत्रधनंजयौ
अवेक्षेताममित्रघ्नौ कुरूणां बलिनां बलम्
श्मशानमभितो गत्वा आससाद कुरूनथ
तदनीकं महत्तेषां विबभौ सागरस्वनम्
सर्पमाणमिवाकाशे वनं बहुलपादपम्
ददृशे पार्थिवो रेणुर्जनितस्तेन सर्पता
दृष्टिप्रणाशो भूतानां दिवस्पृङ्नरसत्तम
तदनीकं महद्दृष्ट्वा गजाश्वरथसंकुलम्
कर्णदुर्योधनकृपैर्गुप्तं शांतनवेन च
द्रोणेन च सपुत्रेण महेष्वासेन धीमता
हृष्टरोमा भयोद्विग्नः पार्थं वैराटिरब्रवीत्
नोत्सहे कुरुभिर्योद्धुं रोमहर्षं हि पश्य मे
बहुप्रवीरमत्युग्रं देवैरपि दुरासदम्
प्रतियोद्धुं न शक्ष्यामि कुरुसैन्यमनन्तकम्
नाशंसे भारतीं सेनां प्रवेष्टुं भीमकार्मुकाम्
रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम्
दृष्ट्वैव हि परानाजावात्मा प्रव्यथतीव मे
यत्र द्रोणश्च भीष्मश्च कृपः कर्णो विविंशतिः
अश्वत्थामा विकर्णश्च सोमदत्तोऽथ बाह्लिकः
दुर्योधनस्तथा वीरो राजा च रथिनां वरः
द्युतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः
दृष्ट्वैव हि कुरूनेतान्व्यूढानीकान्प्रहारिणः
हृषितानि च रोमाणि कश्मलं चागतं मम
वैशंपायन उवाच
अवियातो वियातस्य मौर्ख्याद्धूर्तस्य पश्यतः
परिदेवयते मन्दः सकाशे सव्यसाचिनः
त्रिगर्तान्मे पिता यातः शून्ये संप्रणिधाय माम्
सर्वां सेनामुपादाय न मे सन्तीह सैनिकाः
सोऽहमेको बहून्बालः कृतास्त्रानकृतश्रमः
प्रतियोद्धुं न शक्ष्यामि निवर्तस्व बृहन्नडे
अर्जुन उवाच
भयेन दीनरूपोऽसि द्विषतां हर्षवर्धनः
न च तावत्कृतं किंचित्परैः कर्म रणाजिरे
स्वयमेव च मामात्थ वह मां कौरवान्प्रति
सोऽहं त्वां तत्र नेष्यामि यत्रैते बहुला ध्वजाः
मध्यमामिषगृध्राणां कुरूणामाततायिनाम्
नेष्यामि त्वां महाबाहो पृथिव्यामपि युध्यताम्
तथा स्त्रीषु प्रतिश्रुत्य पौरुषं पुरुषेषु च
कत्थमानोऽभिनिर्याय किमर्थं न युयुत्ससे
न चेद्विजित्य गास्तास्त्वं गृहान्वै प्रतियास्यसि
प्रहसिष्यन्ति वीर त्वां नरा नार्यश्च संगताः
अहमप्यत्र सैरन्ध्र्या स्तुतः सारथ्यकर्मणि
न हि शक्ष्याम्यनिर्जित्य गाः प्रयातुं पुरं प्रति
स्तोत्रेण चैव सैरन्ध्र्यास्तव वाक्येन तेन च
कथं न युध्येयमहं कुरून्सर्वान्स्थिरो भव
उत्तर उवाच
कामं हरन्तु मत्स्यानां भूयांसं कुरवो धनम्
प्रहसन्तु च मां नार्यो नरा वापि बृहन्नडे
वैशंपायन उवाच
इत्युक्त्वा प्राद्रवद्भीतो रथात्प्रस्कन्द्य कुण्डली
त्यक्त्वा मानं स मन्दात्मा विसृज्य सशरं धनुः
बृहन्नडोवाच
नैष पूर्वैः स्मृतो धर्मः क्षत्रियस्य पलायनम्
श्रेयस्ते मरणं युद्धे न भीतस्य पलायनम्
वैशंपायन उवाच
एवमुक्त्वा तु कौन्तेयः सोऽवप्लुत्य रथोत्तमात्
तमन्वधावद्धावन्तं राजपुत्रं धनंजयः
दीर्घां वेणीं विधुन्वानः साधु रक्ते च वाससी
विधूय वेणीं धावन्तमजानन्तोऽर्जुनं तदा
सैनिकाः प्राहसन्केचित्तथारूपमवेक्ष्य तम्
तं शीघ्रमभिधावन्तं संप्रेक्ष्य कुरवोऽब्रुवन्
क एष वेषप्रच्छन्नो भस्मनेव हुताशनः
किंचिदस्य यथा पुंसः किंचिदस्य यथा स्त्रियः
सारूप्यमर्जुनस्येव क्लीबरूपं बिभर्ति च
तदेवैतच्छिरोग्रीवं तौ बाहू परिघोपमौ
तद्वदेवास्य विक्रान्तं नायमन्यो धनंजयात्
अमरेष्विव देवेन्द्रो मानुषेषु धनंजयः
एकः कोऽस्मानुपायायादन्यो लोके धनंजयात्
एकः पुत्रो विराटस्य शून्ये संनिहितः पुरे
स एष किल निर्यातो बालभावान्न पौरुषात्
सत्रेण नूनं छन्नं हि चरन्तं पार्थमर्जुनम्
उत्तरः सारथिं कृत्वा निर्यातो नगराद्बहिः
स नो मन्ये ध्वजान्दृष्ट्वा भीत एष पलायति
तं नूनमेष धावन्तं जिघृक्षति धनंजयः
इति स्म कुरवः सर्वे विमृशन्तः पृथक्पृथक्
न च व्यवसितुं किंचिदुत्तरं शक्नुवन्ति ते
छन्नं तथा तं सत्रेण पाण्डवं प्रेक्ष्य भारत
उत्तरं तु प्रधावन्तमनुद्रुत्य धनंजयः
गत्वा पदशतं तूर्णं केशपक्षे परामृशत्
सोऽर्जुनेन परामृष्टः पर्यदेवयदार्तवत्
बहुलं कृपणं चैव विराटस्य सुतस्तदा
शातकुम्भस्य शुद्धस्य शतं निष्कान्ददामि ते
मणीनष्टौ च वैडूर्यान्हेमबद्धान्महाप्रभान्
हेमदण्डप्रतिच्छन्नं रथं युक्तं च सुव्रजैः
मत्तांश्च दश मातङ्गान्मुञ्च मां त्वं बृहन्नडे
वैशंपायन उवाच
एवमादीनि वाक्यानि विलपन्तमचेतसम्
प्रहस्य पुरुषव्याघ्रो रथस्यान्तिकमानयत्
अथैनमब्रवीत्पार्थो भयार्तं नष्टचेतसम्
यदि नोत्सहसे योद्धुं शत्रुभिः शत्रुकर्शन
एहि मे त्वं हयान्यच्छ युध्यमानस्य शत्रुभिः
प्रयाह्येतद्रथानीकं मद्बाहुबलरक्षितः
अप्रधृष्यतमं घोरं गुप्तं वीरैर्महारथैः
मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोऽसि परंतप
अहं वै कुरुभिर्योत्स्याम्यवजेष्यामि ते पशून्
प्रविश्यैतद्रथानीकमप्रधृष्यं दुरासदम्
यन्ता भूस्त्वं नरश्रेष्ठ योत्स्येऽहं कुरुभिः सह
एवं ब्रुवाणो बीभत्सुर्वैराटिमपराजितः
समाश्वास्य मुहूर्तं तमुत्तरं भरतर्षभ
तत एनं विचेष्टन्तमकामं भयपीडितम्
रथमारोपयामास पार्थः प्रहरतां वरः
वैशंपायन उवाच
तं दृष्ट्वा क्लीबवेषेण रथस्थं नरपुंगवम्
शमीमभिमुखं यान्तं रथमारोप्य चोत्तरम्
भीष्मद्रोणमुखास्तत्र कुरूणां रथसत्तमाः
वित्रस्तमनसः सर्वे धनंजयकृताद्भयात्
तानवेक्ष्य हतोत्साहानुत्पातानपि चाद्भुतान्
गुरुः शस्त्रभृतां श्रेष्ठो भारद्वाजोऽभ्यभाषत
चलाश्च वाताः संवान्ति रूक्षाः परुषनिःस्वनाः
भस्मवर्णप्रकाशेन तमसा संवृतं नभः
रूक्षवर्णाश्च जलदा दृश्यन्तेऽद्भुतदर्शनाः
निःसरन्ति च कोशेभ्यः शस्त्राणि विविधानि च
शिवाश्च विनदन्त्येता दीप्तायां दिशि दारुणाः
हयाश्चाश्रूणि मुञ्चन्ति ध्वजाः कम्पन्त्यकम्पिताः
यादृशान्यत्र रूपाणि संदृश्यन्ते बहून्यपि
यत्ता भवन्तस्तिष्ठन्तु स्याद्युद्धं समुपस्थितम्
रक्षध्वमपि चात्मानं व्यूहध्वं वाहिनीमपि
वैशसं च प्रतीक्षध्वं रक्षध्वं चापि गोधनम्
एष वीरो महेष्वासः सर्वशस्त्रभृतां वरः
आगतः क्लीबवेषेण पार्थो नास्त्यत्र संशयः
स एष पार्थो विक्रान्तः सव्यसाची परंतपः
नायुद्धेन निवर्तेत सर्वैरपि मरुद्गणैः
क्लेशितश्च वने शूरो वासवेन च शिक्षितः
अमर्षवशमापन्नो योत्स्यते नात्र संशयः
नेहास्य प्रतियोद्धारमहं पश्यामि कौरवाः
महादेवोऽपि पार्थेन श्रूयते युधि तोषितः
कर्ण उवाच
सदा भवान्फल्गुनस्य गुणैरस्मान्विकत्थसे
न चार्जुनः कला पूर्णा मम दुर्योधनस्य वा
दुर्योधन उवाच
यद्येष पार्थो राधेय कृतं कार्यं भवेन्मम
ज्ञाताः पुनश्चरिष्यन्ति द्वादशान्यान्हि वत्सरान्
अथैष कश्चिदेवान्यः क्लीबवेषेण मानवः
शरैरेनं सुनिशितैः पातयिष्यामि भूतले
वैशंपायन उवाच
तस्मिन्ब्रुवति तद्वाक्यं धार्तराष्ट्रे परंतपे
भीष्मो द्रोणः कृपो द्रौणिः पौरुषं तदपूजयन्
वैशंपायन उवाच
तां शमीमुपसंगम्य पार्थो वैराटिमब्रवीत्
सुकुमारं समाज्ञातं संग्रामे नातिकोविदम्
समादिष्टो मया क्षिप्रं धनूंष्यवहरोत्तर
नेमानि हि त्वदीयानि सोढुं शक्ष्यन्ति मे बलम्
भारं वापि गुरुं हर्तुं कुञ्जरं वा प्रमर्दितुम्
मम वा बाहुविक्षेपं शत्रूनिह विजेष्यतः
तस्माद्भूमिंजयारोह शमीमेतां पलाशिनीम्
अस्यां हि पाण्डुपुत्राणां धनूंषि निहितान्युत
युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा
ध्वजाः शराश्च शूराणां दिव्यानि कवचानि च
अत्र चैतन्महावीर्यं धनुः पार्थस्य गाण्डिवम्
एकं शतसहस्रेण संमितं राष्ट्रवर्धनम्
व्यायामसहमत्यर्थं तृणराजसमं महत्
सर्वायुधमहामात्रं शत्रुसंबाधकारकम्
सुवर्णविकृतं दिव्यं श्लक्ष्णमायतमव्रणम्
अलं भारं गुरुं वोढुं दारुणं चारुदर्शनम्
तादृशान्येव सर्वाणि बलवन्ति दृढानि च
उत्तर उवाच
अस्मिन्वृक्षे किलोद्बद्धं शरीरमिति नः श्रुतम्
तदहं राजपुत्रः सन्स्पृशेयं पाणिना कथम्
नैवंविधं मया युक्तमालब्धुं क्षत्रयोनिना
महता राजपुत्रेण मन्त्रयज्ञविदा सता
स्पृष्टवन्तं शरीरं मां शववाहमिवाशुचिम्
कथं वा व्यवहार्यं वै कुर्वीथास्त्वं बृहन्नडे
बृहन्नडोवाच
व्यवहार्यश्च राजेन्द्र शुचिश्चैव भविष्यसि
धनूंष्येतानि मा भैस्त्वं शरीरं नात्र विद्यते
दायादं मत्स्यराजस्य कुले जातं मनस्विनम्
कथं त्वा निन्दितं कर्म कारयेयं नृपात्मज
वैशंपायन उवाच
एवमुक्तः स पार्थेन रथात्प्रस्कन्द्य कुण्डली
आरुरोह शमीवृक्षं वैराटिरवशस्तदा
तमन्वशासच्छत्रुघ्नो रथे तिष्ठन्धनंजयः
परिवेष्टनमेतेषां क्षिप्रं चैव व्यपानुद
तथा संनहनान्येषां परिमुच्य समन्ततः
अपश्यद्गाण्डिवं तत्र चतुर्भिरपरैः सह
तेषां विमुच्यमानानां धनुषामर्कवर्चसाम्
विनिश्चेरुः प्रभा दिव्या ग्रहाणामुदयेष्विव
स तेषां रूपमालोक्य भोगिनामिव जृम्भताम्
हृष्टरोमा भयोद्विग्नः क्षणेन समपद्यत
संस्पृश्य तानि चापानि भानुमन्ति बृहन्ति च
वैराटिरर्जुनं राजन्निदं वचनमब्रवीत्
उत्तर उवाच
बिन्दवो जातरूपस्य शतं यस्मिन्निपातिताः
सहस्रकोटि सौवर्णाः कस्यैतद्धनुरुत्तमम्
वारणा यस्य सौवर्णाः पृष्ठे भासन्ति दंशिताः
सुपार्श्वं सुग्रहं चैव कस्यैतद्धनुरुत्तमम्
तपनीयस्य शुद्धस्य षष्टिर्यस्येन्द्रगोपकाः
पृष्ठे विभक्ताः शोभन्ते कस्यैतद्धनुरुत्तमम्
सूर्या यत्र च सौवर्णास्त्रयो भासन्ति दंशिताः
तेजसा प्रज्वलन्तो हि कस्यैतद्धनुरुत्तमम्
शालभा यत्र सौवर्णास्तपनीयविचित्रिताः
सुवर्णमणिचित्रं च कस्यैतद्धनुरुत्तमम्
इमे च कस्य नाराचाः सहस्रा लोमवाहिनः
समन्तात्कलधौताग्रा उपासङ्गे हिरण्मये
विपाठाः पृथवः कस्य गार्ध्रपत्राः शिलाशिताः
हारिद्रवर्णाः सुनसाः पीताः सर्वायसाः शराः
कस्यायमसितावापः पञ्चशार्दूललक्षणः
वराहकर्णव्यामिश्रः शरान्धारयते दश
कस्येमे पृथवो दीर्घाः सर्वपारशवाः शराः
शतानि सप्त तिष्ठन्ति नाराचा रुधिराशनाः
कस्येमे शुकपत्राभैः पूर्वैरर्धैः सुवाससः
उत्तरैरायसैः पीतैर्हेमपुङ्खैः शिलाशितैः
कस्यायं सायको दीर्घः शिलीपृष्ठः शिलीमुखः
वैयाघ्रकोशे निहितो हेमचित्रत्सरुर्महान्
सुफलश्चित्रकोशश्च किङ्किणीसायको महान्
कस्य हेमत्सरुर्दिव्यः खड्गः परमनिर्व्रणः
कस्यायं विमलः खड्गो गव्ये कोशे समर्पितः
हेमत्सरुरनाधृष्यो नैषध्यो भारसाधनः
कस्य पाञ्चनखे कोशे सायको हेमविग्रहः
प्रमाणरूपसंपन्नः पीत आकाशसंनिभः
कस्य हेममये कोशे सुतप्ते पावकप्रभे
निस्त्रिंशोऽयं गुरुः पीतः सैक्यः परमनिर्व्रणः
निर्दिशस्व यथातत्त्वं मया पृष्टा बृहन्नडे
विस्मयो मे परो जातो दृष्ट्वा सर्वमिदं महत्
बृहन्नडोवाच
यन्मां पूर्वमिहापृच्छः शत्रुसेनानिबर्हणम्
गाण्डीवमेतत्पार्थस्य लोकेषु विदितं धनुः
सर्वायुधमहामात्रं शातकुम्भपरिष्कृतम्
एतत्तदर्जुनस्यासीद्गाण्डीवं परमायुधम्
यत्तच्छतसहस्रेण संमितं राष्ट्रवर्धनम्
येन देवान्मनुष्यांश्च पार्थो विषहते मृधे
देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः
एतद्वर्षसहस्रं तु ब्रह्मा पूर्वमधारयत्
ततोऽनन्तरमेवाथ प्रजापतिरधारयत्
त्रीणि पञ्चशतं चैव शक्रोऽशीति च पञ्च च
सोमः पञ्चशतं राजा तथैव वरुणः शतम्
पार्थः पञ्च च षष्टिं च वर्षाणि श्वेतवाहनः
महावीर्यं महद्दिव्यमेतत्तद्धनुरुत्तमम्
पूजितं सुरमर्त्येषु बिभर्ति परमं वपुः
सुपार्श्वं भीमसेनस्य जातरूपग्रहं धनुः
येन पार्थोऽजयत्कृत्स्नां दिशं प्राचीं परंतपः
इन्द्रगोपकचित्रं च यदेतच्चारुविग्रहम्
राज्ञो युधिष्ठिरस्यैतद्वैराटे धनुरुत्तमम्
सूर्या यस्मिंस्तु सौवर्णाः प्रभासन्ते प्रभासिनः
तेजसा प्रज्वलन्तो वै नकुलस्यैतदायुधम्
शलभा यत्र सौवर्णास्तपनीयविचित्रिताः
एतन्माद्रीसुतस्यापि सहदेवस्य कार्मुकम्
ये त्विमे क्षुरसंकाशाः सहस्रा लोमवाहिनः
एतेऽर्जुनस्य वैराटे शराः सर्पविषोपमाः
एते ज्वलन्तः संग्रामे तेजसा शीघ्रगामिनः
भवन्ति वीरस्याक्षय्या व्यूहतः समरे रिपून्
ये चेमे पृथवो दीर्घाश्चन्द्रबिम्बार्धदर्शनाः
एते भीमस्य निशिता रिपुक्षयकराः शराः
हारिद्रवर्णा ये त्वेते हेमपुङ्खाः शिलाशिताः
नकुलस्य कलापोऽयं पञ्चशार्दूललक्षणः
येनासौ व्यजयत्कृत्स्नां प्रतीचीं दिशमाहवे
कलापो ह्येष तस्यासीन्माद्रीपुत्रस्य धीमतः
ये त्विमे भास्कराकाराः सर्वपारशवाः शराः
एते चित्राः क्रियोपेताः सहदेवस्य धीमतः
ये त्विमे निशिताः पीताः पृथवो दीर्घवाससः
हेमपुङ्खास्त्रिपर्वाणो राज्ञ एते महाशराः
यस्त्वयं सायको दीर्घः शिलीपृष्ठः शिलीमुखः
अर्जुनस्यैष संग्रामे गुरुभारसहो दृढः
वैयाघ्रकोशस्तु महान्भीमसेनस्य सायकः
गुरुभारसहो दिव्यः शात्रवाणां भयंकरः
सुफलश्चित्रकोशश्च हेमत्सरुरनुत्तमः
निस्त्रिंशः कौरवस्यैष धर्मराजस्य धीमतः
यस्तु पाञ्चनखे कोशे निहितश्चित्रसेवने
नकुलस्यैष निस्त्रिंशो गुरुभारसहो दृढः
यस्त्वयं विमलः खड्गो गव्ये कोशे समर्पितः
सहदेवस्य विद्ध्येनं सर्वभारसहं दृढम्
उत्तर उवाच
सुवर्णविकृतानीमान्यायुधानि महात्मनाम्
रुचिराणि प्रकाशन्ते पार्थानामाशुकारिणाम्
क्व नु स्विदर्जुनः पार्थः कौरव्यो वा युधिष्ठिरः
नकुलः सहदेवश्च भीमसेनश्च पाण्डवः
सर्व एव महात्मानः सर्वामित्रविनाशनाः
राज्यमक्षैः पराकीर्य न श्रूयन्ते कदाचन
द्रौपदी क्व च पाञ्चाली स्त्रीरत्नमिति विश्रुता
जितानक्षैस्तदा कृष्णा तानेवान्वगमद्वनम्
अर्जुन उवाच
अहमस्म्यर्जुनः पार्थः सभास्तारो युधिष्ठिरः
बल्लवो भीमसेनस्तु पितुस्ते रसपाचकः
अश्वबन्धोऽथ नकुलः सहदेवस्तु गोकुले
सैरन्ध्रीं द्रौपदीं विद्धि यत्कृते कीचका हताः
उत्तर उवाच
दश पार्थस्य नामानि यानि पूर्वं श्रुतानि मे
प्रब्रूयास्तानि यदि मे श्रद्दध्यां सर्वमेव ते
अर्जुन उवाच
हन्त तेऽहं समाचक्षे दश नामानि यानि मे
अर्जुनः फल्गुनो जिष्णुः किरीटी श्वेतवाहनः
बीभत्सुर्विजयः कृष्णः सव्यसाची धनंजयः
उत्तर उवाच
केनासि विजयो नाम केनासि श्वेतवाहनः
किरीटी नाम केनासि सव्यसाची कथं भवान्
अर्जुनः फल्गुनो जिष्णुः कृष्णो बीभत्सुरेव च
धनंजयश्च केनासि प्रब्रूहि मम तत्त्वतः
श्रुता मे तस्य वीरस्य केवला नामहेतवः
अर्जुन उवाच
सर्वाञ्जनपदाञ्जित्वा वित्तमाच्छिद्य केवलम्
मध्ये धनस्य तिष्ठामि तेनाहुर्मां धनंजयम्
अभिप्रयामि संग्रामे यदहं युद्धदुर्मदान्
नाजित्वा विनिवर्तामि तेन मां विजयं विदुः
श्वेताः काञ्चनसंनाहा रथे युज्यन्ति मे हयाः
संग्रामे युध्यमानस्य तेनाहं श्वेतवाहनः
उत्तराभ्यां च पूर्वाभ्यां फल्गुनीभ्यामहं दिवा
जातो हिमवतः पृष्ठे तेन मां फल्गुनं विदुः
पुरा शक्रेण मे दत्तं युध्यतो दानवर्षभैः
किरीटं मूर्ध्नि सूर्याभं तेन माहुः किरीटिनम्
न कुर्यां कर्म बीभत्सं युध्यमानः कथंचन
तेन देवमनुष्येषु बीभत्सुरिति मां विदुः
उभौ मे दक्षिणौ पाणी गाण्डीवस्य विकर्षणे
तेन देवमनुष्येषु सव्यसाचीति मां विदुः
पृथिव्यां चतुरन्तायां वर्णो मे दुर्लभः समः
करोमि कर्म शुक्लं च तेन मामर्जुनं विदुः
अहं दुरापो दुर्धर्षो दमनः पाकशासनिः
तेन देवमनुष्येषु जिष्णुनामास्मि विश्रुतः
कृष्ण इत्येव दशमं नाम चक्रे पिता मम
कृष्णावदातस्य सतः प्रियत्वाद्बालकस्य वै
वैशंपायन उवाच
ततः पार्थं स वैराटिरभ्यवादयदन्तिकात्
अहं भूमिंजयो नाम नाम्नाहमपि चोत्तरः
दिष्ट्या त्वां पार्थ पश्यामि स्वागतं ते धनंजय
लोहिताक्ष महाबाहो नागराजकरोपम
यदज्ञानादवोचं त्वां क्षन्तुमर्हसि तन्मम
यतस्त्वया कृतं पूर्वं विचित्रं कर्म दुष्करम्
अतो भयं व्यतीतं मे प्रीतिश्च परमा त्वयि
उत्तर उवाच
आस्थाय विपुलं वीर रथं सारथिना मया
कतमं यास्यसेऽनीकमुक्तो यास्याम्यहं त्वया
अर्जुन उवाच
प्रीतोऽस्मि पुरुषव्याघ्र न भयं विद्यते तव
सर्वान्नुदामि ते शत्रून्रणे रणविशारद
स्वस्थो भव महाबुद्धे पश्य मां शत्रुभिः सह
युध्यमानं विमर्देऽस्मिन्कुर्वाणं भैरवं महत्
एतान्सर्वानुपासङ्गान्क्षिप्रं बध्नीहि मे रथे
एतं चाहर निस्त्रिंशं जातरूपपरिष्कृतम्
अहं वै कुरुभिर्योत्स्याम्यवजेष्यामि ते पशून्
संकल्पपक्षविक्षेपं बाहुप्राकारतोरणम्
त्रिदण्डतूणसंबाधमनेकध्वजसंकुलम्
ज्याक्षेपणं क्रोधकृतं नेमीनिनददुन्दुभि
नगरं ते मया गुप्तं रथोपस्थं भविष्यति
अधिष्ठितो मया संख्ये रथो गाण्डीवधन्वना
अजेयः शत्रुसैन्यानां वैराटे व्येतु ते भयम्
उत्तर उवाच
बिभेमि नाहमेतेषां जानामि त्वां स्थिरं युधि
केशवेनापि संग्रामे साक्षादिन्द्रेण वा समम्
इदं तु चिन्तयन्नेव परिमुह्यामि केवलम्
निश्चयं चापि दुर्मेधा न गच्छामि कथंचन
एवं वीराङ्गरूपस्य लक्षणैरुचितस्य च
केन कर्मविपाकेन क्लीबत्वमिदमागतम्
मन्ये त्वां क्लीबवेषेण चरन्तं शूलपाणिनम्
गन्धर्वराजप्रतिमं देवं वापि शतक्रतुम्
अर्जुन उवाच
भ्रातुर्नियोगाज्ज्येष्ठस्य संवत्सरमिदं व्रतम्
चरामि ब्रह्मचर्यं वै सत्यमेतद्ब्रवीमि ते
नास्मि क्लीबो महाबाहो परवान्धर्मसंयुतः
समाप्तव्रतमुत्तीर्णं विद्धि मां त्वं नृपात्मज
उत्तर उवाच
परमोऽनुग्रहो मेऽद्य यत्प्रतर्को न मे वृथा
न हीदृशाः क्लीबरूपा भवन्तीह नरोत्तमाः
सहायवानस्मि रणे युध्येयममरैरपि
साध्वसं तत्प्रनष्टं मे किं करोमि ब्रवीहि मे
अहं ते संग्रहीष्यामि हयाञ्शत्रुरथारुजः
शिक्षितो ह्यस्मि सारथ्ये तीर्थतः पुरुषर्षभ
दारुको वासुदेवस्य यथा शक्रस्य मातलिः
तथा मां विद्धि सारथ्ये शिक्षितं नरपुंगव
यस्य याते न पश्यन्ति भूमौ प्राप्तं पदं पदम्
दक्षिणं यो धुरं युक्तः सुग्रीवसदृशो हयः
योऽयं धुरं धुर्यवरो वामं वहति शोभनः
तं मन्ये मेघपुष्पस्य जवेन सदृशं हयम्
योऽयं काञ्चनसंनाहः पार्ष्णिं वहति शोभनः
वामं सैन्यस्य मन्ये तं जवेन बलवत्तरम्
योऽयं वहति ते पार्ष्णिं दक्षिणामञ्चितोद्यतः
बलाहकादपि मतः स जवे वीर्यवत्तरः
त्वामेवायं रथो वोढुं संग्रामेऽर्हति धन्विनम्
त्वं चेमं रथमास्थाय योद्धुमर्हो मतो मम
वैशंपायन उवाच
ततो निर्मुच्य बाहुभ्यां वलयानि स वीर्यवान्
चित्रे दुन्दुभिसंनादे प्रत्यमुञ्चत्तले शुभे
कृष्णान्भङ्गीमतः केशाञ्श्वेतेनोद्ग्रथ्य वाससा
अधिज्यं तरसा कृत्वा गाण्डीवं व्याक्षिपद्धनुः
तस्य विक्षिप्यमाणस्य धनुषोऽभून्महास्वनः
यथा शैलस्य महतः शैलेनैवाभिजघ्नुषः
सनिर्घाताभवद्भूमिर्दिक्षु वायुर्ववौ भृशम्
भ्रान्तद्विजं खं तदासीत्प्रकम्पितमहाद्रुमम्
तं शब्दं कुरवोऽजानन्विस्फोटमशनेरिव
यदर्जुनो धनुःश्रेष्ठं बाहुभ्यामाक्षिपद्रथे
वैशंपायन उवाच
उत्तरं सारथिं कृत्वा शमीं कृत्वा प्रदक्षिणम्
आयुधं सर्वमादाय ततः प्रायाद्धनंजयः
ध्वजं सिंहं रथात्तस्मादपनीय महारथः
प्रणिधाय शमीमूले प्रायादुत्तरसारथिः
दैवीं मायां रथे युक्त्वा विहितां विश्वकर्मणा
काञ्चनं सिंहलाङ्गूलं ध्वजं वानरलक्षणम्
मनसा चिन्तयामास प्रसादं पावकस्य च
स च तच्चिन्तितं ज्ञात्वा ध्वजे भूतान्यचोदयत्
सपताकं विचित्राङ्गं सोपासङ्गं महारथः
रथमास्थाय बीभत्सुः कौन्तेयः श्वेतवाहनः
बद्धासिः सतनुत्राणः प्रगृहीतशरासनः
ततः प्रायादुदीचीं स कपिप्रवरकेतनः
स्वनवन्तं महाशङ्खं बलवानरिमर्दनः
प्राधमद्बलमास्थाय द्विषतां लोमहर्षणम्
ततस्ते जवना धुर्या जानुभ्यामगमन्महीम्
उत्तरश्चापि संत्रस्तो रथोपस्थ उपाविशत्
संस्थाप्य चाश्वान्कौन्तेयः समुद्यम्य च रश्मिभिः
उत्तरं च परिष्वज्य समाश्वासयदर्जुनः
मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोऽसि परंतप
कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि
श्रुतास्ते शङ्खशब्दाश्च भेरीशब्दाश्च पुष्कलाः
कुञ्जराणां च नदतां व्यूढानीकेषु तिष्ठताम्
स त्वं कथमिहानेन शङ्खशब्देन भीषितः
विषण्णरूपो वित्रस्तः पुरुषः प्राकृतो यथा
उत्तर उवाच
श्रुता मे शङ्खशब्दाश्च भेरीशब्दाश्च पुष्कलाः
कुञ्जराणां च निनदा व्यूढानीकेषु तिष्ठताम्
नैवंविधः शङ्खशब्दः पुरा जातु मया श्रुतः
ध्वजस्य चापि रूपं मे दृष्टपूर्वं न हीदृशम्
धनुषश्चैव निर्घोषः श्रुतपूर्वो न मे क्वचित्
अस्य शङ्खस्य शब्देन धनुषो निस्वनेन च
रथस्य च निनादेन मनो मुह्यति मे भृशम्
व्याकुलाश्च दिशः सर्वा हृदयं व्यथतीव मे
ध्वजेन पिहिताः सर्वा दिशो न प्रतिभान्ति मे
गाण्डीवस्य च शब्देन कर्णौ मे बधिरीकृतौ
अर्जुन उवाच
एकान्ते रथमास्थाय पद्भ्यां त्वमवपीडय
दृढं च रश्मीन्संयच्छ शङ्खं ध्मास्याम्यहं पुनः
वैशंपायन उवाच
तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च
गाण्डीवस्य च घोषेण पृथिवी समकम्पत
द्रोण उवाच
यथा रथस्य निर्घोषो यथा शङ्ख उदीर्यते
कम्पते च यथा भूमिर्नैषोऽन्यः सव्यसाचिनः
शस्त्राणि न प्रकाशन्ते न प्रहृष्यन्ति वाजिनः
अग्नयश्च न भासन्ते समिद्धास्तन्न शोभनम्
प्रत्यादित्यं च नः सर्वे मृगा घोरप्रवादिनः
ध्वजेषु च निलीयन्ते वायसास्तन्न शोभनम्
शकुनाश्चापसव्या नो वेदयन्ति महद्भयम्
गोमायुरेष सेनाया रुवन्मध्येऽनुधावति
अनाहतश्च निष्क्रान्तो महद्वेदयते भयम्
भवतां रोमकूपाणि प्रहृष्टान्युपलक्षये
पराभूता च वः सेना न कश्चिद्योद्धुमिच्छति
विवर्णमुखभूयिष्ठाः सर्वे योधा विचेतसः
गाः संप्रस्थाप्य तिष्ठामो व्यूढानीकाः प्रहारिणः
वैशंपायन उवाच
अथ दुर्योधनो राजा समरे भीष्ममब्रवीत्
द्रोणं च रथशार्दूलं कृपं च सुमहारथम्
उक्तोऽयमर्थ आचार्यो मया कर्णेन चासकृत्
पुनरेव च वक्ष्यामि न हि तृप्यामि तं ब्रुवन्
पराजितैर्हि वस्तव्यं तैश्च द्वादश वत्सरान्
वने जनपदेऽज्ञातैरेष एव पणो हि नः
तेषां न तावन्निर्वृत्तं वर्तते तु त्रयोदशम्
अज्ञातवासं बीभत्सुरथास्माभिः समागतः
अनिवृत्ते तु निर्वासे यदि बीभत्सुरागतः
पुनर्द्वादश वर्षाणि वने वत्स्यन्ति पाण्डवाः
लोभाद्वा ते न जानीयुरस्मान्वा मोह आविशत्
हीनातिरिक्तमेतेषां भीष्मो वेदितुमर्हति
अर्थानां तु पुनर्द्वैधे नित्यं भवति संशयः
अन्यथा चिन्तितो ह्यर्थः पुनर्भवति चान्यथा
उत्तरं मार्गमाणानां मत्स्यसेनां युयुत्सताम्
यदि बीभत्सुरायातस्तेषां कः स्यात्पराङ्मुखः
त्रिगर्तानां वयं हेतोर्मत्स्यान्योद्धुमिहागताः
मत्स्यानां विप्रकारांस्ते बहूनस्मानकीर्तयन्
तेषां भयाभिपन्नानां तदस्माभिः प्रतिश्रुतम्
प्रथमं तैर्ग्रहीतव्यं मत्स्यानां गोधनं महत्
सप्तमीमपराह्णे वै तथा नस्तैः समाहितम्
अष्टम्यां पुनरस्माभिरादित्यस्योदयं प्रति
ते वा गावो न पश्यन्ति यदि व स्युः पराजिताः
अस्मान्वाप्यतिसंधाय कुर्युर्मत्स्येन संगतम्
अथ वा तानुपायातो मत्स्यो जानपदैः सह
सर्वया सेनया सार्धमस्मान्योद्धुमुपागतः
तेषामेव महावीर्यः कश्चिदेव पुरःसरः
अस्माञ्जेतुमिहायातो मत्स्यो वापि स्वयं भवेत्
यद्येष राजा मत्स्यानां यदि बीभत्सुरागतः
सर्वैर्योद्धव्यमस्माभिरिति नः समयः कृतः
अथ कस्मात्स्थिता ह्येते रथेषु रथसत्तमाः
भीष्मो द्रोणः कृपश्चैव विकर्णो द्रौणिरेव च
संभ्रान्तमनसः सर्वे काले ह्यस्मिन्महारथाः
नान्यत्र युद्धाच्छ्रेयोऽस्ति तथात्मा प्रणिधीयताम्
आच्छिन्ने गोधनेऽस्माकमपि देवेन वज्रिणा
यमेन वापि संग्रामे को हास्तिनपुरं व्रजेत्
शरैरभिप्रणुन्नानां भग्नानां गहने वने
को हि जीवेत्पदातीनां भवेदश्वेषु संशयः
आचार्यं पृष्ठतः कृत्वा तथा नीतिर्विधीयताम्
जानाति हि मतं तेषामतस्त्रासयतीव नः
अर्जुनेनास्य संप्रीतिमधिकामुपलक्षये
तथा हि दृष्ट्वा बीभत्सुमुपायान्तं प्रशंसति
यथा सेना न भज्येत तथा नीतिर्विधीयताम्
अदेशिका महारण्ये ग्रीष्मे शत्रुवशं गता
यथा न विभ्रमेत्सेना तथा नीतिर्विधीयताम्
अश्वानां हेषितं श्रुत्वा का प्रशंसा भवेत्परे
स्थाने वापि व्रजन्तो वा सदा हेषन्ति वाजिनः
सदा च वायवो वान्ति नित्यं वर्षति वासवः
स्तनयित्नोश्च निर्घोषः श्रूयते बहुशस्तथा
किमत्र कार्यं पार्थस्य कथं वा स प्रशस्यते
अन्यत्र कामाद्द्वेषाद्वा रोषाद्वास्मासु केवलात्
आचार्या वै कारुणिकाः प्राज्ञाश्चापायदर्शिनः
नैते महाभये प्राप्ते संप्रष्टव्याः कथंचन
प्रासादेषु विचित्रेषु गोष्ठीष्वावसथेषु च
कथा विचित्राः कुर्वाणाः पण्डितास्तत्र शोभनाः
बहून्याश्चर्यरूपाणि कुर्वन्तो जनसंसदि
इष्वस्त्रे चारुसंधाने पण्डितास्तत्र शोभनाः
परेषां विवरज्ञाने मनुष्याचरितेषु च
अन्नसंस्कारदोषेषु पण्डितास्तत्र शोभनाः
पण्डितान्पृष्ठतः कृत्वा परेषां गुणवादिनः
विधीयतां तथा नीतिर्यथा वध्येत वै परः
गावश्चैव प्रतिष्ठन्तां सेनां व्यूहन्तु माचिरम्
आरक्षाश्च विधीयन्तां यत्र योत्स्यामहे परान्
कर्ण उवाच
सर्वानायुष्मतो भीतान्संत्रस्तानिव लक्षये
अयुद्धमनसश्चैव सर्वांश्चैवानवस्थितान्
यद्येष राजा मत्स्यानां यदि बीभत्सुरागतः
अहमावारयिष्यामि वेलेव मकरालयम्
मम चापप्रमुक्तानां शराणां नतपर्वणाम्
नावृत्तिर्गच्छतामस्ति सर्पाणामिव सर्पताम्
रुक्मपुङ्खाः सुतीक्ष्णाग्रा मुक्ता हस्तवता मया
छादयन्तु शराः पार्थं शलभा इव पादपम्
शराणां पुङ्खसक्तानां मौर्व्याभिहतया दृढम्
श्रूयतां तलयोः शब्दो भेर्योराहतयोरिव
समाहितो हि बीभत्सुर्वर्षाण्यष्टौ च पञ्च च
जातस्नेहश्च युद्धस्य मयि संप्रहरिष्यति
पात्रीभूतश्च कौन्तेयो ब्राह्मणो गुणवानिव
शरौघान्प्रतिगृह्णातु मया मुक्तान्सहस्रशः
एष चैव महेष्वासस्त्रिषु लोकेषु विश्रुतः
अहं चापि कुरुश्रेष्ठा अर्जुनान्नावरः क्वचित्
इतश्चेतश्च निर्मुक्तैः काञ्चनैर्गार्ध्रवाजितैः
दृश्यतामद्य वै व्योम खद्योतैरिव संवृतम्
अद्याहमृणमक्षय्यं पुरा वाचा प्रतिश्रुतम्
धार्तराष्ट्रस्य दास्यामि निहत्य समरेऽर्जुनम्
अन्तरा छिद्यमानानां पुङ्खानां व्यतिशीर्यताम्
शलभानामिवाकाशे प्रचारः संप्रदृश्यताम्
इन्द्राशनिसमस्पर्शं महेन्द्रसमतेजसम्
अर्दयिष्याम्यहं पार्थमुल्काभिरिव कुञ्जरम्
तमग्निमिव दुर्धर्षमसिशक्तिशरेन्धनम्
पाण्डवाग्निमहं दीप्तं प्रदहन्तमिवाहितान्
अश्ववेगपुरोवातो रथौघस्तनयित्नुमान्
शरधारो महामेघः शमयिष्यामि पाण्डवम्
मत्कार्मुकविनिर्मुक्ताः पार्थमाशीविषोपमाः
शराः समभिसर्पन्तु वल्मीकमिव पन्नगाः
जामदग्न्यान्मया ह्यस्त्रं यत्प्राप्तमृषिसत्तमात्
तदुपाश्रित्य वीर्यं च युध्येयमपि वासवम्
ध्वजाग्रे वानरस्तिष्ठन्भल्लेन निहतो मया
अद्यैव पततां भूमौ विनदन्भैरवान्रवान्
शत्रोर्मयाभिपन्नानां भूतानां ध्वजवासिनाम्
दिशः प्रतिष्ठमानानामस्तु शब्दो दिवं गतः
अद्य दुर्योधनस्याहं शल्यं हृदि चिरस्थितम्
समूलमुद्धरिष्यामि बीभत्सुं पातयन्रथात्
हताश्वं विरथं पार्थं पौरुषे पर्यवस्थितम्
निःश्वसन्तं यथा नागमद्य पश्यन्तु कौरवाः
कामं गच्छन्तु कुरवो धनमादाय केवलम्
रथेषु वापि तिष्ठन्तो युद्धं पश्यन्तु मामकम्
कृप उवाच
सदैव तव राधेय युद्धे क्रूरतरा मतिः
नार्थानां प्रकृतिं वेत्थ नानुबन्धमवेक्षसे
नया हि बहवः सन्ति शास्त्राण्याश्रित्य चिन्तिताः
तेषां युद्धं तु पापिष्ठं वेदयन्ति पुराविदः
देशकालेन संयुक्तं युद्धं विजयदं भवेत्
हीनकालं तदेवेह फलवन्न भवत्युत
देशे काले च विक्रान्तं कल्याणाय विधीयते
आनुकूल्येन कार्याणामन्तरं संविधीयताम्
भारं हि रथकारस्य न व्यवस्यन्ति पण्डिताः
परिचिन्त्य तु पार्थेन संनिपातो न नः क्षमः
एकः कुरूनभ्यरक्षदेकश्चाग्निमतर्पयत्
एकश्च पञ्च वर्षाणि ब्रह्मचर्यमधारयत्
एकः सुभद्रामारोप्य द्वैरथे कृष्णमाह्वयत्
अस्मिन्नेव वने कृष्णो हृतां कृष्णामवाजयत्
एकश्च पञ्च वर्षाणि शक्रादस्त्राण्यशिक्षत
एकः सांयमिनीं जित्वा कुरूणामकरोद्यशः
एको गन्धर्वराजानं चित्रसेनमरिंदमः
विजिग्ये तरसा संख्ये सेनां चास्य सुदुर्जयाम्
तथा निवातकवचाः कालखञ्जाश्च दानवाः
दैवतैरप्यवध्यास्ते एकेन युधि पातिताः
एकेन हि त्वया कर्ण किं नामेह कृतं पुरा
एकैकेन यथा तेषां भूमिपाला वशीकृताः
इन्द्रोऽपि हि न पार्थेन संयुगे योद्धुमर्हति
यस्तेनाशंसते योद्धुं कर्तव्यं तस्य भेषजम्
आशीविषस्य क्रुद्धस्य पाणिमुद्यम्य दक्षिणम्
अविमृश्य प्रदेशिन्या दंष्ट्रामादातुमिच्छसि
अथ वा कुञ्जरं मत्तमेक एव चरन्वने
अनङ्कुशं समारुह्य नगरं गन्तुमिच्छसि
समिद्धं पावकं वापि घृतमेदोवसाहुतम्
घृताक्तश्चीरवासास्त्वं मध्येनोत्तर्तुमिच्छसि
आत्मानं यः समुद्बध्य कण्ठे बद्ध्वा महाशिलाम्
समुद्रं प्रतरेद्दोर्भ्यां तत्र किं नाम पौरुषम्
अकृतास्त्रः कृतास्त्रं वै बलवन्तं सुदुर्बलः
तादृशं कर्ण यः पार्थं योद्धुमिच्छेत्स दुर्मतिः
अस्माभिरेष निकृतो वर्षाणीह त्रयोदश
सिंहः पाशविनिर्मुक्तो न नः शेषं करिष्यति
एकान्ते पार्थमासीनं कूपेऽग्निमिव संवृतम्
अज्ञानादभ्यवस्कन्द्य प्राप्ताः स्मो भयमुत्तमम्
सह युध्यामहे पार्थमागतं युद्धदुर्मदम्
सैन्यास्तिष्ठन्तु संनद्धा व्यूढानीकाः प्रहारिणः
द्रोणो दुर्योधनो भीष्मो भवान्द्रौणिस्तथा वयम्
सर्वे युध्यामहे पार्थं कर्ण मा साहसं कृथाः
वयं व्यवसितं पार्थं वज्रपाणिमिवोद्यतम्
षड्रथाः प्रतियुध्येम तिष्ठेम यदि संहताः
व्यूढानीकानि सैन्यानि यत्ताः परमधन्विनः
युध्यामहेऽर्जुनं संख्ये दानवा वासवं यथा
अश्वत्थामोवाच
न च तावज्जिता गावो न च सीमान्तरं गताः
न हास्तिनपुरं प्राप्तास्त्वं च कर्ण विकत्थसे
संग्रामान्सुबहूञ्जित्वा लब्ध्वा च विपुलं धनम्
विजित्य च परां भूमिं नाहुः किंचन पौरुषम्
पचत्यग्निरवाक्यस्तु तूष्णीं भाति दिवाकरः
तूष्णीं धारयते लोकान्वसुधा सचराचरान्
चातुर्वर्ण्यस्य कर्माणि विहितानि मनीषिभिः
धनं यैरधिगन्तव्यं यच्च कुर्वन्न दुष्यति
अधीत्य ब्राह्मणो वेदान्याजयेत यजेत च
क्षत्रियो धनुराश्रित्य यजेतैव न याजयेत्
वैश्योऽधिगम्य द्रव्याणि ब्रह्मकर्माणि कारयेत्
वर्तमाना यथाशास्त्रं प्राप्य चापि महीमिमाम्
सत्कुर्वन्ति महाभागा गुरून्सुविगुणानपि
प्राप्य द्यूतेन को राज्यं क्षत्रियस्तोष्टुमर्हति
तथा नृशंसरूपेण यथान्यः प्राकृतो जनः
तथावाप्तेषु वित्तेषु को विकत्थेद्विचक्षणः
निकृत्या वञ्चनायोगैश्चरन्वैतंसिको यथा
कतमद्द्वैरथं युद्धं यत्राजैषीर्धनंजयम्
नकुलं सहदेवं च धनं येषां त्वया हृतम्
युधिष्ठिरो जितः कस्मिन्भीमश्च बलिनां वरः
इन्द्रप्रस्थं त्वया कस्मिन्संग्रामे निर्जितं पुरा
तथैव कतमं युद्धं यस्मिन्कृष्णा जिता त्वया
एकवस्त्रा सभां नीता दुष्टकर्मन्रजस्वला
मूलमेषां महत्कृत्तं सारार्थी चन्दनं यथा
कर्म कारयिथाः शूर तत्र किं विदुरोऽब्रवीत्
यथाशक्ति मनुष्याणां शममालक्षयामहे
अन्येषां चैव सत्त्वानामपि कीटपिपीलिके
द्रौपद्यास्तं परिक्लेशं न क्षन्तुं पाण्डवोऽर्हति
दुःखाय धार्तराष्ट्राणां प्रादुर्भूतो धनंजयः
त्वं पुनः पण्डितो भूत्वा वाचं वक्तुमिहेच्छसि
वैरान्तकरणो जिष्णुर्न नः शेषं करिष्यति
नैष देवान्न गन्धर्वान्नासुरान्न च राक्षसान्
भयादिह न युध्येत कुन्तीपुत्रो धनंजयः
यं यमेषोऽभिसंक्रुद्धः संग्रामेऽभिपतिष्यति
वृक्षं गरुडवेगेन विनिहत्य तमेष्यति
त्वत्तो विशिष्टं वीर्येण धनुष्यमरराट्समम्
वासुदेवसमं युद्धे तं पार्थं को न पूजयेत्
दैवं दैवेन युध्येत मानुषेण च मानुषम्
अस्त्रेणास्त्रं समाहन्यात्कोऽर्जुनेन समः पुमान्
पुत्रादनन्तरः शिष्य इति धर्मविदो विदुः
एतेनापि निमित्तेन प्रियो द्रोणस्य पाण्डवः
यथा त्वमकरोर्द्यूतमिन्द्रप्रस्थं यथाहरः
यथानैषीः सभां कृष्णां तथा युध्यस्व पाण्डवम्
अयं ते मातुलः प्राज्ञः क्षत्रधर्मस्य कोविदः
दुर्द्यूतदेवी गान्धारः शकुनिर्युध्यतामिह
नाक्षान्क्षिपति गाण्डीवं न कृतं द्वापरं न च
ज्वलतो निशितान्बाणांस्तीक्ष्णान्क्षिपति गाण्डिवम्
न हि गाण्डीवनिर्मुक्ता गार्ध्रपत्राः सुतेजनाः
अन्तरेष्ववतिष्ठन्ति गिरीणामपि दारणाः
अन्तकः शमनो मृत्युस्तथाग्निर्वडवामुखः
कुर्युरेते क्वचिच्छेषं न तु क्रुद्धो धनंजयः
युध्यतां काममाचार्यो नाहं योत्स्ये धनंजयम्
मत्स्यो ह्यस्माभिरायोध्यो यद्यागच्छेद्गवां पदम्
भीष्म उवाच
साधु पश्यति वै द्रोणः कृपः साध्वनुपश्यति
कर्णस्तु क्षत्रधर्मेण यथावद्योद्धुमिच्छति
आचार्यो नाभिषक्तव्यः पुरुषेण विजानता
देशकालौ तु संप्रेक्ष्य योद्धव्यमिति मे मतिः
यस्य सूर्यसमाः पञ्च सपत्नाः स्युः प्रहारिणः
कथमभ्युदये तेषां न प्रमुह्येत पण्डितः
स्वार्थे सर्वे विमुह्यन्ति येऽपि धर्मविदो जनाः
तस्माद्राजन्ब्रवीम्येष वाक्यं ते यदि रोचते
कर्णो यदभ्यवोचन्नस्तेजःसंजननाय तत्
आचार्यपुत्रः क्षमतां महत्कार्यमुपस्थितम्
नायं कालो विरोधस्य कौन्तेये समुपस्थिते
क्षन्तव्यं भवता सर्वमाचार्येण कृपेण च
भवतां हि कृतास्त्रत्वं यथादित्ये प्रभा तथा
यथा चन्द्रमसो लक्ष्म सर्वथा नापकृष्यते
एवं भवत्सु ब्राह्मण्यं ब्रह्मास्त्रं च प्रतिष्ठितम्
चत्वार एकतो वेदाः क्षात्रमेकत्र दृश्यते
नैतत्समस्तमुभयं कस्मिंश्चिदनुशुश्रुमः
अन्यत्र भारताचार्यात्सपुत्रादिति मे मतिः
ब्रह्मास्त्रं चैव वेदाश्च नैतदन्यत्र दृश्यते
आचार्यपुत्रः क्षमतां नायं कालः स्वभेदने
सर्वे संहत्य युध्यामः पाकशासनिमागतम्
बलस्य व्यसनानीह यान्युक्तानि मनीषिभिः
मुख्यो भेदो हि तेषां वै पापिष्ठो विदुषां मतः
अश्वत्थामोवाच
आचार्य एव क्षमतां शान्तिरत्र विधीयताम्
अभिषज्यमाने हि गुरौ तद्वृत्तं रोषकारितम्
वैशंपायन उवाच
ततो दुर्योधनो द्रोणं क्षमयामास भारत
सह कर्णेन भीष्मेण कृपेण च महात्मना
द्रोण उवाच
यदेव प्रथमं वाक्यं भीष्मः शांतनवोऽब्रवीत्
तेनैवाहं प्रसन्नो वै परमत्र विधीयताम्
यथा दुर्योधनेऽयत्ते नागः स्पृशति सैनिकान्
साहसाद्यदि वा मोहात्तथा नीतिर्विधीयताम्
वनवासे ह्यनिर्वृत्ते दर्शयेन्न धनंजयः
धनं वालभमानोऽत्र नाद्य नः क्षन्तुमर्हति
यथा नायं समायुज्याद्धार्तराष्ट्रान्कथंचन
यथा च न पराजय्यात्तथा नीतिर्विधीयताम्
उक्तं दुर्योधनेनापि पुरस्ताद्वाक्यमीदृशम्
तदनुस्मृत्य गाङ्गेय यथावद्वक्तुमर्हसि
भीष्म उवाच
कलांशास्तात युज्यन्ते मुहूर्ताश्च दिनानि च
अर्धमासाश्च मासाश्च नक्षत्राणि ग्रहास्तथा
ऋतवश्चापि युज्यन्ते तथा संवत्सरा अपि
एवं कालविभागेन कालचक्रं प्रवर्तते
तेषां कालातिरेकेण ज्योतिषां च व्यतिक्रमात्
पञ्चमे पञ्चमे वर्षे द्वौ मासावुपजायतः
तेषामभ्यधिका मासाः पञ्च द्वादश च क्षपाः
त्रयोदशानां वर्षाणामिति मे वर्तते मतिः
सर्वं यथावच्चरितं यद्यदेभिः परिश्रुतम्
एवमेतद्ध्रुवं ज्ञात्वा ततो बीभत्सुरागतः
सर्वे चैव महात्मानः सर्वे धर्मार्थकोविदाः
येषां युधिष्ठिरो राजा कस्माद्धर्मेऽपराध्नुयुः
अलुब्धाश्चैव कौन्तेयाः कृतवन्तश्च दुष्करम्
न चापि केवलं राज्यमिच्छेयुस्तेऽनुपायतः
तदैव ते हि विक्रान्तुमीषुः कौरवनन्दनाः
धर्मपाशनिबद्धास्तु न चेलुः क्षत्रियव्रतात्
यच्चानृत इति ख्यायेद्यच्च गच्छेत्पराभवम्
वृणुयुर्मरणं पार्था नानृतत्वं कथंचन
प्राप्ते तु काले प्राप्तव्यं नोत्सृजेयुर्नरर्षभाः
अपि वज्रभृता गुप्तं तथावीर्या हि पाण्डवाः
प्रतियुध्याम समरे सर्वशस्त्रभृतां वरम्
तस्माद्यदत्र कल्याणं लोके सद्भिरनुष्ठितम्
तत्संविधीयतां क्षिप्रं मा नो ह्यर्थोऽतिगात्परान्
न हि पश्यामि संग्रामे कदाचिदपि कौरव
एकान्तसिद्धिं राजेन्द्र संप्राप्तश्च धनंजयः
संप्रवृत्ते तु संग्रामे भावाभावौ जयाजयौ
अवश्यमेकं स्पृशतो दृष्टमेतदसंशयम्
तस्माद्युद्धावचरिकं कर्म वा धर्मसंहितम्
क्रियतामाशु राजेन्द्र संप्राप्तो हि धनंजयः
दुर्योधन उवाच
नाहं राज्यं प्रदास्यामि पाण्डवानां पितामह
युद्धावचारिकं यत्तु तच्छीघ्रं संविधीयताम्
भीष्म उवाच
अत्र या मामकी बुद्धिः श्रूयतां यदि रोचते
क्षिप्रं बलचतुर्भागं गृह्य गच्छ पुरं प्रति
ततोऽपरश्चतुर्भागो गाः समादाय गच्छतु
वयं त्वर्धेन सैन्येन प्रतियोत्स्याम पाण्डवम्
मत्स्यं वा पुनरायातमथ वापि शतक्रतुम्
आचार्यो मध्यतस्तिष्ठत्वश्वत्थामा तु सव्यतः
कृपः शारद्वतो धीमान्पार्श्वं रक्षतु दक्षिणम्
अग्रतः सूतपुत्रस्तु कर्णस्तिष्ठतु दंशितः
अहं सर्वस्य सैन्यस्य पश्चात्स्थास्यामि पालयन्
वैशंपायन उवाच
तथा व्यूढेष्वनीकेषु कौरवेयैर्महारथैः
उपायादर्जुनस्तूर्णं रथघोषेण नादयन्
ददृशुस्ते ध्वजाग्रं वै शुश्रुवुश्च रथस्वनम्
दोधूयमानस्य भृशं गाण्डीवस्य च निस्वनम्
ततस्तत्सर्वमालोक्य द्रोणो वचनमब्रवीत्
महारथमनुप्राप्तं दृष्ट्वा गाण्डीवधन्विनम्
एतद्ध्वजाग्रं पार्थस्य दूरतः संप्रकाशते
एष घोषः सजलदो रोरवीति च वानरः
एष तिष्ठन्रथश्रेष्ठो रथे रथवरप्रणुत्
उत्कर्षति धनुःश्रेष्ठं गाण्डीवमशनिस्वनम्
इमौ हि बाणौ सहितौ पादयोर्मे व्यवस्थितौ
अपरौ चाप्यतिक्रान्तौ कर्णौ संस्पृश्य मे शरौ
निरुष्य हि वने वासं कृत्वा कर्मातिमानुषम्
अभिवादयते पार्थः श्रोत्रे च परिपृच्छति
अर्जुन उवाच
इषुपाते च सेनाया हयान्संयच्छ सारथे
यावत्समीक्षे सैन्येऽस्मिन्क्वासौ कुरुकुलाधमः
सर्वानन्याननादृत्य दृष्ट्वा तमतिमानिनम्
तस्य मूर्ध्नि पतिष्यामि तत एते पराजिताः
एष व्यवस्थितो द्रोणो द्रौणिश्च तदनन्तरम्
भीष्मः कृपश्च कर्णश्च महेष्वासा व्यवस्थिताः
राजानं नात्र पश्यामि गाः समादाय गच्छति
दक्षिणं मार्गमास्थाय शङ्के जीवपरायणः
उत्सृज्यैतद्रथानीकं गच्छ यत्र सुयोधनः
तत्रैव योत्स्ये वैराटे नास्ति युद्धं निरामिषम्
तं जित्वा विनिवर्तिष्ये गाः समादाय वै पुनः
वैशंपायन उवाच
एवमुक्तः स वैराटिर्हयान्संयम्य यत्नतः
नियम्य च ततो रश्मीन्यत्र ते कुरुपुंगवाः
अचोदयत्ततो वाहान्यतो दुर्योधनस्ततः
उत्सृज्य रथवंशं तु प्रयाते श्वेतवाहने
अभिप्रायं विदित्वास्य द्रोणो वचनमब्रवीत्
नैषोऽन्तरेण राजानं बीभत्सुः स्थातुमिच्छति
तस्य पार्ष्णिं ग्रहीष्यामो जवेनाभिप्रयास्यतः
न ह्येनमभिसंक्रुद्धमेको युध्येत संयुगे
अन्यो देवात्सहस्राक्षात्कृष्णाद्वा देवकीसुतात्
किं नो गावः करिष्यन्ति धनं वा विपुलं तथा
दुर्योधनः पार्थजले पुरा नौरिव मज्जति
तथैव गत्वा बीभत्सुर्नाम विश्राव्य चात्मनः
शलभैरिव तां सेनां शरैः शीघ्रमवाकिरत्
कीर्यमाणाः शरौघैस्तु योधास्ते पार्थचोदितैः
नापश्यन्नावृतां भूमिमन्तरिक्षं च पत्रिभिः
तेषां नात्मनिनो युद्धे नापयानेऽभवन्मतिः
शीघ्रत्वमेव पार्थस्य पूजयन्ति स्म चेतसा
ततः शङ्खं प्रदध्मौ स द्विषतां लोमहर्षणम्
विस्फार्य च धनुःश्रेष्ठं ध्वजे भूतान्यचोदयत्
तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च
अमानुषाणां तेषां च भूतानां ध्वजवासिनाम्
ऊर्ध्वं पुच्छान्विधुन्वाना रेभमाणाः समन्ततः
गावः प्रतिन्यवर्तन्त दिशमास्थाय दक्षिणाम्
वैशंपायन उवाच
स शत्रुसेनां तरसा प्रणुद्य; गास्ता विजित्याथ धनुर्धराग्र्यः
दुर्योधनायाभिमुखं प्रयातो; भूयोऽर्जुनः प्रियमाजौ चिकीर्षन्
गोषु प्रयातासु जवेन मत्स्या;न्किरीटिनं कृतकार्यं च मत्वा
दुर्योधनायाभिमुखं प्रयान्तं; कुरुप्रवीराः सहसाभिपेतुः
तेषामनीकानि बहूनि गाढं; व्यूढानि दृष्ट्वा बहुलध्वजानि
मत्स्यस्य पुत्रं द्विषतां निहन्ता; वैराटिमामन्त्र्य ततोऽभ्युवाच
एतेन तूर्णं प्रतिपादयेमा;ञ्श्वेतान्हयान्काञ्चनरश्मियोक्त्रान्
जवेन सर्वेण कुरु प्रयत्न;मासादयैतद्रथसिंहवृन्दम्
गजो गजेनेव मया दुरात्मा; यो योद्धुमाकाङ्क्षति सूतपुत्रः
तमेव मां प्रापय राजपुत्र; दुर्योधनापाश्रयजातदर्पम्
स तैर्हयैर्वातजवैर्बृहद्भिः; पुत्रो विराटस्य सुवर्णकक्ष्यैः
विध्वंसयंस्तद्रथिनामनीकं; ततोऽवहत्पाण्डवमाजिमध्ये
तं चित्रसेनो विशिखैर्विपाठैः; संग्रामजिच्छत्रुसहो जयश्च
प्रत्युद्ययुर्भारतमापतन्तं; महारथाः कर्णमभीप्समानाः
ततः स तेषां पुरुषप्रवीरः; शरासनार्चिः शरवेगतापः
व्रातान्रथानामदहत्स मन्यु;र्वनं यथाग्निः कुरुपुंगवानाम्
तस्मिंस्तु युद्धे तुमुले प्रवृत्ते; पार्थं विकर्णोऽतिरथं रथेन
विपाठवर्षेण कुरुप्रवीरो; भीमेन भीमानुजमाससाद
ततो विकर्णस्य धनुर्विकृष्य; जाम्बूनदाग्र्योपचितं दृढज्यम्
अपातयद्ध्वजमस्य प्रमथ्य; छिन्नध्वजः सोऽप्यपयाज्जवेन
तं शात्रवाणां गणबाधितारं; कर्माणि कुर्वाणममानुषाणि
शत्रुंतपः कोपममृष्यमाणः; समर्पयत्कूर्मनखेन पार्थम्
स तेन राज्ञातिरथेन विद्धो; विगाहमानो ध्वजिनीं कुरूणाम्
शत्रुंतपं पञ्चभिराशु विद्ध्वा; ततोऽस्य सूतं दशभिर्जघान
ततः स विद्धो भरतर्षभेण; बाणेन गात्रावरणातिगेन
गतासुराजौ निपपात भूमौ; नगो नगाग्रादिव वातरुग्णः
रथर्षभास्ते तु रथर्षभेण; वीरा रणे वीरतरेण भग्नाः
चकम्पिरे वातवशेन काले; प्रकम्पितानीव महावनानि
हतास्तु पार्थेन नरप्रवीरा; भूमौ युवानः सुषुपुः सुवेषाः
वसुप्रदा वासवतुल्यवीर्याः; पराजिता वासवजेन संख्ये
सुवर्णकार्ष्णायसवर्मनद्धा; नागा यथा हैमवताः प्रवृद्धाः
तथा स शत्रून्समरे विनिघ्न;न्गाण्डीवधन्वा पुरुषप्रवीरः
चचार संख्ये प्रदिशो दिशश्च; दहन्निवाग्निर्वनमातपान्ते
प्रकीर्णपर्णानि यथा वसन्ते; विशातयित्वात्यनिलो नुदन्खे
तथा सपत्नान्विकिरन्किरीटी; चचार संख्येऽतिरथो रथेन
शोणाश्ववाहस्य हयान्निहत्य; वैकर्तनभ्रातुरदीनसत्त्वः
एकेन संग्रामजितः शरेण; शिरो जहाराथ किरीटमाली
तस्मिन्हते भ्रातरि सूतपुत्रो; वैकर्तनो वीर्यमथाददानः
प्रगृह्य दन्ताविव नागराजो; महर्षभं व्याघ्र इवाभ्यधावत्
स पाण्डवं द्वादशभिः पृषत्कै;र्वैकर्तनः शीघ्रमुपाजघान
विव्याध गात्रेषु हयांश्च सर्वा;न्विराटपुत्रं च शरैर्निजघ्ने
स हस्तिनेवाभिहतो गजेन्द्रः; प्रगृह्य भल्लान्निशितान्निषङ्गात्
आकर्णपूर्णं च धनुर्विकृष्य; विव्याध बाणैरथ सूतपुत्रम्
अथास्य बाहूरुशिरोललाटं; ग्रीवां रथाङ्गानि परावमर्दी
स्थितस्य बाणैर्युधि निर्बिभेद; गाण्डीवमुक्तैरशनिप्रकाशैः
स पार्थमुक्तैर्विशिखैः प्रणुन्नो; गजो गजेनेव जितस्तरस्वी
विहाय संग्रामशिरः प्रयातो; वैकर्तनः पाण्डवबाणतप्तः
वैशंपायन उवाच
अपयाते तु राधेये दुर्योधनपुरोगमाः
अनीकेन यथास्वेन शरैरार्च्छन्त पाण्डवम्
बहुधा तस्य सैन्यस्य व्यूढस्यापततः शरैः
अभियानीयमाज्ञाय वैराटिरिदमब्रवीत्
आस्थाय रुचिरं जिष्णो रथं सारथिना मया
कतमद्यास्यसेऽनीकमुक्तो यास्याम्यहं त्वया
अर्जुन उवाच
लोहिताक्षमरिष्टं यं वैयाघ्रमनुपश्यसि
नीलां पताकामाश्रित्य रथे तिष्ठन्तमुत्तर
कृपस्यैतद्रथानीकं प्रापयस्वैतदेव माम्
एतस्य दर्शयिष्यामि शीघ्रास्त्रं दृढधन्विनः
कमण्डलुर्ध्वजे यस्य शातकुम्भमयः शुभः
आचार्य एष वै द्रोणः सर्वशस्त्रभृतां वरः
सुप्रसन्नमना वीर कुरुष्वैनं प्रदक्षिणम्
अत्रैव चाविरोधेन एष धर्मः सनातनः
यदि मे प्रथमं द्रोणः शरीरे प्रहरिष्यति
ततोऽस्य प्रहरिष्यामि नास्य कोपो भविष्यति
अस्याविदूरे तु धनुर्ध्वजाग्रे यस्य दृश्यते
आचार्यस्यैष पुत्रो वै अश्वत्थामा महारथः
सदा ममैष मान्यश्च सर्वशस्त्रभृतामपि
एतस्य त्वं रथं प्राप्य निवर्तेथाः पुनः पुनः
य एष तु रथानीके सुवर्णकवचावृतः
सेनाग्र्येण तृतीयेन व्यवहार्येण तिष्ठति
यस्य नागो ध्वजाग्रे वै हेमकेतनसंश्रितः
धृतराष्ट्रात्मजः श्रीमानेष राजा सुयोधनः
एतस्याभिमुखं वीर रथं पररथारुजः
प्रापयस्वैष तेजोभिप्रमाथी युद्धदुर्मदः
एष द्रोणस्य शिष्याणां शीघ्रास्त्रः प्रथमो मतः
एतस्य दर्शयिष्यामि शीघ्रास्त्रं विपुलं शरैः
नागकक्ष्या तु रुचिरा ध्वजाग्रे यस्य तिष्ठति
एष वैकर्तनः कर्णो विदितः पूर्वमेव ते
एतस्य रथमास्थाय राधेयस्य दुरात्मनः
यत्तो भवेथाः संग्रामे स्पर्धत्येष मया सदा
यस्तु नीलानुसारेण पञ्चतारेण केतुना
हस्तावापी बृहद्धन्वा रथे तिष्ठति वीर्यवान्
यस्य तारार्कचित्रोऽसौ रथे ध्वजवरः स्थितः
यस्यैतत्पाण्डुरं छत्रं विमलं मूर्ध्नि तिष्ठति
महतो रथवंशस्य नानाध्वजपताकिनः
बलाहकाग्रे सूर्यो वा य एष प्रमुखे स्थितः
हैमं चन्द्रार्कसंकाशं कवचं यस्य दृश्यते
जातरूपशिरस्त्राणस्त्रासयन्निव मे मनः
एष शांतनवो भीष्मः सर्वेषां नः पितामहः
राजश्रियावबद्धस्तु दुर्योधनवशानुगः
पश्चादेष प्रयातव्यो न मे विघ्नकरो भवेत्
एतेन युध्यमानस्य यत्तः संयच्छ मे हयान्
ततोऽभ्यवहदव्यग्रो वैराटिः सव्यसाचिनम्
यत्रातिष्ठत्कृपो राजन्योत्स्यमानो धनंजयम्
वैशंपायन उवाच
तान्यनीकान्यदृश्यन्त कुरूणामुग्रधन्विनाम्
संसर्पन्तो यथा मेघा घर्मान्ते मन्दमारुताः
अभ्याशे वाजिनस्तस्थुः समारूढाः प्रहारिभिः
भीमरूपाश्च मातङ्गास्तोमराङ्कुशचोदिताः
ततः शक्रः सुरगणैः समारुह्य सुदर्शनम्
सहोपायात्तदा राजन्विश्वाश्विमरुतां गणैः
तद्देवयक्षगन्धर्वमहोरगसमाकुलम्
शुशुभेऽभ्रविनिर्मुक्तं ग्रहैरिव नभस्तलम्
अस्त्राणां च बलं तेषां मानुषेषु प्रयुज्यताम्
तच्च घोरं महद्युद्धं भीष्मार्जुनसमागमे
शतं शतसहस्राणां यत्र स्थूणा हिरण्मयाः
मणिरत्नमयाश्चान्याः प्रासादमुपधारयन्
तत्र कामगमं दिव्यं सर्वरत्नविभूषितम्
विमानं देवराजस्य शुशुभे खेचरं तदा
तत्र देवास्त्रयस्त्रिंशत्तिष्ठन्ति सहवासवाः
गन्धर्वा राक्षसाः सर्पाः पितरश्च महर्षिभिः
तथा राजा वसुमना बलाक्षः सुप्रतर्दनः
अष्टकश्च शिबिश्चैव ययातिर्नहुषो गयः
मनुः क्षुपो रघुर्भानुः कृशाश्वः सगरः शलः
विमाने देवराजस्य समदृश्यन्त सुप्रभाः
अग्नेरीशस्य सोमस्य वरुणस्य प्रजापतेः
तथा धातुर्विधातुश्च कुबेरस्य यमस्य च
अलम्बुसोग्रसेनस्य गन्धर्वस्य च तुम्बुरोः
यथाभागं यथोद्देशं विमानानि चकाशिरे
सर्वदेवनिकायाश्च सिद्धाश्च परमर्षयः
अर्जुनस्य कुरूणां च द्रष्टुं युद्धमुपागताः
दिव्यानां तत्र माल्यानां गन्धः पुण्योऽथ सर्वशः
प्रससार वसन्ताग्रे वनानामिव पुष्पताम्
रक्तारक्तानि देवानां समदृश्यन्त तिष्ठताम्
आतपत्राणि वासांसि स्रजश्च व्यजनानि च
उपशाम्यद्रजो भौमं सर्वं व्याप्तं मरीचिभिः
दिव्यान्गन्धानुपादाय वायुर्योधानसेवत
प्रभासितमिवाकाशं चित्ररूपमलंकृतम्
संपतद्भिः स्थितैश्चैव नानारत्नावभासितैः
विमानैर्विविधैश्चित्रैरुपानीतैः सुरोत्तमैः
वैशंपायन उवाच
एतस्मिन्नन्तरे तत्र महावीर्यपराक्रमः
आजगाम महासत्त्वः कृपः शस्त्रभृतां वरः
अर्जुनं प्रति संयोद्धुं युद्धार्थी स महारथः
तौ रथौ सूर्यसंकाशौ योत्स्यमानौ महाबलौ
शारदाविव जीमूतौ व्यरोचेतां व्यवस्थितौ
पार्थोऽपि विश्रुतं लोके गाण्डीवं परमायुधम्
विकृष्य चिक्षेप बहून्नाराचान्मर्मभेदिनः
तानप्राप्ताञ्शितैर्बाणैर्नाराचान्रक्तभोजनान्
कृपश्चिच्छेद पार्थस्य शतशोऽथ सहस्रशः
ततः पार्थश्च संक्रुद्धश्चित्रान्मार्गान्प्रदर्शयन्
दिशः संछादयन्बाणैः प्रदिशश्च महारथः
एकच्छायमिवाकाशं प्रकुर्वन्सर्वतः प्रभुः
प्रच्छादयदमेयात्मा पार्थः शरशतैः कृपम्
स शरैरर्पितः क्रुद्धः शितैरग्निशिखोपमैः
तूर्णं शरसहस्रेण पार्थमप्रतिमौजसम्
अर्पयित्वा महात्मानं ननाद समरे कृपः
ततः कनकपुङ्खाग्रैर्वीरः संनतपर्वभिः
त्वरन्गाण्डीवनिर्मुक्तैरर्जुनस्तस्य वाजिनः
चतुर्भिश्चतुरस्तीक्ष्णैरविध्यत्परमेषुभिः
ते हया निशितैर्विद्धा ज्वलद्भिरिव पन्नगैः
उत्पेतुः सहसा सर्वे कृपः स्थानादथाच्यवत्
च्युतं तु गौतमं स्थानात्समीक्ष्य कुरुनन्दनः
नाविध्यत्परवीरघ्नो रक्षमाणोऽस्य गौरवम्
स तु लब्ध्वा पुनः स्थानं गौतमः सव्यसाचिनम्
विव्याध दशभिर्बाणैस्त्वरितः कङ्कपत्रिभिः
ततः पार्थो धनुस्तस्य भल्लेन निशितेन च
चिच्छेदैकेन भूयश्च हस्ताच्चापमथाहरत्
अथास्य कवचं बाणैर्निशितैर्मर्मभेदिभिः
व्यधमन्न च पार्थोऽस्य शरीरमवपीडयत्
तस्य निर्मुच्यमानस्य कवचात्काय आबभौ
समये मुच्यमानस्य सर्पस्येव तनुर्यथा
छिन्ने धनुषि पार्थेन सोऽन्यदादाय कार्मुकम्
चकार गौतमः सज्यं तदद्भुतमिवाभवत्
स तदप्यस्य कौन्तेयश्चिच्छेद नतपर्वणा
एवमन्यानि चापानि बहूनि कृतहस्तवत्
शारद्वतस्य चिच्छेद पाण्डवः परवीरहा
स छिन्नधनुरादाय अथ शक्तिं प्रतापवान्
प्राहिणोत्पाण्डुपुत्राय प्रदीप्तामशनीमिव
तामर्जुनस्तदायान्तीं शक्तिं हेमविभूषिताम्
वियद्गतां महोल्काभां चिच्छेद दशभिः शरैः
सापतद्दशधा छिन्ना भूमौ पार्थेन धीमता
युगमध्ये तु भल्लैस्तु ततः स सधनुः कृपः
तमाशु निशितैः पार्थं बिभेद दशभिः शरैः
ततः पार्थो महातेजा विशिखानग्नितेजसः
चिक्षेप समरे क्रुद्धस्त्रयोदश शिलाशितान्
अथास्य युगमेकेन चतुर्भिश्चतुरो हयान्
षष्ठेन च शिरः कायाच्छरेण रथसारथेः
त्रिभिस्त्रिवेणुं समरे द्वाभ्यामक्षौ महाबलः
द्वादशेन तु भल्लेन चकर्तास्य ध्वजं तथा
ततो वज्रनिकाशेन फल्गुनः प्रहसन्निव
त्रयोदशेनेन्द्रसमः कृपं वक्षस्यताडयत्
स छिन्नधन्वा विरथो हताश्वो हतसारथिः
गदापाणिरवप्लुत्य तूर्णं चिक्षेप तां गदाम्
सा तु मुक्ता गदा गुर्वी कृपेण सुपरिष्कृता
अर्जुनेन शरैर्नुन्ना प्रतिमार्गमथागमत्
ततो योधाः परीप्सन्तः शारद्वतममर्षणम्
सर्वतः समरे पार्थं शरवर्षैरवाकिरन्
ततो विराटस्य सुतः सव्यमावृत्य वाजिनः
यमकं मण्डलं कृत्वा तान्योधान्प्रत्यवारयत्
ततः कृपमुपादाय विरथं ते नरर्षभाः
अपाजह्रुर्महावेगाः कुन्तीपुत्राद्धनंजयात्
अर्जुन उवाच
यत्रैषा काञ्चनी वेदी प्रदीप्ताग्निशिखोपमा
उच्छ्रिता काञ्चने दण्डे पताकाभिरलंकृता
तत्र मां वह भद्रं ते द्रोणानीकाय मारिष
अश्वाः शोणाः प्रकाशन्ते बृहन्तश्चारुवाहिनः
स्निग्धविद्रुमसंकाशास्ताम्रास्याः प्रियदर्शनाः
युक्ता रथवरे यस्य सर्वशिक्षाविशारदाः
दीर्घबाहुर्महातेजा बलरूपसमन्वितः
सर्वलोकेषु विख्यातो भारद्वाजः प्रतापवान्
बुद्ध्या तुल्यो ह्युशनसा बृहस्पतिसमो नये
वेदास्तथैव चत्वारो ब्रह्मचर्यं तथैव च
ससंहाराणि दिव्यानि सर्वाण्यस्त्राणि मारिष
धनुर्वेदश्च कार्त्स्न्येन यस्मिन्नित्यं प्रतिष्ठितः
क्षमा दमश्च सत्यं च आनृशंस्यमथार्जवम्
एते चान्ये च बहवो गुणा यस्मिन्द्विजोत्तमे
तेनाहं योद्धुमिच्छामि महाभागेन संयुगे
तस्मात्त्वं प्रापयाचार्यं क्षिप्रमुत्तर वाहय
वैशंपायन उवाच
अर्जुनेनैवमुक्तस्तु वैराटिर्हेमभूषितान्
चोदयामास तानश्वान्भारद्वाजरथं प्रति
तमापतन्तं वेगेन पाण्डवं रथिनां वरम्
द्रोणः प्रत्युद्ययौ पार्थं मत्तो मत्तमिव द्विपम्
ततः प्राध्मापयच्छङ्खं भेरीशतनिनादितम्
प्रचुक्षुभे बलं सर्वमुद्धूत इव सागरः
अथ शोणान्सदश्वांस्तान्हंसवर्णैर्मनोजवैः
मिश्रितान्समरे दृष्ट्वा व्यस्मयन्त रणे जनाः
तौ रथौ वीर्यसंपन्नौ दृष्ट्वा संग्राममूर्धनि
आचार्यशिष्यावजितौ कृतविद्यौ मनस्विनौ
समाश्लिष्टौ तदान्योन्यं द्रोणपार्थौ महाबलौ
दृष्ट्वा प्राकम्पत मुहुर्भरतानां महद्बलम्
हर्षयुक्तस्तथा पार्थः प्रहसन्निव वीर्यवान्
रथं रथेन द्रोणस्य समासाद्य महारथः
अभिवाद्य महाबाहुः सान्त्वपूर्वमिदं वचः
उवाच श्लक्ष्णया वाचा कौन्तेयः परवीरहा
उषिताः स्म वने वासं प्रतिकर्म चिकीर्षवः
कोपं नार्हसि नः कर्तुं सदा समरदुर्जय
अहं तु प्रहृते पूर्वं प्रहरिष्यामि तेऽनघ
इति मे वर्तते बुद्धिस्तद्भवान्कर्तुमर्हति
ततोऽस्मै प्राहिणोद्द्रोणः शरानधिकविंशतिम्
अप्राप्तांश्चैव तान्पार्थश्चिच्छेद कृतहस्तवत्
ततः शरसहस्रेण रथं पार्थस्य वीर्यवान्
अवाकिरत्ततो द्रोणः शीघ्रमस्त्रं विदर्शयन्
एवं प्रववृते युद्धं भारद्वाजकिरीटिनोः
समं विमुञ्चतोः संख्ये विशिखान्दीप्ततेजसः
तावुभौ ख्यातकर्माणावुभौ वायुसमौ जवे
उभौ दिव्यास्त्रविदुषावुभावुत्तमतेजसौ
क्षिपन्तौ शरजालानि मोहयामासतुर्नृपान्
व्यस्मयन्त ततो योधाः सर्वे तत्र समागताः
शरान्विसृजतोस्तूर्णं साधु साध्विति पूजयन्
द्रोणं हि समरे कोऽन्यो योद्धुमर्हति फल्गुनात्
रौद्रः क्षत्रियधर्मोऽयं गुरुणा यदयुध्यत
इत्यब्रुवञ्जनास्तत्र संग्रामशिरसि स्थिताः
वीरौ तावपि संरब्धौ संनिकृष्टौ महारथौ
छादयेतां शरव्रातैरन्योन्यमपराजितौ
विस्फार्य सुमहच्चापं हेमपृष्ठं दुरासदम्
संरब्धोऽथ भरद्वाजः फल्गुनं प्रत्ययुध्यत
स सायकमयैर्जालैरर्जुनस्य रथं प्रति
भानुमद्भिः शिलाधौतैर्भानोः प्रच्छादयत्प्रभाम्
पार्थं च स महाबाहुर्महावेगैर्महारथः
विव्याध निशितैर्बाणैर्मेघो वृष्ट्येव पर्वतम्
तथैव दिव्यं गाण्डीवं धनुरादाय पाण्डवः
शत्रुघ्नं वेगवद्धृष्टो भारसाधनमुत्तमम्
विससर्ज शरांश्चित्रान्सुवर्णविकृतान्बहून्
नाशयञ्शरवर्षाणि भारद्वाजस्य वीर्यवान्
तूर्णं चापविनिर्मुक्तैस्तदद्भुतमिवाभवत्
स रथेन चरन्पार्थः प्रेक्षणीयो धनंजयः
युगपद्दिक्षु सर्वासु सर्वशस्त्राण्यदर्शयत्
एकच्छायमिवाकाशं बाणैश्चक्रे समन्ततः
नादृश्यत तदा द्रोणो नीहारेणेव संवृतः
तस्याभवत्तदा रूपं संवृतस्य शरोत्तमैः
जाज्वल्यमानस्य यथा पर्वतस्येव सर्वतः
दृष्ट्वा तु पार्थस्य रणे शरैः स्वरथमावृतम्
स विस्फार्य धनुश्चित्रं मेघस्तनितनिस्वनम्
अग्निचक्रोपमं घोरं विकर्षन्परमायुधम्
व्यशातयच्छरांस्तांस्तु द्रोणः समितिशोभनः
महानभूत्ततः शब्दो वंशानामिव दह्यताम्
जाम्बूनदमयैः पुङ्खैश्चित्रचापवरातिगैः
प्राच्छादयदमेयात्मा दिशः सूर्यस्य च प्रभाम्
ततः कनकपुङ्खानां शराणां नतपर्वणाम्
वियच्चराणां वियति दृश्यन्ते बहुशः प्रजाः
द्रोणस्य पुङ्खसक्ताश्च प्रभवन्तः शरासनात्
एको दीर्घ इवादृश्यदाकाशे संहतः शरः
एवं तौ स्वर्णविकृतान्विमुञ्चन्तौ महाशरान्
आकाशं संवृतं वीरावुल्काभिरिव चक्रतुः
शरास्तयोश्च विबभुः कङ्कबर्हिणवाससः
पङ्क्त्यः शरदि खस्थानां हंसानां चरतामिव
युद्धं समभवत्तत्र सुसंरब्धं महात्मनोः
द्रोणपाण्डवयोर्घोरं वृत्रवासवयोरिव
तौ गजाविव चासाद्य विषाणाग्रैः परस्परम्
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः
तौ व्यवाहरतां शूरौ संरब्धौ रणशोभिनौ
उदीरयन्तौ समरे दिव्यान्यस्त्राणि भागशः
अथ त्वाचार्यमुख्येन शरान्सृष्टाञ्शिलाशितान्
न्यवारयच्छितैर्बाणैरर्जुनो जयतां वरः
दर्शयन्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः
इषुभिस्तूर्णमाकाशं बहुभिश्च समावृणोत्
जिघांसन्तं नरव्याघ्रमर्जुनं तिग्मतेजसम्
आचार्यमुख्यः समरे द्रोणः शस्त्रभृतां वरः
अर्जुनेन सहाक्रीडच्छरैः संनतपर्वभिः
दिव्यान्यस्त्राणि मुञ्चन्तं भारद्वाजं महारणे
अस्त्रैरस्त्राणि संवार्य फल्गुनः समयोधयत्
तयोरासीत्संप्रहारः क्रुद्धयोर्नरसिंहयोः
अमर्षिणोस्तदान्योन्यं देवदानवयोरिव
ऐन्द्रं वायव्यमाग्नेयमस्त्रमस्त्रेण पाण्डवः
द्रोणेन मुक्तं मुक्तं तु ग्रसते स्म पुनः पुनः
एवं शूरौ महेष्वासौ विसृजन्तौ शिताञ्शरान्
एकच्छायं चक्रतुस्तावाकाशं शरवृष्टिभिः
ततोऽर्जुनेन मुक्तानां पततां च शरीरिषु
पर्वतेष्विव वज्राणां शराणां श्रूयते स्वनः
ततो नागा रथाश्चैव सादिनश्च विशां पते
शोणिताक्ता व्यदृश्यन्त पुष्पिता इव किंशुकाः
बाहुभिश्च सकेयूरैर्विचित्रैश्च महारथैः
सुवर्णचित्रैः कवचैर्ध्वजैश्च विनिपातितैः
योधैश्च निहतैस्तत्र पार्थबाणप्रपीडितैः
बलमासीत्समुद्भ्रान्तं द्रोणार्जुनसमागमे
विधुन्वानौ तु तौ वीरौ धनुषी भारसाधने
आच्छादयेतामन्योन्यं तितक्षन्तौ रणेषुभिः
अथान्तरिक्षे नादोऽभूद्द्रोणं तत्र प्रशंसताम्
दुष्करं कृतवान्द्रोणो यदर्जुनमयोधयत्
प्रमाथिनं महावीर्यं दृढमुष्टिं दुरासदम्
जेतारं देवदैत्यानां सर्पाणां च महारथम्
अविश्रमं च शिक्षां च लाघवं दूरपातिताम्
पार्थस्य समरे दृष्ट्वा द्रोणस्याभूच्च विस्मयः
अथ गाण्डीवमुद्यम्य दिव्यं धनुरमर्षणः
विचकर्ष रणे पार्थो बाहुभ्यां भरतर्षभ
तस्य बाणमयं वर्षं शलभानामिवायतम्
न च बाणान्तरे वायुरस्य शक्नोति सर्पितुम्
अनिशं संदधानस्य शरानुत्सृजतस्तदा
ददृशे नान्तरं किंचित्पार्थस्याददतोऽपि च
तथा शीघ्रास्त्रयुद्धे तु वर्तमाने सुदारुणे
शीघ्राच्छीघ्रतरं पार्थः शरानन्यानुदीरयत्
ततः शतसहस्राणि शराणां नतपर्वणाम्
युगपत्प्रापतंस्तत्र द्रोणस्य रथमन्तिकात्
अवकीर्यमाणे द्रोणे तु शरैर्गाण्डीवधन्वना
हाहाकारो महानासीत्सैन्यानां भरतर्षभ
पाण्डवस्य तु शीघ्रास्त्रं मघवान्समपूजयत्
गन्धर्वाप्सरसश्चैव ये च तत्र समागताः
ततो वृन्देन महता रथानां रथयूथपः
आचार्यपुत्रः सहसा पाण्डवं प्रत्यवारयत्
अश्वत्थामा तु तत्कर्म हृदयेन महात्मनः
पूजयामास पार्थस्य कोपं चास्याकरोद्भृशम्
स मन्युवशमापन्नः पार्थमभ्यद्रवद्रणे
किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान्
आवृत्य तु महाबाहुर्यतो द्रौणिस्ततो हयान्
अन्तरं प्रददौ पार्थो द्रोणस्य व्यपसर्पितुम्
स तु लब्ध्वान्तरं तूर्णमपायाज्जवनैर्हयैः
छिन्नवर्मध्वजः शूरो निकृत्तः परमेषुभिः
वैशंपायन उवाच
तं पार्थः प्रतिजग्राह वायुवेगमिवोद्धतम्
शरजालेन महता वर्षमाणमिवाम्बुदम्
तयोर्देवासुरसमः संनिपातो महानभूत्
किरतोः शरजालानि वृत्रवासवयोरिव
न स्म सूर्यस्तदा भाति न च वाति समीरणः
शरगाढे कृते व्योम्नि छायाभूते समन्ततः
महांश्चटचटाशब्दो योधयोर्हन्यमानयोः
दह्यतामिव वेणूनामासीत्परपुरंजय
हयानस्यार्जुनः सर्वान्कृतवानल्पजीवितान्
स राजन्न प्रजानाति दिशं कांचन मोहितः
ततो द्रौणिर्महावीर्यः पार्थस्य विचरिष्यतः
विवरं सूक्ष्ममालोक्य ज्यां चिच्छेद क्षुरेण ह
तदस्यापूजयन्देवाः कर्म दृष्ट्वातिमानुषम्
ततो द्रौणिर्धनूंष्यष्टौ व्यपक्रम्य नरर्षभम्
पुनरभ्याहनत्पार्थं हृदये कङ्कपत्रिभिः
ततः पार्थो महाबाहुः प्रहस्य स्वनवत्तदा
योजयामास नवया मौर्व्या गाण्डीवमोजसा
ततोऽर्धचन्द्रमावृत्य तेन पार्थः समागमत्
वारणेनेव मत्तेन मत्तो वारणयूथपः
ततः प्रववृते युद्धं पृथिव्यामेकवीरयोः
रणमध्ये द्वयोरेव सुमहल्लोमहर्षणम्
तौ वीरौ कुरवः सर्वे ददृशुर्विस्मयान्विताः
युध्यमानौ महात्मानौ यूथपाविव संगतौ
तौ समाजघ्नतुर्वीरावन्योन्यं पुरुषर्षभौ
शरैराशीविषाकारैर्ज्वलद्भिरिव पन्नगैः
अक्षय्याविषुधी दिव्यौ पाण्डवस्य महात्मनः
तेन पार्थो रणे शूरस्तस्थौ गिरिरिवाचलः
अश्वत्थाम्नः पुनर्बाणाः क्षिप्रमभ्यस्यतो रणे
जग्मुः परिक्षयं शीघ्रमभूत्तेनाधिकोऽर्जुनः
ततः कर्णो महच्चापं विकृष्याभ्यधिकं रुषा
अवाक्षिपत्ततः शब्दो हाहाकारो महानभूत्
तत्र चक्षुर्दधे पार्थो यत्र विस्फार्यते धनुः
ददर्श तत्र राधेयं तस्य कोपोऽत्यवीवृधत्
स रोषवशमापन्नः कर्णमेव जिघांसया
अवैक्षत विवृत्ताभ्यां नेत्राभ्यां कुरुपुंगवः
तथा तु विमुखे पार्थे द्रोणपुत्रस्य सायकान्
त्वरिताः पुरुषा राजन्नुपाजह्रुः सहस्रशः
उत्सृज्य च महाबाहुर्द्रोणपुत्रं धनंजयः
अभिदुद्राव सहसा कर्णमेव सपत्नजित्
तमभिद्रुत्य कौन्तेयः क्रोधसंरक्तलोचनः
कामयन्द्वैरथे युद्धमिदं वचनमब्रवीत्
अर्जुन उवाच
कर्ण यत्ते सभामध्ये बहु वाचा विकत्थितम्
न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम्
अवोचः परुषा वाचो धर्ममुत्सृज्य केवलम्
इदं तु दुष्करं मन्ये यदिदं ते चिकीर्षितम्
यत्त्वया कथितं पूर्वं मामनासाद्य किंचन
तदद्य कुरु राधेय कुरुमध्ये मया सह
यत्सभायां स्म पाञ्चालीं क्लिश्यमानां दुरात्मभिः
दृष्टवानसि तस्याद्य फलमाप्नुहि केवलम्
धर्मपाशनिबद्धेन यन्मया मर्षितं पुरा
तस्य राधेय कोपस्य विजयं पश्य मे मृधे
एहि कर्ण मया सार्धं प्रतिपद्यस्व संगरम्
प्रेक्षकाः कुरवः सर्वे भवन्तु सहसैनिकाः
कर्ण उवाच
ब्रवीषि वाचा यत्पार्थ कर्मणा तत्समाचर
अतिशेते हि वै वाचं कर्मेति प्रथितं भुवि
यत्त्वया मर्षितं पूर्वं तदशक्तेन मर्षितम्
इति गृह्णामि तत्पार्थ तव दृष्ट्वापराक्रमम्
धर्मपाशनिबद्धेन यदि ते मर्षितं पुरा
तथैव बद्धमात्मानमबद्धमिव मन्यसे
यदि तावद्वने वासो यथोक्तश्चरितस्त्वया
तत्त्वं धर्मार्थवित्क्लिष्टः समयं भेत्तुमिच्छसि
यदि शक्रः स्वयं पार्थ युध्यते तव कारणात्
तथापि न व्यथा काचिन्मम स्याद्विक्रमिष्यतः
अयं कौन्तेय कामस्ते नचिरात्समुपस्थितः
योत्स्यसे त्वं मया सार्धमद्य द्रक्ष्यसि मे बलम्
अर्जुन उवाच
इदानीमेव तावत्त्वमपयातो रणान्मम
तेन जीवसि राधेय निहतस्त्वनुजस्तव
भ्रातरं घातयित्वा च त्यक्त्वा रणशिरश्च कः
त्वदन्यः पुरुषः सत्सु ब्रूयादेवं व्यवस्थितः
वैशंपायन उवाच
इति कर्णं ब्रुवन्नेव बीभत्सुरपराजितः
अभ्ययाद्विसृजन्बाणान्कायावरणभेदिनः
प्रतिजग्राह तान्कर्णः शरानग्निशिखोपमान्
शरवर्षेण महता वर्षमाण इवाम्बुदः
उत्पेतुः शरजालानि घोररूपाणि सर्वशः
अविध्यदश्वान्बाह्वोश्च हस्तावापं पृथक्पृथक्
सोऽमृष्यमाणः कर्णस्य निषङ्गस्यावलम्बनम्
चिच्छेद निशिताग्रेण शरेण नतपर्वणा
उपासङ्गादुपादाय कर्णो बाणानथापरान्
विव्याध पाण्डवं हस्ते तस्य मुष्टिरशीर्यत
ततः पार्थो महाबाहुः कर्णस्य धनुरच्छिनत्
स शक्तिं प्राहिणोत्तस्मै तां पार्थो व्यधमच्छरैः
ततोऽभिपेतुर्बहवो राधेयस्य पदानुगाः
तांश्च गाण्डीवनिर्मुक्तैः प्राहिणोद्यमसादनम्
ततोऽस्याश्वाञ्शरैस्तीक्ष्णैर्बीभत्सुर्भारसाधनैः
आकर्णमुक्तैरभ्यघ्नंस्ते हताः प्रापतन्भुवि
अथापरेण बाणेन ज्वलितेन महाभुजः
विव्याध कर्णं कौन्तेयस्तीक्ष्णेनोरसि वीर्यवान्
तस्य भित्त्वा तनुत्राणं कायमभ्यपतच्छरः
ततः स तमसाविष्टो न स्म किंचित्प्रजज्ञिवान्
स गाढवेदनो हित्वा रणं प्रायादुदङ्मुखः
ततोऽर्जुन उपाक्रोशदुत्तरश्च महारथः
वैशंपायन उवाच
ततो वैकर्तनं जित्वा पार्थो वैराटिमब्रवीत्
एतन्मां प्रापयानीकं यत्र तालो हिरण्मयः
अत्र शांतनवो भीष्मो रथेऽस्माकं पितामहः
काङ्क्षमाणो मया युद्धं तिष्ठत्यमरदर्शनः
आदास्याम्यहमेतस्य धनुर्ज्यामपि चाहवे
अस्यन्तं दिव्यमस्त्रं मां चित्रमद्य निशामय
शतह्रदामिवायान्तीं स्तनयित्नोरिवाम्बरे
सुवर्णपृष्ठं गाण्डीवं द्रक्ष्यन्ति कुरवो मम
दक्षिणेनाथ वामेन कतरेण स्विदस्यति
इति मां संगताः सर्वे तर्कयिष्यन्ति शत्रवः
शोणितोदां रथावर्तां नागनक्रां दुरत्ययाम्
नदीं प्रस्यन्दयिष्यामि परलोकप्रवाहिनीम्
पाणिपादशिरःपृष्ठबाहुशाखानिरन्तरम्
वनं कुरूणां छेत्स्यामि भल्लैः संनतपर्वभिः
जयतः कौरवीं सेनामेकस्य मम धन्विनः
शतं मार्गा भविष्यन्ति पावकस्येव कानने
मया चक्रमिवाविद्धं सैन्यं द्रक्ष्यसि केवलम्
असंभ्रान्तो रथे तिष्ठ समेषु विषमेषु च
दिवमावृत्य तिष्ठन्तं गिरिं भेत्स्यामि धारिभिः
अहमिन्द्रस्य वचनात्संग्रामेऽभ्यहनं पुरा
पौलोमान्कालखञ्जांश्च सहस्राणि शतानि च
अहमिन्द्राद्दृढां मुष्टिं ब्रह्मणः कृतहस्तताम्
प्रगाढं तुमुलं चित्रमतिविद्धं प्रजापतेः
अहं पारे समुद्रस्य हिरण्यपुरमारुजम्
जित्वा षष्टिसहस्राणि रथिनामुग्रधन्विनाम्
ध्वजवृक्षं पत्तितृणं रथसिंहगणायुतम्
वनमादीपयिष्यामि कुरूणामस्त्रतेजसा
तानहं रथनीडेभ्यः शरैः संनतपर्वभिः
एकः संकालयिष्यामि वज्रपाणिरिवासुरान्
रौद्रं रुद्रादहं ह्यस्त्रं वारुणं वरुणादपि
अस्त्रमाग्नेयमग्नेश्च वायव्यं मातरिश्वनः
वज्रादीनि तथास्त्राणि शक्रादहमवाप्तवान्
धार्तराष्ट्रवनं घोरं नरसिंहाभिरक्षितम्
अहमुत्पाटयिष्यामि वैराटे व्येतु ते भयम्
एवमाश्वासितस्तेन वैराटिः सव्यसाचिना
व्यगाहत रथानीकं भीमं भीष्मस्य धीमतः
तमायान्तं महाबाहुं जिगीषन्तं रणे परान्
अभ्यवारयदव्यग्रः क्रूरकर्मा धनंजयम्
तं चित्रमाल्याभरणाः कृतविद्या मनस्विनः
आगच्छन्भीमधन्वानं मौर्वीं पर्यस्य बाहुभिः
दुःशासनो विकर्णश्च दुःसहोऽथ विविंशतिः
आगत्य भीमधन्वानं बीभत्सुं पर्यवारयन्
दुःशासनस्तु भल्लेन विद्ध्वा वैराटिमुत्तरम्
द्वितीयेनार्जुनं वीरः प्रत्यविध्यत्स्तनान्तरे
तस्य जिष्णुरुपावृत्य पृथुधारेण कार्मुकम्
चकर्त गार्ध्रपत्रेण जातरूपपरिष्कृतम्
अथैनं पञ्चभिः पश्चात्प्रत्यविध्यत्स्तनान्तरे
सोऽपयातो रणं हित्वा पार्थबाणप्रपीडितः
तं विकर्णः शरैस्तीक्ष्णैर्गार्ध्रपत्रैरजिह्मगैः
विव्याध परवीरघ्नमर्जुनं धृतराष्ट्रजः
ततस्तमपि कौन्तेयः शरेणानतपर्वणा
ललाटेऽभ्यहनत्तूर्णं स विद्धः प्रापतद्रथात्
ततः पार्थमभिद्रुत्य दुःसहः सविविंशतिः
अवाकिरच्छरैस्तीक्ष्णैः परीप्सन्भ्रातरं रणे
तावुभौ गार्ध्रपत्राभ्यां निशिताभ्यां धनंजयः
विद्ध्वा युगपदव्यग्रस्तयोर्वाहानसूदयत्
तौ हताश्वौ विविद्धाङ्गौ धृतराष्ट्रात्मजावुभौ
अभिपत्य रथैरन्यैरपनीतौ पदानुगैः
सर्वा दिशश्चाभ्यपतद्बीभत्सुरपराजितः
किरीटमाली कौन्तेयो लब्धलक्षो महाबलः
वैशंपायन उवाच
अथ संगम्य सर्वे तु कौरवाणां महारथाः
अर्जुनं सहिता यत्ताः प्रत्ययुध्यन्त भारत
स सायकमयैर्जालैः सर्वतस्तान्महारथान्
प्राच्छादयदमेयात्मा नीहार इव पर्वतान्
नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः
भेरीशङ्खनिनादैश्च स शब्दस्तुमुलोऽभवत्
नराश्वकायान्निर्भिद्य लोहानि कवचानि च
पार्थस्य शरजालानि विनिष्पेतुः सहस्रशः
त्वरमाणः शरानस्यन्पाण्डवः स बभौ रणे
मध्यंदिनगतोऽर्चिष्माञ्शरदीव दिवाकरः
उपप्लवन्त वित्रस्ता रथेभ्यो रथिनस्तदा
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः
शरैः संताड्यमानानां कवचानां महात्मनाम्
ताम्रराजतलोहानां प्रादुरासीन्महास्वनः
छन्नमायोधनं सर्वं शरीरैर्गतचेतसाम्
गजाश्वसादिभिस्तत्र शितबाणात्तजीवितैः
रथोपस्थाभिपतितैरास्तृता मानवैर्मही
प्रनृत्यदिव संग्रामे चापहस्तो धनंजयः
श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः
त्रस्तानि सर्वभूतानि व्यगच्छन्त महाहवात्
कुण्डलोष्णीषधारीणि जातरूपस्रजानि च
पतितानि स्म दृश्यन्ते शिरांसि रणमूर्धनि
विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः
सहस्ताभरणैश्चान्यैः प्रच्छन्ना भाति मेदिनी
शिरसां पात्यमानानामन्तरा निशितैः शरैः
अश्मवृष्टिरिवाकाशादभवद्भरतर्षभ
दर्शयित्वा तथात्मानं रौद्रं रुद्रपराक्रमः
अवरुद्धश्चरन्पार्थो दशवर्षाणि त्रीणि च
क्रोधाग्निमुत्सृजद्घोरं धार्तराष्ट्रेषु पाण्डवः
तस्य तद्दहतः सैन्यं दृष्ट्वा चैव पराक्रमम्
सर्वे शान्तिपरा योधा धार्तराष्ट्रस्य पश्यतः
वित्रासयित्वा तत्सैन्यं द्रावयित्वा महारथान्
अर्जुनो जयतां श्रेष्ठः पर्यवर्तत भारत
प्रावर्तयन्नदीं घोरां शोणितौघतरङ्गिणीम्
अस्थिशैवलसंबाधां युगान्ते कालनिर्मिताम्
शरचापप्लवां घोरां मांसशोणितकर्दमाम्
महारथमहाद्वीपां शङ्खदुन्दुभिनिस्वनाम्
चकार महतीं पार्थो नदीमुत्तरशोणिताम्
आददानस्य हि शरान्संधाय च विमुञ्चतः
विकर्षतश्च गाण्डीवं न किंचिद्दृश्यतेऽन्तरम्
वैशंपायन उवाच
अथ दुर्योधनः कर्णो दुःशासनविविंशती
द्रोणश्च सह पुत्रेण कृपश्चातिरथो रणे
पुनरीयुः सुसंरब्धा धनंजयजिघांसया
विस्फारयन्तश्चापानि बलवन्ति दृढानि च
तान्प्रकीर्णपताकेन रथेनादित्यवर्चसा
प्रत्युद्ययौ महाराज समस्तान्वानरध्वजः
ततः कृपश्च कर्णश्च द्रोणश्च रथिनां वरः
तं महास्त्रैर्महावीर्यं परिवार्य धनंजयम्
शरौघान्सम्यगस्यन्तो जीमूता इव वार्षिकाः
ववर्षुः शरवर्षाणि प्रपतन्तं किरीटिनम्
इषुभिर्बहुभिस्तूर्णं समरे लोमवाहिभिः
अदूरात्पर्यवस्थाय पूरयामासुरादृताः
तथावकीर्णस्य हि तैर्दिव्यैरस्त्रैः समन्ततः
न तस्य द्व्यङ्गुलमपि विवृतं समदृश्यत
ततः प्रहस्य बीभत्सुर्दिव्यमैन्द्रं महारथः
अस्त्रमादित्यसंकाशं गाण्डीवे समयोजयत्
स रश्मिभिरिवादित्यः प्रतपन्समरे बली
किरीटमाली कौन्तेयः सर्वान्प्राच्छादयत्कुरून्
यथा बलाहके विद्युत्पावको वा शिलोच्चये
तथा गाण्डीवमभवदिन्द्रायुधमिवाततम्
यथा वर्षति पर्जन्ये विद्युद्विभ्राजते दिवि
तथा दश दिशः सर्वाः पतद्गाण्डीवमावृणोत्
त्रस्ताश्च रथिनः सर्वे बभूवुस्तत्र सर्वशः
सर्वे शान्तिपरा भूत्वा स्वचित्तानि न लेभिरे
संग्रामविमुखाः सर्वे योधास्ते हतचेतसः
एवं सर्वाणि सैन्यानि भग्नानि भरतर्षभ
प्राद्रवन्त दिशः सर्वा निराशानि स्वजीविते
वैशंपायन उवाच
ततः शांतनवो भीष्मो दुराधर्षः प्रतापवान्
वध्यमानेषु योधेषु धनंजयमुपाद्रवत्
प्रगृह्य कार्मुकश्रेष्ठं जातरूपपरिष्कृतम्
शरानादाय तीक्ष्णाग्रान्मर्मभेदप्रमाथिनः
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
शुशुभे स नरव्याघ्रो गिरिः सूर्योदये यथा
प्रध्माय शङ्खं गाङ्गेयो धार्तराष्ट्रान्प्रहर्षयन्
प्रदक्षिणमुपावृत्य बीभत्सुं समवारयत्
तमुद्वीक्ष्य तथायान्तं कौन्तेयः परवीरहा
प्रत्यगृह्णात्प्रहृष्टात्मा धाराधरमिवाचलः
ततो भीष्मः शरानष्टौ ध्वजे पार्थस्य वीर्यवान्
समपर्यन्महावेगाञ्श्वसमानानिवोरगान्
ते ध्वजं पाण्डुपुत्रस्य समासाद्य पतत्रिणः
ज्वलन्तः कपिमाजघ्नुर्ध्वजाग्रनिलयांश्च तान्
ततो भल्लेन महता पृथुधारेण पाण्डवः
छत्रं चिच्छेद भीष्मस्य तूर्णं तदपतद्भुवि
ध्वजं चैवास्य कौन्तेयः शरैरभ्यहनद्दृढम्
शीघ्रकृद्रथवाहांश्च तथोभौ पार्ष्णिसारथी
तयोस्तदभवद्युद्धं तुमुलं लोमहर्षणम्
भीष्मस्य सह पार्थेन बलिवासवयोरिव
भल्लैर्भल्लाः समागम्य भीष्मपाण्डवयोर्युधि
अन्तरिक्षे व्यराजन्त खद्योताः प्रावृषीव हि
अग्निचक्रमिवाविद्धं सव्यदक्षिणमस्यतः
गाण्डीवमभवद्राजन्पार्थस्य सृजतः शरान्
स तैः संछादयामास भीष्मं शरशतैः शितैः
पर्वतं वारिधाराभिश्छादयन्निव तोयदः
तां स वेलामिवोद्धूतां शरवृष्टिं समुत्थिताम्
व्यधमत्सायकैर्भीष्मो अर्जुनं संनिवारयत्
ततस्तानि निकृत्तानि शरजालानि भागशः
समरेऽभिव्यशीर्यन्त फल्गुनस्य रथं प्रति
ततः कनकपुङ्खानां शरवृष्टिं समुत्थिताम्
पाण्डवस्य रथात्तूर्णं शलभानामिवायतिम्
व्यधमत्तां पुनस्तस्य भीष्मः शरशतैः शितैः
ततस्ते कुरवः सर्वे साधु साध्विति चाब्रुवन्
दुष्करं कृतवान्भीष्मो यदर्जुनमयोधयत्
बलवांस्तरुणो दक्षः क्षिप्रकारी च पाण्डवः
कोऽन्यः समर्थः पार्थस्य वेगं धारयितुं रणे
ऋते शांतनवाद्भीष्मात्कृष्णाद्वा देवकीसुतात्
आचार्यप्रवराद्वापि भारद्वाजान्महाबलात्
अस्त्रैरस्त्राणि संवार्य क्रीडतः पुरुषर्षभौ
चक्षूंषि सर्वभूतानां मोहयन्तौ महाबलौ
प्राजापत्यं तथैवैन्द्रमाग्नेयं च सुदारुणम्
कौबेरं वारुणं चैव याम्यं वायव्यमेव च
प्रयुञ्जानौ महात्मानौ समरे तौ विचेरतुः
विस्मितान्यथ भूतानि तौ दृष्ट्वा संयुगे तदा
साधु पार्थ महाबाहो साधु भीष्मेति चाब्रुवन्
नेदं युक्तं मनुष्येषु योऽयं संदृश्यते महान्
महास्त्राणां संप्रयोगः समरे भीष्मपार्थयोः
एवं सर्वास्त्रविदुषोरस्त्रयुद्धमवर्तत
अथ जिष्णुरुपावृत्य पृथुधारेण कार्मुकम्
चकर्त भीष्मस्य तदा जातरूपपरिष्कृतम्
निमेषान्तरमात्रेण भीष्मोऽन्यत्कार्मुकं रणे
समादाय महाबाहुः सज्यं चक्रे महाबलः
शरांश्च सुबहून्क्रुद्धो मुमोचाशु धनंजये
अर्जुनोऽपि शरांश्चित्रान्भीष्माय निशितान्बहून्
चिक्षेप सुमहातेजास्तथा भीष्मश्च पाण्डवे
तयोर्दिव्यास्त्रविदुषोरस्यतोरनिशं शरान्
न विशेषस्तदा राजँल्लक्ष्यते स्म महात्मनोः
अथावृणोद्दश दिशः शरैरतिरथस्तदा
किरीटमाली कौन्तेयः शूरः शांतनवस्तथा
अतीव पाण्डवो भीष्मं भीष्मश्चातीव पाण्डवम्
बभूव तस्मिन्संग्रामे राजँल्लोके तदद्भुतम्
पाण्डवेन हताः शूरा भीष्मस्य रथरक्षिणः
शेरते स्म तदा राजन्कौन्तेयस्याभितो रथम्
ततो गाण्डीवनिर्मुक्ता निरमित्रं चिकीर्षवः
आगच्छन्पुङ्खसंश्लिष्टाः श्वेतवाहनपत्रिणः
निष्पतन्तो रथात्तस्य धौता हैरण्यवाससः
आकाशे समदृश्यन्त हंसानामिव पङ्क्तयः
तस्य तद्दिव्यमस्त्रं हि प्रगाढं चित्रमस्यतः
प्रेक्षन्ते स्मान्तरिक्षस्थाः सर्वे देवाः सवासवाः
तद्दृष्ट्वा परमप्रीतो गन्धर्वश्चित्रमद्भुतम्
शशंस देवराजाय चित्रसेनः प्रतापवान्
पश्येमानरिनिर्दारान्संसक्तानिव गच्छतः
चित्ररूपमिदं जिष्णोर्दिव्यमस्त्रमुदीर्यतः
नेदं मनुष्याः श्रद्दध्युर्न हीदं तेषु विद्यते
पौराणानां महास्त्राणां विचित्रोऽयं समागमः
मध्यंदिनगतं सूर्यं प्रतपन्तमिवाम्बरे
न शक्नुवन्ति सैन्यानि पाण्डवं प्रतिवीक्षितुम्
उभौ विश्रुतकर्माणावुभौ युद्धविशारदौ
उभौ सदृशकर्माणावुभौ युधि दुरासदौ
इत्युक्तो देवराजस्तु पार्थभीष्मसमागमम्
पूजयामास दिव्येन पुष्पवर्षेण भारत
ततो भीष्मः शांतनवो वामे पार्श्वे समर्पयत्
अस्यतः प्रतिसंधाय विवृतं सव्यसाचिनः
ततः प्रहस्य बीभत्सुः पृथुधारेण कार्मुकम्
न्यकृन्तद्गार्ध्रपत्रेण भीष्मस्यामिततेजसः
अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे
यतमानं पराक्रान्तं कुन्तीपुत्रो धनंजयः
स पीडितो महाबाहुर्गृहीत्वा रथकूबरम्
गाङ्गेयो युधि दुर्धर्षस्तस्थौ दीर्घमिवातुरः
तं विसंज्ञमपोवाह संयन्ता रथवाजिनाम्
उपदेशमनुस्मृत्य रक्षमाणो महारथम्
वैशंपायन उवाच
भीष्मे तु संग्रामशिरो विहाय; पलायमाने धृतराष्ट्रपुत्रः
उच्छ्रित्य केतुं विनदन्महात्मा; स्वयं विगृह्यार्जुनमाससाद
स भीमधन्वानमुदग्रवीर्यं; धनंजयं शत्रुगणे चरन्तम्
आकर्णपूर्णायतचोदितेन; भल्लेन विव्याध ललाटमध्ये
स तेन बाणेन समर्पितेन; जाम्बूनदाभेन सुसंशितेन
रराज राजन्महनीयकर्मा; यथैकपर्वा रुचिरैकशृङ्गः
अथास्य बाणेन विदारितस्य; प्रादुर्बभूवासृगजस्रमुष्णम्
सा तस्य जाम्बूनदपुष्पचित्रा; मालेव चित्राभिविराजते स्म
स तेन बाणाभिहतस्तरस्वी; दुर्योधनेनोद्धतमन्युवेगः
शरानुपादाय विषाग्निकल्पा;न्विव्याध राजानमदीनसत्त्वः
दुर्योधनश्चापि तमुग्रतेजाः; पार्थश्च दुर्योधनमेकवीरः
अन्योन्यमाजौ पुरुषप्रवीरौ; समं समाजघ्नतुराजमीढौ
ततः प्रभिन्नेन महागजेन; महीधराभेन पुनर्विकर्णः
रथैश्चतुर्भिर्गजपादरक्षैः; कुन्तीसुतं जिष्णुमथाभ्यधावत्
तमापतन्तं त्वरितं गजेन्द्रं; धनंजयः कुम्भविभागमध्ये
आकर्णपूर्णेन दृढायसेन; बाणेन विव्याध महाजवेन
पार्थेन सृष्टः स तु गार्ध्रपत्र; आ पुङ्खदेशात्प्रविवेश नागम्
विदार्य शैलप्रवरप्रकाशं; यथाशनिः पर्वतमिन्द्रसृष्टः
शरप्रतप्तः स तु नागराजः; प्रवेपिताङ्गो व्यथितान्तरात्मा
संसीदमानो निपपात मह्यां; वज्राहतं शृङ्गमिवाचलस्य
निपातिते दन्तिवरे पृथिव्यां; त्रासाद्विकर्णः सहसावतीर्य
तूर्णं पदान्यष्टशतानि गत्वा; विविंशतेः स्यन्दनमारुरोह
निहत्य नागं तु शरेण तेन; वज्रोपमेनाद्रिवराम्बुदाभम्
तथाविधेनैव शरेण पार्थो; दुर्योधनं वक्षसि निर्बिभेद
ततो गजे राजनि चैव भिन्ने; भग्ने विकर्णे च सपादरक्षे
गाण्डीवमुक्तैर्विशिखैः प्रणुन्ना;स्ते योधमुख्याः सहसापजग्मुः
दृष्ट्वैव बाणेन हतं तु नागं; योधांश्च सर्वान्द्रवतो निशम्य
रथं समावृत्य कुरुप्रवीरो; रणात्प्रदुद्राव यतो न पार्थः
तं भीमरूपं त्वरितं द्रवन्तं; दुर्योधनं शत्रुसहो निषङ्गी
प्राक्ष्वेडयद्योद्धुमनाः किरीटी; बाणेन विद्धं रुधिरं वमन्तम्
अर्जुन उवाच
विहाय कीर्तिं विपुलं यशश्च; युद्धात्परावृत्य पलायसे किम्
न तेऽद्य तूर्याणि समाहतानि; यथावदुद्यान्ति गतस्य युद्धे
युधिष्ठिरस्यास्मि निदेशकारी; पार्थस्तृतीयो युधि च स्थिरोऽस्मि
तदर्थमावृत्य मुखं प्रयच्छ; नरेन्द्रवृत्तं स्मर धार्तराष्ट्र
मोघं तवेदं भुवि नामधेयं; दुर्योधनेतीह कृतं पुरस्तात्
न हीह दुर्योधनता तवास्ति; पलायमानस्य रणं विहाय
न ते पुरस्तादथ पृष्ठतो वा; पश्यामि दुर्योधन रक्षितारम्
परैहि युद्धेन कुरुप्रवीर; प्राणान्प्रियान्पाण्डवतोऽद्य रक्ष
वैशंपायन उवाच
आहूयमानस्तु स तेन संख्ये; महामना धृतराष्ट्रस्य पुत्रः
निवर्तितस्तस्य गिराङ्कुशेन; गजो यथा मत्त इवाङ्कुशेन
सोऽमृष्यमाणो वचसाभिमृष्टो; महारथेनातिरथस्तरस्वी
पर्याववर्ताथ रथेन वीरो; भोगी यथा पादतलाभिमृष्टः
तं प्रेक्ष्य कर्णः परिवर्तमानं; निवर्त्य संस्तभ्य च विद्धगात्रः
दुर्योधनं दक्षिणतोऽभ्यगच्छ;त्पार्थं नृवीरो युधि हेममाली
भीष्मस्ततः शांतनवो निवृत्य; हिरण्यकक्ष्यांस्त्वरयंस्तुरंगान्
दुर्योधनं पश्चिमतोऽभ्यरक्ष;त्पार्थान्महाबाहुरधिज्यधन्वा
द्रोणः कृपश्चैव विविंशतिश्च; दुःशासनश्चैव निवृत्य शीघ्रम्
सर्वे पुरस्ताद्विततेषुचापा; दुर्योधनार्थं त्वरिताभ्युपेयुः
स तान्यनीकानि निवर्तमाना;न्यालोक्य पूर्णौघनिभानि पार्थः
हंसो यथा मेघमिवापतन्तं; धनंजयः प्रत्यपतत्तरस्वी
ते सर्वतः संपरिवार्य पार्थ;मस्त्राणि दिव्यानि समाददानाः
ववर्षुरभ्येत्य शरैः समन्ता;न्मेघा यथा भूधरमम्बुवेगैः
ततोऽस्त्रमस्त्रेण निवार्य तेषां; गाण्डीवधन्वा कुरुपुंगवानाम्
संमोहनं शत्रुसहोऽन्यदस्त्रं; प्रादुश्चकारैन्द्रिरपारणीयम्
ततो दिशश्चानुदिशो विवृत्य; शरैः सुधारैर्निशितैः सुपुङ्खैः
गाण्डीवघोषेण मनांसि तेषां; महाबलः प्रव्यथयां चकार
ततः पुनर्भीमरवं प्रगृह्य; दोर्भ्यां महाशङ्खमुदारघोषम्
व्यनादयत्स प्रदिशो दिशः खं; भुवं च पार्थो द्विषतां निहन्ता
ते शङ्खनादेन कुरुप्रवीराः; संमोहिताः पार्थसमीरितेन
उत्सृज्य चापानि दुरासदानि; सर्वे तदा शान्तिपरा बभूवुः
तथा विसंज्ञेषु परेषु पार्थः; स्मृत्वा तु वाक्यानि तथोत्तरायाः
निर्याहि मध्यादिति मत्स्यपुत्र;मुवाच यावत्कुरवो विसंज्ञाः
आचार्य शारद्वतयोः सुशुक्ले; कर्णस्य पीतं रुचिरं च वस्त्रम्
द्रौणेश्च राज्ञश्च तथैव नीले; वस्त्रे समादत्स्व नरप्रवीर
भीष्मस्य संज्ञां तु तथैव मन्ये; जानाति मेऽस्त्रप्रतिघातमेषः
एतस्य वाहान्कुरु सव्यतस्त्व;मेवं हि यातव्यममूढसंज्ञैः
रश्मीन्समुत्सृज्य ततो महात्मा; रथादवप्लुत्य विराटपुत्रः
वस्त्राण्युपादाय महारथानां; तूर्णं पुनः स्वं रथमारुरोह
ततोऽन्वशासच्चतुरः सदश्वा;न्पुत्रो विराटस्य हिरण्यकक्ष्यान्
ते तद्व्यतीयुर्ध्वजिनामनीकं; श्वेता वहन्तोऽर्जुनमाजिमध्यात्
तथा तु यान्तं पुरुषप्रवीरं; भीष्मः शरैरभ्यहनत्तरस्वी
स चापि भीष्मस्य हयान्निहत्य; विव्याध पार्श्वे दशभिः पृषत्कैः
ततोऽर्जुनो भीष्ममपास्य युद्धे; विद्ध्वास्य यन्तारमरिष्टधन्वा
तस्थौ विमुक्तो रथवृन्दमध्या;द्राहुं विदार्येव सहस्ररश्मिः
लब्ध्वा तु संज्ञां च कुरुप्रवीरः; पार्थं समीक्ष्याथ महेन्द्रकल्पम्
रणाद्विमुक्तं स्थितमेकमाजौ; स धार्तराष्ट्रस्त्वरितो बभाषे
अयं कथं स्विद्भवतां विमुक्त;स्तं वै प्रबध्नीत यथा न मुच्येत्
तमब्रवीच्छांतनवः प्रहस्य; क्व ते गता बुद्धिरभूत्क्व वीर्यम्
शान्तिं पराश्वस्य यथा स्थितोऽभू;रुत्सृज्य बाणांश्च धनुश्च चित्रम्
न त्वेव बीभत्सुरलं नृशंसं; कर्तुं न पापेऽस्य मनो निविष्टम्
त्रैलोक्यहेतोर्न जहेत्स्वधर्मं; तस्मान्न सर्वे निहता रणेऽस्मिन्
क्षिप्रं कुरून्याहि कुरुप्रवीर; विजित्य गाश्च प्रतियातु पार्थः
दुर्योधनस्तस्य तु तन्निशम्य; पितामहस्यात्महितं वचोऽथ
अतीतकामो युधि सोऽत्यमर्षी; राजा विनिःश्वस्य बभूव तूष्णीम्
तद्भीष्मवाक्यं हितमीक्ष्य सर्वे; धनंजयाग्निं च विवर्धमानम्
निवर्तनायैव मनो निदध्यु;र्दुर्योधनं ते परिरक्षमाणाः
तान्प्रस्थितान्प्रीतमनाः स पार्थो; धनंजयः प्रेक्ष्य कुरुप्रवीरान्
आभाषमाणोऽनुययौ मुहूर्तं; संपूजयंस्तत्र गुरून्महात्मा
पितामहं शांतनवं स वृद्धं; द्रोणं गुरुं च प्रतिपूज्य मूर्ध्ना
द्रौणिं कृपं चैव गुरूंश्च सर्वा;ञ्शरैर्विचित्रैरभिवाद्य चैव
दुर्योधनस्योत्तमरत्नचित्रं; चिच्छेद पार्थो मुकुटं शरेण
आमन्त्र्य वीरांश्च तथैव मान्या;न्गाण्डीवघोषेण विनाद्य लोकान्
स देवदत्तं सहसा विनाद्य; विदार्य वीरो द्विषतां मनांसि
ध्वजेन सर्वानभिभूय शत्रू;न्स हेमजालेन विराजमानः
दृष्ट्वा प्रयातांस्तु कुरून्किरीटी; हृष्टोऽब्रवीत्तत्र स मत्स्यपुत्रम्
आवर्तयाश्वान्पशवो जितास्ते; याताः परे याहि पुरं प्रहृष्टः
वैशंपायन उवाच
ततो विजित्य संग्रामे कुरून्गोवृषभेक्षणः
समानयामास तदा विराटस्य धनं महत्
गतेषु च प्रभग्नेषु धार्तराष्ट्रेषु सर्वशः
वनान्निष्क्रम्य गहनाद्बहवः कुरुसैनिकाः
भयात्संत्रस्तमनसः समाजग्मुस्ततस्ततः
मुक्तकेशा व्यदृश्यन्त स्थिताः प्राञ्जलयस्तदा
क्षुत्पिपासापरिश्रान्ता विदेशस्था विचेतसः
ऊचुः प्रणम्य संभ्रान्ताः पार्थ किं करवाम ते
अर्जुन उवाच
स्वस्ति व्रजत भद्रं वो न भेतव्यं कथंचन
नाहमार्ताञ्जिघांसामि भृशमाश्वासयामि वः
वैशंपायन उवाच
तस्य तामभयां वाचं श्रुत्वा योधाः समागताः
आयुःकीर्तियशोदाभिस्तमाशिर्भिरनन्दयन्
ततो निवृत्ताः कुरवः प्रभग्ना वशमास्थिताः
पन्थानमुपसंगम्य फल्गुनो वाक्यमब्रवीत्
राजपुत्र प्रत्यवेक्ष समानीतानि सर्वशः
गोकुलानि महाबाहो वीर गोपालकैः सह
ततोऽपराह्णे यास्यामो विराटनगरं प्रति
आश्वास्य पाययित्वा च परिप्लाव्य च वाजिनः
गच्छन्तु त्वरिताश्चैव गोपालाः प्रेषितास्त्वया
नगरे प्रियमाख्यातुं घोषयन्तु च ते जयम्
वैशंपायन उवाच
उत्तरस्त्वरमाणोऽथ दूतानाज्ञापयत्ततः
वचनादर्जुनस्यैव आचक्षध्वं जयं मम
वैशंपायन उवाच
अवजित्य धनं चापि विराटो वाहिनीपतिः
प्राविशन्नगरं हृष्टश्चतुर्भिः सह पाण्डवैः
जित्वा त्रिगर्तान्संग्रामे गाश्चैवादाय केवलाः
अशोभत महाराजः सह पार्थैः श्रिया वृतः
तमासनगतं वीरं सुहृदां प्रीतिवर्धनम्
उपतस्थुः प्रकृतयः समस्ता ब्राह्मणैः सह
सभाजितः ससैन्यस्तु प्रतिनन्द्याथ मत्स्यराट्
विसर्जयामास तदा द्विजांश्च प्रकृतीस्तथा
ततः स राजा मत्स्यानां विराटो वाहिनीपतिः
उत्तरं परिपप्रच्छ क्व यात इति चाब्रवीत्
आचख्युस्तस्य संहृष्टाः स्त्रियः कन्याश्च वेश्मनि
अन्तःपुरचराश्चैव कुरुभिर्गोधनं हृतम्
विजेतुमभिसंरब्ध एक एवातिसाहसात्
बृहन्नडासहायश्च निर्यातः पृथिवींजयः
उपयातानतिरथान्द्रोणं शांतनवं कृपम्
कर्णं दुर्योधनं चैव द्रोणपुत्रं च षड्रथान्
राजा विराटोऽथ भृशं प्रतप्तः; श्रुत्वा सुतं ह्येकरथेन यातम्
बृहन्नडासारथिमाजिवर्धनं; प्रोवाच सर्वानथ मन्त्रिमुख्यान्
सर्वथा कुरवस्ते हि ये चान्ये वसुधाधिपाः
त्रिगर्तान्निर्जिताञ्श्रुत्वा न स्थास्यन्ति कदाचन
तस्माद्गच्छन्तु मे योधा बलेन महता वृताः
उत्तरस्य परीप्सार्थं ये त्रिगर्तैरविक्षताः
हयांश्च नागांश्च रथांश्च शीघ्रं; पदातिसंघांश्च ततः प्रवीरान्
प्रस्थापयामास सुतस्य हेतो;र्विचित्रशस्त्राभरणोपपन्नान्
एवं स राजा मत्स्यानां विराटोऽक्षौहिणीपतिः
व्यादिदेशाथ तां क्षिप्रं वाहिनीं चतुरङ्गिणीम्
कुमारमाशु जानीत यदि जीवति वा न वा
यस्य यन्ता गतः षण्ढो मन्येऽहं न स जीवति
तमब्रवीद्धर्मराजः प्रहस्य; विराटमार्तं कुरुभिः प्रतप्तम्
बृहन्नडा सारथिश्चेन्नरेन्द्र; परे न नेष्यन्ति तवाद्य गास्ताः
सर्वान्महीपान्सहितान्कुरूंश्च; तथैव देवासुरयक्षनागान्
अलं विजेतुं समरे सुतस्ते; स्वनुष्ठितः सारथिना हि तेन
अथोत्तरेण प्रहिता दूतास्ते शीघ्रगामिनः
विराटनगरं प्राप्य जयमावेदयंस्तदा
राज्ञस्ततः समाचख्यौ मन्त्री विजयमुत्तमम्
पराजयं कुरूणां चाप्युपायान्तं तथोत्तरम्
सर्वा विनिर्जिता गावः कुरवश्च पराजिताः
उत्तरः सह सूतेन कुशली च परंतप
कङ्क उवाच
दिष्ट्या ते निर्जिता गावः कुरवश्च पराजिताः
दिष्ट्या ते जीवितः पुत्रः श्रूयते पार्थिवर्षभ
नाद्भुतं त्वेव मन्येऽहं यत्ते पुत्रोऽजयत्कुरून्
ध्रुव एव जयस्तस्य यस्य यन्ता बृहन्नडा
वैशंपायन उवाच
ततो विराटो नृपतिः संप्रहृष्टतनूरुहः
श्रुत्वा तु विजयं तस्य कुमारस्यामितौजसः
आच्छादयित्वा दूतांस्तान्मन्त्रिणः सोऽभ्यचोदयत्
राजमार्गाः क्रियन्तां मे पताकाभिरलंकृताः
पुष्पोपहारैरर्च्यन्तां देवताश्चापि सर्वशः
कुमारा योधमुख्याश्च गणिकाश्च स्वलंकृताः
वादित्राणि च सर्वाणि प्रत्युद्यान्तु सुतं मम
घण्टापणवकः शीघ्रं मत्तमारुह्य वारणम्
शृङ्गाटकेषु सर्वेषु आख्यातु विजयं मम
उत्तरा च कुमारीभिर्बह्वीभिरभिसंवृता
शृङ्गारवेषाभरणा प्रत्युद्यातु बृहन्नडाम्
श्रुत्वा तु तद्वचनं पार्थिवस्य; सर्वे पुनः स्वस्तिकपाणयश्च
भेर्यश्च तूर्याणि च वारिजाश्च; वेषैः परार्ध्यैः प्रमदाः शुभाश्च
तथैव सूताः सह मागधैश्च; नन्दीवाद्याः पणवास्तूर्यवाद्याः
पुराद्विराटस्य महाबलस्य; प्रत्युद्ययुः पुत्रमनन्तवीर्यम्
प्रस्थाप्य सेनां कन्याश्च गणिकाश्च स्वलंकृताः
मत्स्यराजो महाप्राज्ञः प्रहृष्ट इदमब्रवीत्
अक्षानाहर सैरन्ध्रि कङ्क द्यूतं प्रवर्तताम्
तं तथा वादिनं दृष्ट्वा पाण्डवः प्रत्यभाषत
न देवितव्यं हृष्टेन कितवेनेति नः श्रुतम्
न त्वामद्य मुदा युक्तमहं देवितुमुत्सहे
प्रियं तु ते चिकीर्षामि वर्ततां यदि मन्यसे
विराट उवाच
स्त्रियो गावो हिरण्यं च यच्चान्यद्वसु किंचन
न मे किंचित्त्वया रक्ष्यमन्तरेणापि देवितुम्
कङ्क उवाच
किं ते द्यूतेन राजेन्द्र बहुदोषेण मानद
देवने बहवो दोषास्तस्मात्तत्परिवर्जयेत्
श्रुतस्ते यदि वा दृष्टः पाण्डवो वै युधिष्ठिरः
स राज्यं सुमहत्स्फीतं भ्रातॄंश्च त्रिदशोपमान्
द्यूते हारितवान्सर्वं तस्माद्द्यूतं न रोचये
अथ वा मन्यसे राजन्दीव्याव यदि रोचते
वैशंपायन उवाच
प्रवर्तमाने द्यूते तु मत्स्यः पाण्डवमब्रवीत्
पश्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः
ततोऽब्रवीन्मत्स्यराजं धर्मपुत्रो युधिष्ठिरः
बृहन्नडा यस्य यन्ता कथं स न विजेष्यति
इत्युक्तः कुपितो राजा मत्स्यः पाण्डवमब्रवीत्
समं पुत्रेण मे षण्ढं ब्रह्मबन्धो प्रशंससि
वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे
भीष्मद्रोणमुखान्सर्वान्कस्मान्न स विजेष्यति
वयस्यत्वात्तु ते ब्रह्मन्नपराधमिमं क्षमे
नेदृशं ते पुनर्वाच्यं यदि जीवितुमिच्छसि
युधिष्ठिर उवाच
यत्र द्रोणस्तथा भीष्मो द्रौणिर्वैकर्तनः कृपः
दुर्योधनश्च राजेन्द्र तथान्ये च महारथाः
मरुद्गणैः परिवृतः साक्षादपि शतक्रतुः
कोऽन्यो बृहन्नडायास्तान्प्रतियुध्येत संगतान्
विराट उवाच
बहुशः प्रतिषिद्धोऽसि न च वाचं नियच्छसि
नियन्ता चेन्न विद्येत न कश्चिद्धर्ममाचरेत्
वैशंपायन उवाच
ततः प्रकुपितो राजा तमक्षेणाहनद्भृशम्
मुखे युधिष्ठिरं कोपान्नैवमित्येव भर्त्सयन्
बलवत्प्रतिविद्धस्य नस्तः शोणितमागमत्
तदप्राप्तं महीं पार्थः पाणिभ्यां प्रत्यगृह्णत
अवैक्षत च धर्मात्मा द्रौपदीं पार्श्वतः स्थिताम्
सा वेद तमभिप्रायं भर्तुश्चित्तवशानुगा
पूरयित्वा च सौवर्णं पात्रं कांस्यमनिन्दिता
तच्छोणितं प्रत्यगृह्णाद्यत्प्रसुस्राव पाण्डवात्
अथोत्तरः शुभैर्गन्धैर्माल्यैश्च विविधैस्तथा
अवकीर्यमाणः संहृष्टो नगरं स्वैरमागमत्
सभाज्यमानः पौरैश्च स्त्रीभिर्जानपदैस्तथा
आसाद्य भवनद्वारं पित्रे स प्रत्यहारयत्
ततो द्वाःस्थः प्रविश्यैव विराटमिदमब्रवीत्
बृहन्नडासहायस्ते पुत्रो द्वार्युत्तरः स्थितः
ततो हृष्टो मत्स्यराजः क्षत्तारमिदमब्रवीत्
प्रवेश्यतामुभौ तूर्णं दर्शनेप्सुरहं तयोः
क्षत्तारं कुरुराजस्तु शनैः कर्ण उपाजपत्
उत्तरः प्रविशत्वेको न प्रवेश्या बृहन्नडा
एतस्य हि महाबाहो व्रतमेतत्समाहितम्
यो ममाङ्गे व्रणं कुर्याच्छोणितं वापि दर्शयेत्
अन्यत्र संग्रामगतान्न स जीवेदसंशयम्
न मृष्याद्भृशसंक्रुद्धो मां दृष्ट्वैव सशोणितम्
विराटमिह सामात्यं हन्यात्सबलवाहनम्
वैशंपायन उवाच
ततो राज्ञः सुतो ज्येष्ठः प्राविशत्पृथिवींजयः
सोऽभिवाद्य पितुः पादौ धर्मराजमपश्यत
स तं रुधिरसंसिक्तमनेकाग्रमनागसम्
भूमावासीनमेकान्ते सैरन्ध्र्या समुपस्थितम्
ततः पप्रच्छ पितरं त्वरमाण इवोत्तरः
केनायं ताडितो राजन्केन पापमिदं कृतम्
विराट उवाच
मयायं ताडितो जिह्मो न चाप्येतावदर्हति
प्रशस्यमाने यः शूरे त्वयि षण्ढं प्रशंसति
उत्तर उवाच
अकार्यं ते कृतं राजन्क्षिप्रमेव प्रसाद्यताम्
मा त्वा ब्रह्मविषं घोरं समूलमपि निर्दहेत्
वैशंपायन उवाच
स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्रवर्धनः
क्षमयामास कौन्तेयं भस्मच्छन्नमिवानलम्
क्षमयन्तं तु राजानं पाण्डवः प्रत्यभाषत
चिरं क्षान्तमिदं राजन्न मन्युर्विद्यते मम
यदि ह्येतत्पतेद्भूमौ रुधिरं मम नस्ततः
सराष्ट्रस्त्वं महाराज विनश्येथा न संशयः
न दूषयामि ते राजन्यच्च हन्याददूषकम्
बलवन्तं महाराज क्षिप्रं दारुणमाप्नुयात्
शोणिते तु व्यतिक्रान्ते प्रविवेश बृहन्नडा
अभिवाद्य विराटं च कङ्कं चाप्युपतिष्ठत
क्षमयित्वा तु कौरव्यं रणादुत्तरमागतम्
प्रशशंस ततो मत्स्यः शृण्वतः सव्यसाचिनः
त्वया दायादवानस्मि कैकेयीनन्दिवर्धन
त्वया मे सदृशः पुत्रो न भूतो न भविष्यति
पदं पदसहस्रेण यश्चरन्नापराध्नुयात्
तेन कर्णेन ते तात कथमासीत्समागमः
मनुष्यलोके सकले यस्य तुल्यो न विद्यते
यः समुद्र इवाक्षोभ्यः कालाग्निरिव दुःसहः
तेन भीष्मेण ते तात कथमासीत्समागमः
आचार्यो वृष्णिवीराणां पाण्डवानां च यो द्विजः
सर्वक्षत्रस्य चाचार्यः सर्वशस्त्रभृतां वरः
तेन द्रोणेन ते तात कथमासीत्समागमः
आचार्यपुत्रो यः शूरः सर्वशस्त्रभृतामपि
अश्वत्थामेति विख्यातः कथं तेन समागमः
रणे यं प्रेक्ष्य सीदन्ति हृतस्वा वणिजो यथा
कृपेण तेन ते तात कथमासीत्समागमः
पर्वतं योऽभिविध्येत राजपुत्रो महेषुभिः
दुर्योधनेन ते तात कथमासीत्समागमः
उत्तर उवाच
न मया निर्जिता गावो न मया निर्जिताः परे
कृतं तु कर्म तत्सर्वं देवपुत्रेण केनचित्
स हि भीतं द्रवन्तं मां देवपुत्रो न्यवारयत्
स चातिष्ठद्रथोपस्थे वज्रहस्तनिभो युवा
तेन ता निर्जिता गावस्तेन ते कुरवो जिताः
तस्य तत्कर्म वीरस्य न मया तात तत्कृतम्
स हि शारद्वतं द्रोणं द्रोणपुत्रं च वीर्यवान्
सूतपुत्रं च भीष्मं च चकार विमुखाञ्शरैः
दुर्योधनं च समरे सनागमिव यूथपम्
प्रभग्नमब्रवीद्भीतं राजपुत्रं महाबलम्
न हास्तिनपुरे त्राणं तव पश्यामि किंचन
व्यायामेन परीप्सस्व जीवितं कौरवात्मज
न मोक्ष्यसे पलायंस्त्वं राजन्युद्धे मनः कुरु
पृथिवीं भोक्ष्यसे जित्वा हतो वा स्वर्गमाप्स्यसि
स निवृत्तो नरव्याघ्रो मुञ्चन्वज्रनिभाञ्शरान्
सचिवैः संवृतो राजा रथे नाग इव श्वसन्
तत्र मे रोमहर्षोऽभूदूरुस्तम्भश्च मारिष
यदभ्रघनसंकाशमनीकं व्यधमच्छरैः
तत्प्रणुद्य रथानीकं सिंहसंहननो युवा
कुरूंस्तान्प्रहसन्राजन्वासांस्यपहरद्बली
एकेन तेन वीरेण षड्रथाः परिवारिताः
शार्दूलेनेव मत्तेन मृगास्तृणचरा वने
विराट उवाच
क्व स वीरो महाबाहुर्देवपुत्रो महायशाः
यो मे धनमवाजैषीत्कुरुभिर्ग्रस्तमाहवे
इच्छामि तमहं द्रष्टुमर्चितुं च महाबलम्
येन मे त्वं च गावश्च रक्षिता देवसूनुना
उत्तर उवाच
अन्तर्धानं गतस्तात देवपुत्रः प्रतापवान्
स तु श्वो वा परश्वो वा मन्ये प्रादुर्भविष्यति
वैशंपायन उवाच
एवमाख्यायमानं तु छन्नं सत्रेण पाण्डवम्
वसन्तं तत्र नाज्ञासीद्विराटः पार्थमर्जुनम्
ततः पार्थोऽभ्यनुज्ञातो विराटेन महात्मना
प्रददौ तानि वासांसि विराटदुहितुः स्वयम्
उत्तरा तु महार्हाणि विविधानि तनूनि च
प्रतिगृह्याभवत्प्रीता तानि वासांसि भामिनी
मन्त्रयित्वा तु कौन्तेय उत्तरेण रहस्तदा
इतिकर्तव्यतां सर्वां राजन्यथ युधिष्ठिरे
ततस्तथा तद्व्यदधाद्यथावत्पुरुषर्षभ
सह पुत्रेण मत्स्यस्य प्रहृष्टो भरतर्षभः
वैशंपायन उवाच
ततस्तृतीये दिवसे भ्रातरः पञ्च पाण्डवाः
स्नाताः शुक्लाम्बरधराः समये चरितव्रताः
युधिष्ठिरं पुरस्कृत्य सर्वाभरणभूषिताः
अभिपद्मा यथा नागा भ्राजमाना महारथाः
विराटस्य सभां गत्वा भूमिपालासनेष्वथ
निषेदुः पावकप्रख्याः सर्वे धिष्ण्येष्विवाग्नयः
तेषु तत्रोपविष्टेषु विराटः पृथिवीपतिः
आजगाम सभां कर्तुं राजकार्याणि सर्वशः
श्रीमतः पाण्डवान्दृष्ट्वा ज्वलतः पावकानिव
अथ मत्स्योऽब्रवीत्कङ्कं देवरूपमवस्थितम्
मरुद्गणैरुपासीनं त्रिदशानामिवेश्वरम्
स किलाक्षातिवापस्त्वं सभास्तारो मया कृतः
अथ राजासने कस्मादुपविष्टोऽस्यलंकृतः
परिहासेप्सया वाक्यं विराटस्य निशम्य तत्
स्मयमानोऽर्जुनो राजन्निदं वचनमब्रवीत्
इन्द्रस्याप्यासनं राजन्नयमारोढुमर्हति
ब्रह्मण्यः श्रुतवांस्त्यागी यज्ञशीलो दृढव्रतः
अयं कुरूणामृषभः कुन्तीपुत्रो युधिष्ठिरः
अस्य कीर्तिः स्थिता लोके सूर्यस्येवोद्यतः प्रभा
संसरन्ति दिशः सर्वा यशसोऽस्य गभस्तयः
उदितस्येव सूर्यस्य तेजसोऽनु गभस्तयः
एनं दश सहस्राणि कुञ्जराणां तरस्विनाम्
अन्वयुः पृष्ठतो राजन्यावदध्यावसत्कुरून्
त्रिंशदेनं सहस्राणि रथाः काञ्चनमालिनः
सदश्वैरुपसंपन्नाः पृष्ठतोऽनुययुः सदा
एनमष्टशताः सूताः सुमृष्टमणिकुण्डलाः
अस्तुवन्मागधैः सार्धं पुरा शक्रमिवर्षयः
एनं नित्यमुपासन्त कुरवः किंकरा यथा
सर्वे च राजन्राजानो धनेश्वरमिवामराः
एष सर्वान्महीपालान्करमाहारयत्तदा
वैश्यानिव महाराज विवशान्स्ववशानपि
अष्टाशीतिसहस्राणि स्नातकानां महात्मनाम्
उपजीवन्ति राजानमेनं सुचरितव्रतम्
एष वृद्धाननाथांश्च व्यङ्गान्पङ्गूंश्च मानवान्
पुत्रवत्पालयामास प्रजा धर्मेण चाभिभो
एष धर्मे दमे चैव क्रोधे चापि यतव्रतः
महाप्रसादो ब्रह्मण्यः सत्यवादी च पार्थिवः
श्रीप्रतापेन चैतस्य तप्यते स सुयोधनः
सगणः सह कर्णेन सौबलेनापि वा विभुः
न शक्यन्ते ह्यस्य गुणाः प्रसंख्यातुं नरेश्वर
एष धर्मपरो नित्यमानृशंस्यश्च पाण्डवः
एवंयुक्तो महाराजः पाण्डवः पार्थिवर्षभः
कथं नार्हति राजार्हमासनं पृथिवीपतिः
विराट उवाच
यद्येष राजा कौरव्यः कुन्तीपुत्रो युधिष्ठिरः
कतमोऽस्यार्जुनो भ्राता भीमश्च कतमो बली
नकुलः सहदेवो वा द्रौपदी वा यशस्विनी
यदा द्यूते जिताः पार्था न प्राज्ञायन्त ते क्वचित्
अर्जुन उवाच
य एष बल्लवो ब्रूते सूदस्तव नराधिप
एष भीमो महाबाहुर्भीमवेगपराक्रमः
एष क्रोधवशान्हत्वा पर्वते गन्धमादने
सौगन्धिकानि दिव्यानि कृष्णार्थे समुपाहरत्
गन्धर्व एष वै हन्ता कीचकानां दुरात्मनाम्
व्याघ्रानृक्षान्वराहांश्च हतवान्स्त्रीपुरे तव
यश्चासीदश्वबन्धस्ते नकुलोऽयं परंतपः
गोसंख्यः सहदेवश्च माद्रीपुत्रौ महारथौ
शृङ्गारवेषाभरणौ रूपवन्तौ यशस्विनौ
नानारथसहस्राणां समर्थौ पुरुषर्षभौ
एषा पद्मपलाशाक्षी सुमध्या चारुहासिनी
सैरन्ध्री द्रौपदी राजन्यत्कृते कीचका हताः
अर्जुनोऽहं महाराज व्यक्तं ते श्रोत्रमागतः
भीमादवरजः पार्थो यमाभ्यां चापि पूर्वजः
उषिताः स्म महाराज सुखं तव निवेशने
अज्ञातवासमुषिता गर्भवास इव प्रजाः
वैशंपायन उवाच
यदार्जुनेन ते वीराः कथिताः पञ्च पाण्डवाः
तदार्जुनस्य वैराटिः कथयामास विक्रमम्
अयं स द्विषतां मध्ये मृगाणामिव केसरी
अचरद्रथवृन्देषु निघ्नंस्तेषां वरान्वरान्
अनेन विद्धो मातङ्गो महानेकेषुणा हतः
हिरण्यकक्ष्यः संग्रामे दन्ताभ्यामगमन्महीम्
अनेन विजिता गावो जिताश्च कुरवो युधि
अस्य शङ्खप्रणादेन कर्णौ मे बधिरीकृतौ
तस्य तद्वचनं श्रुत्वा मत्स्यराजः प्रतापवान्
उत्तरं प्रत्युवाचेदमभिपन्नो युधिष्ठिरे
प्रसादनं पाण्डवस्य प्राप्तकालं हि रोचये
उत्तरां च प्रयच्छामि पार्थाय यदि ते मतम्
उत्तर उवाच
अर्च्याः पूज्याश्च मान्याश्च प्राप्तकालं च मे मतम्
पूज्यन्तां पूजनार्हाश्च महाभागाश्च पाण्डवाः
विराट उवाच
अहं खल्वपि संग्रामे शत्रूणां वशमागतः
मोक्षितो भीमसेनेन गावश्च विजितास्तथा
एतेषां बाहुवीर्येण यदस्माकं जयो मृधे
वयं सर्वे सहामात्याः कुन्तीपुत्रं युधिष्ठिरम्
प्रसादयामो भद्रं ते सानुजं पाण्डवर्षभम्
यदस्माभिरजानद्भिः किंचिदुक्तो नराधिपः
क्षन्तुमर्हति तत्सर्वं धर्मात्मा ह्येष पाण्डवः
वैशंपायन उवाच
ततो विराटः परमाभितुष्टः; समेत्य राज्ञा समयं चकार
राज्यं च सर्वं विससर्ज तस्मै; सदण्डकोशं सपुरं महात्मा
पाण्डवांश्च ततः सर्वान्मत्स्यराजः प्रतापवान्
धनंजयं पुरस्कृत्य दिष्ट्या दिष्ट्येति चाब्रवीत्
समुपाघ्राय मूर्धानं संश्लिष्य च पुनः पुनः
युधिष्ठिरं च भीमं च माद्रीपुत्रौ च पाण्डवौ
नातृप्यद्दर्शने तेषां विराटो वाहिनीपतिः
संप्रीयमाणो राजानं युधिष्ठिरमथाब्रवीत्
दिष्ट्या भवन्तः संप्राप्ताः सर्वे कुशलिनो वनात्
दिष्ट्या च पारितं कृच्छ्रमज्ञातं वै दुरात्मभिः
इदं च राज्यं नः पार्था यच्चान्यद्वसु किंचन
प्रतिगृह्णन्तु तत्सर्वं कौन्तेया अविशङ्कया
उत्तरां प्रतिगृह्णातु सव्यसाची धनंजयः
अयं ह्यौपयिको भर्ता तस्याः पुरुषसत्तमः
एवमुक्तो धर्मराजः पार्थमैक्षद्धनंजयम्
ईक्षितश्चार्जुनो भ्रात्रा मत्स्यं वचनमब्रवीत्
प्रतिगृह्णाम्यहं राजन्स्नुषां दुहितरं तव
युक्तश्चावां हि संबन्धो मत्स्यभारतसत्तमौ
विराट उवाच
किमर्थं पाण्डवश्रेष्ठ भार्यां दुहितरं मम
प्रतिग्रहीतुं नेमां त्वं मया दत्तामिहेच्छसि
अर्जुन उवाच
अन्तःपुरेऽहमुषितः सदा पश्यन्सुतां तव
रहस्यं च प्रकाशं च विश्वस्ता पितृवन्मयि
प्रियो बहुमतश्चाहं नर्तको गीतकोविदः
आचार्यवच्च मां नित्यं मन्यते दुहिता तव
वयःस्थया तया राजन्सह संवत्सरोषितः
अतिशङ्का भवेत्स्थाने तव लोकस्य चाभिभो
तस्मान्निमन्त्रये त्वाहं दुहितुः पृथिवीपते
शुद्धो जितेन्द्रियो दान्तस्तस्याः शुद्धिः कृता मया
स्नुषाया दुहितुर्वापि पुत्रे चात्मनि वा पुनः
अत्र शङ्कां न पश्यामि तेन शुद्धिर्भविष्यति
अभिषङ्गादहं भीतो मिथ्याचारात्परंतप
स्नुषार्थमुत्तरां राजन्प्रतिगृह्णामि ते सुताम्
स्वस्रीयो वासुदेवस्य साक्षाद्देवशिशुर्यथा
दयितश्चक्रहस्तस्य बाल एवास्त्रकोविदः
अभिमन्युर्महाबाहुः पुत्रो मम विशां पते
जामाता तव युक्तो वै भर्ता च दुहितुस्तव
विराट उवाच
उपपन्नं कुरुश्रेष्ठे कुन्तीपुत्रे धनंजये
य एवं धर्मनित्यश्च जातज्ञानश्च पाण्डवः
यत्कृत्यं मन्यसे पार्थ क्रियतां तदनन्तरम्
सर्वे कामाः समृद्धा मे संबन्धी यस्य मेऽर्जुनः
वैशंपायन उवाच
एवं ब्रुवति राजेन्द्रे कुन्तीपुत्रो युधिष्ठिरः
अन्वजानात्स संयोगं समये मत्स्यपार्थयोः
ततो मित्रेषु सर्वेषु वासुदेवे च भारत
प्रेषयामास कौन्तेयो विराटश्च महीपतिः
ततस्त्रयोदशे वर्षे निवृत्ते पञ्च पाण्डवाः
उपप्लव्ये विराटस्य समपद्यन्त सर्वशः
तस्मिन्वसंश्च बीभत्सुरानिनाय जनार्दनम्
आनर्तेभ्योऽपि दाशार्हानभिमन्युं च पाण्डवः
काशिराजश्च शैब्यश्च प्रीयमाणौ युधिष्ठिरे
अक्षौहिणीभ्यां सहितावागतौ पृथिवीपते
अक्षौहिण्या च तेजस्वी यज्ञसेनो महाबलः
द्रौपद्याश्च सुता वीराः शिखण्डी चापराजितः
धृष्टद्युम्नश्च दुर्धर्षः सर्वशस्त्रभृतां वरः
समस्ताक्षौहिणीपाला यज्वानो भूरिदक्षिणाः
सर्वे शस्त्रास्त्रसंपन्नाः सर्वे शूरास्तनुत्यजः
तानागतानभिप्रेक्ष्य मत्स्यो धर्मभृतां वरः
प्रीतोऽभवद्दुहितरं दत्त्वा तामभिमन्यवे
ततः प्रत्युपयातेषु पार्थिवेषु ततस्ततः
तत्रागमद्वासुदेवो वनमाली हलायुधः
कृतवर्मा च हार्दिक्यो युयुधानश्च सात्यकिः
अनाधृष्टिस्तथाक्रूरः साम्बो निशठ एव च
अभिमन्युमुपादाय सह मात्रा परंतपाः
इन्द्रसेनादयश्चैव रथैस्तैः सुसमाहितैः
आययुः सहिताः सर्वे परिसंवत्सरोषिताः
दश नागसहस्राणि हयानां च शतायुतम्
रथानामर्बुदं पूर्णं निखर्वं च पदातिनाम्
वृष्ण्यन्धकाश्च बहवो भोजाश्च परमौजसः
अन्वयुर्वृष्णिशार्दूलं वासुदेवं महाद्युतिम्
पारिबर्हं ददौ कृष्णः पाण्डवानां महात्मनाम्
स्त्रियो रत्नानि वासांसि पृथक्पृथगनेकशः
ततो विवाहो विधिवद्ववृते मत्स्यपार्थयोः
ततः शङ्खाश्च भेर्यश्च गोमुखाडम्बरास्तथा
पार्थैः संयुज्यमानस्य नेदुर्मत्स्यस्य वेश्मनि
उच्चावचान्मृगाञ्जघ्नुर्मेध्यांश्च शतशः पशून्
सुरामैरेयपानानि प्रभूतान्यभ्यहारयन्
गायनाख्यानशीलाश्च नटा वैतालिकास्तथा
स्तुवन्तस्तानुपातिष्ठन्सूताश्च सह मागधैः
सुदेष्णां च पुरस्कृत्य मत्स्यानां च वरस्त्रियः
आजग्मुश्चारुसर्वाङ्ग्यः सुमृष्टमणिकुण्डलाः
वर्णोपपन्नास्ता नार्यो रूपवत्यः स्वलंकृताः
सर्वाश्चाभ्यभवत्कृष्णा रूपेण यशसा श्रिया
परिवार्योत्तरां तास्तु राजपुत्रीमलंकृताम्
सुतामिव महेन्द्रस्य पुरस्कृत्योपतस्थिरे
तां प्रत्यगृह्णात्कौन्तेयः सुतस्यार्थे धनंजयः
सौभद्रस्यानवद्याङ्गीं विराटतनयां तदा
तत्रातिष्ठन्महाराजो रूपमिन्द्रस्य धारयन्
स्नुषां तां प्रतिजग्राह कुन्तीपुत्रो युधिष्ठिरः
प्रतिगृह्य च तां पार्थः पुरस्कृत्य जनार्दनम्
विवाहं कारयामास सौभद्रस्य महात्मनः
तस्मै सप्त सहस्राणि हयानां वातरंहसाम्
द्वे च नागशते मुख्ये प्रादाद्बहु धनं तदा
कृते विवाहे तु तदा धर्मपुत्रो युधिष्ठिरः
ब्राह्मणेभ्यो ददौ वित्तं यदुपाहरदच्युतः
गोसहस्राणि रत्नानि वस्त्राणि विविधानि च
भूषणानि च मुख्यानि यानानि शयनानि च
तन्महोत्सवसंकाशं हृष्टपुष्टजनावृतम्
नगरं मत्स्यराजस्य शुशुभे भरतर्षभ