diff --git "a/rajatarangini_clean.csv" "b/rajatarangini_clean.csv" new file mode 100644--- /dev/null +++ "b/rajatarangini_clean.csv" @@ -0,0 +1,2630 @@ +sanskrit_verse_devanagari +जोनराज अन्द् प्सेउदो-जोनराज: राजतरङ्गिनी +जोनराज अन्द् प्सेउदो-जोनराज: राजतरङ्गिनी +सिद्धे यत्र सति त्रपाकुलम् इव स्पर्धाभिलाषाहतेर् अन्तर्धिं वहति त्रिलोकमहितं शेषं निजार्धद्वयम् +स्नेहैकीभवदाशयद्वयजयाकाङ्क्षीव गाढं मिलद्देहार्धद्वयम् अस्तु तद् भगवतोस् सद्भावसम्पत्तये +दातुं भक्ताय कल्याणं गर्भं बिभ्रद् इवान्वहम् +तुन्दिभो गणराजस् स विघ्नशान्तिं करोतु नः +श्रीगोनन्दमुखैर् धर्मसम्मुखैर् आ कलेह्॒ किल +कश्मीरकाश्यपी भूपैर् अपालि गुणशालिभिः +तेषाम् अभाग्यहेमन्तनिशातमसि तिष्ठति +नैव कश्चिद् अपश्यत् तान् काव्यार्कानुदयाच् चिरम् +रसमय्या गिरा वृद्धां नित्यतारुण्यम् आपिपत् +अथ श्रीजयसिंहान्तां तत्कीर्तिं कल्हणह्॒ कविः +ततो देशादिदोषेण तदभाग्यैर् अथापि वा +कविर् वाक्सुधया कश्चिन् नाजिजीवत् परान् नृपान् +श्रीजैनोल्लाभदीने क्ष्मां सम्प्रत्य् अक्षति रक्षति +जोनराजाभिधस् तेषां उद्यतो वृत्तवर्णने +दर्पग्लानिभवां राजपान्थानां तापसन्ततिम् +हन्तुं संरोपितह्॒ काव्यद्रुमो भाविफलोदयः +उपस्काररसं क्षिप्त्वा विनयामृतशीतलैः +सज्जनैर् वर्धनीयो ऽयम् अपि यत्नेन भूयसा +मग्नान् विस्मृतिपाथोधाव् अतीतान् नृपतीन् इमान् +श्रीजैनोल्लाभदीनस्य कारुण्याद् उज्जिहीर्षतः +सर्वधर्माधिकारेषु नियुक्तस्य दयावतः +मुखाच् छ्रीशिर्यभट्टस्य प्राप्याज्ञाम् अनवज्ञया +राजावलिं पूरयितुं सम्प्रति प्रतिभा मम +कविनामाभिलाषेण न तु यस्मान् ममोद्यमः +क्व चुण्ठीजलवन् मद्वाक् क्व च काव्यतरङ्गितम् +छायामात्रानुकारेण किं नडं पुण्ड्रकायते +अन्तश्शून्यां लघुं प्रज्ञां तुम्बीम् इव वहन्न् अहम् +पारं राजतरङ्गिण्या गन्तुं हन्तोद्यमं गतः +पृथ्वीनाथगुणाध्याने चापलं मे न दूषणम् +अलङ्कारैर् अहङ्कारात् कुरूपापि हि वल्गति +कवीनाम् उपयोग्या वा मद्वाक् स्वान्तरशुद्धये +गङ्गाजलं जलं तेषां यैर् न पीतं जलान्तरम् +राजोदन्तकथासूत्रपातमात्रं कृतं मया +कुर्वन्तु रचनाम् अत्र चतुराह्॒ कविशिल्पिनः +मणीनां घर्षणायैव महाशाणस्य नैपुणम् +कान्तिप्रणयने तेषां मुखसारमणेस् तु तत् +विनैव प्रार्थनां काव्यं कवेः पश्यन्ति साधवः +किम् अर्थितश् शशी विश्वं सुधासारेण सिञ्चति +अनुनीतो ऽपि कालुष्यं खलह्॒ काव्ये न मुञ्चति +सुधाधौतो ऽपि नाङ्गारश् शुभ्रताम् एति जातुचित् +पश्यन्तु मत्काव्यम् इति चिरं दूरं गता कवेः +अन्तःपरमुखप्रेक्षिभावदैन्यकदर्थना +समस् स्याद् अप्रवीणानां गीतसंस्कृतयो रसः +वानरा युञ्जते गुञ्जाश् शीते वह्निकणभ्रमात् +काव्यं श्रुतम् अपि प्रीत्यै नाबोधोपहतात्मनाम् +हीनदन्तबलस्येक्षुर् मुखे न्यस्तह्॒ करोति किम् +पदार्थसुन्दरे काव्ये दर्शिते निर्मलात्मनाम् +दुर्वारं गुणरत्नानां मत्सरप्रतिबिम्बनम् +लक्ष्मणा दूषयन्न् इन्दुं बुधं मत्सरयक्ष्मणा +विधाता वाच्यताम् एति परोद्रेकासहाग्रणीः +मद्वाक् कल्हणकाव्यान्तःप्रवेशाद् एतु चर्वणम् +नड्वलाम्बु सरित्तोये पतितं पीयते न किम् +१) जयसिंह (ल्स् ४२०३-४२३०) +जगदानन्दनो देवद्विजातिकृतवन्दनः +क्षितिसङ्क्रन्दनस् श्रीमान् आसीत् सुस्सलनन्दनः +गजराजैकवाहत्वप्रसिद्धिम् अपि बिभ्रती +जयसिंहाभिधाने श्रीश् चित्रं यस्मिन् सदावसत् +वाग्देव्या लालिते मात्रा श्रियो भोक्तरि भूपतौ +तयोश् श्वश्रूस्नुषात्वेन नैवादर्शि विरोधिता +त्रिगर्ताधिपतेर् वश्यं मल्लं जातु सुशर्मणः +वैरिनिर्वासितं प्राप्तं वृत्तिकामं नृपो ऽग्रहीत् +सर्वत्रौषधयस् तृणानि मणयो ग्रावाण एवाखिलैर् मन्यन्ते गुणिनो दिगन्तरगतास् तावज् जनाः प्राकृताः +यावन् नैव नयन्ति कर्मभिर् अभिध्येयप्रकर्षप्रथैश् चित्रप्रायदशैश् च निर्मलम् अतिस्फारं जनं रञ्जनम् +वसुधावासवे याते जेतुं यवनमेदिनीम् +सैन्यस्य वल्लभो मल्लश् शौर्योद्रेकाद् अथाभवत् +हतशेषं तुरुष्केशसैन्यं तुलयितुं निशि +शिबिरं मल्लचन्द्रो ऽगाद् रिपूणां साहसोर्जितः +यत्र न प्राविशद् वायुर् भीत्येव सुभटैर् वृते +ध्रुवं मन्त्रौषधिबलात् प्रविश्यात्र बलान्तरे +सुप्तद्रोहांहसो भीतेर् अनिघ्नन् यवनेश्वरम् +उपानहौ स्वनामाङ्के निनायास्य शिरस्त्रताम् +उपानहौ परिज्ञाय गृहीत्वा चाथ सो ऽप्य् अरिः +भूपतेश् शिबिरं यातश् श्रियं कीर्तिम् इवादित +द्वे मूर्ती तपनानलाव् अथ तथा शंभोश् शशाङ्काम्भसी नेता हन्त मिथो गतानुगतिको लोकस् तुलां तां द्वयीम् +सूर्याचन्द्रमसोर् यथास्वम् उपलैह्॒ कान्तैर् विशेषं परं तेषां तत्प्रतियोग्यसम्भविगुणैर् लब्धा जनो ऽरोचकी +त्रिंशे ऽब्दे फाल्गुणे कृष्णद्वादश्यां भूमिवल्लभः +स्वसौभाग्येन दिव्यस्त्रीदृशम् अप्रीणयत्तराम् +२) परमाणुक (ल्स् ४२३०-४२४०) +अथाभ्यषेचि तत्पुत्रो जडैस् स परमाणुकः +अणीयःपत्त्रविस्तारैह्॒ कुन्दो माघदिनैर् इव +अवधूय प्रजात्राणम् अवधीर्य च दिग्जयम् +कर्तुं प्रारभताखिन्नं राजा कोशस्य सञ्चयम् +दातुं भोक्तुम् अनीशस्य श्रोत्रियस्येव सम्पदम् +प्रयागजनकौ धूर्तौ राज्ञो मुमुषतुश् श्रियम् +तौ हि स्वभृत्यैर् निस्सत्यौ कारितै राक्षसाकृतिम् +तम् अत्रासयतां रात्रौ रात्रौ चित्रेण कर्मणा +मिथ्यात्मनीनतां तस्य नाटयन्तौ कुमन्त्रिणौ +"""रक्षासून्"" इति तौ वित्तं त्याजयाम् आसतुर् नृपम्" +स्थाने भिषायकस्यैताव् आदिश्य स्वानुजीविनम् +तृणच्छन्नं महारत्नैश् चैत्र्यां पूजयतस् स्म तौ +स पुनह्॒ कृतसङ्केतः पश्यत्स्व् अथ जनेष्व् अहो +राज्ञह्॒ कृत्वाशिषं रात्रौ सालङ्कारो ययौ वनम् +"""भिषायको बलिं यत् ते गृहीत्वा व्यधिताशिषः" +"निर्विघ्नं भावि त्वद्राज्यम्"" इति तौ भूपम् ऊचतुः" +[प्स्-ज्र्त् १] +भिषायकदिने भृत्यं स्वं कृत्वा तौ भिषायकम् +रत्नैर् अभ्यर्च्य विपिनं नीत्वाथ प्रत्यमुञ्चताम् +"""कुबेरस् त्वयि तुष्टो ऽद्य नानारत्नविभूषितः" +"कृत्वा तवाशिषं लोकसमक्षं स तिरोहितः""" +इत्य् उक्त्वा भूपतेस् मुग्धस्य कृपणस्य च प्रयागजनकौ धूर्तौ प्रसादं प्रत्यदापिताम् +एवं कदीश्वरस्यास्य बालस्येव विभीषिकाः +सन्दर्श्य कोशं निश्शेषं लुण्ठयां चक्रतुर् विटौ +राजा सार्धान् नवाब्दान् स क्ष्मां भुक्त्वा दिवसान् दश +चत्वारिंशाब्दनाभस्यसिताष्टम्यां लयं ययौ +३) वन्तिदेव (ल्स् ४२४०-४२४७) +वन्तिदेवाभिधस् सप्तचत्वारिंशे ऽथ वत्सरे +भाद्रशुक्लदशम्यां स तस्य पुत्रो व्यपद्यत +४) वोप्पदेव (ल्स् ४२४७-४२५६) +वोप्पदेवाभिधः पौरैर् योग्यालाभान् नृपह्॒ कृतः +प्रापितो घासरचितः पूजाम् इव भिषायकः +दृष्ट्वा स्थूलशिला हृष्टो मूढस् सो ऽथ स्वमन्त्रिणः +"आदिशत् ""स्तन्यपानेन वर्ध्यन्ताम् इतरा"" इति" +श्रुत्वा तत्स्थानमाहात्म्यं बालिशो मन्त्रिभिस् सह +आगात् सुरेश्वरीक्षेत्रं नौपथेन स जातुचित् +अप्सु स्वप्रतिबिम्बे ऽस्य कुर्वतो मुखवैकृतम् +रुषा चपेटां ददतो न्यपतन् मणिमुद्रिका +"""राज्ञह्॒ क्व मणिमुद्रे""ति पृच्छतस् सो ऽभ्यधाद् इति" +"""पतिता सा जले रेखा तत्राभिज्ञानम्"" आचरन्" +एवं निदर्शनीभूय मूर्खाणां नामराजतां +नवाब्दांश् चतुरो मासान् सार्धान् द्वे च दिने व्यधात् +५) ज���्सक (ल्स् ४२५६-४२७४) +तस्यानुजो ऽथ भूभारम् अनिच्छन्न् अपि जस्सकः +स्ववृद्धिकामैर् अत्यज्ञो लवन्यैर् अभ्यषिच्यत +बध्यन्ते न शुका इवोदितवचस्संवादिनो वायसा +भूमिश् शर्करिलोर्वरेव भजते नो घर्षणक्षोदनम् +अश्मा सैन्धववन् न जातु गमितो निष्पिष्य चूर्णीकृतिं +केषाञ्चिद् गुणवद् गुणाय महते दोषो ऽपि सञ्जायते +सोदरौ क्षुक्षभीमाख्यौ द्विजौ तस्य महीभुजः +धूर्तत्वेन प्रियाव् आज्ञाम् अचिराद् उदलङ्घताम् +"""समर्थाव् अतिसामर्थ्यौ स कथं नौ सहिष्यते""" +भूपं मत्वापि सामर्षं नान्यं वव्रतुर् इत्य् अमू +स्वयं यच् च न संभेजे तयोर् एको नृपश्रियम् +लवन्योत्सिक्तता हेतुर् न त्व् अनौचित्यशङ्किता +[प्स्-ज्र्त् २] तत्र हेतुर् लवन्येन्द्रभयं नानौचिती पुनः ज्र्त्_ब्.६३एफ़् +यान्त्य् अङ्गसङ्गमम् अनङ्कुशम् अङ्कयन्ति रागं प्रदर्श्य हृदि कम्पम् उदञ्चयन्ति +व्यापादयन्ति विषवेदनया विशेषाद् विश्वास्य दुष्टपिटिका युवतीश् च हा धिक् +वार्द्धकक्षीणशक्तित्वाद् विरक्ता स्ववधूर् अपि +हत्वा क्षुक्षं विषेणाशु भीमं भोगम् अकारयत् +सा देवरस्य सङ्गेन श्वित्रसञ्चित्रिता सती +दानेन माधवादीनां स्वपापं पर्यणीनमत् +सो ऽष्टादशाब्दान् क्ष्मां भुक्त्वा सत्रयोदशवासरान् +युगागाङ्काब्दमाघान्त्यदशम्यां प्रलयं ययौ +६) जगदेव (ल्स् ४२७४-४२८९) +ततश् श्रीजगदेवस् तत्तनयो विनयोर्जितः +ततान जनताहर्षं मधुमास इवाधिकम् +परस्परविरुद्धानां भृत्यानां तुल्यवृत्तिता +तत्राभूद् उत्पलाब्जानाम् इव सन्ध्यागमक्षणे +उज्जहार महीनाथः पृथुविज्ञानकौशलः +भूतले दुर्व्यवस्थानं शल्यं शल्यहरो यथा +मनश्शल्यायमानस् स निस्सामान्यगुणो नृपः +कुचक्रिकाबलाद् देशान् मन्त्रिभिर् निरवास्यत +निग्रहानुग्रहाधायिमन्त्रज्ञं गुणराहुलम् +स प्रापत् सचिवं मित्रं कपीन्द्रम् इव राघवः +उदयप्राप्तिलोभेन सूरद्विजपती समम् +अगाताम् अथ कश्मीरदेशं तौ विस्मयावहौ +चिरं भुक्तां श्रियं त्यक्तुम् अनीशास् समरोद्यताः +तन्मन्त्रौजोहुताशान्तः प्रापुश् शलभतां द्विषः +जित्वा क्ष्मां बुभुजे भूपश् छत्त्रचामरहासिनीम् +लक्ष्मीम् अराजलक्ष्मां तु श्रीगुणाकरराहुलः +राजा रज्जुपुरे राजद्राजतच्छत्त्रधारिणम् +हर्षेश्वरस्य प्रासादं निर्ममे निर्ममेहितः +वाल्लभ्याद् द्वारपतितां पद्मेनाप्तवता ततः +दु��ात्मनावधि च्छन्नविषदानेन भूपतिः +रक्षित्वा क्षितिम् अब्दान् स सत्र्यहर्तूंश् चतुर्दश +नन्दाष्टाङ्काब्दचैत्रान्त्यचतुर्दश्यां लयं ययौ +७) राजदेव (ल्स् ४२८९-४३१२) +तत्पुत्रो राजदेवो ऽथ काष्ठवाटं भयाद् गतः +आनिन्ये वामपार्श्वस्थैर् द्वारेशस्य विरोधिभिः +तं सल्हणाख्यदुर्गान्तः प्रविष्टं दुष्टचेष्टितः +अवेष्टयद् बलैः पद्मो मण्डलैर् इव पन्नगम् +उपायनीकृतापूर्वपादुकालोककौतुकात् +प्रमत्तं को ऽपि चण्डालो द्वारेशम् अवधीद् रणे +अभिषिक्तस् ततो भट्टैस् स भेरीशङ्खनिस्स्वनम् +प्रणतानन्तसामन्तस् सेवकान् अन्वजिग्रहत् +असामान्यो लवन्येन्द्रान् स वास्तव्यकुटुम्बिताम् +निन्ये क्षोणीपरिवृढो रूढभारोढिम् आदिशन् +[प्स्-ज्र्त् ३] लवन्यवन्यकरिणां दर्पनिर्दलनं व्यधात् नरसिंहो महातेजा वनानाम् इव पावकः +मल्लैर् बलाढ्यचन्द्रस्य बलिनो लहरेशितुः +हरतश् श्रीनगर्यर्धस्वाम्यं न प्राभवत् तु सः +पुण्यं राशीभवन् मूर्तम् इवाथ स्वाभिधाङ्कितम् +बलाढ्यचन्द्रस् सान्द्रौजा नगरान्तर् मठं व्यधात् +"""को ऽयं खशो मृदुह्॒ कश्चिद् अस्माभिर् अभिषिच्यते""" +अमन्त्रयन्न् इदं भट्टा राज्ञावगणिताश् चिरात् +"""न भट्टो ऽहं न भट्टो ऽहं न भट्टो ऽहम्"" इदं वचः" +अश्रूयतापि भट्टेभ्यो निर्दिष्टे भट्टलुण्ठने +तदैव विमलाचार्यश् शाके खेषुनवाङ्किते +षडद्रिनन्दमासस्य मलभ्रमम् अवारयत् +निर्ममे निर्ममो राजपुरीं राजोलकं तथा +राजदेवस् स राजेन्दुर् आजन्मार्जितमङ्गलः +अहानि सप्तविंशानि त्रयोविंशांश् च वत्सरान् +मासत्रयीं च राजा स क्ष्मां रक्षित्वा क्षयं ययौ +८) सङ्ग्रामदेव (ल्स् ४३१२-४३२८) +सङ्ग्रामदेवस् तत्पुत्रो गोत्रासुत्रामतां भजन् +त्रासम् आसूत्रयद् राजसिंहश् शात्रवदन्तिनाम् +विस्रम्भात् सूर्यम् अनुजं चक्रे प्रतिनिधिं स्वयम् +कुचक्रिकस् स भोगेभ्यो लुभ्यन् द्रोहम् अचिन्तयत् +श्रुतद्रोहो महीभर्त्रा भीतस् स लहरेशितुः +चन्द्रस्य मण्डलं सूर्यः प्राविक्षद् उदयेच्छया +दारुणे रणकाले स सूर्यं चन्द्रान्वितं तदा +स्वर्भानुर् इव भूभानुश् चित्रं समम् अमीमिलत् +शमालाधिपतिस् तुङ्गस् सूर्यं पार्श्वं नयन् मदात् +कृतयात्रेण राज्ञाथ नीचभावम् अनीयत +मार्गैर् निरिन्दुरविभिश् चौरवद् रजनौ भ्रमन् +विटत्यक्तस् ततस् सूर्यो बद्ध्वा राज्ञा व्यपाद्यत +स्व��क्ष्मीं रक्षितुं साक्षात् तस्मिन्न् आत्तक्षणे प्रभौ +अकारयन्न् अहिभयं स्तेनाह्॒ कल्हणनन्दनाः +गोत्रजेषु बलिष्ठेषु नष्टाशस् सो ऽथ भूपतिः +शिष्टम् इष्टं च शरणम् अगाद् राजपुरीपतिम् +तस्मिन् दण्डधरे दूरं याते डामरफेरवः +अन्त्राण्य् अपि विशाम् आशुर् निश्शेषं रक्तपायिनः +राज्ञा सुमनसा त्यक्तं द्विजैश् च स्पर्शदूषितम् +भोज्यं डामरडोम्बानां तद् राज्यान्नम् अभूच् चिरम् +स्वमण्डले विशीर्णे ऽथ परमण्डलम् आविशन् +न कैर् अनुमतो राजा प्रत्यासन्ननवोदयः +प्रत्यक्षतो राजपुर्यास् स रिपून् समरे जयन् +ब्राह्मण्यात् काल्हणीन् रक्षन् राज्यं पुण्यं च लब्धवान् +एकविंशतिशालं स श्रीविशालं विशाम्पतिः +गोद्विजानां निवासाय चकार विजयेश्वरे +काल्हणप्रणिधीनां स द्विषां लुण्ठनकाङ्क्षिणाम् +चौराणाम् इव दीपो ऽभूद् द्वेषणीयो महीपतिः +शाखाक्रान्तदिगन्तस् स सदुराशैर् दुराशयैः +कविकल्पद्रुमो राजा विच्छिन्नह्॒ कल्हणात्मजैः +नायकीकृत्य तं भूपं कविः पण्डितयःशकः +स्वोक्तिहारलतां विद्वत्कण्ठभूषात्वम् आनयत् +षोडशाब्दान् दशाहानि स भुक्त्वा क्ष्मां व्यपद्यत +जगद्भद्रो ऽथ पञ्चम्यां भाद्रे ऽष्टाविंशवत्सरे +९) रामदेव (ल्स् ४३२८-४३४९) +रामदेवो ऽथ तत्पुत्रो हत्वा स्वपितृघातकान् +पृथ्वीराजे प्रजाभारं सर्वम् एव समर्पिपत् +लेदर्या दक्षिणे भागे सल्लरे स महीपतिः +स्वनामाङ्कं व्यधात् कोट्टं यशोराशिम् इवापरम् +प्रमादाद् भङ्गम् आनीतश् शमालाविजयोद्यमे +तेनोत्पलपुरे विष्णोः प्रासादो नूतनीकृतः +[प्स्-ज्र्त् ४] वैशाखे मासि पक्षे शशधरविषदे त्रिंशदब्दे सभक्त्या द्वादश्यां रामराजे क्षितिम् अवति निजप्रेयसीं सोमवारे पृथ्वीराजश् शमालाविजयनसमये दस्युभग्नं मुरारिं सम्पूर्णाङ्गं विधायोत्पलपुरनगरे स्वप्रतिष्ठां चकार +पुष्पं चन्दनवृक्षस्य फलं चण्पकभूरुहः +अपत्यं तस्य भूपस्य हन्त नाकारि वेधसा +भिषायकपुरस्थस्य कस्यचिद् ब्राह्मणस्य सः +पुत्रं लक्ष्मणनामानं पुत्रीयाम् आस भूपतिः +अकृत्रिमपितापुत्रप्रीतिं प्रीतिः प्रथीयसी +वस्त्व् इवोचितम् आलेख्यं तयोर् अतुलयत्तराम् +श्रीसमुद्राभिधा देवी विमुद्रितसमुद्रजा +वितस्तायां स्वनामाङ्कं नगरान्तर् मठं व्यधात् +त्रयोदशदिनं मासं वत्सरांश् चैकविंशतिम् +क्ष्मां भुक्त्वैकोनपञ्चाशे वर्षे ऽसौ द्याम् अगात् स्वयम् +१०) लक्ष्मदेव (ल्स् ४३४९-४३६२) +कथञ्चिल् लक्ष्मदेवो ऽथ पाट्यमानाङ्गविह्वलः +ताम् आकण्टकिनीं वल्लीम् इव क्षोणीं बभार सः +क्षत्रीकृतो ऽपि नामुञ्चत् स्वधर्मं द्विजभूपतिः +न माणिक्यश्रियं धत्ते रञ्जितो ऽश्मापि जातुचित् +वितस्तायास् तटे श्वश्रूमठोपान्ते मठं नवम् +निष्पङ्का निजनामाङ्कम् अहलामहिषी व्यधात् +कज्जलेन तुरुष्केण बहिर् एत्याथ मण्डले +मलिनेन प्रजादृष्टिर् उत्पाट्यास्रवता हता +त्रयोदशाब्दान् मासांस् त्रीन् द्वादशाहं च भूपतिः +भुक्त्वा द्वाषष्टवर्षे ऽथ पौषान्ते स व्यपद्यत +११) सिंहदेव (ल्स् ४३६२-४३७७) +कज्जलोपद्रवात् तस्माल् लेदरीमात्रनायकः +सिंहदेवो ऽथ सङ्ग्रामचन्द्रेणाक्षोभि भूपतिः +नगरान्तर् मठं कृत्वा लहरेन्द्रे मृते सति +सिंहदेवो नृसिंहो ऽथ क्ष्मां ररक्ष क्षयाकुलाम् +सिंहदेवो नृसिंहस्य सिंहेन गुरुणान्वितः +प्रतिष्ठां सिंहलग्ने ऽथ ध्यानोड्डारे ऽकरोत् कृती +कर्ता कार्यं च लग्नं च गुरुस् सिंहश् च कोविदः +पतितेयं भवेत् तस्य व्रते सिंहपरम्परा +स निष्कलक्षविक्रीतक्षीरेण विजयेश्वरम् +एकाह एव स्नपयन् व्रतशुद्धिं ययौ नृपः +राज्ञा श्रीशङ्करस्वामी गुरुर् मन्त्रोपदेशकृत् +यो ऽष्टादशमठैश्वर्यदक्षिणाभिर् अपूज्यत +परलोकजयोपायं वाग्देवीप्राभृतं नृपः +आत्मोपज्ञम् इमं श्लोकं शय्योत्थायं सदापठत् +"""पावकनिर्मलदृष्टिं विबुधगणैर् अर्च्यमानपादम् अहम्" +"शशिशकलादर्शयुतं गौरीशं शङ्करं वन्दे""" +[प्स्-ज्र्त् ५] +पान्थानां तोयदानाय पितॄणां तर्पणाय च +दम्पत्योः पापनाशाय धर्मसंवर्धनाय च +निजालङ्कारदानेन निपानं रचितं पथि +मडवाश्रमग्रामान्ते गौर्या शङ्करभार्यया +खोनमोषाधिपस्यासीत् कन्या प्रज्जद्विजस्य सा सत्यशीलान्विता भक्ता गौरी गौरीव शङ्करे +दुहितुर् दुश्चरित्रेण यो ऽभूद् दण्डः पितुः पतन् +इडागल्यार्थितो राजा नर्तक्या तं न्यवारयत् +स दुर्जनपरिष्वङ्गाद् आस्तिकप्रज्ञयोज्झितः +धात्रीपुत्र्यां स्मरादर्शे स्वात्मानं प्रत्यबिम्बयत् +दर्याख्यो भगिनीस्वामी कामसूहोपबृंहितः +तं विरक्तप्रजं मुक्तविनयं छद्मनावधीत् +चतुर्दशाब्दान् षण्मासांस् त्र्यहन्यूनान् महीपतिः +भूत्वा शुचौ दिवम् अगात् स वर्षे सप्तसप्तते +१२) सूहदेव (ल्स् ४३७७-४३९६) +तद्भ्राता सूहदेवो ऽथ कामसूहोपबृंहि���ः +जडो ऽपि सकलाम् एव कश्मीरक्ष्मां वशे व्यधात् +दिगन्तराद् उपागत्य बहवो वृत्तिलिप्सया +तम् आश्रयन् महीपालं पुष्पद्रुमम् इवालयः +[प्स्-ज्र्त् ६] +वृत्त्यै लङ्कारचक्को ऽपि दरद्देशात् तदाययौ +सन्ततेर् भाविसाम्राज्यः प्राज्यं कश्मीरमण्डलम् +क्रमराज्याभिधे राष्ट्रे त्राहग्रामं नृग्रामणीः ददौ वसतये तस्मै नियतेस् स नियोगतः +पार्थो ऽन्य इव पार्थो ऽभूत् पञ्चगह्वरसीमनि +यो गर्भरपुरं चक्रे तत्पुत्रो बभ्रुवाहनः +तद्वंश्यह्॒ कुरुशाहो ऽभूद् यद्बाहूदयपर्वते +ज्याकिणच्छद्मना भेजे यशश् शुभ्रत्विषं निशा +"""कश्मीराः पार्वती तत्र राजा ज्ञेयो हरांशजः""" +इत्य् एतत्प्रत्ययायेव यस्यासीच् चक्षुषां त्रयम् +कश्मीरेषु हि साम्राज्यं कुरुशाहस्य सन्ततिः +शंशदीनमुखी मुख्या ख्यातकीर्तिह्॒ करिष्यति +ताहराजो ऽजनिष्टास्माद् यस्य चापलताश्रिता +मुहुर्मुहुर् अहो मौर्वी श्रुत्यन्तम् अगमत्तराम् +शाहमेरस् स्ववीर्योष्मग्रीष्मो भानुस् ततो ऽजनि +यस्य वैरिवधूवाष्पैः प्रतापाग्निर् अदीप्यत +वने विहरतस् तस्य शाह्मेरस्य कदाचन +मृगया प्रथमं दृष्टिं पश्चान् निद्रा व्यलोभयत् +"""राज्यम् आ सन्ततेर् भावि कश्मीरेषु तवे""ति सः" +स्वप्ने वाक्सुधया तत्र महादेव्याभ्यषिच्यत +पञ्चाग्न्यर्कमिते शाके नवाष्टाङ्कितवत्सरे +ततस् सपरिवारस् स कश्मीरान् अविशच् छनैः +सकुटुम्बं तम् आयान्तं वृत्तिदानेन भूपतिः +अनुजग्राह सोत्कर्षं चूतद्रुम इवालिनम् +डलचाख्यह्॒ कर्मसेनचक्रवर्तिचमूपतिः +कश्मीरान् स तदैवागात् सिंहो मृगगुहाम् इव +षष्टिग्रामसहस्रेषु स्वाम्यं दातुम् इवात्र सः +तावत्सङ्ख्यसहस्राणि स्वसैन्ये सादिनो ऽवहत् +डल्चं धनप्रयोगेन निविवर्तयिषुर् नृपः +सर्वेषाम् एव वर्णानां दुर्वर्णो दण्डम् अक्षिपत् +प्राणाहुत्या प्रभोह्॒ कोपे तत्प्रतिग्रहसांहसः +प्रायस्था ब्राह्मणाः प्रायश्चित्तीयां चक्रुर् अक्रमम् +[प्स्-ज्र्त् ७] दण्डदुह्॒खेन विप्रैर् यश् शापो दत्तो महीभुजः भविष्यन् वंशविच्छेदो ध्रुवं तस्यैव तत् फलम् +तदैव कालमान्याख्यैर् भौट्टैर् घट्टितवैरिभिः +सबन्धुर् गोत्रजो व्याजाद् बकतन्यो न्यहन्यत +[प्स्-ज्र्त् ८] स्वदेशे वकतन्याख्यो गोत्रजस्यात्मजो हतः +मान्यो ऽसामान्यधीह्॒ कालमान्यवंशदवानलः +अवाशिष्यत तत्पुत्रो दैवाद् एकस् स रिञ्चन�� +व्यालटक्कमुखैर् मन्त्रसूत्रसंयोजितैर् अथ +बद्ध्वा संहतिकन्थां स ताञ् जडाञ् जेतुम् इष्टवान् +"""निपास्यमानकोशं मां भृत्यत्वे वृणुते""ति सः" +तान् प्रत्यश्रावयद् दूतमुखेन स्वाततायिनः +नृसिंहस् स नदीतीरे सिकतास्थगितायुधः +तान् प्रत्यैक्षत रक्तस्य न तु कोशस्य पीतये +व्यालाद्यैर् आगतास् तत्र कालमान्या निरायुधाः +सिकतान्तर्निविष्टस्य परश्वग्नेस् तृणीकृताः +प्रक्षाल्य वैरिरक्तेन पितृद्रोहरजोमलम् +शेषानेकारिभीत्यागात् कश्मीरान् बन्धुभिस् सह +पूर्णस्य रामचन्द्रस्य रुचिहान्यै धरार्यमा +नीलाशाभ्रे रिञ्चराहोर् उदयं सो ऽथ सोढवान् +हेतिभिस् तापयत्य् आशा डलचे कृष्णवर्त्मनि +काश्मीरिकैर् जनैस् सर्वैश् शलभत्वम् अलभ्यत +रुद्धयोर् डल्चरिञ्चाभ्यां प्राच्युदीच्योर् बहुर् जनः +वसतेः पश्चिमाम् आशां प्राग् यमाशाम् अथागमत् +अधो डल्चाम्बुपूराद् भीर् गिरौ रिञ्चनमारुतात् +छायाजुषां फलाढ्यानां पुंनागानाम् अभूत् तदा +पक्षिशावम् इव स्थानच्युतं चिल्लोल्लसद्रया +बलश्री रैञ्चनी लोकं काश्मीरिकम् अपाहरत् +धनाम्बु प्राप्य भौट्टेभ्यह्॒ काश्मीरजनविक्रयात् +गर्जन्न् आशाः प्यधात् सर्वास् तदा रिञ्चनवारिदः +[प्स्-ज्र्त् ९] +तुरुष्कताजिकम्लेच्छसैन्यच्छादितभूतलः +डुलुच्यो नगरं प्रापद् अथागस्त्य इवार्णवम् +मृगास् सिंहम् इवोदग्रं गरुत्मन्तम् इवाण्डजाः +तम् आपतन्तम् आलोक्य पलायन्त पुरौकसः +बद्धाः पलायिनस् तेन मान्त्रिकेणेव पन्नगाः +केचित् पलायिता भीत्या प्रविष्टा गिरिगह्वरम् +राजापि क्वापि सञ्छन्नो भीत्या घूकवद् आस्त सः +इतरेषां तु लोकानां का कथा तत्र वासिनाम् +विप्रशापो नरेन्द्राणां वृथा जातो न जातुचित् +सलक्ष्मा राजयक्ष्मा हि नाहत्वा विनिवर्तते +गूढार्थं दापिताः पूर्वं गाढया बन्धपीडया +विक्रीता वाजिभिः पश्चात् तुरुष्कैर् हस्तगा जनाः +विद्धाह्॒ केचित् परे बद्धा विराद्धास् तेन केचन +प्लोषं केचित् परे शोषं दोषं यान्त्य् अनलाद् द्रुमाः +जत्रुवेधेन बद्धानाम् एकया चर्मवध्रया +तेषां दुरापम् अप्य् आसीद् अन्योऽन्यमुखदर्शनम् +घासेन्धनादिसम्भारढौकनाय क्षणं क्षणम् +बद्धा म्लेच्छैर् अमुच्यन्त बिडालैर् इव मूषकाः +येषाम् अन्ने जुगुप्साभूद् बिडालस्पर्शदोषतः +म्लेच्छोच्छिष्टं गवांश् चास्थि तैर् बद्धैर् भक्षितं क्षुधा +वैतस्तम् अपि ये वारि न पपुः पङ्कसङ्कुलम् +बद्धैर् मरुषु तैर् नीतैर् मूत्रं पीतं भृशं तृषा +"""क्व म्लेच्छान्नं क्व वंशो नो दुस्सहा क्षुच् छ्रुतेन किम्" +"निद्रा नाद्यापि मार्गेण"" ते ऽन्तर् एवम् अचिन्तयन्" +गच्छतां तिष्ठतां तेषाम् अश्नतां जल्पताम् अपि +सो ऽभून् नैव क्षणो यत्र न ते कार्यम् असाधयन् +म्लेच्छैह्॒ केचित् खशैह्॒ केचिद् दरद्भिर् अपरे तथा +भोट्टैह्॒ केचित् तुरुष्कैश् च केचिद् बन्दीकृता जनाः +अन्नं गृहे वने वित्तं मार्गे बन्धून् विहाय च +पलायाम् आसुर् अपरे तुरुष्कभयसम्भ्रमात् +करुणागौरवघृणा द्रुतं गन्तुम् अशक्तिषु +बालवृद्धाबलास्व् एते त्यक्तवन्तः पलायिनः +न भुक्तं क्षुधितैर् मार्गे न पीतं तृषितैर् अपि +किम् अन्यद् भयसंभ्रान्तैः पश्चात् तैर् नापि वीक्षितम् +क्षुधा केचित् तृषा केचिद् भिया केचित् परे ह्रिया +भयाद् बिलदरीष्व् एव प्रविश्यान्तर् विपेदिरे +बिलप्रविष्टांस् ताञ् छ्रुत्वा ततो निष्कासनेच्छवः +निष्कारुण्यास् तुरुष्कास् ते धूमं बिलमुखे ददुः +धूमेनान्तर् विपन्नानां नराणाम् अस्थिराशयः +दृश्यन्ते ऽद्यापि धूमोत्थं मालिन्यं च गुहामुखे +राजापचारम् अकरोत् प्रजासु फलितस् तु सः नारीणां चपला दृष्टिर् दन्तैर् गण्डस् तु खण्ड्यते +नाशिताशेषदेशो ऽथ स्फीतशीतभयाकुलः +डल्चह्॒ कश्मीरतस् तारबलमार्गेण निर्ययौ +जनाह्॒ काश्मिरिका दुर्गबिलेभ्यो मूषका इव +डलचोतौ गते बन्दीकृतशेषा विनिर्ययुः +नालब्ध पितरं पुत्रः पिता तं च न कञ्चन +भ्रातॄंश् च भ्रातरो डल्चराक्षसोपप्लवात्यये +मितलोका खिलक्षेत्रा निर्भोज्या दर्भनिर्भरा +सर्गारम्भ इव प्रायस् तदा कश्मीरभूर् अभूत् +समर्थान् न्यग्रहीद् डल्चो रिञ्चनः प्राभवत् पुनः +विश्वम् अन्धयति ध्वान्ते सुखभाजो ऽभिसारिकाः +डल्चराहुविनिर्मुक्तं राजानं तुङ्गिमस्पृशा +अरुरुत्सत् स शृङ्गेण रिञ्चनास्ताचलस् ततः +दृष्ट्वा गगनगिर्यग्रे भास्वन्तं रिञ्चनं स्थितम् +अशङ्क्यत न कै राज्ञः प्रत्यासन्नो ऽस्तसंस्तवः +रिञ्चनश्येनराजस्य जिहीर्षोर् नगरामिषम् +कुलचन्द्रो रामचन्द्रो विघ्नं चक्रे पदे पदे +भौट्टांल् लहरकोट्टान्तः पट्टविक्रयकौतुकात् +प्रत्यहं वञ्चनोद्योगी रिञ्चनो ऽथ विसृष्टवान् +तथैव लहरस्यान्तर् भोट्टलोके प्रवेशिते +अपिप्यद् रामचन्द्रास्रमधु शस्त���राणि रिञ्चनः +रामचन्द्रकुलोद्यानकल्पवल्लीं स रिञ्चनः +वक्षस्स्थले महाबाहुह्॒ कोटादेवीम् अरोपयत् +श्रीरिञ्चनभयाद् राजा नगरं त्यक्तवांस् ततः +विप्रशापाग्निदग्धानां कुतस् स्याद् उदयाङ्कुरः +प्रमण्डलगुहां राजजम्बुर् भीतो ऽविशत् ततः +पापस्य तादृशो मृत्युस् सम्मुखस्य रणे कथम् +वैरिधाराधरश् चित्रं रणे राजास्रवर्षणैः +दण्डदानां द्विजातीनां चक्रे नेत्रेष्व् अवग्रहम् +पञ्चाहोनांश् चतुर्मासान् वर्षांश् चैकोनविंशतिम् +स राजराक्षसो रक्षाव्याजात् क्षोणीम् अभक्षयत् +१३) ल्ह·छेन् र्ग्यल्·बु रिन्·छेन् (ल्स् ४३९६-४३९९) +श्रीरिञ्चनसुरत्राणो भुजवातायने महीम् +व्यशिश्रमद् अथ श्रान्तां दौस्स्थ्याद् दुस्स्थितिविप्लवैः +पूर्वदृष्टम् इवाशेषं तिमिरापगमे पुमान् +कश्मीरमण्डलम् पूर्वराजसौख्यं तद् ऐक्षत +दीपैर् इव प्रतिस्थानं यैर् लवन्यैस् स्थिरं स्थितम् +अकम्प्यन्त प्रभातस्य ते राज्ञो बलवायुना +मन्त्रसूच्या कृते भेदे बाणसूत्रे प्रवेशिनि +अभूल् लवन्यकन्थायाश् चित्रं विश्लथता तदा +वने कण्टकिनीवाङ्ग नग्नो यत्राकुलो भवेत् +तत्रैव व्योम्नि पत्त्रीव देशे समचरन् नृपः +तस्य दाक्षिण्यदक्षस्य प्रजानां हितहेतुना +पुत्रे मन्त्रिणि मित्रे वा दुष्टे नालक्ष्यत क्षमा +छेदं यच्छन्न् अतुच्छानां वैरिणाम् उच्छलच्छ्रियाम् +आच्छोटनम् अगच्छत् स छत्त्रशाली कदाचन +टक्कभ्राता तिमिर् नाम मार्गे सन्तापखेदितः +गोपाल्याह्॒ कुत्रचिद् ग्रामे क्षीरं निष्पीतवान् हठात् +राज्ञा विज्ञापितेनाथ सद्यो गोपालयोषिता +अनुयुक्तस् तिमिर् भीत्या व्यधात् सर्वस्य निह्नवम् +असत्ये भाविता गोपी यदा धैर्यान् न सास्खलत् +पानाशयं तिमेर् एव स सत्यैक्षी व्यदारयत् +तस्य पानाशयाद् दीर्णान् निर्यान्त्या क्षीरधारया +राज्ञह्॒ कीर्तिर् मुखश्रीश् च गोप्याः प्रापत् प्रसन्नताम् +वारवाले निवसतोर् असुवातां कयोश्चन +अश्वे किशोरकौ तुल्यौ कस्मिन्न् अपि वनान्तरे +सिंहसङ्क्षयितापत्या तयोर् अन्यतमा वने +अश्वसादृश्यवात्सल्याद् अपुपुत्रीयिषत् परम् +"""मदीयो ऽयं मदीयो ऽयम्"" इत्य् असञ्जातनिश्चयौ" +वडवाधिपती क्षोभाद् राजान्तिकम् अगच्छताम् +स विवादं तयोश् श्रुत्वा स्वान्तिकं स्वीयमानुषैः +वडवे च किशोरं च राजाभ्यानाययत् ततः +तस्मिन् किशोरके बाल्याद् दूरं धावति लीलया +माता धात्री च नितराम् अस्निह्यच् चाप्य् अहेषयत् +सभ्येष्व् अनेलमूकेषु वादिनोह्॒ क्षोभसज्जयोः +अश्वे नावानयन् मध्येवितस्तं सकिशोरके +बालाश्वं पातितं नद्यां नावो राज्ञा महाधिया +हठाद् अन्वपतन् माता परा परम् अहेषयत् +सन्दिग्धव्यवहाराणाम् एवं निश्चयकारिणि +तस्मिन् राज्ञि जनो ऽमंस्त कृतं युगम् इवागतम् +श्रीदेवस्वामिनं शैवीं दीक्षां याचन् नराधिपः +नान्वग्राहि स भौट्टत्वात् तेनापात्रत्वशङ्कया +अनुजस् तनुजो बन्धुर् मन्त्री सहचरस् सखा +व्यालराजो नृपस्याभूत् सत्यैकव्रतनिष्ठया +जहौ व्यालह्॒ कृतं राज्ञा न स व्यालकृतं पुनः +मनो हि कायिकं हन्ति तत्कृतं न वपुः पुनः +कलानिधौ रसमये व्याले भूलोकभास्वतः +मूर्छिता रुचिर् अच्छैत्सीद् अच्छेद्यं जगतां तमः +[प्स्-ज्र्त् ११] +प्रवेष्टुकामं कश्मीरान् निवर्तयितुम् अञ्जसा +डुल्च्यं धनप्रयोगेण यो विसृष्टो महीभुजा +अवमन्त्र्य प्रविष्टे ऽथ डुलुच्ये भयतो गतः गान्धारदेशं उद्यानदेवो लब्धान्तरस् ततः +श्रीमान् उद्यानदेवो ऽथ रन्ध्रप्रहरणोद्यतः +समादिक्षत टक्कादीन् गान्धारस्थो भयाद् इति +"""जीवताम् एव गन्तव्यं जाने तन् नगरान्तरम्" +यत् सेव्यते ऽविशेषज्ञस् स्वामी सम्मानलिप्सया +भुङ्क्ते व्यालश् श्रियं प्राणपणैर् युष्माभिर् अर्जिताम् +करौ साधयतो यत्नाद् रसना भोगभागिनी +ईश्वरो भूतिलिप्ताङ्गो व्यालं हारीचिकीर्षति +अनास्थां तु सुवर्णेषु युष्मासु विदधाति सः +क्षीरमात्रैकपायित्वं निमित्तीकृत्य भूपतिः +"युष्मच्छौर्याभिशङ्कित्वात् तिमिं तिमिम् इवावधीत्""" +एवं सन्देशनिर्भिन्नाष् टक्काद्याश् शुक्कलङ्किताः +विंशप्रस्थे कदाचित् ते प्रजह्रुर् अथ भूभुजम् +तत्खड्गधारासम्पातैर् व्यालस् तेषां हृदन्तरात् +स्वैश्वर्यतापम् अनुदद् राजामूर्छत् तु केवलम् +ते ऽथ लब्धजयम्मन्यास् तद्वधापोढमन्यवः +नगरान्तर् ययू राज्यग्रहणार्थम् अहङ्कृताः +क्षणं मृत इव स्थित्वा भूयोघातभयान् नृपः +दूरं गतान् रिपून् दृष्ट्वा राज्ये राजोदतिष्ठत +आरुक्षन् राजधानीं ते यावत् तावन् नराधिपम् +अपेतमूर्छम् आयान्तम् अद्राक्षुह्॒ क्षुद्रबुद्धयः +"""त्वया किं न त्वया किं न हतो राजे""त्य् अनीतयः" +परस्परविवादात् ते तत्कालं चुक्षुभुर् जडाः +अन्योऽन्यमन्यवो ऽन्योऽन्यलोठनाद् राजसद्मनः +कर्तव्यं मरण�� राज्ञा व्यधुस् स्वस्य स्वयं जडाः +शेषान् राजाथ दुश्शीलाञ् छूलारोपेण केवलम् +उच्चैस्ताम् अनयन् मानी सर्वथाधोगतिं पुनः +सगर्भा वैरिकोट्टस्त्री रोषवान् स व्यदीदरत् +असिभिर् भूपतिर् गर्भशालिशिम्बीर् नखैर् इव +तद्द्रोहरोषजा पीडा राज्ञस् तत्कुलमारणात् +चित्ते शान्तिम् अगात् खड्गघातोत्था न तु मूर्धनि +दुस्स्वप्नम् इव तद् दृष्ट्वा टक्कादिचरितं क्षणात् +प्रबुद्धेव पुनः प्रापद् अभयेन शमं मही +अद्रोहमध्यगे राजा शाहमेरे प्रसन्नधीः +सकोटामातृकं वृद्ध्यै स्वपुत्रं हैदरं ददौ +वर्धितह्॒ कोटया देव्या प्रावृषेव महीरुहः +सच्छायत्वं स्फुरत्पत्त्रश् शाहमेरो न्यषेवत +परिखाच्छलतो ऽकीर्त्या स्वपराजयजातया +परितो वलितं राजा स्वनामाङ्कं पुरं व्यधात् +पौषदुर्दिनमार्ताण्डसन्निभो धरणीपतिः +मासांश् च कतिचिद् भूयः प्रकाशम् अकरोद् भुवः +हेमन्ते शैत्यपारुष्यदोषेण धरणीपतेः +मरुत्कोपेन नैविड्यं शिरःपीडाग्रहीत्तराम् +सदानेकोत्तमाङ्गानां पीडाहरगुणश्रियः +भूपतेर् उत्तमाङ्गस्य पीडा कष्टम् अवर्धत +एकादश्यां ततः पौषे नवनन्दाङ्कवत्सरे +निरस्ता मृत्युवैद्येन भूपतेर् मृत्युवेदना +एकादशदिनैर् न्यूनौ मासौ त्रीन् वत्सरान् अपि +क्षमां संरक्ष्य स स्वर्गं ययौ रिञ्चनभूपतिः +१४) उद्यानदेव (ल्स् ४३९९-४४१४) +पुत्रं हैदरनामानं बाल्याद् अनभिषिक्तवान् +अतथाविधशक्तित्वाद् राज्यं स्वेनाप्य् असंवहन् +लवन्यैह्॒ कुलनाथत्वाद् रिञ्चने प्रतिघाद् अपि +अव्याहतप्रवेशाशो मतिमाञ् शाहमेरकः +समं श्रीकोटया देव्या मूर्तयेव जयश्रिया +तदोदयनदेवं तं कश्मीरक्ष्माम् अलम्भयत् +राज्यलक्ष्मीमहादोला गुणबद्धा गरीयसी +रिञ्चनोच्चैःपदं गत्वा राजाधःपदम् अश्रयत् +राजा शाह्मेरपुत्रौ तौ ज्यंशिरालेशिरौ तदा +क्रमराज्यादिदेशानां स्वाम्यदानाद् अरञ्जयत् +धीर् इवासीत् तदा कोटा देवी सर्वाधिकारिणी +राजा देह इवात्यर्थं तदादिष्टं समाचरत् +तेजसा पिहितान्य् आसन् यानि रिञ्चनभास्वतः +लवन्यज्योतिषां राजप्रदोषे ऽभूत् तदोदयः +यस्याक्रम्यत सौम्यस्य गृहिण्या कोटया गृहम् +विषयाक्रमणं तस्य लवन्यैह्॒ किं नु शोच्यते +लवन्यदेशचण्डालगृहस्पर्शविवर्जकः +स श्रोत्रिय इवानैषीत् कालं स्नानतपोजपैः +आस्तिकत्वं कियत् तस्य वर्ण्यते वर्णधारिणः +क्रिमिमर्दभयाद् घण्टां य��� ऽबध्नाद् वाजिनो गले +तावद् द्रविणताम् एव कोशालङ्करणं दधत् +कण्ठभूषां समौलिं स चक्रिणे ऽदित काञ्चनीम् +अथ मुग्धपुरस्वामिदत्तानीकिन्यहङ्कृतः +कश्मीरान् अचलो ऽविक्षद् बलाद् डल्च इवापरः +स्वपक्षैर् आक्षिपत्य् आशा बलेनाक्रम्य मेदिनीम् +नाचले गोत्रभित्त्वं स कर्तुम् ऐष्ट महीवृषा +प्राप्ते भीमानकं तस्मिन् ससैन्ये दैन्यम् आश्रितः +भोट्टदेशम् अगात् तूर्णम् उर्वीपरिवृढो भयात् +"""निवर्तय चमूम् अन्यां किं मिथ्या देशपीडया" +"अराजकास् त्वया पाल्याह्॒ कश्मीराह्॒ कुलनाथवत्""" +इति श्रीकोटयामात्यैः प्रेरितैर् लेखधारिभिः +आसारसैन्यम् अचलः प्रत्यमुञ्चद् विमोहितः +प्रतिमुक्तनिजासारस् सारहीनो ऽचलस् स तैः +मार्गोत्सवच्छलात् कञ्चित् कालं मार्गे विलम्बितः +तावच् छ्रीकोटया देव्या तदा पालयितुं प्रजाः +भौट्टह्॒ खेरिञ्चनो नाम राजभावे न्ययुज्यत +प्रमीतभर्तृकोत्पन्नमृतापत्येव सा तदा +अदूयत निजैस् सर्वैश् चिरस्याचलशेमुषी +तुषारलिङ्गपूजाभिह्॒ कृतार्थीकृत्य वासरान् +भोट्टदेशान् निजं देशम् अगच्छद् वीतभीर् नृपः +उदयाद्रिभुवा पूर्णश् शशीवाथ स कोटया +खेरिञ्चनतमोनाशी शिरसाधारि सादरम् +यं कोटासूत जट्टाख्यं भिक्षणाख्यस्य मन्त्रिणः +वर्धनायात्मजं राजा स तं मृत्युम् इवादित +शाहमेरस् स वीरो ऽथ परिपालितरैञ्चनिः +अचक्षुष्यह्॒ क्षमाभर्तुः पुत्रप्रेमभराद् अभूत् +देव्यास् तु समदृष्टित्वात् पुत्रयोर् उभयोर् अपि +राज्ञो द्वेष्यो ऽपि शाह्मेरो न भयेन स पस्पृशे +अचलोपप्लवातङ्के भयाल् लोकैस् समाश्रितः +शाह्मेरश् स राजानं न तृणायाप्य् अजीगणत् +शाह्मेरो हय्दरश्येनं दर्शयित्वा मुहुर् मुहुः +अभाययत्तरां राजपक्षिणं तं दिवानिशम् +रक्षंस् तटस्थान् उद्वेगरहितो जलवर्जितः +अल्लेश्वराम्बुपूरस् स प्रजाश् चित्रम् अतारयत् +शिरश्शाटकहिन्दाख्यौ समभूषयताम् उभौ +चन्द्रार्काव् इव तस्याशां शूरौ पौत्रौ गुणोच्छ्रितौ +द्वारैश्वर्यात् स्फुरद्दर्पो राजाज्ञालङ्घनोद्यतः +शाह्मेरस् स विपद्द्वारम् अभूद् भूपतिसेविनाम् +सो ऽल्लेशिरसुतां दत्त्वा लुस्तस्य तदधीशितुः +स्रीशङ्करपुरं जित्वा राज्ञश् शङ्काम् अवर्धयत् +वशे तेलाकशूरो ऽस्य भाङ्गिलैश्वर्यभाजनम् +ज्यंशिरस्य सुतां हस्तेकृत्य कृत्यविदो ऽभवत् +बहुरूपजयी लक्ष्मीनिधिर् अच्युततापद���् +शमालां स नृसिंहो ऽथ दैत्यश्रियम् इवादुनोत् +मकरालयगाम्भीर्यह्॒ करालम्बो जयश्रियः +कराले स करालौजाह्॒ करम् आलम्बयज् जनान् +असिस्मरत् स्मेरयशा दह्यमानम् इतस् ततः +राज्ञह्॒ कलशदेवस्य विजयेशपुरं ततः +स्थित्यै प्रकल्प्य चक्रस्य स्वस्य चक्रधराचलम् +शाह्मेरो ऽचलकार्याणि जनस्य समदर्शयत् +कम्पनेश्वरलक्ष्यस्य लक्ष्मीसर्वस्वतां ददत् +चित्रं स लब्धवाञ् शुद्धं सुदायम् इव सद्यशाः +नरेन्द्ररङ्गशैलूषं कोटराजम् अथाग्रहीत् +शाह्मेरस् तनयारत्नग्रहणोन्मानकेन सः +साम्ना केचित् परे दण्डाद् दानाद् अन्ये परे भयात् +मान्यताम् अनयन् धन्या लवन्यास् तस्य शासनम् +लवन्यलोकस् तत्पुत्रीर् माला इव बभार ताः +नाजानाद् भुजगीर् घोरविषाः प्राणहरीः पुनः +राजबीजिविधेयत्वान् मन्त्राद् विक्रमतश् च वा +कश् शाह्मेरहरेर् नाभूल् लवन्यद्विरदो वशे +शाहमेराम्बुपूरेण कामनोल्लासशालिना +आक्रान्तः परितो राजा मृद्राशिस्थद्रुमोपमः +पुरमात्राधिपत्योत्थलज्जयेव महीपतेः +जीवितं दूरम् अगमच् छुद्धेन यशसा समम् +शिवरात्रित्रयोदश्यां वर्षे राजा चतुर्दशे +क्षमावान् स क्षमाम् औज्झीच् शाह्मेरस्पर्शदूषिताम् +[प्स्-ज्र्त् १२] अब्दान् पञ्चदश द्वौ च मासौ द्वौ वासराव् अपि कश्मीरकाश्यपीभोगम् अकार्षीत् स महीपतिः +१५) कोटा देवी (ल्स् ४४१४-४४१५) +अथ शाह्मेरभीत्या श्रीकोटा चत्वार्य् अहानि सा +गूढेङ्गितानयद् गुप्तिं भूपालप्रमयादिकम् +"""शाह्मेरो मत्सुतद्वारा साम्राज्यं स्वीकरोतु मा""" +इति ज्यायांसम् उत्सृज्य बालत्वाच् च परं सुतम् +पुत्रस्नेहेन वृद्धत्वदोषेण च विमोहिता +अवरुद्धम् अनिच्छन्ती श्रीकोटा महिषी ततः +स्त्रीभावाद् बन्धुभावाच् च लवन्यैर् उपबृंहिता +असान्त्वयत् स्वयं भूमिं विधवां स्वां सखीम् इव +[प्स्-ज्र्त् १३] सा राज्ञी शुक्लप्रतिपद्वीतभीता भवन्त्य् अथ राजानं गुरुभिस् स्वीयैश् चरमेष्टिम् अवापिपत् +पूर्वोपकारस्मरणाच् छाहमेरादयो ऽखिलाः +तां प्राणमन्न् अमात्यास् स्वां चान्द्रीम् इव नवां कलाम् +शमयन्त्या रजस् सर्वं तापापहतिदक्षया +तया निदाघवृष्ट्येव लतास् संवर्धिताः प्रजाः +शाह्मेरात् स्वोदयभ्रंशशङ्किनी भट्टभिक्षणम् +तदुद्रेकविनाशार्थं मानं देवी निनाय सा +दुस्तरेषु महाभीतिजलपूरेषु सा ततः +तत्प्रज्ञानावम् आरुह्य कार्यपारं परं ���यौ +अन्तस् सेहे न शाह्मेरस् तद्दत्तं भिक्षणोदयम् +मानवन्तस् सहन्ते हि च्छायासाम्यं कथञ्चन +वर्तते धूमतापादिलक्षणं जातवेदसः +धीमतो ऽस्य न किञ्चित् तु रोषलिङ्गम् अलक्ष्यत +छलाभिनीतरोगेण शाहमेरेण धीमता +प्रत्यासन्नविनाशत्वम् आत्मनस् समकथ्यत +तस्याथ प्रत्यवेक्षार्थम् अवतारादिभिस् सह +व्यसर्जि कोटया देव्या स श्रीमान् भट्टभिक्षणः +"""स्वेदह्॒ कुपितपित्तस्य हितो नो वे""ति वादिभिः" +सम्प्रवेशान् न्यषिध्यन्त द्वास्स्थैस् तदनुयायिनः +तौ भिक्षणावतारौ द्वौ तत्समीपम् अविक्षताम् +साङ्कट्याद् इव तत्प्राणरक्षिण्यो देवता न तु +अनुयुक्तामयोदन्तस् स कालेन तयोर् निजैः +गात्रे न्यखानयच् छस्त्रीर् आधीन् स्वस्योदखानयत् +सिराभिश् शोणितं वाष्पं दृशाङ्गैस् सकलैर् असून् +तौ द्वाव् अमुञ्चतां सद्यस् तद्द्वेषं स च चेतसा +तद् एव व्रणदीपार्कपूर्णपात्रार्धतच्छिरः +रोगमोक्षोचितं स्नानं स तयोश् शोणितैर् व्यधात् +"""भवन्नन्दनसंरक्षापराव् एताव् उभाव् अपि" +तयोर् अन्यतमं द्वारीकृत्यान्यम् अहरद् विधिः +प्रमीतद्विजशोकोत्थतापशान्त्यै जडः परम् +"परप्राणान् रोषवह्नौ प्रदीप्ते जुहुयाद्"" इति" +शाह्मेरं रोद्धुकामां तां समर्थाम् अपि दुर्धियः +कोटादेवीम् अमात्यास् स्वा नये बुद्धिं न्यवारयन् +केदारम् इव कुल्या सा पानीयेन महर्द्धिना +लोकम् आप्याययाम् आस साम्राज्योत्पलचन्द्रिका +आज्ञाव्यतिक्रमाज् जातु कम्पनाधिपतिं प्रति +युयुत्सुर् अकरोद् यात्राम् अमित्राब्जशशिप्रभा +सङ्कटात् कम्पनेशस् तां कुलायाद् इव पक्षिणीम् +जीवग्राहं गृहीत्वाथ कारापञ्जरम् आनयत् +मन्त्री कुमारभट्टाख्यस् तस्यास् सचिवपुंगवः +तन्मोक्षसिद्धये ऽकार्षीत् तदामात्यैश् छलात् कलिम् +राज्ञ्याः पुंभावमात्रेण भिन्नम् आकारसन्निभम् +कमण्डलुकरं कञ्चित् सो ऽधाद् विद्यार्थिनं शिशुम् +गत्वा स कम्पनाधीशं धीप्रशंसाविमण्डितः +सौष्ठवौदार्यसम्पत्तिशालिनीं वाचम् अभ्यधात् +"""स्वशिरो मलिनीकृत्य जीवतां योषिदाज्ञया" +पुरुषत्वं त्वया स्वामिन् कृतार्थीक्रियते ऽद्य नः +[प्स्-ज्र्त् १४] स्त्रीत्वात् कातरचित्ताया दानभोगोत्सवद्विषः राज्ञ्या बन्धुषु सैन्यान्तर् द्रविणं वर्तते महत् +गत्वा त्वदाज्ञया कारां तस्यास् तर्जनसान्त्वनैः +धनं जनस् त्वदीयो ऽयं स्वामिसात्कर्तुम् इच्छति +"स्त्रीत्वाद् अशक्ता दातुं सा समचैषीद् धनं यतः""" +व्यसृजत् कम्पनेशस् तं काराम् एवं विमोहितः +काराया निर्गमिष्यन्तीं देवीं कोटाम् इवेक्षितुम् +तत्कालम् एव सन्ध्यागाज् जगद्रञ्जनकोविदा +सन्ध्यावन्दनयोग्याम्बुवाहिना वटुना सह +असौ काराम् अविक्षच् च राज्ञ्याश् निरगुश् शुचः +राज्ञीवेषभृतं तत्र स्थापयित्वा वटुं स तम् +तद्वेषधारिणीं कोटाम् अन्वादाय विनिर्ययौ +रक्षितारो ऽपि नाजानंस् तद् यावत् तावद् एव सा +कम्पनाधिपतिं चक्रे स्वचक्रेभशकृत्करिम् +सा ब्राह्मणकुमारेण मोचिता भट्टभिक्षणात् +एकदन्तहतारेह्॒ किं नान्येनेभमुखाद् भवेत् +तयानपोदितो ऽप्य् औज्झि शाह्मेरो नैव शङ्कया +कृतवैरास् समर्थेन प्राज्ञा नैव ह्य् उदासते +न प्रासीदन् न चाकुप्यत् तस्मिन् सा बलशालिनि +घृणा प्रमादसहिता विनाशप्रथमाङ्कुरः +[प्स्-ज्र्त् १६] +देव्या वासं विमुञ्चन्त्यास् तस्या धनरसाश्रयम् +शाह्मेरे विषवल्लीव द्रोहधीर् अभ्यवर्धत +वर्धनो ऽन्यतरस्याभूत् पक्षो ऽन्यस्य क्षयावहः कोटाशाह्मेरयोर् अस्ति क्षितिमारुतयोर् इव +जयापीडपुरं यान्त्यां तस्यां कार्यानुरोधतः +शाहमेरो बली जातु नगरं स्वीचकार सः +तस्मिंल् लवन्यलोकेन गृहीताज्ञे बलीयसि +राज्ञी समवृणोत् कोट्टद्वारं सह जयाशया +[प्स्-ज्र्त् १७] निवृत्तनेत्रचारस्य चपलत्वैककारणम् आखुर् बिलगतो वोतोश् शाहमेरस्य साभवत् +निरुद्धे बलिना कोटगुहाभ्रे मतिशालिना +नृसिंहेनाभजत् कोटा सृगालीव मुहुर् भयम् +[प्स्-ज्र्त् १८] +"""तुङ्गत्वं मङ्गलासङ्गम् अभङ्गुरतरश्रियम्" +राज्याङ्गैश् च निजाङ्गैश् च दत्तै राज्ञी करोतु मे +"अध्यशेततरां राज्ञी मत्पुत्राणां न केवलम् प्राणानाम् अपि चैश्वर्यं श्लाघ्या सुखपरम्परा""" +"""सिंहासने मया साकं श्रिया साकं ममोरसि" +"क्षमया सह चित्ते मे राज्ञी निविशतां स्वयम्""" +ताम् एवमादिसन्देशैर् मुग्धां सम्मोह्य यत्नतः +हस्ते चकार कोटक्ष्मां कोटादेवीं च बुद्धिमान् +एकस्मिञ् शयने रात्रिम् अतिवाह्य तया समम् +स प्रातर् उत्थितो जातु तीक्ष्णैर् देवीम् अरोधयत् +वर्षे पञ्चदशे शुक्लदशम्यां नभसस् ततः +तारेव नभसो राज्याद् राज्ञी भ्रंशम् अलब्ध सा +तत्पुत्राव् अपि तौ द्वौ स करणीयविचक्षणः +बबन्ध बन्धुसम्बन्धिकल्पवृक्षो भटाग्रणीः +१६) šअम्स् अद्-दीन् इब्न् टाहिर् मिर्ज़ा (šआह् मीर्) (ल्स् ४४१५-४४१८) +स्वं रूपं चिदचिद्भिर् एभिर् अभितो व्यञ्जत् स्वयं निर्मितैर् यस्योन्मीलति देशकालकलनाकल्लोलितं तन् महः +आत्मा वास्तु शिवो ऽस्तु वास्त्व् अथ हरिस् सो ऽप्य् आत्मभूर् अस्तु वा बुद्धो वास्तु जिनो ऽस्तु वा भगवते तस्मै नमह्॒ कर्मणे +भियं लवन्यलोकेषु कीर्तिं दिक्षु महीं भुजे +लक्ष्मीं वक्षसि कोटां च कारायां स ततो व्यधात् +नीत्वावस्थान्तरं दौस्स्थ्यशमात् कश्मीरमण्डलम् +श्रीशंशदीन इत्य् आख्याम् अन्यां स्वस्य व्यधान् नृपः +[प्स्-ज्र्त् १९] राजा सतीसरह्॒क्षोणिशुक्तिमुक्तामणिस् ततः अर्थचिन्तामणिर् वैरिरत्नवज्रमणिर् बभौ +महाबले भुजे तस्य काष्ठोद्दीपनशालिनः +मौर्वीकिणः प्रतापाग्नेर् अधूमयद् अनन्तरम् +प्राहरन् मन्त्रिणां राजा संशयं न तु तस्य ते +भिनत्त्य् अन्यान् मणीन् वज्रो नान्यरत्नानि तं पुनः +[प्स्-ज्र्त् २०] +राज्याधिकारान् अखिलान् स्त्रीभावाद् दुस्सहान् स्वयम् +येषु विश्वासपात्रेषु श्रीकोटा स्वयम् अर्पिपत् +तेजोमहिम्नेव रविस् तमांसीव गुहान्तरात् ज्र्त्_ब्.३५७अब् +स राजा राजतो राजस्थानीयान् काष्ठवाटगान् +भयात् ततो ऽपि विद्राव्य श्लाघनीययशा बभौ +[प्स्-ज्र्त् २१] +यत्र सन्ध्यातपस्य् एव लवन्यैस् तिमिरैर् इव +अरोधि रुचिसञ्चारस् स्वामिनो बलशालिभिः +कश्मीरमण्डलं चण्डशौर्यदण्डितविद्विषा +क्रमागतम् इवाशेषं क्षणात् तेन वशीकृतम् +हृत्वेव हृदयात् कम्पं सम्पदापि तदा स च वामेतरेण लोकस्य बाहुना नयनेन च +चिरं धुरं परिन्यस्य पुत्रयोस् स्वाद् अनूनयोः +नयोच्छ्रितयशा राज्यं सुखं भुङ्क्ते स्म भूपतिः +सपञ्चवासरान् भुक्त्वा त्रीन् अब्दान् मेदिनीपतिः +अष्टादशे ऽब्दे राकायाम् आषाढ्यां स व्यपद्यत +१७) ǧअम्šईद् (ल्स् ४४१८-४४२०) +अथ प्रथमसामन्तैस् सम्मताज्ञस् स ज्यंशिरः +सतीसरह्॒क्षितिरक्षाम् अक्षामश्रीर् अटङ्कयत् +राज्यतोरणसंवाहस्तम्भाभ्यां धरणीपतेः +अनुजो बलबुद्धिभ्याम् अगमच् छङ्कनीयतां +नैव दानं न चादानं निग्रहं नाप्य् अनुग्रहम् +विहारं न न चाहारं राज्ञो न्यूनं स हि व्यधात् +[प्स्-ज्र्त् २२] विद्याप्रणयविज्ञानप्रज्ञातिशयशालिनः युवराजान् महाराजो वयसैवाधिको ऽभवत् +प्राग्वद् विश्वाससम्पत्तिम् अकुर्वति महीभुजि +युवराजो मनाक् चक्रे निकटस्थैर् विरक्तधीः +तद्वैमनस्यवृत्तान्तश्रवणच्छिद्रलाभतः +युवराजं ततो राजस्थानीयाः प्राहुर् अञ्जसा +आगते विग्रहे व्यक्तिं राजस्थानीयसंश्रयात् +सो ऽगाद् अवन्तिनगरं तन्मूलस्थानम् उद्धतः +अथोत्पलपुरं राजा भटैस् सह रणोद्भटैः +अशिश्रयद् इदं भ्रातुर् वाचिकं च विसृष्टवान् +"""दुर्जनप्रेरणात् त्वं चेन् मत्स्नेहं नाभ्यजीगणः" +लोकापवादज्वरतह्॒ कथं कम्पो न जायते +अन्योऽन्यपालनायाज्ञां राज्ञस् त्रिदिवगामिनः +"पालनीयाम् अनुध्याय प्रत्यानय दयां मयि""" +इति सन्दिश्य दूतं च व्यसृजत् स नरेश्वरः +कम्पनाधिपतिं हन्तुं व्यसृजच् च निजात्मजम् +"""मृगयां युवराजो ऽगाद्"" इति दूतं न्यरोधयत्" +भ्रातृपुत्रं निहन्तुं च श्रुतद्रोहो ऽगमच् च सः +"""दूतह्॒ किम् इति नायातह्॒ कालो हि सुचिरं गतः""" +इति चिन्ताकुलो लक्ष्मभट्टो राजान्तिकम् ययौ +"ऊचे च ""जाने स द्रोहं लक्षयित्वा तवानुजः" +त्वत्पुत्रमारणायागाद् यद् दूतस्य चिरागमः +स्नाति भुङ्क्ते स्वपित्य् एव युवराज इति च्छलात् +त्वदुद्योगनिषेधाय नूनं रुद्धो वचोहरः +तद् अवन्तिपुरं तस्मिञ् श्रीदेवसरसं गते +"सद्यो निस्स्वामिकं हन्मो जयो ऽस्माकं ततो ध्रुवः""" +अथावन्तिपुरं गत्वा सत्त्वातिशयशालिना +राज्ञा युद्धं तथाकारि तद्भटैर् उद्भटैस् समम् +अल्लेशिराय भृत्यानां वधं नूनं निवेदितुम् +वितस्ता शवरुद्धौघा प्रतीपम् अगमद् यथा +भ्रातृपुत्रं पराभूय तावद् अल्लेशिरे द्रुतम् +व्यावृत्ते रणखेदार्तः प्रपलायत ज्यंशिरः +[प्स्-ज्र्त् २३] +दीपस्येव शिखा ध्वान्ते यस्य धीर् आपदि स्फुरेत् +स रत्नं रत्नजातेश् च पाषाणेभ्यह्॒ किम् अन्तरम् +समधित्सत भेदाय कञ्चित् कालं स वैरिणम् अमोघा दूरगा बुद्धिश् शस्त्राण्य् अप्य् अतिवर्तते +"अनयोर् ""नैव कर्तव्यह्॒ कलिर् मासद्वयीम्"" इति" +राज्ञा समं विदां चक्रे धीमान् अल्लेशिरस् ततः +प्रतिमुच्य निजान् योधान् अवन्तिपुरम् उत्सृजन् +अथ क्षीरीपथेनासाव् अल्लेशो ऽगमद् इक्षिकाम् +नगरीरक्षितां न्यस्य सय्यराजे स्वमन्त्रिणि +क्रमराज्यं विराजच्छ्रीर् ज्यंशिरश् चागमत् तदा +दानमानौ प्रतिश्रुत्य सय्यराजं विभिन्दता +युवराजेन नगरी स्वीकृता मन्त्रयुक्तिभिः +नामराजतया दुह्॒खं भुक्त्वा कश्मीरमण्डले +मासद्वयोनौ द्वौ वर्षाव् अवसानम् अगान् नृपः +१८) ‘अलाऽ अद्-दीन् (ल्स् ४४२०-४४३०) +जानन्न् अलावदेनो ऽथ तं कालं कलहाक्षमम् +द्वारैश्वर्य��� ददौ भ्रातुस् सद्यो विघ्ननिवृत्तये +सलिलोत्तरणोपायं सेतुं सुय्यपुरे व्यधात् +विपत्सन्तरणोपायं न पुनर् ज्यंशिरो ऽस्मरत् +पथिकानाम् निवासाय तेन पर्वतसीमनि +कक्ष्याविभागसहितस् स्वनाम्ना रचितो मठः +[प्स्-ज्र्त् २५] कपटापत्त्रपारोपाद् राज्ञः प्राप्तविभीषकः स्वयं द्वारं त्यजन् सो ऽगाद् ग्रामं ज्येष्ठेश्वराभिधम् +एवं विक्रमनीतिभ्यां देशं शोधयतो निजम् +श्रीशिरश्शाटको राज्ञो द्वारैश्वर्यम् अवाप्तवान् +तस्य राज्ञो ऽभवत् पुत्रो नाम्ना शाहाभदेनकः +बलबुद्धिक्षमाशौर्यमन्त्रोत्साहगुणैर् युतः +राजपुत्रस् स वाक्पुष्टाटवीं लीलारसाद् अटन् +योगिनीचक्रम् अद्राक्षीत् कदाचिद् गिरिगह्वरे +उदयश्रीस् तथा चन्द्रडामरश् चास्य वल्लभौ +अपश्यतां न किं लभ्यं महताम् अनुयानतः +अचलल् लाडनादण्डघण्टानां चण्डटाङ्कृतम् +मनांसि न पुनस् तेषां वीराणां साहसस्पृशाम् +[प्स्-ज्र्त् २६] घटिताशातटस्वाट्टहाससंवाहनादिभिः योगिन्यो डमरुध्वानैर् भयाद् इव चलैर् बभुः +मान्तर्धासिषुर् एवैताः प्रष्टुं द्रष्टुं च काङ्क्षिताः +इति ते ऽश्वाद् अवारोहन् प्रवीरा न तु तद्भयात् +शनैश् शनैस् ततो यान्तो मौनपूर्वं महाशयाः +योगिनीनिकटं प्रापुर् विकटप्रकटौजसः +योगिनीनायिका दूरात् परिज्ञाय नृपात्मजम् +साशिषं शीधुचषकं प्राहिणोन् मन्त्रितं ततः +चन्द्रस् तद् अमृतं तृप्तिभाजा राज्ञावशेषितम् +उदयश्रीमुखापेक्षी न संतृप्तिम् अशेषयत् +भवितव्यबलाद् अश्वपालं सपदि विस्मरन् +उदयश्रीर् अशेषं तत् पीत्वा तृप्तिं पराम् अगात् +आश्चर्यतृप्तनेत्रेषु तेषु तृप्तेषु योगिनी +निमित्तज्ञावदद् राजपुत्रं बद्धाञ्जलिं ततः +"""अखण्डं भावि ते राज्यं चन्द्रस् त्वद्विभवांशभाक्" +आजीवम् उदयश्रीश् च मण्डितो ऽखण्डया श्रिया +अश्वपालस् त्व् असाव् अस्मदनुग्रहविवर्जितः +"अचिरेणैव कालेन नूनं प्राणैर् वियुज्यते""" +भविष्यत् सूचयित्वैवं योगिनीभिस् समन्विता +सान्तर्दधे पुरः प्राणाः पश्चात् तुरगपालिनः +अविचारतमोमग्नाञ् जन्तून् उद्धर्तुम् ईश्वराः +सम्भवन्ति प्रजापुण्यैः प्रकाशोत्कर्षहेतवः +श्वशुराद् भर्तृभागं यद् अवीरा पुंश्चली वधूः +हरन्त्य् आसीत् स तं राजा दुराचारं न्यवारयत् +[प्स्-ज्र्त् २८] +काष्ठवाटागतान् राजस्थानीयान् व्यूहतत्परान् +युक्त्यानीय महीपालो बद्ध्वा राज्यं सुखं व्यधात् +कोटराजस्य जामातुह्॒ कारावास्तव्यतां व्यधात् +भीत्या प्रत्यहम् एवाथ जीवन्मृत्युम् अवारयत् +बुभुजे क्षेमराजश्रीस्वस्थां शस्त्रनखैश् शतैः विदार्य खटिकाभूमिं राजा सौकर्यभाजनम् +जयापीडपुरे कृत्वा राजधानीं महामतिः +श्रीरिञ्चनपुरे चक्रे रोधम् बुद्धगिराभिधम् +एकोनत्रिंशे ११ वर्षे ऽथ दुष्कृतोद्भवम् अद्भुतम् +दुर्भिक्षं क्षोभयाम् आस लोकं शोकाकुलं महत् +मासान् अष्टौ द्वादशाब्दांस् त्रयोदश दिनानि च +क्ष्मां भुक्त्वा त्रिंशवर्षे ऽथ चैत्रे राजा व्यपद्यत +१९) šइहाब् अद्-दीन् (ल्स् ४४३०-४४४९) +मन्दराजकथाख्यानाज् जडिमा वाचि संस्तुतः +तीक्ष्णप्रतापशाहाबदेनाख्यानाद् विनश्यते +राज्ञि शाहाबदेने ऽथ स्मरणं क्षितिर् अत्यजत् +ललितादित्यसम्पत्तिविपत्तिसुखदुह्॒खयोः +[प्स्-ज्र्त् २९] श्रीमान् शाहाबदेनो ऽथ प्राज्यं साम्राज्यम् अग्रहीत् येन राजन्वती भूर् द्याम् अहसत् तद्यशोमिषात् +ग्रीष्मार्कं द्यौर् इवान्यर्तून् राज्ञो ऽतीत्य बहून् मही +ध्रुवम् आपज् जयापीडम् एतं न तु स किल्विषी +पूर्वे परे च भूपाला नायकेनेव भूषिताः +क्ष्मानायकेन तेनाथ मुक्तागुणलसच्छ्रिया +[प्स्-ज्र्त् ३०] सिन्धौ वाडवतप्ताम्बुन्य् अपि बिम्बितम् अम्बरम् यत्प्रतापाग्नितापार्तं मज्जतीव दिवानिशम् +तदीयो जयलक्ष्मीभिः प्रविष्टाभिः पदे पदे +न प्रतापानलो ऽतृप्यत् सरिद्भिर् इव सागरः +जयं विना गणयतह्॒ क्षणमात्रं वृथा गतम् +वृद्धस्य तरुणीवाभूद् यात्रा तस्यातिवल्लभा +न मृगाक्षी न वा शीधुपानलीला न चन्द्रिका +यात्रैव केवलं तस्य भूमिभर्तुर् मनो ऽहरत् +न तापो न हिमं तस्य न सन्ध्या न निशा तथा +न क्षुन् न वा पिपासा च राज्ञो यात्राम् अविघ्नयत् +न सरिद् दुस्तरतरा दुरारोहो न पर्वतः +दुर्लङ्घ्यो न मरुश् चाभूद् यात्रायां मानिनः प्रभोः +अजितां पूर्वभूपालैः पारसीककुलाकुलाम् +उत्तराशां विजेतुं स प्रस्थानं प्रथमं व्यधात् +जगतां विजयी कामो मधुशीधुवधूर् इव +चन्द्रलोलकशूरान् स सहायत्वे ऽवृणोत् प्रभुः +सैन्यचेतांसि सत्त्वेन तमसा स्वविरोधिनः +अपूरयत् स रजसा दिगन्तान् उद्धतान्तकः +प्रविष्टं तस्य गोविन्दखानपालनशालिनि +उदभाण्डपुरे पूर्वं बाणैस् तदनु सैनिकैः +शैलशृङ्गं नृपानीके प्राप्ते तस्य विरोधिभिः +भयातुरैर् अवारोहश् शृङ्गात् तुङ्गाद् व्यधीयत +सदृशं प्राभृतं दातुम् असमर्थो ऽस्य सिन्धुपः +उपधीकृतवान् कन्यारत्नं आदाय भूपतेः +राज्ञस् तु गौरवं बाहौ गान्धाराणां भुवोढया +चित्रं तु लाघवं तेषां भयभारानुषङ्गतः +भङ्गस् तुङ्गस्य शृङ्गस्य खड्गानां नैव भूभुजा +शिङ्गानाम् अपि देशे ऽस्मिन् विहितश् शौर्यशालिना +आकर्ण्य राजसिंहस्य सिंहनादमयीं चमूम् +मदं तत्याज चस्खाल बिभाय गजिनीपुरी +[प्स्-ज्र्त् ३१] स्नातं रक्तैर् द्विषां भुक्तं प्राणवातैर् महीतले व्रतस्थाभिर् इवास्वापि तस्याहो धीरहेतिभिः +श्रोत्रियक्षत्रियैर् अष्टनगरे ऽरोदि शाम्यतोः +तरुणाग्निप्रतापाग्न्योर् धूमेनेव भयातुरैः +यशसा सह सम्पत्तिं तस्मिंल् लुण्ठयति प्रभौ +प्रापत् पुरुषवीराख्यदेशाख्या रूढिशब्दताम् +दत्तवाष्पनिवापाम्भोनगराग्रहरस्त्रियः +जीवतस् स्वस्य पत्युश् च पिण्डौ स्तननिभाद् ददुः +अश्वपालेषु गच्छत्सु घोषधातुतटच्छलात् +उदक्पतितिरस्कारप्रशस्तिं स व्यधात् प्रभुः +ततो व्यावृत्य गच्छन् स दक्षिणाशां स्ववाजिनाम् +मार्गखेदोचितं तापं शतद्रूवारिणाहनत् +ढिल्लीम् उल्लुण्ठ्य तत्कालम् उदक्पतिम् उपागतम् +मार्गरोधेन नृपतिर् नितान्तम् उदवेजयत् +[प्स्-ज्र्त्] योगिनीपुरपौरान् यान् धाट्यानैषीद् उदक्पतिः मार्गदानोपकारेण स तान् अदित भूभुजे +तुरङ्गवस्त्रदानेन स तान् सम्मान्य भूपतिः +स्वदेशं प्राहिणोत् कीर्तिराशीन् मूर्तान् बहून् इव +सुशर्मपुरराजेन तस्मात् स्वाशर्मशङ्किना +दुर्गाहङ्कारम् उत्सृज्य देव्य् एव शरणीकृता +[प्स्-ज्र्त् ३२] तत्प्रतापानलः पीत्वा केदाराश्रयिणां रसम् जातानां शिवलिङ्गानां वत भङ्गम् अदर्शयत् +स्वयं नत्या न तून्नत्या भौट्टानाम् अस्य भूपतेः +अर्वतां पर्वतारोहदोहदो विनिवारितः +दुस्तरत्वात् तटस्थस्य देवताभिस् तनूकृतः +सिन्ध्वोघो नृपतेर् एवं पूर्वेभ्यश् श्रुतम् अद्भुतम् +एवं नित्यजयोद्योगात् स्वदेशः परदेशवत् +परदेशस् तु तस्यासीत् स्वदेश इव भूपतेः +प्रतापेनेति सम्पाद्य दिङ्मुखे तिलकश्रियम् +व्यधात् प्रविश्य कश्मीरान् स पौरान् अयनोत्सवम् +तस्य वर्णयतां शौर्यं प्रसङ्गाद् अतिमानुषम् +अस्माकं चाटुकारित्वं ज्ञास्यते भाविभिर् जनैः +यात्रायातह्॒ कदाचित् स दूरदेशे महीपतिः +अप्सरस्सदृशीं काञ्चिच् छ्रुतवान् हरिणेक्षणाम् +निजानुगान् वञ्चयित्वा राजा युक्त्या कयाचन +अथैकाकी स तं देशम् अविशद् भोगलालसः +नर्मणा मोहयित्वा तां द्वितीय इव मन्मथः +मनोरथान् असिञ्चत् स तदोष्ठामृतपानतः +अपश्यन्तस् तम् आशङ्क्य हतं केनापि वैरिणा +अथ कोपभ्रमावेशम् उद्भटास् तद्भटा ययुः +अन्विष्यद्भिस् तम् अश्वेन निबद्धेनाङ्गनाद् बहिः +समभाव्यत तै राज्ञो वैरिभिर् निर्जयह्॒ कृतः +शौर्यस्वाम्यनुगाभ्यां तु विधातुं युद्धम् उद्भटैः +तद्भटैस् सदनं रुद्धम् अबद्धकवचान्तरैः +अत्रसद्भिश् च तत्सिंहनादपूर्णात् ततः पुरा ३९८अब् +[प्स्-ज्र्त्] कृतास्कन्देषु शूरेषु शत्रुभिर् विपिनं गतम् +अथाश्वास्य प्रियां तां तु शत्रून् मत्वा समागतान् स्वशौर्यं सफलीकर्तुं योद्धुं राजा विनिर्ययौ +शाहाबदेनम् आलोक्य तं तेषाम् अनुजीविनाम् ४००अब् +चित्तैः प्रीत्या मुखैर् भीत्या नीत्या मूर्धभिर् आनतम् +एवं स स्वजयस्तम्भयूपान् रणमखान् बहून् +हतवैरिपशूंश् चक्रे स्वप्रतापानलार्चिषः +स्वदेशे मन्त्रिणोस् तस्य कोटभट्टोदयश्रियोः +समरेषु भरस् त्व् आसिच् चन्द्रडामरलोलयोः +देवशर्मान्वयोदन्वच्चन्द्रो राज्ञार्पितं मुहुः +वैराग्याद् विभवं त्यक्त्वा कोटशर्मा वनं ययौ +[प्स्-ज्र्त् ३३] +श्रीवृष्ट्या कोटभट्टो ऽर्थिसार्थान् सम्पोष्य यत्नतः +व्यलालयद् वनव्योम्नि स स्वं नियममारुतैः +कोटशर्मा तथा धर्मद्रुमं दानाम्भसासिचत् ननाशाशामयो भूयो यथा तत्फलभोगिनः +तस्य दर्शयितुं राज्ञस् स्वबलाधिकतां ध्रुवम् +कदाचित् तत्प्रजा दैवी व्यापद् गाढम् अपीडयत् +पुरीकैरविणीसूरश् शूरः पादपविद्विषाम् +षट्त्रिंशे ऽब्दे जलापूरह्॒ क्रूरो व्यप्लवत प्रजाः +[प्स्-ज्र्त् ३४] तदन्तःप्रतिबिम्बस्थे स्वस्मिन् सद्मान्तरभ्रमात् तद्वीक्षार्थम् इवानीके तोये तुम्बीर् व्यधुर् गृहाः +नगरब्रुडनाद् अस्रु मुञ्चन्तो निर्झरच्छलात् +तस्योदीपस्य महतः पर्वतास् तटताम् अगुः +न स वृक्षो न सा सीमा न स सेतुर् न तद् गुहम् +तटस्थम् अपि यन् नैव जलपूरो व्यनाशयत् +नाद्रिदुर्गाण्य् अपश्यत् स जातुचिद् वैरिभीतितः +अम्बुपूरभयात् तेषु राजा समचरत्तराम् +पीते तत्तेजसेवाम्बुपूरे शान्ते मितैर् दिनैः +भूयस् तद्विप्लवाशङ्की सो ऽचिकीर्षद् गिरौ पुरीम् +नाम्ना लक्ष्म्या महिष्याश् च प्रसिद्धां नगरीं व्यधात् +स्वौदार्यानुगुणां राजा निर्माणम् अविलोकयन् +शारिका���ैलराजस्य मूले पुण्यजनाश्रिताम् +याम् अद्राक्षीत्तरां लोकस् सुमेरोर् अलकाम् इव +वितस्तासिन्धुसम्भेदे स्वनाम्ना स पुरीं व्यधात् +प्रतिबिम्बच्छलात् तोये त्रपया स्वर् निमज्जति +सौधोत्सेधमयीं राशीभूतां कीर्तिम् इवाचलाम् +अलोलश्रीः पुरीं लोलडामरस् स्वाभिधां व्यधात् +[प्स्-ज्र्त् ३५] सुधाधौतैर् मठैर् लक्ष्मीं फलयद्भिह्॒ कृतैः पुरी कुलिशच्छिन्नकैलासशृङ्गभङ्गिम् अजीजनत् +आजन्मलोलता मह्या स्वरसाम्याय वर्धिता +निहन्ति च्छायया तस्या द्युमणिस्पर्शजं सुखम् +या लक्ष्म्या भागिनेयीत्वाद् बालापालि निजान्तिके +लासाख्या सा समाक्रामन् नृपतेश् चित्तदर्पने +यश् चानुरोधतन्तुस् तं चिरं लक्ष्म्या निबद्धवान् +स च्छिन्नो रागवेगेन लासासौन्दर्यजन्मना +बलिजिन्मूर्तिना तेन वसन्त्या वक्षसि श्रियः +प्रातिवेश्मिकतां नीता लासा सौभाग्यभागिनी +छाया तद्रचितोदयापि दिवसश्रीभोगम् आतन्वतः सूर्यात् सम्मुखतां जहाति वहति श्रेयोहरीं कालताम् +स्त्रीणाम् अस्ति चतुर्गुणा मतिर् इति स्थाने न हन्त श्रुतिर् यद् वा दुर्विधिपङ्कम् आकलयितुं शक्तो न कश्चिद् द्रुतम् +प्राकृतस्यावताराख्याभल्लस्यापि सुता सती +लक्ष्मीर् लासानुरक्ते ऽधाद् अथ रोषं महीपतौ +रोषात् सिन्धुपतेर् देशं सम्बन्धित्वाद् गतां नृपः +प्रत्यानयत् त्रपोद्रेकान् न पुनस् स्नेहगौरवात् +[प्स्-ज्र्त् ३६] +अलाब्वो न्यब्रुडन्न् अन्तर् अप्लवन्त जले शिलाः +लक्ष्मीपक्षह्॒ क्षयं वृद्धिं लासापक्षस् तु लब्धवान् +यावद् यावद् अगाद् दूरं लक्ष्मी रात्रिर् इव क्रुधा तावत् तावत् स तां लासां दिवं भास्वान् इवाभजत् +अपनीय तापखेदं मरुकरिणी पद्मिनीतोयैः +तत्पद्मशेवलाम्भोनिर्माथे कर्मठीभवति +लक्ष्म्या मातृस्वसुस् सर्वमातृकृत्यकृतो ऽभवत् +राजप्रियाथ राकेव लासा पक्षक्षयोद्यता +सत्कर्मपाकसमयो ऽस्य न चेद् विकासशोभां न किं परिहरेत् कुमुदाकरस्य +विश्वप्रबोधहरणप्रवणक्षणेन कुस्त्री निशा च सहसैव निशाकरेण +चिन्तासूचकनिश्श्वासक्लिन्नौष्ठी तं कदाचन +अवोचद् भोगिनीवेति लासाख्या भोगिनी नृपम् +"""न चेद् विकासयेद् भास्वान् पद्मिनीं स्वरुचा स्फुटम्" +तस्याश् छेदाय शैवालवल्ल्या इव यतेत कः +पतन्तीं प्रेमभारार्द्रां मयि दृष्टिं तवासहा +मां निहन्तुम् उपायेन कुरुते महिषी तव +अभिचारे दुराचा��म् उपचारप्रियङ्करम् +"सा चाराक्षी मयि द्वेषाद् उदयश्रियम् ऐरयत्""" +"""देवादेशपरे तस्मिन्न् अभिचारविनिर्मितिः" +"असम्भाव्ये""ति तां राजा प्रत्युवाच विचक्षणः" +निर्बन्धेनोपजल्पन्तीं तद् एव वचनं ततः +तां प्रत्याययितुं देवीम् उदयश्रियम् अब्रवीत् +"""व्ययित्वातिशयेनाहो कोशो रिक्तत्वम् आगतः" +प्रार्थयन्ते जना राज्ञस् सर्वं कल्पतरून् इव +द्रविणोत्पत्तये तस्माद् उपायः प्रतिभात्य् अयम् +प्रतिमा श्रीजयेश्वर्या यास्ति रीतिमयी पृथुः +तां खण्डयित्वा विहतैष् टङ्कैर् मन्नामचिह्नितैः +"व्ययनिर्वहणं कीर्तिस्थिरत्वं चोपजायते""" +"""साध्व् एतत् किं तु तन्मूर्तिर् लघ्वी किं प्रभविष्यति" +"बृहद्बुद्धेन मुद्रास्तु"" क्षुद्रस् तं सचिवो ऽभ्यधात्" +[प्स्-ज्र्त् ३७] पुंनागव्रजम् उन्मुमूलयिषति प्रायह्॒ कराकर्षणैर् उद्दामं विजिहीर्षति प्रतिपदं कक्ष्याछिदां काङ्क्षति कां नैच्छन् नृपगन्धसिन्धुरपतिस् तीव्रां न वप्रक्रियां तीक्ष्णाग्रप्रतिभाङ्कुशो ऽस्य निकटे मन्त्री नियन्ता पुनः +मुद्रोपकरणं सज्जीकृत्यान्येद्युर् उपागतम् +राज्ञीं प्रत्याय्य भूपालो रहो मन्त्रिणम् अब्रवीत् +"""याः पूर्वैर् निरमीयन्त यशस्सुकृतलब्धये" +अङ्गीकर्तासि ता देवप्रतिमा भङ्क्तुम् अञ्जसा +अमरप्रतिमा विधाय केचित् परिपूज्याथ परे प्रसिद्धिम् आप्ताः +परिपाल्य यथोचितं तथान्ये विदलय्याहम् अहो महद् दुरन्तम् +निर्माणाज् जलधेस् कृतेश् च सरितां कौमारशोकावधिः प्रख्यातस् सगरो भगीरथनृपो गङ्गावताराच् च सः +दुष्यन्तस् स च विश्वविश्वविजयाज् जिष्णोर् भयान्य् आवहन् रामो हन्त दशाननेन विहितात् सीतापहारात् पुनः +राजा शाहाभदीनाख्यस् सुरमूर्तीर् अलोठयत् +"मा दुर्वार्त्तेयम् अत्युग्रा चकम्पद् भाविनो जनान्""" +उदयश्रीर् नतशिरा राज्ञीत्य् उक्तवति स्वयम् +महीरन्ध्रम् इवैक्षिष्ट द्राग् अधोगतिवाञ्छया +[प्स्-ज्र्त् ३८] सर्वंसहा तदा क्ष्माभूद् अन्वर्था प्राग्वद् एव यत् लासानुरक्तम् अपि तं सा राजानम् असेवत +भास्करो द्युपरीरम्भरसासादितकौतुकः +स्वपुत्रशनिमुख्यानां ग्रहाणां हानिम् इच्छति +रागी तद्दोषवादिन्या तया देव्या प्रबोधितः +व्यवासयत् स्वदेशात् स राजपुत्रान् परान् इव +कार्येष्व् अतिमनुष्येषु साहायकविधायिभिः +योगिनीपुरनाथस्य तैर् व्यक्तो विक्रमह्॒ कृत�� +औदार्याद् दत्तवृत्तीन् स हिन्दुकान् एव बोधितः +म्लेच्छान् सेकन्दरमुखान् राजद्रोहकृतो ऽवधीत् +पिशुनैर् जनिताशङ्कश् शूरो मदनलाविकः +राजा विप्लवसज्जो ऽपि सेनयास्य निवारितः +[प्स्-ज्र्त् ३९] +"""औदार्यशालिना राज्ञा स्वसमं वर्धितस् स्वयम्" +राजाधिकं व्यवाहार्षीत् तदा मदनलाविकः +"तुल्यार्थस् समसामर्थ्यश् शङ्क्यो ऽयम्"" इति भूपतिः" +ईर्ष्यालुभिह्॒ कुसचिवैस् तस्मै परम् अकोप्यत +शुचिम् अप्य् अशुचिं मत्वा तं वीतिं भूमिपालधीः +खलनाशावृतत्वेन न चित्तविरताभवत् +उपप्लावयितुं वाञ्छंस् तं मुहुह्॒ क्रोधवेगतः राजरत्नाकरो ऽरोधि तदीयगुणवेलया +राजा जातत्वरां यात्रां व्यसनेनाभिषेणयन् +नौसेतुकौतुकं सिन्धोः परिखाया इवाहरत् +शूरह्॒ खड्गनगर्यां स पर्यटन् मृगयारसात् +सिंहम् अभ्यद्रवद् राजा सिंहसंहतसाहसः +गच्छंश् चित्ताधिकं राजा वाजिना वेगराजिना +अन्वगाम्य् अतिभक्तेन मदनेनैव केवलम् +[प्स्-ज्र्त् ४०] आरूढः पौरुषं राजा सो ऽवरूढस् तुरङ्गमात् यमेनेव व्यधाद् युद्धं हरिणा क्रौर्यधारिणा +एकाकिनं चिरं बद्धयुद्धम् उद्धतकेसरः +तम् अधह्॒ कृतवान् राजसिंहं सिंहो ऽतिसाहसम् +उत्प्लुत्य वाजिनस् तूर्णं शूरो मदनलाविकः +निपातितनृपं सिंहं कृपाण्या सहसावधीत् +प्राणरक्षोपकारेण प्रसन्नः पिशुनाज् जनात् +युक्त्या मारणम् एतस्य शङ्कमानो नरेश्वरः +स विवाहच्छलाद् दत्त्वा द्रविणं करुणामयः +मदनं व्यसृजड् ढिल्लीपतेर् निकटम् अञ्जसा +उत्पन्नचण्पकं दीप्त्या कुर्वतीं व्योम जातुचित् +स्वप्ने शर्करसूहाख्यो दृष्टवान् काञ्चनीं पुरीम् +वेश्म वेश्म विशंस् तत्र शून्यं पश्यन्न् अयं ततः +राजधान्यां स्त्रियं काञ्चिद् अपश्यत् कान्तिदन्तुराम् +"अपृच्छच् च ""त्वम् एकैव हन्तेयति महापुरे" +व्योम्नीव शशिलेखा किं चित्रं तिष्ठसि निर्भया +कस्येयं नगरी कस्माच् छून्या सर्वत्र वर्तते +"अत्रेदं पतितं कस्य वर्तते च कलेवरम्""" +"सा तं जगाद ""गन्धर्वराजस्यासौ महापुरी" +सुन्दरी पतिहीनेव विधुहीनेव शर्वरी +स चामात्यैस् समं सर्वैः पातुं कश्मीरमेदिनीम् +अवतीर्णः परिस्थाप्य निजम् अत्र कलेवरम् +शाहाबदेन इति यः प्रथितो ऽस्ति जगत्त्रये +तत्कलेवररक्षार्थम् अत्र तिष्ठामि केवला +स च निष्पादिताशेषकार्यो मासत्रयान्तरे +"स्वाम् इमां नगरीम् एव ध्रुवं रक्षितुम् एष्यति""" +प्र��ुद्धो ऽभ्यधिकाश्चर्यशोकचिन्तारसान्तरे +मज्जन्न् अवर्णयद् राज्ञे स्वप्नवृत्तिम् अखण्डिताम् +"""असत्ये किं भयं स्वप्ने सत्ये त्व् ऐश्वर्यम् एव मे""" +इत्थं तद् विमृशन् राजा न तथा पस्पृशे शुचा +"""मदन्तिकम् उपागम्यम्"" इति भूमिपतिस् ततः" +दूरस्थितानां पुत्राणां सद्यो लेखान् विसृष्टवान् +ततो मुमूर्षुर् भूपालो हिन्दुकानां निजे पदे +अप्राप्ततनयो धीमान् अभ्यषिञ्चत् स्वयं ततः +[प्स्-ज्र्त् ४३] +तं भक्तं नेश्वरो ऽनैषीत् सदेहं यत् सधर्मताम् +तत्र हेतुर् ध्रुवं तस्मिन् सौभाग्यान् मदनभ्रमः +शौर्यौदार्यविधौ विधौतविविधश्लोके नृलोकेश्वरे तस्मिन्न् अस्तम् उपागते गुणिगणत्राणोच्चरन्नैपुणे +शक्रेणोन्नमितं शिरः परिभवत्रासापसाराद् ध्रुवं भूभारोद्वहनात् पुनर् विनमितं शेषेण शोकस्पृशा +प्रत्यक्षं ज्वलतः प्रतापशिखिनस् स्वीकृत्य यां भुक्तवान् नान्यान् आद्रियताधिकं स्पृहयतस् तद्रागबन्धाच् च या तां भूमिं प्रविहाय हायम् अगमद् द्यां शक्रभुक्तां चिरं पुंसां स्त्रीषु कदापि न प्रभवति प्रेमग्रहप्रत्ययः +ज्यैष्ठशुक्लचतुर्दश्यां तानाङ्के ऽब्दे महीपतिः +आलिङ्ग्य नाकवनितास् स्तनौन्नत्यम् अपीफलत् +२०) क़ुट्ब्-अद्-दीन् (ल्स् ४४४९-४४६५) +[प्स्-ज्र्त् ४४] मत्वेव भूजयाद् भूयः पुनरुक्तापवादताम् शाहाभदीने निर्जेतुं द्याम् इव प्रस्थिते सति +कुद्भदेननरेन्द्रो ऽथ मौलाव् आज्ञां महीभुजाम् +चित्ते सुखं मुखे हर्षं स्तुतिं वाचि न्यधात् ततः +[प्स्-ज्र्त् ४६] +तस्य प्रतापकमला सगर्वपदवीम् अगात् +जयव्यसनिपूर्वेशविरहार्तेव भूपतेः +तद्वियोगासहा देशदेवी जयम् अधात् स्वयम् ज्र्त्_ब्.५४१अब् +नातितीव्रो न वा मन्दस् सर्वस्यैव महीपतिः +चित्तम् आदित लोकस्य वैषुवो भानुमान् इव +[प्स्-ज्र्त् ४७] +अह्नायापह्नुतं युद्धे तद्धनुःप्रतिकूजितम् +शोचद्वैरिवधूवर्गक्रन्दितैर् मत्सराद् इव +दिङ्मुखे चन्दनालेपह्॒ कीर्तिर् अम्बरचन्द्रिका +धरणीरमणस्यास्य द्विषाम् आम्लापयन् मुखम् +क्षेम लक्ष्मीं प्रजाह्॒ क्षोणीपाले तन्वति तन्वति भूमाव् एव स्थिता नाकभोगसौख्यम् अभुञ्जत +लोहरप्रत्यवेक्षार्थं यान् न्यधात् पूर्वभूपतिः +लोहराधिपतेर् भीत्या ते पलाय्य गतास् ततः +शाम्यन्त्य् ओषधयस् सर्वाश् शशिन्य् अस्तं गते सति +दृष्टो हि सूर्यकान्तानां रवौ याति द्युतिक्ष��ः +लोहरं प्रतिसन्धातुं कुद्भदेनमहीपतिः +शौर्यशालिनम् आदिक्षत् पुरो डामरलोलकम् +अवेष्टयत् ततो गत्वा लोहराद्रिं स सर्वतः +प्राणा हि स्वामिभक्तानां तृणायन्ते महात्मनाम् +असामर्थ्यान् निजं दुर्गं दुर्गेन्द्रो ऽर्पयितुं ततः +ब्राह्मणान् व्यसृजद् दूताण् डामराधिपतिं प्रति +द्विजलिङ्गान् स तान् मत्वा सारं द्रष्टुम् उपागतान् +न्यग्रहीद् विग्रहाद् उग्राद् द्विजान् अव्यग्रमानसः +द्विजदैवतम् अप्य् एतं श्रुत्वा तदपकारिणम् +लोहरेन्द्रेण कोट्टाशां जीवाशां च विसृष्टवान् +पश्यन्तो मरणं स्वस्य युद्धे वाथ पलायने +क्षत्रियाणां निजं धर्मम् अग्रहीषुस् ततो रणम् +शिलासारशिलावर्षैर् दुर्दर्शा दुर्घना इव +लोहराद्रेर् अवारोहन्न् आरोहंस् तु यशांसि ते +[प्स्-ज्र्त् ४९] स्वं खण्डीकृत्य शैलेन विभक्तं स्वामिभक्तितः प्रत्येकं शत्रवस् तेषु शिलावर्षिष्व् अमंसत +विप्रकीर्णैस् स पाषाणैर् लोलो डामरनायकः +अन्तर्हितस् समं कीर्त्या भावि को नाम लङ्घति +शत्रुकीर्णशिलाराशिच्छन्नो डामरलोलकः +यवनप्रेतसंस्कारान् न विपद्य् अप्य् अहीयत +शाहाबदेनभूपालो निर्वास्यापि सुतान् निजान् +आकारयत् स्वयं लेखैर् निजवर्णपरिष्कृतैः +गुणैश् च वयसा तेषां ज्येष्ठो माहेन्द्रमण्डलम् +हस्सनो राजपुत्रस् स प्राप तावद् अनङ्कुशम् +स नेत्रशुक्तिमुक्ताभिर् मुक्ताभिर् वाष्पवीचिभिः +श्रुत्वा तत्र पितुर् मृत्युं निवापाञ्जलिम् आर्पयत् +व्यावृत्य गमनेच्छायास् स्वच्छाशयम् अमुं ततः +न्यवारयत् पितृव्यस्य लेखह्॒ कश्मीरभूपतेः +"""शक्रादिसौख्यलोभेन भृत्यान् अस्मान् उपेक्ष्य सः" +समस्कुरुत शाहाबादीनभूमिपतिर् दिवम् +स्वस्स्त्रीभोगरसेनेव गमनाय त्वरावतः +तस्यास्माभिर् भवत्कार्यम् अशेषं निरपद्यत +क्ष्मारक्षालक्षणाम् आज्ञां विचक्षणशिरोमणेः +तन्मन्त्रमालितां मौलिमूले मालां विदध्महे +प्रवासागमनाभ्यां त्वं स्वपितुः पालिताज्ञया +श्रीराम इव भूलोकं यशोभिस् स्वम् अपूपुरः +भूतो भावी च सम्मानो यद्य् अपि स्वगुणैस् तव +यौवराज्यग्रहाद् भारं लघूकुर्यास् तथापि मे +स्वधैर्यं सभ्यसंयोगो नानाबन्धुसमागमः +तव रक्षाधिकारश् च दौर्मनस्यं विलुम्पते +यशसेव प्रमीतानां परदेशनिवासिनाम् +महतां न हि जातु स्याद् विभवेन सुखोद्गमः +स्वरूपप्रतिबिम्बेन भवता स्वर्गवासिनः +��दुत्कण्ठाभरो ऽस्माकं दर्शनेन निवार्यताम् +"""पुत्रश् शाहाबदेनस्य सो ऽयम्"" इत्य् अन्यमण्डले" +अङ्गुलीमुखनिर्देशः प्राकृतस्येव मास्तु ते +राज्ञां मदनुकम्प्यानां मुखप्रेक्षी भवन् भवान् +कश्मीरैश्वर्यम् अतुलं मा नैषीर् अल्पकं स्वयम् +विभज्य भवति क्षोणीभारं मेरुगिराव् इव +सुखं सम्पत्तिम् अतुलाम् अनन्तद्युतिर् आप्नुयाम् +[प्स्-ज्र्त् ५२] +कीर्तिं सुरवधूगीतां पात्रे श्रीप्रतिपादनात् +स कर्णपूरयन् राजा मादृत स्वर्गमालतीः +प्रिययोर् आवयोस् स्नेहश्रुतिसौख्येन शीतलैः निश्श्वासैर् भूपतेस् स्वीयैस् स्याद् अस्पृह्यं च चामरम् +येन मानेन माम् अन्वग्रहीत् स वसुधाधिपः +त्वं सञ्चरस्व तेनैव मयि पालयति प्रजाः +[प्स्-ज्र्त् ५३] त्राता द्यौश् शक्रराजभ्याम् आवाभ्यां च समं मही शेषैकनाथां पाताललक्ष्मीं हसतु निस्सुखाम् +उदयश्रीमुखामात्यमतानुष्ठानशालिनीम् +"ममार्थनानिषेधेन लक्ष्मीं मैव वृथा कृथाः""" +अजानंल् लोलकर्णत्वं राजेन्द्रकरिणाम् अथ +पन्थानं लेखवाची स काश्मीराणाम् अगाहत +पवनैस् सम्मुखायातैर् झाङ्काररवधारिभिः +न्यवार्यतेव कश्मीरप्रवेशाद् राजनन्दनः +स विशन्न् अथ काश्मीरसरणीम् उदजिज्वलत् +अमलीमसयद् राज्ञश् श्रुतिं तु खलचोदना +नक्रास् समुद्रम् इव केचिद् उदेतुकामा वाता लतान्तम् इव केचन दर्पवृत्त्या +दुर्मत्रिणो भुवनकाननचक्रवालहव्याशना नरपतिं प्रविलोलयन्ति +अथ प्रविष्टे कश्मीरान् हस्सने राजनन्दने +कुद्भदेनमहीपालः पिशुनैर् इत्य् अकथ्यत +"""सर्वासाम् एव बुद्धीनाम् उपरीश्वरबुद्धयः" +तथापि सचिवैर् वाच्यो हिताहितविनिर्णयः +पुरन्दरादिलोकेशतेजोऽंशाश्रयशालिनाम् +स्ववंश्येभ्यो महीन्द्राणां अन्तरायो विलोक्यते +स्पर्शनाशितया ख्याताद् भ्रातृरूपाद् विजिह्मगात् +कृष्णसर्पाद् इवाश्लिष्टात् कष्टं दूरे न कस्यचित् +विभवैस् तर्प्यमाणो ऽयं न च स्वीभविता तव +स्नेहेन सिच्यमानो ऽग्निश् शीतलत्वं किम् ऋच्छति +[प्स्-ज्र्त् ५५] +वरं हालाहलो घोरो न दुरात्मा च दुर्जनः +तस्य पानाद् गलत्य् एकः परस्य त्व् अखिलं कुलम् +दैवाद् दूरतरं सर्पं प्रसर्पद्विषधारिणम् विना दैवकृतं को नु निधौ स्थापयति स्वयम् +"न चिन्त्यं ""स्वयम् एकाकी राज्ञो मे किं करिष्यति""" +हरेः पुरस् सयूथो ऽपि कतमो वारणेश्वरः +"""मद्बुद्ध्या विक्रमस् तस्य हन्यताम्"" इति नोज्ज्वलम्" +बुद्धिमान् उदयश्रीस् तं स्वामिभक्त्या हि रक्षति +आद्ये दर्पोदयः पक्षे दोषोद्रेकः परे यतः +नानुग्राह्यो न चोत्सृज्यस् तव राजेन्द्र हस्सनः +न वैवम्प्रायतावृत्तिं तेजस्वी स क्षमिष्यते +यस्मिन् दहति नाम्भोधिं स क्षणो वाडवस्य कः +अतस् तस्य निरोधेन निरुत्पिञ्जसुखाः प्रजाः +"कुण्ठयन्तुतरां पूर्वभूपालोत्कण्ठितां चिरम्""" +प्रविष्टैर् इति दुर्वाप्या निर्गताद्भिर् इव ह्रदः +वैरस्यम् अभजद् राजा खलवाक्यैस् स हस्सने +पश्यञ् शृण्वन्न् अनुभवंस् तस्याप्य् उत्सेकविक्रियाम् +"""भ्रातुः पुत्र"" इति स्नेहान् न तं राजा न्यरोधयत्" +उदयश्रीर् अथालक्ष्य विरक्तं हस्सने नृपम् +लोलडामरभार्यां तद्धात्रीं समदिशत् ततः +"""स्वामिरागम् इवारूढो नाकं डामरलोलकः" +अहारयद् यशो न स्वं कुस्वामिमुखवीक्षणैः +अस्माद् दुर्मनसो राज्ञो विभवाशास्तु दूरतः +वर्धितस्य त्वया प्राणसंशयो हस्सनस्य तु +[प्स्-ज्र्त् ५७] अतः प्रलोभ्य राजेत्थं त्वयानेयो निजान् गृहान् योग्यं स्थानान्तरं नास्मद्विपन्निर्यातनाविधौ +तस्मात् त्वया निजार्थानां ग्रहणार्थं महीपतिः +प्रार्थनीयो यथाभ्येति त्वद्गृहान् एष लुब्धधीः +[प्स्-ज्र्त् ५८] +"""विश्वस्तायाह्॒ किम् अर्थैर् मे धर्मकामार्थहेतुभिः" +राज्ञो ऽर्पयामि तान् सर्वान् यदि मे स्याद् अनुग्रहः +अतस् स्वकीर्तये पूर्तसम्मानस्फूर्तये ऽस्तु मे +यत् तु त्वच्चरणस्पर्शदर्शितानुग्रहं गृहम् +प्रत्याहृत्य स्वयं स्वीयम् ओषधेर् इव सद्वसु +आशाः प्रकाशयत्व् अर्थपतिर् भास्वान् इवाभितः +वदन्येन त्वयापेक्ष्यं न तु स्त्रीधनम् इत्य् अतः +रसाया रसम् आदत्ते लोकाप्यायाय भास्करः +अनेन वसुना राज्ञः फलतु प्रार्थनार्थिनाम् +सरितां वारि गृह्णानो मेघांस् तर्पयते ऽम्बुधिः +"निधीन् अहिभिर् आवेष्ट्य गोपयन्ती मया मही उपहास्येत नाथेन मद्द्रव्ये दृष्टिकारिणा""" +तत्रागतं महीपालं हनिष्यामो वयं बलात् +"बध्नीमो वा ततो राजपुत्रो वृद्धिम् उपैष्यति"" ४" +[प्स्-ज्र्त् ५८] +"""तथे""ति प्रतिसन्दिश्य सा पुंवद् धैर्यशालिनी" +तद्बुद्धिपरितोषार्थम् एवं सन्देशम् आक्षिपत् +"""एकाकी दीर्घधीकृद् यह्॒ किम् उद्यच्छेत साहसे" +कदाचिन् नोच्चरत्य् एव करेणैकेन तालिका +सामर्षस् सावलेपत्वात् कम्पनाधिपतिस् त्वया +साहाय्यकार्थम् अभ्यर्थ्यस् सिद्��े कार्ये धृतौजसा +भवतैव विधार्येयं निराधारत्वनिष्फला +"वाताहताश्रया द्राक्षावल्लीवान्येन भूरुहा""" +उदयश्रीर् इति श्रुत्वा वाचिकं मतिमान् अपि +तथैवायाचत् साहाय्यं कम्पनेश्वरलक्ष्मकम् +हस्सनस्य जनन्यास् स लक्ष्म्या ध्यायन्न् अपक्रियाः +तस्मिन् प्रत्यपकारेच्छुस् तद् राज्ञे विन्यवेदयत् +मन्त्रिभिर् विवृतस् सो ऽथ गुणवत्सलमत्सरैः +अबोध्य् उदयभद्रस्य दुर्नयं तं नराधिपः +मन्त्रिणं स्तन्यम् आप्याय स्वकीयम् अभयाय तम् +राज्ञी राज्ञो ऽस्य सुडाख्या पुत्रीयां चक्रुषी स्वयम् +स पूर्वस्वामिसम्मानव्यृणमार्गोपलब्धये हस्सनाभ्युदयाङ्गानि प्राणान् अपि त्व् अजीगणत् +अथ दैवाद् गते तस्मिन् मन्त्रे भेदं महीपतेः +उदयश्रीस् ततो भीतः पलाययत हस्सनम् +आत्मनो वधबन्धे वा मोचयन्न् अपराञ् जनान् +रसेन्द्र इव लोके ऽस्मिञ् श्लाघनीयत्वम् अश्नुते +कर्मण्य् अभीक्ष्णतीक्ष्णे ऽपि तथा लक्षितम् उद्यतम् +क्षमाशीलह्॒ क्षमापालो नातक्ष्णोद् उदयश्रियम् +गुणैस् संवृत्य रन्ध्राणि शुचितां शीलयन् बहिः +बिसवत् कालम् अनयत् पङ्कवत्सु जलेषु च +[प्स्-ज्र्त् ५९] +बुद्धेलस्वामिनह्॒ कन्यारत्नं स्वीकृत्य हस्सनः +अविशल् लोहरं तावन् निरगाच् च दिशां भयम् +कश्मीराम्बरबद्धस्य घनस्येवोदयश्रियः +धीवृष्ट्या पुष्टिम् अभ्यायात् केदार इव हस्सनः +युक्त्या मन्त्रान् घ्नताथान्तर् आधिनेवोदयश्रिया व्याधिनेव बहिर् भूपो हस्सनेनाभ्यभूयत +"""तावद् वमति यस् तोयं दूरात् स्पृष्टो हिमांशुना" +"किंस्विन् नैव तदाश्लिष्टश् शशिग्रावा स्रवेद्"" इति" +उदयश्रीर् गन्तुकामो राजपुत्रान्तिकं ततः +उदयश्रीश् श्रुतद्रोहो राज्ञा कारां निवेशितः +[प्स्-ज्र्त् ६०] +मडवासरणिं वक्रां सिद्धिहेतुं विदन् रहः +श्वशुरं वर्णितस्वीयरहस्यं मडवापतिम् +गङ्गराजम् अथायाचत् तन्मार्गेण विनिर्गमम् +अन्ते नश्यति धीः पुंसस् सहस्रांशोर् इव द्युतिः +न यद्य् उद्भेदयेत् कन्दकोटिं शृङ्गाटम् उन्नताम् +कस् तस्यान्तर्निमग्नस्य ज्ञातुं शक्तो भवेत् स्थितिम् +स्वनाशशङ्कया गङ्गराजे तद्द्रोहवर्णिनि इद्धतेजा नृपह्॒ क्रुद्धो रुणद्धि स्मोदयश्रियम् +परीक्षितुम् इवोद्युक्तैर् गुरोस् तस्य च शेमुषीम् +सुरैर् इवार्थितो राजा क्रोधाद् व्यापादयत् स तम् +मथ्नन् पद्मं गजो भञ्जन् मरुच् चन्दनपादपम् +निघ्��न् पुरुषरत्नं च राजा निन्द्यो जगत्त्रये +यशः पुरुषपुष्पाणां भुवनोद्यानवर्तिनाम् +सौरभातिशयं श्लाघ्यं विचिनोति मनोहरम् +विनष्टहस्तपादो ऽन्धो यथातिचकिताशयः +उदयश्रीक्षये राजपुत्रो ऽभूद् धस्सनस् तथा +[प्स्-ज्र्त् ६४] पक्षिशाव इव क्रूरकरकाभग्नपक्षतिः पर्यन्तवृत्तिभिह्॒ क्रूरैर् हस्सनो ऽथ न्यरुध्यत +प्रसादप्रीणितैः प्रायह्॒ खशराजैर् दुरात्मभिः +राजपुत्रो हस्सनस् स हन्तुं प्रत्यर्पितः प्रभोः +उत्पिञ्जे गलिते शत्रुवर्गे ऽप्य् आशाच्युते सति +मतिस् सतेजा लोकानाम् आलोकश्रियम् आययौ +वितस्तायां स्वनामाङ्का पुरी तेनाथ निर्मिता +उच्छ्रितैह्॒ कनकच्छत्त्रैर् द्याम् उद्धसति या श्रिया +प्रत्यब्दं जनम् आलक्ष्य दुर्भिक्षक्षयितायुषम् +मासि भाद्रपदे ऽकार्षीत् स सत्त्रं भूरिदक्षिणम् +साधुसूक्तिसुधास्नानात् कर्णाभ्यर्णतले कचैः +ध्रुवं धवलिम् आपेदे वार्धके चास्य भूपतेः +भूषणं निजवंशस्य पूषणं धरणेर् असौ +शत्रुश्रीदूषणं पुत्ररत्नं न च स लब्धवान् +[प्स्-ज्र्त् ६५] आयुर् वायुचलद्वीचिचञ्चलं कलयन्न् अथ सर्वाग्रहारनिर्माणम् अकरोत् पुत्रलिप्सया +योगिनो ब्रह्मनाथस्य कश्मीरान् आगतस्य सः +प्रसादेन महीपालस् सन्ततिं प्राप्तवांश् चिरात् +[प्स्-ज्र्त् ६७] +"""मया वैरिवरान् नीत्वा कारागारकुटुम्बिताम्" +निवारितं विलोलत्वं नैसर्गिकम् अपि श्रियः +यथापराधं दण्डेन हरता धर्मविप्लवम् +प्रजा अपक्षपातेन स्वप्रजा इव पालिताः +नीताश् चिराय निर्मथ्य विपश्चिज्जनवारिधिम् +कियन्तो ऽपि मया स्वीयां मैत्रीं शास्त्रमणिप्रभाः +इति मे कृतकृत्यस्य शोकशङ्कुर् अयं परम् +"प्राज्यसाम्राज्यभारस्य वोढा नास्ति कुलाङ्कुरः""" +इति श्रुत्वा वचस् तस्य वंशच्छेदतमोमुषम् +दर्शयन् दशनज्योत्स्नां योगी तं प्रत्यभाषत +"""मा विषादं कृथा राजन् पुत्रानुत्पत्तिहेतुकम्" +न हि किञ्चित् कदाचित् स्याद् दुरापं पुण्यशालिनाम् +पुत्रोत्पत्तिनिमित्तं मे योगिनो ऽप्य् आनुषङ्गिकम् +किञ्चित् सञ्चितम् अस्त्य् एव तत् तवास्तूपकारकृत् +गुणैस् समम् इमं मे च कश्मीरागमनोद्यमम् +फलयत्व् एव महिषी भुञ्जाना गुलिकाम् इमाम् +कुलतन्तौ समुत्पन्ने त्रिलोकाभयलग्नके +"नरोत्तमो जगत्त्राणचिन्तातानवम् अश्नुताम्""" +इत्य् ऊचुषो ऽथ योगीन्द्राद् आदाय गुलिकां नृपः अभोजयत् स महिषीं चरुं दशरथो यथा देवीम् अभोजयन् मूर्तां प्रसादपदवीम् इव +अन्वयाभरणं देवी पितुर् आनन्दपारणम् +तमोहरणम् अर्यन्धङ्करणं सुषुवे सुतम् +शृङ्गारमङ्गलावासम् अवलोक्य वपुश् शिशोः +शृङ्गार इति नामास्य व्यधाद् भूलोकवासवः +हर्षाद् आदिशति क्ष्मापे बन्धमुक्तिं तदुत्सवे +अन्वभावि तदा चित्रं बन्धो नौसेतुभिः परम् +[प्स्-ज्र्त् ६८] यो मातुलसुतो देव्या भाण्डागारिक उद्दकः तत्प्रियां सेवतां राजा निन्ये धात्रीषु मुख्यताम् +अथ द्वितीयपुत्रं सा देवी हैबतसञ्ज्ञितम् +असूत कान्तिसन्तानतर्ज्यमानसुधाकरम् +[प्स्-ज्र्त् ६९] +न कस्य वस्तुनो ऽलक्षि सुभिक्षश्रीः पदे पदे +तस्मिन् रक्षितरि क्षोणीम् अन्यत्रारिभयाज् जनैः +धनुर् विनामितं तेन पश्यन्तो नैव कुत्रचित् +प्रणतिं वैरिणस् तस्य कस्माद् अप्य् अध्यगीषत +दैवी नीतिर् अभूत् तस्मिन् पृथ्वीं पालयति प्रभौ उत्पिञ्जखञ्जताख्यानं प्रत्युतास्य तिरस्क्रिया +चन्द्रस्येव कलङ्को ऽभूद् अयं दोषो महीभुजः +कुलागतां महीं यत् स वास्तव्यानाम् अपाहरत् +[प्स्-ज्र्त् ७०] +अकलङ्कस् स राजेन्दुर् विकसत्कुमुदाकरः +नाग्रामनाम्नि धाम्न्य् आपत् परधामविलीनताम् +चिरभुक्तां भुवं मत्वा सो ऽस्पृश्यां भाविकिल्विषैः जगाम त्रिदिवं राजा ध्रुवं भोक्तुं सुरस्त्रियः +भाद्रे कृष्णद्वितीयायां पञ्चषष्ठे स वत्सरे +अस्तं जगाम राजेन्दुह्॒ कुद्भदेनमहीपतिः +२१) सिकन्दर् šआह् बुत्šइकान् (ल्स् ४४६५-४४८९) +"""राज्ञी शोकातुरा राजपुत्रौ बालाव्"" इति प्रजाः" +अभूवंश् चकितास् सर्वा विनाथवद् अथाधिकम् +देव्या वाष्पजले शोकवर्षजाते पृथौ सति +परस्परम् अमात्यानां मात्स्ये न्याये ऽभवद् रुचिः +"""अलं शोकनिवेशेन धैर्यम् अत्रोचितं यतः" +"रुन्धते मलिनात्मानह्॒ क्ष्माम् अशूराम् अराजकाम्""" +इति प्रबोध्य सुभटां देवीम् उद्दकसाहकौ +ज्येष्ठं सेकन्दरं पुत्रं महाराज्ये ऽभ्यषिञ्चताम् +राज्ञ्या मतेनोद्दको ऽथ साहपुत्रं मुहम्मदम् +स्वजामातरम् अप्य् एष सजानिम् अदहच् छलात् +सूक्ष्मान् अत्ति तिमिर् महान् स्वकुलजान् अन्धाद् अजानन् वधं स्वाम् अम्बाम् अपि मक्षिका वत मधुग्राहाद् भविष्यद्वधा +लक्ष्मीलोभभरेण मोहितधियह्॒ कल्पान् अनल्पान् स्थितिं जानन्तो ऽपि जडा न किं कुचरितं कुर्वन्ति हा हन्त हा +[प्स्-ज्र्त् ७१] शोभानाममहादेव्यास् सो ऽधिविन्नां ���हीं व्यधात् प्रतापहेम राजा तु नाधिवेदनिकां ददौ +श्रीशोभाया महादेव्याश् श्लाघ्या लक्ष्मीर् अभूत्तराम् +क्ष्मां हेमलिङ्गैर् द्यां पुण्यलिङ्गैर् या स्वैर् अमण्डयत् +"""एतद्बन्धुघ्नम् एषो ऽपि मां हनिष्यति निश्चितम्""" +इत्य् उद्दको राजपुत्रं विषेणाथ व्यपादयत् +"""निजयैव कृपाण्याहं स्वं छिन्द्यां कण्ठम् एतया" +"यद्य् अहं त्वां निरुन्ध्यां वा हन्यां वे""त्य् अथ संविदा" +विश्वास्य साहकं वीरम् उद्दको ऽथ व्यपादयत् +आसन्नविनिपातानां द्रोहा दूता हि दुर्धियाम् +यथा भ्रातुस् तथा स्वस्य वधं सम्भावयन् नृपः +प्रौढीभूतस् ततो वृद्धिं स्वं पक्षं किञ्चिद् आनयत् +भौट्टाञ् जित्वागतो दृप्तो ऽसहमानो ऽन्यवैभवम् +श्रीशोभाभ्रातरं खुञ्ज्याराजम् उद्दो ऽवधीत् ततः +आदिशन् सेवकं स्वं स द्वारोत्पिञ्जाय निम्मकम् +राज्ञो ऽपि प्रणयं त्यक्त्वा होलडाम् अगमन् मदात् +तच् छ्रुत्वा लद्दराजाद्या भूपतेर् अनुयायिनः +योद्धुं बद्धोद्यमाः पद्मपुरधन्वनि धन्विनः +प्रत्यासन्नविनाशानां प्रायो मतिमताम् अपि +पिशाचादिभ्रमो नूनं स्वच्छायास्व् अपि जायते +उद्दसैन्यैर् यतो योद्धुं वल्लामठम् उपागतैः +पारेवितस्तं महिषीष्व् अश्वभ्रान्त्या पलाय्यत +आवितस्तापुरं रात्रौ तम् अनुद्रुत्य भूपतिः +व्यावर्तताथ तं बद्ध्वा नगरोत्पिञ्जशङ्कया +[प्स्-ज्र्त् ७३] मनोविशालं गगनं पटहैस् तर्जयन्न् इव स प्राविशत् पुरं राजा हर्षश् च हृदयं विशाम् +तं वध्यम् अपि कारायां कारुण्यात् तु नृपो ऽक्षिपत् +उद्दकस् तु स विश्वस्तद्रोहपापमलीमसः +शङ्कमानो वधं भूपात् करुणाकोमलाद् अपि +निजयैव कृपाण्याथ स्वगलच्छेदम् आचरत् +[प्स्-ज्र्त् ७४] +मदज्वरो ऽद्भुतः पालपशूनाम् एवम् अप्य् अभूत् +आश्रयन् स्तब्धतां येन तच्छिरांसि तदा चिरम् +कदाचित् सह तैः पालकुञ्जैर् मदघूर्णितैः +पलङ्गम् आविशद् राजसिंहस् सन्नखरद्युतिः +तत्र पालोत्तमाङ्गानि वपुश्चक्रान् महीपतिः शरावान् इव सूत्रेण कुम्भकारो ऽसिनाच्छिनत् +पत्त्रिराज इव व्यालान् सृगालान् इव केसरी +पालान् धरणिपालस् स कालान्तिकम् अथानयत् +राज्यं शौर्यं वयस् तेजो निर्नियन्त्रणता तथा +तदा तथाभवद् राज्ञः पञ्चाग्नितपसः फलम् +हन्त राज्ञां ततं दर्पतिमिरं खण्डयन् नृपः +यात्राम् असूत्रयच् चित्रं गोत्रभिद्भयदां ततः +[प्स्-ज्र्त् ७५] रूढं तत्सेवकक���षत्रच्छत्त्रशेषफणाशतैः स व्यधाद् अम्बरारोहि रजो भूमण्डलान्तरम् +विश्वं रञ्जयता तस्य प्रतापेन प्रथीयसा +राजस्त्रीनखलक्ष्मश्रीः पाण्डिमानम् अवापिता +तदैव दीनाभरणाम् अपालकतया युताम् +म्लेच्छराजो व्यधाड् ढिल्लीं विधवाम् इव लुण्ठयन् +ततः प्रत्याव्रजन् म्लेच्छराजह्॒ कश्मीरभूपतेः +शङ्कमानो गजेन्द्रौ द्वाव् उपायनम् अचीकरत् +हस्तिद्वयगलद्दानराजिव्याजात् स्वयं व्यधात् +देशसीमाविभागं स कश्मीराधिपतेह्॒ किल +हस्तिद्वये समारूढे हिमाद्रिशिखरश्रियि +विन्ध्यवृद्धिभ्रमाद् विन्ध्यनियन्ता कोपम् आगमत् +मार्गे कोपम् अगातां तौ वितस्तातरणक्षणे +प्रतिबिम्बं निजं दृष्ट्वा प्रतिहस्तिभ्रमं गतौ +[प्स्-ज्र्त् ७७] दिदृक्षयैव करिणो राजधान्यां महीपतेः नोच्चं शिरो ऽभवत् तस्य तत्तृप्त्या तिमिराद् अपि +राजस्त्रीस्तनसौन्दर्यचौर्यकारिकटोत्कटौ +तौ गजौ भूमिपालेन वारीकारां प्रवेशितौ +वदन्येन नरेन्द्रेण सुवर्णपरिपूरिताः +नैवार्थिनः परं देशो निजो ऽपि प्रव्यधीयत +यथाकामार्पणप्रीतयाचकस्तुतिलज्जया +विनमन् सङ्कुचन् हस्तस् तस्य दानक्षणे ऽभवत् +दानं वर्णयितुं तस्य शक्यते नैव केनचित् +पाणिरूपम् अधः पद्मं यत्रोपरि जलं सदा +सदा दानाम्बुसेकाद् यन् न प्रारोहद् यवह्॒ करे +खड्गत्सरुविमर्दानां मन्ये तत्र निमित्तताम् +[प्स्-ज्र्त् ७८] +अवाच्या सौभगश्लाघा श्रीसेकन्दरभूपतेः +त्यक्तापि यं स्वयं लक्ष्मीर् भूयो भूयस् समाश्रिता +दानोद्यमपराद् राज्ञस् स्फुरन्मुखरुचः पुरः +कमला दानभीत्येव पद्माद् अपि पलायत +आजीवम् एव तिष्ठन्ती निन्द्या श्रीस् तस्य तूत्तमा सान्यजन्मस्व् अपि प्रत्ता यद् वाग्देवीव भाविनी +प्रजापापविपाकेन ततो यवनदर्शने +बालस्येव मृदि क्षोणिपते रुचिर् अवर्धत +अनेके यवना दानप्रसिद्धं तम् अथाश्रयन् +विहायापरभूपालान् पुष्पाणीवालयो द्विपम् +दीप्तेन्दुर् इव ऋक्षाणां तेषां बालो ऽपि विद्यया +यवनानाम् अभूज् ज्येष्ठो मेरसैदमुहम्मदः +अनमद् भृत्यवच् छिक्षां शिष्यवन् नित्यम् अग्रहीत् +दासवच् च पुरो नीत्या राजा तत्र न्यविक्षत +मरुद्भिर् इव वृक्षाणां शालीनां शलभैर् इव +कश्मीरदेशाचाराणां ध्वंसो ऽथ यवनैह्॒ कृतः +स्वामिनो दानमानाभ्यां वैशद्यगुणवत्तया +कश्मीरान् अविशन् म्लेच्छास् सुक्षेत्रं शलभा इव +[प्स्-ज्र्त् ८०] वि��्वान् अभ्यासबोधाभ्यां विद्याम् इव विशाम्पतिः स लक्ष्मीं त्यागभोगाभ्याम् अशोभयद् अवीवृधत् +उदभाण्डपुराधीशं दृप्तो जातु जयन् नृपः +श्रीमेरां तत्सुतां प्राप मूर्ताम् इव जयश्रियम् +अवातरच् छाहिकुले नूनं सा कापि देवता +योजयिष्यति तत्पुत्रह्॒ कश्मीरान् म्लेच्छनाशितान् +श्रीजैनोल्लाभदीनाख्यो मूर्तो धर्मह्॒ कलाव् अपि +राजापि योगिराजो ऽयं राजचूडामणेः प्रियः +[प्स्-ज्र्त् ८२] यवना गुरवो भृत्यास् सेवका वल्लभास् ततः बान्धवाश् चाभवंस् तस्य काकाः पिकशिशोर् इव +केनापि रससिद्धेन दत्तस्तोकरसो नृपम् +रससिद्धिं वदन् धूर्तो महादेवाभिधो ऽभ्यधात् +[प्स्-ज्र्त् ८३] सहस्रवेधिता तेन रसेनैव न साधिता विस्मयेन रसेनापि काञ्चनश्रियम् ऋच्छता +सदा राज्ञि महीभारोद्वहनाद् अनुरोधवान् +अदान् मेरुर् महादेवरूपेण द्रविणं बहु +रससिद्धप्रसादो ऽथ महादेवस्य हीनताम् +अगमन् न तु कश्मीरनिवासविषये मनाक् +रससिद्धिभ्रमार्थं स कृत्वा दृग्बन्धम् औषधैः +हेमेव मूषिकामध्ये चिरम् आसीत् किरन् किल +विज्ञानज्ञापितो राज्ञा तच्छद्म स्वयम् एकदा +अकीर्तिश्रवणाद् भीतो महादेवो ऽजहाद् असून् +[प्स्-ज्र्त् ८४] +धिक् तं वारिदम् अम्बु यो जलनिधेर् आप्याशुचिश्रीर् भवन् मित्रं साशम् उपद्रवत्य् अथ परिक्षीणस् स्खलत्य् अद्रिषु +पद्मस् स्तुत्यतमश् च यो विकसने सारै रसैर् औरसैः सम्प्रीय भ्रमरान् रसव्युदसने प्राणान् निजान् मुञ्चति +शेषं विषभयेनेव काठिन्येनेव पर्वतान् +मदेनेव द्विपांस् त्यक्त्वा सुखं भूस् तद्भुजे ऽवसत् +चित्रं च नालभट्टेन गुणिना मित्रबन्धुना कुलपद्मेनापि राजवाल्लभ्याद् उच्चनालता +लद्दराजो ऽगदङ्कारशङ्करो भट्टसूहकः +मन्त्रिणश् चान्तरङ्गाश् च सर्वदैवाभवन् प्रभोः +[प्स्-ज्र्त् ८५] +अभिषेणयतस् तस्य कन्यारत्नौषधार्पणात् +मद्रेन्द्रो बिल्लदेवो ऽथ जातु यात्राम् अपीफलत् +औचित्यात् साधुवादेषु प्रसक्तेन प्रभोः पुरः +सख्यं शङ्करवैद्येन निरवद्यं च बद्धवान् +धृतामर्षस् सूहभट्टश् शङ्करप्रीतिवत्सरे +अपकारान् मद्रराजे चिन्तयन्न् आस्त सन्ततम् +उदीचीनायको धाट्या यं पौरैस् सह नीतवान् +शिखकुक्कुरराजस्य पुत्रं मलेकजस्रतम् +मृते ऽथोदक्पतौ जाते ऽत्युत्पिञ्जे मुक्ततां भजन् +स मद्रनायकद्वेषात् सूहभट्टार्थनाबलात् +मद्रासन्नक्षितेस् स्वाम्यं कश्मीरेन्द्रेण लम्भितः सचेतनं जयस्तम्भम् इव तं तत्र रोपयन् व्यावर्ततारिलोकार्तिकर्ता स क्ष्माविकर्तनः +मेरखानश् शाहिखानह्॒ खानो मह्मद इत्य् अपि +यैस् सञ्ज्ञा अभ्यभूषन्त गङ्गौघैर् विष्टपा इव +प्रत्यक्षा इव धर्मार्थकामाह्॒ काममनोरमाः +मेरदेव्यास् त्रयः पुत्रा राज्ञस् तस्योदपत्सत +कृत्रिमत्वान् निरस्तानां शोभादेव्यात्मजन्मनाम् +पुत्रं पिरुजनामानं न निरास्थत् पुरान् नृपः +अलकासदृशीं राजा मानसप्रतिबिम्बिताम् +पुरीं पुण्यजनाकीर्णां प्रद्युम्नाद्रितटे व्यधात् +[प्स्-ज्र्त् ८७] +पूर्णानन्दा जयारिक्ता भद्रा विस्मयदायिनी +श्रीस् तस्यातिथिसम्पत्त्यै भूभुजो ऽभूद् दिवानिशम् +राजावनाश्रयत्वेन प्रसिद्धस् स सदायतिः +लक्ष्मीम् अचुम्बिताम् अन्यैर् वताचुम्बद् द्विषां बलात् +यवना नित्यतद्दत्तवित्तसम्पत्तिशालिनः आहारव्यवहारादौ जितवन्तो महीपतिम् +अयत्नप्राप्तवित्तानां यवनानां महीपतेः +वराटके च कोटौ च दृष्टिर् आसीत् समा तदा +कश्मीरमण्डले म्लेच्छदुराचारातिदूषिते +महिमा ब्राह्मणैर् मन्त्रैर् देवैश् च स्वस् समुज्झितः +प्रभावतेजो यैर् देवैस् सततं प्रकटीकृतम् +खद्योतैर् इव तैर् एव देशदोषाद् विनिह्नुतम् +प्रत्याहृते ततस् तेजोविशेषे त्रिदशैर् अभूत् +प्रतिमानां शिलाभावो मन्त्राणां वर्णमात्रता +[प्स्-ज्र्त् ८९] +कलिस्पर्शभयात् त्यक्तुकामैस् स्वप्रतिमा ध्रुवम् +तद्ध्वंसे त्रिदशैर् म्लेच्छा धियम् आविश्य चोदिताः +राजान्तरङ्गो यवनमतभक्तः प्रतारितः यवनैस् सूहभट्टो ऽथ प्रतिमानां निराकृतौ +पुण्यक्षयेन कर्तॄणां कलिदोषेण चोज्झिताः +गीर्वाणैः प्रतिमास् सर्वा निर्मोका भुजगैर् इव +रक्ते रागं शुचौ शौक्ल्यं मलिने मलिनां स्थितिम् +सङ्क्रान्ते सति गाहन्ते स्फटिकानीव भूभुजः +स्वयं ब्राह्मक्रियाद्वेषी म्लेच्छैश् च प्रतिबोधितः +सूहभट्टः प्रभुं जातु देवभङ्गार्थम् ऐरयत् +[प्स्-ज्र्त् ९०] +"""पाषाणान् देवसान्निध्यभ्रमेणैष जनो नमन्" +त्वत्प्रणामविशुद्धं स्वशिरो दूषयति ध्रुवम् +मायया कवलक्षोभसंसर्गान्धंभविष्णुषु +श्रद्दधीत च देवत्वम् ईश्वराद् इतरेषु कः +मुखानि कमलानीव रज्जवो भुजगा इव +शुक्तयो रजतानीव स्थाणवः पुरुषा इव +मायेन्द्रजालसन्दर्भप्रभवादिनयोदिताः +ये च केचिज् जडैर् देवा भ्रान्तिशक्त्या प्रकल्प��ताः +सन्निधापयितुं तान् कः प्रतिमासु क्षमो भवेत् +ग्रहीतुं मारुतं मुष्टौ सौष्ठवं कस्य दृश्यते +ते च सन्निहिताह्॒ किं वा कुर्युह्॒ कर्म नियन्त्रिताः +शिल्पिभिह्॒ कल्प्यमानासु स्वतुल्यावयवास्व् अपि +कलिकाले स्फुरत्य् अद्य तिष्ठेरंस् ते जना हि किम् +"तेजस्तिमिरयोर् नास्ति साधारणपदस्थितिः""" +तेनेत्यादिकुतर्कोक्त्या दुरमात्येन पापिना +निरस्तो देवताभावः प्रतिमाभ्यो महीपतेः +सुरासुराणां समरे सज्जानां सततं तदा +असुरैर् विजितं नूनम् अन्यथा कथम् अप्य् अयुः +विध्वस्ताः प्रतिमास् सर्वा गीर्वाणानां शिला इव न विघ्नो भञ्जकानां च प्राग्वद् दृष्टह्॒ कदाचन +विहाय राजकार्याणि प्रजाभाग्यविपर्ययात् +देवानां प्रतिमाभङ्गे राजारज्यद् अहर्निशम् +पापिनां पापमूलो ऽभूद् भूभृताम् अनयद्रुमः +हर्षदेवतुरुष्को ऽभूद् यस्य प्राग् अङ्कुरायितः +पत्त्रायितो लवन्यानाम् उत्पिञ्जो दारुणो ऽभवत् +डलचो म्लेच्छराजो ऽभूद् यस्य पुष्पायितस् तथा +देवानां मूर्तिभङ्गेच्छा यस्यासीत् तस्य भूभुजः +म्लेच्छप्रेरणया नित्यं विप्लवस् स फलायितः +मार्ताण्डविजयेशानचक्रभृत्त्रिपुरेश्वराः +भग्ना येनास्य को विघ्नश् शेषभङ्गेन कथ्यते +सुरेश्वरीवराहादिप्रतिमाभङ्गकर्मणि +अकम्पत भियेवोर्वी नास्य सर्वङ्कषा तु धीः +न पुरं पत्तनं नापि न ग्रामो न च तद् वनम् +यत्र सूहतुरुष्केण सुरागारम् अशेष्यत +[प्स्-ज्र्त् ९२] +तद्दर्शनभयेनेव तिरोभूतस् स्वयम्भुवः +तदा हुताशो नाशोचि निकटस्थैर् द्रुमैः परम् +भीत्येवापः प्रकाश्य स्वास् त्रिसन्ध्यं तत्र मज्जतः सन्ध्यादेवी परं वन्ध्या तस्यागाद् अनुकम्प्यताम् +कथाशेषीकृते सर्वगीर्वाणप्रतिमागणे +व्याधिमुक्त इवानन्दं सूहभट्टो ऽभजत् ततः +[प्स्-ज्र्त् ९३] +सिन्धूदभाण्डपुरयोस् स्वामिनौ श्रीसेकन्दरः +श्रीशोभाकन्ययोः पाणिग्रहेणान्वग्रहीद् अथ +प्रत्यमुञ्चत् स्वदेशोत्कं मेरसैदमहम्मदम् +राजा सहचरीकृत्य शोभापुत्रं स पिर्वजम् +दर्शितैर् मौसुलैश् शास्त्रैर् जातिद्वेषमयैर् इव अश्रावि तेन तद् राजा किम् असाध्यं दुरात्मना +अपथ्याशीव बालस् स सामन्तसहितस् ततः +जनानां जातिविध्वंसे सूहभट्टह्॒ कृतोद्यमः +"""जातिध्वंसे मरिष्यामो"" द्विजेष्व् इति वदत्स्व् अथ" +जातिरक्षानिमित्तं स तान् दुर्दण्डम् अजिग्रहत् +प्रसादप्राप्त��लोभेन भूपतेर् उपजीविषु +ब्राह्मणत्वाधिकां जातिं त्यजत्स्व् अप्य् अविलम्बितम् +श्रीसिंहभट्टकस्तूटौ वणिजौ श्लाघ्यतां गतौ +श्रीनिर्मलाचार्यवर्यस् त्रिजगच्छ्लाघ्यतां गतः +त्यक्त्वा जातिग्रहं यत् ताव् अन्यदर्शनसेविनौ +शुष्कं तुरुष्कदण्डं च विन्यवारयतां ततः +निर्मलाचार्यवर्यस् स सर्वस्वं तृणवत् क्षणात् +त्यजन् राजप्रसादेन न जातिं स्वाम् अदूषयत् +[प्स्-ज्र्त् ९४] पश्यतां सर्वलोकानां ब्रह्मदण्डो ऽपतद् दिवः +कृतव्रणस् स तेनाङ्गे विसर्पिक्लिन्नविग्रहः कीर्यमाणक्रिमिकुलह्॒ क्रकचैश् चारितैर् अभूत् +अनुभाव्य व्यथां भाविनिरयक्लेशवर्णिकाम् गणरात्रेण तं प्राणाह्॒ काङ्क्षितापगमा जहुः ब्रह्मदण्डकृतं दण्डं भुक्त्वा दण्डधराधिपः +दण्डाक्रान्तस् स राजाथ मेरखानं निजे पदे अभिषिच्यालिशाहाख्यां कृत्वास्यागाद् यमालयम् +स्वामी भृत्यापराधेन दण्डनीय इति स्थितेः +सूहभट्टापराधेन कालो भूपे ऽकरोत् क्रुधम् +ज्यायांसम् अभिषिच्याथ पुत्रं सिकन्दरो नृपः +नन्दाष्टाब्दे ततो ज्यैष्ठकृष्णाष्टम्यां व्यपद्यत +२२अ) ‛अली šआह् (ल्स् ४४८९-४४९४) +[प्स्-ज्र्त् ९५] +रूपं निष्फलम् अर्चितं किम् अपि तन् मन्दान् अमन्दाग्रहान् भक्तान् यस् समनुग्रहीतुम् अतुलस्वाच्छन्द्यवन्द्यक्रियः +गौरीरूपकरीं वपुस्सहचरीं स्वां शक्तिम् अव्यक्तयद् भुक्तिं मुक्तिपुरस्सरीं दिशतु वो देवस् स्वयम्भूर् अयम् +विश्राम्यतुतरां शाहिखानवृत्तान्तसानुनि +मद्वाक् श्रान्तान्यराजाख्याशैलकोटिशिखाटनैः +तद्गुणौघरसश्लाघ्यां पिबन्त्व् अपि गिरं मम सुगन्धिघनसारेण कूपाम्भो ऽपि मनोरमम् +आलिशाहस् स वसुधासुधांशुर् जगतस् तमः +प्रदोषारब्धम् अच्छैत्सीद् भास्वतो ऽस्ते पितुस् ततः +अदर्पकचितं बालं प्रौढा लक्ष्मीर् मुहुर् मुहुः +कुलजालिङ्गद् अङ्गैस् तं राजानं नतिशालिभिः +[प्स्-ज्र्त् ९६] तस्य बाल्यं मनोहारि विशेषाद् राज्यराजितम् कान्तिं कलयते कान्तः पूर्णेन्दुश् शरदि स्फुरन् +पूर्वोर्वरेशवद् बालम् अपि तं भूभुजो ऽनमन् +अहिदष्टो हि दामापि क्रमितुं न प्रगल्भते +निजबुद्धिबलाद् दैवहितत्वेनोपसंहितात् +सूहभट्टेन मुख्यत्वं सचिवानाम् अवाप्यत +विश्वासन्यस्तशस्त्रं स लद्दमार्गपतिं बलात् +बद्धवान् सह तत्पुत्रैर् वर्जयित्वा मुहम्मदम् +मुहम्मदो मार्गपतेर् बन्��ं श्रुत्वैव शौर्यवान् +भाङ्गिलाचलमार्गेण मार्गाभिज्ञः पलायितः +[प्स्-ज्र्त् ९९] +मारुतस्येव वीरस्येव गतिह्॒ क्वापि न हन्यते +श्रुत्वा तद्गमनं दूतान् मन्त्रनिर्भेदशङ्कितः +लद्दमार्गपतिं रोद्धुं सहसा समचिन्तयत् +रुजस् संवीक्षणव्याजान् मार्गेशस्य शयाप्तये +विश्वासनाय च प्रास्यद् भट्टोत्सं तस्य सद्मनि +चिकित्सकौषधाहारी मार्गेशतिमिनादृतः +नाबोधि पिण्डीनिर्गूढबडिशं पुनर् उत्सवः +तावन् मार्गपतेस् सौधं सिंहनादोद्भटैर् भटैः +जवाद् रोधितवान् मन्त्री दाशो नीडं तृणैर् इव +तीक्ष्णैर् अपि दयाविष्टैर् इष्टैर् इव स विह्वलैः कथञ्चिद् दोषरहितो मार्गेशस् समरुध्यत +निरुध्यमानं निश्शङ्कम् अगदङ्कारशङ्करम् +अप्रयुक्तातितीक्ष्णापि शस्त्री धीश् च व्यडम्बयत् +अपश्यन् दर्पतह्॒ किञ्चित् सिंहो विशतु वागुराम् +चित्रं तु तद् विशेत् पाशं दूरदृश्वापि यत् खगः +[प्स्-ज्र्त् १००] +ततो मार्गपतेः पुत्रान् मेषान् इव स सौनिकः +रुद्धवान् उद्धतक्रोधः पाप्मा मूर्त इवापरः +ताभ्यां सपरिवाराभ्यां कारागारम् अपूपुरत् न परं भुवनं सर्वं दुर्यशोभिश् च निश्चलैः +एकाहेनैव तच् छ्रुत्वा मह्मदः प्राप्तिचिन्तया +कन्ययेव दरिद्रस् स नक्तन्दिवम् अदूयत +दुर्दण्डदेशे गोविन्दनाम्नो मित्रस्य वेश्मनि +विश्वस्तः प्राविशत् तावद् विश्रमार्थं मुहम्मदः +[प्स्-ज्र्त् १०१] श्रीसेकन्दरदत्तैतद्देशाधीकारशालिना मह्मदस्य पुरा शाखी तेनानाटि हि दुर्धिया +वह्नेर् धूमविवर्धितश् शमयति ज्वालाभरं वारिदो वृक्षक्षोदभवो वनानि नयति क्षिप्रं कृशानुह्॒ क्षयम् +दाहं जन्मभुवो दिशेद् विषतरुर् वैरस्यदोषावहं द्रुह्यत्य् अत्युपकारिणे ऽपि नितरां लोभाभिभूतो जनः +प्राप्ते मुहम्मदे मार्गपतौ विश्वासतो गृहान् +स गोविन्दखशश् चित्ते क्षणम् एवम् अचिन्तयत् +"""मन्त्रिणा सूहभट्टेन राज्योपद्रवरक्षिणा" +द्वैराज्यकारी दुर्बुद्धिर् विन्यवारि मुहम्मदः +[प्स्-ज्र्त् १०२] +लीलेवापक्रिया कर्तुर् अपकार्यस्य सा पुनः +नाडीव व्रणिता जातु न शुष्यति कथञ्चन +परिणामे ऽतिदुह्॒खेन सुखेनासुखसीमनि अपथ्येनेव किं नस् स्यात् सेवितेनामुना फलम् +राजद्रोहोद्यतः पापी निस्सामर्थ्यो भयाद् अयम् +"मम देशं प्रविष्टो ऽद्य रक्षणीयो न युज्यते""" +[प्स्-ज्र्त् १०३] +इति सम्मन्त्र्य विश्वस्तजिह्मगो मह्मदं ततः +सुप्तं हरिम् इव व्याधो गोविन्दस् तं निबद्धवान् +अनेकेनाथ रत्नेन निस्सपत्नत्वलिप्सया एकं सूहस् स पुंरत्नम् अक्रीणान् मह्मदं ततः +तावच् च सूहभट्टेन विसृष्टाश् श्रेष्ठबुद्धयः +अन्वेषका गृहं प्राप्ता गोविन्दस्य खशेशितुः +मैत्रीम् उल्लङ्घ्य निर्व्यूढाम् आस्रितस्य च रक्षणम् +मुहम्मदं निजम् मित्रम् अर्पयाम् आस दुर्मतिः +सुप्तं हरिम् इव व्याधो यदा बद्ध्वाक्षिपत् खशः +पशुवत् तं तदा ते ऽथ कश्मीरान् आनयन् द्रुतम् +मन्त्रार्दितस्य फणिनः प्लवगाश् चपेटैर् व्याधास् सटाविघटनान् निरसोर् हरेश् च +बद्धस्य कातरतयाबलिनो ऽवमानैर् निन्दां विना किम् इव नाम परं लभन्ते +[प्स्-ज्र्त् १०४] करोटीटङ्कनाघट्टरदटाङ्कारकुट्टनैः पर्यभूयत जिह्मेन सूहभट्टेन मह्मदः +मान्यं कृतावमानं तं शङ्कमानः पलायनम् +बहुरूपे महादुर्गे सूहह्॒ काराम् अवीविशत् +[प्स्-ज्र्त् १०५] हितैषिणो निजप्राणैर् देवस्य स्वानुजीविनः विषये ऽस्मिन् ह्य् अधीकारस् तेनामन्दम् अधीयत +विद्युद्द्योतभरैर् निशि प्रवसतः पान्थान् नवो वारिदः पञ्चास्यो वनवासिनो मृगगणान् व्यावृत्त्य विप्रेक्षितैः +गत्या वक्रगतैर् दिनेशतनयो राशीन् अजादीन् विधिर् भद्राभासविलोकनैर् दुरितिनो विश्वास्य पर्यस्यति +शाहनाम्न्यास् ततो दास्या मुखेन प्रतिबोधितः +मह्मदो निजधात्रेयैर् बन्धस्थानाद् अकृष्यत +"स हि ""स्वेदाकुलस् स्नानं करोमी""ति स्वरक्षकान्" +भ्रामयित्वा प्रविश्याथ स्नानकोष्ठं ततो ऽचलत् +धात्रेयैर् विहितं सन्धिभेदस्थानम् उपेत्य सः +हंसह्॒ क्रौञ्चान्तरम् इव निस्सृतो ऽथ मुहम्मदः +रोषाद् इव स्रुतिं हन्तुं निष्पतन् निर्झराम्भसाम् +भृगोर् इव ततो दुर्गाद् अदाज् झम्पाम् अकम्पितः +अशक्नुवन्न् अमुं रोद्धुं पाषाणा रक्षिणो न च +निर्झरास् तु तदङ्घ्रिस्थनिगडध्वनिडम्बरम् +धात्रेया मह्मदस्याथ भञ्जन्तो निगडान् दृढान् +सूहभट्टम् अमन्यन्त भग्नं साकं स्वबन्धुभिः +[प्स्-ज्र्त् १०६] हिमगमनतह्॒ क्लान्तस्वान्तो हिमं मनुते ऽनलं तटतरुमुखं नावा गच्छन् व्रजत् परिपश्यति वलति नितरां विश्वं विश्वं विवेत्ति च मूर्छितः सरलहृदये शङ्काग्रस्तस् तनोत्य् अतिशङ्किताम् +मुहम्मदवद् एवास्मिञ् शङ्कमानः पलायनम् +वृद्धं निपीतकोशो ऽपि मार्गेशम् अवधीद् द्विजः +हते मार्गपतौ वृद्धे सूहभट्टेन दुर्धिया +अमन्दनिन्दम् आक्रन्दन् पितरीवाखिला जनाः +ऋक्षैस् संलक्षयन्न् आशाविशेषं निशि निश्य् अथ +पक्षीव नीडभ्रष्टस् स सूहो लोकभयाद् अयात् +अहस् तस्य विहस्तस्य रात्रिर् आसीन् निशा दिनम् +विपर्येति ध्रुवं सर्वं विधौ विधुरतां गते +कारानावं समुल्लङ्घ्य चलितं तं स्मरन् मुहुः +मुहम्मदतिमिं सूहधीवरश् शुचम् आसदत् +मन्त्रिणा सूहभट्टेन पालितैर् लालितैर् जनैः +ज्ञातो ऽदर्शनमात्रेण स्वर्यातश् श्रीसेकन्दरः +श्रीसेकन्दरशाहिर् यं शोभादेव्यास् स्वम् आत्मजम् +उत्पिञ्जानाम् अभावार्थं स्वदेशान् निरवासयत् +उदीचीपतिना राजपुत्रत्वाद् अभिनन्दितम् +कश्मीरान् आययौ जेतुं तम् आदायाथ मह्मदः +तुरुष्ककटकैस् सार्धं श्रुत्वा पिरुजम् आगतम् +व्यसृजत् तन्निरोधाय सूहश् श्रीलद्दगौरकौ +मन्त्रैश् श्रीलद्दराजस्य विक्रमैर् गौरकस्य च +सा तुरुष्कचमूश् शान्ता व्याधिर् दानजपैर् इव +वीतभीतिस् ततो मन्त्री कम्पनाधिपतिं व्यधात् +लद्दराजं गौरभट्टं क्रमराज्येश्वरं च सः +सन्ध्याक्षण इवोदग्रे सूहे रञ्जितभूभृति +नाभूताम् उदितौ राजयुवराजौ रवीन्दुवत् +श्येनो हन्ति पतत्रिणो मृगपतिर् निष्पातयिष्णुर् मृगान् भिद्यन्ते मणयो ऽपि वज्रमणिना खाता खनित्रैर् मही +पुष्पाणीव च भास्वता ग्रहगणास् सूर्येण निर्धूनिताः प्रायेणात्र विलोक्यते परिभवत्रासस् सजातीयतः +द्विजातिपीडने ऽनेन प्रेरितो ऽपि मुहुर् मुहुः +श्रीसेकन्दरभूपालह्॒ करुणाकोमलाशयः +यवनाब्धिमहावेलां याम् अकार्षीत् कथञ्चन +उल्लङ्घिता द्विजातीनां तेन दण्डस्थितिस् ततः +दर्शनान्तरविद्वेषी प्रदोषस् तमसां निधिः +यागयात्रादि नागानां दुर्वृत्तस् स न्यवारयत् +शङ्कमानह्॒ कृतातङ्कसङ्कोचानां द्विजन्मनाम् +विदेशगमनाज् जातिरक्षाम् अक्षाममत्सरः +"""मोक्षाक्षरं विना मार्गो दातव्यो नैव कस्यचित्""" +इत्य् आदिशद् अशेषान् स मार्गरक्षाधिकारिणः +ततो मीनान् इव व्याधो दत्तबन्धे सरिज्जले +द्विजातीन् अतिदुर्जातो देशे ऽस्मिन् न्यग्रहीत्तराम् +तद्भयानलसन्तापं पापं च बहवो द्विजाः +अग्निज्वालाप्रवेशेन सहसैव न्यवारयन् +केचिद् विषेण पाशेन परे तोयेन चापरे +भृगुणा वह्निना चान्ये विप्रा भीत्या विपेदिरे +राजद्रोहसहस्रेण रक्षितुं राजवल्लभाः +न त्व् एकम् अशकन् विप्रम् एतस्मिन् द्वेषदूषिते +दुर्वह��्वेन निन्दन् स राज्यभारम् अलं खलः +अश्लाघत द्विजाक्रन्दश्रवणानन्दलाभतः +गृहाद् धूम्येव विप्राणां पङ्क्तिर् जात्यभिमानिनी +रुद्धद्वारात् ततो देशाद् अपमार्गैर् अपासरत् +त्यक्त्वापि पितरं पुत्रस् तं पिता चागमद् द्विजः +सूहान्तके कृताक्षेपे विदेशं परलोकवत् +क्ष्मा रूक्षा क्षामम् अशनं व्यायामो वेदनामयः +जीवन्नरकतां तेषां विदेशो ऽगाद् द्विजन्मनाम् +धाटीफणीन्द्रभीतीव्रतापस्वल्पाशनातुरैः +मार्गे ऽनेकैर् द्विजैर् मृत्युलाभात् सुखम् अमन्यत +क्व च स्नानं क्व च ध्यानं तपह्॒ क्व च जपह्॒ क्व च +भिक्षार्थम् अटतां ग्रामान् अगात् कालो द्विजन्मनाम् +द्विजानाम् उपकारो ऽभूद् अपकारमुखाद् अहो +यत् तन्निर्वासितास् सर्वे पापं तीर्थेष्व् अनाशयन् +विदेशम् अगताश् शुष्यत्कलत्रत्राणचिन्तया +म्लेच्छवेषा द्विजाह्॒ केचित् कश्मीरेष्व् एव चाभ्रमन् +विच्छेत्तुम् इच्छता विद्यां तेनापहतवृत्तिभिः +लडितं प्रतिवेश्माग्रं पिण्डीलोभाद् द्विजैश् श्ववत् +तुरुष्कदर्शने भक्त्या न तु द्वेषेण स द्विजान् +व्यप्लावयद् अतश् चास्मिन् हत्या न प्रजगल्भिरे +इत्य् आख्यच् च स एवैषां स तस्य परिहारदः +द्वेषद्योतनशक्तानां कार्याणाम् एव दर्शनात् +रत्नाकरं यम् आश्रित्य ब्राह्मणा जगतीभृतः +पक्षरक्षां व्यधुस् सो ऽभूत् क्षुद्रभट्टो ऽस्य वल्लभः +मलानोर्दीननामानं यवनानां परं गुरुम् +"वैदग्ध्याच् छङ्कमानस् ""स द्रोही""ति तम् अबन्धयत्" +यतः प्रभृति स प्रापद् राज्यम् अच्छत्त्रचामरम् +ततः प्रभृति रोगार्तिर् इव दर्शनदूषणा +स्वप्ने ऽपि नात्यजत् सूहभट्टं घट्टितवैरिणम् +भोगस् सद्वासना चातिशुद्धानां तपसां फलम् +तस्यैव फलपूर्णानाम् ऋतूनाम् इव मन्त्रिणाम् +मानस्य हानिसम्पत्ती भास्वतो ऽधीनतां गते +एकस्मिञ् शाहिखाने स दृष्ट्वा मन्त्रपराक्रमौ +अत्यन्तचिन्ताचकितो निद्रां नापत् कदाचन +पश्यन्न् एवाविलं सूहसर्पं सविषया दृशा +शाहिखानप्रदीपो ऽभूत् तमस् संहर्तुम् अक्षमः +द्विजातिपीडया शास्त्रनिन्दया द्रोहचिन्तया +चिकित्सया च तस्याब्दैर् यातं त्रिचतुरैस् तथा +[प्स्-ज्र्त् १०७] +दायवान् इव दोषो ऽस्य हेतुमात्रपरीक्षया +संवृतौजा व्यलम्बिष्ट शाहिखानस्य बाधने +वलीमुखमनोज्ञस् स प्रजाभाग्यबलोदयात् अनैषीद् भग्नतां शाहिखानचिन्तामणिं न च +प्रजापुण्योद���ेनैव प्रेरितो दुष्कृतोत्थितः +क्षयामयो दुश्चिकित्स्यो द्विजराजम् अशोषयत् +अनालोक्यैवेन्दोर् उदयम् अगमिष्यद् यदि शमं समन्तान् नादित्योपलदहनराशिव्यतिकरः +किम् अद्रक्ष्यन् नायं तदुदयवशस्रावितुहिनद्युतिग्रावाम्भोभिह्॒ कृतधरणितापोपशमनम् +वर्षांस् त्रिचतुरान् अन्याञ् जीवेच् चेत् स न किं ततः +शाहिखानोदये पश्येद् इहैव स्वांहसां फलम् +जीवत्य् एव ततस् सूहभट्टे भीत्या पलायितम् +विश्राम्य लद्दराजं द्राग् हंसगौरौ बबन्धतुः +श्रीधेनौ रागिणौ तौ द्वौ मदोदग्रौ वृषाव् इव +अन्योऽन्यशृङ्गभङ्गार्थं प्रावर्तेते द्विजे मृते +काराया मोचिते लद्दराजे हंसेन संयति +प्राणांस् त्यक्त्वा गौरभट्टस् सुरस्त्रीणां मुदं व्यधात् +त्यक्त्वा गत्यन्तराभावात् करिकर्णविलोलताम् +पुंश्चल्येव पतिर् वृद्धो भेजे हंसस् तदा श्रिया +बालो ऽपि शाहिखानो ऽस्य नोत्सेकं सोढवान् पुनः +शशीव तिमिरस्फारं न हि तेजो वयोऽनुगम् +ठक्कुरैस् सह सम्मन्त्र्य युवराजो ऽथ मन्त्रवित् +लद्दराजं विनिघ्नन्तं हंसभट्टं रणे ऽवधीत् +शाहिखानं प्रजारागो निम्नं पय इवागमत् +अमन्दचूतसम्पत्तौ कुन्दं निन्दति षट्पदः +युवराजं जयोदग्रं परिरब्धुं समुत्सुका +राज्यश्रीस् समयालाभाच् चिन्ताकुलम् अवर्तत +स्नेहाद् विदग्धभावाच् च प्रजारागभराद् अपि +अधिकारभरं राजा युवराजे समर्पिपत् +मेरकंसारसञ्ज्ञस्य तुरुष्कस्याथ दुर्मतेः +द्विपस्येव मदान्धस्य द्विष्टो ऽभूत् तद्गुणाङ्कुशः +सुचिरं मलिनै राज्ञो मानसं वारिदैर् इव +पैशुन्यवर्षिभिर् नेतुं मालिन्यं न स्म शक्यते +भक्ते दक्षे ऽनुजे स्निग्धो भूभृद् आश्रितवत्सलः +अतिप्रेरणया तेषां राज्ये ऽप्य् उद्विग्नताम् अगात् +युवराजं सेवकांश् च रक्षितुं स्वान् महीपतिः +तीर्थानुसरणाकाङ्क्षी तम् इत्य् एवम् अवोचत +"""अनर्थितर्पणं वित्तं चित्तम् अध्यानदर्पणम्" +अतीर्थसर्पणं देहं पर्यन्ते शोच्यतां व्रजेत् +दिग्गजेष्व् इव युष्मासु भूभारं न्यस्तवान् अहम् +"पुरुषोत्तमसेवायै यते शेष इवापरः""" +शाहिखानार्णवः प्रेममन्दरान्दोलितस् ततः +वाणीं सुधाकरकलाम् ईश्वराय नवाम् अदात् +"""अस्तु सन्देहसन्दोहाद् दूरे तीर्थकदर्थना" +द्वारं यशस्सुकृतयोः प्रजापालनम् अस्तु वः +चिरस्य पालितां पित्र्यां हित्वा निश्शरणां महीम् +नैर्घृण्येनैव शूरस् त्वम् अशक्त्यैवाङ्क्यसे ऽखिलैः +देवस्य यदि तीर्थार्थम् उत्कण्ठा वर्ततेतराम् +"आराधकानाम् अस्माकं किम् अन्यत् कार्यम् उच्यताम्""" +व्यक्तम् इत्य् उक्तवत्य् एव युवराजे नरेश्वरः +ईषत्स्मितरुचा चारुं पुनर् वाचम् अवोचत +"""प्रजानुपालनात् पुण्यं केवलात् कियद् अर्ज्यते" +रसायनानाम् अग्र्यं यद् अनेकरसचर्वणम् +देहात् पृथङ् निवसतो मद्भुजस्येव ते वत +दृष्ट्वा पराक्रमं शङ्का मदशक्तौ कथं भवेत् +एतावद् अपि वाक्यं मे यदि नैवानुतिष्ठसि +"त्वयि सङ्कल्पिताश् शेषास् तद् आशास् सन्तु दूरतः""" +निर्बन्धेनेति जल्पन् स तीर्थार्थं धरणीपतिः +युवराजं हठाद् राज्यभारम् अग्राहयच् चिरात् +२३अ) सुल्टान् ज़य्न् अल्-‘आबिदीन् (ल्स् ४४९४-४४९५) +"""श्रीजैनोल्लाभदीनाख्यस् सुरत्राणो भवन् भवान्" +"चिरं राज्यं क्रियाद्"" एवं राजास्याशिषम् अभ्यधात्" +तीर्थदर्शनलोभेन स्वदेशान् निरगान् नृपः +न पुनर् युवराजस्य चित्तात् प्रेमार्गलाञ्चितात् +कोशसाराणि रत्नानि वाजिरत्नानि चार्पयन् +भ्रातरं वसतीर् द्वित्रास् सो ऽन्वगात् प्रेमगौरवात् +मार्गे क्लेशं प्रयत्नेन सिद्धिं तीर्थफलाल्पताम् +उक्त्वा मार्गे खला राज्ञस् तीर्थश्रद्धाम् अखण्डयन् +स्वजामातुस् तिरस्कारं मन्यमानेन मानिना +मद्रेन्द्रेणाथ भूपालो हठात् तीर्थान् निवर्तितः +प्राप्तायां शरदि श्रेष्ठदशायाम् इव भूपतिम् +मद्रराजस् तम् आदाय कश्मीरान् प्रत्यगात् ततः +भ्रातुर् आगमनात् तुष्ट्या मद्रासारग्रहाद् रुषा +नवराजः प्रसादे च कालुष्ये च निमग्नवान् +[प्स्-ज्र्त् १०९] +देवस्योपद्रवं कार्षीन् मा मद्रेन्द्रचमूर् इति +इयेष ठक्कुरं राजा तं निरोद्धुं विसृष्टवान् +युद्धं विनानिवर्तिन्यां सेनायां मद्रभूपतेः आज्ञां विनाक्षमो योद्धुं व्यावर्तत स ठक्कुरः +क्षुद्रेष्व् अथ स मद्रेषु युवराजो महामतिः +भ्रातुस् स्नेहाद् रुषं त्यक्त्वा राज्यत्यागं स्वयं व्यधात् +२२ब्) ‛अली šआह् (ल्स् ४४९५-४४९६) +तन् न्यस्तं दिवसावसानसमये सूर्यस्य तेजो निजं प्रत्यूषे प्रतिपादयन्न् अतिशयश्लाघ्यस्वतेजा भवन् +वह्निर् यज्वकुलैस् ततो ऽपि दिवसे श्रद्धानुबन्धाकुलैस् तेजोवृद्धिमुषा नवेन हविषा यज्ञेषु सन्तर्प्यते +ठक्कुरैर् अन्वितो राजा पवनह्॒ कुसुमैर् इव +कश्मीरेभ्यो गतस् सर्वैर् देशाधीशैर् नतस् ततः +सुखं तावद् अगाहिष्ट वीतन���्रां नदीम् इव +ठक्कुरैर् उज्झितां मद्रचमूह्॒ कश्मीरमेदिनीम् +अथ विस्तीर्णम् आक्रान्तम् आलिशाहेन भूभुजा +पित्र्यं सिंहासनं तेन न तु सज्जनमानसम् +उद्यच्छेत कथं जडद्युतिर् अहो दूरोल्लसल्लाञ्छनो गच्छेद् दीप्तकरो न चेद् दिनकरो लोकान्तरं स्वेच्छया +वीरेणात्यवहेलया विरचितो ऽपक्षो जडह्॒ कातरः सम्भाव्य स्वपराक्रमेण विजयं विश्वं तृणं मन्यते +शाखाभङ्गेन सच्छायम् उद्यानं प्लवगा इव +मण्डलं क्षोभयाम् आसुस् तुरुष्का राजसेवकाः +कातरान् नाम भूपालाद् अनिष्पन्ननियन्त्रणः +यवनो मेरकंसारो व्यधान् मण्डलविप्लवम् +अकार्षीन् मलिनो भृङ्गस् सङ्कुचन्तीर् इवाब्जिनीः +पौरनारीर् अनार्यस् स हठसम्भोगदूषिताः +महाकरैर् मदेनान्धैः पङ्कसङ्कुलतां भजत् +अक्षोभि मण्डलं स्वच्छैस् सरो मरुगजैर् इव +मन्त्रिमन्त्रैर् अवार्याणां दिवसे ऽप्य् अनिवर्तिनाम् +रक्षसाम् एव कश्मीरास् तदा हस्तवशं गताः +अराजकं वरं राज्यं न स्वामी तादृशः पुनः +अभूषणौ वरं कर्णौ न पुनर् लोहकुण्डलम् +[प्स्-ज्र्त् ११०] हिमाद् अग्निस् तमस् सूर्याच् छिला व्योम्नस् तदापतत् यत् पालको ऽपि भूपालस् सर्वलोकक्षयो ऽभवत् +सद्म तुङ्गं वरो वाजी स्वच्छं वासो मणिर् महान् +स्वीकृतं यवनैस् तत् तद् यद् यच् छोभावहं प्रभोः +अकार्षीत् पञ्चषान् मासान् राज्यं स जडनायकः +प्रजापापविपाकेन न पुनस् स्वेन कर्मणा +मालिन्यं सुमनःप्रथाः प्रथयते दैन्यं निधत्ते दृशः सूर्यालोकतिरस्कृतं च कुरुते संहारम् आशा नयन् +उन्निद्रह्॒ कम् उपद्रवं न तरसा कुर्वीत धूमोद्गमो नोद्द्योतेततरां शिखी यदि महाज्वालाकलापाकुलः +श्रीसेकन्दरदत्तस्य राज्यस्य ऋणम् आत्मनः +निवारयितुकामेन स्वलक्ष्मीफलकाङ्क्षिणा +मद्रेन्द्रद्वेषपूर्णेन खुह्॒खुरस्वामिना ततः +नवराजो ऽर्थितो दूतैर् निजदेशागमं प्रति +नक्रो न चेज् जलनिधेर् बहिर् अभ्युपेयात् काकस् त्यजेन् न वरपादपम् उन्नतं चेत् +आखुर् न चेद् गहनगर्तगुहां विमुञ्चेद् धन्तव्यतां कथम् अवाप्नुयुर् एव तत् ते +"""आश्रयो युवराजस्य मद्द्विषो दीयते ऽमुना""" +जस्रथं प्रति भूपालह्॒ क्रोधाद् इत्य् अभ्यषेणयत् +म्लेच्छच्छादितमाहात्म्यैर् उद्विग्नैस् सचिवैर् निजैः +अनिषिद्धोद्यममतिर् दूतैर् उभयवेतनैः +युक्त्योपोद्वलितश्रद्धस् तथा द्वैराज्यजीविभिः +नवराजोदयं लेखमुखेन प���रापयिष्णुभिः +प्रसादलोभाद् यवनैर् अतिमात्रकृतस्तुतिः +नवराजजयोद्रेकश्रवणभ्रष्टसाहसैः +स्वसैन्यैर् दैन्यचकितैर् निन्द्यमानोद्यमो नृपः +मल्लेकं जस्रथं जेतुं प्रस्थानम् अकरोत् ततः +अभ्यमित्रीणतां तस्य कश्मीरेन्द्रस्य गच्छतः +आसीन् मित्रस्य साम्मुख्यं न मित्राणां महीभुजाम् +[प्स्-ज्र्त् १११] +स्वस्यात्यौन्नत्यम् आलक्ष्य शङ्कमानो ऽथ पातकम् +खुज्याकादस् समं मन्त्रम् अमन्त्रयत मन्त्रिभिः +"""मन्त्रविक्रममुख्यानि लक्षणानि क्व भूभुजाम्" +अयं बालिशभावस्य भाजनं क्व जनाधिपः +अस्माभिर् निहिताश् चास्मिन्न् उपदेशा हिता अपि +प्रतीपं यान्ति शशिनः पङ्कजे किरणा इव +प्राग् एव युवराजो ऽभूद् अजय्यो ऽसह्यसाहसः +विशेषेणाद्य मद्रेशद्वेषाज् जस्रथमानितः +राज्याश्रयेषु नास्मासु विश्वासी नूतनो नृपः +हारलुब्धस्य दाम्नस् तु हारो न मणिभृत्फणी +तस्माद् अस्माभिर् एते न युवराजो विजीयते +योग्याः प्राहुणकेनैव गृहे घ्नन्ति भुजङ्गमम् +जीयमाने नरेन्द्रे न युवराजे निरङ्कुशाः +"आयान्तु मण्डलं सर्वे साधयामश् चिकीर्षितम्""" +इति सम्मन्त्र्य मन्त्री स युवराजाभियोजने सोद्यमस्य नरेन्द्रस्य हेतुकर्तृदशाम् अगात् +यत्र यत्रागमन् म्लेच्छकटकस् स मदोत्कटः +तत्र तत्र रजोव्याजात् तमो मूर्तम् अदृश्यत +पालनीयेषु देशेषु राजपुर्यादिषूद्धतः +परदेशेष्व् इवाकार्षीत् स लुण्ठनपराभवम् +प्राप्ते ऽथ मुद्गरव्यालनाम स्थानं महीपतौ +सन्देशम् इत्य् अमन्दौजाः प्राहिणोन् मद्रभूपतिः +"""पत्तिलोकस् ससम्पत्तिर् वाजिनो वेगराजिनः" +भटा रणोद्भटास् सन्ति कटके तव यद्य् अपि +तथापि च्छलबन्धेषु प्रसिद्धेषु महीतले +यूयं खुह्॒खुरयुद्धेषु नैव नाम प्रगल्भथ +वयम् एव तु जानीमह्॒ खुह्॒खुराणां रणच्छलम् +अहिर् एव भुजङ्गस्य पदं जानाति नेतरः +अतो यावद् वयं प्राप्तास् त्वत्सेवाविधिसिद्धये +"भवद्भिस् तावद् अत्रैव स्थातव्यं पर्वतोपरि""" +मद्रेशस्य स सन्देशो मन्दैर् यवनपुङ्गवैः +स्वयशोलब्धये ज्ञातो मदसम्मूढदृष्टिभिः +राज्ञि मूढे ऽवरूढे ऽथ मानाद् इव महीधरात् +ध्वजैर् वायुचलैर् यातं खुह्॒खुरेशबलाद् भिया +धावदश्वबलक्षोदात् तनीयसि महीतले +हर्षभीरससम्भेदे मज्जति स्म फणीश्वरः +अश्वक्षुण्णे ऽस्रसंसिक्ते भूतले ऽसिकुशाञ्चिते +वीराः प्राणान् प्रतापाग्नौ तत्राजुहुवु���् आहवे +आलिशाहस् ततो राजा सिन्धौ प्रवहणं यथा +अभाग्यदुर्मरुद्वेगाद् अभज्यत रणार्णवे +२३ब्) सुल्टान् ज़य्न् अल्-‘आबिदीन् (ल्स् ४४९६-४५४६) +विश्वान्धङ्करणान्धकारनिकरग्रस्तस्य सूर्योदयं हेमन्ते हिममारुतैर् हतधृतेः पुष्पाकराभ्यागमम् +दुष्टक्ष्मापतितर्जितस्य जगतो निर्दोषलेशं प्रभुं लोकेशो जनयन् व्यनक्ति नितरां कारुण्यम् अत्युज्ज्वलम् +श्रीजैनोल्लाभदीनो ऽथ कश्मीरान् अपकल्मषः +अनुकूलो विधातेव प्राविशद् विजयोर्जितः +सतां स्तुत्या दिशां भेर्या मुखानि ध्वनयन्न् अयम् +पौराणां प्राङ् मनः पश्चाद् राजधानीं नृपो ऽविशत् +धीनैर्मल्यं जनस्याहो जातं राज्ञो ऽभिषेकतः +प्रतापो वैरिणां शान्तस् तस्मिंश् छत्राणि बिभ्रति +तन्नीतिः पूर्वराजेषु कुण्ठोत्कण्ठाः प्रजा व्यधात् +गुणातिशायनी या च शर्करेक्षुरसेष्व् इव +पूर्वराजव्यवस्थास् स विनष्टा नवयन्न् अभूत् +शिशिरोपहता वल्लीर् वसन्त इव भूपतिः +परस्पराधिकं शत्रूञ् जयद्भिर् दुर्जयान् अपि +शस्त्रैर् मन्त्रा जितास् तस्य मन्त्रैश् शस्त्राणि च प्रभोः +कान्त्याङ्गं वदनं वाचा श्रियोरह्॒ क्षमया मनः +श्रितं पश्यन्त्य् अगाद् दूरं कीर्तिर् ईर्ष्यावशाद् इव +राज्ञह्॒ कलिदशामध्ये धर्म्या साम्राज्यपद्धतिः +अन्तर्दशेव शुशुभे शुभा कृतयुगस्य सा +भोगे सखा नये मन्त्री विवेक्ता शास्त्रनिर्णये +श्रीमुहम्मदखानो ऽभूत् कश्मीरेन्द्रस्य सोदरः +किम् अन्यद् राज्यम् एवासीच् छत्त्रचामरवर्जितम् +श्रीमुहम्मदखानस्य कश्मीरेन्द्रप्रभावतः +वसन्त इव कामस्य वयस्यो भूपतेर् अभूत् +खुह्॒कराधिपतिस् तस्य भृत्येष्व् अभ्यधिकप्रियः +दुर्व्यवस्थां निवार्यायं देशे ऽस्मिन् म्लेच्छनाशिते +इति राज्यपरिप्राप्तिफलं यावद् अचिन्तयत् +तावद् द्रोहोचितं कर्म द्रोग्धारो राजवल्लभैः +अपृष्ट्वैव महीपालं नीता वीतभयैस् स्फुटम् +यशो दिशि श्रियं साधौ सुखं लोकेषु रोपयन् +व्यधात् प्रक्रमभङ्गं तं यच् छत्रून् उदमूलयत् +एकान्ता तिग्मता भानोर् म्रदिमा शशिनः पुनः +स द्वौ जेतुम् इवापुष्यत् तत्संसर्गमयीं श्रियम् +असङ्ख्यान् अत्र सङ्क्षिप्ते तद्गुणान् वर्णयामि किम् +सृगालानां गुहामध्ये कथं हस्तिपतिर् वसेत् +तस्माच् छैलेन्द्रवच् चित्रे मकुरे सूर्यबिम्बवत् +न्यस्यामि तद्गुणाख्यानम् अत्र चित्ते त्रिलोकवत् +शीतोष्णयोर् इवोर्जादौ विषुवे ऽहर्निशोर् इव +तस्य मानो ऽभवत् तुल्यस् स्वे परे वापि दर्शने +राजा वणिग् इवात्यर्थं तुलायाः पुटयोर् इव +साम्यभङ्गं दर्शनयोर् नाक्षमिष्ट कथञ्चन +शान्ते सिद्धाश्रमे सिंहैर् मृगा इव न पीडिताः +तुरुष्कैः पुष्कलभयैर् ब्राह्मणाः पूर्ववत् तदा +दोषाकरेण सूहेन येषां सङ्कोचिता स्थितिः +व्यकासयत् ततो भास्वान् गुणिनस् तान् महीपतिः +रन्ध्रैर् अधोगतिं प्राप्ता कुल्येवोद्धृत्य भूभृता +विद्या प्रवाहिता तेन गुणिना गुणरागिणा +दोषच्छेदकरो राजा क्रमाद् भिषग् इवानलम् +कश्मीरेषु सदाचारम् अपीपलद् उपक्रमैः +अहङ्कारागदङ्कारो राजा प्रकृतिवृद्धये +दर्शनानां स धातूनाम् इवोल्बणम् अशीशमत् +कालधर्मेण बलिना मात्स्यन्यायप्रवर्तनम् +अष्टलोकेशतेजोऽंशधारणस्यास्य लक्षणम् +स सूहभट्टसंस्पर्शदुष्टायाश् शुद्धये भुवः +प्रतापाग्निं ध्रुवं दीप्तमहाकाशम् अजिज्वलत् +राज्ञस् सञ्चिन्वतो मन्त्रप्रपञ्चं पञ्चधा स्थितम् +जिगीषयेव तस्यारिवर्गः पञ्चत्वम् आश्रयत् +अनित्यबाह्यविद्वेषिनिर्जयस्तुतिसंस्तवः +नित्यान्तस्स्थारिसंहर्तुस् तस्य प्रत्युत गर्हणा +शक्तो ऽपि काश्यपीशक्रश् शक्यान् एवाभ्यषेणयत् +व्योम्नि यात्रां करोत्य् अर्कस् सतारे न तु सोडुपे +नाजिगीषत् स तेजस्वी शत्रून् विभवतृष्णया +हरिर् मांसादिलोभेन हिनस्ति न हि हस्तिनः +शैलेषु तद्द्विषो भानुप्रतापाधिदवश्रमैः +प्रायश्चित्तीयितुं पञ्चतपस्त्वं ध्रुवम् आश्रयन् +प्रावर्तिष्ट महीष्ठो ऽपि नोत्पथेन स जातुचित् +राकेन्दुर् न निशारम्भं विना जात्व् अप्य् उदेति यत् +"""गर्वं प्रवृद्धा वास्तव्या हीना मैव क्षयं गमन्""" +इति नीतिविदा राज्ञा तेभ्यो बलिर् अगृह्यत +वैरिकीर्तिर् जुहोतु स्वं विक्रमस्य वियोगतः +वताग्निसदृशे राज्ञः प्रतापे सहितं श्रिया +ढिल्लीशपीडितं जातु जस्रथं शरणागतम् +द्रोणीगुहासु सो ऽरक्षत् तमो ऽद्रिर् इव भास्करात् +तस्मिञ् शासितरि क्षोणीं विनेतरि दुरात्मनाम् +जयापीडपुरस्थस्य भूमिदेवस्य कस्यचित् +शष्पग्रासाभिलाषाद् वा विधातुर् वा नियोगतः +उदाचिताप्य् अगाद् धेनुर् मूर्तेवाशा स्वधाभुजाम् +गतो मडवराज्यं स तीर्थस्नानाय जातुचित् +स्वां परिज्ञातसङ्केतां गां परिज्ञातवान् द्विजः +सनिश्चयो गृहं यान्तीं सायं ताम् अनुगम्य गाम् +विवादम् अकरोद् वेश्मस्वामिना सह तत्र सः +तौ लोभनिश्चयग्रस्ताव् अशान्तकलहाव् उभौ +महीपालसभास्थाने विवादं कर्तुम् उद्यतौ +तयोर् अशक्तयोर् जेतुम् उपपत्तिं परस्परम् +शृङ्गाटानि परीक्षार्थं गोर् अग्रे व्यकिरन् नृपः +सा बाल्ये ग्रसनाभ्यासाच् छीघ्रम् आघ्राय सस्पृहा +गौर् अभुङ्क्त फलानीव न तु तत्सन्ततिश् चिरम् +सभायां राजनैपुण्यं स्तुवत्यां कृतनिश्चयात् +दण्ड्येनाजिग्रहद् दण्डं भाण्डं राजा द्विजन्मना +तस्य दाक्षिण्यदक्षस्य प्रजानां हितहेतुना +पुत्रे मन्त्रिणि मित्रे वा दुष्टे नालक्ष्यत क्षमा +अपराधं विना जायां क्षीबो निघ्नन् प्रियो ऽपि सन् +मेरेशायो ऽपि यवनो वधं भूपेन लम्भितः +शत्रुपक्षे निकारं स क्षिपन् क्षितिपुरन्दरः +अकरोद् आदरं नित्यं योगिनां नययोगिनाम् +पराक्रमश् च नीतिश् च तस्य तेषां च भूभुजाम् +करुणा च विवेकश् च यस्मिन् राजनि राजति +कामो वियोगिवर्गस्य करोत्य् अपचितिं सदा +निर्विकारस् स्मरो योगिवर्गस्यापचितिं व्यधात् +सौम्या भीमा गुणा यस्मिन्न् अवसन् नवसङ्गमम् +क्वान्यत्र सागराद् दृष्टा विषामृतजलानलाः +चिरं स्थेयैर् उपात्तो ऽर्थिप्रत्यर्थिभ्यां धनग्रहः +तेन धर्मप्रवृत्तेन सद्वृत्तेन निवारितः +केनापि हेतुना पूर्वं लौलराजद्विजन्मना +भूप्रस्थदशकात् प्रस्थो विक्रीतो लेख्यपूर्वकम् +बालानां नोनराजादिपुत्राणां तम् उदीर्य सः +विक्रयाब्दे ब्रह्मभूयं लौलराजो ऽगमत् ततः +नोनराजाद्यसामर्थ्यात् प्रस्थग्राहैर् अभुज्यत +अविक्रीतम् अपि प्रस्थनवकं बलिभिस् ततः +एवं कृते दशप्रस्थभोगे तैर् बलिभिश् चिरम् नगभोगाय कपटं कृतं विक्रयपत्त्रके +[प्स्-ज्र्त् ११२] +व्यञ्जनाग्रस्थितैकाररूपज्ञानाय लेखकाः +रेखां पूर्वे व्यञ्जनानां पश्चाद्भागे किलालिखन् +कालान्तरे लिपेर् भेदाद् उपर्य् अद्यतनाः पुनः +व्यञ्जनानां लिखन्त्य् एव रेखाम् एकारबोधिकाम् +भूप्रस्थम् एकं विक्रीतम् इति विक्रयपत्त्रके +ते मकारस्थितैकारबोधिरेखापदे ततः +भूप्रस्थग्राहिणो धूर्ता दकारं समलेखयन् +मकारं ते शकारं च कारयाम् आसुर् अञ्जसा +भूप्रस्थम् एकं विक्रीतम् इति विक्रयपत्त्रके ज्र्त्_ब्.१०३३अब् +विक्रीतं प्रस्थदशकम् इति वर्णान् अलेखयन् +तस्मिन् राज्ञि विचारज्ञे नोनराजस्य नन्दनः +बलाद् धृतां भुवं राजसभायाम् अहम् आक्षिपम् +प्रत्यर��थिभिर् अथानीतं भूर्जं राजाज्ञया नृपः +युक्तिज्ञस् सलिलस्यान्तर् वाचयित्वाक्षिपत् ततः +नष्टेषु नववर्णेषु पुराणेषु स्थिरेष्व् अथ +भूप्रस्थम् एकं विक्रीतम् इति सभ्यान् अवाचयत् +राजा कीर्तिम् अहं भूमिं कूटकृद् दण्डम् अद्भुतम् +प्रजास् सुखं खला भीतिं प्राप्तवन्तस् समं ततः +इन्दो राहुभयं कदापि कुरुते कालह्॒ कलाः पूरयन् सिञ्चन् सञ्चिनुते तडिन्निपतनक्षोभं तरोर् वारिदः +वेधास् सत्पुरुषस्य सर्वजगताम् आह्लादनायोद्यमं कुर्वन्न् आमयदर्शनेन कुरुते भीतिप्रकर्षं क्षणम् +अबाधिष्टतरां कष्टो विषस्फोटह्॒ कदाचन +प्रकोष्ठं भूमिपालस्य प्रजानां हृदयं च सः +माघमासीव पुष्पाणां म्लेच्छप्रालेयबाधया +न लाभो विषवैद्याणां देशे ऽस्मिन्न् अभवत् तदा +यज्वा गारुडशास्त्रज्ञश् शिवभट्टो नृपानुगैः +अत्रान्विष्यद्भिर् आप्तो ऽथ कूपो ऽध्वन्यैर् मराव् इव +चिकित्सायां विदग्धस् स म्लेच्छभीत्या व्यलम्बत +स्फुलिङ्गदग्धः पुरुषस् स्पृशत्य् अपि मणिं चिरात् +स्वयं दत्ताभयो राज्ञा प्राप्तस् तम् उदमूलयत् +शिवभट्टो विषस्फोटं करीव विषपादपम् +तस्य कीर्तिस् सुखं राज्ञः प्रजानां हर्षसन्ततिः +प्रारोहंस् त्रीणि विस्फोटे तत्रैकस्मिन् विपाटिते +तुष्टेन भूभुजा दत्तां यथेष्टम् अपि सम्पदम् +नैक्षिष्ट शिवभट्तस् स यतात्मेव वराङ्गनाम् +[प्स्-ज्र्त् ११३] +उद्दाहपातकवशाद् इव निर्घृणस् सन् दग्ध्वा तृणं तृणकृशानुर् उपैति शान्तिम् +जाताम्बुवाहकरुणाप्रणयात् तृणस्य कान्तिः पुनश् शतगुणा मसृणाभिरामा +क्ष्मां सन्तापयता गाढम् आषाढेनेव वारिदाः +सूहभट्टेन संशुष्य पराभूता ययुर् दिशः +वर्षा मरुद् इव क्ष्मापस् तद्विद्याप्रत्ययोत्सुकः +आनाययत् स तान् सर्वान् पण्डितान् निजमण्डलम् +मुक्ताहारोपमे देशे विद्वद्रत्नानि नायकः +कान्त्या वा सुधिया तत्र यथायोगं न्यवीविशत् +राजा संरोपितान् अर्घवृत्तिदानेन पण्डितान् +आप्याययज् जलेनेव मालाकारो महीरुहान् +नाशितं सूहभट्टेन यद् यत् कश्मीरमण्डले +योजितं शिर्यभट्टेन राजप्रार्थनयाथ तत् +प्रवर्त्य यागयात्रादि नागानां भट्टशिर्यकः +तुरुष्कापहृतां भूमिं विदग्धेभ्यो न्यदापयत् +उदये दापिते तेन हिन्दुकानाम् अखण्डिते +शिर्यभट्टाय चुकुपुस् सर्वे यवनदानवाः +महापद्मफणीन्द्राम्भस्संभेदे कुम्भकेन सः +बद्धो ऽपि दृतिवत् स्थित्वा यवनेन्द्रान् व्यलक्षयत् +तापो यस्याह्नि शैलाञ् ज्वलयति स रविस् सायम् अक्ष्णापि गम्यः स्वग्राव्णश् शुष्यतो ऽह्नि द्रवयति न शशी पूरकस् सायम् अब्धेः +कारुण्याद् एव लोके निजमतिसकलं स्वेच्छया दर्शयित्वा तं तद्भाग्यावसानात् प्रथमम् अथ महांस् तूर्णम् अन्तर्दधाति +कलौ पातकिनां पुंसां स्पर्शदर्शनविह्वला +अवश्यं शारदा देवी तदान्तर्धानम् आश्रयत् +मुखे स्वेदो भुजे कम्पः पादस्पर्शे विदाहिता +जातु जात्व् अभवद् देव्या नो तदा हि तथा क्वचित् +द्रोहार्जिताद् धनाद् भागं प्रसादेन नियुञ्जति +कश्मीरलोके सा देवी नानुग्रहपरा ह्य् अभूत् +दूर्वामात्रेण तुष्यन्ति विशुद्धेन हि देवताः +प्राणैर् अपि न मालिन्यदूषितैर् जातुचित् पुनः +कलिकाले तु देव्यास् स प्रभावो ऽपि शमं गतः +जात्व् इत्य् अगान् नृपो देवीं द्रष्टुं तद्यात्रिकैस् सह +नदीं मधुमतीं स्नानपानाभ्यां फलयन्न् अयम् +शारदाक्षेत्रम् आसीदत् सीदत्परिषदाकुलम् +देवीभक्ताभयोद्युक्तो व्यङ्क्तुं तच्छक्तिम् उद्यतः +युक्तायुक्तविवेक्ता स तत्र राजा न्यविक्षत +तत्रापि तेषां दौरात्म्यदर्शनाद् विस्मितो नृपः +भक्तिह्रासम् अगाद् देव्यां यात्रिकेषु च कोपिताम् +"""साक्षात् त्वद्दर्शनं देवि देवानाम् अपि दुर्लभम्" +अस्माभिर् नार्थनीयं तत् कलिकालकलङ्कितैः +अशक्तानां भवद्रूपं निष्कलं ध्यातुम् अर्चितुम् +भक्तिभाजाम् अनुक्रोशाद् यत् तु रूपं त्वम् अग्रहीः +तवास्यां प्रतिमायां चेद् व्यपेतो नैव सन्निधिः +पवित्रयतराम् अद्य स्वप्ने तद् दर्शनेन माम् +अस्माभिश् च ततस् सा त्वं यथाशक्ति निषेव्यसे +मिथ्याभक्तदुरात्मत्वात् त्वं चेद् दूरम् इतो गता +"किमर्थं प्रतिमा तर्हि गर्हिता हिन्दुवैरिभिः""" +विज्ञप्येति स सप्तम्यां भाद्रे राजा जितेन्द्रियः +अशेत शारदाक्षेत्रप्रासादस्थण्डिलोपरि +दर्शितं न यदा स्वप्ने किञ्चित् सन्निधिसूचकम् +राज्ञाष्टानवतौ वर्षे स्वां मूर्तिं देव्य् अचूर्णयत् +नास्यादाद् दर्शनं देवी म्लेच्छसंसर्गतो ध्रुवम् +स्वामी भृत्यापराधेन गर्हणीय इति स्थितिः +देवीदर्शनविच्छेदि तस्य नासीद् धि किञ्चन +दया सत्यं विवेकश् च तम् एवाश्रयते तदा +व्यावृत्य यवनानां स वनानाम् इव वारिदः +हर्षोत्कर्षवशो ऽकार्षीन् महत् कनकवर्षणम् +यत्र दण्ड्या न दण्ड्यन्ते दुर्��लास् तस्करं विना +भूपतेः प्राड्विवाकत्वं स प्रापद् भट्टशिर्यकः +प्रतिजानंस् तदा कोशधनसंभवने ऽसति +स्वगलच्छेदनं भट्टो मिथ्यावक्तुश् च विप्लवम् +शाखाभङ्गसमुद्भूतशब्दव्याप्तचतुर्दिशाम् +समुदीरयतां नूनम् अब्राह्मण्यं पदे पदे +द्रुमाणां फलनम्राणां जनानां नमतां गुणैः छेदाद् रक्षाम् अकार्षीत् स जिष्णुर् इन्धनहेतुना +– – – – – – – – त्रयदण्डं निवार्य सः +द्विजानां जातिरक्षार्थं रौप्यमाषम् अकल्पयत् +[प्स्-ज्र्त् ११५] +मांसादिलोभान् निघ्नत्सु मण्डलेषु विषेण गाः +गोमांसकुण्डीर् ग्राह्यादिवारणात् स न्यवारयत् +पत्यौ मृते ऽन्यं गच्छन्त्या विहितं भर्तृगोत्रजैः +स महामतिमाञ् शूद्र्या विप्लवं विन्यवारयत् +न्यवारयत् स पुत्रीणाम् और्ध्वदैहिकविप्लवम् +अपुत्रस्य विपन्नस्य लुब्धैस् तद्गोत्रजैह्॒ कृतम् +शिशूनां शास्त्रपाठादि सूहभट्टेन नाशितम् +वृत्तिदानेन विदुषां विद्यावान् आनयत् पुनः +विधित्सुस् स्वम् अभिज्ञानं द्विजदेहे महीपतिः +व्यधत्त तिलकव्याजाद् विभागं सत्यधर्मयोः +ग्रामाणां प्रथमे वर्षे सङ्क्रान्तं कारकातुरैः +पत्तलाघोषदेशेषु लोत्रदण्डं न्यवारयत् +निवार्य शाकटतुलामानकूटं चिरस्थितम् +अर्घव्यवस्था वस्तूनां प्रतिमास् समकारयत् +बहिर्देशागतार्थानां देशकालाद्यपेक्षया +व्यवस्थाप्यार्घम् उत्पिञ्जम् अच्छिनद् दिनमोषणम् +विदग्धश् शिर्यभट्टो ऽपि नोत्कोचफलम् आदित +अविनाशि पुनर् धर्मफलं वर्षोपकारतः +देहस्थैवार्थिनां ज्ञानरसविज्ञानकाङ्क्षिणाम् +तदेच्छासिद्धिर् अभवद् राज्ञः पुण्यफलाद् द्रुतम् +महाश्रीशिर्यभट्टस्य मुखाद् राजा न्यवारयत् +धर्मप्रकाशनामानं राजकाङ्गटिकं प्रभुः +दूरं निवारयाम् आस निर्धारणपदाङ्कितम् +भाविनां भूमिपालानां दुर्व्यवस्थापथार्गलम् +अस्थापयत् स धर्मस्थस् सद्वृत्तं प्रतिपत्तनम् ज्र्त्_ब्.१०९१अब् +स्थापितो ग्रामसीमायां ग्रामेभ्यः प्रापितो धनम् +अरण्ये ऽरण्यनाथेभ्यः पान्थस् तेन महीभुजा +हासाश् श्मशानदेवीनां सूहभट्टं प्रतीव तम् +प्रतिस्थानं विमानानि प्रेतानाम् अद्युतंस् तदा +म्लेच्छैर् उपद्रुतां क्षोणीम् अक्षीणकरुणो नृपः +उदहार्षीत् क्रमाद् एवं दानवैर् इव केशवः +उच्छृङ्गान् स नयन् भङ्गं निम्नान् आपूरयन् नृपः +स्वकीर्तिबीजवापार्थम् अनुद्घातां महीं व्यधा���् +भूपतेः परदारेषु निष्कौतुकमयं व्रतम् +अभज्यत परं तस्य परश्रीपरिरम्भणे +सम्यग्दशबलेनाथ सर्वज्ञेन महीभुजा +सौगतस् तिलकाचार्यो महत्तमपदे कृतः +सशिवभट्टस् तिलकस् स सिंहगणनापतिः +सोपनान्य् अभवंस् ते च पदारोहे द्विजन्मनाम् +मेदिन्याखण्डलस्यासीत् पिकस्येव रसश्रिया +अखण्डं रसपाण्डित्यं ब्रह्मकुण्डलसेवया +कर्पूरभट्टो यश् श्रीमान् प्राणिरक्षो महीभुजः +गुणिनां शरणं चक्रे स्वगुणैस् सुरभिं सभाम् +पूर्वाब्दग्रहसञ्चाराद् उत्तराब्दग्रहस्थितिम् +रुय्यभट्टो विदन्न् आसीद् विनैव गणितश्रमम् +श्रीरामानन्दपादानां भाष्यव्याख्याक्षणेक्षणे +वीक्षते शारदा क्षोणीम् एव सम्भ्रान्तमानसा +गान्धारसिन्धुमद्रादिभूभुजस् तस्य भूभुजः +ग्राम्या इवाभवन्न् आज्ञाकारिणो जितवैरिणः +युद्धे जितं ततो बद्धं खुह्॒खुरेन्द्रेण भूपतिः +मालदेवं मद्रराजम् आज्ञया निरमोचयत् +राजा राजपुरीराजं नयज्ञस् स्वपदातिभिः क्षणाद् भ्रूभङ्गमात्रेण रणसूहम् अलोठयत् +उदभाण्डपुराधीशं सिन्धुराजोपबृंहितम् +स कन्दुकम् इवोत्थाप्य मुहुर् मुहुर् अपातयत् +भोट्टभूमौ महीन्द्रेण गोग्गदेशे कदाचन +बाणा गौरखरास्रेण गुणैर् लोकाश् च रञ्जिताः +समिज्जिते शयादेशे क्रूरादेशो महीपतिः +सुवर्णबुद्धप्रतिमां यवनेभ्यो ररक्ष सः +कषाकरं कषंस् तस्य निकषो भौट्टतेजसाम् +अप्रकाशां प्रतापो ऽथ मलूतनगरीं व्यधात् +केवलं हृदयं शून्यं भौट्टानां नाभवत् तदा +भूमिपालभयावेशात् कोशो ऽपि चिरसञ्चितः +प्रकृतीनां ददद् राजा शेषोप्यायौ यथोचितम् +प्रत्यवेक्षाम् अकार्षीत् स शालिनाम् इव कार्षकः +नासहिष्टेव तच्चापं तुलां शार्ङ्गपिनाकयोः +दूरकार्यार्थसाधिन्या धनुष्मत्ता भ्रुवः पुनः +अस्तं यस् तमसां कुलानि बलतो नेतुं सदा वाञ्छति क्षीणं तं वसुनाभिपूर्य शशिनं संवर्धयत्य् अञ्जसा +काश्यप्याम् अवकाशमात्रघटनां शाखामुखै रुन्धतो वृक्षान् वृष्टिभरैश् च यो ऽस्य कतमो भानोस् तुलाम् अर्हति +लद्दराजसुतं राजा नोस्रतं यम् अवर्धयत् +"अहृतद्रविणं तं ""स द्रोही""ति निरवासयत्" +मक्कदेशागतो जातु पुस्तकाडम्बरं वहन् +सदौलनामा यवनो राजेन्द्रं तम् उपागमत् +गुणान् विकत्थमानं तं गुणिरागी नरेश्वरः +उपागच्छत् प्रतिदिनं दर्शनायेतरो यथा +स तस्य पटहस्येव राजापश्यत् क्रमाद् असौ +अन्तस्सारविहीनत्वं परीक्षायां विचक्षणः +म्लेच्छमस्करिणि क्षोणिप्राणेशो निर्गुणे ऽपि सः +प्रेमाणं नामुचत् पुत्रे पितेव करुणार्णवः +प्रदोषस्येव तमसां दुर्घनस्येव विद्युताम् +दोषाणां बहुता तस्य प्रजास् समुदवेजयत् +तस्मिन्न् अवसरे कश्चिद् योगिराजो जितेन्द्रियः +न्यविक्षतोन्नते स्तम्भे योगाभ्यासस्य सिद्धये +स्तम्भोपरि नवाहानि निराहारम् अपश्यतः +तस्याशिषैव महिषी राज्ञः पुत्रम् अजीजनत् +तपस्यतस् तथा तस्य तत्र तन् नवमं दिनम् +राज्ञस् त्व् अनवमं पुत्रजन्मकालमहोत्सवः +[प्स्-ज्र्त् ११६] +हेमन्तान्ते पतति तुहिनं फाल्गुणे वल्गु वल्गद् दीपस्यापि स्फुरति सुतरां शान्तिकाले ऽतिदाहः +शैत्योद्रेको वहति वहति ग्रीष्मकाले तुषारं वस्तु प्रायः प्रथयति निजं धर्मम् आयाति नाशे +तपह्॒कवचम् अस्पृष्ट्वा तम् अधो मार्गणैर् गतम् +प्रहर्तुर् इव निर्देष्टुं भविष्यन्तीं तथा गतिम् +राजमान्यं तम् आलोक्य कुप्यन्तं शान्तमानसः +निर्णयाद् अचलद् वर्णी नयान् न तु भयोदयात् +स स्तम्भान् न महाधैर्याद् अवारोहन् महामनाः +नैवारोहज् जगद्दृष्टिं सद्यो द्याम् अपि योगवित् +"""अतिथिं योगपथिकं मा वधीर् माम्"" इति ब्रुवन् म्लेच्छमस्करिणा वर्णी खड्गघातैर् अचूर्ण्यत" +अत्यर्थदर्शनद्वेषान् मदिरामदमोहितः +स म्लेच्छसहितो योगिराजं तम् अवधीच् छरैः +सन्तप्तैर् मलिनैस् स्थूलैर् जनानां तद्विलोकनात् +भूतले पतितं वाष्पैर् अपवादैश् च राजनि +पृथ्वीनाथो ऽथ तच् छ्रुत्वा शुद्ध्यर्थम् इव मग्नवान् +भीह्रीशोकक्रुधाश्चर्यकृत्यचिन्तार्णवेषु सः +प्रथमोद्भूतपुत्रे ऽपि तस्मिन्न् अह्नि महीभुजा +नास्नायि नाभ्यवाहारि व्यवाहारि न नाकथि +अन्येद्युर् भूपतिः पृष्टस्मृतिज्ञगुरुकोविदः +हन्तुर् दण्डं वधं शृण्वन् करुणायन्त्रितो ऽभवत् +प्रतीपं खरम् आरोप्य प्रतिहट्टं परिभ्रमम् +नरमूत्राभिषिक्तस्य कूर्चस्य परिकर्तनम् +ष्ठीवनं सर्वलोकानां प्रेतान्त्रैर् बाहुबन्धनम् +जीवन्मरणम् आदिक्षद् दण्डं तस्य कृशायतेः +राजनि म्लानिहीनानि दिक्सौगन्ध्यवहानि च +अपतन् नाकपुष्पाणि पौराशीर्वचनानि च +मद्रराजदुहित्रोस् स चतुरस् तनयान् नृपः +यथा दशरथो राजा जनकान् तान् अजीजनत् +ज्यायान् आधमखानस् स हाज्यखानस् तथा परः +खानो जस्सरथह्॒ खानो बहरामश् च सञ्ज्ञितः +[प्स्-ज्र्त् ११७] +हिन्दवस् सूहभट्टेन बलाद् ये पीडिता भृशम् +परदेशं गतास् ते तु बिभ्रतो वेषकल्पनाम् +निजाचारे रता नित्यं तदाचारद्विषो हृदा +स्वम् आचारम् अनुष्ठातुं प्रेरिताश् च द्विजैर् बलात् +दारितास् स्वत्राणभयाद् उत्कोचार्पणतत्पराः रक्षिता भूमिपालेन तदुपद्रववारणात् +क्षीरार्णवस्य मथनात् परतस् सुधादिरत्नानि तान्य् अनुपभोगनिरर्थकानि +यो नीतवान् सफलतां किल पात्रदानात् स्तुत्यस् स मन्दरगिरिर् गिरिराजवर्गे +नदीर् अवटपातेन भुवश् चाम्बु विनाफलाः +संयोगात् सफलीकृत्य यशश् चित्रम् अजीजनत् +राज्ञोत्पलपुरक्षोणौ कुल्यां प्रापय्य वप्रिणीम् +तयोर् निरर्थकत्वेन दूषणाविनिवारिता +नन्दशैलमरौ कुल्याम् अवतार्य महीपतिः +अस्मारयच् चक्रधरं सागरान्तर् निवासिनम् +करालम्बस् सतां बिभ्रद् अकरालं सितं यशः +कुल्ययाकारयद् देशं करालाख्यं स्तुतेः पदम् +साग्रहारा द्विजा यत्र साग्रहाराश् च योषितः +साथ जैनपुरी राज्ञा कराले निरमीयत +अवन्तिपुरभूमौ च कान्तोदन्तेन भूभुजा +कुल्यावतारितातुल्या शालिसम्पत्तिशालिनी +गिरिमार्गेण गङ्गाया मानसं प्रापिते जले +किं पूतं मानसेनेदम् अमुना किम् उ मानसम् +व्यडम्बयत् स्वमूर्तिं या मानसप्रतिबिम्बिताम् +विधाय तत्तटे तेन नगरी सफलायिता +[प्स्-ज्र्त् ११८] +श्रीस्वयस्य यम् आनेतुं प्रज्ञा न स्फुटम् अस्फुरत् +श्रीसेकन्दरशाहो ऽपि कुण्ठोत्कण्ठो ऽभवत्तराम् +श्रीजैनोल्लाभदेनस् तम् आनीय पहरं नदम् +प्रासिञ्चद् विंशतिक्रोशाञ् छ्रीमान् स्वयपुरे मरुम् +दुर्भिक्षव्याप्तचित्तानां विश्रान्तिजननान् नृणाम् विश्रान्तिसञ्ज्ञया कुल्या प्रसिद्धाभूत् पदे पदे +श्रीमान् सुय्यपुरात् पारेवितस्तं धरणेर् नृपः +संयोज्य पहरं तापव्यापदं स न्यवारयत् +आ प्रद्युम्नगिरिप्रान्ताद् अमरेशपुरावधि +मठाग्रहारहट्टाढ्यां स जैननगरीं व्यधात् +स्वर्गं जेतुम् इवोदस्थाद् उन्नतैर् अश्मवेश्मभिः +सङ्क्रान्ता जैनगङ्गायां फणिलोकस्य यागमत् +जैनगङ्गां रणस्वामिप्रासादं प्रापितां कृती +व्यसिस्मरत् स्मेरयशा हरिपादकुतूहलम् +पारेसुय्यपुरं जैनगिरिसञ्ज्ञां पुरीं व्यधात् +कैलासाचलतुल्येव प्रासादैर् अभिभूषिता +सिद्धक्षेत्रे सुरेश्वर्यां प्रसिद्धो विलसद्यशाः +राजधानीं निषिद्धारिर् व्यधात् सिद्धिपुरीम् असौ +प्रासादशिखरे राजा मार्तण्डामरनाथयोः +राजधान्यौ व्यधात् सौधधौतदूरनभस्तले +सुभिक्षं सुय्यराजेन पूर्वम् अङ्कुरितं किल +ततः प्रभृत्य् अतीतेषु बहुष्व् अपि च राजसु +प्रजानाम् अल्पपुण्यत्वान् नावर्धत मनाग् अपि +तपोबलात् पल्लवितं पुष्पितं फलितं तथा +श्रीजैनोल्लाभदीनेन युगपत् तद् व्यधीयत +तपसाम् अतिशुद्धत्वात् किम् इव ज्ञापकं परम् +पूर्वपुण्यक्षये राज्यात् पतन्त्य् अन्ये महीक्षितः +तस्य जन्मान्तरे राज्यप्राप्त्यै राज्यम् अभूत् प्रभोः +स नदीमातृकाह्॒ कृत्वा धरणीर् देवमातृकाः +अग्रहारान् अनु क्ष्मापो द्विजेभ्यो यद् अदात् सदा +वराहक्षेत्रनगरविजयेशानकादिषु +यवनेभ्यो ऽग्रहारान् स सविहारान् स्वयं ददौ +विजयक्षेत्रवाराहक्षेत्रशूरपुरादिषु +सत्त्रदानेन स त्रासम् अपि गोत्रभिदो व्यधात् +भूमिविक्रयभूर्जादि कृतचिह्नं महीभुजा +निह्नवप्रागभावाय धर्माधिकरणं कृतम् +यो जयापीडदेवेन प्राप्तो नागप्रसादतः +स दण्डम् इव तस्यादात् ताम्रं ताम्राकरो गिरिः +मणीन् खनिभ्यश् चालभ्यांस् तद्राज्ये भूर् अजीजनत् +ये जैनमणयह्॒ ख्याताः पद्मरागमदच्छिदः +सरितां सैकते नीतसिकताभ्रमदं तदा +काञ्चनं काञ्चन च्छायां बिभ्रल् लोकैर् अचीयत +"""सरित्सुवर्णात् षष्ठांशो ग्राह्यो भाविभिर् ईश्वरैः""" +ताम्रपट्टे ऽलिखद् याच्ञावाक्यम् एवं नरेश्वरः +नगराधिकृतह्॒ काचडामरो दुस्तरे पथि +क्रोशमात्रं व्यधात् सेतुं नगरान्तश् शिलामयम् +नात्मैव सेतुदानेन तेन पङ्कात् समुद्धृतः +सकलो ऽपि जनो मध्येनगरं पुण्यशालिना +विषये विषये चक्रे शिर्यभट्टो मठान् पृथून् +अन्ये ऽपि सचिवा राज्ञो धर्मशाला बहूर् व्यधुः +पद्माकरस्य मथनाय गजाधिराजाव् अभ्युद्यतौ सततम् एव तदम्बुदृप्तौ +तावत् कराकरि रसाद् इह चातिमत्तौ कृत्वा क्षणाद् अगमतां स्वयम् एव नाशम् +मसोदशूरौ धात्रेयौ भूपतेर् एकगोत्रजौ +द्वौ रन्ध्रान्वेषिणाव् आस्ताम् अन्योऽन्यविभवासहौ +राज्ञा तौ वारितक्रोधौ स्नेहदाक्षिण्यशालिना +हत्वान्यतरम् उत्पिञ्जसज्जाव् अभवतां चिरम् +कदाचिद् भूपतेर् अग्रे स्पृष्टश् शूरेण वाक्छरैः +मसोदठक्कुरश् शस्त्रसन्न्यासं समकारयत् +न्यस्तशस्त्रस् स रजनौ गच्छन् मितपरिच्छदः +रन्ध्रं लब्ध्वाथ शूरेण मसोदष् ठक्कुरो हतः +विन्नाद्यैष् ठक्कुरैस् तस्य भ्रातृभिह्॒ ख्यातपौरुषैः +हन्तुम् अभ्यर्थितश् शूरो भूपतेः प्रेमशालिन��� +शूरे सानुचरे विन्नठक्कुरेण हते सति +प्रसादम् अगमत् कीर्तिष् ठक्कुराणां च धीस् तदा +तथा स योगिनां मानम् अदाद् भूलोकवासवः +तेषाम् अग्रे यथा मद्रराजाद्यैर् लडितं श्ववत् +स ददद् योगिनां भोगं यागं तेभ्यो ऽग्रहीन् नृपः +भयं ददद् अरातिभ्यो दधाव् अभयम् अप्य् अहो +मुद्राकर्परकन्थादि वारयन् योगिनां नृपः +कुण्डलं हेमपात्राणि दुकूलम् अपि दत्तवान् +छित्त्वा पर्वतपक्षतीर् अपि नवाः फेणेन हत्वाप्य् अहिं कृत्वा यज्ञशतं त्रिलोकविजयी कीर्त्या न तृप्तिं गतः +इन्द्रः पीतसितासितारुणहरिद्वर्णं विधत्ते धनुर्ज्योतिर् धूमसमीरनीरघटनामात्रे ऽप्य् असारे घने +भूतानां भाविनां वापि यद् अशक्यं महीभुजाम् +तद् इष्टसाहसो राजा कीर्तये कर्तुम् इष्टवान् +कर्तव्यं साहसं यद् यद् उचितं यद् अयं नृपः +कालस्यानवधित्वाच् च विपुलत्वेन च क्षितेः +तत् तत् सम्भाव्य साध्यं स भाविभिर् मेदिनीश्वरैः +दूराद् अब्धिम् इवायातो रत्नेष्व् अधिकदीप्तिषु +साहसेष्व् एकम् आदातुम् अपि प्राप न निश्चयम् +उपचारैर् दरिद्राणां संभवोदारमानसः +न तोषितश् श्रुतै राज्ञाम् अतीतानां च साहसे +अगम्येष्व् अपि भूपालश् शैलेषु च सरस्सु च +शब्देष्व् अर्थेष्व् इव कविस् ततस् समचरन् नृपः +वणिजाम् इव वाक्यानि व्यवहारसमुत्सुकः +राजा नीलपुराणादीन् पण्डितेभ्यस् ततो ऽशृणोत् +चिन्तान्तराणि सन्त्यज्य साहसैकसमुत्सुकः +कदाचिद् धरणीपालश् चिरम् एवम् अचिन्तयत् +"""देहस्येव त्रिलोकस्य मुखवत् क्षितिमण्डलम्" +प्रधानं तत्र कश्मीरमण्डलं नयनं यथा +शैलराजशिखाः पक्ष्मतुलां यत्र वहन्ति ताः +तारामण्डलवत् तत्र महापद्मसरोवरः ९१०अब् +[प्स्-ज्र्त् ११९] शश्वद् उद्भ्रमितो यत्र मैनाकान्वेषणोद्यतः +प्रतिबिम्बफलाद् भाति जाने हिमगिरीश्वरः समुद्रसदृशे यत्र प्रतिबिम्बच्छलाद् रवेः +अन्तह्॒ कृतास्पदो दीप्तो लक्ष्यते वडवानलः ज्र्त्_ब्.११९६अब् +महापद्मास्पदं तत्र ज्योतिर्मण्डलसोदरम् +तद् आपूर्य कथञ्चिच् चेत् कियन्मात्रम् अपि क्रमात् +निर्माणं शक्यते कर्तुं तदा राज्यफलोदयः +अगाधसलिलच्छन्नक्रोशाष्टाविंशतिप्रमः +"सरोराजस् स हि महान् आशयो महताम् अपि""" +विचिन्त्येति स विस्रष्टुं तत्रोपायं सरोवरे +नावास्य गतवान् मध्यं योगीवात्मानम् आत्मना +सदैवोद्धतकल्लोलं महापद्मसरो महत् +नागाहन्त नृपाः पू��्वे तरणीभङ्गशङ्किनः +तपःप्रभावाद् धैर्याद् वा कार्यगौरवतो ऽपि वा +स्थलवत् सलिले तत्र स राजान्वसरत् सुखम् +यच् चेतसा चिरतरं परिचिन्त्यमानं चिन्तामणिह्॒ किल ददाति तद् एव नान्यत् +चित्तस्य चापि यद् अगोचरताम् उपैति तत् तु प्रयच्छतितरां वत बुद्धिरत्नम् +तस्य हि क्षितिपालस्य निरालम्बमतेस् सतः +सरसस् स्थलतां कर्तुम् उपायः प्रत्यभाद् अयम् +"""शिलापूर्णप्रवहणैर् उपर्य् उपरि पातितैः" +शैलशृङ्गैर् इवाम्भोधिम् एतद् आपूरयाम्य् अहम् +कृताभिर् लोहनद्धाभिः पट्टीभिर् देवदारुणः +"न क्लिद्यन्ते ततस् तोये शिलाप्रवहणादिभिः""" +ततः प्रत्यागतो राजा वृद्धान् आबद्धकौतुकः +अभ्यगाच् छरणं तत्र ते चैनं नृपम् अभ्यधुः +"""द्वारिकेव शुभा तस्य पुरी सन्धिमती किल" +सुदर्शनेन चक्रेण मनुजानां समाश्रिता +नगर्या देवता तस्य महापद्मः फणीश्वरः +त्वम् इवैतांश् चतुर्वर्णान् पुत्रवत् पर्यपालयत् +कलिकालबलात् तत्र दुराचारनिषेविणः +जनास् तद्देशवास्तव्याः प्रापुर् वृद्धिं दिनाद् दिनम् +अथ कर्मानुसारेण विपर्यासानुबन्धतः +क्रोधं नागपतिर् यातो दूषणाद् इव सज्जनः +अनुज्झितनिजाचारं कुम्भकारं स कञ्चन +"स्वप्ने ऽवदद् ""दुराचारान् पौरान् मज्जयितास्म्य् अहम्""" +"""नागः प्रजादुराचारात् प्रजा व्रोडयती"" ति तम्" +प्रातर् वदन्तम् अहसन् पौराः पशुम् इवाखिलाः +[प्स्-ज्र्त् १२०] +तदास्तिके कुम्भकारे गते तस्मात् पुराद् द्रुतम् +नागेन्द्रो जलपूरेण सर्वम् अव्रोडयत् पुरम् +यावत् पौराः पुराच् चेलुस् ते सर्वे हरिणा इव तावद् एवाग्रम् आक्रामद् दावाग्निर् इव तज्जलम् +फणाशतोल्लसद्वारिधाराशब्दभयङ्करः +नागराजो ऽथ नगरीं वैरीवावेष्टयज् जलैः +मन्त्रान् पठत्सु विप्रेषु १०जनेषु प्रणमत्स्व् अथ +रुदत्स्व् अपि च बालेषु नास्याभूद् यमवद् दया +भयाद् बालेषु पुत्रेषु कण्ठलग्नेषु योषितः +वाष्पमुक्ताफलैश् चक्रुः पूजां फणिपतेर् इव +पादाद् अङ्कं ततह्॒ कण्ठं ततस् स्कन्धं ततश् शिरः +प्राणा इव सुता जग्मुर् मातॄणां भयविह्वलाः +सर्वाण्य् अङ्गानि नारीणां शृङ्गारीवानुरागवान् +कम्पमानानि लोलस् स जलपूरस् समस्पृशत् +ह्रस्वं दीर्घं च सूक्ष्मं च स्थूलं चाणु महत् तथा +अन्धकार इवाच्छाद्य जलपूरो व्यजृम्भत +अगाधे सलिले तस्मिन् खलस्पर्शासहस् ततः +फणिराजस् स्थितिं चक्रे विपिने सज्जनो यथा +��ालियस् स हि नागेन्द्रः पदाक्रान्तो मुरद्विषा +शिरस्य् उत्पन्नपद्मत्वान् महापद्माभिधां गतः +नष्टान् योजयितुं भूयह्॒ कश्मीरान् इच्छतो हरेः +"अवतारस् त्वम् एतत् ते सिध्यत्य् एव चिकीर्षितम्""" +राजा श्रुत्वेति स स्वप्ने क्षणम् एवम् अचिन्तयत् +"""एवंविधानि कार्याणि सिध्येयुह्॒ कथम् अन्यथा" +प्रजाचारविपर्यासान् नाक्षमिष्ट पुरं फणी +नानिष्टं सहते ऽल्पो ऽपि तादृशस् तु महान् कथम् +नागराजोचितं छत्त्रसगोत्रम् अहम् अत्र तु +स्थलमात्रं यशोरत्नघटिकारभ्यम् आरभे +उल्लोलसरसो मध्ये वर्तमाने महास्थले +"पवित्रे विजने चात्र सिद्धिं यास्यन्ति साधकाः""" +चिन्तयित्वेति भूपालश् शिलाप्रवहणैर् दृढैः +उल्लोलसरसो मध्यम् अप्य् अगाधम् अपूरयत् +सरसस् तु ततस् तस्य स्थलीभूते ऽथ भूपतिः +मध्यदेशे महाराजो जैनलङ्कां विनिर्ममे +अन्ते तस्यैव सरसो राक्षसेन्द्रप्रसादतः +जयापीडमहीपालस् स्थलभावम् अदापयत् +हेमन्ते बिसशृङ्गाटकवुकोद्धरणादिना +श्रीजयापीडकोट्टस्य ज्ञायते ऽगाधवर्तिता +उल्लोलस्यान्तभागेषु सुय्याकुण्डलकादयः +दृश्यन्ते बहवो ग्रामा विशालसदनाङ्किताः +गिरयो ऽपि निमज्जन्ति यत्र तत्र तु स व्यधात् +जैनलङ्कां महाटङ्कां तं निधायाधिकारिणम् +रुय्यभाण्डपतिं शिल्पकौशलाभ्युल्लसन्मतिम् +राजधानीमहाद्वारं नष्टं यो ऽयोजयत् पुनः +हिमाचलशिखादर्पच्छेदप्रासादमेदुरम् +क्रमराज्ये स्फुरद्राज्यस् सुरत्राणपुरं व्यधात् +जैनकोट्टं घट्टितारिर् अट्टशालि समन्ततः +नृत्यत्पट्टपताकान्तकान्तं राजा विनिर्ममे +जीर्णोद्धारेषु सर्वेषु निर्माणेषु नवेषु च +आज्ञा राज्ञो बभौ हेतू रुय्यभाण्डपतेश् च धीः +महापद्मसरस्तीरे जैनोपपदशालिनः +पुरमण्डपिकाघोषांस् तथा श्रीजैनकुण्डलम् +स जैनपत्तनं चापि विदधे धरणीपतिः +[प्स्-ज्र्त् १२१] +कारुण्यात् कीर्तिलोभाच् च स्वयम् एवाथ भूपतिः +वामपर्श्वे गिरौ वारि विस्रष्टुं चिरम् अभ्रमत् +दृष्ट्वा निस्सलिलं शैलं लेदर्यानयनोत्सुकः +अश्रौषीच् छास्त्रवृद्धेभ्यस् तन्मूलम् अमरेश्वरम् +निर्विघ्नं कार्यसिद्ध्यर्थं प्रसादयितुम् ईश्वरम् +आरुरोहामरेशाद्रिम् अभिमानम् इवाथ सः +ते लताभ्य इव म्लेच्छा नागेभ्यश् शङ्कयाकुलाः +नान्योऽयम् इव संलापं तत्र स्वक इव व्यधुः +त्वग्रोगिनाम् इव स्वस्थास् तुरुष्काणां वनस्थिताः +ना���ा दर्शनम् अप्य् अन्तर् नासहन्त कदाचन +धैर्येणोपद्रुतो राजा शुश्रुवान् नासहिष्ट तान् +बालो ऽग्निकणविप्लुष्टः पद्मरागम् इवामलम् +कपीनाम् इव बद्धानां भीतानाम् अपि च ध्रुवम् +म्लेच्छानां च दुराचारचापल्यं विन्यवर्तत +यद् उद्गर्जद्भिर् उद्यद्भिस् सविद्युद्भिर् घनैर् घनैः +कोपेनेवाभवत् तेषु ततह्॒ कालमुखं नभः +कातरेष्व् इव सङ्ग्रामाद् गिरेस् तूर्णपलायिषु +म्लेच्छेषु करकावर्षैर् नष्टधैर्येषु तत्क्षणम् +मानाद् इव कुलीनो ऽथ भक्त्या धैर्याद् अविच्युतः +अवरूढो न शैलेन्द्रात् कश्मीरेन्द्रह्॒ कथञ्चन +मान्त्रिकेष्व् इव मेघेषु गर्जत्सु यवनोरगैः +त्यक्तो निधिर् इव क्ष्मापो देवो नागैर् अशंस्यत +"""निवृत्यताम् इतो देव कार्यसिद्धिर् भविष्यति" +"पूजोपकरणं शम्भोः प्राप्तम् एव विसृज्यताम्""" +स्वप्ने दिव्याकृतेः पुंसश् श्रुत्वेति क्षितिनायकः +सिद्धकार्यस् ततः प्रातह्॒ कश्मीरान्तरम् आविशत् +"""लेदरीं गिरिमार्गेणापय मार्ताण्डपत्तनम्""" +इति राजा समादिक्षद् धार्मिकं शिर्यभट्टकम् +दयालुत्वात् प्रशस्तत्वान् निर्लोभत्वान् महीभुजा +नियुक्तस् स नदीकृष्टाव् अलगद् भट्टशिर्यकः +सो ऽव्याहताज्ञस् सर्वत्र लोकालीपतिभिस् ततः +लोकम् आनाय्य शैलेन्द्रं सरितः पदवीं व्यधात् +अवटेषु शिलाबन्धं निम्नेषु ग्रावपूरणम् +खनीषु कुटिलं मार्गं तस्यास् स सरितो व्यधात् +तटस्थान् पोषयन्त्य् उच्चैः पुरस्ताच्छाखिनस् सरित् +सा तु राजसभेवाथ रभसाद् उदपूरयत् +प्रज्ञेव विदुषस् स्थित्वा चिरं प्रतिपदं सरित् +लोलीकृततरङ्गभ्रूः प्रातिष्ठत शनैश् शनैः +राज्ञस् तपःप्रभावेण भट्टशिर्यनयेन च +प्रजानाम् अपि भाग्येन नास्या विघ्नो ऽभवत् क्वचित् +सा भजन्ती गिरिं क्वापि त्यजन्ती दूरतह्॒ क्वचित् +वप्रात् पररतेवाभूत् सशब्दकलहा सरित् +नवस्य भूमिपालस्य चित्तवृत्तिर् इवाम्भसा +अवटो दक्षिणे नद्या वामे ऽद्रिर् विकटोपलः +पुरस् तुङ्गा च दीर्घा च शिलेति क्वाप्य् अदृश्यत +स्थूलेन गण्डशैलेन पुरतो रुद्धपद्धतिः +न तस्थौ न ययौ कुल्या कामिनीव विमानिता +राज्ञा स्वयम् अथाप्य् अत्र गण्डशैले विदारिते +सरित् तीर्णप्रतिज्ञेन गच्छन्ती क्रमते स्म सा +नद्या व्याक्रष्टुम् इष्टायाश् शिलया मार्गरोधने +मिहिराख्यो नृपह्॒ क्रोधात् स्त्रीलक्षाणि जघान सः +श्रीजैनोल्लाभदीनस् तु सरितो मार्गरोधिनीम् +दारयित्वा शिलां शस्त्रैर् जनतास् समजीवयत् +गिरीशमुकुटभ्रष्टां गङ्गाम् इव भगीरथः +लेदरीम् अब्धिविस्तीर्णां मार्ताण्डक्ष्माम् अवापयत् +मेखलेव गिरेस् तस्य राज्ञह्॒ कीर्तिर् इवामला +भूमेर् मुक्तालतेवासौ सरित् परम् अशोभत +"""समीपस्थो ऽपि मार्ताण्डो न मां शोषयितुं क्षमः""" +इतीव तरलोद्दामा निनादम् अकरोत् सरित् +एकश् श्रीजयनोल्लाभदीनो धर्मपरो नृपः +सरित्प्रवाहकपटाद् इति रेखां विधिर् व्यधात् +ब्रह्मचर्योपतप्तानां स्त्रीसङ्गाद् इव भूरुहाम् +सेकात् सरित्कृतात् तत्र किम् अप्य् उदभवत् सुखम् +दर्शिता वर्तनाभिस् सा गच्छन्ती सुभगं शनैः +सरित् सफेनहसिता मार्ताण्डम् अहसत्तराम् +सूर्यो हारिप्रवाहायां सरिति प्रतिबिम्बितः +मूर्तस् सन्निहितो ज्ञातह्॒ कलाव् अपि चिरं जनैः +ननु दीनान् पालयन्ती नदान् अभिमुखी सती +सरित् प्रसिद्धिम् अगमज् जैनधर्मनदीति सा +सान्द्रं प्रदोषजनितं तिमिरं निवार्य विश्वप्रकाशनपरस्य दिवाकरस्य +आयाति मण्डलतलं स्वयम् एव तेजः श्रेष्ठौषधीश ऋणम् आस्ततरां चिरं यत् +त्रिपञ्चाङ्गमिते वर्षवृन्दे याते कलेह्॒ किल +अथर्वकौशलाद् द्रोणो रणं कुरुबलैर् व्यधात् +कुरुभिर् निहते द्रोणे तदाथर्वा निराश्रयः +शरणीकृतवान् वेदह्॒ कर्णाटान् पटुचेतनान् +शास्त्रेष्व् अथर्ववेदस्य माहात्म्यं परिपश्यताम् +काश्मीरिकाणां तत्प्राप्त्यै चिरम् आसीन् मनोरथः +काले ऽथ विपुले याते सूहभट्टभयाकुलः +युद्धभट्टाभिधो मानी देशान्तरम् अगाद् गुणी +यजुषः पठनात् प्रीतैह्॒ कर्णाटैस् सो ऽथ पाठितः +सरहस्यम् अथर्वाणं निजां प्रत्यागतो भुवम् +श्रीजैनोल्लाभदीनस्य गुणिनो गुणरागिणः +उपदीकृत्य तं वेदं परां तुष्टिम् अजीजनत् +दत्तस्वकीयवस्त्रान्नश् शिर्यभट्टो ऽथ धर्मवित् +तेनैवाथर्ववेदं तं द्विजपुत्रान् अपाठयत् +सा धर्मिष्ठा शालास्य शिर्यभट्टस्य धीमतः +कर्णाटाणाम् अपि परम् अगमत् स्पृहणीयताम् +स्निग्धा विद्युच् छ्रवणमधुरं गर्जितं वृष्टिर् इष्टा छाया भास्वत्क्लमभरहरी मारुतो मन्दमन्दः +वर्षाकालं विधिर् अनुदिनं वर्धयन् स्वैर् गुणौघैर् ग्रीष्मार्तासु प्रथयति दयादक्षिणत्वं प्रजासु +दशाविधुरभावेन विपक्षस्य बलेन वा +दानसंस्कारमानादाव् अनुरूपे पराङ्मुखः +यस्मिन्न् आधमखानाख्ये ज्येष्ठे पुत्रे ऽप��� भूपतिः +अप्रसन्नो विदग्धत्वहीनैस् सम्भावितश् चिरम् +हाज्यखानादिपुत्रेभ्यो विशेषाद् विहितादरः +विभासितस् स राज्ञापि तिलको मधुना यथा +आदौ पादतले सन्तं करालम्बं ततह्॒ कृतम् +यं दर्शनान्तरे च द्राग् उत्तमाङ्गोपरि स्थितम् +अवर्धयत् क्रमाद् एव कलानां निधिम् ईश्वरः +मल्लादर्यावखानस् स सर्वत्राधिकृतह्॒ कृतः +समो वैश्रवणस्यासीद् भट्टवैश्रवणो गुणैः ईश्वरस्य प्रसादेन राजभिर् यद् अवर्त्स्यत +भूपतेह्॒ कोमलकरा मनोज्ञाचरणाञ्चिता +अभिराममहोदन्ता करुणा वल्लभाभवत् +अनिघ्नन् करुणानिघ्नो नरेन्द्रो डोम्बतस्करान् +बन्धयन् निगडैर् गाढं मृत्कर्माकारयत् सदा +निर्दिशन् यशसा शुभ्रा दिशो नृपतिर् आदिशत् +अवधं खगमत्स्यानाम् अनेकेषु सरस्सु सः +अथ जातु हृतां चौरैर् गां परिज्ञाय कञ्चन +क्रन्दन्तं भूमिपः पृच्छंस् चौरांश् चाथाप्य् अढौकयत् +वयोलक्षणसंवादं विना गोर् भुग्नशृङ्गताम् +सभाक्षोभेण हेतुं स सत्यवाग् ब्राह्मणो ऽब्रवीत् +"""तिलकादिवद् एवास्यास् सहजा भुग्नशृङ्गता""" +राज्ञा पृष्टे वदत्य् एवं चौरे मूका सभाभवत् +परीक्षार्थं तिमिस्वेदे राज्ञा गोशृङ्गयोह्॒ कृते +कुटिलत्वं व्यपैति स्म प्राक् चौरस्याथ शृङ्गयोः +एवं बुद्धिप्रकर्षेण व्यवहारविमर्शतः +अमात्यपर्षदो हर्षचित्तोत्कर्षम् अजीजनत् +प्राड्विवाकह्॒ क्षमाबुद्धिर् युक्तदण्डत्वरञ्जकः +राज्ञो ऽवहत् प्रजाभारं गणनापतिगौरकः +यैर् दत्तम् उपकारित्वाद् उत्कोचद्रविणं स्वयम् +कालान्तरे कृतघ्नेषु तेष्व् एवास्थानमण्डपे +प्रकाशयत्सु तद्दानं कुपितेन महीभुजा +मौलानो मल्ल एसाकस् तेभ्यस् तत् प्रतिदापितः +आदौ पादतले तिष्ठन् करालम्बीकृतस् ततः +अथ चक्षुष्यतां गच्छन्न् उत्तमाङ्गोर्ध्ववर्तिताम् +क्रीतो दर्यावखानो ऽथ कृतज्ञेनेश्वरेण सः +कलानिधिर् हिमरुचिह्॒ कौमुदीं हि ततो वहन् +दिनपतिर् न रसातलगं तमश् शमयितुं यतते यद् अवेक्ष्य सः +अतिवलद्रुचि कालघनावृतेर् हरति तत्प्रतिबिम्बम् अहो जगत् +राजा भूभारखिन्नो ऽपि खड्गधाराध्वगो ऽपि सन् +स्वदत्तं विभवं यस्य दृष्ट्वा विश्रामम् आप्तवान् +अस्तं मह्मदखानस् स कलानिधिर् अथागमत् +अत्यन्तरमणीयानां सुचिरस्थायिता कुतः +प्रत्यब्दं प्रतिहार्याद्यैर् यो व्यधात् प्रीतिम् अर्थिनाम् +सत्यव्रतो दिवम् अगान् महिमश्रीस् स ठक्कुरः +तद��गोत्रजेभ्यस् स किलागूढं तस्य वधं व्यधात् +यो दूत्यच्छलतो राज्ञा स्वदेशान् निरवास्यत +राज्ञस् सैन्धवशुल्कादिस्थाने सोन्ध्याभिधे पुरे +प्रत्यागतस् स तीर्थाध्वखिन्नो विन्नो दिवं ययौ +राज्ञो धर्माधिकारेषु प्रत्यवेक्षापरस् सदा +महाश्रीशिर्यभट्टो ऽपि तस्मिन् काले दिवं ययौ +गतेष्व् अप्य् एषु धर्मो ऽस्य राज्ञो नैवाल्पतां गतः +क्ष्मां दधानस्य शेषस्य दिग्गजा हि परिच्छदः +एकाह एव दीन्नारकोटिर् एका महीभुजा +बालेभ्य एव दत्तासीज् जय्यभट्टमुखेन यत् +अद्भूतानां पदार्थानां तद्राज्ये सङ्ग्रहो ऽभवत् +नारायणावतारो ऽयं ज्ञायेत कथम् अन्यथा +येषां हिमांशुपीयूषप्रवाहा नित्यभिक्षवः +इक्षवस् तेन मार्ताण्डदेशभूमिषु रोपिताः +त्यजता योगमाहात्म्याद् वलीपलितविक्रियाम् +श्रीजैनोल्लाभदेनेन विबुधत्वं प्रकाशितम् +उदीपे सस्यसम्पत्तेर् उपप्लवकरीं व्यधात् +तूलमूलाद् अपाकृष्य सिन्धुं भारोसगामिनीम् +[प्स्-ज्र्त् १२२] +पूर्वाब्दतिथिवारर्क्षसङ्क्रान्त्याद्येकसाधनः +तिथिवारर्क्षसङ्क्रान्तीर् भाविन्यब्दे क्षणाल् लिखन् +तद्राज्ये रुय्यभट्टो ऽभूद् राजवाल्लभ्यविश्रुतः +अनादरं खण्डखाद्ये कारयन् गणितागमे +चन्द्रे ऽस्तं गत एव दैववशतश् शोकाग्निशान्त्यै निशा तत्कान्ता रविकान्तवह्निम् उदयात् कष्टं प्रविष्टा सती +द्याम् आरुह्य तदीयधूमकपटात् प्राप्ता पुनस् तन्महो यत् सो ऽयं ग्रहराजपादमहिमप्राप्तः प्रसादोदयः +ऋतुपतिश् शिशिरेण समत्सरो ऽप्य् अतिविरुद्धकरो न हितस् स्थितः +यदि भुवं शिशिरो न विनाशयेत् किम् इव नाम मधुर् वत योजयेत् +सूहभट्टो ऽथ शास्त्रार्थमण्डितो ऽप्य् अथ पण्डितः +दर्शनद्वेषतः प्रेतदाहं वत निषिद्धवान् +प्रेतदेहास् तदा केचित् त्यक्ता गूढं जलान्तरे +अरण्ये केचन त्यक्ता निखाता बन्धुभिः परे +कालधर्मम् उपेते ऽथ सूहभट्टे शनैश् शनैः +प्रजा वीतभया कांश्चित् प्रेतान् गूढम् अदाहयन् +दोषान् दृष्ट्वा स्वयं राज्ञा सैदमक्के निराकृते +अदहन् प्रकटं प्रेतदेहान् अहनि बान्धवाः +अथानुसरणात् पत्न्यः पत्युस् सुकृतशालिनः +स्वर्गाङ्गनाङ्गसंसर्गात् पुण्यक्षयम् अवारयन् +भोक्तुं राज्यं पैतृकं तद् धात्रा दत्तं सठक्कुरः +जयनोल्लाभदीनो ऽसौ कश्मीरान् प्रत्युपाययौ +हतानां वसुवासोऽस्त्रशिरस्त्रादि प्रगृह्य तत् +सदनं सधनं जस्सरथो ऽप्य् आगाद् विमुच्यताम् +शुक्ले शुक्ले ब्रह्मणो ऽह्नि रसाङ्के ऽब्दे शशाङ्कगे +जयनोल्लाभदीनो ऽसौ राजधानीं विवेश सः +दानातकथनेशस्य तनूजाय हनूमते +सर्वस्वकर्षणग्रामाधिपत्यं प्रददौ नृपः +मेरकाय ददौ भूभृद् आस्थानासनसंविदम् +कर्तुं विचारदक्षाय सत्यासत्यपरीक्षणम् +विवृद्धयवनाधिकारवरविप्रवीरैर् विटैर् भट्टैह्॒ कुटिलवर्त्मगैर् मथितमोहिताश् च प्रजाः +सुरेज्यधिषणं विचारचतुरं परं ठक्कुरं निरीक्ष्य युयुजे विचारपदनिर्णये मेरकम् +सेनाधिपत्यं वीराय ठक्कुरायोग्रतेजसे +विन्नकपरमल्लेकनौरुजाय ददौ नृपः +लेदर्यां सव्यपारं सताजराजाय सो ऽदिशत् +मल्लेशराजाय ददौ महाग्रामपरम्पराम् +विषयं देयनिर्मुक्तं नृपो ऽप्य् अर्धवनाभिधम् +आदमाख्याय स ददौ महाविक्रमशालिने +प्रवरेशपुराधीशत्वं परं परमेश्वरः +वीराय मार्गपतये मह्मदाख्याय धीमते +भाङ्गिलविषयं भूभृत् स तुलायां ददौ नृपः +तस्यानुजान् मार्गपतींस् ताजकप्रमुखान् बहून् +पञ्चग्रामीं महार्घांश् च दत्त्वाश्वान् समतूतुषत् +श्रीजाकोट्टाधिपत्यं च मेरेष्कारपदं ददौ +ठक्कुरायाह्मदाख्याय महाग्रामांश् च पत्तलाम् ठक्कुरेभ्यो ऽपरेभ्यो ऽसाव् अपि मान्यतया समम् महाग्रामसहस्राणि यथेष्टं प्रददौ नृपः