diff --git "a/sankalpakalpadruma_clean.csv" "b/sankalpakalpadruma_clean.csv" new file mode 100644--- /dev/null +++ "b/sankalpakalpadruma_clean.csv" @@ -0,0 +1,656 @@ +id,sanskrit,sanskrit_devanagari +skd_1,"Jīvagosvāmin: Saṃkalpakalpadruma # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_jIvagosvAmin-saMkalpakalpadruma.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: n.n. ## Contribution: n.n. ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Saṃkalpakalpadruma = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from jivskd_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Jiva Gosvamin: Samkalpakalpadruma Input by ... ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text śrī-kṛṣṇa kṛṣṇa-caitanya sa-sanātana-rūpaka | gopāla raghunāthāpta vraja-vallabha pāhi mām","जीवगोस्वामिन्: संकल्पकल्पद्रुम # हेअदेर् थिस् फ़िले इस् अ प्लैन् तेxत् त्रन्स्फ़ोर्मतिओन् ओफ़् ह्त्त्प्://ग्रेतिल्.सुब्.उनि-गोएत्तिन्गेन्.दे/ग्रेतिल्/चोर्पुस्तेइ/स_जिवगोस्वमिन्-सम्कल्पकल्पद्रुम.xम्ल् wइथ् अ रुदिमेन्तर्य् हेअदेर्. फ़ोर् अ मोरे एxतेन्सिवे हेअदेर् प्लेअसे रेफ़ेर् तो थे सोउर्चे फ़िले. ## दत एन्त्र्य्: न्.न्. ## चोन्त्रिबुतिओन्: न्.न्. ## दते ओफ़् थिस् वेर्सिओन्: २०२०-०७-३१ ## सोउर्चे: - . ## पुब्लिस्हेर्: ग्öत्तिन्गेन् रेगिस्तेर् ओफ़् एलेच्त्रोनिच् तेxत्स् इन् इन्दिअन् लन्गुअगेस् (ग्रेतिल्), सुब् ग्öत्तिन्गेन् ## लिचेन्चे: थिस् ए-तेxत् wअस् प्रोविदेद् तो ग्रेतिल् इन् गोओद् फ़ैथ् थत् नो चोप्य्रिघ्त् रिघ्त्स् हवे बेएन् इन्फ़्रिन्गेद्. इफ़् अन्योने wइस्हेस् तो अस्सेर्त् चोप्य्रिघ्त् ओवेर् थिस् फ़िले, प्लेअसे चोन्तच्त् थे ग्रेतिल् मनगेमेन्त् अत् ग्रेतिल्(अत्)सुब्(दोत्)उनि-गोएत्तिन्गेन्(दोत्)दे. थे फ़िले wइल्ल् बे इम्मेदिअतेल्य् रेमोवेद् पेन्दिन्ग् रेसोलुतिओन् ओफ़् थे च्लैम्. दिस्त्रिबुतेद् उन्देर् अ च्रेअतिवे चोम्मोन्स् अत्त्रिबुतिओन्-नोन्चोम्मेर्चिअल्-स्हरेअलिके ४.० इन्तेर्नतिओनल् लिचेन्से. ## स्त्रुच्तुरे ओफ़् रेफ़ेरेन्चेस्: अ रेफ़ेरेन्चे इस् अस्सेम्ब्लेद् चोन्सिस्तिन्ग् ओफ़् - अ प्रग्मतिच् अब्ब्रेविअतिओन् ओफ़् थे तित्ले: संकल्पकल्पद्रुम = , - थे नुम्बेर् ओफ़् थे इन् अरबिच् नुमेरल्स्, - थे नुम्बेर् ओफ़् थे वेर्से इन् अरबिच् नुमेरल्स्. ## नोतेस्: थिस् फ़िले हस् बेएन् च्रेअतेद् ब्य् मस्स् चोन्वेर्सिओन् ओफ़् ग्रेतिल्ऽस् सन्स्क्रित् चोर्पुस् फ़्रोम् जिव्स्क्द्_उ.ह्त्म्. दुए तो थे हेतेरोगेनेइत्य् ओफ़् थे सोउर्चेस् थे हेअदेर् मर्कुप् मिघ्त् बे सुबोप्तिमल्. फ़ोर् थे सके ओफ़् त्रन्स्परेन्च्य् थे हेअदेर् ओफ़् थे लेगच्य् फ़िले इस् दोचुमेन्तेद् इन् थे नोते एलेमेन्त् बेलोw: जिव गोस्वमिन्: सम्कल्पकल्पद्रुम इन्पुत् ब्य् ... ## रेविसिओन्स्: - २०२०-०७-३१: तेइ एन्चोदिन्ग् ब्य् मस्स् चोन्वेर्सिओन् ओफ़् ग्रेतिल्ऽस् सन्स्क्रित् चोर्पुस् # तेxत् श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक । गोपाल रघुनाथाप्त व्रज-वल्लभ पाहि माम्" +skd_10,2 nanda-nandana ity uktas trailokyānanda-vardhanaḥ | anādi-janma-siddhānāṃ gopīnāṃ patir eva yaḥ3 ||2 navīna-nīrada-śyāmaṃ taṃ rājīva-vilocanam | vallavī-nandanaṃ vande kṛṣṇaṃ gopāla-rūpinam ||3 4 vṛndāraṇye jaran jīvaḥ kaścit prāha manaḥ prati | mriyase sāmprataṃ5 mūḍhaḥ gūḍhām etāṃ sudhāṃ piba ||4 tāṃ pibann eva he svānta svaṃ ca gokula-saṅgatam | sevāṃ ca vāñchitāṃ kāñcid bhāva-bhedena bhāvaya ||5 maṅgalaḥ sarva-lokānāṃ gopa-kṣauṇībhṛd-aṅgajaḥ | bhavyaṃ pallavayan pāyād vallavī-jana-vallabhaḥ ||6 aho bakīty6 ādikīrtiḥ kṛṣṇas tu bhagavān svayam |7 asti yas tasya pitrāditayā citrāya k ptavān ||7 stutas tad bhūribhāgyeti8 tathā cetthaṃ satām iti9 | nemaṃ viriñca ity10evaṃ nāyaṃ śriya iti11 vrajaḥ ||8 yas taṃ ko vāśrayen nātra kṣitāv indriyavān naraḥ | tasmād bhrātar nija-trātaḥ svānta svāntas tam āśraya ||9 upadeśaṃ deśa-rūpaṃ mama mānaya mānasa | sudhā-dhārā-dharaḥ so'yaṃ kalpaḥ syāt kalpa-bhūruhaḥ,२ नन्द-नन्दन इत्य् उक्तस् त्रैलोक्यानन्द-वर्धनः । अनादि-जन्म-सिद्धानां गोपीनां पतिर् एव यः३ ॥२ नवीन-नीरद-श्यामं तं राजीव-विलोचनम् । वल्लवी-नन्दनं वन्दे कृष्णं गोपाल-रूपिनम् ॥३ ४ वृन्दारण्ये जरन् जीवः कश्चित् प्राह मनः प्रति । म्रियसे साम्प्रतं५ मूढः गूढाम् एतां सुधां पिब ॥४ तां पिबन्न् एव हे स्वान्त स्वं च गोकुल-सङ्गतम् । सेवां च वाञ्छितां काञ्चिद् भाव-भेदेन भावय ॥५ मङ्गलः सर्व-लोकानां गोप-क्षौणीभृद्-अङ्गजः । भव्यं पल्लवयन् पायाद् वल्लवी-जन-वल्लभः ॥६ अहो बकीत्य्६ आदिकीर्तिः कृष्णस् तु भगवान् स्वयम् ।७ अस्ति यस् तस्य पित्रादितया चित्राय क् प्तवान् ॥७ स्तुतस् तद् भूरिभाग्येति८ तथा चेत्थं सताम् इति९ । नेमं विरिञ्च इत्य्१०एवं नायं श्रिय इति११ व्रजः ॥८ यस् तं को वाश्रयेन् नात्र क्षिताव् इन्द्रियवान् नरः । तस्माद् भ्रातर् निज-त्रातः स्वान्त स्वान्तस् तम् आश्रय ॥९ उपदेशं देश-रूपं मम मानय मानस । सुधा-धारा-धरः सोऽयं कल्पः स्यात् कल्प-भूरुहः +skd_11,mūlaṃ janmādi-līlāsya skandhaḥ syān nitya-līlatā | śākhās tat-tad-ṛtu-ślokāḥ phalaṃ premamayī sthitiḥ,मूलं जन्मादि-लीलास्य स्कन्धः स्यान् नित्य-लीलता । शाखास् तत्-तद्-ऋतु-श्लोकाः फलं प्रेममयी स्थितिः +skd_12,atha mahā-kulakena janmādi-līlā || yas tantramantrayor guptam uktaḥ śrīnandanandanaḥ | tadrūpatāṃ nijāṃ vyāñjīt kutaścit kutukād bhuvi,अथ महा-कुलकेन जन्मादि-लीला ॥ यस् तन्त्रमन्त्रयोर् गुप्तम् उक्तः श्रीनन्दनन्दनः । तद्रूपतां निजां व्याञ्जीत् कुतश्चित् कुतुकाद् भुवि +skd_13,yaḥ prāg iti12 hi padyābhyāṃ nandātmajatayā svataḥ | vāsudevatayā kāryavaśād gargeṇa niścitaḥ,यः प्राग् इति१२ हि पद्याभ्यां नन्दात्मजतया स्वतः । वासुदेवतया कार्यवशाद् गर्गेण निश्चितः +skd_14,"śrī-śrī-rādhā-kṛṣṇābhyāṃ namaḥ; 2. gcp 1v1; 3. gautt. 2.24; there: aneka-janma-śuddhānām, gcp 15.72 aneka-janma-siddhānāṃ; not found; mriyate 'sāmpratam; 6, .23; 7. .28||; 8. .34||; 9. .11; 10. .20; 11. .60; 12. .14 yaḥ śrī-nanda-yaśodāntar-hṛdi sphūrtiṃ gatas tataḥ | udyaṃś cakre dugdha-sindhor indor janma-viḍambanam","श्री-श्री-राधा-कृष्णाभ्यां नमः; २. ग्च्प् १व्१; ३. गौत्त्. २.२४; थेरे: अनेक-जन्म-शुद्धानाम्, ग्च्प् १५.७२ अनेक-जन्म-सिद्धानां; नोत् फ़ोउन्द्; म्रियते ऽसाम्प्रतम्; ६, .२३; ७. .२८॥; ८. .३४॥; ९. .११; १०. .२०; ११. .६०; १२. .१४ यः श्री-नन्द-यशोदान्तर्-हृदि स्फूर्तिं गतस् ततः । उद्यंश् चक्रे दुग्ध-सिन्धोर् इन्दोर् जन्म-विडम्बनम्" +skd_15,yaḥ sarva-rddhi-vrajaṃ nanda-vrajaṃ svaṃ janma-mātrataḥ | ramāṇāṃ jāyamānānām ārāmaṃ1 dhāma nirmame,यः सर्व-र्द्धि-व्रजं नन्द-व्रजं स्वं जन्म-मात्रतः । रमाणां जायमानानाम् आरामं१ धाम निर्ममे +skd_16,yaḥ sva-mādhurya-pīyūṣaṃ sampūrya2 pariveśayan | jigāya mohinī-rūpaṃ kṣīra-nīradhi-tīragam,यः स्व-माधुर्य-पीयूषं सम्पूर्य२ परिवेशयन् । जिगाय मोहिनी-रूपं क्षीर-नीरधि-तीरगम् +skd_17,yaḥ kṛpāṃ janmanā vyañjan pūtanām api pūtatām | nītāṃ dhātrī-gatiṃ sphītāṃ cākārṣīn nūtanārbhakaḥ,यः कृपां जन्मना व्यञ्जन् पूतनाम् अपि पूतताम् । नीतां धात्री-गतिं स्फीतां चाकार्षीन् नूतनार्भकः +skd_18,3 yaḥ komala-padāgreṇa śakaṭaṃ tad viśaṅkaṭam | sva-jyotsnāvaraṇaṃ matvā cikṣepākṣepavān iva,३ यः कोमल-पदाग्रेण शकटं तद् विशङ्कटम् । स्व-ज्योत्स्नावरणं मत्वा चिक्षेपाक्षेपवान् इव +skd_19,yaḥ pūjita-pada-kṣepa-kūjita-smita-rociṣām | śobhayā lobhayāmāsa bālikāḥ kula-pālikāḥ,यः पूजित-पद-क्षेप-कूजित-स्मित-रोचिषाम् । शोभया लोभयामास बालिकाः कुल-पालिकाः +skd_20,yaḥ sva-nāmādyam āsādya gargād vargān nijān anu | harṣaṃ vavarṣa nyag jalpann om itthaṃ somajin-mukhaḥ,यः स्व-नामाद्यम् आसाद्य गर्गाद् वर्गान् निजान् अनु । हर्षं ववर्ष न्यग् जल्पन्न् ॐ इत्थं सोमजिन्-मुखः +skd_21,yas tṛṇāvartam āsādya sadyaḥ saṃvarta-vartanam | saṃvartayaṃs tam āninye viparīta-parītatām,यस् तृणावर्तम् आसाद्य सद्यः संवर्त-वर्तनम् । संवर्तयंस् तम् आनिन्ये विपरीत-परीतताम् +skd_22,yaḥ śrī-rāmaṃ nijārāmaṃ saṅgacchann accha-khelayā | bālān ānandayan nanda-rāja-keśari-nandanaḥ,यः श्री-रामं निजारामं सङ्गच्छन्न् अच्छ-खेलया । बालान् आनन्दयन् नन्द-राज-केशरि-नन्दनः +skd_23,yaḥ puṇḍraṃ rocanārucyaṃ kañcukaṃ kāñcana-prabham | dadhan mātus tat tadāsīd utsaṅgasī yad ājani,यः पुण्ड्रं रोचनारुच्यं कञ्��ुकं काञ्चन-प्रभम् । दधन् मातुस् तत् तदासीद् उत्सङ्गसी यद् आजनि +skd_24,yaḥ kurvan kardama-krīḍāṃ nirvyājam anayā dhṛtaḥ | dvayoḥ sukhena duḥkhena snigdhān digdhān vinirmame,यः कुर्वन् कर्दम-क्रीडां निर्व्याजम् अनया धृतः । द्वयोः सुखेन दुःखेन स्निग्धान् दिग्धान् विनिर्ममे +skd_25,yaḥ samaṃ sahajātena raṅgann aṅgaṇa-kardame | kiñcit kātara-dhīḥ paśyan mātaraṃ drutam īyivān4,यः समं सहजातेन रङ्गन्न् अङ्गण-कर्दमे । किञ्चित् कातर-धीः पश्यन् मातरं द्रुतम् ईयिवान्४ +skd_26,yas tayāliṅgitaḥ sā smitaṃ stanyam ananya-dhīḥ | apāyi suṣṭhu cāpyāyi smitaṃ bibhrad udaikṣi ca,यस् तयालिङ्गितः सा स्मितं स्तन्यम् अनन्य-धीः । अपायि सुष्ठु चाप्यायि स्मितं बिभ्रद् उदैक्षि च +skd_27,yas tadā mātur āninye sarvaṃ vismṛti-vismṛtam | vadann iva sa5saṃmugdha-bāla-siṃhāvalokanaḥ,यस् तदा मातुर् आनिन्ये सर्वं विस्मृति-विस्मृतम् । वदन्न् इव स५संमुग्ध-बाल-सिंहावलोकनः +skd_28,yas tadā mṛttikāṃ bhakṣann alakṣyam anayā dhṛtaḥ | dayayā kiṃ bhayād asyās trātaḥ srāg yoga-māyayā,यस् तदा मृत्तिकां भक्षन्न् अलक्ष्यम् अनया धृतः । दयया किं भयाद् अस्यास् त्रातः स्राग् योग-मायया +skd_29,yaḥ śrī-rāmānvayī kāmān nanāṭa saha-pāṭavam6 | vṛddhānāṃ sukham ṛddhānāṃ kurvāṇas tāla-pālanam,यः श्री-रामान्वयी कामान् ननाट सह-पाटवम्६ । वृद्धानां सुखम् ऋद्धानां कुर्वाणस् ताल-पालनम् +skd_30,yaḥ krīṇan kara-vibhraṣṭa-mūlyatve 'py amitaṃ phalam | phalāny ananyalabhyoani dade vikrīṇatīṃ prati,यः क्रीणन् कर-विभ्रष्ट-मूल्यत्वे ऽप्य् अमितं फलम् । फलान्य् अनन्यलभ्योअनि ददे विक्रीणतीं प्रति +skd_31,oṃ mārāmaṃ; sarvatra; 3. this verse missing from (b); iyivān; suo; sahapāṭavaḥ yas tarṇakān purā muñcann añcan bāla-balānvitaḥ | dohānukaraṇaṃ kurvan sukha-dohāya k ptavān,ॐ मारामं; सर्वत्र; ३. थिस् वेर्से मिस्सिन्ग् फ़्रोम् (ब्); इयिवान्; सुओ; सहपाटवः यस् तर्णकान् पुरा मुञ्चन्न् अञ्चन् बाल-बलान्वितः । दोहानुकरणं कुर्वन् सुख-दोहाय क् प्तवान् +skd_32,yaḥ karṣann api vatsasya pucchaṃ saṅkarṣaṇānvitaḥ | tena karṣaṃ vrajan bhrātṛ-bhāyābhiḥ paryahasyata,यः कर्षन्न् अपि वत्सस्य पुच्छं सङ्कर्षणान्वितः । तेन कर्षं व्रजन् भ्रातृ-भायाभिः पर्यहस्यत +skd_33,yaḥ kurvann api gavyānāṃ cauryaṃ bhavyāya didyute | yasya tābhir vivādaś ca sukha-saṃvāda-siddhaye,यः कुर्वन्न् अपि गव्यानां चौर्यं भव्याय दिद्युते । यस्य ताभिर् विवादश् च सुख-संवाद-सिद्धये +skd_34,yaḥ svaṃ dāmodaraṃ śrṇvan sāmoda-vrīḍam añcati | prasū-śikṣāmaya-snehād bālya1svehāntarād api,यः स्वं दामोदरं श्र्ण्वन् सामोद-व्रीडम् अञ्चति । प्रसू-शिक्षामय-स्नेहाद् बाल्य१स्वेहान्तराद् अपि +skd_35,yaḥ suṣṭhu khelayāviṣṭaḥ sva-mātrā praṇayān muhuḥ | kṛṣṇa kṛṣṇāravindākṣety2 āhūto 'py āśu nāyayau,यः सुष्ठु खेलयाविष्टः स्व-मात्रा प्रणयान् मुहुः । कृष्ण कृष्णारविन्दाक्षेत्य्२ आहूतो ऽप्य् आशु नाययौ +skd_36,yaḥ śrī-vṛndāvanaṃ prāñcan bhrātrā saha vanāspadam | hāsayan bhāsayāmāsa3 mātarau yātarau mithaḥ,यः श्री-वृन्दावनं प्राञ्चन् भ्रात्रा सह वनास्पदम् । हासयन् भासयामास३ मातरौ यातरौ मिथः +skd_37,yaḥ śrī-vṛndāvane labdhe prārabdha-krīḍam anvabhūt | rāma-dāmādibhiḥ sakhyaṃ tat-prakhyaṃ bhramarādibhiḥ,यः श्री-वृन्दावने लब्धे प्रारब्ध-क्रीडम् अन्वभूत् । राम-दामादिभिः सख्यं तत्-प्रख्यं भ्रमरादिभिः +skd_38,yaḥ śrī-rāmeṇa tatrāpi vīkṣya prītim agāt parām | vṛndāvanaṃ govardhanaṃ yamunā-pulināni ca4,यः श्री-रामेण तत्रापि वीक्ष्य प्रीतिम् अगात् पराम् । वृन्दावनं गोवर्धनं यमुना-पुलिनानि च४ +skd_39,yaḥ prāpta-madhya-kaumāraḥ pitrā sārdhaṃ vanaṃ vrajan | pṛcchan nāmāni dhāmāni paśyan mudam avāptavān,यः प्राप्त-मध्य-कौमारः पित्रा सार्धं वनं व्रजन् । पृच्छन् नामानि धामानि पश्यन् मुदम् अवाप्तवान् +skd_40,yaḥ krīḍan śiśur avrīḍam agrajena vrajendrajaḥ | jalpājalpi mithaś cakre hastāhasti padāpadi,यः क्रीडन् शिशुर् अव्रीडम् अग्रजेन व्रजेन्द्रजः । जल्पाजल्पि मिथश् चक्रे हस्ताहस्ति पदापदि +skd_41,yaś cārayan nijān vatsān vatsakaṃ nāma dānavam | bakaṃ bakavad-ākāraṃ dārayan muktam ārdayat,यश् चारयन् निजान् वत्सान् वत्सकं नाम दानवम् । बकं बकवद्-आकारं दारयन् मुक्तम् आर्दयत् +skd_42,yaḥ svair viharaṇaṃ cakre meṣī-haraṇa-saṃjñitam | vyomaṃ ca vyomatāṃ ninye kurvantaṃ pratilomatām,यः स्वैर् विहरणं चक्रे मेषी-हरण-संज्ञितम् । व्योमं च व्योमतां निन्ये कुर्वन्तं प्रतिलोमताम् +skd_43,yaḥ kurvaṃs tam aghaṃ khaṇḍaṃ vidher agham ataḥ param | ninye sva-jyotiṣi prāñcaṃ tad arvāg bhakti-tejasi,यः कुर्वंस् तम् अघं खण्डं विधेर् अघम् अतः परम् । निन्ये स्व-ज्योतिषि प्राञ्चं तद् अर्वाग् भक्ति-तेजसि +skd_44,yaḥ kaumāram atikramya ramya-paugaṇḍa-maṇḍanaḥ | cakre gopālatāṃ gacchan loka-pālaka-pālatām,यः कौमारम् अतिक्रम्य रम्य-पौगण्ड-मण्डनः । चक्रे गोपालतां गच्छन् लोक-पालक-पालताम् +skd_45,yaḥ kāla-kūṭa-niṣpiṣṭa-cetanān vraja-ketanān | cetayāmāsa kṛpayā locanāmṛta-vṛṣṭibhiḥ,यः काल-कूट-निष्पिष्ट-चेतनान् व्रज-केतनान् । चेतयामास कृपया लोचनामृत-वृष्टिभिः +skd_46,yaḥ kāliyam api vyaktaṃ nijāṅghri-yuga-mudrayā | vyañjan mameti śaraṇāgatān anyān arañjayat,यः कालियम् अपि व्यक्तं निजाङ्घ्रि-युग-मुद्रया । व्यञ्जन् ममेति शरणागतान् अन्यान् अरञ्जयत् +skd_47,yaḥ śukena vraja-premāspadatvenettham īritaḥ | kṛṣṇe 'rpitātma-suhṛd ity ādi procya praśocya ca,यः शुकेन व्रज-प्रेमास्पदत्वेनेत्थम् ईरितः । कृष्णे ऽर्पितात्म-सुहृद् इत्य् आदि प्रोच्य प्रशोच्य च +skd_48,bālyaṃ; 2. .15; bhāṣayāmāsa; 4. .36 ābāla-vṛddha-vanitāḥ sarve 'ṅga1 paśu-vṛttayaḥ | nirjagmur gokulād dīnāḥ kṛṣṇa-darśana-lālasāḥ,बाल्यं; २. .१५; भाषयामास; ४. .३६ आबाल-वृद्ध-वनिताः सर्वे ऽङ्ग१ पशु-वृत्तयः । निर्जग्मुर् गोकुलाद् दीनाः कृष्ण-दर्शन-लालसाः +skd_49,22 yas tasmin sambhrame rodhān niṣkrame3 vraja-kanyakāḥ | mene tāḥ prathamaṃ paśyan svaṃ kṛtārthaṃ kṛtāv iha,२२ यस् तस्मिन् सम्भ्रमे रोधान् निष्क्रमे३ व्रज-कन्यकाः । मेने त��ः प्रथमं पश्यन् स्वं कृतार्थं कृताव् इह +skd_50,yas tadā dahanaṃ goṣṭha-premnākṛṣṭa-vivecanaḥ | premnas tasya parīkṣārtham iva drāg apibat prabhuḥ,यस् तदा दहनं गोष्ठ-प्रेम्नाकृष्ट-विवेचनः । प्रेम्नस् तस्य परीक्षार्थम् इव द्राग् अपिबत् प्रभुः +skd_51,yaḥ sparśād anṛtīkurvan viṣaṃ viṣadharaṃ ca tam | svāśritān amṛtīkartuṃ kṛtī kaimutyam aikṣayat,यः स्पर्शाद् अनृतीकुर्वन् विषं विषधरं च तम् । स्वाश्रितान् अमृतीकर्तुं कृती कैमुत्यम् ऐक्षयत् +skd_52,tas tu bhāṇḍīram āsādya malla-tāṇḍavam ācaran | subhadra-4maṇḍalī-bhadra-bhadravardhana-gobhaṭāḥ,तस् तु भाण्डीरम् आसाद्य मल्ल-ताण्डवम् आचरन् । सुभद्र-४मण्डली-भद्र-भद्रवर्धन-गोभटाः +skd_53,yakṣendra-bhaṭa ity5 evaṃ k pta-saṅgaiḥ kumārakaḥ | savayobhiḥ sukhaṃ lebhe yatra kāścit kumārikāḥ,यक्षेन्द्र-भट इत्य्५ एवं क् प्त-सङ्गैः कुमारकः । सवयोभिः सुखं लेभे यत्र काश्चित् कुमारिकाः +skd_54,gopālī pālikā dhanyā viśākhā dhyāna-niṣṭhikā6 | rādhānurādhā somābhā tārakā daśamī tathā7,गोपाली पालिका धन्या विशाखा ध्यान-निष्ठिका६ । राधानुराधा सोमाभा तारका दशमी तथा७ +skd_55,kautukāya gatā yāsu mallī mallīti narma-kṛt | madhvājya-nibham āsvādya yābhiḥ k ptaṃ sma mādyati,कौतुकाय गता यासु मल्ली मल्लीति नर्म-कृत् । मध्वाज्य-निभम् आस्वाद्य याभिः क् प्तं स्म माद्यति +skd_56,yaḥ kāmye kāmyake gatvā saraḥ sāgara-sannibhaṃ | laṅkākalpākṛtākalpaṃ nityaṃ dīvyati saṅgibhiḥ,यः काम्ये काम्यके गत्वा सरः सागर-सन्निभं । लङ्काकल्पाकृताकल्पं नित्यं दीव्यति सङ्गिभिः +skd_57,yaḥ kaiśoraṃ tataḥ sajjan vasantam iva ṣaṭpadaḥ | lolayann ātmanaś cittaṃ lolayāmāsa padminīḥ,यः कैशोरं ततः सज्जन् वसन्तम् इव षट्पदः । लोलयन्न् आत्मनश् चित्तं लोलयामास पद्मिनीः +skd_58,yas tā vraja-ramā nitya-preyasīḥ kutukātmanā | līlā-śaktyānyathā-bhānaṃ nītā guptam arañjayat,यस् ता व्रज-रमा नित्य-प्रेयसीः कुतुकात्मना । लीला-शक्त्यान्यथा-भानं नीता गुप्तम् अरञ्जयत् +skd_59,yaḥ śrī-rāmeṇa dhenūnāṃ rakṣāyāṃ dhenukāsuram | nighnan vighnam apākārṣīd akārṣīd abhayaṃ divi,यः श्री-रामेण धेनूनां रक्षायां धेनुकासुरम् । निघ्नन् विघ्नम् अपाकार्षीद् अकार्षीद् अभयं दिवि +skd_60,yaś cakre dhenum ādāya sāyaṃ vrajam upāgataḥ | pūrva-rāgaṃ kiśorīṇām apūrvaṃ vyativīkṣayā,यश् चक्रे धेनुम् आदाय सायं व्रजम् उपागतः । पूर्व-रागं किशोरीणाम् अपूर्वं व्यतिवीक्षया +skd_61,yaḥ pūrvaṃ lajjayā dūta-kāma-lekhādy-upāyatām | vijahan nija-netrāntaṃ ninye nūtana-dūtatām,यः पूर्वं लज्जया दूत-काम-लेखाद्य्-उपायताम् । विजहन् निज-नेत्रान्तं निन्ये नूतन-दूतताम् +skd_62,yas tāsu sphuṭam āsajya virajya laghu sarvataḥ | tad-aṅga-saṅga-bhikṣārthaṃ veṇu-śikṣām asādhayat,यस् तासु स्फुटम् आसज्य विरज्य लघु सर्वतः । तद्-अङ्ग-सङ्ग-भिक्षार्थं वेणु-शिक्षाम् असाधयत् +skd_63,yaś cetanācetanāliṃ karṣann apy āśu veṇunā | tāḥ kraṣṭuṃ suṣṭhu nāśaknod yatas tā lajjayā sitāḥ,यश् चेतनाचेतनालिं कर्षन्न् अप्य् आशु वेणुना । ताः क्रष्टुं सुष्ठु नाशक्नोद् यतस् ता लज्जया सिताः +skd_64,sarvāṅgo; 2. missing from (b); niṣkrāntā; śubhadra; 5. brs iii.3.23; odhyānaniṣṭhikāḥ; 7. bhaviṣyap iv (cf. ks p112); 8yaḥ śrī-bhāṇḍīra-nāmānaṃ baṭaṃ śaśvad aṭann adhāt | nānā-krīḍāṃ sa-nīḍānām adabhraṃ bibhrad utsavam,सर्वाङ्गो; २. मिस्सिन्ग् फ़्रोम् (ब्); निष्क्रान्ता; शुभद्र; ५. ब्र्स् इइइ.३.२३; ओध्याननिष्ठिकाः; ७. भविष्यप् इव् (च्फ़्. क्स् प्११२); ८यः श्री-भाण्डीर-नामानं बटं शश्वद् अटन्न् अधात् । नाना-क्रीडां स-नीडानाम् अदभ्रं बिभ्रद् उत्सवम् +skd_65,yaḥ śrīdāmnā sudāmnā ca bhadrasenārjunādibhiḥ | khelā-dambha-balāc cakre tat-pralamba-pralambhanam,यः श्रीदाम्ना सुदाम्ना च भद्रसेनार्जुनादिभिः । खेला-दम्भ-बलाच् चक्रे तत्-प्रलम्ब-प्रलम्भनम् +skd_67,yaḥ pralambaṃ lambamānaṃ jīvanād bala-tejasā | vidhāya vidadhe tīvrān1 navaśaktiṃ davīyasīm,यः प्रलम्बं लम्बमानं जीवनाद् बल-तेजसा । विधाय विदधे तीव्रान्१ नवशक्तिं दवीयसीम् +skd_69,yaḥ kānane sudīrghāhe nidāghe kṛta-kelikaḥ | aparāhṇe preyasīnām ānandaṃ vidadhe yathā |68|| gopīnāṃ paramānandam āsīd govinda-darśane | kṣaṇaṃ yuga-śatam iva yāsāṃ yena vinābhavat2,यः कानने सुदीर्घाहे निदाघे कृत-केलिकः । अपराह्णे प्रेयसीनाम् आनन्दं विदधे यथा ।६८॥ गोपीनां परमानन्दम् आसीद् गोविन्द-दर्शने । क्षणं युग-शतम् इव यासां येन विनाभवत्२ +skd_70,yaḥ sadā dṛṣṭi-kṛd vṛṣṭi-varṣā-rūpa-niśā-kṣaye | śaradaṃ prātar āsādya priyāṇām ahṛtāndhatām,यः सदा दृष्टि-कृद् वृष्टि-वर्षा-रूप-निशा-क्षये । शरदं प्रातर् आसाद्य प्रियाणाम् अहृतान्धताम् +skd_71,yaḥ śrīgovardhanapremasvapremadhanajīviṣu | sva-gotreṣv api sañcāryānyān apy āryān aśikṣayat,यः श्रीगोवर्धनप्रेमस्वप्रेमधनजीविषु । स्व-गोत्रेष्व् अपि सञ्चार्यान्यान् अप्य् आर्यान् अशिक्षयत् +skd_72,yaḥ śrī-govardhanaṃ bibhrac chakra-vibhraṣṭa-garvatām | ninye goṣṭhaṃ yad unninye śreṣṭhaṃ sva-preṣṭhajātiṣu,यः श्री-गोवर्धनं बिभ्रच् छक्र-विभ्रष्ट-गर्वताम् । निन्ये गोष्ठं यद् उन्निन्ये श्रेष्ठं स्व-प्रेष्ठजातिषु +skd_73,śrī-govindatāṃ vindann avindad viśva-nanditām | yan mithaḥ śakra-jantūnāṃ naitryāvyadhita śambhutām,श्री-गोविन्दतां विन्दन्न् अविन्दद् विश्व-नन्दिताम् । यन् मिथः शक्र-जन्तूनां नैत्र्याव्यधित शम्भुताम् +skd_74,yaḥ pāśi-lokād ānīya pitaraṃ mātṛ-jīvanam | ajīvayad vrajaṃ sarvaṃ taṃ vinā gata-jīvanam,यः पाशि-लोकाद् आनीय पितरं मातृ-जीवनम् । अजीवयद् व्रजं सर्वं तं विना गत-जीवनम् +skd_75,yaḥ svānāṃ vraja-lokānāṃ hṛdokās tān viśokayan | teṣāṃ svasya ca golokaṃ nitya-lokam alokayat,यः स्वानां व्रज-लोकानां हृदोकास् तान् विशोकयन् । तेषां स्वस्य च गोलोकं नित्य-लोकम् अलोकयत् +skd_76,yaś citta-vāsasī nītvā kumārīṇāṃ paraṃ dade | na pūrvaṃ yena tā baddhāḥ sambaddhā nityam ātmani,यश् चित्त-वाससी नीत्वा कुमारीणां परं ददे । न पूर्वं येन ता बद्धाः सम्बद्धा नित्यम् आत्मनि +skd_77,yaḥ sva-vaṃśikayā moha-bādhitāṃ rādhikām anu | pūrṇāḥ pulindya ity3ādi vṛttaṃ vṛttaṃ vinirmame,यः स्व-वंशिकया मोह-बाधितां राधिकाम् अनु । पूर्णाः पुलिन्द्य इत्य्३आदि वृत्तं वृत्तं विनिर्ममे +skd_78,yaḥ sakhīn akhilāgrīyān grīṣmāntaḥ prema-sampadā | saṃmadād ājuhāvāmūn kramād evaṃ mudāṃ pradaḥ,यः सखीन् अखिलाग्रीयान् ग्रीष्मान्तः प्रेम-सम्पदा । संमदाद् आजुहावामून् क्रमाद् एवं मुदां प्रदः +skd_79,he stokakṛṣṇa he aṃśo śrīdāman subalārjuna | viśāla vṛṣabhaujasvin devaprastha varūthapa4,हे स्तोककृष्ण हे अंशो श्रीदामन् सुबलार्जुन । विशाल वृषभौजस्विन् देवप्रस्थ वरूथप४ +skd_80,evam āhūya bhūyas tān narma-sūnṛta-gīr vṛtam | āha vṛndāvana-sthānāṃ sthāvarāṇāṃ varāṃ gatim,एवम् आहूय भूयस् तान् नर्म-सूनृत-गीर् वृतम् । आह वृन्दावन-स्थानां स्थावराणां वरां गतिम् +skd_81,tīvrāṃ; 2. .16; 3. .17; 4. .31. yas tāsāṃ yajña-patnīnāṃ mahima-sneha-vṛddhaye | bubhukṣāṃ sakhibhir vyañjann anna-bhikṣāṃ1 vinirmame,तीव्रां; २. .१६; ३. .१७; ४. .३१. यस् तासां यज्ञ-पत्नीनां महिम-स्नेह-वृद्धये । बुभुक्षां सखिभिर् व्यञ्जन्न् अन्न-भिक्षां१ विनिर्ममे +skd_82,yas tatrāśoka-vanyāyāṃ dhanyāyāṃ sakhibhiḥ saha | krīḍan nirvarṇitas tābhiḥ śyāmam ityādi2 varṇitaḥ,यस् तत्राशोक-वन्यायां धन्यायां सखिभिः सह । क्रीडन् निर्वर्णितस् ताभिः श्यामम् इत्यादि२ वर्णितः +skd_83,yaḥ sadā narma-śarmārthī madhumaṅgala-nāminam | narma-mantriṇam āsajya bhojyan mitrāṇy arañjayat,यः सदा नर्म-शर्मार्थी मधुमङ्गल-नामिनम् । नर्म-मन्त्रिणम् आसज्य भोज्यन् मित्राण्य् अरञ्जयत् +skd_84,yaḥ sva-jīvana-jīvānāṃ cātakīnām ivāmbudaḥ | sva-jīvanena tādātmyam akarod vraja-subhruvām,यः स्व-जीवन-जीवानां चातकीनाम् इवाम्बुदः । स्व-जीवनेन तादात्म्यम् अकरोद् व्रज-सुभ्रुवाम् +skd_85,yaḥ pareṣāṃ hrepaṇatāṃ śakti-saṅkhyālpatāṃ vidan | guptāgaṇya-svakāntāsu vaṃśī-dūtīm amanyata,यः परेषां ह्रेपणतां शक्ति-सङ्ख्याल्पतां विदन् । गुप्तागण्य-स्वकान्तासु वंशी-दूतीम् अमन्यत +skd_86,yaś cirād eva muralī-śikṣāyāṃ vīkṣya pūrṇatām | tayā mādya-priyās tūrṇaṃ pūrṇaṃ mene svam añjasā,यश् चिराद् एव मुरली-शिक्षायां वीक्ष्य पूर्णताम् । तया माद्य-प्रियास् तूर्णं पूर्णं मेने स्वम् अञ्जसा +skd_87,yas tyāga-vyāja-bhṛn-narma vyājahāra priyāḥ prati | pratinarma-priyā-vṛndād vindan śarmānvavindata,यस् त्याग-व्याज-भृन्-नर्म व्याजहार प्रियाः प्रति । प्रतिनर्म-प्रिया-वृन्दाद् विन्दन् शर्मान्वविन्दत +skd_88,yaḥ sadā yoga-māyākhyāṃ śaktim āsaktitaḥ śritaḥ | paurṇamāsīm iti nāmāsīd vraje yāsīt tapasvinī,यः सदा योग-मायाख्यां शक्तिम् आसक्तितः श्रितः । पौर्णमासीम् इति नामासीद् व्रजे यासीत् तपस्विनी +skd_89,yas tayā divyayā śaktyānantadhānanta-subhruvām | bibhrad vinā sa-narmādi-śarmālabhata sarvadā,यस् तया दिव्यया शक्त्यानन्तधानन्त-सुभ्रुवाम् । बिभ्रद् विना स-नर्मादि-शर्मालभत सर्वदा +skd_90,yaḥ kṛtvā rāsa-khelāyāṃ mudaṃ dvandvaṃ punar mudam | kheleyam iti tad vyañjann amumudad amūḥ priyāḥ,यः कृत्वा रास-खेलायां मुदं द्वन्द्वं पुनर् मुदम् । खेलेयम् इति तद् व्यञ्जन्न् अमुमुदद् अमूः प्रियाः +skd_91,yas tyajann api tāḥ sarvāḥ parvātanuta kutracit | apy eṇa-patnīty-ādyaṃ3 yat tatra karṇāmṛtaṃ matam,यस् त्यजन्न् अपि ताः सर्वाः पर्वातनुत कुत्रचित् । अप्य् एण-पत्नीत्य्-आद्यं३ यत् तत्र कर्णामृतं मतम् +skd_92,yas tāsāṃ jayatīty4 ādi vilāpād vyagratāṃ gataḥ | tāsām āvirabhūd5 evaṃ sudhībhir adhivarṇitaḥ,यस् तासां जयतीत्य्४ आदि विलापाद् व्यग्रतां गतः । तासाम् आविरभूद्५ एवं सुधीभिर् अधिवर्णितः +skd_93,yāsāṃ stana-kāśmīra-śasta-vastrāsanaṃ gataḥ | rarāja tāra-kārāja-rājat-pulina-dhāmani,यासां स्तन-काश्मीर-शस्त-वस्त्रासनं गतः । रराज तार-काराज-राजत्-पुलिन-धामनि +skd_94,yaḥ prahelikayā tāsāṃ sva-parājayam āmṛśan | na pāraye 'ham ity6 ādi rītyā svaṃ matavān ṛṇī,यः प्रहेलिकया तासां स्व-पराजयम् आमृशन् । न पारये ऽहम् इत्य्६ आदि रीत्या स्वं मतवान् ऋणी +skd_95,yaḥ śyāmaḥ svarṇa-gaurībhiḥ parāṃ śobhāṃ yayau yathā | tatrātiśuśubhe rājann bhagavān iti7 sat-prathā,यः श्यामः स्वर्ण-गौरीभिः परां शोभां ययौ यथा । तत्रातिशुशुभे राजन्न् भगवान् इति७ सत्-प्रथा +skd_96,yas tāsāṃ sva-vihāreṇa śrāntānāṃ mukha-paṅkajam | prāmṛjat karuṇaḥ premnā śantamenāṅga-pāṇinā,यस् तासां स्व-विहारेण श्रान्तानां मुख-पङ्कजम् । प्रामृजत् करुणः प्रेम्ना शन्तमेनाङ्ग-पाणिना +skd_97,8 yaḥ krīḍan vāri-vanayor vikrīḍa9 iva tāḥ punaḥ | anunīya vinirṇīya sva-saṅgaṃ nilayaṃ gataḥ,८ यः क्रीडन् वारि-वनयोर् विक्रीड९ इव ताः पुनः । अनुनीय विनिर्णीय स्व-सङ्गं निलयं गतः +skd_98,vyañjann anna-bhikṣā; (b) vyañjan anna-bhikṣām; 2. .22; 3. .11; 4. .1; 5. .2; 6. .22; 7. .6; 8. .21; cikrīḍa yas tīrtha-vyājam avrājīd vrajena vanam āmbikam | yatrāśeṣeṇa veśena cchalayāmāsa cābalāḥ,व्यञ्जन्न् अन्न-भिक्षा; (ब्) व्यञ्जन् अन्न-भिक्षाम्; २. .२२; ३. .११; ४. .१; ५. .२; ६. .२२; ७. .६; ८. .२१; चिक्रीड यस् तीर्थ-व्याजम् अव्राजीद् व्रजेन वनम् आम्बिकम् । यत्राशेषेण वेशेन च्छलयामास चाबलाः +skd_99,yaḥ sarva-jīvanaṃ jīvaṃ vitaran pitaraṃ prati | padāsarpan spṛśan sarpaṃ muneḥ śāpād apākarot,यः सर्व-जीवनं जीवं वितरन् पितरं प्रति । पदासर्पन् स्पृशन् सर्पं मुनेः शापाद् अपाकरोत् +skd_100,yaḥ sudarśanatāṃ ninye mahā-sarpaṃ kudarśanam | kāruṇya-kāruḥ kañcāraṃ1 na cakārāpi dāruṇam,यः सुदर्शनतां निन्ये महा-सर्पं कुदर्शनम् । कारुण्य-कारुः कञ्चारं१ न चकारापि दारुणम् +skd_101,yaḥ pūrvaṃ nirmame horī-parvaṃ yakṣasya dhūrvaṇam2 | antaryāmivat tan3 manye tādṛggrāmīṇaparvasu,यः पूर्वं निर्ममे होरी-पर्वं यक्षस्य धूर्वणम्२ । अन्तर्यामिवत् तन्३ मन्ये तादृग्ग्रामीणपर्वसु +skd_102,yaḥ prātar-ādi-jāḥ krīḍāḥ kurvaṃs tāsu sphurann api | ślokānāṃ yugma-saṅghena ślokitas tābhir anvaham,यः प्रातर्-आदि-जाः क्रीडाः कुर्वंस् तासु स्फुरन्न् अपि । श्लोकानां युग्म-सङ्घेन श्लोकितस् ताभिर् अन्वहम् +skd_103,yaḥ śrī-govardhane rāsa-vardhanecchā-vivardhaneyaḥ | saṃgamya preyasī-saṅghaṃ narma-saṅgara-raṅgavān,यः श्री-गोवर���धने रास-वर्धनेच्छा-विवर्धनेयः । संगम्य प्रेयसी-सङ्घं नर्म-सङ्गर-रङ्गवान् +skd_104,goṣṭha-prakoṣṭhataḥ kruṣṭaṃ śrutvāriṣṭa-kṛtaṃ kaṭu | tatra saṃgatya saṃyatya taṃ nihatya mudaṃ gataḥ,गोष्ठ-प्रकोष्ठतः क्रुष्टं श्रुत्वारिष्ट-कृतं कटु । तत्र संगत्य संयत्य तं निहत्य मुदं गतः +skd_105,punaḥ śīghraṃ giriṃ gacchan saṅginībhiḥ sabhaṅgibhiḥ | rāsam ullāsayāmāsa bhāsayāmāsa cākhilam,पुनः शीघ्रं गिरिं गच्छन् सङ्गिनीभिः सभङ्गिभिः । रासम् उल्लासयामास भासयामास चाखिलम् +skd_106,yaḥ kuṇḍaṃ puṇḍarīkākṣas tan nirmāya sunarma-kṛt | śrī-rādhikāṃ dhanyam anyat kārayāmāsa sāra-bhṛt,यः कुण्डं पुण्डरीकाक्षस् तन् निर्माय सुनर्म-कृत् । श्री-राधिकां धन्यम् अन्यत् कारयामास सार-भृत् +skd_107,kaṃseneśinaṃ4 goṣṭha-kleśinaṃ vāji-veśinam | keśine5 keśinaṃ cakre yamasya prativeśinam,कंसेनेशिनं४ गोष्ठ-क्लेशिनं वाजि-वेशिनम् । केशिने५ केशिनं चक्रे यमस्य प्रतिवेशिनम् +skd_108,yaḥ pitrādy-anurāgeṇa citrābhaḥ sarva-vismṛtiḥ | kaṃsaṃ dhvaṃsakam apy ārcchān na hantuṃ gantu-kāmatām,यः पित्राद्य्-अनुरागेण चित्राभः सर्व-विस्मृतिः । कंसं ध्वंसकम् अप्य् आर्च्छान् न हन्तुं गन्तु-कामताम् +skd_109,yaḥ snigdha-smitayā dṛṣṭyā vācā pīyūṣa-kalpayā | caritreṇānavadyena śrī-niketena cātmanā,यः स्निग्ध-स्मितया दृष्ट्या वाचा पीयूष-कल्पया । चरित्रेणानवद्येन श्री-निकेतेन चात्मना +skd_110,imaṃ lokam amuñcābhiramayan sutarāṃ vrajam | reme kṣaṇadayā datta-kṣaṇa-strī-kṣaṇa-sauhṛdaḥ,इमं लोकम् अमुञ्चाभिरमयन् सुतरां व्रजम् । रेमे क्षणदया दत्त-क्षण-स्त्री-क्षण-सौहृदः +skd_111,6 yas tathā saha gopībhiś cikrīḍa vrajarājajaḥ | yathābda-koṭi-pratimaḥ kṣaṇas tena vinābhavat7,६ यस् तथा सह गोपीभिश् चिक्रीड व्रजराजजः । यथाब्द-कोटि-प्रतिमः क्षणस् तेन विनाभवत्७ +skd_112,yaḥ kāntā-mukha-candrāṇāṃ bhāsā bhāsini8 dig-gaṇe | rāga-sāgara-nirmagnaś calituṃ nāpi ca kṣamaḥ,यः कान्ता-मुख-चन्द्राणां भासा भासिनि८ दिग्-गणे । राग-सागर-निर्मग्नश् चलितुं नापि च क्षमः +skd_113,kiñcit tad-vyakti-vātāli-lajjā-vīci-vicālitaḥ | kaṃsa-ghātamiṣāpāta-nijecchābhāsam āgataḥ,किञ्चित् तद्-व्यक्ति-वातालि-लज्जा-वीचि-विचालितः । कंस-घातमिषापात-निजेच्छाभासम् आगतः +skd_114,"kañjāraṃ, (b) kaṃ cāriṃ; dharṣaṇam; antaryāmīva tano; kaṃseneśitam; veśinaṃ; 6. not found in (b); 7. vip v.23.57; bhāsinam taṭasthatām aṭann urīcakre madhuparīgatim | āḥ kiṃ vācyā vraje yācyā prāṇimātre tanoḥ sthitiḥ","कञ्जारं, (ब्) कं चारिं; धर्षणम्; अन्तर्यामीव तनो; कंसेनेशितम्; वेशिनं; ६. नोत् फ़ोउन्द् इन् (ब्); ७. विप् व्.२३.५७; भासिनम् तटस्थताम् अटन्न् उरीचक्रे मधुपरीगतिम् । आः किं वाच्या व्रजे याच्या प्राणिमात्रे तनोः स्थितिः" +skd_115,yaḥ svāṃs tattadguṇaḥ sarvān alaṃ hātuṃ na te ca yam | āstāṃ vraje premaśūrā dūrād eva tathā kathā,यः स्वांस् तत्तद्गुणः सर्वान् अलं हातुं न ते च यम् । आस्तां व्रजे प्रेमशूरा दूराद् एव तथा कथा +skd_116,yaḥ pṛthvyā prathamaskandhe dharmāgrevarṇitān guṇān |1nityam āptas tathātrāpi varṇyaḥ sann avakarṇyatām,यः पृथ्व्या प्रथमस्कन्धे धर्माग्रेवर्णितान् गुणान् ।१नित्यम् आप्तस् तथात्रापि वर्ण्यः सन्न् अवकर्ण्यताम् +skd_117,sarvānandapradānandakandas tadvadguṇāvaliḥ | sarvaparvadamāhātmyād varaḥ sarvata īśvaraḥ,सर्वानन्दप्रदानन्दकन्दस् तद्वद्गुणावलिः । सर्वपर्वदमाहात्म्याद् वरः सर्वत ईश्वरः +skd_118,sarvadā vṛddhibhāgṛddhiḥ sarvārādhanabhūdhanam | svarūparūpasādguṇyapuṇyakṛt karmaśarmadaḥ,सर्वदा वृद्धिभागृद्धिः सर्वाराधनभूधनम् । स्वरूपरूपसाद्गुण्यपुण्यकृत् कर्मशर्मदः +skd_119,dṛṣṭiḥ pratisudhāvṛṣṭiprabhasundaratāprabhaḥ2 | varṇānāṃ syandadiṅmātrāt3 karṇānandakarasvaraḥ4,दृष्टिः प्रतिसुधावृष्टिप्रभसुन्दरताप्रभः२ । वर्णानां स्यन्ददिङ्मात्रात्३ कर्णानन्दकरस्वरः४ +skd_120,aśvāsānām api śvāsakārisaurabhagauravaḥ | adharaspṛṣṭanīrādisṛṣṭaśrīrasanārasaḥ,अश्वासानाम् अपि श्वासकारिसौरभगौरवः । अधरस्पृष्टनीरादिसृष्टश्रीरसनारसः +skd_121,svasparśisparśanāsparśād viśvatāpāpayāpanaḥ | jagataḥ śucitādhāma nāmadhāmasmṛtīḍitaḥ,स्वस्पर्शिस्पर्शनास्पर्शाद् विश्वतापापयापनः । जगतः शुचिताधाम नामधामस्मृतीडितः +skd_122,anantasaccidānandajyotirdyotikalevaraḥ | vapuraṃśukayor aṃśusampad viṣṇuramājayī,अनन्तसच्चिदानन्दज्योतिर्द्योतिकलेवरः । वपुरंशुकयोर् अंशुसम्पद् विष्णुरमाजयी +skd_123,jagaddūṣaṇaśobhābhṛd vibhūṣaṇavibhūṣaṇaḥ | tūrṇaṃ yathāruci vyāpirucidhāryaguṇākṛtiḥ,जगद्दूषणशोभाभृद् विभूषणविभूषणः । तूर्णं यथारुचि व्यापिरुचिधार्यगुणाकृतिः +skd_124,lakṣmīdṛkpakṣma5viṣkambhilakṣmalakṣitavigrahaḥ | śaṅkhacakrādicihnaśrīdurnihnavanijasthitiḥ,लक्ष्मीदृक्पक्ष्म५विष्कम्भिलक्ष्मलक्षितविग्रहः । शङ्खचक्रादिचिह्नश्रीदुर्निह्नवनिजस्थितिः +skd_125,jetuṃ svam apy aviśrāntaṃ śaśvadvalgu6balāvaliḥ | kiśoratāmanaḥsāracoratāviśvamohanaḥ,जेतुं स्वम् अप्य् अविश्रान्तं शश्वद्वल्गु६बलावलिः । किशोरतामनःसारचोरताविश्वमोहनः +skd_126,vilāsahāsalīlāsyakṛtalāsyakalājayaḥ | vikārarahitākāraḥ sphuratpremavikāravān,विलासहासलीलास्यकृतलास्यकलाजयः । विकाररहिताकारः स्फुरत्प्रेमविकारवान् +skd_127,purāpi nava ity evaṃ purāṇādiviniścitaḥ | anūtanatanūḥ7 śrīmān sadā nūtanavattanuḥ,पुरापि नव इत्य् एवं पुराणादिविनिश्चितः । अनूतनतनूः७ श्रीमान् सदा नूतनवत्तनुः +skd_128,sarveṣāṃ manasaḥ kartuṃ pramanas tāṃ sphuranmanāḥ | vaidagdhīdigdhasadvṛddhi8cāturīpracurīkaraḥ,सर्वेषां मनसः कर्तुं प्रमनस् तां स्फुरन्मनाः । वैदग्धीदिग्धसद्वृद्धि८चातुरीप्रचुरीकरः +skd_129,viśveṣāṃ buddhikṛd buddhiḥ siddhīnām api siddhikṛt | dakṣatālakṣaśikṣākṛd dakṣatābhir vilakṣaṇaḥ,विश्वेषां बुद्धिकृद् बुद्धिः सिद्धीनाम् अपि सिद्धिकृत् । दक्षतालक्षशिक्षाकृद् दक्षताभिर् विलक्षणः +skd_130,tucchopakāritābindusindhukārī kṛtajñataḥ | 1. .27||-30||; oprabhā; diṅmātrao; 4 (a) karaṇānanda(?); 5 (b) pakṣa; 6 (a) ovalgād; tanuḥ; obuddhio sudṛḍhavratat��vrātatrātaśaśvadanuvrataḥ,तुच्छोपकारिताबिन्दुसिन्धुकारी कृतज्ञतः । १. .२७॥-३०॥; ओप्रभा; दिङ्मात्रओ; ४ (अ) करणानन्द(?); ५ (ब्) पक्ष; ६ (अ) ओवल्गाद्; तनुः; ओबुद्धिओ सुदृढव्रतताव्रातत्रातशश्वदनुव्रतः +skd_131,nijamaryādayā baddhaśrutimaryādaceṣṭitaḥ | ceṣṭitaṃ1 tāvad āstāṃ tad dṛṣṭamātras tathā guṇaḥ,निजमर्यादया बद्धश्रुतिमर्यादचेष्टितः । चेष्टितं१ तावद् आस्तां तद् दृष्टमात्रस् तथा गुणः +skd_132,yajñajñaḥ kāladeśādiprajñaḥ sarvajñaśekharaḥ | sarvajñatām avajñāya prajñatātarkitākhilaḥ,यज्ञज्ञः कालदेशादिप्रज्ञः सर्वज्ञशेखरः । सर्वज्ञताम् अवज्ञाय प्रज्ञतातर्किताखिलः +skd_133,dhīratā sthiratā śobhi vīratā niratāntaraḥ | kṣāntyā dāntyā ca śāntyā ca saha kāntyā svayaṃ vṛtaḥ,धीरता स्थिरता शोभि वीरता निरतान्तरः । क्षान्त्या दान्त्या च शान्त्या च सह कान्त्या स्वयं वृतः +skd_134,dharmadānanidānaśrīḥ śūraḥ2 suratamānasaḥ | mānyasāmānyavardhiṣṇumānyatākriyatāpriyaḥ3,धर्मदाननिदानश्रीः शूरः२ सुरतमानसः । मान्यसामान्यवर्धिष्णुमान्यताक्रियताप्रियः३ +skd_135,akṣīṇavinayaḥ suṣṭhu lajjitaḥ kūṭavarjitaḥ | kīrtipratāpapūrtibhyāṃ kṛtasallokajūrtikaḥ,अक्षीणविनयः सुष्ठु लज्जितः कूटवर्जितः । कीर्तिप्रतापपूर्तिभ्यां कृतसल्लोकजूर्तिकः +skd_136,sādhūnāṃ mādhurīdānān nityaṃ sādhusamāśrayaḥ | dviṣāṃ ca muktikṛn muktibhāgākarṣiguṇāmbudhiḥ,साधूनां माधुरीदानान् नित्यं साधुसमाश्रयः । द्विषां च मुक्तिकृन् मुक्तिभागाकर्षिगुणाम्बुधिः +skd_137,nānābhāṣālisambhāṣo deva4paryantadevanaḥ | pratyagvādiny api prīti5satyatāsphuradīritaḥ,नानाभाषालिसम्भाषो देव४पर्यन्तदेवनः । प्रत्यग्वादिन्य् अपि प्रीति५सत्यतास्फुरदीरितः +skd_138,vāvadūkaḥ6 sudhīmūkasthitikārisudhīdharaḥ | dṛṣṭamātratayā sarvabudhatāṃ7 budhatāguruḥ,वावदूकः६ सुधीमूकस्थितिकारिसुधीधरः । दृष्टमात्रतया सर्वबुधतां७ बुधतागुरुः +skd_139,yogyānām api yogyāśī8 raṅkāṅām api śaṅkaraḥ | śaraṇāgatarakṣāyāḥ śaraṇaṃ śarmakarmaṭhaḥ,योग्यानाम् अपि योग्याशी८ रङ्काङाम् अपि शङ्करः । शरणागतरक्षायाः शरणं शर्मकर्मठः +skd_140,na ca bhaktiṃ vināsakti9binduḥ sindhuvad antaraḥ | samaḥ sarvatra bhaktānāṃ bhakta ity apy asau samaḥ,न च भक्तिं विनासक्ति९बिन्दुः सिन्धुवद् अन्तरः । समः सर्वत्र भक्तानां भक्त इत्य् अप्य् असौ समः +skd_141,bhaktānāṃ bhaktatānandī premasthemavaśīkṛtaḥ | tattadrūpaguṇakrīḍākṛtasvāvadhivismayaḥ,भक्तानां भक्ततानन्दी प्रेमस्थेमवशीकृतः । तत्तद्रूपगुणक्रीडाकृतस्वावधिविस्मयः +skd_142,snehābhiṣekād viśveṣāṃ prājyasāmrājyapūjitaḥ | sarvatra snehapīyūṣavarṣinityanavambudaḥ,स्नेहाभिषेकाद् विश्वेषां प्राज्यसाम्राज्यपूजितः । सर्वत्र स्नेहपीयूषवर्षिनित्यनवम्बुदः +skd_143,goṣṭhavṛndāṭavīśaṃsivaṃśīgānamadhūnmadaḥ | nijapriyāvalībhāgyaspṛhiviṣṇupriyārcitaḥ,गोष्ठवृन्दाटवीशंसिवंशीगानमधून्मदः । निजप्रियावलीभाग्यस्पृहिविष्णुप्रियार्चितः +skd_144,kiṃ bahūktena sūktena sūktena śrūyatām idam | kṛṣṇa eva hi kṛṣṇaḥ syāt kṛṣṇaḥ syāt kṛṣṇa eva hi,किं बहूक्तेन सूक्तेन सूक्तेन श्रूयताम् इदम् । कृष्ण एव हि कृष्णः स्यात् कृष्णः स्यात् कृष्ण एव हि +skd_145,yas tādṛgguṇavān goṣṭhaṃ nātyantaṃ tyaktum arhati | tādṛgguṇānvayipremnā tasya baddhaś ca tad yathā,यस् तादृग्गुणवान् गोष्ठं नात्यन्तं त्यक्तुम् अर्हति । तादृग्गुणान्वयिप्रेम्ना तस्य बद्धश् च तद् यथा +skd_150,dustyajaś cānurāgo 'smin sarveṣāṃ no vrajaukasām | yaḥ sajjan kāliyakroḍaṃ vrajaṃ sajjantam āmtani | nanda te tanaye 'smāsu tasyāpy autpattikaḥ katham? ||1461 ceṣṭataḥ; śūrao; oparaḥ; osambhāṣād eva; prītiḥ; vāvadūkao; budhatāo; yogyāśā; vināsaktiṃ vimṛśann unmamajja drāg varṣan harṣaṃ jagaty api ||147 yaḥ śakre vakratāṃ paśyan premnā yan vrajavaśyatām | hṛdy arthaṃ tam imaṃ vidvān atra vyānag yathārthatām ||148 tasmān maccharaṇaṃ goṣṭaṃ mannāthaṃ matparigraham | gopāye svātmayogena so 'yaṃ me vrata āhitaḥ ||149*fn yaḥ saṅkalpaṃ vyadhād evaṃkiñca bhūdharadhāraṇam | saptatarāpy ahorātrām stanmātraṅgīkṛtisthitiḥ,दुस्त्यजश् चानुरागो ऽस्मिन् सर्वेषां नो व्रजौकसाम् । यः सज्जन् कालियक्रोडं व्रजं सज्जन्तम् आम्तनि । नन्द ते तनये ऽस्मासु तस्याप्य् औत्पत्तिकः कथम्? ॥१४६१ चेष्टतः; शूरओ; ओपरः; ओसम्भाषाद् एव; प्रीतिः; वावदूकओ; बुधताओ; योग्याशा; विनासक्तिं विमृशन्न् उन्ममज्ज द्राग् वर्षन् हर्षं जगत्य् अपि ॥१४७ यः शक्रे वक्रतां पश्यन् प्रेम्ना यन् व्रजवश्यताम् । हृद्य् अर्थं तम् इमं विद्वान् अत्र व्यानग् यथार्थताम् ॥१४८ तस्मान् मच्छरणं गोष्टं मन्नाथं मत्परिग्रहम् । गोपाये स्वात्मयोगेन सो ऽयं मे व्रत आहितः ॥१४९*फ़्न् यः सङ्कल्पं व्यधाद् एवंकिञ्च भूधरधारणम् । सप्ततराप्य् अहोरात्राम् स्तन्मात्रङ्गीकृतिस्थितिः +skd_151,kiṃ ca yaḥ sakhivatseṣu luñciteṣu viriñcinā | sasarjāntyāṃs tadākāran paraṃ svenāpareṇa na,किं च यः सखिवत्सेषु लुञ्चितेषु विरिञ्चिना । ससर्जान्त्यांस् तदाकारन् परं स्वेनापरेण न +skd_152,tathāpy anirvṛtiṃ gacchaṃs tān āyacchad viriñcitaḥ | svapremādhikatatpremavaśatām āsadad yataḥ,तथाप्य् अनिर्वृतिं गच्छंस् तान् आयच्छद् विरिञ्चितः । स्वप्रेमाधिकतत्प्रेमवशताम् आसदद् यतः +skd_153,yas tān svasmin baka-graste grastehā-prāṇatā-mitān | sva-mātra-prāṇa-pātrāṅgān vidan vindann api sthitaḥ,यस् तान् स्वस्मिन् बक-ग्रस्ते ग्रस्तेहा-प्राणता-मितान् । स्व-मात्र-प्राण-पात्राङ्गान् विदन् विन्दन्न् अपि स्थितः +skd_154,yas teṣv agha-nigīrṇeṣu svayaṃ kīrṇe hatāṃ vrajan | tad-galāntar viśann ātma-nirviśeṣān viveda tān,यस् तेष्व् अघ-निगीर्णेषु स्वयं कीर्णे हतां व्रजन् । तद्-गलान्तर् विशन्न् आत्म-निर्विशेषान् विवेद तान् +skd_155,yas tatrāpy adbhutaṃ prema śrīman-nanda-yaśodayoḥ | dampatyor nitarām āsīd gopa-gopīṣv iti smaran,यस् तत्राप्य् अद्भुतं प्रेम श्रीमन्-नन्द-यशोदयोः । दम्पत्योर् नितराम् आसीद् गोप-गोपीष्व् इति स्मरन् +skd_156,sadāpi vedavad veda tad aśeṣavidāṃ varaḥ | yad eva śukadevādyā vādyābhaṃ jagur uccakaiḥ,सदापि वेदवद् वेद तद् अशेषविदां वरः । यद् एव शुकदेवाद्या वाद्याभं जगुर् उच्चकैः +skd_157,yaḥ svīyām ṛṇitāṃ vyaktāṃ tyaktāṃ kartum aśaknuvan | na pāraye 'ham ity5 ādyaṃ pratijajñe priyāḥ prati,यः स्वीयाम् ऋणितां व्यक्तां त्यक्तां कर्तुम् अशक्नुवन् । न पारये ऽहम् इत्य्५ आद्यं प्रतिजज्ञे प्रियाः प्रति +skd_158,yaḥ kaṃsādyān dantavakra-prāntān6 sāntān7 vinirmame | tad vinā vrajam āgantuṃ śāntiḥ syān8 nety acintayat,यः कंसाद्यान् दन्तवक्र-प्रान्तान्६ सान्तान्७ विनिर्ममे । तद् विना व्रजम् आगन्तुं शान्तिः स्यान्८ नेत्य् अचिन्तयत् +skd_160,"yas tan-madhye samutkaṇṭhām utkaṇṭhāṃ śamayann iva | svasthān kartuṃ vrajāntaḥ-sthān muhuḥ sāntvanam ādadhe ||159 yaḥ sva-prasthāna-samaye ""śarīra-sthā imā nahi | bhaveyur"" iti sañjajñe pratijajñe9 nijāgatim","यस् तन्-मध्ये समुत्कण्ठाम् उत्कण्ठां शमयन्न् इव । स्वस्थान् कर्तुं व्रजान्तः-स्थान् मुहुः सान्त्वनम् आदधे ॥१५९ यः स्व-प्रस्थान-समये ""शरीर-स्था इमा नहि । भवेयुर्"" इति सञ्जज्ञे प्रतिजज्ञे९ निजागतिम्" +skd_161,1. ||.13; hṛdyārtham; 3. .18; svena pareṇa; 5. ||.22; oprāptān; so 'ntān; śāntuḥ syāṃ (?); pratiyajñe; yas tatra śukadevena drāghita-ślāghitaṃ1 stutaḥ | ubhayeṣāṃ prema-sāmyaṃ vyañjatā vyañjitāspadaḥ,१. ॥.१३; हृद्यार्थम्; ३. .१८; स्वेन परेण; ५. ॥.२२; ओप्राप्तान्; सो ऽन्तान्; शान्तुः स्यां (?); प्रतियज्ञे; यस् तत्र शुकदेवेन द्राघित-श्लाघितं१ स्तुतः । उभयेषां प्रेम-साम्यं व्यञ्जता व्यञ्जितास्पदः +skd_162,tās tathā tapyatīr vīkṣya sva-prasthāne yadūttamaḥ | sāntvayāmāsa sapremair āyasya iti dyotakaiḥ,तास् तथा तप्यतीर् वीक्ष्य स्व-प्रस्थाने यदूत्तमः । सान्त्वयामास सप्रेमैर् आयस्य इति द्योतकैः +skd_164,2 yaḥ kaṃsa-ghnaḥ śaśaṃsedaṃ hari-vaṃśe 'py anūditam3 | niśvāsā yasya vedāḥ syus tad etat katham anyathā? |163|| ahaṃ sa eva go-madhye gopaiḥ saha vanecaraḥ | prītimān vicariṣyāmi kāmacārī yathā gajaḥ,२ यः कंस-घ्नः शशंसेदं हरि-वंशे ऽप्य् अनूदितम्३ । निश्वासा यस्य वेदाः स्युस् तद् एतत् कथम् अन्यथा? ।१६३॥ अहं स एव गो-मध्ये गोपैः सह वनेचरः । प्रीतिमान् विचरिष्यामि कामचारी यथा गजः +skd_166,"4 yaḥ kaṃse lambhita-dhvaṃse svaṃ vinātivilambitam | kurvantaṃ pitaraṃ proce ""śoceḥ katham itaḥ pitaḥ ||165 yāta yūyaṃ vrajaṃ tāta vayaṃ ca sneha-duḥkhitān | jñātīn vo draṣṭum eṣyāmo vidhāya suhṛdāṃ sukham","४ यः कंसे लम्भित-ध्वंसे स्वं विनातिविलम्बितम् । कुर्वन्तं पितरं प्रोचे ""शोचेः कथम् इतः पितः ॥१६५ यात यूयं व्रजं तात वयं च स्नेह-दुःखितान् । ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम्" +skd_167,5 snehena duḥkhitān ity etat procya snehavastuni | atṛptiṃ vyānag atrāpi draṣṭum ity eva darśanam,५ स्नेहेन दुःखितान् इत्य् एतत् प्रोच्य स्नेहवस्तुनि । अतृप्तिं व्यानग् अत्रापि द्रष्टुम् इत्य् एव दर्शनम् +skd_168,puruṣārthatayāvocad bhāvikālatayāpi ca | adṛpter bhāvikālasya cānantyāt tadanantakam,पुरुषार्थतयावोचद् भाविकालतयापि च । अदृप्तेर् भाविकालस्य चानन्त्यात् तदनन्तकम् +skd_169,tātajñātipadābhyāṃ ca tad yuktam idam uktavān | suhṛdāṃ sukham ity ākhyāsyate yadvat tathā nahi,तातज्ञातिपदाभ्यां च तद् युक्तम् इदम् उक्तवान् । सुहृदां सुखम् इत्य् आख्यास्यते यद्वत् तथा नहि +skd_170,suhṛcchabdenopakāryopakāritvaṃ pratīyate | sukhaṃ ca suhṛdāṃ gamyam upakāramayaṃ param,सुहृच्छब्देनोपकार्योपकारित्वं प्रतीयते । सुखं च सुहृदां गम्यम् उपकारमयं परम् +skd_171,vidhāyeti ca pūrvasya kālasya cchinnarūpatām | nirdiśaṃs tadvidhānasya nyadiśat cchinnarūpatām,विधायेति च पूर्वस्य कालस्य च्छिन्नरूपताम् । निर्दिशंस् तद्विधानस्य न्यदिशत् च्छिन्नरूपताम् +skd_172,tasmāt teṣāṃ śatruvadhaḥ sukhaṃ yat tat samāpsyati | jñātīnāṃ snehaśīlānāṃ tat tu vo na samāpsyati,तस्मात् तेषां शत्रुवधः सुखं यत् तत् समाप्स्यति । ज्ञातीनां स्नेहशीलानां तत् तु वो न समाप्स्यति +skd_173,iti procyedam avyāñjīt teṣāṃ dhairyapradaṃ6 param | māgadhādivadhāntasthaṃ7 svasthatā dhāma yad bhavet,इति प्रोच्येदम् अव्याञ्जीत् तेषां धैर्यप्रदं६ परम् । मागधादिवधान्तस्थं७ स्वस्थता धाम यद् भवेत् +skd_174,jarāsandhādiśatrūṇāṃ pratibandhān upekṣya ca | yady eṣyāmy anusandhānaṃ kuryus tatrāpi te dviṣaḥ,जरासन्धादिशत्रूणां प्रतिबन्धान् उपेक्ष्य च । यद्य् एष्याम्य् अनुसन्धानं कुर्युस् तत्रापि ते द्विषः +skd_175,sveṣām eva pratijñāya vrajāgamanam īśvaraḥ | na yūyam atrāyāteti vyajya vyāñjīd idaṃ punaḥ,स्वेषाम् एव प्रतिज्ञाय व्रजागमनम् ईश्वरः । न यूयम् अत्रायातेति व्यज्य व्याञ्जीद् इदं पुनः +skd_176,yadi vātra bhavantaḥ syur gamāgamavidhāyinaḥ | tathāpy acchinnamatsnehaṃ jñātvā hanyur vrajaṃ dviṣaḥ,यदि वात्र भवन्तः स्युर् गमागमविधायिनः । तथाप्य् अच्छिन्नमत्स्नेहं ज्ञात्वा हन्युर् व्रजं द्विषः +skd_177,drāghitaḥ ślāghitaḥ; 2. .35; anuditam; 4. hv 78.35; 5. .23; opradaḥ; osthao tasmāt tāvad dhīrabhāvaṃ vidhatta vrajasaṃsadi | māṃ ca yuṣmatpriyaṃ nityaṃ lālanaṃ ca samāpsyatha,द्राघितः श्लाघितः; २. .३५; अनुदितम्; ४. ह्व् ७८.३५; ५. .२३; ओप्रदः; ओस्थओ तस्मात् तावद् धीरभावं विधत्त व्रजसंसदि । मां च युष्मत्प्रियं नित्यं लालनं च समाप्स्यथ +skd_178,yaḥ saṅgatya guror gehāt pratatya svavrajasmṛtim | prāhiṇod uddhavaṃ vaktuṃ suniścitam idaṃ yathā,यः सङ्गत्य गुरोर् गेहात् प्रतत्य स्वव्रजस्मृतिम् । प्राहिणोद् उद्धवं वक्तुं सुनिश्चितम् इदं यथा +skd_179,hatvā kaṃsaṃ raṅgamedhye pratīpaṃ sarvasātvatām | yad āha vaḥ samāgatya kṛṣṇaḥ satyaṃ karoti tat,हत्वा कंसं रङ्गमेध्ये प्रतीपं सर्वसात्वताम् । यद् आह वः समागत्य कृष्णः सत्यं करोति तत् +skd_180,1 āgamiṣyaty adīrgheṇa kālena vrajam acyutaḥ | priyaṃ vidhāsyate pitror bhagavān sātvatāṃ patiḥ,१ आगमिष्यत्य् अदीर्घेण कालेन व्रजम् अच्युतः । प्रियं विधास्यते पित्रोर् भगवान् सात्वतां पतिः +skd_181,2 yaḥ sāsram uddhavaṃ sāsraḥ patis tāsāṃ svayaṃ rahaḥ | asaṅkocam avocetthaṃ preṣṭham ekāntinaṃ kvacit,२ यः सास्रम् उद्धवं सास्रः पतिस् तासां स्वयं रहः । असङ्कोचम् अवोचेत्थं प्रेष्ठम् एकान्तिनं क्वचित् +skd_182,gṛhītvā pāṇinā pāṇiṃ prapannārtiharo hariḥ | gacchoddhava vrajaṃ saumya pitror naḥ prītim āvaha,गृहीत्वा पाणिना पाणिं प्रपन्नार्तिहरो हरिः । गच्छोद्धव व्रजं सौम्य पित्रोर् नः प्रीतिम् आवह +skd_183,gopīnāṃ madviyogādhiṃ matsandeśair vimocaya | tā manmanaskā matprāṇā madarthe tyaktadaihikāḥ,गोपीनां मद्वियोगाधिं मत्सन्देशैर् विमोचय । ता मन्मनस्का मत्प्राणा मदर्थे त्यक्तदैहिकाः +skd_184,mām eva dayitaṃ preṣṭham ātmānaṃ manasā gatāḥ | ye tyaktalokadharmāś ca madarthe tān bibharmy aham,माम् एव दयितं प्रेष्ठम् आत्मानं मनसा गताः । ये त्यक्तलोकधर्माश् च मदर्थे तान् बिभर्म्य् अहम् +skd_185,mayi tāḥ preyasāṃ preṣṭhe dūrasthe gokulastriyaḥ | smarantyo 'ṅga vimuhyanti virahautkaṇṭhyavihvalāḥ,मयि ताः प्रेयसां प्रेष्ठे दूरस्थे गोकुलस्त्रियः । स्मरन्त्यो ऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्यविह्वलाः +skd_186,dhārayanty atikṛcchreṇa prāyaḥ prāṇān kathañcana | pratyāgamanasandeśair vallavyo me madātmikāḥ,धारयन्त्य् अतिकृच्छ्रेण प्रायः प्राणान् कथञ्चन । प्रत्यागमनसन्देशैर् वल्लव्यो मे मदात्मिकाः +skd_187,3 yas tathā procya yat pratyāyayat tac ca vilocyatām | yad vilocanamātreṇa bhramas te śvabhratāṃ vrajet,३ यस् तथा प्रोच्य यत् प्रत्याययत् तच् च विलोच्यताम् । यद् विलोचनमात्रेण भ्रमस् ते श्वभ्रतां व्रजेत् +skd_188,mām evety ādinā tāsām antaḥpatir ahaṃ param | bahir vyavahṛtir lokadṛṣṭeti spaṣṭam ātanot,माम् एवेत्य् आदिना तासाम् अन्तःपतिर् अहं परम् । बहिर् व्यवहृतिर् लोकदृष्टेति स्पष्टम् आतनोत् +skd_189,yat pitror ity urīcakre pitṛtvaṃ vallavendrayoḥ | tasmād vallavamānitvam ātmānaś ca vyajijñapat,यत् पित्रोर् इत्य् उरीचक्रे पितृत्वं वल्लवेन्द्रयोः । तस्माद् वल्लवमानित्वम् आत्मानश् च व्यजिज्ञपत् +skd_190,tatra cāha na ity etad bahuvācipadād idam | mayi jāte tayoḥ putre rāme tvayi ca putratā,तत्र चाह न इत्य् एतद् बहुवाचिपदाद् इदम् । मयि जाते तयोः पुत्रे रामे त्वयि च पुत्रता +skd_191,tataś ca tāḥ prati prākhyad vallavyo ma iti sphuṭam | yad amūṣu svadāratve4 vyānañja svayam añjasā,ततश् च ताः प्रति प्राख्यद् वल्लव्यो म इति स्फुटम् । यद् अमूषु स्वदारत्वे४ व्यानञ्ज स्वयम् अञ्जसा +skd_192,1. .35; 2. .34||; 3. .2-6; otvaṃ; maddāratvaṃca tāsāṃ tāḥ sadā yasmān madātmikāḥ | madātmakatvam āśu syād abhedāc chaktitadvatoḥ,१. .३५; २. .३४॥; ३. .२-६; ओत्वं; मद्दारत्वंच तासां ताः सदा यस्मान् मदात्मिकाः । मदात्मकत्वम् आशु स्याद् अभेदाच् छक्तितद्वतोः +skd_193,iti vyañjan manmanaskā ity uktaṃ nātyapaikṣataḥ | na cānyavad ihāpekṣyam anyad ity apy amanyata,इति व्यञ्जन् मन्मनस्का इत्य् उक्तं नात्यपैक्षतः । न चान्यवद् इहापेक्ष्यम् अन्यद् इत्य् अप्य् अमन्यत +skd_194,dhārayantīti ca procya pratyāgamanam uddiśan | vallavyo ma iti prākhyat tasmād eva nyajīgamat,धारयन्तीति च प्रोच्य प्रत्यागम��म् उद्दिशन् । वल्लव्यो म इति प्राख्यत् तस्माद् एव न्यजीगमत् +skd_195,gamanaṃ mama taj jajñe svām avaśyaṃ kṛtiṃ prati | āgamya svīyatāṃ tāsāṃ pūrayiṣyāmy adūrataḥ,गमनं मम तज् जज्ञे स्वाम् अवश्यं कृतिं प्रति । आगम्य स्वीयतां तासां पूरयिष्याम्य् अदूरतः +skd_196,yas tāsu bahudhā jñānaṃ nidiśyāpi mudhā vidan | sākṣād ātmīyasamprāpti1 sākṣād eva nidiṣṭavān,यस् तासु बहुधा ज्ञानं निदिश्यापि मुधा विदन् । साक्षाद् आत्मीयसम्प्राप्ति१ साक्षाद् एव निदिष्टवान् +skd_197,mayy āveśya manaḥ kṛṣṇe vimuktāśesavṛtti yat | anusmarantyo māṃ nityam acirān mām upaiṣyatha,मय्य् आवेश्य मनः कृष्णे विमुक्ताशेसवृत्ति यत् । अनुस्मरन्त्यो मां नित्यम् अचिरान् माम् उपैष्यथ +skd_198,2 yā mayā krīḍatā rātryāṃ vane 'smin vraja āsthitāḥ | alabdharāsāḥ kalyāṇyo māpur madvīryacintayā,२ या मया क्रीडता रात्र्यां वने ऽस्मिन् व्रज आस्थिताः । अलब्धरासाः कल्याण्यो मापुर् मद्वीर्यचिन्तया +skd_199,3 yas tadā sandiśan sandīpitam etad vinirmame | tad etac chṛṇu maccitta guptavittaṃ manuṣva ca,३ यस् तदा सन्दिशन् सन्दीपितम् एतद् विनिर्ममे । तद् एतच् छृणु मच्चित्त गुप्तवित्तं मनुष्व च +skd_200,vṛttir yad anyā nirmucya mayy āmucya manaḥ sthitāḥ | mām āpsyatha drutaṃ tasmān mama nātra svatantratā,वृत्तिर् यद् अन्या निर्मुच्य मय्य् आमुच्य मनः स्थिताः । माम् आप्स्यथ द्रुतं तस्मान् मम नात्र स्वतन्त्रता +skd_202,mayīty anena prāpte 'pi kṛṣṇe kṛṣṇapadaṃ bruvan | anyarūpaṃ manyamānān hanyamānān vyadhāt prabhuḥ ||201 mayīty evaṃ mām iti ca procya mām ity avocata | tac cāvṛttyā dṛḍhīkṛtya mataṃ paridṛḍhīkṛtam,मयीत्य् अनेन प्राप्ते ऽपि कृष्णे कृष्णपदं ब्रुवन् । अन्यरूपं मन्यमानान् हन्यमानान् व्यधात् प्रभुः ॥२०१ मयीत्य् एवं माम् इति च प्रोच्य माम् इत्य् अवोचत । तच् चावृत्त्या दृढीकृत्य मतं परिदृढीकृतम् +skd_203,kṛṣṇa iti padaṃ labdhe mayīty asya viśeṣaṇe | māṃ dvaye 'py upalabdhāsā tadviśeṣaṇatā svataḥ,कृष्ण इति पदं लब्धे मयीत्य् अस्य विशेषणे । मां द्वये ऽप्य् उपलब्धासा तद्विशेषणता स्वतः +skd_204,mayi kṛṣṇe 'tra māṃ kṛṣṇaṃ māṃ kṛṣṇam iti sidhyati | kalyāṇya iti sambodhya prabodhyaṃ kṛtavān idam,मयि कृष्णे ऽत्र मां कृष्णं मां कृष्णम् इति सिध्यति । कल्याण्य इति सम्बोध्य प्रबोध्यं कृतवान् इदम् +skd_205,na tāsām iva matprāptir dehaṃ vaḥ param īhate | ity evam anyad apy atra manyamānaṃ manaḥ kuru,न तासाम् इव मत्प्राप्तिर् देहं वः परम् ईहते । इत्य् एवम् अन्यद् अप्य् अत्र मन्यमानं मनः कुरु +skd_206,yaḥ śrīrāmeṇa sandiśya priyāsu nijahṛdgatam | yathāvad vyañjayāmāsa śrīparāśaragīr yathā,यः श्रीरामेण सन्दिश्य प्रियासु निजहृद्गतम् । यथावद् व्यञ्जयामास श्रीपराशरगीर् यथा +skd_207,oprāptiṃ; 2. .36; 3. .37; sandeśaiḥ sāmamadhuraiḥ premagarbhair agarvitaiḥ | rāmeṇāśvāsitā gopyaḥ kṛṣṇasyātimanoharaiḥ,ओप्राप्तिं; २. .३६; ३. .३७; सन्देशैः साममधुरैः प्रेमगर्भैर् अगर्वितैः । रामेणाश्वासिता गो��्यः कृष्णस्यातिमनोहरैः +skd_208,1 yaḥ kurukṣetrayātrāyā vyājān mātrādikān cirāt | saṃsajyāmūn visṛjyānyān sahavāsamudaṃ dadhe,१ यः कुरुक्षेत्रयात्राया व्याजान् मात्रादिकान् चिरात् । संसज्यामून् विसृज्यान्यान् सहवासमुदं दधे +skd_209,yaḥ suraghnān vraje gantuṃ vighnān hantuṃ vrajeśituḥ | vraje gamanam ācarya dvārakāgatim ādade,यः सुरघ्नान् व्रजे गन्तुं विघ्नान् हन्तुं व्रजेशितुः । व्रजे गमनम् आचर्य द्वारकागतिम् आददे +skd_210,yaḥ krāmadbhiḥ sudīrgheṇa suṣṭhu kraṣṭuṃ vrajaṃ prati | āmuktaḥ pāśasaṅkāśamanasā vrajavāsibhiḥ,यः क्रामद्भिः सुदीर्घेण सुष्ठु क्रष्टुं व्रजं प्रति । आमुक्तः पाशसङ्काशमनसा व्रजवासिभिः +skd_211,yaḥ prakāśaṃ mahārājasampadaṃ dadhad īkṣitaḥ | vrajāya vrajarājādyenāhūtaḥ pūrvavad girā,यः प्रकाशं महाराजसम्पदं दधद् ईक्षितः । व्रजाय व्रजराजाद्येनाहूतः पूर्ववद् गिरा +skd_212,yas teṣāṃ suṣṭhu nirninye yan manaḥ svāgatispṛhiḥ2 | tenāntaḥkarṣaṇaṃ prāptaḥ karṣam anyena nārhati,यस् तेषां सुष्ठु निर्निन्ये यन् मनः स्वागतिस्पृहिः२ । तेनान्तःकर्षणं प्राप्तः कर्षम् अन्येन नार्हति +skd_213,yaḥ svīyasahitas teṣāṃ svīyakāmān apūrayat | kṛṣṇe kamalapatrākṣe sannyastākhilarādhasā,यः स्वीयसहितस् तेषां स्वीयकामान् अपूरयत् । कृष्णे कमलपत्राक्षे सन्न्यस्ताखिलराधसा +skd_214,āgamiṣyaty adhīrgheṇety3 āśālabdhaṃ yad īpsitam | tad artham eva tān arthān ye svīcakruḥ parān api,आगमिष्यत्य् अधीर्घेणेत्य्३ आशालब्धं यद् ईप्सितम् । तद् अर्थम् एव तान् अर्थान् ये स्वीचक्रुः परान् अपि +skd_215,yaḥ svāgamanamaryādāṃ preyasīṣu nijāṃ vyadhāt | dantavakrāntaśatrūṇāṃ māraṇaṃ sarvatāraṇam,यः स्वागमनमर्यादां प्रेयसीषु निजां व्यधात् । दन्तवक्रान्तशत्रूणां मारणं सर्वतारणम् +skd_216,api smaratha naḥ sakhyaḥ svānām arthaṃ4 cikīrṣayā | gatāṃś cirāyitān śatrupakṣakṣapaṇacetasaḥ,अपि स्मरथ नः सख्यः स्वानाम् अर्थं४ चिकीर्षया । गतांश् चिरायितान् शत्रुपक्षक्षपणचेतसः +skd_217,5 mayi bhaktir hi bhūtānām amṛtatvāya kalpate | diṣṭyā yad āsīn matsneho bhavatīnāṃ madāpanaḥ,५ मयि भक्तिर् हि भूतानाम् अमृतत्वाय कल्पते । दिष्ट्या यद् आसीन् मत्स्नेहो भवतीनां मदापनः +skd_218,6 yas tātkālikaśāntyarthe tathāpi jñānam ādiśat | āhūś cety7ādike padye prārthitas tābhir anyathā,६ यस् तात्कालिकशान्त्यर्थे तथापि ज्ञानम् आदिशत् । आहूश् चेत्य्७आदिके पद्ये प्रार्थितस् ताभिर् अन्यथा +skd_219,tatrāṅghrismṛtiyācñā tu lakṣyam eva vinirmame | tatpratyāgatitātparyā sā tu paryavasāyyate,तत्राङ्घ्रिस्मृतियाच्ञा तु लक्ष्यम् एव विनिर्ममे । तत्प्रत्यागतितात्पर्या सा तु पर्यवसाय्यते +skd_220,mayi tāḥ preyasām ity8 ādy uktaṃ tena svayaṃ yataḥ | tasmāt taccintanāśaktyā vyaktyā taddarśanārthitā,मयि ताः प्रेयसाम् इत्य्८ आद्य् उक्तं तेन स्वयं यतः । तस्मात् तच्चिन्तनाशक्त्या व्यक्त्या तद्दर्शनार्थिता +skd_221,tathānugṛhya bhagavān gopīnāṃ sa gurur gatiḥ |9ity anena muniḥ procya tāsāṃ vāñchitapūraṇam,तथानुगृह्य भगवान् गोपीनां स गुरुर् गतिः ।९इत्य् अनेन मुनिः प्रोच्य तासां वाञ्छितपूरणम् +skd_222,mayi bhaktir hīti kṛṣṇaproktam eva nyajīgamat | mayy āveśya manaḥ kṛṣṇa ity10 ādy api ca tadvacaḥ,मयि भक्तिर् हीति कृष्णप्रोक्तम् एव न्यजीगमत् । मय्य् आवेश्य मनः कृष्ण इत्य्१० आद्य् अपि च तद्वचः +skd_223,1. vip v.24.20; svāgataspṛhi; 3. .6; arthao; 5. ||.41; 6 ||.44; 7. ||.48; 8. .5; 9. .1; 10. .36. yaḥ pṛthivyā guṇastome satyenādāv abhiṣṭutaḥ satyaṃ vidhātuṃ satyaṃ tan nāvrajet kiṃ vraje bata,१. विप् व्.२४.२०; स्वागतस्पृहि; ३. .६; अर्थओ; ५. ॥.४१; ६ ॥.४४; ७. ॥.४८; ८. .५; ९. .१; १०. .३६. यः पृथिव्या गुणस्तोमे सत्येनादाव् अभिष्टुतः सत्यं विधातुं सत्यं तन् नाव्रजेत् किं व्रजे बत +skd_224,sambhāvanā mamaiveyam iti nātra vicāryatām | vrajasthānāṃ vrajaprāṇavaryasyāpy avadhāryatām,सम्भावना ममैवेयम् इति नात्र विचार्यताम् । व्रजस्थानां व्रजप्राणवर्यस्याप्य् अवधार्यताम् +skd_225,śrīmadvrajādhirājasya kṛṣṇakāntāgaṇasya ca | uddhavaṃ prati gīr īdṛg dṛśyatāṃ daśamādiṣu,श्रीमद्व्रजाधिराजस्य कृष्णकान्तागणस्य च । उद्धवं प्रति गीर् ईदृग् दृश्यतां दशमादिषु +skd_226,yas tu yarhy ambujākṣeti1 stuvadbhir dvārakājanaiḥ | kadācid vrajam āgād ity abhyudhāyi kadācana,यस् तु यर्ह्य् अम्बुजाक्षेति१ स्तुवद्भिर् द्वारकाजनैः । कदाचिद् व्रजम् आगाद् इत्य् अभ्युधायि कदाचन +skd_227,yas tathā śrūyate pādmottarakhaṇḍād api sphuṭam | adād vrajāya svaprāptimaṅgalaṃ nityam ity api,यस् तथा श्रूयते पाद्मोत्तरखण्डाद् अपि स्फुटम् । अदाद् व्रजाय स्वप्राप्तिमङ्गलं नित्यम् इत्य् अपि +skd_228,dattvā tatkṛtakṛtyaḥ san prādurbhāvāntaraṃ gataḥ | jagāma dvārakām ity apy aśrāvīty api yuktimat,दत्त्वा तत्कृतकृत्यः सन् प्रादुर्भावान्तरं गतः । जगाम द्वारकाम् इत्य् अप्य् अश्रावीत्य् अपि युक्तिमत् +skd_229,āgamiṣyaty adīrgheṇety uddhavād buddham anyathā | yathā na syāt tathā bhāṣyaṃ2 kathānyā vitathā matā,आगमिष्यत्य् अदीर्घेणेत्य् उद्धवाद् बुद्धम् अन्यथा । यथा न स्यात् तथा भाष्यं२ कथान्या वितथा मता +skd_230,yas tyajann api gām ākhyat tam uddhavakam utsukaḥ | rāmeṇa sārdham ity3ādyaṃ tāsāṃ kāmitalambhanam,यस् त्यजन्न् अपि गाम् आख्यत् तम् उद्धवकम् उत्सुकः । रामेण सार्धम् इत्य्३आद्यं तासां कामितलम्भनम् +skd_231,rāmeṇeti dvayenāha viyukter yad vyatītatām | tena nāsti viyuktiḥ sā tadānīm iti bhāvyate,रामेणेति द्वयेनाह वियुक्तेर् यद् व्यतीतताम् । तेन नास्ति वियुक्तिः सा तदानीम् इति भाव्यते +skd_232,mayi tāḥ preyasāṃ preṣṭha iti4 prāktanavāgdvaye | viyukter vartamānatvaṃ dṛṣṭvā niṣṭaṅkatām idam,मयि ताः प्रेयसां प्रेष्ठ इति४ प्राक्तनवाग्द्वये । वियुक्तेर् वर्तमानत्वं दृष्ट्वा निष्टङ्कताम् इदम् +skd_233,svena tāsāṃ punaḥ saṅge yad vṛttaṃ prathame 'hani | tadapy atītarīty āha prītyā samadadhad uddhavam,स्वेन तासां पुनः सङ्गे यद् वृत्तं प्रथमे ऽहनि । तदप्य् अतीतरीत्य् आह प्रीत्या समदधद् उद्धवम् +skd_234,tā nāvidann iti5 proce yatra tāsāṃ madātmatām | babhūva sa mahābhāvaḥ sarvāsāṃ parataḥ paraḥ,ता नाविदन्न् इति५ प्रोचे यत्र तासां मदात्मताम् । बभूव स महाभावः सर्वासां परतः परः +skd_238,tataś ca nāmarūpātmany udbhūte svīyavaibhave | praviṣṭā iva na spaṣṭaṃ praviṣṭā gatyabhāvataḥ ||235 dṛṣṭāntayugalaṃ tat tu nāvidann iti kevale | avedanaṃ nadīpakṣe py abdhyanyarasatāhatiḥ ||236 samādhāv iti dṛṣṭāntasyāṅgarūpatayor itam | dārṣṭāntikasyānuṣaṅgaṃ syād aṅgaṃ tadbhidādvayoḥ ||237 matkāmā ramaṇaṃ jāram asvarūpavido 'balāḥ | brahma māṃ paramaṃ prāpur iti6 padye tu tatpare,ततश् च नामरूपात्मन्य् उद्भूते स्वीयवैभवे । प्रविष्टा इव न स्पष्टं प्रविष्टा गत्यभावतः ॥२३५ दृष्टान्तयुगलं तत् तु नाविदन्न् इति केवले । अवेदनं नदीपक्षे प्य् अब्ध्यन्यरसताहतिः ॥२३६ समाधाव् इति दृष्टान्तस्याङ्गरूपतयोर् इतम् । दार्ष्टान्तिकस्यानुषङ्गं स्याद् अङ्गं तद्भिदाद्वयोः ॥२३७ मत्कामा रमणं जारम् अस्वरूपविदो ऽबलाः । ब्रह्म मां परमं प्रापुर् इति६ पद्ये तु तत्परे +skd_239,pacyantāṃ vividhāḥ pākā7 itīvātrārthikaḥ kramaḥ | tā brahma prāpur ity evaṃ tā ity asyātra cānvayaḥ,पच्यन्तां विविधाः पाका७ इतीवात्रार्थिकः क्रमः । ता ब्रह्म प्रापुर् इत्य् एवं ता इत्य् अस्यात्र चान्वयः +skd_240,1. .9; bhāvyam; 3. .10; 4. .5; 5. .12; 6. .13; 7. .26|| kīdṛg brahmeti bodhāya yat prāha paramaṃ padam | tatrāpy ākāṅkṣayāvādīn mām iti svaṃ punaḥ prabhuḥ,१. .९; भाव्यम्; ३. .१०; ४. .५; ५. .१२; ६. .१३; ७. .२६॥ कीदृग् ब्रह्मेति बोधाय यत् प्राह परमं पदम् । तत्राप्य् आकाङ्क्षयावादीन् माम् इति स्वं पुनः प्रभुः +skd_241,mayi bhaktir hīti vākyād āha prāg etad eva hi | dhārayanty atikṛcchreṇety uktyā vyānag idaṃ purā,मयि भक्तिर् हीति वाक्याद् आह प्राग् एतद् एव हि । धारयन्त्य् अतिकृच्छ्रेणेत्य् उक्त्या व्यानग् इदं पुरा +skd_242,prāṇatyāgena matprāptir nānyavat tāsu manmatā | matkāmā iti pūrvārdhe cākhyat prāptivibhaktatām,प्राणत्यागेन मत्प्राप्तिर् नान्यवत् तासु मन्मता । मत्कामा इति पूर्वार्धे चाख्यत् प्राप्तिविभक्तताम् +skd_243,asvarūpavidaḥ satyaḥ prāpur jāradhiyety avak | nityatatpreyasīrūpasvarūpaṃ hi tadīyakam,अस्वरूपविदः सत्यः प्रापुर् जारधियेत्य् अवक् । नित्यतत्प्रेयसीरूपस्वरूपं हि तदीयकम् +skd_244,yat pūrvaṃ bhāvayan bhāvaṃ bhāvinīnām amūdṛśām | matkāmā iti niḥkṣipya jāratve sthairyam1 ākṣipat,यत् पूर्वं भावयन् भावं भाविनीनाम् अमूदृशाम् । मत्कामा इति निःक्षिप्य जारत्वे स्थैर्यम्१ आक्षिपत् +skd_245,mayi kāmaḥ sadā yāsāṃ tā matkāmā itīritāḥ | kāmaś ca ramaṇatvena spṛhātra pratipadyate,मयि कामः सदा यासां ता मत्कामा इतीरिताः । कामश् च रमणत्वेन स्पृहात्र प्रतिपद्यते +skd_246,asminn api batety2ādi śrīrādhāgīr aliṃ prati | vivicyatāṃ tataḥ sarvam anyad anyad vivicyatām,अस्मिन्न् अपि बतेत्य्२आदि श्रीराधागीर् अलिं प्रति । विविच्यतां ततः सर्वम् अन्यद् अन्यद् विविच्यताम् +skd_247,atrāryaputra3 śabdaḥ syāt patyāv eva prasiddhibhāk | tathāpi sve���u kaiṅkaryaṃ dainyāt kanyāvad īritam,अत्रार्यपुत्र३ शब्दः स्यात् पत्याव् एव प्रसिद्धिभाक् । तथापि स्वेषु कैङ्कर्यं दैन्यात् कन्यावद् ईरितम् +skd_248,saṅk ptāpatitā tābhiḥ punar ittham udīritam | śyāmasundara te dāsya iti4 yadvat tatheha ca,सङ्क् प्तापतिता ताभिः पुनर् इत्थम् उदीरितम् । श्यामसुन्दर ते दास्य इति४ यद्वत् तथेह च +skd_249,āryaputraḥ kadāsmākaṃ kiṅkarīṇāṃ tu mūrdhani | bhujaṃ dhāsyaty evam āsāṃ tatpatnīpadakāmatā,आर्यपुत्रः कदास्माकं किङ्करीणां तु मूर्धनि । भुजं धास्यत्य् एवम् आसां तत्पत्नीपदकामता +skd_250,tatkāmatā hi siddhā cet tena taddānam avyayam | ye yathā māṃ prapadyante iti5 yatvat6 pratiśravaḥ,तत्कामता हि सिद्धा चेत् तेन तद्दानम् अव्ययम् । ये यथा मां प्रपद्यन्ते इति५ यत्वत्६ प्रतिश्रवः +skd_251,vallavyo me madātmāna iti7 yat proktam ātmanā | sarveṣāṃ vacasām ūrdhvaṃ tad āstāṃ sarvamūrdhani,वल्लव्यो मे मदात्मान इति७ यत् प्रोक्तम् आत्मना । सर्वेषां वचसाम् ऊर्ध्वं तद् आस्तां सर्वमूर्धनि +skd_252,yan matkāmā iti proce tāsāṃ prāptis tathā svayam | tan mayā sādhu tat proktaṃ tāsāṃ kāmitalambhanam,यन् मत्कामा इति प्रोचे तासां प्राप्तिस् तथा स्वयम् । तन् मया साधु तत् प्रोक्तं तासां कामितलम्भनम् +skd_253,matkāmā iti padyasya turyāṃśe tv idam ucyate | parāś ca saṅgatas tāsāṃ prāpuḥ śatasahasraśaḥ8,मत्कामा इति पद्यस्य तुर्यांशे त्व् इदम् उच्यते । पराश् च सङ्गतस् तासां प्रापुः शतसहस्रशः८ +skd_254,yaḥ śrīgargavacaḥ pūrṇaṃ tūrṇaṃ cakre svayaṃ dvayam | eṣa vaḥ śreya ādhasyad ya etasmin maheti9 dik,यः श्रीगर्गवचः पूर्णं तूर्णं चक्रे स्वयं द्वयम् । एष वः श्रेय आधस्यद् य एतस्मिन् महेति९ दिक् +skd_255,nāśād vighnasya kaṃsādeḥ patyābhāsādijasya ca | 'sthairyam; 2. .21; 3. ibid.; 4. x.22.15; 5. gītā 4.11; yat tat; 7. .6; 8. .13; 9. .16 sadā svam adadād yasmād vraje kāntāvrajeṣv api,नाशाद् विघ्नस्य कंसादेः पत्याभासादिजस्य च । ऽस्थैर्यम्; २. .२१; ३. इबिद्.; ४. x.२२.१५; ५. गीता ४.११; यत् तत्; ७. .६; ८. .१३; ९. .१६ सदा स्वम् अददाद् यस्माद् व्रजे कान्ताव्रजेष्व् अपि +skd_256,yaḥ prādād vrajavāsibhyaḥ pūrvarītyā nijāṃ gatim | vṛndāvanasthāṃ golokanāmnīṃ yāṃ prāg alokayat,यः प्रादाद् व्रजवासिभ्यः पूर्वरीत्या निजां गतिम् । वृन्दावनस्थां गोलोकनाम्नीं यां प्राग् अलोकयत् +skd_257,yāṃ śrībṛhadgautamīye prāha vṛndāvanaṃ prati | sarvadevamayaś cāhaṃ na tyajāmi vanaṃ kvacit,यां श्रीबृहद्गौतमीये प्राह वृन्दावनं प्रति । सर्वदेवमयश् चाहं न त्यजामि वनं क्वचित् +skd_258,āvirbhāvas tirobhāvo bhaven me'tra yuge yuge | tejomayam idaṃ ramyam adṛśyaṃ carmacakṣuṣā,आविर्भावस् तिरोभावो भवेन् मेऽत्र युगे युगे । तेजोमयम् इदं रम्यम् अदृश्यं चर्मचक्षुषा +skd_259,1 tad etad vistarād brahmasaṃhitāyāṃ nirūpitam | golokanāmnā2 tanmadhye gokulākhyaṃ hareḥ padam,१ तद् एतद् विस्तराद् ब्रह्मसंहितायां निरूपितम् । गोलोकनाम्ना२ तन्मध्ये गोकुलाख्यं हरेः पदम् +skd_260,na tyajāmīti yat tat tu dvidhābhiprāyakaṃ matam | virahe 'pi vraje sphūrtyā pūrtyā śīghrāgater api,न त्यजामीति यत् तत् तु द्विधाभिप्रायकं मतम् । विरहे ऽपि व्रजे स्फूर्त्या पूर्त्या शीघ्रागतेर् अपि +skd_261,yaḥ sva-puryor api sthairyaṃ yāti nityaṃ yathāha ca | mathurā bhagavān yatra nityaṃ sannihito hariḥ,यः स्व-पुर्योर् अपि स्थैर्यं याति नित्यं यथाह च । मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः +skd_262,3 dvārakāṃ hariṇā tyaktāṃ samudrotplāvayat kṣaṇāt | varjayitvā mahārāja śrīmad-bhagavad-ālayam,३ द्वारकां हरिणा त्यक्तां समुद्रोत्प्लावयत् क्षणात् । वर्जयित्वा महाराज श्रीमद्-भगवद्-आलयम् +skd_263,4 smṛtvāśeṣāśubha-haraṃ sarva-maṅgala-maṅgalaḥ | nityaṃ sannihitas tatra bhagavān madhusūdanaḥ,४ स्मृत्वाशेषाशुभ-हरं सर्व-मङ्गल-मङ्गलः । नित्यं सन्निहितस् तत्र भगवान् मधुसूदनः +skd_264,5 yas tasmād ubhayatrāpi rājatīti śukena ca | jayatīty6 ādi-vākyena varṇitaḥ kṣitipaṃ prati,५ यस् तस्माद् उभयत्रापि राजतीति शुकेन च । जयतीत्य्६ आदि-वाक्येन वर्णितः क्षितिपं प्रति +skd_265,yaś campū-yugala-prāntam īdṛk siddhāntam īritam | jīvāntaryāmitāṃ prāptas tūrṇaṃ pūrṇam acīkarat,यश् चम्पू-युगल-प्रान्तम् ईदृक् सिद्धान्तम् ईरितम् । जीवान्तर्यामितां प्राप्तस् तूर्णं पूर्णम् अचीकरत् +skd_266,sa tu harir adhivartma dantavakraṃ yudhi śamayan vraja-vāsam āsasāda | tam abhiyayur amī vrajeśa-mukhyāḥ śaśinam iva kṣudhitāś cakora-vārāḥ,स तु हरिर् अधिवर्त्म दन्तवक्रं युधि शमयन् व्रज-वासम् आससाद । तम् अभिययुर् अमी व्रजेश-मुख्याः शशिनम् इव क्षुधिताश् चकोर-वाराः +skd_267,sa ca janaka-mukhān nirīkṣya śuṣkān svadṛg-amṛtena siñcati sma | pulaka-kula-miṣād yathāṅkurāṇāṃ tatim adadhur bata te'pi gopavṛkṣāḥ,स च जनक-मुखान् निरीक्ष्य शुष्कान् स्वदृग्-अमृतेन सिञ्चति स्म । पुलक-कुल-मिषाद् यथाङ्कुराणां ततिम् अदधुर् बत तेऽपि गोपवृक्षाः +skd_268,atha hari-hariṇīdṛśaś ca tarhi sphuraṇam iva pratipadya pūrva-tulyam | nayana-gatatayānyathā ca matvā muhur agaman bhramam abhramaṃ ca tatra,अथ हरि-हरिणीदृशश् च तर्हि स्फुरणम् इव प्रतिपद्य पूर्व-तुल्यम् । नयन-गततयान्यथा च मत्वा मुहुर् अगमन् भ्रमम् अभ्रमं च तत्र +skd_269,1. gcp 1.18; gcu 29.96 etc.; nāmnīṃ; 3. .28; 4. .23; 5. .24; 6. .48; vrajam atha viśataḥ sa-ratnam ārātrikam anulabdhavataś ca tasya lokaḥ | kusuma-kula-sahodaraṃ vitanvan jaya-jaya-ghoṣam uvāca bhadra-vācam,१. ग्च्प् १.१८; ग्चु २९.९६ एत्च्.; नाम्नीं; ३. .२८; ४. .२३; ५. .२४; ६. .४८; व्रजम् अथ विशतः स-रत्नम् आरात्रिकम् अनुलब्धवतश् च तस्य लोकः । कुसुम-कुल-सहोदरं वितन्वन् जय-जय-घोषम् उवाच भद्र-वाचम् +skd_270,vrajam atha sukhayan vinīta-vācā kramam anulabdha-tadīya-saṅgamaś ca | druta-gati jananīṃ sukhena sektuṃ gṛham adasīyam iyāya kṛṣṇa-candraḥ,व्रजम् अथ सुखयन् विनीत-वाचा क्रमम् अनुलब्ध-तदीय-सङ्गमश् च । द्रुत-गति जननीं सुखेन सेक्तुं गृहम् अदसीयम् इयाय कृष्ण-चन्द्रः +skd_271,ciram api viracayya śarma tasyās tad-anumatiṃ pratilabhya tat-tanūjaḥ | saha-sakhi-nikareṇa divya-śayyāṃ sukham adhiśayya niśāvirāma-dṛṣṭaḥ,चिरम् अपि विरचय्य शर्म तस्यास् तद्-अन���मतिं प्रतिलभ्य तत्-तनूजः । सह-सखि-निकरेण दिव्य-शय्यां सुखम् अधिशय्य निशाविराम-दृष्टः +skd_272,punar api nija-vṛnda-saukhya-vṛndaṃ vidadhad uditya sa nitya-citra-mitraḥ | nija-mukha-kamalaṃ vikāsya netra-bhramara-madhūtsavam ātatāna tatra,पुनर् अपि निज-वृन्द-सौख्य-वृन्दं विदधद् उदित्य स नित्य-चित्र-मित्रः । निज-मुख-कमलं विकास्य नेत्र-भ्रमर-मधूत्सवम् आततान तत्र +skd_273,aharahar idam eva tatra pūrva-1pratinava-bhāvam avāpa kevalaṃ na | jana-samuditir apy adṛṣṭa-pūrvāṃ vapur anukāntim iyāya śaśvad eva,अहरहर् इदम् एव तत्र पूर्व-१प्रतिनव-भावम् अवाप केवलं न । जन-समुदितिर् अप्य् अदृष्ट-पूर्वां वपुर् अनुकान्तिम् इयाय शश्वद् एव +skd_274,divasa-katipaye tadātiyāte2 paśupati-pālakatāpta-tādṛg-icchuḥ | nija-ratha-tarasā nināya goṣṭhaṃ saha-jananī-kabalaṃ tam uddhavaṃ ca,दिवस-कतिपये तदातियाते२ पशुपति-पालकताप्त-तादृग्-इच्छुः । निज-रथ-तरसा निनाय गोष्ठं सह-जननी-कबलं तम् उद्धवं च +skd_275,agharipu-sudṛśāṃ dhavābhimāniṣv akṛta-tanu-pratimāḥ purā tu māyā | sarabhasam adhunā sma tā vibhajya prakṛta-tanūs tanute premāspadāni,अघरिपु-सुदृशां धवाभिमानिष्व् अकृत-तनु-प्रतिमाः पुरा तु माया । सरभसम् अधुना स्म ता विभज्य प्रकृत-तनूस् तनुते प्रेमास्पदानि +skd_276,atha gatavati mūrti-bheda-rītyā yadu-puram atra ca rājamāna-dhāmni | vraja-bhava-jana-mātra-dṛśya-rūpe matir udiyāt tava citta gopa-kṛṣṇe,अथ गतवति मूर्ति-भेद-रीत्या यदु-पुरम् अत्र च राजमान-धाम्नि । व्रज-भव-जन-मात्र-दृश्य-रूपे मतिर् उदियात् तव चित्त गोप-कृष्णे +skd_1,iti janmādi-līlā,इति जन्मादि-लीला +skd_1,pūrvaṃ; tadādio atha nityalīlā prakaṭataravikāsabhāji vṛndāvana iha bhāti kim apy adṛśya-dhāma | vraja-jana-sahitaḥ sa yatra kṛṣṇaḥ sukha-vihṛtiṃ vidadhad vibhāti nityam,पूर्वं; तदादिओ अथ नित्यलीला प्रकटतरविकासभाजि वृन्दावन इह भाति किम् अप्य् अदृश्य-धाम । व्रज-जन-सहितः स यत्र कृष्णः सुख-विहृतिं विदधद् विभाति नित्यम् +skd_2,parilasati payaḥ-samudra-sīmā vraja-yuva-rāja-samāja-loka eṣaḥ | amum anu caturasram atra vanyāgiri-sarid-añcita-cārutātidhanyā,परिलसति पयः-समुद्र-सीमा व्रज-युव-राज-समाज-लोक एषः । अमुम् अनु चतुरस्रम् अत्र वन्यागिरि-सरिद्-अञ्चित-चारुतातिधन्या +skd_3,girisamuditir atra suṣṭhu govardhanavalitā paribhāti citratulyā | vilasati yamunādikānadīnāṃ tatir api mānasagaṅgayānuṣaktā,गिरिसमुदितिर् अत्र सुष्ठु गोवर्धनवलिता परिभाति चित्रतुल्या । विलसति यमुनादिकानदीनां ततिर् अपि मानसगङ्गयानुषक्ता +skd_4,abhirucidadaratnacitramitraṃ bhuvanam idaṃ paribhāti yatra vṛkṣāḥ | tad anukṛtiparārucā samṛddhyā hariratidāyitayā ca ye vibhātāḥ,अभिरुचिददरत्नचित्रमित्रं भुवनम् इदं परिभाति यत्र वृक्षाः । तद् अनुकृतिपरारुचा समृद्ध्या हरिरतिदायितया च ये विभाताः +skd_5,vilasati caturasradhāmni ghasrakṣitipatibimbamahaḥ sahasrapatram | upavanam adhipatram atra kṛṣṇapriyatama1dāravihārasāravāraḥ,विलसति चतुरस्रधाम्नि घस्रक्षितिपतिबिम्बमहः सहस्रपत्रम् । उपवनम् अधिपत्रम् अत्र कृष्णप्रियतम१दारविहारसारवारः +skd_6,iha kamaladaladvayālimadhyasthitipathivṛndam atisphuṭaṃ vibhāti | aparaparagatāv acākṣuṣāṇi śrutivihitāny ayanāni yat tu jetṛ,इह कमलदलद्वयालिमध्यस्थितिपथिवृन्दम् अतिस्फुटं विभाति । अपरपरगताव् अचाक्षुषाणि श्रुतिविहितान्य् अयनानि यत् तु जेतृ +skd_7,maṇijani2kamalasya tasya cāgrāvalivalayapratisandhilabdhasandhi | surabhigaṇavṛtāsudhābhadugdhāsurabhitatiḥ śrayate śubhaṃyugoṣṭham,मणिजनि२कमलस्य तस्य चाग्रावलिवलयप्रतिसन्धिलब्धसन्धि । सुरभिगणवृतासुधाभदुग्धासुरभिततिः श्रयते शुभंयुगोष्ठम् +skd_8,atha dalavalayasya madhyabhāgaṃ3 pratilasati vrajarājarājadhānī | paridhivad4 abhitaḥ samastagopaprakaragṛhāvalir atra yatra bhāti,अथ दलवलयस्य मध्यभागं३ प्रतिलसति व्रजराजराजधानी । परिधिवद्४ अभितः समस्तगोपप्रकरगृहावलिर् अत्र यत्र भाति +skd_9,rucilasadavarodhamadhyabhāgaṃ sapariṣadantimaṣaṣṭhabhāgapuṣṭam | vrajanṛpabhavanaṃ tu tatra cāntar dinakaravad vidadhāti raśmisṛṣṭim,रुचिलसदवरोधमध्यभागं सपरिषदन्तिमषष्ठभागपुष्टम् । व्रजनृपभवनं तु तत्र चान्तर् दिनकरवद् विदधाति रश्मिसृष्टिम् +skd_10,yad api maṇimayaṃ tad eka-rūpaṃ tad api sad adbhuta-madhya-madhya-bhāgam | yadi bahu-vidham ūhituṃ samīhā smara mama mānasa gopa-campū-yugmam,यद् अपि मणिमयं तद् एक-रूपं तद् अपि सद् अद्भुत-मध्य-मध्य-भागम् । यदि बहु-विधम् ऊहितुं समीहा स्मर मम मानस गोप-चम्पू-युग्मम् +skd_11,iha sahacaratārakālipuṣṭaḥ svakaparicāricakoravārajuṣṭaḥ | smitam anuyaśa ity anudya kaumudy avataratīty uditātareḥ sutuṣṭaḥ,इह सहचरतारकालिपुष्टः स्वकपरिचारिचकोरवारजुष्टः । स्मितम् अनुयश इत्य् अनुद्य कौमुद्य् अवतरतीत्य् उदितातरेः सुतुष्टः +skd_12,vrajakulakumudāvalīmudāṃ yaḥ satatamahāmahakṛdvidhāv atandraḥ | pitṛmukhasadasi priyāvalīnāṃ mahasi ca nandati gopakṛṣṇacandraḥ,व्रजकुलकुमुदावलीमुदां यः सततमहामहकृद्विधाव् अतन्द्रः । पितृमुखसदसि प्रियावलीनां महसि च नन्दति गोपकृष्णचन्द्रः +skd_13,surapatimaṇimānitāṅgisaṅghapaṭapapaṭutākṛtahemaraṅgabhaṅgaḥ | guṇagaṇabhṛtabhāratīsamājaḥ sa jayati gokularājavaṃśarājaḥ,सुरपतिमणिमानिताङ्गिसङ्घपटपपटुताकृतहेमरङ्गभङ्गः । गुणगणभृतभारतीसमाजः स जयति गोकुलराजवंशराजः +skd_14,iha harivihṛtīr atītarītyā śṛṇu kathayāmi sadāpi nātibhinnāḥ | yad anṛtam api pūrvarīti cetaḥ praviśati nādyatanaṃ tathā yathārtham,इह हरिविहृतीर् अतीतरीत्या शृणु कथयामि सदापि नातिभिन्नाः । यद् अनृतम् अपि पूर्वरीति चेतः प्रविशति नाद्यतनं तथा यथार्थम् +skd_15,priyatam udārao; cintāmaṇio; 3. obhāsaṃ; parividhad; 5. pratilavam api citram asya tat tat ka iva sudhīr avasānam ādadīta?,प्रियतम् उदारओ; चिन्तामणिओ; ३. ओभासं; परिविधद्; ५. प्रतिलवम् अपि चित्रम् अस्य तत् तत् क इव सुधीर् अवसानम् आददीत? +skd_16,atha niśi rahasāgatāntarāyāṃ valajam ite stavavādyavidyaloke | vrajabhavanajanaḥ sahaiva jāgran manasi hariṃ dadhad āgataṃ nananda,अथ निशि रहसागतान्तरायां वलजम् इते स्तववाद्यविद्यलोके । व्रजभवनजनः सहैव जाग्रन् मनसि हरिं दधद् आगतं ननन्द +skd_17,sa mathananinadaṃ sagītanādaṃ sasurabhidoharavaṃ sagopavādam | amṛtamathanayuk payodhitulyaṃ vrajakulam ullasitaṃ didhinva kṛṣṇam,स मथननिनदं सगीतनादं ससुरभिदोहरवं सगोपवादम् । अमृतमथनयुक् पयोधितुल्यं व्रजकुलम् उल्लसितं दिधिन्व कृष्णम् +skd_18,vrajapatimithunaṃ tadātha putrapramadamadaślathitapradānasetu | tanayajaya1viruttatiṃ paṭhadbhyaḥ pracurataraṃ vitatāra vāravāram2,व्रजपतिमिथुनं तदाथ पुत्रप्रमदमदश्लथितप्रदानसेतु । तनयजय१विरुत्ततिं पठद्भ्यः प्रचुरतरं विततार वारवारम्२ +skd_19,iha lasati harer vilāsagehapratatir udārasudārasāravārā | śayanasukhamayī nikuñjavīthiḥ kvacana ca tādṛśatāṃ gatā vibhāti,इह लसति हरेर् विलासगेहप्रततिर् उदारसुदारसारवारा । शयनसुखमयी निकुञ्जवीथिः क्वचन च तादृशतां गता विभाति +skd_20,nijanijaśayanaṃ gataṃ tam āliṅganavalitaṃ vidadhur vidhusutanvaḥ | rajani viramaṇaṃ yathā yathāsīd aghaṭata dordraḍhimā tathā tathāsām,निजनिजशयनं गतं तम् आलिङ्गनवलितं विदधुर् विधुसुतन्वः । रजनि विरमणं यथा यथासीद् अघटत दोर्द्रढिमा तथा तथासाम् +skd_21,iha paramaramā vibhāti rādhā saduḍugaṇe gagane yathendumūrtiḥ | tad iyam adhikayā girā sabhājyā tadanugatiṃ dadhatāṃ parāḥ sapatnyaḥ,इह परमरमा विभाति राधा सदुडुगणे गगने यथेन्दुमूर्तिः । तद् इयम् अधिकया गिरा सभाज्या तदनुगतिं दधतां पराः सपत्न्यः +skd_22,vrajasukṛtavilāsasāraratnākaravṛṣabhānusujātaśātalakṣmīḥ | agharipuramaṇīramāsu mukhyā svayam anurāgavihārahārimūrtiḥ,व्रजसुकृतविलाससाररत्नाकरवृषभानुसुजातशातलक्ष्मीः । अघरिपुरमणीरमासु मुख्या स्वयम् अनुरागविहारहारिमूर्तिः +skd_23,dayitaghanataḍidvilāsivarṇā priyatamavarṇasva3varṇaśastavastrā | harimaṇitaralādidivyadīvyanmaṇimayabhūṣaṇabhūṣaṇāṅgabhaṅgiḥ,दयितघनतडिद्विलासिवर्णा प्रियतमवर्णस्व३वर्णशस्तवस्त्रा । हरिमणितरलादिदिव्यदीव्यन्मणिमयभूषणभूषणाङ्गभङ्गिः +skd_24,upamitipadavīṃ svam eva yāntīṃ suparimitivyatiśobhitāṅgasaṅghā | pratikakubhaśubhaṅkaraprathābhiḥ sahajavilakṣaṇāṅkitaśrīḥ,उपमितिपदवीं स्वम् एव यान्तीं सुपरिमितिव्यतिशोभिताङ्गसङ्घा । प्रतिककुभशुभङ्करप्रथाभिः सहजविलक्षणाङ्कितश्रीः +skd_25,śaśikamalarucāṃ padāpi jetrī nijanakhakāntibhir ujjvalena tena | avayavakulam anyad4 anyad astu pratinavarocir upāttakāntacittam,शशिकमलरुचां पदापि जेत्री निजनखकान्तिभिर् उज्ज्वलेन तेन । अवयवकुलम् अन्यद्४ अन्यद् अस्तु प्रतिनवरोचिर् उपात्तकान्तचित्तम् +skd_26,sukusumasukumāratāvatāras trijagati saurabhasaurabhākaraśrīḥ | ṛtam itamadhurapriyārtharītipravalitavarṇanarītilabdhavarṇā,सुकुसुमसुकुमारतावतारस् त्रिजगति सौरभसौरभाकरश्रीः । ऋतम् इतमधुरप्रियार्थरीतिप्रवलितवर्णनरीतिलब्धवर्णा +skd_27,sumatim atiguruḥ samastavidyā sakalakalāvalitātinamracittā | hriyam anu vinayaṃ nayaṃ samajñām api dadhatī svajanādi śarmadātrī,सुमतिम् अतिगुरुः समस्तविद्या सकलकलावलितातिनम्रचित्ता । ह्रियम् अनु विनयं नयं समज्ञाम् अपि दधती स्वजनादि शर्मदात्री +skd_28,nikhilagakaruṇādikair guṇais taṃ svadayitam eva tulāṃ sadāpi dhartrī | gurunikaradayāspadātibhaktiḥ sthiracarahārdasukhāmṛtābhiṣiktā,निखिलगकरुणादिकैर् गुणैस् तं स्वदयितम् एव तुलां सदापि धर्त्री । गुरुनिकरदयास्पदातिभक्तिः स्थिरचरहार्दसुखामृताभिषिक्ता +skd_29,priyapadanakhakāntileśanirmañchanaparacittadaśāvaśānuvelam | bhramaram api tadīyadūtabuddhyā praṇayajacitragirā vicitrayantī,प्रियपदनखकान्तिलेशनिर्मञ्छनपरचित्तदशावशानुवेलम् । भ्रमरम् अपि तदीयदूतबुद्ध्या प्रणयजचित्रगिरा विचित्रयन्ती +skd_30,marud api calati svabhāvataś cet kvacid anukūlatayā nijābhisāre | navavidham api tatra bhaktabhāvaṃ vinidadhatī priyabhaktacittasaktā,मरुद् अपि चलति स्वभावतश् चेत् क्वचिद् अनुकूलतया निजाभिसारे । नवविधम् अपि तत्र भक्तभावं विनिदधती प्रियभक्तचित्तसक्ता +skd_31,bahir anumitidūrabhāvapūrasvacarita5cārutayā sadāvasantī | racayati rahasi priyājane sā svadayitam anv api narmakeliśarma,बहिर् अनुमितिदूरभावपूरस्वचरित५चारुतया सदावसन्ती । रचयति रहसि प्रियाजने सा स्वदयितम् अन्व् अपि नर्मकेलिशर्म +skd_32,ojanao; vāraṃ vāram; osao; anyam; oracitao; bhrukuṭinayanabhaṅgisaṅgi1 kutrāpy ativinayaprathi cāṭu kutracic ca | vaśayati dayitaṃ hariṃ priyā sā kim idam iti prathanāya nāham īśe,ओजनओ; वारं वारम्; ओसओ; अन्यम्; ओरचितओ; भ्रुकुटिनयनभङ्गिसङ्गि१ कुत्राप्य् अतिविनयप्रथि चाटु कुत्रचिच् च । वशयति दयितं हरिं प्रिया सा किम् इदम् इति प्रथनाय नाहम् ईशे +skd_33,harir api śuśubhe sa yābhir uccair anugatimāditayā sugānadhāmni | praṇayaṛṇidaśām2 avāpa yāsāṃ prathatamā khalu tāsu saiva seva3,हरिर् अपि शुशुभे स याभिर् उच्चैर् अनुगतिमादितया सुगानधाम्नि । प्रणयऋणिदशाम्२ अवाप यासां प्रथतमा खलु तासु सैव सेव३ +skd_34,śṛṇu guṇam aparaṃ kṛpāvilāsaṃ vṛṣaravijām anu rāsakelinaktam | mararipur amukāṃ nināya dūraṃ nijanayanaṃ bubudhe mudā tu neyam,शृणु गुणम् अपरं कृपाविलासं वृषरविजाम् अनु रासकेलिनक्तम् । मररिपुर् अमुकां निनाय दूरं निजनयनं बुबुधे मुदा तु नेयम् +skd_35,tad api tad asahiṣṇavaḥ sapatnyaḥ kim api jajalpur amūr amūṃ vinindya | iyam api tu murārimelanāya svayam upapattim adād amūṣu suṣṭhu,तद् अपि तद् असहिष्णवः सपत्न्यः किम् अपि जजल्पुर् अमूर् अमूं विनिन्द्य । इयम् अपि तु मुरारिमेलनाय स्वयम् उपपत्तिम् अदाद् अमूषु सुष्ठु +skd_36,guṇakulam aparaṃ kim aṅga varṇyaṃ harirativāridhibhaṅgasaṅgharūpam | ayi śṛṇu hṛdaya4 prage ca tasyāś caritam idaṃ mṛdu tatpriyasya cātha,गुणकुलम् अपरं किम् अङ्ग वर्ण्यं हरिरतिवारिधिभङ्गसङ्घरूपम् । अयि शृणु हृदय४ प्रगे च तस्याश् चरितम् इदं मृदु तत्प्रियस्य चाथ +skd_37,anumitam akarod yadālpakalpaṃ rajanivibhāgam5 iyaṃ tadā tu kāntam | akuruta bhujapāśabaddham asrasnapitanibhaṃ kurute sma varṣma cāsya,अनुमितम् अकरोद् यदाल्पकल्पं रजनिविभागम्५ इयं तदा तु कान्तम् । अकुरुत भुजपाशबद्धम् अस्रस्नपितनिभं कुरुते स्म वर्ष्म चास्य +skd_38,atha bahuvinayaṃ dadhan murārinayanapayāṃsy apasārayan amuṣyāḥ | svanayanasalilena sārdham6 aṅgaṃ nijam akarot idam iyam apy abhīkṣṇam,अथ बहुविनयं दधन् मुरारिनयनपयां���्य् अपसारयन् अमुष्याः । स्वनयनसलिलेन सार्धम्६ अङ्गं निजम् अकरोत् इदम् इयम् अप्य् अभीक्ष्णम् +skd_39,tadanu ca lalitāviśākhike dve samavayasāv anayor upetya pārśvam | ahimakarahimarturaśmitulyāt kharavacanāt paṭu lumpataḥ sma jāḍyam,तदनु च ललिताविशाखिके द्वे समवयसाव् अनयोर् उपेत्य पार्श्वम् । अहिमकरहिमर्तुरश्मितुल्यात् खरवचनात् पटु लुम्पतः स्म जाड्यम् +skd_40,hriyam iyam abalā tadā tu yātā dayitatanor upagūhanaṃ visṛjya | svapanam iva gatā kṣaṇaṃ nirīhā punar iva jāgaraṇaṃ bhayād dadambha,ह्रियम् इयम् अबला तदा तु याता दयिततनोर् उपगूहनं विसृज्य । स्वपनम् इव गता क्षणं निरीहा पुनर् इव जागरणं भयाद् ददम्भ +skd_41,ahar uditanibhaṃ parāś ca yātā haridayitā harimātaraṃ bhaveyuḥ | iti taduditasambhramād ayāsīd aharudayānugakarmadharmadhāma,अहर् उदितनिभं पराश् च याता हरिदयिता हरिमातरं भवेयुः । इति तदुदितसम्भ्रमाद् अयासीद् अहरुदयानुगकर्मधर्मधाम +skd_42,rajanivilasitaprasaṅgivāsaḥ kulam ajahāt tad iyaṃ yad eva hṛdyam | aparam akurutāṅgasaṅgi yat skhalayitum7 iṣṭam aho balī tu diṣṭaḥ,रजनिविलसितप्रसङ्गिवासः कुलम् अजहात् तद् इयं यद् एव हृद्यम् । अपरम् अकुरुताङ्गसङ्गि यत् स्खलयितुम्७ इष्टम् अहो बली तु दिष्टः +skd_43,padakaravadanaṃ muhuḥ punānā yad iha jalaṃ visasarja śubhrapātre | bhuvam api tad idaṃ bhuvaḥsvarādīny api bhuvanāni sadā punad vibhāti,पदकरवदनं मुहुः पुनाना यद् इह जलं विससर्ज शुभ्रपात्रे । भुवम् अपि तद् इदं भुवःस्वरादीन्य् अपि भुवनानि सदा पुनद् विभाति +skd_44,akuruta na paraṃ bahiḥ snihaṃ sā haridayitā muhur antarasnihaṃ ca | harivapurupayuktatailaśeṣaṃ vinidadhatī khalu yā tulāṃ siṣeve,अकुरुत न परं बहिः स्निहं सा हरिदयिता मुहुर् अन्तरस्निहं च । हरिवपुरुपयुक्ततैलशेषं विनिदधती खलु या तुलां सिषेवे +skd_45,surabhibhir atha mardanāni kṛtvāsnapayad amūm udakena tādṛśena | sahajasurabhitā tatas tadaṅgād udayam itā vijitā diśaś cakāra,सुरभिभिर् अथ मर्दनानि कृत्वास्नपयद् अमूम् उदकेन तादृशेन । सहजसुरभिता ततस् तदङ्गाद् उदयम् इता विजिता दिशश् चकार +skd_46,tanum anu vavase varāṃśukaṃ sā tadapi tanuś chavim ujjagāra tasyāḥ | ghanatatipihite 'pi sūryabimbe diśi diśi rājati tasya raśmisaṅghaḥ,तनुम् अनु ववसे वरांशुकं सा तदपि तनुश् छविम् उज्जगार तस्याः । घनततिपिहिते ऽपि सूर्यबिम्बे दिशि दिशि राजति तस्य रश्मिसङ्घः +skd_47,"athavā, hariratir atigupyate tayā sā tadapi ca tacchavir īkṣyate bahiś ca | saṅgibhaṅgi; 2. jīva has not made sandhi of ṛ. saiva saiva; hṛdaye; vibhāvam; sārdram; vividhamaṇivibhūṣaṇaṃ varākṣyāḥ sukhayati tāḥ svasakhīr itīdam ittham | iha ca hariguṇasmṛtipradīptaṃ pulakamukhaṃ sukhabhūṣaṇaṃ kim īḍe","अथवा, हरिरतिर् अतिगुप्यते तया सा तदपि च तच्छविर् ईक्ष्यते बहिश् च । सङ्गिभङ्गि; २. जीव हस् नोत् मदे सन्धि ओफ़् ऋ. सैव सैव; हृदये; विभावम्; सार्द्रम्; विविधमणिविभूषणं वराक्ष्याः सुखयति ताः स्वसखीर् इतीदम् इत्थम् । इह च हरिगुणस्मृतिप्रदीप्तं पुलकमुखं सुखभूषणं किम् ईडे" +skd_48,1 vrajanṛpamithunasya cāṅghritīrthaṃ vrajanṛpates tanayasya ca prapīya | japavidhivihitadvivarṇamantrā harijananīm avalokituṃ pratasthe,१ व्रजनृपमिथुनस्य चाङ्घ्रितीर्थं व्रजनृपतेस् तनयस्य च प्रपीय । जपविधिविहितद्विवर्णमन्त्रा हरिजननीम् अवलोकितुं प्रतस्थे +skd_49,atha harijananīṃ prati prayātāpy abhimukham eti na sā sakhīvṛtāpi | api tu kuṭilavartmanānugamya praṇamati tatpadayor nidhāya bhālam,अथ हरिजननीं प्रति प्रयाताप्य् अभिमुखम् एति न सा सखीवृतापि । अपि तु कुटिलवर्त्मनानुगम्य प्रणमति तत्पदयोर् निधाय भालम् +skd_50,atha harijananī svayaṃ karābhyāṃ śirasi samunnamite sayatnam asyāḥ | parimalam upalabhya sāsram enāṃ pihitatanuṃ parirabhyanandati sma,अथ हरिजननी स्वयं कराभ्यां शिरसि समुन्नमिते सयत्नम् अस्याः । परिमलम् उपलभ्य सास्रम् एनां पिहिततनुं परिरभ्यनन्दति स्म +skd_51,tadanu tadupadeśataḥ samastāṃ guruvanitām avanamya ramyacittā | pṛthag upaviśatī samastadṛṣṭīr aharata candramukhī cakoratulyāḥ,तदनु तदुपदेशतः समस्तां गुरुवनिताम् अवनम्य रम्यचित्ता । पृथग् उपविशती समस्तदृष्टीर् अहरत चन्द्रमुखी चकोरतुल्याः +skd_52,yadapi muhur iyaṃ sadānubhūtā tadapi tadā milatī pratisvam ārdram | rajani virahitā2 ca kāravarṣājanir iva gharmakanīyasī samastam,यदपि मुहुर् इयं सदानुभूता तदपि तदा मिलती प्रतिस्वम् आर्द्रम् । रजनि विरहिता२ च कारवर्षाजनिर् इव घर्मकनीयसी समस्तम् +skd_53,iti sati carite haripriyāyā haricaritaṃ śṛṇu citta varṇayāmi | gṛhagatavibhave suvarṇite syād gṛhapativarṇanam āśu saukhyadāyi,इति सति चरिते हरिप्रियाया हरिचरितं शृणु चित्त वर्णयामि । गृहगतविभवे सुवर्णिते स्याद् गृहपतिवर्णनम् आशु सौख्यदायि +skd_54,haridayitatamā yadāśu talpād dinamukhakṛtyakṛte kṛteham āsīt3 | harir api sa tadā tadartham ātmapriyasakhadāsagaṇena sevyate sma,हरिदयिततमा यदाशु तल्पाद् दिनमुखकृत्यकृते कृतेहम् आसीत्३ । हरिर् अपि स तदा तदर्थम् आत्मप्रियसखदासगणेन सेव्यते स्म +skd_55,sa rajanivasanaṃ sasarja tac ca sphuṭam iva sūcayati sma gūḍhavṛttam | iha ca tad idam antaraṅgam itthaṃ piśunam itīva tadā smitaṃ suhṛdbhiḥ,स रजनिवसनं ससर्ज तच् च स्फुटम् इव सूचयति स्म गूढवृत्तम् । इह च तद् इदम् अन्तरङ्गम् इत्थं पिशुनम् इतीव तदा स्मितं सुहृद्भिः +skd_56,mukhakaracaraṇaṃ hareḥ sudhautaṃ kamalavanāni jigāya tac ca paśya | vrajam anu kamalālayāpi yasya śrayati rajaḥ padayor yathātra vandī,मुखकरचरणं हरेः सुधौतं कमलवनानि जिगाय तच् च पश्य । व्रजम् अनु कमलालयापि यस्य श्रयति रजः पदयोर् यथात्र वन्दी +skd_57,bahuvidham api tailam iṣṭagandhaṃ dhṛtam abhitaḥ sa vidagdhatānidigdhaḥ | surabhitam iha rādhayā tu devyā svayam urarīkurute sma kṛṣṇacandraḥ,बहुविधम् अपि तैलम् इष्टगन्धं धृतम् अभितः स विदग्धतानिदिग्धः । सुरभितम् इह राधया तु देव्या स्वयम् उररीकुरुते स्म कृष्णचन्द्रः +skd_58,tad aghajiti sutailam ādadāne samajani pūṣitā na tat tu citram | prathamam api sa tan mudābhijighrann agamad amūdṛśatāṃ tad eva citram,तद् अघजिति सुतैलम् आददाने समजनि पूषिता न तत् तु चित्रम् । प्रथमम् अपि स तन् मुदाभिज���घ्रन्न् अगमद् अमूदृशतां तद् एव चित्रम् +skd_59,sa śucisurabhiṇā jalena siktaṃ svavapur akārayad īdṛśaṃ vidhātum | ahaha śṛṇu manas tad eva tat tad guṇamahasā samabhūd atīvasāndram,स शुचिसुरभिणा जलेन सिक्तं स्ववपुर् अकारयद् ईदृशं विधातुम् । अहह शृणु मनस् तद् एव तत् तद् गुणमहसा समभूद् अतीवसान्द्रम् +skd_60,haritanum anu mārjanaṃ vidhitsan mṛdur iyam ity adhigatya kampate sma | jalaguruvasanaṃ visarjayaṃs taddvayam aparaṃ sa dadhat4 praphullati sma,हरितनुम् अनु मार्जनं विधित्सन् मृदुर् इयम् इत्य् अधिगत्य कम्पते स्म । जलगुरुवसनं विसर्जयंस् तद्द्वयम् अपरं स दधत्४ प्रफुल्लति स्म +skd_61,kanakanibhapaṭadvayaṃ paṭīyān paridadhad ambudarocir uptakeśaḥ | satilakalaghubhūṣaṇaḥ svakāntyā trijagati kāntidayā sakhīn didhinva,कनकनिभपटद्वयं पटीयान् परिदधद् अम्बुदरोचिर् उप्तकेशः । सतिलकलघुभूषणः स्वकान्त्या त्रिजगति कान्तिदया सखीन् दिधिन्व +skd_62,harir atha kanakāsane niviśya vyaracayad ācamanaṃ yathā nidiṣṭam | paridadhad upavītam anyad āsīj japam anu sandadhad apy adīpi tatra,हरिर् अथ कनकासने निविश्य व्यरचयद् आचमनं यथा निदिष्टम् । परिदधद् उपवीतम् अन्यद् आसीज् जपम् अनु सन्दधद् अप्य् अदीपि तत्र +skd_63,yadupuram anu yat pradhānabhāvaṃ harir akaroj janake 'pi vidyamāne | taducitam ucitaṃ tu nātra yasmāt pitṛsutatāgatatāratamyam asti,यदुपुरम् अनु यत् प्रधानभावं हरिर् अकरोज् जनके ऽपि विद्यमाने । तदुचितम् उचितं तु नात्र यस्मात् पितृसुततागततारतम्यम् अस्ति +skd_64,1. this line not found in (b); 2. cirahitā; kṛtehayāsīt; dadatvraja-pati-mithune1 sadāpi bālyaṃ harim anucintayad evam āha nityam | vayam iha2 sukṛtāni yāni kurmaḥ pratinidhayas tava tatra na svatantrāḥ,१. थिस् लिने नोत् फ़ोउन्द् इन् (ब्); २. चिरहिता; कृतेहयासीत्; ददत्व्रज-पति-मिथुने१ सदापि बाल्यं हरिम् अनुचिन्तयद् एवम् आह नित्यम् । वयम् इह२ सुकृतानि यानि कुर्मः प्रतिनिधयस् तव तत्र न स्वतन्त्राः +skd_65,iti harir iha nātidharmakarmāṇy uṣasi karoti pituḥ pramodakārī | api tu tadanumodanānukūlāṃ bhavikakṛtiṃ vidadhāti mātur agre,इति हरिर् इह नातिधर्मकर्माण्य् उषसि करोति पितुः प्रमोदकारी । अपि तु तदनुमोदनानुकूलां भविककृतिं विदधाति मातुर् अग्रे +skd_66,harir atha calati sma mātṛpārśvam saha sakhibhir dhvanayan bhūṣaṇāni | sa tad avakalayan vadhūnikāyaḥ sapadi sasāra rahasyapākadhāma,हरिर् अथ चलति स्म मातृपार्श्वम् सह सखिभिर् ध्वनयन् भूषणानि । स तद् अवकलयन् वधूनिकायः सपदि ससार रहस्यपाकधाम +skd_67,atha harijananī hariṃ nirīkṣya vrajamahilābhir iyāya tasya pārśvam | sutam anugamanaṃ vyaloki dhenoḥ samam anayā natarāṃ gavāṃ param āsām,अथ हरिजननी हरिं निरीक्ष्य व्रजमहिलाभिर् इयाय तस्य पार्श्वम् । सुतम् अनुगमनं व्यलोकि धेनोः समम् अनया नतरां गवां परम् आसाम् +skd_68,padam anu patanaṃ bhaven na tasyāḥ savidhajuṣā hariṇā drutaṃ milantyāḥ iti harir avanamya dūradeśāc ciram iva tadvad atiṣṭhad iṣṭabhaktiḥ3,पदम् अनु पतनं भवेन् न तस्याः सविधजुषा हरिणा द्रुतं मिलन्त्याः इति हरिर् अवनम्य दूरदेशाच् चिरम् इव तद्वद् अतिष्ठद् इष्टभक्तिः३ +skd_69,drutam atha jananī tam etya putraṃ drutam udanīnayad4 āgrahaṃ dadhānā | tadanu ca suciraṃ prasajya mūrdhni sravadudakākṣiyugaṃ tam āluloke,द्रुतम् अथ जननी तम् एत्य पुत्रं द्रुतम् उदनीनयद्४ आग्रहं दधाना । तदनु च सुचिरं प्रसज्य मूर्ध्नि स्रवदुदकाक्षियुगं तम् आलुलोके +skd_70,harir avakalayan sarohiṇīkā vrajamahilā jananīsamānabhāvāḥ | tadanuguṇakabhaktibhāg amūṣāṃ namanakṛdasrajalena sicyate sma,हरिर् अवकलयन् सरोहिणीका व्रजमहिला जननीसमानभावाः । तदनुगुणकभक्तिभाग् अमूषां नमनकृदस्रजलेन सिच्यते स्म +skd_71,atha balavalitāḥ pare sakhāyaḥ sahamadhumaṅgalakāḥ samāgatās te | yad ajitam abhajaṃs tad ahni citraṃ vidhum anuṣajya subhagrahā virejuḥ,अथ बलवलिताः परे सखायः सहमधुमङ्गलकाः समागतास् ते । यद् अजितम् अभजंस् तद् अह्नि चित्रं विधुम् अनुषज्य सुभग्रहा विरेजुः +skd_72,atha punar upaveśam āgatās te haribalamātṛmukhāḥ sukhād aśeṣāḥ | haribalavalitā yathāsvam āsann adhi vividhāsanam udyadasranetrāḥ,अथ पुनर् उपवेशम् आगतास् ते हरिबलमातृमुखाः सुखाद् अशेषाः । हरिबलवलिता यथास्वम् आसन्न् अधि विविधासनम् उद्यदस्रनेत्राः +skd_73,atha purugurudāralambhitāśīr baṭusahitāḥ pratipadya viprabhāryāḥ | valayitasakalaḥ sarāmakṛṣṇaḥ praṇamanasaṅgatam unnaman didhinva,अथ पुरुगुरुदारलम्भिताशीर् बटुसहिताः प्रतिपद्य विप्रभार्याः । वलयितसकलः सरामकृष्णः प्रणमनसङ्गतम् उन्नमन् दिधिन्व +skd_74,dvijakulamahilā baṭupradhānā dinadinam āśiṣam adbhutāṃ dadānāḥ | tadudayam api śaśvad īkṣamāṇā vidadhati sākṣatalājapuṣpavṛṣṭim,द्विजकुलमहिला बटुप्रधाना दिनदिनम् आशिषम् अद्भुतां ददानाः । तदुदयम् अपि शश्वद् ईक्षमाणा विदधति साक्षतलाजपुष्पवृष्टिम् +skd_75,harir atha kapilāḥ sanavyavatsā rajatakhuraprakarāḥ suvarṇaśṛṅgāḥ | vividhamaṇibhūṣaṇāḥ samarcya dvijabaṭusādakarod vidhānayuktam,हरिर् अथ कपिलाः सनव्यवत्सा रजतखुरप्रकराः सुवर्णशृङ्गाः । विविधमणिभूषणाः समर्च्य द्विजबटुसादकरोद् विधानयुक्तम् +skd_76,dhṛtamaṇinavakaṃ suvarṇapātraṃ ghṛtaparipūritabhūrikāntimadhyam | paricitamukhabimbabimbam īśas tithigaṇakāya dideśa deśarūpam,धृतमणिनवकं सुवर्णपात्रं घृतपरिपूरितभूरिकान्तिमध्यम् । परिचितमुखबिम्बबिम्बम् ईशस् तिथिगणकाय दिदेश देशरूपम् +skd_77,dvijakulajasatīr baṭūṃś ca kṛṣṇaḥ praṇamana5pūrvakam īpsayābhinandya | madhurataragirā visṛjya dhāmne nijajananīrucimaṅgalaṃ pupoṣa,द्विजकुलजसतीर् बटूंश् च कृष्णः प्रणमन५पूर्वकम् ईप्सयाभिनन्द्य । मधुरतरगिरा विसृज्य धाम्ने निजजननीरुचिमङ्गलं पुपोष +skd_78,janayitṛjananīsvasṛḥ pitṛvyādikavanitāś ca vadhūsutāvimiśrāḥ | anunayavinayapraṇāmapūjādibhir upaveśatayā harir didhinva,जनयितृजननीस्वसृः पितृव्यादिकवनिताश् च वधूसुताविमिश्राः । अनुनयविनयप्रणामपूजादिभिर् उपवेशतया हरिर् दिधिन्व +skd_79,iti purukṛtamaṅgalaḥ sa kṛṣṇaḥ svakagṛhanirmitatatkṛtir balaś ca | sakhicitam ucitapradeśam añcann aśanavidhiṃ vidhinā vidhitsati sma,इति पुरुकृतमङ्गलः स कृष्णः स्वकगृहनिर्मिततत्कृतिर् बलश् च । सखिचितम् उचितप्रदेशम् अञ्चन्न् अशनविधिं विधिना विधित्सति स्म +skd_81,asitakuṭilakeśaveśabhaṅgījanajanalobhanaśobhayā manojñam | nirupamavadanaṃ6 sanīlaśubhracchavi savilāsasaśoṇakoṇanetram,असितकुटिलकेशवेशभङ्गीजनजनलोभनशोभया मनोज्ञम् । निरुपमवदनं६ सनीलशुभ्रच्छवि सविलाससशोणकोणनेत्रम् +skd_82,omithunaṃ; api; obhakti; udanīnamamat; praṇamanaṃ; ovadanaḥ alakavitatabhālamaṇḍitapuṇḍraṃ pṛthutaranīradamuktaṃ muktanāsam | maṇigaṇamayakuṇḍalaprabhābhiḥ śavalitagaṇḍarucātirocituṇḍam,ओमिथुनं; अपि; ओभक्ति; उदनीनममत्; प्रणमनं; ओवदनः अलकविततभालमण्डितपुण्ड्रं पृथुतरनीरदमुक्तं मुक्तनासम् । मणिगणमयकुण्डलप्रभाभिः शवलितगण्डरुचातिरोचितुण्डम् +skd_83,galavalayavibhūṣaṇātiramyaṃ maṇisaramadhyanibaddharatnavaryam | valayavilasadūrmikāṅgadānāṃ cchavicaladūrmibhujadvayāticāru,गलवलयविभूषणातिरम्यं मणिसरमध्यनिबद्धरत्नवर्यम् । वलयविलसदूर्मिकाङ्गदानां च्छविचलदूर्मिभुजद्वयातिचारु +skd_84,nṛharivadavalagnalagnakāñcīstavakacalāñcalacañcadaṃsujālam1 | kanakaghanajidantarāṃśukāṃśaspṛśamaṇinūpurakāntipūrapūrṇam,नृहरिवदवलग्नलग्नकाञ्चीस्तवकचलाञ्चलचञ्चदंसुजालम्१ । कनकघनजिदन्तरांशुकांशस्पृशमणिनूपुरकान्तिपूरपूर्णम् +skd_85,abhimukham upaviṣṭam iṣṭapārasparikanirīkṣaṇākṣiyugmam | navaghanaghanasārakāntipradavapurunnatadāsajuṣṭapṛṣṭam,अभिमुखम् उपविष्टम् इष्टपारस्परिकनिरीक्षणाक्षियुग्मम् । नवघनघनसारकान्तिप्रदवपुरुन्नतदासजुष्टपृष्टम् +skd_86,vividhavidhavicitramitrapaṅktidvayaracitadravatarṣimātṛharṣi | nijanijavadhudṛśyadṛśyarūpaṃ rahasi vinirmitajālavantravṛndāt,विविधविधविचित्रमित्रपङ्क्तिद्वयरचितद्रवतर्षिमातृहर्षि । निजनिजवधुदृश्यदृश्यरूपं रहसि विनिर्मितजालवन्त्रवृन्दात् +skd_88,svayam api samiṣaṃ nirīkṣamāṇaṃ tadanugavākṣakulaṃ kriyākulākṣam | dinamukham adhikṛtya bhavyakṛtyaṃ smara sahajadvayam iṣṭamiṣṭabhukti |87|| bahuṣu dinamukheṣu goṣu śīghraṃ vrajanam iti vrajabhūbhṛtā subhojyam | svayam aśanakṛtā praheyam ity apy aśanam idaṃ laghu vaṣṭi kṛṣṇacandraḥ,स्वयम् अपि समिषं निरीक्षमाणं तदनुगवाक्षकुलं क्रियाकुलाक्षम् । दिनमुखम् अधिकृत्य भव्यकृत्यं स्मर सहजद्वयम् इष्टमिष्टभुक्ति ।८७॥ बहुषु दिनमुखेषु गोषु शीघ्रं व्रजनम् इति व्रजभूभृता सुभोज्यम् । स्वयम् अशनकृता प्रहेयम् इत्य् अप्य् अशनम् इदं लघु वष्टि कृष्णचन्द्रः +skd_89,atha maricasitāsitāṃśumiśraṃ ghṛtaparamānnam adann asāv amībhiḥ | nijarucim iyatā nicāyayaṃś ca pratikavalaṃ praśaśaṃsa kaṃsaśatruḥ,अथ मरिचसितासितांशुमिश्रं घृतपरमान्नम् अदन्न् असाव् अमीभिः । निजरुचिम् इयता निचाययंश् च प्रतिकवलं प्रशशंस कंसशत्रुः +skd_90,navavadhūnihitaṃ balasya mātrā svayam upanīya dhṛtaṃ vrajādhirājñyām | akuruta pariveṣaṇaṃ tathā sā lavam api nātra yathā sa hātum aiṣṭa,नववधूनिहितं बलस्य मात्रा स्वयम् उपनीय धृतं व्रजाधिराज्ञ्याम् । अकुरुत परिवेषणं तथा सा लवम् अपि ना��्र यथा स हातुम् ऐष्ट +skd_91,saparimalajalaṃ tathā jananyor mṛdu mṛdu jalpavikāsimandahāsam | anubhavad iha rāmakṛṣṇayugmaṃ kramam anu bhojanatṛṣṇatām ahāsīt,सपरिमलजलं तथा जनन्योर् मृदु मृदु जल्पविकासिमन्दहासम् । अनुभवद् इह रामकृष्णयुग्मं क्रमम् अनु भोजनतृष्णताम् अहासीत् +skd_92,punar api jananīdvayī śiśūnām aśanarasaṃ vyatihāsanāt pupoṣa | harir atha ca gavāvanāya khelāvanagamanāya ca taṃ kramāt tatāra,पुनर् अपि जननीद्वयी शिशूनाम् अशनरसं व्यतिहासनात् पुपोष । हरिर् अथ च गवावनाय खेलावनगमनाय च तं क्रमात् ततार +skd_93,parimalajaladhautavaktrabimbā navaharicandanacārucarcitāṅgāḥ | khapuraphanidalīpuṭībhir ete surabhitarañjitam ūhur āsyamadhyam,परिमलजलधौतवक्त्रबिम्बा नवहरिचन्दनचारुचर्चिताङ्गाः । खपुरफनिदलीपुटीभिर् एते सुरभितरञ्जितम् ऊहुर् आस्यमध्यम् +skd_94,vrajanṛpatibhṛtibhuk2kumāravṛndārpitamaharābharaṇāñcikañcukādi | sutatanum anu sā virājayantī jananayanāny akarod virājitāni,व्रजनृपतिभृतिभुक्२कुमारवृन्दार्पितमहराभरणाञ्चिकञ्चुकादि । सुततनुम् अनु सा विराजयन्ती जननयनान्य् अकरोद् विराजितानि +skd_95,tam asitamaṇikāntidehakāntisnapitasuvarṇajavarṇakāntavastram | svaviracitavibhūṣaṇaṃ nirīkṣya stananayanād amṛtāny avoḍha mātā,तम् असितमणिकान्तिदेहकान्तिस्नपितसुवर्णजवर्णकान्तवस्त्रम् । स्वविरचितविभूषणं निरीक्ष्य स्तननयनाद् अमृतान्य् अवोढ माता +skd_96,maṇirucimuralīsuvaṛnayaṣṭipravaraśikhaṇḍakaśobhayā tu3 kṛṣṇaḥ | asukhayad avarodhalokadṛṣṭiṃ sukhayitum ittham iyeṣa sabhyadṛṣṭim4,मणिरुचिमुरलीसुवऋनयष्टिप्रवरशिखण्डकशोभया तु३ कृष्णः । असुखयद् अवरोधलोकदृष्टिं सुखयितुम् इत्थम् इयेष सभ्यदृष्टिम्४ +skd_97,harim anukathanīyam atra yad yad balam anu tat tad avehi kintu yogyam | haribalajananīyugaṃ ca tulyaṃ parikalaya priyatā hi tatra tulyā,हरिम् अनुकथनीयम् अत्र यद् यद् बलम् अनु तत् तद् अवेहि किन्तु योग्यम् । हरिबलजननीयुगं च तुल्यं परिकलय प्रियता हि तत्र तुल्या +skd_98,dinadinam anu sāvanāya gantuṃ kṛtamanasas tanayasya maṅgalāya | sajalakalasadīpasāram ārātrikamukhamaṅgalavastu visṛṇoti,दिनदिनम् अनु सावनाय गन्तुं कृतमनसस् तनयस्य मङ्गलाय । सजलकलसदीपसारम् आरात्रिकमुखमङ्गलवस्तु विसृणोति +skd_99,jaladāṃśujālam; obhṛtibhṛto; ca; osṛṣṭim; atha calitamanāḥ svamātur ārād aracayad añjalim acyutaḥ praṇamya | iyam avamṛśatī kareṇa cāmūṃ stananayanāmṛtasārdham āha cedam,जलदांशुजालम्; ओभृतिभृतो; च; ओसृष्टिम्; अथ चलितमनाः स्वमातुर् आराद् अरचयद् अञ्जलिम् अच्युतः प्रणम्य । इयम् अवमृशती करेण चामूं स्तननयनामृतसार्धम् आह चेदम् +skd_100,"""vayam api bhavatā samaṃ prayāmaḥ kṛtapacanaṃ drutam uṣṇam arpayāmaḥ | pariṇatavayasaś cirād abhūma prathayasi lajjitam atra kiṃ nu vatsa","""वयम् अपि भवता समं प्रयामः कृतपचनं द्रुतम् उष्णम् अर्पयामः । परिणतवयसश् चिराद् अभूम प्रथयसि लज्जितम् अत्र किं नु वत्स" +skd_101,yadi vadati bhavān svadhāmni kā syād avasaram āvakayos tadā vidadhyām | gṛham aham ahani kvacādhivatsyāmy atha balasūr api vatsyati kva cāpi,यदि वदति भवान��� स्वधाम्नि का स्याद् अवसरम् आवकयोस् तदा विदध्याम् । गृहम् अहम् अहनि क्वचाधिवत्स्याम्य् अथ बलसूर् अपि वत्स्यति क्व चापि +skd_102,katham iva vadasi tvam etad evaṃ gṛhakṛtir uddhatim āpsyatīti vatsa | tava vanagamane punas tad etat kim api na sidhyati pṛcchyatām idaṃ ca,कथम् इव वदसि त्वम् एतद् एवं गृहकृतिर् उद्धतिम् आप्स्यतीति वत्स । तव वनगमने पुनस् तद् एतत् किम् अपि न सिध्यति पृच्छ्यताम् इदं च +skd_104,"aharahar ayatāṃ vanāni vatsaḥ svasadanavāsasukhaṃ tyajāva nāvām | itimati pitarāv amū na śaṅkāṃ na ca hriyam atra labhāvahe tanūja ||""103|| iti sa tu jananīritaṃ niśamya smitavalitaṃ dhṛtabāṣpam ālalāpa | ""dvividaripur api praṇamramūrdhnā1 mṛdu tadanūditam antarā cacāra","अहरहर् अयतां वनानि वत्सः स्वसदनवाससुखं त्यजाव नावाम् । इतिमति पितराव् अमू न शङ्कां न च ह्रियम् अत्र लभावहे तनूज ॥""१०३॥ इति स तु जननीरितं निशम्य स्मितवलितं धृतबाष्पम् आललाप । ""द्विविदरिपुर् अपि प्रणम्रमूर्ध्ना१ मृदु तदनूदितम् अन्तरा चचार" +skd_105,janani yadi pitā tathā ca mātā pariṇamati sma śiśur babhūva yogyaḥ | śiśur ayam ubhayatra tatra rājanyati yadi tarhi vibhāti suṣṭhu yogyaḥ,जननि यदि पिता तथा च माता परिणमति स्म शिशुर् बभूव योग्यः । शिशुर् अयम् उभयत्र तत्र राजन्यति यदि तर्हि विभाति सुष्ठु योग्यः +skd_106,vanam anu dhavalāvanāya mādṛk yad aṭati tanmiṣasiddhim amba viddhi | sukhaviharaṇam eva tatra sārdhaṃ sakhibhir amībhir anukṣaṇaṃ bibharti,वनम् अनु धवलावनाय मादृक् यद् अटति तन्मिषसिद्धिम् अम्ब विद्धि । सुखविहरणम् एव तत्र सार्धं सखिभिर् अमीभिर् अनुक्षणं बिभर्ति +skd_107,vipinam anu vihāpitaṃ bhavatyo janani caturvidham annajātam admaḥ | amṛtajayiphalāni yena vanyāny abhirucim attum ayāma2 tatra bhūri,विपिनम् अनु विहापितं भवत्यो जननि चतुर्विधम् अन्नजातम् अद्मः । अमृतजयिफलानि येन वन्यान्य् अभिरुचिम् अत्तुम् अयाम२ तत्र भूरि +skd_108,vrajaripukulamūlam āśu hantuṃ punar agamaṃ3 punar āgamaṃ vrajaṃ ca | ajani ca jagatām adṛśya eṣa sphuratu kathaṃ bata mātar atha bhītiḥ,व्रजरिपुकुलमूलम् आशु हन्तुं पुनर् अगमं३ पुनर् आगमं व्रजं च । अजनि च जगताम् अदृश्य एष स्फुरतु कथं बत मातर् अथ भीतिः +skd_111,"ahaha bata gavāṃ kulaṃ samastaṃ mama pathi tiṣṭhati madgatiṃ pratīkṣya | mayi gatavati śaṣpam atti caivaṃ hṛdi mama dhīradaśām aśāśyate sma ||""109|| atha harijananīṃ purandhri4mānyātatir avadad dhṛtanīravṛṣṭidṛṣṭi | ""bhavikam anu manuṣva nityakṛtyaṃ bhavati tad eva gatiḥ parāvarā ca |""110|| tanujam anu purandhribhiḥ śubhāśīrvratatir akāri tataḥ svayaṃ tu mātā | vidhṛtakaratayāṅganāya sāsrāpy amum avatārayati sma mandamandam","अहह बत गवां कुलं समस्तं मम पथि तिष्ठति मद्गतिं प्रतीक्ष्य । मयि गतवति शष्पम् अत्ति चैवं हृदि मम धीरदशाम् अशाश्यते स्म ॥""१०९॥ अथ हरिजननीं पुरन्ध्रि४मान्याततिर् अवदद् धृतनीरवृष्टिदृष्टि । ""भविकम् अनु मनुष्व नित्यकृत्यं भवति तद् एव गतिः परावरा च ।""११०॥ तनुजम् अनु पुरन्ध्रिभिः शुभाशीर्व्रततिर् अकारि ततः स्वयं तु माता । विध���तकरतयाङ्गनाय सास्राप्य् अमुम् अवतारयति स्म मन्दमन्दम्" +skd_112,spṛśati diśati vāñchati prayāti praṇayati mandati nandati bravīti | iti bahuvidhalālanāṃ dadhānā sutam anu sā jananī na tṛptim āpa,स्पृशति दिशति वाञ्छति प्रयाति प्रणयति मन्दति नन्दति ब्रवीति । इति बहुविधलालनां दधाना सुतम् अनु सा जननी न तृप्तिम् आप +skd_113,atha guruvanitāgaṇena mātrāpy anusaraṇād avarodha5setum āptaḥ | praṇayaviṣarabandhatas tu dāmodarapadavīṃ punar eṣa śaśvad āpa,अथ गुरुवनितागणेन मात्राप्य् अनुसरणाद् अवरोध५सेतुम् आप्तः । प्रणयविषरबन्धतस् तु दामोदरपदवीं पुनर् एष शश्वद् आप +skd_114,atha harigamane krameṇa siddhe harijananī nijageham eva gatvā | gṛhakṛtikalanān nināya kālaṃ vṛṣaravijā caritāni tu smarāmi,अथ हरिगमने क्रमेण सिद्धे हरिजननी निजगेहम् एव गत्वा । गृहकृतिकलनान् निनाय कालं वृषरविजा चरितानि तु स्मरामि +skd_115,yadavadhi harir eti mātṛpārśvaṃ tadavadhi sā ca parāś ca jālarandhrāt | harim avakalayanti yatra sarvā muhur api moham ayanti saṃharanti,यदवधि हरिर् एति मातृपार्श्वं तदवधि सा च पराश् च जालरन्ध्रात् । हरिम् अवकलयन्ति यत्र सर्वा मुहुर् अपि मोहम् अयन्ति संहरन्ति +skd_116,mūrdhā; uttamayāma; puragamaṃ; puredhrio; avarodhio yad anupadam iyaṃ tadāryapatnyāṃ dayitakṛte vinidhāya divyam annam | sukham anubhavati sma tat tu māṃ ca kṣipati sudhājaladhāv aho kva yāmi,मूर्धा; उत्तमयाम; पुरगमं; पुरेध्रिओ; अवरोधिओ यद् अनुपदम् इयं तदार्यपत्न्यां दयितकृते विनिधाय दिव्यम् अन्नम् । सुखम् अनुभवति स्म तत् तु मां च क्षिपति सुधाजलधाव् अहो क्व यामि +skd_117,tadaśanam anu yad vihāsajalpaṃ harikṛtam anvadhita svakarṇayugmam | smitanayanayugaṃ tathā nijālīḥ prati tad idaṃ mama cittam āvṛṇoti,तदशनम् अनु यद् विहासजल्पं हरिकृतम् अन्वधित स्वकर्णयुग्मम् । स्मितनयनयुगं तथा निजालीः प्रति तद् इदं मम चित्तम् आवृणोति +skd_118,harir ahaha tadā vanaṃ prayātuṃ nijatanum āstṛta divyavastralakṣmyā | iyam asahanamānasā sapatnyām iva nidadhe sakaṭākṣam akṣi tasyām,हरिर् अहह तदा वनं प्रयातुं निजतनुम् आस्तृत दिव्यवस्त्रलक्ष्म्या । इयम् असहनमानसा सपत्न्याम् इव निदधे सकटाक्षम् अक्षि तस्याम् +skd_119,sa vipinagataye yadāpy udasthād adhita dhṛtiṃ nahi tarhi khañjanākṣī | vapur iva jahatā svacetasā taṃ prasajati sā sma vanāya nirgamāya,स विपिनगतये यदाप्य् उदस्थाद् अधित धृतिं नहि तर्हि खञ्जनाक्षी । वपुर् इव जहता स्वचेतसा तं प्रसजति सा स्म वनाय निर्गमाय +skd_120,sarasijadṛg athāṅgane 'vatīrṇaḥ smitam amṛtaṃ vicakāra yarhi dikṣu | iyam atularuciḥ sakhīṣu guptā svanayanam añjalim ācacāra tarhi,सरसिजदृग् अथाङ्गने ऽवतीर्णः स्मितम् अमृतं विचकार यर्हि दिक्षु । इयम् अतुलरुचिः सखीषु गुप्ता स्वनयनम् अञ्जलिम् आचचार तर्हि +skd_121,murajiti nirite varāvarodhād guruvanitāsu nivṛtya cāgatāsu | iyam atha lalitādibhiḥ svagehaṃ prati gamitāgamayat klamena kālam,मुरजिति निरिते वरावरोधाद् गुरुवनितासु निवृत्य चागतासु । इयम् अथ ललितादिभिः स्वगेहं प्रति गमितागमयत् क्लमेन कालम् +skd_122,prathamam ajitam īkṣate gavākṣāt tad anu ca varṇayati priyābhir eṣā | iha muhur api tarṣadharṣam asyāḥ puru dadhad akṣiyugaṃ na śāntim eti,प्रथमम् अजितम् ईक्षते गवाक्षात् तद् अनु च वर्णयति प्रियाभिर् एषा । इह मुहुर् अपि तर्षधर्षम् अस्याः पुरु दधद् अक्षियुगं न शान्तिम् एति +skd_123,sṛjati harikṛte sahāramālyādy atulam iyaṃ nijasaṅginīsahāyā | hariguṇagaṇagānaṃ apy apūrvaṃ mṛdu vidadhāti tathāpi naiti śāntim,सृजति हरिकृते सहारमाल्याद्य् अतुलम् इयं निजसङ्गिनीसहाया । हरिगुणगणगानं अप्य् अपूर्वं मृदु विदधाति तथापि नैति शान्तिम् +skd_127,"mṛgamadatilakā sa1nīlaratnaśrutiyugalābharaṇā ghanābhavastrā | harivasanasanābhikāntir eṣā svakaratidīpanatāṃ svayaṃ jagāma ||123 jagur iha harirāgi rādhikāyāś caritam anūtanam ālayaḥ prasajya | svayam iyam api tatra tāsu kasyāścid api jagāv anurāgipūrvarāgam ||1242 murajiti jananīgṛhāt prayāte vanam anu varṣavarān susakhyadigdhān | avasaram anu veṣabhaṅgibhāṣādiṣu vadhupuṃstulitān dideśa subhrūḥ ||125 ""pratinidhitanavaḥ stha yūyam asmākam iti nijaprabhunā samaṃ prayāta | prabhum api tam upetya madvidhārhaṃ paricaraṇaṃ kuruta vyatiprasajya || muhur atha ca bhavādṛg eka ekaḥ sucaritam asya nirīkṣya naḥ sametu |"" iti tad anumataḥ sa sakramāt taṃ muhur anubhūya jagāda tām upetya","मृगमदतिलका स१नीलरत्नश्रुतियुगलाभरणा घनाभवस्त्रा । हरिवसनसनाभिकान्तिर् एषा स्वकरतिदीपनतां स्वयं जगाम ॥१२३ जगुर् इह हरिरागि राधिकायाश् चरितम् अनूतनम् आलयः प्रसज्य । स्वयम् इयम् अपि तत्र तासु कस्याश्चिद् अपि जगाव् अनुरागिपूर्वरागम् ॥१२४२ मुरजिति जननीगृहात् प्रयाते वनम् अनु वर्षवरान् सुसख्यदिग्धान् । अवसरम् अनु वेषभङ्गिभाषादिषु वधुपुंस्तुलितान् दिदेश सुभ्रूः ॥१२५ ""प्रतिनिधितनवः स्थ यूयम् अस्माकम् इति निजप्रभुना समं प्रयात । प्रभुम् अपि तम् उपेत्य मद्विधार्हं परिचरणं कुरुत व्यतिप्रसज्य ॥ मुहुर् अथ च भवादृग् एक एकः सुचरितम् अस्य निरीक्ष्य नः समेतु ।"" इति तद् अनुमतः स सक्रमात् तं मुहुर् अनुभूय जगाद ताम् उपेत्य" +skd_128,atha harir agamat pituḥ sabhāyāṃ divijagaṇastutabhāvabhāvitāyām | paśupatiparipūjyapāśupatyavrajajanabhāskārabhāsitāmbarāyām,अथ हरिर् अगमत् पितुः सभायां दिविजगणस्तुतभावभावितायाम् । पशुपतिपरिपूज्यपाशुपत्यव्रजजनभास्कारभासिताम्बरायाम् +skd_130,dvijakalakalapoṣavedaghoṣaprakarajamaṅgalasaṅgatiṃ vrajantyām | diśi diśi kavisūtamāgadhādiprakararavastavavistaraṃ bhajantyām || bharatavivṛtagītavādyanṛtyapracayabhidādividāṃ mudāṃ3 dharaṇyām | nijapitṛkulamātṛvaṃśatattadvivahanapuṇyayujāṃ pramodakhanyām,द्विजकलकलपोषवेदघोषप्रकरजमङ्गलसङ्गतिं व्रजन्त्याम् । दिशि दिशि कविसूतमागधादिप्रकररवस्तवविस्तरं भजन्त्याम् ॥ भरतविवृतगीतवाद्यनृत्यप्रचयभिदादिविदां मुदां३ धरण्याम् । निजपितृकुलमातृवंशतत्तद्विवहनपुण्ययुजां प्रमोदखन्याम् +skd_131,bala4sakhisahitaḥ sa sarvacakṣustatiṣu vavarṣa sudhām ivāṅgakāntim | jayajayajayakāravārasāraḥ samajani yena tadānaśe jagac ca,बल४सखिसहितः स सर्वचक्षुस्तत��षु ववर्ष सुधाम् इवाङ्गकान्तिम् । जयजयजयकारवारसारः समजनि येन तदानशे जगच् च +skd_132,suo; 2. this verse missing from (b); mudā; margin: svakao api varaguravas tam āśu dṛṣṭvā nijanijapīṭhavarā upetavantaḥ | jalanidhim iva rāgitānadī tān prasabham amuṃ vahatīti tac ca yuktam,सुओ; २. थिस् वेर्से मिस्सिन्ग् फ़्रोम् (ब्); मुदा; मर्गिन्: स्वकओ अपि वरगुरवस् तम् आशु दृष्ट्वा निजनिजपीठवरा उपेतवन्तः । जलनिधिम् इव रागितानदी तान् प्रसभम् अमुं वहतीति तच् च युक्तम् +skd_163,"kramamanu sa gurūn varān anaṃsīd yugapad atha praṇanāma kāṃścid anyān samagamad aparān natān bhujābhyāṃ karakamalena tathā dṛśā parāṃs tu || vrajam anu paramā varādibhedā davaratayā yad api sphuranti lokāḥ | tadapi vidhir ajalpad atra mitraṃ padam iti hārdam amuṣya vakti suṣṭhu1 || harir asitamaṇipravekamūrtir lasati balaḥ pṛthupūrtihīramūrtiḥ | nijanidhir iti puṇyajātalabdhaḥ svayam iti sakramam ākali vrajena ||135 vrajanṛpatir atha svabāṣpanīrasthagitagalaḥ kṣamate sma nāpi vaktum | tadapi harir avetya tasya hṛdyaṃ smitanayanāmbuvṛtām uvāca vācam ||136 ""ayi pitṛcaraṇā na cāsti kiñcid vrajavipine bhayadaṃ purāvad atra | svayam api dhavalā vanād upeyus tadapi vayaṃ khalu khelituṃ vrajāmaḥ ||"" tam avadad upanandamukhyavṛndaṃ ""vrajasadasām asavaḥ pitā tavāyam | tvam asi tad asavas tad atra vācyaṃ kim iva bhaven nikhilaṃ tvam eva vetsi ||138 vrajapatir atha yācakān samīkṣya svasutasukhāya punar dade bahūni | vrajapatisutam aṇv amī yad āśīstatim adadur na sa tatra sāmyam āpa ||139 atha vanagataye 'ñjaliṃ dadhāne murajiti tadgatitarṣam ūhamānāḥ | śrutibhaṇitaśubhān dvijān anuprāggati tam amī dhavalāntikāya ninyuḥ ||140 svayam asavidhataḥ samīkṣya dhenūr2 na yayur amī prayayus tu kṛṣṇamukhyāḥ | rabhasavaśam amūr amūṃs tu vīkṣyā- tmajasadṛśānu samaṃ samaṃ praṇeduḥ ||141 atha jihi jihi kārataḥ samastā vidadhur amī dhavalā vanāya nunnāḥ | harisurabhim amūs tu vindamānā harim anugamya muhur nivṛttim āpuḥ || tadapi gurugaṇe sthite haris tu vigatamanaḥsthitisūcanāṃ cakāra | harimatim avabudhya bāṣpakaṇṭhaḥ sa ca katham apy apasaryaṇaṃ babhāja | vacanavadanamārjanānuśikṣādyanugatim ujjahad apy amuṣyatātaḥ | amum anunayanānuvṛtticaryāṃ na tu śithilām iva kartum īśitāsīt ||144 katham api vinivṛtya sadma yāti vrajadharaṇīśitari vraje ca kṛtsne | harim anu vinivṛtya dṛṣṭir asmān na vighaṭituṃ ghaṭate sma tasya tasya || murajid atha viśan vanāntarālaṃ gurukulasannatikṛd vidūrato 'pi | gurubhir atitarāṃ tadāśīstatibhir apuṣyata tuṣyad akṣilakṣmi ||146 atha harir aṭavīm aṭan suhṛdbhiḥ sahajavareṇa ca gāḥ sthirīvibhāvya | abhirucitapathaḥ prayāṇayuktā samavalayan mṛdugānarītihūti ||147 sa sma ; gāvaḥ; atha vanam agamad balādisaṅgaṃ paramasukhapradam eṣa manyamānaḥ | vividhatarulatāsu1 kokilādidvijamṛgasaṅgītam āviśat parantu ||148 madhupapikaśikhipradhānapakṣiplavagarurupriyakādijantubhedān | dhvanitanaṭakalābhir anvakurvann ajitabalādi2mudām udārabālyāḥ2 ||149 iti bahuvidhakhelayā mukundaṃ sukhayati bāndhavavṛndam etam eva | nijanijavividhasvabhāvataś ca pramadayati pratidiṣṭam iṣṭamiṣṭam ||149 sthirataravarabuddhayaḥ sakhāyaḥ sacivacaritratayā hariṃ bhajanti | capalamatimiladvidūṣakārhaprahasana3kāvyagiraḥ prahāsayanti ||150 ṛjutamacaritaprayuktayuktasthitigatirītisamāḥ sabhājayanti | pratimuhur api vāmatāyamānasvacaracitajalpakalāvikalpayanti ||1514 atulakulajaśīlamīladugraprakṛtikagīrmṛdulāḥ sadārdrayanti | girigiri ca vitaṇḍayāticaṇḍaprabharacanaprabhavo vicitrayanti ||152 iti nikhilagaṇā vicitratattadguṇaguṇitapraṇayaprakarṣacittāḥ | bahuvidhavidhayaḥ pare pare te sukhadam amuṃ satataṃ sukhāyayanti ||153 kvacid api divase samitya govardhanam iha mānasasañjñitāṃ ca gaṅgām | raviduhitaram atra cāhni līlāḥ sthalagalagā vidadhe tvadīyakāntaḥ ||154 kvacana ca sakhībhiḥ sameti bhāṇḍīrakam adhiyojanam asti yaḥ prasajya | sthalavanayamunādi kelim asmin vividhavidhaṃ vidadhāti kṛṣṇacandraḥ ||155 ayi tava dayitaḥ kalena veṇoś calayati devagaṇāṃs tathā pataṅgān |idam api ghaṭatāṃ parantu citraṃ sa hi dhunute nirasūn acetanāṃś ca |156 hvayati ca dhavalājanāya yarhi tvadadhipatir madhureṇa śabditena | jalam api karakāyamāṇam āsāṃ mṛdu mṛdu carvaṇayā5 rasaṃ bibharti ||157 nirudakagirisānugāḥ kadācid bahudhavalāḥ śavalās tṛṣā nirīkṣya | dhvanayati muralīṃ patis tavāsmāddharaṇidharadravatā hi tāḥ piparti6 ||158 kalayati yamunādisañjñayā tāḥ śuṣirakalāśritayā sa eṣa dhenūḥ | iha nijanijanāmabuddhinadyaḥ kim ayur amuṃ kim u vā kalāntakṛṣṭi ||159 kvacana ca divase nidāghamādhyāhnikasamaye vigatā vṛṣṭi7pradeśe | dadhad atha muralīkalaṃ payodāṃś cyutasalilān vidadhāti goṣu goṣu ||160 kvacana ca divase samārdracittaḥ kalayati veṇukalaṃ tathā yathānu | dravati girigaṇe padāṅkamudrā jahati śilā na kadāpi tatra teṣām ||161 racayati muralīṃ kadāpi nāvaṃ sariti paśūn paśupāṃś ca tārayan saḥ | madhurakalatayā yadā tu tasyā ghaṭayati tāṃ kaṭhināṃ kutūhalena ||162 kvacid api kavayaḥ śilādravādyaṃ bata kavayanti kavipracāravṛttyā | olatālio; margin: mude mudā vayasyāḥ; prahasanaṃ; 4. this verse absent from (b); ca varṇayā; piparttiḥ; vigatāvṛtio dadhati sarasatāṃ ca tatra vijñā harim anu tat tu nijaṃ kim atra varṇyam","क्रममनु स गुरून् वरान् अनंसीद् युगपद् अथ प्रणनाम कांश्चिद् अन्यान् समगमद् अपरान् नतान् भुजाभ्यां करकमलेन तथा दृशा परांस् तु ॥ व्रजम् अनु परमा वरादिभेदा दवरतया यद् अपि स्फुरन्ति लोकाः । तदपि विधिर् अजल्पद् अत्र मित्रं पदम् इति हार्दम् अमुष्य वक्ति सुष्ठु१ ॥ हरिर् असितमणिप्रवेकमूर्तिर् लसति बलः पृथुपूर्तिहीरमूर्तिः । निजनिधिर् इति पुण्यजातलब्धः स्वयम् इति सक्रमम् आकलि व्रजेन ॥१३५ व्रजनृपतिर् अथ स्वबाष्पनीरस्थगितगलः क्षमते स्म नापि वक्तुम् । तदपि हरिर् अवेत्य तस्य हृद्यं स्मितनयनाम्बुवृताम् उवाच वाचम् ॥१३६ ""अयि पितृचरणा न चास्ति किञ्चिद् व्रजविपिने भयदं पुरावद् अत्र । स्वयम् अपि धवला वनाद् उपेयुस् तदपि वयं खलु खेलितुं व्रजामः ॥"" तम् अवदद् उपनन्दमुख्यवृन्दं ""व्रजसदसाम् असवः पिता तवायम् । त्वम् असि तद् असवस् तद् अत्र वाच्यं किम् इव भवेन् निखिलं त्वम् एव वेत्सि ॥१३८ व्रजपतिर् अथ याचकान् समीक्ष्य स्वसुतसुखाय पुनर् ददे बहूनि । व्रजपतिसुतम् अण्व् अमी यद् आशीस्ततिम् अददुर् न स तत्र साम्यम् आप ॥१३९ अथ वनगतये ऽञ्जलिं दधाने मुरजिति तद्गतितर्षम् ऊहमानाः । श्रुतिभणितशुभान् द्विजान् अनुप्राग्गति तम् अमी धवलान्तिकाय निन्युः ॥१४० स्वयम् असविधतः समीक्ष्य धेनूर्२ न ययुर् अमी प्रययुस् तु कृष्णमुख्याः । रभसवशम् अमूर् अमूंस् तु वीक्ष्या- त्मजसदृशानु समं समं प्रणेदुः ॥१४१ अथ जिहि जिहि कारतः समस्ता विदधुर् अमी धवला वनाय नुन्नाः । हरिसुरभिम् अमूस् तु विन्दमाना हरिम् अनुगम्य मुहुर् निवृत्तिम् आपुः ॥ तदपि गुरुगणे स्थिते हरिस् तु विगतमनःस्थितिसूचनां चकार । हरिमतिम् अवबुध्य बाष्पकण्ठः स च कथम् अप्य् अपसर्यणं बभाज । वचनवदनमार्जनानुशिक्षाद्यनुगतिम् उज्जहद् अप्य् अमुष्यतातः । अमुम् अनुनयनानुवृत्तिचर्यां न तु शि��िलाम् इव कर्तुम् ईशितासीत् ॥१४४ कथम् अपि विनिवृत्य सद्म याति व्रजधरणीशितरि व्रजे च कृत्स्ने । हरिम् अनु विनिवृत्य दृष्टिर् अस्मान् न विघटितुं घटते स्म तस्य तस्य ॥ मुरजिद् अथ विशन् वनान्तरालं गुरुकुलसन्नतिकृद् विदूरतो ऽपि । गुरुभिर् अतितरां तदाशीस्ततिभिर् अपुष्यत तुष्यद् अक्षिलक्ष्मि ॥१४६ अथ हरिर् अटवीम् अटन् सुहृद्भिः सहजवरेण च गाः स्थिरीविभाव्य । अभिरुचितपथः प्रयाणयुक्ता समवलयन् मृदुगानरीतिहूति ॥१४७ स स्म ; गावः; अथ वनम् अगमद् बलादिसङ्गं परमसुखप्रदम् एष मन्यमानः । विविधतरुलतासु१ कोकिलादिद्विजमृगसङ्गीतम् आविशत् परन्तु ॥१४८ मधुपपिकशिखिप्रधानपक्षिप्लवगरुरुप्रियकादिजन्तुभेदान् । ध्वनितनटकलाभिर् अन्वकुर्वन्न् अजितबलादि२मुदाम् उदारबाल्याः२ ॥१४९ इति बहुविधखेलया मुकुन्दं सुखयति बान्धववृन्दम् एतम् एव । निजनिजविविधस्वभावतश् च प्रमदयति प्रतिदिष्टम् इष्टमिष्टम् ॥१४९ स्थिरतरवरबुद्धयः सखायः सचिवचरित्रतया हरिं भजन्ति । चपलमतिमिलद्विदूषकार्हप्रहसन३काव्यगिरः प्रहासयन्ति ॥१५० ऋजुतमचरितप्रयुक्तयुक्तस्थितिगतिरीतिसमाः सभाजयन्ति । प्रतिमुहुर् अपि वामतायमानस्वचरचितजल्पकलाविकल्पयन्ति ॥१५१४ अतुलकुलजशीलमीलदुग्रप्रकृतिकगीर्मृदुलाः सदार्द्रयन्ति । गिरिगिरि च वितण्डयातिचण्डप्रभरचनप्रभवो विचित्रयन्ति ॥१५२ इति निखिलगणा विचित्रतत्तद्गुणगुणितप्रणयप्रकर्षचित्ताः । बहुविधविधयः परे परे ते सुखदम् अमुं सततं सुखाययन्ति ॥१५३ क्वचिद् अपि दिवसे समित्य गोवर्धनम् इह मानससञ्ज्ञितां च गङ्गाम् । रविदुहितरम् अत्र चाह्नि लीलाः स्थलगलगा विदधे त्वदीयकान्तः ॥१५४ क्वचन च सखीभिः समेति भाण्डीरकम् अधियोजनम् अस्ति यः प्रसज्य । स्थलवनयमुनादि केलिम् अस्मिन् विविधविधं विदधाति कृष्णचन्द्रः ॥१५५ अयि तव दयितः कलेन वेणोश् चलयति देवगणांस् तथा पतङ्गान् ।इदम् अपि घटतां परन्तु चित्रं स हि धुनुते निरसून् अचेतनांश् च ।१५६ ह्वयति च धवलाजनाय यर्हि त्वदधिपतिर् मधुरेण शब्दितेन । जलम् अपि करकायमाणम् आसां मृदु मृदु चर्वणया५ रसं बिभर्ति ॥१५७ निरुदकगिरिसानुगाः कदाचिद् बहुधवलाः शवलास् तृषा निरीक्ष्य । ध्वनयति मुरलीं पतिस् तवास्माद्धरणिधरद्रवता हि ताः पिपर्ति६ ॥१५८ कलयति यमुनादिसञ्ज्ञया ताः शुषिरकलाश्रितया स एष धेनूः । इह निजनिजनामबुद्धिनद्यः किम् अयुर् अमुं किम् उ वा कलान्तकृष्टि ॥१५९ क्वचन च दिवसे निदाघमाध्याह्निकसमये विगता वृष्टि७प्रदेशे । दधद् अथ मुरलीकलं पयोदांश् च्युतसलिलान् विदधाति गोषु गोषु ॥१६० क्वचन च दिवसे समार्द्रचित्तः कलयति वेणुकलं तथा यथानु । द्रवति गिरिगणे पदाङ्कमुद्रा जहति शिला न कदापि तत्र तेषाम् ॥१६१ रचयति मुरलीं कदापि नावं सरिति पशून् पशुपांश् च तारयन् सः । मधुरकलतया यदा तु तस्या घटयति तां कठिनां कुतूहलेन ॥१६२ क्वचिद् अपि कवयः शिलाद्रवाद्यं बत कवयन्ति कविप्रचारवृत्त्या । ओलतालिओ; मर्गिन्: मुदे मुदा वयस्याः; प्रहसनं; ४. थिस् वेर्से अब्सेन्त् फ़्रोम् (ब्); च वर्णया; पिपर्त्तिः; विगतावृतिओ दधति सरसतां च तत्र विज्ञा हरिम् अनु तत् तु निजं किम् अत्र वर्ण्यम्" +skd_164,sakhivṛṣamahiṣān mudā yudhā tān valayati saṃvalate ca tatra tatra | kva ca vijayaparājayāv abhīkṣya prahasitam añcati yuṣmadīyakāntaḥ,सखिवृषमहिषान् मुदा युधा तान् वलयति संवलते च तत्र तत्र । क्व च विजयपराजयाव् अभीक्ष्य प्रहसितम् अञ्चति युष्मदीयकान्तः +skd_165,kvacana ca racanāñcivastrayugmaṃ kvaca satirīṭam1 akuñcakāntarīyam | kvaca naṭarucibhṛtpaṭaṃ kvacāpi pravalitamallatulaṃ sa vaṣṭi veṣam,क्वचन च रचनाञ्चिवस्त्रयुग्मं क्वच सतिरीटम्१ अकुञ्चकान्तरीयम् । क्वच नटरुचिभृत्पटं क्वचापि प्रवलितमल्लतुलं स वष्टि वेषम् +skd_166,kvacid api vidadhāti mallalīlāṃ kvacid api nṛtyakalāṃ suhṛdbhir eṣaḥ | dvayam api bhidayā mṛśāmi nedaṃ gatir aticitratamā samā dvaye 'pi,क्वचिद् अपि विदधाति मल्ललीलां क्वचिद् अपि नृत्यकलां सुहृद्भिर् एषः । द्वयम् अपि भिदया मृशामि नेदं गतिर् अतिचित्रतमा समा द्वये ऽपि +skd_167,hariṇaviharaṇaṃ satuṇḍayuddhaṃ nayananimīlanśālinarmagāliḥ | iti bahuvidhakhelanāptavelaṃ svam aśanam apy aniśaṃ visasmarus te,हरिणविहरणं सतुण्डयुद्धं नयननिमीलन्शालिनर्मगालिः । इति बहुविधखेलनाप्तवेलं स्वम् अशनम् अप्य् अनिशं विसस्मरुस् ते +skd_168,atha bahuvihṛtiṃ vicitracaryāṃ sa racitavān sakhibhiḥ sukhaṃ niṣaṇṇaḥ | śayanam anugataś ca vījanādyaiḥ paricaritaḥ sukham eti tad dadāti,अथ बहुविहृतिं विचित्रचर्यां स रचितवान् सखिभिः सुखं निषण्णः । शयनम् अनुगतश् च वीजनाद्यैः परिचरितः सुखम् एति तद् ददाति +skd_169,iti haricarite tu tena tena śravasi cite muralīninādaramye | sapadi tadavadhānam ādadhānā muhur abhajanta daśām amūm amūś ca,इति हरिचरिते तु तेन तेन श्रवसि चिते मुरलीनिनादरम्ये । सपदि तदवधानम् आदधाना मुहुर् अभजन्त दशाम् अमूम् अमूश् च +skd_170,adhi harimuralisvapūrvarāgasphuraṇadaśāvaśāpurāvadīhaḥ2 | vṛṣaravitanayāmukhāḥ suduḥkhās tadamilanān mumuhur muhurmuhuś ca,अधि हरिमुरलिस्वपूर्वरागस्फुरणदशावशापुरावदीहः२ । वृषरवितनयामुखाः सुदुःखास् तदमिलनान् मुमुहुर् मुहुर्मुहुश् च +skd_179,"iti sati sacivāyamānarāmā jagadur ""aho katham atra vihvalāḥ stha? | vrajanṛpagṛhiṇīnideśavaryaṃ katham atha vismṛtam ārtibhiḥ kurudhve ||171 adiśata sadayā hareḥ prasūr yad dvividaripor api sā vidhāya yuktim | tad anusarata kāntarāgaśāntasmṛtitatayas tad upāyam ātanudhvam ||172 prathamam aśanam īśituḥ prabhāte sphuṭam aparaṃ pratibhāti sārdhayāme | avaram api turīyayāmālambhe param atha rātrimukhe vyatītamātre ||173 prathamam aśanam arpyate jananyā tadaparam āvriyate suhṛdgaṇena | pitṛmukhagurubhir vriyeta turyaṃ bhavadupayuktam atas tṛtīyam eva ||174 vrajataṭam aṭataḥ murāriśatror abhigamanaṃ bhavatībhir atra yuktam | sa hi miṣam upadhāya yuṣmadīyaṃ parisaram eṣyati dhāsyate ca śarma ||175 tvaritam iha tu kāntabhojyavaryaṃ kuruta kim apy adhunā tu tāḥ prayānti vrajanarapatinā samaśnatā yā vyadhiśata dāpayituṃ sutāya bhojyam"" ||176 iti harivanitāsu susthitāsu vrajapatigīrvaśataḥ purandhrimukhyāḥ | bahuvidham aśanaṃ vidhāya śīrṣṇi pramadabharaṃ manasi vrajāntam īyuḥ || atha nijanijakulyabālasaṅghā kutukaparītatayā dravann amūbhiḥ | kvacid api purataḥ kvacic ca paścāt kvacid api dakṣiṇavāmataḥ prasajya |8 vanalasadaśanapradhānakhelākutukakulaṃ bata citta tasya paśya | tvam asi kila kiyan munīndravaryān api yad idaṃ nijavandinaḥ karoti","इति सति सचिवायमानरामा जगदुर् ""अहो कथम् अत्र विह्वलाः स्थ? । व्रजनृपगृहिणीनिदेशवर्यं कथम् अथ विस्मृतम् आर्तिभिः कुरुध्वे ॥१७१ अदिशत सदया हरेः प्रसूर् यद् द्विविदरिपोर् अपि सा विधाय युक्तिम् । तद् अनुसरत कान्तरागशान्तस्मृतिततयस् तद् उपायम् आतनुध्वम् ॥१७२ प्रथमम् अशनम् ईशितुः प्रभाते स्फुटम् अपरं प्रतिभाति सार्धयामे । अवरम् अपि तुरीययामालम्भे परम् अथ रात्रिमुखे व्यतीतमात्रे ॥१७३ प्रथमम् अशनम् अर्प्यते जनन्या तदपरम् आव्रियते सुहृद्गणेन । पितृमुखगुरुभिर् व्रियेत तुर्यं भवदुपयुक्तम् अतस् तृतीयम् एव ॥१७४ व्रजतटम् अटतः मुरारिशत्रोर् अभिगमनं भवतीभिर् अत्र युक्तम् । स हि मिषम् उपधाय युष्मदीयं परिसरम् एष्यति धास्यते च शर्म ॥१७५ त्वरितम् इह तु कान्तभोज्यवर्यं कुरुत किम् अप्य् अधुना तु ताः प्रयान्ति व्रजनरपतिना समश्नता या व्यधिशत दापयितुं सुताय भोज्यम्"" ॥१७६ इति हरिवनितासु सुस्थितासु व्रजपतिगीर्वशतः पुरन्ध्रिमुख्याः । बहुविधम् अशनं विधाय शीर्ष्णि प्रमदभरं मनसि व्रजान्तम् ईयुः ॥ अथ निजनिजकुल्यबालसङ्घा कुतुकपरीततया द्रवन्न् अमूभिः । क्वचिद् अपि पुरतः क्वचिच् च पश्चात् क्वचिद् अपि दक्षिणवामतः प्रसज्य ।८ वनलसदशनप्रधानखेलाकुतुककुलं बत चित्त तस्य पश्य । त्वम् असि किल कियन् मुनीन्द्रवर्यान् अपि यद् इदं निजवन्दिनः करोति" +skd_184,"ka iha bata bhavanti te munīndrāḥ svayam api yacchravaṇe 'pi rādhikā sā | sakirīṭam; oīhāḥ ajitam api guṇena mohayantī muhur api moham upaiti tatra kas tvam? |180|| hariharisuhṛdaḥ sphuradvihārā dadṛśur amūr amukān amūś ca tatra | tadapi tad ubhayaṃ kulaṃ na bhogaṃ prati viviveca vihāramagnabuddhi |181|| katham api madhumaṅgalas tu paśyann atha viviveca javād uvāca tatra | ""dhṛtavihṛtimadā na cet puras tātkṛtam api paśyatha kā kṣudhā varākī?"" || jagadur atha dhṛtasmitaṃ sakhāyaḥ ""kvacid api cen na bhavet prayojanāya | prakaṭataram ajāgalastanasya pratimadaśāṃ dvija eṣa saṃvaleta ||183 iti bahuhasitaṃ vidhāya tasmin sthalavalaye viniviśya kṛṣṇamukhyāḥ | caraṇakaramukhaṃ viśadya vārbhiḥ samaśanaśarmakṛte dhṛteham āsan","क इह बत भवन्ति ते मुनीन्द्राः स्वयम् अपि यच्छ्रवणे ऽपि राधिका सा । सकिरीटम्; ओईहाः अजितम् अपि गुणेन मोहयन्ती मुहुर् अपि मोहम् उपैति तत्र कस् त्वम्? ।१८०॥ हरिहरिसुहृदः स्फुरद्विहारा ददृशुर् अमूर् अमुकान् अमूश् च तत्र । तदपि तद् उभयं कुलं न भोगं प्रति विविवेच विहारमग्नबुद्धि ।१८१॥ कथम् अपि मधुमङ्गलस् तु पश्यन्न् अथ विविवेच जवाद् उवाच तत्र । ""धृतविहृतिमदा न चेत् पुरस् तात्कृतम् अपि पश्यथ का क्षुधा वराकी?"" ॥ जगदुर् अथ धृतस्मितं सखायः ""क्वचिद् अपि चेन् न भवेत् प्रयोजनाय । प्रकटतरम् अजागलस्तनस्य प्रतिमदशां द्विज एष संवलेत ॥१८३ इति बहुहसितं विधाय तस्मिन् स्थलवलये विनिविश्य कृष्णमुख्याः । चरणकरमुखं विशद्य वार्भिः समशनशर्मकृते धृतेहम् आसन्" +skd_185,bahurucirucirāṃśukaṃ dukūlādikam adhikṛtya śubhaḥ śubhaṃyuveśaḥ | sahasakhinikaraḥ sa eṣa kṛṣṇaḥ sarabhasabhojanatṛṣṇatāṃ babhāja,बहुरुचिरुचिरांशुकं दुकूलादिकम् अधिकृत्य शुभः शुभंयुवेशः । सहसखिनिकरः स एष कृष्णः सरभसभोजनतृष्णतां बभाज +skd_186,vidhum anu kamalaṃ baliṃ pradatte hasati cakorayugaṃ tad eva vīkṣya | iti harim avalokya tatra tasthur vrajamahilā bata citratāṃ bhajantyaḥ,विधुम् अनु कमलं बलिं प्रदत्ते हसति चकोरयुगं तद् एव वीक्ष्य । इति हरिम् अवलोक्य तत्र तस्थुर् व्रजमहिला बत चित्रतां भजन्त्यः +skd_188,pṛthakad upaviśan1 vilokayantyaḥ sa ca madhumaṅgalakaḥ sanarmajalpaḥ | pṛthag iva pariveṣayan prahāsaṃ rasam itavān surasān ṣaḍ apy amuṣṇāt || samam aśanasamarpiṇībhir āptān vrajapṛthukān savidhe vidhāya sāsraḥ | murajid adanabhājanād amībhyaḥ pratikavalaṃ kavalaṃ dadan nananda,पृथकद् उपविशन्१ विलोकयन्त्यः स च मधुमङ्गलकः सनर्मजल्पः । पृथग् इव परिवेषयन् प्रहासं रसम् इतवान् सुरसान् षड् अप्य् अमुष्णात् ॥ समम् अशनसमर्पिणीभिर् आप्तान् व्रजपृथुकान् सविधे विधाय सास्रः । मुरजिद् अदनभाजनाद् अमीभ्यः प्रतिकवलं कवलं ददन् ननन्द +skd_189,surabhighṛtapariṣkṛtān samastān2 ṣaḍapi rasān praticarvaṇaṃ ruciprān | pratilavarucibhoktṛṣu pradāya pratilavam āpa ruciṃ purandhrivargaḥ,सुरभिघृतपरिष्कृतान् समस्तान्२ षडपि रसान् प्रतिचर्वणं रुचिप्रान् । प्रतिलवरुचिभोक्तृषु प्रदाय प्रतिलवम् आप रुचिं पुरन्ध्रिवर्गः +skd_190,iha bahuvidhasandhitāni nimbūprabhṛtiphalāni rucārpitāni rejuḥ | nikaṭavinihitāni yāni cāsan pratimuhur eva ca sarvarocanāni,इह बहुविधसन्धितानि निम्बूप्रभृतिफलानि रुचार्पितानि रेजुः । निकटविनिहितानि यानि चासन् प्रतिमुहुर् एव च सर्वरोचनानि +skd_191,abhinavaparipakvanārikeladravavalitaṃ maricādicārugandham | lavalavaṇarasapriyaṃ kaduṣṇaṃ samucitapātrabhṛtaṃ ca mudgayūṣam,अभिनवपरिपक्वना��िकेलद्रववलितं मरिचादिचारुगन्धम् । लवलवणरसप्रियं कदुष्णं समुचितपात्रभृतं च मुद्गयूषम् +skd_192,surabhisurabhijātajātasarpiḥplutam atha pītanapītamiṣṭagandham | api parimalaśālidivyaśāliprabhavasukomalaśubhraśocir annam,सुरभिसुरभिजातजातसर्पिःप्लुतम् अथ पीतनपीतमिष्टगन्धम् । अपि परिमलशालिदिव्यशालिप्रभवसुकोमलशुभ्रशोचिर् अन्नम् +skd_193,śṛtaghṛtamuhuruddhṛtapramṛṣṭa-dvidalavaṭīvividhaprakāravāram | harir abhijalasiktaniktatikta-svarasaviviktavicitrapākabhedam,शृतघृतमुहुरुद्धृतप्रमृष्ट-द्विदलवटीविविधप्रकारवारम् । हरिर् अभिजलसिक्तनिक्ततिक्त-स्वरसविविक्तविचित्रपाकभेदम् +skd_194,navacaṇakakalāyamāṣamudga-pravarajayuktakaṭuprasaktasūpam | phaladalakusumatvagaṣṭikanda-prasavakṛtaprathayuktipaṅktibhedam,नवचणककलायमाषमुद्ग-प्रवरजयुक्तकटुप्रसक्तसूपम् । फलदलकुसुमत्वगष्टिकन्द-प्रसवकृतप्रथयुक्तिपङ्क्तिभेदम् +skd_195,śṛtaghṛtadhṛtajīrakāñcidhātrī-phalarasapākakaṣāyaramyacukram3 | bahuvidharacanācaṇāmlasaṅghaṃ ghanadadhimaṇḍakaroṭikājyapakvam,शृतघृतधृतजीरकाञ्चिधात्री-फलरसपाककषायरम्यचुक्रम्३ । बहुविधरचनाचणाम्लसङ्घं घनदधिमण्डकरोटिकाज्यपक्वम् +skd_196,śrapitapayasi bāṣpapaṅkapiṣṭapravalitaśarkaramugdhadugdhasāram | amṛtajayirasaprasāraśālā-nibhavibhavaprasarāgraṇīrasānām,श्रपितपयसि बाष्पपङ्कपिष्टप्रवलितशर्करमुग्धदुग्धसारम् । अमृतजयिरसप्रसारशाला-निभविभवप्रसराग्रणीरसानाम् +skd_197,saparimalaṃ jalaṃ tathāmbadhātrī4 praṇayajakopavilāsavalguvācam | pṛthak samupaviśan; samāptān; ocukruḥ; osvadhātrīḥkulavarapariveṣikātatīnāṃ sakhivalayena vivādaśarmajātam,सपरिमलं जलं तथाम्बधात्री४ प्रणयजकोपविलासवल्गुवाचम् । पृथक् समुपविशन्; समाप्तान्; ओचुक्रुः; ओस्वधात्रीःकुलवरपरिवेषिकाततीनां सखिवलयेन विवादशर्मजातम् +skd_198,anubhavad iha rāmakṛṣṇayugmaṃ muhur api bhojanatṛṣṇatām avāpa | tadapi ca nijasevakeṣu phalāvitaraṇakāmatayā tato vyaraṃsīt,अनुभवद् इह रामकृष्णयुग्मं मुहुर् अपि भोजनतृष्णताम् अवाप । तदपि च निजसेवकेषु फलावितरणकामतया ततो व्यरंसीत् +skd_199,1 arasayad iha temanāni ṣaṣṭiṃ sahasakhisaṅghatayā svayaṃ murāriḥ | muhur atisarasāni yāni tatra spṛhijanabhāvabhidāṃ vidhunvate sma,१ अरसयद् इह तेमनानि षष्टिं सहसखिसङ्घतया स्वयं मुरारिः । मुहुर् अतिसरसानि यानि तत्र स्पृहिजनभावभिदां विधुन्वते स्म +skd_200,saparimalajalena vaktraśuddhiṃ vidadhur amī bata tādṛśena yat tu | aśanajasukhapūri suṣṭhu cakre hṛdayagataṃ kim api prasādaśātam,सपरिमलजलेन वक्त्रशुद्धिं विदधुर् अमी बत तादृशेन यत् तु । अशनजसुखपूरि सुष्ठु चक्रे हृदयगतं किम् अपि प्रसादशातम् +skd_201,himajalahimabālukāsitābhir viracitapānakapāyakāḥ sakhāyaḥ | himakaravaragandhavīṭikābhiḥ kṛtamukhavāsatayā sukhaṃ virejuḥ,हिमजलहिमबालुकासिताभिर् विरचितपानकपायकाः सखायः । हिमकरवरगन्धवीटिकाभिः कृतमुखवासतया सुखं विरेजुः +skd_202,iti harim upalabhya tṛptim etā harijananīm upalambhayāmbabhhūvuḥ | tadaśanam amṛtaṃ vibhāti tasmin katham atha tatkathanaṃ tathā na tasyām,इति हरिम् उपलभ्य तृप्तिम् एता हरिजननीम् उपलम्भयाम्बभ्हूवुः । तदशनम् अमृतं विभाति तस्मिन् कथम् अथ तत्कथनं तथा न तस्याम् +skd_203,tadanu tadanugā tu kāpi kāpi vrajakamalāḥ sajatī tadekaśarmā | haricaritakathāsu lambhitāśā harim api lambhayituṃ drutaṃ vavāñcha2,तदनु तदनुगा तु कापि कापि व्रजकमलाः सजती तदेकशर्मा । हरिचरितकथासु लम्भिताशा हरिम् अपि लम्भयितुं द्रुतं ववाञ्छ२ +skd_204,atha paśupakulakṣitīśapatnyāḥ svam aśanakālam adhītya tatra yātāḥ | tadaśanam anu tāṃ niṣevya tadgīrvaśam aśanaṃ rahasā carantv amūś ca,अथ पशुपकुलक्षितीशपत्न्याः स्वम् अशनकालम् अधीत्य तत्र याताः । तदशनम् अनु तां निषेव्य तद्गीर्वशम् अशनं रहसा चरन्त्व् अमूश् च +skd_205,atha muhur upalabdhagoparājñīvacanabalāḥ svayam icchamānasāś ca | nijanijakarasādhitaṃ vitartuṃ nijaramaṇāya ramā babhūvur utkāḥ,अथ मुहुर् उपलब्धगोपराज्ञीवचनबलाः स्वयम् इच्छमानसाश् च । निजनिजकरसाधितं वितर्तुं निजरमणाय रमा बभूवुर् उत्काः +skd_206,dayitam abhisarantu taṃ tu dhanyāḥ śataśatayūtham itāḥ sa eva cāsu | viracayatu gatiṃ kayāpi śaktyā smara mama citta mudā sadāpi rādhām,दयितम् अभिसरन्तु तं तु धन्याः शतशतयूथम् इताः स एव चासु । विरचयतु गतिं कयापि शक्त्या स्मर मम चित्त मुदा सदापि राधाम् +skd_207,śṛṇu hṛdaya diśāmi rādhikāyāṃ harim abhisāraya tatra tāṃ kadāpi | dvayam idam anu pūjanaṃ tad eva dvayam anu yat purutoṣapoṣakāri,शृणु हृदय दिशामि राधिकायां हरिम् अभिसारय तत्र तां कदापि । द्वयम् इदम् अनु पूजनं तद् एव द्वयम् अनु यत् पुरुतोषपोषकारि +skd_208,atha saha dhavalābhir āvrajantaṃ vrajataṭam ahni turīyayāmabhāge | puruyugavirahād ivātikhinnā vyatikṛtasatvaratāvidhāyijalpāḥ,अथ सह धवलाभिर् आव्रजन्तं व्रजतटम् अह्नि तुरीययामभागे । पुरुयुगविरहाद् इवातिखिन्ना व्यतिकृतसत्वरताविधायिजल्पाः +skd_209,ghṛtaracitapacaṃ sumiṣṭam iṣṭaṃ tad anu ca ṣāḍavasaṅginīṃ rasālām | drutataragamanā vṛṣārkajātā vrajad abhigṛhya sakhībhir ātmakāntam,घृतरचितपचं सुमिष्टम् इष्टं तद् अनु च षाडवसङ्गिनीं रसालाम् । द्रुततरगमना वृषार्कजाता व्रजद् अभिगृह्य सखीभिर् आत्मकान्तम् +skd_210,nijavanagamanārhasūkṣmarandhraṃ drutam atigamya vanaṃ praviśya sarvāḥ | praṇayi savidhadūratas tu tasthur jaḍahṛdayāḥ spṛhayā ca lajjayā ca,निजवनगमनार्हसूक्ष्मरन्ध्रं द्रुतम् अतिगम्य वनं प्रविश्य सर्वाः । प्रणयि सविधदूरतस् तु तस्थुर् जडहृदयाः स्पृहया च लज्जया च +skd_211,harir idam avagamya ramyacetāś chalam akaron nikhileṣu vacmi tac ca | dinadinam anu kāpi devatā māṃ kalayitum eti rahas tataḥ prayāmi,हरिर् इदम् अवगम्य रम्यचेताश् छलम् अकरोन् निखिलेषु वच्मि तच् च । दिनदिनम् अनु कापि देवता मां कलयितुम् एति रहस् ततः प्रयामि +skd_212,tvaritam iha tu yūyam āvrajantaṃ kalayata mām iti dūratām upetya | atha kim ucitam ittham ūhamānas tricaturavālakasaṅgi tiṣṭhati sma,त्वरितम् इह तु यूयम् आव्रजन्तं कलयत माम् इति दूरताम् उपेत्य । अथ किम् उचितम् इत्थम् ऊहमानस् त्रिचतुरवालकसङ्गि तिष्ठति स��म +skd_215,"adds kulakam; margin: gataṃ rasāñci; atha kathitacarāḥ sakhīsadṛkṣā navanavavarṣavarā hariṃ parītya | svagatam uta tadīyam iṣṭam arthaṃ samaghaṭayan saha sā babhāṣire ca ||213 ""vrajanṛpasuta tāḥ sadā bhajante navanavatāṃ tad amūḥ sadā kumāryaḥ | api dhṛtasubṛhadvratās tadāsāṃ tava muralī kṣipati vrataṃ muhuś ca ||""214|| harir idam avabudhya sudhyadhīśaḥ sahasitam āha ""kathaṃ kva vātra doṣaḥ | aham api sa kumāra eva tasmād abhigamanaṃ mayi yuktam eva tāsām","अद्द्स् कुलकम्; मर्गिन्: गतं रसाञ्चि; अथ कथितचराः सखीसदृक्षा नवनववर्षवरा हरिं परीत्य । स्वगतम् उत तदीयम् इष्टम् अर्थं समघटयन् सह सा बभाषिरे च ॥२१३ ""व्रजनृपसुत ताः सदा भजन्ते नवनवतां तद् अमूः सदा कुमार्यः । अपि धृतसुबृहद्व्रतास् तदासां तव मुरली क्षिपति व्रतं मुहुश् च ॥""२१४॥ हरिर् इदम् अवबुध्य सुध्यधीशः सहसितम् आह ""कथं क्व वात्र दोषः । अहम् अपि स कुमार एव तस्माद् अभिगमनं मयि युक्तम् एव तासाम्" +skd_217,"tadapi ca bata tā vratena khinnāḥ punar iyad āgamanaṃ na tāsu yuktam | iti yad abhigataṃ tad eva tāsāṃ vayam anuyāma tathā sadāśrayāma ||""216|| iti sa parihasann amūn amūṣāṃ hṛdi muralījanimohanaṃ tu jānan | sakaruṇadṛg amūṃ samīpam añcan pracurasakhīmilitāṃ dadarśa rādhām","तदपि च बत ता व्रतेन खिन्नाः पुनर् इयद् आगमनं न तासु युक्तम् । इति यद् अभिगतं तद् एव तासां वयम् अनुयाम तथा सदाश्रयाम ॥""२१६॥ इति स परिहसन्न् अमून् अमूषां हृदि मुरलीजनिमोहनं तु जानन् । सकरुणदृग् अमूं समीपम् अञ्चन् प्रचुरसखीमिलितां ददर्श राधाम्" +skd_218,harimilanavidūrabhāvanātaḥ kvacana ca dṛṣṭivisṛṣṭiyuktaṃ netrāḥ | haritanum avalokcya tās tu sākṣāt kucitavapur laghu lilyire latāsu,हरिमिलनविदूरभावनातः क्वचन च दृष्टिविसृष्टियुक्तं नेत्राः । हरितनुम् अवलोक्च्य तास् तु साक्षात् कुचितवपुर् लघु लिल्यिरे लतासु +skd_219,atha harir anunīya tāḥ purastāt parivalayann upahāram ādadānaḥ | svahṛdi sukhasukhaṃ prasajya tābhiḥ pratataparasparaśarmatāṃ dadhāra,अथ हरिर् अनुनीय ताः पुरस्तात् परिवलयन्न् उपहारम् आददानः । स्वहृदि सुखसुखं प्रसज्य ताभिः प्रततपरस्परशर्मतां दधार +skd_220,yadapi samayabhedataḥ samagrā dadhati tadāspadatāṃ bhuvaḥ kramasthāḥ | tadapi digavalokanāya yogyaṃ niśamaya citta tad etad adya dhāma,यदपि समयभेदतः समग्रा दधति तदास्पदतां भुवः क्रमस्थाः । तदपि दिगवलोकनाय योग्यं निशमय चित्त तद् एतद् अद्य धाम +skd_221,purumaṇicayacāruśobhagovardhanaśivadiggatasāṇuni praśaste | suratarujayibhūruhāliśāliprasavasamuccayamaṇḍikuṇḍayugmam,पुरुमणिचयचारुशोभगोवर्धनशिवदिग्गतसाणुनि प्रशस्ते । सुरतरुजयिभूरुहालिशालिप्रसवसमुच्चयमण्डिकुण्डयुग्मम् +skd_222,anupamititadantarālavāle mṛdumṛdumārutabhāji kelidhāmni | parimalavanakṛṣṭadhṛṣṭahṛṣṭabhramararavakramajātajātasāmni,अनुपमितितदन्तरालवाले मृदुमृदुमारुतभाजि केलिधाम्नि । परिमलवनकृष्टधृष्टहृष्टभ्रमररवक्रमजातजातसाम्नि +skd_223,murajidupaviśan smitārpitāśīr asitamaṇipraṇidhānahāribhāsī | kanakagaṇamanaḥprakāmamānapravasaśanakṛdvasanaśriyāṃ nivāsī,मुरजिदुपविशन् स्मितार्पिताशीर् असितमणिप्रणिधानहारिभासी । कनकगणमनःप्रकाममानप्रवसशनकृद्वसनश्रियां निवासी +skd_224,nijavararamaṇīsuvarṇavarṇavratatitatismitapārijātajātim | anubhavapadavīṃ nayann ayaṃ pramadamadasthaganāya nāpa sātim,निजवररमणीसुवर्णवर्णव्रततिततिस्मितपारिजातजातिम् । अनुभवपदवीं नयन्न् अयं प्रमदमदस्थगनाय नाप सातिम् +skd_225,kva ca yadi gaṇanātigāḥ sahāyāḥ sthalam apurupratham ekakaś ca kṛṣṇaḥ | tadapi bhavati sāvakāśarītitrayam api citta vicitram atra paśya,क्व च यदि गणनातिगाः सहायाः स्थलम् अपुरुप्रथम् एककश् च कृष्णः । तदपि भवति सावकाशरीतित्रयम् अपि चित्त विचित्रम् अत्र पश्य +skd_226,yadapi subahavas tadīyakāntā nijanijagarvadharādharād abandhyāḥ | tadapi kalaya citta sā tu rādhā nikhilapuraḥsaratāṃ gatā vibhāti,यदपि सुबहवस् तदीयकान्ता निजनिजगर्वधराधराद् अबन्ध्याः । तदपि कलय चित्त सा तु राधा निखिलपुरःसरतां गता विभाति +skd_227,harim anu rasanīyam etayā yat paripariveṣitam atra tat tu bhāvyam | rasatatir iha paryaveṣi yānyā katham atha sā pariceyatāṃ prayātu,हरिम् अनु रसनीयम् एतया यत् परिपरिवेषितम् अत्र तत् तु भाव्यम् । रसततिर् इह पर्यवेषि यान्या कथम् अथ सा परिचेयतां प्रयातु +skd_228,nayanavalayayānvasūci kiñcin niṭilakacālanayā tathānyad atra | mṛdutaravacasā tathā paraṃ ca priyatamapṛṣṭatamaṃ tayā ramaṇyā,नयनवलययान्वसूचि किञ्चिन् निटिलकचालनया तथान्यद् अत्र । मृदुतरवचसा तथा परं च प्रियतमपृष्टतमं तया रमण्या +skd_229,harir atha vividhaṃ vibhajya bhojyaṃ pṛthu-pṛthukān api tān mudopayojya | mukham anu sarasaṃ jagāma yaṃ yaṃ1 nahi mukhataḥ prathanāya tasya śeke,हरिर् अथ विविधं विभज्य भोज्यं पृथु-पृथुकान् अपि तान् मुदोपयोज्य । मुखम् अनु सरसं जगाम यं यं१ नहि मुखतः प्रथनाय तस्य शेके +skd_230,aśanarasanayā jagām tṛptiṃ na tu dṛśi rocanayā murārir asyāḥ | tadapi muraripur2 gāvāṃ vrajāya vrajanam anuvrajituṃ tato vyaraṃsīt,अशनरसनया जगाम् तृप्तिं न तु दृशि रोचनया मुरारिर् अस्याः । तदपि मुररिपुर्२ गावां व्रजाय व्रजनम् अनुव्रजितुं ततो व्यरंसीत् +skd_231,atha mukha3karaśodhanāya tasmin surabhijalādikam arpitaṃ sakhībhiḥ | yadanu surabhitā na cāsya mātraṃ surabhitam ācarad apy amuṣya cittam,अथ मुख३करशोधनाय तस्मिन् सुरभिजलादिकम् अर्पितं सखीभिः । यदनु सुरभिता न चास्य मात्रं सुरभितम् आचरद् अप्य् अमुष्य चित्तम् +skd_232,aśanapadam idaṃ visṛjya kṛṣṇaḥ subhagam anu4 purataḥ sthalaṃ samitya | sukhamanumukhavāsanaṃ priyābhiḥ saha rasayan mukhavāsanaṃ jagāma,अशनपदम् इदं विसृज्य कृष्णः सुभगम् अनु४ पुरतः स्थलं समित्य । सुखमनुमुखवासनं प्रियाभिः सह रसयन् मुखवासनं जगाम +skd_233,tadanu ca paritaḥ sakhīsakhībhir nijanijaśilpavilāsahāramālyam | upahṛtipadatām anāyi tac ca pratirucibhiś citam ullālasa tasya,तदनु च परितः सखीसखीभिर् निजनिजशिल्पविलासहारमाल्यम् । उपहृतिपदताम् अनायि तच् च प्रतिरुचिभिश् चितम् उल्लालस तस्य +skd_234,asitamaṇisuvarṇavarṇam āgād abhimukhatāṃ mithunaṃ mithas tadagre | pratiphalitatayā vilokya yat tu vyatiṣajyamānam iva smitaṃ sakhībhiḥ,असितमणिसुवर्णवर्ण��् आगाद् अभिमुखतां मिथुनं मिथस् तदग्रे । प्रतिफलिततया विलोक्य यत् तु व्यतिषज्यमानम् इव स्मितं सखीभिः +skd_235,atha vidadhad amūṣu narmavācaṃ svayam anusandadhad apy amūm amūṣām | amṛtasariti sekakelim ābhiḥ samam amata sphuṭam acyutaś cirāya,अथ विदधद् अमूषु नर्मवाचं स्वयम् अनुसन्दधद् अप्य् अमूम् अमूषाम् । अमृतसरिति सेककेलिम् आभिः समम् अमत स्फुटम् अच्युतश् चिराय +skd_236,atha harir avadad gavāvanāya tvarigahanāntar ahaṃ rahaḥ prayāmi | puru mama jananī nideśatuṣṭiprathanakṛte tvam api vrajaṃ prayāhi,अथ हरिर् अवदद् गवावनाय त्वरिगहनान्तर् अहं रहः प्रयामि । पुरु मम जननी निदेशतुष्टिप्रथनकृते त्वम् अपि व्रजं प्रयाहि +skd_237,atha varasudṛśāṃ śrutis tad etat pravaṇatayā niradhārayad yathārtham | nijagṛhagamahākṣamā tu dṛṣṭiḥ śrutipatharodhanakṛd vighūrṇati sma,अथ वरसुदृशां श्रुतिस् तद् एतत् प्रवणतया निरधारयद् यथार्थम् । निजगृहगमहाक्षमा तु दृष्टिः श्रुतिपथरोधनकृद् विघूर्णति स्म +skd_238,nayanayugalam aśnute sadāmbhaḥ kva nu nivased bata durlabhaḥ sa eṣaḥ | iti harivanitā hariṃ nirīkṣya dhruvam ajahur nayanāmbhasāṃ kulāni5,नयनयुगलम् अश्नुते सदाम्भः क्व नु निवसेद् बत दुर्लभः स एषः । इति हरिवनिता हरिं निरीक्ष्य ध्रुवम् अजहुर् नयनाम्भसां कुलानि५ +skd_239,murajid ucitacārucāturībhir muhur api netravinodanakriyābhiḥ | svasadanavadanaṃ vidhātum āsāṃ nikaram aśakyata na svamagnam antaḥ,मुरजिद् उचितचारुचातुरीभिर् मुहुर् अपि नेत्रविनोदनक्रियाभिः । स्वसदनवदनं विधातुम् आसां निकरम् अशक्यत न स्वमग्नम् अन्तः +skd_240,yadapi muraripuḥ priyāvad eva pravasanakātaratām avāpa tatra | tadapi tam anu pauruṣaṃ babhūva sphuṭam abalāvalayāvalambanāya,यदपि मुररिपुः प्रियावद् एव प्रवसनकातरताम् अवाप तत्र । तदपि तम् अनु पौरुषं बभूव स्फुटम् अबलावलयावलम्बनाय +skd_241,divijaphalajayīni tarhi vṛndāvanajaphalāni balīn priyāvalīśām | sukhayitum ayam ālisādakarṣīt parimalasātkṛtavanti tāni tāś ca,दिविजफलजयीनि तर्हि वृन्दावनजफलानि बलीन् प्रियावलीशाम् । सुखयितुम् अयम् आलिसादकर्षीत् परिमलसात्कृतवन्ति तानि ताश् च +skd_242,atha kiyad api dūravartma yātā vanavalayaṃ jalatīragaṃ nirīkṣya | śramaviratikṛte murārirāmā niviviśire vṛṣabhānujāpradhānāḥ,अथ कियद् अपि दूरवर्त्म याता वनवलयं जलतीरगं निरीक्ष्य । श्रमविरतिकृते मुरारिरामा निविविशिरे वृषभानुजाप्रधानाः +skd_243,atha vṛṣaravidehajā sakhībhir vyatihasitaprathayā mudāñcitābhiḥ | muravijidaśanāviśeṣam ādat tadaśanaśarmakalām abhāvayac ca,अथ वृषरविदेहजा सखीभिर् व्यतिहसितप्रथया मुदाञ्चिताभिः । मुरविजिदशनाविशेषम् आदत् तदशनशर्मकलाम् अभावयच् च +skd_244,samaguṇaparicārikābhir etāḥ surabhijalavyajanādidhāriṇībhiḥ | sarabhasam upasevitāḥ samantāj jitakamalādiguṇād virejuḥ,समगुणपरिचारिकाभिर् एताः सुरभिजलव्यजनादिधारिणीभिः । सरभसम् उपसेविताः समन्ताज् जितकमलादिगुणाद् विरेजुः +skd_245,atha sakhi-gaṇa-veṣam āśrayantyaḥ paṭu-gati-varṣa-varā murāri-pārśvam | prati sapadi gatās tadā ca goṣṭhaṃ hari-dayitā nija-sadma-padmam āpa,अथ सखि-गण-वेषम् आश्रयन्त्यः पटु-गति-वर्ष-वरा मुरारि-पार्श्वम् । प्रति सपदि गतास् तदा च गोष्ठं हरि-दयिता निज-सद्म-पद्मम् आप +skd_246,yat tan; madhuripur; margin: sukhao; ataḥ; kulāli; vrajapadam anugamya goparājñīm1 api tadanujñapitā svadhāma gatvā | svadayitam upasevituṃ rajanyāṃ bahuvidhaśilpavikalpam ācacāra,यत् तन्; मधुरिपुर्; मर्गिन्: सुखओ; अतः; कुलालि; व्रजपदम् अनुगम्य गोपराज्ञीम्१ अपि तदनुज्ञपिता स्वधाम गत्वा । स्वदयितम् उपसेवितुं रजन्यां बहुविधशिल्पविकल्पम् आचचार +skd_247,iha mṛdu mṛdu kṛṣṇagānakartrī vṛṣaravijā lalitādibhiḥ sakhībhiḥ | muhur api samasāntvikṛṣṇavṛttān mudam anu varṣavareṇa tena tena,इह मृदु मृदु कृष्णगानकर्त्री वृषरविजा ललितादिभिः सखीभिः । मुहुर् अपि समसान्त्विकृष्णवृत्तान् मुदम् अनु वर्षवरेण तेन तेन +skd_248,śṛṇu sakhi murajid yadā tu yuṣmad vyavahitim āpa tadā jagāma dhenuḥ | madhumadhurakalān na dhenumātraṃ param aparaṃ ca cakarṣa jīvamātram,शृणु सखि मुरजिद् यदा तु युष्मद् व्यवहितिम् आप तदा जगाम धेनुः । मधुमधुरकलान् न धेनुमात्रं परम् अपरं च चकर्ष जीवमात्रम् +skd_249,murajid atha samastajīvajātivyatikaravīkṣaṇataḥ kṣamām avindan | akuruta muralīkalīviśeṣaṃ yad ajani sarvakam eva tatra bhinnam,मुरजिद् अथ समस्तजीवजातिव्यतिकरवीक्षणतः क्षमाम् अविन्दन् । अकुरुत मुरलीकलीविशेषं यद् अजनि सर्वकम् एव तत्र भिन्नम् +skd_250,vayam akhilasakhiprasaktanānā haricaritākalanāya yarhi yātāḥ | aparahariramābhir anyad ārād2 bahuvidhabhojyam adāyi tarhi guptam,वयम् अखिलसखिप्रसक्तनाना हरिचरिताकलनाय यर्हि याताः । अपरहरिरमाभिर् अन्यद् आराद्२ बहुविधभोज्यम् अदायि तर्हि गुप्तम् +skd_251,danujaripur aśeṣam eva sarvān prati vibabhāja ca bhājanāvalīṣu | atigaṇitatayā nayād viviktaṃ samupahṛtaṃ tad idaṃ kayā kayeti,दनुजरिपुर् अशेषम् एव सर्वान् प्रति विबभाज च भाजनावलीषु । अतिगणिततया नयाद् विविक्तं समुपहृतं तद् इदं कया कयेति +skd_252,harir atha jalapāyanāya dhenūr hvayati yadā sma tadā sravatpadāṅkāḥ3 | api nikhilam amūs tṛṣā vihīnaṃ vidadhur amūṣu tathā kathāstu4 dūre,हरिर् अथ जलपायनाय धेनूर् ह्वयति यदा स्म तदा स्रवत्पदाङ्काः३ । अपि निखिलम् अमूस् तृषा विहीनं विदधुर् अमूषु तथा कथास्तु४ दूरे +skd_253,tadapi ca salilāni pāyayitvā nijakarasaṅkaratāsudhāyitāni | bahūni kaṭamukhīś cakāra dhenūr nijamukhatām api bibhratīḥ prayatya5,तदपि च सलिलानि पाययित्वा निजकरसङ्करतासुधायितानि । बहूनि कटमुखीश् चकार धेनूर् निजमुखताम् अपि बिभ्रतीः प्रयत्य५ +skd_254,na bhavati vinivartanādyupāyaḥ pratigatiyaṣṭivicālanādirūpaḥ | api tu harigavīṣu dṛṣṭiveṇū sapadi hareḥ sphurataḥ sma tatra tatra,न भवति विनिवर्तनाद्युपायः प्रतिगतियष्टिविचालनादिरूपः । अपि तु हरिगवीषु दृष्टिवेणू सपदि हरेः स्फुरतः स्म तत्र तत्र +skd_255,abhigṛham ajitasya yā nivṛtya pratigatir atra ca kautukaṃ vibhāti | upasurasurajātayaḥ samantān naṭanakalāghaṭanaprathām aṭanti,अभिगृहम् अजितस्य या निवृत्य प्रतिगतिर् अत्र च कौतुकं विभात��� । उपसुरसुरजातयः समन्तान् नटनकलाघटनप्रथाम् अटन्ति +skd_257,"atha ca yadi tadā samastahṛdbhir bharatakalām anuvindate mukundaḥ | divi phalakarave tadā divīśā diśi diśi citranibhāni bhālayati ||""256|| iti bhaṇati tadā tadīyavarge kalakalabhāg ajani prarmodigoṣṭham | iha sati vṛṣabhānujādivargas tvarigati candraniveśam āruroha","अथ च यदि तदा समस्तहृद्भिर् भरतकलाम् अनुविन्दते मुकुन्दः । दिवि फलकरवे तदा दिवीशा दिशि दिशि चित्रनिभानि भालयति ॥""२५६॥ इति भणति तदा तदीयवर्गे कलकलभाग् अजनि प्रर्मोदिगोष्ठम् । इह सति वृषभानुजादिवर्गस् त्वरिगति चन्द्रनिवेशम् आरुरोह" +skd_258,uparigṛhagataḥ sa tatra tatra dravad iva gopakuladravād dadarśa | dṛśam atha bhṛśam agrataḥ prayacchan nabhasi gatāṃ rajasāṃ nadīm apaśyat,उपरिगृहगतः स तत्र तत्र द्रवद् इव गोपकुलद्रवाद् ददर्श । दृशम् अथ भृशम् अग्रतः प्रयच्छन् नभसि गतां रजसां नदीम् अपश्यत् +skd_259,sphurad atha khurarambhaṇādiśabdaprasaraṇam āvṛtasarvam eṣa6 śṛṇvan | avadad api parasparaṃ tad itthaṃ svahṛdayaraṅgataraṅganṛtyatulyam,स्फुरद् अथ खुररम्भणादिशब्दप्रसरणम् आवृतसर्वम् एष६ शृण्वन् । अवदद् अपि परस्परं तद् इत्थं स्वहृदयरङ्गतरङ्गनृत्यतुल्यम् +skd_260,kalaya sakhi puraḥ surabhyanīkaṃ tadanu ca yuktaniyuktalokasaṅghaḥ | tam anu sakhisuhṛtkumāravṛndaṃ vilasati tatra ca śubhrakṛṣṇayugmam,कलय सखि पुरः सुरभ्यनीकं तदनु च युक्तनियुक्तलोकसङ्घः । तम् अनु सखिसुहृत्कुमारवृन्दं विलसति तत्र च शुभ्रकृष्णयुग्मम् +skd_261,kvacid api paśunāma bhāṣamāṇaḥ kvacid api rakṣakanāma veṇupāṇiḥ | kvacid api sakhināma miṣṭavaṃśīsvarakalayākhilamoham ātanoti,क्वचिद् अपि पशुनाम भाषमाणः क्वचिद् अपि रक्षकनाम वेणुपाणिः । क्वचिद् अपि सखिनाम मिष्टवंशीस्वरकलयाखिलमोहम् आतनोति +skd_262,orājīm;; anyadāvad; padyoskāḥ (?); tathāstu; prayattaḥ; eva; upariracitapuṣpavṛṣṭisṛṣṭiḥ stavakṛtasaṃstava eva divyalokaḥ | sukhayati sakhi gokulasya lokān priyam anu sapriyatāṃ hi suṣṭhu dhatte,ओराजीम्;; अन्यदावद्; पद्योस्काः (?); तथास्तु; प्रयत्तः; एव; उपरिरचितपुष्पवृष्टिसृष्टिः स्तवकृतसंस्तव एव दिव्यलोकः । सुखयति सखि गोकुलस्य लोकान् प्रियम् अनु सप्रियतां हि सुष्ठु धत्ते +skd_263,harim atha dhavalānivāsam āptaṃ svam anu ca sannatam agrajena sārdham | vrajapatir upalabhya tacchramāpaṃ muhur apamṛjya ciraṃ dadarśa sāsram,हरिम् अथ धवलानिवासम् आप्तं स्वम् अनु च सन्नतम् अग्रजेन सार्धम् । व्रजपतिर् उपलभ्य तच्छ्रमापं मुहुर् अपमृज्य चिरं ददर्श सास्रम् +skd_264,svayam atha janakaḥ samastayuktaḥ paśukulam ākulam ālayāya nītvā | sakalam aghaharaṃ śramāpanuttiṃ pratinidideśa yataḥ sa eṣa eti,स्वयम् अथ जनकः समस्तयुक्तः पशुकुलम् आकुलम् आलयाय नीत्वा । सकलम् अघहरं श्रमापनुत्तिं प्रतिनिदिदेश यतः स एष एति +skd_265,"iti vadati sakhījane samantād vṛṣaravijāṃ vadati sma kācid etya | ""vrajanṛpadayitā samaṃ vadhūbhiś calati sutaṃ prati maṅgalānusaṅgi","इति वदति सखीजने समन्ताद् वृषरविजां वदति स्म काचिद् एत्य । ""व्रजनृपदयिता समं वधूभिश् चलति सुतं प्रति मङ्गलानुसङ्गि" +skd_266,idam avakalayan sakhīsamūhas tvarinikhilādhikarādhikaṃ pratasthe | vrajanṛpavanitānuṣaṅgaḥ kāmaḥ karam anu cāsajati sma maṅgalāni,इदम् अवकलयन् सखीसमूहस् त्वरिनिखिलाधिकराधिकं प्रतस्थे । व्रजनृपवनितानुषङ्गः कामः करम् अनु चासजति स्म मङ्गलानि +skd_267,agharipujananī tu sarvayuktā svapatham abhīkṣṇam asāv abhīkṣamāṇā | vṛṣaravitanujādibhiḥ snuṣābhiḥ samanugatā svasukhā cakāra1,अघरिपुजननी तु सर्वयुक्ता स्वपथम् अभीक्ष्णम् असाव् अभीक्षमाणा । वृषरवितनुजादिभिः स्नुषाभिः समनुगता स्वसुखा चकार१ +skd_268,atha jayajayaśabdabhavyagītastavaghṛtadīpakapūrṇakumbhalājān | vacasi śirasi hastayoḥ śrayantī harijananīprabhṛtis tatiḥ pratasthe,अथ जयजयशब्दभव्यगीतस्तवघृतदीपकपूर्णकुम्भलाजान् । वचसि शिरसि हस्तयोः श्रयन्ती हरिजननीप्रभृतिस् ततिः प्रतस्थे +skd_269,samagamad avarodhaniṣkramadvāravadhim iyaṃ sa tadā tu kṛṣṇacandraḥ | sahabalam abhiyan puraḥ pradeśaṃ śramajarucāpy abhitaḥ sukhaṃ vavarṣa,समगमद् अवरोधनिष्क्रमद्वारवधिम् इयं स तदा तु कृष्णचन्द्रः । सहबलम् अभियन् पुरः प्रदेशं श्रमजरुचाप्य् अभितः सुखं ववर्ष +skd_270,atha sakusumalājavṛṣṭinīrājanasukham anv anu mātur aṅghrilagnaḥ | aparagurujaneṣu2 cānvatiṣṭhat tad atha yathā yugapad balaś ca tadvat,अथ सकुसुमलाजवृष्टिनीराजनसुखम् अन्व् अनु मातुर् अङ्घ्रिलग्नः । अपरगुरुजनेषु२ चान्वतिष्ठत् तद् अथ यथा युगपद् बलश् च तद्वत् +skd_271,tadanu ca jananī hṛdāsadāśīstatim adadād vacasā tu neti sarvā | sanayanajalagadgadaṃ gadantī kalakalavalgugirāśiṣaḥ śaśaṃsa,तदनु च जननी हृदासदाशीस्ततिम् अददाद् वचसा तु नेति सर्वा । सनयनजलगद्गदं गदन्ती कलकलवल्गुगिराशिषः शशंस +skd_272,atha balajananīyutā yaśodā sutayugalaṃ dadhatī kareṇa doṣṇi | svasadanam upanīya khedariktaṃ karaṇalaghuvyajanaṃ vidhūnute sma,अथ बलजननीयुता यशोदा सुतयुगलं दधती करेण दोष्णि । स्वसदनम् उपनीय खेदरिक्तं करणलघुव्यजनं विधूनुते स्म +skd_273,kṣaṇakatipayamātṛlālanāyāṃ jaḍavad upeyatur asmṛtiṃ sahotthau | tadanu ca tanusevakāḥ samūcuḥ snapanajalapramukhaṃ samastam asti,क्षणकतिपयमातृलालनायां जडवद् उपेयतुर् अस्मृतिं सहोत्थौ । तदनु च तनुसेवकाः समूचुः स्नपनजलप्रमुखं समस्तम् अस्ति +skd_274,harir atha haricandanena raktaṃ mṛgajamadena balas tu vastrayugmam | dadhad anudadhad aṅgarāgam evaṃ bhūṣaṇam āpa mātṛpārśvam,हरिर् अथ हरिचन्दनेन रक्तं मृगजमदेन बलस् तु वस्त्रयुग्मम् । दधद् अनुदधद् अङ्गरागम् एवं भूषणम् आप मातृपार्श्वम् +skd_275,sakalam avayavaṃ nijaṃ saveśaṃ surabhitam apy atulaṃ karoti kṛṣṇaḥ | niṭilam atitamāṃ3 yad asya paśyaty api purujighṛtitātamātṛyugmam,सकलम् अवयवं निजं सवेशं सुरभितम् अप्य् अतुलं करोति कृष्णः । निटिलम् अतितमां३ यद् अस्य पश्यत्य् अपि पुरुजिघृतितातमातृयुग्मम् +skd_276,sutayugam atha mātṛyugmam āptaṃ taducitacitrakacitram āśu kṛtvā | amṛtarucidhareṇa pānakena kramukapuṭena ca nandayāñcakāra,सुतयुगम् अथ मातृयुग्मम् आप्तं तदुचितचित्रकचित्रम् आशु कृत्वा । अमृतरुचिधरेण पानकेन क्रम���कपुटेन च नन्दयाञ्चकार +skd_277,sphurad iha jananīyugaṃ prasūtyor yugam api citratayā vibhāti nityam | yugayugam anutarkyate na śīlāt kva nu jananī jananīyatāvibhāgaḥ,स्फुरद् इह जननीयुगं प्रसूत्योर् युगम् अपि चित्रतया विभाति नित्यम् । युगयुगम् अनुतर्क्यते न शीलात् क्व नु जननी जननीयताविभागः +skd_278,śirasi dadhad apūrvapaṭṭapāśaṃ karam anu ratnajacitramitrayaṣṭim | balasahitatayācalaj jananyoś caraṇanatiṃ vidadhat payāṃsi dogdhum,शिरसि दधद् अपूर्वपट्टपाशं करम् अनु रत्नजचित्रमित्रयष्टिम् । बलसहिततयाचलज् जनन्योश् चरणनतिं विदधत् पयांसि दोग्धुम् +skd_279,sukhīcakāra; ojanīsucānvatiṣṭhat; atitamaṃ atha kanakaja-dohanādi-pātrāṇy anuga-janāḥ samam eva te gṛhītvā | vyatijaya-manasā dravaṃ dadhānā drava-gamanāḥ samayus tadīya-padyām,सुखीचकार; ओजनीसुचान्वतिष्ठत्; अतितमं अथ कनकज-दोहनादि-पात्राण्य् अनुग-जनाः समम् एव ते गृहीत्वा । व्यतिजय-मनसा द्रवं दधाना द्रव-गमनाः समयुस् तदीय-पद्याम् +skd_280,punar atha vṛṣabhānujādi-vargaḥ sadana-śiro-gṛha-jāla-randhra-lagnaḥ | upadiśati parasparaṃ sma vīkṣya priya-caritaṃ gavi-dohanāya jātam,पुनर् अथ वृषभानुजादि-वर्गः सदन-शिरो-गृह-जाल-रन्ध्र-लग्नः । उपदिशति परस्परं स्म वीक्ष्य प्रिय-चरितं गवि-दोहनाय जातम् +skd_281,kalaya sakhi hariḥ pitṛ-nideśaṃ svayam anu yācanayā prapadyamānaḥ | paśupa-janani-yojanānupūrvyā saha-balam ācarati sma goṣu doham,कलय सखि हरिः पितृ-निदेशं स्वयम् अनु याचनया प्रपद्यमानः । पशुप-जननि-योजनानुपूर्व्या सह-बलम् आचरति स्म गोषु दोहम् +skd_282,yadapi ca harihūtimādhurībhiḥ sa nadati sarvaka eva dhenusaṅghaiḥ | tadapi ca bata kāpi tasya śikṣāvaśāgatayā tam iyarti tena hūtā,यदपि च हरिहूतिमाधुरीभिः स नदति सर्वक एव धेनुसङ्घैः । तदपि च बत कापि तस्य शिक्षावशागतया तम् इयर्ति तेन हूता +skd_283,atha parihitam uttarīyabaddhaṃ draḍhayati gāḍhatayā gavām adhīndraḥ | tad anu ca mṛdupāśanaddhavatsaṃ navadhavalācaraṇena saṃyunakti,अथ परिहितम् उत्तरीयबद्धं द्रढयति गाढतया गवाम् अधीन्द्रः । तद् अनु च मृदुपाशनद्धवत्सं नवधवलाचरणेन संयुनक्ति +skd_284,kṣitim anu caraṇāgradattabhāraḥ praṇamitajānuyugāntarasthapātraḥ | muhur api kalayan sagostanāgraṃ smitam api dugdham api sma dogdhi kṛṣṇaḥ,क्षितिम् अनु चरणाग्रदत्तभारः प्रणमितजानुयुगान्तरस्थपात्रः । मुहुर् अपि कलयन् सगोस्तनाग्रं स्मितम् अपि दुग्धम् अपि स्म दोग्धि कृष्णः +skd_285,kalaya harir amūm adugdha dhenuṃ katham aparā duhate svayaṃ vilokya | ahaha tadavalokya paśya dūrād anukurute jaradaṅganāgaṇaś ca,कलय हरिर् अमूम् अदुग्ध धेनुं कथम् अपरा दुहते स्वयं विलोक्य । अहह तदवलोक्य पश्य दूराद् अनुकुरुते जरदङ्गनागणश् च +skd_286,drutam atha payasāṃ nipān prahṛtya prayayur amī vrajarānmukhā gṛhāya | harir atha sakalaḥ suhṛdvṛtiśrīḥ kavikavitaḥ sa sasāra rājasadma,द्रुतम् अथ पयसां निपान् प्रहृत्य प्रययुर् अमी व्रजरान्मुखा गृहाय । हरिर् अथ सकलः सुहृद्वृतिश्रीः कविकवितः स ससार राजसद्म +skd_287,balam anu sakhibhiḥ sahāsajalpaḥ karakaratāḍanayā mithaḥ pramodī | samadagajagatir vicitravetraḥ parisaram eti saran sarojanetraḥ,बलम् अनु सखिभिः सहासजल्पः करकरताडनया मिथः प्रमोदी । समदगजगतिर् विचित्रवेत्रः परिसरम् एति सरन् सरोजनेत्रः +skd_288,saraṇim anusarann amuṃ pradeśaṃ punar amum apy amum apy amuṃ viveśa murajid adhiruroha karṇikāgraṃ nijanijasevanasiddhaye prayāmaḥ,सरणिम् अनुसरन्न् अमुं प्रदेशं पुनर् अमुम् अप्य् अमुम् अप्य् अमुं विवेश मुरजिद् अधिरुरोह कर्णिकाग्रं निजनिजसेवनसिद्धये प्रयामः +skd_289,iti vividhatayānuvarṇyamānaḥ savidhasametatayāvakarṇyamānaḥ | upajananaisa etya tannideśāt klamam apanetum iyāya vāsasadma,इति विविधतयानुवर्ण्यमानः सविधसमेततयावकर्ण्यमानः । उपजननैस एत्य तन्निदेशात् क्लमम् अपनेतुम् इयाय वाससद्म +skd_290,drutam atha vṛṣabhānujādivargaḥ priyam upasevitum āvṛtīyamānaḥ | akuruta jalatālavṛntacarcādyupakaraṇaṃ kalayaṃs tadīyaśarma,द्रुतम् अथ वृषभानुजादिवर्गः प्रियम् उपसेवितुम् आवृतीयमानः । अकुरुत जलतालवृन्तचर्चाद्युपकरणं कलयंस् तदीयशर्म +skd_291,ruciramṛdulatūlikāñcikhaṭṭām upari niveśam amuṃ niṣevyamāṇāḥ | yad iha sukham amuṣya tan nijātmapratiphalitaṃ nijam eva tā viduḥ sma,रुचिरमृदुलतूलिकाञ्चिखट्टाम् उपरि निवेशम् अमुं निषेव्यमाणाः । यद् इह सुखम् अमुष्य तन् निजात्मप्रतिफलितं निजम् एव ता विदुः स्म +skd_292,yadapi tam anusevate samastā tatir iyam uttamakalpam alpakaṃ na | tadapi ca vṛṣabhānujā yadā yat kalayati tan navatāṃ sadā prayāti,यदपि तम् अनुसेवते समस्ता ततिर् इयम् उत्तमकल्पम् अल्पकं न । तदपि च वृषभानुजा यदा यत् कलयति तन् नवतां सदा प्रयाति +skd_293,navam iva mithunaṃ mithaḥ sthitaṃ yan navam iva rāgajanuś ca yasya nityam | katham iva navatāṃ na tasya vinded vyatibhajanaṃ harirādhikābhidhasya,नवम् इव मिथुनं मिथः स्थितं यन् नवम् इव रागजनुश् च यस्य नित्यम् । कथम् इव नवतां न तस्य विन्देद् व्यतिभजनं हरिराधिकाभिधस्य +skd_294,iti rajanimukhe gate sukhena prahitacaraḥ śiśur āgataḥ sma vakti | vrajapatir adhunā svabhogadhāma praviśati tena samaṃ balādayaś ca,इति रजनिमुखे गते सुखेन प्रहितचरः शिशुर् आगतः स्म वक्ति । व्रजपतिर् अधुना स्वभोगधाम प्रविशति तेन समं बलादयश् च +skd_295,atha muravijayī cacāla tasmāt pitṛsavidhaṃ pidadhan nijasmitādi | sudṛg iyam api tarhi goparājñīnikaṭam atiprakaṭaṃ vihāya vartma,अथ मुरविजयी चचाल तस्मात् पितृसविधं पिदधन् निजस्मितादि । सुदृग् इयम् अपि तर्हि गोपराज्ञीनिकटम् अतिप्रकटं विहाय वर्त्म +skd_296,murajiti savidhaṃ gate vrajejyā nṛpasahitā muditā balādayaś ca | sajalajalamucīva cātakādyāḥ kalakalavalgu yayus tadābhimukhyam,मुरजिति सविधं गते व्रजेज्या नृपसहिता मुदिता बलादयश् च । सजलजलमुचीव चातकाद्याः कलकलवल्गु ययुस् तदाभिमुख्यम् +skd_297,yadapi ravisamaḥ śaśī vibhāti vrajabhuvi tarhy api kāntibhedarītyā | rajanidinavibhāgam īkṣamāṇā vyavahṛtibhedam amī sadā bhajanti,यदपि रविसमः शशी विभाति व्रजभुवि तर्ह्य् अपि कान्तिभेदरीत्या । रजनिदिनविभागम् ईक्षमाणा व्यवहृतिभेदम् अमी सदा भजन्ति +skd_298,atha niviviśire vrajeśvarādyā danujaripupramukhāś ca bhinnapaṅkti | iti1 hi hasarasa�� samastabhojyaṃ svadanavidhiṃ nayate tad anyathā na,अथ निविविशिरे व्रजेश्वराद्या दनुजरिपुप्रमुखाश् च भिन्नपङ्क्ति । इति१ हि हसरसः समस्तभोज्यं स्वदनविधिं नयते तद् अन्यथा न +skd_299,dinamukham anu tatra pākavṛnde dinajaṭharaprasaraṃ dināṅghripūrtim | ṛtuvalayanideśadeśabhedaṃ vividhavidhānagatīḥ svayaṃ tu viddhi,दिनमुखम् अनु तत्र पाकवृन्दे दिनजठरप्रसरं दिनाङ्घ्रिपूर्तिम् । ऋतुवलयनिदेशदेशभेदं विविधविधानगतीः स्वयं तु विद्धि +skd_300,prathamam iha phulaṃ vanād upāttaṃ bakaripunā svadanāya suṣṭhu jātam | punar iha havir2ādigorasāntaṃ śatavidhatemanajemanaṃ babhūva,प्रथमम् इह फुलं वनाद् उपात्तं बकरिपुना स्वदनाय सुष्ठु जातम् । पुनर् इह हविर्२आदिगोरसान्तं शतविधतेमनजेमनं बभूव +skd_301,atha surabhijalena suṣṭhu tāmbūlajapuṭakena ca śodhitāsyapadmāḥ | vrajanṛpatitadīyanandanādyā bahir upaveśasabhām abhāsayanta,अथ सुरभिजलेन सुष्ठु ताम्बूलजपुटकेन च शोधितास्यपद्माः । व्रजनृपतितदीयनन्दनाद्या बहिर् उपवेशसभाम् अभासयन्त +skd_302,atha punar adhiruhya candraśālā3- mukham amṛtāṃśu4mukhīgaṇāḥ svakāntam | abhimukhasadasi sphūranniveśaṃ dadṛśur amuṃ nibhṛtaṃ mitho 'py anūcuḥ,अथ पुनर् अधिरुह्य चन्द्रशाला३- मुखम् अमृतांशु४मुखीगणाः स्वकान्तम् । अभिमुखसदसि स्फूरन्निवेशं ददृशुर् अमुं निभृतं मिथो ऽप्य् अनूचुः +skd_303,iha viviṣakalākalāpavijñāḥ samuditatāṃ samavāpur utkacittāḥ | amum uditām itāḥ kalānidhānaṃ svakulakalāṃ vinivedya bhartum aicchan,इह विविषकलाकलापविज्ञाः समुदिततां समवापुर् उत्कचित्ताः । अमुम् उदिताम् इताः कलानिधानं स्वकुलकलां विनिवेद्य भर्तुम् ऐच्छन् +skd_304,yadapi harir asau kalānivijñas tadapi tadalpakalāsu toṣam eti | yadapi kṛtamukhāḥ kalāsu sabhyās tadapi harer mukhavīkṣayā ramante,यदपि हरिर् असौ कलानिविज्ञस् तदपि तदल्पकलासु तोषम् एति । यदपि कृतमुखाः कलासु सभ्यास् तदपि हरेर् मुखवीक्षया रमन्ते +skd_305,na bhajati sakalaṃ sadā sabhāyāḥ samavasaraṃ bata kāvyanāṭakādi | iti niśi niśi bhinnatānumatyā vrajapatir iṣṭatamaṃ tadātaniṣṭa,न भजति सकलं सदा सभायाः समवसरं बत काव्यनाटकादि । इति निशि निशि भिन्नतानुमत्या व्रजपतिर् इष्टतमं तदातनिष्ट +skd_306,kvaca niśi nṛpatiḥ sa vaṣṭi kāvyaṃ kvacid api nāṭyakalāṃ kvacāpi citram | pṛthag api na pṛthag vibhāti sarvaṃ hariracitāni paraṃ puraḥ karoti,क्वच निशि नृपतिः स वष्टि काव्यं क्वचिद् अपि नाट्यकलां क्वचापि चित्रम् । पृथग् अपि न पृथग् विभाति सर्वं हरिरचितानि परं पुरः करोति +skd_307,iti purukutuke gate tu yāme haribalasaṃvalitāḥ samastalokāḥ | vrajanarapatim utthitaṃ vilokya prati tadavasthiti tasthur ādareṇa,इति पुरुकुतुके गते तु यामे हरिबलसंवलिताः समस्तलोकाः । व्रजनरपतिम् उत्थितं विलोक्य प्रति तदवस्थिति तस्थुर् आदरेण +skd_308,murajiti gadituṃ kim apy anīśe pitari ca bāṣpaniruddhakaṇṭhadeśe | sthaviragurujanā dvayaṃ nivedya pratividhaye samanaskam ācaran sma,मुरजिति गदितुं किम् अप्य् अनीशे पितरि च बाष्पनिरुद्धकण्ठदेशे । स्थविरगुरुजना द्वयं निवेद्य प���रतिविधये समनस्कम् आचरन् स्म +skd_309,avanatapitṛkaḥ parān yathārhaṃ nativinayādibhṛtān vidhāya kṛṣṇaḥ | sahabalam anugatya mātṛyugmaṃ taducitalālitatāṃ ciraṃ jagāma,अवनतपितृकः परान् यथार्हं नतिविनयादिभृतान् विधाय कृष्णः । सहबलम् अनुगत्य मातृयुग्मं तदुचितलालिततां चिरं जगाम +skd_310,anumatim atha mātṛyugmadattām avakalayan praṇaman sanamradṛṣṭiḥ | haladharam anugamya taṃ praṇamya śritanavavarṣavaraḥ svavāsam āpa,अनुमतिम् अथ मातृयुग्मदत्ताम् अवकलयन् प्रणमन् सनम्रदृष्टिः । हलधरम् अनुगम्य तं प्रणम्य श्रितनववर्षवरः स्ववासम् आप +skd_311,iha; harir ādio; candraśālīo ; amṛtāśuo iti muraharavarṇanāṃ sa kurvan muraharam apy avalokya sadmasīmni | drutataram avaruhya rādhikādir nijatadapahṇavam ācacāra vargaḥ,इह; हरिर् आदिओ; चन्द्रशालीओ ; अमृताशुओ इति मुरहरवर्णनां स कुर्वन् मुरहरम् अप्य् अवलोक्य सद्मसीम्नि । द्रुततरम् अवरुह्य राधिकादिर् निजतदपह्णवम् आचचार वर्गः +skd_312,iha matam apareṇa sarvakāntāsv anuniśam añcati so 'yam ittham astu | hṛdaya kalaya kintu cāru rādhāharicaritaṃ paritaḥ smara tvam atra,इह मतम् अपरेण सर्वकान्तास्व् अनुनिशम् अञ्चति सो ऽयम् इत्थम् अस्तु । हृदय कलय किन्तु चारु राधाहरिचरितं परितः स्मर त्वम् अत्र +skd_313,vṛṣaravitanayādibhis tadā drāk samagami hāri hariḥ suveśa eṣaḥ | navaghana iva vidyutāvalībhir yad amṛtavṛṣṭimayī babhūva dṛṣṭiḥ,वृषरवितनयादिभिस् तदा द्राक् समगमि हारि हरिः सुवेश एषः । नवघन इव विद्युतावलीभिर् यद् अमृतवृष्टिमयी बभूव दृष्टिः +skd_314,vratatimaṇivivekakhaṇḍiśobhā parimalabhāg iha sadma kintu kuñjam | iha kim u kusumaṃ kim aṃśukaṃ vā śayanaṃ idaṃ mithunam yad adhyaśete,व्रततिमणिविवेकखण्डिशोभा परिमलभाग् इह सद्म किन्तु कुञ्जम् । इह किम् उ कुसुमं किम् अंशुकं वा शयनं इदं मिथुनम् यद् अध्यशेते +skd_1,"iti nityalīlā ||2 || śrīgopālāya namaḥ,1 sā ca janmādikā sā ca nityalīlā śrutiritā | mithaḥ pūrvā parā ca syād bījavṛkṣapravāhavat ||o || atha nityāntarvartisarvartulīlā atha hṛdi kuru vallavīsutasya stavam anu-gautama-tantra-labdham asya | bahu-vidha-samayāgamād vicitraṃ śubha-caritam racita-sva-bhakta-bhakti","इति नित्यलीला ॥२ ॥ श्रीगोपालाय नमः,१ सा च जन्मादिका सा च नित्यलीला श्रुतिरिता । मिथः पूर्वा परा च स्याद् बीजवृक्षप्रवाहवत् ॥ओ ॥ अथ नित्यान्तर्वर्तिसर्वर्तुलीला अथ हृदि कुरु वल्लवीसुतस्य स्तवम् अनु-गौतम-तन्त्र-लब्धम् अस्य । बहु-विध-समयागमाद् विचित्रं शुभ-चरितम् रचित-स्व-भक्त-भक्ति" +skd_2,januṣi madhu-ṛtoḥ kumāra-bhāve taruṇimani pravayastayā ca yoge | dayita-dayitayor vasanta-rāga-prabhṛti-kalā lasati sma śāmyati sma,जनुषि मधु-ऋतोः कुमार-भावे तरुणिमनि प्रवयस्तया च योगे । दयित-दयितयोर् वसन्त-राग-प्रभृति-कला लसति स्म शाम्यति स्म +skd_3,tad idam ṛtuṣu ṣaṭsu rucyabhedāt pṛthag anuvarṇanam iṣyate tathā hi | harir iha vihṛtipracāracaryāṃ vidadhad avarṇayad eṣa tarhi tarhi,तद् इदम् ऋतुषु षट्सु रुच्यभेदात् पृथग् अनुवर्णनम् इष्यते तथा हि । हरिर् इह विहृतिप्रचारचर्यां विदधद् अवर्��यद् एष तर्हि तर्हि +skd_4,prathamam iha śṛṇuṣva citta vākyaṃ kvaca niśi yat prabhum āha hāri rādhā | atha kalaya harer vacaś ca tasyām amṛtavad antaraśantamasya dātṛ,प्रथमम् इह शृणुष्व चित्त वाक्यं क्वच निशि यत् प्रभुम् आह हारि राधा । अथ कलय हरेर् वचश् च तस्याम् अमृतवद् अन्तरशन्तमस्य दातृ +skd_6,"""ahaha vanavanaṃ nidāghadagdhasthalam aṭasi svavapuḥ prapīdya rukṣaḥ2 | murahara tava cintanena jīrṇān katham avitāsi janān idaṃ na jāne ||""5|| idam abhihitam ākalayya kṛṣṇaḥ smitavadanaḥ svayam āha yat tu rādhām | tad avakalaya citta vittam etat tava bahuvṛttipadaṃ bhavisyad asti","""अहह वनवनं निदाघदग्धस्थलम् अटसि स्ववपुः प्रपीद्य रुक्षः२ । मुरहर तव चिन्तनेन जीर्णान् कथम् अवितासि जनान् इदं न जाने ॥""५॥ इदम् अभिहितम् आकलय्य कृष्णः स्मितवदनः स्वयम् आह यत् तु राधाम् । तद् अवकलय चित्त वित्तम् एतत् तव बहुवृत्तिपदं भविस्यद् अस्ति" +skd_7,"""ahaha sumukhi nedam anyad ūhyaṃ tapaṛtum anv api tatra citratāsti | kvaca sa hi madhuvat kvacāpi varṣāvad anubhavaṃ dadate svayaṃ kvacāpi","""अहह सुमुखि नेदम् अन्यद् ऊह्यं तपऋतुम् अन्व् अपि तत्र चित्रतास्ति । क्वच स हि मधुवत् क्वचापि वर्षावद् अनुभवं ददते स्वयं क्वचापि" +skd_8,vanam iha yad anūpam asti tasmin madhur iva bhāti nidāghakāla eṣaḥ | nirudakataruṇi svayaṃ nidāghaḥ kṣitidharanirjharabhājivārṣikaśrīḥ,वनम् इह यद् अनूपम् अस्ति तस्मिन् मधुर् इव भाति निदाघकाल एषः । निरुदकतरुणि स्वयं निदाघः क्षितिधरनिर्झरभाजिवार्षिकश्रीः +skd_9,mama samam amarībhir atra vṛndā nikhilavanaṃ paritaḥ pariṣkaroti | yad aharahar ahaṃ bhavatyā saha sahacāribhir apy alaṃ bhajāmi,मम समम् अमरीभिर् अत्र वृन्दा निखिलवनं परितः परिष्करोति । यद् अहरहर् अहं भवत्या सह सहचारिभिर् अप्य् अलं भजामि +skd_10,sumadhuranavanārikelanīraṃ tadupamatālaphalāmbu cāsya3 majja | upahṛtam iha vṛndayā satṛṣṇe sakhisahite mayi tṛptim ādadhīta,सुमधुरनवनारिकेलनीरं तदुपमतालफलाम्बु चास्य३ मज्ज । उपहृतम् इह वृन्दया सतृष्णे सखिसहिते मयि तृप्तिम् आदधीत +skd_11,sa panasasahakāragostanīnāṃ rasavasanaṃ racayāmy ahaṃ samitraḥ | tvadadharamadhu māṃ tu tatra citraṃ smarayati sāndratayā svam eva subhru,स पनससहकारगोस्तनीनां रसवसनं रचयाम्य् अहं समित्रः । त्वदधरमधु मां तु तत्र चित्रं स्मरयति सान्द्रतया स्वम् एव सुभ्रु +skd_12,"atha vayam api tāṃ vihārabhūmiṃ tava kalayāma yadi tvadīyam iṣṭam |"" not found; the following verse is placed after atha etc.; rukṣaḥ; 3.. (a) margin: cālpa;iti vṛṣaravijādibhiḥ pradiṣṭas tvaritam amūbhir amūṃ hariḥ pratasthe","अथ वयम् अपि तां विहारभूमिं तव कलयाम यदि त्वदीयम् इष्टम् ।"" नोत् फ़ोउन्द्; थे फ़ोल्लोwइन्ग् वेर्से इस् प्लचेद् अफ़्तेर् अथ एत्च्.; रुक्षः; ३.. (अ) मर्गिन्: चाल्प;इति वृषरविजादिभिः प्रदिष्टस् त्वरितम् अमूभिर् अमूं हरिः प्रतस्थे" +skd_13,prathamam abhiyayau vasantavantaṃ vipinaviśeṣam atha pradeśam anyam | anubhavatulayānubhāvayaṃś ca pravadati sa sma sanarmasuṣṭhu vācam,प्रथमम् अभिययौ वसन्तवन्तं विपिनविशेषम् अथ प्रदेशम् अन्यम् । अनुभवतुलयानुभावयंश् च प्रवदति स स्म सनर्मसुष्ठु वाचम् +skd_14,ahani vayam amūṃ nirīkṣya subhru varasaritaṃ purataḥ samaṃ sajantaḥ | nijanijadhavalās tu pāyayitvā viharaṇam atra suhṛdbhir ācarāma,अहनि वयम् अमूं निरीक्ष्य सुभ्रु वरसरितं पुरतः समं सजन्तः । निजनिजधवलास् तु पाययित्वा विहरणम् अत्र सुहृद्भिर् आचराम +skd_15,śaśimukhi śucimāsi madhyamadhyaṃ dinam anu mandiratulyaśailagarbhe | jharanikaraparītapārśvadeśe saha bhavatīkam ahaṃ mudā śayiṣye,शशिमुखि शुचिमासि मध्यमध्यं दिनम् अनु मन्दिरतुल्यशैलगर्भे । झरनिकरपरीतपार्श्वदेशे सह भवतीकम् अहं मुदा शयिष्ये +skd_16,savitṛduhitṛtuṅgatīragarbhe śaśimaṇidhāmani kuñjapuñjarāji | anurahasam ahar vrajāntarantaḥ saha bhavatīkam ahaṃ mudāśrayiṣye,सवितृदुहितृतुङ्गतीरगर्भे शशिमणिधामनि कुञ्जपुञ्जराजि । अनुरहसम् अहर् व्रजान्तरन्तः सह भवतीकम् अहं मुदाश्रयिष्ये +skd_17,vayam iha sariti draveṇa gatvā viharaṇaṃ narmasaśarmatāṃ nayāma | iti vṛṣaravijāṃ vidhṛtya bāhāv aparasakhīsahitāṃ ca calann uvāca,वयम् इह सरिति द्रवेण गत्वा विहरणं नर्मसशर्मतां नयाम । इति वृषरविजां विधृत्य बाहाव् अपरसखीसहितां च चलन्न् उवाच +skd_18,"nikaṭanikaṭatāṃ calaṃs taṭinyā nirudakamātrapadaṃ kramāt tyajaṃś ca | ""tapamadhunṛparāṣṭrayugmamadhyaṃ gatam iva candramukhi svam atra paśya","निकटनिकटतां चलंस् तटिन्या निरुदकमात्रपदं क्रमात् त्यजंश् च । ""तपमधुनृपराष्ट्रयुग्ममध्यं गतम् इव चन्द्रमुखि स्वम् अत्र पश्य" +skd_19,iha kamalavanāni tāpaśīrṇāny api kamalāni kiyanti dhārayanti | tata iha sariti praviśya yūyaṃ vayam api tāni vicitya cāru cinmaḥ,इह कमलवनानि तापशीर्णान्य् अपि कमलानि कियन्ति धारयन्ति । तत इह सरिति प्रविश्य यूयं वयम् अपि तानि विचित्य चारु चिन्मः +skd_21,"muhur iha paritaḥ samāvrajantaḥ sariti rasaprasaraṃ gaveṣayantaḥ | navanavatanayāya padminīnāṃ stanam iva vāriruhaṃ duhanti bhṛṅgāḥ ||""20|| iti vanavalitaṃ chalaṃ vidhāya vrajasumukhīḥ saritaṃ praveśyamānā. | kamalacayanalakṣyataḥ svavāñchālasitavaśāḥ1 sa cakāra tatra tatra","मुहुर् इह परितः समाव्रजन्तः सरिति रसप्रसरं गवेषयन्तः । नवनवतनयाय पद्मिनीनां स्तनम् इव वारिरुहं दुहन्ति भृङ्गाः ॥""२०॥ इति वनवलितं छलं विधाय व्रजसुमुखीः सरितं प्रवेश्यमाना. । कमलचयनलक्ष्यतः स्ववाञ्छालसितवशाः१ स चकार तत्र तत्र" +skd_22,"""kamalam idam aho mayā tu labdhaṃ kanakaruciprathitaṃ tvayā tu nīlam |"" iti vividhamiṣaṃ parasparaṃ tāḥ samam ajitena vihārasāram īyuḥ","""कमलम् इदम् अहो मया तु लब्धं कनकरुचिप्रथितं त्वया तु नीलम् ।"" इति विविधमिषं परस्परं ताः समम् अजितेन विहारसारम् ईयुः" +skd_23,hṛdi kim u kamalaṃ lalāga kiṃ vā harikara ity amukā viśaṅkamānāḥ | vrajajanisudṛśas tadā navīnāḥ sapulakaśītkṛtikāritām avāpuḥ,हृदि किम् उ कमलं ललाग किं वा हरिकर इत्य् अमुका विशङ्कमानाः । व्रजजनिसुदृशस् तदा नवीनाः सपुलकशीत्कृतिकारिताम् अवापुः +skd_24,atha vihasati tatra jihmanetrā murajiti cikṣipur āyudhābham ambhaḥ | sa ca tad akṛta tāsu kintu tāsāṃ tadapagamaḥ kriyate sma tasya tena,अथ विहसति तत्र जिह्मनेत्रा मुरजिति ��िक्षिपुर् आयुधाभम् अम्भः । स च तद् अकृत तासु किन्तु तासां तदपगमः क्रियते स्म तस्य तेन +skd_25,harir asurasahasralakṣajetā svayam abalābhir ayaṃ vijetum iṣṭaḥ | yad iha jayam avāpa tan na citraṃ yad atha jitas tad atīva citram atra,हरिर् असुरसहस्रलक्षजेता स्वयम् अबलाभिर् अयं विजेतुम् इष्टः । यद् इह जयम् अवाप तन् न चित्रं यद् अथ जितस् तद् अतीव चित्रम् अत्र +skd_26,yadapi ca jalasecanena kīrṇas tadapi parābhavam api nāghaśatruḥ | iti bhrukuṭim adhāt tu vārṣabhānavy atha sa tu tatra babhūva citrakalpaḥ,यदपि च जलसेचनेन कीर्णस् तदपि पराभवम् अपि नाघशत्रुः । इति भ्रुकुटिम् अधात् तु वार्षभानव्य् अथ स तु तत्र बभूव चित्रकल्पः +skd_27,harim atha sakalābalāvilāsāl laghu jagṛhur jitakāśitāṃ dadhānāḥ | punar api hasitānunāpabhaṅgyā bahir avadhānam adhāpayan mṛgākṣyaḥ,हरिम् अथ सकलाबलाविलासाल् लघु जगृहुर् जितकाशितां दधानाः । पुनर् अपि हसितानुनापभङ्ग्या बहिर् अवधानम् अधापयन् मृगाक्ष्यः +skd_28,avahitavati jīvanādhināthe vṛṣaravijā drutam asya karṣaṇāya | taṭam aṭitavatīha2 kṛṣṇanāmāpy anugatatāṃ samavāpa rāgabaddhaḥ,अवहितवति जीवनाधिनाथे वृषरविजा द्रुतम् अस्य कर्षणाय । तटम् अटितवतीह२ कृष्णनामाप्य् अनुगततां समवाप रागबद्धः +skd_29,ovaṣāḥ; aṭitavatīti drutam atha paricārikā murāriṃ vṛṣaravijāṃ savayastatīr amūś ca | mṛdu mṛdu vasanena mārjitāṅgān akṛṣata vastravarān adhārayaṃś ca,ओवषाः; अटितवतीति द्रुतम् अथ परिचारिका मुरारिं वृषरविजां सवयस्ततीर् अमूश् च । मृदु मृदु वसनेन मार्जिताङ्गान् अकृषत वस्त्रवरान् अधारयंश् च +skd_30,svayam atha vṛṣabhānujā svakāntaṃ mṛgamadakuṅkumacūrṇamarjitāṅgam | sulaghu vidadhatī jahāra jāḍyaṃ bahir abahiḥ punar ājahāra jāḍyam,स्वयम् अथ वृषभानुजा स्वकान्तं मृगमदकुङ्कुमचूर्णमर्जिताङ्गम् । सुलघु विदधती जहार जाड्यं बहिर् अबहिः पुनर् आजहार जाड्यम् +skd_31,atha ghusṛṇaviśeṣakāṃśuyuktaṃ laghutaraveśaviśeṣaśobhimuktam | akuruta vṛṣabhānujā svakāntaṃ sa ca rucitām akarod amūṃ nitāntam,अथ घुसृणविशेषकांशुयुक्तं लघुतरवेशविशेषशोभिमुक्तम् । अकुरुत वृषभानुजा स्वकान्तं स च रुचिताम् अकरोद् अमूं नितान्तम् +skd_32,kramukasitakarāñciparṇavīṭīr adita sakhī harirādhayor mukhāntaḥ | yugalam api tayoḥ sakhījanānām adhita sukhaprathanāya vaktramadhye,क्रमुकसितकराञ्चिपर्णवीटीर् अदित सखी हरिराधयोर् मुखान्तः । युगलम् अपि तयोः सखीजनानाम् अधित सुखप्रथनाय वक्त्रमध्ये +skd_33,atha kamalakarāḥ sakāntakāntāḥ savilasitaṃ sadanāya gantukāmāḥ | vijitakamalapatracārunetrā virurucire nikhilena khelitena,अथ कमलकराः सकान्तकान्ताः सविलसितं सदनाय गन्तुकामाः । विजितकमलपत्रचारुनेत्रा विरुरुचिरे निखिलेन खेलितेन +skd_34,kvacid api hariṇā samaṃ vyadhus tāḥ puru kamalākamali prahāsayuktam | idam iha na vidus tu tena śaśvaj jitam akhilaṃ bhuvaneṣu kevalena,क्वचिद् अपि हरिणा समं व्यधुस् ताः पुरु कमलाकमलि प्रहासयुक्तम् । इदम् इह न विदुस् तु तेन शश्वज् जितम् अखिलं भुवनेषु केवलेन +skd_35,iti bahuvidhakhelamālayāntaṃ jagṛhur amūr amunā samaṃ samastāḥ | tadanu ca varaniṣkuṭasthadhiṣṇyaṃ praviviśur āviviśuś ca tasya bhāsi,इति बहुविधखेलमालयान्तं जगृहुर् अमूर् अमुना समं समस्ताः । तदनु च वरनिष्कुटस्थधिष्ण्यं प्रविविशुर् आविविशुश् च तस्य भासि +skd_36,maṇisadanam idaṃ vṛtīr1 atītaṃ varasarasīsarasīruhālimadhyam | sukusumasukumāragarbhatūlīmiladupadhānaśubhaṃyumañjuśayyam2,मणिसदनम् इदं वृतीर्१ अतीतं वरसरसीसरसीरुहालिमध्यम् । सुकुसुमसुकुमारगर्भतूलीमिलदुपधानशुभंयुमञ्जुशय्यम्२ +skd_37,sarucinihitatālavṛntabhṛṅgārakamukhaśarmadavastusaṃstutāṅgam | drutataram aviśad viśaṃś ca śayyām adhivasati sma hariḥ smitāṃśuśobhi,सरुचिनिहिततालवृन्तभृङ्गारकमुखशर्मदवस्तुसंस्तुताङ्गम् । द्रुततरम् अविशद् विशंश् च शय्याम् अधिवसति स्म हरिः स्मितांशुशोभि +skd_38,tam atha kusumacāmaraṃ dadhānā vṛṣaravijā svayam eva sevate sma | anṛjudṛśam amuṃ balaṃ chalaṃ ca praṇayi sa tu praṇayan nināya śayyām,तम् अथ कुसुमचामरं दधाना वृषरविजा स्वयम् एव सेवते स्म । अनृजुदृशम् अमुं बलं छलं च प्रणयि स तु प्रणयन् निनाय शय्याम् +skd_39,iyam api tata eva khedadambhād alasanibhasthititāṃ babhāja tasyām | tadanu savayasaḥ sacandratāmbūlakam anu śarma dadhus tayor dvayoś ca,इयम् अपि तत एव खेददम्भाद् अलसनिभस्थितितां बभाज तस्याम् । तदनु सवयसः सचन्द्रताम्बूलकम् अनु शर्म दधुस् तयोर् द्वयोश् च +skd_40,tadanu tad anumāya tena tasyā rahasi mithaḥ sthitivāñchitaṃ vayasyāḥ | samiṣam apagatāḥ kṣaṇaṃ tu kācin mṛdumardanam etayor vyadhatta,तदनु तद् अनुमाय तेन तस्या रहसि मिथः स्थितिवाञ्छितं वयस्याः । समिषम् अपगताः क्षणं तु काचिन् मृदुमर्दनम् एतयोर् व्यधत्त +skd_41,iyam api vigatā dvayasya nidrāṃ chalaracitāṃ chalam āracayya yat tu | nayanayugalamīlanaṃ vihāya praṇayamayīm udamīmilan nijehām,इयम् अपि विगता द्वयस्य निद्रां छलरचितां छलम् आरचय्य यत् तु । नयनयुगलमीलनं विहाय प्रणयमयीम् उदमीमिलन् निजेहाम् +skd_42,iti bahuvidhākelibhir nidāghe vigatavati praviveśa vārṣikaśrīḥ | jaladavalayavidyutālilakṣmyā hariharidāratanūr vilāsam āpa,इति बहुविधाकेलिभिर् निदाघे विगतवति प्रविवेश वार्षिकश्रीः । जलदवलयविद्युतालिलक्ष्म्या हरिहरिदारतनूर् विलासम् आप +skd_43,rucim iha kalayan vrajeśasūnur niśi niśi varṇayituṃ ruciṃ jagāma | idam avadadhatī ca vārṣabhānavy api savayastatir udyad ullalāsa,रुचिम् इह कलयन् व्रजेशसूनुर् निशि निशि वर्णयितुं रुचिं जगाम । इदम् अवदधती च वार्षभानव्य् अपि सवयस्ततिर् उद्यद् उल्ललास +skd_44,iti ghanasamayasphuṭaprabhāte nijajananīhitaṃ payaḥ kṛtānnam | maricavalitam uṣṇam īṣad aśnann aham anurāmamukhaṃ sukhaṃ bhajāmi,इति घनसमयस्फुटप्रभाते निजजननीहितं पयः कृतान्नम् । मरिचवलितम् उष्णम् ईषद् अश्नन्न् अहम् अनुराममुखं सुखं भजामि +skd_45,mama janitithir eṣyatīha bhādre vrajajanaśarma ca tena sārdham aṅga | dvayam api yad idaṃ jaganti dhinvan purataraparva taniṣyati prahṛṣya,मम जनितिथिर् एष्यतीह भाद्रे व्रजजनशर्म च तेन सार्धम् अङ्ग । द्वयम् अपि यद् इदं जगन्ति धिन्व���् पुरतरपर्व तनिष्यति प्रहृष्य +skd_46,ovṛter; ośayyām gṛhaśikharaśikhām athādhirūḍhāḥ kalayata niśy api goṣṭhavanyadhāma | pratilavataḍidālidīptibhūmnā dina iva sarvam idaṃ muhur vibhāti,ओवृतेर्; ओशय्याम् गृहशिखरशिखाम् अथाधिरूढाः कलयत निश्य् अपि गोष्ठवन्यधाम । प्रतिलवतडिदालिदीप्तिभूम्ना दिन इव सर्वम् इदं मुहुर् विभाति +skd_47,nabhasi jaladavidyudālilakṣmīr bhuvi haritaḥ sphurad indragopakāntiḥ | madanugabhavatīva kānanaśrītatim anupaṣakatāṃ sakhi prayāti,नभसि जलदविद्युदालिलक्ष्मीर् भुवि हरितः स्फुरद् इन्द्रगोपकान्तिः । मदनुगभवतीव काननश्रीततिम् अनुपषकतां सखि प्रयाति +skd_48,sthalakulam iha kūrmapṛṣṭhatulyaṃ nayanagatipradaratnaveśamadhyam | vitatam abhinavaprarūḍhatārṇaṃ pari dhavalāgaṇapālanaṃ karomi,स्थलकुलम् इह कूर्मपृष्ठतुल्यं नयनगतिप्रदरत्नवेशमध्यम् । विततम् अभिनवप्ररूढतार्णं परि धवलागणपालनं करोमि +skd_49,girivaraśirasi vyudastapārśvāvṛtimaṇisadmani labdhadhenudṛṣṭiḥ | bahuvidhaśatarañjamukhyakhelā vidadhad ahaṃ sakhibhiḥ sukhaṃ prayāmi,गिरिवरशिरसि व्युदस्तपार्श्वावृतिमणिसद्मनि लब्धधेनुदृष्टिः । बहुविधशतरञ्जमुख्यखेला विदधद् अहं सखिभिः सुखं प्रयामि +skd_50,sravati salilam ambude tarūṇāṃ kuharagṛhe rasayan phalaṃ sakandam | upasalilaśilāsanaḥ sadannaṃ dadhisahitaṃ sakhibhir vibhaktam aśnan,स्रवति सलिलम् अम्बुदे तरूणां कुहरगृहे रसयन् फलं सकन्दम् । उपसलिलशिलासनः सदन्नं दधिसहितं सखिभिर् विभक्तम् अश्नन् +skd_51,kvacid api girimūrdhni dhenuhūtiṃ vidadhad amūś ca mudā niviśya paśyan | adhi vaḍabhigatābhir īkṣaṇīyaḥ satatam ahaṃ bhavatībhir atra tatra,क्वचिद् अपि गिरिमूर्ध्नि धेनुहूतिं विदधद् अमूश् च मुदा निविश्य पश्यन् । अधि वडभिगताभिर् ईक्षणीयः सततम् अहं भवतीभिर् अत्र तत्र +skd_52,iha vahati kadambanīpayūthīśavalitaketakagandhasandhavātaḥ | anubhavasaviviktataṃ ca yadvat tava mama cānubhavanti gandham alpam1,इह वहति कदम्बनीपयूथीशवलितकेतकगन्धसन्धवातः । अनुभवसविविक्ततं च यद्वत् तव मम चानुभवन्ति गन्धम् अल्पम्१ +skd_53,yadi pulakakulākulāsi kṛṣṇaṃ kanakapaṭaṃ paṭu māṃ nirīkṣya bhadre | ghanataḍidudayād vivardhamānāṅkuradharanītulanāṃ tadā prayāsi,यदि पुलककुलाकुलासि कृष्णं कनकपटं पटु मां निरीक्ष्य भद्रे । घनतडिदुदयाद् विवर्धमानाङ्कुरधरनीतुलनां तदा प्रयासि +skd_54,ghanasamayam anudhvaniṃ plavādyā vidadhati te ca ghanā muhus tam atra | niśamayitum amuṃ parasparaṃ ye sphuṭam aniśaṃ racayanti suṣṭhu puṣṭam,घनसमयम् अनुध्वनिं प्लवाद्या विदधति ते च घना मुहुस् तम् अत्र । निशमयितुम् अमुं परस्परं ये स्फुटम् अनिशं रचयन्ति सुष्ठु पुष्टम् +skd_55,jaladam anu kaniṣṭhamadhyamukhyāḥ plavaśikhicātakanāmakāḥ prapannāḥ | taratamavidhinā tadekanandi dvayam aparas tu tadekajīvijīvaḥ,जलदम् अनु कनिष्ठमध्यमुख्याः प्लवशिखिचातकनामकाः प्रपन्नाः । तरतमविधिना तदेकनन्दि द्वयम् अपरस् तु तदेकजीविजीवः +skd_57,"aham api tad idaṃ vilokamānaḥ kila vimṛśāmi nijān ananyabhaktān | yadanu ca bhavadīyavṛndam etat paramatayā mama cittam āviveśa ||""56|| iti vadati harau papāta vṛṣṭir visṛmaraśīkarabhāk tataś ca mukhyaḥ | paṭakuṭam adadhur dvayasya khaṭṭām anu paritaḥ sadanaṃ paṭāvṛtaṃ ca","अहम् अपि तद् इदं विलोकमानः किल विमृशामि निजान् अनन्यभक्तान् । यदनु च भवदीयवृन्दम् एतत् परमतया मम चित्तम् आविवेश ॥""५६॥ इति वदति हरौ पपात वृष्टिर् विसृमरशीकरभाक् ततश् च मुख्यः । पटकुटम् अदधुर् द्वयस्य खट्टाम् अनु परितः सदनं पटावृतं च" +skd_58,bahir anu ghanagarjitaṃ savarṣaṃ gṛham anu talpavareṇyam alpaśītam | tadanu vasitaśastavastram etanmithunam anusmara citta gaurakṛṣṇam,बहिर् अनु घनगर्जितं सवर्षं गृहम् अनु तल्पवरेण्यम् अल्पशीतम् । तदनु वसितशस्तवस्त्रम् एतन्मिथुनम् अनुस्मर चित्त गौरकृष्णम् +skd_59,iti bahuvidhasukhakhelayā prayāte ghanasamaye śaradā jagāma tāṃ ca | sphuṭam avakalayan purāvad ākhyad vṛṣaravijāṃ murajin niśi krameṇa,इति बहुविधसुखखेलया प्रयाते घनसमये शरदा जगाम तां च । स्फुटम् अवकलयन् पुरावद् आख्यद् वृषरविजां मुरजिन् निशि क्रमेण +skd_60,aharahar udaye śarat śaratpraveśe nijajananīnihitaṃ payaḥ kṛtānnam | sahasuhṛd upabhujya2 dhenusaṅgād vanakalitaṃ bhavatīṃ vivicya vacmi,अहरहर् उदये शरत् शरत्प्रवेशे निजजननीनिहितं पयः कृतान्नम् । सहसुहृद् उपभुज्य२ धेनुसङ्गाद् वनकलितं भवतीं विविच्य वच्मि +skd_61,vahad anunavam abhram acchabhāvaṃ praṇidadhatī kṣitir ātmanānucakre | taducitam upajīvanīyabhāve mayi bhavatī bhavatīdṛg eva subhrū,वहद् अनुनवम् अभ्रम् अच्छभावं प्रणिदधती क्षितिर् आत्मनानुचक्रे । तदुचितम् उपजीवनीयभावे मयि भवती भवतीदृग् एव सुभ्रू +skd_62,taḍidanuvalane gate payodād bata iti mānam ite tathā payode | tvadapagamadaśāṃ nijāṃ purāṇīṃ muhur aham asya tulām anusmarāmi,तडिदनुवलने गते पयोदाद् बत इति मानम् इते तथा पयोदे । त्वदपगमदशां निजां पुराणीं मुहुर् अहम् अस्य तुलाम् अनुस्मरामि +skd_63,alpaḥ; upayujyaatha yadi kalayāmi tīranīravrajam anu khañjanahaṃsakañjakāntim | varatanu bhavadāgatiṃ vitarkya bhramadaśayā bata vibhramaṃ prayāmi,अल्पः; उपयुज्यअथ यदि कलयामि तीरनीरव्रजम् अनु खञ्जनहंसकञ्जकान्तिम् । वरतनु भवदागतिं वितर्क्य भ्रमदशया बत विभ्रमं प्रयामि +skd_64,abhilaṣati madīyakeliśikṣāgurum iyam acyutavallabhākṣilakṣmīm | iti kila kamalāvalīṃ vidhūtām uru śapharīnikaraś carīkarīti,अभिलषति मदीयकेलिशिक्षागुरुम् इयम् अच्युतवल्लभाक्षिलक्ष्मीम् । इति किल कमलावलीं विधूताम् उरु शफरीनिकरश् चरीकरीति +skd_65,jalam anuparamācchatāṃ nirīkṣya kṣaṇam anusandadhad antaraṃ yadāsmi1 | pratiphalitam iha svam īkṣamāṇas tava manasā tulanām anusmarāmi,जलम् अनुपरमाच्छतां निरीक्ष्य क्षणम् अनुसन्दधद् अन्तरं यदास्मि१ । प्रतिफलितम् इह स्वम् ईक्षमाणस् तव मनसा तुलनाम् अनुस्मरामि +skd_66,navanavapulinaṃ nirīkṣya tat tat padadalanāṃ viniṣidhya tatra cāham | manasi vinidadhe sma hetum anyaṃ vacasi tad anyam idaṃ tvam eva vetsi,नवनवपुलिनं निरीक्ष्य तत् तत् पददलनां विनिषिध्य तत्र चाहम् । मनसि विनिदधे स्म हेतुम् अन्यं वचसि तद् अन्यम् इदं त्वम् एव वेत्सि +skd_67,pathi pathi kusuma��� vicitya śaśvat kusumamayaṃ dhanurādikaṃ vidhāya | pulinakulam adaḥ prapadya tasmin kusumaśarāya vayaṃ baliṃ dadāma,पथि पथि कुसुमं विचित्य शश्वत् कुसुममयं धनुरादिकं विधाय । पुलिनकुलम् अदः प्रपद्य तस्मिन् कुसुमशराय वयं बलिं ददाम +skd_68,kumudamukulam alpam alpanālaṃ śaratulitaṃ viracayya śilpaśāli | dhanur api navaketakasya parṇān tricaturayogadṛḍhān dṛḍhaṃ sṛjāmaḥ,कुमुदमुकुलम् अल्पम् अल्पनालं शरतुलितं विरचय्य शिल्पशालि । धनुर् अपि नवकेतकस्य पर्णान् त्रिचतुरयोगदृढान् दृढं सृजामः +skd_69,iti harir acalat priyāsahāyaḥ kusumacitiṃ vidadhad vicitrakeli | pṛthutanuviṣamacchadāṃs tanīyas tanulatikābhir itasmitān jahāsa,इति हरिर् अचलत् प्रियासहायः कुसुमचितिं विदधद् विचित्रकेलि । पृथुतनुविषमच्छदांस् तनीयस् तनुलतिकाभिर् इतस्मितान् जहास +skd_70,atha pulinam asāv apaśyad indoḥ pratitanuvat pulinasya tadvadindum | kutukarasavaśād viśaṃś ca tasmin svam amṛtasiktanibhaṃ vidan nananda,अथ पुलिनम् असाव् अपश्यद् इन्दोः प्रतितनुवत् पुलिनस्य तद्वदिन्दुम् । कुतुकरसवशाद् विशंश् च तस्मिन् स्वम् अमृतसिक्तनिभं विदन् ननन्द +skd_71,"avadad atha sakhītatir mukundaṃ ""kusumaśaraḥ kva nu yaṃ prapūjayāmaḥ"" | harir avadad ""ahaṃ sa eva sākṣād iti mama pūjanam eva tasya viddhi","अवदद् अथ सखीततिर् मुकुन्दं ""कुसुमशरः क्व नु यं प्रपूजयामः"" । हरिर् अवदद् ""अहं स एव साक्षाद् इति मम पूजनम् एव तस्य विद्धि" +skd_72,"yadi kusumaśarasya śaktim asmin mayi manuṣe natarāṃ tadālivargaḥ | mama kusumaśarān sahasva sākṣād"" iti kalayan sa tu kampate sma vargaḥ","यदि कुसुमशरस्य शक्तिम् अस्मिन् मयि मनुषे नतरां तदालिवर्गः । मम कुसुमशरान् सहस्व साक्षाद्"" इति कलयन् स तु कम्पते स्म वर्गः" +skd_73,"atha vṛṣaravijāvadan ""murāre śatrum iha bhaumayudhi tvam eka eva | parabalabahukoṭiśastram asyan jayam abhajatas tad idaṃ nicāyayasva2","अथ वृषरविजावदन् ""मुरारे शत्रुम् इह भौमयुधि त्वम् एक एव । परबलबहुकोटिशस्त्रम् अस्यन् जयम् अभजतस् तद् इदं निचाययस्व२" +skd_74,upaparisaram asya tarhi sarvāḥ kusumaśarān kirann amūr asaṅkhyān | abhinad ayam amūn śarān amūṣāṃ kusumaśarair uta kañcukāny avidhyat,उपपरिसरम् अस्य तर्हि सर्वाः कुसुमशरान् किरन्न् अमूर् असङ्ख्यान् । अभिनद् अयम् अमून् शरान् अमूषां कुसुमशरैर् उत कञ्चुकान्य् अविध्यत् +skd_77,"harim atha jitakāśinaṃ babhāṣe hariramaṇīvitatiḥ smitaṃ dadhānā | ""vayam iha yuvatījanās tad asmatparicitam eva vihāram ādiśasva ||""75|| harir atha vihasan jagāda ""yūyaṃ bharatamataṃ prati rājathātivijñāḥ | tad anusarata gītavādyanṛtyaṃ mama bhavatībhir udetu tāratamyam ||""76|| drava iva harigānataḥ śilādyaṃ hariramaṇījanasīmakaṃ babhūva | harir ajani kathañcanāpi dhīraḥ sa ca na tathājani gānatas tu tāsām","हरिम् अथ जितकाशिनं बभाषे हरिरमणीविततिः स्मितं दधाना । ""वयम् इह युवतीजनास् तद् अस्मत्परिचितम् एव विहारम् आदिशस्व ॥""७५॥ हरिर् अथ विहसन् जगाद ""यूयं भरतमतं प्रति राजथातिविज्ञाः । तद् अनुसरत गीतवाद्यनृत्यं मम भवतीभिर् उदेतु तारतम्यम् ॥""७६॥ द्रव इव हरिगानतः शिलाद्यं हरिरमणीजनसीमकं बभूव । हरिर् अजनि कथञ्चनापि धीरः स च न तथाजनि गानतस् तु तासाम्" +skd_78,atha militatayā cakāra lāsyaṃ nijavanitābhir ayaṃ na cāpa sāmyam | tam abhidadhur amūr vayaṃ na sandīpanim abhajāma guruṃ kathaṃ nu vidmaḥ,अथ मिलिततया चकार लास्यं निजवनिताभिर् अयं न चाप साम्यम् । तम् अभिदधुर् अमूर् वयं न सन्दीपनिम् अभजाम गुरुं कथं नु विद्मः +skd_79,margin: yadāsti; nicāyayāṃ sma harir akuruta taṇḍunā praṇītaṃ naṭanam anena jahāra cittam āsām | iha jagadur amūr vayaṃ na padmātulitatamā yad ihāpi śikṣitāḥ smaḥ,मर्गिन्: यदास्ति; निचाययां स्म हरिर् अकुरुत तण्डुना प्रणीतं नटनम् अनेन जहार चित्तम् आसाम् । इह जगदुर् अमूर् वयं न पद्मातुलिततमा यद् इहापि शिक्षिताः स्मः +skd_80,vyatimilitatayātha rāsanṛtyaṃ vyadhiṣata tā dayitena tena sārdham | vilasitavaramādhurībhir eṣāṃ suravanitā mumuhur muhur muhuś ca,व्यतिमिलिततयाथ रासनृत्यं व्यधिषत ता दयितेन तेन सार्धम् । विलसितवरमाधुरीभिर् एषां सुरवनिता मुमुहुर् मुहुर् मुहुश् च +skd_81,atha harir akarod ihāpi citraṃ javamahasā sa tathānaśe samastam | yad akhilamahilāḥ svapārśvalagnaṃ tam anulavaṃ bata menire nirīkṣya,अथ हरिर् अकरोद् इहापि चित्रं जवमहसा स तथानशे समस्तम् । यद् अखिलमहिलाः स्वपार्श्वलग्नं तम् अनुलवं बत मेनिरे निरीक्ष्य +skd_82,vilasitam idam ittham ācarantaḥ śramam upalabhya cirād amī niviṣṭāḥ | vyajanasalilapānakāṅgarāgakramukapuṭādibhir āśritābhir iṣṭāḥ,विलसितम् इदम् इत्थम् आचरन्तः श्रमम् उपलभ्य चिराद् अमी निविष्टाः । व्यजनसलिलपानकाङ्गरागक्रमुकपुटादिभिर् आश्रिताभिर् इष्टाः +skd_83,atha bhṛśam upalabhya śāntim etā harihariṇīnayanā niśāvasāne | vanam anuvihṛtiṃ mudā dadhānāḥ svam upavanīmaṇimandiraṃ sasarjuḥ,अथ भृशम् उपलभ्य शान्तिम् एता हरिहरिणीनयना निशावसाने । वनम् अनुविहृतिं मुदा दधानाः स्वम् उपवनीमणिमन्दिरं ससर्जुः +skd_84,atha muraripurādhikākhyayugmaṃ mṛduśayanaṃ pratilabhya valguśarma | atanuta śayanaṃ tathā yathā tat tanum api bhedam adhāt tanudvayaṃ na,अथ मुररिपुराधिकाख्ययुग्मं मृदुशयनं प्रतिलभ्य वल्गुशर्म । अतनुत शयनं तथा यथा तत् तनुम् अपि भेदम् अधात् तनुद्वयं न +skd_85,atha girivaraparvaṇi svasṛṇāṃ gṛhagataṃ parvaṇi kārtike māsi | bahuvidhamahasā1 saśarmapūrṇe tadanu mukhaṃ mukharaṃ sukhaṃ karoti,अथ गिरिवरपर्वणि स्वसृणां गृहगतं पर्वणि कार्तिके मासि । बहुविधमहसा१ सशर्मपूर्णे तदनु मुखं मुखरं सुखं करोति +skd_86,atha śaradanujā yadā ṛtuśrīr2 mṛdumṛduśītamayī samājagāma | aśanavasanakānanādrikhelāśayanasukhādi hariḥ priyām uvāca,अथ शरदनुजा यदा ऋतुश्रीर्२ मृदुमृदुशीतमयी समाजगाम । अशनवसनकाननाद्रिखेलाशयनसुखादि हरिः प्रियाम् उवाच +skd_88,"""surabhinavakaśālitaṇḍulībhiḥ purusitavaṣkayanīpayaskṛtānnam | suparimalahariḥ plutaṃ samantād vikalitavalkalabījanāgaraṅgam |87|| bahughṛtaparipakvapiṣṭabhedaṃ pravitatamaṇḍakaroṭikābhir iṣṭam | parikṛtadalitārdrakaṃ svamātrārpitam uṣasi svadate varoru mahyam","""सुरभिनवकशालितण्डुलीभिः पुरुसितवष्कयनीपयस्कृतान्नम् । सुपरिमलहरिः प्लुतं समन्ताद् विकलितवल्कलबीजनागरङ्गम् ।८७॥ बहुघृतपरिपक्वपिष्टभेदं प्रविततमण्डकरोटिकाभिर् इष्टम् । परिकृतदलितार्द्रकं स्वमात्रार्पितम् उषसि स्वदते वरोरु मह्यम्" +skd_89,tadanu ca jananī dadāti veṣaṃ mṛgamadakuṅkumacūrṇapūrṇavastram | tam aham aharahaḥ sajan sarāmaḥ sahasakhivīthir atīva śarma yāmi,तदनु च जननी ददाति वेषं मृगमदकुङ्कुमचूर्णपूर्णवस्त्रम् । तम् अहम् अहरहः सजन् सरामः सहसखिवीथिर् अतीव शर्म यामि +skd_90,yadapi vividhatemanādimadhyaṃ dinam upalabdham ihāsti paṅkajākṣi | tadapi bhavati sārdrakaṃ ghṛtāntaḥkṛtapacaśarṣapaśākam ādarāya,यदपि विविधतेमनादिमध्यं दिनम् उपलब्धम् इहास्ति पङ्कजाक्षि । तदपि भवति सार्द्रकं घृतान्तःकृतपचशर्षपशाकम् आदराय +skd_91,aharahar anudhenukañcukādicchavisavitṛcchavimitratācchabhāsaḥ | sakhibhir akhilakeliśālihārītakarutakarmaṇi narmaśarma yāmaḥ,अहरहर् अनुधेनुकञ्चुकादिच्छविसवितृच्छविमित्रताच्छभासः । सखिभिर् अखिलकेलिशालिहारीतकरुतकर्मणि नर्मशर्म यामः +skd_92,pariṇatatarajambhanāgaraṅgakramukamukhadyutiśoṇakānanāntam | smitalasitakaṭiñjarādipuṣpapramuditasarvam ahardivaṃ bhramāmaḥ,परिणततरजम्भनागरङ्गक्रमुकमुखद्युतिशोणकाननान्तम् । स्मितलसितकटिञ्जरादिपुष्पप्रमुदितसर्वम् अहर्दिवं भ्रमामः +skd_93,calasakhi tad idaṃ vanaṃ nirīkṣemahi himaleśini3 mārgaśīrṣamāsi | paraparadivase tu śītaśīte nahi vihṛtir4 bahir aucitīṃ bhajeta,चलसखि तद् इदं वनं निरीक्षेमहि हिमलेशिनि३ मार्गशीर्षमासि । परपरदिवसे तु शीतशीते नहि विहृतिर्४ बहिर् औचितीं भजेत +skd_94,iti harivacanād anena sārdhaṃ vanam anugamya viramya ramya-rūpam | samucitaphalapuṣpasaṅgraheṇa pramadabhṛtaḥ pramadāgṛhaṃ samīyuḥ,इति हरिवचनाद् अनेन सार्धं वनम् अनुगम्य विरम्य रम्य-रूपम् । समुचितफलपुष्पसङ्ग्रहेण प्रमदभृतः प्रमदागृहं समीयुः +skd_95,opa(rva)tayā; ṛtuśrīṃ; himane niśi; vikṛtir iti mṛdutaratulikānukūlīkṛtaśayanaṃ nayanābhirāmayugmam | madhuripuvṛṣabhānujāsamākhyaṃ na vapuṣibhedam avāpa nāpi citte,ओप(र्व)तया; ऋतुश्रीं; हिमने निशि; विकृतिर् इति मृदुतरतुलिकानुकूलीकृतशयनं नयनाभिरामयुग्मम् । मधुरिपुवृषभानुजासमाख्यं न वपुषिभेदम् अवाप नापि चित्ते +skd_96,atha dhanur aparāṃśamīnarājāvadhi ravibhogagatāhasaṅghabhāge | muraripur avadat purāvad etāṃ vṛṣaravijāṃ sa nijāṃ vilāsalakṣmīm,अथ धनुर् अपरांशमीनराजावधि रविभोगगताहसङ्घभागे । मुररिपुर् अवदत् पुरावद् एतां वृषरविजां स निजां विलासलक्ष्मीम् +skd_97,ghṛtadadhikṛsarārdrakādijuṣṭāḥ kaṭuvaṭakā vividhāni sandhitāni | aharahar udaye madīyamātrā mayi nihitāni bhṛśaṃ sukhaṃ vahanti,घृतदधिकृसरार्द्रकादिजुष्टाः कटुवटका विविधानि सन्धितानि । अहरहर् उदये मदीयमात्रा मयि निहितानि भृशं सुखं वहन्ति +skd_99,bahuvidham atha dugdhabāṣpapakvaṃ mṛdu mṛdu piṣṭakam iṣṭapūrṇam | adhi dinadinamadhyamātmamātrā prahitam ahaṃ ramayan mudaṃ bhajāmi |98|| ghusṛṇarucir atūlasūkṣmavastradvidalajakañcukayukpidhānavakṣaḥ1 | pavanarahitagharmaśarmadātṛsthalam anu dhenvavanena śarma yāmi,बहुविधम् अथ दुग्धबाष्पपक्वं मृदु मृदु पिष्टकम् इष्टपूर्णम् । अधि दिनदिनमध्यमात्ममात्रा प्रहितम् अहं रमयन् मुदं भजामि ।९८॥ घुसृणरुचिर् अतूलसूक्ष्मवस्त्रद्विदलजकञ्चुकयुक्पिधानवक्षः१ । पवनरहितघर्मशर्मदातृस्थलम् अनु धेन्ववनेन शर्म यामि +skd_100,śiśiram anu samastasattvajāte rutirahite kikhiṣu pragalbhavākṣu | samavadad iha ko 'pi neti nūnaṃ sakhi hasitaṃ dayayā sahāyati sma,शिशिरम् अनु समस्तसत्त्वजाते रुतिरहिते किखिषु प्रगल्भवाक्षु । समवदद् इह को ऽपि नेति नूनं सखि हसितं दयया सहायति स्म +skd_101,śiśirajanuṣi durdine 'pi jāte mitirahitā dhavalāḥ sukhaṃ caranti | śṛṇu sakhi tadupāyam antyam ekaṃ mama muralījani yat tu vāyusūktam,शिशिरजनुषि दुर्दिने ऽपि जाते मितिरहिता धवलाः सुखं चरन्ति । शृणु सखि तदुपायम् अन्त्यम् एकं मम मुरलीजनि यत् तु वायुसूक्तम् +skd_102,śiśiram akusumāntaraṃ nirīkṣya srajam iha kundakṛtāṃ bibharmi citrām | vipadi yad upajīvanaṃ tad eva pratipadam ādarabhājanaṃ vibhāti,शिशिरम् अकुसुमान्तरं निरीक्ष्य स्रजम् इह कुन्दकृतां बिभर्मि चित्राम् । विपदि यद् उपजीवनं तद् एव प्रतिपदम् आदरभाजनं विभाति +skd_103,iha drutam itam ahaḥsamūham ūhā- viṣayatayā dadhataḥ pare nininduḥ | bhavadupasṛtivardhirātrivṛddher alam aham asya tu vaśmi2 dīrgham āyuḥ,इह द्रुतम् इतम् अहःसमूहम् ऊहा- विषयतया दधतः परे निनिन्दुः । भवदुपसृतिवर्धिरात्रिवृद्धेर् अलम् अहम् अस्य तु वश्मि२ दीर्घम् आयुः +skd_104,atha madhu ṛtur eṣyati praphullaṃ vananikaraṃ vidadhad yad ātataḥ prāk | hariharivanitākulaṃ praphullaṃ svayam abhavad bata paśya tasya vīryam,अथ मधु ऋतुर् एष्यति प्रफुल्लं वननिकरं विदधद् यद् आततः प्राक् । हरिहरिवनिताकुलं प्रफुल्लं स्वयम् अभवद् बत पश्य तस्य वीर्यम् +skd_105,prathamasamam athātra bhojanādyaṃ samucitam āpravidhāya kṛṣṇacandraḥ | niśi niśamayati sma vanyavṛttaṃ dinadinam apy atulaṃ vṛṣārkaputrīm,प्रथमसमम् अथात्र भोजनाद्यं समुचितम् आप्रविधाय कृष्णचन्द्रः । निशि निशमयति स्म वन्यवृत्तं दिनदिनम् अप्य् अतुलं वृषार्कपुत्रीम् +skd_106,niśamaya kutukaṃ vane 'dya dṛṣṭaṃ vitaritari prasabhaṃ bibharti bhikṣuḥ | amadhujanuṣi puṇḍrake dvirephā muhur api jhaṅkṛtitarjanāṃ vahanti,निशमय कुतुकं वने ऽद्य दृष्टं वितरितरि प्रसभं बिभर्ति भिक्षुः । अमधुजनुषि पुण्ड्रके द्विरेफा मुहुर् अपि झङ्कृतितर्जनां वहन्ति +skd_107,kim iyam ahaha mādhavīti nāmnā janaviditeti madāt praphullati sma | śiva śiva na vayaṃ madhoḥ kim itthaṃ kusumam adhuḥ kila saptalādayaś ca,किम् इयम् अहह माधवीति नाम्ना जनविदितेति मदात् प्रफुल्लति स्म । शिव शिव न वयं मधोः किम् इत्थं कुसुमम् अधुः किल सप्तलादयश् च +skd_108,sa bakulasahakāraketakīnāṃ sakaruṇakiṃśukanāgakeśarāṇām | tatir atiśuśubhe vilokya yāntu bhramarapikapravarā mahaḥ sajanti,स बकुलसहकारकेतकीनां सकरुणकिंशुकनागकेशराणाम् । ततिर् अतिशुशुभे विलोक्य यान्तु भ्रमरपिकप्रवरा महः सजन्ति +skd_109,malayajamarud eṣa ity abhikhyaḥ pavanagaṇaḥ pratipadya matkavanyām | manayujajayisurabhātiśastāṃ prasatikrī���a ivātra mandamandam,मलयजमरुद् एष इत्य् अभिख्यः पवनगणः प्रतिपद्य मत्कवन्याम् । मनयुजजयिसुरभातिशस्तां प्रसतिक्रीण इवात्र मन्दमन्दम् +skd_110,iti madhuṛtuvarṇanaṃ vitanvan madhuripur anyanijapriyājanānām | caritavivṛtim anyanāyikānāṃ3 caritamiṣāt kalayann amūṃ stute sma,इति मधुऋतुवर्णनं वितन्वन् मधुरिपुर् अन्यनिजप्रियाजनानाम् । चरितविवृतिम् अन्यनायिकानां३ चरितमिषात् कलयन्न् अमूं स्तुते स्म +skd_111,ovṛkṣaḥ; raśmi; margin: nāyikātām kusumakulam idaṃ dadhāti tāvad bhramarapikādigaṇas tathā svarūpam | priyasahacaratā yadā priyāṇāṃ parasamaye śaratāṃ ca vajratāṃ ca,ओवृक्षः; रश्मि; मर्गिन्: नायिकाताम् कुसुमकुलम् इदं दधाति तावद् भ्रमरपिकादिगणस् तथा स्वरूपम् । प्रियसहचरता यदा प्रियाणां परसमये शरतां च वज्रतां च +skd_112,ayi vidhumukhi saṅgatapriyāṅgi priyavirahād aparā dhṛtāvasādāḥ | uta kusumapikāditudyamānā dhruvam adhunā priyatāvaśā bhramanti,अयि विधुमुखि सङ्गतप्रियाङ्गि प्रियविरहाद् अपरा धृतावसादाः । उत कुसुमपिकादितुद्यमाना ध्रुवम् अधुना प्रियतावशा भ्रमन्ति +skd_113,sphuradasahanatā mithaḥ sapatnyaḥ pathi rahasi priyam ātmanābhisṛtya | diśi ca vidiśi ca sphurantam ārān nahi niranaiṣur amūḥ kva vā labheran,स्फुरदसहनता मिथः सपत्न्यः पथि रहसि प्रियम् आत्मनाभिसृत्य । दिशि च विदिशि च स्फुरन्तम् आरान् नहि निरनैषुर् अमूः क्व वा लभेरन् +skd_114,niyamitacaraṇān nikuñjadhāmni kvacana ca vāsakasajjikāyamānāḥ | priyatamam anavāpya mānam āñcan mukham iva mānadhanā hi dhanyanāryaḥ,नियमितचरणान् निकुञ्जधाम्नि क्वचन च वासकसज्जिकायमानाः । प्रियतमम् अनवाप्य मानम् आञ्चन् मुखम् इव मानधना हि धन्यनार्यः +skd_115,api ca tadaparās tu vāsasajjā muhur api cintanalabdhakalpatantrāḥ | priyatamam upalabhya cātra jāgrad valitavad āpa sukhaṃ na cātra bhedam,अपि च तदपरास् तु वाससज्जा मुहुर् अपि चिन्तनलब्धकल्पतन्त्राः । प्रियतमम् उपलभ्य चात्र जाग्रद् वलितवद् आप सुखं न चात्र भेदम् +skd_116,api dayitatamena khaṇḍitāśā nahi kalahāntaritā babhūva kāpi | ucitam api tad etad eva yasmād dayitatamaḥ katham anyathā ghaṭate,अपि दयिततमेन खण्डिताशा नहि कलहान्तरिता बभूव कापि । उचितम् अपि तद् एतद् एव यस्माद् दयिततमः कथम् अन्यथा घटते +skd_117,vyavahitapadavīṃ mamāsti netuṃ nahi bhavatīm api kiñcanāpi vastu | na puruṣam iha jāgarādyavasthātrayam api cetanayā viyoktum īṣṭe,व्यवहितपदवीं ममास्ति नेतुं नहि भवतीम् अपि किञ्चनापि वस्तु । न पुरुषम् इह जागराद्यवस्थात्रयम् अपि चेतनया वियोक्तुम् ईष्टे +skd_118,niśi sumukhi tad adya kuñjapuñjaṃ sahasavayastati sadravaṃ vrajāvaḥ | iha hi kumudamudgarādipuṣpaṃ sitarucirociṣi rocamānam asti,निशि सुमुखि तद् अद्य कुञ्जपुञ्जं सहसवयस्तति सद्रवं व्रजावः । इह हि कुमुदमुद्गरादिपुष्पं सितरुचिरोचिषि रोचमानम् अस्ति +skd_119,vidhur atha dayitānvitaḥ sakhībhiḥ saha sahakhelam iyāya puṣpadeśam | sphuṭam iha tu vidhuḥ paraḥ savṛndas tadupari vandanamālikāyate sma,विधुर् अथ दयितान्वितः सखीभिः सह सहखेलम् इयाय पुष्पदेशम् । ��्फुटम् इह तु विधुः परः सवृन्दस् तदुपरि वन्दनमालिकायते स्म +skd_120,adhi kusumavanaṃ virajamānaṃ harim atha kāntimatī vṛṣārkaputrī | sukhakaralalitāviśākhikādipriyasavayastatibhiḥ samaṃ samayya,अधि कुसुमवनं विरजमानं हरिम् अथ कान्तिमती वृषार्कपुत्री । सुखकरललिताविशाखिकादिप्रियसवयस्ततिभिः समं समय्य +skd_121,sukusumanikarānupadadānaṃ svam api tad apy anu tanvi yojayantī1 | dvayam api tadanuvratakriyābhir dravatatibhiś ca mudāñci kurvatībhiḥ,सुकुसुमनिकरानुपददानं स्वम् अपि तद् अप्य् अनु तन्वि योजयन्ती१ । द्वयम् अपि तदनुव्रतक्रियाभिर् द्रवततिभिश् च मुदाञ्चि कुर्वतीभिः +skd_122,alam uparigapuṣpavṛndam icchuṃ2 svayam api tattadupagrahaṃ diśantī | drutam iva na kim asmadīya rājñyā vahasi nideśam iti smitāñcigīrbhiḥ,अलम् उपरिगपुष्पवृन्दम् इच्छुं२ स्वयम् अपि तत्तदुपग्रहं दिशन्ती । द्रुतम् इव न किम् अस्मदीय राज्ञ्या वहसि निदेशम् इति स्मिताञ्चिगीर्भिः +skd_123,prasabham iva ramām amūṃ bhujābhyāṃ hṛdi dadhataṃ3 muhur ūrdhvapuṣpahetoḥ | sarud iva tadabhīṣṭam āpayantī sakalakalaṃ hasitaṃ vitanvatībhiḥ,प्रसभम् इव रमाम् अमूं भुजाभ्यां हृदि दधतं३ मुहुर् ऊर्ध्वपुष्पहेतोः । सरुद् इव तदभीष्टम् आपयन्ती सकलकलं हसितं वितन्वतीभिः +skd_124,sukusumacayakūṭam īkṣayantaṃ svayam api taṃ tulitaṃ nicāyayantī | vividhamatatayā prahāsabhedāc chalam api satyam api prajalpinībhiḥ4,सुकुसुमचयकूटम् ईक्षयन्तं स्वयम् अपि तं तुलितं निचाययन्ती । विविधमततया प्रहासभेदाच् छलम् अपि सत्यम् अपि प्रजल्पिनीभिः४ +skd_126,kusuma-viracanā-mayaṃ kalāpaṃ vidadhatam āśu ca taṃ pṛthak sṛjantī | nutim anutim api dvaye pi tasmin samiṣa-vacaḥ pracayena tanvatībhiḥ,कुसुम-विरचना-मयं कलापं विदधतम् आशु च तं पृथक् सृजन्ती । नुतिम् अनुतिम् अपि द्वये पि तस्मिन् समिष-वचः प्रचयेन तन्वतीभिः +skd_127,tan niyojayantī; icchaṃ; dadhātaṃ; prajalpitībhiḥ sva-racita-tad-alaṅkriyāṃ stuvānaṃ sva-racita-tat-tad-dalaṅkṛtiṃ stuvānā | nija-kṛti-janitā-mahattva-buddhiḥ prakṛtir iheti vihasya vādinībhiḥ,तन् नियोजयन्ती; इच्छं; दधातं; प्रजल्पितीभिः स्व-रचित-तद्-अलङ्क्रियां स्तुवानं स्व-रचित-तत्-तद्-दलङ्कृतिं स्तुवाना । निज-कृति-जनिता-महत्त्व-बुद्धिः प्रकृतिर् इहेति विहस्य वादिनीभिः +skd_127,vaśam akṛta guṇa-kriyāṅga-bhāva-prabhṛtibhir atra ca paśya citta citram | vahati patir adhīna-bhartṛkājñāṃ racayati karma vināpi tāṃ sa tasyāḥ,वशम् अकृत गुण-क्रियाङ्ग-भाव-प्रभृतिभिर् अत्र च पश्य चित्त चित्रम् । वहति पतिर् अधीन-भर्तृकाज्ञां रचयति कर्म विनापि तां स तस्याः +skd_128,harir iha janayan vasanta-rāgaṃ hari-vanitā-nikaraś ca suṣṭhu puṣṭam | abhinaya-maya-nṛtya-tāla-juṣṭaṃ vyativaśitaḥ sva-vaśīcakāra viśvam,हरिर् इह जनयन् वसन्त-रागं हरि-वनिता-निकरश् च सुष्ठु पुष्टम् । अभिनय-मय-नृत्य-ताल-जुष्टं व्यतिवशितः स्व-वशीचकार विश्वम् +skd_129,iti bahu-vidha-khelayā rajanyāḥ praśamam iva pratipadya nāgarendraḥ | surabhi-kusuma-vṛkṣa-vāṭi-kāntaḥ kṣaṇa-śayana-kṣaṇam āpa kāntayā saḥ,इति बहु-विध-खेलया रजन्याः प्रशमम् इव प्रतिपद्य नागरेन्द्रः । सुरभि-कुसुम-वृक्ष-वाटि-कान्तः क्षण-शयन-क्षणम् आप कान्तया सः +skd_130,maṇimayavaracatvarasya śayyām anu kusumānilalīlayā susevaḥ | paramatamasakhībhir asyamānabhramaratatiḥ sasukhaḥ sukhañcakāra,मणिमयवरचत्वरस्य शय्याम् अनु कुसुमानिललीलया सुसेवः । परमतमसखीभिर् अस्यमानभ्रमरततिः ससुखः सुखञ्चकार +skd_3,iti sarvartu-līlā,इति सर्वर्तु-लीला +skd_1,atha phalaniṣpattiḥ ghoṣe sva-prema-koṣe pitṛ-mukha-sukhada-svīya-vṛndena dīvyan kaṃsena preṣitebhyas tam atibhayamayaṃ vīkṣya nighnan muhus tān | hanti1 teṣām apaśyann adhi madhu-puri taṃ hantum añcan sa-vṛndam hatvā tam ghoṣam āgāt tad-atula-sukha-kṛd yaḥ sadā tam bhajāmi,अथ फलनिष्पत्तिः घोषे स्व-प्रेम-कोषे पितृ-मुख-सुखद-स्वीय-वृन्देन दीव्यन् कंसेन प्रेषितेभ्यस् तम् अतिभयमयं वीक्ष्य निघ्नन् मुहुस् तान् । हन्ति१ तेषाम् अपश्यन्न् अधि मधु-पुरि तं हन्तुम् अञ्चन् स-वृन्दम् हत्वा तम् घोषम् आगात् तद्-अतुल-सुख-कृद् यः सदा तम् भजामि +skd_2,rādhādyāḥ kṛṣṇa-kāntāḥ svayam avataraṇaṃ kṛṣṇavat prāpya līlā- śaktyā vismṛtya nityāṃ sthitim aparatayā jñāta-kṛṣṇās tathāpi | rāgād aspaṣṭa-kṛṣṇa-śrayaṇa-sukha-ratā prāntataḥ kṛṣṇam eva spaṣṭaṃ jagmuḥ sva-kāntaṃ tam ati-sukha-sudhā-sindhu-magnāntarāḥ smaḥ,राधाद्याः कृष्ण-कान्ताः स्वयम् अवतरणं कृष्णवत् प्राप्य लीला- शक्त्या विस्मृत्य नित्यां स्थितिम् अपरतया ज्ञात-कृष्णास् तथापि । रागाद् अस्पष्ट-कृष्ण-श्रयण-सुख-रता प्रान्ततः कृष्णम् एव स्पष्टं जग्मुः स्व-कान्तं तम् अति-सुख-सुधा-सिन्धु-मग्नान्तराः स्मः +skd_3,haṃho saukhyaṃ mura-dviṭ kaṭu-kaṭaka-ghaṭā2-preṣṭha-kaṃsādi-duṣṭān hatvā tat-kliṣṭa-cittāṃ pitṛ-mukha-janatāṃ nirvṛtāṃ suṣṭhu cakre | kiṃ cānyaḥ sva-priyāṇāṃ patir iti bahir akhyāti3-duḥkhāni hṛtvā tat-tad-viśleṣa-pīḍācchid ayam atijagada-dṛṣṭi-goṣṭhe vibhāti,हंहो सौख्यं मुर-द्विट् कटु-कटक-घटा२-प्रेष्ठ-कंसादि-दुष्टान् हत्वा तत्-क्लिष्ट-चित्तां पितृ-मुख-जनतां निर्वृतां सुष्ठु चक्रे । किं चान्यः स्व-प्रियाणां पतिर् इति बहिर् अख्याति३-दुःखानि हृत्वा तत्-तद्-विश्लेष-पीडाच्छिद् अयम् अतिजगद-दृष्टि-गोष्ठे विभाति +skd_4,prātar mātuḥ sa-hastād aśana-sukha-kṛtī labdha-tātādy-anujñaḥ śrī-rāmādi-prasaktaḥ surabhi-gaṇa-śataṃ pālayan moda-yuktaḥ | sandhyāyāṃ gopa-gopī-sukhada-gṛha-gatiḥ sānurāgaṃ kṣapāyām tat-tad-dīvyad-vihāraḥ sphuratu tava manaḥ sarvadā kṛṣṇa-candraḥ,प्रातर् मातुः स-हस्ताद् अशन-सुख-कृती लब्ध-ताताद्य्-अनुज्ञः श्री-रामादि-प्रसक्तः सुरभि-गण-शतं पालयन् मोद-युक्तः । सन्ध्यायां गोप-गोपी-सुखद-गृह-गतिः सानुरागं क्षपायाम् तत्-तद्-दीव्यद्-विहारः स्फुरतु तव मनः सर्वदा कृष्ण-चन्द्रः +skd_5,janmādyaṃ svīya-vṛttaṃ kavi-bharata-kalā-citra-yogena dṛśya- prāyaṃ tanvan sabhāyāṃ rahasi tu dayitā pūrva-rāgādy-udantam | vargaṃ tat-tan-nisargaṃ nijam anu vijayī sarva-sāt-parva kurvan dīvya-dīvya-śriyābhir viharaṇa-kutukī nandatān nanda-sūnuḥ,जन्माद्यं स्वीय-वृत्तं कवि-भरत-कला-चित्र-योगेन दृश्य- प्रायं तन्वन् सभायां रहसि तु दयिता पूर्व-रागाद्य्-उदन्तम् । वर्गं तत्-तन्-निसर्गं निजम् अनु विजयी सर्व-सात्-पर्व कुर्वन् दीव्य-दीव्य-श्रियाभिर् विहरण-कुतुकी नन्दतान् नन्द-सूनुः +skd_6,yaḥ śrī-paryanta-yācyānvitir iha paśupa-śreṇi-bandhur yaśodānanda- svīyāṅga-jātaḥ subala-mukha-sakhaḥ kiṃ ca rādhādi-kāntaḥ | sa śrī-gopāla-nāmā surabhi-kula-mahaḥ pālayan divya-kelir naktaṃ rāsādi-līlā-lalitatama-gatiḥ sarvadā syād gatir naḥ,यः श्री-पर्यन्त-याच्यान्वितिर् इह पशुप-श्रेणि-बन्धुर् यशोदानन्द- स्वीयाङ्ग-जातः सुबल-मुख-सखः किं च राधादि-कान्तः । स श्री-गोपाल-नामा सुरभि-कुल-महः पालयन् दिव्य-केलिर् नक्तं रासादि-लीला-ललिततम-गतिः सर्वदा स्याद् गतिर् नः +skd_7,śrīmad-vṛndāvanendo madhupa-khaga-mṛgāḥ śreṇi-lokā dvijātā dāsā lālyāḥ surabhyaḥ sahacara-halabhṛt-tāta-mātr-ādi-vargāḥ | preyasyas tāsu rādhā-pramukha-vara-dṛśāś ceti vṛndaṃ yathordhvaṃ tad-rūpāloka-tṛṣṇak pramadam anudinaṃ hanta paśyāma karhi,श्रीमद्-वृन्दावनेन्दो मधुप-खग-मृगाः श्रेणि-लोका द्विजाता दासा लाल्याः सुरभ्यः सहचर-हलभृत्-तात-मात्र्-आदि-वर्गाः । प्रेयस्यस् तासु राधा-प्रमुख-वर-दृशाश् चेति वृन्दं यथोर्ध्वं तद्-रूपालोक-तृष्णक् प्रमदम् अनुदिनं हन्त पश्याम कर्हि +skd_8,"margin: vantiṃ, hānīm; (b) hantum; oghaṭao; ākhyāti śaśvad dhyāyati dūraga-sthiti mithaḥ sūkṣma-prathaṃ cāyati prājyāntargatam ātta-narmas tu sakhī-madhya-sthitaṃ paśyati | rādhā-mādhava-nāma-dheya-mithunaṃ vighnān atītyāmitān dāmpatye sthitam atra vā yadi rahaḥ prāptaṃ tadā kiṃ punaḥ?","मर्गिन्: वन्तिं, हानीम्; (ब्) हन्तुम्; ओघटओ; आख्याति शश्वद् ध्यायति दूरग-स्थिति मिथः सूक्ष्म-प्रथं चायति प्राज्यान्तर्गतम् आत्त-नर्मस् तु सखी-मध्य-स्थितं पश्यति । राधा-माधव-नाम-धेय-मिथुनं विघ्नान् अतीत्यामितान् दाम्पत्ये स्थितम् अत्र वा यदि रहः प्राप्तं तदा किं पुनः?" +skd_9,rādhā-kṛṣṇa-yugaṃ muhur vighaṭanām uttīrya dāmpatya-bhāk pratyekāntam udasram ekataraga-svāpāntar antar mithaḥ | vaktraṃ paśyati mārṣṭi locana-puṭaṃ nāsāgram uddaṇḍayan niṃste gaṇḍa-yugaṃ hṛdā hṛdi milal lelīyate śarmaṇi1,राधा-कृष्ण-युगं मुहुर् विघटनाम् उत्तीर्य दाम्पत्य-भाक् प्रत्येकान्तम् उदस्रम् एकतरग-स्वापान्तर् अन्तर् मिथः । वक्त्रं पश्यति मार्ष्टि लोचन-पुटं नासाग्रम् उद्दण्डयन् निंस्ते गण्ड-युगं हृदा हृदि मिलल् लेलीयते शर्मणि१ +skd_10,gaura-śyāma-rucojjvalābhir2 amalair akṣṇor vilāsotsavair nṛtyantībhir aśeṣa-mādanakalā vaidagdhya-digdhātmabhiḥ | anyonya-priyatā sudhā-parimala-stomonmadābhiḥ sadā rādhā-mādhava-mādhurībhir amitaś3 cittaṃ samākrāmyatām,गौर-श्याम-रुचोज्ज्वलाभिर्२ अमलैर् अक्ष्णोर् विलासोत्सवैर् नृत्यन्तीभिर् अशेष-मादनकला वैदग्ध्य-दिग्धात्मभिः । अन्योन्य-प्रियता सुधा-परिमल-स्तोमोन्मदाभिः सदा राधा-माधव-माधुरीभिर् अमितश्३ चित्तं समाक्राम्यताम् +skd_4,iti phala-niṣpattiḥ,इति फल-निष्��त्तिः +skd_2,śarmāṇi; 2. oruco jvalābhir; abhitaś pūrṇāḥ pulindya iti1 yā stutā vraja-ramādibhiḥ2 | na vayaṃ sādhvi sāmreti3 śreṇibhir dvārikā-śriyām ||1 || anayārārādhito nūnam4 itthaṃ pūrvābhir eva ca | purāṇe kvāpi vaiśiṣṭya-sāmānyaṃ neyam ūhyate,शर्माणि; २. ओरुचो ज्वलाभिर्; अभितश् पूर्णाः पुलिन्द्य इति१ या स्तुता व्रज-रमादिभिः२ । न वयं साध्वि साम्रेति३ श्रेणिभिर् द्वारिका-श्रियाम् ॥१ ॥ अनयाराराधितो नूनम्४ इत्थं पूर्वाभिर् एव च । पुराणे क्वापि वैशिष्ट्य-सामान्यं नेयम् ऊह्यते +skd_3,rukmiṇī dvāravatyāṃ tu rādhā vṛndāvane vane |5 iti.tasyāḥ kāntaḥ sadā kāntaḥ sa syād ekānta-bhāg vaśaḥ,रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ।५ इति.तस्याः कान्तः सदा कान्तः स स्याद् एकान्त-भाग् वशः +skd_4,yāv amū mama cittāntarbhūruha-sneham ūhatu6 | sad-bhakteṣv atulaṃ pitṛvya-7yugalaṃ kṛtvā madīyāṃ gatim,याव् अमू मम चित्तान्तर्भूरुह-स्नेहम् ऊहतु६ । सद्-भक्तेष्व् अतुलं पितृव्य-७युगलं कृत्वा मदीयां गतिम् +skd_6,svaṃ dāsyaṃ diśad asti yat prabhu-yugaṃ tan me sadāstāṃ gatiḥ || gaṅgāyāṃ kakucaṅgamuk śruti-madāj jāgrad-gataṃ māṃ prati śrī-vṛndā-vipine trayīm api parāṃ svapnād avasthaṃ punaḥ | yaḥ śrīmān madhumardanaḥ subhagatā sad-rūpatā viśrutaḥ saṃjñāvān laghu-vaṃśa-śaṃsakatayā vande ca vande ca tam,स्वं दास्यं दिशद् अस्ति यत् प्रभु-युगं तन् मे सदास्तां गतिः ॥ गङ्गायां ककुचङ्गमुक् श्रुति-मदाज् जाग्रद्-गतं मां प्रति श्री-वृन्दा-विपिने त्रयीम् अपि परां स्वप्नाद् अवस्थं पुनः । यः श्रीमान् मधुमर्दनः सुभगता सद्-रूपता विश्रुतः संज्ञावान् लघु-वंश-शंसकतया वन्दे च वन्दे च तम् +skd_7,śrī-kṛṣṇa kṛṣṇa-caitanya sa-sanātana-rūpaka | gopāla raghunāthāpta-vraja-vallabha pāhi mām,श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक । गोपाल रघुनाथाप्त-व्रज-वल्लभ पाहि माम् +skd_8,iti śrī-saṅkalpa-druma-nāma kāvyamāmaka-spṛhā dhāma śrī-rādhā-kṛṣṇa-rūpa-pūram api pūrayantam | śrī-rādhā-kṛṣṇa-caraṇārpitam eva mama sarvam iti tad idam api tathā bhaved evam,इति श्री-सङ्कल्प-द्रुम-नाम काव्यमामक-स्पृहा धाम श्री-राधा-कृष्ण-रूप-पूरम् अपि पूरयन्तम् । श्री-राधा-कृष्ण-चरणार्पितम् एव मम सर्वम् इति तद् इदम् अपि तथा भवेद् एवम्