skanda,adhyaya_number,adhyaya_title,a_index,m_index,text 1,१.१,प्रथमोऽध्यायः । शौनकप्रश्नः ।,0,0,ॐ सर्वचैतन्यरूपां तां आद्यां विद्यां च धीमहि । बुद्धिं या नः प्रचोदयात् ॥ 1॥ 1,१.१,प्रथमोऽध्यायः । शौनकप्रश्नः ।,1,1,शौनक उवाच - सूत सूत महाभाग धन्योऽसि पुरुषर्षभ । यदधीतास्त्वया सम्यक् पुराणसंहिताः शुभाः ॥ 2॥ 1,१.१,प्रथमोऽध्यायः । शौनकप्रश्नः ।,2,2,अष्टादश पुराणानि कृष्णेन मुनिनानघ । कथितानि सुदिव्यानि पठितानि त्वयानघ ॥ 3॥ 1,१.१,प्रथमोऽध्यायः । शौनकप्रश्नः ।,3,3,पञ्चलक्षणयुक्तानि सरहस्यानि मानद । त्वया ज्ञातानि सर्वाणि व्यासात्सत्यवतीसुतात् ॥ 4॥ 1,१.१,प्रथमोऽध्यायः । शौनकप्रश्नः ।,4,4,अस्माकं पुण्ययोगेन प्राप्तस्त्वं क्षेत्रमुत्तमम् । दिव्यं विश्वसनं पुण्यं कलिदोषविवर्जितम् ॥ 5॥ 1,१.१,प्रथमोऽध्यायः । शौनकप्रश्नः ।,5,5,समाजोऽयं मुनीनां हि श्रोतुकामोऽस्ति पुण्यदाम् । पुराणसंहितां सूत ब्रूहि त्वं नः समाहितः ॥ 6॥ 1,१.१,प्रथमोऽध्यायः । शौनकप्रश्नः ।,6,6,दीर्घायुर्भव सर्वज्ञ तापत्रयविवर्जितः । कथयाद्य महाभाग पुराणं ब्रह्मसम्मितम् ॥ 7॥ 1,१.१,प्रथमोऽध्यायः । शौनकप्रश्नः ।,7,7,श्रोत्रेन्द्रिययुताः सूत नराः स्वादविचक्षणाः । न श‍ृण्वन्ति पुराणानि वञ्चिता विधिना हि ते ॥ 8॥ 1,१.१,प्रथमोऽध्यायः । शौनकप्रश्नः ।,8,8,यथा जिह्वेन्द्रियाह्लादः षड्रसैः प्रतिपद्यते । तथा श्रोत्रेन्द्रियाह्लादो वचोभिः सुधियां स्मृतः ॥ 9॥ 1,१.१,प्रथमोऽध्यायः । शौनकप्रश्नः ।,9,9,अश्रोत्राः फणिनः कामं मुह्यन्ति हि नभोगुणैः । सकर्णा ये न श‍ृण्वन्ति तेऽप्यकर्णाः कथं न च ॥ 10॥ 1,१.१,प्रथमोऽध्यायः । शौनकप्रश्नः ।,10,10,अतः सर्वे द्विजाः सौम्य श्रोतुकामाः समाहिताः । वर्तन्ते नैमिषारण्ये क्षेत्रे कलिभयार्दिताः ॥ 11॥ 1,१.१,प्रथमोऽध्यायः । शौनकप्रश्नः ।,11,11,येन केनाप्युपायेन कालातिवाहनं स्मृतम् । व्यसनैरिह मूर्खाणां बुधानां शास्त्रचिन्तनैः ॥ 12॥ 1,१.१,प्रथमोऽध्यायः । शौनकप्रश्नः ।,12,12,शास्त्राण्यपि विचित्राणि जल्पवादयुतानि च । त्रिविधानि पुराणानि शास्त्राणि विविधानि च । विताण्डाच्छलयुक्तानि गर्वामर्षकराणि च । नानार्थवादयुक्तानि हेतुमन्ति बृहन्ति च ॥ 13॥ 1,१.१,प्रथमोऽध्यायः । शौनकप्रश्नः ।,13,13,सात्त्विकं तत्र वेदान्तं मीमांसा राजसं मतम् । तामसं न्यायशास्त्रं च हेतुवादाभियन्त्रितम् ॥ 14॥ 1,१.१,प्रथमोऽध्यायः । शौनकप्रश्नः ।,14,14,तथैव च पुराणानि त्रिगुणानि कथानकैः । कथितानि त्वया सौम्य पञ्चलक्षणवन्ति च ॥ 15॥ 1,१.१,प्रथमोऽध्यायः । शौनकप्रश्नः ।,15,15,तत्र भागवतं पुण्यं पञ्चमं वेदसम्मितम् । कथितं यत्त्वया पूर्वं सर्वलक्षणसंयुतम् ॥ 16॥ 1,१.१,प्रथमोऽध्यायः । शौनकप्रश्नः ।,16,16,उद्देशमात्रेण तदा कीर्तितं परमाद्भुतम् । मुक्तिप्रदं मुमुक्षूणां कामदं धर्मदं तथा ॥ 17॥ 1,१.१,प्रथमोऽध्यायः । शौनकप्रश्नः ।,17,17,विस्तरेण तदाख्याहि पुराणोत्तममादरात् । श्रोतुकामा द्विजाः सर्वे दिव्यं भागवतं शुभम् ॥ 18॥ 1,१.१,प्रथमोऽध्यायः । शौनकप्रश्नः ।,18,18,त्वं तु जानासि धर्मज्ञ पौराणीं संहितां किल । कृष्णोक्तां गुरुभक्तत्वात् सम्यक् सत्त्वगुणाश्रयः ॥ 19॥ 1,१.१,प्रथमोऽध्यायः । शौनकप्रश्नः ।,19,19,श्रुतान्यन्यानि सर्वज्ञ त्वन्मुखान्निःसृतानि च । नैव तृप्तिं व्रजामोऽद्य सुधापानेऽमरा यथा ॥ 20॥ 1,१.१,प्रथमोऽध्यायः । शौनकप्रश्नः ।,20,20,धिक्सुधां पिबतां सूत मुक्तिर्नैव कदाचन । पिबन्भागवतं सद्यो नरो मुच्येत सङ्कटात् ॥ 21॥ 1,१.१,प्रथमोऽध्यायः । शौनकप्रश्नः ।,21,21,सुधापाननिमित्तं यत् कृता यज्ञाः सहस्रशः । न शान्तिमधिगच्छामः सूत सर्वात्मना वयम् ॥ 22॥ 1,१.१,प्रथमोऽध्यायः । शौनकप्रश्नः ।,22,22,मखानां हि फलं स्वर्गः स्वर्गात्प्रच्यवनं पुनः । एवं संसारचक्रेऽस्म्निन् भ्रमणं च निरन्तरम् ॥ 23॥ 1,१.१,प्रथमोऽध्यायः । शौनकप्रश्नः ।,23,23,विना ज्ञानेन सर्वज्ञ नैव मुक्तिः कदाचन । भ्रमतां कालचक्रेऽत्र नराणां त्रिगुणात्मके ॥ 24॥ 1,१.१,प्रथमोऽध्यायः । शौनकप्रश्नः ।,24,24,अतः सर्वरसोपेतं पुण्यं भागवतं वद । पावनं मुक्तिदं गुह्यं मुमुक्षूणां सदा प्रियम् ॥ 25॥ 1,१.१,प्रथमोऽध्यायः । शौनकप्रश्नः ।,25,25,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे शौनकप्रश्नः नाम प्रथमोऽध्यायः ॥ १.१॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,0,26,सूत उवाच । धन्योऽहमतिभाग्योऽहं पावितोऽहं महात्मभिः । यत्पृष्टं सुमहत्पुण्यं पुराणं वेदविश्रुतम् ॥ 1॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,1,27,तदहं सम्प्रवक्ष्यामि सर्वश्रुत्यर्थसम्मतम् । रहस्यं सर्वशास्त्राणामागमानामनुत्तमम् ॥ 2॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,2,28,नत्वा तत्पदपङ्कजं सुललितं मुक्तिप्रदं योगिनाम् ॥ ब्रह्माद्यैरपि सेवितं स्तुतिपरैर्ध्येयं मुनीन्द्रैः सदा । वक्ष्याम्यद्य सविस्तरं बहुरसं श्रीमत्पुराणोत्तमम् ॥ भक्त्या सर्वरसालयं भगवतीनाम्ना प्रसिद्धं द्विजाः ॥ 3॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,3,29,या विद्येत्यभिधीयते श्रुतिपथे शक्तिः सदाद्या परा ॥ सर्वज्ञा भवबन्धछित्तिनिपुणा सर्वाशये संस्थिता । दुर्ज्ञेया सुदुरात्मभिश्च मुनिभिर्ध्यानास्पदं प्रापिता ॥ प्रत्यक्षा भवतीह सा भगवती सिद्धिप्रदा स्यात्सदा ॥ 4॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,4,30,सृष्ट्वाखिलं जगदिदं सदसत्स्वरूपं शक्त्या स्वया त्रिगुणया परिपाति विश्वम् । संहृत्य कल्पसमये रमते तथैका तां सर्वविश्वजननीं मनसा स्मरामि ॥ 5॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,5,31,ब्रह्मा सृजत्यखिलमेतदिति प्रसिद्धं पौराणिकैश्च कथितं खलु वेदविद्भिः । विष्णोस्तु नाभिकमले किल तस्य जन्म तैरुक्तमेव सृजते न हि स स्वतन्त्रः ॥ 6॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,6,32,विष्णुस्तु शेषशयने स्वपितीति काले तन्नाभिपद्यमुकुले खलु तस्य जन्म । आधारतां किल गतोऽत्र सहस्रमौलिः सम्बोध्यतां स भगवान् हि कथं मुरारिः ॥ 7॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,7,33,एकार्णवस्य सलिलं रसरूपमेव पात्रं विना न हि रसस्थितिरस्ति कच्चित् । या सर्वभूतविषये किल शक्तिरूपा तां सर्वभूतजननीं शरणं गतोऽस्मि ॥ 8॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,8,34,योगनिद्रामीलिताक्षं विष्णुं दृष्ट्वाम्बुजे स्थितः । अजस्तुष्टाव यां देवीं तामहं शरणं गतः ॥ 9॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,9,35,तां ध्यात्वा सगुणां मायां मुक्तिदां निर्गुणां तथा । वक्ष्ये पुराणमखिलं श‍ृण्वन्तु मुनयस्त्विह ॥ 10॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,10,36,पुराणमुत्तमं पुण्यं श्रीमद्भागवताभिधम् । अष्टादश सहस्राणि श्लोकास्तत्र तु संस्कृताः ॥ 11॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,11,37,स्कन्धा द्वादश चैवात्र कृष्णेन विहिताः शुभाः । त्रिशतं पूर्णमध्याया अष्टादशयुताः स्मृताः ॥ 12॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,12,38,विंशतिः प्रथमे तत्र द्वितीये द्वादशैव तु । त्रिंशच्चैव तृतीये तु चतुर्थे पञ्चविंशतिः ॥ 13॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,13,39,पञ्चत्रिंशत्तथाध्यायाः पञ्चमे परिकीर्तिताः । एकत्रिंशत्तथा षष्ठे चत्वारिंशच्च सप्तमे ॥ 14॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,14,40,अष्टमे तत्त्वसङ्ख्याश्च पञ्चाशन्नवमे तथा । त्रयोदश तु सम्प्रोक्ता दशमे मुनिना किल ॥ 15॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,15,41,तथा चैकादशस्कन्धे चतुर्विंशतिरीरिताः । चतुर्दशैव चाध्याया द्वादशे मुनिसत्तमाः ॥ 16॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,16,42,एवं सङ्ख्या समाख्याता पुराणेऽस्मिन्महात्मना । अष्टादशसहस्रीया सङ्ख्या च परिकीर्तिता ॥ 17॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,17,43,सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ 18॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,18,44,निर्गुणा या सदा नित्या व्यापिका विकृता शिवा । योगगम्याखिलाधारा तुरीया या च संस्थिता ॥ 19॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,19,45,तस्यास्तु सात्त्विकी शक्ती राजसी तामसी तथा । महालक्ष्मीः सरस्वती महाकालीति ताः स्त्रियः ॥ 20॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,20,46,तासां तिसॄणां शक्तीनां देहाङ्गीकारलक्षणः । सृष्ट्यर्थं च समाख्यातः सर्गः शास्त्रविशारदैः ॥ 21॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,21,47,हरिद्रुहिणरुद्राणां समुत्पत्तिस्ततः स्मृता । पालनोत्पत्तिनाशार्थं प्रतिसर्गः स्मृतो हि सः ॥ 22॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,22,48,सोमसूर्योद्भवानां च राज्ञां वंशप्रकीर्तनम् । हिरण्यकशिप्वादीनां वंशास्ते परिकीर्तिताः ॥ 23॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,23,49,स्वायम्भुवमुखानां च मनूनां परिवर्णनम् । कालसङ्ख्या तथा तेषां तत्तन्मन्वन्तराणि च ॥ 24॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,24,50,तेषां वंशानुकथनं वंशानुचरितं स्मृतम् । पञ्चलक्षणयुक्तानि भवन्ति मुनिसत्तमाः ॥ 25॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,25,51,सपादलक्षं च तथा भारतं मुनिना कृतम् । इतिहास इति प्रोक्तं पञ्चमं वेदसम्मतम् ॥ 26॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,26,52,शौनक उवाच । कानि तानि पुराणानि ब्रूहि सूत सविस्तरम् । कतिसङ्ख्यानि सर्वज्ञ श्रोतुकामा वयं त्विह ॥ 27॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,27,53,कलिकालविभीताः स्मो नैमिषारण्यवासिनः । ब्रह्मणात्र समादिष्टाश्चक्रं दत्त्वा मनोमयम् ॥ 28॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,28,54,कथितं तेन नः सर्वान्गच्छन्त्वेतस्य पृष्ठतः । नेमिः संशीर्यते यत्र स देशः पावनः स्मृतः ॥ 29॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,29,55,कलेस्तत्र प्रवेशो न कदाचित् सम्भविष्यति । तावत्तिष्ठन्तु तत्रैव यावत्सत्ययुगं पुनः ॥ 30॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,30,56,तच्छ्रुत्वा वचनं तस्य गृहीत्वा तत्कथानकम् । चालयन्निर्गतस्तूर्णं सर्वदेशदिदृक्षया ॥ 31॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,31,57,प्रेत्यात्र चालयंश्चक्रं नेमिः शीर्णोऽत्र पश्यतः । तेनेदं नैमिषं प्रोक्तं क्षेत्रं परमपावनम् ॥ 32॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,32,58,कलिप्रवेशो नैवात्र तस्मात्स्थानं कृतं मया । मुनिभिः सिद्धसङ्घैश्च कलिभीतैर्महात्मभिः ॥ 33॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,33,59,पशुहीनाः कृता यज्ञाः पुरोडाशादिभिः किल । कालातिवाहनं कार्यं यावत्सत्ययुगागमः ॥ 34॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,34,60,भाग्ययोगेन सम्प्राप्तः सूत त्वं चात्र सर्वथा । कथयाद्य पुराणं हि पावनं ब्रह्मसम्मतम् ॥ 35॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,35,61,सूत शुश्रूषवः सर्वे वक्ता त्वं मतिमानथ । निर्व्यापारा वयं नूनमेकचित्तास्तथैव च ॥ 36॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,36,62,त्वं सूत भव दीर्घायुस्तापत्रयविवर्जितः । कथयाद्य पुराणं हि पुण्यं भागवतं शिवम् ॥ 37॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,37,63,यत्र धर्मार्थकामानां वर्णनं विधिपूर्वकम् । विद्यां प्राप्य तया मोक्षः कथितो मुनिना किल ॥ 38॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,38,64,द्वैपायनेन मुनिना कथितं यच्च पावनम् । न तृप्यामो वयं सूत कथां श्रुत्वा मनोरमाम् ॥ 39॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,39,65,सकलगुणगणानामेकपात्रं पवित्र- ॥ मखिलभुवनमातुर्नाट्यवद्यद्विचित्रम् । निखिलमलगणानां नाशकृत्कामकन्दम् ॥ प्रकटय भगवत्या नामयुक्तं पुराणम् ॥ 40॥ 1,१.२,द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।,40,66,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे ग्रन्थसङ्ख्याविषयवर्णनं नाम द्वितीयोऽध्यायः ॥ १.२॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,0,67,सूत उवाच । श‍ृण्वन्तु सम्प्रवक्ष्यामि पुराणानि मुनीश्वराः । यथाश्रुतानि तत्त्वेन व्यासात्सत्यवतीसुतात् ॥ 1॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,1,68,मद्वयं भद्वयं चैव ब्रत्रयं वचतुष्टयम् । अनापलिङ्गकूस्कानि पुराणानि पृथक्पृथक् ॥ 2॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,2,69,चतुर्दशसहस्रं च मत्स्यमाद्यं प्रकीर्तितम् । तथा ग्रहसहस्रं तु मार्कण्डेयं महाद्भुतम् ॥ 3॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,3,70,चतुर्दशसहस्राणि तथा पञ्चशतानि च । भविष्यं परिसङ्ख्यातं मुनिभिस्तत्त्वदर्शिभिः ॥ 4॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,4,71,अष्टादशसहस्रं वै पुण्यं भागवतं किल । तथा चायुतसङ्ख्याकं पुराणं ब्रह्मसंज्ञकम् ॥ 5॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,5,72,द्वादशैव सहस्राणि ब्रह्माण्डं च शताधिकम् । तथाष्टादशसाहस्रं ब्रह्मवैवर्तमेव च ॥ 6॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,6,73,अयुतं वामनाख्यं च वायव्यं षट्शतानि च । चतुर्विंशतिसङ्ख्यातः सहस्राणि तु शौनक ॥ 7॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,7,74,त्रयोविंशतिसाहस्रं वैष्णवं परमाद्भुतम् । चतुर्विंशतिसाहस्रं वाराहं परमाद्भुतम् ॥ 8॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,8,75,षोडशैव सहस्राणि पुराणं चाग्निसंज्ञितम् । पञ्चविंशतिसाहस्रं नारदं परमं मतम् ॥ 9॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,9,76,पञ्चपञ्चाशत्साहस्रं पद्माख्यं विपुलं मतम् । एकादशसहस्राणि लिङ्गाख्यं चातिविस्मृतम् ॥ 10॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,10,77,एकोनविंशत्साहस्रं गारुडं हरिभाषितम् । सप्तदशसहस्रं च पुराणं कूर्मभाषितम् ॥ 11॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,11,78,एकाशीतिसहस्राणि स्कन्दाख्यं परमाद्भुतम् । पुराणाख्या च सङ्ख्या च विस्तरेण मयानघाः ॥ 12॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,12,79,तथैवोपपुराणानि श‍ृण्वन्तु ऋषिसत्तमाः । सनत्कुमारं प्रथमं नारसिंहं ततः परम् ॥ 13॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,13,80,नारदीयं शिवं चैव दौर्वाससमनुत्तमम् । कापिलं मानवं चैव तथा चौशनसं स्मृतम् ॥ 14॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,14,81,वारुणं कालिकाख्यं च साम्बं नन्दिकृतं शुभम् । सौरं पाराशरप्रोक्तमादित्यं चातिविस्तरम् ॥ 15॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,15,82,माहेश्वरं भागवतं वासिष्ठं च सविस्तरम् । एतान्युपपुराणानि कथितानि महात्मभिः ॥ 16॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,16,83,अष्टादश पुराणानि कृत्वा सत्यवतीसुतः । भारताख्यानमतुलं चक्रे तदुपबृंहितम् ॥ 17॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,17,84,मन्वन्तरेषु सर्वेषु द्वापरे द्वापरे युगे । प्रादुःकरोति धर्मार्थी पुराणानि यथाविधि ॥ 18॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,18,85,द्वापरे द्वापरे विष्ण्णुर्व्यासरूपेण सर्वदा । वेदमेकं स बहुधा कुरुते हितकाम्यया ॥ 19॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,19,86,अल्पायुषोऽल्पबुद्धींश्च विप्रान्ज्ञात्वा कलावथ । पुराणसंहितां पुण्यां कुरुतेऽसौ युगे युगे ॥ 20॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,20,87,स्त्रीशूद्रद्विजबन्धूनां न वेदश्रवणं मतम् । तेषामेव हितार्थाय पुराणानि कृतानि च ॥ 21॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,21,88,मन्वन्तरे सप्तमेऽत्र शुभे वैवस्वताभिधे । अष्टाविंशतिमे प्राप्ते द्वापरे मुनिसत्तमाः ॥ 22॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,22,89,व्यासः सत्यवतीसूनुर्गुरुर्मे धर्मवित्तमः । एकोनत्रिंशत्सम्प्राप्ते द्रौणिर्व्यासो भविष्यति ॥ 23॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,23,90,अतीतास्तु तथा व्यासाः सप्तविंशतिरेव च । पुराणसंहितास्तैस्तु कथितास्तु युगे युगे ॥ 24॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,24,91,ऋषय ऊचुः । ब्रूहि सूत महाभाग व्यासाः पूर्वयुगोद्भवाः । वक्तारस्तु पुराणानां द्वापरे द्वापरे युगे ॥ 25॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,25,92,सूत उवाच । द्वापरे प्रथमे व्यस्ताः स्वयं वेदाः स्वयम्भुवा । प्रजापतिर्द्वितीये तु द्वापरे व्यासकार्यकृत् ॥ 26॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,26,93,तृतीये चोशना व्यासश्चतुर्थे तु बृहस्पतिः । पञ्चमे सविता व्यासः षष्ठे मृत्युस्तथापरे ॥ 27॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,27,94,मघवा सप्तमे प्राप्ते वसिष्ठस्त्वष्टमे स्मृतः । सारस्वतस्तु नवमे त्रिधामा दशमे तथा ॥ 28॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,28,95,एकादशेऽथ त्रिवृषो भरद्वाजस्ततः परम् । त्रयोदशे चान्तरिक्षो धर्मश्चापि चतुर्दशे ॥ 29॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,29,96,त्रय्यारुणिः पञ्चदशे षोडशे तु धनञ्जयः । मेधातिथिः सप्तदशे व्रती ह्यष्टादशे तथा ॥ 30॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,30,97,अत्रिरेकोनविंशेऽथ गौतमस्तु ततः परम् । उत्तमश्चैकविंशेऽथ हर्यात्मा परिकीर्तितः ॥ 31॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,31,98,वेनो वाजश्रवाश्चैव सोमोऽमुष्यायणस्तथा । तृणबिन्दुस्तथा व्यासो भार्गवस्तु ततः परम् ॥ 32॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,32,99,ततः शक्तिर्जातुकर्ण्यः कृष्णद्वैपायनस्ततः । अष्टाविंशतिसङ्ख्येयं कथिता या मया श्रुता ॥ 33॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,33,100,कृष्णद्वैपायनात्प्रोक्तं पुराणं च मया श्रुतम् । श्रीमद्भागवतं पुण्यं सर्वदुःखौघनाशनम् ॥ 34॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,34,101,कामदं मोक्षदं चैव वेदार्थपरिबृंहितम् । सर्वागमरसारामं मुमुक्षूणां सदा प्रियम् ॥ 35॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,35,102,व्यासेन कृत्वातिशुभं पुराणं शुकाय पुत्राय महात्मने यत् । वैराग्ययुक्ताय च पाठितं वै विज्ञाय चैवारणिसम्भवाय ॥ 36॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,36,103,श्रुतं मया तत्र तथा गृहीतं यथार्थवद्व्यासमुखान्मुनीन्द्राः । पुराणगुह्यं सकलं समेतं गुरोः प्रसादात्करुणानिधेश्च ॥ 37॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,37,104,सूतेन पृष्टः सकलं जगाद द्वैपायनस्तत्र पुराणगुह्यम् । अयोनिजेनाद्भुतबुद्धिना वै श्रुतं मया तत्र महाप्रभावम् ॥ 38॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,38,105,श्रीमद्भागवतामराङ्घ्रिपफलास्वादादरः सत्तमाः संसारार्णवदुर्विगाह्यसलिलं सन्तर्तुकामः शुकः । नानाख्यानरसालयं श्रुतिपुटैः प्रेम्णाश‍ृणोदद्भुतं तच्छ्रुत्वा न विमुच्यते कलिभयादेवंविधः कः क्षितौ ॥ 39॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,39,106,पापीयानपि वेदधर्मरहितः स्वाचारहीनाशयो ॥ व्याजेनापि श‍ृणोति यः परमिदं श्रीमत्पुराणोत्तमम् । भुक्त्या भोगकलापमत्र विपुलं देहावसानेऽचलं योगिप्राप्यमवाप्नुयाद्भगवतीनामाङ्कितं सुन्दरम् ॥ 40॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,40,107,या निर्गुणा हरिहरादिभिरप्यलभ्या विद्या सतां प्रियतमाथ समाधिगम्या । सा तस्य चित्तकुहरे प्रकरोति भावं यः संश‍ृणोति सततं तु सतीपुराणम् ॥ 41॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,41,108,सम्प्राप्य मानुषभवं सकलाङ्गयुक्तं पोतं भवार्णवजलोत्तरणाय कामम् । सम्प्राप्य वाचकमहो न श‍ृणोति मूढः स वञ्चितोऽत्र विधिना सुखदं पुराणम् ॥ 42॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,42,109,यः प्राप्य कर्णयुगलं पटुमानुषत्वे रागी श‍ृणोति सततं च परापवादान् । सर्वार्थदं रसनिधिं विमलं पुराणं नष्टः कुतो न श‍ृणुते भुवि मन्दबुद्धिः ॥ 43॥ 1,१.३,तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।,43,110,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनं नाम तृतीयोऽध्यायः ॥ १.३॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,0,111,ऋषय ऊचुः । सौम्य व्यासस्य भार्यायां कस्यां जातः सुतः शुकः । कथं वा कीदृशो येन पठितेयं सुसंहिता ॥ 1॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,1,112,अयोनिजस्त्वया प्रोक्तस्तथा चारणिजः शुकः । सन्देहोऽस्ति महांस्तत्र कथयाद्य महामते ॥ 2॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,2,113,गर्भयोगी श्रुतः पूर्वं शुको नाम महातपाः । कथं च पठितं तेन पुराणं बहुविस्तरम् ॥ 3॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,3,114,सूत उवाच । पुरा सरस्वतीतीरे व्यासः सत्यवतीसुतः । आश्रमे कलविङ्कौ तु दृष्ट्वा विस्मयमागतः ॥ 4॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,4,115,जातमात्रं शिशुं नीडे मुक्तमण्डान्मनोहरम् । ताम्रास्यं शुभसर्वाङ्गं पिच्छाङ्कुरविवर्जितम् ॥ 5॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,5,116,तौ तु भक्ष्यार्थमत्यन्तं रतौ श्रमपरायणौ । शिशोश्चञ्चुपुटे भक्ष्यं क्षिपन्तौ च पुनः पुनः ॥ 6॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,6,117,अङ्गेनाङ्गानि बालस्य घर्षयन्तौ मुदान्वितौ । चुम्बन्तौ च मुखं प्रेम्णा कलविङ्कौ शिशोः शुभम् ॥ 7॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,7,118,वीक्ष्य प्रेमाद्भुतं तत्र बाले चटकयोस्तदा । व्यासश्चिन्तातुरः कामं मनसा समचिन्तयत् ॥ 8॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,8,119,तिरश्चामपि यत्प्रेम पुत्रे समभिलक्ष्यते । किं चित्रं यन्मनुष्याणां सेवाफलमभीप्सताम् ॥ 9॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,9,120,किमेतौ चटकौ चास्य विवाहं सुखसाधनम् । विरच्य सुखिनौ स्यातां दृष्ट्वा वध्वा मुखं शुभम् ॥ 10॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,10,121,अथवा वार्धके प्राप्ते परिचर्यां करिष्यति । पुत्रः परमधर्मिष्ठः पुण्यार्थं कलविङ्कयोः ॥ 11॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,11,122,अर्जयित्वाथवा द्रव्यं पितरौ तर्पयिष्यति । अथवा प्रेतकार्याणि करिष्यति यथाविधि ॥ 12॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,12,123,अथवा किं गयाश्राद्धं गत्वा संवितरिष्यति । नीलोत्सर्गं च विधिवत्प्रकरिष्यति बालकः ॥ 13॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,13,124,संसारेऽत्र समाख्यातं सुखानामुत्तमं सुखम् । पुत्रगात्रपरिष्वङ्गो लालनञ्च विशेषतः ॥ 14॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,14,125,अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च । पुत्रादन्यतरन्नास्ति परलोकस्य साधनम् ॥ 15॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,15,126,मन्वादिभिश्च मुनिभिर्धर्मशास्त्रेषु भाषितम् । पुत्रवान्स्वर्गमाप्नोति नापुत्रस्तु कथञ्चन ॥ 16॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,16,127,दृश्यतेऽत्र समक्षं तन्नानुमानेन साध्यते । पुत्रवान्मुच्यते पापादाप्तवाक्यं च शाश्वतम् ॥ 17॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,17,128,आतुरे मृत्युकालेऽपि भूमिशय्यागतो नरः । करोति मनसा चिन्तां दुःखितः पुत्रवर्जितः ॥ 18॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,18,129,धनं मे विपुलं गेहे पात्राणि विविधानि च । मन्दिरं सुन्दरं चैतत्कोऽस्य स्वामी भविष्यति ॥ 19॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,19,130,मृत्युकाले मनस्तस्य दुःखेन भ्रमते यतः । अतोऽस्य दुर्गतिर्नूनं भ्रान्तचित्तस्य सर्वथा ॥ 20॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,20,131,एवं बहुविधां चिन्तां कृत्वा सत्यवतीसुतः । निःश्वस्य बहुधा चोष्णं विमनाः सम्बभूव ह ॥ 21॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,21,132,विचार्य मनसात्यर्थं कृत्वा मनसि निश्चयम् । जगाम च तपस्तप्तुं मेरुपर्वतसनिधौ ॥ 22॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,22,133,मनसा चिन्तयामास कं देवं समुपास्महे । वरप्रदाननिपुणं वाञ्छितार्थप्रदं तथा ॥ 23॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,23,134,विष्णुं रुद्रं सुरेन्द्रं वा ब्रह्माणं वा दिवाकरम् । गणेशं कार्तिकेयं च पावकं वरुणं तथा ॥ 24॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,24,135,एवं चिन्तयतस्तस्य नारदो मुनिसत्तमः । यदृच्छया समायातो वीणापाणिः समाहितः ॥ 25॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,25,136,तं दृष्ट्वा परमप्रीतो व्यासः सत्यवतीसुतः । कृत्वार्घ्यमासनं दत्त्वा पप्रच्छ कुशलं मुनिम् ॥ 26॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,26,137,श्रुत्वाथ कुशलप्रश्नं पप्रच्छ मुनिसत्तमः । चिन्तातुरोऽसि कस्मात्त्वं द्वैपायन वदस्व मे ॥ 27॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,27,138,व्यास उवाच । अपुत्रस्य गतिर्नास्ति न सुखं मानसे यतः । तदर्थं दुःखितश्चाहं चिन्तयामि पुन पुनः ॥ 28॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,28,139,तपसा तोषयाम्यद्य कं देवं वाच्छितार्थदम् । इति चिन्तातुरोऽस्म्यद्य त्वामहं शरणं गतः ॥ 29॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,29,140,सर्वज्ञोऽसि महर्षे त्वं कथयाशु कृपानिधे । कं देवं शरणं यामि यो मे पुत्रं प्रदास्यति ॥ 30॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,30,141,सूत उवाच । इति व्यासेन पृष्टस्तु नारदो वेदविन्मुनिः । उवाच परया प्रीत्या कृष्णं प्रति महामनाः ॥ 31॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,31,142,नारद उवाच । पाराशर्य महाभाग यत्त्वं पृच्छसि मामिह । तमेवार्थं पुरा पृष्टः पित्रा मे मधुसूदनः ॥ 32॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,32,143,ध्यानस्थं च हरिं दृष्ट्वा पिता मे विस्मयं गतः । पर्यपृच्छत देवेशं श्रीनाथं जगतः पतिम् ॥ 33॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,33,144,कौस्तुभोद्भासितं दिव्यं शङ्खचक्रगदाधरम् । पीताम्बरं चतुर्बाहुं श्रीवत्साङ्कितवक्षसम् ॥ 34॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,34,145,कारणं सर्वलोकानां देवदेवं जगद्गुरुम् । वासुदेवं जगन्नाथं तप्यमानं महत्तपः ॥ 35॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,35,146,ब्रह्मोवाच । देवदेव जगन्नाथ भूतभव्यभवत्प्रभो । तपश्चरसि कस्मात्त्वं किं ध्यायसि जनार्दन ॥ 36॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,36,147,विस्मयोऽयं ममात्यर्थं त्वं सर्वजगतां प्रभुः । ध्यानयुक्तोऽसि देवेश किं च चित्रमतः परम् ॥ 37॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,37,148,त्वन्नाभिकमलाज्जातः कर्ताहमखिलस्य ह । त्वत्तः कोऽप्यधिकोऽस्त्यत्र तं देवं ब्रूहि मापते ॥ 38॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,38,149,जानाम्यहं जगन्नाथ त्वमादिः सर्वकारणम् । कर्ता पालयिता हर्ता समर्थः सर्वकार्यकृत् ॥ 39॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,39,150,इच्छया ते महाराज सृजाम्यहमिदं जगत् । हरः संहरते काले सोऽपि ते वचने सदा ॥ 40॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,40,151,सूर्यो भ्रमति चाकाशे वायुर्वाति शुभाशुभः । अग्निस्तपति पर्जन्यो वर्षतीश त्वदाज्ञया ॥ 41॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,41,152,त्वं तु ध्यायसि कं देवं संशयोऽयं महान्मम । त्वत्तः परं न पश्यामि देवं वै भुवनत्रये ॥ 42॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,42,153,कृपां कृत्वा वदस्वाद्य भक्तोऽस्मि तव सुव्रत । महतां नैव गोप्यं हि प्रायः किञ्चिदिति स्मृतिः ॥ 43॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,43,154,तच्छ्रुत्वा वचनं तस्य हरिराह प्रजापतिम् । श‍ृणुष्वैकमना ब्रह्मंस्त्वां ब्रवीमि मनोगतम् ॥ 44॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,44,155,यद्यपि त्वां शिवं मां च स्थितिसृष्ट्यन्तकारणम् । ते जानन्ति जनाः सर्वे सदेवासुरमानुषाः ॥ 45॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,45,156,स्रष्टा त्वं पालकश्चाहं हरः संहारकारकः । कृताः शक्त्येति सन्तर्कः क्रियते वेदपारगैः ॥ 46॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,46,157,जगत्सञ्जनने शक्तिस्त्वयि तिष्ठति राजसी । सात्त्विकी मयि रुद्रे च तामसी परिकीर्तिता ॥ 47॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,47,158,तया विरहितस्त्वं न तत्कर्मकरणे प्रभुः । नाहं पालयितुं शक्तः संहर्तुं नापि शङ्करः ॥ 48॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,48,159,तदधीना वयं सर्वे वर्तामः सततं विभो । प्रत्यक्षे च परोक्षे च दृष्टान्तं श‍ृणु सुव्रत ॥ 49॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,49,160,शेषे स्वपिमि पर्यङ्के परतन्त्रो न संशयः । तदधीनः सदोत्तिष्ठे काले कालवशं गतः ॥ 50॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,50,161,तपश्चरामि सततं तदधीनोऽस्म्यहं सदा । कदाचित्सह लक्ष्या च विहरामि यथासुखम् ॥ 51॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,51,162,कदाचिद्दानवैः सार्धं सङ्ग्रामं प्रकरोम्यहम् । दारुणं देहदमनं सर्वलोकभयङ्करम् ॥ 52॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,52,163,प्रत्यक्षं तव धर्मज्ञ तस्मिन्नेकार्णवे पुरा । पञ्चवर्षसहस्राणि बाहुयुद्धं मया कृतम् ॥ 53॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,53,164,तौ कर्णमलजौ दुष्टौ दानवौ मदगर्वितौ । देव देव्याः प्रसादेन निहतौ मधुकैटभौ ॥ 54॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,54,165,तदा त्वया न किं ज्ञातं कारणं तु परात्परम् । शक्तिरूपं महाभाग किं पृच्छसि पुनः पुनः ॥ 55॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,55,166,यदिच्छः पुरुषो भूत्वा विचरामि महार्णवे । कच्छपः कोलसिंहश्च वामनश्च युगे युगे ॥ 56॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,56,167,न कस्यापि प्रियो लोके तिर्यग्योनिषु सम्भवः । नाभवं स्वेच्छया वामवराहादिषु योनिषु ॥ 57॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,57,168,विहाय लक्ष्या सह संविहारं को याति मत्स्यादिषु हीनयोनिषु । शय्यां च मुक्त्वा गरुडासनस्थः करोमि युद्धं विपुलं स्वतन्त्रः ॥ 58॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,58,169,पुरा पुरस्तेऽज शिरो मदीयं गतं धनुर्ज्यास्खलनात्क्व चापि । त्वया तदा वाजिशिरो गृहीत्वा संयोजितं शिल्पिवरेण भूयः ॥ 59॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,59,170,हयाननोऽहं परिकीर्तितश्च प्रत्यक्षमेतत्तव लोककर्तः । विडम्बनेयं किल लोकमध्ये कथं भवेदात्मपरो यदि स्याम् ॥ 60॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,60,171,तस्मान्नाहं स्वतन्त्रोऽस्मि शक्त्यधीनोऽस्मि सर्वथा । तामेव शक्तिं सततं ध्यायामि च निरन्तरम् ॥ 61॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,61,172,नातः परतरं किञ्चिज्जानामि कमलोद्भव । नारद उवाच । इत्युक्तं विष्णुना तेन पद्मयोनेस्तु सन्निधौ ॥ 62॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,62,173,तेन चाप्यहमुक्तोऽस्मि तथैव मुनिपुङ्गव । तस्मात्त्वमपि कल्याण पुरुषार्थाप्तिहेतवे ॥ 63॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,63,174,असंशयं हृदम्भोजे भज देवीपदाम्बुजम् । सर्वं दास्यति सा देवी यद्यदिष्टं भवेत्तव ॥ 64॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,64,175,सूत उवाच । नारदेनैवमुक्तस्तु व्यासः सत्यवतीसुतः । देवीपादाब्जनिष्णातस्तपसे प्रययौ गिरौ ॥ 65॥ 1,१.४,चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।,65,176,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे देवीसर्वोत्तमेतिकथनं नाम चतुर्थोऽध्यायः ॥ १.४॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,0,177,ऋषय ऊचुः । सूतास्माकं मनः कामं मग्नं संशयसागरे । यथोक्तं महदाश्चर्यं जगद्विस्मयकारकम् ॥ 1॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,1,178,यन्मूर्धा माधवस्यापि गतो देहात्पुनः परम् । हयग्रीवस्ततो जातः सर्वकर्ता जनार्दनः ॥ 2॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,2,179,वेदोऽपि स्तौति यं देवं देवाः सर्वे यदाश्रयाः । आदिदेवो जगन्नाथः सर्वकारणकारणः ॥ 3॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,3,180,तस्यापि वदनं छिन्नं दैवयोगात्कथं तदा । तत्सर्वं कथयाशु त्वं विस्तरेण महामते ॥ 4॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,4,181,सूत उवाच । श‍ृण्वन्तु मुनयः सर्वे सावधानाः समन्ततः । चरितं देवदेवस्य विष्णोः परमतेजसः ॥ 5॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,5,182,कदाचिद्दारुणं युद्धं कृत्वा देवः सनातनः । दशवर्षसहस्राणि परिश्रान्तो जनार्दनः ॥ 6॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,6,183,समे देशे शुभे स्थाने कृत्वा पद्मासनं विभुः । अवलम्ब्य धनुः सज्यं कण्ठदेशे धरास्थितम् ॥ 7॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,7,184,दत्त्वा भारं धनुष्कोट्यां निद्रामाप रमापतिः । श्रान्तत्वाद्दैवयोगाच्च जातस्तत्रातिनिद्रितः ॥ 8॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,8,185,तदा कालेन कियता देवाः सर्वे सवासवाः । ब्रह्मेशसहिताः सर्वे यज्ञं कर्तुं समुद्यताः ॥ 9॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,9,186,गताः सर्वेऽथ वैकुण्ठं द्रष्टुं देवं जनार्दनम् । देवकार्यार्थसिद्ध्यर्थं मखानामधिपं प्रभुम् ॥ 10॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,10,187,अदृष्ट्वा तं तदा तत्र ज्ञानदृष्ट्या विलोक्य ते । यत्रास्ते भगवान् विष्णुर्जग्मुस्तत्र तदा सुराः ॥ 11॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,11,188,ददृशुस्ते तदेशानं योगनिद्रावशं गतम् । विचेतनं विभुं विष्णुं तत्रासाञ्चक्रिरे सुराः ॥ 12॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,12,189,स्थितेषु सर्वदेवेषु निद्रासुप्ते जगत्पतौ । चिन्तामापुः सुराः सर्वे ब्रह्मरुद्रपुरोगमाः ॥ 13॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,13,190,तानुवाच ततः शक्रः किं कर्तव्यं सुरोत्तमाः । निद्राभङ्गः कथं कार्यश्चिन्तयन्तु सुरोत्तमाः ॥ 14॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,14,191,तमुवाच तदा शम्भुर्निद्राभङ्गेऽस्ति दूषणम् । कार्यं चैव प्रकर्तव्यं यज्ञस्य सुरसत्तमाः ॥ 15॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,15,192,उत्पादिता तदा वम्री ब्रह्मणा परमेष्ठिना । तया भक्षयितुं तत्र धनुषोऽग्रं धरास्थितम् ॥ 16॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,16,193,भक्षितेऽग्रे तदा निम्नं गमिष्यति शरासनम् । तदा निद्राविमुक्तोऽसौ देवदेवो भविष्यति ॥ 17॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,17,194,देवकार्यं तदा सर्वं भविष्यति न संशयः । स वम्रीं सन्दिदेशाथ देवदेवः सनातनः ॥ 18॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,18,195,तमुवाच तदा वम्री देवदेवस्य मापतेः । निद्राभङ्गः कथं कार्यो देवस्य जगतां गुरोः ॥ 19॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,19,196,निद्राभङ्गः कथाच्छेदो दम्पत्योः प्रीतिभेदनम् । शिशुमातृविभेदश्च ब्रह्महत्यासमं स्मृतम् ॥ 20॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,20,197,तत्कथं देवदेवस्य करोमि सुखनाशनम् । किं फलं भक्षणाद्देव येन पापं करोम्यहम् ॥ 21॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,21,198,सर्वः स्वार्थवशो लोकः कुरुते पातकं किल । तस्मादहं करिष्यामि स्वार्थमेव प्रभक्षणम् ॥ 22॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,22,199,ब्रह्मोवाच । तव भागं करिष्यामो मखमध्ये यथा श‍ृणु । तेन त्वं कुरु कार्यं नो विष्णुं बोधय माचिरम् ॥ 23॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,23,200,होमकर्मणि पार्श्वे च हविर्दानात्पतिष्यति । तत्ते भागं विजानीहि कुरु कार्यं त्वरान्विता ॥ 24॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,24,201,सूत उवाच । इत्युक्ता ब्रह्मणा वम्री धनुषोऽग्रं त्वरान्विता । चखाद संस्थितं भूमौ विमुक्ता ज्या तदाभवत् ॥ 25॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,25,202,प्रत्यञ्जायां विमुक्तायां मुक्ता कोटिस्तथोत्तरा । शब्दः समभवद्घोरस्तेन त्रस्ताः सुरास्तदा ॥ 26॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,26,203,ब्रह्माण्डं क्षुभितं सर्वं वसुधा कम्पिता तदा । समुद्राश्च समुद्विग्नास्त्रेसुश्च जलजन्तवः ॥ 27॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,27,204,ववुर्वातास्तथा चोग्राः पर्वताश्च चकम्पिरे । उल्कापाता महोत्पाता बभूवुर्दुःखशंसिनः ॥ 28॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,28,205,दिशो घोरतराश्चासन्सूर्योऽप्यस्तङ्गतोऽभवत् । चिन्तामापुः सुराः सर्वे किं भविष्यति दुर्दिने ॥ 29॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,29,206,एवं चिन्तयतां तेषां मूर्धा विष्णोः सकुण्डलः । गतः समुकुटः क्वापि देवदेवस्य तापसाः ॥ 30॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,30,207,अन्धकारे तदा घोरे शान्ते ब्रह्महरौ तदा । शिरोहीनं शरीरं तु ददृशाते विलक्षणम् ॥ 31॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,31,208,दृष्ट्वा कबन्धं विष्णोस्ते विस्मिताः सुरसत्तमाः । चिन्तासागरमग्नाश्च रुरुदुः शोककर्शिताः ॥ 32॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,32,209,हा नाथ किं प्रभो जातमत्यद्भुतममानुषम् । वैशसं सर्वदेवानां देवदेव सनातन ॥ 33॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,33,210,मायेयं कस्य देवस्य यया तेऽद्य शिरो हृतम् । अच्छेद्यस्त्वमभेद्योऽसि अप्रदाह्योऽसि सर्वदा ॥ 34॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,34,211,एवं गते त्वयि विभो मरिष्यन्ति च देवताः । कीदृशस्त्वयि नः स्नेहः स्वार्थेनैव रुदामहे ॥ 35॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,35,212,नायं विघ्नः कृतो दैत्यैर्न यक्षैर्न च राक्षसैः । देवैरेव कृतः कस्य दूषणं च रमापते ॥ 36॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,36,213,पराधीनाः सुराः सर्वे किं कुर्मः क्व व्रजाम च । शरणं नैव देवेश सुराणां मूढचेतसाम् ॥ 37॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,37,214,न चैषा सात्त्विकी माया राजसी न च तामसी । यया छिन्नं शिरस्तेऽद्य मायेशस्य जगद्गुरोः ॥ 38॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,38,215,क्रन्दमानांस्तदा दृष्ट्वा देवाञ्छिवपुरोगमान् । बृहस्पतिस्तदोवाच शमयन्वेदवित्तमः ॥ 39॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,39,216,रुदितेन महाभागाः क्रन्दितेन तथापि किम् । उपायश्चात्र कर्तव्यः सर्वथा बुद्धिगोचरः ॥ 40॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,40,217,दैवं पुरुषकारश्च देवेश सदृशावुभौ । उपायश्च विधातव्यो दैवात्फलति सर्वथा ॥ 41॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,41,218,इन्द्र उवाच । दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् । विष्णोरपि शिरश्छिन्नं सुराणां चैव पश्यताम् ॥ 42॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,42,219,ब्रह्मोवाच । अवश्यमेव भोक्तव्यं कालेनापादितं च यत् । शुभं वाप्यशुभं वापि दैवं कोऽतिक्रमेत्पुनः ॥ 43॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,43,220,देहवान्सुखदुःखानां भोक्ता नैवात्र संशयः । यथा कालवशात्कृत्तं शिरो मे शम्भुना पुरा ॥ 44॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,44,221,तथैव लिङ्गपातश्च महादेवस्य शापतः । तथैवाद्य हरेर्मूर्धा पतितो लवणाम्भसि ॥ 45॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,45,222,सहस्रभगसम्प्राप्तिर्दुःखं चैव शचीपतेः । स्वर्गाद्भ्रंशस्तथा वासः कमले मानसे सरे ॥ 46॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,46,223,एते दुःखस्य भोक्तारः केन दुःखं न भुज्यते । संसारेऽस्मिन्महाभागास्तस्माच्छोकं त्यजन्तु वै ॥ 47॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,47,224,चिन्तयन्तु महामायां विद्यादेवीं सनातनीम् । सा विधास्यति नः कार्यं निर्गुणा प्रकृतिः परा ॥ 48॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,48,225,ब्रह्मविद्यां जगद्धात्रीं सर्वेषां जननीं तथा । यया सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ॥ 49॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,49,226,सूत उवाच । इत्युक्त्वा वै सुरान्वेधा निगमानादिदेश ह । देहयुक्तान्स्थितानग्रे सुरकार्यार्थसिद्धये ॥ 50॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,50,227,ब्रह्मोवाच । स्तुवन्तु परमां देवीं ब्रह्मविद्यां सनातनीम् । गूढाङ्गीं च महामायां सर्वकार्यार्थसाधनीम् ॥ 51॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,51,228,तच्छ्रुत्वा वचनं तस्य वेदाः सर्वाङ्गसुन्दराः । तुष्टुवुर्ज्ञानगम्यां तां महामायां जगत्स्थिताम् ॥ 52॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,52,229,वेदा ऊचुः । नमो देवि महामाये विश्वोत्पत्तिकरे शिवे । निर्गुणे सर्वभूतेशि मातः शङ्करकामदे ॥ 53॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,53,230,त्वं भूमिः सर्वभूतानां प्राणाः प्राणवतां तथा । धीः श्रीः कान्तिः क्षमा शान्तिः श्रद्धा मेधा धृतिः स्मृतिः ॥ 54॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,54,231,त्वमुद्गीथेऽर्धमात्रासि गायत्री व्याहृतिस्तथा । जया च विजया धात्री लज्जा कीर्तिः स्पृहा दया ॥ 55॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,55,232,त्वां संस्तुमोऽम्ब भुवनत्रयसंविधान- दक्षां दयारसयुतां जननीं जनानाम् । विद्यां शिवां सकललोकहितां वरेण्यां वाग्बीजवासनिपुणां भवनाशकर्त्रीम् ॥ 56॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,56,233,ब्रह्मा हरः शौरिसहस्रनेत्र- वाग्वह्निसूर्या भुवनाधिनाथाः । ते त्वत्कृताः सन्ति ततो न मुख्या माता यतस्त्वं स्थिरजङ्गमानाम् ॥ 57॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,57,234,सकलभुवनमेतत्कर्तुकामा यदा त्वं सृजसि जननि देवान्विष्णुरुद्राजमुख्यान् । स्थितिलयजननं तैः कारयस्येकरूपा न खलु तव कथञ्चिद्देवि संसारलेशः ॥ 58॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,58,235,न ते रूपं वेत्तुं सकलभुवने कोऽपि निपुणो न नाम्नां सङ्ख्यां ते कथितुमिह योग्योऽस्ति पुरुषः । यदल्पं कीलालं कलयितुमशक्तः स तु नरः कथं पारावाराकलनचतुरः स्यादृतमतिः ॥ 59॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,59,236,न देवानां मध्ये भगवति तवानन्तविभवं विजानात्येकोऽपि त्वमिह भुवनैकासि जननी । कथं मिथ्या विश्वं सकलमपि चैका रचयसि प्रमाणं त्वेतस्मिन्निगमवचनं देवि विहितम् ॥ 60॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,60,237,निरीहैवासि त्वं निखिलजगतां कारणमहो चरित्रं ते चित्रं भगवति मनो नो व्यथयति । कथङ्कारं वाच्यः सकलनिगमागोचरगुण- प्रभावः स्वं यस्मात्स्वयमपि न जानासि परमम् ॥ 61॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,61,238,न किं जानासि त्वं जननि मधुजिन्मौलिपतनम् ॥ शिवे किं वा ज्ञात्वा विविदिषसि शक्तिं मधुजितः । हरेः किं वा मातर्दुरितततिरेषा बलवती ॥ भवत्याः पादाब्जे भजननिपुणे क्वास्ति दुरितम् ॥ 62॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,62,239,उपेक्षा किं चेयं तव सुरसमूहेऽतिविषमा ॥ हरेर्मूर्ध्नो नाशो मतमिह महाश्चर्यजनकम् । महद्दुःखं मातस्त्वमसि जननच्छेदकुशला ॥ न जानीमो मौलेर्विघटनविलम्बः कथमभूत् ॥ 63॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,63,240,ज्ञात्वा दोषं सकलसुरतापादितं देवि चित्ते किं वा विष्णावमरजनितं दुष्कृतं पातितं ते । विष्णोर्वा किं समरजनितः कोऽपि गर्वोऽतिवेगा- च्छेत्तुं मातस्तव विलसितं नैव विद्मोऽत्र भावम् ॥ 64॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,64,241,किं वा दैत्यैः समरविजितैस्तीर्थदेशे सुरम्ये घोरं तप्त्वा भगवति वरं लब्धवद्भिर्भवत्याः । अन्तर्धानं गमितमधुना विष्णुशीर्षं भवानि द्रष्टुं किं वा विगतशिरसं वासुदेवं विनोदः ॥ 65॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,65,242,सिन्धोः पुत्र्यां रोषिता किं त्वमाद्ये कस्मादेनां प्रेक्षसे नाथहीनाम् । क्षन्तव्यस्ते स्वांशजातापराधो व्युत्थाप्यैनं मोदिता मां कुरुष्व ॥ 66॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,66,243,एते सुरास्त्वां सततं नमन्ति कार्येषु मुख्याः प्रथितप्रभावाः । शोकार्णवात्तारय देवि देवा- नुत्थाप्य देवं सकलाधिनाथम् ॥ 67॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,67,244,मूर्धा गतः क्वाम्ब हरेर्न विद्मो नान्योऽस्त्युपायः खलु जीवनेऽद्य । यथा सुधा जीवनकर्मदक्षा तथा जगज्जीवितदासि देवि ॥ 68॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,68,245,सूत उवाच । एवं स्तुता तदा देवी गुणातीता महेश्वरी । प्रसन्ना परमा माया वेदैः साङ्गैश्च सामगैः ॥ 69॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,69,246,तानुवाच तदा वाणी चाकाशस्थाशरीरिणी । देवान्प्रति सुखैः शब्दैर्जनानन्दकरी शुभा ॥ 70॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,70,247,मा कुरुध्वं सुराश्चिन्तां स्वस्थास्तिष्ठन्तु चामराः । स्तुताहं निगमैः कामं सन्तुष्टास्मि न संशयः ॥ 71॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,71,248,यः पुमान्मानुषे लोके स्तौत्येतां मामकीं स्तुतिम् । पतिष्यति सदा भक्त्या सर्वान्कामानवाप्नुयात् ॥ 72॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,72,249,श‍ृणोति वा स्तोत्रमिदं मदीयं भक्त्या त्रिकालं सततं नरो यः । विमुक्तदुःखः स भवेत्सुखी च वेदोक्तमेतन्ननु वेदतुल्यम् ॥ 73॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,73,250,श‍ृण्वन्तु कारणं चाद्य यद्गतं वदनं हरेः । अकारणं कथं कार्यं संसारेऽत्र भविष्यति ॥ 74॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,74,251,उदधेस्तनयां विष्णुः संस्थितामन्तिके प्रियाम् । जहास वदनं वीक्ष्य तस्यास्तत्र मनोरमम् ॥ 75॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,75,252,तया ज्ञातं हरिर्नूनं कथं मां हसति प्रभुः । विरूपं हरिणा दृष्टं मुखं मे केन हेतुना ॥ 76॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,76,253,विनापि कारणेनाद्य कथं हास्यस्य सम्भवः । सपत्नीव कृता तेन मन्येऽन्या वरवर्णिनी ॥ 77॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,77,254,ततः कोपयुता जाता महालक्ष्मी तमोगुणा । तामसी तु तदा शक्तिस्तस्या देहे समाविशत् ॥ 78॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,78,255,केनचित्कालयोगेन देवकार्यार्थसिद्धये । प्रविष्टा तामसी शक्तिस्तस्या देहेऽतिदारुणा ॥ 79॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,79,256,तामस्याविष्टदेहा सा चुकोपातिशयं तदा । शनकैः समुवाचेदमिदं पततु ते शिरः ॥ 80॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,80,257,स्त्रीस्वभावाच्च भावित्वात्कालयोगाद्विनिर्गतः । अविचार्य तदा दत्तः शापः स्वसुखनाशनः ॥ 81॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,81,258,सपत्नीसम्भवं दुःखं वैधव्यादधिकं त्विति । विचिन्त्य मनसेत्युक्तं तामसीशक्तियोगतः ॥ 82॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,82,259,अनृतं साहसं माया मूर्खत्वमतिलोभता । अशौचं निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः ॥ 83॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,83,260,सशीर्षं वासुदेवं तं करोम्यद्य यथा पुरा । शिरोऽस्य शापयोगेन निमग्नं लवणाम्बुधौ ॥ 84॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,84,261,अन्यच्च कारणं किञ्चिद्वर्तते सुरसत्तमाः । भवतां च महत्कार्यं भविष्यति न संशयः ॥ 85॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,85,262,पुरा दैत्यो महाबाहुर्हयग्रीवोऽतिविश्रुतः । तपश्चक्रे सरस्वत्यास्तीरे परमदारुणम् ॥ 86॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,86,263,जपन्नेकाक्षरं मन्त्रं मायाबीजात्मकं मम । निराहारो जितात्मा च सर्वभोगविवर्जितः ॥ 87॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,87,264,ध्यायन्मां तामसीं शक्तिं सर्वभूषणभूषिताम् । एवं वर्षसहस्रं च तपश्चक्रेऽतिदारुणम् ॥ 88॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,88,265,तदाहं तामसं रूपं कृत्वा तत्र समागता । दर्शने पुरतस्तस्य ध्यातं तत्तेन यादृशम् ॥ 89॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,89,266,सिंहोपरि स्थिता तत्र तमवोचं दयान्विता । वरं ब्रूहि महाभाग ददामि तव सुव्रत ॥ 90॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,90,267,इति श्रुत्वा वचो देव्या दानवः प्रेमपूरितः । प्रदक्षिणां प्रणामं च चकार त्वरितस्तदा ॥ 91॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,91,268,दृष्ट्वा रूपं मदीयं स प्रेमोस्फुल्लविलोचनः । हर्षाश्रुपूर्णनयनस्तुष्टाव स च मां तदा ॥ 92॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,92,269,हयग्रीव उवाच । नमो देव्यै महामाये सृष्टिस्थित्यन्तकारिणि । भक्तानुग्रहचतुरे कामदे मोक्षदे शिवे ॥ 93॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,93,270,धराम्बुतेजःपवनखपञ्चानां च कारणम् । त्वं गन्धरसरूपाणां कारणं स्पर्शशब्दयोः ॥ 94॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,94,271,घ्राणं च रसना चक्षुस्त्वक्श्रोत्रमिन्द्रियाणि च । कर्मेन्द्रियाणि चान्यानि त्वत्तः सर्वं महेश्वरि ॥ 95॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,95,272,देव्युवाच । किं तेऽभीष्टं वरं ब्रूहि वाञ्छितं यद्ददामि तत् । परितुष्टास्मि भक्त्या ते तपसा चाद्भुतेन च ॥ 96॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,96,273,हयग्रीव उवाच । यथा मे मरणं मातर्न भवेत्तत्तथा कुरु । भवेयममरो योगी तथाजेयः सुरासुरैः ॥ 97॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,97,274,देव्युवाच । जातस्य हि ध्रुवं मृत्युर्ध्रुवं जन्म मृतस्य च । मर्यादा चेदृशी लोके भवेच्च कथमन्यथा ॥ 98॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,98,275,एवं त्वं निश्चयं कृत्वा मरणे राक्षसोत्तम । वरं वरय चेष्टं ते विचार्य मनसा किल ॥ 99॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,99,276,हयग्रीव उवाच । हयग्रीवाच्च मे मृत्युर्नान्यस्माज्जगदम्बिके । इति मे वाञ्छितं कामं पूरयस्व मनोगतम् ॥ 100॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,100,277,देव्युवाच । गृहं गच्छ महाभाग कुरु राज्यं यथासुखम् । हयग्रीवादृते मृत्युर्न ते नूनं भविष्यति ॥ 101॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,101,278,इति दत्त्वा वरं तस्मा अन्तर्धानं गता तथा । मुदं परमिकां प्राप्य सोऽपि स्वभवनं गतः ॥ 102॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,102,279,स पीडयति दुष्टात्मा मुनीन् वेदांश्च सर्वशः । न कोऽपि विद्यते तस्य हन्ताद्य भुवनत्रये ॥ 103॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,103,280,तस्माच्छीर्षं हयस्यास्य समुद्धृत्य मनोहरम् । देहेऽत्र विशिरोविष्णोस्त्वष्टा संयोजयिष्यति ॥ 104॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,104,281,हयग्रीवोऽथ भगवान्हनिष्यति तमासुरम् । पापिष्ठं दानवं क्रूरं देवानां हितकाम्यया ॥ 105॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,105,282,सूत उवाच । एवं सुरांस्तदाभाष्य शर्वाणी विरराम ह । देवास्तदातिसन्तुष्टास्तमूचुर्देवशिल्पिनम् ॥ 106॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,106,283,देवा ऊचुः । कुरु कार्यं सुराणां वै विष्णोः शीर्षाभियोजनम् । दानवप्रवरं दैत्यं हयग्रीवो हनिष्यति ॥ 107॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,107,284,सूत उवाच । इति श्रुत्वा वचस्तेषां त्वष्टा चातित्वरान्वितः । वाजिशीर्षं चकर्ताशु खड्गेन सुरसन्निधौ ॥ 108॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,108,285,विष्णोः शरीरे तेनाशु योजितं वाजिमस्तकम् । हयग्रीवो हरिर्जातो महामायाप्रसादतः ॥ 101॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,109,286,कियता तेन कालेन दानवो मददर्पितः । निहतस्तरसा सङ्ख्ये देवानां रिपुरोजसा ॥ 110॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,110,287,य इदं शुभमाख्यानं श‍ृण्वन्ति भुवि मानवाः । सर्वदुःखविनिर्मुक्तास्ते भवन्ति न संशयः ॥ 111॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,111,288,महामायाचरित्रञ्च पवित्रं पापनाशनम् । पठतां श‍ृण्वतां चैव सर्वसम्पत्तिकारकम् ॥ 112॥ 1,१.५,पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।,112,289,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे हयग्रीवावतारकथनं नाम पञ्चमोऽध्यायः ॥ १.५॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,0,290,ऋषय ऊचुः । सौम्य यच्च त्वया प्रोक्तं शौरेर्युद्धं महार्णवे । मधुकैटभयोः सार्धं पञ्चवर्षसहस्रकम् ॥ 1॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,1,291,कस्मात्तौ दानवौ जातौ तस्मिन्नेकार्णवे जले । महावीर्यो दुराधर्षौ देवैरपि सुदुर्जयौ ॥ 2॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,2,292,कथं तावसुरौ जातौ कथं च हरिणा हतौ । तदाचक्ष्व महाप्राज्ञ चरितं परमाद्भुतम् ॥ 3॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,3,293,श्रोतुकामा वयं सर्वे त्वं वक्ता च बहुश्रुतः । दैवाच्चात्रैव सञ्जातः संयोगश्च तथावयोः ॥ 4॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,4,294,मूर्खेण सह संयोगो विषादपि सुदुर्जरः । विज्ञेन सह संयोगः सुधारससमः स्मृतः ॥ 5॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,5,295,जीवन्ति पशवः सर्वे खादन्ति मेहयन्ति च । जानन्ति विषयाकारं व्यवायसुखमद्भुतम् ॥ 6॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,6,296,न तेषां सदसज्ज्ञानं विवेको न च मोक्षदः । पशुभिस्ते समा ज्ञेया येषां न श्रवणादरः ॥ 7॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,7,297,मृगाद्याः पशवः केचिज्जानन्ति श्रावणं सुखम् । अश्रोत्राः फणिनश्चैव मुमुहुर्नादपानतः ॥ 8॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,8,298,पञ्चानामिन्द्रियाणां वै शुभे श्रवणदर्शने । श्रवणाद्वस्तुविज्ञानं दर्शनाच्चित्तरञ्जनम् ॥ 9॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,9,299,श्रवणं त्रिविधं प्रोक्तं सात्त्विकं राजसं तथा । तामसं च महाभाग सुज्ञोक्तं निश्चयान्वितम् ॥ 10॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,10,300,सात्त्विकं वेदशास्त्रादि साहित्यं चैव राजसम् । तामसं युद्धवार्ता च परदोषप्रकाशनम् ॥ 11॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,11,301,सात्त्विकं त्रिविधं प्रोक्तं प्रज्ञावद्भिश्च पण्डितैः । उत्तमं मध्यमं चैव तथैवाधममित्युत ॥ 12॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,12,302,उत्तमं मोक्षफलदं स्वर्गदं मध्यमं तथा । अधमं भोगदं प्रोक्तं निर्णीय विदितं बुधैः ॥ 13॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,13,303,साहित्यं चैव त्रिविधं स्वीयायां चोत्तमं स्मृतम् । मध्यमं वारयोषायां परोढायां तथाधमम् ॥ 14॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,14,304,तामसं त्रिविधं ज्ञेयं विद्वद्भिः शास्त्रदर्शिभिः । आततायिनियुद्धं यत्तदुत्तममुदाहृतम् ॥ 15॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,15,305,मध्यमं चापि विद्वेषात्पाण्डवानां तथारिभिः । अधमं निर्निमित्तं तु विवादे कलहे तथा ॥ 16॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,16,306,तदत्र श्रवणं मुख्यं पुराणस्य महामते । बुद्धिप्रवर्धनं पुण्यं ततः पापप्रणाशनम् ॥ 17॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,17,307,तदाख्याहि महाबुद्धे कथां पौराणिकीं शुभाम् । श्रुतां द्वैपायनात्पूर्वं सर्वार्थस्य प्रसाधिनीम् ॥ 18॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,18,308,सूत उवाच । यूयं धन्या महाभागा धन्योऽहं पृथिवीतले । येषां श्रवणबुद्धिश्च ममापि कथने किल ॥ 19॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,19,309,पुरा चैकार्णवे जाते विलीने भुवनत्रये । शेषपर्यङ्कसुप्ते च देवदेवे जनार्दने ॥ 20॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,20,310,विष्णुकर्णमलोद्भूतौ दानवौ मधुकैटभौ । महाबलौ च तौ दैत्यौ विवृद्धौ सागरे जले ॥ 21॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,21,311,कीडमानौ स्थितौ तत्र विचरन्तावितस्ततः । तावेकदा महाकायौ क्रीडासक्तौ महार्णवे ॥ 22॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,22,312,चिन्तामवापतुश्चित्ते भ्रातराविव संस्थितौ । नाकारणं भवेत्कार्यं सर्वत्रैषा परम्परा ॥ 23॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,23,313,आधेयं तु विनाधारं न तिष्ठति कथञ्चन । आधाराधेयभावस्तु भाति नो चित्तगोचरः ॥ 24॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,24,314,क्व तिष्ठति जलं चेदं सुखरूपं सुविस्तरम् । केन सृष्टं कथं जातं मग्नावावाञ्जले स्थितौ ॥ 25॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,25,315,आवां वा कथमुत्पन्नौ केन वोत्पादितावुभौ । पितरौ क्वेति विज्ञानं नास्ति कामं तथावयोः ॥ 26॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,26,316,सूत उवाच । एवं कामयमानौ तौ जग्मतुर्न विनिश्चयम् । उवाच कैटभस्तत्र मधुं पार्श्वे स्थितं जले ॥ 27॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,27,317,कैटभ उवाच । मधो वामत्र सलिले स्थातुं शक्तिर्महाबला । वर्तते भ्रातरचला कारणं सा हि मे मता ॥ 28॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,28,318,तया ततमिदं तोयं तदाधारं च तिष्ठति । सा एव परमा देवी कारणञ्च तथावयोः ॥ 29॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,29,319,एवं विबुध्यमानौ तौ चिन्ताविष्टौ यदासुरौ । तदाकाशे श्रुतं ताभ्यां वाग्बीजं सुमनोहरम् ॥ 30॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,30,320,गृहीतं च ततस्ताभ्यां तस्याभ्यासो दृढः कृतः । तदा सौदामनी दृष्टा ताभ्यां खे चोत्थिता शुभा ॥ 31॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,31,321,ताभ्यां विचारितं तत्र मन्त्रोऽयं नात्र संशयः । तथा ध्यानमिदं दृष्टं गगने सगुणं किल ॥ 32॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,32,322,निराहारौ जितात्मानौ तन्मनस्कौ समाहितौ । बभूवतुर्विचिन्त्यैवं जपध्यानपरायणौ ॥ 33॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,33,323,एवं वर्षसहस्रं तु ताभ्यां तप्तं महत्तपः । प्रसन्ना परमा शक्तिर्जाता सा परमा तयोः ॥ 34॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,34,324,खिन्नौ तौ दानवौ दृष्ट्वा तपसे कृतनिश्चयौ । तयोरनुग्रहार्थाय वागुवाचाशरीरिणी ॥ 35॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,35,325,वरं वां वाञ्छितं दैत्यौ ब्रूतं परमसम्मतम् । ददामि परितुष्टास्मि युवयोस्तपसा किल ॥ 36॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,36,326,सूत उवाच । इति श्रुत्वा तु तां वाणीं दानवावूचतुस्तदा । स्वेच्छया मरणं देवि वरं नौ देहि सुव्रते ॥ 37॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,37,327,वागुवाच । वाञ्छितं मरणं दैत्यौ भवेद्वा मत्प्रसादतः । अजेयौ देवदैत्यैश्च भ्रातरौ नात्र संशयः ॥ 38॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,38,328,सूत उवाच । इति दत्तवरौ देव्या दानवौ मददर्पितौ । चक्रतुः सागरे क्रीडां यादोगणसमन्वितौ ॥ 39॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,39,329,कालेन कियता विप्रा दानवाभ्यां यदृच्छया । दृष्टः प्रजापतिर्ब्रह्मा पद्मासनगतः प्रभुः ॥ 40॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,40,330,दृष्ट्वा तु मुदितावास्तां युद्धकामौ महाबलौ । तमूचतुस्तदा तत्र युद्धं नौ देहि सुव्रत ॥ 41॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,41,331,नोचेत्पद्मं परित्यज्य यथेष्टं गच्छ माचिरम् । यदि त्वं निर्बलश्चासि क्व योग्यं शुभमासनम् ॥ 42॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,42,332,वीरभोग्यमिदं स्थानं कातरोऽसि त्यजाशु वै । तयोरिति वचः श्रुत्वा चिन्तामाप प्रजापतिः ॥ 43॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,43,333,दृष्ट्वा च बलिनौ वीरौ किं करोमीति तापसः । चिन्ताविष्टस्तदा तस्थौ चिन्तयन्मनसा तदा ॥ 44॥ 1,१.६,षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।,44,334,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे मधुकैटभयोर्युद्धोद्योगवर्णनं नाम षष्ठोऽध्यायः ॥ १.६॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,0,335,सूत उवाच । तौ वीक्ष्य बलिनौ ब्रह्मा तदोपायानचिन्तयत् । सामदानभिदादींश्च युद्धान्तान्सर्वतन्त्रवित् ॥ 1॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,1,336,न जानेऽहं बलं नूनमेतयोर्वा यथातथम् । अज्ञाते तु बले कामं नैव युद्धं प्रशस्यते ॥ 2॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,2,337,स्तुतिं करोमि चेदद्य दुष्टयोर्मदमत्तयोः । प्रकाशितं भवेन्नूनं निर्बलत्वं मया स्वयम् ॥ 3॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,3,338,वधिष्यति तदैकोऽपि निर्बलत्वे प्रकाशिते । दानं नैवाद्य योग्यं वा भेदः कार्यो मया कथम् ॥ 4॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,4,339,विष्णुं प्रबोधयाम्यद्य शेषे सुप्तं जनार्दनम् । चतुर्भुजं महावीर्यं दुःखहा स भविष्यति ॥ 5॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,5,340,इति सञ्चिन्त्य मनसा पद्मनालगतोऽब्जजः । जगाम शरणं विष्णुं मनसा दुःखनाशकम् ॥ 6॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,6,341,तुष्टाव बोधनार्थं तं शुभैः सम्बोधनैर्हरिम् । नारायणं जगन्नाथं निस्पन्दं योगनिद्रया ॥ 7॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,7,342,ब्रह्मोवाच । दीननाथ हरे विष्णो वामनोत्तिष्ठ माधव । भक्तार्तिहृद्धृषीकेश सर्वावास जगत्पते ॥ 8॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,8,343,अन्तर्यामिन्नमेयात्मन्वासुदेव जगत्पते । दुष्टारिनाशनैकाग्रचित्त चक्रगदाधर ॥ 9॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,9,344,सर्वज्ञ सर्वलोकेश सर्वशक्तिसमन्वित । उत्तिष्ठोत्तिष्ठ देवेश दुःखनाशन पाहि माम् ॥ 10॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,10,345,विश्वम्भर विशालाक्ष पुण्यश्रवणकीर्तन । जगद्योने निराकार सर्गस्थित्यन्तकारक ॥ 11॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,11,346,इमौ दैत्यौ महाराज हन्तुकामौ मदोद्धतौ । न जानास्यखिलाधार कथं मां सङ्कटे गतम् ॥ 12॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,12,347,उपेक्षसेऽतिदुःखार्तं यदि मां शरणं गतम् । पालकत्वं महाविष्णो निराधारं भवेत्ततः ॥ 13॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,13,348,एवं स्तुतोऽपि भगवान् न बुबोध यदा हरिः । योगनिद्रासमाक्रान्तस्तदा ब्रह्मा ह्यचिन्तयत् ॥ 14॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,14,349,नूनं शक्तिसमाक्रान्तो विष्णुर्निद्रावशं गतः । जजागार न धर्मात्मा किं करोम्यद्य दुःखितः ॥ 15॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,15,350,हन्तुकामावुभौ प्राप्तौ दानवौ मदगर्वितौ । किं करोमि क्व गच्छामि नास्ति मे शरणं क्वचित् ॥ 16॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,16,351,इति सञ्चिन्त्य मनसा निश्चयं प्रतिपद्य च । तुष्टाव योगनिद्रां तामेकाग्रहृदयस्थितः ॥ 17॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,17,352,विचार्य मनसाप्येवं शक्तिर्मे रक्षणे क्षमा । यया ह्यचेतनो विष्णुः कृतोऽस्ति स्पन्दवर्जितः ॥ 18॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,18,353,व्यसुर्यथा न जानाति गुणाच्छब्दादिकानिह । तथा हरिर्न जानाति निद्रामीलितलोचनः ॥ 19॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,19,354,न जहाति यतो निद्रां बहुधा संस्तुतोऽप्यसौ । मन्ये नास्य वशे निद्रा निद्रयायं वशीकृतः ॥ 20॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,20,355,यो यस्य वशमापन्तः स तस्य किङ्करः किल । तस्माच्च योगनिद्रेयं स्वामिनी मापतेर्हरेः ॥ 21॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,21,356,सिन्धुजाया अपि वशे यया स्वामी वशीकृतः । नूनं जगदिदं सर्वं भगवत्या वशीकृतम् ॥ 22॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,22,357,अहं विष्णुस्तथा शम्भुः सावित्री च रमाप्युमा । सर्वे वयं वशे यस्या नात्र किञ्चिद्विचारणा ॥ 23॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,23,358,हरिरप्यवशः शेते यथान्यः प्राकृतो जनः । ययाभिभूतः का वार्ता किलान्येषां महात्मनाम् ॥ 24॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,24,359,स्तौम्यद्य योगनिद्रां वै यया मुक्तो जनार्दनः । घटयिष्यति युद्धे च वासुदेवः सनातनः ॥ 25॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,25,360,इति कृत्वा मतिं ब्रह्मा पद्मनालस्थितस्तदा । तुष्टाव योगनिद्रां तां विष्णोरङ्गेषु संस्थिताम् ॥ 26॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,26,361,ब्रह्मोवाच । देवि त्वमस्य जगतः किल कारणं हि ज्ञातं मया सकलवेदवचोभिरम्ब । यद्विष्णुरप्यखिललोकविवेककर्ता निद्रावशं च गमितः पुरुषोत्तमोऽद्य ॥ 27॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,27,362,को वेद ते जननि मोहविलासलीलां मूढोऽस्म्यहं हरिरयं विवशश्च शेते । ईदृक्तया सकलभूतमनोनिवासे विद्वत्तमो विबुधकोटिषु निर्गुणायाः ॥ 28॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,28,363,साङ्ख्या वदन्ति पुरुषं प्रकृतिं च यां तां चैतन्यभावरहितां जगतश्च कर्त्रीम् । किं तादृशासि कथमत्र जगन्निवास- श्चैतन्यताविरहितो विहितस्त्वयाद्य ॥ 29॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,29,364,नाट्यं तनोषि सगुणा विविधप्रकारं नो वेत्ति कोऽपि तव कृत्यविधानयोगम् । ध्यायन्ति यां मुनिगणा नियतं त्रिकालं सन्ध्येति नाम परिकल्प्य गुणान् भवानि ॥ 30॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,30,365,बुद्धिर्हि बोधकरणा जगतां सदा त्वं श्रीश्चासि देवि सततं सुखदा सुराणाम् । कीर्तिस्तथा मतिधृती किल कान्तिरेव श्रद्धा रतिश्च सकलेषु जनेषु मातः ॥ 31॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,31,366,नातः परं किल वितर्कशतैः प्रमाणं प्राप्तं मया यदिह दुःखगतिं गतेन । त्वं चात्र सर्वजगतां जननीति सत्यं निद्रालुतां वितरता हरिणात्र दृष्टम् ॥ 32॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,32,367,त्वं देवि वेदविदुषामपि दुर्विभाव्या वेदोऽपि नूनमखिलार्थतया न वेद । यस्मात्त्वदुद्भवमसौ श्रुतिराप्नुवाना प्रत्यक्षमेव सकलं तव कार्यमेतत् ॥ 33॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,33,368,कस्ते चरित्रमखिलं भुवि वेद धीमा- न्नाहं हरिर्न च भवो न सुरास्तथान्ये । ज्ञातुं क्षमाश्च मुनयो न ममात्मजाश्च दुर्वाच्य एव महिमा तव सर्वलोके ॥ 34॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,34,369,यज्ञेषु देवि यदि नाम न ते वदन्ति स्वाहेति वेदविदुषो हवने कृतेऽपि । न प्राप्नुवन्ति सततं मखभागधेयं देवास्त्वमेव विबुधेष्वपि वृत्तिदासि ॥ 35॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,35,370,त्राता वयं भगवति प्रथमं त्वया वै देवारिसम्भवभयादधुना तथैव । भीतोऽस्मि देवि वरदे शरणं गतोऽस्मि घोरं निरीक्ष्य मधुना सह कैटभं च ॥ 36॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,36,371,नो वेत्ति विष्णुरधुना मम दुःखमेत- ज्जाने त्वयात्मविवशीकृतदेहयष्टिः । मुञ्चादिदेवमथवा जहि दानवेन्द्रौ यद्रोचते तव कुरुष्व महानुभावे ॥ 37॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,37,372,जानन्ति ये न तव देवि परं प्रभावं ध्यायन्ति ते हरिहरावपि मन्दचित्ताः । ज्ञातं मयाद्य जननि प्रकटं प्रमाणं यद्विष्णुरप्यतितरां विवशोऽथ शेते ॥ 38॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,38,373,सिन्धूद्भवापि न हरिं प्रतिबोधितुं वै शक्ता पतिं तव वशानुगमद्य शक्त्या । मन्ये त्वया भगवति प्रसभं रमापि प्रस्वापिता न बुबुधे विवशीकृतेव ॥ 39॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,39,374,धन्यास्त एव भुवि भक्तिपरास्तवाङ्घ्रौ त्यक्त्वान्यदेवभजनं त्वयि लीनभावाः । कुर्वन्ति देवि भजनं सकलं निकामं ज्ञात्वा समस्तजननीं किल कामधेनुम् ॥ 40॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,40,375,धीकान्तिकीर्तिशुभवृत्तिगुणादयस्ते विष्णोर्गुणास्तु परिहृत्य गताः क्व चाद्य । बन्दीकृतो हरिरसौ ननु निद्रयात्र शक्त्या तवैव भगवत्यतिमानवत्याः ॥ 41॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,41,376,त्वं शक्तिरेव जगतामखिलप्रभावा त्वन्निर्मितं च सकलं खलु भावमात्रम् । त्वं क्रीडसे निजविनिर्मितमोहजाले नाट्ये यथा विहरते स्वकृते नटो वै ॥ 42॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,42,377,विष्णुस्त्वया प्रकटितः प्रथमं युगादौ दत्ता च शक्तिरमला खलु पालनाय । त्रातं च सर्वमखिलं विवशीकृतोऽद्य यद्रोचते तव तथाम्ब करोषि नूनम् ॥ 43॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,43,378,सृष्ट्वात्र मां भगवति प्रविनाशितुं चे- न्नेच्छास्ति ते कुरु दयां परिहृत्य मौनम् । कस्मादिमौ प्रकटितौ किल कालरूपौ यद्वा भवानि हसितुं नु किमिच्छसे माम् ॥ 44॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,44,379,ज्ञातं मया तव विचेष्टितमद्भुतं वै कृत्वाखिलं जगदिदं रमसे स्वतन्त्रा । लीनं करोषि सकलं किल मां तथैव हन्तुं त्वमिच्छसि भवानि किमत्र चित्रम् ॥ 45॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,45,380,कामं कुरुष्व वधमद्य ममैव मात- र्दुःखं न मे मरणजं जगदम्बिकेऽत्र । कर्ता त्वयैव विहितः प्रथमं स चायं दैत्याहतोऽथ मृत इत्ययशो गरिष्ठम् ॥ 46॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,46,381,उत्तिष्ठ देवि कुरु रूपमिहाद्भुतं त्वं मां वा त्विमौ जहि यथेच्छसि बाललीले । नो चेत्प्रबोधय हरिं निहनेदिमौ य- स्त्वत्साध्यमेतदखिलं किल कार्यजातम् ॥ 47॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,47,382,सूत उवाच । एवं स्तुता तदा देवी तामसी तत्र वेधसा । निःसृत्य हरिदेहात्तु संस्थिता पार्श्वतस्तदा ॥ 48॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,48,383,त्यक्त्वाङ्गानि च सर्वाणि विष्णोरतुलतेजसः । निर्गता योगनिद्रा सा नाशाय च तयोस्तदा ॥ 49॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,49,384,विस्पन्दितशरीरोऽसौ यदा जातो जनार्दनः । धाता परमिकां प्राप्तो मुदं दृष्ट्वा हरिं ततः ॥ 50॥ 1,१.७,सप्तमोऽध्यायः । विष्णुप्रबोधः ।,50,385,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे विष्णुप्रबोधो नाम सप्तमोऽध्यायः ॥ १.७॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,0,386,ऋषय ऊचुः । सन्देहोऽत्र महाभाग कथायां तु महाद्भुतः । वेदशास्त्रपुराणैश्च निश्चितं तु सदा बुधैः ॥ 1॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,1,387,ब्रह्मा विष्णुश्च रुद्रश्च त्रयो देवाः सनातनाः । नातः परतरं किञ्चिद्ब्रह्माण्डेऽस्मिन्महामते ॥ 2॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,2,388,ब्रह्मा सृजति लोकान्वै विष्णुः पात्यखिलं जगत् । रुद्रः संहरते काले त्रय एतेऽत्र कारणम् ॥ 3॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,3,389,एका मूर्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः । रजःसत्त्वतमोभिश्च संयुताः कार्यकारकाः ॥ 4॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,4,390,तेषां मध्ये हरिः श्रेष्ठो माधवः पुरुषोत्तमः । आदिदेवो जगन्नाथः समर्थः सर्वकर्मसु ॥ 5॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,5,391,नान्यः कोऽपि समर्थोऽस्ति विष्णोरतुलतेजसः । स कथं स्वापितः स्वामी विवशो योगमायया ॥ 6॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,6,392,क्व गतं तस्य विज्ञानं जीवतश्चेष्टितं कुतः । सन्देहोऽयं महाभाग कथयस्व यथाशुभम् ॥ 7॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,7,393,का सा शक्तिः पुरा प्रोक्ता यया विष्णुजितः प्रभुः । कुतो जाता कथं शक्ता का शक्तिर्वद सुव्रत ॥ 8॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,8,394,यस्तु सर्वेश्वरो विष्णुर्वासुदेवो जगद्गुरुः । परमात्मा परानन्दः सच्चिदानन्दविग्रहः ॥ 9॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,9,395,सर्वकृत्सर्वभृत्स्रष्टा विरजः सर्वगः शुचिः । स कथं निद्रया नीतः परतन्त्रः परात्परः ॥ 10॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,10,396,एतदाश्चर्यभूतो हि सन्देहो नः परन्तप । छिन्धि ज्ञानासिना सूत व्यासशिष्य महामते ॥ 11॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,11,397,सूत उवाच । कः सन्देहं भिनत्त्येनं त्रैलोक्ये सचराचरे । मुह्यन्ति मुनयः कामं ब्रह्मपुत्राः सनातनाः ॥ 12॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,12,398,नारदः कपिलश्चैव प्रश्नेऽस्मिन्मुनिसत्तमाः । किं ब्रवीमि महाभागा दुर्घटेऽस्मिन्विमर्शने ॥ 13॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,13,399,देवेषु विष्णुः कथितः सर्वगः सर्वपालकः । यतो विराडिदं सर्वमुत्पन्नं सचराचरम् ॥ 14॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,14,400,ते सर्वे समुपासन्ते नत्वा देवं परात्परम् । नारायणं हृषीकेशं वासुदेवं जनार्दनम् ॥ 15॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,15,401,तथा केचिन्महादेवं शङ्करं शशिशेखरम् । त्रिनेत्रं पञ्चवक्त्रं च शूलपाणिं वृषध्वजम् ॥ 16॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,16,402,तथा वेदेषु सर्वेषु गीतं नाम्ना त्रियम्बकम् । कपर्दिनं पञ्चवक्त्रं गौरीदेहार्धधारिणम् ॥ 17॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,17,403,कैलासवासनिरतं सर्वशक्तिसमन्वितम् । भूतवृन्दयुतं देवं दक्षयज्ञविघातकम् ॥ 18॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,18,404,तथा सूर्यं वेदविदः सायम्प्रातर्दिने दिने । मध्याह्ने तु महाभागाः स्तुवन्ति विविधैः स्तवैः ॥ 19॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,19,405,तथा वेदेषु सर्वेषु सूर्योपासनमुत्तमम् । परमात्मेति विख्यातं नाम तस्य महात्मनः ॥ 20॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,20,406,अग्निः सर्वत्र वेदेषु संस्तुतो वेदवित्तमैः । इन्द्रश्चापि त्रिलोकेशो वरुणश्च तथापरः ॥ 21॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,21,407,यथा गङ्गा प्रवाहैश्च बहुभिः परिवर्तते । तथैव सर्वदेवेषु विष्णुः प्रोक्तो महर्षिभिः ॥ 22॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,22,408,त्रीण्येव हि प्रमाणानि पठितानि सुपण्डितैः । प्रत्यक्षं चानुमानं च शाब्दं चैव तृतीयकम् ॥ 23॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,23,409,चत्वार्येवेतरे प्राहुरुपमानयुतानि च । अर्थापत्तियुतान्यन्ये पञ्च प्राहुर्महाधियः ॥ 24॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,24,410,सप्त पौराणिकाश्चैव प्रवदन्ति मनीषिणः । एतैः प्रमाणैर्दुर्ज्ञेयं यद्ब्रह्म परमं च तत् ॥ 25॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,25,411,वितर्कश्चात्र कर्तव्यो बुद्ध्या चैवागमेन च । निश्चयात्मिकया युक्त्या विचार्य च पुनः पुनः ॥ 26॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,26,412,प्रत्यक्षतस्तु विज्ञानं चिन्त्यं मतिमता सदा । दृष्टान्तेनापि सततं शिष्टमार्गानुसारिणा ॥ 27॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,27,413,विद्वांसोऽपि वदन्त्येवं पुराणैः परिगीयते । द्रुहिणे सृष्टिशक्तिश्च हरौ पालनशक्तिता ॥ 28॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,28,414,हरे संहारशक्तिश्च सूर्ये शक्तिः प्रकाशिका । धराधरणशक्तिश्च शेषे कूर्मे तथैव च ॥ 29॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,29,415,साद्या शक्तिः परिणता सर्वस्मिन्या प्रतिष्ठिता । दाहशक्तिस्तथा वह्नौ समीरे प्रेरणात्मिका ॥ 30॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,30,416,शिवोऽपि शवतां याति कुण्डलिन्या विवर्जितः । शक्तिहीनस्तु यः कश्चिदसमर्थः स्मृतो बुधैः ॥ 31॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,31,417,एवं सर्वत्र भूतेषु स्थावरेषु चरेषु च । ब्रह्मादिस्तम्बपर्यन्तं ब्रह्माण्डेऽस्मिन्महातपाः ॥ 32॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,32,418,शक्तिहीनं तु निन्द्यं स्याद्वस्तुमात्रं चराचरम् । अशक्तः शत्रुविजये गमने भोजने तथा ॥ 33॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,33,419,एवं सर्वगता शक्तिः सा ब्रह्मेति विविच्यते । सोपास्या विविधैः सम्यग्विचार्या सुधिया सदा ॥ 34॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,34,420,विष्णौ च सात्त्विकी शक्तिस्तया हीनोऽप्यकर्मकृत् । द्रुहिणे राजसी शक्तिर्यया हीनो ह्यसृष्टिकृत् ॥ 35॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,35,421,शिवे च तामसी शक्तिस्तया संहारकारकः । इत्यूह्यं मनसा सर्वं विचार्य च पुनः पुनः ॥ 36॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,36,422,शक्तिः करोति ब्रह्माण्डं सा वै पालयतेऽखिलम् । इच्छया संहरत्येषा जगदेतच्चराचरम् ॥ 37॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,37,423,न विष्णुर्न हरः शक्रो न ब्रह्मा न च पावकः । न सूर्यो वरुणः शक्तः स्वे स्वे कार्ये कथञ्चन ॥ 38॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,38,424,तया युक्ता हि कुर्वन्ति स्वानि कार्याणि ते सुराः । सैव कारणकार्येषु प्रत्यक्षेणावगम्यते ॥ 39॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,39,425,सगुणा निर्गुणा सा तु द्विधा प्रोक्ता मनीषिभिः । सगुणा रागिभिः सेव्या निर्गुणा तु विरागिभिः ॥ 40॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,40,426,धर्मार्थकाममोक्षाणां स्वामिनी सा निराकुला । ददाति वाच्छितान्कामान्पूजिता विधिपूर्वकम् ॥ 41॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,41,427,न जानन्ति जना मूढास्तां सदा माययावृताः । जानन्तोऽपि नराः केचिन्मोहयन्ति परानपि ॥ 42॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,42,428,पण्डिताः स्वोदरार्थं वै पाखण्डानि पूथक्पृथक् । प्रवर्तयन्ति कलिना प्रेरिता मन्दचेतसः ॥ 43॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,43,429,कलावस्मिन्महाभागा नानाभेदसमुत्थिताः । नान्ये युगे तथा धर्मा वेदबाह्याः कथञ्चन ॥ 44॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,44,430,विष्णुश्चरत्यसावुग्र तपो वर्षाण्यनेकशः । ब्रह्मा हरस्त्रयो देवा ध्यायन्तः कमपि धुवम् ॥ 45॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,45,431,कामयानाः सदा कामं ते त्रयः सर्वदैव हि । यजन्ति यज्ञान्विविधान्ब्रह्मविष्णुमहेश्वराः ॥ 46॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,46,432,ते वै शक्तिं परां देवीं ब्रह्माख्यां परमात्मिकाम् । ध्यायन्ति मनसा नित्यं नित्यां मत्वा सनातनीम् ॥ 47॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,47,433,तस्माच्छक्तिः सदा सेव्या विद्वद्भिः कृतनिश्चयैः । निश्चयः सर्वशास्त्राणां ज्ञातव्यो मुनिसत्तमाः ॥ 48॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,48,434,कृष्णाच्छ्रुतं मया चैतत्तेन ज्ञातं तु नारदात् । पितुः सकाशात्तेनापि ब्रह्मणा विष्णुवाक्यतः ॥ 49॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,49,435,न श्रोतव्यं न मन्तव्यमन्येषां वचनं बुधैः । शक्तिरेव सदा सेव्या विद्वद्भिः कृतनिश्चयैः ॥ 50॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,50,436,प्रत्यक्षमपि द्रष्टव्यमशक्तस्य विचेष्टितम् । अतः सर्वेषु भूतेषु ज्ञातव्या शक्तिरेव हि ॥ 51॥ 1,१.८,अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।,51,437,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे आराध्यनिर्णयवर्णनं नामाष्टमोऽध्यायः ॥ १.८॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,0,438,सूत उवाच । यदा विनिर्गता निद्रा देहात्तस्य जगद्गुरोः । नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः ॥ 1॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,1,439,निःसृत्य गगने तस्थौ तामसी शक्तिरुत्तमा । उदतिष्ठज्जगन्नाथो जृम्भमाणः पुनः पुनः ॥ 2॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,2,440,तदापश्यत् स्थितं तत्र भयत्रस्तं प्रजापतिम् । उवाच च महातेजा मेघगम्भीरया गिरा ॥ 3॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,3,441,विष्णुरुवाच । किमागतोऽसि भगवंस्तपस्त्यक्त्वात्र पद्मज । कस्माच्चिन्तातुरोऽसि त्वं भयाकुलितमानसः ॥ 4॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,4,442,ब्रह्मोवाच । त्वत्कर्णमलजौ देव दैत्यौ च मधुकैटभौ । हन्तुं मां समुपायातौ घोररूपौ महाबलौ ॥ 5॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,5,443,भयात्तयोः समायातस्त्वत्समीपं जगत्पते । त्राहि मां वासुदेवाद्य भयत्रस्तं विचेतनम् ॥ 6॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,6,444,विष्णुरुवाच । तिष्ठाद्य निर्भयो जातस्तौ हनिष्याम्यहं किल । युद्धायाजग्मतुर्मूढौ मत्समीपं गतायुषौ ॥ 7॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,7,445,सूत उवाच । एवं वदति देवेशे दानवौ तौ महाबलौ । विचिन्वानावजं चोभौ सम्प्राप्तौ मदगर्वितौ ॥ 8॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,8,446,निराधारौ जले तत्र संस्थितौ विगतज्वरौ । तावूचतुर्मदोन्मत्तौ ब्रह्माणं मुनिसत्तमाः ॥ 9॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,9,447,पलायित्वा समायातः सन्निधावस्य किं ततः । युद्धं कुरु हनिष्यावः पश्यतोऽस्यैव सन्निधौ ॥ 10॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,10,448,पश्चादेनं हनिष्यावः सर्पभोगोपरिस्थितम् । त्वमद्य कुरु सङ्ग्रामं दासोऽस्मीति च वा वद ॥ 11॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,11,449,सूत उवाच । तच्छ्रुत्वा वचनं विष्णुस्तावुवाच जनार्दनः । कुरुतं समरं कामं मया दानवपुङ्गवौ ॥ 12॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,12,450,हरिष्यामि मदं चाहं युवयोर्मत्तयोः किल । आगच्छतं महाभागौ श्रद्धा चेद्वां महाबलौ ॥ 13॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,13,451,सूत उवाच । श्रुत्वा तद्वचनं चोभौ क्रोधव्याकुललोचनौ । निराधारौ जलस्थौ च युद्धोद्युक्तौ बभूवतुः ॥ 14॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,14,452,मधुश्च कुपितस्तत्र हरिणा सह संयुगम् । कर्तुं प्रचलितस्तूर्णं कैटभस्तु तथा स्थितः ॥ 15॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,15,453,बाहुयुद्धं तयोरासीन्मल्लयोरिव मत्तयोः । श्रान्ते मधौ कैटभस्तु सङ्ग्राममकरोत्तदा ॥ 16॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,16,454,पुनर्मधुः कैटभश्च युयुधाते पुनः पुनः । बाहुयुद्धेन रागान्धौ विष्णुना प्रभविष्णुना ॥ 17॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,17,455,प्रेक्षकस्तु तदा ब्रह्मा देवी चैवान्तरिक्षगा । न मम्लतुस्तदा तौ तु विष्णुस्तु ग्लानिमाप्तवान् ॥ 18॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,18,456,पञ्चवर्षसहस्राणि यदा जातानि युद्ध्यता । हरिणा चिन्तितं तत्र कारणं मरणे तयोः ॥ 19॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,19,457,पञ्चवर्षसहस्राणि मया युद्धं कृतं किल । न श्रान्तौ दानवौ घोरौ श्रान्तोऽहं चैतदद्भुतम् ॥ 20॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,20,458,क्व गतं मे बलं शौर्यं कस्माच्चेमावनामयौ । किमत्र कारणं चिन्त्यं विचार्य मनसा त्विह ॥ 21॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,21,459,इति चिन्तापरं दृष्ट्वा हरिं हर्षपरावुभौ । ऊचतुस्तौ मदोन्मत्तौ मेघमम्भीरनिःस्वनौ ॥ 22॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,22,460,तव नोचेद्बलं विष्णो यदि श्रान्तोऽसि युद्धतः । ब्रूहि दासोऽस्मि वां नूनं कृत्वा शिरसि चाञ्जलिम् ॥ 23॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,23,461,न चेद्युद्धं कुरुष्वाद्य समर्थोऽसि महामते । हत्वा त्वां निहनिष्यावः पुरुषं च चतुर्मुखम् ॥ 24॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,24,462,सूत उवाच । श्रुत्वा तद्भाषितं विष्णुस्तयोस्तस्मिन्महोदधौ । उवाच वचनं श्लक्ष्णं सामपूर्वं महामनाः ॥ 25॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,25,463,हरिरुवाच । श्रान्ते भीते त्यक्तशस्त्रे पतिते बालके तथा । प्रहरन्ति न वीरास्ते धर्म एष सनातनः ॥ 26॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,26,464,पञ्चवर्षसहस्राणि कृतं युद्धं मया त्विह । एकोऽहं भ्रातरौ वां च बलिनौ सदृशौ तथा ॥ 27॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,27,465,कृतं विश्रमणं मध्ये युवाभ्यां च पुनः पुनः । तथा विश्रमणं कृत्वा युध्येऽहं नात्र संशयः ॥ 28॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,28,466,तिष्ठतं हि युवां तावद्बलवन्तौ मदोत्कटौ । विश्रम्याहं करिष्यामि युद्धं वा न्यायमार्गतः ॥ 29॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,29,467,सूत उवाच । इति श्रुत्वा वचस्तस्य विश्रब्धौ दानवोत्तमौ । संस्थितौ दूरतस्तत्र सङ्ग्रामे कृतनिश्चयौ ॥ 30॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,30,468,अतिदूरे च तौ दृष्ट्वा वासुदेवश्चतुर्भुजः । दध्यौ च मनसा तत्र कारणं मरणे तयोः ॥ 31॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,31,469,चिन्तनाज्ज्ञानमुत्पन्नं देवीदत्तवरावुभौ । कामं वाञ्छितमरणौ न मम्लतुरतस्त्विमौ ॥ 32॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,32,470,वृथा मया कृतं युद्धं श्रमोऽयं मे वृथा गतः । करोमि च कथं युद्धमेवं ज्ञात्वा विनिश्चयम् ॥ 33॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,33,471,अकृते च तथा युद्धे कथमेतौ गमिष्यतः । विनाशं दुःखदौ नित्यं दानवौ वरदर्पितौ ॥ 34॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,34,472,भगवत्या वरो दत्तस्तया सोऽपि च दुर्घटः । मरणं चेच्छया कामं दुःखितोऽपि न वाञ्छति ॥ 35॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,35,473,रोगग्रस्तोऽपि दीनोऽपि न मुमूर्षति कश्चन । कथं चेमौ मदोन्मत्तौ मर्तुकामौ भविष्यतः ॥ 36॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,36,474,नन्वद्य शरणं यामि विद्यां शक्तिं सुकामदाम् । विना तया न सिध्यन्ति कामाः सम्यक्प्रसन्नया ॥ 37॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,37,475,एवं सञ्चिन्त्यमानस्तु गगने संस्थितां शिवाम् । अपश्यद्भगवान्विष्णुर्योगनिद्रां मनोहराम् ॥ 38॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,38,476,कृताज्जलिरमेयात्मा तां च तुष्टाव योगवित् । विनाशार्थं तयोस्तत्र वरदां भुवनेश्वरीम् ॥ 39॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,39,477,विष्णुरुवाच । नमो देवि महामाये सृष्टिसंहारकारिणि । अनादिनिधने चण्डि भुक्तिमुक्तिप्रदे शिवे ॥ 40॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,40,478,न ते रूपं विजानामि सगुणं निर्गुणं तथा । चरित्राणि कुतो देवि सङ्ख्यातीतानि यानि ते ॥ 41॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,41,479,अनुभूतो मया तेऽद्य प्रभावश्चातिदुर्घटः । यदहं निद्रया लीनः सञ्जातोऽस्मि विचेतनः ॥ 42॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,42,480,ब्रह्मणा चातियत्नेन बोधितोऽपि पुनः पुनः । न प्रबुद्धः सर्वथाहं सङ्कोचितषडिन्द्रियः ॥ 43॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,43,481,अचेतनत्वं सम्प्राप्तः प्रभावात्तव चाम्बिके । त्वया मुक्तः प्रबुद्धोऽहं युद्धं च बहुधा कृतम् ॥ 44॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,44,482,श्रान्तोऽहं न च तौ श्रान्तौ त्वया दत्तवरौ वरौ । ब्रह्माणं हन्तुमायातौ दानवौ मदगर्वितौ ॥ 45॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,45,483,आहूतौ च मया कामं द्वन्द्वयुद्धाय मानदे । कृतं युद्धं महाघोरं मया ताभ्यां महार्णवे ॥ 46॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,46,484,मरणे वरदानं ते ततो ज्ञातं महाद्भुतम् । ज्ञात्वाहं शरणं प्राप्तस्त्वामद्य शरणप्रदाम् ॥ 47॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,47,485,साहाय्यं कुरु मे मातः खिन्नोऽहं युद्धकर्मणा । दृप्तौ तौ वरदानेन तव देवार्तिनाशने ॥ 48॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,48,486,हन्तुं मामुद्यतौ पापौ किं करोमि क्व यामि च । इत्युक्ता सा तदा देवी स्मितपूर्वमुवाच ह ॥ 49॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,49,487,प्रणमन्तं जगन्नाथं वासुदेवं सनातनम् । देवदेव हरे विष्णो कुरु युद्धं पुनः स्वयम् ॥ 50॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,50,488,वञ्चयित्वा त्विमौ शूरौ हन्तव्यौ च विमोहितौ । मोहयिष्याम्यहं नूनं दानवौ वक्रया दृशा ॥ 51॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,51,489,जहि नारायणाशु त्वं मम मायाविमोहितौ । सूत उवाच । तच्छ्रुत्वा वचनं विष्णुस्तस्याः प्रीतिरसान्वितम् ॥ 52॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,52,490,सङ्ग्रामस्थलमासाद्य तस्थौ तत्र महार्णवे । तदायातौ च तौ वीरौ युद्धकामौ महाबलौ ॥ 53॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,53,491,वीक्ष्य विष्णुं स्थितं तत्र हर्षयुक्तौ बभूवतुः । तिष्ठ तिष्ठ महाकाम कुरु युद्धं चतुर्भुज ॥ 54॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,54,492,दैवाधीनौ विदित्वाद्य नूनं जयपराजयौ । सबलो जयमाप्नोति दैवाज्जयति दुर्बलः ॥ 55॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,55,493,सर्वथैव न कर्तव्यौ हर्षशोकौ महात्मना । पुरा वै बहवो दैत्या जिता दानववैरिणा ॥ 56॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,56,494,अधुना चावयोः सार्धं युध्यमानः पराजितः । सूत उवाच । इत्युक्त्वा तौ महाबाहू युद्धाय समुपस्थितौ ॥ 57॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,57,495,वीक्ष्य विष्णुर्जघानाशु मुष्टिनाद्भुतकर्मणा । तावप्यतिबलोन्मत्तौ जध्नतुर्मुष्टिना हरिम् ॥ 58॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,58,496,एवं परस्परं जातं युद्धं परमदारुणम् । युध्यमानौ महावीर्यौ दृष्ट्वा नारायणस्तदा ॥ 59॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,59,497,अपश्यत्सम्मुखं देव्याः कृत्वा दीनां दृशं हरिः । सूत उवाच । तं वीक्ष्य तादृशं विष्णुं करुणारससंयुतम् ॥ 60॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,60,498,जहासातीव ताम्राक्षी वीक्षमाणा तदासुरौ । तौ जघान कटाक्षैश्च कामबाणैरिवापरैः ॥ 61॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,61,499,मन्दस्मितयुतैः कामं प्रेमभावयुतैरनु । दृष्ट्वा मुमुहतुः पापौ देव्या वक्रविलोकनम् ॥ 62॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,62,500,विशेषमिति मन्वानौ कामबाणातिपीडितौ । वीक्षमाणौ स्थितौ तत्र तां देवीं विशदप्रभाम् ॥ 63॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,63,501,हरिणापि च तद्दृष्टं देव्यास्तत्र चिकीर्षितम् । मोहितौ तौ परिज्ञाय भगवान्कार्यवित्तमः ॥ 64॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,64,502,उवाच तौ हसन् श्लक्ष्णं मेघगम्भीरया गिरा । वरं वरयतां वीरौ युवयोर्योऽभिवाच्छितः ॥ 65॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,65,503,ददामि परमप्रीतो युद्धेन युवयोः किल । दानवा बहवो दृष्टा युध्यमाना मया पुरा ॥ 66॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,66,504,युवयोः सदृशः कोऽपि न दृष्टो न च वै श्रुतः । तस्मात्तुष्टोऽस्मि कामं वै निस्तुलेन बलेन च ॥ 67॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,67,505,भ्रात्रोश्च वाञ्छितं कामं प्रयच्छामि महाबलौ । सूत उवाच । तच्छ्रुत्वा वचनं विष्णोः साभिमानौ स्मरातुरौ ॥ 68॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,68,506,वीक्षमाणौ महामायां जगदानन्दकारिणीम् । तमूचतुश्च कामार्तौ विष्णुं कमललोचनौ ॥ 69॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,69,507,हरे न याचकावावां त्वं किं दातुमिहेच्छसि । ददाव तुल्यं देवेश दातारौ नौ न याचकौ ॥ 70॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,70,508,प्रार्थय त्वं हृषीकेश मनोऽभिलषितं वरम् । तुष्टौ स्वस्तव युद्धेन वासुदेवाद्भुतेन च ॥ 71॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,71,509,तयोस्तद्वचनं श्रुत्वा प्रत्युवाच जनार्दनः । भवेतामद्य मे तुष्टौ मम वध्यावुभावपि ॥ 72॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,72,510,सूत उवाच । तच्छ्रुत्वा वचनं विष्णोर्दानवौ चातिविस्मितौ । वञ्चिताविति मन्वानौ तस्थतुः शोकसंयुतौ ॥ 73॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,73,511,विचार्य मनसा तौ तु दानवौ विष्णुमूचतुः । प्रेक्ष्य सर्वं जलमयं भूमिं स्थलविवर्जिताम् ॥ 74॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,74,512,हरे योऽयं वरो दत्तस्त्वया पूर्वं जनार्दन । सत्यवागसि देवेश देहि तं वाञ्छितं वरम् ॥ 75॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,75,513,निर्जले विपुले देशे हनस्व मधुसूदन । वध्यावावां तु भवतः सत्यवाग्भव माधव ॥ 76॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,76,514,स्मृत्वा चक्रं तदा विष्णुस्तावुवाच हसन्हरिः । हन्म्यद्य वां महाभागौ निर्जले विपुले स्थले ॥ 77॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,77,515,इत्युक्त्या देवदेवेश ऊरू कृत्वातिविस्तरौ । दर्शयामास तौ तत्र निर्जलं च जलोपरि ॥ 78॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,78,516,नास्त्यत्र दानवौ वारि शिरसी मुञ्चतामिह । सत्यवागहमद्यैव भविष्यामि च वां तथा ॥ 79॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,79,517,तदाकर्ण्य वचस्तथ्यं विचिन्त्य मनसा च तौ । वर्धयामासतुर्देहं योजनानां सहस्रकम् ॥ 80॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,80,518,भगवान्द्विगुणं चक्रे जघनं विस्मितौ तदा । शीर्षे सन्दधतां तत्र जघने परमाद्भुते ॥ 81॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,81,519,रथाङ्गेन तदा छिन्ने विष्णुना प्रभविष्णुना । जघनोपरि वेगेन प्रकृष्टे शिरसी तयोः ॥ 82॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,82,520,गतप्राणौ तदा जातौ दानवौ मधुकैटभौ । सागरः सकलो व्याप्तस्तदा वै मेदसा तयोः ॥ 83॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,83,521,मेदिनीति ततो जातं नाम पृथ्व्याः समन्ततः । अभक्ष्या मृत्तिका तेन कारणेन मुनीश्वराः ॥ 84॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,84,522,इति वः कथितं सर्वं यत्पृष्टोऽस्मि सुनिश्चितम् । महाविद्या महामाया सेवनीया सदा बुधैः ॥ 85॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,85,523,आराध्या परमा शक्तिः सर्वैरपि सुरासुरैः । नातः परतरं किञ्चिदधिकं भुवनत्रये ॥ 86॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,86,524,सत्यं सत्यं पुनः सत्यं वेदशास्त्रार्थनिर्णयः । पूजनीया परा शक्तिर्निर्गुणा सगुणाथवा ॥ 87॥ 1,१.९,नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।,87,525,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे हरिकृतमधुकैटभवधवर्णनं नाम नवमोऽध्यायः ॥ १.९॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,0,526,ऋषय ऊचुः । सूत पूर्वं त्वया प्रोक्तं व्यासेनामिततेजसा । कृत्वा पुराणमखिलं शुकायाध्यापितं शुभम् ॥ 1॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,1,527,व्यासेन तु तपस्तप्त्वा कथमुत्पादितः शुकः । विस्तरं ब्रूहि सकलं यच्छ्रुतं कृष्णतस्त्वया ॥ 2॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,2,528,सूत उवाच । प्रवक्ष्यामि शुकोत्पत्तिं व्यासात्सत्यवतीसुतात् । यथोत्पन्नः शुकः साक्षाद्योगिनां प्रवरो मुनिः ॥ 3॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,3,529,मेरुश‍ृङ्गे महारम्ये व्यासः सत्यवतीसुतः । तपश्चचार सोऽत्युग्रं पुत्रार्थं कृतनिश्चयः ॥ 4॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,4,530,जपन्नेकाक्षरं मन्त्रं वाग्बीजं नारदाच्छ्रुतम् । ध्यायन्परां महामायां पुत्रकामस्तपोनिधिः ॥ 5॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,5,531,अग्नेर्भूमेस्तथा वायोरन्तरिक्षस्य चाप्ययम् । वीर्येण सम्मितः पुत्रो मम भूयादिति स्म ह ॥ 6॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,6,532,अतिष्ठत्स गताहारः शतसंवत्सरं प्रभुः । आराधयन्महादेवं तथैव च सदाशिवाम् ॥ 7॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,7,533,शक्तिः सर्वत्र पूज्येति विचार्य च पुनः पुनः । अशक्तो निन्द्यते लोके शक्तस्तु परिपूज्यते ॥ 8॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,8,534,यत्र पर्वतश‍ृङ्गे वै कर्णिकारवनाद्भुते । क्रीडन्ति देवताः सर्वे मुनयश्च तपोऽधिकाः ॥ 9॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,9,535,आदित्या वसवो रुद्रा मरुतश्चाश्विनौ तथा । वसन्ति मुनयो यत्र ये चान्ये ब्रह्मवित्तमाः ॥ 10॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,10,536,तत्र हेमगिरेः श‍ृङ्गे सङ्गीतध्वनिनादिते । तपश्चचार धर्मात्मा व्यासः सत्यवतीसुतः ॥ 11॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,11,537,ततोऽस्य तेजसा व्याप्तं विश्वं सर्वं चराचरम् । अग्निवर्णा जटा जाता पाराशर्यस्य धीमतः ॥ 12॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,12,538,ततोऽस्य तेज आलक्ष्य भयमाप शचीपतिः । तुरासाहं तदा दृष्ट्वा भयत्रस्तं श्रमातुरम् ॥ 13॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,13,539,उवाच भगवान् रुद्रो मघवन्तं तथास्थितम् । शङ्कर उवाच । कथमिन्द्राद्य भीतोऽसि किं दुःखं ते सुरेश्वर ॥ 14॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,14,540,अमर्षो नैव कर्तव्यस्तापसेषु कदाचन । तपश्चरन्ति मुनयो ज्ञात्वा मां शक्तिसंयुतम् ॥ 15॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,15,541,न त्वेतेऽहितमिच्छन्ति तापसाः सर्वथैव हि । इत्युक्तवचनः शक्रस्तमुवाच वृषध्वजम् ॥ 16॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,16,542,कस्मात्तपस्यति व्यासः कोऽर्थस्तस्य मनोगतः । शिव उवाच । पाराशर्यस्तु पुत्रार्थी तपश्चरति दुश्चरम् ॥ 17॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,17,543,पूर्णवर्षशतं जातं ददाम्यद्य सुतं शुभम् । सूत उवाच । इत्युक्त्या वासवं रुद्रो दयया मुदिताननः ॥ 18॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,18,544,गत्वा ऋषिसमीपं तु तमुवाच जगद्गुरुः । उत्तिष्ठ वासवीपुत्र पुत्रस्ते भविता शुभः ॥ 19॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,19,545,सर्वतेजोमयो ज्ञानी कीर्तिकर्ता तवानघ । अखिलस्य जनस्यात्र वल्लभस्ते सुतः सदा ॥ 20॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,20,546,भविष्यति गुणैः पूर्णः सात्त्विकैः सत्यविक्रमः । सूत उवाच । तदाकर्ण्य वचः श्लक्ष्णं कृष्णद्वैपायनस्तदा ॥ 21॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,21,547,शूलपाणिं नमस्कृत्य जगामाश्रममात्मनः । स गत्वाश्रममेवाशु बहुवर्षश्रमातुरः ॥ 22॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,22,548,अरणीसहितं गुह्यं ममन्थाग्निं चिकीर्षया । मन्थनं कुर्वतस्तस्य चित्ते चिन्ताभरस्तदा ॥ 23॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,23,549,प्रादुर्बभूव सहसा सुतोत्पत्तौ महात्मनः । मन्थानारणिसंयोगान्मन्थनाच्च समुद्भवः ॥ 24॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,24,550,पावकस्य यथा तद्वत्कथं मे स्यात्सुतोद्भवः । पुत्रारणिस्तु या ख्याता सा ममाद्य न विद्यते ॥ 25॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,25,551,तरुणी रूपसम्पन्ना कुलोत्पन्ता पतिव्रता । कथं करोमि कान्तां च पादयोः श‍ृङ्खलासमाम् ॥ 26॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,26,552,पुत्रोत्पादनदक्षां च पातिव्रत्ये सदा स्थिताम् । पतिव्रतापि दक्षापि रूपवत्यपि कामिनी ॥ 27॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,27,553,सदा बन्धनरूपा च स्वेच्छासुखविधायिनी । शिवोऽपि वर्तते नित्यं कामिनीपाशसंयुतः ॥ 28॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,28,554,कथं करोम्यहं चात्र दुर्घटं च गृहाश्रमम् । एवं चिन्तयतस्तस्य घृताची दिव्यरूपिणी ॥ 29॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,29,555,प्राप्ता दृष्टिपथं तत्र समीपे गगने स्थिता । तां दृष्ट्वा चञ्चलापाङ्गीं समीपस्थां वराप्सराम् ॥ 30॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,30,556,पञ्चबाणपरीताङ्गस्तूर्णमासीद्धृतव्रतः । चिन्तयामास च तदा किं करोम्यद्य सङ्कटे ॥ 31॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,31,557,धर्मस्य पुरतः प्राप्ते कामभावे दुरासदे । अङ्गीकरोमि यद्येनां वञ्चनार्थमिहागताम् ॥ 32॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,32,558,हसिष्यन्ति महात्मानस्तापसा मां तु विह्वलम् । तपस्तप्त्वा महाघोरं पूर्णवर्षशतं त्विह ॥ 33॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,33,559,दृष्ट्वाप्सरां च विवशः कथं जातो महातपाः । कामं निन्दापि भवतु यदि स्यादतुलं सुखम् ॥ 34॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,34,560,गहस्थाश्रमसम्भूतं सुखदं पुत्रकामदम् । स्वर्गदं च तथा प्रोक्तं ज्ञानिनां मोक्षदं तथा ॥ 35॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,35,561,न भविष्यति तन्नूनमया देवकन्यया । नारदाच्च मया पूर्वं श्रुतमस्ति कथानकम् । यथोर्वशीवशो राजा पराभूतः पुरूरवाः ॥ 36॥ 1,१.१०,दशमोऽध्यायः । शिववरदानवर्णनम् ।,36,562,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे शिववरदानवर्णनं नाम दशमोऽध्यायः ॥ १.१०॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,0,563,ऋषय ऊचुः । कोऽसौ पुरूरवा राजा कोर्वशी देवकन्यका । कथं कष्टं च सम्प्राप्तं तेन राज्ञा महात्मना ॥ 1॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,1,564,सर्वं कथानकं ब्रूहि लोमहर्षणजाधुना । श्रोतुकामा वयं सर्वे त्वन्मुखाब्जच्युतं रसम् ॥ 2॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,2,565,अमृतादपि मिष्टा ते वाणी सूत रसात्मिका । न तृप्यामो वयं सर्वे सुधया च यथामराः ॥ 3॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,3,566,सूत उवाच । श‍ृणुध्वं मुनयः सर्वे कथां दिव्यां मनोरमाम् । वक्ष्याम्यहं यथाबुद्ध्या श्रुतां व्यासवरोत्तमात् ॥ 4॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,4,567,गुरोस्तु दयिता भार्या तारा नामेति विश्रुता । रूपयौवनयुक्ता सा चार्वङ्गी मदविह्वला ॥ 5॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,5,568,गतैकदा विधोर्धाम यजमानस्य भामिनी । दृष्टा च शशिनात्यर्थं रूपयौवनशालिनी ॥ 6॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,6,569,कामातुरस्तदा जातः शशी शशिमुखीं प्रति । सापि वीक्ष्य विधुं कामं जाता मदनपीडिता ॥ 7॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,7,570,तावन्योन्यं प्रेमयुक्तौ स्मरार्तौ च बभूवतुः । तारा शशी मदोन्मत्तौ कामबाणप्रपीडितौ ॥ 8॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,8,571,रेमाते मदमत्तौ तौ परस्परस्पृहान्वितौ । दिनानि कतिचित्तत्र जातानि रममाणयोः ॥ 9॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,9,572,बृहस्पतिस्तु दुःखार्तस्तारामानयितुं गृहम् । प्रेषयामास शिष्यं तु नायाता सा वशीकृता ॥ 10॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,10,573,पुनः पुनर्यदा शिष्यं परावर्तत चन्द्रमाः । बृहस्पतिस्तदा क्रुद्धो जगाम स्वयमेव हि ॥ 11॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,11,574,गत्वा सोमगृहं तत्र वाचस्पतिरुदारधीः । उवाच शशिनं क्रुद्धः स्मयमानं मदान्वितम् ॥ 12॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,12,575,किं कृतं किल शीतांशो कर्म धर्मविगर्हितम् । रक्षिता मम भार्येयं सुन्दरी केन हेतुना ॥ 13॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,13,576,तव देव गुरुश्चाहं यजमानोऽसि सर्वथा । गुरुभार्या कथं मूढ भुक्ता किं रक्षिताथवा ॥ 14॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,14,577,ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः । महापातकिनो ह्येते तत्संसर्गी च पञ्चमः ॥ 15॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,15,578,महापातकयुक्तस्त्वं दुराचारोऽतिगर्हितः । न देवसदनार्होऽसि यदि भुक्तेयमङ्गना ॥ 16॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,16,579,मुञ्चेमामसितापाङ्गीं नयामि सदनं मम । नोचेद्वक्ष्यामि दुष्टात्मन् गुरुदारापहारिणम् ॥ 17॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,17,580,इत्येवं भाषमाणं तमुवाच रोहिणीपतिः । गुरुं क्रोधसमायुक्तं कान्ताविरहदुःखितम् ॥ 18॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,18,581,इन्दुरुवाच । क्रोधात्ते तु दुराराध्या ब्राह्मणाः क्रोधवर्जिताः । पूजार्हा धर्मशास्त्रज्ञा वर्जनीयास्ततोऽन्यथा ॥ 19॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,19,582,आगमिष्यति सा कामं गृहं ते वरवर्णिनी । अत्रैव संस्थिता बाला का ते हानिरिहानघ ॥ 20॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,20,583,इच्छया संस्थिता चात्र सुखकामार्थिनी हि सा । दिनानि कतिचित्स्थित्वा स्वेच्छया चागमिष्यति ॥ 21॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,21,584,त्वयैवोदाहृतं पूर्वं धर्मशास्त्रमतं तथा । न स्त्री दुष्यति चारेण न विप्रो वेदकर्मणा ॥ 22॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,22,585,इत्युक्तः शशिना तत्र गुरुरत्यन्तदुःखितः । जगाम स्वगृहं तूर्णं चिन्ताविष्टः स्मरातुरः ॥ 23॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,23,586,दिनानि कतिचित्तत्र स्थित्वा चिन्तातुरो गुरुः । ययावथ गृहं तस्य त्वरितश्चौषधीपतेः ॥ 24॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,24,587,स्थितः क्षत्रा निषिद्धोऽसौ द्वारदेशे रुषान्वितः । नाजगाम शशी तत्र चुकोपाति बृहस्पतिः ॥ 25॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,25,588,अयं मे शिष्यतां यातो गुरुपत्नीं तु मातरम् । जग्राह बलतोऽधर्मी शिक्षणीयो मयाधुना ॥ 26॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,26,589,उवाच वाचं कोपात्तु द्वारदेशस्थितो बहिः । किं शेषे भवने मन्द पापाचार सुराधम ॥ 27॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,27,590,देहि मे कामिनीं शीघ्रं नोचेच्छापं ददाम्यहम् । करोमि भस्मसान्नूनं न ददासि प्रियां मम ॥ 28॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,28,591,सूत उवाच । क्रूराणि चैवमादीनि भाषणानि बृहस्पतेः । श्रुत्वा द्विजपतिः शीघ्रं निर्गतः सदनाद्बहिः ॥ 29॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,29,592,तमुवाच हसन्सोमः किमिदं बहु भाषसे । न ते योग्यासितापाङ्गी सर्वलक्षणसंयुता ॥ 30॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,30,593,कुरूपां च स्वसदृशीं गृहाणान्यां स्त्रियं द्विज । भिक्षुकस्य गृहे योग्या नेदृशी वरवर्णिनी ॥ 31॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,31,594,रतिः स्वसदृशे कान्ते नार्याः किल निगद्यते । त्वं न जानासि मन्दात्मन् कामशास्त्रविनिर्णयम् ॥ 32॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,32,595,यथेष्टं गच्छ दुर्बुद्धे नाहं दास्यामि कामिनीम् । यच्छक्यं कुरु तत्कामं न देया वरवर्णिनी ॥ 33॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,33,596,कामार्तस्य च ते शापो न मां बाधितुमर्हति । नाहं ददे गुरो कान्तां यथेच्छसि तथा कुरु ॥ 34॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,34,597,सूत उवाच । इत्युक्तः शशिना चेज्यश्चिन्तामाप रुषान्वितः । जगाम तरसा सद्म क्रोधयुक्तः शचीपतेः ॥ 35॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,35,598,दृष्ट्वा शतक्रतुस्तत्र गुरुं दुःखातुरं स्थितम् । पाद्यार्घ्याचमनीयाद्यैः पूजयित्वा सुसंस्थितः ॥ 36॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,36,599,पप्रच्छ परमोदारस्तं तथावस्थितं गुरुम् । का चिन्ता ते महाभाग शोकार्तोऽसि महामुने ॥ 37॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,37,600,केनापमानितोऽसि त्वं मम राज्ये गुरुश्च मे । त्वदधीनमिदं सर्वं सैन्यं लोकाधिपैः सह ॥ 38॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,38,601,बह्मा विष्णुस्तथा शम्भुर्ये चान्ये देवसत्तमाः । करिष्यन्ति च साहाय्यं का चिन्ता वद साम्प्रतम् ॥ 39॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,39,602,गुरुरुवाच । शशिनापहृता भार्या तारा मम सुलोचना । न ददाति स दुष्टात्मा प्रार्थितोऽपि पुनः पुनः ॥ 40॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,40,603,किं करोमि सुरेशान त्वमेव शरणं मम । साहाय्यं कुरु देवेश दुःखितोऽस्मि शतक्रतो ॥ 41॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,41,604,इन्द्र उवाच । मा शोकं कुरु धर्मज्ञ दासोऽस्मि तव सुव्रत । आनयिष्याम्यहं नूनं भार्यां तव महामते ॥ 42॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,42,605,प्रेषिते चेन्मया दूते न दास्यति मदाकुलः । ततो युद्धं करिष्यामि देवसैन्यैः समावृतः ॥ 43॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,43,606,इत्याश्वास्य गुरुं शक्रो दूतं वक्तृविचक्षणम् । प्रेषयामास सोमाय वार्ताशंसिनमद्भुतम् ॥ 44॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,44,607,स गत्वा शशिलोकं तु त्वरितः सुविचक्षणः । उवाच वचनेनैव वचनं रोहिणीपतिम् ॥ 45॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,45,608,प्रेषितोऽहं महाभाग शक्रेण त्वां विवक्षया । कथितं प्रभुणा यच्च तद्ब्रवीमि महामते ॥ 46॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,46,609,धर्मज्ञोऽसि महाभाग नीतिं जानासि सुव्रत । अत्रिः पिता ते धर्मात्मा न निद्यं कर्तुमर्हसि ॥ 47॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,47,610,भार्या रक्ष्या सर्वभूतैर्यथाशक्ति ह्यतन्द्रितैः । तदर्थे कलहः कामं भविता नात्र संशयः ॥ 48॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,48,611,यथा तव तथा तस्य यत्नः स्याद्दाररक्षणे । आत्मवत्सर्वभूतानि चिन्तय त्वं सुधानिधे ॥ 49॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,49,612,अष्टाविंशतिसङ्ख्यास्ते कामिन्यो दक्षजाः शुभाः । गुरुपत्नीं कथं भोक्तुं त्वमिच्छसि सुधानिधे ॥ 50॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,50,613,स्वर्गे सदा वसन्त्येता मेनकाद्या मनोरमाः । भुङ्क्ष्व ताः स्वेच्छया कामं मुञ्च पत्नीं गुरोरपि ॥ 51॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,51,614,ईश्वरा यदि कुर्वन्ति जुगुप्सितमहन्तया । अज्ञास्तदनुवर्तन्ते तदा धर्मक्षयो भवेत् ॥ 52॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,52,615,तस्मान्मुञ्च महाभाग गुरोः पत्नीं मनोरमाम् । कलहस्त्वन्निमित्तोऽद्य सुराणां न भवेद्यथा ॥ 53॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,53,616,सूत उवाच । सोमः शक्रवचः श्रुत्वा किञ्चित्क्रोधसमाकुलः । भङ्ग्या प्रतिवचः प्राह शक्रदूतं तदा शशी ॥ 54॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,54,617,इन्दुरावाच । धर्मज्ञोऽसि महाबाहो देवानामधिपः स्वयम् । पुरोधापि च ते तादृग्युवयोः सदृशी मतिः ॥ 55॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,55,618,परोपदेशे कुशला भवन्ति बहवो जनाः । दुर्लभस्तु स्वयं कर्ता प्राप्ते कर्मणि सर्वदा ॥ 56॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,56,619,बार्हस्पत्यप्रणीतं च शास्त्रं गृह्णन्ति मानवाः । को विरोधोऽत्र देवेश कामयानां भजन्स्त्रियम् ॥ 57॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,57,620,स्वकीयं बलिनां सर्वं दुर्बलानां न किञ्चन । स्वीया च परकीया च भ्रमोऽयं मन्दचेतसाम् ॥ 58॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,58,621,तारा मय्यनुरक्ता च यथा न तु तथा गुरौ । अनुरक्ता कथं त्याज्या धर्मतो न्यायतस्तथा ॥ 59॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,59,622,गृहारम्भस्तु रक्तायां विरक्तायां कथं भवेत् । विरक्तेयं यदा जाता चकमेऽनुजकामिनीम् ॥ 60॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,60,623,न दास्येऽहं वरारोहां गच्छ दूत वद स्वयम् । ईश्वरोऽसि सहस्राक्ष यदिच्छसि कुरुष्व तत् ॥ 61॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,61,624,सूत उवाच । इत्युक्तः शशिना दूतः प्रययौ शक्रसन्निधिम् । इन्द्रायाचष्ट तत्सर्वं यदुक्तं शीतरश्मिना ॥ 62॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,62,625,तुराषाडपि तच्छ्रुत्वा क्रोधयुक्तो बभूव ह । सेनोद्योगं तथा चक्रे साहाय्यार्थं गुरोर्विभुः ॥ 63॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,63,626,शुक्रस्तु विग्रहं श्रुत्वा गुरुद्वेषात्ततो ययौ । मा ददस्वेति तं वाक्यमुवाच शशिनं प्रति ॥ 64॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,64,627,साहाय्यं ते करिष्यामि मन्त्रशक्त्या महामते । भविता यदि सङ्ग्रामस्तव चेन्द्रेण मारिष ॥ 65॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,65,628,शङ्करस्तु तदाकर्ण्य गुरुदाराभिमर्शनम् । गुरुशत्रुं भृगुं मत्वा साहाय्यमकरोत्तदा ॥ 66॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,66,629,सङ्ग्रामस्तु तदा वृत्तो देवदानवयोर्द्रुतम् । बहूनि तत्र वर्षाणि तारकासुरवत्किल ॥ 67॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,67,630,देवासुरकृतं युद्धं दृष्ट्वा तत्र पितामहः । हंसारूढो जगामाशु तं देशं क्लेशशान्तये ॥ 68॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,68,631,राकापतिं तदा प्राह मुञ्च भार्यां गुरोरिति । नोचेद्विष्णुं समाहूय करिष्यामि तु सङ्क्षयम् ॥ 69॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,69,632,भृगुं निवारयामास ब्रह्मा लोकपितामहः । किमन्यायमतिर्जाता सङ्गदोषान्महामते ॥ 70॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,70,633,निषेधयामास ततो भृगुस्तं चौषधीपतिम् । मुञ्च भार्यां गुरोरद्य पित्राहं प्रेषितस्तव ॥ 71॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,71,634,सूत उवाच । द्विजराजस्तु तच्छ्रुत्वा भृगोर्वचनमद्भुतम् । ददौ च तत्प्रियां भार्यां गुरोर्गर्भवतीं शुभाम् ॥ 72॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,72,635,प्राप्य कान्तां गुरुर्हृष्टः स्वगृहं मुदितो ययौ । ततो देवास्ततो दैत्या ययुः स्वान्स्वान्गृहान्प्रति ॥ 73॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,73,636,ब्रह्मा स्वसदनं प्राप्तः कैलासं चापि शङ्करः । बृहस्पतिस्तु सन्तुष्टः प्राप्य भार्यां मनोरमाम् ॥ 74॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,74,637,ततः कालेन कियता तारासूत सुतं शुभम् । सुदिने शुभनक्षत्रे तारापतिसमं गुणैः ॥ 75॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,75,638,दृष्ट्वा पुत्रं गुरुर्जातं चकार विधिपूर्वकम् । जातकर्मादिकं सर्वं प्रहृष्टेनान्तरात्मना ॥ 76॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,76,639,श्रुतं चन्द्रमसा जन्म पुत्रस्य मुनिसत्तमाः । दूतं च प्रेषयामास गुरुं प्रति महामतिः ॥ 77॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,77,640,न चायं तव पुत्रोऽस्ति मम वीर्यसमुद्भवः । कथं त्वं कृतवान्कामं जातकर्मादिकं विधिम् ॥ 78॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,78,641,तच्छ्रुत्वा वचनं तस्य दूतस्य च बृहस्पतिः । उवाच मम पुत्रो मे सदृशो नात्र संशयः ॥ 79॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,79,642,पुनर्विवादः सञ्जातो मिलिता देवदानवाः । युद्धार्थमागतास्तेषां समाजः समजायत ॥ 80॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,80,643,तत्रागतः स्वयं ब्रह्मा शान्तिकामः प्रजापतिः । निवारयामास मुखे संस्थितान्युद्धदुर्मदान् ॥ 81॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,81,644,तारां पप्रच्छ धर्मात्मा कस्यायं तनयः शुभे । सत्यं वद वरारोहे यथा क्लेशः प्रशाम्यति ॥ 82॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,82,645,तमुवाचासितापाङ्गी लज्जमानाप्यधोमुखी । चन्द्रस्येति शनैरन्तर्जगाम वरवर्णिनी ॥ 83॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,83,646,जग्राह तं सुतं सोमः प्रहृष्टेनान्तरात्मना । नाम चक्रे बुध इति जगाम स्वगृहं पुनः ॥ 84॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,84,647,ययौ ब्रह्मा स्वकं धाम सर्वे देवाः सवासवाः । यथागतं गतं सर्वैः सर्वशः प्रेक्षकैर्जनैः ॥ 85॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,85,648,कथितेयं बुधोत्पत्तिर्गुरुक्षेत्रे च सोमतः । यथा श्रुता मया पूर्वं व्यासात्सत्यवतीसुतात् ॥ 86॥ 1,१.११,एकादशोऽध्यायः । बुधोत्पत्तिः ।,86,649,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे बुधोत्पत्तिर्नामेकादशोऽध्यायः ॥ १.११॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,0,650,सूत उवाच । ततः पुरूरवा जज्ञे इलायां कथयामि वः । बुधपुत्रोऽतिधर्मात्मा यज्ञकृद्दानतत्परः ॥ 1॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,1,651,सुद्युम्नो नाम भूपालः सत्यवादी जितेन्द्रियः । सैन्धवं हयमारुह्य चचार मृगयां वने ॥ 2॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,2,652,युतः कतिपयामात्यैर्दर्शितश्चारुकुण्डलः । धनुराजगवं बद्ध्वा बाणसङ्घं तथाद्भुतम् ॥ 3॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,3,653,स भ्रमंस्तद्वनोद्देशे हन्यमानो रुरून्मृगान् । शशांश्च सूकरांश्चैव खड्गांश्च गवयांस्तथा ॥ 4॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,4,654,शरभान्महिषांश्चैव साम्भरान्वनकुक्कुटान् । निघ्नन्मेध्यान् पशून् राजा कुमारवनमाविशत् ॥ 5॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,5,655,मेरोरधस्तले दिव्यं मन्दारद्रुमराजितम् । अशोकलतिकाकीर्णं बकुलैरधिवासितम् ॥ 6॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,6,656,सालैस्तालैस्तमालैश्च चम्पकैः पनसैस्तथा । आम्रैर्नीपैर्मधूकैश्च माधवीमण्डपावृतम् ॥ 7॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,7,657,दाडिमैर्नारिकेलैश्च कदलीखण्डमण्डितम् । यूथिकामालतीकुन्दपुष्पवल्लीसमावृतम् ॥ 8॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,8,658,हंसकारण्डवाकीर्णं कीचकध्वनिनादितम् । भ्रमरालिरुतारामं वनं सर्वसुखावहम् ॥ 9॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,9,659,दृष्ट्वा प्रमुदितो राजा सुद्युम्नः सेवकैर्वृतः । वृक्षान्सुपुष्पितान्वीक्ष्य कोकिलारावमण्डितान् ॥ 10॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,10,660,प्रविष्टस्तत्र राजर्षिः स्त्रीत्वमाप क्षणात्ततः । अश्वोऽपि वडवा जातश्चिन्ताविष्टः स भूपतिः ॥ 11॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,11,661,किमेतदिति चिन्तार्तश्चिन्त्यमानः पुनः पुनः । दुःखं बहुतरं प्राप्तः सुद्युम्नो लज्जयान्वितः ॥ 12॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,12,662,किं करोमि कथं यामि गृहं स्त्रीभावसंयुतः । कथं राज्यं करिष्यामि केन वा वञ्चितो ह्यहम् ॥ 13॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,13,663,ऋषय ऊचुः । सूताश्चर्यमिदं प्रोक्तं त्वया यल्लोमहर्षण । सुद्युम्नः स्त्रीत्वमापन्नो भूपतिर्देवसन्निभः ॥ 14॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,14,664,किं तत्कारणमाचक्ष्व वने तत्र मनोहरे । किं कृतं तेन राज्ञा च विस्तरं वद सुव्रत ॥ 15॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,15,665,सूत उवाच । एकदा गिरिशं द्रष्टुमृषयः सनकादयः । दिशो वितिमिराभासाः कुर्वन्तः समुपागमन् ॥ 16॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,16,666,तस्मिंश्च समये तत्र शङ्करः प्रमदायुतः । क्रीडासक्तो महादेवो विवस्त्रा कामिनी शिवा ॥ 17॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,17,667,उत्सङ्गे संस्थिता भर्तू रममाणा मनोरमा । तान्विलोक्याम्बिका देवी विवस्त्रा व्रीडिता भृशम् ॥ 18॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,18,668,भर्तुरङ्कात्समुत्थाय वस्त्रमादाय पर्यधात् । लज्जाविष्टा स्थिता तत्र वेपमानातिमानिनी ॥ 19॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,19,669,ऋषयोऽपि तयोर्वीक्ष्य प्रसङ्गं रममाणयोः । परिवृत्य ययुस्तूर्णं नरनारायणाश्रमम् ॥ 20॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,20,670,ह्रीयुतां कामिनीं वीक्ष्य प्रोवाच भगवान्हरः । कथं लज्जातुरासि त्वं सुखं ते प्रकरोम्यहम् ॥ 21॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,21,671,अद्यप्रभृति यो मोहात्पुमान्कोऽपि वरानने । वनं च प्रविशेदेतत्स वै योषिद्भविष्यति ॥ 22॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,22,672,इति शप्तं वनं तेन ये जानन्ति जनाः क्वचित् । वर्जयन्तीह ते कामं वनं दोषसमृद्धिमत् ॥ 23॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,23,673,सुद्युम्नस्तु तदज्ञानात्प्रविष्टः सचिवैः सह । तथैव स्त्रीत्वमापन्नस्तैः सहेति न संशयः ॥ 24॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,24,674,चिन्ताविष्टः स राजर्षिर्न जगाम गृहं ह्रिया । विचचार बहिस्तस्माद्वनदेशादितस्ततः ॥ 25॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,25,675,इलेति नाम सम्प्राप्तं स्त्रीत्वे तेन महात्मना । विचरंस्तत्र सम्प्राप्तो बुधः सोमसुतो युवा ॥ 26॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,26,676,स्त्रीभिः परिवृतां तां तु दृष्ट्वा कान्तां मनोरमाम् । हावभावकलायुक्तां चकमे भगवाम्बुधः ॥ 27॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,27,677,सापि तं चकमे कान्तं बुधं सोमसुतं पतिम् । संयोगस्तत्र सञ्जातस्तयोः प्रेम्णा परस्परम् ॥ 28॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,28,678,स तस्यां जनयामास पुरूरवसमात्मजम् । इलायां सोमपुत्रस्तु चक्रवर्तिनमुत्तमम् ॥ 29॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,29,679,सा प्रासूत सुतं बाला चिन्ताविष्टा वने स्थिता । सस्मार स्वकुलाचार्यं वसिष्ठं मुनिसत्तमम् ॥ 30॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,30,680,स तदास्य दशां दृष्ट्वा सुद्युम्नस्य कृपान्वितः । अतोषयन्महादेवं शङ्करं लोकशङ्करम् ॥ 31॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,31,681,तस्मै स भगवांस्तुष्टः प्रददौ वाञ्छितं वरम् । वसिष्ठः प्रार्थयामास पुंस्त्वं राज्ञः प्रियस्य च ॥ 32॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,32,682,शङ्करस्तु निजां वाचमृतां कुर्वन्नुवाच ह । मासं पुमांस्तु भविता मासं स्त्री भूपतिः किल ॥ 33॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,33,683,इत्थं प्राप्य वरं राजा जगाम स्वगृहं पुनः । चक्रे राज्यं स धर्मात्मा वसिष्ठस्याप्यनुग्रहात् ॥ 34॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,34,684,स्त्रीत्वे तिष्ठति हर्म्येषु पुंस्त्वे राज्यं प्रशास्ति च । प्रजास्तस्मिन्समुद्विग्ना नाभ्यनन्दन्महीपतिम् ॥ 35॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,35,685,काले तु यौवनं प्राप्तः पुत्रः पुरूरवास्तदा । प्रतिष्ठां नृपतिस्तस्मै दत्त्वा राज्यं वनं ययौ ॥ 36॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,36,686,गत्वा तस्मिन्वने रम्ये नानाद्रुमसमाकुले । नारदान्मन्त्रमासाद्य नवाक्षरमनुत्तमम् ॥ 37॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,37,687,जजाप मन्त्रमत्यर्थं प्रेमपूरितमानसः । परितुष्टा तदा देवी सगुणा तारिणी शिवा ॥ 38॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,38,688,सिंहारूढा स्थिता चाग्रे दिव्यरूपा मनोरमा । वारुणीपानसम्मत्ता मदाघूर्णितलोचना ॥ 39॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,39,689,दृष्ट्वा तां दिव्यरूपां च प्रेमाकुलितलोचनः । प्रणम्य शिरसा प्रीत्या तुष्टाव जगदम्बिकाम् ॥ 40॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,40,690,इलोवाच । दिव्यं च ते भगवति प्रथितं स्वरूपं दृष्टं मया सकललोकहितानुरूपम् । वन्दे त्वदङ्घ्रिकमलं सुरसङ्घसेव्यं कामप्रदं जननि चापि विमुक्तिदं च ॥ 41॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,41,691,को वेत्ति तेऽम्ब भुवि मर्त्यतनुर्निकामं मुह्यन्ति यत्र मुनयश्च सुराश्च सर्वे । ऐश्वर्यमेतदखिलं कृपणे दयां च दृष्ट्वैव देवि सकलं किल विस्मयो मे ॥ 42॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,42,692,शम्भुर्हरिः कमलजो मघवा रविश्च वित्तेशवह्निवरुणाः पवनश्च सोमः । जानन्ति नैव वसवोऽपि हि ते प्रभावं बुध्येत्कथं तव गुणानगुणो मनुष्यः ॥ 43॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,43,693,जानाति विष्णुरमितद्युतिरम्ब साक्षा- त्त्वां सात्त्विकीमुदधिजां सकलार्थदां च । को राजसीं हर उमां किल तामसीं त्वां वेदाम्बिके न तु पुनः खलु निर्गुणां त्वाम् ॥ 44॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,44,694,क्वाहं सुमन्दमतिरप्रतिमप्रभावः क्वायं तवातिनिपुणो मयि सुप्रसादः । जाने भवानि चरितं करुणासमेतं यत्सेवकांश्च दयसे त्वयि भावयुक्तान् ॥ 45॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,45,695,वृत्तस्त्वया हरिरसौ वनजेशयापि नैवाचरत्यपि मुदं मधुसूदनश्च । पादौ तवादिपुरुषः किल पावकेन कृत्वा करोति च करेण शुभौ पवित्रौ ॥ 46॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,46,696,वाञ्छत्यहो हरिरशोक इवातिकामं पादाहतिं प्रमुदितः पुरुषः पुराणः । तां त्वं करोषि रुषिता प्रणतं च पादे दृष्ट्वा पतिं सकलदेवनुतं स्मरार्तम् ॥ 47॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,47,697,वक्षःस्थले वससि देवि सदैव तस्य पर्यङ्कवत्सुचरिते विपुलेऽतिशान्ते । सौदामिनीव सुघने सुविभूषिते च किं ते न वाहनमसौ जगदीश्वरोऽपि ॥ 48॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,48,698,त्वं चेज्जहासि मधुसूदनमम्ब कोपा- न्नैवार्चितोऽपि स भवेत्किल शक्तिहीनः । प्रत्यक्षमेव पुरुषं स्वजनास्त्वजन्ति शान्तं श्रियोज्झितमतीव गुणैर्वियुक्तम् ॥ 49॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,49,699,ब्रह्मादयः सुरगणा न तु किं युवत्यो ये त्वत्पदाम्बुजमहर्निशमाश्रयन्ति । मन्ये त्वयैव विहिताः खलु ते पुमांसः किं वर्णयामि तव शक्तिमनन्तवीर्ये ॥ 50॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,50,700,त्वं नापुमान्न च पुमानिति मे विकल्पो याकासि देवि सगुणा ननु निर्गुणा वा । तां त्वां नमामि सततं किल भावयुक्तो वाञ्छामि भक्तिमचलां त्वयि मातरं तु ॥ 51॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,51,701,सूत उवाच । इति स्तुत्वा महीपालो जगाम शरणं तदा । परितुष्टा ददौ देवी तत्र सायुज्यमात्मनि ॥ 52॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,52,702,सुद्युम्नस्तु ततः प्राप पदं परमकं स्थिरम् । तस्या देव्याः प्रसादेन मुनीनामपि दुर्लभम् ॥ 53॥ 1,१.१२,द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।,53,703,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे सुद्युम्नस्तुतिर्नाम द्वादशोऽध्यायः ॥ १.१२॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,0,704,सूत उवाच । सुद्युने तु दिवं याते राज्यं चक्रे पुरूरवाः । सगुणश्च सुरूपश्च प्रजारञ्जनतत्परः ॥ 1॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,1,705,प्रतिष्ठाने पुरे रम्ये राज्यं सर्वनमस्कृतम् । चकार सर्वधर्मज्ञः प्रजारक्षणतत्परः ॥ 2॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,2,706,मन्त्रः सुगुप्तस्तस्यासीत्परत्राभिज्ञता तथा । सदैवोत्साहशक्तिश्च प्रभुशक्तिस्तथोत्तमा ॥ 3॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,3,707,सामदानादयः सर्वे वशगास्तस्य भूपतेः । वर्णाश्रमान्स्वधर्मस्थान्कुर्वन् राज्यं शशास ह ॥ 4॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,4,708,यज्ञांश्च विविधांश्चक्रे स राजा बहुदक्षिणान् । दानानि च पवित्राणि ददावथ नराधिपः ॥ 5॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,5,709,तस्य रूपगुणौदार्यशीलद्रविणविक्रमान् । श्रुत्वोर्वशी वशीभूता चकमे तं नराधिपम् ॥ 6॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,6,710,ब्रह्मशापाभितप्ता सा मानुषं लोकमास्थिता । गुणिनं तं नृपं मत्वा वरयामास मानिनी ॥ 7॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,7,711,समयं चेदृशं कृत्वा स्थिता तत्र वराङ्गना । एतावुरणकौ राजन्न्यस्तौ रक्षस्व मानद ॥ 8॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,8,712,घृतं मे भक्षणं नित्यं नान्यत्किञ्चिन्नृपाशनम् । नेक्षे त्वां च महाराज नग्नमन्यत्र मैथुनात् ॥ 9॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,9,713,भाषाबन्धस्त्वयं राजन् यदि भग्नो भविष्यति । तदा त्यक्त्वा गमिष्यामि सत्यमेतद्ब्रवीम्यहम् ॥ 10॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,10,714,अङ्गीकृतं च तद्राज्ञा कामिन्या भाषितं तु यत् । स्थिता भाषणबन्धेन शापानुगहकाम्यया ॥ 11॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,11,715,रेमे तदा स भूपालो लीनो वर्षगणान्बहून् । धर्मकर्मादिकं त्यक्त्वा चोर्वश्या मदमोहितः ॥ 12॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,12,716,एकचित्तस्तु सञ्जातस्तन्मनस्को महीपतिः । न शशाक तया हीनः क्षणमप्यतिमोहितः ॥ 13॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,13,717,एवं वर्षगणान्ते तु स्वर्गस्थः पाकशासनः । उर्वशीं नागतां दृष्ट्वा गन्धर्वानाह देवराट् ॥ 14॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,14,718,उर्वशीमानयध्वं भो गन्धर्वाः सर्व एव हि । हृत्वोरणौ गृहात्तस्य भूपतेः समये किल ॥ 15॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,15,719,उर्वशीरहितं स्थानं मदीयं नातिशोभते । येन केनाप्युपायेन तामानयत कामिनीम् ॥ 16॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,16,720,इत्युक्तास्तेऽथ गन्धर्वा विश्वावसुपुरोगमाः । ततो गत्वा महागाढे तमसि प्रत्युपस्थिते ॥ 17॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,17,721,जह्रुस्तावुरणौ देवा रममाणं विलोक्य तम् । चक्रन्दतुस्तदा तौ तु ह्रियमाणौ विहायसा ॥ 18॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,18,722,उर्वशी तदुपाकर्ण्य क्रन्दितं सुतयोरिव । कुपितोवाच राजानं समयोऽयं कृतो मया ॥ 19॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,19,723,नष्टाहं तव विश्वासाद्धृतौ चोरैर्ममोरणौ । राजन्पुत्रसमावेतौ त्वं किं शेषे स्त्रिया समः ॥ 20॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,20,724,हतास्म्यहं कुनाथेन नपुंसा वीरमानिना । उरणौ मे गतौ चाद्य सदा प्राणप्रियौ मम ॥ 21॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,21,725,एवं विलप्यमानां तां दृष्ट्वा राजा विमोहितः । नग्न एव ययौ तूर्णं पृष्ठतः पृथिवीपतिः ॥ 22॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,22,726,विद्युत्प्रकाशिता तत्र गन्धर्वैर्नृपवेश्मनि । नग्नभूतस्तया दृष्टो भूपतिर्गन्तुकामया ॥ 23॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,23,727,त्यक्त्वोरणौ गताः सर्वे गन्धर्वाः पथि पार्थिवः । नग्नो जग्राह तौ श्रान्तो जगाम स्वगृहं प्रति ॥ 24॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,24,728,तदोर्वशीं गतां दृष्ट्वा विललापातिदुःखितः । नग्नं वीक्ष्य पतिं नारी गता सा वरवर्णिनी ॥ 25॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,25,729,क्रन्दन्स देशदेशेषु बभ्राम नृपतिः स्वयम् । तच्चित्तो विह्वलः शोचन्विवशः काममोहितः ॥ 26॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,26,730,भ्रमन्वै सकलां पृथ्वीं कुरुक्षेत्रे ददर्श ताम् । दृष्ट्वा संहृष्टवदनः प्राह सूक्तं नृपोत्तमः ॥ 27॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,27,731,अये जाये तिष्ठ तिष्ठ घोरे न त्यक्तुमर्हसि । मां त्वं त्वन्मनसं कान्तं वशगं चाप्यनागसम् ॥ 28॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,28,732,स देहोऽयं पतत्यत्र देवि दूरं हृतस्त्वया । खादन्त्येनं वृकाः काकास्त्वया त्यक्तं वरोरु यत् ॥ 29॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,29,733,एवं विलपमानं तं राजानं प्राह चोर्वशी । दुःखितं कृपणं श्रान्तं कामार्तं विवशं भृशम् ॥ 30॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,30,734,उर्वश्युवाच । मूर्खोऽसि नृपशार्दूल ज्ञानं कुत्र गतं तव । क्वापि सख्यं न च स्त्रीणां वृकाणामिव पार्थिव ॥ 31॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,31,735,न विश्वासो हि कर्तव्यः स्त्रीषु चौरेषु पार्थिवैः । गृहं गच्छ सुखं भुङ्क्ष्व मा विषादे मनः कृथाः ॥ 32॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,32,736,इत्येवं बोधितो राजा न विवेदातिमोहितः । दुःखं च परमं प्राप्तः स्वैरिणीस्नेहयन्त्रितः ॥ 33॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,33,737,सूत उवाच । इति सर्वं समाख्यातमुर्वशीचरितं महत् । वेदे विस्तरितं चैतत्सङ्क्षेपात्कथितं मया ॥ 34॥ 1,१.१३,त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।,34,738,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे पुरूरवस उर्वश्याश्च चरित्रवर्णनं नाम त्रयोदशोऽध्यायः ॥ १.१३॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,0,739,सूत उवाच । दृष्ट्वा तामसितापाङ्गीं व्यासश्चिन्तापरोऽभवत् । किं करोमि न मे योग्या देवकन्येयमप्सराः ॥ 1॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,1,740,एवं चिन्तयमानं तु दृष्ट्वा व्यासं तदाप्सराः । भयभीता हि सञ्जाता शापं मा विसृजेदयम् ॥ 2॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,2,741,सा कृत्वाथ शुकीरूपं निर्गता भयविह्वला । कृष्णस्तु विस्मयं प्राप्तो विहङ्गीं तां विलोकयन् ॥ 3॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,3,742,कामस्तु देहे व्यासस्य दर्शनादेव सङ्गतः । मनोऽतिविस्मितं जातं सर्वगात्रेषु विस्मितः ॥ 4॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,4,743,स तु धैर्येण महता निगह्णन्मानसं मुनिः । न शशाक नियन्तुं च स व्यासः प्रसृतं मनः ॥ 5॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,5,744,बहुशो गृह्यमाणं च घृताच्या मोहितं मनः । भावित्वान्नैव विधृतं व्यासस्यामिततेजसः ॥ 6॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,6,745,मन्धनं कुर्वतस्तस्य मुनेरग्निचिकीर्षया । अरण्यामेव सहसा तस्य शुक्रमथापतत् ॥ 7॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,7,746,सोऽविचिन्त्य तथा पातं ममन्थारणिमेव च । तस्माच्छुकः समुद्भूतो व्यासाकृतिमनोहरः ॥ 8॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,8,747,विस्मयं जनयन्बालः सञ्जातस्तदरण्यजः । यथाध्वरे समिद्धोऽग्निर्भाति हव्येन दीप्तिमान् ॥ 9॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,9,748,व्यासस्तु सुतमालोक्य विस्मयं परमं गतः । किमेतदिति सञ्चिन्त्य वरदानाच्छिवस्य वै ॥ 10॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,10,749,तेजोरूपी शुको जातोऽप्यरणीगर्भसम्भवः । द्वितीयोऽग्निरिवात्यर्थं दीप्यमानः स्वतेजसा ॥ 11॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,11,750,विलोकयामास तदा व्यासस्तु मुदितं सुतम् । दिव्येन तेजसा युक्तं गार्हपत्यमिवापरम् ॥ 12॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,12,751,गङ्गान्तः स्नापयामास समागत्य गिरेस्तदा । पुष्पवृष्टिस्तु खाज्जाता शिशोरुपरि तापसाः ॥ 13॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,13,752,जातकर्मादिकं चक्रे व्यासस्तस्य महात्मनः । देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः ॥ 14॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,14,753,जगुर्गन्धर्वपतयो मुदितास्ते दिदृक्षवः । विश्वावसुर्नारदश्च तुम्बुरुः शुकसम्भवे ॥ 15॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,15,754,तुष्टुवुर्मुदिताः सर्वे देवा विद्याधरास्तथा । दृष्ट्वा व्याससुतं दिव्यमरणीगर्भसम्भवम् ॥ 16॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,16,755,अन्तरिक्षात्पपातोर्व्यां दण्डः कृष्णाजिनं शुभम् । कमण्डलुस्तथा दिव्यः शुकस्यार्थे द्विजोत्तमाः ॥ 17॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,17,756,सद्यः स ववृधे बालो जातमात्रोऽतिदीप्तिमान् । तस्योपनयनं चक्रे व्यासो विद्याविधानवित् ॥ 18॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,18,757,उत्पन्नमात्रं तं वेदाः सरहस्याः ससङ्ग्रहाः । उपतस्थुर्महात्मानं यथास्य पितरं तथा ॥ 19॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,19,758,यतो दृष्टं शुकीरूपं घृताच्याः सम्भवे तदा । शुकेति नाम पुत्रस्य चकार मुनिसत्तमः ॥ 20॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,20,759,बृहस्पतिमुपाध्यायं कृत्वा व्याससुतस्तदा । व्रतानि ब्रह्मचर्यस्य चकार विधिपूर्वकम् ॥ 21॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,21,760,सोऽधीत्य निखिलान्वेदान् सरहस्यान्ससङ्ग्रहान् । धर्मशास्त्राणि सर्वाणि कृत्वा गुरुकुले शुकः ॥ 22॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,22,761,गुरवे दक्षिणां दत्त्वा समावृत्तो मुनिस्तदा । आजगाम पितुः पार्श्वं कृष्णद्वैपायनस्य च ॥ 23॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,23,762,दृष्ट्वा व्यासः शुकं प्राप्तं प्रेम्णोत्थाय ससम्भ्रमः । आलिलिङ्ग मुहुर्घ्राणं मूर्ध्नि तस्य चकार ह ॥ 24॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,24,763,पप्रच्छ कुशलं व्यासस्तथा चाध्ययनं शुचि । आश्वास्य स्थापयामास शुकं तत्राश्रमे शुभे ॥ 25॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,25,764,दारकर्म ततो व्यासः शुकस्य पर्यचिन्तयत् । कन्यां मुनिसुतां कान्तामपृच्छदतिवेगवान् ॥ 26॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,26,765,शुकं प्राह सुतं व्यासो वेदोऽधीतस्त्वयानघ । धर्मशास्त्राणि सर्वाणि कुरु भार्यां महामते ॥ 27॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,27,766,गार्हस्थ्यं च समासाद्य यज देवान्पितॄनथ । ऋणान्मोचय मां पुत्र प्राप्य दारान्मनोरमान् ॥ 28॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,28,767,अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च । तस्मात्पुत्र महाभाग कुरुष्वाद्य गृहाश्रमम् ॥ 29॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,29,768,कृत्वा गृहाश्रमं पुत्र सुखिनं कुरु मां शुक । आशा मे महती पुत्र पूरयस्व महामते ॥ 30॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,30,769,तपस्तप्त्वा महाघोरं प्राप्तोऽसि त्वमयोनिजः । देवरूपी महाप्राज्ञ पाहि मां पितरं शुक ॥ 31॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,31,770,सूत उवाच । इति वादिनमभ्याशे प्राप्तः प्राह शुकस्तदा । विरक्तः सोऽतिरक्तं तं साक्षात्पितरमात्मनः ॥ 32॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,32,771,शुक उवाच । किं त्वं वदसि धर्मज्ञ वेदव्यास महामते । तत्त्वेन शाधि शिष्यं मां त्वदाज्ञां करवाण्यलम् ॥ 33॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,33,772,व्यास उवाच । त्वदर्थे यत्तपस्तप्तं मया पुत्र शतं समाः । प्राप्तस्त्वं चातिदुःखेन शिवस्याराधनेन च ॥ 34॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,34,773,ददामि तव वित्तं तु प्रार्थयित्वाथ भूपतिम् । सुखं भुङ्क्ष्व महाप्राज्ञ प्राप्य यौवनमुत्तमम् ॥ 35॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,35,774,शुक उवाच । किं सुखं मानुषे लोके ब्रूहि तात निरामयम् । दुःखविद्धं सुखं प्राज्ञा न वदन्ति सुखं किल ॥ 36॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,36,775,स्त्रियं कृत्वा महाभाग भवामि तद्वशानुगः । सुखं किं परतन्त्रस्य स्त्रीजितस्य विशेषतः ॥ 37॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,37,776,कदाचिदपि मुच्येत लोहकाष्ठादियन्त्रितः । पुत्रदारैर्निबद्धस्तु न विमुच्येत कर्हिचित् ॥ 38॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,38,777,विण्मूत्रसम्भवो देहो नारीणां तन्मयस्तथा । कः प्रीतिं तत्र विप्रेन्द्र विबुधः कर्तुमिच्छति ॥ 39॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,39,778,अयोनिजोऽहं विप्रर्षे योनौ मे कीदृशी मतिः । न वाञ्छाम्यहमग्रेऽपि योनावेव समुद्भवम् ॥ 40॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,40,779,विट्सुखं किमु वाञ्छामि त्यक्त्वाऽऽत्मसुखमद्भुतम् । आत्मारामश्च भूयोऽपि न भवत्यतिलोलुपः ॥ 41॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,41,780,प्रथमं पठिता वेदा मया विस्तारिताश्च ते । हिंसामयास्ते पतिताः कर्ममार्गप्रवर्तकाः ॥ 42॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,42,781,बृहस्पतिर्गुरुः प्राप्तः सोऽपि मग्नो गृहार्णवे । अविद्याग्रस्तहृदयः कथं तारयितुं क्षमः ॥ 43॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,43,782,रोगग्रस्तो यथा वैद्यः पररोगचिकित्सकः । तथा गुरुर्मुमुक्षोर्मे गृहस्थोऽयं विडम्बना ॥ 44॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,44,783,कृत्वा प्रणामं गुरवे त्वत्समीपमुपागतः । त्राहि मां तत्त्वबोधेन भीतं संसारसर्पतः ॥ 45॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,45,784,संसारेऽस्मिन्महाघोरे भ्रमणं नभचक्रवत् । न च विश्रमणं क्यापि सूर्यस्येव दिवानिशि ॥ 46॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,46,785,किं सुखं तात संसारे निजतत्त्वविचारणात् । मूढानां सुखबुद्धिस्तु विट्सु कीटसुखं यथा ॥ 47॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,47,786,अधीत्य वेदशास्त्राणि संसारे रागिणश्च ये । तेभ्यः परो न मूर्खोऽस्ति सधर्मा श्वाश्वसूकरैः ॥ 48॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,48,787,मानुष्यं दुर्लभं प्राप्य वेदशास्त्राण्यधीत्य च । बध्यते यदि संसारे को विमुच्येत मानवः ॥ 49॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,49,788,नातः परतरं लोके क्वचिदाश्चर्यमद्भुतम् । पुत्रदारगृहासक्तः पण्डितः परिगीयते ॥ 50॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,50,789,न बाध्यते यः संसारे नरो मायागुणैस्त्रिभिः । स विद्वान्स च मेधावी शास्त्रपारं गतो हि सः ॥ 51॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,51,790,किं वृथाध्ययनेनात्र दृढबन्धकरेण च । पठितव्यं तदेवाशु मोचयेद्भवबन्धनात् ॥ 52॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,52,791,गह्णाति पुरुषं यस्माद्गृहं तेन प्रकीर्तितम् । क्व सुखं बन्धनागारे तेन भीतोऽस्म्यहं पितः ॥ 53॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,53,792,येऽबुधा मन्दमतयो विधिना मुषिताश्च ये । ते प्राप्य मानुषं जन्म पुनर्बन्धं विशन्त्युत ॥ 54॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,54,793,व्यास उवाच । न गृहं बन्धनागारं बन्धने न च कारणम् । मनसा यो विनिर्मुक्तो गृहस्थोऽपि विमुच्यते ॥ 55॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,55,794,न्यायागतधनः कुर्वन्वेदोक्तं विधिवत्क्रमात् । गृहस्थोऽपि विमुच्येत श्राद्धकृत्सत्यवाक् शुचिः ॥ 56॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,56,795,ब्रह्मचारी यतिश्चैव वानप्रस्थो व्रतस्थितः । गृहस्थं समुपासन्ते मध्याह्नातिक्रमे सदा ॥ 57॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,57,796,श्रद्धया चान्नदानेन वाचा सूनृतया तथा । उपकुर्वन्ति धर्मस्था गृहाश्रमनिवासिनः ॥ 58॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,58,797,गृहाश्रमात्परो धर्मो न दृष्टो न च वै श्रुतः । वसिष्ठादिभिराचार्यैर्ज्ञानिभिः समुपाश्रितः ॥ 59॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,59,798,किमसाध्यं महाभाग वेदोक्तानि च कुर्वतः । स्वर्गं मोक्षं च सज्जन्म यद्यद्वाञ्छति तद्भवेत् ॥ 60॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,60,799,आश्रमादाश्रमं गच्छेदिति धर्मविदो विदुः । तस्मादग्निं समाधाय कुरु कर्माण्यतन्द्रितः ॥ 61॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,61,800,देवान्पितॄन्मनुष्यांश्च सन्तर्प्य विधिवत्सुत । पुत्रमुत्पाद्य धर्मज्ञ संयोज्य च गृहाश्रमे ॥ 62॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,62,801,त्यक्त्वागृहं वनं गत्वा कर्तासि व्रतमुत्तमम् । वानप्रस्थाश्रमं कृत्वा संन्यासं च ततः परम् ॥ 63॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,63,802,इन्द्रियाणि महाभाग मादकानि सुनिश्चितम् । अदारस्य दुरन्तानि पञ्चैव मनसा सह ॥ 64॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,64,803,तस्माद्दारान्प्रकुर्वीत तज्जयाय महामते । वार्धके तप आतिष्ठेदिति शास्त्रोदितं वचः ॥ 65॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,65,804,विश्वामित्रो महाभाग तपः कृत्वातिदुश्चरम् । त्रीणि वर्षसहस्राणि निराहारो जितेन्द्रियः ॥ 66॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,66,805,मोहितश्च महातेजा वने मेनकया स्थितः । शकुन्तला समुत्पन्ना पुत्री तद्वीर्यजा शुभा ॥ 67॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,67,806,दृष्ट्वा दाशसुतां कालीं पिता मम पराशरः । कामबाणार्दितः कन्यां तां जग्राहोडुपे स्थितः ॥ 68॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,68,807,ब्रह्मापि स्वसुतां दृष्ट्वा पञ्चबाणप्रपीडितः । धावमानश्च रुद्रेण मूर्च्छितश्च निवारितः ॥ 69॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,69,808,तस्मात्त्वमपि कल्याण कुरु मे वचनं हितम् । कुलजां कन्यकां वृत्वा वेदमार्गं समाश्रय ॥ 70॥ 1,१.१४,चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।,70,809,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे व्यासेन गृहस्थधर्मवर्णनं नाम चतुर्दशोऽध्यायः ॥ १.१४॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,0,810,श्रीशुक उवाच । नाहं गृहं करिष्यामि दुःखदं सर्वदा पितः । वागुरासदृशं नित्यं बन्धनं सर्वदेहिनाम् ॥ 1॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,1,811,धनचिन्तातुराणां हि क्व सुखं तात दृश्यते । स्वजनैः खलु पीड्यन्ते निर्धना लोलुपा जनाः ॥ 2॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,2,812,इन्द्रोऽपि न सुखी तादृग्यादृशो भिक्षुनिःस्पृहः । कोऽन्यः स्यादिह संसारे त्रिलोकीविभवे सति ॥ 3॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,3,813,तपन्तं तापसं दृष्ट्वा मघवा दुःखितोऽभवत् । विघ्नान्बहुविधानस्य करोति च दिवस्पतिः ॥ 4॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,4,814,ब्रह्मापि न सुखी विष्णुर्लक्ष्मीं प्राप्य मनोरमाम् । खेदं प्राप्नोति सततं सङ्ग्रामैरसुरैः सह ॥ 5॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,5,815,करोति विपुलान्यत्नांस्तपश्चरति दुश्चरम् । रमापतिरपि श्रीमान्कस्यास्ति विपुलं सुखम् ॥ 6॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,6,816,शङ्करोऽपि सदा दुःखी भवत्येव च वेद्म्यहम् । तपश्चर्यां प्रकुर्वाणो दैत्ययुद्धकरः सदा ॥ 7॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,7,817,कदाचिन्न सुखी शेते धनवानपि लोलुपः । निर्धनस्तु कथं तात सुखं प्राप्नोति मानवः ॥ 8॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,8,818,जानन्नपि महाभाग पुत्रं वा वीर्यसम्भवम् । नियोक्ष्यसि महाघोरे संसारे दुःखदे सदा ॥ 9॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,9,819,जन्मदुःखं जरादुःखं दुःखं च मरणे तथा । गर्भवासे पुनर्दुःखं विष्ठामूत्रमये पितः ॥ 10॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,10,820,तस्मादतिशयं दुःखं तृष्णालोभसमुद्भवम् । याञ्चायां परमं दुःखं मरणादपि मानद ॥ 11॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,11,821,प्रतिग्रहधना विप्रा न बुद्धिबलजीवनाः । पराशा परमं दुःखं मरणं च दिने दिने ॥ 12॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,12,822,पठित्वा सकलान् वेदाञ्छास्त्राणि च समन्ततः । गत्वा च धनिनां कार्या स्तुतिः सर्वात्मना बुधैः ॥ 13॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,13,823,एकोदरस्य का चिन्ता पत्रमूलफलादिभिः । येनकेनाप्युपायेन सन्तुष्ट्या च प्रपूर्यते ॥ 14॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,14,824,भार्या पुत्रास्तथा पौत्राः कुटुम्बे विपुले सति । पूरणार्थं महद्दुःखं क्व सुखं पितरद्भुतम् ॥ 15॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,15,825,योगशास्त्रं वद मम ज्ञानशास्त्रं सुखाकरम् । कर्मकाण्डेऽखिले तात न रमेऽहं कदाचन ॥ 16॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,16,826,वद कर्मक्षयोपायं प्रारब्धं सञ्चितं तथा । वर्तमानं यथा नश्येत् त्रिविधं कर्ममूलजम् ॥ 17॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,17,827,जलूकेव सदा नारी रुधिरं पिबतीति वै । मूर्खस्तु न विजानाति मोहितो भावचेष्टितैः ॥ 18॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,18,828,भोगैर्वीर्यं धनं पूर्णं मनः कुटिलभाषणैः । कान्ता हरति सर्वस्वं कः स्तेनस्तादृशोऽपरः ॥ 19॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,19,829,निद्रासुखविनाशार्थं मूर्खस्तु दारसङ्ग्रहम् । करोति वञ्चितो धात्रा दुःखाय न सुखाय च ॥ 20॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,20,830,सूत उवाच । एवंविधानि वाक्यानि श्रुत्वा व्यासः शुकस्य च । सम्प्राप महतीं चिन्तां किं करोमीत्यसंशयम् ॥ 21॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,21,831,तस्य सुस्रुवुरश्रूणि लोचनादुःखजानि च । वेपथुश्च शरीरेऽभूद्ग्लानिं प्राप मनस्तथा ॥ 22॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,22,832,शोचन्तं पितरं दृष्ट्वा दीनं शोकपरिप्लुतम् । उवाच पितरं व्यासं विस्मयोत्फुल्ललोचनः ॥ 23॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,23,833,अहो मायाबलं चोग्रं यन्मोहयति पण्डितम् । वेदान्तस्य च कर्तारं सर्वज्ञं वेदसम्मितम् ॥ 24॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,24,834,न जाने का च सा माया किंस्वित्सातीव दुष्करा । या मोहयति विद्वांसं व्यासं सत्यवतीसुतम् ॥ 25॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,25,835,पुराणानां च वक्ता च निर्माता भारतस्य च । विभागकर्ता वेदानां सोऽपि मोहमुपागतः ॥ 26॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,26,836,तां यामि शरणं देवीं या मोहयति वै जगत् । ब्रह्मविष्णुहरादींश्च कथान्येषां च कीदृशी ॥ 27॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,27,837,कोऽप्यस्ति त्रिषु लोकेषु यो न मुह्यति मायया । यन्मोहं गमिताः पूर्वे ब्रह्मविष्णुहरादयः ॥ 28॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,28,838,अहो बलमहो वीर्यं देव्या खलु विनिर्मितम् । माययैव वशं नीतः सर्वज्ञ ईश्वरः प्रभुः ॥ 29॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,29,839,विष्ण्वंशसम्भवो व्यास इति पौराणिका जगुः । सोऽपि मोहार्णवे मग्नो भग्नपोतो वणिग्यथा ॥ 30॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,30,840,अश्रुपातं करोत्यद्य विवशः प्राकृतो यथा । अहो मायाबलं चैतद्दुस्त्यजं पण्डितैरपि ॥ 31॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,31,841,कोऽयं कोऽहं कथं चेह कीदृशोऽयं भ्रमः किल । पञ्चभूतात्मके देहे पितापुत्रेति वासना ॥ 32॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,32,842,बलिष्ठा खलु मायेयं मायिनामपि मोहिनी । ययाभिभूतः कृष्णोऽपि करोति रोदनं द्विजः ॥ 33॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,33,843,सूत उवाच । तां नत्वा मनसा देवीं सर्वकारणकारणाम् । जननीं सर्वदेवानां ब्रह्मादीनां तथेश्वरीम् ॥ 34॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,34,844,पितरं प्राह दीनं तं शोकार्णवपरिप्लुतम् । अरणीसम्भवो व्यासं हेतुमद्वचनं शुभम् ॥ 35॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,35,845,पाराशर्य महाभाग सर्वेषां बोधदः स्वयम् । किं शोकं कुरुषे स्वामिन्यथाज्ञः प्राकृतो नरः ॥ 36॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,36,846,अद्याहं तव पुत्रोऽस्मि न जाने पूर्वजन्मनि । कोऽहं कस्त्वं महाभाग विभ्रमोऽयं महात्मनि ॥ 37॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,37,847,कुरु धैर्यं प्रबुध्यस्व मा विषादे मनः कृथाः । मोहजालमिमं मत्वा मुञ्च शोकं महामते ॥ 38॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,38,848,क्षुधानिवृत्तिर्भक्ष्येण न पुत्रदर्शनेन च । पिपासा जलपानेन याति नैवात्मजेक्षणात् ॥ 39॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,39,849,घ्राणं सुखं सुगन्धेन कर्णजं श्रवणेन च । स्त्रीसुखं तु स्त्रिया नूनं पुत्रोऽहं किं करोमि ते ॥ 40॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,40,850,अजीगर्तेन पुत्रोऽपि हरिश्चन्द्राय भूभुजे । पशुकामाय यज्ञार्थे दत्तो मौल्येन सर्वथा ॥ 41॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,41,851,सुखानां साधनं द्रव्यं धनात्सुखसमुच्चयः । धनमर्जय लोभश्चेत्पुत्रोऽहं किं करोम्यहम् ॥ 42॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,42,852,मां प्रबोधय बुद्ध्या त्वं दैवज्ञोऽसि महामते । यथा मुच्येयमत्यन्तं गर्भवासभयान्मुने ॥ 43॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,43,853,दुर्लभं मानुषं जन्म कर्मभूमाविहानघ । तत्रापि ब्राह्मणत्वं वै दुर्लभं चोत्तमे कुले ॥ 44॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,44,854,बद्धोऽहमिति मे बुद्धिर्नापसर्पति चित्ततः । संसारवासनाजाले निविष्टा वृद्धिगामिनी ॥ 45॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,45,855,सूत उवाच । इत्युक्तस्तु तदा व्यासः पुत्रेणामितबुद्धिना । प्रत्युवाच शुकं शान्तं चतुर्थाश्रममानसम् ॥ 46॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,46,856,व्यास उवाच । पठ पुत्र महाभाग मया भागवतं कृतम् । शुभं न चातिविस्तीर्णं पुराणं ब्रह्मसम्मितम् ॥ 47॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,47,857,स्कन्धा द्वादश तत्रैव पञ्चलक्षणसंयुतम् । सर्वेषां च पुराणानां भूषणं मम सम्मतम् ॥ 48॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,48,858,सदसज्ज्ञानविज्ञानं श्रुतमात्रेण जायते । येन भागवतेनेह तत्पठ त्वं महामते ॥ 49॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,49,859,वटपत्रशयानाय विष्णवे बालरूपिणे । केनास्मि बालभावेन निर्मितोऽहं चिदात्मना ॥ 50॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,50,860,किमर्थं केन द्रव्येण कथं जानामि चाखिलम् । इत्येवं चिन्त्यमानाय मुकुन्दाय महात्मने ॥ 51॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,51,861,श्लोकार्धेन तया प्रोक्तं भगवत्याखिलार्थदम् । सर्वं खल्विदमेवाहं नान्यदस्ति सनातनम् ॥ 52॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,52,862,तद्वचो विष्णुना पूर्वं संविज्ञातं मनस्यपि । केनोक्ता वागियं सत्या चिन्तयामास चेतसा ॥ 53॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,53,863,कथं वेद्मि प्रवक्तारं स्त्रीपुंसौ वा नपुंसकम् । इति चिन्ताप्रपन्नेन धृतं भागवतं हृदि ॥ 54॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,54,864,पुनः पुनः कृतोच्चारस्तस्मिनेवास्तचेतसा । वटपत्रे शयानः सन्नभूच्चिन्तासमन्वितः ॥ 55॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,55,865,तदा शान्ता भगवती प्रादुरास चतुर्भुजा । शङ्खचक्रगदापद्मवरायुधधरा शिवा ॥ 56॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,56,866,दिव्याम्बरधरा देवी दिव्यभूषणभूषिता । संयुता सदृशीभिश्च सखीभिः स्वविभूतिभिः ॥ 57॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,57,867,प्रादुर्बभूव तस्याग्रे विष्णोरमिततेजसः । मन्दहास्यं प्रयुञ्जाना महालक्ष्मीः शुभानना ॥ 58॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,58,868,सूत उवाच । तां तथा संस्थितां दृष्ट्वा हृदये कमलेक्षणः । विस्मितः सलिले तस्मिन्निराधारा मनोरमाम् ॥ 59॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,59,869,रतिर्भूतिस्तथा बुद्धिर्मतिः कीर्तिः स्मृतिर्धृतिः । श्रद्धा मेधा स्वधा स्वाहा क्षुधा निद्रा दया गतिः ॥ 60॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,60,870,तुष्टिः पुष्टिः क्षमा लज्जा जृम्भा तन्द्रा च शक्तयः । संस्थिताः सर्वतः पार्श्वे महादेव्याः पृथक्पृथक् ॥ 61॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,61,871,वरायुधधराः सर्वा नानाभूषणभूषिताः । मन्दारमालाकुलिता मुक्ताहारविराजिताः ॥ 62॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,62,872,तां दृष्ट्वा ताश्च संवीक्ष्य तस्मिन्नेकार्णवे जले । विस्मयाविष्टहृदयः सम्बभूव जनार्दनः ॥ 63॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,63,873,चिन्तयामास सर्वात्मा दृष्टमायोऽतिविस्मितः । कुतो भूताः स्त्रियः सर्वाः कुतोऽहं वटतल्पगः ॥ 64॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,64,874,अस्मिन्नेकार्णवे घोरे न्यग्रोधः कथमुत्थितः । केनाहं स्थापितोऽस्म्यत्र शिशुं कृत्वा शुभाकृतिम् ॥ 65॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,65,875,ममेयं जननी नो वा माया वा कापि दुर्घटा । दर्शनं केनचित्त्वद्य दत्तं वा केन हेतुना ॥ 66॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,66,876,किं मया चात्र वक्तव्यं गन्तव्यं वा न वा क्वचित् । मौनमास्थाय तिष्ठेयं बालभावादतन्द्रितः ॥ 67॥ 1,१.१५,पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।,67,877,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे शुकवैराग्यवर्णनं नाम पञ्चदशोऽध्यायः ॥ १.१५॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,0,878,व्यास उवाच । दृष्ट्वा तं विस्मितं देवं शयानं वटपत्रके । उवाच सस्मितं वाक्यं विष्णो किं विस्मितो ह्यसि ॥ 1॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,1,879,महाशक्त्याः प्रभावेण त्वं मां विस्मृतवान्पुरा । प्रभवे प्रलये जाते भूत्वा भूत्वा पुनः पुनः ॥ 2॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,2,880,निर्गुणा सा परा शक्तिः सगुणस्त्वं तथाप्यहम् । सात्त्विकी किल या शक्तिस्तां शक्तिं विद्धि मामिकाम् ॥ 3॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,3,881,त्वन्नाभिकमलाद्ब्रह्मा भविष्यति प्रजापतिः । स कर्ता सर्वलोकस्य रजोगुणसमन्वितः ॥ 4॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,4,882,स तदा तप आस्थाय प्राप्य शक्तिमनुत्तमाम् । रजसा रक्तवर्णञ्च करिष्यति जगत्त्रयम् ॥ 5॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,5,883,सगुणान्पञ्चभूतांश्च समुत्पाद्य महामतिः । इन्द्रियाणीन्द्रियेशांश्च मनःपूर्वान्समन्ततः ॥ 6॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,6,884,करिष्यति ततः सर्गं तेन कर्ता स उच्यते । विश्वस्यास्य महाभाग त्वं वै पालयिता तथा ॥ 7॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,7,885,तद्भुवोर्मध्यदेशाच्च क्रोधाद्रुद्रो भविष्यति । तपः कृत्वा महाघोरं प्राप्य शक्तिं तु तामसीम् ॥ 8॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,8,886,कल्पान्ते सोऽपि संहर्ता भविष्यति महामते । तेनाहं त्वामुपायाता सात्त्विकीं त्वमवेहि माम् ॥ 9॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,9,887,स्थास्येऽहं त्वत्समीपस्था सदाहं मधुसूदन । हृदये ते कृतावासा भवामि सततं किल ॥ 10॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,10,888,विष्णुरुवाच । श्लोकस्यार्धं मया पूर्वं श्रुतं देवि स्फुटाक्षरम् । तत्केनोक्तं वरारोहे रहस्यं परमं शिवम् ॥ 11॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,11,889,तन्मे ब्रूहि वरारोहे संशयोऽयं वरानने । निर्धनो हि यथा द्रव्यं तत्स्मरामि पुनः पुनः ॥ 12॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,12,890,व्यास उवाच । विष्णोस्तद्वचनं श्रुत्वा महालक्ष्मीः स्मितानना । उवाच परया प्रीत्या वचनं चारुहासिनी ॥ 13॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,13,891,महालक्ष्मीरुवाच । श‍ृणु शौरे वचो मह्यं सगुणाहं चतुर्भुजा । मां जानासि न जानासि निर्गुणां सगुणालयाम् ॥ 14॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,14,892,त्वं जानीहि महाभाग तया तत्प्रकटीकृतम् । पुण्यं भागवतं विद्धि वेदसारं शुभावहम् ॥ 15॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,15,893,कृपां च महतीं मन्ये देव्याः शत्रुनिषूदन । यया प्रोक्तं परं गुह्यं हिताय तव सुव्रत ॥ 16॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,16,894,रक्षणीयं सदा चित्ते न विस्मार्यं कदाचन । सारं हि सर्वशास्त्राणां महाविद्याप्रकाशितम् ॥ 17॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,17,895,नातः परं वेदितव्यं वर्तते भुवनत्रये । प्रियोऽसि खलु देव्यास्त्वं तेन ते व्याहृतं वचः ॥ 18॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,18,896,व्यास उवाच । इति श्रुत्वा वचो देव्या महालक्ष्याश्चतुर्भुजः । दधार हृदये नित्यं मत्वा मन्त्रमनुत्तमम् ॥ 19॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,19,897,कालेन कियता तत्र तन्नाभिकमलोद्भवः । ब्रह्मा दैत्यभयात्त्रस्तो जगाम शरणं हरेः ॥ 20॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,20,898,ततः कृत्वा महायुद्धं हत्वा तौ मधुकैटभौ । जजाप भगवान्विष्णुः श्लोकार्धं विशदाक्षरम् ॥ 21॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,21,899,जपन्तं वासुदेवं च दृष्ट्वा देवः प्रजापतिः । पप्रच्छ परमप्रीतः कञ्जजः कमलापतिम् ॥ 22॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,22,900,किं त्वं जपसि देवेश त्वत्तः कोऽप्यधिकोऽस्ति वै । यत्कृत्वा पुण्डरीकाक्ष प्रीतोऽसि जगदीश्वर ॥ 23॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,23,901,हरिरुवाच । मयि त्वयि च या शक्तिः क्रियाकारणलक्षणा । विचारय महाभाग या सा भगवती शिवा ॥ 24॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,24,902,यस्याधारे जगत्सर्वं तिष्ठत्यत्र महार्णवे । साकारा या महाशक्तिरमेया च सनातनी ॥ 25॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,25,903,यया विसृज्यते विश्वं जगदेतच्चराचरम् । सैषा प्रसन्ना वरदा नृणां भवति मुक्तये ॥ 26॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,26,904,सा विद्या परमा मुक्तेर्हेतुभूता सनातनी । संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी ॥ 27॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,27,905,अहं त्वमखिलं विश्वं तस्याश्चिच्छक्तिसम्भवम् । विद्धि ब्रह्मन्न सन्देहः कर्तव्यः सर्वदानघ ॥ 28॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,28,906,श्लोकार्धेन तया प्रोक्तं तद्वै भागवतं किल । विस्तरो भविता तस्य द्वापरादौ युगे तथा ॥ 29॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,29,907,व्यास उवाच । ब्रह्मणा सङ्गृहीतं च विष्णोस्तु नाभिपङ्कजे । नारदाय च तेनोक्तं पुत्रायामितबुद्धये ॥ 30॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,30,908,नारदेन तथा मह्यं दत्तं हि मुनिना पुरा । मया कृतमिदं पूर्णं द्वादशस्कन्धविस्तरम् ॥ 31॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,31,909,तत्पठस्व महाभाग पुराणं ब्रह्मसम्मितम् । पञ्चलक्षणयुक्तं च देव्याश्चरितमुत्तमम् ॥ 32॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,32,910,तत्त्वज्ञानरसोपेतं सर्वेषामुत्तमोत्तमम् । धर्मशास्त्रसमं पुण्यं वेदार्थेनोपबृंहितम् ॥ 33॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,33,911,वृत्रासुरवधोपेतं नानाख्यानकथायुतम् । ब्रह्मविद्यानिधानं तु संसारार्णवतारकम् ॥ 34॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,34,912,गृहाण त्वं महाभाग योग्योऽसि मतिमत्तरः । पुण्यं भागवतं नाम पुराणं पुरुषर्षभ ॥ 35॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,35,913,अष्टादशसहस्राणां श्लोकानां कुरु सङ्ग्रहम् । अज्ञाननाशनं दिव्यं ज्ञानभास्करबोधकम् ॥ 36॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,36,914,सुखदं शान्तिदं धन्यं दीर्घायुष्यकरं शिवम् । श‍ृण्वतां पठतां चेदं पुत्रपौत्रविवर्धनम् ॥ 37॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,37,915,शिष्योऽयं मम धर्मात्मा लोमहर्षणसम्भवः । पठिष्यति त्वया सार्धं पुराणीं संहितां शुभाम् ॥ 38॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,38,916,सूत उवाच । इत्युक्तं तेन पुत्राय मह्यं च कथितं किल । मया गृहीतं तत्सर्वं पुराणं चातिविस्तरम् ॥ 39॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,39,917,शुकोऽधीत्य पुराणं तु स्थितो व्यासाश्रमे शुभे । न लेभे शर्म धर्मात्मा ब्रह्मात्मज इवापरः ॥ 40॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,40,918,एकान्तसेवी विकलः स शून्य इव लक्ष्यते । नात्यन्तभोजनासक्तो नोपवासरतस्तथा ॥ 41॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,41,919,चिन्ताविष्टं शुकं दृष्ट्वा व्यासः प्राह सुतं प्रति । किं पुत्र चिन्त्यते नित्यं कस्माद्व्यग्रोऽसि मानद ॥ 42॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,42,920,आस्से ध्यानपरो नित्यमृणग्रस्त इवाधनः । का चिन्ता वर्तते पुत्र मयि ताते तु तिष्ठति ॥ 43॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,43,921,सुखं भुङ्क्ष्व यथाकामं मुञ्च शोकं मनोगतम् । ज्ञानं चिन्तय शास्त्रोक्तं विज्ञाने च मतिं कुरु ॥ 44॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,44,922,न चेन्मनसि ते शान्तिर्वचसा मम सुव्रत । गच्छ त्वं मिथिलां पुत्र पालितां जनकेन ह ॥ 45॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,45,923,स ते मोहं महाभाग नाशयिष्यति भूपतिः । जनको नाम धर्मात्मा विदेहः सत्यसागरः ॥ 46॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,46,924,तं गत्वा नृपतिं पुत्र सन्देहं स्वं निवर्तय । वर्णाश्रमाणां धर्मांस्त्वं पृच्छ पुत्र यथातथम् ॥ 47॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,47,925,जीवन्मुक्तः स राजर्षिर्बह्मज्ञानमतिः शुचिः । तथ्यवक्तातिशान्तश्च योगी योगप्रियः सदा ॥ 48॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,48,926,सूत उवाच । तच्छ्रुत्वा वचनं तस्य व्यासस्यामिततेजसः । प्रत्युवाच महातेजाः शुकश्चारणिसम्भवः ॥ 49॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,49,927,दम्भोऽयं किल धर्मात्मन्भाति चित्ते ममाधुना । जीवन्मुक्तो विदेहश्च राज्यं शास्ति मुदान्वितः ॥ 50॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,50,928,वन्ध्यापुत्र इवाभाति राजासौ जनकः पितः । कुर्वन् राज्यं विदेहः किं सन्देहोऽयं ममाद्भुतः ॥ 51॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,51,929,द्रष्टुमिच्छाम्यहं भूपं विदेहं नृपसत्तमम् । कथं तिष्ठति संसारे पद्मपत्रमिवाम्भसि ॥ 52॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,52,930,सन्देहोऽयं महांस्तात विदेहे परिवर्तते । मोक्षः किं वदतां श्रेष्ठ सौगतानामिवापरः ॥ 53॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,53,931,कथं भुक्तमभुक्तं स्यादकृतं च कृतं कथम् । व्यवहारः कथं त्याज्य इन्द्रियाणां महामते ॥ 54॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,54,932,माता पुत्रस्तथा भार्या भगिनी कुलटा तथा । भेदाभेदः कथं न स्याद्यद्येतन्मुक्तता कथम् ॥ 55॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,55,933,कटु क्षारं तथा तीक्ष्णां कषायं मिष्टमेव च । रसना यदि जानाति भुङ्क्ते भोगाननुत्तमान् ॥ 56॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,56,934,शीतोष्णुसुखदुःखादिपरिज्ञानं यदा भवेत् । मुक्तता कीदृशी तात सन्देहोऽयं ममाद्भुतः ॥ 57॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,57,935,शत्रुमित्रपरिज्ञानं वैरं प्रीतिकरं सदा । व्यवहारे परे तिष्ठन्कथं न कुरुते नृपः ॥ 58॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,58,936,चौरं वा तापसं वापि समानं मन्यते कथम् । असमा यदि बुद्धिः स्यान्मुक्तता तर्हि कीदृशी ॥ 59॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,59,937,दृष्टपूर्वो न मे कश्चिज्जीवन्मुक्तश्च भूपतिः । शङ्केयं महती तात गृहे मुक्तः कथं नृपः ॥ 60॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,60,938,दिदृक्षा महती जाता श्रुत्वा तं भूपतिं तथा । सन्देहविनिवृत्त्यर्थं गच्छामि मिथिलां प्रति ॥ 61॥ 1,१.१६,षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।,61,939,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे शुकं प्रति व्यासोपदेशवर्णनं नाम षोडशोऽध्यायः ॥ १.१६॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,0,940,सूत उवाच । इत्युक्त्वा पितरं पुत्रः पादयोः पतितः शुकः । बद्धाञ्जलिरुवाचेदं गन्तुकामो महामनाः ॥ 1॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,1,941,आपृच्छे त्वां महाभाग ग्राह्यं ते वचनं मया । विदेहान्द्रष्टुमिच्छामि पालिताञ्जनकेन तु ॥ 2॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,2,942,विना दण्डं कथं राज्यं करोति जनकः किल । धर्मे न वर्तते लोको दण्डश्चेन्न भवेद्यदि ॥ 3॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,3,943,धर्मस्य कारणं दण्डो मन्वादिप्रहितः सदा । स कथं वर्तते तात संशयोऽयं महान्मम ॥ 4॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,4,944,मम माता त्वियं वन्ध्या तद्वद्भाति विचेष्टितम् । पृच्छामि त्वां महाभाग गच्छामि च परन्तप ॥ 5॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,5,945,सूत उवाच । तं दृष्ट्वा गन्तुकामं च शुकं सत्यवतीसुतः । आलिङ्ग्योवाच पुत्रं तं ज्ञानिनं निःस्पृहं दृढम् ॥ 6॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,6,946,व्यास उवाच । स्वस्त्यस्तु शक दीर्घायुर्भव पुत्र महामते । सत्यां वाचं प्रदत्त्वा मे गच्छ तात यथासुखम् ॥ 7॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,7,947,आगन्तव्यं पुनर्गत्वा ममाश्रममनुत्तमम् । न कुत्रापि च गन्तव्यं त्वया पुत्र कथञ्चन ॥ 8॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,8,948,सुखं जीवामि पुत्राहं दृष्ट्वा ते मुखपङ्कजम् । अपश्यन्दुःखमाप्नोमि प्राणस्त्वमसि मे सुत ॥ 9॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,9,949,दृष्ट्वा त्वं जनकं पुत्र सन्देहं विनिवर्त्य च । अत्रागत्य सुखं तिष्ठ वेदाध्ययनतत्परः ॥ 10॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,10,950,सूत उवाच । इत्युक्तः सोऽभिवाद्यार्यं कृत्वा चैव प्रदक्षिणाम् । चलितस्तरसातीव धनुर्मुक्तः शरो यथा ॥ 11॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,11,951,सम्पश्यन्विविधान्देशाँल्लोकांश्च वित्तधर्मिणः । वनानि पादपांश्चैव क्षेत्राणि फलितानि च ॥ 12॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,12,952,तापसांस्तप्यमानांश्च याजकान्दीक्षयान्वितान् । योगाभ्यासरतान्योगिवानप्रस्थान्वनौकसः ॥ 13॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,13,953,शैवान्पाशुपतांश्चैव सौराञ्छाक्तांश्च वैष्णवान् । वीक्ष्य नानाविधान्धर्माञ्जगामातिस्मयन्मुनिः ॥ 14॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,14,954,वर्षद्वयेन मेरुं च समुल्लङ्घ्य महामतिः । हिमाचलं च वर्षेण जगाम मिथिलां प्रति ॥ 15॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,15,955,प्रविष्टो मिथिलां मध्ये पश्यन्सर्वर्द्धिमुत्तमाम् । प्रजाश्च सुखिताः सर्वाः सदाचाराः सुसंस्थिताः ॥ 16॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,16,956,क्षत्रा निवारितस्तत्र कस्त्वमत्र समागतः । किं ते कार्यं वदस्वेति पृष्टस्तेन न चाब्रवीत् ॥ 17॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,17,957,निःसृत्य नगरद्वारात्स्थितः स्थाणुरिवाचलः । विस्मितोऽतिहसंस्तस्थौ वचो नोवाच किञ्चन ॥ 18॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,18,958,प्रतीहार उवाच । ब्रूहि मूकोऽसि किं ब्रह्मन्किमर्थं त्वमिहागतः । चलनं च विना कार्यं न भवेदिति मे मतिः ॥ 19॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,19,959,राजाज्ञया प्रवेष्टव्यं नगरेऽस्मिन्सदा द्विज । अज्ञातकुलशीलस्य प्रवेशो नात्र सर्वथा ॥ 20॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,20,960,तेजस्वी भासि नूनं त्वं ब्राह्मणो वेदवित्तमः । कुलं कार्यं च मे ब्रूहि यथेष्टं गच्छ मानद ॥ 21॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,21,961,शुक उवाच । यदर्थमागतोऽस्म्यत्र तत्प्राप्तं वचनात्तव । विदेहनगरं द्रष्टुं प्रवेशो यत्र दुर्लभः ॥ 22॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,22,962,मोहोऽयं मम दुर्बुद्धेः समुल्लङ्घ्य गिरिद्वयम् । राजानं द्रष्टुकामोऽहं पर्यटन्समुपागतः ॥ 23॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,23,963,वञ्चितोऽहं स्वयं पित्रा दूषणं कस्य दीयते । भ्रामितोऽहं महाभाग कर्मणा वा महीतले ॥ 24॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,24,964,धनाशा पुरुषस्येह परिभ्रमणकारणम् । सा मे नास्ति तथाप्यत्र सम्प्राप्तोऽस्मि भ्रमात्किल ॥ 25॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,25,965,निराशस्य सुखं नित्यं यदि मोहे न मज्जति । निराशोऽहं महाभाग मग्नोऽस्मिन्मोहसागरे ॥ 26॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,26,966,क्व मेरुर्मिथिला क्वेयं पद्भ्यां च समुपागतः । परिश्रमफलं किं मे वञ्चितो विधिना किल ॥ 27॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,27,967,प्रारब्धं किल भोक्तव्यं शुभं वाप्यथवाशुभम् । उद्यमस्तद्वशे नित्यं कारयत्येव सर्वथा ॥ 28॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,28,968,न तीर्थं न च वेदोऽत्र यदर्थमिह मे श्रमः । अप्रवेशः पुरे जातो विदेहो नाम भूपतिः ॥ 29॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,29,969,इत्युक्त्या विररामाशु मौनीभूत इव स्थितः । ज्ञातो हि प्रतिहारेण ज्ञानी कश्चिद्द्विजोत्तमः ॥ 30॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,30,970,सामपूर्वमुवाचासौ तं क्षत्ता संस्थितं मुनिम् । गच्छ भो यत्र ते कार्यं यथेष्टं द्विजसत्तम ॥ 31॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,31,971,अपराधो मम ब्रह्मन्यन्निवारितवानहम् । तत्क्षन्तव्यं महाभाग विमुक्तानां क्षमा बलम् ॥ 32॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,32,972,शुक उवाच । किं तेऽत्र दूषणं क्षत्तः परतन्त्रोऽसि सर्वदा । प्रभुकार्यं प्रकर्तव्यं सेवकेन यथोचितम् ॥ 33॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,33,973,न भूपदूषणं चात्र यदहं रक्षितस्त्वया । चोरशत्रुपरिज्ञानं कर्तव्यं सर्वथा बुधैः ॥ 34॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,34,974,ममैव सर्वथा दोषो यदहं समुपागतः । गमनं परगेहे यल्लघुतायाश्च कारणम् ॥ 35॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,35,975,प्रतीहार उवाच । किं सुखं द्विज किं दुःखं किं कार्यं शुभमिच्छता । कः शत्रुर्हितकर्ता को ब्रूहि सर्वं ममाद्य वै ॥ 36॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,36,976,शुक उवाच । द्वैविध्यं सर्वलोकेषु सर्वत्र द्विविधो जनः । रागी चैव विरागी च तयोश्चित्तं द्विधा पुनः ॥ 37॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,37,977,विरागी त्रिविधः कामं ज्ञातोऽज्ञातश्च मध्यमः । रागी च द्विविधः प्रोक्तो मूर्खश्च चतुरस्तथा ॥ 38॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,38,978,चातुर्यं द्विविधं प्रोक्तं शास्त्रजं मतिजं तथा । मतिस्तु द्विविधा लोके युक्तायुक्तेति सर्वथा ॥ 39॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,39,979,प्रतीहार उवाच । यदुक्तं भवता विद्वन्नार्थज्ञोऽहं द्विजोत्तम । तत्सर्वं विस्तरेणाद्य यथार्थं वद सत्तम ॥ 40॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,40,980,शुक उवाच । रागो यस्यास्ति संसारे स रागीत्युच्यते ध्रुवम् । दुःखं बहुविधं तस्य सुखं च विविधं पुनः ॥ 41॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,41,981,धनं प्राप्य सुतान्दारान्मानं च विजयं तथा । तदप्राप्य महद्दुःखं भवत्येव क्षणे क्षणे ॥ 42॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,42,982,कार्यस्तस्य सुखोपायः कर्तव्यं सुखसाधनम् । तस्यारातिः स विज्ञेयः सुखविघ्नं करोति यः ॥ 43॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,43,983,सुखोत्पादयिता मित्रं रागयुक्तस्य सर्वदा । चतुरो नैव मुह्येत मूर्खः सर्वत्र मुह्यति ॥ 44॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,44,984,विरक्तस्यात्मरक्तस्य सुखमेकान्तसेवनम् । आत्मानुचिन्तनं चैव वेदान्तस्य च चिन्तनम् ॥ 45॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,45,985,दुःखं तदेतत्सर्वं हि संसारकथनादिकम् । शत्रवो बहवस्तस्य विज्ञस्य शुभमिच्छतः ॥ 46॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,46,986,कामः क्रोधः प्रमादश्च शत्रवो विविधाः स्मृताः । बन्धुः सन्तोष एवास्य नान्योऽस्ति भुवनत्रये ॥ 47॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,47,987,सूत उवाच । तच्छ्रुत्वा वचनं तस्य मत्वा तं ज्ञानिनं द्विजम् । क्षत्ता प्रवेशयामास कक्षां चातिमनोरमाम् ॥ 48॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,48,988,नगरं वीक्षमाणः संस्त्रैविध्यजनसङ्कुलम् । नानाविपणिद्रव्याढ्यं क्रयविक्रयकारकम् ॥ 49॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,49,989,रागद्वेषयुतं कामलोभमोहाकुलं तथा । विवदत्सुजनाकीर्णं वसुपूर्णं महत्तरम् ॥ 50॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,50,990,पश्यन्स त्रिविधाँल्लोकान्प्रासरद्राजमन्दिरम् । प्राप्तः परमतेजस्वी द्वितीय इव भास्करः ॥ 51॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,51,991,निवारितश्च तत्रैव प्रतीहारेण काष्ठवत् । तत्रैव च स्थितो द्वारि मोक्षमेवानुचिन्तयन् ॥ 52॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,52,992,छायायामातपे चैव समदर्शी महातपाः । ध्यानं कृत्वा तथैकान्ते स्थितः स्थाणुरिवाचलः ॥ 53॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,53,993,तं मुहूर्तादुपागत्य राज्ञोऽमात्यः कृताञ्जलिः । प्रावेशयत्ततः कक्षां द्वितीयां राजवेश्मनः ॥ 54॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,54,994,तत्र दिव्यं मनोरम्यं पुष्पितं दिव्यपादपम् । तद्वनं दर्शयित्वा तु कृत्वा चातिथिसत्क्रियाम् ॥ 55॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,55,995,वारमुख्याः स्त्रियस्तत्र राजसेवापरायणाः । गीतवादित्रकुशलाः कामशास्त्रविशारदाः ॥ 56॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,56,996,ता आदिश्य च सेवार्थं शुकस्य मन्त्रिसत्तमः । निर्गतः सदनात्तस्माद्व्यासपुत्रः स्थितस्तदा ॥ 57॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,57,997,पूजितः परया भक्त्या ताभिः स्त्रीभिर्यथाविधि । देशकालोपपन्नेन नानान्नेनातितोषितः ॥ 58॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,58,998,ततोऽन्तःपुरवासिन्यस्तस्यान्तःपुरकाननम् । रम्यं सन्दर्शयामासुरङ्गनाः काममोहिताः ॥ 59॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,59,999,स युवा रूपवान्कान्तो मृदुभाषी मनोरमः । दृष्ट्वा ता मुमुहुः सर्वास्तं च काममिवापरम् ॥ 60॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,60,1000,जितेन्द्रियं मुनिं मत्त्वा सर्वाः पर्यचरंस्तदा । आरणेयस्तु शुद्धात्मा मातृभावमकल्पयत् ॥ 61॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,61,1001,आत्मारामो जितक्रोधो न हृष्यति न तप्यति । पश्यंस्तासां विकारांश्च स्वस्थ एव स तस्थिवान् ॥ 62॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,62,1002,तस्मै शय्यां सुरम्यां च ददुर्नार्यः सुसंस्कृताम् । परार्ध्यास्तरणोपेतां नानोपस्करसंवृताम् ॥ 63॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,63,1003,स कृत्वा पादशौचं च कुशपाणिरतन्द्रितः । उपास्य पश्चिमां सन्ध्यां ध्यानमेवान्वपद्यत ॥ 64॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,64,1004,याममेकं स्थितो ध्याने सुष्वाप तदनन्तरम् । सुप्त्वा यामद्वयं तत्र चोदतिष्ठत्ततः शुकः ॥ 65॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,65,1005,पाश्चात्यं यामिनीयामं ध्यानमेवान्वपद्यत । स्नात्वा प्रातःक्रियाः कृत्वा पुनरास्ते समाहितः ॥ 66॥ 1,१.१७,सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।,66,1006,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे शुकस्य राजमन्दिरप्रवेशवर्णनं नाम सप्तदशोऽध्यायः ॥ १.१७॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,0,1007,सूत उवाच । श्रुत्वा तमागतं राजा मन्त्रिभिः सहितः शुचिः । पुरः पुरोहितं कृत्वा गुरुपुत्रं समभ्यगात् ॥ 1॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,1,1008,कृत्वार्हणां नृपः सम्यग्दत्तासनमनुत्तमम् । पप्रच्छ कुशलं गां च विनिवेद्य पयस्विनीम् ॥ 2॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,2,1009,स च तां नृपपूजां वै प्रत्यगृह्णाद्यथाविधि । पप्रच्छ कुशलं राज्ञे स्वं निवेद्य निरामयम् ॥ 3॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,3,1010,कृत्वा कुशलसम्प्रश्नमुपविष्टं सुखासने । शुक व्याससुतं शान्तं पर्यपृच्छत पार्थिवः ॥ 4॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,4,1011,किं निमित्तं महाभाग निःस्पृहस्य च मां प्रति । जातं ह्यागमनं ब्रूहि कार्यं तन्मुनिसत्तम ॥ 5॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,5,1012,शुक उवाच । व्यासेनोक्तो महाराज कुरु दारपरिग्रहम् । सर्वेषामाश्रमाणां च गृहस्थाश्रम उत्तमः ॥ 6॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,6,1013,मया नाङ्गीकृतं वाक्यं मत्त्वा बन्धं गुरोरपि । न बन्धोऽस्तीति तेनोक्तो नाहं तत्कृतवान्पुनः ॥ 7॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,7,1014,इति सन्दिग्धमनसं मत्वा स मुनिसत्तमः । उवाच वचनं तथ्यं मिथिलां गच्छ मा शुचः ॥ 8॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,8,1015,याज्योऽस्ति जनकस्तत्र जीवन्मुक्तो नराधिपः । विदेहो लोकविदितः पाति राज्यमकण्टकम् ॥ 9॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,9,1016,कुर्वन् राज्यं तथा राजा मायापाशैर्न बध्यते । त्वं बिभेषि कथं पुत्र वनवृत्तिः परन्तप ॥ 10॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,10,1017,पश्य तं नृपशार्दूलं त्यज मोहं मनोगतम् । कुरु दारान्महाभाग पृच्छ वा भूपतिं च तम् ॥ 11॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,11,1018,सन्देहं ते मनोजातं कथयिष्यति पार्थिवः । तच्छ्रुत्वा वचनं तस्य मामेहि तरसा सुत ॥ 12॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,12,1019,सम्प्राप्तोऽहं महाराज त्वत्पुरे च तदाज्ञया । मोक्षकामोऽस्मि राजेन्द्र ब्रूहि कृत्यं ममानघ ॥ 13॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,13,1020,तपस्तीर्थव्रतेज्याश्च स्वाध्यायस्तीर्थसेवनम् । ज्ञानं वा वद राजेन्द्र मोक्षं प्रति च कारणम् ॥ 14॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,14,1021,जनक उवाच । श‍ृणु विप्रेण कर्तव्यं मोक्षमार्गाश्रितेन यत् । उपनीतो वसेदादौ वेदाभ्यासाय वै गुरौ ॥ 15॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,15,1022,अधीत्य वेदवेदान्तान्दत्त्वा च गुरुदक्षिणाम् । समावृत्तस्तु गार्हस्थ्ये सदारो निवसेन्मुनिः ॥ 16॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,16,1023,न्यायवृत्तिस्तु सन्तोषी निराशी गतकल्मषः । अग्निहोत्रादिकर्माणि कुर्वाणः सत्यवाक्शुचिः ॥ 17॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,17,1024,पुत्रं पौत्रं समासाद्य वानप्रस्थाश्रमे वसेत् । तपसा षड्रिपूञ्जित्वा भार्यां पुत्रे निवेश्य च ॥ 18॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,18,1025,सर्वानग्नीन्यथान्यायमात्मन्यारोप्य धर्मवित् । वसेत्तुर्याश्रमे श्रान्तः शुद्धे वैराग्यसम्भवे ॥ 19॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,19,1026,विरक्तस्याधिकारोऽस्ति संन्यासे नान्यथा क्वचित् । वेदवाक्यमिदं तथ्यं नान्यथेति मतिर्मम ॥ 20॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,20,1027,शुकाष्टचत्वारिशद्वै संस्कारा वेदबोधिताः । चत्वारिंशद्गृहस्थस्य प्रोक्तास्तत्र महात्मभिः ॥ 21॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,21,1028,अष्टौ च मुक्तिकामस्य प्रोक्ताः शमदमादयः । आश्रमादाश्रमं गच्छेदिति शिष्टानुशासनम् ॥ 22॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,22,1029,शुक उवाच । उत्पन्ने हृदि वैराग्ये ज्ञानविज्ञानसम्भवे । अवश्यमेव वस्तव्यमाश्रमेषु वनेषु वा ॥ 23॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,23,1030,जनक उवाच । इन्द्रियाणि बलिष्ठानि न नियुक्तानि मानद । अपक्वस्य प्रकुर्वन्ति विकारांस्ताननेकशः ॥ 24॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,24,1031,भोजनेच्छां सुखेच्छां च शय्येच्छामात्मजस्य च । यती भूत्वा कथं कुर्याद्विकारे समुपस्थिते ॥ 25॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,25,1032,दुर्जरं वासनाजालं न शान्तिमुपयाति वै । अतस्तच्छमनार्थाय क्रमेण च परित्यजेत् ॥ 26॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,26,1033,ऊर्ध्वं सुप्तः पतत्येव न शयानः पतत्यधः । परिव्रज्य परिभ्रष्टो न मार्गं लभते पुनः ॥ 27॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,27,1034,यथा पिपीलिका मूलाच्छाखायामधिरोहति । शनैः शनैः फलं याति सुखेन पदगामिनी ॥ 28॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,28,1035,विहङ्गस्तरसा याति विघ्नशङ्कामुदस्य वै । श्रान्तो भवति विश्रम्य सुखं याति पिपीलिका ॥ 29॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,29,1036,मनस्तु प्रबलं काममजेयमकृतात्मभिः । अतः क्रमेण जेतव्यमाश्रमानुक्रमेण च ॥ 30॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,30,1037,गृहस्थाश्रमसंस्थोऽपि शान्तः सुमतिरात्मवान् । न च हृष्येन्न च तपेल्लाभालाभे समो भवेत् ॥ 31॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,31,1038,विहतं कर्म कुर्वाणस्त्यजंश्चिन्तान्वितं च यत् । आत्मलाभेन सन्तुष्टो मुच्यते नात्र संशयः ॥ 32॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,32,1039,पश्याहं राज्यसंस्थोऽपि जीवन्मुक्तो यथानघ । विचरामि यथाकामं न मे किञ्चित्प्रजायते ॥ 33॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,33,1040,भुञ्जानो विविधान्भोगान्कुर्वन्कार्याण्यनेकशः । भविष्यामि यथाहं त्वं तथा मुक्तो भवानघ ॥ 34॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,34,1041,कथ्यते खलु यद्दृश्यमदृश्यं बध्यते कुतः । दृश्यानि पञ्चभूतानि गुणास्तेषां तथा पुनः ॥ 35॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,35,1042,आत्मा गम्योऽनुमानेन प्रत्यक्षो न कदाचन । स कथं बध्यते ब्रह्मन्निर्विकारो निरञ्जनः ॥ 36॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,36,1043,मनस्तु सुखदुःखानां महतां कारणं द्विज । जाते तु निर्मले ह्यस्मिन्सर्वं भवति निर्मलम् ॥ 37॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,37,1044,भ्रमन्सर्वेषु तीर्थेषु स्नात्वा स्नात्वा पुनः पुनः । निर्मलं न मनो यावत्तावत्सर्वं निरर्थकम् ॥ 38॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,38,1045,न देहो न च जीवात्मा नेन्द्रियाणि परन्तप । मन एव मनुष्याणां कारणं बन्धमोक्षयोः ॥ 39॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,39,1046,शुद्धो मुक्तः सदैवात्मा न वै बध्येत कर्हिचित् । बन्धमोक्षौ मनःसंस्थौ तस्मिञ्छान्ते प्रशाम्यति ॥ 40॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,40,1047,शत्रुर्मित्रमुदासीनो भेदाः सर्वे मनोगताः । एकात्मत्वे कथं भेदः सम्भवेद्द्वैतदर्शनात् ॥ 41॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,41,1048,जीवो ब्रह्म सदैवाहं नात्र कार्या विचारणा । भेदबुद्धिस्तु संसारे वर्तमाना प्रवर्तते ॥ 42॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,42,1049,अविद्येयं महाभाग विद्या चैतन्निवर्तनम् । विद्याविद्ये च विज्ञेये सर्वदैव विचक्षणैः ॥ 43॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,43,1050,विनातपं हि छायाया ज्ञायते च कथं सुखम् । अविद्यया विना तद्वत्कथं विद्यां च वेत्ति वै ॥ 44॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,44,1051,गुणा गुणेषु वर्तन्ते भूतानि च तथैव च । इन्द्रियाणीन्द्रियार्थेषु को दोषस्तत्र चात्मनः ॥ 45॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,45,1052,मर्यादा सर्वरक्षार्थं कृता वेदेषु सर्वशः । अन्यथा धर्मनाशः स्यात्सौगतानामिवानघ ॥ 46॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,46,1053,धर्मनाशे विनष्टः स्याद्वर्णाचारोऽतिवर्तितः । अतो वेदप्रदिष्टेन मार्गेण गच्छतां शुभम् ॥ 47॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,47,1054,शुक उवाच । सन्देहो वर्तते राजन्न निवर्तति मे क्वचित् । भवता कथितं यत्तच्छृण्वतो मे नराधिप ॥ 48॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,48,1055,वेदधर्मेषु हिंसा स्यादधर्मबहुला हि सा । कथं मुक्तिप्रदो धर्मो वेदोक्तो बत भूपते ॥ 49॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,49,1056,प्रत्यक्षेण त्वनाचारः सोमपानं नराधिप । पशूनां हिंसनं तद्वद्भक्षणं चामिषस्य च ॥ 50॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,50,1057,सौत्रामणौ तथा प्रोक्तः प्रत्यक्षेण सुराग्रहः । द्यूतक्रीडा तथा प्रोक्ता व्रतानि विविधानि च ॥ 51॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,51,1058,श्रूयते स्म पुरा ह्यासीच्छशबिन्दुर्नृपोत्तमः । यज्वा धर्मपरो नित्यं वदान्यः सत्यसागरः ॥ 52॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,52,1059,गोप्ता च धर्मसेतूनां शास्ता चोत्पथगामिनाम् । यज्ञाश्च विहितास्तेन बहवो भूरिदक्षिणाः ॥ 53॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,53,1060,चर्मणां पर्वतो जातो विन्ध्याचलसमः पुनः । मेघाम्बुप्लावनाज्जाता नदी चर्मण्वती शुभा ॥ 54॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,54,1061,सोऽपि राजा दिवं यातः कीर्तिरस्याचला भुवि । एवं धर्मेषु वेदेषु न मे बुद्धिः प्रवर्तते ॥ 55॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,55,1062,स्त्रीसङ्गेन सदा भोगे सुखमाप्नोति मानवः । अलाभे दुःखमत्यन्तं जीवन्मुक्तः कथं भवेत् ॥ 56॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,56,1063,जनक उवाच । हिंसा यज्ञेषु प्रत्यक्षा साहिंसा परिकीर्तिता । उपाधियोगतो हिंसा नान्यथेति विनिर्णयः ॥ 57॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,57,1064,यथा चेन्धनसंयोगादग्नौ धूमः प्रवर्तते । तद्वियोगात्तथा तस्मिन्निर्धूमत्वं विभाति वै ॥ 58॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,58,1065,अहिंसां च तथा विद्धि वेदोक्तां मुनिसत्तम । रागिणां सापि हिंसैव निःस्पृहाणां न सा मता ॥ 59॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,59,1066,अरागेण च यत्कर्म तथाहङ्कारवर्जितम् । अकृतं वेदविद्वांसः प्रवदन्ति मनीषिणः ॥ 60॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,60,1067,गृहस्थानां तु हिंसैव या यज्ञे द्विजसत्तम । अरागेण च यत्कर्म तथाहङ्कारवर्जितम् ॥ 61॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,61,1068,साहिंसैव महाभाग मुमुक्षूणां जितात्मनाम् ॥ 62॥ 1,१.१८,अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।,62,1069,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे शुकाय जनकोपदेशवर्णनं नामाष्टादशोऽध्यायः ॥ १.१८॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,0,1070,शुक उवाच । सन्देहोऽयं महाराज वर्तते हृदये मम । मायामध्ये वर्तमानः स कथं निःस्पृहो भवेत् ॥ 1॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,1,1071,शास्त्रज्ञानं च सम्प्राप्य नित्यानित्यविचारणम् । त्यजते न मनो मोहं स कथं मुच्यते नरः ॥ 2॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,2,1072,अन्तर्गतं तमश्छेत्तुं शास्त्राद्बोधो हि न क्षमः । यथा न नश्यति तमः कृतया दीपवार्तया ॥ 3॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,3,1073,अद्रोहः सर्वभूतेषु कर्तव्यः सर्वदा बुधैः । स कथं राजशार्दूल गृहस्थस्य भवेत्तथा ॥ 4॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,4,1074,वित्तैषणा न ते शान्ता तथा राज्यसुखैषणा । जयैषणा च सङ्ग्रामे जीवन्मुक्तः कथं भवेः ॥ 5॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,5,1075,चौरेषु चौरबुद्धिस्तु साधुबुद्धिस्तु तापसे । स्वपरत्वं तवाप्यस्ति विदेहस्त्वं कथं नृप ॥ 6॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,6,1076,कटुतीक्ष्णुकषायाम्लरसान्वेत्सि शुभाशुभान् । शुभेषु रमते चित्तं नाशुभेषु तथा नृप ॥ 7॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,7,1077,जाग्रत्स्वप्नसुषुप्तिश्च तव राजन् भवन्ति हि । अवस्थास्तु यथाकालं तुरीया तु कथं नृप ॥ 8॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,8,1078,पदात्यश्वरथेभाश्च सर्वे वै वशगा मम । स्वाम्यहं चैव सर्वेषां मन्यसे त्वं न मन्यसे ॥ 9॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,9,1079,मिष्टमत्सि सदा राजन्मुदितो विमनास्तथा । मालायां च तथा सर्पे समदृक् क्व नृपोत्तम ॥ 10॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,10,1080,विमुक्तस्तु भवेद्राजन् समलोष्टाश्मकाञ्चनः । एकात्मबुद्धिः सर्वत्र हितकृत्सर्वजन्तुषु ॥ 11॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,11,1081,न मेऽद्य रमते चित्तं गृहदारादिषु क्वचित् । एकाकी निःस्पृहोऽत्यर्थं चरेयमिति मे मतिः ॥ 12॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,12,1082,निःसङ्गो निर्ममः शान्तः पत्रमूलफलाशनः । मृगवद्विचरिष्यामि निर्द्वन्द्वो निष्परिग्रहः ॥ 13॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,13,1083,किं मे गृहेण वित्तेन भार्यया च सुरूपया । विरागमनसः कामं गुणातीतस्य पार्थिव ॥ 14॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,14,1084,चिन्त्यसे विविधाकारं नानारागसमाकुलम् । दम्भोऽयं किल ते भाति विमुक्तोऽस्मीति भाषसे ॥ 15॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,15,1085,कदाचिच्छत्रुजा चिन्ता धनजा च कदाचन । कदाचित्सैन्यजा चिन्ता निश्चिन्तोऽसि कदा नृप ॥ 16॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,16,1086,वैखानसा ये मुनयो मिताहारा जितव्रताः । तेऽपि मुह्यन्ति संसारे जानन्तोऽपि ह्यसत्यताम् ॥ 17॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,17,1087,तव वंशसमुत्थानां विदेहा इति भूपते । कुटिलं नाम जानीहि नान्यथेति कदाचन ॥ 18॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,18,1088,विद्याधरो यथा मूर्खो जन्मान्धस्तु दिवाकरः । लक्ष्मीधरो दरिद्रश्च नाम तेषां निरर्थकम् ॥ 19॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,19,1089,तव वंशोद्भवा ये ये श्रुताः पूर्वे मया नृपाः । विदेहा इति विख्याता नामतः कर्मतो न ते ॥ 20॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,20,1090,निमिनामाभवद्राजा पूर्वं तव कुले नृप । यज्ञार्थं स तु राजर्षिर्वसिष्ठं स्वगुरुं मुनिम् ॥ 21॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,21,1091,निमन्त्रयामास तदा तमुवाच नृपं मुनिः । निमन्त्रितोऽस्मि यज्ञार्थं देवेन्द्रेणाधुना किल ॥ 22॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,22,1092,कृत्वा तस्य मखं पूर्णं करिष्यामि तवापि वै । तावत्कुरुष्व राजेन्द्र सम्भारं तु शनैः शनैः ॥ 23॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,23,1093,इत्युक्त्या निर्ययौ सोऽथ महेन्द्रयजने मुनिः । निमिरन्यं गुरुं कृत्वा चकार मखमुत्तमम् ॥ 24॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,24,1094,तच्छ्रुत्वा कुपितोऽत्यर्थं वसिष्ठो नृपतिं पुनः । शशाप च पतत्वद्य देहस्ते गुरुलोपक ॥ 25॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,25,1095,राजापि तं शशापाथ तवापि च पतत्वयम् । अन्योन्यशापात्पतितौ तावेव च मया श्रुतम् ॥ 26॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,26,1096,विदेहेन च राजेन्द्र कथं शप्तो गुरुः स्वयम् । विनोद इव मे चित्ते विभाति नृपसत्तम ॥ 27॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,27,1097,जनक उवाच । सत्यमुक्तं त्वया नात्र मिथ्या किञ्चिदिदं मतम् । तथापि श‍ृणु विप्रेन्द्र गुरुर्मम सुपूजितः ॥ 28॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,28,1098,पितुः सङ्गं परित्यज्य त्वं वनं गन्तुमिच्छसि । मृगैः सह सुसम्बन्धो भविता ते न संशयः ॥ 29॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,29,1099,महाभूतानि सर्वत्र निःसङ्गः क्व भविष्यसि । आहारार्थं सदा चिन्ता निश्चिन्तः स्याः कथं मुने ॥ 30॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,30,1100,दण्डाजिनकृता चिन्ता यथा तव वनेऽपि च । तथैव राज्यचिन्ता मे चिन्तयानस्य वा न वा ॥ 31॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,31,1101,विकल्पोपहतस्त्वं वै दूरदेशमुपागतः । न मे विकल्पसन्देहो निर्विकल्पोऽस्मि सर्वथा ॥ 32॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,32,1102,सुखं स्वपिमि विप्राहं सुखं भुञ्जामि सर्वथा । न बद्धोऽस्मीति बुद्ध्याहं सर्वदैव सुखी मुने ॥ 33॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,33,1103,त्वं तु दुःखी सदैवासि बद्धोऽहमिति शङ्कया । इति शङ्कां परित्यज्य सुखी भव समाहितः ॥ 34॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,34,1104,देहोऽयं मम बन्धोऽयं न ममेति च मुक्तता । तथा धनं गृहं राज्यं न ममेति च निश्चयः ॥ 35॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,35,1105,सूत उवाच । तच्छ्रुत्वा वचनं तस्य शुकः प्रीतमनाभवत् । आपृच्छ्य तं जगामाशु व्यासस्याश्रममुत्तमम् ॥ 36॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,36,1106,आगच्छन्तं सुतं दृष्ट्वा व्यासोऽपि सुखमाप्तवान् । आलिङ्ग्याघ्राय मूर्धानं पप्रच्छ कुशलं पुनः ॥ 37॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,37,1107,स्थितस्तत्राश्रमे रम्ये पितुः पार्श्वे समाहितः । वेदाध्ययनसम्पन्नः सर्वशास्त्रविशारदः ॥ 38॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,38,1108,जनकस्य दशां दृष्ट्वा राज्यस्थस्य महात्मनः । स निर्वृतिं परां प्राप्य पितुराश्रमसंस्थितः ॥ 39॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,39,1109,पितॄणां सुभगा कन्या पीवरी नाम सुन्दरी । शुकश्चकार पत्नीं तां योगमार्गस्थितोऽपि हि ॥ 40॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,40,1110,स तस्यां जनयामास पुत्रांश्चतुर एव हि । कृष्णं गौरप्रभं चैव भूरिं देवश्रुतं तथा ॥ 41॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,41,1111,कन्यां कीर्तिं समुत्पाद्य व्यासपुत्रः प्रतापवान् । ददौ विभ्राजपुत्राय त्वणहाय महात्मने ॥ 42॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,42,1112,अणुहस्य सुतः श्रीमान्ब्रह्मदत्तः प्रतापवान् । ब्रह्मज्ञः पृथिवीपालः शककन्यासमुद्भवः ॥ 43॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,43,1113,कालेन कियता तत्र नारदस्योपदेशतः । ज्ञानं परमकं प्राप्य योगमार्गमनुत्तमम् ॥ 44॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,44,1114,पुत्रे राज्यं निधायाथ गतो बदरिकाश्रमम् । मायाबीजोपदेशेन तस्य ज्ञानं निरर्गलम् ॥ 45॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,45,1115,नारदस्य प्रसादेन जातं सद्यो विमुक्तिदम् । कैलासशिखरे रम्ये त्यक्त्वा सङ्गं पितुः शुकः ॥ 46॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,46,1116,ध्यानमास्थाय विपुलं स्थितः सङ्गपराङ्मुखः । उत्पपात गिरेः श‍ृङ्गात्सिद्धिं च परमां गतः ॥ 47॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,47,1117,आकाशगो महातेजा विरराज यथा रविः । गिरेः श‍ृङ्गं द्विधा जातं शुकस्योत्पतने तदा ॥ 48॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,48,1118,उत्पाता बहवो जाताः शुकश्चाकाशगोऽभवत् । अन्तरिक्षे यथा वायुः स्तूयमानः सुरर्षिभिः ॥ 49॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,49,1119,तेजसातिविराजन्वै द्वितीय इव भास्करः । व्यासस्तु विरहाक्रान्तः क्रन्दन्पुत्रेति चासकृत् ॥ 50॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,50,1120,गिरेः श‍ृङ्गे गतस्तत्र शुको यत्र स्थितोऽभवत् । क्रन्दमानं तदा दीनं व्यासं मत्वा श्रमाकुलम् ॥ 51॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,51,1121,सर्वभूतगतः साक्षी प्रतिशब्दमदात्तदा । तत्राद्यापि गिरेः श‍ृङ्गे प्रतिशब्दः स्फुटोऽभवत् ॥ 52॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,52,1122,रुदन्तं तं समालक्ष्य व्यासं शोकसमन्वितम् । पुत्र पुत्रेति भाषन्तं विरहेण परिप्लुतम् ॥ 53॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,53,1123,शिवस्तत्र समागत्य पाराशर्यमबोधयत् । व्यास शोकं मा कुरु त्वं पुत्रस्ते योगवित्तमः ॥ 54॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,54,1124,परमां गतिमापन्नो दुर्लभां चाकृतात्मभिः । तस्य शोको न कर्तव्यस्त्वयाशोकं विजानता ॥ 55॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,55,1125,कीर्तिस्ते विपुला जाता तेन पुत्रेण चानघ । व्यास उवाच । न शोको याति देवेश किं करोमि जगत्पते ॥ 56॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,56,1126,अतृप्ते लोचने मेऽद्य पुत्रदर्शनलालसे । महादेव उवाच । छायां द्रक्ष्यसि पुत्रस्य पार्श्वस्थां सुमनोहराम् ॥ 57॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,57,1127,तां वीक्ष्य मुनिशार्दूल शोकं जहि परन्तप । सूत उवाच । तदा ददर्श व्यासस्तु छायां पुत्रस्य सुप्रभाम् ॥ 58॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,58,1128,दत्त्वा वरं हरस्तस्मै तत्रैवान्तरधीयत । अन्तर्हिते महादेवे व्यासः स्वाश्रममभ्यगात् ॥ 59॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,59,1129,शुकस्य विरहेणापि तप्तः परमदुःखितः ॥ 60॥ 1,१.१९,एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।,60,1130,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे शुकस्य विवाहादिकार्यवर्णनं नामैकोनविंशोऽध्यायः ॥ १.१९॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,0,1131,ऋषय ऊचुः । शुकस्तु परमां सिद्धिमाप्तवान्देवसत्तमः । किं चकार ततो व्यासस्तन्नो ब्रूहि सविस्तरम् ॥ 1॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,1,1132,सूत उवाच । शिष्या व्यासस्य येऽप्यासन्वेदाभ्यासपरायणाः । आज्ञामादाय ते सर्वे गताः पूर्वं महीतले ॥ 2॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,2,1133,असितो देवलश्चैव वैशम्पायन एव च । जैमिनिश्च सुमन्तुश्च गताः सर्वे तपोधनाः ॥ 3॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,3,1134,तानेतान्वीक्ष्य पुत्रं च लोकान्तरितमप्युत । व्यासः शोकसमाक्रान्तो गमनायाकरोन्मतिम् ॥ 4॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,4,1135,सस्मार मनसा व्यासस्तां निषादसुतां शुभाम् । मातरं जाह्नवीतीरे मुक्तां शोकसमन्विताम् ॥ 5॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,5,1136,स्मृत्वा सत्यवतीं व्यासस्त्यक्त्वा तं पर्वतोत्तमम् । आजगाम महातेजा जन्मस्थानं स्वकं मुनिः ॥ 6॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,6,1137,द्वीपं प्राप्याथ पप्रच्छ क्व गता सा वरानना । निषादास्तं समाचख्युर्दत्ता राज्ञे तु कन्यका ॥ 7॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,7,1138,दाशराजोऽपि सम्पूज्य व्यासं प्रीतिपुरःसरम् । स्वागतेनाभिसत्कृत्य प्रोवाच विहिताञ्जलिः ॥ 8॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,8,1139,दाशराज उवाच । अद्य मे सफलं जन्म पावितं नः कुलं मुने । देवानामपि दुर्दर्शं यज्जातं तव दर्शनम् ॥ 9॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,9,1140,यदर्थमागतोऽसि त्वं तद्ब्रूहि द्विजसत्तम । अपि दारा धनं पुत्रास्त्वदायत्तमिदं विभो ॥ 10॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,10,1141,सरस्वत्यास्तटे रम्ये चकाराश्रममण्डलम् । व्यासस्तपःसमायुक्तस्तत्रैवास समाहितः ॥ 11॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,11,1142,सत्यवत्याः सुतौ जातौ शन्तनोरमितद्युतेः । मत्वा तौ भ्रातरौ व्यासः सुखमाप वने स्थितः ॥ 12॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,12,1143,चित्राङ्गदः प्रथमजो रूपवाञ्छत्रुतापनः । बभूव नृपतेः पुत्रः सर्वलक्षणसंयुतः ॥ 13॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,13,1144,विचित्रवीर्यनामासौ द्वितीयः समजायत । सोऽपि सर्वगुणोपेतः शन्तनोः सुखवर्धनः ॥ 14॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,14,1145,गाङ्गेयः प्रथमस्तस्य महावीरो बलाधिकः । तथैव तौ सुतौ जातौ सत्यवत्यां महाबलौ ॥ 15॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,15,1146,शन्तनुस्तान्सुतान्वीक्ष्य सर्वलक्षणसंयुतान् । अमंस्ताजय्यमात्मानं देवादीनां महामनाः ॥ 16॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,16,1147,अथ कालेन कियता शन्तनुः कालपर्ययात् । तत्याज देहं धर्मात्मा देही जीर्णमिवाम्बरम् ॥ 17॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,17,1148,कालधर्मगते राज्ञि भीष्मश्चक्रे विधानतः । प्रेतकार्याणि सर्वाणि दानानि विविधानि च ॥ 18॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,18,1149,चित्राङ्गदं ततो राज्ये स्थापयामास वीर्यवान् । स्वयं न कृतवान् राज्यं तस्माद्देवव्रतोऽभवत् ॥ 19॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,19,1150,चित्राङ्गदस्तु वीर्येण प्रमत्तः परदुःखदः । बभूव बलवान्वीरः सत्यवत्यात्मजः शुचिः ॥ 20॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,20,1151,अथैकदा महाबाहुः सैन्येन महतावृतः । प्रचचार वनोद्देशात्पश्यन्वध्यान्मृगान् रुरून् ॥ 21॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,21,1152,चित्राङ्गदस्तु गन्धर्वो दृष्ट्वा तं मार्गगं नृपम् । उत्ततारान्तिकं भूमेर्विमानवरमास्थितः ॥ 22॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,22,1153,तत्राभूच्च महद्युद्धं तयोः सदृशवीर्ययोः । कुरुक्षेत्रे महास्थाने त्रीणि वर्षाणि तापसाः ॥ 23॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,23,1154,इन्द्रलोकमवापाशु गन्धर्वेण हतो रणे । भीष्मः श्रुत्वा चकाराशु तस्यौर्ध्वदैहिकं तदा ॥ 24॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,24,1155,गाङ्गेयः कृतशोकस्तु मन्त्रिभिः परिवारितः । विचित्रवीर्यनामानं राज्येशं च चकार ह ॥ 25॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,25,1156,मन्त्रिभिर्बोधिता पश्चाद्गुरुभिश्च महात्मभिः । स्वपुत्रं राज्यगं दृष्ट्वा पुत्रशोकहतापि च ॥ 26॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,26,1157,सत्यवत्यतिसन्तुष्टा बभूव वरवर्णिनी । व्यासोऽपि भ्रातरं श्रुत्वा राजानं मुदितोऽभवत् ॥ 27॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,27,1158,यौवनं परमं प्राप्तः सत्यवत्याः सुतः शुभः । चकार चिन्तां भीष्मोऽपि विवाहार्थं कनीयसः ॥ 28॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,28,1159,काशिराजसुतास्तिस्रः सर्वलक्षणसंयुताः । तेन राज्ञा विवाहार्थं स्थापिताश्च स्वयंवरे ॥ 29॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,29,1160,राजानो राजपुत्राश्च समाहूताः सहस्रशः । इच्छास्वयंवरार्थं वै पूज्यमानाः समागताः ॥ 30॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,30,1161,तत्र भीष्मो महातेजास्ता जहार बलेन वै । निर्मथ्य राजकं सर्वं रथेनैकेन वीर्यवान् ॥ 31॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,31,1162,स जित्वा पार्थिवान्सर्वांस्ताश्चादाय महारथः । बाहुवीर्येण तेजस्वी ह्याससाद गजाह्वयम् ॥ 32॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,32,1163,मातृवद्भगिनीवच्च पुत्रीवच्चिन्तयन्किल । तिस्रः समानयामास कन्यका वामलोचनाः ॥ 33॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,33,1164,सत्यवत्यै निवेद्याशु द्विजानाहूय सत्वरः । दैवज्ञान्वेदविदुषः पर्यपृच्छच्छुभं दिनम् ॥ 34॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,34,1165,कृत्वा विवाहसम्भारं यदा वै भ्रातरं निजम् । विचित्रवीर्यं धर्मिष्ठं विवाहयति ता यदा ॥ 35॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,35,1166,तदा ज्येष्ठाप्युवाचेदं कन्यका जाह्नवीसुतम् । लज्जमानासितापाङ्गी तिसॄणां चारुलोचना ॥ 36॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,36,1167,गङ्गापुत्र कुरुश्रेष्ठ धर्मज्ञ कुलदीपक । मया स्वयंवरे शाल्वो वृतोऽस्ति मनसा नृपः ॥ 37॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,37,1168,वृताहं तेन राज्ञा वै चित्ते प्रेमसमाकुले । यथायोग्यं कुरुष्वाद्य कुलस्यास्य परन्तप ॥ 38॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,38,1169,तेनाहं वृतपूर्वाऽस्मि त्वं च धर्मभृतां वरः । बलवानसि गाङ्गेय यथेच्छसि तथा कुरु ॥ 39॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,39,1170,सूत उवाच । एवमुक्तस्तया तत्र कन्यया कुरुनन्दनः । अपृच्छत् ब्राह्मणान्वृद्धान्मातरं सचिवांस्तथा ॥ 40॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,40,1171,सर्वेषां मतमाज्ञाय गाङ्गेयो धर्मवित्तमः । गच्छेति कन्यकां प्राह यथारुचि वरानने ॥ 41॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,41,1172,विसर्जिताथ सा तेन गता शाल्वनिकेतनम् । उवाच तं वरारोहा राजानं मनसेप्सितम् ॥ 42॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,42,1173,विनिर्मुक्तास्मि भीष्मेण त्वन्मनस्केति धर्मतः । आगतास्मि महाराज गृहाणाद्य करं मम ॥ 43॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,43,1174,धर्मपत्नी तवात्यन्तं भवामि नृपसत्तम । चिन्तितोऽसि मया पूर्वं त्वयाहं नात्र संशयः ॥ 44॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,44,1175,शाल्व उवाच । गृहीता त्वं वरारोहे भीष्मेण पश्यतो मम । रथे संस्थापिता तेन न ग्रहीष्ये करं तव ॥ 45॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,45,1176,परोच्छिष्टां च कः कन्यां गृह्णाति मतिमान्नरः । अतोऽहं न ग्रहीष्यामि त्यक्तां भीष्मेण मातृवत् ॥ 46॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,46,1177,रुदती विलपन्ती सा त्यक्ता तेन महात्मना । पुनर्भीष्मं समागत्य रुदती चेदमब्रवीत् ॥ 47॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,47,1178,शाल्वो मुक्तां त्वया वीर न गृह्णाति गृहाण माम् । धर्मज्ञोऽसि महाभाग मरिष्याम्यन्यथा ह्यहम् ॥ 48॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,48,1179,भीष्म उवाच । अन्यचित्तां कथं त्वां वै गृह्णामि वरवर्णिनि । पितरं स्वं वरारोहे व्रज शीघ्नं निराकुला ॥ 49॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,49,1180,तथोक्ता सा तु भीष्मेण जगाम वनमेव हि । तपश्चकार विजने तीर्थे परमपावने ॥ 50॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,50,1181,द्वे भार्ये चातिरूपाढ्ये तस्य राज्ञो बभूवतुः । अम्बालिका चाम्बिका च काशिराजसुते शुभे ॥ 51॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,51,1182,राजा विचित्रवीर्योऽसौ ताभ्यां सह महाबलः । रेमे नानाविहारैश्च गृहे चोपवने तथा ॥ 52॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,52,1183,वर्षाणि नव राजेन्द्रः कुर्वन् क्रीडा मनोरमाम् । प्रापासौ मरणं भूयो गृहीतो राजयक्ष्मणा ॥ 53॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,53,1184,मृते पुत्रेऽतिदुःखार्ता जाता सत्यवती तदा । कारयामास पुत्रस्य प्रेतकार्याणि मन्त्रिभिः ॥ 54॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,54,1185,भीष्ममाह तदैकान्ते वचनं चातिदुःखिता । राज्यं कुरु महाभाग पितुस्ते शन्तनोः सुत ॥ 55॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,55,1186,भ्रातुर्भार्यां गृहाण त्वं वंशञ्च परिरक्षय । यथा न नाशमायाति ययातेर्वंश इत्युत ॥ 56॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,56,1187,भीष्म उवाच । प्रतिज्ञा मे श्रुता मातः पित्रर्थे या मया कृता । नाहं राज्यं करिष्यामि न चाहं दारसङ्ग्रहम् ॥ 57॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,57,1188,सूत उवाच । तदा चिन्तातुरा जाता कथं वंशो भवेदिति । नालसाद्धि सुखं मह्यं समुत्पन्ने ह्यराजके ॥ 58॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,58,1189,गाङ्गेयस्तामुवाचेदं मा चिन्तां कुरु भामिनि । पुत्रं विचित्रवीर्यस्य क्षेत्रजं चोपपादय ॥ 59॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,59,1190,कुलीनं द्विजमाहूय वध्वा सह नियोजय । नात्र दोषोऽस्ति वेदेऽपि कुलरक्षाविधौ किल ॥ 60॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,60,1191,पौत्रं चैवं समुत्पाद्य राज्यं देहि शुचिस्मिते । अहं च पालयिष्यामि तस्य शासनमेव हि ॥ 61॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,61,1192,तच्छ्रुत्वा वचनं तस्य कानीनं स्वसुतं मुनिम् । जगाम मनसा व्यासं द्वैपायनमकल्मषम् ॥ 62॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,62,1193,स्मृतमात्रस्ततो व्यास आजगाम स तापसः । कृत्वा प्रणामं मात्रेऽथ संस्थितो दीप्तिमान्मुनिः ॥ 63॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,63,1194,भीष्मेण पूजितः कामं सत्यवत्या च मानितः । तस्थौ तत्र महातेजा विधूमोऽग्निरिवापरः ॥ 64॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,64,1195,तमुवाच मुनिं माता पुत्रमुत्पादयाधुना । क्षेत्रे विचित्रवीर्यस्य सुन्दरं तव वीर्यजम् ॥ 65॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,65,1196,व्यासः श्रुत्वा वचो मातुराप्तवाक्यममन्यत । ओमित्युक्त्वा स्थितस्तत्र ऋतुकालमचिन्तयत् ॥ 66॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,66,1197,अम्बिका च यदा स्नाता नारी ऋतुमती तदा । सङ्गं प्राप्य मुनेः पुत्रमसूतान्धं महाबलम् ॥ 67॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,67,1198,जन्मान्धं च सुतं वीक्ष्य दुःखिता सत्यवत्यपि । द्वितीयां च वधूमाह पुत्रमुत्पादयाशु वै ॥ 68॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,68,1199,ऋतुकालेऽथ सम्प्राप्ते व्यासेन सह सङ्गता । तथा चाम्बालिका रात्रौ गर्भं नारी दधार सा ॥ 69॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,69,1200,सोऽपि पाण्डुः सुतो जातो राज्ययोग्यो न सम्मतः । पुत्रार्थे प्रेरयामास वर्षान्ते च पुनर्वधूम् ॥ 70॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,70,1201,आहूय च ततो व्यासं सम्प्रार्थ्य मुनिसत्तमम् । प्रेषयामास रात्रौ सा शयनागारमुत्तमम् ॥ 71॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,71,1202,न गता च वधूस्तत्र प्रेष्या सम्प्रेषिता तया । तस्यां च विदुरो जातो दास्यां धर्मांशतः शुभः ॥ 72॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,72,1203,एवं व्यासेन ते पुत्रा धृतराष्ट्रादयस्त्रयः । उत्पादिता महावीरा वंशरक्षणहेतवे ॥ 73॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,73,1204,एतद्वः सर्वमाख्यातं तस्य वंशसमुद्भवम् । व्यासेन रक्षितो वंशो भ्रातृधर्मविदानघाः ॥ 74॥ 1,१.२०,विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।,74,1205,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे धृतराष्ट्रादीनामुत्पत्तिवर्णनं नाम विंशोऽध्यायः ॥ १.२०॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,0,1206,ऋषय ऊचुः । आश्चर्यकरमेतत्ते वचनं गर्भहेतुकम् । सन्देहोऽत्र समुत्पन्नः सर्वेषां नस्तपस्विनाम् ॥ 1॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,1,1207,माता व्यासस्य मेधाविन्नाम्ना सत्यवतीति च । विवाहिता पुरा ज्ञाता राज्ञा शन्तनुना यथा ॥ 2॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,2,1208,तस्याः पुत्रः कथं व्यासः सती स्वभवने स्थिता । ईदृशी सा कथं राज्ञा पुनः शन्तनुना वृता ॥ 3॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,3,1209,तस्यां पुत्रावुभौ जातौ तत्त्वं कथय सुव्रत । विस्तरेण महाभाग कथां परमपावनीम् ॥ 4॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,4,1210,उत्पत्तिं वद व्यासस्य सत्यवत्यास्तथा पुनः । श्रोतुकामाः पुनः सर्वे ऋषयः संशितव्रताः ॥ 5॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,5,1211,सूत उवाच । प्रणम्य परमां शक्तिं चतुर्वर्गप्रदायिनीम् । आदिशक्तिं वदिष्यामि कथां पौराणिकीं शुभाम् ॥ 6॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,6,1212,यस्योच्चारणमात्रेण सिद्धिर्भवति शाश्वती । व्याजेनापि हि बीजस्य वाग्भवस्य विशेषतः ॥ 7॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,7,1213,सम्यक् सर्वात्मना सर्वैः सर्वकामार्थसिद्धये । स्मर्तव्या सर्वथा देवी वाञ्छितार्थप्रदायिनी ॥ 8॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,8,1214,राजोपरिचरो नाम धार्मिकः सत्यसङ्गरः । चेदिदेशपतिः श्रीमान् बभूव द्विजपूजकः ॥ 9॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,9,1215,तपसा तस्य तुष्टेन विमानं स्फाटिकं शुभम् । दत्तमिन्द्रेण तत्तस्मै सुन्दरं प्रियकाम्यया ॥ 10॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,10,1216,तेनारूढस्तु सर्वत्र याति दिव्येन भूपतिः । न भूमावुपरिस्थोऽसौ तेनोपरिचरो वसुः ॥ 11॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,11,1217,विख्यातः सर्वलोकेषु धर्मनित्यः स भूपतिः । तस्य भार्या वरारोहा गिरिका नाम सुन्दरी ॥ 12॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,12,1218,पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः । पृथग्देशेषु राजानः स्थापितास्तेन भूभुजा ॥ 13॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,13,1219,वसोस्तु पत्नी गिरिका कामान् काले न्यवेदयत् । ऋतुकालमनुप्राप्ता स्नाता पुंसवने शुचिः ॥ 14॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,14,1220,तदहः पितरश्चैनमूचुर्जहि मृगानिति । तच्छ्रुत्वा चिन्तयामास भार्यामृतुमतीं तथा ॥ 15॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,15,1221,पितृवाक्यं गुरुं मत्वा कर्तव्यमिति निश्चितम् । चचार मृगयां राजा गिरिकां मनसा स्मरन् ॥ 16॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,16,1222,वने स्थितः स राजर्षिश्चित्ते सस्मार भामिनीम् । अतीव रूपसम्पन्नां साक्षाच्छ्रियमिवापराम् ॥ 17॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,17,1223,तस्य रेतः प्रचस्कन्द स्मरतस्तां च कामिनीम् । वटपत्रे तु तद्राजा स्कन्नमात्रं समाक्षिपत् ॥ 18॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,18,1224,इदं वृथा परिस्कन्नं रेतो वै न भवेत्कथम् । ऋतुकालं च विज्ञाय मतिं चक्रे नृपस्तदा ॥ 19॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,19,1225,अमोघं सर्वथा वीर्यं मम चैतन्न संशयः । प्रियायै प्रेषयाम्येतदिति बुद्धिमकल्पयत् ॥ 20॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,20,1226,शुक्रप्रस्थापने कालं महिष्याः प्रसमीक्ष्य सः । अभिमन्त्र्याथ तद्वीर्यं वटपर्णपुटे कृतम् ॥ 21॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,21,1227,पार्श्वस्थं श्येनमाभाष्य राजोवाच द्विजं प्रति । गृहाणेदं महाभाग गच्छ शीघ्रं गृहं मम ॥ 22॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,22,1228,मत्प्रियार्थमिदं सौम्य गृहीत्वा त्वं गृहं नय । गिरिकायै प्रयच्छाशु तस्यास्त्वार्तवमद्य वै ॥ 23॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,23,1229,सूत उवाच । इत्युक्त्वा प्रददौ पर्णं श्येनाय नृपसत्तमः । स गृहीत्वोत्पपाताशु गगनं गतिवित्तमः ॥ 24॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,24,1230,गच्छन्तं गगनं श्येनं धृत्वा चञ्चुपुटे पुटम् । तमपश्यदथायान्तं खगं श्येनस्तथापरः ॥ 25॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,25,1231,आमिषं स तु विज्ञाय शीघ्रमभ्यद्रवत्खगम् । तुण्डयुद्धमथाकाशे तावुभौ सम्प्रचक्रतुः ॥ 26॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,26,1232,युद्ध्यतोरपतद्रेतस्तज्जापि यमुनाम्भसि । खगौ तौ निर्गतौ कामं पुटके पतिते तदा ॥ 27॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,27,1233,एतस्मिन्समये काचिदद्रिका नाम चाप्सराः । ब्राह्मणं समनुप्राप्तं सन्ध्यावन्दनतत्परम् ॥ 28॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,28,1234,कुर्वन्ती जलकेलिं सा जले मग्ना चचार सा । जग्राह चरणं नारी द्विजस्य वरवर्णिनी ॥ 29॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,29,1235,प्राणायामपरः सोऽथ दृष्ट्वा तां कामचारिणीम् । शशाप भव मत्स्यी त्वं ध्यानविघ्नकरी यतः ॥ 30॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,30,1236,सा शप्ता विप्रमुख्येन बभूव यमुनाचरी । शफरी रूपसम्पन्ना ह्यद्रिका च वराप्सराः ॥ 31॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,31,1237,श्येनपादपरिभ्रष्टं तच्छुक्रमथ वासवी । जग्राह तरसाभ्येत्य साद्रिका मत्स्यरूपिणी ॥ 32॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,32,1238,अथ कालेन कियता मत्स्यीं तां मत्स्यजीवनः । सम्प्राप्ते दशमे मासि बबन्ध तां मनोरमाम् ॥ 33॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,33,1239,उदरं विददाराशु स तस्या मत्स्यजीवनः । युग्मं विनिःसृतं तस्मादुदरान्मानुषाकृति ॥ 34॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,34,1240,बालः कुमारः सुभगस्तथा कन्या शुभानना । दृष्ट्वाश्चर्यमिदं सोऽथ विस्मयं परमं गतः ॥ 35॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,35,1241,राज्ञे निवेदयामास पुत्रौ द्वौ तु झषोद्भवौ । राजापि विस्मयाविष्टः सुतं जग्राह तं शुभम् ॥ 36॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,36,1242,स मत्स्यो नाम राजासौ धार्मिकः सत्यसङ्गरः । वसुपुत्रो महातेजाः पित्रा तुल्यपराक्रमः ॥ 37॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,37,1243,कालिका वसुना दत्ता तरसा जलजीविने । नाम्ना कालीति विख्याता तथा मत्स्योदरीति च ॥ 38॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,38,1244,मत्स्यगन्धेति नाम्ना वै गणेन समजायत । विवर्धमाना दाशस्य गृहे सा वासवी शुभा ॥ 39॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,39,1245,ऋषय ऊचुः । अद्रिका मुनिना शप्ता मत्स्यी जाता वराप्सराः । विदारिता च दाशेन मृता च भक्षिता पुनः ॥ 40॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,40,1246,किं बभूव पुनस्तस्या अप्सराया वदस्व तत् । शापस्यान्तं कथं सूत कथं स्वर्गमवाप सा ॥ 41॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,41,1247,सूत उवाच । शप्ता यदा सा मुनिना विस्मिता सम्बभूव ह । स्तुतिं चकार विप्रस्य दीनेव रुदती तदा ॥ 42॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,42,1248,दयावान्ब्राह्मणः प्राह तां तदा रुदतीं स्त्रियम् । मा शोकं कुरु कल्याणि शापान्तं ते वदाम्यहम् ॥ 43॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,43,1249,मत्क्रोधशापयोगेन मत्स्ययोनिं गता शुभे । मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि ॥ 44॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,44,1250,इत्युक्ता तेन सा प्राप मत्स्यदेहं नदीजले । बालकौ जनयित्वा सा मृता मुक्ता च शापतः ॥ 45॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,45,1251,सन्त्यज्य रूपं मत्स्यस्य दिव्यरूपमवाप्य च । जगामामरमार्गं च शापान्ते वरवर्णिनी ॥ 46॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,46,1252,एवं जाता वरा पुत्री मत्स्यगन्धा वरानना । पुत्रीव पाल्यमाना सा दाशगेहे व्यवर्धत ॥ 47॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,47,1253,मत्स्यगन्धा तदा जाता किशोरी चातिसुप्रभा । तस्य कार्याणि कुर्वाणा वासवी चातिसुप्रभा ॥ 48॥ 2,२.१,प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।,48,1254,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे मस्त्यगन्धोत्पत्तिवर्णनं नाम प्रथमोऽध्यायः ॥ २.१॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,0,1255,सूत उवाच । एकदा तीर्थयात्रायां व्रजन् पाराशरो मुनिः । आजगाम महातेजाः कालिन्द्यास्तटमुत्तमम् ॥ 1॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,1,1256,निषादमाह धर्मात्मा कुर्वन्तं भोजनं तदा । प्रापयस्व परं पारं कालिन्द्या उडुपेन माम् ॥ 2॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,2,1257,दाशः श्रुत्वा मुनेर्वाक्यं कुर्वाणो भोजनं तटे । उवाच तां सुतां बालां मत्स्यगन्धां मनोरमाम् ॥ 3॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,3,1258,उडुपेन मुनिं बाले परं पारं नयस्व ह । गन्तुकामोऽस्ति धर्मात्मा तापसोऽयं शुचिस्मिते ॥ 4॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,4,1259,इत्युक्ता सा तदा पित्रा मत्स्यगन्धाथ वासवी । उडुपे मुनिमासीनं संवाहयति भामिनी ॥ 5॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,5,1260,व्रजन् सूर्यसुतातोये भावित्वाद्दैवयोगतः । कामार्तस्तु मुनिर्जातो दृष्ट्वा तां चारुलोचनाम् ॥ 6॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,6,1261,ग्रहीतुकामः स मुनिर्दृष्ट्वा व्यञ्जितयौवनाम् । दक्षिणेन करेणैनामस्पृशद्दक्षिणे करे ॥ 7॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,7,1262,तमुवाचासितापाङ्गी स्मितपूर्वमिदं वचः । कुलस्य सदृशं वः किं श्रुतस्य तपसश्च किम् ॥ 8॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,8,1263,त्वं वै वसिष्ठदायादः कुलशीलसमन्वितः । किं चिकीर्षसि धर्मज्ञ मन्मथेन प्रपीडितः ॥ 9॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,9,1264,दुर्लभं मानुषं जन्म भुवि ब्राह्मणसत्तम । तत्रापि दुर्लभं मन्ये ब्राह्मणत्वं विशेषतः ॥ 10॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,10,1265,कुलेन शीलेन तथा श्रुतेन द्विजोत्तमस्त्वं किल धर्मविच्च । अनार्यभावं कथमागतोऽसि विप्रेन्द्र मां वीक्ष्य च मीनगन्धाम् ॥ 11॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,11,1266,मदीये शरीरे द्विजामोघबुद्धे ॥ शुभं किं समालोक्य पाणिं ग्रहीतुम् । समीपं समायासि कामातुरस्त्वं कथं नाभिजानासि धर्मं स्वकीयम् ॥ 12॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,12,1267,अहो मन्दबुद्धिर्द्विजोऽयं ग्रहीष्य- ञ्जले मग्न एवाद्य मां वै गृहीत्वा । मनो व्याकुलं पञ्चबाणातिविद्धं न कोऽपीह शक्तः प्रतीपं हि कर्तुम् ॥ 13॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,13,1268,इति सञ्चिन्त्य सा बाला तमुवाच महामुनिम् । धैर्यं कुरु महाभाग परं पारं नयामि वै ॥ 14॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,14,1269,सूत उवाच । पराशरस्तु तच्छ्रुत्वा वचनं हितपूर्वकम् । करं त्यक्त्वा स्थितस्तत्र सिन्धोः पारं गतः पुनः ॥ 15॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,15,1270,मत्स्यगन्धां प्रजग्राह मुनिः कामातुरस्तदा । वेपमाना तु सा कन्या तमुवाच पुरःस्थितम् ॥ 16॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,16,1271,दुर्गन्धाहं मुनिश्रेष्ठ कथं त्वं नोपशङ्कसे । समानरूपयोः कामसंयोगस्तु सुखावहः ॥ 17॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,17,1272,इत्युक्तेन तु सा कन्या क्षणमात्रेण भामिनी । कृता योजनगन्धा तु सुरूपा च वरानना ॥ 18॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,18,1273,मृगनाभिसुगन्धां तां कृत्वा कान्तां मनोहराम् । जग्राह दक्षिणे पाणौ मुनिर्मन्मथपीडितः ॥ 19॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,19,1274,ग्रहीतुकामं तं प्राह नाम्ना सत्यवती शुभा । मुने पश्यति लोकोऽयं पिता चैव तटस्थितः ॥ 20॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,20,1275,पशुधर्मो न मे प्रीतिं जनयत्यतिदारुणः । प्रतीक्षस्व मुनिश्रेष्ठ यावद्भवति यामिनी ॥ 21॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,21,1276,रात्रौ व्यवाय उद्दिष्टो दिवा न मनुजस्य हि । दिवासङ्गे महान् दोषः पश्यन्ति किल मानवाः ॥ 22॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,22,1277,कामं यच्छ महाबुद्धे लोकनिन्दा दुरासदा । तच्छ्रुत्वा वचनं तस्या युक्तमुक्तमुदारधीः ॥ 23॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,23,1278,नीहारं कल्पयामास शीघ्रं पुण्यबलेन वै । नीहारे च समुत्पन्ने तटेऽतितमसा युते ॥ 24॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,24,1279,कामिनी तं मुनिं प्राह मृदुपूर्वमिदं वचः । कन्याहं द्विजशार्दूल भुक्त्वा गन्तासि कामतः ॥ 25॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,25,1280,अमोघवीर्यस्त्वं ब्रह्मन् का गतिर्मे भवेदिति । पितरं किं ब्रवीम्यद्य सगर्भा चेद्भवाम्यहम् ॥ 26॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,26,1281,त्वं गमिष्यसि भुक्त्वा मां किं करोमि वदस्व तत् । पराशर उवाच । कान्तेऽद्य मत्प्रियं कृत्वा कन्यैव त्वं भविष्यसि ॥ 27॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,27,1282,वृणीष्व च वरं भीरु यं त्वमिच्छसि भामिनि । सत्यवत्युवाच । यथा मे पितरौ लोके न जानीतो हि मानद ॥ 28॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,28,1283,कन्याव्रतं न मे हन्यात्तथा कुरु द्विजोत्तम । पुत्रश्च त्वत्समः कामं भवेदद्भुतवीर्यवान् ॥ 29॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,29,1284,गन्धोऽयं सर्वदा मे स्याद्यौवनं च नवं नवम् । पराशर उवाच । श‍ृणु सुन्दरि पुत्रस्ते विष्ण्वंशसम्भवः शुचिः ॥ 30॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,30,1285,भविष्यति च विख्यातस्त्रैलोक्ये वरवर्णिनि । केनचित्कारणेनाहं जातः कामातुरस्त्वयि ॥ 31॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,31,1286,कदापि च न सम्मोहो भूतपूर्वो वरानने । दृष्ट्वा चाप्सरसां रूपं सदाहं धैर्यमावहम् ॥ 32॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,32,1287,दैवयोगेन वीक्ष्य त्वां कामस्य वशगोऽभवम् । तत्किञ्चित्कारणं विद्धि दैवं हि दुरतिक्रमम् ॥ 33॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,33,1288,दृष्ट्वाहं चातिदुर्गन्धां त्वां कथं मोहमाप्नुयाम् । पुराणकर्ता पुत्रस्ते भविष्यति वरानने ॥ 34॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,34,1289,वेदविद्भागकर्ता च ख्यातश्च भुवनत्रये । सूत उवाच । इत्युक्त्वा तां वशं यातां भुक्त्वा स मुनिसत्तमः ॥ 35॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,35,1290,जगाम तरसा स्नात्वा कालिन्दीसलिले मुनिः । सापि सत्यवती जाता सद्यो गर्भवती सती ॥ 36॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,36,1291,सुषुवे यमुनाद्वीपे पुत्रं काममिवापरम् । जातमात्रस्तु तेजस्वी तामुवाच स्वमातरम् ॥ 37॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,37,1292,तपस्येव मनः कृत्वा विविशे चातिवीर्यवान् । गच्छ मातर्यथाकामं गच्छाम्यहमतः परम् ॥ 38॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,38,1293,तपः कर्तुं महाभागे दर्शयिष्यामि वै स्मृतः । मातर्यदा भवेत्कार्यं तव किञ्चिदनुत्तमम् ॥ 39॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,39,1294,स्मर्तव्योऽहं तदा शीघ्रमागमिष्यामि भामिनि । स्वस्ति तेऽस्तु गमिष्यामि त्यक्त्वा चिन्तां सुखं वस ॥ 40॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,40,1295,इत्युक्त्वा निर्ययौ व्यासः सापि पित्रन्तिकं गता । द्वीपे न्यस्तस्तया बालस्तस्माद्द्वैपायनोऽभवत् ॥ 41॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,41,1296,जातमात्रो जगामाशु वृद्धिं विष्ण्वंशयोगतः । तीर्थे तीर्थे कृतस्तानश्चचार तप उत्तमम् ॥ 42॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,42,1297,एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् । चकार वेदशाखाश्च प्राप्तं ज्ञात्वा कलेर्युगम् ॥ 43॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,43,1298,वेदविस्तारकरणाद्व्यासनामाभवन्मुनिः । पुराणसंहिताश्चक्रे महाभारतमुत्तमम् ॥ 44॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,44,1299,शिष्यानध्यापयामास वेदान्कृत्वा विभागशः । सुमन्तुं जैमिनिं पैलं वैशम्पायनमेव च ॥ 45॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,45,1300,असितं देवलं चैव शुकं चैव स्वमात्मजम् । सूत उवाच । एतच्च कथितं सर्वं कारणं मुनिसत्तमाः ॥ 46॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,46,1301,सत्यवत्याः सुतस्यापि समुत्पत्तिस्तथा शुभा । संशयोऽत्र न कर्तव्यः सम्भवे मुनिसत्तमाः ॥ 47॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,47,1302,महतां चरिते चैव गुणा ग्राह्या मुनेरिति । कारणाच्च समुत्पत्तिः सत्यवत्या झषोदरे ॥ 48॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,48,1303,पराशरेण संयोगः पुनः शन्तनुना तथा । अन्यथा तु मुनेश्चित्तं कथं कामाकुलं भवेत् ॥ 49॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,49,1304,अनार्यजुष्टं धर्मज्ञः कृतवान्स कथं मुनिः । सकारणेयमुत्पत्तिः कथिताश्चर्यकारिणी ॥ 50॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,50,1305,श्रुत्वा पापाच्च निर्मुक्तो नरो भवति सर्वथा । य एतच्छुभमाख्यानं श‍ृणोति श्रुतिमान्नरः ॥ 51॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,51,1306,न दुर्गतिमवाप्नोति सुखी भवति सर्वदा ॥ 52॥ 2,२.२,द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।,52,1307,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे व्यासजन्मवर्णनं नाम द्वितीयोऽध्यायः ॥ २.२॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,0,1308,ऋषय ऊचुः । उत्पत्तिस्तु त्वया प्रोक्ता व्यासस्यामिततेजसः । सत्यवत्यास्तथा सूत विस्तरेण त्वयानघ ॥ 1॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,1,1309,तथाप्येकस्तु सन्देहश्चित्तेऽस्माकं तु संस्थितः । न निवर्तति धर्मज्ञ कथितेन त्वयानघ ॥ 2॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,2,1310,माता व्यासस्य या प्रोक्ता नाम्ना सत्यवती शुभा । सा कथं नृपतिं प्राप्ता शन्तनुं धर्मवित्तमम् ॥ 3॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,3,1311,निषादपुत्रीं स कथं धृतवान्नृपतिः स्वयम् । धर्मिष्ठः पौरवो राजा कुलहीनामसंवृताम् ॥ 4॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,4,1312,शन्तनोः प्रथमा पत्नी का ह्यभूत्कथयाधुना । भीष्मः पुत्रोऽथ मेधावी वसोरंशः कथं पुनः ॥ 5॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,5,1313,त्वया प्रोक्तं पुरा सूत राजा चित्राङ्गदः कृतः । सत्यवत्याः सुतो वीरो भीष्मेणामिततेजसा ॥ 6॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,6,1314,चित्राङ्गदे हते वीरे कृतस्तदनुजस्तथा । विचित्रवीर्यनामासौ सत्यवत्याः सुतो नृपः ॥ 7॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,7,1315,ज्येष्ठे भीष्मे स्थिते पूर्वं धर्मिष्ठे रूपवत्यपि । कृतवान्स कथं राज्यं स्थापितस्तेन जानता ॥ 8॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,8,1316,मृते विचित्रवीर्ये तु सत्यवत्यतिदुःखिता । वधूभ्यां गोलकौ पुत्रौ जनयामास सा कथम् ॥ 9॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,9,1317,कथं राज्यं न भीष्माय ददौ सा वरवर्णिनी । न कृतस्तु कथं तेन वीरेण दारसङ्ग्रहः ॥ 10॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,10,1318,अधर्मस्तु कृतः कस्माद्व्यासेनामिततेजसा । ज्येष्ठेन भ्रातृभार्यायां पुत्रावुत्पादिताविति ॥ 11॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,11,1319,पुराणकर्ता धर्मात्मा स कथं कृतवान्मुनिः । सेवनं परदाराणां भ्रातुश्चैव विशेषतः ॥ 12॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,12,1320,जुगुप्सितमिदं कर्म स कथं कृतवान्मुनिः । शिष्टाचारः कथं सूत वेदानुमितिकारकः ॥ 13॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,13,1321,व्यासशिष्योऽसि मेधाविन् सन्देहं छेत्तुमर्हसि । श्रोतुकामा वयं सर्वे धर्मक्षेत्रे कृतक्षणाः ॥ 14॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,14,1322,सूत उवाच । इक्ष्वाकुवंशप्रभवो महाभिष इति स्मृतः । सत्यवान्धर्मशीलश्च चक्रवर्ती नृपोत्तमः ॥ 15॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,15,1323,अश्वमेधसहस्रेण वाजपेयशतेन च । तोषयामास देवेन्द्रं स्वर्गं प्राप महामतिः ॥ 16॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,16,1324,एकदा ब्रह्मसदनं गतो राजा महाभिषः । सुराः सर्वे समाजग्मुः सेवनार्थं प्रजापतिम् ॥ 17॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,17,1325,गङ्गा महानदी तत्र संस्थिता सेवितुं विभुम् । तस्या वासः समुद्धूतं मारुतेन तरस्विना ॥ 18॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,18,1326,अधोमुखाः सुराः सर्वे न विलोक्यैव तां स्थिताः । राजा महाभिषस्तां तु निःशङ्कः समपश्यत ॥ 19॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,19,1327,सापि तं प्रेमसंयुक्तं नृपं ज्ञातवती नदी । दृष्ट्वा तौ प्रेमसंयुक्तौ निर्लज्जौ काममोहितौ ॥ 20॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,20,1328,ब्रह्मा चुकोप तौ तूर्णं शशाप च रुषान्वितः । मर्त्यलोकेषु भूपाल जन्म प्राप्य पुनर्दिवम् ॥ 21॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,21,1329,पुण्येन महताविष्टस्त्वमवाप्स्यसि सर्वथा । गङ्गां तथोक्तवान्ब्रह्मा वीक्ष्य प्रेमवतीं नृपे ॥ 22॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,22,1330,विमनस्कौ तु तौ तूर्णं निःसृतौ ब्रह्मणोऽन्तिकात् । स नृपांश्चिन्तयित्वाथ भूर्लोके धर्मतत्परान् ॥ 23॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,23,1331,प्रतीपं चिन्तयामास पितरं पुरुवंशजम् । एतस्मिन्समये चाष्टौ वसवः स्त्रीसमन्विताः ॥ 24॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,24,1332,वसिष्ठस्याश्रमं प्राप्ता रममाणा यदृच्छया । पृथ्वादीनां वसूनां च मध्ये कोऽपि वसूत्तमः ॥ 25॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,25,1333,द्यौर्नामा तस्य भार्याथ नन्दिनीं गां ददर्श ह । दृष्ट्वा पतिं सा पप्रच्छ कस्येयं धेनुरुत्तमा ॥ 26॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,26,1334,द्यौस्तामाह वसिष्ठस्य गौरियं श‍ृणु सुन्दरि । दुग्धमस्याः पिबेद्यस्तु नारी वा पुरुषोऽथ वा ॥ 27॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,27,1335,अयुतायुर्भवेन्नूनं सदैवागतयौवनः । तच्छ्रुत्वा सुन्दरी प्राह मृत्युलोकेऽस्ति मे सखी ॥ 28॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,28,1336,उशीनरस्य राजर्षेः पुत्री परमशोभना । तस्या हेतोर्महाभाग सवत्सां गां पयस्विनीम् ॥ 29॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,29,1337,आनयस्वाश्रमं श्रेष्ठं नन्दिनीं कामदां शुभाम् । यावदस्याः पयः पीत्वा सखी मम सदैव हि ॥ 30॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,30,1338,मानुषेषु भवेदेका जरारोगविवर्जिता । तच्छ्रुत्वा वचनं तस्या द्यौर्जहार च नन्दिनीम् ॥ 31॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,31,1339,अवमन्य मुनिं दान्तं पृथ्वाद्यैः सहितोऽनघः । हृतायामथ नन्दिन्यां वसिष्ठस्तु महातपाः ॥ 32॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,32,1340,आजगामाश्रमपदं फलान्यादाय सत्वरः । नापश्यत यदा धेनुं सवत्सां स्वाश्रमे मुनिः ॥ 33॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,33,1341,मृगयामास तेजस्वी गह्वरेषु वनेष्वपि । नासादिता यदा धेनुश्चुकोपातिशयं मुनिः ॥ 34॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,34,1342,वारुणिश्चापि विज्ञाय ध्यानेन वसुभिर्हृताम् । वसुभिर्मे हृता धेनुर्यस्मान्मामवमन्य वै ॥ 35॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,35,1343,तस्मात्सर्वे जनिष्यन्ति मानुषेषु न संशयः । एवं शशाप धर्मात्मा वसूंस्तान्वारुणिः स्वयम् ॥ 36॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,36,1344,श्रुत्वा विमनसः सर्वे प्रययुर्दुःखिताश्च ते । शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः ॥ 37॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,37,1345,प्रसादयन्तस्तमृषिं वसवः शरणं गताः । मुनिस्तानाह धर्मात्मा वसून्दीनान्पुरःस्थितान् ॥ 38॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,38,1346,अनुसंवत्सरं सर्वे शापमोक्षमवाप्स्यथ । येनेयं विहृता धेनुर्नन्दिनी मम वत्सला ॥ 39॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,39,1347,तस्माद्द्यौर्मानुषे देहे दीर्घकालं वसिष्यति । ते शप्ताः पथि गच्छन्तीं गङ्गां दृष्ट्वा सरिद्वराम् ॥ 40॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,40,1348,ऊचुस्तां प्रणताः सर्वे शप्तां चिन्तातुरां नदीम् । भविष्यामो वयं देवि कथं देवाः सुधाशनाः ॥ 41॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,41,1349,मानुषाणां च जठरे चिन्तेय महती हि नः । तस्मात्त्वं मानुषी भूत्वा जनयास्मान्सरिद्वरे ॥ 42॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,42,1350,शन्तनुर्नाम राजर्षिस्तस्य भार्या भवानघे । जाताञ्जाताञ्जले चास्मान्निक्षिपस्व सुरापगे ॥ 43॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,43,1351,एवं शापविनिर्मोक्षो भविता नात्र संशयः । तथेत्युक्ताश्च ते सर्वे जग्मुर्लोकं स्वकं पुनः ॥ 44॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,44,1352,गङ्गापि निर्गता देवी चिन्त्यमाना पुनः पुनः । महाभिषो नृपो जातः प्रतीपस्य सुतस्तदा ॥ 45॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,45,1353,शन्तनुर्नाम राजर्षिर्धर्मात्मा सत्यसङ्गरः । प्रतीपस्तु स्तुतिं चक्रे सूर्यस्यामिततेजसः ॥ 46॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,46,1354,तदा च सलिलात्तस्मान्निःसृता वरवर्णिनी । दक्षिणं शालसङ्काशमूरुं भेजे शूभानना ॥ 47॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,47,1355,अङ्के स्थितां स्त्रियं चाह मा पृष्ट्वा किं वरानने । ममोरावास्थितासि त्वं किमर्थं दक्षिणे शुभे ॥ 48॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,48,1356,सा तमाह वरारोहा यदर्थं राजसत्तम । स्थितात्म्यङ्के कुरुश्रेष्ठ कामयानां भजस्व माम् ॥ 49॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,49,1357,तामवोचदथो राजा रूपयौवनशालिनीम् । नाहं परस्त्रियं कामाद्गच्छेयं वरवर्णिनीम् ॥ 50॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,50,1358,स्थिता दक्षिणमूरुं मे त्वमाश्लिष्य च भामिनि । अपत्यानां स्नुषाणां च स्थानं विद्धि शुचिस्मिते ॥ 51॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,51,1359,स्नुषा मे भव कल्याणि जाते पुत्रेऽतिवाञ्छिते । भविष्यति च मे पुत्रस्तव पुण्यान्न संशयः ॥ 52॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,52,1360,तथेत्युक्त्वा गता सा वै कामिनी दिव्यदर्शना । राजा चापि गृहं प्राप्तश्चिन्तयंस्तां स्त्रियं पुनः ॥ 53॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,53,1361,ततः कालेन कियता जाते पुत्रे वयस्विनि । वनं जिगमिषू राजा पुत्रं वृत्तान्तमूचिवान् ॥ 54॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,54,1362,वृत्तान्तं कथयित्वा तु पुनरूचे निजं सुतम् । यदि प्रयाति सा बाला त्वां वने चारुहासिनी ॥ 55॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,55,1363,कामयाना वरारोहा तां भजेथा मनोरमाम् । न प्रष्टव्या त्वया कासि मन्नियोगान्नराधिप ॥ 56॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,56,1364,धर्मपत्नीं च तां कृत्वा भविता त्वं सुखी किल । सूत उवाच । एवं सन्दिश्य तं पुत्रं भूपतिः प्रीतमानसः ॥ 57॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,57,1365,दत्त्वा राज्यश्रियं सर्वां वनं राजा विवेश ह । तत्रापि च तपस्तप्त्वा समाराध्य पराम्बिकाम् ॥ 58॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,58,1366,जगाम स्वर्गं राजासौ देहं त्यक्त्वा स्वतेजसा । राज्यं प्राप महातेजाः शन्तनुः सार्वभौमिकम् ॥ 59॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,59,1367,प्रजां वै पालयामास धर्मदण्डो महीपतिः ॥ 60॥ 2,२.३,तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।,60,1368,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे प्रतीपसकाशाच्छन्तनुजन्मवर्णनं नाम तृतीयोऽध्यायः ॥ २.३॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,0,1369,सूत उवाच । प्रतीपेऽथ दिवं याते शन्तनुः सत्यविक्रमः । बभूव मृगयाशीलो निघ्नन्व्याघ्रान्मृगान्नृपः ॥ 1॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,1,1370,स कदाचिद्वने घोरे गङ्गातीरे चरन्नृपः । ददर्श मृगशावाक्षीं सुन्दरीं चारुभूषणाम् ॥ 2॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,2,1371,दृष्ट्वा तां नृपतिर्मग्नः पित्रोक्तेयं वरानना । रूपयौवनसम्पन्ना साक्षाल्लक्ष्मीरिवापरा ॥ 3॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,3,1372,पिबन्मुखाम्बुजं तस्या न तृप्तिमगमन्नृपः । हृष्टरोमाभवत्तत्र व्याप्तचित्त इवानघ ॥ 4॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,4,1373,महाभिषं सापि मत्वा प्रेमयुक्ता बभूव ह । किञ्चिन्मन्दस्मितं कृत्वा तस्थावग्रे नृपस्य च ॥ 5॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,5,1374,वीक्ष्य तामसितापाङ्गीं राजा प्रीतमना भृशम् । उवाच मधुरं वाक्यं सान्त्वयन् श्लक्ष्णया गिरा ॥ 6॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,6,1375,देवी वा त्वं च वामोरु मानुषी वा वरानने । गन्धर्वी वाथ यक्षी वा नागकन्याप्सरापि वा ॥ 7॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,7,1376,यासि कासि वरारोहे भार्या मे भव सुन्दरि । प्रेमयुक्तस्मितैव त्वं धर्मपत्नी भवाद्य मे ॥ 8॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,8,1377,सूत उवाच । राजा तां नाभिजानाति गङ्गेयमिति निश्चितम् । महाभिषं समुत्पन्नं नृपं जानाति जाह्नवी ॥ 9॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,9,1378,पूर्वप्रेमसमायोगाच्छ्रुत्वा वाचं नृपस्य ताम् । उवाच नारी राजानं स्मितपूर्वमिदं वचः ॥ 10॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,10,1379,स्त्र्युवाच । जानामि त्वां नृपश्रेष्ठ प्रतीपतनयं शुभम् । का न वाञ्छति चार्वङ्गी भावित्वात्सदृशं पतिम् ॥ 11॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,11,1380,वाग्बन्धेन नृपश्रेष्ठ वरिष्यामि पतिं किल । श‍ृणु मे समयं राजन् वृणोमि त्वां नृपोत्तम ॥ 12॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,12,1381,यच्च कुर्यामहं कार्यं शुभं वा यदि वाशुभम् । न निषेध्या त्वया राजन्न वक्तव्यं तथाप्रियम् ॥ 13॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,13,1382,यदा च त्वं नृपश्रेष्ठ न करिष्यसि मे वचः । तदा मुक्त्या गमिष्यामि यथेष्टदेशं मारिष ॥ 14॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,14,1383,स्मृत्वा जन्म वसूनां सा प्रार्थनापूर्वकं हृदि । महाभिषस्य प्रेमाथ विचिन्त्यैव च जाह्नवी ॥ 15॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,15,1384,तथेत्युक्ताथ सा देवी चकार नृपतिं पतिम् । एवं वृता नृपेणाथ गङ्गा मानुषरूपिणी ॥ 16॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,16,1385,नृपस्य मन्दिरं प्राप्ता सुभगा वरवर्णिनी । नृपतिस्तां समासाद्य चिक्रीडोपवने शुभे ॥ 17॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,17,1386,सापि तं रमयामास भावज्ञा वै वराङ्गना । न बुबोध नृपः क्रीडन्गतान्वर्षगणानथ ॥ 18॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,18,1387,स तया मृगशावाक्ष्या शच्या शतक्रतुर्यथा । सा सर्वगुणसम्पन्ना सोऽपि कामविचक्षणः ॥ 19॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,19,1388,रेमाते मन्दिरे दिव्ये रमानारायणाविव । एवं गच्छति काले सा दधार नृपतेस्तदा ॥ 20॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,20,1389,गर्भं गङ्गा वसुं पुत्रं सुषुवे चारुलोचना । जातमात्रं सुतं वारि चिक्षेपैवं द्वितीयके ॥ 21॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,21,1390,तृतीयेऽथ चतुर्थेऽथ पञ्चमे षष्ठ एव च । सप्तमे वा हते पुत्रे राजा चिन्तापरोऽभवत् ॥ 22॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,22,1391,किं करोम्यद्य वंशो मे कथं स्यात्सुस्थिरो भुवि । सप्त पुत्रा हता नूनमनया पापरूपया ॥ 23॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,23,1392,निवारयामि यदि मां त्यक्त्वा यास्यति सर्वथा । अष्टमोऽयं सुसम्प्राप्तो गर्भो मे मनसीप्सितः ॥ 24॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,24,1393,न वारयामि चेदद्य सर्वथेयं जले क्षिपेत् । भविता वा न वा चाग्रे संशयोऽयं ममाद्भुतः ॥ 25॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,25,1394,सम्भवेऽपि च दृष्टेयं रक्षयेद्वा न रक्षयेत् । एवं संशयिते कार्ये किं कर्तव्यं मयाधुना ॥ 26॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,26,1395,वंशस्य रक्षणार्थं हि यत्नः कार्यः परो मया । ततः काले यदा जातः पुत्रोऽयमष्टमो वसुः ॥ 27॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,27,1396,मुनेर्येन हृता धेनुर्नन्दिनी स्त्रीजितेन हि । तं दृष्ट्वा नृपतिः पुत्रं तामुवाच पतन्पदे ॥ 28॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,28,1397,दासोऽस्मि तव तन्वङ्गि प्रार्थयामि शुचिस्मिते । पुत्रमेकं पुषाम्येनं देहि जीवितमद्य मे ॥ 29॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,29,1398,हिंसिताः सप्त पुत्रा मे करभोरु त्वया शुभाः । अष्टमं रक्ष सुश्रोणि पतामि तव पादयोः ॥ 30॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,30,1399,अन्यद्वै प्रार्थितं तेऽद्य ददाम्यथ च दुर्लभम् । वंशो मे रक्षणीयोऽद्य त्वया परमशोभने ॥ 31॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,31,1400,अपुत्रस्य गतिर्नास्ति स्वर्गे वेदविदो विदुः । तस्मादद्य वरारोहे प्रार्थयाम्यष्टमं सुतम् ॥ 32॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,32,1401,इत्युक्तापि गृहीत्वा तं यदा गन्तुं समुत्सुका । तदातिकुपितो राजा तामुवाचातिदुःखितः ॥ 33॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,33,1402,पापिष्ठे किं करोम्यद्य निरयान्न बिभेषि किम् । कासि पापकराणां त्वं पुत्री पापरता सदा ॥ 34॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,34,1403,यथेच्छं गच्छ वा तिष्ठ पुत्रो मे स्थीयतामिह । किं करोमि त्वया पापे वंशान्तकरयानया ॥ 35॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,35,1404,एवं वदति भूपाले सा गृहीत्वा सुतं शिशुम् । गच्छन्ती वचनं कोपसंयुता तमुवाच ह ॥ 36॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,36,1405,पुत्रकामा सुतं त्वेनं पालयामि वने गता । समयो मे गमिष्यामि वचनं ह्यन्यथाकृतम् ॥ 37॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,37,1406,गङ्गां मां वै विजानीहि देवकार्यार्थमागताम् । वसवस्तु पुरा शप्ता वसिष्ठेन महात्मना ॥ 38॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,38,1407,व्रजन्तु मानुषीं योनिं स्थितां चिन्तातुरास्तु माम् । दृष्ट्वेदं प्रार्थयामासुर्जननी नो भवानघे ॥ 39॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,39,1408,तेभ्यो दत्त्वा वरं जाता पत्नी ते नृपसत्तम । देवकार्यार्थसिद्ध्यर्थं जानीहि सम्भवो मम ॥ 40॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,40,1409,सप्त ते वसवः पुत्रा मुक्ताः शापादृषेस्तु ते । कियन्तं कालमेकोऽयं तव पुत्रो भविष्यति ॥ 41॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,41,1410,गङ्गादत्तमिमं पुत्रं गृहाण शन्तनो स्वयम् । वसुं देवं विदित्वैनं सुखं भुङ्क्ष्व सुतोद्भवम् ॥ 42॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,42,1411,गाङ्गेयोऽयं महाभाग भविष्यति बलाधिकः । अद्य तत्र नयाम्येनं यत्र त्वं वै मया वृतः ॥ 43॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,43,1412,दास्यामि यौवनप्राप्तं पालयित्वा महीपते । न मातृरहितः पुत्रो जीवेन्न च सुखी भवेत् ॥ 44॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,44,1413,इत्युक्त्वान्तर्दधे गङ्गा तं गृहीत्वा च बालकम् । राजा चातीव दुःखार्तः संस्थितो निजमन्दिरे ॥ 45॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,45,1414,भार्याविरहजं दुःखं तथा पुत्रस्य चाद्भुतम् । सर्वदा चिन्तयन्नास्ते राज्यं कुर्वन्महीपतिः ॥ 46॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,46,1415,एवं गच्छति कालेऽथ नृपतिर्मृगयां गतः । निघ्नन्मृगगणान्बाणैर्महिषान्सूकरानपि ॥ 47॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,47,1416,गङ्गातीरमनुप्राप्तः स राजा शन्तनुस्तदा । नदीं स्तोकजलां दृष्ट्वा विस्मितः स महीपतिः ॥ 48॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,48,1417,तत्रापश्यत्कुमारं तं मुञ्चन्तं विशिखान्बहून् । आकृष्य च महाचापं क्रीडन्तं सरितस्तटे ॥ 49॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,49,1418,तं वीक्ष्य विस्मितो राजा न स्म जानाति किञ्चन । नोपलेभे स्मृतिं भूपः पुत्रोऽयं मम वा न वा ॥ 50॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,50,1419,दृष्ट्वाप्यमानुषं कर्म बाणेषु लघुहस्तताम् । विद्यां वाप्रतिमां रूपं तस्य वै स्मरसन्निभम् ॥ 51॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,51,1420,पप्रच्छ विस्मितो राजा कस्य पुत्रोऽसि चानघ । नोवाच किञ्चिद्वीरोऽसौ मुञ्चञ्छिलीमुखानथ ॥ 52॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,52,1421,अन्तर्धानं गतः सोऽथ राजा चिन्तातुरोऽभवत् । कोऽयं मम सुतो बालः किं करोमि व्रजामि कम् ॥ 53॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,53,1422,गङ्गां तुष्टाव भूपालः स्थितस्तत्र समाहितः । दर्शनं सा ददौ चाथ चारुरूपा यथा पुरा ॥ 54॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,54,1423,दृष्ट्वा तां चारुसर्वाङ्गीं बभाषे नृपतिः स्वयम् । कोऽयं गङ्गे गतो बालो मम त्वं दर्शयाधुना ॥ 55॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,55,1424,गङ्गोवाच । पुत्रोऽयं तव राजेन्द्र रक्षितश्चाष्टमो वसुः । ददामि तव हस्ते तु गाङ्गेयोऽयं महातपाः ॥ 56॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,56,1425,कीर्तिकर्ता कुलस्यास्य भविता तव सुव्रत । पाठितस्त्वखिलान्वेदान्धनुर्वेदं च शाश्वतम् ॥ 57॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,57,1426,वसिष्ठस्याश्रमे दिव्ये संस्थितोऽयं सुतस्तव । सर्वविद्याविधानज्ञः सर्वार्थकुशलः शुचिः ॥ 58॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,58,1427,यद्वेद जामदग्न्योऽसौ तद्वेदायं सुतस्तव । गृहाण गच्छ राजेन्द्र सुखी भव नराधिप ॥ 59॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,59,1428,इत्युक्त्वान्तर्दधे गङ्गा दत्त्वा पुत्रं नृपाय वै । नृपतिस्तु मुदा युक्तो बभूवातिसुखान्वितः ॥ 60॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,60,1429,समालिङ्ग्य सुतं राजा समाघ्राय च मस्तकम् । समारोप्य रथे पुत्रं स्वपुरं स प्रचक्रमे ॥ 61॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,61,1430,गत्वा गजाह्वयं राजा चकारोत्सवमुत्तमम् । दैवज्ञं च समाहूय पप्रच्छ च शुभं दिनम् ॥ 62॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,62,1431,समाहृत्य प्रजाः सर्वाः सचिवान्सर्वशः शुभान् । यौवराज्येऽथ गाङ्गेयं स्थापयामास पार्थिवः ॥ 63॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,63,1432,कृत्वा तं युवराजानं पुत्रं सर्वगुणान्वितम् । सुखमास स धर्मात्मा न सस्मार च जाह्नवीम् ॥ 64॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,64,1433,सूत उवाच । एतद्वः कथितं सर्वं कारणं वसुशापजम् । गाङ्गेयस्य तथोत्पत्तिं जाह्नव्याः सम्भवं तथा ॥ 65॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,65,1434,गङ्गावतरणं पुण्यं वसूनां सम्भवं तथा । यः श‍ृणोति नरः पापान्मुच्यते नात्र संशयः ॥ 66॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,66,1435,पुण्यं पवित्रमाख्यानं कथितं मुनिसत्तमाः । यथा मया श्रुतं व्यासात्पुराणं वेदसम्मितम् ॥ 67॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,67,1436,श्रीमद्भागवतं पुण्यं नानाख्यानकथान्वितम् । द्वैपायनमुखोद्भूतं पञ्चलक्षणसंयुतम् ॥ 68॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,68,1437,श‍ृण्वतां सर्वपापघ्नं शुभदं सुखदं तथा । इतिहासमिमं पुण्यं कीर्तितं मुनिसत्तमाः ॥ 69॥ 2,२.४,चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।,69,1438,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे देवव्रतोत्पत्तिवर्णनं नाम चतुर्थोऽध्यायः ॥ २.४॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,0,1439,ऋषय ऊचुः । वसूनां सम्भवः सूत कथितः शापकारणात् । गाङ्गेयस्य तथोत्पत्तिः कथिता लोमहर्षणे ॥ 1॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,1,1440,माता व्यासस्य धर्मज्ञ नाम्ना सत्यवती सती । कथं शन्तनुना प्राप्ता भार्या गन्धवती शुभा ॥ 2॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,2,1441,तन्ममाचक्ष्व विस्तारं दाशपुत्री कथं धृता । राज्ञा धर्मवरिष्ठेन संशयं छिन्धि सुव्रत ॥ 3॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,3,1442,सूत उवाच । शन्तनुर्नाम राजर्षिर्मृगयानिरतः सदा । वनं जगाम निघ्नन्वै मृगांश्च महिषान् रुरून् ॥ 4॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,4,1443,चत्वार्येव तु वर्षाणि पुत्रेण सह भूपतिः । रममाणः सुखं प्राप कुमारेण यथा हरः ॥ 5॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,5,1444,एकदा विक्षिपन्बाणान्विनिघ्नन्खड्गसूकरान् । स कदाचिद्वनं प्राप्तः कालिन्दीं सरितां वराम् ॥ 6॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,6,1445,महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम् । तस्य प्रभवमन्विच्छन्सजञ्चचार वनं तदा ॥ 7॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,7,1446,न मन्दारस्य गन्धोऽयं मृगनाभिमदस्य न । चम्पकस्य न मालत्या न केतक्या मनोहरः ॥ 8॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,8,1447,न चानुभूतपूर्वोऽयं वाति गन्धवहः शुभः । कुतोऽयमेति वायुर्वै मम घ्राणविमोहनः ॥ 9॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,9,1448,इति सञ्चिन्त्यमानोऽसौ बभ्राम वनमण्डलम् । मोहितो गन्धलोभेन शन्तनुः पवनानुगः ॥ 10॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,10,1449,स ददर्श नदीतीरे संस्थितां चारुदर्शनाम् । श‍ृङ्गाररहितां कान्तां सुस्थितां मलिनाम्बराम् ॥ 11॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,11,1450,दृष्ट्वा तामसितापाङ्गीं विस्मितः स महीपतिः । अस्या देहस्य गन्धोऽयमिति सञ्जातनिश्चयः ॥ 12॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,12,1451,तदद्भुतं रूपमतीव सुन्दरं तथैव गन्धोऽखिललोकसम्मतः । वयश्च तादृङ् नवयौवनं शुभं दृष्ट्वैव राजा किल विस्मितोऽभवत् ॥ 13॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,13,1452,केयं कुतो वा समुपागताधुना देवाङ्गना वा किमु मानुषी वा । गन्धर्वपुत्री किल नागकन्या जाने कथं गन्धवतीं नु कामिनीम् ॥ 14॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,14,1453,सञ्चिन्त्य चैवं मनसा नृपोऽसौ न निश्चयं प्राप यदा ततः स्वयम् । गङ्गां स्मरन्कामवशं गतोऽथ पप्रच्छ कान्तां तटसंस्थितां च ॥ 15॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,15,1454,कासि प्रिये कस्य सुतासि कस्मा- दिह स्थिता त्वं विजने वरोरु । एकाकिनी किं वद चारुनेत्रे विवाहिता वा न विवाहितासि ॥ 16॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,16,1455,सञ्जातकामोऽहमरालनेत्रे त्वां वीक्ष्य कान्तां च मनोरमां च । ब्रूहि प्रिये यासि चिकीर्षसि त्वं किं चेति सर्वं मम विस्तरेण ॥ 17॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,17,1456,इत्येवमुक्ता सुदती नृपेण प्रोवाच तं सस्मितमम्बुजेक्षणा । दाशस्य पुत्रीं त्वमवेहि राजन् कन्यां पितुः शासनसंस्थितां च ॥ 18॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,18,1457,तरीमिमां धर्मनिमित्तमेव संवाहयामीह जले नृपेन्द्र । पिता गृहे मेऽद्य गतोऽस्ति कामं सत्यं ब्रवीम्यर्थपते तवाग्रे ॥ 19॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,19,1458,इत्येवमुक्त्वा विरराम बाला कामातुरस्तां नृपतिर्बभाषे । कुरुप्रवीरं कुरु मां पतिं त्वं वृथा न गच्छेन्ननु यौवनं ते ॥ 20॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,20,1459,न चास्ति पत्नी मम वै द्वितीया त्वं धर्मपत्नी भव मे मृगाक्षि । दासोऽस्मि तेऽहं वशगः सदैव मनोभवस्तापयति प्रिये माम् ॥ 21॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,21,1460,गता प्रिया मां परिहृत्य कान्ता नान्या वृताहं विधुरोऽस्मि कान्ते । त्वां वीक्ष्य सर्वावयवातिरम्यां मनो हि जातं विवशं मदीयम् ॥ 22॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,22,1461,श्रुत्वामृतास्वादरसं नृपस्य वचोऽतिरम्यं खलु दाशकन्या । उवाच तं सात्त्विकभावयुक्ता कृत्वातिधैर्यं नृपतिं सुगन्धा ॥ 23॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,23,1462,यदात्थ राजन् मयि तत्तथैव मन्येऽहमेतत्तु यथा वचस्ते । नास्मि स्वतन्त्रा त्वमवेहि कामं दाता पिता मेऽर्थय तं त्वमाशु ॥ 24॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,24,1463,न स्वैरिणीहास्म्यपि दाशपुत्री पितुर्वशेऽहं सततं चरामि । स चेद्ददाति प्रथितः पिता मे गृहाण पाणिं वशगास्मि तेऽहम् ॥ 25॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,25,1464,मनोभवस्त्वां नृप किं दुनोति यथा पुनर्मां नवयौवनां च । दुनोति तत्रापि हि रक्षणीया धृतिः कुलाचारपरम्परासु ॥ 26॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,26,1465,सूत उवाच । इत्याकर्ण्य वचस्तस्या नृपति काममोहितः । गतो दाशपतेर्गेहं तस्या याचनहेतवे ॥ 27॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,27,1466,दृष्ट्वा नृपतिमायान्तं दाशोऽतिविस्मयं गतः । प्रणामं नृपतेः कृत्वा कृताञ्जलिरभाषत ॥ 28॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,28,1467,दाश उवाच । दासोऽस्मि तव भूपाल कृतार्थोऽहं तवागमे । आज्ञां देहि महाराज यदर्थमिह चागमः ॥ 29॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,29,1468,राजोवाच । धर्मपत्नीं करिष्यामि सुतामेतां तवानघ । त्वया चेद्दीयते मह्यं सत्यमेतद्ब्रवीमि ते ॥ 30॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,30,1469,दाश उवाच । कन्यारत्नं मदीयं चेद्यत्त्वं प्रार्थयसे नृप । दातव्यं तु प्रदास्यामि न त्वदेयं कदाचन ॥ 31॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,31,1470,तस्याः पुत्रो महाराज त्वदन्ते पृथिवीपतिः । सर्वथा चाभिषेक्तव्यो नान्यः पुत्रस्तवेति वै ॥ 32॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,32,1471,सूत उवाच । श्रुत्वावाक्यं तु दाशस्य राजा चिन्तातुरोऽभवत् । गाङ्गेयं मनसा कृत्वा नोवाच नृपतिस्तदा ॥ 33॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,33,1472,कामातुरो गृहं प्राप्तश्चिन्ताविष्टो महीपतिः । न सस्नौ बुभुजे नाथ न सुष्वाप गृहं गतः ॥ 34॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,34,1473,चिन्तातुरं तु तं दृष्ट्वा पुत्रो देवव्रतस्तदा । गत्वापृच्छन्महीपालं तदसन्तोषकारणम् ॥ 35॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,35,1474,दुर्जयः कोऽस्ति शत्रुस्ते करोमि वशगं तव । का चिन्ता नृपशार्दूल सत्यं वद नृपोत्तम ॥ 36॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,36,1475,किं तेन जातेन सुतेन राजन् दुःखं न जानाति न नाशयेद्यः । ऋणं ग्रहीतुं समुपागतोऽसौ प्राग्जन्मजं नात्र विचारणास्ति ॥ 37॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,37,1476,विमुच्य राज्यं रघुनन्दनोऽपि ताताज्ञया दाशरथिस्तु रामः । वनं गतो लक्ष्मणजानकीभ्यां सहैव शैलं किल चित्रकूटम् ॥ 38॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,38,1477,सुतो हरिश्चन्द्रनृपस्य राजन् यो रोहितश्चेति प्रसिद्धनामा । क्रीतोऽथ पित्रा विपणोद्यतश्च दासार्पितो विप्रगृहे तु नूनम् ॥ 39॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,39,1478,तथाजिगर्तस्य सुतो वरिष्ठो नाम्ना शुनःशेप इति प्रसिद्धः । क्रीतस्तु पित्राप्यथ यूपबद्धः सम्मोचितो गाधिसुतेन पश्चात् ॥ 40॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,40,1479,पित्राज्ञया जामदग्न्येन पूर्वं छिन्नं शिरो मातुरिति प्रसिद्धम् । अकार्यमप्याचरितं च तेन गुरोरनुज्ञा च गरीयसी कृता ॥ 41॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,41,1480,इदं शरीरं तव भूपते न क्षमोऽस्मि नूनं वद किं करोम्यहम् । न शोचनीयं मयि वर्तमाने- ऽप्यसाध्यमर्थं प्रतिपादयाम्यदः ॥ 42॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,42,1481,प्रब्रूहि राजंस्तव कास्ति चिन्ता निवारयाम्यद्य धनुर्गृहीत्वा । देहेन मे चेच्चरितार्थता वा भवत्वमोघा भवतश्चिकीर्षा ॥ 43॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,43,1482,धिक् तं सुतं यः पितुरीप्सितार्थं क्षमोऽपि सन्न प्रतिपादयेद्यः । जातेन किं तेन सुतेन कामं पितुर्न चिन्तां हि समुद्धरेद्यः ॥ 44॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,44,1483,सूत उवाच । निशम्येति वचस्तस्य पुत्रस्य शन्तनुर्नृपः । लज्जमानस्तु मनसा तमाह त्वरितं सुतम् ॥ 45॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,45,1484,राजोवाच । चिन्ता मे महती पुत्र यस्त्वमेकोऽसि मे सुतः । शूरोऽतिबलवान्मानी सङ्ग्रामेष्वपराङ्मुखः ॥ 46॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,46,1485,एकापत्यस्य मे तात वृथेदं जीवितं किल । मृते त्वयि मृधे क्वापि किं करोमि निराश्रयः ॥ 47॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,47,1486,एषा मे महती चिन्ता तेनाद्य दुःखितोऽत्म्यहम् । नान्या चिन्तास्ति मे पुत्र यां तवाग्रे वदाम्यहम् ॥ 48॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,48,1487,सूत उवाच । तदाकर्ण्याथ गाङ्गेयो मन्त्रिवृद्धानपृच्छत । न मां वदति भूपालो लज्जयाद्य परिप्लुतः ॥ 49॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,49,1488,वित्त वार्तां नृपस्याद्य पृष्ट्वा यूयं विनिश्चयात् । सत्यं ब्रुवन्तु मां सर्वं तत्करोमि निराकुलः ॥ 50॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,50,1489,तच्छ्रुत्वा ते नृपं गत्वा संविज्ञाय च कारणम् । शशंसुर्विदितार्थस्तु गाङ्गेयस्तदचिन्तयत् ॥ 51॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,51,1490,सहितस्तैर्जगामाशु दाशस्य सदनं तदा । प्रेमपूर्वमुवाचेदं विनम्रो जाह्नवीसुतः ॥ 52॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,52,1491,गाङ्गेय उवाच । पित्रे देहि सुतां तेऽद्य प्रार्थयामि सुमध्यमाम् । माता मेऽस्तु सुतेयं ते दासोऽत्म्यस्याः परन्तप ॥ 53॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,53,1492,दाश उवाच । त्वं गृहाण महाभाग पत्नीं कुरु नृपात्मज । पुत्रोऽस्या न भवेद्राजा वर्तमाने त्वयीति वै ॥ 54॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,54,1493,गाङ्गेय उवाच । मातेयं मम दाशेयी राज्यं नैव करोम्यहम् । पुत्रोऽस्याः सर्वथा राज्यं करिष्यति न संशयः ॥ 55॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,55,1494,दाश उवाच । सत्यं वाक्यं मया ज्ञातं पुत्रस्ते बलवान्भवेत् । सोऽपि राज्यं बलान्नूनं गृह्णीयादिति निश्चयः ॥ 56॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,56,1495,गाङ्गेय उवाच । न दारसङ्ग्रहं नूनं करिष्यामि हि सर्वथा । सत्यं मे वचनं तात मया भीष्मं व्रतं कृतम् ॥ 57॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,57,1496,सूत उवाच । एवं कृतां प्रतिज्ञां तु निशम्य झषजीवकः । ददौ सत्यवतीं तस्मै राज्ञे सर्वाङ्गशोभनाम् ॥ 58॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,58,1497,अनेन विधिना तेन वृता सत्यवती प्रिया । न जानाति परं जन्म व्यासस्य नृपसत्तमः ॥ 59॥ 2,२.५,पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।,59,1498,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे देवव्रतप्रतिज्ञावर्णनं नाम पञ्चमोऽध्यायः ॥ २.५॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,0,1499,सूत उवाच । एवं सत्यवती तेन वृता शन्तनुना किल । द्वौ पुत्रौ च तया जातौ मृतौ कालवशादपि ॥ 1॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,1,1500,व्यासवीर्यात्तु सञ्जातो धृतराष्ट्रोऽन्ध एव च । मुनिं दृष्ट्वाथ कामिन्या नेत्रसम्मीलने कृते ॥ 2॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,2,1501,श्वेतरूपा यतो जाता दृष्ट्वा व्यासं नृपात्मजा । व्यासकोपात्समुत्पन्नः पाण्डुस्तेन न संशयः ॥ 3॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,3,1502,सन्तोषितस्तया व्यासो दास्या कामकलाविदा । विदुरस्तु समुत्पन्नो धर्मांशः सत्यवाक् शुचिः ॥ 4॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,4,1503,राज्ये संस्थापितः पाण्डुः कनीयानपि मन्त्रिभिः । अन्धत्वाद्धृतराष्ट्रोऽसौ नाधिकारे नियोजितः ॥ 5॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,5,1504,भीष्मस्यानुमते राज्यं प्राप्तः पाण्डुर्महाबलः । विदुरोऽप्यथ मेधावी मन्त्रकार्ये नियोजितः ॥ 6॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,6,1505,धृतराष्ट्रस्य द्वे भार्ये गान्धारी सौबली स्मृता । द्वितीया च तथा वैश्या गार्हस्त्येषु प्रतिष्ठिता ॥ 7॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,7,1506,पाण्डोरपि तथा पत्न्यौ द्वे प्रोक्ते वेदवादिभिः । शौरसेनी तथा कुन्ती माद्री च मद्रदेशजा ॥ 8॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,8,1507,गान्धारी सुषुवे पुत्रशतं परमशोभनम् । वैश्याप्येकं सुतं कान्तं युयुत्सुं सुषुवे प्रियम् ॥ 9॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,9,1508,कुन्ती तु प्रथमं कन्या सूर्यात्कर्णं मनोहरम् । सुषुवे पितृगेहस्था पश्चात्पाण्डुपरिग्रहः ॥ 10॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,10,1509,ऋषय ऊचुः । किमेतत्सूत चित्रं त्वं भाषसे मुनिसत्तम । जनितश्च सुतः पूर्वं पाण्डुना सा विवाहिता ॥ 11॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,11,1510,सूर्यात्कर्णः कथं जातः कन्यायां वद विस्तरात् । कन्या कथं पुनर्जाता पाण्डुना सा विवाहिता ॥ 12॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,12,1511,सूत उवाच । शूरसेनसुता कुन्ती बालभावे यदा द्विजाः । कुन्तिभोजेन राज्ञा तु प्रार्थिता कन्यका शुभा ॥ 13॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,13,1512,कुन्तिभोजेन सा बाला पुत्री तु परिकल्पिता । सेवनार्थं तु दीप्तस्य विहिता चारुहासिनी ॥ 14॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,14,1513,दुर्वासास्तु मुनिः प्राप्तश्चातुर्मास्ये स्थितो द्विजः । परिचर्या कृता कुन्त्या मुनिस्तोषं जगाम ह ॥ 15॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,15,1514,ददौ मन्त्रं शुभं तस्यै येनाहूतः सुरः स्वयम् । समायाति तथा कामं पूरयिष्यति वाञ्छितम् ॥ 16॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,16,1515,गते मुनौ ततः कुन्ती निश्चयार्थं गृहे स्थिता । चिन्तयामास मनसा कं सुरं समचिन्तये ॥ 17॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,17,1516,उदितश्च तदा भानुस्तया दृष्टो दिवाकरः । मन्त्रोच्चारं तया कृत्वा चाहूतस्तिग्मगुस्तदा ॥ 18॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,18,1517,मण्डलान्मानुषं रूपं कृत्वा सर्वातिपेशलम् । अवातरत्तदाकाशात्समीपे तत्र मन्दिरे ॥ 19॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,19,1518,दृष्ट्वा देवं समायान्तं कुन्ती भानुं सुविस्मिता । वेपमाना रजोदोषं प्राप्ता सद्यस्तु भामिनी ॥ 20॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,20,1519,कृताञ्जलिः स्थिता सूर्यं बभाषे चारुलोचना । सुप्रीता दर्शनेनाद्य गच्छ त्वं निजमण्डलम् ॥ 21॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,21,1520,सूर्य उवाच । आहूतोऽस्मि कथं कुन्ति त्वया मन्त्रबलेन वै । न मां भजसि कस्मात्त्वं समाहूय पुरोगतम् ॥ 22॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,22,1521,कामार्तोऽस्म्यसितापाङ्गि भज मां भावसंयुतम् । मन्त्रेणाधीनतां प्राप्प्तं क्रीडितुं नय मामिति ॥ 23॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,23,1522,कुन्त्युवाच ॥ कन्यास्म्यहं तु धर्मज्ञ सर्वसाक्षिन्नमाम्यहम् । तवाप्यहं न दुर्वाच्या कुलकन्यास्मि सुव्रत ॥ 24॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,24,1523,सूर्य उवाच । लज्जा मे महती चाद्य यदि गच्छाम्यहं वृथा । वाच्यतां सर्वदेवानां यास्याम्यत्र न संशयः ॥ 25॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,25,1524,शप्स्यामि तं द्विजं चाद्य येन मन्त्रः समर्पितः । त्वां चापि सुभृशं कुन्ति नोचेन्मां त्वं भजिष्यसि ॥ 26॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,26,1525,कन्याधर्मः स्थिरस्ते स्यान्न ज्ञास्यन्ति जनाः किल । मत्समस्तु तथा पुत्रो भविता ते वरानने ॥ 27॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,27,1526,इत्युक्त्वा तरणिः कुन्तीं तन्मनस्कां सुलज्जिताम् । भुक्त्वा जगाम देवेशो वरं दत्त्वातिवाञ्छितम् ॥ 28॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,28,1527,गर्भं दधार सुश्रोणी सुगुप्ते मन्दिरे स्थिता । धात्री वेद प्रिया चैका न माता न जनस्तथा ॥ 29॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,29,1528,गुप्तः सद्मनि पुत्रस्तु जातश्चातिमनोहरः । कवचेनातिरम्येण कुण्डलाभ्यां समन्वितः ॥ 30॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,30,1529,द्वितीय इव सूर्यस्तु कुमार इव चापरः । करे कृत्वाथ धात्रेयी तामुवाच सुलज्जिताम् ॥ 31॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,31,1530,कां चिन्तां करभोरु त्वमाधत्सेऽद्य स्थितास्म्यहम् । मञ्जूषायां सुतं कुन्ती मुञ्चन्ती वाक्यमब्रवीत् ॥ 32॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,32,1531,किं करोमि सुतार्ताहं त्यजे त्वां प्राणवल्लभम् । मन्दभाग्या त्यजामि त्वां सर्वलक्षणसंयुतम् ॥ 33॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,33,1532,पातुत्वां सगुणागुणा भगवती सर्वेश्वरी चाम्बिका स्तन्यं सैव ददातु विश्वजननी कात्यायनी कामदा । द्रक्ष्येऽहम्मुखपङ्कजं सुललितं प्राणप्रियार्हं कदा त्यक्त्वा त्वां विजने वने रविसुतं दुष्टा यथा स्वैरिणी ॥ 34॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,34,1533,पूर्वस्मिन्नपि जन्मनि त्रिजगतां माता न चाराधिता न ध्यातं पदपङ्कजं सुखकरं देव्याः शिवायाश्चिरम् । तेनाहं सुत दुर्भगास्मि सततं त्यक्त्वा पुनस्त्वां वने तप्स्यामि प्रिय पातकं स्मृतवती बुद्ध्या कृतं यत्स्वयम् ॥ 35॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,35,1534,सूत उवाव इत्युक्त्या तं सुतं कुन्ती मञ्जूषायां धृतं किल । धात्रीहस्ते ददौ भीता जनदर्शनतस्तथा ॥ 36॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,36,1535,स्नात्वा त्रस्ता तदा कुन्ती पितृवेश्मन्युवास सा । मञ्जूषा वहमाना च प्राप्ता ह्यधिरथेन वै ॥ 37॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,37,1536,राधा सूतस्य भार्या वै तयासौ प्रार्थितः सुतः । कर्णोऽभूद्बलवान्वीरः पालितः सूतसद्मनि ॥ 38॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,38,1537,कुन्ती विवाहिता कन्या पाण्डुना सा स्वयम्वरे । माद्री चैवापरा भार्या मद्रराजसुता शुभा ॥ 39॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,39,1538,मृगयां रममाणस्तु वने पाण्डुर्महाबलः । जघान मृगबुद्ध्या तु रममाणं मुनिं वने ॥ 40॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,40,1539,शप्तस्तेन तदा पाण्डुर्मुनिना कुपितेन च । स्त्रीसङ्गं यदि कर्तासि तदा ते मरणं धुवम् ॥ 41॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,41,1540,इति शप्तस्तु मुनिना पाण्डुः शोकसमन्वितः । त्यक्त्वा राज्यं वने वासं चकार भृशदुःखितः ॥ 42॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,42,1541,कुन्ती माद्री च भार्ये द्वे जग्मतुः सह सङ्गते । सेवनार्थं सतीधर्मं संश्रिते मुनिसत्तमाः ॥ 43॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,43,1542,गङ्गातीरे स्थितः पाण्डुर्मुनीनामाश्रमेषु च । श‍ृण्वानो धर्मशास्त्राणि चकार दुश्चरं तपः ॥ 44॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,44,1543,कथायां वर्तमानायां कदाचिद्धर्मसंश्रितम् । अश‍ृणोद्वचनं राजा सुपृष्टं मुनिभाषितम् ॥ 45॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,45,1544,अपुत्रस्य गतिर्नास्ति स्वर्गे गन्तुं परन्तप । येन केनाप्युपायेन पुत्रस्य जननं चरेत् ॥ 46॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,46,1545,अंशजः पुत्रिकापुत्रः क्षेत्रजो गोलकस्तथा । कुण्डः सहोढः कानीनः क्रीतः प्राप्तस्तथा वने ॥ 47॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,47,1546,दत्तः केनापि चाशक्तौ धनग्राहिसुताः स्मृताः । उत्तरोत्तरतः पुत्रा निकृष्टा इति निश्चयः ॥ 48॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,48,1547,इत्याकर्ण्य तदा प्राह कुन्तीं कमललोचनाम् । सुतमुत्पादयाशु त्वं मुनिं गत्वा तपोऽन्वितम् ॥ 49॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,49,1548,ममाज्ञया न दोषस्ते पुरा राज्ञा महात्मना । वसिष्ठाज्जनितः पुत्रः सौदासेनेति मे श्रुतम् ॥ 50॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,50,1549,तं कुन्ती वचनं प्राह मम मन्त्रोऽस्ति कामदः । दत्तो दुर्वाससा पूर्वं सिद्धिदः सर्वथा प्रभो ॥ 51॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,51,1550,निमन्त्रयेऽहं यं देवं मन्त्रेणानेन पार्थिव । आगच्छेत्सर्वथासौ वै मम पार्श्वं निमन्त्रितः ॥ 52॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,52,1551,भर्तुर्वाक्येन सा तत्र स्मृत्वा धर्मं सुरोत्तमम् । सङ्गम्य सुषुवे पुत्रं प्रथमं च युधिष्ठिरम् ॥ 53॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,53,1552,वायोर्वृकोदरं पुत्रं जिष्णुं चैव शतक्रतोः । वर्षे वर्षे त्रयः पुत्राः कुन्त्या जाता महाबलाः ॥ 54॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,54,1553,माद्री प्राह पतिं पाण्डुं पुत्रं मे कुरु सत्तम । किं करोमि महाराज दुःखं नाशय मे प्रभो ॥ 55॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,55,1554,प्रार्थिता पतिना कुन्ती ददौ मन्त्रं दयान्विता । एकपुत्रप्रबन्धेन माद्री पतिमते स्थिता ॥ 56॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,56,1555,स्मृत्वा तदाश्विनौ देवौ मद्रराजसुता सुतौ । नकुलः सहदेवश्च सुषुवे वरवर्णिनी ॥ 57॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,57,1556,एवं ते पाण्डवाः पञ्च क्षेत्रोत्पन्ताः सुरात्मजाः । वर्षवर्षान्तरे जाता वने तस्मिन्द्विजोत्तमाः ॥ 58॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,58,1557,एकस्मिन्समये पाण्डुर्माद्रीं दृष्ट्वाथ निर्जने । आश्रमे चातिकामार्तो जग्राहागतवैशसः ॥ 59॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,59,1558,मा मा मा मेति बहुधा निषिद्धोऽपितया भृशम् । आलिलिङ्ग प्रियां दैवात्पपात धरणीतले ॥ 60॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,60,1559,यथा वृक्षगता वल्ली छिन्ने पतति वै द्रुमे । तथा सा पतिता बाला कुर्वन्ती रोदनं बहु ॥ 61॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,61,1560,प्रत्यागता तदा कुन्ती रुदती बालकास्तथा । मुनयश्च महाभागाः श्रुत्वा कोलाहलं तदा ॥ 62॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,62,1561,मृतः पाण्डुस्तदा सर्वे मुनयः संशितव्रताः । सहाग्निभिर्विधिं कृत्वा गङ्गातीरे तदादहन् ॥ 63॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,63,1562,चक्रे सहैव गमनं माद्री दत्त्वा सुतौ शिशू । कुन्त्यै धर्मं पुरस्कृत्य सतीनां सत्यकामतः ॥ 64॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,64,1563,जलदानादिकं कृत्वा मुनयस्तत्र वासिनः । पञ्चपुत्रयुतां कुन्तीमनयन्हस्तिनापुरम् ॥ 65॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,65,1564,तां प्राप्तां च समाज्ञाय गाङ्गेयो विदुरस्तथा । नगरीं धृतराष्ट्रस्य सर्वे तत्र समाययुः ॥ 66॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,66,1565,पप्रच्छुश्च जनाः सर्वे कस्य पुत्रा वरानने । पाण्डोः शापं समाज्ञाय कुन्ती दुःखान्विता तदा ॥ 67॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,67,1566,तानुवाच सुराणां वै पुत्राः कुरुकुलोद्भवाः । विश्वासार्थं समाहूताः कुन्त्या सर्वे सुरास्तदा ॥ 68॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,68,1567,आगत्य खे तदा तैस्तु कथितं नः सुताः किल । भीष्मेण सत्कृतं वाक्यं देवानां सत्कृताः सुताः ॥ 69॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,69,1568,गता नागपुरं सर्वे तानादाय सुतान्वधूम् । भीष्मादयः प्रीतचित्ताः पालयामासुरर्थतः ॥ 70॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,70,1569,एवं पार्थाः समुत्पन्ना गाङ्गेयेनाथ पालिताः ॥ 71॥ 2,२.६,षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।,71,1570,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे युधिष्ठिरादीनामुत्पत्तिवर्णनं नाम षष्ठोऽध्यायः ॥ २.६॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,0,1571,सूत उवाच । पञ्चानां द्रौपदी भार्या सा मान्या सा पतिव्रता । पञ्च पुत्रास्तु तस्याः स्युर्भर्तृभ्योऽतीव सुन्दराः ॥ 1॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,1,1572,अर्जुनस्य तथा भार्या कृष्णस्य भगिनी शुभा । सुभद्रा या हृता पूर्वं जिष्णुना हरिसम्मते ॥ 2॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,2,1573,तस्यां जातो महावीरो निहतोऽसौ रणाजिरे । अभिमन्युर्हतास्तत्र द्रौपद्याश्च सुताः किल ॥ 3॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,3,1574,अभिमन्योर्वरा भार्या वैराटी चातिसुन्दरी । कुलान्ते सुषुवे पुत्रं मृतो बाणाग्निना शिशुः ॥ 4॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,4,1575,जीवितः स तु कृष्णेन भागिनेयसुतः स्वयम् । द्रौणिबाणाग्निनिर्दग्धः प्रतापेनाद्भुतेन च ॥ 5॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,5,1576,परिक्षीणेषु वंशेषु जातो यस्माद्वरः सुतः । तस्मात्परीक्षितो नाम विख्यातः पृथिवीतले ॥ 6॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,6,1577,निहतेषु च पुत्रेषु धृतराष्ट्रोऽतिदुःखितः । तस्थौ पाण्डवराज्ये च भीमवाग्बाणपीडितः ॥ 7॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,7,1578,गान्धारी च तथातिष्ठत् पुत्रशोकातुरा भृशम् । सेवां तयोर्दिवारात्रं चकारार्तो युधिष्ठिरः ॥ 8॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,8,1579,विदुरोऽप्यतिधर्मात्मा प्रज्ञानेत्रमबोधयत् । युधिष्ठिरस्यानुमते भ्रातृपार्श्वे व्यतिष्ठत ॥ 9॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,9,1580,धर्मपुत्रोऽपि धर्मात्मा चकार सेवनं पितुः । पुत्रशोकोद्भवं दुःखं तस्य विस्मारयन्निव ॥ 10॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,10,1581,यथा श‍ृणोति वृद्धोऽसौ तथा भीमोऽतिरोषितः । वारबाणेनाहनत्तं तु श्रावयन्संस्थिताञ्जनान् ॥ 11॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,11,1582,मया पुत्रा हताः सर्वे दुष्टस्यान्धस्य ते रणे । दुःशासनस्य रुधिरं पीतं हृद्यं तथा भृशम् ॥ 12॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,12,1583,भुनक्ति पिण्डमन्धोऽयं मया दत्तं गतत्रपः । ध्वाङ्क्षवद्वा श्ववच्चापि वृथा जीवत्यसौ जनः ॥ 13॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,13,1584,एवंविधानि रूक्षाणि श्रावयत्यनुवासरम् । आश्वासयति धर्मात्मा मूर्खोऽयमिति च ब्रुवन् ॥ 14॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,14,1585,अष्टादशैव वर्षाणि स्थित्वा तत्रैव दुःखितः । धृतराष्ट्रो वने यानं प्रार्थयामास धर्मजम् ॥ 15॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,15,1586,अयाचत धर्मपुत्रं धृतराष्ट्रो महीपतिः । पुत्रेभ्योऽहं ददाम्यद्य निर्वापं विधिपूर्वकम् ॥ 16॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,16,1587,वृकोदरेण सर्वेषां कृतमत्रौर्ध्वदैहिकम् । न कृतं मम पुत्राणां पूर्ववैरमनुस्मरन् ॥ 17॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,17,1588,ददासि चेद्धनं मह्यं कृत्वा चैवोर्ध्वदैहिकम् । गमिष्येऽहं वनं तप्तुं तपः स्वर्गफलप्रदम् ॥ 18॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,18,1589,एकान्ते विदुरेणोक्तो राजा धर्मसुतः शुचिः । धनं दातुं मनश्चक्रे धृतराष्ट्राय चार्थिने ॥ 19॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,19,1590,समाहूय निजान्मर्वानुवाच पृथिवीपतिः । धनं दास्ये महाभागाः पित्रे निर्वापकामिने ॥ 20॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,20,1591,तच्छ्रुत्वा वचनं भ्रातुर्न्येष्ठस्यामिततेजसः । सङ्ग्रहेऽस्य महाबाहुर्मारुतिः कुपितोऽब्रवीत् ॥ 21॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,21,1592,धनं देयं महाभाग दुर्योधनहिताय किम् । अन्धोऽपि सुखमाप्नोति मूर्खत्वं किमतः परम् ॥ 22॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,22,1593,तव दुर्मन्त्रितेनाथ दुःखं प्राप्ता वने वयम् । द्रौपदी च महाभागा समानीता दुरात्मना ॥ 23॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,23,1594,विराटभवने वासः प्रसादात्तव सुव्रत । दासत्वं च कृतं सर्वैर्मत्स्यस्यामितविक्रमैः ॥ 24॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,24,1595,देविता त्वं न चेज्ज्येष्ठः प्रभवेत्सङ्क्षयः कथम् । सूपकारो विराटस्य हत्वाभूवं तु मागधम् ॥ 25॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,25,1596,बृहन्नला कथं जिष्णुर्भवेद्बालस्य नर्तकः । कृत्वा वेषं महाबाहुर्योषाया वासवात्मजः ॥ 26॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,26,1597,गाण्डीवशोभितौ हस्तौ कृतौ कङ्कणशोभितौ । मानुषं च वपुः प्राप्य किं दुःखं स्यादतः परम् ॥ 27॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,27,1598,दृष्ट्वा वेणीं कृतां मूर्ध्नि कज्जलं लोचने तथा । असिं गृहीत्वा तरसा छेद्म्यहं नान्यथा सुखम् ॥ 28॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,28,1599,अपृष्ट्वा च महीपालं निक्षिप्तोऽग्निर्मया गृहे । दग्धुकामश्च पापात्मा निर्दग्धोऽसौ पुरोचनः ॥ 29॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,29,1600,कीचका निहताः सर्वे त्वामपृष्ट्वा जनाधिप । न तथा निहताः सर्वे सभार्या धृतराष्ट्रजाः ॥ 30॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,30,1601,मूर्खत्वं तव राजेन्द्र गन्धर्वेभ्यश्च मोचिताः । दुर्योधनादयः कामं शत्रवो निगडीकृताः ॥ 31॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,31,1602,दुर्योधनहितायाद्य धनं दातुं त्वमिच्छसि । नाहं ददे महीपाल सर्वथा प्रेरितस्त्वया ॥ 32॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,32,1603,इत्युक्त्वा निर्गते भीमे त्रिभिः परिवृतो नृपः । ददौ वित्तं सुबहुलं धृतराष्ट्राय धर्मजः ॥ 33॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,33,1604,कारयामास विधिवत्पुत्राणां चौर्ध्वदैहिकम् । ददौ दानानि विप्रेभ्यो धृतराष्ट्रोऽम्बिकासुतः ॥ 34॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,34,1605,कृत्वौर्ध्वदैहिकं सर्वं गान्धारीसहितो नृपः । प्रविवेश वनं तूर्णं कुन्त्या च विदुरेण च ॥ 35॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,35,1606,सञ्जयेन परिज्ञातो निर्गतोऽसौ महामतिः । पुत्रैर्निवार्यमाणापि शूरसेनसुता गता ॥ 36॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,36,1607,विलपन्भीमसेनोऽपि तथान्ये चापि कौरवाः । गङ्गातीरात्परावृत्य ययुः सर्वे गजाह्वयम् ॥ 37॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,37,1608,ते गत्वा जाह्नवीतीरे शतयूपाश्रमं शुभम् । कृत्वा तृणैः कुटीं तत्र तपस्तेपुः समाहिताः ॥ 38॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,38,1609,गतान्यब्दानि षट् तेषां यदा याता हि तापसाः । युधिष्ठिरस्तु विरहादनुजानिदमब्रवीत् ॥ 39॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,39,1610,स्वप्ने दृष्टा मया कुन्ती दुर्बला वनसंस्थिता । मनो मे जायते द्रष्टुं मातरं पितरौ तथा ॥ 40॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,40,1611,विदुरं च महात्मानं सञ्जयं च महामतिम् । रोचते यदि वः सर्वान् व्रजाम इति मे मतिः ॥ 41॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,41,1612,ततस्ते भ्रातरः सर्वे सुभद्रा द्रौपदी तथा । वैराटी च महाभागा तथा नागरिको जनः ॥ 42॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,42,1613,प्राप्ताः सर्वजनैः सार्धं पाण्डवा दर्शनोत्सुकाः । शतयूपाश्रमं प्राप्य ददृशुः सर्व एव ते ॥ 43॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,43,1614,विदुरो न यदा दृष्टो धर्मस्तं पृष्टवांस्तदा । क्वास्ते स विदुरो धीमांस्तमुवाचाम्बिकासुतः ॥ 44॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,44,1615,विरक्तश्चरते क्षत्ता निरीहो निष्परिग्रहः । कुतोऽप्येकान्तसंवासी ध्यायतेऽन्तः सनातनम् ॥ 45॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,45,1616,गङ्गां गच्छन्द्वितीयेऽह्नि वने राजा युधिष्ठिरः । ददर्श विदुरं क्षामं तपसा संशितव्रतम् ॥ 46॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,46,1617,दृष्ट्वोवाच महीपालो वन्देऽहं त्वां युधिष्ठिरः । तस्थौ श्रुत्वा च विदुरः स्थाणुभूत इवानघः ॥ 47॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,47,1618,क्षणेन विदुरस्यास्यान्निःसृतं तेज अद्भुतम् । लीनं युधिष्ठिरस्यास्ये धर्मांशत्वात्परस्परम् ॥ 48॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,48,1619,क्षत्ता जहौ तदा प्राणाञ्छुशोचाति युधिष्ठिरः । दाहार्थं तस्य देहस्य कृतवानुद्यमं नृपः ॥ 49॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,49,1620,श‍ृण्वतस्तु तदा राज्ञो वागुवाचाशरीरिणी । विरक्तोऽयं न दाहार्हो यथेष्टं गच्छ भूपते ॥ 50॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,50,1621,श्रुत्वा ते भ्रातरः सर्वे सस्नुर्गङ्गाजलेऽमले । गत्वा निवेदयामासुर्धृतराष्ट्राय विस्तरात् ॥ 51॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,51,1622,स्थितास्तत्राश्रमे सर्वे पाण्डवा नागरैः सह । तत्र सत्यवतीसूनुर्नारदश्च समागतः ॥ 52॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,52,1623,मुनयोऽन्ये महात्मानश्चागता धर्मनन्दनम् । कुन्ती प्राह तदा व्यासं संस्थितं शुभदर्शनम् ॥ 53॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,53,1624,कृष्ण कर्णस्तु पुत्रो मे जातमात्रस्तु वीक्षितः । मनो मे तप्यतेऽत्यर्थं दर्शयस्व तपोधन ॥ 54॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,54,1625,समर्थोऽसि महाभाग कुरु मे वाञ्छितं प्रभो । गान्धार्युवाच । दुर्योधनो रणेऽगच्छद्वीक्षितो न मया मुने ॥ 55॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,55,1626,तं दर्शय मुनिश्रेष्ठ पुत्रं मे त्वं सहानुजम् । सुभद्रोवाच । अभिमन्युं महावीरं प्राणादप्यधिकं प्रियम् ॥ 56॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,56,1627,द्रष्टुकामास्मि सर्वज्ञ दर्शयाद्य तपोधन । सूत उवाच । एवंविधानि वाक्यानि श्रुत्वा सत्यवतीसुतः ॥ 57॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,57,1628,प्राणायामं ततः कृत्वा दध्यौ देवीं सनातनीम् । सन्ध्याकालेऽथ सम्प्राप्ते गङ्गायां मुनिसत्तमः ॥ 58॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,58,1629,सर्वांस्तांश्च समाहूय युधिष्ठिरपुरोगमान् । तुष्टाव विश्वजननीं स्नात्वा पुण्यसरिज्जले ॥ 59॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,59,1630,प्रकृतिं पुरुषारामां सगुणां निर्गुणां तथा । देवदेवीं ब्रह्मरूपां मणिद्वीपाधिवासिनीम् ॥ 60॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,60,1631,यदा न वेधा न च विष्णुरीश्वरो न वासवो नैव जलाधिपस्तथा । न वित्तपो नैव यमश्च पावक- स्तदासि देवि त्वमहं नमामि ताम् ॥ 61॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,61,1632,जलं न वायुर्न धरा न चाम्बरं गुणा न तेषां च न चेन्द्रियाण्यहम् । मनो न बुद्धिर्न च तिग्मगुः शशी तदासि देवि त्वमहं नमामि ताम् ॥ 62॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,62,1633,इमं जीवलोकं समाधाय चित्ते गुणैर्लिङ्गकोशं च नीत्वा समाधौ । स्थिता कल्पकालं नयस्यात्मतन्त्रा न कोऽप्यस्ति वेत्ता विवेकं गतोऽपि ॥ 63॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,63,1634,प्रार्थयत्येष मां लोको मृतानां दर्शनं पुनः । नाहं क्षमोऽस्मि मातस्त्वं दर्शयाशु जनान्मृतान् ॥ 64॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,64,1635,सूत उवाच । एवं स्तुता तदा देवी माया श्रीभुवनेश्वरी । स्वर्गादाहूय सर्वान्वै दर्शयामास पार्थिवान् ॥ 65॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,65,1636,दृष्ट्वा कुन्ती च गान्धारी सुभद्रा च विराटजा । पाण्डवा मुमुदुः सर्वे वीक्ष्य प्रत्यागतान्स्वकान् ॥ 66॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,66,1637,पुनर्विसर्जितास्तेन व्यासेनामिततेजसा । स्मृत्वा देवीं महामायामिन्द्रजालमिवोद्यतम् ॥ 67॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,67,1638,तदा पृष्ट्वा ययुः सर्वे पाण्डवा मुनयस्तथा । राजा नागपुरं प्राप्तः कुर्वन् व्यासकथां पथि ॥ 68॥ 2,२.७,सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।,68,1639,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे पाण्डवानां कथानकं मृतानां दर्शनवर्णनं नाम सप्तमोऽध्यायः ॥ २.७॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,0,1640,सूत उवाच । ततो दिने तृतीये च धृतराष्ट्रः स भूपतिः । दावाग्निना वने दग्धः सभार्यः कुन्तिसंयुतः ॥ 1॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,1,1641,सञ्जयस्तीर्थयात्रायां गतस्त्यक्त्वा महीपतिम् । श्रुत्वा युधिष्ठिरो राजा नारदाद्दुःखमाप्तवान् ॥ 2॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,2,1642,षट्त्रिंशेऽथ गते वर्षे कौरवाणां क्षयात्पुनः । प्रभासे यादवाः सर्वे विप्रशापात्क्षयं गताः ॥ 3॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,3,1643,ते पीत्वा मदिरां मत्ताः कृत्वा युद्धं परस्परम् । क्षयं प्राप्ता महात्मानः पश्यतो रामकृष्णयोः ॥ 4॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,4,1644,देहं तत्याज रामस्तु कृष्णः कमललोचनः । व्याधबाणहतः शापं पालयन्भगवान्हरिः ॥ 5॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,5,1645,वसुदेवस्तु तच्छ्रुत्वा देहत्यागं हरेरथ । जहौ प्राणाञ्छुचीन्कृत्वा चित्ते श्रीभुवनेश्वरीम् ॥ 6॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,6,1646,अर्जुनस्तु ततो गत्वा प्रभासे चातिदुःखितः । संस्कारं तत्र सर्वेषां यथायोग्यं चकार ह ॥ 7॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,7,1647,समीक्ष्याथ हरेर्देहं कृत्वा काष्ठस्य सञ्चयम् । अष्टाभिः सह पत्नीभिर्दाहयामास पार्थिवः ॥ 8॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,8,1648,देहं रामस्य रेवत्या सह दग्ध्वा विभावसौ । अर्जुनो द्वारकामेत्य पुरान्निष्क्रामयज्जनम् ॥ 9॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,9,1649,पुरी सा वासुदेवस्य प्लावितोदधिना ततः । अर्जुनः सर्वलोकान्वै गृहीत्वा निर्गतस्तदा ॥ 10॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,10,1650,कृष्णपत्न्यस्तदा मार्गे चौराभीरैश्च लुण्ठिता । धनं सर्वं गृहीतं च निस्तेजश्चार्जुनोऽभवत् ॥ 11॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,11,1651,इन्द्रप्रस्थे समागत्य वज्रो राजा कृतस्तदा । अनिरुद्धसुतो नाम्ना पार्थेनामिततेजसा ॥ 12॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,12,1652,व्यासाय कथितं दुःखं तेनोक्तोऽसौ महारथः । पुनर्यदा हरिस्त्वञ्च भवितासि महामते ॥ 13॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,13,1653,तदा तेजस्तवात्युग्रं भविष्यति पुनर्युगे । तच्छ्रुत्वा वचनं पार्थो गत्वा नागपुरेऽर्जुनः ॥ 14॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,14,1654,दुःखितो धर्मराजानं वृत्तान्तं सर्वमब्रवीत् । देहत्यागं हरेः श्रुत्वा यादवानां क्षयं तथा ॥ 15॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,15,1655,गमनाय मतिं चक्रे राजा हैमाचलं प्रति । षट्त्रिंशद्वार्षिकं राज्ये स्थापयित्वोत्तरासुतम् ॥ 16॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,16,1656,निर्जगाम वनं राजा द्रौपद्या भ्रातृभिः सह । षट्त्रिंशच्चैव वर्षाणि कृत्वा राज्यं गजाह्वये ॥ 17॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,17,1657,गत्वा हिमाचले षट् ते जहुः प्राणान्पृथासुताः । परीक्षिदपि राजर्षिः प्रजाः सर्वाः सुधार्मिकः ॥ 18॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,18,1658,अपालयच्च राजेन्द्रः षष्टिवर्षाण्यतन्द्रितः । बभूव मृगयाशीलो जगाम च वनं महत् ॥ 19॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,19,1659,विद्धं मृगं विचिन्वानो मध्याह्ने भूपतिः स्वयम् । तृषितश्च परिश्रान्तः क्षुधितश्चोत्तरासुतः ॥ 20॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,20,1660,राजा घर्मेण सन्तप्तो ददर्श मुनिमन्तिके । ध्याने स्थितं मुनिं राजा जलं पप्रच्छ चातुरः ॥ 21॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,21,1661,नोवाच किञ्चिन्मौनस्थश्चुकोप नृपतिस्तदा । मृतं सर्पं तदादाय धनुष्कोट्या तृषातुरः ॥ 22॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,22,1662,कलिनाविष्टचित्तस्तु कण्ठे तस्य न्यवेशयत् । आरोपिते तथा सर्पे नोवाच मुनिसत्तमः ॥ 23॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,23,1663,न चचाल समाधिस्थो राजापि स्वगृहं गतः । तस्य पुत्रोऽतितेजस्वी गविजातो महातपाः ॥ 24॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,24,1664,महाशक्तोऽथ शुश्राव क्रीडमानो वनान्तिके । मित्राण्याहुश्च तत्पुत्रं पितुः कण्ठे तवाधुना ॥ 25॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,25,1665,लम्भितोऽस्ति मृतः सर्पः केनापीति मुनीश्वर । तेषां तद्वचनं श्रुत्वा चुकोपातिशयं तदा ॥ 26॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,26,1666,शशाप नृपतिं क्रुद्धो गृहीत्वाशु करे जलम् । पितुः कण्ठेऽद्य मे येन विनिक्षिप्तो मृतोरगः ॥ 27॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,27,1667,तक्षकः सप्तरात्रेण तं दशेत्पापपूरुषम् । मुनेः शिष्योऽथ राजानं समुपेत्य गृहे स्थितम् ॥ 28॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,28,1668,शापं निवेदयामास मुनिपुत्रेण चार्पितम् । अभिमन्युसुतः श्रुत्वा शापं दत्तं द्विजेन वै ॥ 29॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,29,1669,अनिवार्यं च विज्ञाय मन्त्रिवृद्धानुवाच ह । शप्तोऽहं द्विजरूपेण मम द्वेषादसंशयम् ॥ 30॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,30,1670,किं विधेयं मयामात्या उपायश्चिन्त्यतामिह । मृत्युः किलानिवार्योऽसौ वदन्ति वेदवादिनः ॥ 31॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,31,1671,यत्नस्तथापि शास्त्रोक्तः कर्तव्यः सर्वथा बुधैः । उपायवादिनः केचित्प्रवदन्ति मनीषिणः ॥ 32॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,32,1672,विज्ञोपायेन सिध्यन्ति कार्याणि नेतरस्य च । मणिमन्त्रौषधीनां वै प्रभावाः खलु दुर्विदः ॥ 33॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,33,1673,न भवेदिति किं तैस्तु मणिमद्भिः सुसाधितैः । सर्पदष्टा पुरा भार्या मुनेः सञ्जीविता मृता ॥ 34॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,34,1674,दत्त्वार्धमायुषस्तेन मुनिना सा वराप्सराः । भवितव्ये न विश्वासः कर्तव्यः सर्वथा बुधैः ॥ 35॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,35,1675,प्रत्यक्षं तत्र दृष्टान्तं पश्यन्तु सचिवाः किल । दिवि कोऽपि पृथिव्यां वा दृश्यते पुरुषः क्वचित् ॥ 36॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,36,1676,दैवे मतिं समाधाय यस्तिष्ठेत्तु निरुद्यमः । विरक्तस्तु यतिर्भूत्वा भिक्षार्थं याति सर्वथा ॥ 37॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,37,1677,गृहस्थानां गृहे काममाहूतो वाथवान्यथा । यदृच्छयोपपन्नं च क्षिप्तं केनापि वा मुखे ॥ 38॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,38,1678,उद्यमेन विना चास्यादुदरे संविशेत्कथम् । प्रयत्नश्चोद्यमे कार्यो यदा सिद्धिं न याति चेत् ॥ 39॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,39,1679,तदा दैवं स्थितं चेति चित्तमालम्बयेद्बुधः । मन्त्रिण ऊचुः । को मुनिर्येन दत्त्वार्धमायुषो जीविता प्रिया ॥ 40॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,40,1680,कथं मृता महाराज तन्नो ब्रूहि सविस्तरम् । राजोवाच । भृगोर्भार्या वरारोहा पुलोमा नाम सुन्दरी ॥ 41॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,41,1681,तस्यां तु च्यवनो नाम मुनिर्जातोऽतिविश्रुतः । च्यवनस्य च शर्यातेः सुकन्या नाम सुन्दरी ॥ 42॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,42,1682,तस्यां जज्ञे सुतः श्रीमान्प्रमतिर्नाम विश्रुतः । प्रमतेस्तु प्रिया भार्या प्रतापी नाम विश्रुता ॥ 43॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,43,1683,रुरुर्नाम सुतो जातस्तथा परमतापसः । तस्मिंश्च समये कश्चित्स्थूलकेशश्च विश्रुतः ॥ 44॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,44,1684,बभूव तपसा युक्तो धर्मात्मा सत्यसम्मतः । एतस्मिन्नन्तरे मान्या मेनका च वराप्सराः ॥ 45॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,45,1685,क्रीडां चक्रे नदीतीरे त्रिषु लोकेषु सुन्दरी । गर्भं विश्वावसोः प्राप्य निर्गता वरवर्णिनी ॥ 46॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,46,1686,स्थलकेशाश्रमे गत्वा विससर्ज वराप्सराः । कन्यकां च नदीतीरे त्रिषु लोकेषु सुन्दरीम् ॥ 47॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,47,1687,दृष्ट्वानाथां तदा कन्यां जग्राह मुनिसत्तमः । पुपोष स्थूलकेशस्तु नाम्ना चक्रे प्रमद्वराम् ॥ 48॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,48,1688,सा काले यौवनं प्राप्ता सर्वलक्षणसंयुता । रुरुर्दृष्ट्वाथ तां बालां कामबाणार्दितो ह्यभूत् ॥ 49॥ 2,२.८,अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।,49,1689,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे रुरुचरित्रवर्णनं नामाष्टमोऽध्यायः ॥ २.८॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,0,1690,परीक्षिदुवाच । कामार्तः स मुनिर्गत्वा रुरुः सुप्तो निजाश्रमे । पिता पप्रच्छ दीनं तं किं रुरो विमना असि ॥ 1॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,1,1691,स तमाहातिकामार्तः स्थूलकेशस्य चाश्रमे । कन्या प्रमद्वरा नाम सा मे भार्या भवेदिति ॥ 2॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,2,1692,स गत्वा प्रमतिस्तूर्णं स्थूलकेशं महामुनिम् । प्रमुह्य सुमुखं कृत्वा ययाचे तां वराननाम् ॥ 3॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,3,1693,ददौ वाचं स्थूलकेशः प्रदास्यामि शुभेऽहनि । विवाहार्थं च सम्भारं रचयामासतुर्वने ॥ 4॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,4,1694,प्रमतिः स्थूलकेशश्च विवाहार्थं समुद्यतौ । बभूवतुर्महात्मानौ समीपस्थौ तपोवने ॥ 5॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,5,1695,तस्मिन्नवसरे कन्या रममाणा गृहाङ्गणे । प्रसुप्तं पन्नगं पादेनास्पृशच्चारुलोचना ॥ 6॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,6,1696,दष्टा तु पन्नगेनाथ सा ममार वराङ्गना । कोलाहलस्तदा जातो मृतां दृष्ट्वा प्रमद्वराम् ॥ 7॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,7,1697,मिलिता मुनयः सर्वे चुक्रुशुः शोकसंयुताः । भूमौ तां पतितां दृष्ट्वा पिता तस्यातिदुःखितः ॥ 8॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,8,1698,रुरोद विगतप्राणां दीप्यमानां सुतेजसा । रुरुः श्रुत्वा तदाक्रन्दं दर्शनार्थं समागतः ॥ 9॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,9,1699,ददर्श पतितां तत्र सजीवामिव कामिनीम् । रुदन्तं स्थूलकेशं च दृष्ट्वान्यानृषिसत्तमान् ॥ 10॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,10,1700,रुरुः स्थानाद्बहिर्गत्वा रुरोद विरहाकुलः । अहो दैवेन सर्पोऽयं प्रेषितः परमाद्भुतः ॥ 11॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,11,1701,मम शर्मविघाताय दुःखहेतुरयं किल । किं करोमि क्व गच्छामि मृता मे प्राणवल्लभा ॥ 12॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,12,1702,न वै जीवितुमिच्छामि वियुक्तः प्रिययानया । नालिङ्गिता वरारोहा न मया चुम्बिता मुखे ॥ 13॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,13,1703,न पाणिग्रहणं प्राप्तं मन्दभाग्येन सर्वथा । लाजाहोमस्तथा चाग्नौ न कृतस्त्वनया सह ॥ 14॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,14,1704,मानुष्यं धिगिदं कामं गच्छन्त्वद्य ममासवः । दुःखितस्य न वा मृत्युर्वाञ्छितः समुपैति हि ॥ 15॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,15,1705,सुखं तर्हि कथं दिव्यमाप्यते भुवि वाञ्छितम् । प्रपतामि ह्रदे घोरे पावके प्रपताम्यहम् ॥ 16॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,16,1706,विषमद्मि गले पाशं कृत्वा प्राणांस्त्यजाम्यहम् । विलप्यैवं रुरुस्तत्र विचार्य मनसा पुनः ॥ 17॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,17,1707,उपायं चिन्तयामास स्थितस्तस्मिन्नदीतटे । मरणात्किं फलं मे स्यादात्महत्या दुरत्यया ॥ 18॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,18,1708,दुःखितश्च पिता मे स्याज्जननी चातिदुःखिता । दैवस्तुष्टो भवेत्कामं दृष्ट्वा मां त्यक्तजीवितम् ॥ 19॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,19,1709,सर्वः प्रमुदितश्च स्यान्मत्क्षये नात्र संशयः । उपकारः प्रियायाः कः परलोके भवेदपि ॥ 20॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,20,1710,मृते मय्यात्मघातेन विरहात्पीडितेऽपि च । परलोके प्रिया सापि न मे स्यादात्मघातिनः ॥ 21॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,21,1711,एतदर्थं मृते दोषा मयि नैवामृते पुनः । विमृश्यैव रुरुस्तत्र स्नात्वाचम्य शुचिः स्थितः ॥ 22॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,22,1712,अब्रवीद्वचनं कृत्वा जलं पाणावसौ मुनिः । यन्मया सुकृतं किञ्चित्कृतं देवार्चनादिकम् ॥ 23॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,23,1713,गुरवः पूजिता भक्त्या हुतं जप्तं तपः कृतम् । अधीतास्त्वखिला वेदा गायत्री संस्कृता यदि ॥ 24॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,24,1714,रविराराधितस्तेन सञ्जीवतु मम प्रिया । यदि जीवेन्न मे कान्ता त्यजे प्राणानहं ततः ॥ 25॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,25,1715,इत्युक्त्वा तज्जलं भूमौ चिक्षेपाराध्य देवताः । राजोवाच । एवं विलपतस्तस्य भार्यया दुःखितस्य च ॥ 26॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,26,1716,देवदूतस्तदाभ्येत्य वाक्यमाह रुरुं ततः । देवदूत उवाच । माकार्षीः साहसं ब्रह्मन्कथं जीवेन्मृता प्रिया ॥ 27॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,27,1717,गतायुरेषा सुश्रोणी गन्धर्वाप्सरसोः सुता । अन्यां कामय चार्वङ्गीं मृतेयं चाविवाहिता ॥ 28॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,28,1718,किं रोदिषि सुदुर्बुद्धे का प्रीतिस्तेऽनया सह । रुरुरुवाच । देवदूत न चान्यां वै वरिष्याम्यहमङ्गनाम् ॥ 29॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,29,1719,यदि जीवेन्न जीवेद्वा मर्तव्यं चाधुना मया । राजोवाच । विदित्वेति हठं तस्य देवदूतो मुदान्वितः ॥ 30॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,30,1720,उवाच वचनं तथ्यं सत्यं चातिमनोहरम् । उपायं श‍ृणु विप्रेन्द्र विहितं यत्सुरैः पुरा ॥ 31॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,31,1721,आयुषोऽर्धप्रदानेन जीवयाशु प्रमद्वराम् । रुरुरुवाच । आयुषोऽर्धं प्रयच्छामि कन्यायै नात्र संशयः ॥ 32॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,32,1722,अद्य प्रत्यावृतप्राणा प्रोत्तिष्ठतु मम प्रिया । विश्वावसुस्तदा तत्र विमानेन समागतः ॥ 33॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,33,1723,ज्ञात्वा पुत्रीं मृतां चाशु स्वर्गलोकात्प्रमद्वराम् । ततो गन्धर्वराजश्च देवदूतश्च सत्तमः ॥ 34॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,34,1724,धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम् । धर्मराज रुरोः पत्नी सुता विश्वावसोस्तथा ॥ 35॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,35,1725,मृता प्रमद्वरा कन्या दष्टा सर्पेण चाधुना । सा रुरोरायुषोऽर्धेन मर्तुकामस्य सूर्यज ॥ 36॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,36,1726,समुत्तिष्ठतु तन्वङ्गी व्रतचर्याप्रभावतः । धर्म उवाच । विश्वावसुसुतां कन्यां देवदूत यदीच्छसि ॥ 37॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,37,1727,उत्तिष्ठत्वायुषोऽर्धेन रुरुं गत्वा त्वमर्पय । राजोवाच । एवमुक्तस्ततो गत्वा जीवयित्वा प्रमद्वराम् ॥ 38॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,38,1728,रुरोः समर्पयामास देवदूतस्त्वरान्वितः । ततः शुभेऽह्नि विधिना रुरुणापि विवाहिता ॥ 39॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,39,1729,इत्थं चोपाययोगेन मृताप्युज्जीविता तदा । उपायस्तु प्रकर्तव्यः सर्वथा शास्त्रसम्मतः ॥ 40॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,40,1730,मणिमन्त्रौषधीभिश्च विधिवत्प्राणरक्षणे । इत्युक्त्वा सचिवान् राजा कल्पयित्वा सुरक्षकान् ॥ 41॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,41,1731,कारयित्वाथ प्रासादं सप्तभूमिकमुत्तमम् । आरुरोहोत्तरासूनुः सचिवैः सह तत्क्षणम् ॥ 42॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,42,1732,मणिमन्त्रधराः शूराः स्थापितास्तत्र रक्षणे । प्रेषयामास भूपालो मुनिं गौरमुखं ततः ॥ 43॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,43,1733,प्रसादार्थं सेवकस्य क्षमस्वेति पुनः पुनः । ब्राह्मणान्सिद्धमन्त्रज्ञान् रक्षणार्थमितस्ततः ॥ 44॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,44,1734,मन्त्रिपुत्रः स्थितस्तत्र स्थापयामास दन्तिनः । न कश्चिदारुहेत्तत्र प्रासादे चातिरक्षिते ॥ 45॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,45,1735,वातोऽपि न चरेत्तत्र प्रवेशे विनिवार्यते । भक्ष्यभोज्यादिकं राजा तत्रस्थश्च चकार सः ॥ 46॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,46,1736,स्तानसन्ध्यादिकं कर्म तत्रैव विनिवर्त्य च । राजकार्याणि सर्वाणि तत्रस्थश्चाकरोन्नृपः ॥ 47॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,47,1737,मन्त्रिभिः सह सम्मन्त्र्य गणयन्दिवसानपि । कश्चिच्च कश्यपो नाम ब्राह्मणो मन्त्रिसत्तमः ॥ 48॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,48,1738,शुश्राव च तथा शापं प्राप्तं राज्ञा महात्मना । स धनार्थी द्विजश्रेष्ठः कश्यपः समचिन्तयत् ॥ 49॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,49,1739,व्रजामि तत्र यत्रास्ते शप्तो राजा द्विजेन ह । इति कृत्वा मतिं विप्रः स्वगृहान्निःसृतः पथि ॥ 50॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,50,1740,कश्यपो मन्त्रविद्विद्वान्धनार्थी मुनिसत्तमः ॥ 51॥ 2,२.९,नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।,51,1741,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनं नाम नवमोऽध्यायः ॥ २.९॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,0,1742,सूत उवाच । तस्मिन्नेव दिने नाम्ना तक्षकस्तं नृपोत्तमम् । शप्तं ज्ञात्वा गृहात्तूर्णं निःसृतः पुरुषोत्तमः ॥ 1॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,1,1743,वृद्धब्राह्मणवेषेण तक्षकः पथि निर्गतः । अपश्यत्कश्यपं मार्गे व्रजन्तं नृपतिं प्रति ॥ 2॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,2,1744,तमपृच्छत्पन्नगोऽसौ ब्राह्मणं मन्त्रवादिनम् । क्व भवांस्त्वरितो याति किञ्च कार्यं चिकीर्षति ॥ 3॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,3,1745,कश्यप उवाच । परीक्षितं नृपश्रेष्ठं तक्षकश्च प्रधक्ष्यति । तत्राहं त्वरितो यामि नृपं कर्तुमपज्वरम् ॥ 4॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,4,1746,मन्त्रोऽस्ति मम विप्रेन्द्र विषनाशकरः किल । जीवयिष्याम्यहं तं वै जीवितव्येऽधुना किल ॥ 5॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,5,1747,तक्षक उवाच । अहं स पन्नगो ब्रह्मंस्तं धक्ष्यामि महीपतिम् । निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम् ॥ 6॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,6,1748,कश्यप उवाच । अहं दष्टं त्वया सर्प नृपं शप्तं द्विजेन वै । जीवयिष्याम्यसन्देहं कामं मन्त्रबलेन वै ॥ 7॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,7,1749,तक्षक उवाच । यदि त्वं जीवितुं यासि मया दष्टं नृपोत्तमम् । मन्त्रशक्तिबलं विप्र दर्शय त्वं ममानघ ॥ 8॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,8,1750,धक्ष्याम्येनं च न्यग्रोधं विषदंष्ट्राभिरद्य वै । कश्यप उवाच । जीवयिष्ये त्वया दष्टं दग्धं वा पन्नगोत्तम ॥ 9॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,9,1751,सूत उवाच । अदशत्पन्नगो वृक्षं भस्मसाच्च चकार तम् । उवाच कश्यपं भूयो जीवयैनं द्विजोत्तम ॥ 10॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,10,1752,दृष्ट्वा भस्मीकृतं वृक्षं पन्नगेन विषाग्निना । सर्वं भस्म समाहृत्य कश्यपो वाक्यमब्रवीत् ॥ 11॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,11,1753,पश्य मन्त्रबलं मेऽद्य न्यग्रोधं पन्नगोत्तम । जीवयाम्यद्य वृक्षं वै पश्यतस्ते महाविष ॥ 12॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,12,1754,इत्युक्त्वा जलमादाय कश्यपो मन्त्रवित्तमः । सिषेच भस्मराशिं तं मन्त्रितेनैव वारिणा ॥ 13॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,13,1755,तद्वारिसेचनाज्जातो न्यग्रोधः पूर्ववच्छुभः । विस्मयं तक्षकः प्राप्तो दृष्ट्वा तं जीवितं नगम् ॥ 14॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,14,1756,तमाह कश्यपं नागः किमर्थं ते परिश्रमः । सम्पादयामि तं कामं ब्रूहि वाडव वाञ्छितम् ॥ 15॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,15,1757,कश्यप उवाच । वित्तार्थी नृपतिं मत्वा शप्तं पन्नग निःसृतः । गृहादहं चोपकर्तुं विद्यया नृपसत्तमम् ॥ 16॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,16,1758,तक्षक उवाच । वित्तं गृहाण विप्रेन्द्र यावदिच्छसि पार्थिवात् । ददामि स्वगृहं याहि सकामोऽहं भवाम्यतः ॥ 17॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,17,1759,सूत उवाच । तच्छ्रुत्वा वचनं तस्य कश्यपः परमार्थवित् । चिन्तयामास मनसा किं करोमि पुनः पुनः ॥ 18॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,18,1760,धनं गहीत्वा स्वगृहं प्रयामि यद्यहं पुनः । भविष्यति न मे कीर्तिर्लोके लोभसमाश्रयात् ॥ 19॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,19,1761,जीवितेऽथ नृपश्रेष्ठे कीर्तिः स्यादचला मम । धनप्राप्तिश्च बहुधा भवेत्पुण्यं च जीवनात् ॥ 20॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,20,1762,रक्षणीयं यशः कामं धिग्धनं यशसा विना । सर्वस्वं रघुणा पूर्वं दत्तं विप्राय कीर्तये ॥ 21॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,21,1763,हरिश्चन्द्रेण कर्णेन कीर्त्यर्थं बहुविस्तरम् । उपेक्षेयं कथं भूपं दह्यमानं विषाग्निना ॥ 22॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,22,1764,जीवितेऽद्य मया राज्ञि सुखं सर्वजनस्य च । अराजके प्रजानाशो भविता नात्र संशयः ॥ 23॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,23,1765,प्रजानाशस्य पापं मे भविष्यति मृते नृपे । अपकीर्तिश्च लोकेषु धनलोभाद्भविष्यति ॥ 24॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,24,1766,इति सञ्चिन्त्य मनसा ध्यानं कृत्वा स कश्यपः । गतायुषं च नृपतिं ज्ञातवाम्बुद्धिमत्तरः ॥ 25॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,25,1767,आसन्नमृत्युं राजानं ज्ञात्वा ध्यानेन कश्यपः । गृहं ययौ स धर्मात्मा धनमादाय तक्षकात् ॥ 26॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,26,1768,निवर्त्य कश्यपं सर्पः सप्तमे दिवसे नृपम् । हन्तुकामो जगामाशु नगरं नागसाह्वयम् ॥ 27॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,27,1769,शुश्राव नगरस्यान्ते प्रासादस्थं परीक्षितम् । मणिमन्त्रौषधैः कामं रक्ष्यमाणमतन्द्रितम् ॥ 28॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,28,1770,चिन्ताविष्टस्तदा नागो विप्रशापभयाकुलः । चिन्तयामास योगेन प्रविशेयं गृहं कथम् ॥ 29॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,29,1771,वञ्जयामि कथं चैनं राजानं पापकारिणम् । विप्रशापाद्धतं मूढं विप्रपीडाकरं शठम् ॥ 30॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,30,1772,पाण्डवानां कुले जातः कोऽपि नैतादृशो भवेत् । तापसस्य गले येन मृतः सर्पो निवेशितः ॥ 31॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,31,1773,कृत्वा विगर्हितं कर्म जानन्कालगतिं नृपः । रक्षकान्भवने कृत्वा प्रासादमभिगम्य च ॥ 32॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,32,1774,मृत्युं वञ्चयते राजा वर्ततेऽद्य निराकुलः । तं कथं धक्षयिष्यामि विप्रवाक्येन चोदितः ॥ 33॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,33,1775,न जानाति च मन्दात्मा मरणं ह्यनिवर्तनम् । तेनासौ रक्षकान्स्थाप्य सौधारूढोऽद्य मोदते ॥ 34॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,34,1776,यदि वै विहितो मृत्युर्दैवेनामिततेजसा । स कथं परिवर्तेत कृतैर्यत्नैस्तु कोटिभिः ॥ 35॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,35,1777,पाण्डवस्य च दायादो जानन्मृत्युं गतं नृपः । जीवने मतिमास्थाय स्थितः स्थाने निराकुलः ॥ 36॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,36,1778,दानपुण्यादिकं राजा कर्तुमर्हति सर्वथा । धर्मेण हन्यते व्याधिर्येनायुः शाश्वतं भवेत् ॥ 37॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,37,1779,नोचेन्मृत्युविधिं कृत्वा स्नानदानादिकाः क्रियाः । मरणं स्वर्गलोकाय नरकायान्यथा भवेतू ॥ 38॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,38,1780,द्विजपीडाकृतं पापं पृथग्वास्य च भूपतेः । विप्रशापस्तथा घोर आसन्ने मरणे किल ॥ 39॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,39,1781,न कोऽपि ब्राह्मणः पार्श्वे य एनं प्रतिबोधयेत् । वेधसा विहितो मृत्युरनिवार्यस्तु सर्वथा ॥ 40॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,40,1782,इति सञ्चिन्त्य सर्पोऽसौ स्वान्नागान्निकटे स्थितान् । कृत्वा तापसवेषांस्तान्प्राहिणोत्सुभुजङ्गमान् ॥ 41॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,41,1783,फलमूलादिकं गृह्य राज्ञे नागोऽथ तक्षकः । स्वयं च कीटरूपेण फलमध्ये ससार ह ॥ 42॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,42,1784,निर्गतास्ते तदा नागाः फलान्यादाय सत्वराः । ते राजभवनं प्राप्य स्थिताः प्रासादसन्निधौ ॥ 43॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,43,1785,रक्षकास्तापसान्दृष्ट्वा पप्रच्छुस्तच्चिकीर्षितम् । ऊचुस्ते भूपतिं द्रष्टुं प्राप्ताः स्मोऽद्य तपोवनात् ॥ 44॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,44,1786,अभिमन्युसुतं वीरं कुलार्कं चारुदर्शनम् । परिवर्धयितुं प्राप्ता मन्त्रैराथर्वणैस्तथा ॥ 45॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,45,1787,निवेदयध्वं राजानं दर्शनार्थागतान्मुनीन् । कृत्वाभिषेकान्यास्यामो दत्त्वा मिष्टफलानिच ॥ 46॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,46,1788,भारतानां कुले वापि न दृष्टा द्वाररक्षकाः । न श्रुतं तापसानां तु राज्ञोऽसन्दर्शनं किल ॥ 47॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,47,1789,आरोहामो वयं तत्र यत्र राजा परीक्षितः । आशीर्भिर्वर्धयित्वैनं दत्ताज्ञाः प्रव्रजामहे ॥ 48॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,48,1790,सूत उवाच । इत्याकर्ण्य वचस्तेषां तापसानां तु रक्षकाः । प्रत्यूचुस्तान् द्विजान्मत्वा निदेशं भूपतेर्यथा ॥ 49॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,49,1791,नाद्य वो दर्शनं विप्रा राज्ञः स्यादिति नो मतिः । श्वः सर्वतापसैरत्र त्वागन्तव्यं नृपालये ॥ 50॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,50,1792,अनारोहस्तु प्रासादो विप्राणां मुनिसत्तमाः । विप्रशापभयाद्राज्ञा विहितोऽस्ति न संशयः ॥ 51॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,51,1793,तदोचुस्तानथो विप्राः फलमूलजलानि च । विप्राशिषश्च राज्ञेऽथ ग्राहयन्तु सुरक्षकाः ॥ 52॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,52,1794,ते गत्वा नृपतिं प्रोचुस्तापसानागताञ्जनाः । राजोवाचानयध्वं वै फलमूलादिकं च यत् ॥ 53॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,53,1795,पृच्छध्वं तापसान्कार्यं प्रातरागमनं पुनः । प्रणामं कथयध्वं मे नाद्य सन्दर्शनं मम ॥ 54॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,54,1796,ते गत्वाथ समादाय फलमूलादिकं च यत् । राज्ञे समर्पयामासुर्बहुमानपुरःसरम् ॥ 55॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,55,1797,गतेषु तेषु नागेषु विप्रवेषावृतेषु च । फलान्यादाय राजासौ सचिवानिदमब्रवीत् ॥ 56॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,56,1798,सुहृदो भक्षयन्त्वद्य फलान्येतानि सर्वशः । अद्म्यहं चैकमेतद्वै फलं विप्रार्पितं महत् ॥ 57॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,57,1799,इत्युक्त्वा तत्फलं दत्त्वा सुहृद्भ्यश्चोत्तरासुतः । करे कृत्वा फलं पक्वं ददार नृपतिः स्वयम् ॥ 58॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,58,1800,विदारितं फलं राज्ञा तत्र कृमिरभूदणुः । स कृष्णनयनस्ताम्रो दृष्टो भूपतिना स्वयम् ॥ 59॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,59,1801,तं दृष्ट्वा नृपतिः प्राह सचिवान्विस्मितानथ । अस्तमभ्येति सविता विषादद्य न मे भयम् ॥ 60॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,60,1802,अङ्गीकरोमि तं शापं कृमिको मां दशत्वयम् । एवमुक्त्वा स राजेन्द्रो ग्रीवायां संन्यवेशयत् ॥ 61॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,61,1803,अस्तं याते दिवानाथे धृतः कण्ठेऽथ कीटकः । तक्षकस्तु तदा जातः कालरूपी भयानकः ॥ 62॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,62,1804,राजा संवेष्टितस्तेन दष्टश्चापि महीपतिः । मन्त्रिणो विस्मयं प्राप्ता रुरुदुर्भृशदुःखिताः ॥ 63॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,63,1805,घोररूपमहिं वीक्ष्य दुद्रुवुस्ते भयार्दिताः । चुक्रुशू रक्षकाः सर्वे हाहाकारो महानभूत् ॥ 64॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,64,1806,वेष्टितो भोगिभोगेन विनष्टबहुपौरुषः । नोवाच नृपतिः किञ्चिन्न चचालोत्तरासुतः ॥ 65॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,65,1807,उत्थिताग्निशिखा घोरा विषजा तक्षकाननात् । प्रजज्वाल नृपं त्वाशु गतप्राणं चकार ह ॥ 66॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,66,1808,हत्वाशु जीवितं राज्ञस्तक्षको गगने गतः । जगद्दग्धं तु कुर्वाणं ददृशुस्तं जना इह ॥ 67॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,67,1809,स पपात गतप्राणो राजा दग्ध इव द्रुमः । चुकुशुश्च जनाः सर्वे मृतं दृष्ट्वा नराधिपम् ॥ 68॥ 2,२.१०,दशमोऽध्यायः । परीक्षिन्मरणम् ।,68,1810,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे परीक्षिन्मरणं नाम दशमोऽध्यायः ॥ २.१०॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,0,1811,सूत उवाच । गतप्राणं तु राजानं बालं पुत्रं समीक्ष्य च । चक्रुश्च मन्त्रिणः सर्वे परलोकस्य सत्क्रियाः ॥ 1॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,1,1812,गङ्गातीरे दग्धदेहं भस्मप्रायं महीपतिम् । अगुरुभिश्चाभियुक्तायां चितायामध्यरोपयन् ॥ 2॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,2,1813,दुर्मरणे मृतस्यास्य चकुश्चैवौर्ध्वदैहिकीम् । क्रियां पुरोहितास्तस्य वेदमन्त्रैर्विधानतः ॥ 3॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,3,1814,ददुर्दानानि विप्रेभ्यो गाः सुवर्णं यथोचितम् । अन्नं बहुविधं तत्र वस्त्राणि विविधानि च ॥ 4॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,4,1815,सुमुहूर्ते सुतं बालं प्रजानां प्रीतिवर्धनम् । सिंहासने शुभे तत्र मन्त्रिणः संन्यवेशयन् ॥ 5॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,5,1816,पौरा जानपदा लोकाश्चक्रुस्तं नृपतिं शिशुम् । जनमेजयनामानं राजलक्षणसंयुतम् ॥ 6॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,6,1817,धात्रेयी शिक्षयामास राजचिह्नानि सर्वशः । दिने दिने वर्धमानः स बभूव महामतिः ॥ 7॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,7,1818,प्राप्ते चैकादशे वर्षे तस्मै कुलपुरोहितः । यथोचितां ददौ विद्यां जग्राह स यथोचिताम् ॥ 8॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,8,1819,धनुर्वेदं कृपः पूर्णं ददावस्मै सुसंस्कृतम् । अर्जुनाय यथा द्रोणः कर्णाय भार्गवो यथा ॥ 9॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,9,1820,सम्प्राप्तविद्यो बलवान्वभूव दुरतिक्रमः । धनुर्वेदे तथा वेदे पारगः परमार्थवित् ॥ 10॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,10,1821,धर्मशास्त्रार्थकुशलः सत्यवादी जितेन्द्रियः । चकार राज्यं धर्मात्मा पुरा धर्मसुतो यथा ॥ 11॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,11,1822,ततः सुवर्णवर्माख्यो राजा काशिपतिः किल । वपुष्टमां शुभा कन्यां ददौ पारीक्षिताय च ॥ 12॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,12,1823,स तां प्राप्यासितापाङ्गीं मुमुदे जनमेजयः । काशिराजसुतां कान्तां प्राप्य राजा यथा पुरा ॥ 13॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,13,1824,विचित्रवीर्यो मुमुदे सुभद्रां च यथार्जुनः । विजहार महीपालो वनेषूपवनेषु च ॥ 14॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,14,1825,तया कमलपत्राक्ष्या शच्या शतक्रतुर्यथा । प्रजास्तस्य सुसन्तुष्टा बभूवुः सुखलालिताः ॥ 15॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,15,1826,मन्त्रिणः कर्मकुशलाश्चक्रुः कार्याणि सर्वशः । एतस्मिन्नेव काले तु मुनिरुत्तङ्कनामकः ॥ 16॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,16,1827,तक्षकेण परिक्लिष्टो हस्तिनापुरमभ्यगात् । वैरस्यापचितिं कोऽस्य प्रकुर्यादिति चिन्तयन् ॥ 17॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,17,1828,परीक्षितसुतं मत्वा तं नृपं समुपागतः । कार्याकार्यं न जानासि समये नृपसत्तम ॥ 18॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,18,1829,अकर्तव्यं करोष्यद्य कर्तव्यं न करोषि वै । किं त्वां सम्प्रार्थयाम्यद्य गतामर्षं निरुद्यमम् ॥ 19॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,19,1830,अवैरज्ञमतन्त्रज्ञं बालचेष्टासमन्वितम् । जनमेजय उवाच । किं वैरं न मया ज्ञातं न किं प्रतिकृतं मया ॥ 20॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,20,1831,तद्वद त्वं महाभाग करोमि यदनन्तरम् । उत्तङ्क उवाच । पिता ते निहतो भूप तक्षकेण दुरात्मना ॥ 21॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,21,1832,मन्त्रिणस्त्वं समाहूय पृच्छ स्वपितृनाशनम् । सूत उवाच । तच्छ्रुत्वा वचनं राजा पप्रच्छ मन्त्रिसत्तमान् ॥ 22॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,22,1833,ऊचुस्ते द्विजशापेन दष्टः सर्पेण वै मृतः । जनमेजय उवाच । शापोऽत्र कारणं राज्ञः शप्तस्य मुनिना किल ॥ 23॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,23,1834,तक्षकस्य तु को दोषो ब्रूहि मे मुनिसत्तम । उत्तङ्क उवाच । तक्षकेण धनं दत्त्वा कश्यपः सन्निवारितः ॥ 24॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,24,1835,न स किं तक्षको वैरी पितृहा तव भूपते । भार्या रुरोः पुरा भूप दष्टा सर्पेण सा मृता ॥ 25॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,25,1836,अविवाहिता तु मुनिना जीविता च पुनः प्रिया । रुरुणापि कृता तत्र प्रतिज्ञा चातिदारुणा ॥ 26॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,26,1837,यं यं सर्पं प्रपश्यामि तं तं हन्म्यायुधेन वै । एवं कृत्वा प्रतिज्ञां स शस्त्रपाणी रुरुस्तदा ॥ 27॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,27,1838,व्यचरत्पृथिवीं राजन्निघ्नन्सर्पान्यतस्ततः । एकदा स वने घोरं डुण्डुभं जरसान्वितम् ॥ 28॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,28,1839,अपश्यद्दण्डमुद्यम्य हन्तुं तं समुपाययौ । अभ्यहन्रुषितो विप्रस्तमुवाचाथ डुण्डुभः ॥ 29॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,29,1840,नापराध्नोमि ते विप्र कस्मान्मामभिहंसि वै । रुरुरुवाच । प्राणप्रिया मे दयिता दष्टा सर्पेण सा मृता ॥ 30॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,30,1841,प्रतिज्ञेयं तदा सर्प दुःखितेन मया कृता । डुण्डुभ उवाच । नाहं दशामि तेऽन्ये वै ये दशन्ति भुजङ्गमाः ॥ 31॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,31,1842,शरीरसमयोगेन न मां हिंसितुमर्हसि । उत्तङ्क उवाच । श्रुत्वा तां मानुषीं वाणीं सर्पेणोक्तां मनोहराम् ॥ 32॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,32,1843,रुरुः पप्रच्छ कोऽसि त्वं कस्माद्डुण्डुभतां गतः । सर्प उवाच । ब्राह्मणोऽहं पुरा विप्र सखा मे खगमाभिधः ॥ 33॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,33,1844,विप्रो धर्मभृतां श्रेष्ठः सत्यवादी जितेन्द्रियः । स मया वञ्जितो मौर्ख्यात्सर्पं कृत्वा च तार्णकम् ॥ 34॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,34,1845,भयं च प्रापितोऽत्यर्थमग्निहोत्रगृहे स्थितः । तेन भीतेन शप्तोऽहं विह्वलेनातिवेपिना ॥ 35॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,35,1846,भव सर्पो मन्दबुद्धे येनाहं धर्षितस्त्वया । मया प्रसादितोऽत्यर्थं सर्पेणासौ द्विजोत्तमः ॥ 36॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,36,1847,मामुवाचाथ तत्क्रोधात्किञ्चिच्छान्तिमवाप्य च । रुरुस्ते मोचिता शापस्यास्य सर्प भविष्यति ॥ 37॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,37,1848,प्रमतेस्तु सुतो नूनमिति मां सोऽब्रवीद्वचः । सोऽहं सर्पो रुरुस्त्वं च श‍ृणु मे परमं वचः ॥ 38॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,38,1849,अहिंसा परमो धर्मो विप्राणां नात्र संशयः । दया सर्वत्र कर्तव्या ब्राह्मणेन विजानता ॥ 39॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,39,1850,यज्ञादन्यत्र विप्रेन्द्र न हिंसा याज्ञिको मता । सूत उवाच । सर्पयोनेर्विनिर्मुक्तो बाह्मणोऽसौ रुरुस्ततः ॥ 40॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,40,1851,कृत्वा तस्य च शापान्तं परित्यक्तं च हिंसनम् । विवाहिता तेन बाला मृता सज्जीविता पुनः ॥ 41॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,41,1852,कदनं सर्वसर्पाणां कृतं वैरमनुस्मरन् । त्वं तु वैरं समुत्सृज्य वर्तसे पन्नगेष्वथ ॥ 42॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,42,1853,विमन्युर्भरतश्रेष्ठ पितृघातकरेषु वै । अन्तरिक्षे मृतस्तातः स्नानदानविवर्जितः ॥ 43॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,43,1854,तस्योद्धारं च राजेन्द्र कुरु हत्वाथ पन्नगान् । पितुर्वैरं न जानाति जीवन्नेव मृतो हि सः ॥ 44॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,44,1855,दुर्गतिस्ते पितुस्तावद्यावत्तान्न हनिष्यसि । अम्बामखमिषं कृत्वा कुरु यज्ञं नृपोत्तम ॥ 45॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,45,1856,सर्पसत्रं महाराज पितुर्वैरमनुस्मरन् । सूत उवाच । इति तस्य वचः श्रुत्वा राजा जन्मेजयस्तदा ॥ 46॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,46,1857,नेत्राभ्यामश्रुपातं च चकारातीव दुःखितः । धिङ्मामस्तु सुदुर्बुद्धेर्वृथा मानकरस्य वै ॥ 47॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,47,1858,पिता यस्य गतिं घोरां प्राप्तः पन्नगपीडितः । अद्याहं मखमारभ्य करोम्यपचितिं पितुः ॥ 48॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,48,1859,हत्वा सर्पानसन्दिग्धो दीप्यमाने विभावसौ । आहूय मन्त्रिणः सर्वान् राजा वचनमब्रवीत् ॥ 49॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,49,1860,कुर्वन्तु यज्ञसम्भारं यथार्हं मन्त्रिसत्तमाः । गङ्गातीरे शुभां भूमिं मापयित्वा द्विजोत्तमैः ॥ 50॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,50,1861,कुर्वन्तु मण्डपं स्वस्थाः शतस्तम्भं मनोहरम् । वेदी यज्ञस्य कर्तव्या ममाद्य सचिवाः खलु ॥ 51॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,51,1862,तदङ्गत्वे विधेयो वै सर्पसत्रः सुविस्तरः । तक्षकस्तु पशुस्तत्र होतोत्तङ्को महामुनिः ॥ 52॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,52,1863,शीघ्रमाहूयतां विप्राः सर्वज्ञा वेदपारगाः । सूत उवाच । मन्त्रिणस्तु तदा चक्रुर्भूपवाक्यैर्विचक्षणाः ॥ 53॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,53,1864,यज्ञस्य सर्वसम्भारं वेदीं यज्ञस्य विस्तृताम् । हवने वर्तमाने तु सर्पाणां तक्षको गतः ॥ 54॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,54,1865,इन्द्रं प्रति भयार्तोऽहं त्राहि मामिति चाब्रवीत् । भयभीतं समाश्वास्य स्वासने सन्निवेश्य च ॥ 55॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,55,1866,ददावभयमत्यर्थं निर्भयो भव पन्नग । तमिन्द्रशरणं ज्ञात्वा मुनिर्दत्ताभयं तथा ॥ 56॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,56,1867,उत्तङ्कोऽह्वयदुद्विग्नः सेन्द्रं कृत्वा निमन्त्रणम् । स्मृतस्तदा तक्षकेण यायावरकुलोद्भवः ॥ 57॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,57,1868,आस्तीको नाम धर्मात्मा जरत्कारुसुतो मुनिः । तत्रागत्य मुनेर्बालस्तुष्टाव जनमेजयम् ॥ 58॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,58,1869,राजा तमर्चयामास दृष्ट्वा बालं सुपण्डितम् । अर्चयित्वा नृपस्तं तु छन्दयामास वाञ्छितैः ॥ 59॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,59,1870,स तु वव्रे महाभाग यज्ञोऽयं विरमत्विति । सत्यबद्धो नृपस्तेन प्रार्थितश्च पुनस्तथा ॥ 60॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,60,1871,होमं निवर्तयामास सर्पाणां मुनिवाक्यतः । भारतं श्रावयामास वैशम्पायन विस्तरात् ॥ 61॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,61,1872,श्रुत्वापि नृपतिः कामं न शान्तिमभिजग्मिवान् । व्यासं पप्रच्छ भूपालो मम शान्तिः कथं भवेत् ॥ 62॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,62,1873,मनोऽतिदह्यते कामं किं करोमि वदस्व मे । पिता मे दुर्भगस्यैव मृतः पार्थसुतात्मजः ॥ 63॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,63,1874,क्षत्रियाणां महाभाग सङ्ग्रामे मरणं वरम् । रणे वा मरणं व्यास गृहे वा विधिपूर्वकम् ॥ 64॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,64,1875,मरणं न पितुर्मेऽभूदन्तरिक्षे मृतोऽवशः । शान्त्युपायं वदस्वात्र त्वं च सत्यवतीसुत ॥ 65॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,65,1876,यथा स्वर्गं व्रजेदाशु पिता मे दुर्गतिं गतः ॥ 66॥ 2,२.११,एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।,66,1877,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे सर्पसत्रवर्णनं नामैकादशोऽध्यायः ॥ २.११॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,0,1878,सूत उवाच । तच्छ्रुत्वा वचनं तस्य व्यासः सत्यवतीसुतः । उवाच वचनं तत्र सभायां नृपतिं च तम् ॥ 1॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,1,1879,व्यास उवाच । श‍ृणु राजन् प्रवक्ष्यामि पुराणं गुह्यमद्भुतम् । पुण्यं भागवतं नाम नानाख्यानयुतं शिवम् ॥ 2॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,2,1880,अध्यापितं मया पूर्वं शुकायात्मसुताय वै । श्रावयामि नृप त्वां हि रहस्यं परमं मम ॥ 3॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,3,1881,धर्मार्थकाममोक्षाणां कारणं श्रवणात्किल । शुभद सुखदं नित्यं सर्वागमसमुद्धृतम् ॥ 4॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,4,1882,जनमेजय उवाच । आस्तीकोऽयं सुतः कस्य विघ्नार्थं कथमागतः । प्रयोजनं किमत्रास्य सर्पाणां रक्षणे प्रभो ॥ 5॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,5,1883,कथयैतन्महाभाग विस्तरेण कथानकम् । पुराणं च तथा सर्वं विस्तराद्वद सुव्रत ॥ 6॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,6,1884,व्यास उवाच । जरत्कारुर्मुनिः शान्तो न चकार गृहाश्रमम् । तेन दृष्टा वने गर्ते लम्बमाना स्वपूर्वजाः ॥ 7॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,7,1885,ततस्तमाहुः कुरु पुत्र दारा- न्यथा च नः स्यात्परमा हि तृप्तिः । स्वर्गे व्रजामः खलु दुःखमुक्ता वयं सदाचारयुते सुते वै ॥ 8॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,8,1886,स तानुवाचाथ लभे समाना- मयाचितां चातिवशानुगां च । तदा गृहारम्भमहं करोमि ब्रवीमि तथ्यं मम पूर्वजा वै ॥ 9॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,9,1887,इत्युक्त्वा ताञ्जरत्कारुर्गतस्तीर्थान्प्रति द्विजः । तदैव पन्नगाः शप्ता मात्राग्नौ निपतन्त्विति ॥ 10॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,10,1888,कश्यपस्य मुनेः पत्न्यौ कद्रूश्च विनता तथा । दृष्ट्वादित्यरथे चाश्वमूचतुश्च परस्परम् ॥ 11॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,11,1889,तं दृष्ट्वा च तदा कद्रूर्विनतामिदमब्रवीत् । किंवर्णोऽयं हयो भद्रे सत्यं प्रब्रूहि माचिरम् ॥ 12॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,12,1890,विनतोवाच । श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे । ब्रूहि वर्णं त्वमप्यस्य ततस्तु विपणावहे ॥ 13॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,13,1891,कद्रुरुवाच । कृष्णवर्णमहं मन्ये हयमेनं शुचिस्मिते । एहि सार्धं मया दिव्यं दासीभावाय भामिनि ॥ 14॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,14,1892,सूत उवाच । कद्रूश्च स्वसुतानाह सर्वान्सर्पान्वशे स्थितान् । बालाञ्छ्यामान्प्रकुर्वन्तु यावतोऽश्वशरीरके ॥ 15॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,15,1893,नेति केचन तत्राहुस्तानथासौ शशाप ह । जनमेजयस्य यज्ञे वै गमिष्यथ हुताशनम् ॥ 16॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,16,1894,अन्ये चक्रुर्हयं सर्पाः कर्बुरं वर्णभोगकैः । वेष्टयित्वास्य पुच्छं तु मातुः प्रियचिकीर्षया ॥ 17॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,17,1895,भगिन्यौ च सुसंयुक्ते गत्वा ददृशतुर्हयम् । कर्बुरं तं हयं दृष्ट्वा विनता चातिदुःखिता ॥ 18॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,18,1896,तदाजगाम गरुडः सुतस्तस्या महाबलः । स दृष्ट्वा मातरं दीनामपृच्छत्पन्नगाशनः ॥ 19॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,19,1897,मातः कथं सुदीनासि रुदितेव विभासि मे । जीवमाने मयि सुते तथान्ये रविसारथौ ॥ 20॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,20,1898,दुःखितासि ततो वां धिग्जीवितं चारुलोचने । किं जातेन सुतेनाथ यदि माता सुदुःखिता ॥ 21॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,21,1899,शंस मे कारणं मातः करोमि विगतज्वराम् । विनतोवाच । सपत्न्या दास्यहं पुत्र किं ब्रवीमि वृथा क्षता ॥ 22॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,22,1900,वह मां सा ब्रवीत्यद्य तेनास्मि दुःखिता सुत । गरुड उवाच । वहिष्येऽहं तत्र किल यत्र सा गन्तुमुत्सुका ॥ 23॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,23,1901,मा शोकं कुरु कल्याणि निश्चिन्तां त्वां करोम्यहम् । व्यास उवाच । इत्युक्ता सा गता पार्श्वं कद्रोश्च विनता तदा ॥ 24॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,24,1902,दासीभावमपाकर्तुं गरुडोऽपि महाबलः । उवाह तां सपुत्रां वै सिन्धोः पारं जगाम ह ॥ 25॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,25,1903,गत्वा तां गरुडः प्राह ब्रूहि मातर्नमोऽस्तु ते । कथं मुच्येत मे माता दासीभावादसंशयम् ॥ 26॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,26,1904,कद्रूरुवाच । अमृतं देवलोकात्त्वं बलादानीय मे सुतान् । समर्पय सुताद्याशु मातरं मोचयाबलाम् ॥ 27॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,27,1905,व्यास उवाच । इत्युक्तः प्रययौ शीघ्रमिन्द्रलोकं महाबलः । कृत्वा युद्धं जहाराशु सुधाकुम्भं खगोत्तमः ॥ 28॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,28,1906,समानीयामृतं मात्रे वैनतेयः समर्पयत् । मोचिता विनता तेन दासीभावादसंशयम् ॥ 29॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,29,1907,अमृतं सञ्जहारेन्द्रः स्नातुं सर्पा यदा गताः । दासीभावाद्विनिर्मुक्ता विनता विपतेर्बलात् ॥ 30॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,30,1908,तत्रास्तीर्णाः कुशास्तैस्तु लीढाः पन्नगनामकैः । द्विजिह्वास्ते सुसम्पन्नाः कुशाग्रस्पर्शमात्रतः ॥ 31॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,31,1909,मात्रा शप्ताश्च ये नागा वासुकिप्रमुखाः शुचा । ब्रह्माणं शरणं गत्वा ते होचुः शापजं भयम् ॥ 32॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,32,1910,तानाह भगवान्ब्रह्मा जरत्कारुर्महामुनिः । वासुकेर्भगिनीं तस्मै अर्पयध्वं सनामिकाम् ॥ 33॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,33,1911,तस्यां यो जायते पुत्रः स वस्त्राता भविष्यति । आस्तीक इति नामासौ भविता नात्र संशयः ॥ 34॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,34,1912,वासुकिस्तु तदाकर्ण्य वचनं ब्रह्मणः शिवम् । वनं गत्वा सुतां तस्मै ददौ विनयपूर्वकम् ॥ 35॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,35,1913,सनामां तां मुनिर्ज्ञात्वा जरत्कारुरुवाच तम् । अप्रियं मे यदा कुर्यात्तदा तां सन्त्यजाम्यहम् ॥ 36॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,36,1914,वाग्बन्धं तादृशं कृत्वा मुनिर्जग्राह तां स्वयम् । दत्त्वा च वासुकिः कामं भवनं स्वं जगाम ह ॥ 37॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,37,1915,कृत्वा पर्णकुटीं शुभ्रां जरत्कारुर्महावने । तया सह सुखं प्राप रममाणः परन्तप ॥ 38॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,38,1916,एकदा भोजनं कृत्वा सुप्तोऽसौ मुनिसत्तमः । भगिनी वासुकेस्तत्र संस्थिता वरवर्णिनी ॥ 39॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,39,1917,न सम्बोधयितव्योऽहं त्वया कान्ते कथञ्चन । इत्युक्त्वा तु गतो निद्रां मुनिस्तां सुदतीं तदा ॥ 40॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,40,1918,रविरस्तगिरिं प्राप्तः सन्ध्याकाल उपस्थिते । किं करोमि न मे शान्तिस्त्यजेन्मां बोधितः पुनः ॥ 41॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,41,1919,धर्मलोपभयाद्भीता जरत्कारुरचिन्तयत् । नोचेत्प्रबोथयाम्येनं सन्ध्याकालो वृथा व्रजेत् ॥ 42॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,42,1920,धर्मनाशाद्वरं त्यागस्तथापि मरणं ध्रुवम् । धर्महानिर्नराणां हि नरकाय भवेत्पुनः ॥ 43॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,43,1921,इति सञ्चिन्त्य सा बाला तं मुनिं प्रत्यबोधयत् । सन्ध्याकालोऽपि सञ्जात उत्तिष्ठोत्तिष्ठसुव्रत ॥ 44॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,44,1922,उत्थितोऽसौ मुनिः कोपात्तामुवाच व्रजाम्यहम् । त्वं तु भ्रातृगृहं याहि निद्राविच्छेदकारिणी ॥ 45॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,45,1923,वेपमानाब्रवीद्वाक्यमित्युक्ता मुनिना तदा । भ्रात्रा दत्ता यदर्थं तत्कथं स्यादमितप्रभ ॥ 46॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,46,1924,मुनिः प्राह जरत्कारुं तदस्तीति निराकुलः । गता सा मुनिना त्यक्ता वासुकेः सदनं तदा ॥ 47॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,47,1925,पृष्टा भ्रात्राब्रवीद्वाक्यं यथोक्तं पतिना तदा । अस्तीत्युक्त्वा च हित्वा मां गतोऽसौ मुनिसत्तमः ॥ 48॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,48,1926,वासुकिस्तु तदाकर्ण्य सत्यावाङ्मुनिरित्युत । विश्वासं च परं कृत्वा भगिनीं तां समाश्रयत् ॥ 49॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,49,1927,ततः कालेन कियता जातोऽसौ मुनिबालकः । आस्तीक इति नामासौ विख्यातः कुरुसत्तम ॥ 50॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,50,1928,तेनायं रक्षितो यज्ञस्तव पार्थिवसत्तम । मातृपक्षस्य रक्षार्थं मुनिना भावितात्मना ॥ 51॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,51,1929,भव्यं कृतं महाराज मानितोऽयं त्वया मुनिः । यायावरकुलोत्पनो वासुकेर्भगिनीसुतः ॥ 52॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,52,1930,स्वस्ति तेऽस्तु महाबाहो भारतं सकलं श्रुतम् । दानानि बहु दत्तानि पूजिता मुनयस्तथा ॥ 53॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,53,1931,कृतेन सुकृतेनापि न पिता स्वर्गतिं गतः । पावितं न कुलं कृत्स्नं त्वया भूपतिसत्तम ॥ 54॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,54,1932,देव्याश्चायतनं भूप विस्तीर्णं कुरु भक्तितः । येन वै सकला सिद्धिस्तव स्याज्जनमेजय ॥ 55॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,55,1933,पूजिता परया भक्त्या शिवा सकलदा सदा । कुलवृद्धिं करोत्येव राज्यं च सुस्थिरं सदा ॥ 56॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,56,1934,देवीमखं विधानेन कृत्वा पार्थिवसत्तम । श्रीमद्भागवतं नाम पुराणं परमं श‍ृणु ॥ 57॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,57,1935,त्वामहं श्रावयिष्यामि कथां परमपावनीम् । संसारतारिणीं दिव्यां नानारससमाहृताम् ॥ 58॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,58,1936,न श्रोतव्यं परं चास्मात्पुराणाद्विद्यते भुवि । नाराध्यं विद्यते राजन्देवीपादाम्बुजादृते ॥ 59॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,59,1937,ते सभाग्याः कृतप्रज्ञा धन्यास्ते नृपसत्तम । येषां चित्ते सदा देवी वसति प्रेमसङ्कुले ॥ 60॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,60,1938,सुदुःखितास्ते दृश्यन्ते भुवि भारत भारते । नाराधिता महामाया यैर्जनैश्च सदाम्बिका ॥ 61॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,61,1939,ब्रह्मादयः सुराः सर्वे यदाराधनतत्पराः । वर्तन्ते सर्वदा राजंस्तां न सेवेत को जनः ॥ 62॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,62,1940,य इदं श‍ृणुयान्नित्यं सर्वान्कामानवाप्नुयात् । भगवत्या समाख्यातं विष्णवे यदनुत्तमम् ॥ 63॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,63,1941,तेन श्रुतेन ते राजंश्चित्ते शान्तिर्भविष्यति । पितॄणां चाक्षयः स्वर्गः पुराणश्रवणाद्भवेत् ॥ 64॥ 2,२.१२,द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।,64,1942,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे श्रोतृप्रवक्तृप्रसङ्गो नाम द्वादशोऽध्यायः ॥ २.१२॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,0,1943,जनमेजय उवाच - भगवन् भवता प्रोक्तं यज्ञमम्बाभिधं महत् । सा का कथं समुत्पन्ना कुत्र कस्माच्च किङ्गुणा ॥ 1॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,1,1944,कीदृशश्च मखस्तस्याः स्वरूपं कीदृशं तथा । विधानं विधिवद्ब्रूहि सर्वज्ञोऽसि दयानिधे ॥ 2॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,2,1945,ब्रह्माण्डस्य तथोत्पत्तिं वद विस्तरतस्तथा । यथोक्तं यादृशं ब्रह्मन्नखिलं वेत्सि भूसुर ॥ 3॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,3,1946,ब्रह्मा विष्णुश्च रुद्रश्च त्रयो देवा मया श्रुताः । सृष्टिपालनसंहारकारकाः सगुणास्त्वमी ॥ 4॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,4,1947,स्वतन्त्रास्ते महात्मानः पाराशर्य वदस्व मे । आहोस्वित्परतन्त्रास्ते श्रोतुमिच्छामि साम्प्रतम् ॥ 5॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,5,1948,मृत्युधर्माश्च ते नो वा सच्चिदानन्दरूपिणः । अधिभूतादिभिर्युक्ता न वा दुःखैस्त्रिधात्मकैः ॥ 6॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,6,1949,कालस्य वशगा नो वा ते सुरेन्द्रा महाबलाः । कथं ते वै समुत्पन्ना कस्मादिति च संशयः ॥ 7॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,7,1950,हर्षशोकयुतास्ते वै निद्रालस्यसमन्विताः । सप्तधातुमयास्तेषां देहाः किं वान्यथा मुने ॥ 8॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,8,1951,कैर्द्रव्यैर्निर्मितास्ते वै कैर्गुणैरिन्द्रियैस्तथा । भोगश्च कीदृशस्तेषां प्रमाणमायुषस्तथा ॥ 9॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,9,1952,निवासस्थानमप्येषां विभूतिं च वदस्व मे । श्रोतुमिच्छाम्यहं ब्रह्मन् विस्तरेण कथामिमाम् ॥ 10॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,10,1953,व्यास उवाच - दुर्गमः प्रश्नभारोऽयं कृतो राजंस्त्वयाऽधुना । ब्रह्मादीनां समुत्पत्तिः कस्मादिति महामते ॥ 11॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,11,1954,एतदेव मया पूर्वं पृष्टोऽसौ नारदो मुनिः । विस्मितः प्रत्युवाचेदमुत्थितः श‍ृणु भूपते ॥ 12॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,12,1955,कस्मिंश्च समये चाहं गङ्गातीरे स्थितं मुनिम् । अपश्यं नारदं शान्तं सर्वज्ञं वेदवित्तमम् ॥ 13॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,13,1956,दृष्ट्वाहं मुदितो भूत्वा पादयोरपतं मुनेः । तेजाज्ञप्तः समीपेऽस्य संविष्टश्च वरासने ॥ 14॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,14,1957,श्रुत्वा कुशलवार्तां वै तमपृच्छं विधेः सुतम् । निर्विष्टं जाह्नवीतीरे निर्जने सूक्ष्मवालुके ॥ 15॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,15,1958,मुनेऽतिविततस्यास्य ब्रह्माण्डस्य महामते । कः कर्ता परमः प्रोक्तस्तन्मे ब्रूहि विधानतः ॥ 16॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,16,1959,कस्मादेतत्समुत्पन्नं ब्रह्माण्डं मुनिसत्तम । अनित्यं वा तथा नित्यं तदाचक्ष्व द्विजोत्तम ॥ 17॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,17,1960,एककर्तृकमेतद्वा बहुकर्तृकमन्यथा । अकर्तृकं न कार्यं स्याद्विरोधोऽयं विभाति मे ॥ 18॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,18,1961,इति सन्देहसन्दोहे मग्नं मां तारयाधुना । विकल्पकोटीः कृर्वाणं संसारेऽस्मिन् प्रविस्तरे ॥ 19॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,19,1962,ब्रुवन्ति शङ्करं केचिन्मत्वा कारणकारणम् । सदाशिवं महादेवं प्रलयोत्पत्तिवर्जितम् ॥ 20॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,20,1963,आत्मारामं सुरेशं च त्रिगुणं निर्मलं हरम् । संसारतारकं नित्यं सृष्टिस्थित्यन्तकारणम् ॥ 21॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,21,1964,अन्ये विष्णुं स्तुवन्त्येनं सर्वेषां प्रभुमीश्वरम् । परमात्मानमव्यक्तं सर्वशक्तिसमन्वितम् ॥ 22॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,22,1965,भुक्तिदं मुक्तिदं शान्तं सर्वादिं सर्वतोमुखम् । व्यापकं विश्वशरणमनादिनिधनं हरिम् ॥ 23॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,23,1966,धातारं च तथा चान्ये ब्रुवन्ति सृष्टिकारणम् । तमेव सर्ववेत्तारं सर्वभूतप्रवर्तकम् ॥ 24॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,24,1967,चतुर्मुखं सुरेशानं नाभिपद्मभवं विभुम् । स्रष्टारं सर्वलोकानां सत्यलोकनिवासिनम् ॥ 25॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,25,1968,दिनेशं प्रवदन्त्यन्ये सर्वेशं वेदवादिनः । स्तुवन्ति चैव गायन्ति सायं प्रातरतन्द्रिताः ॥ 26॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,26,1969,यजन्ति च तथा यज्ञे वासवं च शतक्रतुम् । सहस्राक्षं देवदेवं सर्वेषां प्रभुमुल्बणम् ॥ 27॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,27,1970,यज्ञाधीशं सुराधीशं त्रिलोकेशं शचीपतिम् । यज्ञानां चैव भोक्तारं सोमपं सोमपप्रियम् ॥ 28॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,28,1971,वरुणं च तथा सोमं पावकं पवनं तथा । यमं कुबेरं धनदं गणाधीशं तथापरे ॥ 29॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,29,1972,हेरम्बं गजवक्त्रं च सर्वकार्यप्रसाधकम् । स्मरणात्सिद्धिदं कामं कामदं कामगं परम् ॥ 30॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,30,1973,भवानीं केचनाचार्याः प्रवदन्त्यखिलार्थदाम् । आदिमायां महाशक्तिं प्रकृतिं पुरुषानुगाम् ॥ 31॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,31,1974,ब्रह्मैकतासमापन्नां सृष्टिस्थित्यन्तकारिणीम् । मातरं सर्वभूतानां देवतानां तथैव च ॥ 32॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,32,1975,अनादिनिधनां पूर्णां व्यापिकां सर्वजन्तुषु । ईश्वरीं सर्वलोकानां निर्गुणां सगुणां शिवाम् ॥ 33॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,33,1976,वैष्णवीं शाङ्करीं ब्राह्मीं वासवीं वारुणीं तथा । वाराहीं नारसिंहीं च महालक्ष्मीं तथाद्भुताम् ॥ 34॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,34,1977,वेदमातरमेकां च विद्यां भवतरोः स्थिराम् । सर्वदुःखनिहन्त्रीं च स्मरणात्सर्वकामदाम् ॥ 35॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,35,1978,मोक्षदां च मुमुक्षूणां कामदां च फलार्थिनाम् । त्रिगुणातीतरूपां च गुणविस्तारकारकाम् ॥ 36॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,36,1979,निर्गुणां सगुणां तस्मात्तां ध्यायन्ति फलार्थिनः । निरञ्जनं निराकारं निर्लेपं निर्गुणं किल ॥ 37॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,37,1980,अरूपं व्यापकं ब्रह्म प्रवदन्ति मुनीश्वराः । वेदोपनिषदि प्रोक्तस्तेजोमय इति क्वचित् ॥ 38॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,38,1981,सहस्रशीर्षा पुरुषः सहस्रनयनस्तथा । सहस्रकरकर्णश्च सहस्रास्यः सहस्रपात् ॥ 39॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,39,1982,विष्णोः पादमथाकाशं परमं समुदाहृतम् । विराजं विरजं शान्तं प्रवदन्ति मनीषिणः ॥ 40॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,40,1983,पुरुषोत्तमं तथा चान्ये प्रवदन्ति पुराविदः । नैकोऽपीति वदन्त्यन्ये प्रभुरीशः कदाचन ॥ 41॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,41,1984,अनीश्वरमिदं सर्वं ब्रह्माण्डमिति केचन । न कदापीशजन्यं यज्जगदेतदचिन्तितम् ॥ 42॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,42,1985,सदैवेदमनीशं च स्वभावोत्थं सदेदृशम् । अकर्तासौ पुमान्प्रोक्तः प्रकृतिस्तु तथा च सा ॥ 43॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,43,1986,एवं वदन्ति साङ्ख्याश्च मुनयः कपिलादयः । एते सन्देहसन्दोहाः प्रभवन्ति तथाऽपरे ॥ 44॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,44,1987,विकल्पोपहतं चेतः किं करोमि मुनीश्वर । धर्माधर्मविवक्षायां न मनो मे स्थिरं भवेत् ॥ 45॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,45,1988,को धर्मः कीदृशोऽधर्मश्चिह्नं नैवोपलभ्यते । देवाः सत्त्वगुणोत्पन्नाः सत्यधर्मव्यवस्थिताः ॥ 46॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,46,1989,पीड्यन्ते दानवैः पापैः कुत्र धर्मव्यवस्थितिः । धर्मस्थिताः सदाचाराः पाण्डवा मम वंशजाः ॥ 47॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,47,1990,दुःखं बहुविधं प्राप्तास्तत्र धर्मस्य का स्थितिः । अतो मे हृदयं तात वेपतेऽतीव संशये ॥ 48॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,48,1991,कुरु मेऽसंशयं चेतः समर्थोऽसि महामुने । त्राहि संसारवार्धेस्त्वं ज्ञानपोतेन मां मुने ॥ 49॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,49,1992,मज्जन्तं चोत्पतन्तं च मग्नं मोहजलाविले ॥ 50॥ 3,३.१,प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।,50,1993,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे भुवनेश्वरीवर्णनं नाम प्रथमोऽध्यायः ॥ ३.१॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,0,1994,व्यास उवाच । यत्त्वया च महाबाहो पृष्टोऽहं कुरुसत्तम । तान्प्रश्नान्नारदः प्राह मया पृष्टो मुनीश्वरः ॥ 1॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,1,1995,नारद उवाच । व्यास किं ते ब्रवीम्यद्य पुराऽयं संशयो मम । उत्पन्नो हृदयेऽत्यर्थं सन्देहासारपीडितः ॥ 2॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,2,1996,गत्वाऽहं पितरं स्थाने ब्रह्माणममितौजसम् । अपृच्छं यत्त्वया पृष्टं व्यासाद्य प्रश्नमुत्तमम् ॥ 3॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,3,1997,पितः कुतः समुत्पन्नं ब्रह्माण्डमखिलं विभो । भवत्कृतेन वा सम्यक् किं वा विष्णुकृतं त्विदम् ॥ 4॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,4,1998,रुद्रकृतं वा विश्वात्मन् ब्रूहि सत्यं जगत्पते । आराधनीयः कः कामं सर्वोत्कृष्टश्च कः प्रभुः ॥ 5॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,5,1999,तत्सर्वं वद मे ब्रह्मन्सन्देहांश्छिन्धि चानघ । निमग्नो ह्यस्मि संसारे दुःखरूपेऽनृतोपमे ॥ 6॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,6,2000,सन्देहान्दोलितं चेतो न प्रशाम्यति कुत्रचित् । न तीर्थेषु न देवेषु साधनेष्वितरेषु च ॥ 7॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,7,2001,अविज्ञाय परं तत्त्वं कुतः शान्तिः परन्तप । विकीर्णं बहुधा चित्तं नैकत्र स्थिरतां व्रजेत् ॥ 8॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,8,2002,कं स्मरामि यजे कं वा कं व्रजाम्यर्चयामि कम् । स्तौमि कं नाभिजानामि देव सर्वेश्वरेश्वरम् ॥ 9॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,9,2003,ततो मां प्रत्युवाचेदं ब्रह्मा लोकपितामहः । मया सत्यवतीसूनो कृते प्रश्ने सुदुस्तरे ॥ 10॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,10,2004,ब्रह्मोवाच । किं ब्रवीमि सुताद्याहं दुर्बोधं प्रश्नमुत्तमम् । त्वयाशक्यं महाभाग विष्णोरपि सुनिश्चयात् ॥ 11॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,11,2005,रागी कोऽपि न जानाति संसारेऽस्मिन्महामते । विरक्तश्च विजानाति निरीहो यो विमत्सरः ॥ 12॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,12,2006,एकार्णवे पुरा जाते नष्टे स्थावरजङ्गमे भूतमात्रे समुत्पन्ने सञ्जज्ञे कमलादहम् ॥ 13॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,13,2007,नापश्यं तरणिं सोमं न वृक्षान्न च पर्वतान् । कर्णिकायां समाविष्टश्चिन्तामकरवं तदा ॥ 14॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,14,2008,कस्मादहं समुद्भूतः सलिलेऽस्मिन्महार्णवे । को मे त्राता प्रभुः कर्ता संहर्ता वा युगात्यये ॥ 15॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,15,2009,न च भूर्विद्यते स्पष्टा यदाधारं जलं त्विदम् । पङ्कजं कथमुत्पन्नं प्रसिद्धं रूढियोगयोः ॥ 16॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,16,2010,पश्याम्यद्यास्य पङ्कं तं मूलं वै पङ्कजस्य च । भविष्यति धरा तत्र मूलं नास्त्यत्र संशयः ॥ 17॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,17,2011,उत्तरन्सलिले तत्र यावद्वर्षसहस्रकम् । अन्वेषमाणो धरणीं नावाप तां यदा तदा ॥ 18॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,18,2012,तपस्तपेति चाकाशे वागभूदशरीरिणी । ततो मया तपस्तप्तं पद्मे वर्षसहस्रकम् ॥ 19॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,19,2013,सृजेति पुनरुद्भूता वाणी तत्र श्रुता मया । विमूढोऽहं तदाकर्ण्य कं सृजामि करोमि किम् ॥ 20॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,20,2014,तदा दैत्यावपि प्राप्तौ दारुणौ मधुकैटभौ । ताभ्यां विभीषितश्चाहं युद्धाय मकरालये ॥ 21॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,21,2015,ततोऽहं नालमालम्ब्य वारिमध्यमवातरम् । तदा तत्र मया दृष्टः पुरुषः परमाद्भुतः ॥ 22॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,22,2016,मेघश्यामशरीरस्तु पीतवासाश्चतुर्भुजः । शेषशायी जगन्नाथो वनमालाविभूषितः ॥ 23॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,23,2017,शङ्खचक्रगदापद्माद्यायुधैः सुविराजितः । तमद्राक्षं महाविष्णुं शेषपर्यङ्कशायिनम् ॥ 24॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,24,2018,योगनिद्रासमाक्रान्तमविस्पन्दिनमच्युतम् । शयानं तं समालोक्य भोगिभोगोपरि स्थितम् ॥ 25॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,25,2019,चिन्ता ममाद्भुता जाता किं करोमीति नारद । मया स्मृता तदा देवी स्तुता निद्रास्वरूपिणी ॥ 26॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,26,2020,देहान्निर्गत्य सा देवी गगने संस्थिता शिवा । अवितर्क्यशरीरा सा दिव्याभरणमण्डिता ॥ 27॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,27,2021,विष्णोर्देहं विहायाशु विरराज नभःस्थिता । उदतिष्ठदमेयात्मा तया मुक्तो जनार्दनः ॥ 28॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,28,2022,पञ्चवर्षसहस्राणि कृतवान् युद्धमुत्तमम् । तदा विलोकितौ दैत्यौ हरिणा विनिपातितौ ॥ 29॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,29,2023,उत्सङ्गं विमलं कृत्वा तत्रैव निहतौ च तौ । रुद्रस्तत्रैव सम्प्राप्तो यत्रावां संस्थितावुभौ ॥ 30॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,30,2024,त्रिभिः संवीक्षितास्मामिः स्वस्था देवी मनोहरा । संस्तुता परमा शक्तिरुवाचास्मानवस्थितान् ॥ 31॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,31,2025,कृपावलोकनैः कृत्वा पावनैर्मुदितानथ । देव्युवाच । काजेशाः स्वानि कार्याणि कुरुध्वं समतन्द्रिताः ॥ 32॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,32,2026,सृष्टिस्थितिविशिष्टानि हतावेतौ महासुरौ । कृत्वा स्वानि निकेतानि वसध्वं विगतज्वराः ॥ 33॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,33,2027,प्रजाश्चतुर्विधाः सर्वाः सृजध्वं स्वविभूतिभिः । ब्रह्मोवाच । तच्छ्रुत्वा वचनं तस्याः पेशलं सुखदं मृदु ॥ 34॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,34,2028,अब्रूम तामशक्तिः स्मः कथं कुर्मस्त्विमाः प्रजाः । न मही वितता मातः सर्वत्र विततं जलम् ॥ 35॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,35,2029,न भूतानि गुणाश्चापि तन्मात्राणीन्द्रियाणि च । तदाकर्ण्य वचोऽस्माकं शिवा जाता स्मितानना ॥ 36॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,36,2030,झटित्येवागतं तत्र विमानं गगनाच्छुभम् । सोवाचास्मिन्सुराः कामं विशध्वं गतसाध्वसाः ॥ 37॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,37,2031,विमाने ब्रह्मविष्ण्वीशा दर्शयाम्यद्य चाद्भुतम् । तन्निशम्य वचस्तस्या ओमित्युक्त्वा पुनर्वयम् ॥ 38॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,38,2032,समारुह्योपविष्टाः स्मो विमाने रत्नमण्डिते । मुक्तादामसुसंवीते किङ्किणीजालशब्दिते ॥ 39॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,39,2033,सुरसद्मनिभे रम्ये त्रयस्तत्राविशङ्किताः । सोपविष्टांस्ततो दृष्ट्वा देव्यस्मान्विजितेन्द्रियान् ॥ 40॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,40,2034,स्वशक्त्या तद्विमानं वै नोदयामास चाम्बरे ॥ 41॥ 3,३.२,द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।,41,2035,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे ब्रह्मादीनाङ्गतिवर्णनं नाम द्वितीयोऽध्यायः ॥ ३.२॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,0,2036,ब्रह्मोवाच । विमानं तन्मनोवेगं यत्र स्थानान्तरे गतम् । न जलं तत्र पश्यामो विस्मिताः स्मो वयं तदा ॥ 1॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,1,2037,वृक्षाः सर्वफला रम्याः कोकिलारावमण्डिताः । मही महीधराः कामं वनान्युपवनानि च ॥ 2॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,2,2038,नार्यश्च पुरुषाश्चैव पशवश्च सरिद्वराः । वाप्यः कूपास्तडागाश्च पल्वलानि च निर्झराः ॥ 3॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,3,2039,पुरतो नगरं रम्यं दिव्यप्राकारमण्डितम् । यज्ञशालासमायुक्तं नानाहर्म्यविराजितम् ॥ 4॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,4,2040,प्रत्यभिज्ञा तदा जाताप्यस्माकं प्रेक्ष्य तत्पुरम् । स्वर्गोऽयमिति केनासौ निर्मितोस्ति तदाद्भुतम् ॥ 5॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,5,2041,राजानं देवसङ्काशं व्रजन्तं मृगयां वने । अस्माभिः संस्थिता दृष्टा विमानोपरि चाम्बिका ॥ 6॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,6,2042,क्षणाच्चचाल गगने विमानं पवनेरितम् । मुहूर्ताद्वा ततः प्राप्तं देशे चान्ये मनोहरे ॥ 7॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,7,2043,नन्दनं च वनं तत्र दृष्टमस्माभिरुत्तमम् । पारिजाततरुच्छायासंश्रिता सुरभिः स्थिता ॥ 8॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,8,2044,चतुर्दन्तो गजस्तस्याः समीपे समवस्थितः । अप्सरसां तत्र वृन्दानि मेनकाप्रभृतीनि च ॥ 9॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,9,2045,क्रीडन्ति विविधैर्भावैर्गाननृत्यसमन्वितैः । गन्धर्वाः शतशस्तत्र यक्षा विद्याधरास्तथा ॥ 10॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,10,2046,मन्दारवाटिकामध्ये गायन्ति च रमन्ति च दृष्टः शतक्रतुस्तत्र पौलोम्या सहितः प्रभुः ॥ 11॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,11,2047,वयं तु विस्मिताश्चास्म दृष्ट्वा त्रैविष्टपं तदा । यादःपतिं कुबेरं च यमं सूर्यं विभावसुम् ॥ 12॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,12,2048,विलोक्य विस्मिताश्चास्म वयं तत्र सुरान्स्थितान् । तदा विनिर्गतो राजा पुरात्तस्मात्सुमण्डितात् ॥ 13॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,13,2049,देवराज इवाक्षोभ्यो नरवाह्यावनौ स्थितः । विमानस्था वयं तच्च चचाल तरसागतम् ॥ 14॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,14,2050,ब्रह्मलोकं तदा दिव्यं सर्वदेवनमस्कृतम् । तत्र ब्रह्माणमालोक्य विस्मितौ हरकेशवौ ॥ 15॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,15,2051,सभायां तत्र वेदाश्च सर्वे साङ्गाः स्वरूपिणः । सागराः सरितश्चैव पर्वताः पन्नगोरगाः ॥ 16॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,16,2052,मामूचतुश्चतुर्वक्त्रः कोऽयं ब्रह्मा सनातनः । ताववोचमहं नैव जाने सृष्टिपतिं पतिम् ॥ 17॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,17,2053,कोऽहं कोऽयं किमर्थं वा भ्रमोऽयं मम चेश्वरौ । क्षणादथ विमानं तच्चचालाशु मनोजवम् ॥ 18॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,18,2054,कैलासशिखरे प्राप्तं रम्ये यक्षगणान्विते । मन्दारवाटिकारम्ये कीरकोकिलकूजिते ॥ 19॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,19,2055,वीणामुरजवाद्यैश्च नादिते सुखदे शिवे । यदा प्राप्तं विमानं तत्तदैव सदनाच्छुभात् ॥ 20॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,20,2056,निर्गतो भगवाञ्छम्भुर्वृषारूढस्त्रिलोचनः । पञ्चाननो दशभुजः कृतसोमार्धशेखरः ॥ 21॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,21,2057,व्याघ्रचर्मपरीधानो गजचर्मोत्तरीयकः । पार्ष्णिरक्षौ महावीरौ गजाननषडाननौ ॥ 22॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,22,2058,शिवेन सह पुत्रौ द्वौ व्रजमानौ विरेजतुः । नन्दिप्रभृतयः सर्वे गणपाश्च वराश्च ते ॥ 23॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,23,2059,जयशब्दं प्रयुञ्जाना व्रजन्ति शिवपृष्ठगाः । तं वीक्ष्य शङ्करं चान्यं विस्मितास्तत्र नारद ॥ 24॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,24,2060,मातृभिः संशयाविष्टस्तत्राहं न्यवसं मुने । क्षणात्तस्माद्गिरेः श‍ृङ्गाद्विमानं वातरंहसा ॥ 25॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,25,2061,वैकुण्ठसदनं प्राप्तं रमारमणमन्दिरम् । असम्भाव्या विभूतिश्च तत्र दृष्टा मया सुत ॥ 26॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,26,2062,विसिष्मिये तदा विष्णुर्दृष्ट्वा तत्पुरमुत्तमम् । सदनाग्रे ययौ तावद्धरिः कमललोचनः ॥ 27॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,27,2063,अतसीकुसुमाभासः पीतवासाश्चतुर्भुजः । द्विजराजाधिरूढश्च दिव्याभरणभूषितः ॥ 28॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,28,2064,वीज्यमानस्तदा लक्ष्म्या कामिन्या चामरैः शुभैः । तं वीक्ष्य विस्मिताः सर्वे वयं विष्णुं सनातनम् ॥ 29॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,29,2065,परस्परं निरीक्षन्तः स्थितास्तस्मिन् वरासने । ततश्चचाल तरसा विमानं वातरंहसा ॥ 30॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,30,2066,सुधासमुद्रः सम्प्राप्तौ मिष्टवारिमहोर्मिमान् । यादोगणसमाकीर्णश्चलद्वीचिविराजितः ॥ 31॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,31,2067,मन्दारपारिजाताद्यैः पादपैरतिशोभितः । नानास्तरणसंयुक्तो नानाचित्रविचित्रितः ॥ 32॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,32,2068,मुक्तादामपरिक्लिष्टो नानादामविराजितः । अशोकबकुलाख्यैश्च वृक्षैः कुरुबकादिभिः ॥ 33॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,33,2069,संवृतः सर्वतः सौम्यैः केतकीचम्पकैर्वृतः । कोकिलारावसङ्घुष्टो दिव्यगन्धसमन्वितः ॥ 34॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,34,2070,द्विरेफातिरणत्कारैरञ्जितः परमाद्भुतः । तस्मिन्द्वीपे शिवाकारः पर्यङ्कः सुमनोहरः ॥ 35॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,35,2071,रत्नालिखचितोऽत्यर्थं नानारत्नविराजितः । दृष्टोऽस्माभिर्विमानस्थैर्दूरतः परिमण्डितः ॥ 36॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,36,2072,नानास्तरणसञ्छन्न इन्द्रचापसमन्वितः । पर्यङ्कप्रवरे तस्मिन्नुपविष्टा वराङ्गना ॥ 37॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,37,2073,रक्तमाल्याम्बरधरा रक्तगन्धानुलेपना । सुरक्तनयना कान्ता विद्युत्कोटिसमप्रभा ॥ 38॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,38,2074,सुचारुवदना रक्तदन्तच्छदविराजिता । रमाकोट्यधिका कान्त्या सूर्यबिम्बनिभाखिला ॥ 39॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,39,2075,वरपाशाङ्कुशाभीष्टधरा श्रीभुवनेश्वरी । अदृष्टपूर्वा दृष्टा सा सुन्दरी स्मितभूषणा ॥ 40॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,40,2076,ह्रीङ्कारजपनिष्ठैस्तु पक्षिवृन्दैर्निषेविता । अरुणा करुणामूर्तिः कुमारी नवयौवना ॥ 41॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,41,2077,सर्वश‍ृङ्गारवेषाढ्या मन्दस्मितमुखाम्बुजा । उद्यत्पीनकुचद्वन्द्वनिर्जिताम्भोजकुड्मला ॥ 42॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,42,2078,नानामणिगणाकीर्णभूषणैरुपशोभिता । कनकाङ्गदकेयूरकिरीटपरिशोभिता ॥ 43॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,43,2079,कनकच्छ्रीचक्रताटङ्कविटङ्कवदनाम्बुजा । हृल्लेखा भुवनेशीति नामजापपरायणैः ॥ 44॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,44,2080,सखीवृन्दैः स्तुता नित्यं भुवनेशी महेश्वरी । हृल्लेखाद्याभिरमरकन्याभिः परिवेष्टिता ॥ 45॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,45,2081,अनङ्गकुसुमाद्याभिर्देवीभिः परिवेष्टिता । देवी षट्कोणमध्यस्था यन्त्रराजोपरि स्थिता ॥ 46॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,46,2082,दृष्ट्वा तां विस्मिताः सर्वे वयं तत्र स्थिताऽभवन् । केयं कान्ता च किं नाम न जानीमोऽत्र संस्थिताः ॥ 47॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,47,2083,सहस्रनयना रामा सहस्रकरसंयुता । सहस्रवदना रम्या भाति दूरादसंशयम् ॥ 48॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,48,2084,नाप्सरा नापि गन्धर्वी नेयं देवाङ्गना किल । इति संशयमापन्नास्तत्र नारद संस्थिताः ॥ 49॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,49,2085,तदाऽसौ भगवान्विष्णुर्दृष्ट्वा तां चारुहासिनीम् । उवाचाम्बां स्वविज्ञानात्कृत्वा मनसि निश्चयम् ॥ 50॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,50,2086,एषा भगवती देवी सर्वेषां कारणं हि नः । महाविद्या महामाया पूर्णा प्रकृतिरव्यया ॥ 51॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,51,2087,दुर्ज्ञेयाऽल्पधियां देवी योगगम्या दुराशया । इच्छा परात्मनः कामं नित्यानित्यस्वरूपिणी ॥ 52॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,52,2088,दुराराध्याऽल्पभाग्यैश्च देवी विश्वेश्वरी शिवा । वेदगर्भा विशालाक्षी सर्वेषामादिरीश्वरी ॥ 53॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,53,2089,एषा संहृत्य सकलं विश्वं क्रीडति सङ्क्षये । लिङ्गानि सर्वजीवानां स्वशरीरे निवेश्य च ॥ 54॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,54,2090,सर्वबीजमयी ह्येषा राजते साम्प्रतं सुरौ । विभूतयः स्थिताः पार्श्वे पश्यतां कोटिशः क्रमात् ॥ 55॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,55,2091,दिव्याभरणभूषाढ्या दिव्यगन्धानुलेपनाः । परिचर्यापराः सर्वाः पश्यतां ब्रह्मशङ्करौ ॥ 56॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,56,2092,धन्या वयं महाभागाः कृतकृत्याः स्म साम्प्रतम् । यदत्र दर्शनं प्राप्तं भगवत्याः स्वयं त्विदम् ॥ 57॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,57,2093,तपस्तप्तं पुरा यत्नात्तस्येदं फलमुत्तमम् । अन्यथा दर्शनं कुत्र भवेदस्माकमादरात् ॥ 58॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,58,2094,पश्यन्ति पुण्यपुञ्जा ये ये वदान्यास्तपस्विनः । रागिणो नैव पश्यन्ति देवीं भगवतीं शिवाम् ॥ 59॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,59,2095,मूलप्रकृतिरेवैषा सदा पुरुषसङ्गता । ब्रह्माण्डं दर्शयत्येषा कृत्वा वै परमात्मने ॥ 60॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,60,2096,द्रष्टाऽसौ दृश्यमखिलं ब्रह्माण्डं देवताः सुरौ । तस्यैषा कारणं सर्वा माया सर्वेश्वरी शिवा ॥ 61॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,61,2097,क्वाहं वा क्व सुराः सर्वे रम्भाद्याः सुरयोषितः । लक्षांशेन तुलामस्या न भवामः कथञ्चन ॥ 62॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,62,2098,सैषा वराङ्गना नाम या वै दृष्टा महार्णवे । बालभावे महादेवी दोलयन्तीव मां मुदा ॥ 63॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,63,2099,शयनं वटपत्रे च पर्यङ्के सुस्थिरे दृढे । पादाङ्गुष्ठं करे कृत्वा निवेश्य मुखपङ्कजे ॥ 64॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,64,2100,लेलिहन्तञ्च क्रीडन्तमनेकैबालचेष्टितैः । रममाणं कोमलाङ्गं वटपत्रपुटे स्थितम् ॥ 65॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,65,2101,गायन्ती दोलयन्ती च बालभावान्मयि स्थिते । सेयं सुनिश्चितं ज्ञातं जातं मे दर्शनादिव ॥ 66॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,66,2102,कामं नो जननी सैषा श‍ृणु तं प्रवदाम्यहम् । अनुभूतं मया पूर्वं प्रत्यभिज्ञा समुत्थिता ॥ 67॥ 3,३.३,तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।,67,2103,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे विमानस्थैर्हरादिभिर्देवीदर्शनं नाम तृतीयोऽध्यायः ॥ ३.३॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,0,2104,ब्रह्मोवाच । इत्युक्त्वा भगवान्विष्णुः पुनराह जनार्दनः । वयं गच्छेम पार्श्वेऽस्याः प्रणमन्तः पुनः पुनः ॥ 1॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,1,2105,सेयं वरा महामाया दास्यत्येषा वरान् हि नः । स्तुवामः सन्निधिं प्राप्य निर्भयाश्चरणान्तिके ॥ 2॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,2,2106,यदि नो वारयिष्यन्ति द्वारस्थाः परिचारकाः । पठिष्यामश्च तत्रस्थाः स्तुतिं देव्याः समाहिताः ॥ 3॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,3,2107,ब्रह्मोवाच । इत्युक्ते हरिणा वाक्ये सुप्रहृष्टौ सुसंस्थितौ । जातौ प्रमुदितौ कामं निकटे गमनाय च ॥ 4॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,4,2108,ओमित्युक्त्वा हरिं सर्वे विमानात्त्वरितास्त्रयः । उत्तीर्य निर्गता द्वारि शङ्कमाना मनस्यलम् ॥ 5॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,5,2109,द्वारस्थान् वीक्ष्य तान्सर्वान्देवी भगवती तदा । स्मितं कृत्वा चकाराशु तांस्त्रीन्स्त्रीरूपधारिणः ॥ 6॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,6,2110,वयं युवतयो जाताः सुरूपाश्चारुभूषणाः । विस्मयै परमं प्राप्ता गतास्तत्सन्निधिं पुनः ॥ 7॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,7,2111,सा दृष्ट्वा नः स्थितांस्तत्र स्त्रीरूपांश्चरणान्तिके । व्यलोकयत चार्वङ्गी प्रेमसम्पूर्णया दृशा ॥ 8॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,8,2112,प्रणम्य तां महादेवीं पुरतः संस्थिता वयम् । परस्परं लोकयन्तः स्त्रीरूपाश्चारुभूषणाः ॥ 9॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,9,2113,पादपीठं प्रेक्षमाणा नानामणिविभूषितम् । सूर्यकोटिप्रतीकाशं स्थितास्तत्र वयं त्रयः ॥ 10॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,10,2114,काश्चिद्रक्ताम्बरास्तत्र सहचर्यः सहस्रशः । काश्चिन्नीलाम्बरा नार्यस्तथा पीताम्बराः शुभाः ॥ 11॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,11,2115,देव्यः सर्वाः शुभाकारा विचित्राम्बरभूषणाः । विरेजुः पार्श्वतस्तस्याः परिचर्यापराः किल ॥ 12॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,12,2116,जगुश्च ननृतुश्चान्याः पर्युपासन्त ताः स्त्रियः । वीणामारुतवाद्यानि वादयन्तो मुदान्विताः ॥ 13॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,13,2117,श‍ृणु नारद वक्ष्यामि यद्दृष्टं तत्र चाद्भुतम् । नखदर्पणमध्ये वै देव्याश्चरणपङ्कजे ॥ 14॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,14,2118,ब्रह्माण्डमखिलं सर्वं तत्र स्थावरजङ्गमम् । अहं विष्णुश्च रुद्रश्च वायुरग्निर्यमो रविः ॥ 15॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,15,2119,वरुणः शीतगुस्त्वष्टा कुबेरः पाकशासनः । पर्वताः सागरा नद्यो गन्धर्वाप्सरसस्तथा ॥ 16॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,16,2120,विश्वावसुश्चित्रकेतुः श्वेतश्चित्राङ्गदस्तथा । नारदस्तुम्बुरुश्चैव हाहाहूहूस्तथैव च ॥ 17॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,17,2121,अश्विनौ वसवः साध्याः सिद्धाश्च पितरस्तथा । नागाः शेषादयः सर्वे किन्नरोरगराक्षसाः ॥ 18॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,18,2122,वैकुण्ठो ब्रह्मलोकश्च कैलासः पर्वतोत्तमः । सर्वं तदखिलं दृष्टं नखमध्यस्थितं च नः ॥ 19॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,19,2123,मज्जन्मपङ्कजं तत्र स्थितोऽहं चतुराननः । शेषशायी जगन्नाथस्तथा च मधुकैटभौ ॥ 20॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,20,2124,ब्रह्मोवाच । एवं दृष्टं मया तत्र पादपद्मनखे स्थितम् । विस्मतोऽहं ततो वीक्ष्य किमेतदिति शङ्कितः ॥ 21॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,21,2125,विष्णुश्च विस्मयाविष्टः शङ्करश्च तथा स्थितः । तां तदा मेनिरे देवीं वयं विश्वस्य मातरम् ॥ 22॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,22,2126,ततो वर्षशतं पूर्णं व्यतिक्रान्तं प्रपश्यतः । सुधामये शिवे द्वीपे विहारं विविधं तदा ॥ 23॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,23,2127,सख्य इव तदा तत्र मेनिरेऽस्मानवस्थितान् । देव्यः प्रमुदिताकारा नानाभरणमण्डिताः ॥ 24॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,24,2128,वयमप्यतिरम्यत्वाद्बभूविम विमोहिताः । प्रहृष्टमनसः सर्वे पश्यन्भावान्मनोरमान् ॥ 25॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,25,2129,एकदा तां महादेवीं देवीं श्रीभुवनेश्वरीम् । तुष्टाव भगवान्विष्णुर्युवतीभावसंस्थितः ॥ 26॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,26,2130,श्रीभगवानुवाच । नमो देव्यै प्रकृत्यै च विधात्र्यै सततं नमः । कल्याणै कामदायै च वृद्ध्यै सिद्ध्यै नमो नमः ॥ 27॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,27,2131,सच्चिदानन्दरूपिण्यै संसारारणये नमः । पञ्चकृत्यविधात्र्यै ते भुवनेश्यै नमो नमः ॥ 28॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,28,2132,सर्वाधिष्टानरूपायै कूटस्थायै नमो नमः । अर्धमात्रार्थभूतायै हृल्लेखायै नमो नमः ॥ 29॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,29,2133,ज्ञातं मयाऽखिलमिदं त्वयि सन्निविष्टं त्वत्तोऽस्य सम्भवलयावपि मातरद्य । शक्तिश्च तेऽस्य करणे विततप्रभावा ज्ञाताऽधुना सकललोकमयीति नूनम् ॥ 30॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,30,2134,विस्तार्य सर्वमखिलं सदसद्विकारं सन्दर्शयस्यविकलं पुरुषाय काले । तत्त्वैश्च षोडशभिरेव च सप्तभिश्च भासीन्द्रजालमिव नः किल रञ्जनाय ॥ 31॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,31,2135,न त्वामृते किमपि वस्तुगतं विभाति व्याप्यैव सर्वमखिलं त्वमवस्थिताऽसि । शक्तिं विना व्यवहृतो पुरुषोऽप्यशक्तो वम्भण्यते जननि बुद्धिमता जनेन ॥ 32॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,32,2136,प्रीणासि विश्वमखिलं सततं प्रभावैः स्वैस्तेजसा च सकलं प्रकटीकरोषि । अत्स्येव देवि तरसा किल कल्पकाले को वेद देवि चरितं तव वै भवस्य ॥ 33॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,33,2137,त्राता वयं जननि ते मधुकैटभाभ्यां लोकाश्च ते सुवितताः खलु दर्शिता वै । नीताः सुखस्य भवने परमां च कोटिं यद्दर्शनं तव भवानि महाप्रभावम् ॥ 34॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,34,2138,नाहं भवो न च विरिञ्चि विवेद मातः कोऽन्यो हि वेत्ति चरितं तव दुर्विभाव्यम् । कानीह सन्ति भुवनानि महाप्रभावे ह्यस्मिन्भवानि रचिते रचनाकलापे ॥ 35॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,35,2139,अस्माभिरत्र भुवने हरिरन्य एव दृष्टः शिवः कमलजः प्रथितप्रभावः । अन्येषु देवि भुवनेपु न सन्ति किं ते किं विद्म देवि विततं तव सुप्रभावम् ॥ 36॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,36,2140,याचेऽम्ब तेऽङ्घ्रिकमलं प्रणिपत्य कामं चित्ते सदा वसतु रूपमिदं तवैतत् । नामापि वक्त्रकुहरे सततं तवैव सन्दर्शनं तव पदाम्बुजयोः सदैव ॥ 37॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,37,2141,भृत्योऽयमस्ति सततं मयि भावनीयं त्वां स्वामिनीति मनसा ननु चिन्तयामि । एषाऽऽवयोरविरता किल देवि भूया- द्व्याप्तिः सदैव जननी सुतयोरिवार्थे ॥ 38॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,38,2142,त्वं वेत्सि सर्वमखिलं भुवनप्रपञ्चं सर्वज्ञता परिसमाप्तिनितान्तभूमिः । किं पामरेण जगदम्ब निवेदनीयं यद्युक्तमाचर भवानि तवेङ्गितं स्यात् ॥ 39॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,39,2143,ब्रह्मा सृजत्यवति विष्णुरुमापतिश्च संहारकारक इयं तु जने प्रसिद्धिः । किं सत्यमेतदपि देवि तवेच्छया वै कर्तुं क्षमा वयमजे तव शक्तियुक्ताः ॥ 40॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,40,2144,धात्री धराधरसुते न जगद्बिभर्ति आधारशक्तिरखिलं तव वै बिभर्ति । सूर्योऽपि भाति वरदे प्रभया युतस्ते त्वं सर्वमेतदखिलं विरजा विभासि ॥ 41॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,41,2145,ब्रह्माऽहमीश्वरवरः किल ते प्रभावा- त्सर्वे वयं जनियुता न यदा तु नित्याः । केऽन्ये सुराः शतमखप्रमुखाश्च नित्या नित्या त्वमेव जननी प्रकृतिः पुराणा ॥ 42॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,42,2146,त्वं चेद्भवानि दयसे पुरुषं पुराणं जानेऽहमद्य तव सन्निधिगः सदैव । नोचेदहं विभुरनादिरनीह ईशो विश्वात्मधीरिति तमःप्रकृतिः सदैव ॥ 43॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,43,2147,विद्या त्वमेव ननु बुद्धिमतां नराणां शक्तिस्त्वमेव किल शक्तिमतां सदैव । त्वं कीर्तिकान्तिकमलामलतुष्टिरूपा मुक्तिप्रदा विरतिरेव मनुष्यलोके ॥ 44॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,44,2148,गायत्र्यसि प्रथमवेदकला त्वमेव स्वाहा स्वधा भगवती सगुणार्धमात्रा । आम्नाय एव विहितो निगमो भवत्यै सञ्जीवनाय सततं सुरपूर्वजानाम् ॥ 45॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,45,2149,मोक्षार्थमेव रचयस्यखिलं प्रपञ्चं तेषां गताः खलु यतो ननु जीवभावम् । अंशा अनादिनिधनस्य किलानघस्य पूर्णार्णवस्य वितता हि यथा तरङ्गाः ॥ 46॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,46,2150,जीवो यदा तु परिवेत्ति तवैव कृत्यं त्वं संहरस्यखिलमेतदिति प्रसिद्धम् । नाट्यं नटेन रचितं वितथेऽन्तरङ्गे कार्ये कृते विरमसे प्रथितप्रभावा ॥ 47॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,47,2151,त्राता त्वमेव मम मोहमयाद्भवाब्धे- स्त्वामम्बिके सततमेमि महार्तिदे च । रागादिभिर्विरचिते वितथे किलान्ते मामेव पाहि बहुदुःखकरे च काले ॥ 48॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,48,2152,नमो देवि महाविद्ये नमामि चरणौ तव । सदा ज्ञानप्रकाशं मे देहि सर्वार्थदे शिवे ॥ 49॥ 3,३.४,चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।,49,2153,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे विष्णुना कृतं देवीस्तोत्रं नाम चतुर्थोऽध्यायः ॥ ३.४॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,0,2154,ब्रह्मोवाच । इत्युक्त्वा विरते विष्णौ देवदेवे जनार्दने । उवाच शङ्करः शर्वः प्रणतः पुरतः स्थितः ॥ 1॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,1,2155,शिव उवाच । यदि हरिस्तव देवि विभावज- स्तदनु पद्मज एव तवोद्भवः । किमहमत्र तवापि न सद्गुणः सकललोकविधौ चतुरा शिवे ॥ 2॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,2,2156,त्वमसि भूः सलिलं पवनस्तथा खमपि वह्निगुणश्च तथा पुनः । जननि तानि पुनः करणानि च त्वमसि बुद्धिमनोऽप्यथ हङ्कृतिः ॥ 3॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,3,2157,न च विदन्ति वदन्ति च येऽन्यथा हरिहराजकृतं निखिलं जगत् । तव कृतास्त्रय एव सदैव ते विरचयन्ति जगत्सचराचरम् ॥ 4॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,4,2158,अवनिवायुखवह्निजलादिभिः सविषयैः सगुणैश्च जगद्भवेत् । यदि तदा कथमद्य च तत्स्फुटं प्रभवतीति तवाम्ब कलामृते ॥ 5॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,5,2159,भवसि सर्वमिदं सचराचरं त्वमजविष्णुशिवाकृतिकल्पितम् । विविधवेषविलासकुतूहलै- र्विरमसे रमसेऽम्ब यथारुचि ॥ 6॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,6,2160,सकललोकसिसृक्षुरहं हरिः कमलभूश्च भवाम यदाऽम्बिके । तव पदाम्बुजपांसुपरिग्रहं समधिगम्य तदा ननु चक्रिम ॥ 7॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,7,2161,यदि दयार्द्रमना न सदाम्बिके कथमहं विहितश्च तमोगुणः । कमलजश्च रजोगुणसम्भवः सुविहितः किमु सत्त्वगुणो हरिः ॥ 8॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,8,2162,यदि न ते विषमा मतिरम्बिके कथमिदं बहुधा विहितं जगत् । सचिवभूपतिभृत्यजनावृतं बहुधनैरधनैश्च समाकुलम् ॥ 9॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,9,2163,तव गुणास्रय एव सदा क्षमाः प्रकटनावनसंहरणेषु वै । हरिहरद्रुहिणाश्च क्रमात्त्वया विरचितास्त्रिजगतां किल कारणम् ॥ 10॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,10,2164,परिचितानि मया हरिणा तथा कमलजेन विमानगतेन वै । पथिगतैर्भुवनानि कृतानि वा कथय केन भवानि नवानि च ॥ 11॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,11,2165,सृजसि पासि जगज्जगदम्बिके स्वकलया कियदिच्छसि नाशितुम् । रमयसे स्वपतिं पुरुषं सदा तव गतिं न हि विद्म वयं शिवे ॥ 12॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,12,2166,जननि देहि पदाम्बुजसेवनं युवतिभागवतानपि नः सदा । पुरुषतामधिगम्य पदाम्बुजा- द्विरहिताः क्व लभेम सुखं स्फुटम् ॥ 13॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,13,2167,न रुचिरस्ति ममाम्ब पदाम्बुजं तव विहाय शिवे भुवनेष्वलम् । निवसितुं नरदेहमवाप्य च त्रिभुवनस्य पतित्वमवाप्य वै ॥ 14॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,14,2168,सुदति नास्ति मनागपि मे रति- र्युवतिभावमवाप्य तवान्तिके । पुरुषता क्व सुखाय भवत्यलं तव पदं न यदीक्षणगोचरम् ॥ 15॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,15,2169,त्रिभुवनेषु भवत्वियमम्बिके मम सदैव हि कीर्तिरनाविला । युवतिभावमवाप्य पदाम्बुजं परिचितं तव संसृतिनाशनम् ॥ 16॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,16,2170,भुवि विहाय तवान्तिकसेवनं क इह वाञ्छति राज्यमकण्टकम् । त्रुटिरसौ किल याति युगात्मतां न निकटं यदि तेऽङ्घ्रिसरोरुहम् ॥ 17॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,17,2171,तपसि ये निरता मुनयोऽमला- स्तव विहाय पदाम्बुजपूजनम् । जननि ते विधिना किल वञ्चिताः परिभवो विभवे परिकल्पितः ॥ 18॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,18,2172,न तपसा न दमेन समाधिना न च तथा विहितैः क्रतुभिर्यथा । तव पदाब्जपरागनिषेवणा- द्भवति मुक्तिरजे भवसागरात् ॥ 19॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,19,2173,कुरु दयां दयसे यदि देवि मां कथय मन्त्रमनाविलमद्भुतम् । समभवं प्रजपन्सुखितो ह्यहं सुविशदं च नवार्णमनुत्तमम् ॥ 20॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,20,2174,प्रथमजन्मनि चाधिगतो मया तदधुना न विभाति नवाक्षरः । कथय मां मनुमद्य भवार्णवा- ज्जननि तारय तारय तारके ॥ 21॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,21,2175,इत्युक्ता सा तदा देवी शिवेनाद्भुततेजसा । उच्चचाराम्बिका मन्त्रं प्रस्फुटं च नवाक्षरम् ॥ 22॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,22,2176,तं गृहीत्वा महादेवः परां मुदमवाप ह । प्रणम्य चरणौ देव्यास्तत्रैवावस्थितः शिवः ॥ 23॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,23,2177,जपन्नवाक्षरं मन्त्रं कामदं मोक्षदं तथा । बीजयुक्तं शुभोच्चारं शङ्करस्तस्थिवांस्तदा ॥ 24॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,24,2178,तं तथाऽवस्थितं दृष्ट्वा शङ्करं लोकशङ्करम् । अवोचं तां महामायां संस्थितोऽहं पदान्तिके ॥ 25॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,25,2179,न वेदास्त्वामेवं कलयितुमिहासन्नपटवो यतस्ते नोचुस्त्वां सकलजनधात्रीमविकलाम् । स्वधाभूता देवी सकलमखहोमेषु विहिता तदा त्वं सर्वज्ञा जननि खलु जाता त्रिभुवने ॥ 26॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,26,2180,कर्ताऽहं प्रकरोमि सर्वमखिलं ब्रह्माण्डमत्यद्भुतं कोऽन्योस्तीह चराचरे त्रिभुवने मत्तः समर्थः पुमान् । धन्योऽस्म्यत्र न संशयः किल यदा ब्रह्माऽस्मि लोकातिगो मग्नोऽहं भवसागरे प्रवितते गर्वाभिवेशादिति ॥ 27॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,27,2181,अद्याहं तव पादपङ्कजपरागादानगर्वेण वै धन्योऽस्मीति यथार्थवादनिपुणो जातः प्रसादाच्च ते । याचे त्वां भवभीतिनाशचतुरां मुक्तिप्रदां चेश्वरीं हित्वा मोहकृतं महार्तिनिगडं त्वद्भक्तियुक्तं कुरु ॥ 28॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,28,2182,अतोऽहञ्च जातो विमुक्तः कथं स्यां सरोजादमेयात्त्वदाविष्कृताद्वै । तवाज्ञाकरः किङ्करोऽस्मीति नूनं शिवे पाहि मां मोहमग्नं भवाब्धौ ॥ 29॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,29,2183,न जानन्ति ये मानवास्ते वदन्ति प्रभुं मां तवाद्यं चरित्रं पवित्रम् । यजन्तीह ये याजकाः स्वर्गकामा न ते ते प्रभावं विदन्त्येव कामम् ॥ 30॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,30,2184,त्वया निर्मितोऽहं विधित्वे विहारं विकर्तुं चतुर्धा विधायादिसर्गम् । अहं वेद्मि कोऽन्यो विवेदातिमाये क्षमस्वापराधं त्वहङ्कारजं मे ॥ 31॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,31,2185,श्रमं येऽष्टधा योगमार्गे प्रवृत्ताः प्रकुर्वन्ति मूढाः समाधौ स्थिता वै । न जानन्ति ते नाम मोक्षप्रदं वा समुच्चारितं जातु मातर्मिषेण ॥ 32॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,32,2186,विचारे परे तत्त्वसङ्ख्याविधाने पदे मोहिता नाम ते संविहाय । न किं ते विमूढा भवाब्धौ भवानि त्वमेवासि संसारमुक्तिप्रदा वै ॥ 33॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,33,2187,परं तत्त्वविज्ञानमाद्यैर्जनैर्यै- रजे चानुभूतं त्यजन्त्येव ते किम् । निमेषार्धमात्रं पवित्रं चरित्रं शिवा चाम्बिका शक्तिरीशेति नाम ॥ 34॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,34,2188,न किं त्वं समर्थाऽसि विश्वं विधातुं दृशैवाशु सर्वं चतुर्धा विभक्तम् । विनोदार्थमेवं विधिं मां विधाया- दिसर्गे किलेदं करोषीति कामम् ॥ 35॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,35,2189,हरिः पालकः किं त्वयाऽसौ मधोर्वा तथा कैटभाद्रक्षितः सिन्धुमध्ये । हरः संहृतः किं त्वयाऽसौ न काले कथं मे भ्रुवोर्मध्यदेशात्स जातः ॥ 36॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,36,2190,न ते जन्म कुत्रापि दृष्टं श्रुतं वा कुतः सम्भवस्ते न कोऽपीह वेद । किलाद्यासि शक्तिस्त्वमेका भवानि स्वतन्त्रैः समस्तैरतो बोधिताऽसि ॥ 37॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,37,2191,त्वया संयुतोऽहं विकर्तुं समर्थो हरिस्त्रातुमम्ब त्वया संयुतश्च । हरः सम्प्रहर्तुं त्वयैवेह युक्तः क्षमा नाद्य सर्वे त्वया विप्रयुक्ताः ॥ 38॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,38,2192,यथाऽहं हरिः शङ्करः किं तथाऽन्ये न जाता न सन्तीह नो वाऽभविष्यन् । न मुह्यन्ति केऽस्मिंस्तवात्यन्तचित्रे विनोदे विवादास्पदेऽल्पाशयानाम् ॥ 39॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,39,2193,अकर्ता गुणस्पष्ट एवाद्य देवो निरीहोऽनुपाधिः सदैवाकलश्च । तथापीश्वरस्ते वितीर्णं विनोदं सुसम्पश्यतीत्याहुरेवं विधिज्ञाः ॥ 40॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,40,2194,दृष्टादृष्टविभेदेऽस्मिन्प्राक्त्वत्तो वै पुमान्परः । नान्यः कोऽपि तृतीयोऽस्ति प्रमेये सुविचारिते ॥ 41॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,41,2195,न मिथ्या वेदवाक्यं वै कल्पनीयं कदाचन । विरोधोऽयं मयाऽत्यन्तं हृदये तु विशङ्कितः ॥ 42॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,42,2196,एकमेवाद्वितीयं यद्ब्रह्म वेदा वदन्ति वै । सा किं त्वं वाप्यसौ वा किं सन्देहं विनिवर्तय ॥ 43॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,43,2197,निःसंशयं न मे चेतः प्रभवत्यविशङ्कितम् । द्वित्वैकत्वविचारेऽस्मिन्निमग्नं क्षुल्लकं मनः ॥ 44॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,44,2198,स्वमुखेनापि सन्देहं छेत्तुमर्हसि मामकम् । पुण्यभोगाच्च मे प्राप्ता सङ्गतिस्तव पादयोः ॥ 45॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,45,2199,पुमानसि त्वं स्त्री वासि वद विस्तरतो मम । ज्ञात्वाऽहं परमां शक्तिं मुक्तः स्यां भवसागरात् ॥ 46॥ 3,३.५,पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।,46,2200,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे हरब्रह्मकृतस्तुतिवर्णनं पञ्चमोऽध्यायः ॥ ३.५॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,0,2201,ब्रह्मोवाच । इति पृष्टा मया देवी विनयावनतेन च । उवाच वचनं श्लक्ष्णमाद्या भगवती हि सा ॥ 1॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,1,2202,देव्युवाच । सदैकत्वं न भेदोऽस्ति सर्वदैव ममास्य च । योऽसौ साहमहं योऽसौ भेदोऽस्ति मतिविभ्रमात् ॥ 2॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,2,2203,आवयोरन्तरं सूक्ष्मं यो वेद मतिमान्हि सः । विमुक्तः स तु संसारान्मुच्यते नात्र संशयः ॥ 3॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,3,2204,एकमेवाद्वितीयं वै ब्रह्म नित्यं सनातनम् । द्वैतभावं पुनर्याति काल उत्पित्सुसंज्ञके ॥ 4॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,4,2205,यथा दीपस्तथोपाधेर्योगात्सञ्जायते द्विधा । छायेवादर्शमध्ये वा प्रतिबिम्बं तथावयोः ॥ 5॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,5,2206,भेद उत्पत्तिकाले वै सर्गार्थं प्रभवत्यज । दृश्यादृश्यविभेदोऽयं द्वैविध्ये सति सर्वथा ॥ 6॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,6,2207,नाहं स्त्री न पुमांश्चाहं न क्लीबं सर्गसङ्क्षये । सर्गे सति विभेदः स्यात्कल्पितोऽयं धिया पुनः ॥ 7॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,7,2208,अहं बुद्धिरहं श्रीश्च धृतिः कीर्तिः स्मृतिस्तथा । श्रद्धा मेधा दया लज्जा क्षुधा तृष्णा तथा क्षमा ॥ 8॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,8,2209,कान्तिः शान्तिः पिपासा च निद्रा तन्द्रा जराजरा । विद्याविद्या स्पृहा वाञ्छा शक्तिश्चाशक्तिरेव च ॥ 9॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,9,2210,वसा मज्जा च त्वक्चाहं दृष्टिर्वागनृतानृता । परा मध्या च पश्यन्ती नाड्योऽहं विविधाश्च याः ॥ 10॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,10,2211,किं नाहं पश्य संसारे मद्वियुक्तं किमस्ति हि । सर्वमेवाहमित्येवं निश्चयं विद्धि पद्मज ॥ 11॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,11,2212,एतैर्मे निश्चितै रूपैर्विहीनं किं वदस्व मे । तस्मादहं विधे चास्मिन्सर्गे वै वितताभवम् ॥ 12॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,12,2213,नूनं सर्वेषु देवेषु नानानामधरा ह्यहम् । भवामि शक्तिरूपेण करोमि च पराक्रमम् ॥ 13॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,13,2214,गौरी ब्राह्मी तथा रौद्री वाराही वैष्णवी शिवा । वारूणी चाथ कौबेरी नारसिंही च वासवी ॥ 14॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,14,2215,उत्पन्नेषु समस्तेषु कार्येषु प्रविशामि तान् । करोमि सर्वकार्याणि निमित्तं तं विधाय वै ॥ 15॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,15,2216,जले शीतं तथा वह्नावौष्ण्यं ज्योतिर्दिवाकरे । निशानाथे हिमा कामं प्रभवामि यथा तथा ॥ 16॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,16,2217,मया त्यक्तं विधे नूनं स्पन्दितुं न क्षमं भवेत् । जीवजातं च संसारे निश्चयोऽयं ब्रुवे त्वयि ॥ 17॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,17,2218,अशक्तः शङ्करो हन्तुं दैत्यान्किल मयोज्झितः । शक्तिहीनं नरं ब्रूते लोकश्चैवातिदुर्बलम् ॥ 18॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,18,2219,रुद्रहीनं विष्णुहीनं न वदन्ति जनाः किल । शक्तिहीनं यथा सर्वे प्रवदन्ति नराधमम् ॥ 19॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,19,2220,पतितः स्खलितो भीतः शान्तः शत्रुवशं गतः । अशक्तः प्रोच्यते लोके नारुद्रः कोऽपि कथ्यते ॥ 20॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,20,2221,तद्विद्धि कारणं शक्तिर्यथा त्वं च सिसृक्षसि । भविता च यदा युक्तः शक्त्या कर्ता तदाखिलम् ॥ 21॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,21,2222,तथा हरिस्तथा शम्भुस्तथेन्द्रोऽथ विभावसुः । शशी सूर्यो यमस्त्वष्टा वरुणः पवनस्तथा ॥ 22॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,22,2223,धरा स्थिरा तदा धर्तुं शक्तियुक्ता यदा भवेत् । अन्यथा चेदशक्ता स्यात्परमाणोश्च धारणे ॥ 23॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,23,2224,तथा शेषस्तथा कूर्मो येऽन्ये सर्वे च दिग्गजाः । मद्युक्ता वै समर्थाश्च स्वानि कार्याणि साधितुम् ॥ 24॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,24,2225,जलं पिबामि सकलं संहरामि विभावसुम् । पवनं स्तम्भयाम्यद्य यदिच्छामि तथाचरम् ॥ 25॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,25,2226,तत्त्वानां चैव सर्वेषां कदापि कमलोद्भव । असतां भावसन्देहः कर्तव्यो न कदाचन ॥ 26॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,26,2227,कदाचित्प्रागभावः स्यात्प्रध्वंसाभाव एव वा । मृत्पिण्डेषु कपालेषु घटाभावो यथा तथा ॥ 27॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,27,2228,अद्यात्र पृथिवी नास्ति क्व गतेति विचारणे । सञ्जाता इति विज्ञेया अस्यास्तु परमाणवः ॥ 28॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,28,2229,शाश्वतं क्षणिकं शून्यं नित्यानित्यं सकर्तुकम् । अहङ्काराग्रिमञ्चैव सप्तभेदैर्विवक्षितम् ॥ 29॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,29,2230,गृहाणाज महतत्त्वमहङ्कारस्तदुद्भवः । ततः सर्वाणि भूतानि रचयस्व यथा पुरा ॥ 30॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,30,2231,व्रजन्तु स्वानि धिष्ण्यानि विरच्य निवसन्तु वः । स्वानि स्वानि च कार्याणि कुर्वन्तु दैवभाविताः ॥ 31॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,31,2232,गृहाणेमां विधे शक्तिं सुरूपां चारुहासिनीम् । महासरस्वतीं नाम्ना रजोगुणयुतां वराम् ॥ 32॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,32,2233,श्वेताम्बरधरां दिव्यां दिव्यभूषणभूषिताम् । वरासनसमारूढां क्रीडार्थं सहचारिणीम् ॥ 33॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,33,2234,एषा सहचरी नित्यं भविष्यति वराङ्गना । मावमंस्था विभूतिं मे मत्वा पूज्यतमां प्रियाम् ॥ 34॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,34,2235,गच्छ त्वमनया सार्धं सत्यलोकं बताशु वै । बीजाच्चतुर्विधं सर्वं समुत्पादय साम्प्रतम् ॥ 35॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,35,2236,लिङ्गकोशाश्च जीवैस्तैः सहिताः कर्मभिस्तथा । वर्तन्ते संस्थिताः काले तान्कुरु त्वं यथा पुरा ॥ 36॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,36,2237,कालकर्मस्वभावाख्यैः कारणैः सकलं जगत् । स्वभावस्वगुणैर्युक्तं पूर्ववत्सचराचरम् ॥ 37॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,37,2238,माननीयस्त्वया विष्णुः पूजनीयश्च सर्वदा । सत्त्वगुणप्रधानत्वादधिकः सर्वतः सदा ॥ 38॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,38,2239,यदा यदा हि कार्यं वो भविष्यति दुरत्ययम् । करिष्यति पृथिव्यां वै अवतारं तदा हरिः ॥ 39॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,39,2240,तिर्यग्योनावथान्यत्र मानुषीं तनुमाश्रितः । दानवानां विनाशं वै करिष्यति जनार्दनः ॥ 40॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,40,2241,भवोऽयं ते सहायश्च भविष्यति महाबलः । समुत्पाद्य सुरान्सर्वान्विहरस्व यथासुखम् ॥ 41॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,41,2242,ब्राह्मणाः क्षत्रिया वैश्या नानायज्ञैः सदक्षिणैः । यजिष्यन्ति विधानेन सर्वान्वः सुसमाहिताः ॥ 42॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,42,2243,मन्नामोच्चारणात्सर्वे मखेषु सकलेषु च । सदा तृप्ताश्च सन्तुष्टा भविष्यध्वं सुराः किल ॥ 43॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,43,2244,शिवश्च माननीयो वै सर्वथा यत्तमोगुणः । यज्ञकार्येषु सर्वेषु पूजनीयः प्रयत्नतः ॥ 44॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,44,2245,यदा पुनः सुराणां वै भयं दैत्याद्भविष्यति । शक्तयो मे तदोत्पन्ना हरिष्यन्ति सुविग्रहाः ॥ 45॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,45,2246,वाराही वैष्णवी गौरी नारसिंही सदाशिवा । एताश्चान्याश्च कार्याणि कुरु त्वं कमलोद्भव ॥ 46॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,46,2247,नवाक्षरमिमं मन्त्रं बीजध्यानयुतं सदा । जपन्सर्वाणि कार्याणि कुरु त्वं कमलोद्भव ॥ 47॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,47,2248,मन्त्राणामुत्तमोऽयं वै त्वं जानीहि महामते । हृदये ते सदा धार्यः सर्वकामार्थसिद्धये ॥ 48॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,48,2249,इत्युक्त्वा मां जगन्माता हरिं प्राह शुचिस्मिता । विष्णो व्रज गृहाणेमां महालक्ष्मीं मनोहराम् ॥ 49॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,49,2250,सदा वक्षःस्थले स्थाने भविता नात्र संशयः । क्रीडार्थं ते मया दत्ता शक्तिः सर्वार्थदा शिवा ॥ 50॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,50,2251,त्वयेयं नावमन्तव्या माननीया च सर्वदा । लक्ष्मीनारायणाख्योऽयं योगो वै विहितो मया ॥ 51॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,51,2252,जीवनार्थं कृता यज्ञा देवानां सर्वथा मया । अविरोधेन सङ्गेन वर्तितव्यं त्रिभिः सदा ॥ 52॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,52,2253,त्वं च वेधाः शिवस्त्वेते देवा मद्गुणसम्भवाः । मान्याः पूज्याश्च सर्वेषां भविष्यन्ति न संशयः ॥ 53॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,53,2254,ये विभेदं करिष्यन्ति मानवा मूढचेतसः । निरयं ते गमिष्यन्ति विभेदान्नात्र संशयः ॥ 54॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,54,2255,यो हरिः स शिवः साक्षाद्यः शिवः स स्वयं हरिः । एतयोर्भेदमातिष्ठन्नरकाय भवेन्नरः ॥ 55॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,55,2256,तथैव द्रुहिणो ज्ञेयो नात्र कार्या विचारणा । अपरो गुणभेदोऽस्ति श‍ृणु विष्णो ब्रवीमि ते ॥ 56॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,56,2257,मुख्यः सत्त्वगुणस्तेऽस्तु परमात्मविचिन्तने । गौणत्वेऽपि परौ ख्यातौ रजोगुणतमोगुणौ ॥ 57॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,57,2258,लक्ष्म्या सह विकारेषु नानाभेदेषु सर्वदा । रजोगुणयुतो भूत्वा विहरस्वानया सह ॥ 58॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,58,2259,वाग्बीजं कामराजं च मायाबीजं तृतीयकम् । मन्त्रोऽयं त्वं रमाकान्त मद्दत्तः परमार्थदः ॥ 59॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,59,2260,गृहीत्वा जप तं नित्यं विहरस्व यथासुखम् । न ते मृत्युभयं विष्णो न कालप्रभवं भयम् ॥ 60॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,60,2261,यावदेष विहारो मे भविष्यति सुनिश्चयः । संहरिष्याम्यहं सर्वं यदा विश्वं चराचरम् ॥ 61॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,61,2262,भवन्तोऽपि तदा नूनं मयि लीना भविष्यथ । स्मर्तव्योऽयं सदा मन्त्रः कामदो मोक्षदस्तथा ॥ 62॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,62,2263,उद्गीथेन च संयुक्तः कर्तव्यः शुभमिच्छता । कारयित्वाथ वैकुण्ठं वस्तव्यं पुरुषोत्तम ॥ 63॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,63,2264,विहरस्व यथाकामं चिन्तयन्मां सनातनीम् । ब्रह्मोवाच । इत्युक्त्वा वासुदेवं सा त्रिगुणा प्रकृतिः परा ॥ 64॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,64,2265,निर्गुणा शङ्करं देवमवोचदमृतं वचः । देव्युवाच । गृहाण हरगौरीं त्वं महाकालीं मनोहराम् ॥ 65॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,65,2266,कैलासं कारयित्वा च विहरस्व यथासुखम् । मुख्यस्तमोगुणस्तेऽस्तु गौणौ सत्त्वरजोगुणौ ॥ 66॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,66,2267,विहरासुरनाशार्थं रजोगुणतमोगुणौ । तपस्तप्तं तथा कर्तुं स्मरणं परमात्मनः ॥ 67॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,67,2268,सर्वसत्त्वगुणः शान्तो गृहीतव्यः सदानघ । सर्वथा त्रिगुणा यूयं सृष्टिस्थित्यन्तकारकाः ॥ 68॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,68,2269,एभिर्विहीनं संसारे वस्तु नैवात्र कुत्रचित् । वस्तुमात्रं तु यद्दृश्यं संसारे त्रिगुणं हि तत् ॥ 69॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,69,2270,दृश्यं च निर्गुणं लोके न भूतं नो भविष्यति । निर्गुणः परमात्मासौ न तु दृश्यः कदाचन ॥ 70॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,70,2271,सगुणा निर्गुणा चाहं समये शङ्करोत्तमा । सदाहं कारणं शम्भो न च कार्यं कदाचन ॥ 71॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,71,2272,सगुणा कारणत्वाद्वै निर्गुणा पुरुषान्तिके । महत्तत्त्वमहङ्कारो गुणाः शब्दादयस्तथा ॥ 72॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,72,2273,कार्यकारणरूपेण संसरन्ते त्वहर्निशम् ॥ सदुद्भूतस्त्वहङ्कारस्तेनाहं कारणं शिवा ॥ 73॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,73,2274,अहङ्कारश्च मे कार्यं त्रिगुणोऽसौ प्रतिष्ठितः । अहङ्कारान्महत्तत्त्वं बुद्धिः सा परिकीर्तिता ॥ 74॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,74,2275,महत्तत्त्वं हि कार्यं स्यादहङ्कारो हि कारणम् । तन्मात्राणि त्वहङ्कारादुत्पद्यन्ते सदैव हि ॥ 75॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,75,2276,कारणं पञ्चभूतानां तानि सर्वसमुद्भवे । कर्मेन्द्रियाणि पञ्चैव पञ्च ज्ञानेन्द्रियाणि च ॥ 76॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,76,2277,महाभूतानि पञ्चैव मनः षोडशमेव च । कार्यञ्च कारणञ्चैव गणोऽयं षोडशात्मकः ॥ 77॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,77,2278,परमात्मा पुमानाद्यो न कार्यं न च कारणम् । एवं समुद्भवः शम्भो सर्वेषामादिसम्भवे ॥ 78॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,78,2279,सङ्क्षेपेण मया प्रोक्तस्तव तत्र समुद्भवः । व्रजन्त्वद्य विमानेन कार्यार्थं मम सत्तमाः ॥ 79॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,79,2280,स्मरणाद्दर्शनं तुभ्यं दास्येऽहं विषमे स्थिते । स्मर्तव्याहं सदा देवाः परमात्मा सनातनः ॥ 80॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,80,2281,उभयोः स्मरणादेव कार्यसिद्धिरसंशयम् । ब्रह्मोवाच । इत्युक्त्वा विससर्जास्मान्दत्त्वा शक्तीः सुसंस्कृताः ॥ 81॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,81,2282,विष्णवेऽथ महालक्ष्मीं महाकालीं शिवाय च । महासरस्वतीं मह्यं स्थानात्तस्माद्विसर्जिताः ॥ 82॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,82,2283,स्थलान्तरं समासाद्य ते जाताः पुरुषा वयम् । चिन्तयन्तः स्वरूपं तत्प्रभावं परमाद्भुतम् ॥ 83॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,83,2284,विमानं तत्समासाद्य संरूढास्तत्र वै त्रयः । न द्वीपोऽसौ न सा देवी सुधासिन्धुस्तथैव च ॥ पुनर्दृष्टं विमानं वै तत्रास्माभिर्न चान्यथा ॥ 84॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,84,2285,आसाद्य तस्मिन्वितते विमाने प्राप्ता वयं पङ्कजसन्निधौ च । महार्णवे यत्र हतौ दुरत्ययौ मुरारिणा तौ मधुकैटभाख्यौ ॥ 85॥ 3,३.६,षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।,85,2286,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे ब्रह्मणे श्रीदेव्या उपदेशवर्णनं नाम षष्ठोऽध्यायः ॥ ३.६॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,0,2287,ब्रह्मोवाच । एवम्प्रभावा सा देवी मया दृष्टाथ विष्णुना । शिवेनापि महाभाग तास्ता देव्यः पृथक्पृथक् ॥ 1॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,1,2288,व्यास उवाच । इत्याकर्ण्य पितुर्वाक्यं नारदो मुनिसत्तमः । पप्रच्छ परमप्रीतः प्रजापतिमिदं वचः ॥ 2॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,2,2289,नारद उवाच । पुमानाद्योऽविनाशी यो निर्गुणोऽच्युतिरव्ययः । दृष्टश्चैवानुभूतश्च तद्वदस्व पितामह ॥ 3॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,3,2290,त्रिगुणा वीक्षिता शक्तिर्निर्गुणा कीदृशी पितः । तस्याः स्वरूपं मे ब्रूहि पुरुषस्य च पद्मज ॥ 4॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,4,2291,यदर्थञ्च मया तप्तं श्वेतद्वीपे महातपः । दृष्टाः सिद्धा महात्मानस्तापसा गतमन्यवः ॥ 5॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,5,2292,परमात्मा न सम्प्राप्तो मयाऽसौ दृष्टिगोचरः । पुनः पुनस्तपस्तीव्रं कृतं तत्र प्रजापते ॥ 6॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,6,2293,भवता सगुणा शक्तिर्दृष्टा तात मनोरमा । निर्गुणा निर्गुणश्चैव कीदृशौ तौ वदस्व मे ॥ 7॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,7,2294,व्यास उवाच । इति पृष्ठः पिता तेन नारदेन प्रजापतिः । उवाच वचनं तथ्यं स्मितपूर्वं पितामहः ॥ 8॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,8,2295,ब्रह्मोवाच । निर्गुणस्य मुने रूपं न भवेद्दृष्टिगोचरम् । दृश्यञ्च नश्वरं यस्मादरूपं दृश्यते कथम् ॥ 9॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,9,2296,निर्गुणा दुर्गमा शक्तिर्निर्गुणश्च तथा पुमान् । ज्ञानगम्यौ मुनीनां तु भावनीयौ तथा पुनः ॥ 10॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,10,2297,अनादिनिधनौ विद्धि सदा प्रकृतिपूरुषौ । विश्वासेनाभिगम्यौ तौ नाविश्वासेन कर्हिचित् ॥ 11॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,11,2298,चैतन्यं सर्वभूतेषु यत्तद्विद्धि परात्मकम् । तेजः सर्वत्रगं नित्यं नानाभावेषु नारद ॥ 12॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,12,2299,तञ्च ताञ्च महाभाग व्यापकौ विद्धि सर्वगौ । ताभ्यां विहीनं संसारे न किञ्चिद्वस्तु विद्यते ॥ 13॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,13,2300,तौ विचिन्त्यौ सदा देहे मिश्रीभूतौ सदाव्ययौ । एकरूपौ चिदात्मानौ निगुणौ निर्मलावुभौ ॥ 14॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,14,2301,या शक्तिः परमात्माऽसौ सा योऽसौ सा परमा मता । अन्तरं नैतयोः कोऽपि सूक्ष्मं वेद च नारद ॥ 15॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,15,2302,अधीत्य सर्वशास्त्राणि वेदान्साङ्गांश्च नारद । न जानाति तयोः सूक्ष्ममन्तरं विरतिं विना ॥ 16॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,16,2303,अहङ्कारकृतं सर्वं विश्वं स्थावरजङ्गमम् । कथं तद्रहितं पुत्र भवेत्कल्पशतैरपि ॥ 17॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,17,2304,निर्गुणं सगुणः पुत्र कथं पश्यति चक्षुषा । सगुणं च महाबुद्धे चेतसा संविचारय ॥ 18॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,18,2305,पित्तेनाच्छादिता जिह्वा चक्षुश्च मुनिसत्तम । कटु पित्तं विजानाति रसं रूपं न तत्तथा ॥ 19॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,19,2306,गुणैः समावृतं चेतः कथं जानाति निर्गुणम् । अहङ्कारोद्भवं तच्च तद्विहीनं कथं भवेत् ॥ 20॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,20,2307,यावन्न गुणविच्छेदस्तावत्तद्दर्शनं कुतः । तं पश्यति तदा चित्ते यदाऽहङ्कारवर्जितः ॥ 21॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,21,2308,नारद उवाच । स्वरूपं देवदेवेश त्रयाणामेव विस्तरात् । गुणानां यत्स्वरूपोऽस्ति ह्यहङ्कारस्त्रिरूपकः ॥ 22॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,22,2309,सात्त्विको राजसश्चैव तामसश्च तथापरः । विभेदेन स्वरूपाणि वदस्व पुरुषोत्तम ॥ 23॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,23,2310,यज्ज्ञात्वा विप्रमुच्येऽहं ज्ञानं तद्वद मे प्रभो । गुणानां लक्षणान्येव विततानि विभागशः ॥ 24॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,24,2311,ब्रह्मोवाच । त्रयाणां शक्तयस्तिस्त्रस्तद्ब्रवीमि तवानघ । ज्ञानशक्तिः क्रियाशक्तिरर्थशक्तिस्तथापरा ॥ 25॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,25,2312,सात्त्विकस्य ज्ञानशक्ती राजसस्य क्रियात्मिका । द्रव्यशक्तिस्तामसस्य तिस्रश्च कथितास्तव ॥ 26॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,26,2313,तेषां कार्याणि वक्ष्यामि श‍ृणु नारद तत्त्वतः । तामस्या द्रव्यशक्तेश्च शब्दस्पर्शसमुद्भवः ॥ 27॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,27,2314,रूपं रसश्च गन्धश्च तन्मात्राणि प्रचक्षते । शब्दैकगुणमाकाशं वायुः स्पर्शगुणस्तथा ॥ 28॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,28,2315,सुरूपैकगुणोऽग्निश्च जलं रसगुणात्मकम् । पृथ्वी गन्धगुणा ज्ञेया सूक्ष्माण्येतानि नारद ॥ 29॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,29,2316,दशैतानि मिलित्वा तु द्रव्यशक्तियुतानि वै । तामसाहङ्कारजः स्यात्सर्गस्तदनुवृत्तिकः ॥ 30॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,30,2317,राजस्याश्च क्रियाशक्तेरुत्पन्नानि श‍ृणुष्व मे । श्रोत्रं त्वग्रसना चक्षुर्घ्राणं चैव च पञ्चमम् ॥ 31॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,31,2318,ज्ञानेन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च । वाक्पाणिपादपायुश्च गुह्यान्तानि च पञ्च वै ॥ 32॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,32,2319,प्राणोऽपानश्च व्यानश्च समानोदानवायवः । पञ्चदश मिलित्वैव राजसः सर्ग उच्यते ॥ 33॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,33,2320,साधनानि किलैतानि क्रियाशक्तिमयानि च । उपादानं किलैतेषां चिदनुवृत्तिरुच्यते ॥ 34॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,34,2321,ज्ञानशक्तिसमायुक्ताः सात्त्विकाच्च समुद्भवाः । दिशो वायुश्च सूर्यश्च वरुणश्चाश्विनावपि ॥ 35॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,35,2322,ज्ञानेन्द्रियाणां पञ्चानां पञ्चाधिष्ठातृदेवताः । चन्द्रो ब्रह्मा तथा रुद्रः क्षेत्रज्ञश्च चतुर्थकः ॥ 36॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,36,2323,इत्यन्तःकरणाख्यस्य बुद्ध्यादेश्चाधिदैवतम् । चत्वार्येव तथा प्रोक्ताः किलाधिष्ठातृदेवताः ॥ 37॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,37,2324,मनसा सह चैतानि नूनं पञ्चदशैव तु । सात्त्विकस्य तु सर्गोऽयं सात्त्विकाख्यः प्रकीर्तितः ॥ 38॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,38,2325,स्थूलसूक्ष्मादिभेदेन द्वे रूपे परमात्मनः । ज्ञानरूपं निराकारं निदानं तत्प्रचक्षते ॥ 39॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,39,2326,साधकस्य तु ध्यानादौ स्थूलरूपं प्रचक्षते । शरीरं सूक्ष्ममेवेदं पुरुषस्य प्रकीर्तितम् ॥ 40॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,40,2327,मम चैव शरीरं वै सूत्रमित्यभिधीयते । स्थूलं शरीरं वक्ष्यामि ब्रह्मणः परमात्मनः ॥ 41॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,41,2328,श‍ृणु नारद यत्नेन यच्छ्रुत्वा विप्रमुच्यते । तन्मात्राणि पुरोक्तानि भूतसूक्ष्माणि यानि वै ॥ 42॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,42,2329,पञ्चीकृत्य तु तान्येव पञ्चभूतसमुद्भवः । पञ्चीकरणभेदोऽयं श‍ृणु संवदतः किल ॥ 43॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,43,2330,प्रथमं रसतन्मात्रामुपादाय मनस्यपि । कल्पयेच्च तथा तद्वै यथा भवति चोदकम् ॥ 44॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,44,2331,शिष्टानां चैव भूतानामंशान्कृत्वा पृथक्पृथक् । उदके मिश्रयेच्चांशान्कृते रसमये ततः ॥ 45॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,45,2332,तदा भूतविभागे च चैतन्ये च प्रकाशिते । चैतन्यस्य प्रवेशात्तु तदाऽहमिति संशयः ॥ 46॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,46,2333,प्रतीयमाने तेनैव विशेषेणाभिमानतः । आदिनारायणो देवो भगवानिति चोच्यते ॥ 47॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,47,2334,घनीभूतेऽथ भूतानां विभागे स्पष्टतां गते । वृद्धिं प्राप्य गुणैश्चेत्थमेकैकगुणवृद्धितः ॥ 48॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,48,2335,आकाशस्य गुणश्चैकः शब्द एव न चापरः । शब्दस्पर्शौ च वायोश्च द्वौ गुणौ परिकीर्तितौ ॥ 49॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,49,2336,अग्नेः शब्दश्च स्पर्शश्च रूपमेते त्रयो गुणाः । शब्दस्पर्शरूपरसाश्चत्वारो वै जलस्य च ॥ 50॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,50,2337,स्पर्शशब्दरसा रूपं गन्धश्च पृथिवीगुणाः । एवं मिलितयोगैश्च ब्रह्माण्डोत्पत्तिरुच्यते ॥ 51॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,51,2338,सर्वे जीवा मिलित्वैव ब्रह्माण्डांशसमुद्भवाः । चतुरशीतिलक्षाश्च प्रोक्ता वै जीवजातयः ॥ 52॥ 3,३.७,सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।,52,2339,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे तत्त्वनिरूपणवर्णनं नाम सप्तमोऽध्यायः ॥ ३.७॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,0,2340,ब्रह्मोवाच । सर्गोऽयं कथितस्तात यत्पृष्टोऽहं त्वयाऽधुना । गुणानां रूपसंस्थां वै श‍ृणुष्वैकाग्रमानसः ॥ 1॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,1,2341,सत्त्वं प्रीत्यात्मकं ज्ञेयं सुखात्प्रीतिसमुद्भवः । आर्जवं च तथा सत्यं शौचं श्रद्धा क्षमा धृतिः ॥ 2॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,2,2342,अनुकम्पा तथा लज्जा शान्तिः सन्तोष एव च । एतैः सत्त्वप्रतीतिश्च जायते निश्चला सदा ॥ 3॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,3,2343,श्वेतवर्णं तथा सत्त्वं धर्मे प्रीतिकरः सदा । सच्छ्रद्धोत्पादकं नित्यमसच्छ्रद्धानिवारकम् ॥ 4॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,4,2344,सात्त्विकी राजसी चैव तामसी च तथापरा । श्रद्धा तु त्रिविधा प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः ॥ 5॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,5,2345,रक्तवर्णं रजः प्रोक्तमप्रीतिकरमद्भुतम् । अप्रीतिर्दुःखयोगत्वाद्भवत्येव सुनिश्चिता ॥ 6॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,6,2346,प्रद्वेषोऽथ तथा द्रोहो मत्सरः स्तम्भ एव च । उत्कण्ठा च तथा निद्रा श्रद्धा तत्र च राजसी ॥ 7॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,7,2347,मानो मदस्तथा गर्वो रजसा किल जायते । प्रत्येतव्यं रजस्त्वेतैर्लक्षणैश्च विचक्षणैः ॥ 8॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,8,2348,कृष्णवर्णं तमः प्रोक्तं मोहनं च विषादकृत् । आलस्यं च तथाऽज्ञानं निद्रा दैन्यं भयं तथा ॥ 9॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,9,2349,विवादश्चैव कार्पण्यं कौटिल्यं रोष एव च । वैषम्यं वातिनास्तिक्यं परदोषानुदर्शनम् ॥ 10॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,10,2350,प्रत्येतव्यं तमस्त्वेतैर्लक्षणैः सर्वथा बुधैः । तामस्या श्रद्धया युक्तं परतापोपपादकम् ॥ 11॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,11,2351,सत्त्वं प्रकाशयितव्यं नियन्तव्यं रजः सदा । संहर्तव्यं तमः कामं जनेन शुभमिच्छता ॥ 12॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,12,2352,अन्योन्याभिभवाच्चैते विरुध्यन्ति परस्परम् । तथोऽन्योन्याश्रयाः सर्वे न तिष्ठन्ति निराश्रयाः ॥ 13॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,13,2353,सत्त्वं न केवलं क्वापि न रजो न तमस्तथा । मिलिताश्च सदा सर्वे तेनान्योन्याश्रयाः स्मृताः ॥ 14॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,14,2354,अन्योन्यमिथुनाच्चैव विस्तारं कथयाम्यहम् । श‍ृणु नारद यज्ज्ञात्वा मुच्यते भवबन्धनात् ॥ 15॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,15,2355,सन्देहोऽत्र न कर्तव्यो ज्ञात्वेत्युक्तं मया वचः । ज्ञातं तदनुभूतं यत्परिज्ञातं फले सति ॥ 16॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,16,2356,श्रवणाद्दर्शनाच्चैव सपद्येव महामते । संस्कारानुभवाच्चैव परिज्ञातं न जायते ॥ 17॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,17,2357,श्रुतं तीर्थं पवित्रञ्च श्रद्धोत्पन्ना च राजसी । निर्गतस्तत्र तीर्थे वै दृष्टं चैव यथाश्रुतम् ॥ 18॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,18,2358,स्नातस्तत्र कृतं कृत्यं दत्तं दानं च राजसम् । स्थितस्तत्र कियत्कालं रजोगुणसमावृतः ॥ 19॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,19,2359,रागद्वेषान्न निर्मुक्तः कामक्रोधसमावृतः । पुनरेव गृहं प्राप्तो यथापूर्वं तथा स्थितः ॥ 20॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,20,2360,श्रुतं च नानुभूतं वै तेन तीर्थं मुनीश्वर । न प्राप्तं च फलं यस्मादश्रुतं विद्धि नारद ॥ 21॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,21,2361,निष्पापत्वं बलं विद्धि तीर्थस्य मुनिसत्तम । कृषेः फलं यथा लोके निष्पन्नान्नस्य भक्षणम् ॥ 22॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,22,2362,पापदेहविकारा ये कामक्रोधादयः परे । लोभो मोहस्तथा तृष्णा द्वेषो रागस्तथा मदः ॥ 23॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,23,2363,असूयेर्ष्याक्षमाशान्तिः पापान्येतानि नारद । न निर्गतानि देहात्तु तावत्पापयुतो नरः ॥ 24॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,24,2364,कृते तीर्थे यदैतानि देहान्न निर्गतानि चेत् । निष्फलः श्रम एवैकः कर्षकस्य यथा तथा ॥ 25॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,25,2365,श्रमेणापीडितं क्षेत्रं कृष्टा भूमिः सुदुर्घटा । उप्तं बीजं महार्घं च हिता वृत्तिरुदाहृता ॥ 26॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,26,2366,अहोरात्रं परिक्लिष्टो रक्षणार्थं फलोत्सुकः । काले सुप्तस्तु हेमन्ते वने व्याघ्रादिभिर्भृशम् ॥ 27॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,27,2367,भक्षितं शलभैः सर्वं निराशश्च कृतः पुनः । तद्वत्तीर्थश्रमः पुत्र कष्टदो न फलप्रदः ॥ 28॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,28,2368,सत्त्वं समुत्कटं जातं प्रवृद्धं शास्त्रदर्शनात् । वैराग्यं तत्फलं जातं तामसार्थेषु नारद ॥ 29॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,29,2369,प्रसह्याभिभवत्येव तद्रजस्तमसी उभे । रजः समुत्कटं जातं प्रवृत्तं लोभयोगतः ॥ 30॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,30,2370,तत्तथाभिभवत्येव तमःसत्त्वे तथा उभे । तमस्तथोत्कटं भूत्वा प्रवृद्धं मोहयोगतः ॥ 31॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,31,2371,तत्सत्त्वरजसी चोभे सङ्गम्याभिभवत्यपि । विस्तरं कथयाम्यद्य यथाभिभवतीति वै ॥ 32॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,32,2372,यदा सत्त्वं प्रवृद्धं वै मतिर्धर्मे स्थिता तदा । न चिन्तयति बाह्यार्थं रजस्तमःसमुद्भवम् ॥ 33॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,33,2373,अर्थं सत्त्वसमुद्भूतं गृह्णाति च न चान्यथा । अनायासकृतं चार्थं धर्मं यज्ञं च वाञ्छति ॥ 34॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,34,2374,सात्त्विकेष्वेव भोगेषु कामं वै कुरुते तदा । राजसेषु न मोक्षार्थं तामसेषु पुनः कुतः ॥ 35॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,35,2375,एवं जित्वा रजः पूर्वं ततश्च तमसो जयः । सत्त्वं च केवलं पुत्र तदा भवति निर्मलम् ॥ 36॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,36,2376,यदा रजः प्रवृद्धं वै त्यक्त्वा धर्मान् सनातनान् । अन्यथाकुरुते धर्माच्छ्रद्धां प्राप्य तु राजसीम् ॥ 37॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,37,2377,राजसादर्थसंवृद्धिस्तथा भोगस्तु राजसः । सत्त्वं विनिर्गतं तेन तमसश्चापि निग्रहः ॥ 38॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,38,2378,यदा तमो विवृद्धं स्यादुत्कटं सम्बभूव ह । तदा वेदे न विश्वासो धर्मशास्त्रे तथैव च ॥ 39॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,39,2379,श्रद्धां च तामसीं प्राप्य करोति च धनात्ययम् । द्रोहं सर्वत्र कुरुते न शान्तिमधिगच्छति ॥ 40॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,40,2380,जित्वा सत्त्वं रजश्चैव क्रोधनो दुर्मतिः शठः । वर्तते कामचारेण भावेषु विततेषु च ॥ 41॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,41,2381,एकं सत्त्वं न भवति रजश्चैकं तमस्तथा । सहैवाश्रित्य वर्तन्ते गुणा मिथुनधर्मिणः ॥ 42॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,42,2382,रजो विना न सत्त्वं स्याद्रजः सत्त्वं विना क्वचित् । तमो विना न चैवैते वर्तन्ते पुरुषर्षभ ॥ 43॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,43,2383,तमस्ताभ्यां विहीनं तु केवलं न कदाचन । सर्वे मिथुनधर्माणो गुणाः कार्यान्तरेषु वै ॥ 44॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,44,2384,अन्योन्यसंश्रिताः सर्वे तिष्ठन्ति न वियोजिताः । अन्योन्यजनकाश्चैव यतः प्रसवधर्मिणः ॥ 45॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,45,2385,सत्त्वं कदाचिच्च रजस्तमसी जनयत्युत । कदाचित्तु रजः सत्त्वतमसी जनयत्यपि ॥ 46॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,46,2386,कदाचित्तु तमः सत्त्वरजसी जनयत्युभे । जनयन्त्येवमन्योन्यं मृत्पिण्डश्च घटं यथा ॥ 47॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,47,2387,बुद्धिस्थास्ते गुणाः कामान्बोधयन्ति परस्परम् । देवदत्तविष्णुमित्रयज्ञदत्तादयो यथा ॥ 48॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,48,2388,यथा स्त्रीपुरुषश्चैव मिथुनौ च परस्परम् । तथा गुणाः समायान्ति युग्मभावं परस्परम् ॥ 49॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,49,2389,रजसो मिथुने सत्त्वं सत्त्वस्य मिथुने रजः । उभे ते सत्त्वरजसी तमसो मिथुने विदुः ॥ 50॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,50,2390,नारद उवाच । इत्येतत्कथितं पित्रा गुणरूपमनुत्तमम् । श्रुत्वाप्येतत्स एवाहं ततोऽपृच्छं पितामहम् ॥ 51॥ 3,३.८,अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।,51,2391,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे गुणानां रूपसंस्थानादिवर्णनं नाम अष्टमोऽध्यायः ॥ ३.८॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,0,2392,नारद उवाच । गुणानां लक्षणं तात भवता कथितं किल । न तृप्तोऽस्मि पिबन्मिष्टं त्वन्मुखात्प्रच्युतं रसम् ॥ 1॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,1,2393,गुणानां तु परिज्ञानं यथावदनुवर्णय । येनाहं परमां शान्तिमधिगच्छामि चेतसि ॥ 2॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,2,2394,व्यास उवाच । इति पृष्टस्तु पुत्रेण नारदेन महात्मना । उवाच च जगत्कर्ता रजोगुणसमुद्भवः ॥ 3॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,3,2395,ब्रह्मोवाच । श‍ृणु नारद वक्ष्यामि गुणानां परिवर्णनम् । सम्यङ् नाहं विजानामि यथामति वदामि ते ॥ 4॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,4,2396,सत्त्वं तु केवलं नैव कुत्रापि परिलक्ष्यते । मिश्रीभावात्तु तेषां वै मिश्रत्वं प्रतिभाति वै ॥ 5॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,5,2397,यथा काचिद्वरा नारी सर्वभूषणभूषिता । हावभावयुता कामं भर्तुः प्रीतिकरी भवेत् ॥ 6॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,6,2398,मातापित्रोस्तथा सैव बन्धुवर्गस्य प्रीतिदा । दुःखं मोहं सपत्नीषु जनयत्यपि सैव हि ॥ 7॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,7,2399,एवं सत्त्वेन तेनैव स्त्रीत्वमापादितेन च । रजसस्तमसश्चैव जनिता वृत्तिरन्यथा ॥ 8॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,8,2400,रजसा स्त्रीकृतेनैव तमसा च तथा पुनः । अन्योन्यस्य समायोगादन्यथा प्रतिभाति वै ॥ 9॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,9,2401,अवस्थानात्स्वभावेषु न वै जात्यन्तराणि च । लक्ष्यते विपरीतानि योगान्नारद कुत्रचित् ॥ 10॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,10,2402,यथा रूपवती नारी यौवनेन विभूषिता । लज्जामाधुर्ययुक्ता च तथा विनयसंयुता ॥ 11॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,11,2403,कामशास्त्रविधिज्ञा च धर्मशास्त्रेऽपि सम्मता । भर्तुःप्रीतिकरी भूत्वा सपत्नीनां च दुःखदा ॥ 12॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,12,2404,मोहदुःखस्वभावस्था सत्त्वस्थेत्युच्यते जनैः । तथा सत्त्वं विकुर्वाणमन्यभावं विभाति वै ॥ 13॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,13,2405,चोरैरुपद्रुतानां हि साधूनां सुखदा भवेत् । दुःखा मूढा च दस्यूनां सैव सेना तथागुणा ॥ 14॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,14,2406,विपरीतप्रतीतिं वै वर्जयन्ति स्वभावतः । यथा च दुर्दिनं जातं महामेघघनावृतम् ॥ 15॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,15,2407,विद्युत्स्तनितसंयुक्तं तिमिरेणावगुण्ठितम् । सिञ्चद्भूमिं प्रवर्षद्वै तमोरूपमुदाहृतम् ॥ 16॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,16,2408,यदेतत्कर्षकाणां वै तदेवातीव दुर्दिनम् । बीजोपस्करयुक्तानां सुखदं प्रभवत्युत ॥ 17॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,17,2409,अप्रच्छन्नगृहाणां च दुर्भगानां विशेषतः । तृणकाष्ठगृहीतानां दुःखदं गृहमेधिनाम् ॥ 18॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,18,2410,प्रोषितभर्तृकाणां वै मोहदं प्रवदन्त्यपि । स्वभावस्था गुणाः सर्वे विपरीता विभान्ति वै ॥ 19॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,19,2411,लक्षणानि पुनस्तेषां श‍ृणु पुत्र ब्रवीम्यहम् । लघुप्रकाशकं सत्त्वं निर्मलं विशदं सदा ॥ 20॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,20,2412,यदाङ्गानि लघून्येव नेत्रादीनीन्द्रियाणि च । निर्मलं च तथा चेतो गृह्णाति विषयान्न तान् ॥ 21॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,21,2413,तदा सत्त्वं शरीरे वै मन्तव्यञ्च समुत्कटम् । जृम्भां स्तम्भं च तन्द्रां च चलञ्चैव रजः पुनः ॥ 22॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,22,2414,यदा तदुत्कटं जातं देहे यस्य च कस्यचित् । कलिं मृगयते कर्तुं गन्तुं ग्रामान्तरं तथा ॥ 23॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,23,2415,चलचित्तस्य सोऽत्यर्थं विवादे चोद्यतस्तथा । गुरुमावरणं कामं तमो भवति तद्यदा ॥ 24॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,24,2416,तदाङ्गानि गुरूण्याशु प्रभवन्त्यावृतानि च । इन्द्रियाणि मनः शून्यं निद्रां नैवाभिवाञ्छति ॥ 25॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,25,2417,गुणानां लक्षणान्येवं विज्ञेयानीह नारद । नारद उवाच । विभिन्नलक्षणाः प्रोक्ताः पितामह गुणास्त्रयः ॥ 26॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,26,2418,कथमेकत्र संस्थाने कार्यं कुर्वन्ति शाश्वतम् । परस्परं मिलित्वा हि विभिन्नाः शत्रवः किल ॥ 27॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,27,2419,एकत्रस्थाः कथं कार्यं कुर्वन्तीति वदस्व मे । ब्रह्मोवाच । श‍ृणु पुत्र प्रवक्ष्यामि गुणास्ते दीपवृत्तयः ॥ 28॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,28,2420,प्रदीपश्च यथा कार्यं प्रकरोत्यर्थदर्शनम् । वर्तिस्तैलं यथार्चिश्च विरुद्धाश्च परस्परम् ॥ 29॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,29,2421,विरुद्धं हि तथा तैलमग्निना सह सङ्गतम् । तैलं वर्तिविरोध्येव पावकोऽपि परस्परम् ॥ 30॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,30,2422,एकत्रस्थाः पदार्थानां प्रकुर्वन्ति प्रदर्शनम् । नारद उवाच । एवं प्रकृतिजाः प्रोक्ता गुणाः सत्यवतीसुत ॥ 31॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,31,2423,विश्वस्य कारणं ते वै मया पूर्वं यथा श्रुतम् । व्यास उवाच । इत्युक्तं नारदेनाथ मम सर्वं सविस्तरम् ॥ 32॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,32,2424,गुणानां लक्षणं सर्वं कार्यं चैव विभागशः । आराध्या परमा शक्तिर्यया सर्वमिदं ततम् ॥ 33॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,33,2425,सगुणा निर्गुणा चैव कार्यभेदे सदैव हि । अकर्ता पुरुषः पूर्णो निरीहः परमोऽव्ययः ॥ 34॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,34,2426,करोत्येषा महामाया विश्वं सदसदात्मकम् । ब्रह्मा विष्णुस्तथा रुद्रःसूर्यश्चन्द्रः शचीपतिः ॥ 35॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,35,2427,अश्विनौ वसवस्त्वष्टा कुबेरो यादसां पतिः । वह्निर्वायुस्तथा पूषा सेनानीश्च विनायकः ॥ 36॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,36,2428,सर्वे शक्तियुताः शक्ताः कर्तुं कार्याणि स्वानि च । अन्यथा तेऽप्यशक्ता वै प्रस्पन्दितुमनीश्वराः ॥ 37॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,37,2429,सा चैव कारणं राजन् जगतः परमेश्वरी । समाराधय तां भूप कुरु यज्ञं जनाधिप ॥ 38॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,38,2430,पूजनं परया भक्त्या तस्या एव विधानतः । महालक्ष्मीर्महाकाली तथा महासरस्वती ॥ 39॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,39,2431,ईश्वरी सर्वभूतानां सर्वकारणकारणम् । सर्वकामार्थदा शान्ता सुखसेव्या दयान्विता ॥ 40॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,40,2432,नामोच्चारणमात्रेण वाञ्छितार्थफलप्रदा । देवैराराधिता पूर्वं ब्रह्मविष्णुमहेश्वरैः ॥ 41॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,41,2433,मोक्षकामैश्च विविधैस्तापसैर्विजितात्मभिः । अस्पष्टमपि यन्नाम प्रसङ्गेनापि भाषितम् ॥ 42॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,42,2434,ददाति वाञ्छितानर्थान्दुर्लभानपि सर्वथा । ऐ ऐ इति भयार्तेन दृष्ट्वा व्याघ्रादिकं वने ॥ 43॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,43,2435,बिन्दुहीनमपीत्युक्तं वाञ्छितं प्रददाति वै । तत्र सत्यव्रतस्यैव दृष्टान्तो नृपसत्तम ॥ 44॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,44,2436,प्रत्यक्ष एव चास्माकं मुनीनां भावितात्मनाम् । ब्राह्मणानां समाजेषु तस्योदाहरणं बुधैः ॥ 45॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,45,2437,कथ्यमानं मया राजञ्छ्रुतं सर्वं सविस्तरम् । अनक्षरो महामूर्खो नाम्ना सत्यव्रतो द्विजः ॥ 46॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,46,2438,श्रुत्वाऽक्षरं कोलमुखात्समुच्चार्य स्वयं ततः । बिन्दुहीनं प्रसङ्गेन जातोऽसौ विबुधोत्तमः ॥ 47॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,47,2439,ऐकारोच्चारणाद्देवी तुष्टा भगवती तदा । चकार कविराजं तं दयार्द्रा परमेश्वरी ॥ 48॥ 3,३.९,नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।,48,2440,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे गुणपरिज्ञानवर्णनं नाम नवमोऽध्यायः ॥ ३.९॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,0,2441,जनमेजय उवाच । कोऽसौ सत्यव्रतो नाम ब्राह्मणो द्विजसत्तमः । कस्मिन्देशे समुत्पन्नः कीदृशश्च वदस्व मे ॥ 1॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,1,2442,कथं तेन श्रुतः शब्दः कथमुच्चारितः पुनः । सिद्धिश्च कीदृशी जाता तस्य विप्रस्य तत्क्षणात् ॥ 2॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,2,2443,कथं तुष्टा भवानी सा सर्वज्ञा सर्वसंस्थिता । विस्तरेण वदस्वाद्य कथामेतां मनोरमाम् ॥ 3॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,3,2444,सूत उवाच । इति पृष्टस्तदा राज्ञा व्यासः सत्यवतीसुतः । उवाच परमोदारं वचनं रसवच्छुचि ॥ 4॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,4,2445,व्यास उवाच । श‍ृणु राजन् प्रवक्ष्यामि कथां पौराणिकीं शुभाम् । श्रुता मुनिसमाजेषु मया पूर्वं कुरूद्वह ॥ 5॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,5,2446,एकदाऽहं कुरुश्रेष्ठ कुर्वंस्तीर्थाटनं शुचि । सम्प्राप्तो नैमिषारण्यं पावनं मुनिसेवितम् ॥ 6॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,6,2447,प्रणम्याहं मुनीन्सर्वान् स्थितस्तत्र वराश्रमे । विधिपुत्रास्तु यत्रासञ्जीवन्मुक्ता महाव्रताः ॥ 7॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,7,2448,कथाप्रसङ्ग एवासीत्तत्र विप्रसमागमे । जमदग्निस्तु पप्रच्छ मुनीनेवं समास्थितः ॥ 8॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,8,2449,जमदग्निरुवाच । सन्देहोऽस्ति महाभागा मम चेतसि तापसाः । समाजेषु मुनीनां वै निःसन्देहो भवाम्यहम् ॥ 9॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,9,2450,ब्रह्मा विष्णुस्तथा रुद्रो मघवा वरुणोऽनलः । कुबेरः पवनस्त्वष्टा सेनानीश्च गणाधिपः ॥ 10॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,10,2451,सूर्योऽश्विनौ भगः पूषा निशानाथो ग्रहास्तथा । आराधनीयतमः कोऽत्र वाञ्छितार्थफलप्रदः ॥ 11॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,11,2452,सुखसेव्यश्च सततं चाशुतोषश्च मानदाः । ब्रुवन्तु मुनयः शीघ्रं सर्वज्ञाः संशितव्रताः ॥ 12॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,12,2453,एवं प्रश्ने कृते तत्र लोमशो वाक्यमब्रवीत् । जमदग्ने श‍ृणुष्वैतद्यत्पृष्टं वै त्वयाऽधुना ॥ 13॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,13,2454,सेवनीयतमा शक्तिः सर्वेषां शुभमिच्छताम् । परा प्रकृतिराद्या च सर्वगा सर्वदा शिवा ॥ 14॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,14,2455,देवानां जननी सैव ब्रह्मादीनां महात्मनाम् । आदिप्रकृतिमूलं सा संसारपादपस्य वै ॥ 15॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,15,2456,स्मृता चोच्चारिता देवी ददाति किल वाञ्छितम् । सर्वदैवार्द्रचित्ता सा वरदानाय सेविता ॥ 16॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,16,2457,इतिहासं प्रवक्ष्यामि श‍ृण्वन्तु मुनयः शुभम् । अक्षरोच्चारणादेव यथा प्राप्तं द्विजेन वै ॥ 17॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,17,2458,कोसलेषु द्विजः कश्चिद्देवदत्तेति विश्रुतः । अनपत्यश्चकारेष्टिं पुत्राय विधिपूर्वकम् ॥ 18॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,18,2459,तमसातीरमास्थाय कृत्वा मण्डपमुत्तमम् । द्विजानाहूय वेदज्ञान्सत्रकर्मविशारदान् ॥ 19॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,19,2460,कृत्वा वेदीं विधानेन स्थापयित्वा विभावसून् । पुत्रेष्टिं विधिवत्तत्र चकार द्विजसत्तमः ॥ 20॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,20,2461,ब्रह्माणं कल्पयामास सुहोत्रं मुनिसत्तमम् । अध्वर्युं याज्ञवल्क्यं च होतारं च बृहस्पतिम् ॥ 21॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,21,2462,प्रस्तोतारं तथा पैलमुद्गातारं च गोभिलम् । सभ्यानन्यान्मुनीन्कृत्वा विधिवत्प्रददौ वसु ॥ 22॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,22,2463,उद्गाता सामगः श्रेष्ठः सप्तस्वरसमन्वितम् । रथन्तरमगायत्तु स्वरितेन समन्वितम् ॥ 23॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,23,2464,तदाऽस्य स्वरभङ्गोऽभूत्कृते श्वासे मुहुर्मुहुः । देवदत्तश्चुकोपाशु गोभिलं प्रत्युवाच ह ॥ 24॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,24,2465,मूर्खोऽसि मुनिमुख्याद्य स्वरभङ्गस्त्वया कृतः । काम्यकर्मणि सञ्जाते पुत्रार्थं यजतश्च मे ॥ 25॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,25,2466,गोभिलस्तु तदोवाच देवदत्तं सुकोपितः । मूर्खस्ते भविता पुत्रः शठः शब्दविवर्जितः ॥ 26॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,26,2467,सर्वप्राणिशरीरे तु श्वासोच्छ्वासः सुदुर्ग्रहः । न मेऽत्र दूषणं किञ्चित्स्वरभङ्गे महामते ॥ 27॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,27,2468,तच्छ्रुत्वा वचनं तस्य गोभिलस्य महात्मनः । शापाद्भीतो देवदत्तस्तमुवाचातिदुःखितः ॥ 28॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,28,2469,कथं क्रुद्धोऽसि विप्रेन्द्र वृथा मयि निरागसि । अक्रोधना हि मुनयो भवन्ति सुखदाः सदा ॥ 29॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,29,2470,स्वल्पेऽपराधे विप्रेन्द्र कथं शप्तस्त्वया ह्यहम् । अपुत्रोऽहं सुतप्तः प्राक् तापयुक्तः पुनः कृतः ॥ 30॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,30,2471,मूर्खपुत्रादपुत्रत्वं वरं वेदविदो विदुः । तथापि ब्राह्मणो मूर्खः सर्वेषां निन्द्य एव हि ॥ 31॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,31,2472,पशुवच्छूद्रवच्चैव न योग्यः सर्वकर्मसु । किं करोमीह मूर्खेण पुत्रेण द्विजसत्तम ॥ 32॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,32,2473,यथा शूद्रस्तथा मूर्खो ब्राह्मणो नात्र संशयः । न पूजार्हो न दानार्हो निन्द्यश्च सर्वकर्मसु ॥ 33॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,33,2474,देशे वै वसमानश्च ब्राह्मणो वेदवर्जितः । करदः शूद्रवच्चैव मन्तव्यः स च भूभुजा ॥ 34॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,34,2475,नासने पितृकार्येषु देवकार्येषु स द्विजः । मूर्खः समुपवेश्यश्च कार्यश्च फलमिच्छता ॥ 35॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,35,2476,राज्ञा शूद्रसमो ज्ञेयो न योज्यः सर्वकर्मसु । कर्षकस्तु द्विजः कार्यो ब्राह्मणो वेदवर्जितः ॥ 36॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,36,2477,विना विप्रेण कर्तव्यं श्राद्धं कुशचटेन वै । न तु विप्रेण मूर्खेण श्राद्धं कार्यं कदाचन ॥ 37॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,37,2478,आहारादधिकं चान्नं न दातव्यमपण्डिते । दाता नरकमाप्नोति ग्रहीता तु विशेषतः ॥ 38॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,38,2479,धिग्राज्यं तस्य राज्ञो वै यस्य देशेऽबुधा जनाः । पूज्यन्ते ब्राह्मणा मूर्खा दानमानादिकैरपि ॥ 39॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,39,2480,आसने पूजने दाने यत्र भेदो न चाण्वपि । मूर्खपण्डितयोर्भेदो ज्ञातव्यो विबुधेन वै ॥ 40॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,40,2481,मूर्खा यत्र सुगर्विष्ठा दानमानपरिग्रहैः । तस्मिन्देशे न वस्तव्यं पण्डितेन कथञ्चन ॥ 41॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,41,2482,असतामुपकाराय दुर्जनानां विभूतयः । पिचुमन्दः फलाढ्योऽपि काकैरेवोपभुज्यते ॥ 42॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,42,2483,भुक्त्वान्नं वेदविद्विप्रो वेदाभ्यासं करोति वै । क्रीडन्ति पूर्वजास्तस्य स्वर्गे प्रमुदिताः किल ॥ 43॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,43,2484,गोभिलातः विमुक्तं वै त्वया वेदविदुत्तम । संसारे मूर्खपुत्रत्वं मरणादतिगर्हितम् ॥ 44॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,44,2485,कृपां कुरु महाभाग शापस्यानुग्रहं प्रति । दीनोद्धारणशक्तोऽसि पतामि तव पादयोः ॥ 45॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,45,2486,लोमश उवाच । इत्युक्त्वा देवदत्तस्तु पतितस्तस्य पादयोः । स्तुवन्दीनहृदत्यर्थं कृपणः साश्रुलोचनः ॥ 46॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,46,2487,गोभिलस्तु तदा तत्र दृष्ट्वा तं दीनचेतसम् । क्षणकोपा महान्तो वै पापिष्ठाः कल्पकोपनाः ॥ 47॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,47,2488,जलं स्वभावतः शीतं पावकातपयोगतः । उष्णं भवति तच्छीघ्रं तद्विना शिशिरं भवेत् ॥ 48॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,48,2489,दयावान्गोभिलस्त्वाह देवदत्तं सुदुःखितम् । मूर्खो भूत्वा सुतस्ते वै विद्वानपि भविष्यति ॥ 49॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,49,2490,इति दत्तवरः सोऽथ मुदितोऽभूद्द्विजर्षभः । इष्टिं समाप्य विप्रान्वै विससर्ज यथाविधि ॥ 50॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,50,2491,कालेन कियता तस्य भार्या रूपमती सती । गर्भं दधार काले सा रोहिणी रोहिणीसमा ॥ 51॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,51,2492,गर्भाधानादिकं कर्म चकार विधिवद्द्विजः । पुंसवनविधानञ्च श‍ृङ्गारकरणं तथा ॥ 52॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,52,2493,सीमन्तोन्नयनञ्चैव कृतं वेदविधानतः । ददौ दानानि मुदितो मत्वेष्टिं सफलां तथा ॥ 53॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,53,2494,शुभेऽह्नि सुषुवे पुत्रं रोहिणी रोहिणीयुते । दिने लग्ने शुभेऽत्यर्थं जातकर्म चकार सः ॥ 54॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,54,2495,पुत्रदर्शनकं कृत्वा नामकर्म चकार च । उतथ्य इति पुत्रस्य कृतं नाम पुराविदा ॥ 55॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,55,2496,स चाष्टमे तथा वर्षे शुभे वै शुभवासरे । तस्योपनयनं कर्म चकार विधिवत्पिता ॥ 56॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,56,2497,वेदमध्यापयामास गुरुस्तं वै व्रते स्थितम् । नोच्चचार तथोतथ्यः संस्थितो मुग्धवत्तदा ॥ 57॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,57,2498,बहुधा पाठितः पित्रा न दधार मतिं शठः । मूढवत्तिष्ठतेऽत्यर्थं तं शुशोच पिता तदा ॥ 58॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,58,2499,एवं कुर्वन्सदाऽभ्यासं जातो द्वादशवार्षिकः । न वेद विधिवत्कर्तुं सन्ध्यावन्दनकं विधिम् ॥ 59॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,59,2500,मूर्खोऽभूदिति लोकेषु गता वार्ताऽतिविस्तरा । ब्राह्मणेषु च सर्वेषु तापसेष्वितरेषु च ॥ 60॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,60,2501,जहास लोकस्तं विप्रं यत्र तत्र गतं मुने । पिता माता निनिन्दाथ मूर्खं तमतिभर्त्सयन् ॥ 61॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,61,2502,निन्दितोऽथ जनैः कामं पितृभ्यामथ बान्धवैः । वैराग्यमगमद्विप्रो जगाम वनमप्यसौ ॥ 62॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,62,2503,अन्धो वरस्तथा पङ्गुर्न मूर्खस्तु वरः सुतः । इत्युक्तोऽसौ पितृभ्यां वै विवेश काननं प्रति ॥ 63॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,63,2504,गङ्गातीरे शुभे स्थाने कृत्वोटजमनुत्तमम् । वन्यां वृत्तिं च सङ्कल्प्य स्थितस्तत्र समाहितः ॥ 64॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,64,2505,नियमं च परं कृत्वा नासत्यं प्रब्रवीम्यहम् । स्थितस्तत्राश्रमे रम्ये ब्रह्मचर्यव्रतो हि सः ॥ 65॥ 3,३.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,65,2506,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे सत्यव्रताख्यानवर्णनं नाम दशमोऽध्यायः ॥ ३.१०॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,0,2507,लोमश उवाच । न वेदाध्ययनं किञ्चिज्जानाति न जपं तथा । ध्यानं न देवतानाञ्च न चैवाराधनं तथा ॥ 1॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,1,2508,नासनं वेद विप्रोऽसो प्राणायामं तथा पुनः । प्रत्याहारं तु नो वेद भूतशुद्धिञ्च कारणम् ॥ 2॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,2,2509,न मन्त्रकीलकं जाप्यं गायत्रीञ्च न वेद सः । शौचं स्नानविधिञ्चैव तथाचमनकं पुनः ॥ 3॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,3,2510,प्राणाग्निहोत्रं नो वेद बलिदानं न चातिथिम् । न सन्ध्यां समिधो होमं विवेद च तथा मुनिः ॥ 4॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,4,2511,सोऽकरोत्प्रातरुत्थाय यत्किञ्चिद्दन्तधावनम् । स्नानं च शूद्रवत्तत्र गङ्गायां मन्त्रवर्जितम् ॥ 5॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,5,2512,फलान्यादाय वन्यानि मध्यान्हेऽपि यदृच्छया । भक्ष्याभक्ष्यपरिज्ञानं न जानाति शठस्तथा ॥ 6॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,6,2513,सत्यं ब्रूते स्थितस्तत्र नानृतं वदते पुनः । जनैः सत्यतपा नाम कृतमस्य द्विजस्य वै ॥ 7॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,7,2514,नाहितं कस्यचित्कुर्यान्न तथाऽविहितं क्वचित् । सुखं स्वपिति तत्रैव निर्भयश्चिन्तयन्निति ॥ 8॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,8,2515,कदा मे मरणं भावि दुःखं जीवामि कानने । जीवितं धिक्च मूर्खस्य तरसा मरणं ध्रुवम् ॥ 9॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,9,2516,दैवेनाहं कृतो मूर्खो नान्योऽत्र कारणं मम । प्राप्य चैवोत्तमं जन्म वृथा जातं ममाधुना ॥ 10॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,10,2517,यथा वन्ध्या सुरूपा च यथा वा निष्फलो द्रुमः । अदुग्धदोहा धेनुश्च तथाऽहं निष्फलः कृतः ॥ 11॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,11,2518,किं नु निन्दाम्यहं दैवं नूनं कर्म ममेदृशम् । न दत्तं पुस्तकं कृत्वा ब्राह्मणाय महात्मने ॥ 12॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,12,2519,न वै विद्या मया दत्ता पूर्वजन्मनि निर्मला । तेनाहं कर्मयोगेन शठोऽस्मि च द्विजाधमः ॥ 13॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,13,2520,न च तीर्थे तपस्तप्तं सेविता न च साधवः । न द्विजाः पूजिता द्रव्यैस्तेन जातोऽस्मि दुष्टधीः ॥ 14॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,14,2521,वर्तन्ते मुनिपुत्राश्च वेदशास्त्रार्थपारगाः । अहं सुमूढः सञ्जातो दैवयोगेन केनचित् ॥ 15॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,15,2522,न जानामि तपस्तप्तुं किं करोमि सुसाधनम् । मिथ्यायं मेऽत्र सङ्कल्पो न मे भाग्यं शुभं किल ॥ 16॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,16,2523,दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् । वृथा श्रमकृतं कार्यं दैवाद्भवति सर्वथा ॥ 17॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,17,2524,ब्रह्मा विष्णुश्च रुद्रश्च शक्राद्याः किल देवताः । कालस्य वशगाः सर्वे कालो हि दुरतिक्रमः ॥ 18॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,18,2525,एवंविधान्वितर्कांस्तु कुर्वाणोऽहर्निशं द्विजः । स्थितस्तत्राश्रमे तीरे जान्हव्याः पावने स्थले ॥ 19॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,19,2526,विरक्तः स तु सञ्जातः स्थितस्तत्राश्रमे द्विजः । कालातिवाहनं शान्तश्चकार विजने वने ॥ 20॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,20,2527,एवं स्थितस्य तु वने विमलोदके वै वर्षाणि तत्र नवपञ्च गतानि कामम् । नाराधनं न च जपं न विवेद मन्त्रं कालातिवाहनमसौ कृतवान् वने वै ॥ 21॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,21,2528,जानाति तस्य विततं व्रतमेव लोकः सत्यं वदत्यपि मुनिः किल नामजातम् । जातं यशश्च सकलेषु जनेषु कामं सत्यव्रतोऽयमनिशं न मृषाभिभाषी ॥ 22॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,22,2529,तत्रैकदा तु मृगयां रममाण एव प्राप्तो निषादनिशठो धृतचापबाणः । क्रीडन् वनेऽतिविपुले यमतुल्यदेहः क्रूराकृतिर्हननकर्मणि चातिदक्षः ॥ 23॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,23,2530,तेनातिकृष्टेन शरेण विद्धः कोलः किरातेन धनुर्धरेण । पलायमानो भयविह्वलश्च मुनेः समीपं विद्रुतो जगाम ॥ 24॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,24,2531,विकम्पमानो रुधिरार्द्रदेहो यदा जगामाश्रममण्डलं वै । कालस्तदातीव दयार्द्रभावं प्राप्तो मुनिस्तत्र समीक्ष्य दीनम् ॥ 25॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,25,2532,अग्रे व्रजन्तं रुधिरार्द्रदेहं दृष्ट्वा मुनिः सूकरमाशु विद्धम् । दयाभिवेशादतिकम्पमानः सारस्वतं बीजमथोच्चचार ॥ 26॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,26,2533,अज्ञातपूर्वं च तथाश्रुतञ्च दैवान्मुखे वै समुपागतञ्च । न ज्ञातवान्बीजमसौ विमूढो ममज्ज शोके स मुनिर्महात्मा ॥ 27॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,27,2534,कोलः प्रविश्याश्रममण्डलं तद् गतो निकुञ्जे प्रविलीय गूढम् । अप्राप्तमार्गो दृढनिर्विण्णचेताः प्रवेपमानः शरपीडितत्वात् ॥ 28॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,28,2535,ततः क्षणादाकरणान्तकृष्टं चापं दधानोऽतिकरालदेहः । प्राप्तस्तदन्ते स च मृग्यमाणो निषादराजः किल काल एव ॥ 29॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,29,2536,दृष्ट्वा मुनिं तत्र कुशासने स्थितं नाम्ना तु सत्यव्रतमद्वितीयम् । व्याधः प्रणम्य प्रमुखे स्थितोऽसौ पप्रच्छ कोलः क्व गतो द्विजेश ॥ 30॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,30,2537,जानामि तेऽहं सुव्रतं प्रसिद्धं तेनाद्य पृच्छे मम बाणविद्धः । क्षुधार्दितं मे सकलं कुटुम्बं विभर्तुकामः किल आगतोऽस्मि ॥ 31॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,31,2538,वृत्तिर्ममैषा विहिता विधात्रा नान्याऽस्ति विप्रेन्द्र ऋतं ब्रवीमि । भर्तव्यमेवेह कुटुम्बमञ्जसा केनाप्युपायेन शुभाशुभेन ॥ 32॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,32,2539,सत्यं ब्रवीत्वद्य सत्यव्रतोऽसि क्षुधातुरो वर्तते पोष्यवर्गः । क्वासो गतः सूकरो बाणविद्धः पृच्छाम्यहं वाडव ब्रूहि तूर्णम् ॥ 33॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,33,2540,तेनेति पृष्टः स मुनिर्महात्मा वितर्कमग्नः प्रबभूव कामम् । सत्यव्रतं मेऽद्य भवेन्न भग्नं न दृष्ट इत्युच्चरितेन किं वै ॥ 34॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,34,2541,गतोऽत्र कोलः शरविद्धदेहः कथं ब्रवीम्यद्य मृषाऽमृषा वा । क्षुधार्दितोऽयं परिपृच्छतीव दृष्ट्वा हनिष्यत्यपि सूकरं वै ॥ 35॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,35,2542,सत्यं न सत्यं खलु यत्र हिंसा दयान्वितं चानृतमेव सत्यम् । हितं नराणां भवतीह येन तदेव सत्यं न तथाऽन्यथैव ॥ 36॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,36,2543,हितं कथं स्यादुभयोर्विरुद्धयो- स्तदुत्तरं किं न यथा मृषा वचः । विचारयन्वाडव धर्मसङ्कटे न प्राप वक्तुं वचनं यथोचितम् ॥ 37॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,37,2544,बाणाहतं वीक्ष्य दयान्वितञ्च कोलं तदन्ते समुदाहृतं वचः । तेन प्रसन्ना निजबीजतः शिवा विद्यां दुरापां प्रददौ च तस्मै ॥ 38॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,38,2545,बीजोच्चारणतो देव्या विद्या प्रस्फुरिताखिला । वाल्मीकेश्च यथापूर्वं तथा स ह्यभवत्कविः ॥ 39॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,39,2546,तमुवाच द्विजो व्याधं सम्मुखस्थं धनुर्धरम् । सत्यकामस्तु धर्मात्मा श्लोकमेकं दयापरः ॥ 40॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,40,2547,या पश्यति न सा ब्रूते या ब्रूते सा न पश्यति । अहो व्याध स्वकार्यार्थिन् किं पृच्छसि पुनः पुनः ॥ 41॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,41,2548,इत्युक्तस्तु तदा तेन गतोऽसौ पशुहा पुनः । निराशः सूकरे तस्मिन्परावृत्तो निजालये ॥ 42॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,42,2549,ब्राह्मणस्तु कविर्जातः प्राचेतस इवापरः । प्रसिद्धः सर्वलोकेषु नाम्ना सत्यव्रतो द्विजः ॥ 43॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,43,2550,सारस्वतं ततो बीजं जजाप विधिपूर्वकम् । पण्डितश्चातिविख्यातो द्विजोऽसौ धरणीतले ॥ 44॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,44,2551,प्रतिपर्वसु गायन्ति ब्राह्मणा यद्यशः सदा । आख्यानं चातिविस्तीर्ण स्तुवन्ति मुनयः किल ॥ 45॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,45,2552,तच्छ्रुत्वा सदनं तस्य समागम्य तदाश्रमे । येन त्यक्तः पुरा तेन गृहं नीतोऽतिमानितः ॥ 46॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,46,2553,तस्माद्राजन्सदा सेव्या पूजनीया च भक्तितः । आदिशक्तिः परा देवी जगतां कारणं हि सा ॥ 47॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,47,2554,तस्या यज्ञं महाराज कुरु वेदविधानतः । सर्वकामप्रदं नित्यं निश्चयं कथितं पुरा ॥ 48॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,48,2555,स्मृता सम्पूजिता भक्त्या ध्याता चोच्चारिता स्तुता । ददाति वाञ्छितानर्थान्कार्यदा तेन कीर्त्यते ॥ 49॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,49,2556,अनुभावमिदं राजन् कर्तव्यं सर्वथा बुधैः । दृष्ट्वा रोगयुतान्दीनान्क्षुधितान्निर्धनाञ्छठान् ॥ 50॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,50,2557,जनानार्तांस्तथा मूर्खान्पीडितान्वैरिभिः सदा । दासानाज्ञाकरान्क्षुद्रान्विकलान्विह्वलानथ ॥ 51॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,51,2558,अतृप्तान्भोजने भोगे सदार्तानजितेन्द्रियान् । तृष्णाधिकानशक्तांश्च सदाधिपरिपीडितान् ॥ 52॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,52,2559,तथा विभवसम्पन्नान् पुत्रपौत्रविवर्धनान् । पुष्टदेहांश्च सम्भोगैः संयुतान्वेदवादिनः ॥ 53॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,53,2560,राजलक्ष्म्या युताञ्छूरान्वशीकृतजनानथ । स्वजनैरवियुक्तांश्च सर्वलक्षणलक्षितान् ॥ 54॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,54,2561,व्यतिरेकान्वयाभ्यां च विचेतव्यं विचक्षणैः । एभिर्न पूजिता देवी सर्वार्थफलदा शिवा ॥ 55॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,55,2562,समाराधिता च तथा नृभिरेभिः सदाम्बिका । यतोऽमी सुखिनः सर्वे संसारेऽस्मिन्न संशयः ॥ 56॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,56,2563,व्यास उवाच । इति राजञ्छ्रुतं तत्र मया मुनिसमागमे । लोमशस्य मुखात्कामं देवीमाहात्म्यमुत्तमम् ॥ 57॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,57,2564,इति सञ्चिन्त्य राजेन्द्र कर्तव्यं च सदार्चनम् । भक्त्या परमया देव्याः प्रीत्या च पुरुषर्षभ ॥ 58॥ 3,३.११,एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,58,2565,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे सत्यव्रताख्यानवर्णनं नामैकादशोऽध्यायः ॥ ३.११॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,0,2566,राजोवाच । वद यज्ञविधिं सम्यग्देव्यास्तस्याः समन्ततः । श्रुत्वा करोम्यहं स्वामिन्यथाशक्ति ह्यतन्द्रितः ॥ 1॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,1,2567,पूजाविधिं च मन्त्रांश्च होमद्रव्यमसंशयम् । ब्राह्मणाः कतिसङ्ख्याश्च दक्षिणाश्चतथा पुनः ॥ 2॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,2,2568,व्यास उवाच । श‍ृणु राजन् प्रवक्ष्यामि देव्या यज्ञं विधानतः । त्रिविधं तु सदा ज्ञेयं विधिदृष्टेन कर्मणा ॥ 3॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,3,2569,सात्त्विकं राजसं चैव तामसं च तथापरम् । मुनीनां सात्त्विकं प्रोक्तं नृपाणां राजसं स्मृतम् ॥ 4॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,4,2570,तामसं राक्षसानां वै ज्ञानिनां तु गुणोज्झितम् । विमुक्तानां ज्ञानमयं विस्तरात्प्रब्रवीमि ते ॥ 5॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,5,2571,देशः कालस्तथा द्रव्यं मन्त्राश्च ब्राह्मणास्तथा । श्रद्धा च सात्वकी यत्र तं यज्ञं सात्त्विकं विदुः ॥ 6॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,6,2572,द्रव्यशुद्धिः क्रियाशुद्धिर्मन्त्रशुद्धिश्च भूमिप । भवेद्यदि तदा पूर्णं फलं भवति नान्यथा ॥ 7॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,7,2573,अन्यायोपार्जितेनैव कर्तव्यं सुकृतं कृतम् । न कीर्तिरिह लोके च परलोके न तत्फलम् ॥ 8॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,8,2574,तस्मान्न्यायार्जितेनैव कर्तव्यं सुकृतं सदा । यशसे परलोकाय भवत्येव सुखाय च ॥ 9॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,9,2575,प्रत्यक्षं तव राजेन्द्र पाण्डवैस्तु मखः कृतः । राजसूयः क्रतुवरः समाप्तवरदक्षिणः ॥ 10॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,10,2576,यत्र साक्षाद्धरिः कृष्णो यादवेन्द्रो महामनाः । ब्राह्मणाः पूर्णविद्याश्च भारद्वाजादयस्तथा ॥ 11॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,11,2577,कृत्वा यज्ञं सुसम्पूर्णं मासमात्रेण पाण्डवैः । प्राप्तं महत्तरं कष्टं वनवासश्च दारुणः ॥ 12॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,12,2578,पीडनञ्चैव पाञ्चाल्यास्तथा द्यूते पराजयः । वनवासो महत्कष्टं क्व गतं मखजं फलम् ॥ 13॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,13,2579,दासत्वञ्च विराटस्य कृतं सर्वमहात्मभिः । कीचकेन परिक्लिष्टा द्रौपदी च प्रमद्वरा ॥ 14॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,14,2580,आशीर्वादा द्विजातीनां क्व गताः शुद्धचेतसाम् । भक्तिर्वा वासुदेवस्य क्व गता तत्र सङ्कटे ॥ 15॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,15,2581,न रक्षिता तदा बाला केनापि द्रुपदात्मजा । प्राप्तकेशग्रहा काले साध्वी च वरवर्णिनी ॥ 16॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,16,2582,किमत्र चिन्तनीयं वै धर्मवैगुण्यकारणम् । केशवे सति देवेशे धर्मपुत्रे युधिष्ठिरे ॥ 17॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,17,2583,भवितव्यमिति प्रोक्ते निष्फलः स्यात्तदागमः । वेदमन्त्रास्तथान्ये च वितथाः स्युरसंशयम् ॥ 18॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,18,2584,साधनं निष्फलं सर्वमुपायश्च निरर्थकः । भवितव्यं भवत्येव वचने प्रतिपादके ॥ 19॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,19,2585,आगमोऽप्यर्थवादः स्यात्क्रियाः सर्वा निरर्थकाः । स्वर्गार्थञ्च तपो व्यर्थं वर्णधर्मश्च वै तथा ॥ 20॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,20,2586,सर्वं प्रमाणं व्यर्थं स्याद्भवितव्ये कृते हृदि । उभयञ्चापि मन्तव्यं दैवं चोपाय एव च ॥ 21॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,21,2587,कृते कर्मणि चेत्सिद्धिर्विपरिता यदा भवेत् । वैगुण्यं कल्पनीयं स्यात्प्राज्ञैः पण्डितमौलिभिः ॥ 22॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,22,2588,तत्कर्म बहुधा प्रोक्तं विद्वद्भिः कर्मकारिभिः । कर्तृभेदान्मन्त्रभेदाद्द्रव्यभेदात्तथा पुनः ॥ 23॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,23,2589,यथा मघवता पूर्वं विश्वरूपो वृतो गुरुः । विपरीतं कृतं तेन कर्म मातृहिताय वै ॥ 24॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,24,2590,देवेभ्यो दानवेभ्यस्तु स्वस्तीत्युक्त्वा पुनः पुनः । असुरा मातृपक्षीयाः कृतं तेषाञ्च रक्षणम् ॥ 25॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,25,2591,दैत्यान् दृष्ट्वातिसम्पुष्टांश्चुकोप मघवा तदा । शिरांसि तस्य वज्रेण चिच्छेद तरसा हरिः ॥ 26॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,26,2592,क्रियावैगुण्यमत्रैव कर्तृभेदादसंशयम् । नोचेत्पञ्चालराजेन रोषेणापि कृता क्रिया ॥ 27॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,27,2593,भारद्वाजविनाशाय पुत्रस्योत्पादनाय च । धृष्टद्युम्नः समुत्पन्नो वेदिमध्याच्च द्रौपदी ॥ 28॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,28,2594,पुरा दशरथेनापि पुत्रेष्टिस्तु कृता यदा । अपुत्रस्य सुतास्तस्य चत्वारः सम्प्रजज्ञिरे ॥ 29॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,29,2595,अतः क्रिया कृता युक्त्या सिद्धिदा सर्वथा भवेत् । अयुक्त्या विपरिता स्यात्सर्वथा नृपसत्तम ॥ 30॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,30,2596,पाण्डवानां यथा यज्ञे किञ्चिद्वैगुण्ययोगतः । विपरीतं फलं प्राप्तं निर्जितास्ते दुरोदरे ॥ 31॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,31,2597,सत्यवादी तथा राजन् धर्मपुत्रो युधिष्ठिरः । द्रौपदी च तथा साध्वी तथान्येप्यनुजाः शुभाः ॥ 32॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,32,2598,कुद्रव्ययोगाद्वैगुण्यं समुत्पन्नं मखेऽथवा । साभिमानैः कृताद्वापि दूषणं समुपस्थितम् ॥ 33॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,33,2599,सात्त्विकस्तु महाराज दुर्लभो वै मखः स्मृतः । वैखानसमुनीनां हि विहितोऽसौ महामखः ॥ 34॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,34,2600,सात्त्विकं भोजनं ये वै नित्यं कुर्वन्ति तापसाः । न्यायार्जितञ्च वन्यञ्च तथा ऋष्यं सुसंस्कृतम् ॥ 35॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,35,2601,पुरोडाशपरा नित्यं वियूपा मन्त्रपूर्वकाः । श्रद्धाधिका मखा राजन् सात्त्विकाः परमाः स्मृताः ॥ 36॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,36,2602,राजसा द्रव्यबहुलाः सयूपाश्च सुसंस्कृताः । क्षत्रियाणां विशाञ्चैव साभिमानाश्च वै मखाः ॥ 37॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,37,2603,तामसा दानवानां वै सक्रोधा मदवर्धकाः । सामर्षाः संस्कृताः क्रूरा मखाः प्रोक्ता महात्मभिः ॥ 38॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,38,2604,मुनीनां मोक्षकामानां विरक्तानां महात्मनाम् । मानसस्तु स्मृतो यागः सर्वसाधनसंयुतः ॥ 39॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,39,2605,अन्येषु सर्वयज्ञेषु किञ्चिन्न्यूनं भवेदपि । द्रव्येण श्रद्धया वाऽपि क्रियया ब्राह्मणैस्तथा ॥ 40॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,40,2606,देशकालपृथग्द्रव्यसाधनैः सकलैस्तथा । नान्यो भवति पूर्णे वै तथा भवति मानसः ॥ 41॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,41,2607,प्रथमं तु मनः शोध्यं कर्तव्यं गुणवर्जितम् । शुद्धे मनसि देहो वै शुद्ध एव न संशयः ॥ 42॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,42,2608,इन्द्रियार्थपरित्यक्तं यदा जातं मनः शुचि । तदा तस्य मखस्यासौ प्रभवेदधिकारवान् ॥ 43॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,43,2609,तदाऽसौ मण्डपं कृत्वा बहुयोजनविस्तृतम् । स्तम्भैश्च विपुलैः श्लक्ष्णैर्यज्ञियद्रुमसम्भवैः ॥ 44॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,44,2610,वेदीं च विशदां तत्र मनसा परिकल्पयेत् । अग्नयोऽपि तथा स्थाप्या विधिवन्मनसा किल ॥ 45॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,45,2611,ब्राह्मणानाञ्च वरणं तथैव प्रतिपाद्य च । ब्रह्माध्वर्युस्तथा होता प्रस्तोता विधिपूर्वकम् ॥ 46॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,46,2612,उद्गाता प्रतिहर्ता च सभ्याश्चान्ये यथाविधि । पूजनीयाः प्रयत्नेन मनसैव द्विजोत्तमाः ॥ 47॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,47,2613,प्राणोऽपानस्तथा व्यानः समानोदान एव च । पावकाः पञ्च एवैते स्थाप्या वेद्यां विधानतः ॥ 48॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,48,2614,गार्हपत्यस्तदा प्राणोऽपानश्चाहवनीयकः । दक्षिणाग्निस्तथा व्यानः समानश्चावसथ्यकः ॥ 49॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,49,2615,सभ्योदानः स्मृता ह्येते पावकाः परमोत्कटाः । द्रव्यञ्च मनसा भाव्यं निर्गुणं परमं शुचि ॥ 50॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,50,2616,मन एव तदा होता यजमानस्तथैव तत् । यज्ञाधिदेवता ब्रह्म निर्गुणं च सनातनम् ॥ 51॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,51,2617,फलदा निर्गुणा शक्तिः सदा निर्वेददा शिवा । ब्रह्मविद्याखिलाधारा व्याप्य सर्वत्र संस्थिता ॥ 52॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,52,2618,तदुद्देशेन तद्द्रव्यं हुनेत्प्राणाग्निषु द्विजः । पश्चाच्चित्तं निरालम्बं कृत्वा प्राणानपि प्रभो ॥ 53॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,53,2619,कुण्डलीमुखमार्गेण हुनेद्ब्रह्मणि शाश्वते । स्वानुभूत्या स्वयं साक्षात्स्वात्मभूतां महेश्वरीम् ॥ 54॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,54,2620,समाधिनैव योगेन ध्यायेच्चेतस्यनाकुलः । सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ॥ 55॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,55,2621,यदा पश्यति भूतात्मा तदा पश्यति तां शिवाम् । दृष्ट्वा तां ब्रह्मविद्भूयात्सच्चिदानन्दरूपिणीम् ॥ 56॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,56,2622,तदा मायादिकं सर्वं दग्धं भवति भूमिप । प्रारब्धं कर्ममात्रं तु यावद्देहं च तिष्ठति ॥ 57॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,57,2623,जीवन्मुक्तस्तदा जातो मृतो मोक्षमवाप्नुयात् । कृतकृत्यो भवेत्तात यो भजेज्जगदम्बिकाम् ॥ 58॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,58,2624,तस्मात्सर्वप्रयत्नेन ध्येया श्रीभुवनेश्वरी । श्रोतव्या चैव मन्तव्या गुरुवाक्यानुसारतः ॥ 59॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,59,2625,राजन्नेवं कृतो यज्ञो मोक्षदो नात्र संशयः । अन्ये यज्ञाः सकामास्तु प्रभवन्ति क्षयोन्मुखाः ॥ 60॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,60,2626,अग्निष्टोमेन विधिवत्स्वर्गकामो यजेदिति । वेदानुशासनं चैतत्प्रवदन्ति मनीषिणः ॥ 61॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,61,2627,क्षीणे पुण्ये मृत्युलोकं विशन्ति च यथामति । तस्मात्तु मानसः श्रेष्ठो यज्ञोऽप्यक्षय एव सः ॥ 62॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,62,2628,न राज्ञा साधितुं योग्यो मखोऽसौ जयमिच्छता । तामसस्तु कृतः पूर्वं सर्पयज्ञस्त्वयाधुना ॥ 63॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,63,2629,वैरं निर्वाहितं राजंस्तक्षकस्य दुरात्मनः । यत्कृते निहताः सर्पास्त्वयाऽग्नौ कोटिशः परे ॥ 64॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,64,2630,देवीयज्ञं कुरुष्वाद्य विततं विधिपूर्वकम् । विष्णुना यः कृतः पूर्वं सृष्ट्यादौ नृपसत्तम ॥ 65॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,65,2631,तथा त्वं कुरु राजेन्द्र विधिं ते प्रब्रवीम्यहम् । ब्राह्मणाः सन्ति राजेन्द्र विधिज्ञा वेदवित्तमाः ॥ 66॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,66,2632,देवीबीजविधानज्ञा मन्त्रमार्गविचक्षणाः । याजकास्ते भविष्यन्ति यजमानस्त्वमेव हि ॥ 67॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,67,2633,कृत्वा यज्ञं विधानेन दत्त्वा पुण्यं मखार्जितम् । समुद्धर महाराज पितरं दुर्गतिङ्गतम् ॥ 68॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,68,2634,विप्रावमानजं पापं दुर्घटं नरकप्रदम् । तथैव शापजो दोषः प्राप्तः पित्रा तवानघ ॥ 69॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,69,2635,तथा दुर्मरणं प्राप्तं सर्पदंशेन भूभुजा । अन्तराले तथा मृत्यूर्न भूमौ कुशसंस्तरे ॥ 70॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,70,2636,न सङ्ग्रामे न गङ्गायां स्नानदानादिवर्जितम् । मरणं ते पितुस्तत्र सौधे जातं कुरूद्वह ॥ 71॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,71,2637,कृपणानि च सर्वाणि नरकस्य नृपोत्तम । तत्रैकं कारणं तस्य न जातं चातिदुर्लभम् ॥ 72॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,72,2638,यत्र यत्र स्थितःप्राणो ज्ञात्वा कालं समागतम् । साधनानामभावेऽपि ह्यवशश्चातिसङ्कटे ॥ 73॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,73,2639,यदा निर्वेदमायाति मनसा निर्मलेन वै । पञ्चभूतात्मको देहो मम किञ्चात्र दुःखदम् ॥ 74॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,74,2640,पतत्वद्य यथाकामं मुक्तोऽहं निर्गुणोऽव्ययः । नाशात्मकानि तत्त्वानि तत्र का परिदेवना ॥ 75॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,75,2641,ब्रह्मैवाहं न संसारी सदा मुक्तः सनातनः । देहेन मम सम्बन्धः कर्मणा प्रतिपादितः ॥ 76॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,76,2642,तानि सर्वाणि मुक्तानि शुभानि चेतराणि च । मनुष्यदेहयोगेन सुखदुःखानुसाधनात् ॥ 77॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,77,2643,विमुक्तोऽतिभयाद्घोरादस्मात्संसारसङ्कटात् । इत्येवं चिन्त्यमानस्तु स्नानदानविवर्जितः ॥ 78॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,78,2644,मरणं चेदवाप्नोति स मुच्च्येज्जन्मदुःखतः । एषा काष्ठा परा प्रोक्ता योगिनामपि दुर्लभा ॥ 79॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,79,2645,पिता ते नृपशार्दूल श्रुत्वा शापं द्विजोदितम् । देहे ममत्वं कृतवान्न निर्वेदमवाप्तवान् ॥ 80॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,80,2646,नीरोगो मम देहोऽयं राज्यं निहतकण्टकम् । कथं जीवाम्यहं कामं मन्त्रज्ञानानयन्तु वै ॥ 81॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,81,2647,औषधं मणिमन्त्रं च यन्त्रं परमकं तथा । आरोहणं तथा सौधे कृतवान्नृपतिस्तदा ॥ 82॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,82,2648,न स्नानं न कृतं दानं न देव्याः स्मरणं कृतम् । न भूमौ शयनं चैव दैवं मत्वा परं तथा ॥ 83॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,83,2649,मग्नो मोहार्णवे घोरे मृतः सौधेऽहिना हतः । कृत्वा पापं कलेर्योगात्तापसस्यावमानजम् ॥ 84॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,84,2650,अवश्यमेव नरकमेतैराचरणैर्भवेत् । तस्मात्तं पितरं पापात्समुद्धर नृपोत्तम ॥ 85॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,85,2651,सूत उवाच । इति श्रुत्वा वचस्तस्य व्यासस्यामिततेजसः । साश्रुकण्ठोऽतिदुःखार्तो बभूव जनमेजयः ॥ 86॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,86,2652,धिगिदं जीवितं मेऽद्य पिता मे नरके स्थितः । तत्करोमि यथैवाद्य स्वर्गं यात्युत्तरासुतः ॥ 87॥ 3,३.१२,द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।,87,2653,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे अम्बायज्ञविधिवर्णनं नाम द्वादशोऽध्यायः ॥ ३.१२॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,0,2654,राजोवाच । हरिणा तु कथं यज्ञः कृतः पूर्वं पितामह । जगत्कारणरूपेण विष्णुना प्रभविष्णुना ॥ 1॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,1,2655,के सहायास्तु तत्रासन्ब्राह्मणाः के महामते । ऋत्विजो वेदतत्त्वज्ञास्तन्मे ब्रूहि परन्तप ॥ 2॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,2,2656,पश्चात्करोम्यहं यज्ञं विधिदृष्टेन कर्मणा । श्रुत्वा विष्णुकृतं यागमम्बिकायाः समाहितः ॥ 3॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,3,2657,व्यास उवाच । राजञ्छृणु महाभाग विस्तरं परमाद्भुतम् । यथा भगवता यज्ञः कृतश्च विधिपूर्वकः ॥ 4॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,4,2658,विसर्जिता यदा देव्या दत्त्वा शक्तीश्च तास्त्रयः । काजेशाः पुरुषा जाता विमानवरमास्थिताः ॥ 5॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,5,2659,प्राप्ता महार्णवं घोरं त्रयस्ते विबुधोत्तमाः । चक्रुः स्थानानि वासार्थं समुत्पाद्य धरां स्थिताः ॥ 6॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,6,2660,आधारशक्तिरचला मुक्ता देव्या स्वयं ततः । तदाधारा स्थिता जाता धरा मेदःसमन्विता ॥ 7॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,7,2661,मधुकैटभयोर्मेदः संयोगान्मेदिनी स्मृता । धारणाच्च धरा प्रोक्ता पृथ्वी विस्तारयोगतः ॥ 8॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,8,2662,मही चापि महीयस्त्वाद्धृता सा शेषमस्तके । गिरयश्च कृताः सर्वे धारणार्थ प्रविस्तराः ॥ 9॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,9,2663,लोहकीलं यथा काष्टे तथा ते गिरयः कृताः । महीधरो महाराज प्रोच्यते विबुधैर्जनैः ॥ 10॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,10,2664,जातरूपमयो मेरुर्बहुयोजनविस्तरः । कृतो मणिमयैः श‍ृङ्गैः शोभितः परमाद्भुतः ॥ 11॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,11,2665,मरीचिर्नारदोऽत्रिश्च पुलस्त्यः पुलहः क्रतुः । दक्षो वसिष्ठ इत्येते ब्रह्मणः प्रथिताः सुताः ॥ 12॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,12,2666,मरीचेः कश्यपो जातो दक्षकन्यास्त्रयोदश । ताभ्यो देवाश्च दैत्याश्च समुत्पन्ना ह्यनेकशः ॥ 13॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,13,2667,ततस्तु काश्यपी सृष्टिः प्रवृत्ता चातिविस्तरा । मनुष्यपशुसर्पादिजातिभेदैरनेकधा ॥ 14॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,14,2668,ब्रह्मणश्चार्धदेहात्तु मनुः स्वायम्भुवोऽभवत् । शतरूपा तथा नारी सञ्जाता वामभागतः ॥ 15॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,15,2669,प्रियव्रतोत्तानपादौ सुतौ तस्या बभूवतुः । तिस्त्रः कन्या वरारोहा ह्यभवन्नतिसुन्दरीः ॥ 16॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,16,2670,एवं सृष्टिं समुत्पाद्य भगवान्कमलोद्भवः । चकार ब्रह्मलोकञ्च मेरुश‍ृङ्गे मनोहरम् ॥ 17॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,17,2671,वैकुण्ठं भगवान्विष्णू रमारमणमुत्तमम् । क्रीडास्थानं सुरम्यञ्च सर्वलोकोपरिस्थितम् ॥ 18॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,18,2672,शिवोऽपि परमं स्थानं कैलासाख्यं चकार ह । समासाद्य भूतगणं विजहार यथारुचि ॥ 19॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,19,2673,स्वर्गस्त्रिविष्टपो मेरुशिखरोपरि कल्पितः । तच्च स्थानं सुरेन्द्रस्य नानारत्नविराजितम् ॥ 20॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,20,2674,समुद्रमथनात्प्राप्तः पारिजातस्तरुत्तमः । चतुर्दन्तस्तथा नागः कामधेनुश्च कामदा ॥ 21॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,21,2675,उच्चैःश्रवास्तथाश्वो वै रम्भाद्यप्सरसस्तथा । इन्द्रेणोपात्तमखिलं जातं वै स्वर्गभूषणम् ॥ 22॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,22,2676,धन्वन्तरिश्चन्द्रमाश्च सागराच्च समुद्बभौ । स्वर्गस्थितौ विराजेते देवौ बहुगणैर्वृतौ ॥ 23॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,23,2677,एवं सृष्टिः समुत्पन्ना त्रिविधा नृपसत्तम । देवतिर्यङ्मनुष्यादिभेदैर्विविधकल्पिता ॥ 24॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,24,2678,अण्डजाः स्वेदजाश्चैव चोद्भिज्जाश्च जरायुजाः । चतुर्भेदैः समुत्पन्ना जीवाः कर्मयुताः किल ॥ 25॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,25,2679,एवं सृष्टिं समासाद्य ब्रह्मविष्णुमहेश्वराः । विहारं स्वेषु स्थानेषु चक्रुः सर्वे यथेप्सितम् ॥ 26॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,26,2680,एवं प्रवर्तिते सर्गे भगवान्प्रभुरच्युतः । महालक्ष्म्या समं तत्र चिक्रीड भुवने स्वके ॥ 27॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,27,2681,एकस्मिन्समये विष्णुर्वैकुण्ठे संस्थितः पुरा । सुधासिन्धुस्थितं द्वीपं सस्मार मणिमण्डितम् ॥ 28॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,28,2682,यत्र दृष्ट्वा महामायां मन्त्रश्चासादितः शुभः । स्मृत्वा तां परमां शक्तिं स्त्रीभावं गमितो यथा ॥ 29॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,29,2683,यज्ञं कर्तुं मनश्चक्रे अम्बिकाया रमापतिः । उत्तीर्य भुवनात्तस्मात्समाहूय महेश्वरम् ॥ 30॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,30,2684,ब्रह्माणं वरुणं शक्रं कुबेरं पावकं यमम् । वसिष्ठं कश्यपं दक्षं वामदेवं बृहस्पतिम् ॥ 31॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,31,2685,सम्भारं कल्पयामास यज्ञार्थं चातिविस्तरम् । महाविभवसंयुक्तं सात्त्विकञ्च मनोहरम् ॥ 32॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,32,2686,मण्डपं विततं तत्र कारयामास शिल्पिभिः । ऋत्विजो वरयामास सप्तविंशतिसुव्रतान् ॥ 33॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,33,2687,चितिञ्च कारयामास वेदीश्चैव सुविस्तराः । प्रजेपुर्ब्राह्मणा मन्त्रान्देव्या बीजसमन्वितान् ॥ 34॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,34,2688,जुहुवुस्ते हविः कामं विधिवत्परिकल्पिते । कृते तु वितते होमे वागुवाचाशरीरिणी ॥ 35॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,35,2689,विष्णुं तदा समाभाष्य सुस्वरा मधुराक्षरा । विष्णो त्वं भव देवानां हरे श्रेष्ठतमः सदा ॥ 36॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,36,2690,मान्यश्च पूजनीयश्च समर्थश्च सुरेष्वपि । सर्वे त्वामर्चयिष्यन्ति ब्रह्माद्याश्च सवासवाः ॥ 37॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,37,2691,प्रभविष्यन्ति भो भक्त्या मानवा भुवि सर्वतः । वरदस्त्वं च सर्वेषां भविता मानवेषु वै ॥ 38॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,38,2692,कामदः सर्वदेवानां परमः परमेश्वरः । सर्वयज्ञेषु मुख्यस्त्वं पूज्यः सर्वैश्च याज्ञिकैः ॥ 39॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,39,2693,त्वां जनाः पूजयिष्यन्ति वरदस्त्वं भविष्यसि । श्रयिष्यन्ति च देवास्त्वां दानवैरतिपीडिताः ॥ 40॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,40,2694,शरणस्त्वञ्च सर्वेषां भविता पुरुषोत्तम । पुराणेषु च सर्वेषु वेदेषु विततेषु च ॥ 41॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,41,2695,त्वं वै पूज्यतमः कामं कीर्तिस्तव भविष्यति । यदा यदा हि धर्मस्य ग्लानिर्भवति भूतले ॥ 42॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,42,2696,तदांशेनावतीर्याशु कर्तव्यं धर्मरक्षणम् । अवताराः सुविख्याताः पृथिव्यां तव भागशः ॥ 43॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,43,2697,भविष्यन्ति धरायां वै माननीया महात्मनाम् । अवतारेषु सर्वेषु नानायोनिषु माधव ॥ 44॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,44,2698,विख्यातः सर्वलोकेषु भविता मधुसूदन । अवतारेषु सर्वेषु शक्तिस्ते सहचारिणी ॥ 45॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,45,2699,भविष्यति ममांशेन सर्वकार्यप्रसाधिनी । वाराही नारसिंही च नानाभेदैरनेकधा ॥ 46॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,46,2700,नानायुधाः शुभाकाराः सर्वाभरणमण्डीताः । ताभिर्युक्तः सदा विष्णो सुरकार्याणि माधव ॥ 47॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,47,2701,साधयिष्यसि तत्सर्वं मद्दत्तवरदानतः । तास्त्वया नावमन्तव्याः सर्वदा गर्वलेशतः ॥ 48॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,48,2702,पूजनीयाः प्रयत्नेन माननीयाश्च सर्वथा । नूनं ता भारते खण्डे शक्तयः सर्वकामदाः ॥ 49॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,49,2703,भविष्यन्ति मनुष्याणां पूजिताः प्रतिमासु च । तासां तव च देवेश कीर्तिः स्यान्दखिलेष्वपि ॥ 50॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,50,2704,द्वीपेषु सप्तस्वपि च विख्याता भुवि मण्डले । ताश्च त्वां वै महाभाग मानवा भुवि मण्डले ॥ 51॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,51,2705,अर्चयिष्यन्ति वाञ्छार्थं सकामाः सततं हरे । अर्चासु चोपहारैश्च नानाभावसमन्विताः ॥ 52॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,52,2706,पूजयिष्यन्ति वेदोक्तैर्मन्त्रैर्नामजपैस्तथा । महिमा तव भूर्लोके स्वर्गे च मधुसूदन ॥ 53॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,53,2707,पूजनाद्देवदेवेश वृद्धिमेष्यति मानवैः । व्यास उवाच । इति दत्त्वा वरान्वाणी विरराम खसम्भवा ॥ 54॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,54,2708,भगवानपि प्रीतात्मा ह्यभवच्छ्रवणादिव । समाप्य विधिवद्यज्ञं भगवान्हरिरीश्वरः ॥ 55॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,55,2709,विसर्जयित्वा तान्देवान्ब्रह्मपुत्रान्मुनीनथ । जगामानुचरैः सार्धं वैकुण्ठं गरुडध्वजः ॥ 56॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,56,2710,स्वानि स्वानि च धिष्ण्यानि पुनः सर्वे सुरास्ततः । मुनयो विस्मिता वार्तां कुर्वन्तस्ते परस्परं ।५७॥ ययुः प्रमुदिताः कामं स्वाश्रमान्पावनानथ ॥ 58॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,57,2711,श्रुत्वा वाणीं परमविशदां व्योमजां श्रोत्ररम्यां सर्वेषां वै प्रकृतिविषये भक्तिभावश्च जातः । चक्रुः सर्वे द्विजमुनिगणाः पूजनं भक्तियुक्ता- स्तस्याः कामं निखिलफलदं चागमोक्तं मुनीन्द्राः ॥ 59॥ 3,३.१३,त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।,58,2712,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे अम्बिकामखस्य विष्णुनानुष्ठानवर्णनं त्रयोदशोऽध्यायः ॥ ३.१३॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,0,2713,जनमेजय उवाच । श्रुतो वै हरिणा क्लृप्तो यज्ञो विस्तरतो द्विज । महिमानं तथाम्बाया वद विस्तरतो मम ॥ 1॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,1,2714,श्रुत्वा देव्याश्चरित्रं वै कुर्वे मखमनुत्तमम् । प्रसादात्तव विप्रेन्द्र भविष्यामि च पावनः ॥ 2॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,2,2715,व्यास उवाच । श‍ृणु राजन्प्रवक्ष्यामि देव्याश्चरितमुत्तमम् । इतिहासं पुराणञ्च कथयामि सुविस्तरम् ॥ 3॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,3,2716,कोसलेषु नृपश्रेष्ठः सूर्यवंशसमुद्भवः । पुष्यपुत्रो महातेजा ध्रुवसन्धिरिति स्मृतः ॥ 4॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,4,2717,धर्मात्मा सत्यसन्धश्च वर्णाश्रमहिते रतः । अयोध्यायां समृद्धायां राज्यं चक्रे शुचिव्रतः ॥ 5॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,5,2718,ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ये तथा द्विजाः । स्वां स्वां वृत्तिं समास्थाय तद्राज्ये धर्मतोऽभवन् ॥ 6॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,6,2719,न चौराः पिशुना धूर्तास्तस्य राज्ये च कुत्रचित् । दम्भाः कृतघ्ना मूर्खाश्च वसन्ति किल मानवाः ॥ 7॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,7,2720,एवं वै वर्तमानस्य नृपस्य कुरुसत्तम । द्वे पत्न्यौ रूपसम्पन्ने ह्यासतुः कामभोगदे ॥ 8॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,8,2721,मनोरमा धर्मपत्नी सुरूपाऽतिविचक्षणा । लीलावती द्वितीया च साऽपि रूपगुणान्विता ॥ 9॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,9,2722,विजहार सपत्नीभ्यां गृहेषूपवनेषु च । क्रीडागिरौ दीर्घिकासु सौधेषु विविधेषु च ॥ 10॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,10,2723,मनोरमा शुभे काले सुषुवे पुत्रमुत्तमम् । सुदर्शनाभिधं पुत्रं राजलक्षणसंयुतम् ॥ 11॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,11,2724,लीलावत्यपि तत्पत्नी मासेनैकेन भामिनी । सुषुवे सुन्दरं पुत्रं शुभे पक्षे दिने तथा ॥ 12॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,12,2725,चकार नृपतिस्तत्र जातकर्मादिकं द्वयोः । ददौ दानानि विप्रेभ्यः पुत्रजन्मप्रमोदितः ॥ 13॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,13,2726,प्रीतिं तयोः समां राजा चकार सुतयोर्नृप । नृपश्चकार सौहार्देष्वन्तरं न कदाचन ॥ 14॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,14,2727,चूडाकर्म तयोश्चक्रे विधिना नृपसत्तमः । यथाविभवमेवासौ प्रीतियुक्तः परन्तपः ॥ 15॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,15,2728,कृतचूडौ सुतौ कामं जह्रतुर्नृपतेर्मनः । क्रीडमानावुभौ कान्तौ लोकानामनुरञ्जकौ ॥ 16॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,16,2729,तयोः सुदर्शनो ज्येष्ठो लीलावत्याः सुतः शुभः । शत्रुजित्संज्ञकः कामं चाटुवाक्यो बभूव ह ॥ 17॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,17,2730,नृपतेः प्रीतिजनको मञ्जुवाक्चारुदर्शनः । प्रजानां वल्लभः सोऽभूत्तथा मन्त्रिजनस्य वै ॥ 18॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,18,2731,तथा तस्मिन्नृपः प्रीतिञ्चकार गुणयोगतः । मन्दभाग्यान्मन्दभावो न तथा वै सुदर्शने ॥ 19॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,19,2732,एवं गच्छति काले तु ध्रुवसन्धिर्नृपोत्तमः । जगाम वनमध्येऽसौ मृगयाभिरतः सदा ॥ 20॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,20,2733,निघ्नन्मृगान् रुरून्कम्बून्सूकरान्गवयाञ्छशान् । महिषाञ्छरभान्खड्गांश्चिक्रीड नृपतिर्वने ॥ 21॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,21,2734,क्रीडमाने नृपे तत्र वने घोरेऽतिदारुणे । उदतिष्ठन्निकुञ्जात्तु सिंहः परमकोपनः ॥ 22॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,22,2735,राज्ञा शिलीमुखेनादौ विद्धः क्रोधवशं गतः । दृष्ट्वाग्रे नृपतिं सिंहो ननाद मेघनिःस्वनः ॥ 23॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,23,2736,कृत्वा चोर्ध्वं स लाङ्गूलं प्रसारितबृहत्सटः । हन्तुं नृपतिमाकाशादुत्पपातातिकोपनः ॥ 24॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,24,2737,नृपतिस्तरसा वीक्ष्य दधारासिं करे तदा । वामे चर्म समादाय स्थितः सिंह इवापरः ॥ 25॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,25,2738,सेवकास्तस्य ये सर्वे तेऽपि बाणान्पृथक्पृथक् । अमुञ्चन्कुपिताः कामं सिंहोपरि रुषान्विताः ॥ 26॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,26,2739,हाहाकारो महानासीत्सम्प्रहारश्च दारुणः । उत्पपात ततः सिंहो नृपस्योपरि दारुणः ॥ 27॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,27,2740,तं पतन्तं समालोक्य खड्गेनाभ्यहनन्नृपः । सोऽपि क्रूरैर्नखाग्रैश्च तत्रागत्य विदारितः ॥ 28॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,28,2741,स नखैराहतो राजा पपात च ममार वै । चुक्रुशुः सैनिकास्ते तु निर्जघ्नुर्विशिखैस्तदा ॥ 29॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,29,2742,मृतः सिंहोऽपि तत्रैव भूपतिश्च तथा मृतः । सैनिकैर्मन्त्रिमुख्याश्च तत्रागत्य निवेदिताः ॥ 30॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,30,2743,परलोकगतं भूपं श्रुत्वा ते मन्त्रिसत्तमाः । संस्कारं कारयामासुर्गत्वा तत्र वनान्तिके ॥ 31॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,31,2744,परलोकक्रियां सर्वां वसिष्ठो विधिपूर्वकम् । कारयामास तत्रैव परलोकसुखावहम् ॥ 32॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,32,2745,प्रजाः प्रकृतयश्चैव वसिष्ठश्च महामुनिः । सुदर्शनं नृपं कर्तुं मन्त्रं चक्रुः परस्परम् ॥ 33॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,33,2746,धर्मपत्नीसुतः शान्तः पुरुषश्च सुलक्षणः । अयं नृपासनार्हश्च ह्यब्रुवन्मन्त्रिसत्तमाः ॥ 34॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,34,2747,वसिष्ठोऽपि तथैवाह योग्योऽयं नृपतेः सुतः । बालोऽपि धर्मवान् राजा नृपासनमिहार्हति ॥ 35॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,35,2748,कृते मन्त्रे मन्त्रिवृद्धैर्युधाजिन्नाम पार्थिवः । तत्राजगाम तरसा श्रुत्वा तूज्जयिनीपतिः ॥ 36॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,36,2749,मृतं जामातरं श्रुत्वा लीलावत्याः पिता तदा । तत्राजगाम त्वरितो दौहित्रप्रियकाम्यया ॥ 37॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,37,2750,वीरसेनस्तथाऽऽयातः सुदर्शनहितेच्छया । कलिङ्गाधिपतिश्चैव मनोरमापिता नृपः ॥ 38॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,38,2751,उभौ तौ सैन्यसंयुक्तौ नृपौ साध्वससंस्थितौ । चक्रतुर्मन्त्रिमुख्यैस्तैर्मन्त्रं राज्यस्य कारणात् ॥ 39॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,39,2752,युधाजित्तु तदाऽपृच्छज्ज्येष्ठः कः सुततोर्द्वयोः । राज्यं प्राप्नोति ज्येष्ठो वै न कनीयान्कदाचन ॥ 40॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,40,2753,वीरसेनोऽपि तत्राह धर्मपत्नीसुतः किल । राज्यार्हः स यथा राजन् शास्त्रज्ञेभ्यो मया श्रुतम् ॥ 41॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,41,2754,युधाजित्पुनराहेदं ज्येष्ठोऽयं च यथा गुणैः । राजलक्षणसंयुक्तो न तथायं सुदर्शनः ॥ 42॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,42,2755,विवादोऽत्र सुसम्पन्नो नृपयोस्तत्र लुब्धयोः । कः सन्देहमपाकर्तुं क्षमः स्यादतिसङ्कटे ॥ 43॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,43,2756,युधाजिन्मन्त्रिणः प्राह यूयं स्वार्थपराः किल । सुदर्शनं नृपं कृत्वा धनं भोक्तुं किलेच्छथ ॥ 44॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,44,2757,युष्माकं तु विचारोऽयं मया ज्ञातस्तथेङ्गितैः । शत्रुजित्सबलस्तस्मात्सम्मतो वो नृपासने ॥ 45॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,45,2758,मयि जीवति कः कुर्यात्कनीयांसं नृपं किल । त्यक्त्वा ज्येष्ठं गुणार्हञ्च सेनया च समन्वितम् ॥ 46॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,46,2759,नूनं युद्धं करिष्यामि तस्मिन्खड्गस्य मेदिनी । धारया च द्विधा भूयाद्युष्माकं तत्र का कथा ॥ 47॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,47,2760,वीरसेनस्तु तच्छ्रुत्वा युधाजितमभाषत । बालौ द्वौ सदृशप्रज्ञौ को भेदोऽत्र विचक्षण ॥ 48॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,48,2761,एवं विवदमानौ तौ संस्थितौ नृपती तदा । प्रजाश्च ऋषयश्चैव बभूवुर्व्यग्रमानसाः ॥ 49॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,49,2762,समाजग्मुश्च सामन्ताः ससैन्याः क्लेशतत्पराः । विग्रहञ्चाभिकाङ्क्षन्तः परस्परमतन्द्रिताः ॥ 50॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,50,2763,निषादा ह्याययुस्तत्र श‍ृङ्गवेरपुराश्रयाः । राजद्रव्यमपाहर्तुं मृतं श्रुत्वा महीपतिम् ॥ 51॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,51,2764,पुत्रौ च बालकौ श्रुत्वा विग्रहं च परस्परम् । चौरास्तत्र समाजग्मुर्देशदेशान्तरादपि ॥ 52॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,52,2765,सम्मर्दस्तत्र सञ्जातः कलहे समुपस्थिते । युधाजिद्वीरसेनश्च युद्धकामौ बभूवतुः ॥ 53॥ 3,३.१४,चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।,53,2766,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनं नाम चतुर्दशोऽध्यायः ॥ ३.१४॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,0,2767,व्यास उवाच । संयुगे च सति तत्र भूपयोराहवाय समुपात्तशस्त्रयोः । क्रोधलोभवशयोः समं ततः सम्बभूव तुमुलस्तु विमर्दः ॥ 1॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,1,2768,संस्थितः स समरे धृतचापः पार्थिवः पृथुलबाहुयुधाजित् । संयुतः स्वबलवाहनादिकैराहवाय कृतनिश्चयो नृपः ॥ 2॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,2,2769,वीरसेन इह सैन्यसंयुतः क्षात्रधर्ममनुसृत्य सङ्गरे । पुत्रिकात्मजहिताय पार्थिवः संस्थितः सुरपतेः समतेजाः ॥ 3॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,3,2770,स बाणवृष्टिं विससर्ज पार्थिवो युधाजितं वीक्ष्य रणे स्थितञ्च । गिरिं तडित्वानिव तोयवृष्टिभिः क्रोधान्वितः सत्यपराक्रमोऽसौ ॥ 4॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,4,2771,तं वीरसेनो विशिखैः शिलाशितैः समावृणोदाशुगमैरजिह्मगैः । चिच्छेद बाणैश्च शिलीमुखानसौ तेनैव मुक्तानतिवेगपातिनः ॥ 5॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,5,2772,गजरथतुरगाणां सम्बभूवातियुद्धं सुरनरमुनिसङ्घैर्वीक्षितञ्चातिघोरम् । विततविहगवृन्दैरावृतं व्योम सद्यः पिशितमशितुकामैः कामगृध्रादिभिश्च ॥ 6॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,6,2773,तत्राद्भुता क्षतजसिन्धुरुवाह घोरा वृन्देभ्य एव गजवीरतुरङ्गमाणाम् । त्रासावहा नयनमार्गगता नराणां पापात्मनां रविजमार्गभवेव कामम् ॥ 7॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,7,2774,कीर्णानि भिन्नपुलिने नरमस्तकानि केशावृतानि च विभान्ति यथैव सिन्धौ । तुम्बीफलानि विहितानि विहर्तुकामै- र्बालैर्यथा रविसुताप्रभवैश्च नूनम् ॥ 8॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,8,2775,वीरं मृतं भुवि गतं पतितं रथाद्वै गृध्रः पलार्थमुपरि भ्रमतीति मन्ये । जीवोऽप्यसौ निजशरीरमवेक्ष्य कान्तं काङ्क्षत्यहोऽतिविवशोऽपि पुनः प्रवेष्टुम् ॥ 9॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,9,2776,आजौ हतोऽपि नृवरः सुविमानरूढः स्वाङ्के स्थितां सुरवधूं प्रवदत्यभीष्टम् । पश्याधुना मम शरीरमिदं पृथिव्यां बाणाहतं निपतितं करभोरु कान्तम् ॥ 10॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,10,2777,एको हतस्तु रिपुणैव गतोऽन्तरिक्षं देवाङ्गनां समधिगम्य युतो विमाने । तावत्प्रिया हुतवहे सुसमर्प्य देहं जग्राह कान्तमबला सबला स्वकीया ॥ 11॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,11,2778,युद्धे मृतौ च सुभटौ दिवि सङ्गतौ ता- वन्योन्यशस्त्रनिहतौ सह सम्प्रयातौ । तत्रैव जघ्नतुरलं परमाहितास्त्रा- वेकाप्सरोऽर्थविहतौ कलहाकुलौ च ॥ 12॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,12,2779,कश्चिद्युवा समधिगम्य सुराङ्गनां वै रूपाधिकां गुणवतीं किल भक्तियुक्तः । स्वीयान् गुणान्प्रविततान्प्रवदंस्तदाऽसौ तां प्रेमदामनुचकार च योगयुक्तः ॥ 13॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,13,2780,भौमं रजोऽतिविततं दिवि संस्थितञ्च रात्रिं चकार तरणिञ्च समावृणोद्यत् । मग्नं तदेव रुधिराम्बुनिधावकस्मात् प्रादुर्बभूव रविरप्यतिकान्तियुक्तः ॥ 14॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,14,2781,कश्चिद्गतस्तु गगनं किल देवकन्यां सम्प्राप्य चारुवदनां किल भक्तियुक्ताम् । नाङ्गीचकार चतुरो व्रतनाशभीतो यास्यत्ययं मम वृथा ह्यनुकूलशब्दः ॥ 15॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,15,2782,सङ्ग्रामे संवृते तत्र युधाजित्पृथिवीपतिः । जघान वीरसेनं तं बाणैस्तीव्रैः सुदारुणैः ॥ 16॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,16,2783,निहतः स पपातोर्व्यां छिन्नमूर्धा महीपतिः । प्रभग्नं तद्बलं सर्वं निर्गतं च चतुर्दिशम् ॥ 17॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,17,2784,मनोरमा हतं श्रुत्वा पितरं रणमूर्धनि । भयत्रस्ताथ सञ्जाता पितुर्वैरमनुस्मरन् ॥ 18॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,18,2785,हनिष्यति युधाजिद्वै पुत्रं मम दुराशयः । राज्यलोभेन पापात्मा सेति चिन्तापराभवत् ॥ 19॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,19,2786,किं करोमि क्व गच्छामि पिता मे निहतो रणे । भर्ता चापि मृतोऽद्यैव पुत्रोऽयं मम बालकः ॥ 20॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,20,2787,लोभोऽतीव च पापिष्ठस्तेन को न वशीकृतः । किं न कुर्यात्तदाविष्टः पापं पार्थिवसत्तमः ॥ 21॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,21,2788,पितरं मातरं भ्रातॄन्गुरून्स्वजनबान्धवान् । हन्ति लोभसमाविष्टो जनो नात्र विचारणा ॥ 22॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,22,2789,अभक्ष्यभक्षणं लोभादगम्यागमनं तथा । करोति किल तृष्णार्तो धर्मत्यागं तथा पुनः ॥ 23॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,23,2790,न सहायोऽस्ति मे कश्चिन्नगरेऽत्र महाबलः । यदाधारे स्थिता चाहं पालयामि सुतं शुभम् ॥ 24॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,24,2791,हते पुत्रे नृपेणाद्य किं करिष्याम्यहं पुनः । न मे त्राताऽस्ति भुवने येन वै सुस्थिता ह्यहम् ॥ 25॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,25,2792,सापि वैरयुता कामं सपत्नी सर्वदा भवेत् । लीलावती न मे पुत्रे भविष्यति दयावती ॥ 26॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,26,2793,युधाजिति समायाते न मे निःसरणं भवेत् । ज्ञात्वा बालं सुतं सोऽद्य कारागारं नयिष्यति ॥ 27॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,27,2794,श्रूयते हि पुरेन्द्रेण मातुर्गर्भगतः शिशुः । कृन्तितः सप्तधा पश्चात्कृतास्ते सप्त सप्तधा ॥ 28॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,28,2795,प्रविश्य चोदरं मातुः करे कृत्वाल्पकं पविम् । एकोनपञ्चाशदपि तेऽभवन्मरुतो दिवि ॥ 29॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,29,2796,सपत्न्यै गरलं दत्तं सपत्न्या नृपभार्यया । गर्भनाशार्थमुद्दिश्य पुरैतद्वै मया श्रुतम् ॥ 30॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,30,2797,जातस्तु बालकः पश्चाद्देहे विषयुतः किल । तेनासौ सगरो नाम विख्यातो भुवि मण्डले ॥ 31॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,31,2798,जीवमानोऽथ भर्ता वै कैकेय्या नृपभार्यया । रामः प्रव्राजितो ज्येष्ठो मृतो दशरथो नृपः ॥ 32॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,32,2799,मन्त्रिणस्त्ववशाः कामं ये मे पुत्रं सुदर्शनम् । राजानं कर्तुकामा वै युधाजिद्वशगाश्च ते ॥ 33॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,33,2800,न मे भ्राता तथा शूरो यो मां बन्धात्प्रमोचयेत् । महत्कष्टञ्च सम्प्राप्तं मया वै दैवयोगतः ॥ 34॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,34,2801,उद्यमः सर्वथा कार्यः सिद्धिर्दैवाद्धि जायते । उपायं पुत्ररक्षार्थं करोम्यद्य त्वरान्विता ॥ 35॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,35,2802,इति सञ्चिन्त्य सा बाला विदल्लं चातिमानिनम् । निपुणं सर्वकार्येषु चिन्त्यं मन्त्रिवरोत्तमम् ॥ 36॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,36,2803,समाहूय तमेकान्ते प्रोवाच बहुदुःखिता । गृहीत्वा बालकं हस्ते रुदती दीनमानसा ॥ 37॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,37,2804,पिता मे निहतः सङ्ख्ये पुत्रोऽयं बालकस्तथा । युधाजिद्बलवान् राजा किं विधेयं वदस्व मे ॥ 38॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,38,2805,तामुवाच विदल्लोऽसौ नात्र स्थातव्यमेव च । गमिष्यामो वने कामं वाराणस्याः पुनः किल ॥ 39॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,39,2806,तत्र मे मातुलः श्रीमान्वर्तते बलवत्तरः । सुबाहुरिति विख्यातो रक्षिता स भविष्यति ॥ 40॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,40,2807,युधाजिद्दर्शनोत्कण्ठमनसा नगराद्बहिः । निर्गत्य रथमारुह्य गन्तव्यं नात्र संशयः ॥ 41॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,41,2808,इत्युक्ता तेन सा राज्ञी गत्वा लीलावतीं प्रति । उवाच पितरं द्रष्टुं गच्छाम्यद्य सुलोचने ॥ 42॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,42,2809,इत्युक्त्वा रथमारुह्य सैरन्ध्रीसंयुता तदा । विदल्लेन च संयुक्ता निःसृता नगराद्बहिः ॥ 43॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,43,2810,त्रस्ता ह्यार्तातिकृपणा पितुः शोकसमाकुला । दृष्ट्वा युधाजितं भूपं पितरं गतजीवितम् ॥ 44॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,44,2811,संस्कार्य च त्वरायुक्ता वेपमाना भयाकुला । दिनद्वयेन सम्प्राप्ता राज्ञी भागीरथीतटम् ॥ 45॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,45,2812,निषादैलुण्ठिता तत्र गृहीतं सकलं वसु । रथञ्चापि गृहीत्वा ते निर्गता दस्यवः शठाः ॥ 46॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,46,2813,रुदती सुतमादाय चारुवस्त्रा मनोरमा । निर्ययौ जाह्नवीतीरे सैरन्ध्रीकरलम्बिता ॥ 47॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,47,2814,आरुह्य च भयाच्छीघ्रमुडुपं सा भयाकुला । तीर्त्वा भागीरथीं पुण्यां ययौ त्रिकूटपर्वतम् ॥ 48॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,48,2815,भारद्वाजाश्रमं प्राप्ता त्वरया च भयाकुला । संवीक्ष्य तापसांस्तत्र सञ्जाता निर्भया तदा ॥ 49॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,49,2816,मुनिना सा ततः पृष्टा काऽसि कस्य परिग्रहः । कष्टेनात्र कथं प्राप्ता सत्यं ब्रूहि शुचिस्मिते ॥ 50॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,50,2817,देवी वा मानुषी वासि बालपुत्रा वने कथम् । राज्यभ्रष्टेव वामोरु भासि त्वं कमलेक्षणे ॥ 51॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,51,2818,एवं सा मुनिना पृष्टा नोवाच वरवर्णिनी । रुदती दुःखसन्तप्ता विदल्लं च समादिशत् ॥ 52॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,52,2819,विदल्लस्तमुवाचेदं ध्रुवसन्धिर्नृपोत्तमः । तस्य भार्या धर्मपत्नी नाम्ना चेयं मनोरमा ॥ 53॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,53,2820,सिंहेन निहतो राजा सूर्यवंशी महाबलः । पुत्रोऽयं नृपतेस्तस्य नाम्ना चैव सुदर्शनः ॥ 54॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,54,2821,अस्याः पितातिधर्मात्मा दौहित्रार्थं मृतो रणे । युधाजिद्भयसन्त्रस्ता सम्प्राप्ता विजने वने ॥ 55॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,55,2822,त्वामेव शरणं प्राप्ता बालपुत्रा नृपात्मजा । त्राता भव महाभाग त्वमस्या मुनिसत्तम ॥ 56॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,56,2823,आर्तस्य रक्षणे पुण्यं यज्ञाधिकमुदाहृतम् । भयतस्तस्य दीनस्य विशेषफलदं स्मृतम् ॥ 57॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,57,2824,ऋषिरुवाच । निर्भया वस कल्याणि पुत्रं पालय सुव्रते । न ते भयं विशालाक्षि कर्तव्यं शत्रुसम्भवम् ॥ 58॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,58,2825,पालयस्व सुतं कान्तं राजा तेऽयं भविष्यति । नात्र दुःखं तथा शोकः कदाचित्सम्भविष्यति ॥ 59॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,59,2826,व्यास उवाच । इत्युक्ता मुनिना राज्ञी स्वस्था सा सम्बभूव ह । उटजे मुनिना दत्ते वीतशोका तदावसत् ॥ 60॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,60,2827,सैरन्ध्रीसहिता तत्र विदल्लेन च संयुता । सुदर्शनं पालयाना न्यवसत्सा मनोरमा ॥ 61॥ 3,३.१५,पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।,61,2828,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे मनोरमया भारद्वाजाश्रमं प्रति गमनं नाम पञ्चदशोऽध्यायः ॥ ३.१५॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,0,2829,व्यास उवाच । युधाजित्त्वथ सङ्ग्रामाद्गत्वाऽयोध्यां महाबलः । मनोरमां च पप्रच्छ सुदर्शनजिघांसया ॥ 1॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,1,2830,सेवकान् प्रेषयामास क्व गतेति मुहुर्वदन् । शुभे दिनेऽथ दौहित्रं स्थापयामास चासने ॥ 2॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,2,2831,मन्त्रिभिश्च वसिष्ठेन मन्त्रैराथर्वणैः शुभैः । अभिषिक्तश्च सम्पूर्णैः कलशैर्जलपूरितैः ॥ 3॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,3,2832,भेरीशङ्खनिनादैश्च तूर्याणां चाथ निःस्वनैः । उत्सवस्तु नगर्या वै सम्बभूव कुरूद्वह ॥ 4॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,4,2833,विप्राणां वेदपाठैश्च बन्दिनां स्तुतिभिस्तथा । अयोध्या मुदितेवासीज्जयशब्दैः सुमङ्गलैः ॥ 5॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,5,2834,हृष्टपुष्टजनाकीर्णा स्तुतिवादित्रनिःस्वना । नवे तस्मिन्महीपाले पूर्बभौ नूतनेव सा ॥ 6॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,6,2835,केचित्साधुजना ये वै चक्रुः शोकं गृहे स्थिताः । सुदर्शनं विचिन्त्याद्य क्व गतोऽसौ नृपात्मजः ॥ 7॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,7,2836,मनोरमातिसाध्वी सा क्व गता सुतसंयुता । पिताऽस्या निहतः सङ्ख्ये राज्यलोभेन वैरिणा ॥ 8॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,8,2837,इत्येवं चिन्त्यमानास्ते साधवः समबुद्धयः । अतिष्ठन्दुःखितास्तत्र शत्रुजिद्वशवर्तिनः ॥ 9॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,9,2838,युधाजिदपि दौहित्रं स्थापयित्वा विधानतः । राज्यञ्च मन्त्रिसात्कृत्वा चलितः स्वां पुरीं प्रति ॥ 10॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,10,2839,श्रुत्वा सुदर्शनं तत्र मुनीनामाश्रमे स्थितम् । हन्तुकामो जगामाशु चित्रकूटं स पर्वतम् ॥ 11॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,11,2840,निषादाधिपतिं शूरं पुरस्कृत्य बलाभिधम् । दुर्दर्शाख्यमगादाशु श‍ृङ्गवेरपुराधिपम् ॥ 12॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,12,2841,श्रुत्वा मनोरमा तत्र बभूवातिसुदुःखिता । आगच्छन्तं बालपुत्रा भयार्ता सैन्यसंयुतम् ॥ 13॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,13,2842,तमुवाचातिशोकार्ता मुनिं साश्रुविलोचना । किं करोमि क्व गच्छामि युधाजित्समुपस्थितः ॥ 14॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,14,2843,पिता मे निहतोऽनेन दौहित्रो भूपतिः कृतः । सुतं मे हन्तुकामोऽत्र समायाति बलान्वितः ॥ 15॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,15,2844,पुरा श्रुतं मया स्वामिन्पाण्डवा वै वने स्थिताः । मुनीनामाश्रमे पुण्ये पाञ्चाल्या सहितास्तदा ॥ 16॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,16,2845,गतास्ते मृगयां पार्था भ्रातरः पञ्च एव ते । द्रौपदी संस्थिता तत्र मुनीनामाश्रमे शुभे ॥ 17॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,17,2846,धौम्योऽत्रिर्गालवः पैलो जावालिर्गौतमो भृगुः । च्यवनश्चात्रिगोत्रश्च कण्वश्चैव जतुः क्रतुः ॥ 18॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,18,2847,वीतिहोत्रः सुमन्तुश्च यज्ञदत्तोऽथ वत्सलः । राशासनः कहोडश्च यवक्रीर्यज्ञकृत्क्रतुः ॥ 19॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,19,2848,एते चान्ये च मुनयो भारद्वाजादयः शुभाः । वेदपाठयुताः सर्वे संस्थिताश्चाश्रमे स्थिताः ॥ 20॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,20,2849,दासीभिः सहिता तत्र याज्ञसेनी स्थिता मुने । आश्रमे चारुसर्वाङ्गी निर्भया मुनिसंवृते ॥ 21॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,21,2850,पार्था मृगानुगास्तावत्प्रयाताश्च वनाद्वनम् । धनुर्बाणधरा वीराः पञ्च वै शत्रुतापनाः ॥ 22॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,22,2851,तावत्सिन्धुपतिः श्रीमान्मार्गस्थो बलसंयुतः । आगतश्चाश्रमाभ्याशे श्रुत्वा तु निगमन्ध्वनिम् ॥ 23॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,23,2852,श्रुत्वा वेदध्वनिं राजा मुनीनां भावितात्मनाम् । उत्ततार रथात्तूर्णं दर्शनाकाङ्क्षया नृपः ॥ 24॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,24,2853,यदा निरगमत्तत्र भृत्यद्वयसमन्वितः । वेदपाठयुतान्वीक्ष्य मुनीनुद्यमसंस्थितः ॥ 25॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,25,2854,कृताञ्जलिपुटः स्वामिन्संस्थितोऽथ जयद्रथः । आश्रमे मुनिभिर्जुष्टे भूपतिः संविवेश ह ॥ 26॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,26,2855,तत्रोपविष्टं राजानं द्रष्टुकामाः स्त्रियस्तदा । आययुर्मुनिभार्याश्च कोऽयमित्यब्रुवन्नृपम् ॥ 27॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,27,2856,तासां मध्ये वरारोहा याज्ञसेनी समागता । जयद्रथेन दृष्टा सा रूपेण श्रीरिवापरा ॥ 28॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,28,2857,तां विलोक्यासितापाङ्गीं देवकन्यामिवापराम् । पप्रच्छ नृपतिर्धौम्यं केयं श्यामा वरानना ॥ 29॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,29,2858,भार्या कस्य सुता कस्य नाम्ना का वरवर्णिनी । रूपलावण्यसंयुक्ता शचीव वसुधाङ्गता ॥ 30॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,30,2859,बर्बूलवनमध्यस्था लवङ्गलतिका यथा । राक्षसीवृन्दगा नूनं रम्भेवाभाति भामिनी ॥ 31॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,31,2860,सत्यं वद महाभाग कस्येयं वल्लभाबला । राजपत्नीव चाभाति नैषा मुनिवधूर्द्विज ॥ 32॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,32,2861,धौम्य उवाच । पाण्डवानां प्रिया भार्या द्रौपदी शुभलक्षणा । पाञ्चाली सिन्धुराजेन्द्र वसत्यत्र वराश्रमे ॥ 33॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,33,2862,जयद्रथ उवाच । क्व गताः पाण्डवाः पञ्च शूराः सम्प्रति विश्रुताः । वसन्त्यत्र वने वीरा वीतशोका महाबलाः ॥ 34॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,34,2863,धौम्य उवाच । मृगयार्थं गताः पञ्च पाण्डवा रथसंस्थिताः । आगमिष्यन्ति मध्यान्हे मृगानादाय पार्थिवाः ॥ 35॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,35,2864,तच्छ्रुत्वा वचनं तस्य उदतिष्ठदसौ नृपः । द्रौपदीसन्निधौ गत्वा प्रगम्येदमुवाच ह ॥ 36॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,36,2865,कुशलं ते वरारोहे क्व गताः पतयश्च ते । एकादश गतान्यद्य वर्षाणि च वने किल ॥ 37॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,37,2866,द्रौपदी तु तदोवाच स्वस्ति तेऽस्तु नृपात्मज । विश्रमस्वाश्रमाभ्याशे क्षणादायान्ति पाण्डवाः ॥ 38॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,38,2867,एवं ब्रुवन्त्यां तस्यां तु लोभाविष्टः स भूपतिः । जहार द्रौपदीं वीरोऽनादृत्य मुनिसत्तमान् ॥ 39॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,39,2868,कस्यचिन्नैव विश्वासः कर्तव्यः सर्वथा बुधैः । कुर्वन्दुःखमवाप्नोति दृष्टान्तस्त्वत्र वै बलिः ॥ 40॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,40,2869,वैरोचनसुतः श्रीमान्धर्मिष्ठः सत्यसङ्गरः । यज्ञकर्ता च दाता च शरण्यः साधुसम्मतः ॥ 41॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,41,2870,नाधर्मे निरतः क्वापि प्रल्हादस्य च पौत्रकः । एकोनशतयज्ञान्वै स चकार सदक्षिणान् ॥ 42॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,42,2871,सत्त्वमूर्त्तिः सदा विष्णुः सेव्यः स योगिनामपि । निर्विकारोऽपि भगवान्देवकार्यार्थसिद्धये ॥ 43॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,43,2872,कश्यपाच्च समुद्भूतो विष्णुः कपटवामनः । राज्यं छलेन हृतवान्महीं चैव ससागराम् ॥ 44॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,44,2873,सोऽभवत्सत्यवाग्राजा बलिर्वैरोचनिस्तदा । कपटं कृतवान्विष्णुरिन्द्रार्थे तु मया श्रुतम् ॥ 45॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,45,2874,अन्यः किं न करोत्येवं कृतं वै सत्त्वमूर्तिना । वामनं रूपमास्थाय यज्ञपातं चिकीर्षता ॥ 46॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,46,2875,न च विश्वसितव्यं वै कदाचित्केनचित्तथा । लोभश्चेतसि चेत्स्वामिन्कीदृक्पापकृतं भयम् ॥ 47॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,47,2876,लोभाहताः प्रकुर्वन्ति पापानि प्राणिनः किल । परलोकाद्भयं नास्ति कस्यचित्कर्हिचिन्मुने ॥ 48॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,48,2877,मनसा कर्मणा वाचा परस्वादानहेतुतः । प्रपतन्ति नराः सम्यग्लोभोपहतचेतसः ॥ 49॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,49,2878,देवानाराध्य सततं वाञ्छन्ति च धनं नराः । न देवास्तत्करे कृत्वा समर्था दातुमञ्जसा ॥ 50॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,50,2879,अन्यस्यानीयते वित्तं प्रयच्छन्ति मनीषितम् । वाणिज्येनाथ दानेन चौर्येणापि बलेन वा ॥ 51॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,51,2880,विक्रयार्थं गृहीत्वा च धान्यवस्त्रादिकं बहु । देवानर्चयते वैश्यो महर्द्धिर्मे भवेदिति ॥ 52॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,52,2881,नात्र किं परवित्तेच्छा वाणिज्येन परन्तप । ग्रहणकाले तु सम्प्राप्ते महर्घञ्चापि काङ्क्षति ॥ 53॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,53,2882,एवं हि प्राणिनः सर्वे परस्वादानतत्पराः । वर्तन्ते सततं ब्रह्मन् विश्वासः कीदृशः पुनः ॥ 54॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,54,2883,वृथा तीर्थं वृथा दानं वृथाऽध्ययनमेव च । लोभमोहावृतानां वै कृतं तदकृतं भवेत् ॥ 55॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,55,2884,तस्मादेनं महाभाग विसर्जय गृहं प्रति । सपुत्राऽहं वसिष्यामि जानकीवद्द्विजोत्तम ॥ 56॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,56,2885,इत्युक्तोऽसौ मुनिस्तावद्गत्वा युधाजितं नृपम् । उवाच वचनं राज्ञे भारद्वाजः प्रतापवान् ॥ 57॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,57,2886,गच्छ राजन् यथाकामं स्वपुरं नृपसत्तम । नेयं मनोरमाभ्येति बालपुत्रा सुदुःखिता ॥ 58॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,58,2887,युधाजिदुवाच । मुने मुञ्च हठं सौम्य विसर्जय मनोरमाम् । न च यास्याम्यहं मुक्त्वा नेष्याम्यद्य बलात्पुनः ॥ 59॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,59,2888,ऋषिरुवाच । नयस्व यदि शक्तिस्ते बलेनाद्य ममाश्रमात् । विश्वामित्रो यथा धेनुं वसिष्ठस्य मुनेः पुरा ॥ 60॥ 3,३.१६,षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।,60,2889,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे युधाजिद्भारद्वाजयोः संवादवर्णनं नाम षोडशोऽध्यायः ॥ ३.१६॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,0,2890,व्यास उवाच । इत्याकर्ण्य वचस्तस्य मुनेस्तत्रावनीपतिः । मन्त्रिवृद्धं समाहूय पप्रच्छ तमतन्द्रितः ॥ 1॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,1,2891,किं कर्तव्यं सुबुद्धेऽत्र मयाऽद्य वद सुव्रत । बलान्नयामि तां कामं सपुत्राञ्च सुभाषिणीम् ॥ 2॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,2,2892,रिपुरल्पोऽपि नोपेक्ष्यः सर्वथा शुभमिच्छता । राजयक्ष्मेव संवृद्धो मृत्यवे परिकल्पयेत् ॥ 3॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,3,2893,नात्र सैन्यं न योद्धास्ति यो मामत्र निवारयेत् । गृहीत्वा हन्मि तं तत्र दौहित्रस्य रिपुं किल ॥ 4॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,4,2894,निष्कण्टकं भवेद्राज्यं यताम्यद्य बलादहम् । हते सुदर्शने नूनं निर्भयोऽसौ भवेदिति ॥ 5॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,5,2895,प्रधान उवाच । साहसं न हि कर्तव्यं श्रुतं राजन् मुनेर्वचः । विश्वामित्रस्य दृष्टान्तः कथितस्तेन मारिष ॥ 6॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,6,2896,पुरा गाधिसुतः श्रीमान्विश्वामित्रोऽतिविश्रुतः । विचरन्स नृपश्रेष्ठो वसिष्ठाश्रममभ्यगात् ॥ 7॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,7,2897,नमस्कृत्य च तं राजा विश्वामित्रः प्रतापवान् । उपविष्टो नृपश्रेष्ठो मुनिना दत्तविष्टरः ॥ 8॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,8,2898,निमन्त्रितो वसिष्ठेन भोजनाय महात्मना । ससैन्यश्च स्थितो राजा गाधिपुत्रो महायशाः ॥ 9॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,9,2899,नन्दिन्याऽऽसादितं सर्वं भक्ष्यभोज्यादिकं च यत् । भुक्त्वा राजा ससैन्यश्च वाञ्छितं तत्र भोजनम् ॥ 10॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,10,2900,प्रतापं तञ्च नन्दिन्याः परिज्ञाय स पार्थिवः । ययाचे नन्दिनीं राजा वसिष्ठं मुनिसत्तमम् ॥ 11॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,11,2901,विश्वामित्र उवाच । मुने धेनुसहस्रं ते घटोध्नीनां ददाम्यहम् । नन्दिनीं देहि मे धेनुं प्रार्थयामि परन्तप ॥ 12॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,12,2902,वसिष्ठ उवाच । होमधेनुरियं राजन्न ददामि कथञ्चन । सहस्रञ्चापि धेनूनां तवेदं तव तिष्ठतु ॥ 13॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,13,2903,विश्वामित्र उवाच । अयुतं वाथ लक्ष्यं वा ददामि मनसेप्सितम् । द्देहि मे नन्दिनीं साधो ग्रहीष्यामि बलादथ ॥ 14॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,14,2904,वसिष्ठ उवाच । कामं गृहाण नृपते बलादद्य यथारुचि । नाहं ददामि ते राजन्स्वेच्छया नन्दिनीं गृहात् ॥ 15॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,15,2905,तच्छ्रुत्वा नृपतिर्भृत्यानादिदेश महाबलान् । नयघ्वं नन्दिनीं धेनुं बलदर्पसुसंस्थिताः ॥ 16॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,16,2906,ते भृत्या जगृहुस्तां तु हठादाक्रम्य यन्त्रिताम् । वेपमाना मुनिं प्राह सुरभिः साश्रुलोचना ॥ 17॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,17,2907,मुने त्यजसि मां कस्मात्कर्षयन्ति सुयन्त्रिताम् । मुनिस्तां प्रत्युवाचेदं त्यजे नाहं सुदुग्धदे ॥ 18॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,18,2908,बलान्नयति राजाऽसौ पूजितोऽद्य मया शुभे । किं करोमि न चेच्छामि त्यक्तुं त्वां मनसा किल ॥ 19॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,19,2909,इत्युक्ता मुनिना धेनुः क्रोधयुक्ता बभूव ह । हम्भारवं चकाराशु क्रूरशब्दं सुदारुणम् ॥ 20॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,20,2910,उद्गतास्तत्र देहात्तु दैत्या घोरतरास्तदा । सायुधास्तिष्ठ तिष्ठेति ब्रुवन्तः कवचावृताः ॥ 21॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,21,2911,सैन्यं सर्वं हतं तैस्तु नन्दिनी प्रतिमोचिता । एकाकी निर्गतो राजा विश्वामित्रोऽतिदुःखितः ॥ 22॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,22,2912,हन्त पापोऽतिदीनात्मा निन्दन् क्षात्रबलं महत् । ब्राह्मं बलं दुराराध्यं मत्वा तपसि संस्थितः ॥ 23॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,23,2913,तप्त्वा बहूनि वर्षाणि तपो घोरं महावने । ऋषित्वं प्राप गाधेयस्त्यक्त्वा क्षात्रं विधिं पुनः ॥ 24॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,24,2914,तस्मात्त्वमपि राजेन्द्र मा कृथा वैरमद्भुतम् । कुलनाशकरं नूनं तापसैः सह संयुगम् ॥ 25॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,25,2915,मुनिवर्यं व्रजाद्य त्वं समाश्वास्य तपोनिधिम् । सुदर्शनोऽपि राजेन्द्र तिष्ठत्वत्र यथासुखम् ॥ 26॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,26,2916,बालोऽयं निर्धनः किं ते करिष्यति नृपाहितम् । वृथा ते वैरभावोऽयमनाथे दुर्बले शिशौ ॥ 27॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,27,2917,दया सर्वत्र कर्तव्या दैवाधीनमिदं जगत् । ईर्ष्यया किं नृपश्रेष्ठ यद्भाव्यं तद्भविष्यति ॥ 28॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,28,2918,वज्रं तृणायते राजन् दैवयोगान्न संशयः । तृणं वज्रायते क्वापि समये दैवयोगतः ॥ 29॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,29,2919,शशको हन्ति शार्दूलं मशको वै तथा गजम् । साहसं मुञ्च मेधाविन् कुरु मे वचनं हितम् ॥ 30॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,30,2920,व्यास उवाच । तच्छ्रुत्वा वचनं तस्य युधाजिन्नृपसत्तमः । प्रणम्य तं मुनिं मूर्घ्ना जगाम स्वपुरं नृपः ॥ 31॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,31,2921,मनोरमाऽपि स्वस्थाऽभूदाश्रमे तत्र संस्थिता । पालयामास पुत्रं तं सुदर्शनमृतव्रतम् ॥ 32॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,32,2922,दिने दिने कुमारोऽसौ जगामोपचयं ततः । मुनिबालगतः क्रीडन्निर्भयः सर्वतः शुभः ॥ 33॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,33,2923,एकस्मिन्समये तत्र विदल्लं समुपागतम् । क्लीबेति मुनिपुत्रस्तमामन्त्रयत्तदन्तिके ॥ 34॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,34,2924,सुदर्शनस्तु तच्छ्रुत्वा दधारैकाक्षरं स्फुटम् । अनुस्वारयुतं तच्च प्रोवाचापि पुनः पुनः ॥ 35॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,35,2925,बीजं वै कामराजाख्यं गृहीतं मनसा तदा । जजाप बालकोऽत्यर्थं धृत्वा चेतसि सादरम् ॥ 36॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,36,2926,भावियोगान्महाराज कामराजाख्यमद्भुतम् । स्वभावेनैव तेनेत्थं गृहीतं बालकेन वै ॥ 37॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,37,2927,तदाऽसौ पञ्चमे वर्षे प्राप्य मन्त्रमनुत्तमम् । ऋषिच्छन्दोविहीनञ्च ध्यानन्यासविवर्जितम् ॥ 38॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,38,2928,प्रजपन्मनसा नित्यं क्रीडत्यपि स्वपित्यपि । विसस्मार न तं मन्त्रं ज्ञात्वा सारमिति स्वयम् ॥ 39॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,39,2929,वर्षे चैकादशे प्राप्ते कुमारोऽसौ नृपात्मजः । मुनिना चोपनीतोऽथ वेदमध्यापितस्तथा ॥ 40॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,40,2930,धनुर्वेदं तथा साङ्गं नीतिशास्त्रं विधानतः । अभ्यस्ताः सकला विद्यास्तेन मन्त्रबलादिना ॥ 41॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,41,2931,कदाचित्सोऽपि प्रत्यक्षं देवीरूपं ददर्श ह । रक्ताम्बरं रक्तवर्णं रक्तसर्वाङ्गभूषणम् ॥ 42॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,42,2932,गरुडे वाहने संस्थां वैष्णवीं शक्तिमद्भुताम् । दृष्ट्वा प्रसन्नवदनः स बभूव नृपात्मजः ॥ 43॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,43,2933,वने तस्मिंस्थितः सोऽथ सर्वविद्यार्थतत्त्ववित् । मातरं सेवमानस्तु विजहार नदीतटे ॥ 44॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,44,2934,शरासनञ्च सम्प्राप्तं विशिखाश्च शिलाशिताः । तूणीरकवचं तस्मै दत्तं चाम्बिकया वने ॥ 45॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,45,2935,एतस्मिन्समये पुत्री काशिराजस्य सुप्रिया । नाम्ना शशिकला दिव्या सर्वलक्षणसंयुता ॥ 46॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,46,2936,शुश्राव नृपपुत्रं तं वनस्थञ्च सुदर्शनम् । सर्वलक्षणसम्पन्नं शूरं काममिवापरम् ॥ 47॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,47,2937,बन्दीजनमुखाच्छ्रुत्वा राजपुत्रं सुसङ्गतम् । चकमे मनसा तं वै वरं वरयितुं धिया ॥ 48॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,48,2938,स्वप्ने तस्याः समागम्य जगदम्बा निशान्तरे । उवाच वचनं चेदं समाश्वास्य सुसंस्थिता ॥ 49॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,49,2939,वरं वरय सुश्रोणि मम भक्तः सुदर्शनः । सर्वकामप्रदस्तेऽस्तु वचनान्मम भामिनि ॥ 50॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,50,2940,एवं शशिकला दृष्टा स्वप्ने रूपं मनोहरम् । अम्बाया वचनं स्मृत्वा जहर्ष भृशभामिनी ॥ 51॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,51,2941,उत्थिता सा मुदा युक्ता पृष्टा मात्रा पुनः पुनः । प्रमोदे कारणं बाला नोवाचातित्रपान्विता ॥ 52॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,52,2942,जहास मुदमापन्ना स्मृत्वा स्वप्नं मुहुर्मुहुः । सखीं प्राह तदान्यां वै स्वप्नवृत्तं सविस्तरम् ॥ 53॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,53,2943,कदाचित्सा विहारार्थमवापोपवनं शुभम् । सखीयुक्ता विशालाक्षी चम्पकैरुपशोभितम् ॥ 54॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,54,2944,पुष्पाणि चिन्वती बाला चम्पकाधःस्थिताबला । अपश्यद्ब्राह्मणं मार्गे आगच्छन्तं त्वरान्वितम् ॥ 55॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,55,2945,तं प्रणम्य द्विजं श्यामा बभाषे मधुरं वचः । कुतो देशान्महाभाग कृतमागमनं त्वया ॥ 56॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,56,2946,द्विज उवाच । भारद्वाजाश्रमाद्बाले नूनमागमनं मम । जातं वै कार्ययोगेन किं पृच्छसि वदस्व मे ॥ 57॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,57,2947,शशिकलोवाच । तत्राश्रमे महाभाग वर्णनीयं किमस्ति वै । लोकातिगं विशेषेण प्रेक्षणीयतमं किल ॥ 58॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,58,2948,ब्राह्मण उवाच । ध्रुवसन्धिसुतः श्रीमानास्ते सुदर्शनो नृपः । यथार्थनामा सुश्रोणि वर्तते पुरुषोत्तमः ॥ 59॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,59,2949,तस्य लोचनमत्यन्तं निष्फलं प्रतिभाति मे । येन दृष्टो न वामोरु कुमारस्तु सुदर्शनः ॥ 60॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,60,2950,एकत्र निहिता धात्रा गुणाः सर्वे सिसृक्षुणा । गुणानामाकरं द्रष्टुं मन्ये तेनैव कौतुकात् ॥ 61॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,61,2951,तव योग्यः कुमारोऽसौ भर्ता भवितुमर्हति । योगोऽयं विहितोऽप्यासीन्मणिकाञ्चनयोरिव ॥ 62॥ 3,३.१७,सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।,62,2952,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनं नाम सप्तदशोऽध्यायः ॥ ३.१७॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,0,2953,व्यास उवाच । श्रुत्वा तद्वचनं श्यामा प्रेमयुक्ता बभूव ह । प्रतस्थे ब्राह्मणस्तस्मात्स्थानादुक्त्वा समाहितः ॥ 1॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,1,2954,सा तु पूर्वानुरागाद्वै मग्ना प्रेम्णाऽतिचञ्चला । कामबाणहतेवास गते तस्मिन्द्विजोत्तमे ॥ 2॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,2,2955,अथ कामार्दिता प्राह सखीं छन्दोऽनुवर्तिनीम् । विकारश्च समुत्पन्नो देहे यच्छ्रवणादनु ॥ 3॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,3,2956,अज्ञातरसविज्ञानं कुमारं कुलसम्भवम् । दुनोति मदनः पापः किं करोमि क्व यामि च ॥ 4॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,4,2957,स्वप्नेषु वा मया दृष्टः पञ्चबाण इवापरः । तपते मे मनोऽत्यर्थं विरहाकुलितं मृदु ॥ 5॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,5,2958,चन्दनं देहलग्नं मे विषवद्भाति भामिनि । स्रगियं सर्पवच्चैव चन्द्रपादाश्च वह्निवत् ॥ 6॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,6,2959,न च हर्म्ये वने शं मे दीर्घिकायां न पर्वते । न दिवा न निशायां वा न सुखं सुखसाधनैः ॥ 7॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,7,2960,न शय्या न च ताम्बूलं न गीतं न च वादनम् । प्रीणयन्ति मनो मेऽद्य न तृप्ते मम लोचने ॥ 8॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,8,2961,प्रयाम्यद्य वने तत्र यत्रासौ वर्तते शठः । भीतास्मि कुललज्जायाः परतन्त्रा पितुस्तथा ॥ 9॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,9,2962,स्वयंवरं पिता मेऽद्य न करोति करोमि किम् । दास्यामि राजपुत्राय कामं सुदर्शनाय वै ॥ 10॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,10,2963,सन्त्यन्ये पृथिवीपालाः शतशः सम्भृतर्द्धयः । रमणीया न मे तेऽद्य राज्यहीनोऽप्यसौ मतः ॥ 11॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,11,2964,व्यास उवाच । एकाकी निर्धनश्चैव बलहीनः सुदर्शनः । वनवासी फलाहारस्तस्याश्चित्ते सुसंस्थिता ॥ 12॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,12,2965,वाग्बीजस्य जपात्सिद्धिस्तस्या एषाप्युपस्थिता । सोपि ध्यानपरोऽत्यन्तं जजाप मन्त्रमुत्तमम् ॥ 13॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,13,2966,स्वप्ने पश्यत्यसौ देवीं विष्णुमायामखण्डिताम् । विश्वमातरमव्यक्तां सर्वसम्पत्कराम्बिकाम् ॥ 14॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,14,2967,श‍ृङ्गवेरपुराध्यक्षो निषादः समुपेत्य तम् । ददौ रथवरं तस्मै सर्वोपस्करसंयुतम् ॥ 15॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,15,2968,चतुर्भिस्तुरगैर्युक्तं पताकावरमण्डितम् । जैत्रं राजसुतं ज्ञात्वा ददौ चोपायनं तदा ॥ 16॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,16,2969,सोऽपि जग्राह तं प्रीत्या मित्रत्वेन सुसंस्थितम् । वन्यैर्मूलफलैः सम्यगर्चयामास शम्बरम् ॥ 17॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,17,2970,कृतातिथ्ये गते तस्मिन्निषादाधिपतौ तदा । मुनयः प्रीतियुक्तास्ते तमूचुस्तापसा मिथः ॥ 18॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,18,2971,राजपुत्र ध्रुवं राज्यं प्राप्स्यसि त्वं च सर्वथा । स्वल्पैरहोभिरव्यग्रः प्रतापान्नात्र संशयः ॥ 19॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,19,2972,प्रसन्ना तेऽम्बिका देवी वरदा विश्वमोहिनी । सहायस्तु सुसम्पन्नो न चिन्तां कुरु सुव्रत ॥ 20॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,20,2973,मनोरमां तथोचुस्ते मुनयः संशितव्रताः । पुत्रस्तेऽद्य धराधीशो भविष्यति शुचिस्मिते ॥ 21॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,21,2974,सा तानुवाच तन्वङ्गी वचनं वोऽस्तु सत्फलम् । दासोऽयं भवतां विप्राः किं चित्रं सदुपासनात् ॥ 22॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,22,2975,न सैन्यं सचिवाः कोशो न सहायश्च कश्चन । केन योगेन पुत्रो मे राज्यं प्राप्तुमिहार्हति ॥ 23॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,23,2976,आशीर्वादैश्च वो नूनं पुत्रोऽयं मे महीपतिः । भविष्यति न सन्देहो भवन्तो मन्त्रवित्तमाः ॥ 24॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,24,2977,व्यास उवाच । रथारूढः स मेधावी यत्र याति सुदर्शनः । अक्षौहिणीसमावृत्त इवाभाति स तेजसा ॥ 25॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,25,2978,प्रतापो मन्त्रबीजस्य नान्यः कश्चन भूपते । एवं वै जपतस्तस्य प्रीतियुक्तस्य सर्वथा ॥ 26॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,26,2979,सम्प्राप्य सद्गुरोर्बीजं कामराजाख्यमद्भुतम् । जपेद्यस्तु शुचिः शान्तः सर्वान्कामानवाप्नुयात् ॥ 27॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,27,2980,न तदस्ति पृथिव्यां वा दिवि वापि सुदुर्लभम् । प्रसन्नायाः शिवायाश्च यदप्राप्यं नृपोत्तम ॥ 28॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,28,2981,ते मन्दास्तेऽतिदुर्भाग्या रोगैस्ते समभिद्रुताः । येषां चित्ते न विश्वासो भवेदम्बार्चनादिषु ॥ 29॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,29,2982,या माता सर्वदेवानां युगादौ परिकीर्तिता । आदिमातेति विख्याता नाम्ना तेन कुरूद्वह ॥ 30॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,30,2983,बुद्धिः कीर्तिर्धृतिर्लक्ष्मीः शक्तिः श्रद्धा मतिः स्मृतिः । सर्वेषां प्राणिनां सा वै प्रत्यक्षं वै विभासते ॥ 31॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,31,2984,न जानन्ति नरा ये वै मोहिता मायया किल । न भजन्ति कुतर्कज्ञा देवीं विश्वेश्वरीं शिवाम् ॥ 32॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,32,2985,ब्रह्मा विष्णुस्तथा शम्भुर्वासवो वरुणो यमः । वायुरग्निः कुबेरश्च त्वष्टा पूषाश्विनौ भगः ॥ 33॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,33,2986,आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः । सर्वे ध्यायन्ति तां देवीं सृष्टिस्थित्यन्तकारिणीम् ॥ 34॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,34,2987,को न सेवेत विद्वान्वै तां शक्तिं परमात्मिकाम् । सुदर्शनेन सा ज्ञाता देवी सर्वार्थदा शिवा ॥ 35॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,35,2988,ब्रह्मैव साऽतिदुष्प्राप्या विद्याविद्यास्वरूपिणी । योगगम्या परा शक्तिर्मुमुक्षूणां च वल्लभा ॥ 36॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,36,2989,परमात्मस्वरूपं को वेत्तुमर्हति तां विना । या सृष्टिं त्रिविधां कृत्वा दर्शयत्यखिलात्मने ॥ 37॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,37,2990,सुदर्शनस्तु तां देवीं मनसा परिचिन्तयन् । राज्यलाभात्परं प्राप्य सुखं वै कानने स्थितः ॥ 38॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,38,2991,सापि चन्द्रकलात्यर्थं कामबाणप्रपीडिता । नानोपचारैरनिशं दधार दुःखितं वपुः ॥ 39॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,39,2992,तावत्तस्याः पिता ज्ञात्वा कन्यां पुत्रवरार्थिनीम् । सुबाहुः कारयामास स्वयंवरमतन्द्रितः ॥ 40॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,40,2993,स्वयंवरस्तु त्रिविधो विद्वद्भिः परिकीर्तितः । राज्ञां विवाहयोग्यौ वै नान्येषां कथितः किल ॥ 41॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,41,2994,इच्छास्वयंवरश्चैको द्वितीयश्च पणाभिधः । यथा रामेण भग्नं वै त्र्यम्बकस्य शरासनम् ॥ 42॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,42,2995,तृतीयः शौर्यशुल्कश्च शूराणां परिकीर्तितः । इच्छास्वयंवरं तत्र चकार नृपसत्तमः ॥ 43॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,43,2996,शिल्पिभिः कारिता मञ्चाः शुभैरास्तरणैर्युताः । ततश्च विविधाकाराः सुक्लृप्ताः सभ्यमण्डपाः ॥ 44॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,44,2997,एवं कृतेऽतिसम्भारे विवाहार्थं सुविस्तरे । सखीं शशिकला प्राह दुःखिता चारुलोचना ॥ 45॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,45,2998,इदं मे मातरं ब्रूहि त्वमेकान्ते वचो मम । मया वृतः पतिश्चित्ते ध्रुवसन्धिसुतः शुभः ॥ 46॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,46,2999,नान्यं वरं वरिष्यामि तमृते वै सुदर्शनम् । स मे भर्ता नृपसुतो भगवत्या प्रतिष्ठितः ॥ 47॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,47,3000,व्यास उवाच । इत्युक्ता सा सखी गत्वा मातरं प्राह सत्वरा । वैदर्भीं विजने वाक्यं मधुरं मञ्जुभाषिणी ॥ 48॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,48,3001,पुत्री ते दुःखिता प्राह साध्वी त्वां मन्मुखेन यत् । श‍ृणु त्वं कुरु कल्याणि तद्धितं त्वरिताऽधुना ॥ 49॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,49,3002,भारद्वाजाश्रमे पुण्ये ध्रुवसन्धिसुतोऽस्ति यः । स मे भर्ता वृतश्चित्ते नान्यं भूपं वृणोम्यहम् ॥ 50॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,50,3003,व्यास उवाच । राज्ञी तद्वचनं श्रुत्वा स्वपतौ गृहमागते । निवेदयामास तदा पुत्रीवाक्यं यथातथम् ॥ 51॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,51,3004,तच्छ्रुत्वा वचनं राजा विस्मितः प्रहसन्मुहुः । भार्यामुवाच वैदर्भीं सुबाहुस्तु ऋतं वचः ॥ 52॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,52,3005,सुभ्रु जानासि बालोऽसौ राज्यान्निष्कासितो वने । एकाकी सह मात्रा वै वसते निर्जने वने ॥ 53॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,53,3006,तत्कृते निहतो राजा वीरसेनो युधाजिता । स कथं निर्धनो भर्ता योग्यः स्याच्चारुलोचने ॥ 54॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,54,3007,ब्रूहि पुत्रीं ततो वाक्यं कदाचिदपि विप्रियम् । आगमिष्यन्ति राजानः स्थितिमन्तः स्वयंवरे ॥ 55॥ 3,३.१८,अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।,55,3008,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे शशिकलया मातरं प्रति सन्देशप्रेषणं नामाष्टादशोऽध्यायः ॥ ३.१८॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,0,3009,व्यास उवाच । भर्त्रा साऽभिहिता बालां पुत्रीं कृत्वाङ्कसंस्थिताम् । उवाच वचनं श्लक्ष्णं समाश्वास्य शुचिस्मिताम् ॥ 1॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,1,3010,किं वृथा सुदति त्वं हि विप्रियं मम भाषसे । पिता ते दुःखमाप्नोति वाक्येनानेन सुव्रते ॥ 2॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,2,3011,सुदर्शनोऽतिदुर्भाग्यो राज्यभ्रष्टो निराश्रयः । बलकोशविहीनश्च परित्यक्तस्तु बान्धवैः ॥ 3॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,3,3012,मात्रा सह वनं प्राप्तः फलमूलाशनः कृशः । न ते योग्यो वरोऽयं वै वनवासी च दुर्भगः ॥ 4॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,4,3013,राजपुत्राः कृतप्रज्ञा रूपवन्तः सुसम्मताः । तवार्हाः पुत्रि सन्त्यन्ये राजचिह्नैरलङ्कृताः ॥ 5॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,5,3014,भ्राताऽस्य वर्तते कान्तः स राज्यं कोसलेषु वै । करोति रूपसम्पन्नः सर्वलक्षणसंयुतः ॥ 6॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,6,3015,अन्यच्च कारणं सुभ्रु श‍ृणु यच्च यथा श्रुतम् । युधाजित्सततं तस्य वधकामोऽस्ति भूमिपः ॥ 7॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,7,3016,दौहित्रः स्थापितस्तेन राज्ये कृत्वाऽतिसङ्गरम् । वीरसेनं नृपं हत्वा सम्मन्त्र्य सचिवैः सह ॥ 8॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,8,3017,भारद्वाजाश्रमं प्राप्तं हन्तुकामः सुदर्शनम् । मुनिना वारितः पश्चाज्जगाम निजमन्दिरम् ॥ 9॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,9,3018,शशिकलोवाच । मातर्ममेप्सितः कामं वनस्थोऽपि नृपात्मजः । शर्यातिवचनेनैव सुकन्या च पतिव्रता ॥ 10॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,10,3019,च्यवनञ्च यथा प्राप्य पतिशुश्रूषणे रता । भर्तृशुश्रूषणं स्त्रीणां स्वर्गदं मोक्षदं तथा ॥ 11॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,11,3020,अकैतवकृतं नूनं सुखदं भवति स्त्रियाः । भगवत्या समादिष्टं स्वप्ने वरमनुत्तमम् ॥ 12॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,12,3021,तमृतेऽहं कथं चान्यं संश्रयामि नृपात्मजम् । मच्चित्तभित्तौ लिखितो भगवत्या सुदर्शनः ॥ 13॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,13,3022,तं विहाय प्रियं कान्तं करिष्येऽहं न चापरम् । व्यास उवाच । प्रत्यादिष्टाऽथ वैदर्भी तया बहुनिदर्शनैः ॥ 14॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,14,3023,भर्तारं सर्वमाचष्ट पुत्र्योक्तं वचनं भृशम् । विवाहस्य दिनादर्वागाप्तं श्रुतसमन्वितम् ॥ 15॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,15,3024,द्विजं शशिकला तत्र प्रेषयामास सत्वरम् । यथा न वेद मे तातस्तथा गच्छ सुदर्शनम् ॥ 16॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,16,3025,भारद्वाजाश्रमे ब्रूहि मद्वाक्यात्तरसा विभो । पित्रा मे सम्भृतः कामं मदर्थेन स्वयंवरः ॥ 17॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,17,3026,आगमिष्यन्ति राजानो बलयुक्ता ह्यनेकशः । मया त्वं वै वृतश्चित्ते सर्वथा प्रीतिपूर्वकम् ॥ 18॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,18,3027,भगवत्या समादिष्टः स्वप्ने मम सुरोपम । विषमद्मि हुताशे वा प्रपतामि प्रदीपिते ॥ 19॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,19,3028,वरये त्वदृते नान्यं पितृभ्यां प्रेरिताऽपि वा । मनसा कर्मणा वाचा संवृतस्त्वं मया वरः ॥ 20॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,20,3029,भगवत्याः प्रसादेन शर्मावाभ्यां भविष्यति । आगन्तव्यं त्वयात्रैव दैवं कृत्वा परं बलम् ॥ 21॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,21,3030,यदधीनं जगत्सर्वं वर्तते सचराचरम् । भगवत्या यदादिष्टं न तन्मिथ्या भविष्यति ॥ 22॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,22,3031,यद्वशे देवताः सर्वा वर्तन्ते शङ्करादयः । वक्तव्योऽसौ त्वया ब्रह्मन्नेकान्ते वै नृपात्मजः ॥ 23॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,23,3032,यथा भवति मे कार्यं तत्कर्तव्यं त्वयानघ । इत्युक्त्वा दक्षिणां दत्त्वा मुनिर्व्यापारितस्तया ॥ 24॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,24,3033,गत्वा सर्वं निवेद्याशु तत्र प्रत्यागतो द्विजः । सुदर्शनस्तु तज्ज्ञात्वा निश्चयं गमने तदा ॥ 25॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,25,3034,चकार मुनिना तेन प्रेरितः परमादरात् । व्यास उवाच । गमनायोद्यतं पुत्रं तमुवाच मनोरमा ॥ 26॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,26,3035,वेपमानाऽतिदुःखार्ता जातत्रासाऽश्रुलोचना । कुत्र गच्छसि पुत्राद्य समाजे भूभृतां किल ॥ 27॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,27,3036,एकाकी कृतवैरश्च किं विचिन्त्य स्वयंवरे । युधाजिद्धन्तुकामस्त्वां समेष्यति महीपतिः ॥ 28॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,28,3037,न तेऽन्योऽस्ति सहायश्च तस्मान्मा व्रज पुत्रक । एकपुत्रातिदीनास्मि तवाधारा निराश्रया ॥ 29॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,29,3038,नार्हसि त्वं महाभाग निराशां कर्तुम्मद्य माम् । पिता ते निहतो येन सोऽपि तत्रागतो नृपः ॥ 30॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,30,3039,एकाकिनं गतं तत्र युधाजित्त्वां हनिष्यति । सुदर्शन उवाच । भवितव्यं भवत्येव नात्र कार्या विचारणा ॥ 31॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,31,3040,आदेशाच्च जगन्मातुर्गच्छाम्यद्य स्वयंवरे । मा शोकं कुरु कल्याणि क्षत्रियाऽसि वरानने ॥ 32॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,32,3041,न बिभेमि प्रसादेन भगवत्या निरन्तरम् । व्यास उवाच । इत्युक्त्वा रथमारुह्य गन्तुकामं सुदर्शनम् ॥ 33॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,33,3042,दृष्ट्वा मनोरमा पुत्रमाशीर्भिश्चान्वमोदयत् । अग्रतस्तेऽम्बिका पातु पार्वती पातु पृष्ठतः ॥ 34॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,34,3043,पार्वती पार्श्वयोः पातु शिवा सर्वत्र साम्प्रतम् । वाराही विषमे मार्गे दुर्गा दुर्गेषु कर्हिचित् । कालिका कलहे घोरे पातु त्वां परमेश्वरी ॥ 35॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,35,3044,मण्डपे तत्र मातङ्गी तथा सौम्या स्वयंवरे । भवानी भूपमध्ये तु पातु त्वां भवमोचनी ॥ 36॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,36,3045,गिरिजा गिरिदुर्गेषु चामुण्डा चत्वरेषु च । कामगा काननेष्वेवं रक्षतु त्वां सनातनी ॥ 37॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,37,3046,विवादे वैष्णवी शक्तिरवतात्त्वां रघूद्वह । भैरवी चरणे सौम्य शत्रूणां वै समागमे ॥ 38॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,38,3047,सर्वदा सर्वदेशेषु पातु त्वां भुवनेश्वरी । महामाया जगद्धात्री सच्चिदानन्दरूपिणी ॥ 39॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,39,3048,व्यास उवाच । इत्युक्त्वा तं तदा माता वेपमाना भयाकुला । उवाचाहं त्वया सार्धमागमिष्यामि सर्वथा ॥ 40॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,40,3049,निमिषार्धं विना त्वां वै नाहं स्थातुमिहोत्सहे । सहैव नय मां वत्स यत्र ते गमने मतिः ॥ 41॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,41,3050,इत्युक्त्वा निःसृता माता धात्रेयीसंयुता तदा । विप्रैर्दत्ताशिषः सर्वे निर्ययुर्हर्षसंयुताः ॥ 42॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,42,3051,वाराणस्यां ततः प्राप्तो रथेनैकेन राघवः । ज्ञातः सुबाहुना तत्र पूजितश्चार्हणादिभिः ॥ 43॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,43,3052,निवेशार्थं गृहं दत्तमन्नपानादिकं तथा । सेवकं समनुज्ञाप्य परिचर्यार्थमेव च ॥ 44॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,44,3053,मिलितास्त्वथ राजानो नानादेशाधिपाः किल । युधाजिदपि सम्प्राप्तो दौहित्रेण समन्वितः ॥ 45॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,45,3054,करूषाधिपतिश्चैव तथा मद्रेश्वरो नृपः । सिन्धुराजस्तथा वीरो योद्धा माहिष्मतीपतिः ॥ 46॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,46,3055,पाञ्चालः पर्वतीयश्च कामरूपोऽतिवीर्यवान् । कार्णाटश्चोलदेशीयो वैदर्भश्च महाबलः ॥ 47॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,47,3056,अक्षौहिणी त्रिषष्टिश्च मिलिता सङ्ख्यया तदा । वेष्टिता नगरी सा तु सैन्यैः सर्वत्र संस्थितैः ॥ 48॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,48,3057,एते चान्ये च बहवः स्वयंवरदिदृक्षया । मिलितास्तत्र राजानो वरवारणसंयुताः ॥ 49॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,49,3058,अन्योन्यं नृपपुत्रास्त इत्यूचुर्मिलितास्तदा । सुदर्शनो नृपसुतो ह्यागतोऽस्ति निराकुलः ॥ 50॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,50,3059,एकाकी रथमारुह्य मात्रा सह महामतिः । विवाहार्थमिहायातः काकुत्स्थः किं नु साम्प्रतम् ॥ 51॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,51,3060,एतान् राजसुतांस्त्यक्त्वा ससैन्यान्सायुधानथ । किमेनं राजपुत्री सा वरिष्यति महाभुजम् ॥ 52॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,52,3061,युधाजिदथ राजेशस्तानुवाच महीपतीन् । अहमेनं हनिष्यामि कन्यार्थे नात्र संशयः ॥ 53॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,53,3062,केरलाधिपतिः प्राह तं तदा नीतिसत्तमः । नात्र युद्धं प्रकर्तव्यं राजन्निच्छास्वयंवरे ॥ 54॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,54,3063,बलेन हरणं नास्ति नात्र शुल्कस्वयंवरः । कन्येच्छयाऽत्र वरणं विवादः कीदृशस्त्विह ॥ 55॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,55,3064,अन्यायेन त्वया पूर्वमसौ राज्यात्प्रवासितः । दौहित्रायार्पितं राज्यं बलवन्नृपसत्तम ॥ 56॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,56,3065,काकुत्स्थोऽयं महाभाग कोसलाधिपतेः सुतः । कथमेनं राजपुत्रं हनिष्यसि निरागसम् ॥ 57॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,57,3066,लप्स्यसे तत्फलं नूनमनयस्य नृपोत्तम । शास्तास्ति कश्चिदायुष्मञ्जगतोऽस्य जगत्पतिः ॥ 58॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,58,3067,धर्मो जयति नाधर्मः सत्यं जयति नानृतम् । मानयं कुरु राजेन्द्र त्यज पापमतिं किल ॥ 59॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,59,3068,दौहित्रस्तव सम्प्राप्तः सोऽपि रूपसमन्वितः । राज्ययुक्तस्तथा श्रीमान्कथं तं न वरिष्यति ॥ 60॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,60,3069,अन्ये राजसुताः कामं वर्तन्ते बलवत्तराः । कन्यास्वयंवरे कन्या स्वीकरिष्यति साम्प्रतम् ॥ 61॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,61,3070,वृते तथा विवादः कः प्रवदन्तु महीभुजः । परस्परं विरोधोऽत्र न कर्तव्यो विजानता ॥ 62॥ 3,३.१९,एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।,62,3071,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे राजसंवादवर्णनं नामैकोनविंशोऽध्यायः ॥ ३.१९॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,0,3072,व्यास उवाच । इतिवादिनि भूपाले केरलाधिपतौ तदा । प्रत्युवाच महाभाग युधाजिदपि पार्थिवः ॥ 1॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,1,3073,नीतिरेषा महीपाल यद्ब्रवीति भवानिह । समाजे पार्थिवानां वै सत्यवाग्विजितेन्द्रियः ॥ 2॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,2,3074,योग्येषु वर्तमानेषु कन्यारत्नं कुलोद्वह । अयोग्योऽर्हति भूपाल न्यायोऽयं तव रोचते ॥ 3॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,3,3075,भागं सिंहस्य गोमायुर्भोक्तुमर्हति वा कथम् । तथा सुदर्शनोऽयं वै कन्यारत्नं किमर्हति ॥ 4॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,4,3076,बलं वेदो हि विप्राणां भूभुजां चापजं बलम् । किमन्याय्यं महाराज ब्रवीम्यहमिहाधुना ॥ 5॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,5,3077,बलं शुल्कं यथा राज्ञां विवाहे परिकीर्तितम् । बलवानेव गृह्णातु नाबलस्तु कदाचन ॥ 6॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,6,3078,तस्मात्कन्यापणं कृत्वा नीतिरत्र विधीयताम् । अन्यथा कलहः कामं भविष्यति महीभुजाम् ॥ 7॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,7,3079,एवं विवादे संवृत्ते राज्ञां तत्र परस्परम् । आहूतस्तु सभामध्ये सुबाहुर्नृपसत्तमः ॥ 8॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,8,3080,समाहूय नृपाः सर्वे तमूचुस्तत्त्वदर्शिनः । राजन्नीतिस्त्वया कार्या विवाहेऽत्र समाहिता ॥ 9॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,9,3081,किं ते चिकीर्षितं राजंस्तद्वदस्व समाहितः । पुत्र्याः प्रदानं कस्मै ते रोचते नृप चेतसि ॥ 10॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,10,3082,सुबाहुरुवाच । पुत्र्या मे मनसा कामं वृतः किल सुदर्शनः । मया निवारितोऽत्यर्थं न सा प्रत्येति मे वचः ॥ 11॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,11,3083,किं करोमि सुताया मे न वशे वर्तते मनः । सुदर्शनस्तथैकाकी सम्प्राप्तोऽस्ति निराकुलः ॥ 12॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,12,3084,व्यास उवाच । सम्पन्ना भूभुजः सर्वे समाहूय सुदर्शनम् । ऊचुः समागतं शान्तमेकाकिनमतन्द्रिताः ॥ 13॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,13,3085,राजपुत्र महाभाग केनाहूतोऽसि सुव्रत । एकाकी यः समायातः समाजे भूभृतामिह ॥ 14॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,14,3086,न वै सैन्यं न सचिवा न कोशो न बृहद्बलम् । किमर्थञ्च समायातस्तत्त्वं ब्रूहि महामते ॥ 15॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,15,3087,युद्धकामा नृपतयो वर्तन्तेऽत्र समागमे । कन्यार्थं सैन्यसम्पन्नाः किं त्वं कर्तुमिहेच्छसि ॥ 16॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,16,3088,भ्राता ते सुबलः शूरः सम्प्राप्तोऽस्ति जिघृक्षया । युधाजिच्च महाबाहुः साहाय्यं कर्तुमागतः ॥ 17॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,17,3089,गच्छ वा तिष्ठ राजेन्द्र याथातथ्यमुदाहृतम् । त्वयि सैन्यविहीने च यथेष्टं कुरु सुव्रत ॥ 18॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,18,3090,सुदर्शन उवाच । न बलं न सहायो मे न कोशो दुर्गसंश्रयः । न मित्राणि न सौहार्दी न नृपा रक्षका मम ॥ 19॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,19,3091,अत्र स्वयंवरं श्रुत्वा द्रष्टुकाम इहागतः । स्वप्ने देव्या प्रेरितोऽस्मि भगवत्या न संशयः ॥ 20॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,20,3092,नान्यच्चिकीर्षितं मेऽद्य मामाह जगदीश्वरी । तया यद्विहितं तच्च भविताऽद्य न संशयः ॥ 21॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,21,3093,न शत्रुरस्ति संसारे कोऽप्यत्र जगतीश्वराः । सर्वत्र पश्यतो मेऽद्य भवानीं जगदम्बिकाम् ॥ 22॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,22,3094,यः करिष्यति शत्रुत्वं मया सह नृपात्मजाः । शास्ता तस्य महाविद्या नाहं जानामि शत्रुताम् ॥ 23॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,23,3095,यद्भावि तद्वै भविता नान्यथा नृपसत्तमाः । का चिन्ता ह्यत्र कर्तव्या दैवाधीनोऽस्मि सर्वथा ॥ 24॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,24,3096,देवभूतमनुष्येषु सर्वभूतेषु सर्वदा । सर्वेषां तत्कृता भक्तिर्नान्यथा नृपसत्तमाः ॥ 25॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,25,3097,सा यं चिकीर्षते भूपं तं करोति नृपाधिपाः । निर्धनं वा नरं कामं का चिन्ता वै तदा मम ॥ 26॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,26,3098,तामृते परमां शक्तिं ब्रह्मविष्णुहरादयः । न शक्ताः स्पन्दितुं देवाः का चिन्ता मे तदा नृपाः ॥ 27॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,27,3099,अशक्तो वा सशक्तो वा यादृशस्तादृशस्त्वहम् । तदाज्ञया नृपाद्यैव सम्प्राप्तोऽस्मि स्वयंवरे ॥ 28॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,28,3100,सा यदिच्छति तत्कुर्यान्मम किं चिन्तनेन वै । नात्र शङ्का प्रकर्तव्या सत्यमेतद्ब्रवीम्यहम् ॥ 29॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,29,3101,जये पराजये लज्जा न मेऽत्राण्वपि पार्थिवाः । भगवत्यास्तु लज्जास्ति तदधीनोऽस्मि सर्वथा ॥ 30॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,30,3102,व्यास उवाच । इति तस्य तदाकर्ण्य वचनं राजसत्तमाः । ऊचुः परस्परं प्रेक्ष्य निश्चयज्ञा नराधिपाः ॥ 31॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,31,3103,सत्यमुक्तं त्वया साधो न मिथ्या कर्हिचिद्भवेत् । तथाप्युज्जयनीनाथस्त्वां हन्तुं परिकाङ्क्षति ॥ 32॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,32,3104,त्वत्कृते न दयादिष्टा त्वां ब्रवीमो महामते । यद्युक्तं तत्त्वया कार्यं विचार्य मनसाऽनघ ॥ 33॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,33,3105,सुदर्शन उवाच । सत्यमुक्तं भवद्भिश्च कृपावद्भिः सुहृज्जनैः । किं ब्रवीमि पुनर्वाक्यमुक्त्वा नृपतिसत्तमाः ॥ 34॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,34,3106,न मृत्युः केनचिद्भाव्यः कस्यचिद्वा कदाचन । दैवाधीनमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ 35॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,35,3107,स्ववशोऽयं न जीवोऽस्ति स्वकर्मवशगः सदा । तत्कर्म त्रिविधं प्रोक्तं विद्वद्भिस्तत्त्वदर्शिभिः ॥ 36॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,36,3108,सञ्चितं वर्तमानञ्च प्रारब्धञ्च तृतीयकम् । कालकर्मस्वभावैश्च ततं सर्वमिदं जगत् ॥ 37॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,37,3109,न देवो मानुषं हन्तुं शक्तः कालागमं विना । हतं निमित्तमात्रेण हन्ति कालः सनातनः ॥ 38॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,38,3110,यथा पिता मे निहतः सिंहेनामित्रकर्षणः । तथा मातामहोऽप्येवं युद्धे युधाजिता हतः ॥ 39॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,39,3111,यत्नकोटिं प्रकुर्वाणो हन्यते दैवयोगतः । जीवेद्वर्षसहस्राणि रक्षणेन विना नरः ॥ 40॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,40,3112,नाहं बिभेमि धर्मिष्ठाः कदाचिच्च युधाजितः । दैवमेव परं मत्वा सुस्थितोऽस्मि सदा नृपाः ॥ 41॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,41,3113,स्मरणं सततं नित्यं भगवत्याः करोम्यहम् । विश्वस्य जननी देवी कल्याणं सा करिष्यति ॥ 42॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,42,3114,पूर्वार्जितं हि भोक्तव्यं शुभं वाप्यशुभं तथा । स्वकृतस्य च भोगेन कीदृक्शोको विजानताम् ॥ 43॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,43,3115,स्वकर्मफलयोगेन प्राप्य दुःखमचेतनः । निमित्तकारणे वैरं करोत्यल्पमतिः किल ॥ 44॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,44,3116,न तथाऽहं विजानामि वैरं शोकं भयं तथा । निःशङ्कमिह सम्प्राप्तः समाजे भूभृतामिह ॥ 45॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,45,3117,एकाकी द्रष्टुकामोऽहं स्वयंवरमनुत्तमम् । भविष्यति च यद्भाव्यं प्राप्तोऽस्मि चण्डिकाज्ञया ॥ 46॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,46,3118,भगवत्याः प्रमाणं मे नान्यं जानामि संयतः । तत्कृतञ्च सुखं दुःखं भविष्यति च नान्यथा ॥ 47॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,47,3119,युधाजित्सुखमाप्नोतु न मे वैरं नृपोत्तमाः । यः करिष्यति मे वैरं स प्राप्स्यति फलं तथा ॥ 48॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,48,3120,व्यास उवाच । इत्युक्तास्ते तथा तेन सन्तुष्टा भूभुजः स्थिताः । सोऽपि स्वमाश्रमं प्राप्य सुस्थितः सम्बभूव ह ॥ 49॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,49,3121,अपरेऽह्नि शुभे काले नृपाः सम्मन्त्रिताः किल । सुबाहुना नृपेणाथ रुचिरे वै स्वमण्डपे ॥ 50॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,50,3122,दिव्यास्तरणयुक्तेषु मञ्चेषु रचितेषु च । उपविष्टाश्च राजानः शुभालङ्करणैर्युताः ॥ 51॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,51,3123,दिव्यवेषधराः कामं विमानेष्वमरा इव । दीप्यमानाः स्थितास्तत्र स्वयंवरदिदृक्षया ॥ 52॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,52,3124,इति चिन्तापराः सर्वे कदा साप्यागमिष्यति । भाग्यवन्तं नृपश्रेष्ठं श्रुतपुण्यं वरिष्यति ॥ 53॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,53,3125,यदा सुदर्शनं दैवात्स्रजा सम्भूषयेदिह । विवादो वै नृपाणां च भविता नात्र संशयः ॥ 54॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,54,3126,इत्येवं चिन्त्यमानास्ते भूपा मञ्चेषु संस्थिताः । वादित्रघोषः सुमहानुत्थितो नृपमण्डपे ॥ 55॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,55,3127,अथ काशीपतिः प्राह सुतां स्नातां स्वलङ्कृताम् । मधूकमालासंयुक्तां क्षौमवासोविभूषिताम् ॥ 56॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,56,3128,विवाहोपस्करैर्युक्तां दिव्यां सिन्धुसुतोपमाम् । चिन्तापरां सुवसनां स्मितपूर्वमिदं वचः ॥ 57॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,57,3129,उत्तिष्ठ पुत्रि सुनसे करे धृत्वा शुभां स्रजम् । व्रज मण्डपमध्येऽद्य समाजं पश्य भूभुजाम् ॥ 58॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,58,3130,गुणवान् रूपसम्पन्नः कुलीनश्च नृपोत्तमः । तव चित्ते वसेद्यस्तु तं वृणुष्व सुमध्यमे ॥ 59॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,59,3131,देशदेशाधिपाः सर्वे मञ्चेषु रचितेषु च । संविष्टाः पश्य तन्वङ्गि वरयस्व यथारुचि ॥ 60॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,60,3132,व्यास उवाच । तं तथा भाषमाणं वै पितरं मितभाषिणी । उवाच वचनं बाला ललितं धर्मसंयुतम् ॥ 61॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,61,3133,शशिकलोवाच । नाहं दृष्टिपथे राज्ञां गमिष्यामि पितः किल । कामुकानां नरेशानां गच्छन्त्यन्याश्च योषितः ॥ 62॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,62,3134,धर्मशास्त्रे श्रुतं तात मयेदं वचनं किल । एक एव वरो नार्या निरीक्ष्यः स्यान्न चापरः ॥ 63॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,63,3135,सतीत्वं निर्गतं तस्या या प्रयाति बहूनथ । सङ्कल्पयन्ति ते सर्वे दृष्ट्वा मे भवतात्त्विति ॥ 64॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,64,3136,स्वयंवरे स्रजं धृत्वा यदागच्छति मण्डपे । सामान्या सा तदा जाता कुलटेवापरा वधूः ॥ 65॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,65,3137,वारस्त्री विपणे गत्वा यथा वीक्ष्य नरांस्थितान् । गुणागुणपरिज्ञानं करोति निजमानसे ॥ 66॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,66,3138,नैकभावा यथा वेश्या वृथा पश्यति कामुकम् । तथाऽहं मण्डपे गत्वा कुर्वे वारस्त्रिया कृतम् ॥ 67॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,67,3139,वृद्धैरेतैः कृतं धर्मं न करिष्यामि साम्प्रतम् । पत्नीव्रतं तथा कामं चरिष्येऽहं धृतव्रता ॥ 68॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,68,3140,सामान्या प्रथमं गत्वा कृत्वा सङ्कल्पितं बहु । वृणोति चैकं तद्वद्वै वृणोमि कथमद्य वै ॥ 69॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,69,3141,सुदर्शनो मया पूर्वं वृतः सर्वात्मना पितः । तमृते नान्यथा कर्तुमिच्छामि नृपसत्तम ॥ 70॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,70,3142,विवाहविधिना देहि कन्यादानं शुभे दिने । सुदर्शनाय नृपते यदीच्छसि शुभं मम ॥ 71॥ 3,३.२०,विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।,71,3143,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे स्वपितरं प्रति शशिकलावाक्यं नामविंशोऽध्यायः ॥ ३.२०॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,0,3144,व्यास उवाच । सुबाहुरपि तच्छ्रुत्वा युक्तमुक्तं तया तदा । चिन्ताविष्टो बभूवाशु किं कर्तव्यमतः परम् ॥ 1॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,1,3145,सङ्गताः पृथिवीपालाः ससैन्याः सपरिग्रहाः । उपविष्टाश्च मञ्चेषु योद्धुकामा महाबलाः ॥ 2॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,2,3146,यदि ब्रवीमि तान्सर्वान्सुता नायाति साम्प्रतम् । तथापि कोपसंयुक्ता हन्युर्मा दुष्टबुद्धयः ॥ 3॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,3,3147,न मे सैन्यबलं तादृङ्न दुर्गबलमद्भुतम् । येनाहं नृपतीन्सर्वान् प्रत्यादेष्टुमिहोत्सहे ॥ 4॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,4,3148,सुदर्शनस्तथैकाकी ह्यसहायोऽधनः शिशुः । किं कर्तव्यं निमग्नोऽहं सर्वथा दुःखसागरे ॥ 5॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,5,3149,इति चिन्तापरो राजा जगाम नृपसन्निधौ । प्रणम्य तानुवाचाथ प्रश्रयावनतो नृपः ॥ 6॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,6,3150,किं कर्तव्यं नृपाः कामं नैति मे मण्डपे सुता । बहुशः प्रेर्यमाणाऽपि सा मात्राऽपि मयाऽपि च ॥ 7॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,7,3151,मूर्घ्ना पतामि पादेषु राज्ञां दासोऽस्मि साम्प्रतम् । पूजादिकं गृहीत्वाऽद्य व्रजन्तु सदनानि वः ॥ 8॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,8,3152,ददामि बहुरत्नानि वस्त्राणि च गजान् रथान् । गृहीत्वाऽद्य कृपां कृत्वा व्रजन्तु भवनान्युत ॥ 9॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,9,3153,न वशे मे सुता बाला म्रियते यदि खेदिता । तदा मे स्यान्महद्दुःखं तेन चिन्तातुरोऽस्म्यहम् ॥ 10॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,10,3154,भवन्तः करुणावन्तो महाभाग्या महौजसः । किं मे तया दुहित्रा तु मन्दया दुर्विनीतया ॥ 11॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,11,3155,अनुग्राह्योऽस्मि वः कामं दासोऽहमिति सर्वथा । सुता सुतेव मन्तव्या भवद्भिः सर्वथा मम ॥ 12॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,12,3156,व्यास उवाच । श्रुत्वा सुबाहुवचनं नोचुः केचन भूमिपाः । युधाजित्क्रोधताम्राक्षस्तमुवाच रुषान्वितः ॥ 13॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,13,3157,राजन्मूर्खोऽसि किं ब्रूषे कृत्वा कार्य सुनिन्दितम् । स्वयंवरः कथं मोहाद्रचितः संशये सति ॥ 14॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,14,3158,मिलिता भूभुजः सर्वे त्वयाहूताः स्वयंवरे । कथमद्य नृपा गन्तुं योग्यास्ते स्वगृहान्प्रति ॥ 15॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,15,3159,अवमान्य नृपान्सर्वांस्त्वं किं सुदर्शनाय वै । दातुमिच्छसि पुत्रीञ्च किमनार्यमतः परम् ॥ 16॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,16,3160,विचार्य पुरुषेणादौ कार्यं वै शुभमिच्छता । आरब्धव्यं त्वया तत्तु कृतं राजन्नजानता ॥ 17॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,17,3161,एतान्विहाय नृपतीन्बलवाहनसंयुतान् । वरं सुदर्शनं कर्तुं कथमिच्छसि साम्प्रतम् ॥ 18॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,18,3162,अहं त्वां हन्मि पापिष्ठं तथा पश्चात्सुदर्शनम् । दौहित्रायाद्य ते कन्यां दास्यामीति विनिश्चयः ॥ 19॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,19,3163,मयि तिष्ठति कोऽन्योस्ति यः कन्यां हर्तुमिच्छति । सुदर्शनः कियानद्य निर्धनो निर्बलः शिशुः ॥ 20॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,20,3164,भारद्वाजाश्रमे पूर्वं मुक्तो मुनिकृते मया । नाद्याहं मोचयिष्यामि सर्वथा जीवितं शिशोः ॥ 21॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,21,3165,तस्माद्विचार्य सम्यक्त्वं पुत्र्या च भार्यया सह । दौहित्राय प्रियां कन्यां देहि मे सुभ्रुवं किल ॥ 22॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,22,3166,सम्बन्धी भव दत्त्वा त्वं पुत्रीमेतां मनोरमाम् । उच्चाश्रयः प्रकर्तव्यः सर्वदा शुभमिच्छता ॥ 23॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,23,3167,सुदर्शनाय दत्त्वा त्वं पुत्रीं प्राणप्रियां शुभाम् । एकाकिनेऽप्यराज्याय किं सुखं प्राप्तुमिच्छसि ॥ 24॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,24,3168,(कुलं वित्तं बलं रूपं राज्यं दुर्गं सुहृज्जनम् । दृष्ट्वा कन्या प्रदातव्या नान्यथा सुखमृच्छति)॥ परिचिन्तय धर्मं त्वं राजनीतिञ्च शाश्वतीम् । कुरु कार्यं यथायोग्यं मा कृथा मतिमन्यथा ॥ 25॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,25,3169,सुहृदसि ममात्यर्थं हितं ते प्रब्रवीम्यहम् । समानय सुतां राजन् मण्डपे तां सखीवृताम् ॥ 26॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,26,3170,सुदर्शनमृते चेयं वरिष्यति यदाऽप्यसौ । विग्रहो मे तदा न स्याद्विवाहोऽस्तु तवेप्सितः ॥ 27॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,27,3171,अन्ये नृपतयः सर्वे कुलीनाः सबलाः समाः । विरोधः कीदृशस्त्वेनं वृणोद्यदि नृपोत्तम ॥ 28॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,28,3172,अन्यथाऽहं हरिष्येऽद्य बलात्कन्यामिमां शुभाम् । मा विरोधं सुदुःसाध्यं गच्छ पार्थिवसत्तम ॥ 29॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,29,3173,व्यास उवाच । युधाजिता समादिष्टः सुबाहुः शोकसंयुतः । निःश्वसन्भवनं गत्वा भार्यां प्राह शुचावृतः ॥ 30॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,30,3174,पुत्रीं ब्रूहि सुधर्मज्ञे कलहे समुपस्थिते । किं कर्त्तव्यं मया शक्यं त्वद्वशोऽस्मि सुलोचने ॥ 31॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,31,3175,व्यास उवाच । सा श्रुत्वा पतिवाक्यं तु गत्वा प्राह सुतान्तिकम् । वत्से राजातिदुःखार्तः पिता तेऽद्यापि वर्तते ॥ 32॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,32,3176,त्वदर्थे विग्रहः कामं समुत्पन्नोऽद्य भूभृताम् । अन्यं वरय सुश्रोणि सुदर्शनमृते नृपम् ॥ 33॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,33,3177,यदि सुदर्शनं वत्से हठात्त्वं वै वरिष्यसि । युधाजित्त्वां च मां चैव हनिष्यति बलान्वितः ॥ 34॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,34,3178,सुदर्शनं च राजाऽसौ बलमत्तः प्रतापवान् । द्वितीयस्ते पतिः पश्चाद्भविता कलहे सति ॥ 35॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,35,3179,तस्मात्सुदर्शनं त्यक्त्वा वरयान्यं नृपोत्तमम् । सुखमिच्छसि चेन्मह्यं तुभ्यं वा मृगलोचने । इति मात्रा बोधितां तां पश्चाद्राजाप्यबोधयत् ॥ 36॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,36,3180,उभयोर्वचनं श्रुत्वा निर्भयोवाच कन्यका कन्योवाच । सत्यमुक्तं नृपश्रेष्ठ जानासि च व्रतं मम ॥ 37॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,37,3181,नान्यं वृणोमि भूपाल सुदर्शनमृते क्वचित् । बिभेषि यदि राजेन्द्र नृपेभ्यः किल कातरः ॥ 38॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,38,3182,सुदर्शनाय दत्त्वा मां विसर्जय पुराद्बहिः । स मां रथे सामारोप्य निर्गमिष्यति ते पुरात् ॥ 39॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,39,3183,भवितव्यं तु पश्चाद्वै भविष्यति न चान्यथा । नात्र चिन्ता त्वया कार्या भवितव्ये नृपोत्तम ॥ 40॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,40,3184,यद्भावि तद्भवत्येव सर्वथात्र न संशयः । राजोवाच । न पुत्रि साहसं कार्यं मतिमद्भिः कदाचन ॥ 41॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,41,3185,बहुभिर्न विरोद्धव्यमिति वेदविदो विदुः । विस्रक्ष्यामि कथं कन्यां दत्त्वा राजसुताय च ॥ 42॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,42,3186,राजानो वरसंयुक्ताः किं न कुर्युरसाम्प्रतम् । यदि ते रोचते वत्से पणं संविदधाम्यहम् ॥ 43॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,43,3187,जनकेन यथा पूर्वं कृतः सीतास्वयंवरे । शैवं धनुर्यथा तेन धृतं कृत्वा पणं तथा ॥ 44॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,44,3188,तथाहमपि तन्वङ्गि करोम्यद्य दुरासदम् । विवादो येन राज्ञां वै कृते सति शमं व्रजेत् ॥ 45॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,45,3189,पालयिष्यति यः कामं स ते भर्ता भविष्यति । सुदर्शनस्तथाऽन्यो वा यः कश्चिद्बलवत्तरः ॥ 46॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,46,3190,पालयित्वा पणं त्वां वै वरयिष्यति सर्वथा । एवं कृते नृपाणां तु विवादः शमितो भवेत् ॥ 47॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,47,3191,सुखेनाहं विवाहं ते करिष्यामि ततः परम् । कन्योवाच । सन्देहे नैव मज्जामि मूर्खकृत्यमिदं यतः ॥ 48॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,48,3192,मया सुदर्शनः पूर्वं धृतश्चेतसि नान्यथा । कारणं पुण्यपापानां मन एव महीपते ॥ 49॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,49,3193,मनसा विधृतं त्यक्त्वा कथमन्यं वृणे पितः । कृते पणे महाराज सर्वेषां वशगा ह्यहम् ॥ 50॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,50,3194,एकः पालयिता द्वौ वा बहवो वा भवन्ति चेत् । किं कर्तव्यं तदा तात विवादे समुपस्थिते ॥ 51॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,51,3195,संशयाधिष्ठिते कार्ये मतिं नाहं करोम्यतः । मा चिन्तां कुरु राजेन्द्र देहि सुदर्शनाय माम् ॥ 52॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,52,3196,विवाहं विधिना कृत्वा शं विधास्यति चण्डिका । यन्नामकीर्तनादेव दुःखौघो विलयं व्रजेत् ॥ 53॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,53,3197,तां स्मृत्वा परमां शक्तिं कुरु कार्यमतन्द्रितः । गत्वा वद नृपेभ्यस्त्वं कृताञ्जलिपुटोऽद्य वै ॥ 54॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,54,3198,आगन्तव्यञ्च श्वः सर्वैरिह भूपैः स्वयंवरे । इत्युक्त्वा त्वं विसृज्याशु सर्वं नृपतिमण्डलम् ॥ 55॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,55,3199,विवाहं कुरु रात्रौ मे वेदोक्तविधिना नृप । पारिबर्हं यथायोग्यं दत्त्वा तस्मै विसर्जय ॥ 56॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,56,3200,गमिष्यति गृहीत्वा मां ध्रुवसन्धिसुतः किल । कदाचित्ते नृपाः क्रुद्धाः सङ्ग्रामं कर्त्तुमुद्यताः ॥ 57॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,57,3201,भविष्यति तदा देवी साहाय्यं नः करिष्यति । सोऽपि राजसुतस्तैस्तु सङ्ग्रामं संविधास्यति ॥ 58॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,58,3202,दैवान्मृधे मृते तस्मिन्मरिष्याम्यहमप्युत । स्वस्ति तेस्तु गृहे तिष्ठ दत्त्वा मां सहसैन्यकः ॥ 59॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,59,3203,एकैवाहं गमिष्यामि तेन सार्धं रिरंसया । व्यास उवाच । इति तस्या वचः श्रुत्वा राजाऽसौ कृतनिश्चयः । मतिं चक्रे तथा कर्तुं विश्वासं प्रतिपद्य च ॥ 60॥ 3,३.२१,एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।,60,3204,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनं नामैकविंशोऽध्यायः ॥ ३.२१॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,0,3205,व्यास उवाच । श्रुत्वा सुतावाक्यमनिन्दितात्मा नृपांश्च गत्वा नृपतिर्जगाद । व्रजन्तु कामं शिविराणि भूपाः श्वो वा विवाहं किल संविधास्ये ॥ 1॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,1,3206,भक्ष्याणि पेयानि मयाऽर्पितानि गृह्णन्तु सर्वे मयि सुप्रसन्नाः । श्वो भावि कार्यं किल मण्डपेऽत्र समेत्य सर्वैरिह संविधेयम् ॥ 2॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,2,3207,नायाति पुत्री किल मण्डपेऽद्य करोमि किं भूपतयोऽत्र कामम् । प्रातः समाश्वास्य सुतां नयिष्ये गच्छन्तु तस्माच्छिविराणि भूपाः ॥ 3॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,3,3208,न विग्रहो बुद्धिमतां निजाश्रिते कृपा विधेया सततं ह्यपत्ये । विधाय तां प्रातारिहानयिष्ये सुतां तु गच्छन्तु नृपा यथेष्टम् ॥ 4॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,4,3209,इच्छापणं वा परिचिन्त्य चित्ते प्रातः करिष्याम्यथ संविवाहम् । सर्वैः समेत्यात्र नृपैः समेतैः स्वयंवरः सर्वमतेन कार्यः ॥ 5॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,5,3210,श्रुत्वा नृपास्तेऽवितथं विदित्वा वचो ययुः स्वानि निकेतनानि । विधाय पार्श्वे नगरस्य रक्षां चक्रुः क्रिया मध्यदिनोदिताश्च ॥ 6॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,6,3211,सुबाहुरप्यार्यजनैः समेत- श्चकार कार्याणि विवाहकाले । पुत्रीं समाहूय गृहे सुगुप्ते पुरोहितैर्वेदविदां वरिष्ठैः ॥ 7॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,7,3212,स्नानादिकं कर्म वरस्य कृत्वा विवाहभूषाकरणं तथैव । आनाय्य वेदीरचिते गृहे वै तस्यार्हणां भूमिपतिश्चकार ॥ 8॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,8,3213,सविष्टरं चाचमनीयमर्घ्यं वस्त्रद्वयं गामथ कुण्डले द्वे । समर्प्य तस्मै विधिवन्नरेन्द्र ऐच्छत्सुतादानमहीनसत्त्वः ॥ 9॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,9,3214,सोऽप्यग्रहीत्सर्वमदीनचेताः शशाम चिन्ताऽथ मनोरमायाः । कन्यां सुकेशीं निधिकन्यकासमां मेने तदाऽऽत्मानमनुत्तमञ्च ॥ 10॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,10,3215,सुपूजितं भूषणवस्त्रदानै- र्वरोत्तमं तं सचिवास्तदानीम् । निन्युश्च ते कौतुकमण्डपान्त- र्मुदान्विता वीतभयाश्च सर्वे ॥ 11॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,11,3216,समाप्तभूषां विधिवद्विधिज्ञाः स्त्रियश्च तां राजसुतां सुयाने । आरोप्य निन्युर्वरसन्निधानण् चतुष्कयुक्ते किल मण्डपे वै ॥ 12॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,12,3217,अग्निं समाधाय पुरोहितः स हुत्वा यथावच्च तदन्तराले । आह्वाययत्तौ कृतकौतुकौ तु वधूवरौ प्रेमयुतौ निकामम् ॥ 13॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,13,3218,लाजाविसर्गं विधिवद्विधाय कृत्वा हुताशस्य प्रदक्षिणाञ्च । तौ चक्रतुस्तत्र यथोचित्तं तत् सर्वं विधानं कुलगोत्रजातम् ॥ 14॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,14,3219,शतद्वयं चाश्चयुजां रथानां सुभूषितं चापि शरौघसंयुतम् । ददौ नृपेन्द्रस्तु सुदर्शनाय सुपूजितं पारिबर्हं विवाहे ॥ 15॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,15,3220,मदोत्कटान्हेमविभूषितांश्च गजान्गिरेः श‍ृङ्गसमानदेहान् । शतं सपादं नृपसूनवेऽसौ ददावथ प्रेमयुतो नृपेन्द्रः ॥ 16॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,16,3221,दासीशतं काञ्चनभूषितं च करेणुकानां च शतं सुचारु । समर्पयामास वराय राजा विवाहकाले मुदितोऽनुवेलम् ॥ 17॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,17,3222,अदात्पुनर्दाससहस्रमेकं सर्वायुधैः सम्भृतभूषितञ्च । रत्नानि वासांसि यथोचितानि दिव्यानि चित्राणि तथाविकानि ॥ 18॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,18,3223,ददौ पुनर्वासगृहाणि तस्मै रम्याणि दीर्घाणि विचित्रितानि । सिन्धूद्भवानां तुरगोत्तमाना- मदात्सहस्रद्वितयं सुरम्यम् ॥ 19॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,19,3224,क्रमेलकानाञ्च शतत्रयं वै प्रत्यादिशद्भारभृतां सुचारु । शतद्वयं वै शकटोत्तमानां तस्मै ददौ धान्यरसैः प्रपूरितम् ॥ 20॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,20,3225,मनोरमां राजसुतां प्रणम्य जगाद वाक्यं विहिताञ्जलिः पुरः । दासोऽस्मि ते राजसुते वरिष्ठे तद्ब्रूहि यत्स्यात्तु मनोगतं ते ॥ 21॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,21,3226,तं चारुवाक्यं निजगाद सापि स्वस्त्यस्तु ते भूप कुलस्य वृद्धिः । सम्मानिताऽहं मम सूनवे त्वया दत्ता यतो रत्नवरा स्वकन्या ॥ 22॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,22,3227,न बन्दिपुत्री नृप मागधी वा स्तौमीह किं त्वां स्वजनं महत्तरम् । सुमेरुतुल्यस्तु कृतः सुतोऽद्य मे सम्बन्धिना भूपतिनोत्तमेन ॥ 23॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,23,3228,अहोऽतिचित्रं नृपतेश्चरित्रं परं पवित्रं तव किं वदामि । यद्भ्रष्टराज्याय सुताय मेऽद्य दत्ता त्वया पूज्यसुता वरिष्ठा ॥ 24॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,24,3229,वनाधिवासाय किलाधनाय पित्रा विहीनाय विसैन्यकाय । सर्वानिमान्भूमिपतीन्विहाय फलाशनायार्थविवर्जिताय ॥ 25॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,25,3230,समानवित्तेऽथ कुले बले च ददाति पुत्रीं नृपतिश्च भूयः । न कोऽपि मे भूपसुतेऽर्थहीने गुणान्वितां रूपवतीञ्च दद्यात् ॥ 26॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,26,3231,वैरं तु सर्वैः सह संविधाय नृपैर्वरिष्ठैर्बलसंयुतैश्च । सुदर्शनायाथ सुताऽर्पिता मे किं वर्णये धैर्यमिदं त्वदीयम् ॥ 27॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,27,3232,निशम्य वाक्यानि नृपः प्रहृष्टः कृताञ्जलिर्वाक्यमुवाच भूयः । गृहाण राज्यं मम सुप्रसिद्धं भवामि सेनापतिरद्य चाहम् ॥ 28॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,28,3233,नोचेत्तदर्धं प्रतिगृह्य चात्र सुतान्वितो राज्यफलानि भुङ्क्ष्व । विहाय वाराणसिकानिवासं वने पुरे वासमतो न मेऽस्ति ॥ 29॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,29,3234,नृपास्तु सन्त्येव रुषान्विता वै गत्वा करिष्ये प्रथमं तु सान्त्वनम् । ततः परं द्वावपरावुपायौ नोचेत्ततो युद्धमहं करिष्ये ॥ 30॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,30,3235,जयाजयो दैववशो तथापि धर्मे जयो नैव कृतेऽप्यधर्मे । तेषां किलाधर्मवतां नृपाणां कथं भविष्यत्यनुचिन्तितं वै ॥ 31॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,31,3236,आकर्ण्य तद्भाषितमर्थवच्च जगाद वाक्यं हितकारकं तम् । मनोरमा मानमवाप्य तस्मात् सर्वात्मना मोदयुता प्रसन्ना ॥ 32॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,32,3237,राजञ्छिवं तेऽस्तु कुरुष्व राज्यं त्यक्त्वा भयं त्वं स्वसुतैः समेतः । सुतोऽपि मे नूनमवाप्य राज्यं साकेतपुर्यां प्रचरिष्यतीह ॥ 33॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,33,3238,विसर्जयास्मान्निजसद्म गन्तुं शिवं भवानी तव संविधास्यति । न काऽपि चिन्ता मम भूप वर्तते सञ्चिन्तयन्त्या परमाम्बिकां वै ॥ 34॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,34,3239,दोषा गता विविधवाक्यपदै रसालै- रन्योन्यभाषणपदैरमृतोपमैश्च । प्रातर्नृपाः समधिगम्य कृतं विवाहं रोषान्विता नगरबाह्यगतास्तथोचुः ॥ 35॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,35,3240,अद्यैव तं नृपकलङ्कधरञ्च हत्वा बालं तथैव किल तं न विवाहयोग्यम् । गृह्णीम तां शशिकलां नृपतेश्च लक्ष्मीं लज्जामवाप्य निजसद्म कथं व्रजेम ॥ 36॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,36,3241,श‍ृण्वन्तु तूर्यनिनदान्किल वाद्यमाना- ञ्छङ्खस्वनानभिभवन्ति मृदङ्गशब्दाः । गीतध्वनिं च विविधं निगमस्वनञ्च मन्यामहे नृपतिनाऽत्र कृतो विवाहः ॥ 37॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,37,3242,अस्मान्प्रतार्य वचनैर्विधिवच्चकार वैवाहिकेन विधिना करपीडनं वै । कर्तव्यमद्य किमहो प्रविचिन्तयन्तु भूपाः परस्परमतिं च समर्थयन्तु ॥ 38॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,38,3243,एवं वदत्सु नृपतिष्वथ कन्याकायाः कृत्वा विवाहविधिमप्रतिमप्रभावः । भूपान्निमन्त्रयितुमाशु जगाम राजा काशीपतिः स्वसुहृदैः प्रथितप्रभावैः ॥ 39॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,39,3244,आगच्छन्तं च तं दृष्ट्वा नृपाः काशीपतिं तदा । नोचुः किञ्चिदपि क्रोधान्मौनमाधाय संस्थिताः ॥ 40॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,40,3245,स गत्वा प्रणिपत्याह कृताञ्जलिरभाषत । आगन्तव्यं नृपैः सर्वैर्भोजनार्थं गृहे मम ॥ 41॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,41,3246,कन्ययाऽसौ वृतो भूपः किं करोमि हिताहितम् । भवद्भिस्तु शुभः कार्यो महान्तो हि दयालवः ॥ 42॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,42,3247,तन्निशम्य वचस्तस्य नृपाः क्रोधपरिप्लुताः । प्रत्यूचुर्भुक्तमस्माभिः स्वगृहं नृपते व्रज ॥ 43॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,43,3248,कुरु कार्याण्यशेषाणि यथेष्टं सुकृतं कृतम् । नृपाः सर्वे प्रयान्त्वद्य स्वानि स्वानि गृहाणि वै ॥ 44॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,44,3249,सुबाहुरपि तच्छ्रुत्वा जगाम शङ्कितो गृहम् । किं करिष्यन्ति संविग्नाः क्रोधयुक्ता नृपोत्तमाः ॥ 45॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,45,3250,गते तस्मिन्महीपालाश्चक्रुश्च समयं पुनः । रुद्ध्वा मार्गं ग्रहीष्यामः कन्यां हत्वा सुदर्शनम् ॥ 46॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,46,3251,केचनोचुः किमस्माकं हन्त तेन नृपेण वै । दृष्ट्वा तु कौतुकं सर्वं गमिष्यामो यथागतम् ॥ 47॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,47,3252,इत्युक्त्वा ते नृपाः सर्वे मार्गमाक्रम्य संस्थिताः । चकारोत्तरकार्याणि सुबाहुः स्वगृहं गतः ॥ 48॥ 3,३.२२,द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।,48,3253,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे सुदर्शनशशिकलयोर्विवाहवर्णनं नाम द्वाविंशोऽध्यायः ॥ ३.२२॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,0,3254,व्यास उवाच । तस्मै गौरवभोज्यानि विधाय विधिवत्तदा । वासराणि च षड्राजा भोजयामास भक्तितः ॥ 1॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,1,3255,एवं विवाहकार्याणि कृत्वा सर्वाणि पार्थिवः । पारिबर्हं प्रदत्वाऽथ मन्त्रयन्सचिवैः सह ॥ 2॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,2,3256,दूतैस्तु कथितं श्रुत्वा मार्गसंरोधनं कृतम् । बभूव विमना राजा सुबाहुरमितद्युतिः ॥ 3॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,3,3257,सुदर्शनस्तदोवाच श्वशुरं संशितव्रतः । अस्मान्विसर्जयाशु त्वं गमिष्यामो ह्यशङ्किताः ॥ 4॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,4,3258,भारद्वाजाश्रमं पुण्यं गत्वा तत्र समाहिताः । निवासाय विचारो वै कर्तव्यः सर्वथा नृप ॥ 5॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,5,3259,नृपेभ्यश्च न कर्तव्यं भयं किञ्चित्त्वयाऽनघ । जगन्माता भवानी मे साहाय्यं वै करिष्यति ॥ 6॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,6,3260,व्यास उवाच । तस्येति मतमाज्ञाय जामातुर्नुपसत्तमः । विससर्ज धनं दत्वा प्रतस्थे सोऽपि सत्वरः ॥ 7॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,7,3261,बलेन महताऽऽविष्टो ययावनु नृपोत्तमः । सुदर्शनो वृतस्तत्र चचाल पथि निर्भयः ॥ 8॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,8,3262,रथैः परिवृतः शूरः सदारो रथसंस्थितः । गच्छन्ददर्श सैन्यानि नृपाणां रघुनन्दनः ॥ 9॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,9,3263,सुबाहुरपि तान्वीक्ष्य चिन्ताविष्टो बभूव ह । विधिवत्स शिवां चित्ते जगाम शरणं मुदा ॥ 10॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,10,3264,जजापैकाक्षरं मन्त्रं कामराजमनुत्तमम् । निर्भयो वीतशोकश्च पत्न्या सह नवोढया ॥ 11॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,11,3265,ततः सर्वे महीपालाः कृत्वा कोलाहलं तदा । उत्थिताः सैन्यसंयुक्ता हन्तुकामास्तु कन्यकाम् ॥ 12॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,12,3266,काशिराजस्तु तान्दृष्ट्वा हन्तुकामो बभूव ह । निवारितस्तदाऽत्यर्थं राघवेण जिगीषता ॥ 13॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,13,3267,तत्रापि नेदुः शङ्खाश्च भेर्यश्चानकदुन्दुभिः । सुबाहोश्च नृपाणाञ्च परस्परजिघांसताम् ॥ 14॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,14,3268,शत्रुजित्तु सुसंवृत्तः स्थितस्तत्र जिघांसया । युधाजित्तत्सहायार्थं सन्नद्धः प्रबभूव ह ॥ 15॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,15,3269,केचिच्च प्रेक्षकास्तस्य सहानीकैः स्थितास्तदा । युधाजिदग्रतो गत्वा सुदर्शनमुपस्थितः ॥ 16॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,16,3270,शत्रुजित्तेन सहितो हन्तुं भ्रातरमानुजः । परस्परं ते बाणौघैस्ततक्षुः क्रोधमूर्छिताः ॥ 17॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,17,3271,सम्मर्दः सुमहांस्तत्र सम्प्रवृत्तः सुमार्गणैः । काशीपतिस्तदा तूर्णं सैन्येन बहुना वृतः ॥ 18॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,18,3272,साहाय्यार्थं जगामाशु जामातरमनिन्दितम् । एवं प्रवृत्ते सङ्ग्रामे दारुणे लोमहर्षणे ॥ 19॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,19,3273,प्रादुर्बभूव सहसा देवी सिंहोपरि स्थिता । नानायुधधरा रम्या वराभूषणभूषिता ॥ 20॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,20,3274,दिव्याम्बरपरीधाना मन्दारस्रक्सुसंयुता । तां दृष्ट्वा तेऽथ भूपाला विस्मयं परमं गताः ॥ 21॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,21,3275,केयं सिंहसमारूढा कुतो वेति समुत्थिता । सुदर्शनस्तु तां वीक्ष्य सुबाहुमिति चाब्रवीत् ॥ 22॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,22,3276,पश्य राजन्महादेवीमागतां दिव्यदर्शनाम् । अनुग्रहाय मे नूनं प्रादुर्भूता दयान्विता ॥ 23॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,23,3277,निर्भयोऽहं महाराज जातोऽस्मि निर्भयादपि । सुदर्शनः सुबाहुश्च तामालोक्य वराननाम् ॥ 24॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,24,3278,प्रणामं चक्रतुस्तस्या मुदितौ दर्शनेन च । ननाद च तदा सिंहो गजास्त्रस्ताश्चकम्पिरे ॥ 25॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,25,3279,ववुर्वाता महाघोरा दिशश्चासन्सुदारुणाः । सुदर्शनस्तदा प्राह निजं सेनापतिं प्रति ॥ 26॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,26,3280,मार्गे व्रज त्वं तरसा भूपाला यत्र संस्थिताः । किं करिष्यन्ति राजानः कुपिता दुष्टचेतसः ॥ 27॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,27,3281,शरणार्थञ्च सम्प्राप्ता देवी भगवती हि नः । निरातङ्कैश्च गन्तव्यं मार्गेऽस्मिन्भूपसङ्कुले ॥ 28॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,28,3282,स्मृता मया महादेवी रक्षणार्थमुपागता । तच्छ्रुत्वा वचनं सेनापतिस्तेन पथाऽव्रजत् ॥ 29॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,29,3283,युधाजित्तु सुसङ्क्रुद्धस्तानुवाच महीपतीन् । किं स्थिता भयसन्त्रस्ता निघ्नन्तु कन्यकान्वितम् ॥ 30॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,30,3284,अवमन्य च नः सर्वान्बलहीनो बलाधिकान् । कन्यां गृहीत्वा संयाति निर्भयस्तरसा शिशुः ॥ 31॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,31,3285,किं भीताः कामिनीं वीक्ष्य सिंहोपरि सुसंस्थिताम् । नोपेक्ष्यो हि महाभागा हन्तव्योऽत्र समाहितैः ॥ 32॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,32,3286,हत्वैनं सङ्ग्रहीष्यामः कन्यां चारुविभूषणाम् । नायं केसरिणादत्तां छेत्तुमर्हति जम्बुकः ॥ 33॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,33,3287,इत्युक्त्वा सैन्यसंयुक्तः शत्रुजित्सहितस्तदा । योद्धुकामः सुसम्प्राप्तो युधाजित्क्रोधसंवृतः ॥ 34॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,34,3288,मुमोच विशिखांस्तूर्णं समपुङ्खाञ्छिलाशितान् । धनुराकृष्य कर्णान्तं कर्मारपरिमार्जितान् ॥ 35॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,35,3289,हन्तुकामः सुदुर्मेधाः सुदर्शनमथोपरि । सुदर्शनस्तु तान्बाणैश्चिच्छेदापततः क्षणात् ॥ 36॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,36,3290,एवं युद्धे प्रवृत्तेऽथ चुकोप चण्डिका भृशम् । दुर्गादेवी मुमोचाथ बाणान् युधाजितं प्रति ॥ 37॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,37,3291,नानारूपा तदा जाता नानाशस्रधरा शिवा । सम्प्राप्ता तुमुलं तत्र चकार जगदम्बिका ॥ 38॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,38,3292,शत्रुजिन्निहतस्तत्र युधाजिदपि पार्थिवः । पतितौ तौ रथाभ्यां तु जयशब्दस्तदाऽभवत् ॥ 39॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,39,3293,विस्मयं परमं प्राप्ता भूपाः सर्वे विलोक्य ताम् । निधनं मातुलस्यापि भागिनेयस्य संयुगे ॥ 40॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,40,3294,सुबाहुरपि तद्दृष्ट्वा निधनं संयुगे तयोः । तुष्टाव परमप्रीतो दुर्गां दुर्गार्तिनाशिनीम् ॥ 41॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,41,3295,सुबाहुरुवाच । नमौ देव्यै जगद्धात्र्यै शिवायै सततं नमः । दुर्गायै भगवत्यै ते कामदायै नमो नमः ॥ 42॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,42,3296,नमः शिवायै शान्त्यै ते विद्यायै मोक्षदे नमः । विश्वव्याप्त्यै जगन्मातर्जगद्धात्र्यै नमः शिवे ॥ 43॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,43,3297,नाहं गतिं तव धिया परिचिन्तयन् वै जानामि देवि सगुणः किल निर्गुणायाः । किं स्तौमि विश्वजननीं प्रकटप्रभावां भक्तार्तिनाशनपरां परमाञ्च शक्तिम् ॥ 44॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,44,3298,वाग्देवता त्वमसि सर्वगतैव बुद्धि- र्विद्या मतिश्च गतिरप्यसि सर्वजन्तोः । त्वां स्तौमि किं त्वमसि सर्वमनोनियन्त्री किं स्तूयते हि सततं खलु चात्मरूपम् ॥ 45॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,45,3299,ब्रह्मा हरश्च हरिरप्यनिशं स्तुवन्तो नान्तं गताः सुरवराः किल ते गुणानाम् । क्वाहं विभेदमतिरम्ब गुणैर्वृतो वै वक्तुं क्षमस्तव चरित्रमहोऽप्रसिद्धः ॥ 46॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,46,3300,सत्सङ्गतिः कथमहो न करोति कामं प्रासङ्गिकापि विहिता खलु चित्तशुद्धिः । जामातुरस्य विहितेन समागमेन प्राप्तं मयाऽद्भुतमिदं तव दर्शनं वै ॥ 47॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,47,3301,ब्रह्माऽपि वाञ्छति सदैव हरो हरिश्च सेन्द्राः सुराश्च मुनयो विदितार्थतत्त्वाः । यद्दर्शनं जननि तेऽद्य मया दुरापं प्राप्तं विना दमशमादिसमाधिभिश्च ॥ 48॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,48,3302,क्वाहं सुमन्दमतिराशु तवावलोकं क्वेदं भवानि भवभेषजमद्वितीयम् । ज्ञाताऽसि देवि सततं किल भावयुक्ता भक्तानुकम्पनपरामरवर्गपूज्या ॥ 49॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,49,3303,किं वर्णयामि तव देवि चरित्रमेतद् यद्रक्षितोऽस्ति विषमेऽत्र सुदर्शनोऽयम् । शत्रू हतौ सुबलिनौ तरसा त्वयाद्य भक्तानुकम्पि चरितं परमं पवित्रम् ॥ 50॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,50,3304,नाश्चर्यमेतदिति देवि विचारितेऽर्थे त्वं पासि सर्वमखिलं स्थिरजङ्गमं वै । त्रातस्त्वया च विनिहत्य रिपुर्दयातः संरक्षितोऽयमधुना ध्रुवसन्धिसूनुः ॥ 51॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,51,3305,भक्तस्य सेवनपरस्य स्वयशोऽतिदीप्तं कर्तुं भवानि रचितं चरितं त्वयैतत् । नोचेत्कथं सुपरिगृह्य सुतां मदीयां युद्धे भवेत्कुशलवाननवद्यशीलः ॥ 52॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,52,3306,शक्ताऽसि जन्ममरणादिभयान्विहन्तुं किं चित्रमत्र किल भक्तजनस्य कामम् । त्वं गीयसे जननि भक्तजनैरपारा त्वं पापपुण्यरहिता सगुणाऽगुणा च ॥ 53॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,53,3307,त्वद्दर्शनादहमहो सुकृती कृतार्थो जातोऽस्मि देवि भुवनेश्वरि धन्यजन्मा । बीजं न ते न भजनं किल वेद्मि मात- र्ज्ञातस्तवाद्य महिमा प्रकटप्रभावः ॥ 54॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,54,3308,व्यास उवाच । एवं स्तुता तदा देवी प्रसन्नवदना शिवा । उवाच च नृपं देवी वरं वरय सुव्रत ॥ 55॥ 3,३.२३,त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।,55,3309,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे सुबाहुकृतदेवीस्तुतिवर्णनं नाम त्रयोविंशोऽध्यायः ॥ ३.२३॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,0,3310,व्यास उवाच । तस्यास्तद्वचनं श्रुत्वा भवान्याः स नृपोत्तमः । प्रोवाच वचनं तत्र सुबाहुर्भक्तिसंयुतः ॥ 1॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,1,3311,सुबाहुरुवाच । एकतो देवलोकस्य राज्यं भूमण्डलस्य च । एकतो दर्शनं ते वै न च तुल्यं कदाचन ॥ 2॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,2,3312,दर्शनात्सदृशं किञ्चित्त्रिषु लोकेषु नास्ति मे । कं वरं देवि याचेऽहं कृतार्थोऽस्मि धरातले ॥ 3॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,3,3313,एतदिच्छाम्यहं मातर्याचितुं वाञ्छितं वरम् । तव भक्तिः सदा मेऽस्तु निश्चला ह्यनपायिनी ॥ 4॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,4,3314,नगरेऽत्र त्वया मातः स्थातव्यं मम सर्वदा । दुर्गादेवीति नाम्ना वै त्वं शक्तिरिह संस्थिता ॥ 5॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,5,3315,रक्षा त्वया च कर्तव्या सर्वदा नगरस्य ह । यथा सुदर्शनस्त्रातो रिपुसङ्घादनामयः ॥ 6॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,6,3316,तथाऽत्र रक्षा कर्तव्या वाराणस्यास्त्वयाम्बिके । यावत्पुरी भवेद्भूमौ सुप्रतिष्ठा सुसंस्थिता ॥ 7॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,7,3317,तावत्त्वयाऽत्र स्थातव्यं दुर्गे देवि कृपानिधे । वरोऽयं मम ते देयः किमन्यत्प्रार्थयाम्यहम् ॥ 8॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,8,3318,विविधान्सकलान्कामान्देहि मे विद्विषो जहि । अभद्राणां विनाशञ्च कुरु लोकस्य सर्वदा ॥ 9॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,9,3319,व्यास उवाच । इति सम्प्रार्थिता देवी दुर्गा दुर्गार्तिनाशिनी । तमुवाच नृपं तत्र स्तुत्वा वै संस्थितं पुरः ॥ 10॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,10,3320,दुर्गोवाच । राजन्सदा निवासो मे मुक्तिपुर्यां भविष्यति । रक्षार्थं सर्वलोकानां यावत्तिष्ठति मेदिनी ॥ 11॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,11,3321,अथो सुदर्शनस्तत्र समागत्य मुदान्वितः । प्रणम्य परया भक्त्या तुष्टाव जगदम्बिकाम् ॥ 12॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,12,3322,अहो कृपा ये कथयाम्यहं किं त्रातस्त्वया यत्किल भक्तिहीनः । भक्तानुकम्पी सकलो जनोऽस्ति विमुक्तभक्तेरवनं व्रतं ते ॥ 13॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,13,3323,त्वं देवि सर्वं सृजसि प्रपञ्चं श्रुतं मया पालयसि स्वसृष्टम् । त्वमत्सि संहारपरे च काले न तेऽत्र चित्रं मम रक्षणं वै ॥ 14॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,14,3324,करोमि किं ते वद देवि कार्यं क्व वा व्रजामीत्यनुमोदयाशु । कार्ये विमूढोऽस्मि तवाज्ञयाऽहं गच्छामि तिष्ठे विहरामि मातः ॥ 15॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,15,3325,व्यास उवाच । तं तथा भाषमाणं तु देवी प्राह दयान्विता । गच्छायोध्यां महाभाग कुरु राज्यं कुलोचितम् ॥ 16॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,16,3326,स्मरणीया सदाऽहं ते पूजनीया प्रयत्नतः । शं विधास्याम्यहं नित्यं राज्यं ते नृपसत्तम ॥ 17॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,17,3327,अष्टम्याञ्च चतुर्दश्यां नवम्याञ्च विशेषतः । मम पूजा प्रकर्तव्या बलिदानविधानतः ॥ 18॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,18,3328,अर्चा मदीया नगरे स्थापनीया त्वयाऽनघ । पूजनीया प्रयत्नेन त्रिकालं भक्तिपूर्वकम् ॥ 19॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,19,3329,शरत्काले महापूजा कर्तव्या मम सर्वदा । नवरात्रविधानेन भक्तिभावयुतेन च ॥ 20॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,20,3330,चैत्रेऽश्विने तथाऽऽषाढे माघे कार्यो महोत्सवः । नवरात्रे महाराज पूजा कार्या विशेषतः ॥ 21॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,21,3331,कृष्णपक्षे चतुर्दश्यां मम भक्तिसमन्वितैः । कर्तव्या नृपशार्दूल तथाऽष्टम्यां सदा बुधैः ॥ 22॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,22,3332,व्यास उवाच । इत्युक्त्वान्तर्हिता देवी दुर्गा दुर्गार्तिनाशिनी । नता सुदर्शनेनाथ स्तुता च बहुविस्तरम् ॥ 23॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,23,3333,अन्तर्हितां तु तां दृष्ट्वा राजानः सर्व एव ते । प्रणेमुस्तं समागम्य यथा शक्रं सुरास्तथा ॥ 24॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,24,3334,सुबाहुरपि तं नत्वा स्थितश्चाग्रे मुदान्वितः । ऊचुः सर्वे महीपाला अयोध्याधिपतिं तदा ॥ 25॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,25,3335,त्वमस्माकं प्रभुः शास्ता सेवकास्ते वयं सदा । कुरु राज्यमयोध्यायां पालयास्मान्नृपोत्तम ॥ 26॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,26,3336,त्वत्प्रसादान्महाराज दृष्टा विश्वेश्वरी शिवा । आदिशक्तिर्भवानी सा चतुर्वर्गफलप्रदा ॥ 27॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,27,3337,धन्यस्त्वं कृतकृत्योऽसि बहुपुण्यो धरातले । यस्माच्च त्वत्कृते देवी प्रादुर्भूता सनातनी ॥ 28॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,28,3338,न जानीमो वयं सर्वे प्रभावं नृपसत्तम । चण्डिकायास्तमोयुक्ता मायया मोहिताः सदा ॥ 29॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,29,3339,धनदारसुतानां च चिन्तनेऽभिरताः सदा । मग्ना महार्वणे घोरे कामक्रोधझषाकुले ॥ 30॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,30,3340,पृच्छामस्त्वां महाभाग सर्वज्ञोऽसि महामते । केयं शक्तिः कुतो जाता किं प्रभावा वदस्व तत् ॥ 31॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,31,3341,भव त्वं नौश्च संसारे साधवोऽति दयापराः । तस्मान्नो वद काकुत्स्थ देवीमाहात्म्यमुत्तमम् ॥ 32॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,32,3342,यत्प्रभावा च सा देवी यत्स्वरुपा यदुद्भवा । सत्सर्वं श्रोतुमिच्छामस्त्वं ब्रूहि नृवरोत्तम ॥ 33॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,33,3343,व्यास उवाच । इति पृष्टस्तदा तैस्तु ध्रुवसन्धिसुतो नृपः । विचिन्त्य मनसा देवीं तानुवाच मुदान्वितः ॥ 34॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,34,3344,सुदर्शन उवाच । किं ब्रवीमि महीपालास्तस्याश्चरितमुत्तमम् । ब्रह्मादयो न जानन्ति सेशाः सुरगणास्तथा ॥ 35॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,35,3345,सर्वस्याद्या महालक्ष्मीर्वरेण्या शक्तिरुत्तमा । सात्त्विकीयं महीपाला जगत्पालनतत्परा ॥ 36॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,36,3346,सृजते या रजोरूपा सत्त्वरूपा च पालने । संहारे च तमोरूपा त्रिगुणा सा सदा मता ॥ 37॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,37,3347,निर्गुणा परमा शक्तिः सर्वकामफलप्रदा । सर्वेषां कारणं सा हि ब्रह्मादीनां नृपोत्तमाः ॥ 38॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,38,3348,निर्गुणा सर्वथा ज्ञातुमशक्या योगिभिर्नृपाः । सगुणा सुखसेव्या सा चिन्तनीया सदा बुधैः ॥ 39॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,39,3349,राजान ऊचुः । बाल एव वनं प्राप्तस्त्वं तु नूनं भयातुरः । कथं ज्ञाता त्वया देवी परमा शक्तिरुत्तमा ॥ 40॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,40,3350,उपासिता कथं चैव पूजिता च कथं नृप । या प्रसन्ना तु साहाय्यं चकार त्वरयान्विता ॥ 41॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,41,3351,सुदर्शन उवाच । बालभावान्मया प्राप्तं बीजं तस्याः सुसम्मतम् । स्मरामि प्रजपन्नित्यं कामबीजाभिधं नृपाः ॥ 42॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,42,3352,ऋषिभिः कथ्यमाना सा मया ज्ञाताम्बिका शिवा । स्मरामि तां दिवारात्रं भक्त्या परमया पराम् ॥ 43॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,43,3353,व्यास उवाच । तन्निशम्य वचस्तस्य राजानो भक्तितत्पराः । तां मत्वा परमां शक्तिं निर्ययुः स्वगृहान्प्रति ॥ 44॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,44,3354,सुबाहुरगमत्काश्यां तमापृच्छ्य सुदर्शनम् । सुदर्शनोऽपि धर्मात्मा निर्ज्जगाम सुकोसलान् ॥ 45॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,45,3355,मन्त्रिणस्तु नृपं श्रुत्वा हतं शत्रुजितं मृधे । जितं सुदर्शनञ्चैव बभूवुः प्रेमसंयुताः ॥ 46॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,46,3356,आगच्छन्तं नृपं श्रुत्वा तं साकेतनिवासिनः । उपायनान्युपादाय प्रययुः सम्मुखे जनाः ॥ 47॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,47,3357,तथा प्रकृतयः सर्वे नानोपायनपाणयः । ध्रुवसन्धिसुतं दत्त्वा मुदिताः प्रययुः प्रजाः ॥ 48॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,48,3358,स्त्रियोपसंयुतः सोऽथ प्राप्यायोध्यां सुदर्शनः । सम्मान्य सर्वलोकांश्च ययौ राजा निवेशनम् ॥ 49॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,49,3359,वन्दिभिः स्तूयमानस्तु वन्द्यमानश्च मन्त्रिभिः । कन्याभिः कीर्यमाणश्च लाजैः सुमनसैस्तथा ॥ 50॥ 3,३.२४,चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।,50,3360,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सुदर्शनेन देवीमहिमवर्णनं नाम तृतीयस्कन्धे चतुर्विशोऽध्यायः ॥ ३.२४॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,0,3361,व्यास उवाच । गत्वाऽयोध्यां नृपश्रेष्ठो गृहं राज्ञः सुहृद्वृतः । शत्रुजिन्मातरं प्राह प्रणम्य शोकसङ्कुलाम् ॥ 1॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,1,3362,मातर्न ते मया पुत्रः सङ्ग्रामे निहतः किल । न पिता ते युधाजिच्च शपे ते चरणौ तथा ॥ 2॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,2,3363,दुर्गया तौ हतौ सङ्ख्ये नापराधो ममात्र वै । अवश्यम्भाविभावेषु प्रतीकारो न विद्यते ॥ 3॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,3,3364,न शोकोऽत्र त्वया कार्यो मृतपुत्रस्य मानिनि । स्वकर्मवशगो जीवो भुङ्क्ते भोगान्सुखासुखान् ॥ 4॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,4,3365,दासोऽस्मि तव भो मातर्यथा मम मनोरमा । तथा त्वमपि धर्मज्ञे न भेदोऽस्ति मनागपि ॥ 5॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,5,3366,अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । तस्मान्न शोचितव्यं ते सुखे दुःखे कदाचन ॥ 6॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,6,3367,दुःखे दुःखाधिकान्पश्येत्सुखे पश्येत्सुखाधिकम् । आत्मानं शोकहर्षाभ्यां शत्रुभ्यामिव नार्पयेत् ॥ 7॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,7,3368,दैवाधीनमिदं सर्वं नात्माधीनं कदाचन । न शोकेन तदाऽऽत्मानं शोषयेन्मतिमान्नरः ॥ 8॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,8,3369,यथा दारुमयी योषा नटादीनां प्रचेष्टते । तथा स्वकर्मवशगो देही सर्वत्र वर्तते ॥ 9॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,9,3370,अहं वनगतो मातर्नाभवं दुःखमानसः । चिन्तयन्स्वकृतं कर्म भोक्तव्यमिति वेद्मि च ॥ 10॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,10,3371,मृतो मातामहोऽत्रैव विधुरा जननी मम । भयातुरा गृहीत्वा मां निर्ययौ गहनं वनम् ॥ 11॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,11,3372,लुण्ठिता तस्करैर्मार्गे वस्त्रहीना तथा कृता । पाथेयञ्च हृतं सर्वं बालपुत्रा निराश्रया ॥ 12॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,12,3373,माता गृहीत्वा मां प्राप्ता भारद्वाजाश्रमं प्रति । विदल्लोऽयं समायातस्तथा धात्रेयिकाऽबला ॥ 13॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,13,3374,मुनिभिर्मुनिपत्नीभिर्दयायुक्तैः समन्ततः । पोषिताः फलनीवारैर्वयं तत्र स्थितास्त्रयः ॥ 14॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,14,3375,दुःखं नमे तदा ह्यासीत्सुखं नाद्य धनागमे । न वैरं न च मात्सर्यं मम चित्ते तु कर्हिचित् ॥ 15॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,15,3376,नीवारभक्षणं श्रेष्ठं राजभोगात्परन्तपे । तदाशी नरकं याति न नीवाराशनः क्वचित् ॥ 16॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,16,3377,धर्मस्याचरणं कार्यं पुरुषेण विजानता । सञ्जित्येन्द्रियवर्गं वै यथा न नरकं व्रजेत् ॥ 17॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,17,3378,मानुष्यं दुर्लभं मातः खण्डेऽस्मिन्भारते शुभे । आहारादि सुखं नूनं भवेत्सर्वासु योनिषु ॥ 18॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,18,3379,प्राप्य तं मानुषं देहं कर्तव्यं धर्मसाधनम् । स्वर्गमोक्षप्रदं नॄणां दुर्लभं चान्ययोनिषु ॥ 19॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,19,3380,व्यास उवाच । इत्युक्ता सा तदा तेन लीलावत्यतिलज्जिता । पुत्रशोकं परित्यज्य तमाहाश्रुविलोचना ॥ 20॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,20,3381,सापराधाऽस्मि पुत्राहं कृता पित्रा युधाजिता । हत्या मातामहं तेऽत्र हृतं राज्यं तु येन वै ॥ 21॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,21,3382,न तं वारयितुं शक्ता तदाऽहं न सुतं मम । यत्कृतं कर्म तेनैव नापराधोऽस्ति मे सुत ॥ 22॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,22,3383,तौ मृतौ स्वकृतेनैव कारणं त्वं तयोर्न च । नाहं शोचामि तं पुत्रं सदा शोचामि तत्कृतम् ॥ 23॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,23,3384,पुत्र त्वमसि कल्याण भगिनी मे मनोरमा । न क्रोधो न च शोको मे त्वयि पुत्र मनागपि ॥ 24॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,24,3385,कुरु राज्यं महाभाग प्रजाः पालय सुव्रत । भगवत्याः प्रसादेन प्राप्तमेतदकण्टकम् ॥ 25॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,25,3386,तदाकर्ण्य वचो मातुर्नत्वा तां नृपनन्दनः । जगाम भवनं रम्यं यत्र पूर्वं मनोरमा ॥ 26॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,26,3387,न्यवसत्तत्र गत्वा तु सर्वानाहूय मन्त्रिणः । दैवज्ञानथ पप्रच्छ मुहूर्तं दिवसं शुभम् ॥ 27॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,27,3388,सिंहासनं तथा हैमं कारयित्वा मनोहरम् । सिंहासने स्थितां देवीं पूजयिष्ये सदाऽप्यहम् ॥ 28॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,28,3389,स्थापयित्वाऽऽसने देवीं धर्मार्थकाममोक्षदाम् । राज्यं पश्चात्करिष्यामि यथा रामादिभिः कृतम् ॥ 29॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,29,3390,पूजनीया सदा देवी सर्वैर्नागरिकैर्जनैः । माननीया शिवा शक्तिः सर्वकामार्थसिद्धिदा ॥ 30॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,30,3391,इत्युक्ता मन्त्रिणस्ते तु चक्रुर्वै राजशासनम् । प्रासादं कारयामासुः शिल्पिभिः सुमनोरमम् ॥ 31॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,31,3392,प्रतिमां कारयित्वाऽथ मुहूर्तेऽथ शुभे दिने । द्विजानाहूय वेदज्ञान्स्थापयामास भूपतिः ॥ 32॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,32,3393,हवनं विधिवत्कृत्वा पूजयित्वाऽथ देवताम् । प्रासादे मतिमान् देव्याः स्थापयामास भूमिपः ॥ 33॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,33,3394,उत्सवस्तत्र संवृत्तो वादित्राणाञ्च निःस्वनैः । ब्राह्मणानां वेदघोषैर्गानैस्तु विधिधैर्नृप ॥ 34॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,34,3395,व्यास उवाच । प्रतिष्ठाप्य शिवां देवीं विधिवद्वेदवादिभिः । पूजां नानाविधां राजा चकारातिविधानतः ॥ 35॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,35,3396,कृत्वा पूजाविधिं राजा राज्यं प्राप्य स्वपैतृकम् । विख्यातश्चाम्बिका देवी कोसलेषु बभूव ह ॥ 36॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,36,3397,राज्यं प्राप्य नृपः सर्वं सामन्तकनृपानथ । वशे चक्रेऽतिधर्मिष्ठान्सद्धर्मविजयी नृपः ॥ 37॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,37,3398,यथा रामः स्वराज्येऽभूद्दिलीपस्य रघुर्यथा । प्रजानां वै सुखं तद्वन्मर्यादाऽपि तथाऽभवत् ॥ 38॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,38,3399,धर्मो वर्णाश्रमाणां च चतुष्पादभवत्तथा । नाधर्मे रमते चित्तं केषामपि महीतले ॥ 39॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,39,3400,ग्रामे ग्रामे च प्रासादांश्चक्रुः सर्वे जनाधिपाः । देव्याः पूजा तदा प्रीत्या कोसलेषु प्रवर्तिता ॥ 40॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,40,3401,सुबाहुरपि काश्यां तु दुर्गायाः प्रतिमां शुभाम् । कारयित्वा च प्रासादं स्थापयामास भक्तितः ॥ 41॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,41,3402,तत्र तस्या जनाः सर्वे प्रेमभक्तिपरायणाः । पूजां चक्रुर्विधानेन यथा विश्वेश्वरस्य ह ॥ 42॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,42,3403,विख्याता सा बभूवाथ दुर्गादेवी धरातले । देशे देशे महाराज तस्या भक्तिर्व्यवर्धत ॥ 43॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,43,3404,सर्वत्र भारते लोके सर्ववर्णेषु सर्वथा । भजनीया भवानी तु सर्वेषामभवत्तदा ॥ 44॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,44,3405,शक्तिभक्तिरताः सर्वे मानिनश्चाभवन्नृप । आगमोक्तैरथ स्तोत्रैर्जपध्यानपरायणाः ॥ 45॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,45,3406,नवरात्रेषु सर्वेषु चक्रुः सर्वे विधानतः । अर्चनं हवनं यागं देव्या भक्तिपरा जनाः ॥ 46॥ 3,३.२५,पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।,46,3407,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे देवीस्थापनवर्णनं नाम पञ्चविंशोऽध्यायः ॥ ३.२५॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,0,3408,जनमेजय उवाच । नवरात्रे तु सम्प्राप्ते किं कर्तव्यं द्विजोत्तम । विधानं विधिवद्ब्रूहि शरत्काले विशेषतः ॥ 1॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,1,3409,किं फलं खलु कस्तत्र विधिः कार्यो महामते । एतद्विस्तरतो ब्रूहि कृपया द्विजसत्तम ॥ 2॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,2,3410,व्यास उवाच । श‍ृणु राजन्प्रवक्ष्यामि नवरात्रव्रतं शुभम् । शरत्काले विशेषेण कर्तव्यं विधिपूर्वकम् ॥ 3॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,3,3411,वसन्ते च प्रकर्तव्यं तथैव प्रेमपूर्वकम् । द्वावृतू यमदंष्ट्राख्यौ नूनं सर्वजनेषु वै ॥ 4॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,4,3412,शरद्वसन्तनामानौ दुर्गमौ प्राणिनामिह । तस्माद्यत्नादिदं कार्यं सर्वत्र शुभमिच्छता ॥ 5॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,5,3413,द्वावेव सुमहाघोरावृतू रोगकरौ नृणाम् । वसन्तशरदावेव सर्वनाशकरावुभौ ॥ 6॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,6,3414,तस्मात्तत्र प्रकर्तव्यं चण्डिकापूजनं बुधैः । चैत्राश्विने शुभे मासे भक्तिपूर्वं नराधिप ॥ 7॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,7,3415,अमावास्यां च सम्प्राप्य सम्भारं कल्पयेच्छुभम् । हविष्यं चाशनं कार्यमेकभुक्तं तु तद्दिने ॥ 8॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,8,3416,मण्डपस्तु प्रकर्तव्यः समे देशे शुभे स्थले । हस्तषोडशमानेन स्तम्भध्वजसमन्वितः ॥ 9॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,9,3417,गौरमृद्गोमयाभ्यां च लेपनं कारयेत्ततः । तन्मध्ये वेदिका शुभ्रा कर्तव्या च समा स्थिरा ॥ 10॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,10,3418,चतुर्हस्ता च हस्तोच्छ्रा पीठार्थं स्थानमुत्तमम् । तोरणानि विचित्राणि वितानञ्च प्रकल्पयेत् ॥ 11॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,11,3419,रात्रौ द्विजानथामन्त्र्य देवीतत्त्वविशारदान् । आचारनिरतान्दान्तान्वेदवेदाङ्गपारगान् ॥ 12॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,12,3420,प्रतिपद्दिवसे कार्यं प्रातःस्नानं विधानतः । नद्यां नदे तडागे वा वाप्यां कूपे गृहेऽथवा ॥ 13॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,13,3421,प्रातर्नित्यं पुरः कृत्वा द्विजानां वरणं ततः । अर्घ्यपाद्यादिकं सर्वं कर्तव्यं मधुपूर्वकम् ॥ 14॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,14,3422,वस्त्रालङ्करणादीनि देयानि च स्वशक्तितः । वित्तशाठ्यं न कर्तव्यं विभवे सति कर्हिचित् ॥ 15॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,15,3423,विप्रैः सन्तोषितैः कार्यं सम्पूर्णं सर्वथा भवेत् । नव पञ्च त्रयश्चैको देव्याः पाठे द्विजाः स्मृताः ॥ 16॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,16,3424,वरयेद्ब्राह्मणं शान्तं पारायणकृते तदा । स्वस्तिवाचनकं कार्यं वेदमन्त्रविधानतः ॥ 17॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,17,3425,वेद्यां सिंहासनं स्थाप्य क्षौमवस्त्रसमन्वितम् । तत्र स्थाप्याऽम्बिका देवी चतुर्हस्तायुधान्विता ॥ 18॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,18,3426,रत्नभूषणसंयुक्ता मुक्ताहारविराजिता । दिव्याम्बरधरा सौम्या सर्वलक्षणसंयुता ॥ 19॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,19,3427,शङ्खचक्रगदापद्मधरा सिंहे स्थिता शिवा । अष्टादशभुजा वाऽपि प्रतिष्ठाप्या सनातनी ॥ 20॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,20,3428,अर्चाभावे तथा यन्त्रं नवार्णमन्त्रसंयुतम् । स्थापयेत्पीठपूजार्थं कलशं तत्र पार्श्वतः ॥ 21॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,21,3429,पञ्चपल्लवसंयुक्तं वेदमन्त्रैः सुसंस्कृतम् । सुतीर्थजलसम्पूर्णं हेमरत्नैः समन्वितम् ॥ 22॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,22,3430,पार्श्वे पूजार्थसम्भारान्परिकल्प्य समन्ततः । गीतवादित्रनिर्घोषान्कारयेन्मङ्गलाय वै ॥ 23॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,23,3431,तिथौ हस्तान्वितायां च नन्दायां पूजनं वरम् । प्रथमे दिवसे राजन् विधिवत्कामदं नृणाम् ॥ 24॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,24,3432,नियमं प्रथमं कृत्वा पश्चात्पूजां समाचरेत् । उपवासेन नक्तेन चैकभुक्तेन वा पुनः ॥ 25॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,25,3433,करिष्यामि व्रतं मातर्नवरात्रमनुत्तमम् । साहाय्यं कुरु मे देवि जगदम्ब ममाखिलम् ॥ 26॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,26,3434,यथाशक्ति प्रकर्तव्यो नियमो व्रतहेतवे । पश्चात्पूजा प्रकर्तव्या विधिवन्मन्त्रपूर्वकम् ॥ 27॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,27,3435,चन्दनागुरुकर्पूरैः कुसुमैश्च सुगन्धिभिः । मन्दारकरजाशोकचम्पकैः करवीरकैः ॥ 28॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,28,3436,मालतीब्रह्मकापुष्पैस्तथा बिल्वदलैः शुभैः । पूजयेज्जगतां धात्रीं धूपैर्दीपैर्विधानतः ॥ 29॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,29,3437,फलैर्नानाविधैरर्घ्यं प्रदातव्यं च तत्र वै । नारिकेलैर्मातुलुङ्गैर्दाडिमीकदलीफलैः ॥ 30॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,30,3438,नारङ्गैः पनसैश्चैव तथा पूर्णफलैः शुभैः । अन्नदानं प्रकर्तव्यं भक्तिपूर्वं नराधिप ॥ 31॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,31,3439,मांसाशनं ये कुर्वन्ति तैः कार्यं पशुहिंसनम् । महिषाजवराहाणां बलिदानं विशिष्यते ॥ 32॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,32,3440,देव्यग्रे निहता यान्ति पशवः स्वर्गमव्ययम् । न हिंसा पशुजा तत्र निघ्नतां तत्कृतेऽनघ ॥ 33॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,33,3441,अहिंसा याज्ञिकी प्रोक्ता सर्वशास्त्रविनिर्णये । देवतार्थे विसृष्टानां पशूनां स्वर्गतिर्ध्रुवा ॥ 34॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,34,3442,होमार्थं चैव कर्तव्यं कुण्डं चैव त्रिकोणकम् । स्थण्डिलं वा प्रकर्तव्यं त्रिकोणं मानतः शुभम् ॥ 35॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,35,3443,त्रिकालं पूजनं नित्यं नानाद्रव्यैर्मनोहरैः । गीतवादित्रनृत्यैश्च कर्तव्यश्च महोत्सवः ॥ 36॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,36,3444,नित्यं भूमौ च शयनं कुमारीणां च पूजनम् । वस्त्रालङ्करणैर्दिव्यैर्भोजनैश्च सुधामयैः ॥ 37॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,37,3445,एकैकां पूजयेन्नित्यमेकवृद्ध्या तथा पुनः । द्विगुणं त्रिगुणं वाऽपि प्रत्येकं नवकं च वा ॥ 38॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,38,3446,विभवस्यानुसारेण कर्तव्यं पूजनं किल । वित्तशाठ्यं न कर्तव्यं राजञ्छक्तिमखे सदा ॥ 39॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,39,3447,एकवर्षा न कर्तव्या कन्या पूजाविधौ नृप । परमज्ञा तु भोगानां गन्धादीनां च बालिका ॥ 40॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,40,3448,कुमारिका तु सा प्रोक्ता द्विवर्षा या भवेदिह । त्रिमूर्तिश्च त्रिवर्षा च कल्याणी चतुरब्दिका ॥ 41॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,41,3449,रोहिणी पञ्चवर्षा च षड्वर्षा कालिका स्मृता । चण्डिका सप्तवर्षा स्यादष्टवर्षा च शाम्भवी ॥ 42॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,42,3450,नववर्षा भवेद्दुर्गा सुभद्रा दशवार्षिकी । अत ऊर्ध्वं न कर्तव्या सर्वकार्यविगर्हिता ॥ 43॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,43,3451,एभिश्च नामभिः पूजा कर्तव्या विधिसंयुता । तासां फलानि वक्ष्यामि नवानां पूजने सदा ॥ 44॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,44,3452,कुमारी पूजिता कुर्याद्दुःखदारिद्रयनाशनम् । शत्रुक्षयं धनायुष्यं बलवृद्धिं करोति वै ॥ 45॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,45,3453,त्रिमूर्तिपूजनादायुस्त्रिवर्गस्य फलं भवेत् । धनधान्यागमश्चैव पुत्रपौत्रादिवृद्धयः ॥ 46॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,46,3454,विद्यार्थी विजयार्थी च राज्यार्थी यश्च पार्थिवः । सुखार्थी पूजयेन्नित्यं कल्याणीं सर्वकामदाम् ॥ 47॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,47,3455,कालिकां शत्रुनाशार्थं पूजयेद्भक्तिपूर्वकम् । ऐश्वर्यधनकामश्च चण्डिकां परिपूजयेत् ॥ 48॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,48,3456,पूजयेच्छाम्भवीं नित्यं नृपसम्मोहनाय च । दुःखदारिद्र्यनाशाय सङ्ग्रामे विजयाय च ॥ 49॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,49,3457,क्रूरशत्रुविनाशार्थं तथोग्रकर्मसाधने । दुर्गाञ्च पूजयेद्भक्त्या परलोकसुखाय च ॥ 50॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,50,3458,वाञ्छितार्थस्य सिद्ध्यर्थं सुभद्रां पूजयेत्सदा । रोहिणीं रोगनाशाय पूजयेद्विधिवन्नरः ॥ 51॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,51,3459,श्रीरस्त्विति च मन्त्रेण पूजयेद्भक्तितत्परः । श्रीयुक्तमन्त्रैरथवा बीजमन्त्रैरथापि वा ॥ 52॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,52,3460,कुमारस्य च तत्त्वानि या सृजत्यपि लीलया । कादीनपि च देवांस्तां कुमारीं पूजयाम्यहम् ॥ 53॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,53,3461,सत्त्वादिभिस्त्रिमूर्तिर्या तैर्हि नानास्वरूपिणी । त्रिकालव्यापिनी शक्तिस्त्रिमूर्तिं पूजयाम्यहम् ॥ 54॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,54,3462,कल्याणकारिणी नित्यं भक्तानां पूजिताऽनिशम् । पूजयामि च तां भक्त्या कल्याणीं सर्वकामदाम् ॥ 55॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,55,3463,रोहयन्ती च बीजानि प्राग्जन्मसञ्चितानि वै । या देवी सर्वभूतानां रोहिणीं पूजयाम्यहम् ॥ 56॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,56,3464,काली कालयते सर्वं ब्रह्माण्डं सचराचरम् । कल्पान्तसमये या तां कालिकां पूजयाम्यहम् ॥ 57॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,57,3465,तां चण्डपापहरणीं चण्डिकां पूजयाम्यहम् ॥ 58॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,58,3466,अकारणात्समुत्पत्तिर्यन्मयैः परिकीर्तिता । यस्यास्तां सुखदां देवीं शाम्भवीं पूजयाम्यहम् ॥ 59॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,59,3467,दुर्गात्त्रायति भक्तं या सदा दुर्गातिनाशिनी । दुर्ज्ञेया सर्वदेवानां तां दुर्गां पूजयाम्यहम् ॥ 60॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,60,3468,सुभद्राणि च भक्तानां कुरुते पूजिता सदा । अभद्रनाशिनीं देवीं सुभद्रां पूजयाम्यहम् ॥ 61॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,61,3469,एभिर्मन्त्रैः पूजनीयाः कन्यकाः सर्वदा बुधैः । वस्त्रालङ्करणैर्माल्यैर्गन्धैरुच्चावचैरपि ॥ 62॥ 3,३.२६,षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।,62,3470,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे कुमारीपूजावर्णनं नाम षड्विंशोऽध्यायः ॥ ३.२६॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,0,3471,व्यास उवाच । हीनाङ्गीं वर्जयेत्कन्यां कुष्ठयुक्तां व्रणाङ्किताम् । गन्धस्फुरितहीनाङ्गीं विशालकुलसम्भवाम् ॥ 1॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,1,3472,जात्यन्धां केकरां काणां कुरूपां बहुरोमशाम् । सन्त्यजेद्रोगिणीं कन्यां रक्तपुष्पादिनाङ्किताम् ॥ 2॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,2,3473,क्षामां गर्भसमुद्भूतां गोलकां कन्यकोद्भवाम् । वर्जनीयाः सदा चैताः सर्वपूजादिकर्मसु ॥ 3॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,3,3474,अरोगिणीं सुरूपाङ्गीं सुन्दरीं व्रणवर्जिताम् । एकवंशसमुद्भूतां कन्यां सम्यक्प्रपूजयेत् ॥ 4॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,4,3475,ब्राह्मणी सर्वकार्येषु जयार्थे नृपवंशजा । लाभार्थे वैश्यवंशोत्था मता वा शूद्रवंशजा ॥ 5॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,5,3476,ब्राह्मणैर्ब्रह्मजाः पूज्या राजन्यैर्ब्रह्मवंशजाः । वैश्यैस्त्रिवर्गजाः पूज्याश्चतस्रः पादसम्भवैः ॥ 6॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,6,3477,कारुभिश्चैव वंशोत्था यथायोग्यं प्रपूजयेत् । नवरात्रविधानेन भक्तिपूर्वं सदैव हि ॥ 7॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,7,3478,अशक्तो नियतं पूजां कर्तुञ्चेन्नवरात्रके । अष्टम्यां च विशेषेण कर्तव्यं पूजनं सदा ॥ 8॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,8,3479,पुराऽष्टम्यां भद्रकाली दक्षयज्ञविनाशिनी । प्रादुर्भूता महाघोरा योगिनी कोटिभिः सह ॥ 9॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,9,3480,अतोऽष्टम्यां विशेषेण कर्तव्यं पूजनं सदा । नानाविधोपहारैश्च गन्धमाल्यानुलेपनैः ॥ 10॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,10,3481,पायसैरामिषैर्होमैर्ब्राह्मणानां च भोजनैः । फलपुष्पोपहारैश्च तोषयेज्जगदम्बिकाम् ॥ 11॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,11,3482,उपवासे ह्यशक्तानां नवरात्रव्रते पुनः । उपोषणत्रयं प्रोक्तं यथोक्तफलदं नृप ॥ 12॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,12,3483,सप्तम्यां च तथाऽष्टम्यां नवम्यां भक्तिभावतः । त्रिरात्रकरणात्सर्वं फलं भवति पूजनात् ॥ 13॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,13,3484,पूजाभिश्चैव होमैश्च कुमारिपूजनैस्तथा । सम्पूर्णं तद्व्रतं प्रोक्तं विप्राणां चैव भोजनैः ॥ 14॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,14,3485,व्रतानि यानि चान्यानि दानानि विविधानि च । नवरात्रव्रतस्यास्य नैव तुल्यानि भूतले ॥ 15॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,15,3486,धनधान्यप्रदं नित्यं सुखसन्तानवृद्धिदम् । आयुरारोग्यदं चैव स्वर्गदं मोक्षदं तथा ॥ 16॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,16,3487,विद्यार्थी वा धनार्थी वा पुत्रार्थी वा भवेन्नरः । तेनेदं विधिवत्कार्यं व्रतं सौभाग्यदं शिवम् ॥ 17॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,17,3488,विद्यार्थी सर्वविद्यां वै प्राप्नोति व्रतसाधनात् । राजभ्रष्टो नृपो राज्यं समवाप्नोति सर्वदा ॥ 18॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,18,3489,पूर्वजन्मनि यैर्नूनं न कृतं व्रतमुत्तमम् । ते व्याधिनो दरिद्राश्च भवन्ति पुत्रवर्जिताः ॥ 19॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,19,3490,वन्ध्या च या भवेन्नारी विधवा धनवर्जिता । अनुमा तत्र कर्तव्या नेयं कृतवती व्रतम् ॥ 20॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,20,3491,नवरात्रव्रतं प्रोक्तं न कृतं येन भूतले । स कथं विभवं प्राप्य मोदते च तथा दिवि ॥ 21॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,21,3492,रक्तचन्दनसम्मिश्रैः कोमलैर्बिल्वपत्रकैः । भवानी पूजिता येन स भवेन्नृपतिः क्षितौ ॥ 22॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,22,3493,नाराधिता येन शिवा सनातनी दुःखार्तिहा सिद्धिकरी जगद्वरा । दुःखावृतः शत्रुयुतश्च भूतले नूनं दरिद्रो भवतीह मानवः ॥ 23॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,23,3494,यां विष्णुरिन्द्रो हरपद्मजौ तथा वह्निः कुबेरो वरुणो दिवाकरः । ध्यायन्ति सर्वार्थसमाप्तिनन्दिता- स्तां किं मनुष्या न भजन्ति चण्डिकाम् ॥ 24॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,24,3495,स्वाहा स्वधा नाम मनुप्रभावै- स्तृप्यन्ति देवाः पितरस्तथैव । यज्ञेषु सर्वेषु मुदा हरन्ति यन्नाम युग्मश्रुतिभिर्मुनीन्द्राः ॥ 25॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,25,3496,यस्येच्छया सृजति विश्वमिदं प्रजेशो नानावतारकलनं कुरुते हरिश्च । नूनं करोति जगतः किल भस्म शम्भु- स्तां शर्मदां न भजते नु कथं मनुष्यः ॥ 26॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,26,3497,नैकोऽस्ति सर्वभुवनेषु तया विहीनो देवो नरोऽथ विहगः किल पन्नगो वा । गन्धर्वराक्षसपिशाचनगेषु नूनं यः स्पन्दितुं भवति शक्तियुतो यथेच्छम् ॥ 27॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,27,3498,तां न सेवेत कश्चण्डीं सर्वकामार्थदां शिवाम् । व्रतं तस्या न कः कुर्याद्वाञ्छन्नर्थचतुष्टयम् ॥ 28॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,28,3499,महापातकसंयुक्तो नवरात्रव्रतं चरेत् । मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा ॥ 29॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,29,3500,पुरा कश्चिद्वणिग्दीनो धनहीनः सुदुःखितः । कुटुम्बी चाभवत्कश्चित् कोसले नृपसत्तम ॥ 30॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,30,3501,अपत्यानि बहून्यस्याभवन्क्षुत्पीडितानि च । भक्ष्यं किञ्चित्तु सायाह्ने प्रापुस्तस्य च बालकाः ॥ 31॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,31,3502,भुङ्क्ते स्म कार्यकर्ताऽसौ परस्याथ बुभुक्षितः । कुटुम्बभरणं तत्र चकारातिनिराकुलः ॥ 32॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,32,3503,सदा धर्मरतः शान्तः सदाचारश्च सत्यवाक् । अक्रोधनश्च धृतिमान्निर्मदश्चानसूयकः ॥ 33॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,33,3504,सम्पूज्य देवता नित्यं पितॄनप्यतिथींस्तथा । भुञ्जाने पोष्यवर्गेऽथ कृतवान्भोजनं वणिक् ॥ 34॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,34,3505,एवं गच्छति काले वै सुशिलो नामतो गुणैः । दारिद्र्यार्तो द्विजं शान्तं पप्रच्छातिबुभुक्षितः ॥ 35॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,35,3506,सुशील उवाच । भो भूदेव कृपां कृत्वा वदस्वाद्य महामते । कथं दारिद्र्यनाशः स्यादिति मे निश्चयेन वै ॥ 36॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,36,3507,धनैषणा मे नैवास्ति धनी स्यामिति मानद । कुटुम्बभरणार्थं वै पृच्छामि त्वां द्विजोत्तम ॥ 37॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,37,3508,पुत्री सुतस्तु मे बालो भक्षार्थी रोदते भृशम् । तावन्मात्रं गृहे नान्नं मुष्टिमेकां ददाम्यहम् ॥ 38॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,38,3509,विसर्जितो यतो गेहाद्गतो बालो रुदन्मया । अतो मे दह्यतेऽत्यर्थं किं करोमि धनं विना ॥ 39॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,39,3510,विवाहोऽस्ति सुताया मे नास्ति वित्तं करोमि किम् । दशवर्षाधिकायास्तु दानकालोऽपि यात्यलम् ॥ 40॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,40,3511,तेन शोचामि विप्रेन्द्र सर्वज्ञोऽसि दयानिधे । तपो दानं व्रतं किञ्चिद्ब्रूहि मन्त्रजपं तथा ॥ 41॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,41,3512,येनाहं पोष्यवर्गस्य करोमि द्विज पोषणम् । तावन्मे स्याद्धनप्राप्तिर्नाधिकं प्रार्थये किल ॥ 42॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,42,3513,त्वत्प्रसादात्कुटुम्बं मे सुखितं प्रभवेदिह । तत्कुरुष्व महाभाग ज्ञानेन परिचिन्त्य च ॥ 43॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,43,3514,व्यास उवाच । इति पृष्टस्तथा तेन ब्राह्मणः संशितव्रतः । उवाच परमप्रीतस्तं वैश्यं नृपसत्तम ॥ 44॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,44,3515,वैश्यवर्य कुरुष्वाद्य नवरात्रव्रतं शुभम् । पूजनं भगवत्याश्च हवनं भोजनं तथा ॥ 45॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,45,3516,वेदपारायणं शक्तिजपहोमादिकं तथा । कुरुष्वाद्य यथाशक्ति तव कार्यं भविष्यति ॥ 46॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,46,3517,एतस्मादपरं किञ्चिद्व्रतं नास्ति धरातले । नवरात्राभिधं वैश्य पावनं सुखदं तथा ॥ 47॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,47,3518,ज्ञानदं मोक्षदं चैव सुखसन्तानवर्धनम् । शत्रुनाशकरं कामं नवरात्रव्रतं सदा ॥ 48॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,48,3519,राज्यभ्रष्टेन रामेण सीताविरहितेन च । किष्किन्धायां व्रतं चैतत्कृतं दुःखातुरेण वै ॥ 49॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,49,3520,प्रतप्तेनापि रामेण सीताविरहवह्निना । विधिवत्पूजिता देवी नवरात्रव्रतेन वै ॥ 50॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,50,3521,तेन प्राप्ताऽथ वैदेही कृत्वा सेतुं महार्णवे । हत्वा मन्दोदरीनाथं कुम्भकर्णं महाबलम् ॥ 51॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,51,3522,मेघनादं सुतं हत्वा कृत्वा भूपं बिभीषणम् । पश्चादयोध्यामागत्य प्राप्तं राज्यमकण्टकम् ॥ 52॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,52,3523,नवरात्रव्रतस्यास्य प्रभावेण विशांवर । सुखं भूमितले प्राप्तं रामेणामिततेजसा ॥ 53॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,53,3524,व्यास उवाच । इति विप्रवचः श्रुत्वा स वैश्यस्तं द्विजं गुरुम् । कृत्वा जग्राह सन्मन्त्रं मायाबीजाभिधं नृप ॥ 54॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,54,3525,जजाप परया भक्त्या नवरात्रमतन्द्रितः । नानाविधोपहारैश्च पूजयामास सादरम् ॥ 55॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,55,3526,नवसंवत्सरं चैव मायाबीजपरायणः । नवमे वत्सरान्ते तु महाष्टम्यां महेश्वरी ॥ 56॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,56,3527,अर्धरात्रे तु सञ्जाते प्रत्यक्षं दर्शनं ददौ । नानावरप्रदानैश्च कृतकृत्यञ्चकार तम् ॥ 57॥ 3,३.२७,सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।,57,3528,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे देवीपूजामहत्त्ववर्णनं नाम सप्तविंशोऽध्यायः ॥ ३.२७॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,0,3529,जनमेजय उवाच । कथं रामेण तच्चीर्णं व्रतं देव्याः सुखप्रदम् । राज्यभ्रष्टः कथं सोऽथ कथं सीता हृता पुनः ॥ 1॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,1,3530,व्यास उवाच । राजा दशरथः श्रीमानयोध्याधिपतिः पुरा । सूर्यवंशधरश्चासीद्देवब्राह्मणपूजकः ॥ 2॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,2,3531,चत्वारो जज्ञिरे तस्य पुत्रा लोकेषु विश्रुताः । रामलक्ष्मणशत्रुघ्ना भरतश्चेति नामतः ॥ 3॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,3,3532,राज्ञः प्रियकराः सर्वे सदृशा गुणरूपतः । कौसल्यायाः सुतो रामः कैकेय्या भरतः स्मृतः ॥ 4॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,4,3533,सुमित्रातनयौ जातौ यमलौ द्वौ मनोहरौ । ते जाता वै किशोराश्च धनुर्बाणधराः किल ॥ 5॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,5,3534,सूनवः कृतसंस्कारा भूपतेः सुखवर्धकाः । कौशिकेन तदाऽऽगत्य प्रार्थितो रघुनन्दनः ॥ 6॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,6,3535,राघवं मखरक्षार्थं सूनुं षोडशवार्षिकम् । तस्मै सोऽयं ददौ रामं कौशिकाय सलक्ष्मणम् ॥ 7॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,7,3536,तौ समेत्य मुनिं मार्गे जग्मतुश्चारुदर्शनौ । ताटका निहता मार्गे राक्षसी घोरदर्शना ॥ 8॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,8,3537,रामेणैकेन बाणेन मुनीनां दुःखदा सदा । यज्ञरक्षा कृता तत्र सुबाहुर्निहतः शठः ॥ 9॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,9,3538,मारीचोऽथ मृतप्रायो निक्षिप्तो बाणवेगतः । एवं कृत्वा महत्कर्म यज्ञस्य परिरक्षणम् ॥ 10॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,10,3539,गतास्ते मिथिलां सर्वे रामलक्ष्मणकौशिकाः । अहल्या मोचिता शापान्निष्पापा सा कृताऽबला ॥ 11॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,11,3540,विदेहनगरे तौ तु जग्मतुर्मुनिना सह । बभञ्ज शिवचापञ्च जनकेन पणीकृतम् ॥ 12॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,12,3541,उपयेमे ततः सीतां जानकीञ्च रमांशजाम् । लक्ष्मणाय ददौ राजा पुत्रीमेकां तथोर्मिलाम् ॥ 13॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,13,3542,कुशध्वजसुते कन्ये प्रापतुर्भ्रातरावुभौ । तथा भरतशत्रुघ्नौ सुशिलौ शुभलक्षणौ ॥ 14॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,14,3543,एवं दारक्रियास्तेषां भ्रातॄणां चाभवन्नृप । चतुर्णां मिथिलायां तु यथाविधि विधानतः ॥ 15॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,15,3544,राज्ययोग्यं सुतं दृष्ट्वा राजा दशरथस्तदा । राघवाय धुरं दातुं मनश्चक्रे निजाय वै ॥ 16॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,16,3545,सम्भारं विहितं दृष्ट्वा कैकेयी पूर्वकल्पितौ । वरौ सम्प्रार्थयामास भर्तारं वशवर्तिनम् ॥ 17॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,17,3546,राज्यं सुताय चैकेन भरताय महात्मने । रामाय वनवासञ्च चतुर्दशसमास्तथा ॥ 18॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,18,3547,रामस्तु वचनात्तस्याः सीतालक्ष्मणसंयुतः । जगाम दण्डकारण्यं राक्षसैरुपसेवितम् ॥ 19॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,19,3548,राजा दशरथः पुत्रविरहेण प्रपीडितः । जहौ प्राणानमेयात्मा पूर्वशापमनुस्मरन् ॥ 20॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,20,3549,भरतः पितरं दृष्ट्वा मृतं मातृकृतेन वै । राज्यमृद्धं न जग्राह भ्रातुः प्रियचिकीर्षया ॥ 21॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,21,3550,पञ्चवट्यां वसन् रामो रावणावरजां वने । शूर्पणखां विरूपां वै चकारातिस्मरातुराम् ॥ 22॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,22,3551,खरादयस्तु तां दृष्ट्वा छिन्ननासां निशाचराः । चक्रुः सङ्ग्राममतुलं रामेणामिततेजसा ॥ 23॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,23,3552,स जघान खरादींश्च दैत्यानतिबलान्वितान् । मुनीनां हितमन्विच्छन् रामः सत्यपराक्रमः ॥ 24॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,24,3553,गत्वा शूर्पणखा लङ्कां खरदूषणघातनम् । दूषिता कथयामास रावणाय च राघवात् ॥ 25॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,25,3554,सोऽपि श्रुत्वा विनाशं तं जातः क्रोधवशः खलः । जगाम रथमारुह्य मारीचस्याश्रमं तदा ॥ 26॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,26,3555,कृत्वा हेममृगं नेतुं प्रेषयामास रावणः । सीताप्रलोभनार्थाय मायाविनमसम्भवम् ॥ 27॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,27,3556,सोऽथ हेममृगो भूत्वा सीतादृष्टिपथं गतः । मायावी चातिचित्राङ्गश्चरन्प्रबलमन्तिके ॥ 28॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,28,3557,तं दृष्ट्वा जानकी प्राह राघवं दैवनोदिता । चर्मानयस्व कान्तेति स्वाधीनपतिका यथा ॥ 29॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,29,3558,अविचार्याथ रामोऽपि तत्र संस्थाप्य लक्ष्मणम् । सशरं धनुरादाय ययौ मृगपदानुगः ॥ 30॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,30,3559,सारङ्गोऽपि हरिं दृष्ट्वा मायाकोटिविशारदः । दृश्यादृश्यो बभूवाथ जगाम च वनान्तरम् ॥ 31॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,31,3560,मत्वा हस्तगतं रामः क्रोधाकृष्टधनुः पुनः । जघान चातितीक्ष्णेन शरेण कृत्रिमं मृगम् ॥ 32॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,32,3561,स हतोऽतिबलात्तेन चुक्रोश भृशदुःखितः । हा लक्ष्मण हतोऽस्मीति मायावी नश्वरः खलः ॥ 33॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,33,3562,स शब्दस्तुमुलस्तावज्जानक्या संश्रुतस्तदा । राघवस्येति सा मत्वा दीना देवरमब्रवीत् ॥ 34॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,34,3563,गच्छ लक्ष्मण तूर्णं त्वं हतोऽसौ रघुनन्दनः । त्वामाह्वयति सौमित्रे साहाय्यं कुरु सत्वरम् ॥ 35॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,35,3564,तत्राह लक्ष्मणः सीतामम्ब रामवधादपि । नाहं गच्छेऽद्य मुक्त्वा त्वामसहायामिहाश्रमे ॥ 36॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,36,3565,आज्ञा मे राघवस्यात्र तिष्ठेति जनकात्मजे । तदतिक्रमभीतोऽहं न त्यजामि तवान्तिकम् ॥ 37॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,37,3566,दूरं वै राघवं दृष्ट्वा वने मायाविना किल । त्यक्त्वा त्वां नाधिगच्छामि पदमेकं शुचिस्मिते ॥ 38॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,38,3567,कृरु धैर्यं न मन्येऽद्य रामं हन्तुं क्षमं क्षिप्तौ । नाहं त्यक्त्वा गमिष्यामि विलङ्घ्य रामभाषितम् ॥ ।३९॥ व्यास उवाच । रुदती सुदती प्राह ते तदा विधिनोदिता । अक्रूरा वचनं क्रूरं लक्ष्मणं शुभलक्षणम् ॥ 40॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,39,3568,अहं जानामि सौमित्रे सानुरागं च मां प्रति । प्रेरितं भरतेनैव मदर्थमिह सङ्गतम् ॥ 41॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,40,3569,नाहं तथाविधा नारी स्वैरिणी कुहकाधम । मृते रामे पतिं त्वां न कर्तुमिच्छामि कामतः ॥ 42॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,41,3570,नागमिष्यति चेद्रामो जीवितं सन्त्यजाम्यहम् । विना तेन न जीवामि विधुरा दुःखिता भृशम् ॥ 43॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,42,3571,गच्छ वा तिष्ठ सौमित्रे न जानेऽहं तवेप्सितम् । क्व गतं तेऽद्य सौहार्दं ज्येष्ठे धर्मरते किल ॥ 44॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,43,3572,तच्छ्रुत्वा वचनं तस्या लक्ष्मणो दीनमानसः । प्रोवाच रुद्धकण्ठस्तु तां तदा जनकात्मजाम् ॥ 45॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,44,3573,किमात्थ क्षितिजे वाक्यं मयि क्रूरतरं किल । किं वदस्यत्यनिष्टं ते भावि जाने धिया ह्यहम् ॥ 46॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,45,3574,इत्युक्त्वा निर्ययौ वीरस्तां त्यक्त्वा प्ररुदन्भृशम् । अग्रजस्य ययौ पश्यञ्छोकार्तः पृथिवीपते ॥ 47॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,46,3575,गतेऽथ लक्ष्मणे तत्र रावणः कपटाकृतिः । भिक्षुवेषं ततः कृत्वा प्रविवेश तदाश्रमे ॥ 48॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,47,3576,जानकी तं यतिं मत्वा दत्त्वार्घ्यं वन्यमादरात् । भैक्ष्यं समर्पयामास रावणाय दुरात्मने ॥ 49॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,48,3577,तां पप्रच्छ स दुष्टात्मा नम्रपूर्वं मृदुस्वरम् । काऽसि पद्मपलाशाक्षि वने चैकाकिनी प्रिये ॥ 50॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,49,3578,पिता कस्तेऽथ वामोरु भ्राता कः कः पतिस्तव । मूढेवैकाकिनी चात्र स्थिताऽसि वरवर्णिनि ॥ 51॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,50,3579,निर्जने विपिने किं त्वं सौधार्हा त्वमसि प्रिये । उटजे मुनिपत्नीवद्देवकन्यासमप्रभा ॥ 52॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,51,3580,व्यास उवाच । इति तद्वचनं श्रुत्वा प्रत्युवाच विदेहजा । दिव्यं दिष्ट्या यतिं ज्ञात्वा मन्दोदर्याः पतिं तदा ॥ 53॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,52,3581,राजा दशरथः श्रीमांश्चत्वारस्तस्य वै सुताः । तेषां ज्येष्ठः पतिर्मेऽस्ति रामनामेति विश्रुतः ॥ 54॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,53,3582,विवासितोऽथ कैकेय्या कृते भूपतिना वरे । चतुर्दश समा रामो वसतेऽत्र सलक्ष्मणः ॥ 55॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,54,3583,जनकस्य सुता चाहं सीतानाम्नीति विश्रुता । भङ्क्त्वा शैवं धनुः कामं रामेणाहं विवाहिता ॥ 56॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,55,3584,रामबाहुबलेनात्र वसामो निर्भया वने । काञ्चनं मृगमालोक्य हन्तुं मे निर्गतः पतिः ॥ 57॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,56,3585,लक्ष्मणोऽपि पुनः श्रुत्वा रवं भ्रातुर्गतोऽधुना । तयोर्बाहुबलादत्र निर्भयाऽहं वसामि वै ॥ 58॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,57,3586,मयेदं कथितं सर्वं वृत्तान्तं वनवासके । तेऽत्रागत्यार्हणां ते वै करिष्यन्ति यथाविधि ॥ 59॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,58,3587,यतिर्विष्णुस्वरूपोऽसि तस्मात्त्वं पूजितो मया । आश्रमो विपिने घोरे कृतोऽस्ति रक्षसां कुले ॥ 60॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,59,3588,तस्मात्त्वां परिपृच्छामि सत्यं ब्रूहि ममाग्रतः । कोऽसि त्रिदण्डिरूपेण विपिने त्वं समागतः ॥ 61॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,60,3589,रावण उवाच । लङ्केशोऽहं मरालाक्षि श्रीमान्मन्दोदरीपतिः । त्वत्कृते तु कृतं रूपं मयेत्थं शोभनाकृते ॥ 62॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,61,3590,आगतोऽहं वरारोहे भगिन्या प्रेरितोऽत्र वै । जनस्थाने हतौ श्रुत्वा भ्रातरौ खरदूषणौ ॥ 63॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,62,3591,अङ्गीकुरु नृपं मां त्वं त्यक्त्वा तं मानुषं पतिम् । हृतराज्यं गतश्रीकं निर्बलं वनवासिनम् ॥ 64॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,63,3592,पट्टराज्ञी भव त्वं मे मन्दोदर्युपरि स्फुटम् । दासोऽस्मि तव तन्वङ्गि स्वामिनी भव भामिनि ॥ 65॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,64,3593,जेताऽहं लोकपालानां पतामि तव पादयोः । करं गृहाण मेऽद्य त्वं सनाथं कुरु जानकि ॥ 66॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,65,3594,पिता ते याचितः पूर्वं मया वै त्वत्कृतेऽबले । जनको मामुवाचेत्थं पणबन्धो मया कृतः ॥ 67॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,66,3595,रुद्रचापभयान्नाहं सम्प्राप्तस्तु स्वयंवरे । मनो मे संस्थितं तावन्निमग्नं विरहातुरम् ॥ 68॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,67,3596,वनेऽत्र संस्थितां श्रुत्वा पूर्वानुरागमोहितः । आगतोऽस्म्यसितापाङ्गि सफलं कुरु मे श्रमम् ॥ 69॥ 3,३.२८,अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।,68,3597,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे रामचरित्रवर्णनं नाम अष्टाविंशोऽध्यायः ॥ ३.२८॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,0,3598,व्यास उवाच । तदाकर्ण्य वचो दुष्टं जानकी भयविह्वला । वेपमाना स्थिरं कृत्वा मनो वाचमुवाच ह ॥ 1॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,1,3599,पौलस्त्य किमसद्वाक्यं त्वमात्थ स्मरमोहितः । नाहं वै स्वैरिणी किन्तु जनकस्य कुलोद्भवा ॥ 2॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,2,3600,गच्छ लङ्कां दशास्य त्वं राम त्वां वै हनिष्यति । मत्कृते मरणं तत्र भविष्यति न संशयः ॥ 3॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,3,3601,इत्युक्त्वा पर्णशालायां गता सा वह्निसन्निधौ । गच्छ गच्छेति वदती रावणं लोकरावणम् ॥ 4॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,4,3602,सोऽथ कृत्वा निजं रूपं जगामोटजमन्तिकम् । बलाज्जग्राह तां बालां रुदती भयविह्वलाम् ॥ 5॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,5,3603,रामरामेति क्रन्दन्ती लक्ष्मणेति मुहुर्मुहुः । गृहीत्वा निर्गतः पापो रथमारोप्य सत्वरः ॥ 6॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,6,3604,गच्छन्नरुणपुत्रेण मार्गे रुद्धो जटायुषा । सङ्ग्रामोऽभून्महारौद्रस्तयोस्तत्र वनान्तरे ॥ 7॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,7,3605,हत्वा तं तां गृहीत्वा च गतोऽसौ राक्षसाधिपः । लङ्कायां क्रन्दती तात कुररीव दुरात्मनः ॥ 8॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,8,3606,अशोकवनिकायां सा स्थापिता राक्षसीयुता । स्ववृत्तान्नैव चलिता सामदानादिभिः किल ॥ 9॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,9,3607,रामोऽपि तं मृगं हत्वा जगामादाय निर्वृतः । आयान्तं लक्ष्मणं वीक्ष्य किं कृतं तेऽनुजासमम् ॥ 10॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,10,3608,एकाकिनीं प्रियां हित्वा किमर्थं त्वमिहागतः । श्रुत्वा स्वनं तु पापस्य राघवस्त्वब्रवीदिदम् ॥ 11॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,11,3609,सौमित्रिस्त्वब्रवीद्वाक्यं सीतावाग्बाणपीडितः । प्रभोऽत्राहं समायातः कालयोगान्न संशयः ॥ 12॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,12,3610,तदा तौ पर्णशालायां गत्वा वीक्ष्यातिदुःखितौ । जानक्यन्वेषणे यत्नमुभौ कर्तुं समुद्यतौ ॥ 13॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,13,3611,मार्गमाणौ तु सम्प्राप्तौ यत्रासौ पतितः खगः । जटायुः प्राणशेषस्तु पतितः पृथिवीतले ॥ 14॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,14,3612,तेनोक्तं रावणेनाद्य हृताऽसौ जनकात्मजा । मया निरुद्धः पापात्मा पातितोऽहं मृधे पुनः ॥ 15॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,15,3613,इत्युक्त्वाऽसौ गतप्राणः संस्कृतो राघवेण वै । कृत्वौर्घ्वदैहिकं रामलक्ष्मणौ निर्गतौ ततः ॥ 16॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,16,3614,कबन्धं घातयित्वासौ शापाच्चामोचयत्प्रभुः । वचनात्तस्य हरिणा सख्यं चक्रेऽथ राघवः ॥ 17॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,17,3615,हत्वा च वालिनं वीरं किष्किन्धाराज्यमुत्तमम् । सुग्रीवाय ददौ रामः कृतसख्याय कार्यतः ॥ 18॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,18,3616,तत्रैव वार्षिकान्मासांस्तस्थौ लक्ष्मणसंयुतः । चिन्तयञ्जानकीं चित्ते दशाननहृतां प्रियाम् ॥ 19॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,19,3617,लक्ष्मणं प्राह रामस्तु सीताविरहपीडितः । सौमित्रे कैकयसुता जाता पूर्णमनोरथा ॥ 20॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,20,3618,न प्राप्ता जानकी नूनं नाहं जीवामि तां विना । नागमिष्याम्ययोध्यायामृते जनकनन्दिनीम् ॥ 21॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,21,3619,गतं राज्यं वने वासो मृतस्तातो हृता प्रिया । पीडयन्मां स दुष्टात्मा दैवोऽग्रे किं करिष्यति ॥ 22॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,22,3620,दुर्ज्ञेयं भवितव्यं हि प्राणिनां भरतानुज । आवयोः का गतिस्तात भविष्यति सुदुःखदा ॥ 23॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,23,3621,प्राप्य जन्म मनोर्वंशे राजपुत्रावुभौ किल । वनेऽतिदुःखभोक्तारौ जातौ पूर्वकृतेन च ॥ 24॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,24,3622,त्यक्त्वा त्वमपि भोगांस्तु मया सह विनिर्गतः । दैवयोगाच्च सौमित्रे भुङ्क्ष्व दुःखं दुरत्ययम् ॥ 25॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,25,3623,न कोऽप्यस्मत्कुले पूर्वं मत्समो दुःखभाङ्नरः । अकिञ्चनोऽक्षमः क्लिष्टो न भूतो न भविष्यति ॥ 26॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,26,3624,किं करोम्यद्य सौमित्रे मग्नोऽस्मि दुःखसागरे । न चास्ति तरणोपायो ह्यसहायस्य मे किल ॥ 27॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,27,3625,न वित्तं न बलं वीर त्वमेकः सहचारकः । कोपं कस्मिन्करोम्यद्य भोगेस्मिन्स्वकृतेऽनुज ॥ 28॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,28,3626,गतं हस्तगतं राज्यं क्षणादिन्द्रासनोपमम् । वने वासस्तु सम्प्राप्तः को वेद विधिनिर्मितम् ॥ 29॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,29,3627,बालभावाच्च वैदेही चलिता चावयोः सह । नीता दैवेन दुष्टेन श्यामा दुःखतरां दशाम् ॥ 30॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,30,3628,लङ्केशस्य गृहे श्यामा कथं दुःखं भविष्यति । पतिव्रता सुशीला च मयि प्रीतियुता भृशम् ॥ 31॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,31,3629,न च लक्ष्मण वैदेही सा तस्य वशगा भवेत् । स्वैरिणीव वरारोहा कथं स्याज्जनकात्मजा ॥ 32॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,32,3630,त्यजेत्प्राणान्नियन्तृत्वे मैथिली भरतानुज । न रावणस्य वशगा भवेदिति सुनिश्चितम् ॥ 33॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,33,3631,मृता चेज्जानकी वीर प्राणांस्त्यक्ष्याम्यसंशयम् । मृता चेदसितापाङ्गीं किं मे देहेन लक्ष्मण ॥ 34॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,34,3632,एवं विलपमानं तं रामं कमललोचनम् । लक्ष्मणः प्राह धर्मात्मा सान्त्वयन्नृतया गिरा ॥ 35॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,35,3633,धैर्यं कुरु महाबाहो त्यक्त्वा कातरतामिह । आनयिष्यामि वैदेहीं हत्वा तं राक्षसाधमम् ॥ 36॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,36,3634,आपदि सम्पदि तुल्या धैर्याद्भवन्ति ते धीराः । अल्पधियस्तु निमग्नाः कष्टे भवन्ति विभवेऽपि ॥ 37॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,37,3635,संयोगो विप्रयोगश्च दैवाधीनावुभावपि । शोकस्तु कीदृशस्तत्र देहेनात्मनि च क्वचित् ॥ 38॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,38,3636,राज्याद्यथा वने वासो वैदेह्या हरणं यथा । तथा काले समीचीने संयोगोऽपि भविष्यति ॥ 39॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,39,3637,प्राप्तव्यं सुखदुःखानां भोगान्निर्वर्तनं क्वचित् । नान्यथा जानकीजाने तस्माच्छोकं त्यजाधुना ॥ 40॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,40,3638,वानराः सन्ति भूयांसो गमिष्यन्ति चतुर्दिशम् । शुद्धिं जनकनन्दिन्या आनयिष्यन्ति ते किल ॥ 41॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,41,3639,ज्ञात्वा मार्गस्थितिं तत्र गत्वा कृत्वा पराक्रमम् । हत्वा तं पापकर्माणमानयिष्यामि मैथिलीम् ॥ 42॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,42,3640,ससैन्यं भरतं वाऽपि समाहूय सहानुजम् । हनिष्यामो वयं शत्रुं किं शोचसि वृथाग्रज ॥ 43॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,43,3641,रघुणैकरथेनैव जिताः सर्वा दिशः पुरा । तद्वंशजः कथं शोकं कर्तुमर्हसि राघव ॥ 44॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,44,3642,एकोऽहं सकलाञ्जेतुं समर्थोऽस्मि सुरासुरान् । किं पुनः ससहायो वै रावणं कुलपांसनम् ॥ 45॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,45,3643,जनकं वा समानीय साहाय्ये रघुनन्दन । हनिष्यामि दुराचारं रावणं सुरकण्टकम् ॥ 46॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,46,3644,सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् । चक्रनेमिरिवैकं यन्न भवेद्रघुनन्दन ॥ 47॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,47,3645,मनोऽतिकातरं यस्य सुखदुःखसमुद्भवे । स शोकसागरे मग्नो न सुखी स्यात्कदाचन ॥ 48॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,48,3646,इन्द्रेण व्यसनं प्राप्तं पुरा वै रघुनन्दन । नहुषः स्थापितो देवैः सर्वैर्मघवतः पदे ॥ 49॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,49,3647,स्थितः पङ्कजमध्ये च बहुवर्षगणानपि । अज्ञातवासं मघवा भीतस्त्यक्त्वा निजं पदम् ॥ 50॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,50,3648,पुनः प्राप्तं निजस्थानं काले विपरिवर्तिते । नहुषः पतितो भूमौ शापादजगराकृतिः ॥ 51॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,51,3649,इन्द्राणीं कामयानस्तु ब्राह्मणानवमन्य च । अगस्तिकोपात्सञ्जातः सर्पदेहो महीपतिः ॥ 52॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,52,3650,तस्माच्छोको न कर्तव्यो व्यसने सति राघव । उद्यमे चित्तमास्थाय स्थातव्यं वै विपश्चिता ॥ 53॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,53,3651,सर्वज्ञोऽसि महाभाग समर्थोऽसि जगत्पते । किं प्राकृत इवात्यर्थं कुरुषे शोकमात्मनि ॥ 54॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,54,3652,व्यास उवाच । इति लक्ष्मणवाक्येन बोधितो रघुनन्दनः । त्यक्त्वा शोकं तथात्यर्थं बभूव विगतज्वरः ॥ 55॥ 3,३.२९,एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।,55,3653,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे लक्ष्मणकृतरामशोकसान्त्वनं नामैकोनत्रिंशोऽध्यायः ॥ ३.२९॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,0,3654,व्यास उवाच । एवं तौ संविदं कृत्वा यावत्तूष्णीं बभूवतुः । आजगाम तदाऽऽकाशान्नारदो भगवानृषिः ॥ 1॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,1,3655,रणयन्महतीं वीणां स्वरग्रामविभूषिताम् । गायन्बृहद्रथं साम तदा तमुपतस्थिवान् ॥ 2॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,2,3656,दृष्ट्वा तं राम उत्थाय ददावथ वृषं शुभम् । आसनं चार्घ्यपाद्यञ्च कृतवानमितद्युतिः ॥ 3॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,3,3657,पूजां परमिकां कृत्वा कृताञ्जलिरुपस्थितः । उपविष्टः समीपे तु कृताज्ञो मुनिना हरिः ॥ 4॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,4,3658,उपविष्टं तदा रामं सानुजं दुःखमानसम् । पप्रच्छ नारदः प्रीत्या कुशलं मुनिसत्तमः ॥ 5॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,5,3659,कथं राघव शोकार्तो यथा वै प्राकृतो नरः । हृतां सीतां च जानामि रावणेन दुरात्मना ॥ 6॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,6,3660,सुरसद्मगतश्चाहं श्रुतवाञ्जनकात्मजाम् । पौलस्त्येन हृतां मोहान्मरणं स्वमजानता ॥ 7॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,7,3661,तव जन्म च काकुत्स्थ पौलस्त्यनिधनाय वै । मैथिलीहरणं जातमेतदर्थं नराधिप ॥ 8॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,8,3662,पूर्वजन्मनि वैदेही मुनिपुत्री तपस्विनी । रावणेन वने दृष्टा तपस्यन्ती शुचिस्मिता ॥ 9॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,9,3663,प्रार्थिता रावणेनासौ भव भार्येति राघव । तिरस्कृतस्तयाऽसौ वै जग्राह कबरं बलात् ॥ 10॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,10,3664,शशाप तत्क्षणं राम रावणं तापसी भृशम् । कुपिता त्यक्तुमिच्छन्ती देहं संस्पर्शदूषितम् ॥ 11॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,11,3665,दुरात्मंस्तव नाशार्थं भविष्यामि धरातले । अयोनिजा वरा नारी त्यक्त्वा देहं जहावपि ॥ 12॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,12,3666,सेयं रमांशसम्भूता गृहीता तेन रक्षसा । विनाशार्थं कुलस्यैव व्याली स्रगिव सम्भ्रमात् ॥ 13॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,13,3667,तव जन्म च काकुत्स्थ तस्य नाशाय चामरैः । प्रार्थितस्य हरेरंशादजवंशेऽप्यजन्मनः ॥ 14॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,14,3668,कुरु धैर्यं महाबाहो तत्र सा वर्ततेऽवशा । सती धर्मरता सीता त्वां ध्यायन्ती दिवानिशम् ॥ 15॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,15,3669,कामधेनुपयः पात्रे कृत्वा मघवता स्वयम् । पानार्थं प्रेषितं तस्याः पीतं चैवामृतं यथा ॥ 16॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,16,3670,सुरभीदुग्धपानात्सा क्षुत्तुड्दुःखविवर्जिता । जाता कमलपत्राक्षी वर्तते वीक्षिता मया ॥ 17॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,17,3671,उपायं कथयाम्यद्य तस्य नाशाय राघव । व्रतं कुरुष्व श्रद्धावानाश्विने मासि साम्प्रतम् ॥ 18॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,18,3672,नवरात्रोपवासञ्च भगवत्याः प्रपूजनम् । सर्वसिद्धिकरं राम जपहोमविधानतः ॥ 19॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,19,3673,मेघ्यैश्च पशुभिर्देव्या बलिं दत्त्वा विशंसितैः । दशांशं हवनं कृत्वा सशक्तस्त्वं भविष्यसि ॥ 20॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,20,3674,विष्णुना चरितं पूर्वं महादेवेन ब्रह्मणा । तथा मघवता चीर्णं स्वर्गमध्यस्थितेन वै ॥ 21॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,21,3675,सुखिना राम कर्तव्यं नवरात्रव्रतं शुभम् । विशेषेण च कर्तव्यं पुंसा कष्टगतेन वै ॥ 22॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,22,3676,विश्वामित्रेण काकुत्स्थ कृतमेतन्न संशयः । भृगुणाऽथ वसिष्ठेन कश्यपेन तथैव च ॥ 23॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,23,3677,गुरुणा हृतदारेण कृतमेतन्महाव्रतम् । तस्मात्त्वं कुरु राजेन्द्र रावणस्य वधाय च ॥ 24॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,24,3678,इन्द्रेण वृत्रनाशाय कृतं व्रतमनुत्तमम् । त्रिपुरस्य विनाशाय शिवेनापि पुरा कृतम् ॥ 25॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,25,3679,हरिणा मधुनाशाय कृतं मेरौ महामते । विधिवत्कुरु काकुत्स्थ व्रतमेतदतन्द्रितः ॥ 26॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,26,3680,श्रीराम उवाच । का देवी किं प्रभावा सा कुतो जाता किमाह्वया । व्रतं किं विधिवद्ब्रूहि सर्वज्ञोऽसि दयानिधे ॥ 27॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,27,3681,नारद उवाच । श‍ृणु राम सदा नित्या शक्तिराद्या सनातनी । सर्वकामप्रदा देवी पूजिता दुःखनाशिनी ॥ 28॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,28,3682,कारणं सर्वजन्तूनां ब्रह्मादीनां रघूद्वह । तस्याः शक्तिं विना कोऽपि स्पन्दितुं न क्षमो भवेत् ॥ 29॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,29,3683,विष्णोः पालनशक्तिः सा कर्तृशक्तिः पितुर्मम । रुद्रस्य नाशशक्तिः सा त्वन्याशक्तिः परा शिवा ॥ 30॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,30,3684,यच्च किञ्चित्क्वचिद्वस्तु सदसद्भुवनत्रये । तस्य सर्वस्य या शक्तिस्तदुत्पत्तिः कुतो भवेत् ॥ 31॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,31,3685,न ब्रह्मा न यदा विष्णुर्न रुद्रो न दिवाकरः । न चेन्द्राद्याः सुराः सर्वे न धरा न धराधराः ॥ 32॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,32,3686,तदा सा प्रकृतिः पूर्णा पुरुषेण परेण वै । संयुता विहरत्येव युगादौ निर्गुणा शिवा ॥ 33॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,33,3687,सा भूत्वा सगुणा पश्चात्करोति भुवनत्रयम् । पूर्वं संसृज्य ब्रह्मादीन्दत्त्वा शक्तीश्च सर्वशः ॥ 34॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,34,3688,तां ज्ञात्वा मुच्यते जन्तुर्जन्मसंसारबन्धनात् । सा विद्या परमा ज्ञेया वेदाद्या वेदकारिणी ॥ 35॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,35,3689,असङ्ख्यातानि नामानि तस्या ब्रह्मादिभिः किल । गुणकर्मविधानैस्तु कल्पितानि च किं ब्रुवे ॥ 36॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,36,3690,अकारादिक्षकारान्तैः स्वरैर्वर्णैस्तु योजितैः । असङ्ख्येयानि नामानि भवन्ति रघुनन्दन ॥ 37॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,37,3691,राम उवाच । विधिं मे ब्रूहि विप्रर्षे व्रतस्यास्य समासतः । करोम्यद्यैव श्रद्धावाञ्छ्रीदेव्याः पूजनं तथा ॥ 38॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,38,3692,नारद उवाच । पीठं कृत्वा समे स्थाने संस्थाप्य जगदम्बिकाम् । उपवासान्नवैव त्वं कुरु राम विधानतः ॥ 39॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,39,3693,आचार्योऽहं भविष्यामि कर्मण्यस्मिन्महीपते । देवकार्यविधानार्थमुत्साहं प्रकरोम्यहम् ॥ 40॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,40,3694,व्यास उवाच । तच्छ्रुत्वा वचनं सत्यं मत्वा रामः प्रतापवान् । कारयित्वा शुभं पीठं स्थापयित्वाम्बिकां शिवाम् ॥ 41॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,41,3695,विधिवत्पूजनं तस्याश्चकार व्रतवान् हरिः । सम्प्राप्ते चाश्विने मासि तस्मिन्गिरिवरे तदा ॥ 42॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,42,3696,उपवासपरो रामः कृतवान्व्रतमुत्तमम् । होमञ्च विधिवत्तत्र बलिदानञ्च पूजनम् ॥ 43॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,43,3697,भ्रातरौ चक्रतुः प्रेम्णा व्रतं नारदसम्मतम् । अष्टम्यां मध्यरात्रे तु देवी भगवती हि सा ॥ 44॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,44,3698,सिंहारूढा ददौ तत्र दर्शनं प्रतिपूजिता । गिरिश‍ृङ्गे स्थितोवाच राघवं सानुजं गिरा ॥ 45॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,45,3699,मेघगम्भीरया चेदं भक्तिभावेन तोषिता । देव्युवाच । राम राम महाबाहो तुष्टाऽस्म्यद्म व्रतेन ते ॥ 46॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,46,3700,प्रार्थयस्व वरं कामं यत्ते मनसि वर्तते । नारायणांशसम्भूतस्त्वं वंशे मानवेऽनघे ॥ 47॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,47,3701,रावणस्य वधायैव प्रार्थितस्त्वमरैरसि । पुरा मत्स्यतनुं कृत्वा हत्वा घोरञ्च राक्षसम् ॥ 48॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,48,3702,त्वया वै रक्षिता वेदाः सुराणां हितमिच्छता । भूत्वा कच्छपरूपस्तु धृतवान्मन्दरं गिरिम् ॥ 49॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,49,3703,अकूपारं प्रमन्थानं कृत्वा देवानपोषयः । कोलरूपं परं कृत्वा दशनाग्रेण मेदिनीम् ॥ 50॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,50,3704,धृतवानसि यद्राम हिरण्याक्षं जघान च । नारसिंहीं तनुं कृत्वा हिरण्यकशिपुं पुरा ॥ 51॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,51,3705,प्रह्लादं राम रक्षित्वा हतवानसि राघव । वामनं वपुरास्थाय पुरा छलितवान्बलिम् ॥ 52॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,52,3706,भूत्वेन्द्रस्यानुजः कामं देवकार्यप्रसाधकः । जमदग्निसुतस्त्वं मे विष्णोरंशेन सङ्गतः ॥ 53॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,53,3707,कृत्वान्तं क्षत्रियाणां तु दानं भूमेरदाद्द्विजे । तथेदानीं तु काकुत्स्थ जातो दशरथात्मज ॥ 54॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,54,3708,प्रार्थितस्तु सुरैः सर्वै रावणेनातिपीडितैः । कपयस्ते सहाया वै देवांशा बलवत्तराः ॥ 55॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,55,3709,भविष्यन्ति नरव्याघ्र मच्छक्तिसंयुता ह्यमी । शेषांशोऽप्यनुजस्तेऽयं रावणात्मजनाशकः ॥ 56॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,56,3710,भविष्यति न सन्देहः कर्तव्योऽत्र त्वयाऽनघ । वसन्ते सेवनं कार्यं त्वया तत्रातिश्रद्धया ॥ 57॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,57,3711,हत्वाऽथ रावणं पापं कुरु राज्यं यथासुखम् । एकादश सहस्राणि वर्षाणि पृथिवीतले ॥ 58॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,58,3712,कृत्वा राज्यं रघुश्रेष्ठ गन्ताऽसि त्रिदिवं पुनः । व्यास उवाच । इत्युक्त्वान्तर्दधे देवी रामस्तु प्रीतमानसः ॥ 59॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,59,3713,समाप्य तद्व्रतं चक्रे प्रयाणं दशमीदिने । विजयापूजनं कृत्वा दत्त्वा दानान्यनेकशः ॥ 60॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,60,3714,कपिपतिबलयुक्तः सानुजः श्रीपतिश्च प्रकटपरमशक्त्या प्रेरितः पूर्णकामः । उदधितटगतोऽसौ सेतुबन्धं विधाया- प्यहनदमरशत्रुं रावणं गीतकीर्तिः ॥ 61॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,61,3715,यः श‍ृणोति नरो भक्त्या देव्याश्चरितमुत्तमम् । स भुक्त्वा विपुलान्भोगान्प्राप्नोति परमं पदम् ॥ 62॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,62,3716,सन्त्यन्यानि पुराणानि विस्तराणि बहूनि च । श्रीमद्भागवतस्यास्य न तुल्यानीति मे मतिः ॥ 63॥ 3,३.३०,त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।,63,3717,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे रामाय देवीवरदानं नाम त्रिंशोऽध्यायः ॥ ३.३०॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,0,3718,जनमेजय उवाच । वासवेय मुनिश्रेष्ठ सर्वज्ञाननिधेऽनघ । प्रष्टुमिच्छाम्यहं स्वामिन्नस्माकं कुलवर्धन ॥ 1॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,1,3719,शूरसेनसुतः श्रीमान्वसुदेवः प्रतापवान् । श्रुतं मया हरिर्यस्य पुत्रभावमवाप्तवान् ॥ 2॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,2,3720,देवानामपि पूज्योऽभून्नाम्ना चानकदुन्दुभिः । कारागारे कथं बद्धः कंसस्य धर्मतत्परः ॥ 3॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,3,3721,देवक्या भार्यया सार्धं किमागः कृतवानसौ । देवक्या बालषट्कस्य विनाशश्च कृतः पुनः ॥ 4॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,4,3722,तेन कंसेन कस्माद्वै ययातिकुलजेन च । कारागारे कथं जन्म वासुदेवस्य वै हरेः ॥ 5॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,5,3723,गोकुले च कथं नीतो भगवान्सात्वतां पतिः । गतो जन्मान्तरं कस्मात्पितरौ निगडे स्थितौ ॥ 6॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,6,3724,देवकीवसुदेवौ च कृष्णस्यामिततेजसः । कथं न मोचितौ वृद्धौ पितरौ हरिणामुना ॥ 7॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,7,3725,जगत्कर्तुं समर्थेन स्थितेन जनकोदरे । प्राक्तनं किं तयोः कर्म दुर्विज्ञेयं महात्मभिः ॥ 8॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,8,3726,जन्म वै वासुदेवस्य यत्रासीत्परमात्मनः । के ते पुत्राश्च का बाला या कंसेन विपोथिता ॥ 9॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,9,3727,शिलायां निर्गता व्योम्नि जाता त्वष्टभुजा पुनः । गार्हस्थ्यञ्च हरेर्ब्रूहि बहुभार्यस्य चानघ ॥ 10॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,10,3728,कार्याणि तत्र तान्येव देहत्यागं च तस्य वै । किंवदन्त्या श्रुतं यत्तन्मनो मोहयतीव मे ॥ 11॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,11,3729,चरितं वासुदेवस्य त्वमाख्याहि यथातथम् । नरनारायणौ देवौ पुराणावृषिसत्तमौ ॥ 12॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,12,3730,धर्मपुत्रौ महात्मानौ तपश्चेरतुरुत्तमम् । यौ मुनी बहुवर्षाणि पुण्ये बदरिकाश्रमे ॥ 13॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,13,3731,निराहारौ जितात्मानौ निःस्पृहौ जितषड्गुणौ । विष्णोरंशौ जगत्स्थेम्ने तपश्चेरतुरुत्तमम् ॥ 14॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,14,3732,तयोरंशावतारौ हि जिष्णुकृष्णौ महाबलौ । प्रसिद्धौ मुनिभिः प्रोक्तौ सर्वज्ञैर्नारदादिभिः ॥ 15॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,15,3733,विद्यमानशरीरौ तौ कथं देहान्तरं गतौ । नरनारायणौ देवौ पुनः कृष्णार्जुनौ कथम् ॥ 16॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,16,3734,यौ चक्रतुस्तपश्चोग्रं मुक्त्यर्थं मुनिसत्तमौ । तौ कथं प्रापतुर्देहौ प्राप्तयोगौ महातपौ ॥ 17॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,17,3735,शूद्रः स्वधर्मनिष्ठस्तु देहान्ते क्षत्रियस्तु सः । शुभाचारो मृतो यो वै स शूद्रो ब्राह्मणो भवेत् ॥ 18॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,18,3736,ब्राह्मणो निःस्पृहः शान्तो भवरोगाद्विमुच्यते । विपरीतमिदं भाति नरनारायणौ च तौ ॥ 19॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,19,3737,तपसा शोषितात्मानौ क्षत्रियौ तौ बभूवतुः । केन तौ कर्मणा शान्तौ जातौ शापेन वा पुनः ॥ 20॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,20,3738,ब्राह्मणौ क्षत्रियौ जातौ कारणं तन्मुने वद । यादवानां विनाशश्च ब्रह्मशापादिति श्रुतः ॥ 21॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,21,3739,कृष्णस्यापि हि गान्धार्याः शापेनैव कुलक्षयः । प्रद्युम्नहरणं चैव शम्बरेण कथं कृतम् ॥ 22॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,22,3740,वर्तमाने वासुदेवे देवदेवे जनार्दने । पुत्रस्य सूतिकागेहाद्धरणं चातिदुर्घटम् ॥ 23॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,23,3741,द्वारकादुर्गमध्याद्वै हरिवेश्माद्दुरत्ययात् । न ज्ञातं वासुदेवेन तत्कथं दिव्यचक्षुषा ॥ 24॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,24,3742,सन्देहोऽयं महान्ब्रह्मन्निसन्देहं कुरु प्रभो । यत्पत्न्यो वासुदेवस्य दस्युभिर्लुण्ठिता हृताः ॥ 25॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,25,3743,स्वर्गते देवदेवे तु तत्कथं मुनिसत्तम । संशयो जायते ब्रह्मंश्चित्तान्दोलनकारकः ॥ 26॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,26,3744,विष्णोरंशः समुद्भूतः शौरिर्भूभारहारकृत् । स कथं मथुराराज्यं भयात्त्यक्त्वा जनार्दनः ॥ 27॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,27,3745,द्वारवत्यां गतः साधो ससैन्यः ससुहृद्गणः । अवतारो हरेः प्रोक्तो भूभारहरणाय वै ॥ 28॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,28,3746,पापात्मनां विनाशाय धर्मसंस्थापनाय च । तत्कथं वासुदेवेन चौरास्ते न निपातिताः ॥ 29॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,29,3747,यैर्हृता वासुदेवस्य पत्न्यः संलुण्ठिताश्च ताः । स्तेनास्ते किं न विज्ञाताः सर्वज्ञेन सता पुनः ॥ 30॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,30,3748,भीष्मद्रोणवधः कामं भूभारहरणे मतः । अर्चिताश्च महात्मानः पाण्डवा धर्मतत्पराः ॥ 31॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,31,3749,कृष्णभक्ताः सदाचारा युधिष्ठिरपुरोगमाः । ते कृत्वा राजसूयञ्च यज्ञराजं विधानतः ॥ 32॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,32,3750,दक्षिणा विविधा दत्त्वा ब्राह्मणेभ्योऽतिभावतः । पाण्डुपुत्रास्तु देवांशा वासुदेवाश्रिता मुने ॥ 33॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,33,3751,घोरं दुःखं कथं प्राप्ताः क्व गतं सुकृतञ्च तत् । किं तत्पापं महारौद्रं येन ते पीडिताः सदा ॥ 34॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,34,3752,द्रौपदी च महाभागा वेदीमध्यात्समुत्थिता । रमांशजा च साध्वी च कृष्णभक्तियुता तथा ॥ 35॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,35,3753,सा कथं दुःखमतुलं प्राप घोरं पुनः पुनः । दुःशासनेन सा केशे गृहीता पीडिता भृशम् ॥ 36॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,36,3754,रजस्वला सभायां तु नीता भीतैकवाससा । विराटनगरे दासी जाता मत्स्यस्य सा पुनः ॥ 37॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,37,3755,धर्षिता कीचकेनाथ रुदती कुररी यथा । हृता जयद्रथेनाथ क्रन्दमानातिदुःखिता ॥ 38॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,38,3756,मोचिता पाण्डवैः पश्चाद्बलवद्भिर्महात्मभिः । पूर्वजन्मकृतं पापं किं तद्येन च पीडिताः ॥ 39॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,39,3757,दुःखान्यनेकान्याप्तास्ते कथयाद्य महामते । राजसूयं क्रतुवरं कृत्वा ते मम पूर्वजाः ॥ 40॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,40,3758,दुःखं महत्तरं प्राप्ताः पूर्वजन्मकृतेन वै । देवांशानां कथं तेषां संशयोऽयं महान्हि मे ॥ 41॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,41,3759,सदाचारैस्तु कौन्तेयैर्भीष्मद्रोणादयो हताः । छलेन धनलाभार्थं जानानैर्नश्वरं जगत् ॥ 42॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,42,3760,प्रेरिता वासुदेवेन पापे घोरे महात्मना । कुलं क्षयितवन्तस्ते हरिणा परमात्मना ॥ 43॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,43,3761,वरं भिक्षाटनं साधोर्नीवारैर्जीवनं वरम् । योधान्न हत्वा लोभेन शिल्पेन जीवनं वरम् ॥ 44॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,44,3762,विच्छिन्नस्तु त्वया वंशो रक्षितो मुनिसत्तम । समुत्पाद्य सुतानाशु गोलकाच्छत्रुनाशनान् ॥ 45॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,45,3763,सोऽल्पेनैव तु कालेन विराटतनयासुतः । तापसस्य गले सर्पं न्यस्तवान्कथमद्भुतम् ॥ 46॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,46,3764,नकोऽपि ब्राह्मणं द्वेष्टि क्षत्रियस्य कुलोद्भवः । तापसं मौनसंयुक्तं पित्रा किं तत्कृतं मुने ॥ 47॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,47,3765,एतैरन्यैश्च सन्देहैर्विकलं मे मनोऽधुना । स्थिरं कुरु पितः साधो सर्वज्ञोऽसि दयानिधे ॥ 48॥ 4,४.१,प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।,48,3766,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे जनमेजयप्रश्नाः प्रथमोऽध्यायः ॥ ४.१॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,0,3767,सूत उवाच । एवं पृष्टः पुराणज्ञो व्यासः सत्यवतीसुतः । परीक्षितसुतं शान्तं ततो वै जनमेजयम् ॥ 1॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,1,3768,उवाच संशयच्छेत्तृ वाक्यं वाक्यविशारदः । व्यास उवाच । राजन् किमेतद्वक्तव्यं कर्मणां गहना गतिः ॥ 2॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,2,3769,दुर्ज्ञेया किल देवानां मानवानां च का कथा । यदा समुत्थितं चैतद्ब्रह्माण्डं त्रिगुणात्मकम् ॥ 3॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,3,3770,कर्मणैव समुत्पत्तिः सर्वेषां नात्र संशयः । अनादिनिधना जीवाः कर्मबीजसमुद्भवाः ॥ 4॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,4,3771,नानायोनिषु जायन्ते म्रियन्ते च पुनः पुनः । कर्मणा रहितो देहसंयोगो न कदाचन ॥ 5॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,5,3772,शुभाशुभैस्तथा मिश्रैः कर्मभिर्वेष्टितं त्विदम् । त्रिविधानि हि तान्याहुर्बुधास्तत्त्वविदश्च ये ॥ 6॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,6,3773,सञ्चितानि भविष्यन्ति प्रारब्धानि तथा पुनः । वर्तमानानि देहेऽस्मिंस्त्रैविध्यं कर्मणां किल ॥ 7॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,7,3774,ब्रह्मादीनां च सर्वेषां तद्वशत्वं नराधिप । सुखं दुःखं जरामृत्युहर्षशोकादयस्तथा ॥ 8॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,8,3775,कामक्रोधौ च लोभश्च सर्वे देहगता गुणाः । दैवाधीनाश्च सर्वेषां प्रभवन्ति नराधिप ॥ 9॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,9,3776,रागद्वेषादयो भावाः स्वर्गेऽपि प्रभवन्ति हि । देवानां मानवानाञ्च तिरश्चां च तथा पुनः ॥ 10॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,10,3777,विकाराः सर्व एवैते देहेन सह सङ्गताः । पूर्ववैरानुयोगेन स्नेहयोगेन वै पुनः ॥ 11॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,11,3778,उत्पत्तिः सर्वजन्तूनां विना कर्म न विद्यते । कर्मणा भ्रमते सूर्यः शशाङ्कः क्षयरोगवान् ॥ 12॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,12,3779,कपाली च तथा रुद्रः कर्मणैव न संशयः । अनादिनिधनं चैतत्कारणं कर्म विद्यते ॥ 13॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,13,3780,तेनेह शाश्वतं सर्वं जगत्स्थावरजङ्गमम् । नित्यानित्यविचारेऽत्र निमग्ना मुनयः सदा ॥ 14॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,14,3781,न जानन्ति किमेतद्वै नित्यं वानित्यमेव च । मायायां विद्यमानायां जगन्नित्यं प्रतीयते ॥ 15॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,15,3782,कार्याभावः कथं वाच्यः कारणे सति सर्वथा । माया नित्या कारणञ्च सर्वेषां सर्वदा किल ॥ 16॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,16,3783,कर्मबीजं ततोऽनित्यं चिन्तनीयं सदा बुधैः । भ्रमत्येव जगत्सर्वं राजन्कर्मनियन्त्रितम् ॥ 17॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,17,3784,नानायोनिषु राजेन्द्र नानाधर्ममयेषु च । इच्छया च भवेञ्चन्म विष्णोरमिततेजसः ॥ 18॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,18,3785,युगे युगेष्वनेकासु नीचयोनिषु तत्कथम् । त्यक्त्वा वैकुण्ठसंवासं सुखभोगाननेकशः ॥ 19॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,19,3786,विण्मूत्रमन्दिरे वासं सन्त्रस्तः कोऽभिवाञ्छति । पुष्पावचयलीलां च जलकेलिं सुखासनम् ॥ 20॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,20,3787,त्यक्त्वा गर्भगृहे वासं कोऽभिवाच्छति बुद्धिमान् । तूलिकां मृदुसंयुक्तां दिव्यां शय्यां विनिर्मिताम् ॥ 21॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,21,3788,त्यक्त्वाधोमुखवासं च कोऽभिवाञ्छति पण्डितः । गीतं नृत्यञ्च वाद्यञ्च नानाभावसमन्वितम् ॥ 22॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,22,3789,मुक्त्वा को नरके वासं मनसापि विचिन्तयेत् । सिन्धुजाद्भुतभावानां रसं त्यक्त्वा सुदुस्त्वजम् ॥ 23॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,23,3790,विण्मूत्ररसपानञ्ज क इच्छेन्मतिमान्नरः । गर्भवासात्परो नास्ति नरको भुवनत्रये ॥ 24॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,24,3791,तद्भीताश्च प्रकुर्वन्ति मुनयो दुस्तरं तपः । हित्वा भोगञ्च राज्यञ्च वने यान्ति मनस्विनः ॥ 25॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,25,3792,यद्भीतास्तु विमूढात्मा कस्तं सेवितुमिच्छति । गर्भे तुदन्ति कृमयो जठराग्निस्तपत्यधः ॥ 26॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,26,3793,वपासंवेष्टनं कूरं किं सुखं तत्र भूपते । वरं कारागृहे वासो बन्धनं निगडैर्वरम् ॥ 27॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,27,3794,अल्पमात्रं क्षणं नैव गर्भवासः क्वचिच्छुभः । गर्भवासे महद्दुःखं दशमासनिवासनम् ॥ 28॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,28,3795,तथा निःसरणे दुःखं योनियन्त्रेऽतिदारुणे । बालभावे तदा दुःखं मूकाज्ञभावसंयुतम् ॥ 29॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,29,3796,क्षुतृष्णावेदनाशक्तः परतन्त्रोऽतिकातरः । क्षुधिते रुदिते बाले माता चिन्तातुरा तदा ॥ 30॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,30,3797,भेषजं पातुमिच्छन्ती ज्ञात्वा व्याधिव्यथां दृढाम् । नानाविधानि दुःखानि बालभावे भवन्ति वै ॥ 31॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,31,3798,किं सुखं विबुधा दृष्ट्वा जन्म वाञ्छन्ति चेच्छया । सङ्ग्रामममरैः सार्धं सुखं त्यक्त्वा निरन्तरम् ॥ 32॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,32,3799,कर्तुमिच्छेच्च को मूढः श्रमदं सुखनाशनम् । सर्वथैव नृपश्रेष्ठ सर्वे ब्रह्मादयः सुराः ॥ 33॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,33,3800,कृतकर्मविपाकेन प्राप्नुवन्ति सुखासुखे । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । देहवद्भिर्नृभिर्देवैस्तिर्यग्भिश्च नृपोत्तम ॥ 34॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,34,3801,तपसा दानयज्ञैश्च मानवश्चेन्द्रतां व्रजेत् । क्षीणे पुण्येऽथ शक्रोऽपि पतत्येव न संशयः ॥ 35॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,35,3802,रामावतारयोगेन देवा वानरतां गताः । तथा कृष्णसहायार्थं देवा यादवतां गताः ॥ 36॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,36,3803,एवं युगे युगे विष्णुरवताराननेकशः । करोति धर्मरक्षार्थं ब्रह्मणा प्रेरितो भृशम् ॥ 37॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,37,3804,पुनः पुनर्हरेरेवं नानायोनिषु पार्थिव । अवतारा भवन्त्यन्ये रथचक्रवदद्भुताः ॥ 38॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,38,3805,दैत्यानां हननं कर्म कर्तव्यं हरिणा स्वयम् । अंशांशेन पृथिव्यां वै कृत्वा जन्म महात्मना ॥ 39॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,39,3806,तदहं सम्प्रवक्ष्यामि कृष्णजन्मकथां शुभाम् । स एव भगवान्विष्णुरवतीर्णो यदोः कुले ॥ 40॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,40,3807,कश्यपस्य मुनेरंशो वसुदेवः प्रतापवान् । गोवृत्तिरभवद्राजन् पूर्वशापानुभावतः ॥ 41॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,41,3808,कश्यपस्य च द्वे पत्न्यौ शापादत्र महीपते । अदितिः सुरसा चैवमासतुः पृथिवीपते ॥ 42॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,42,3809,देवकी रोहिणी चोभे भगिन्यौ भरतर्षभ । वरुणेन महाञ्छापो दत्तः कोपादिति श्रुतम् ॥ 43॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,43,3810,राजोवाच । किं कृतं कश्यपेनागो येन शप्तो महानृषिः । सभार्यः स कथं जातस्तद्वदस्व महामते ॥ 44॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,44,3811,कथञ्च भगवान्विष्णुस्तत्र जातोऽस्ति गोकुले । वासी वैकुण्ठनिलये रमापतिरखण्डितः ॥ 45॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,45,3812,निदेशात्कस्य भगवान्वर्तते प्रभुरव्ययः । नारायणः सुरश्रेष्ठो युगादिः सर्वधारकः ॥ 46॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,46,3813,स कथं सदनं त्यक्त्वा कर्मवानिव मानुषे । करोति जननं कस्मादत्र मे संशयो महान् ॥ 47॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,47,3814,प्राप्य मानुषदेहं तु करोति च विडम्बनम् । भावान्नानाविधांस्तत्र मानुषे दुष्टजन्मनि ॥ 48॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,48,3815,कामः क्रोधोऽमर्षशोकौ वैरं प्रीतिश्च कर्हिचित् । सुखं दुःखं भयं नॄणां दैन्यमार्जवमेव च ॥ 49॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,49,3816,दुष्कृतं सुकृतं चैव वचनं हननं तथा । पोषणं चलनं तापो विमर्शश्च विकत्थनम् ॥ 50॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,50,3817,लोभो दम्भस्तथा मोहः कपटः शोचनं तथा । एते चान्ये तथा भावा मानुष्ये सम्भवन्ति हि ॥ 51॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,51,3818,स कथं भगवान्विष्णुस्त्वक्त्या सुखमनश्वरम् । करोति मानुषं जन्म भावैस्तैस्तैरभिद्रुतम् ॥ 52॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,52,3819,किं सुखं मानुषं प्राप्य भुवि जन्म मुनीश्वर । किं निमित्तं हरिः साक्षाद्गर्भवासं करोति वै ॥ 53॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,53,3820,गर्भदुःखं जन्मदुःखं बालभावे तथा पुनः । यौवने कामजं दुःखं गार्हस्त्येऽतिमहत्तरम् ॥ 54॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,54,3821,दुःखान्येतान्यवाप्नोति मानुषे द्विजसत्तम । कथं स भगवान्विष्णुरवतारान्पुनः पुनः ॥ 55॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,55,3822,प्राप्य रामावतारं हि हरिणा ब्रह्मयोनिना । दुःखं महत्तरं प्राप्तं वनवासेऽतिदारुणे ॥ 56॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,56,3823,सीताविरहजं दुःखं सङ्ग्रामश्च पुनः पुनः । कान्तात्यागोऽप्यनेनैवमनुभूतो महात्मना ॥ 57॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,57,3824,तथा कृष्णावतारेऽपि जन्म रक्षागृहे पुनः । गोकुले गमनं चैव गवां चारणमित्युत ॥ 58॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,58,3825,कंसस्य हननं कष्टाद् द्वारकागमनं पुनः । नानासंसारदुःखानि भुक्तवान्भगवान् कथम् ॥ 59॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,59,3826,स्वेच्छया कः प्रतीक्षेत मुक्तो दुःखानि ज्ञानवान् । संशयं छिन्धि सर्वज्ञ मम चित्तप्रशान्तये ॥ 60॥ 4,४.२,द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।,60,3827,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे कर्मणो जन्मादिकारणत्वनिरूपणं नाम द्वितीयोऽध्यायः ॥ ४.२॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,0,3828,व्यास उवाच । कारणानि बहून्यत्राप्यवतारे हरेः किल । सर्वेषां चैव देवानामंशावतरणेष्वपि ॥ 1॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,1,3829,वसुदेवावतारस्य कारणं श‍ृणु तत्त्वतः । देवक्याश्चैव रोहिण्या अवतारस्य कारणम् ॥ 2॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,2,3830,एकदा कश्यपः श्रीमान्यज्ञार्थं धेनुमाहरत् । याचितोऽयं बहुविधं न ददौ धेनुमुत्तमाम् ॥ 3॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,3,3831,वरुणस्तु ततो गत्वा ब्रह्माणं जगतः प्रभुम् । प्रणम्योवाच दीनात्मा स्वदुःखं विनयान्वितः ॥ 4॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,4,3832,किं करोमि महाभाग मत्तोऽसौ न ददाति गाम् । शापो मया विसृष्टोऽस्मै गोपालो भव मानुषे ॥ 5॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,5,3833,भार्ये द्वे अपि तत्रैव भवेतां चातिदुःखिते । यतो वत्सा रुदन्त्यत्र मातृहीनाः सुदुःखिताः ॥ 6॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,6,3834,मृतवत्सादितिस्तस्माद्भविष्यति धरातले । कारागारनिवासा च तेनापि बहुदुःखिता ॥ 7॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,7,3835,व्यास उवाच । तच्छ्रुत्वा वचनं तस्य यादोनाथस्य पद्मभूः । समाहूय मुनिं तत्र तमुवाच प्रजापतिः ॥ 8॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,8,3836,कस्मात्त्वया महाभाग लोकपालस्य धेनवः । हृताः पुनर्न दत्ताश्च किमन्यायं करोषि च ॥ 9॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,9,3837,जानन् न्यायं महाभाग परवित्तापहारणम् । कृतवान्कथमन्यायं सर्वज्ञोऽसि महामते ॥ 10॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,10,3838,अहो लोभस्य महिमा महतोऽपि न मुञ्चति । लोभं नरकदं नूनं पापाकरमसम्मतम् ॥ 11॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,11,3839,कश्यपोऽपि न तं त्यक्तुं समर्थः किं करोम्यहम् । सर्वदैवाधिकस्तस्माल्लोभो वै कलितो मया ॥ 12॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,12,3840,धन्यास्ते मुनयः शान्ता जितो यैर्लोभ एव च । वैखानसैः शमपरैः प्रतिग्रहपराङ्मुखैः ॥ 13॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,13,3841,संसारे बलवाञ्छत्रुर्लोभोऽमेध्योऽवरः सदा । कश्यपोऽपि दुराचारः कृतस्नेहो दुरात्मना ॥ 14॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,14,3842,ब्रह्मापि तं शशापाथ कश्यपं मुनिसत्तमम् । मर्यादारक्षणार्थं हि पौत्रं परमवल्लभम् ॥ 15॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,15,3843,अंशेन त्वं पृथिव्यां वै प्राप्य जन्म यदोः कुले । भार्याभ्यां संयुतस्तत्र गोपालत्वं करिष्यसि ॥ 16॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,16,3844,व्यास उवाच । एवं शप्तः कश्यपोऽसौ वरुणेन च ब्रह्मणा । अंशावतरणार्थाय भूभारहरणाय च ॥ 17॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,17,3845,तथा दित्यादितिः शप्ता शोकसन्तप्तया भृशम् । जाता जाता विनश्येरंस्तव पुत्रास्तु सप्त वै ॥ 18॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,18,3846,जनमेजय उवाच । कस्माद्दित्या च भगिनी शप्तेन्द्रजननी मुने । कारणं वद शापे च शोकस्तु मुनिसत्तम ॥ 19॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,19,3847,सूत उवाच । पारीक्षितेन पृष्टस्तु व्यासः सत्यवतीसुतः । राजानं प्रत्युवाचेदं कारणं सुसमाहितः ॥ 20॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,20,3848,व्यास उवाच । राजन् दक्षसुते द्वे तु दितिश्चादितिरुत्तमे । कश्यपस्य प्रिये भार्ये बभूवतुरुरुक्रमे ॥ 21॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,21,3849,अदित्यां मघवा पुत्रो यदाभूदतिवीर्यवान् । तदा तु तादृशं पुत्रं चकमे दितिरोजसा ॥ 22॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,22,3850,पतिमाहासितापाङ्गी पुत्रं मे देहि मानद । इन्द्रख्यबलं वीरं धर्मिष्ठं वीर्यवत्तमम् ॥ 23॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,23,3851,तामुवाच मुनिः कान्ते स्वस्था भव मयोदिते । व्रतान्ते भविता तुभ्यं शतक्रतुसमः सुतः ॥ 24॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,24,3852,सा तथेति प्रतिश्रुत्य चकार व्रतमुत्तमम् । निषिक्तं मुनिना गर्भं बिभ्राणा सुमनोहरम् ॥ 25॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,25,3853,भूमौ चकार शयनं पयोव्रतपरायणा । पवित्रा धारणायुक्ता बभूव वरवर्णिनी ॥ 26॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,26,3854,एवं जातः सुसम्पूर्णो यदा गर्भोऽतिवीर्यवान् । शुभ्रांशुमतिदीप्ताङ्गीं दितिं दृष्ट्वा तु दुःखिता ॥ 27॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,27,3855,मघवत्सदृशः पुत्रो भविष्यति महाबलः । दित्यास्तदा मम सुतस्तेजोहीनो भवेत्किल ॥ 28॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,28,3856,इति चिन्तापरा पुत्रमिन्द्रं चोवाच मानिनी । शत्रुस्तेऽद्य समुत्पन्नो दितिगर्भेऽतिवीर्यवान् ॥ 29॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,29,3857,उपायं कुरु नाशाय शत्रोरद्य विचिन्त्य च । उत्पत्तिरेव हन्तव्या दित्या गर्भस्य शोभन ॥ 30॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,30,3858,वीक्ष्य तामसितापाङ्गीं सपत्नीभावमास्थिताम् । दुनोति हृदये चिन्ता सुखमर्मविनाशिनी ॥ 31॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,31,3859,राजयक्ष्मेव संवृद्धो नष्टो नैव भवेद्रिपुः । तस्मादङ्कुरितं हन्याद्बुद्धिमानहितं किल ॥ 32॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,32,3860,लोहशङ्कुरिव क्षिप्तो गर्भो वै हृदये मम । येन केनाप्युपायेन पातयाद्य शतक्रतो ॥ 33॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,33,3861,सामदानबलेनापि हिंसनीयस्त्वया सुतः । दित्या गर्भो महाभाग मम चेदिच्छसि प्रियम् ॥ 34॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,34,3862,व्यास उवाच । श्रुत्वा मातृवचः शक्रो विचिन्त्य मनसा ततः । जगामापरमातुः स समीपममराधिपः ॥ 35॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,35,3863,ववन्दे विनयात्पादौ दित्याः पापमतिर्नृप । प्रोवाच विनयेनासौ मधुरं विषगर्भितम् ॥ 36॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,36,3864,इन्द्र उवाच । मातस्त्वं व्रतयुक्तासि क्षीणदेहातिदुर्बला । सेवार्थमिह सम्प्राप्तः किं कर्तव्यं वदस्व मे ॥ 37॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,37,3865,पादसंवाहनं तेऽहं करिष्यामि पतिव्रते । गुरुशुश्रूषणात्पुण्यं लभते गतिमक्षयाम् ॥ 38॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,38,3866,न मे किमपि भेदोऽस्ति तथादित्या शपे किल । इत्युक्त्वा चरणौ स्पृष्टा संवाहनपरोऽभवत् ॥ 39॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,39,3867,संवाहनसुखं प्राप्य निद्रामाप सुलोचना । श्रान्ता व्रतकृशा सुप्ता विश्वस्ता परमा सती ॥ 40॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,40,3868,तां निद्रावशमापन्नां विलोक्य प्राविशत्तनुम् । रूपं कृत्वातिसूक्ष्मञ्च शस्त्रपाणिः समाहितः ॥ 41॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,41,3869,उदरं प्रविवेशाशु तस्या योगबलेन वै । गर्भं चकर्त वज्रेण सप्तधा पविनायकः ॥ 42॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,42,3870,रुरोद च तदा बालो वज्रेणाभिहतस्तथा । मा रुदेति शनैर्वाक्यमुवाच मघवानमुम् ॥ 43॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,43,3871,शकलानि पुनः सप्त सप्तधा कर्तितानि च । तदा चैकोनपञ्चाशन्मरुतश्चाभवन्नृप ॥ 44॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,44,3872,तदा प्रबुद्धा सुदती ज्ञात्वा गर्भं तथाकृतम् । इन्द्रेण छलरूपेण चुकोप भृशदुःखिता ॥ 45॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,45,3873,भगिनीकृतं तु सा बुद्ध्वा शशाप कुपिता तदा । अदितिं मघवन्तञ्च सत्यव्रतपरायणा ॥ 46॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,46,3874,यथा मे कर्तितो गर्भस्तव पुत्रेण छद्मना । तथा तन्नाशमायातु राज्यं त्रिभुवनस्य तु ॥ 47॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,47,3875,यथा गुप्तेन पापेन मम गर्भो निपातितः । अदित्या पापचारिण्या यथा मे घातितः सुतः ॥ 48॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,48,3876,तस्याः पुत्रास्तु नश्यन्तु जाता जाताः पुनः पुनः । कारागारे वसत्वेषा पुत्रशोकातुरा भृशम् ॥ 49॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,49,3877,अन्यजन्मनि चाप्येव मृतापत्या भविष्यति । व्यास उवाच । इत्युत्सृष्टं तदा श्रुत्वा शापं मरीचिनन्दनः ॥ 50॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,50,3878,उवाच प्रणयोपेतो वचनं शमयन्निव । मा कोपं कुरु कल्याणि पुत्रास्ते बलवत्तराः ॥ 51॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,51,3879,भविष्यन्ति सुराः सर्वे मरुतो मघवत्सखाः । शापोऽयं तव वामोरु त्वष्टाविंशेऽथ द्वापरे ॥ 52॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,52,3880,अंशेन मानुषं जन्म प्राप्य भोक्ष्यति भामिनी । वरुणेनापि दत्तोऽस्ति शापः सन्तापितेन च ॥ 53॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,53,3881,उभयोः शापयोगेन मानुषीयं भविष्यति । व्यास उवाच । पतिनाश्वासिता देवी सन्तुष्टा साभवत्तदा ॥ 54॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,54,3882,नोवाच विप्रियं किञ्चित्ततः सा वरवर्णिनी । इति ते कथितं राजन् पूर्वशापस्य कारणम् ॥ 55॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,55,3883,अदितिर्देवकी जाता स्वांशेन नृपसत्तम ॥ 56॥ 4,४.३,तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।,56,3884,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे दित्या अदित्यै शापदानं नाम तृतीयोऽध्यायः ॥ ४.३॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,0,3885,राजोवाच । विस्मितोऽस्मि महाभाग श्रुत्वाख्यानं महामते । संसारोऽयं पापरूपः कथं मुच्येत बन्धनात् ॥ 1॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,1,3886,कश्यपस्यापि दायादस्त्रिलोकीविभवे सति । कृतवानीदृशं कर्म को न कुर्याज्जुगुप्सितम् ॥ 2॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,2,3887,गर्भे प्रविश्य बालस्य हननं दारुणं किल । सेवामिषेण मातुश्च कृत्वा शपथमद्भुतम् ॥ 3॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,3,3888,शास्ता धर्मस्य गोप्ता च त्रिलोक्याः पतिरप्युत । कृतवानीदृशं कर्म को न कुर्यादसाम्प्रतम् ॥ 4॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,4,3889,पितामहा मे सङ्ग्रामे कुरुक्षेत्रेऽतिदारुणम् । कृतवन्तस्तथाश्चर्यं दुष्टं कर्म जगद्गुरो ॥ 5॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,5,3890,भीष्मोद्रोणः कृपः कर्णो धर्माशोऽपि युधिष्ठिरः । सर्वे विरुद्धधर्मेण वासुदेवेन नोदिताः ॥ 6॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,6,3891,असारतां विजानन्तः संसारस्य सुमेधसः । देवांशाश्च कथं चक्रुर्निन्दितं धर्मतत्पराः ॥ 7॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,7,3892,कास्था धर्मस्य विप्रेन्द्र प्रमाणं किं विनिश्चितम् । चलचित्तोऽस्मि सञ्जातः श्रुत्वा चैतत्कथानकम् ॥ 8॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,8,3893,आप्तवाक्यं प्रमाणं चेदाप्तः कः परदेहवान् । पुरुषो विषयासक्तो रागी भवति सर्वथा ॥ 9॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,9,3894,रागो द्वेषो भवेन्नूनमर्थनाशादसंशयम् । द्वेषादसत्यवचनं वक्तव्यं स्वार्थसिद्धये ॥ 10॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,10,3895,जरासन्धविघातार्थं हरिणा सत्त्वमूर्तिना । छलेन रचितं रूपं ब्राह्मणस्य विजानता ॥ 11॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,11,3896,तदाप्तः कः प्रमाणं किं सत्त्वमूर्तिरपीदृशः । अर्जुनोऽपि तथैवात्र कार्ये यज्ञविनिर्मिते ॥ 12॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,12,3897,कीदृशोऽयं कृतो यज्ञः किमर्थं शमवर्जितः । परलोकपदार्थं वा यशसे वान्यथा किल ॥ 13॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,13,3898,धर्मस्य प्रथमः पादः सत्यमेतच्छ्रुतेर्वचः । द्वितीयस्तु तथा शौचं दया पादस्तृतीयकः ॥ 14॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,14,3899,दानं पादश्चतुर्थश्च पुराणज्ञा वदन्ति वै । तैर्विहीनः कथं धर्मस्तिष्ठेदिह सुसम्मतः ॥ 15॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,15,3900,धर्महीनं कृतं कर्म कथं तत्फलदं भवेत् । धर्मे स्थिरा मतिः क्वापि न कस्यापि प्रतीयते ॥ 16॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,16,3901,छलार्थञ्च यदा विष्णुर्वामनोऽभूज्जगत्प्रभुः । येन वामनरूपेण वञ्चितोऽसौ बलिर्नृपः ॥ 17॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,17,3902,विहर्ता शतयज्ञस्य वेदाज्ञापरिपालकः । धर्मिष्ठो दानशीलश्च सत्यवादी जितेन्द्रियः ॥ 18॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,18,3903,स्थानात्प्रभ्रंशितोऽकस्माद्विष्णुना प्रभविष्णुना । जितं केन तयोः कृष्ण बलिना वामनेन वा ॥ 19॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,19,3904,छलकर्मविदा चायं सन्देहोऽत्र महान्मम । वञ्चयित्वा वञ्चितेन सत्यं वद द्विजोत्तम ॥ 20॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,20,3905,पुराणकर्ता त्वमसि धर्मज्ञश्च महामतिः । व्यास उवाच । जितं वै बलिना राजन् दत्ता येन च मेदिनी ॥ 21॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,21,3906,त्रिविक्रमोऽपि नाम्ना यः प्रथितो वामनोऽभवत् । छलनार्थमिदं राजन्वामनत्वं नराधिप ॥ 22॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,22,3907,सम्प्राप्तं हरिणा भूयो द्वारपालत्वमेव च । सत्यादन्यतरन्नास्ति मूलं धर्मस्य पार्थिव ॥ 23॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,23,3908,दुःसाध्यं देहिनां राजन्सत्यं सर्वात्मना किल । माया बलवती भूप त्रिगुणा बहुरूपिणी ॥ 24॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,24,3909,ययेदं निर्मितं विश्वं गुणैः शबलितं त्रिभिः । तस्माच्छलवता सत्यं कुतोऽविद्धं भवेन्नृप ॥ 25॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,25,3910,मिश्रेण जनिता चैव स्थितिरेषा सनातनी । वैखानसाश्च मुनयो निःसङ्गा निष्प्रतिग्रहाः ॥ 26॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,26,3911,सत्ययुक्ता भवन्त्यत्र वीतरागा गतस्पृहाः । दृष्टान्तदर्शनार्थाय निर्मितास्ते च तादृशाः ॥ 27॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,27,3912,अन्यत्सर्वं शबलितं गुणैरेभिस्त्रिभिनृप । नैकं वाक्यं पुराणेषु वेदेषु नृपसत्तम ॥ 28॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,28,3913,धर्मशास्त्रेषु चाङ्गेषु सगुणै रचितेष्विह । सगुणः सगुणं कुर्यान्निर्गुणो न करोति वै ॥ 29॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,29,3914,गुणास्ते मिश्रिताः सर्वे न पृथग्भावसङ्गताः । निर्व्यलीके स्थिरे धर्मे मतिः कस्यापि न स्थिरा ॥ 30॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,30,3915,भवोद्भवे महाराज मायया मोहितस्य वै । इन्द्रियाणि प्रमाथीनि तदासक्तं मनस्तथा ॥ 31॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,31,3916,करोति विविधान्भावान्गुणैस्तैः प्रेरितो भृशम् । ब्रह्मादिस्तम्बपर्यन्ताः प्राणिनः स्थिरजङ्गमाः ॥ 32॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,32,3917,सर्वे मायावशा राजन् सानुक्रीडति तैरिह । सर्वान्वै मोहयत्येषा विकुर्वत्यनिशं जगत् ॥ 33॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,33,3918,असत्यो जायते राजन्कार्यवान्प्रथमं नरः । इन्द्रियार्थांश्चिन्तयानो न प्राप्नोति यदा नरः ॥ 34॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,34,3919,तदर्थं छलमादत्ते छलात्पापे प्रवर्तते । कामः क्रोधश्च लोभश्च वैरिणो बलवत्तराः ॥ 35॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,35,3920,कृताकृतं न जानन्ति प्राणिनस्तद्वशं गताः । विभवे सत्यहङ्कारः प्रबलः प्रभवत्यपि ॥ 36॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,36,3921,अहङ्काराद्भवेन्मोहो मोहान्मरणमेव च । सङ्कल्पा बहवस्तत्र विकल्पाः प्रभवन्ति च ॥ 37॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,37,3922,ईर्ष्यासूया तथा द्वेषः प्रादुर्भवति चेतसि । आशा तृष्णा तथा दैन्यं दम्भोऽधर्ममतिस्तथा ॥ 38॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,38,3923,प्राणिनां प्रभवन्त्येते भावा मोहसमुद्भवाः । यज्ञदानानि तीर्थानि व्रतानि नियमास्तथा ॥ 39॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,39,3924,अहङ्काराभिभूतस्तु करोति पुरुषोऽन्वहम् । अहम्भावकृतं सर्वं प्रभवेद्वै न शौचवत् ॥ 40॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,40,3925,रागलोभात्कृतं कर्म सर्वाङ्गं शुद्धिवर्जितम् । प्रथमं द्रव्यशुद्धिश्च द्रष्टव्या विबुधैः किल ॥ 41॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,41,3926,अद्रोहेणार्जितं द्रव्यं प्रशस्तं धर्मकर्मणि । द्रोहार्जितेन द्रव्येण यत्करोति शुभं नरः ॥ 42॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,42,3927,विपरीतं भवेत्तत्तु फलकाले नृपोत्तम । मनोऽतिनिर्मलं यस्य स सम्यक्फलभाग्भवेत् ॥ 43॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,43,3928,तस्मिन्विकारयुक्ते तु न यथार्थफलं लभेत् । कर्तारः कर्मणां सर्वे आचार्यऋत्विजादयः ॥ 44॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,44,3929,स्युस्ते विशुद्धमनसस्तदा पूर्णं भवेत्फलम् । देशकालक्रियाद्रव्यकर्तॄणां शुद्धता यदि ॥ 45॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,45,3930,मन्त्राणां च तदा पूर्णं कर्मणां फलमश्नुते । शत्रूणां नाशमुद्दिश्य स्ववृद्धिं परमां तथा ॥ 46॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,46,3931,करोति सुकृतं तद्वद्विपरीतं भवेत्किल । स्वार्थासक्तः पुमान्नित्यं न जानाति शुभाशुभम् ॥ 47॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,47,3932,दैवाधीनः सदा कुर्यात्पापमेव न सत्कृतम् । प्राजापत्याः सुराः सर्वे ह्यसुराश्च तदुद्भवाः ॥ 48॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,48,3933,सर्वे ते स्वार्थनिरताः परस्परविरोधिनः । सत्त्वोद्भवाः सुराः सर्वेऽप्युक्ता वेदेषु मानुषाः ॥ 49॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,49,3934,रजोद्भवास्तामसास्तु तिर्यञ्चः परिकीर्तिताः । सत्त्वोद्भवानां तैर्वैरं परस्परमनारतम् ॥ 50॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,50,3935,तिरश्चामत्र किं चित्रं जातिवैरसमुद्भवे । सदा द्रोहपरा देवास्तपोविघ्नकरास्तथा ॥ 51॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,51,3936,असन्तुष्टा द्वेषपराः परस्परविरोधिनः । अहङ्कारसमुद्भूतः संसारोऽयं यतो नृप ॥ 52॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,52,3937,रागद्वेषविहीनस्तु स कथं जायते नृप ॥ 53॥ 4,४.४,चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।,53,3938,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे अधमजगतः स्थितिवर्णनं नाम चतुर्थोऽध्यायः ॥ ४.४॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,0,3939,व्यास उवाच । अथ किं बहुनोक्तेन संसारेऽस्मिन्नृपोत्तम । धर्मात्माद्रोहबुद्धिस्तु कश्चिद्भवति कर्हिचित् ॥ 1॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,1,3940,रागद्वेषावृतं विश्वं सर्वं स्थावरजङ्गमम् । आद्ये युगेऽपि राजेन्द्र किमद्य कलिदूषिते ॥ 2॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,2,3941,देवाः सेर्ष्याश्च सद्रोहाश्छलकर्मरताः सदा । मानुषाणां तिरश्चां च का वार्ता नृप गण्यते ॥ 3॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,3,3942,द्रोहपरे द्रोहपरो भवेदिति समानता । अद्रोहिणि तथा शान्ते विद्वेषः खलता स्मृता ॥ 4॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,4,3943,यः कश्चित्तापसः शान्तो जपध्यानपरायणः । भवेत्तस्य जपे विघ्नकर्ता वै मघवा परम् ॥ 5॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,5,3944,सतां सत्ययुगं साक्षात्सर्वदैवासतां कलिः । मध्यमो मध्यमानां तु क्रियायोगौ युगे स्मृतौ ॥ 6॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,6,3945,कश्चित्कदाचिद्भवति सत्यधर्मानुवर्तकः । अन्यथान्ययुगानां वै सर्वे धर्मपरायणाः ॥ 7॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,7,3946,वासना कारणं राजन् सर्वत्र धर्मसंस्थितौ । तस्यां वै मलिनायां तु धर्मोऽपि मलिनो भवेत् ॥ 8॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,8,3947,मलिना वासना सत्यं विनाशायेति सर्वथा । ब्रह्मणो हृदयाज्जातः पुत्रो धर्म इति स्मृतः ॥ 9॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,9,3948,ब्राह्मणः सत्यसम्पन्नो वेदधर्मरतः सदा । दक्षस्य दुहितारो हि वृता दश महात्मना ॥ 10॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,10,3949,विवाहविधिना सम्यङ्मुनिना गृहधर्मिणा । तास्वजीजनयत्पुत्रान्धर्मः सत्यवतां वरः ॥ 11॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,11,3950,हरिं कृष्णं नरं चैव तथा नारायणं नृप । योगाभ्यासरतो नित्यं हरिः कृष्णो बभूव ह ॥ 12॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,12,3951,नरनारायणौ चैव चेरतुस्तप उत्तमम् । प्रालेयाद्रिं समागत्य तीर्थे बदरिकाश्रमे ॥ 13॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,13,3952,तपस्विषु धुरीणौ तौ पुराणौ मुनिसत्तमौ । गृणन्तौ तत्परं ब्रह्म गङ्गाया विपुले तटे ॥ 14॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,14,3953,हरेरंशौ स्थितौ तत्र नरनारायणावृषी । पूर्णं वर्षसहस्रं तु चक्राते तप उत्तमम् ॥ 15॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,15,3954,तापितं च जगत्सर्वं तपसा सचराचरम् । नरनारायणाभ्यां च शक्रः क्षोभं तदा ययौ ॥ 16॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,16,3955,चिन्ताविष्टः सहस्राक्षो मनसा समकल्पयत् । किं कर्तव्यं धर्मपुत्रौ तापसौ ध्यानसंयुतौ ॥ 17॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,17,3956,सिद्धार्थां सुभृशं श्रेष्ठमासनं मे ग्रहीष्यतः । विघ्नः कथं प्रकर्तव्यस्तपो येन भवेन्न हि ॥ 18॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,18,3957,उत्पाद्य कामं क्रोधञ्च लोभं वाप्यतिदारुणम् । इत्युद्दिश्य सहस्राक्षः समारुह्य गजोत्तमम् ॥ 19॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,19,3958,विघ्नकामस्तु तरसा जगाम गन्धमादनम् । गत्वा तत्राश्रमे पुण्ये तावपश्यच्छतक्रतुः ॥ 20॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,20,3959,तपसा दीप्तदेहौ तु भास्कराविव चोदितौ । ब्रह्मविष्णू किमेतौ वै प्रकटौ वा विभावसू ॥ 21॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,21,3960,धर्मपुत्रावृषी एतौ तपसा किं करिष्यतः । इति सञ्चिन्त्य तौ दृष्ट्वा तदोवाच शचीपतिः ॥ 22॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,22,3961,किं वा कार्यं महाभागौ ब्रूतं धर्मसुतौ किल । ददामि वां वरं श्रेष्ठं दातुं यातोऽस्म्यहमृषी ॥ 23॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,23,3962,अदेयमपि दास्यामि तुष्टोऽस्मि तपसा किल । व्यास उवाच । एवं पुनः पुनः शक्रस्तावुवाच पुरः स्थितः ॥ 24॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,24,3963,नोचतुस्तावृषी ध्यानसंस्थितौ दृढचेतसौ । ततो वै मोहिनीं मायां चकार भयदां वृषः ॥ 25॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,25,3964,वृकान्सिंहांश्च व्याघ्रांश्च समुत्पाद्याबिभीषयत् । वर्षं वातं तथा वह्निं समुत्पाद्य पुनः पुनः ॥ 26॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,26,3965,भीषयामास तौ शक्रो मायां कृत्वा विमोहिनीम् । भयतोऽपि वशं नीतौ न तौ धर्मसुतौ मुनी ॥ 27॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,27,3966,नरनारायणौ दृष्ट्वा शक्रः स्वभवनं गतः । वरदाने प्रलुब्धौ न न भीतौ वह्निवायुतः ॥ 28॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,28,3967,व्याघ्रसिंहादिभिः कान्तौ चलितौ नाश्रमात्स्वकात् । न तयोर्ध्यानभङ्गं वै कर्तुं कोऽपि क्षमोऽभवत् ॥ 29॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,29,3968,इन्द्रोऽपि सदनं गत्वा चिन्तयामास दुःखितः । चलितौ भयलोभाभ्यां नेमौ मुनिवरोत्तमौ ॥ 30॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,30,3969,चिन्तयन्तौ महाविद्यामादिशक्तिं सनातनीम् । ईश्वरीं सर्वलोकानां परां प्रकृतिमद्भुताम् ॥ 31॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,31,3970,ध्यायतां कः क्षमो लोके बहुमायाविदप्युत । यन्मूलाः सकला माया देवासुरकृताः किल ॥ 32॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,32,3971,ते कथं बाधितुं शक्ता ध्यायन्ति गतकल्मषाः । वाग्बीजं कामबीजञ्च मायाबीजं तथैव च ॥ 33॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,33,3972,चित्ते यस्य भवेत्तं तु बाधितुं कोऽपि न क्षमः । मायया मोहितः शक्रो भूयस्तस्य प्रतिक्रियाम् ॥ 34॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,34,3973,कर्तुं कामवसन्तौ तु समाहूयाब्रवीद्वचः । मनोभव वसन्तेन रत्या युक्तो व्रजाधुना ॥ 35॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,35,3974,अप्सरोभिः समायुक्तस्तरसा गन्धमादनम् । नरनारायणौ तत्र पुराणावृषिसत्तमौ ॥ 36॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,36,3975,कुरुतस्तप एकान्ते स्थितौ बदरिकाश्रमे । गत्वा तत्र समीपे तु तयोर्मन्मथ मार्गणैः ॥ 37॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,37,3976,चित्तं कामातुरं कार्यं कुरु कार्यं ममाधुना । मोहयित्वोच्चाटयित्वा विशिखैस्ताडयाशु च ॥ 38॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,38,3977,वशीकुरु महाभाग मुनी धर्मसुतावपि । को ह्यस्मिन् सर्वसंसारे देवो दैत्योऽथ मानवः ॥ 39॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,39,3978,यस्ते बाणवशं प्राप्तो न याति भृशताडितः । ब्रह्माहं गिरिजानाथश्चन्द्रो वह्निर्विमोहितः ॥ 40॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,40,3979,गणना कानयोः काम त्वद्बाणानां पराक्रमे । वाराङ्गनागणोऽयं ते सहायार्थं मयेरितः ॥ 41॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,41,3980,आगमिष्यति तत्रैव रम्भादीनां मनोरमः । एका तिलोत्तमा रम्भा कार्यं साधयितुं क्षमा ॥ 42॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,42,3981,त्वमेवैकः क्षमः कामं मिलितैः कस्तु संशयः । कुरु कार्यं महाभाग ददामि तव वाञ्छितम् ॥ 43॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,43,3982,प्रलोभितौ मयात्यर्थं वरदानैस्तपस्विनौ । स्थानान्न चलितौ शान्तौ वृथायं मे गतः श्रमः ॥ 44॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,44,3983,तथा वै मायया कृत्वा भीषितौ तापसौ भृशम् । तथापि नोत्थितौ स्थानाद्देहरक्षापरौ न तौ ॥ 45॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,45,3984,व्यास उवाच । इति तस्य वचः श्रुत्वा शक्रं प्राह मनोभवः । वासवाद्य करिष्यामि कार्यं ते मनसेप्सितम् ॥ 46॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,46,3985,यदि विष्णुं महेशं वा ब्रह्माणं वा दिवाकरम् । ध्यायन्तौ तौ तदास्माकं भवितारौ वशौ मुनी ॥ 47॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,47,3986,देवीभक्तं वशीकर्तुं नाहं शक्तः कथञ्चन । कामराज महाबीजं चिन्तयन्तं मनस्यलम् ॥ 48॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,48,3987,तां देवीं चेन्महाशक्तिं संश्रितौ भक्तिभावतः । न तदा मम बाणानां गोचरौ तापसौ किल ॥ 49॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,49,3988,इन्द्र उवाच । गच्छ त्वं च महाभाग सर्वैस्तत्र समुद्यतैः । कार्यं ममातिदुःसाध्यं कर्ता हितमनुत्तमम् ॥ 50॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,50,3989,व्यास उवाच । इति तेन समादिष्टा ययुः सर्वे समुद्यताः । यत्र तौ धर्मपुत्रौ द्वौ तेपाते दुष्करं तपः ॥ 51॥ 4,४.५,पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।,51,3990,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे नरनारायणकथावर्णनं नाम पञ्चमोऽध्यायः ॥ ४.५॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,0,3991,व्यास उवाच । प्रथमं तत्र सम्प्राप्तो वसन्तः पर्वतोत्तमे । पुष्पिताः पादपाः सर्वे द्विरेफालिविराजिताः ॥ 1॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,1,3992,आम्राश्च बकुला रम्यास्तिलकाः किंशुकाः शुभा । सालास्तालास्तमालाश्च मधूकाः पुष्पिता बभुः ॥ 2॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,2,3993,बभूवुः कोकिलालापा वृक्षाग्रेषु मनोहराः । वल्ल्योऽपि पुष्पिताः सर्वा आलिलिङ्गुर्नगोत्तमान् ॥ 3॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,3,3994,प्राणिनः स्वासु भार्यासु प्रेमयुक्ताः स्मरातुराः । बभूवुश्चातिमत्ताश्च क्रीडासक्ताः परस्परम् ॥ 4॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,4,3995,ववुर्मन्दाः सुगन्धाश्च सुस्पर्शा दक्षिणानिलाः । इन्द्रियाणि प्रमाथीनि मुनीनामपि चाभवन् ॥ 5॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,5,3996,रतियुक्तस्ततः कामः पूरयन्पञ्चमार्गणान् । चकार त्वरितस्तत्र वासं बदरिकाश्रमे ॥ 6॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,6,3997,रम्भा तिलोत्तमाद्याश्च गत्वा तत्र वराश्रमे । गानं चकुः सुगीतज्ञाः स्वरतानसमन्वितम् ॥ 7॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,7,3998,तच्छ्रुत्वा मधुरोद्गीतं कोकिलानाञ्च कूजितम् । भ्रमरालिविरावञ्च प्रबुद्धौ तौ मुनीश्वरौ ॥ 8॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,8,3999,ऋतुराजमकाले तु दृष्ट्वा तौ पुष्पितं वनम् । जातौ चिन्तापरौ तत्र नरनारायणावृषी ॥ 9॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,9,4000,किमद्य शिशिरापायः सम्भृतः समयं विना । प्राणिनो विह्वलाः सर्वे लक्ष्यन्तेऽतिस्मरातुराः ॥ 10॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,10,4001,कालधर्मविपर्यासः कथमद्य दुरासदः । नरं नारायणः प्राह विस्मयोत्कुल्ललोचनः ॥ 11॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,11,4002,नारायण उवाच । पश्य भ्रातरिमे वृक्षाः पुष्पिताः प्रतिभान्ति वै । कोकिलालापसङ्घुष्टा भ्रमरालिविराजिताः ॥ 12॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,12,4003,शिशिरं भीममातङ्गं दारयन्स्वखरैर्नखैः । वसन्तकेसरी प्राप्तः पलाशकुसुमैर्मुने ॥ 13॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,13,4004,रक्ताशोककरा तन्वी देवर्षे किंशुकाङ्घ्रिका । नीलाशोककचा श्यामा विकासिकमलानना ॥ 14॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,14,4005,नीलेन्दीवरनेत्रा सा बिल्ववृक्षफलस्तनी । प्रोस्फुल्लकुन्दरदना मञ्जरीकर्णशोभिता ॥ 15॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,15,4006,बन्धुजीवाधरा शुभ्रा सिन्धुवारनखोद्भवा । पुंस्कोकिलस्वरा पुण्या कदम्बवसना शुभा ॥ 16॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,16,4007,बर्हिवृन्दकलापा च सारसस्वननूपुरा । वासन्ती बद्धरशना मत्तहंसगतिस्तथा ॥ 17॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,17,4008,पुत्रजीवांशुकन्यस्तरोमराजिविराजिता । वसन्तलक्ष्मीः सम्प्राप्ता ब्रह्मन् बदरिकाश्रमे ॥ 18॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,18,4009,अकाले किमियं प्राप्ता विस्मयोऽयं ममाधुना । तपोविघ्नकरा नूनं देवर्षे परिचिन्तय ॥ 19॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,19,4010,श्रूयते सुरनारीणां गानं ध्यानविनाशनम् । आवयोस्तपिभङ्गाय कृतं मघवता किल ॥ 20॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,20,4011,ऋतुराडन्यथाकाले प्रीतिं सञ्जनयेत्कथम् । विघ्नोऽयं विहितो भाति भीतेनासुरशत्रुणा ॥ 21॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,21,4012,वाताः सुगन्धाः शीताश्च समायान्ति मनोहराः । नान्यत्कारणमस्तीह शतक्रतुकृतिं विना ॥ 22॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,22,4013,इति ब्रुवति विप्राग्र्ये देवे नारायणे विभौ । सर्वे दृष्टिपथं प्राप्ता मन्मथप्रमुखास्तदा ॥ 23॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,23,4014,ददर्श भगवान्सर्वान्नरो नारायणस्तथा । विस्मयाविष्टमनसौ बभूवतुरुभावपि ॥ 24॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,24,4015,मन्मथं मेनकां चैव रम्भां चैव तिलोत्तमाम् । पुष्पगन्धां सुकेशीं च महाश्वेतां मनोरमाम् ॥ 25॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,25,4016,प्रमद्वरां धृताचीञ्च गीतज्ञां चारुहासिनीम् । चन्द्रप्रभां च सोमां च कोकिलालापमण्डिताम् ॥ 26॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,26,4017,विद्युन्मालाम्बुजाक्ष्यौ च तथा काञ्चनमालिनीम् । एताश्चान्या वरारोहा दृष्टास्ताभ्यां तदान्तिके ॥ 27॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,27,4018,तासां द्व्यष्टसहस्राणि पञ्चाशदधिकानि च । वीक्ष्य तौ विस्मितौ जातौ कामसैन्यं सुविस्तरम् ॥ 28॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,28,4019,प्रणम्याग्रे स्थिताः सर्वा देववाराङ्गनास्तदा । दिव्याभरणभूषाढ्या दिव्यमालोपशोभिताः ॥ 29॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,29,4020,जगुश्छलेन ताः सर्वाः पृथिव्यामतिदुर्लभम् । तत्तथावस्थितं दिव्यं मन्मथादिविवर्धनम् ॥ 30॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,30,4021,शुश्राव भगवान्विष्णुर्नरो नारायणस्तदा । श्रुत्वा प्रोवाच तास्तत्र प्रीत्या नारायणो मुनिः ॥ 31॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,31,4022,आस्यतां सुखमत्रैव करोम्यातिथ्यमद्भुतम् । भवत्योऽतिथिधर्मेण प्राप्ताःस्वर्गात्सुमध्यमाः ॥ 32॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,32,4023,व्यास उवाच । साभिमानस्तु सञ्चातस्तदा नारायणो मुनिः । इन्द्रेण प्रेषिता नूनं तथा विघ्नचिकीर्षया ॥ 33॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,33,4024,वराक्यः का इमाः सर्वाः सृजाम्यद्य नवाः किल । एताभ्यो दिव्यरूपाश्च दर्शयामि तपोबलम् ॥ 34॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,34,4025,इति सञ्चिन्त्य मनसा करेणोरुं प्रताड्य वै । तरसोत्पादयामास नारीं सर्वाङ्गसुन्दरीम् ॥ 35॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,35,4026,नारायणोरुसम्भूता ह्युर्वशीति ततः शुभा । ददृशुस्ताः स्थितास्तत्र विस्मयं परमं ययुः ॥ 36॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,36,4027,तासां च परिचर्यार्थं तावतीश्चातिसुन्दरीः । प्रादुश्चकार तरसा तदा मुनिरसम्भ्रमः ॥ 37॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,37,4028,गायन्त्यश्च हसन्त्यश्च नानोपायनपाणयः । प्रणेमुस्ता मुनी सर्वाः स्थिताः कृत्वाञ्जलिं पुरः ॥ 38॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,38,4029,तां वीक्ष्य विभ्रमकरीं तपसो विभूतिम् ॥ देवाङ्गना हि मुमुहुः प्रविमोहयन्त्यः । ऊचुश्च तौ प्रमुदिताननपद्यशोभा रोमोद्गमोल्लसितचारुनिजाङ्गवल्ल्यः ॥ 39॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,39,4030,कुर्युः कथं स्तुतिमहो तपसो महत्त्वं धैर्यं तथैव भवतामभिवीक्ष्य बालाः । अस्मत्कटाक्षविषदिग्धशरेण दग्धः को वा न तत्र भवतां मनसो व्यथा न ॥ 40॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,40,4031,ज्ञातौ युवां नरहरेः परमांशभूतौ देवौ मुनी शमदमादिनिधी सदैव । सेवानिमित्तमिह नो गमनं न कामं कार्यं हरेः शतमखस्य विधातुमेव ॥ 41॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,41,4032,भाग्येन केन युवयोः किल दर्शनं नः सम्पादितं न विदितं खलु सञ्चितं तत् । चित्तं क्षमं निजजने विहितं युवाभ्या- मस्मद्विधे किल कृतागसि तापमुक्तम् ॥ 42॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,42,4033,कुर्वन्ति नैव विबुधास्तपसो व्ययं वै शापेन तुच्छफलदेन महानुभावाः । व्यास उवाच । इत्थं निशम्य वचनं सुरकामिनीनां तावूचतुर्मुनिवरौ विनयानतानाम् ॥ 43॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,43,4034,प्रीतौ प्रसन्नवदनौ जितकामलोभौ धर्मात्मजौ निजतपोरुचिशोभिताङ्गौ । नरनारायणावूचतुः ब्रुवन्तु वाञ्छितान् कामान्ददावस्तुष्टमानसौ ॥ 44॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,44,4035,यान्तु स्वर्गं गहीत्वेमामुर्वशीं चारुलोचनाम् । उपायनमियं बाला गच्छत्वद्य मनोहरा ॥ 45॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,45,4036,दत्तावाभ्यां मघवतः प्रीणनायोरुसम्भवा । स्वस्त्यस्तु सर्वदेवेभ्यो यथेष्टं प्रव्रजन्तु च ॥ 46॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,46,4037,(न कस्यापि तपोविघ्नं प्रकर्तव्यमतः परं ।)॥ देव्य ऊचुः । क्व गच्छामो महाभाग प्राप्तास्ते पादपङ्कजम् । नारायण सुरश्रेष्ठ भक्त्या परमया मुदा ॥ 47॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,47,4038,वाञ्छितं चेद्वरं नाथ ददासि मधुसूदन । तुष्टः कमलपत्राक्ष ब्रवीमो मनसेप्सितम् ॥ 48॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,48,4039,पतिस्त्वं भव देवेश वरमेनं परन्तप । भवामः प्रीतियुक्तास्त्वां सेवितुं जगदीश्वर ॥ 49॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,49,4040,त्वया चोत्पादिता नार्यः सन्त्यन्याश्चारुलोचनाः । उर्वश्याद्यास्तथा यान्तु स्वर्गं वै भवदाज्ञया ॥ 50॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,50,4041,स्त्रीणां षोडशसाहस्रं तिष्ठत्वत्र शतार्धकम् । सेवां तेऽत्र करिष्यामो युवयोस्तापसोत्तमौ ॥ 51॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,51,4042,वाञ्छितं देहि देवेश सत्यवाग्भव माधव । आशाभङ्गो हि नारीणां हिंसनं परिकीर्तितम् ॥ 52॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,52,4043,कामार्तानाञ्च मुनिभिर्धर्मज्ञैस्तत्त्वदर्शिभिः । भाग्ययोगादिह प्राप्ताः स्वर्गात्प्रेमपरिप्लुताः ॥ 53॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,53,4044,त्यक्तुं नार्हसि देवेश समर्थोऽसि जगत्पते । नारायण उवाच । पूर्णं वर्षसहस्रं तु तपस्तप्तं मयात्र वै ॥ 54॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,54,4045,जितेन्द्रियेण चार्वङ्ग्यः कथं भङ्गं करोम्यतः । नेच्छा कामे सुखे काचित्सुखधर्मविनाशके ॥ 55॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,55,4046,पशूनामपि साधर्म्ये रमेत मतिमान्कथम् । अप्सरस ऊचुः । शब्दादीनां च पञ्चानां मध्ये स्पर्शसुखं वरम् ॥ 56॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,56,4047,आनन्दरसमूलं वै नान्यदस्ति सुखं किल । अतोऽस्माकं महाराज वचनं कुरु सर्वथा ॥ 57॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,57,4048,निर्भरं सुखमासाद्य चरस्व गन्धमादने । यदि वाञ्छसि नाकत्वं नाधिको गन्धमादनात् ॥ 58॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,58,4049,रमस्वात्र शुभे स्थाने प्राप्य सर्वाः सुराङ्गनाः ॥ 59॥ 4,४.६,षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।,59,4050,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे अप्सरसां नारायणसमीपे प्रार्थनाकरणं नाम षष्ठोऽध्यायः ॥ ४.६॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,0,4051,व्यास उवाच । इत्याकर्ण्य वचस्तासां धर्मपुत्रः प्रतापवान् । विमर्शमकरोच्चित्ते किं कर्तव्यं मयाधुना ॥ 1॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,1,4052,हास्योऽहं मुनिवृन्देषु भविष्याम्यद्य सङ्गमात् । अहङ्कारादिदं प्राप्तं दुःखं नात्र विचारणा । मूलं धर्मविनाशस्य प्रथमं यदहङ्कृतिः ॥ 2॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,2,4053,मूलं संसारवृक्षस्य यतः प्रोक्तो महात्मभिः । दृष्ट्वा मौनं समाधाय न स्थितोऽहं समागतम् ॥ 3॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,3,4054,वाराङ्गनागणं जुष्टं तेनासं दुःखभाजनम् । उत्पादितास्तथा नार्यो मया धर्मव्ययेन वै ॥ 4॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,4,4055,तास्तु मां बाधितुं वृत्ताः कामार्ताः प्रमदोत्तमाः । ऊर्णनाभिरिवाद्याहं जालेन स्वकृतेन वै ॥ 5॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,5,4056,बद्धोऽस्मि सुदृढेनात्र किं कर्तव्यमतः परम् । यदि चिन्तां समुत्सृज्य सन्त्यजाम्यबला इमाः ॥ 6॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,6,4057,शप्त्वा भ्रष्टा व्रजिष्यन्ति सर्वा भग्नमनोरथाः । मुक्तोऽहं सञ्चरिष्यामि विजने परमं तपः ॥ 7॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,7,4058,तस्मात्क्रोधं समुत्पाद्य त्यक्ष्यामि सुन्दरीगणम् । व्यास उवाच । इति सञ्चिन्त्य मनसा मुनिर्नारायणस्तदा ॥ 8॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,8,4059,विमर्शमकरोच्चित्ते सुखोत्पादनसाधने । द्वितीयोऽयं महाशत्रुः क्रोधः सन्तापकारकः ॥ 9॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,9,4060,कामादप्यधिको लोके लोभादपि च दारुणः । क्रोधाभिभूतः कुरुते हिंसां प्राणविघातिनीम् ॥ 10॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,10,4061,दुःखदां सर्वभूतानां नरकारामदीर्घिकाम् । यथाग्निर्घर्षणाज्जातः पादपं प्रदहेत्तथा ॥ 11॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,11,4062,देहोत्पन्नस्तथा क्रोधो देहं दहति दारुणः । व्यास उवाच । इति सञ्चिन्त्यमानं तं भ्रातरं दीनमानसम् ॥ 12॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,12,4063,उवाच वचनं तथ्यं नरो धर्मसुतोऽनुजः । नर उवाच । नारायण महाभाग कोपं यच्छ महामते ॥ 13॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,13,4064,शान्तं भावं समाश्रित्य नाशयाहङ्कृतिं पराम् । पुराहङ्कारदोषेण तपो नष्टं किलावयोः ॥ 14॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,14,4065,सङ्ग्रामश्चाभवत्ताभ्यां भावाभ्यामसुरेण ह । दिव्यवर्षसहस्रं तु प्रह्लादेन महाद्भुतम् ॥ 15॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,15,4066,दुःखं बहुतरं प्राप्तं तत्रावाभ्यां सुरोत्तम । तस्मात्क्रोधं परित्यज्य शान्तो भव मुनीश्वर ॥ 16॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,16,4067,(शान्तत्वं तपसो मूलं मुनिभिः परिकीर्तितं ।)॥ व्यास उवाच । इति तस्य वचः श्रुत्वा शान्तोऽभूद्धर्मनन्दनः । जनमेजय उवाच । संशयोऽयं मुनिश्रेष्ठ प्रह्लादेन महात्मना ॥ 17॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,17,4068,विष्णुभक्तेन शान्तेन कथं युद्धं कृतं पुरा । कृतवन्तौ कथं युद्धं नरनारायणावृषी ॥ 18॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,18,4069,तापसौ धर्मपुत्रौ द्वौ सुशान्तमानसावुभौ । समागमः कथं जातस्तयोर्दैत्यसुतस्य च ॥ 19॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,19,4070,सङ्ग्रामस्तु कथं ताभ्यां कृतस्तेन महात्मना । प्रह्लादोऽप्यतिधर्मात्मा ज्ञानवान्विष्णुतत्परः ॥ 20॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,20,4071,नरनारायणौ तद्वत्तापसौ सत्त्वसंस्थितौ । तेन ताभ्यां समुद्भूतं वैरं यदि परस्परम् ॥ 21॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,21,4072,तदा तपसि धर्मे च श्रम एव हि केवलम् । क्व जपः क्व तपश्चर्या पुरा सत्ययुगेऽपि च ॥ 22॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,22,4073,तादृशैर्न जितं चित्तं क्रोधाहङ्कारसंवृतम् । न क्रोधो न च मात्सर्यमहङ्काराङ्कुरं विना ॥ 23॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,23,4074,अहङ्कारात्समुत्पन्नाः कामक्रोधादयः किल । वर्षकोटिसहस्रं तु तपः कृत्वातिदारुणम् ॥ 24॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,24,4075,अहङ्काराङ्कुरे जाते व्यर्थं भवति सर्वथा । यथा सूर्योदये जाते तमोरूपं न तिष्ठति ॥ 25॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,25,4076,अहङ्काराङ्कुरस्याग्रे तथा पुण्यं न तिष्ठति । प्रह्लादोऽपि महाभाग हरिणा समयुध्यत ॥ 26॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,26,4077,तदा व्यर्थं कृतं सर्वं सुकृतं किल भूतले । नरनारायणौ शान्तौ विहाय परमं तपः ॥ 27॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,27,4078,कृतवन्तौ यदा युद्धं क्व शमः सुकृतं पुनः । ईदृग्भ्यां सत्त्वयुक्ताभ्यामजेया यद्यहङ्कृतिः ॥ 28॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,28,4079,मादृशानाञ्ज का वार्ता मुनेऽहङ्कारसङ्क्षये । अहङ्कारपरित्यक्तो न कोऽप्यस्ति जगत्त्रये ॥ 29॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,29,4080,न भूतो भविता नैव यस्त्यक्तस्तेन सर्वथा । मुच्यते लोहनिगडैर्बद्धः काष्ठमयैस्तथा ॥ 30॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,30,4081,अहङ्कारनिबद्धस्तु न कदाचिद्विमुच्यते । अहङ्कारावृतं सर्वं जगत्स्थावरजङ्गमम् ॥ 31॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,31,4082,भ्रमत्येव हि संसारे विष्ठामूत्रप्रदूषिते । ब्रह्मज्ञानं कुतस्तावत्संसारे मोहसंवृते ॥ 32॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,32,4083,मतं मीमांसकानां वै सम्मतं भाति सुव्रत । महान्तोऽपि सदा युक्ताः कामक्रोधादिभिर्मुने ॥ 33॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,33,4084,मादृशानां कलावस्मिन्का कथा मुनिसत्तम । व्यास उवाच । कार्यं वै कारणाद्भिन्नं कथं भवति भारत ॥ 34॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,34,4085,कटकं कुण्डलञ्चैव सुवर्णसदृशं भवेत् । अहङ्कारोद्भवं सर्वं ब्रह्माण्डं सचराचरम् ॥ 35॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,35,4086,पटस्तन्तुवशः प्रोक्तस्तद्वियुक्तः कथं भवेत् । मायागुणैस्त्रिभिः सर्वं रचितं स्थिरजङ्गमम् ॥ 36॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,36,4087,सतृणस्तम्बपर्यन्तं का तत्र परिदेवना । ब्रह्मा विष्णुस्तथा रुद्रस्ते चाहङ्कारमोहिताः ॥ 37॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,37,4088,भ्रमन्त्यस्मिन्महागाधे संसारे नृपसत्तम । वसिष्ठनारदाद्याश्च मुनयो ज्ञानिनः परम् ॥ 38॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,38,4089,तेऽभिभूताः संसरन्ति संसारेऽस्मिन्पुनः पुनः । न कोऽप्यस्ति नृपश्रेष्ठ त्रिषु लोकेषु देहभृत् ॥ 39॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,39,4090,एभिर्मायागुणैर्मुक्तः शान्त आत्मसुखे स्थितः । कामक्रोधौ तथा लोभो मोहोऽहङ्कारसम्भवः ॥ 40॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,40,4091,न मुञ्चन्ति नरं सर्वं देहवन्तं नृपोत्तम । अधीत्य वेदशास्त्राणि पुराणानि विचिन्त्य च ॥ 41॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,41,4092,कृत्वा तीर्थाटनं दानं ध्यानञ्चैव सुरार्चनम् । करोति विषयासक्तः सर्वं कर्म च चौरवत् ॥ 42॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,42,4093,विचारयति नो पूर्वं काममोहमदान्वितः । कृते युगेऽपि त्रेतायां द्वापरे कुरुनन्दन ॥ 43॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,43,4094,विद्धोऽत्रास्ति च धर्मोऽपि का कथाद्य कलौ पुनः । स्पर्धा सदैव सद्रोहा लोभामर्षौ च सर्वदा ॥ 44॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,44,4095,एवंविधोऽस्ति संसारो नात्र कार्या विचारणा । साधवो विरला लोके भवन्ति गतमत्सराः ॥ 45॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,45,4096,जितक्रोधा जितामर्षा दृष्टान्तार्थं व्यवस्थिताः । राजोवाच । ते धन्याः कृतपुण्यास्ते मदमोहविवर्जिताः ॥ 46॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,46,4097,जितेन्द्रियाः सदाचारा जितं तैर्भुवनत्रयम् । दुनोमि पातकं स्मृत्वा पितुर्मम महात्मनः ॥ 47॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,47,4098,कृतस्तपस्विनः कण्ठे मृतसर्पो ह्यघं विना । अतस्तस्य मुनिश्रेष्ठ भविता किं ममाग्रतः ॥ 48॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,48,4099,न जाने बुद्धिसम्मोहात्किं वा कार्यं भविष्यति । मधु पश्यति मूढात्मा प्रपातं नैव पश्यति ॥ 49॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,49,4100,करोति निन्दितं कर्म नरकान्न बिभेति च । कथं युद्धं पुरा वृत्तं विस्तरात्तद्वदस्व मे ॥ 50॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,50,4101,प्रह्लादेन यथा चोग्रं नरनारायणस्य वै । प्रह्लादस्तु कथं यातः पातालात्तद्वदस्व मे ॥ 51॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,51,4102,सारस्वते महातीर्थे पुण्ये बदरिकाश्रमे । नरनारायणौ शान्तौ तापसौ मुनिसत्तमौ ॥ 52॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,52,4103,कृतवन्तौ तथा युद्धं हेतुना केन मानद । वैरं भवति वित्तार्थं दारार्थं वा परस्परम् ॥ 53॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,53,4104,एषणारहितौ कस्माच्चक्रतुः प्रधनं महत् । प्रह्लादोऽपि च धर्मात्मा ज्ञात्वा देवौ सनातनौ ॥ 54॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,54,4105,कृतवान्स कथं युद्धं नरनारायणौ मुनी । एतद्विस्तरतो ब्रह्मञ्छ्रोतुमिच्छामि कारणम् ॥ 55॥ 4,४.७,सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।,55,4106,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे अहङ्कारावर्तनवर्णनं नाम सप्तमोऽध्यायः ॥ ४.७॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,0,4107,सूत उवाच । इति पृष्टस्तदा विप्रो राज्ञा पारीक्षितेन वै । उवाच विस्तरात्सर्वं व्यासः सत्यवतीसुतः ॥ 1॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,1,4108,जनमेजयोऽपि धर्मात्मा निर्वेदं परमं गतः । चित्तं दुश्चरितं मत्वा वैराटीतनयस्य वै ॥ 2॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,2,4109,तस्यैवोद्धरणार्थाय चकार सततं मनः । विप्रावमानपापेन यमलोकं गतस्य वै ॥ 3॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,3,4110,पुन्नामनरकाद्यस्मात्त्रायते पितरं स्वकम् । पुत्रेति नाम सार्थं स्यात्तेन तस्य मुनीश्वराः ॥ 4॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,4,4111,सर्पदष्टं नृपं श्रुत्वा हर्म्योपरि मृतं तथा । विप्रशापादौत्तरेयं स्नानदानविवर्जितम् ॥ 5॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,5,4112,पितुर्गतिं निशम्यासौ निर्वेदं गतवान्नृपः । पारीक्षितो महाभागः सन्तप्तो भयविह्वलः ॥ 6॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,6,4113,पप्रच्छाथ मुनिं व्यासं गृहागतमनिन्दितः । नरनारायणस्येमां कथां परमविस्मृताम् ॥ 7॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,7,4114,व्यास उवाच । स यदा निहतो रौद्रो हिरण्यकशिपुर्नृप । अभिषिक्तस्तदा राज्ये प्रह्लादो नाम तत्सुतः ॥ 8॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,8,4115,तस्मिञ्छासति दैत्येन्द्रे देवब्राह्मणपूजके । मखैर्भूमौ नृपतयो यजन्तः श्रद्धयान्विताः ॥ 9॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,9,4116,ब्राह्मणाश्च तपोधर्मतीर्थयात्राश्च कुर्वते । वैश्याश्च स्वस्ववृत्तिस्थाः शूद्राः शुश्रूषणे रताः ॥ 10॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,10,4117,नृसिंहेन च पाताले स्थापितः सोऽथ दैत्यराट् । राज्यं चकार तत्रैव प्रजापालनतत्परः ॥ 11॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,11,4118,कदाचिद् भृगुपुत्रोऽथ च्यवनाख्यो महातपाः । जगाम नर्मदां स्नातुं तीर्थं वै व्याहृतीश्वरम् ॥ 12॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,12,4119,रेवां महानदीं दृष्ट्वा ततस्तस्यामवातरत् । उत्तरन्तं प्रजग्राह नागो विषभयङ्करः ॥ 13॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,13,4120,गृहीतो भयभीतस्तु पाताले मुनिसत्तमः । सस्मार मनसा विष्णुं देवदेवं जनार्दनम् ॥ 14॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,14,4121,संस्मृते पुण्डरीकाक्षे निर्विषोऽभून्महोरगः । न प्राप च्यवनो दुःखं नीयमानो रसातलम् ॥ 15॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,15,4122,द्विजिह्वेन मुनिस्त्यक्तो निर्विण्णेनातिशङ्किना । मां शपेत मुनिः कुद्धस्तापसोऽयं महानिति ॥ 16॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,16,4123,चचार नागकन्याभिः पूजितो मुनिसत्तमः । विवेशाप्यथ नागानां दानवानां महत्पुरम् ॥ 17॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,17,4124,कदाचिद्भृगुपुत्रं तं विचरन्तं पुरोत्तमे । ददर्श दैत्यराजोऽसौ प्रह्लादो धर्मवत्सलः ॥ 18॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,18,4125,दृष्ट्वा तं पूजयामास मुनिं दैत्यपतिस्तदा । पप्रच्छ कारणं किं ते पातालागमने वद ॥ 19॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,19,4126,प्रेषितोऽसि किमिन्द्रेण सत्यं ब्रूहि द्विजोत्तम । दैत्यविद्वेषयुक्तेन मम राज्यदिदृक्षया ॥ 20॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,20,4127,च्यवन उवाच । किं मे मघवता राजन् यदहं प्रेषितः पुनः । दूतकार्यं प्रकुर्वाणः प्राप्तवान्नगरे तव ॥ 21॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,21,4128,विद्धि मां भृगुपुत्रं तं स्वनेत्रं धर्मतत्परम् । मा शङ्कां कुरु दैत्येन्द्र वासवप्रेषितस्य वै ॥ 22॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,22,4129,स्नानार्थं नर्मदां प्राप्तः पुण्यतीर्थे नृपोत्तम । नद्यामेवावतीर्णोऽहं गृहीतश्च महाहिना ॥ 23॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,23,4130,जातोऽसौ निर्विषः सर्पो विष्णोः संस्मरणादिव । मुक्तोऽहं तेन नागेन प्रभावात्स्मरणस्य वै ॥ 24॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,24,4131,अत्रागतेन राजेन्द्र मयाप्तं तव दर्शनम् । विष्णुभक्तोऽसि दैत्येन्द्र तद्भक्तं मां विचिन्तय ॥ 25॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,25,4132,व्यास उवाच । तन्निशम्य वचः श्लक्ष्णं हिरण्यकशिपोः सुतः । पप्रच्छ परया प्रीत्या तीर्थानि विविधानि च ॥ 26॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,26,4133,प्रह्लाद उवाच । पृथिव्यां कानि तीर्थानि पुण्यानि मुनिसत्तम । पाताले च तथाकाशे तानि नो वद विस्तरात् ॥ 27॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,27,4134,च्यवन उवाच । मनोवाक्कायशुद्धानां राजंस्तीर्थं पदे पदे । तथा मलिनचित्तानां गङ्गापि कीकटाधिका ॥ 28॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,28,4135,प्रथमं चेन्मनः शुद्धं जातं पापविवर्जितम् । तदा तीर्थानि सर्वाणि पावनानि भवन्ति वै ॥ 29॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,29,4136,गङ्गातीरे हि सर्वत्र वसन्ति नगराणि च । व्रजाश्चैवाकरा ग्रामाः सर्वे खेटास्तथापरे ॥ 30॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,30,4137,निषादानां निवासाश्च कैवर्तानां तथापरे । हूणबङ्गखसानां च म्लेच्छानां दैत्यसत्तम ॥ 31॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,31,4138,पिबन्ति सर्वदा गाङ्गं जलं ब्रह्मोपमं सदा । स्नानं कुर्वन्ति दैत्येन्द्र त्रिकालं स्वेच्छया जनाः ॥ 32॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,32,4139,तत्रैकोऽपि विशुद्धात्मा न भवत्येव मारिष । किं फलं तर्हि तीर्थस्य विषयोपहतात्मसु ॥ 33॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,33,4140,कारणं मन एवात्र नान्यद्राजन्विचिन्तय । मनःशुद्धिं प्रकर्तव्या सततं शुद्धिमिच्छता ॥ 34॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,34,4141,तीर्थवासी महापापी भवेत्तत्रात्मवञ्चनात् । तत्रैवाचरितं पापमानन्त्याय प्रकल्पते ॥ 35॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,35,4142,यथेन्द्रवारुणं पक्वं मिष्टं नैवोपजायते । भावदुष्टस्तथा तीर्थे कोटिस्तातो न शुध्यति ॥ 36॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,36,4143,प्रथमं मनसः शुद्धिः कर्तव्या शुभमिच्छता । शुद्धे मनसि द्रव्यस्य शुद्धिर्भवति नान्यथा ॥ 37॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,37,4144,तथैवाचारशुद्धिः स्यात्ततस्तीर्थं प्रसिध्यति । अन्यथा तु कृतं सर्वं व्यर्थं भवति तत्क्षणात् ॥ 38॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,38,4145,(हीनवर्णस्य संसर्गं तीर्थे गत्वा सदा त्यजेत् ।)॥ भूतानुकम्पनं चैव कर्तव्यं कर्मणा धिया । यदि पृच्छसि राजेन्द्र तीर्थं वक्ष्याम्यनुत्तमम् ॥ 39॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,39,4146,प्रथमं नैमिषं पुण्यं चक्रतीर्थं च पुष्करम् । अन्येषां चैव तीर्थानां सङ्ख्या नास्ति महीतले ॥ 40॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,40,4147,पावनानि च स्थानानि बहूनि नृपसत्तम । व्यास उवाच । तच्छ्रुत्वा वचनं राजा नैमिषं गन्तुमुद्यतः ॥ 41॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,41,4148,नोदयामास दैत्यान्वै हर्षनिर्भरमानसः । प्रह्लाद उवाच । उत्तिष्ठन्तु महाभागा गमिष्यामोऽद्य नैमिषम् ॥ 42॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,42,4149,द्रक्ष्यामः पुण्डरीकाक्षं पीतवाससमच्युतम् । व्यास उवाच । इत्युक्ता विष्णुभक्तेन सर्वे ते दानवास्तदा ॥ 43॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,43,4150,तेनैव सह पातालान्निर्ययुः परया मुदा । ते समेत्य च दैतेया दानवाश्च महाबलाः ॥ 44॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,44,4151,नैमिषारण्यमासाद्य स्नानं चक्रुर्मुदान्विताः । प्रह्लादस्तत्र तीर्थेषु चरन्दैत्यैः समन्वितः ॥ 45॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,45,4152,सरस्वतीं महापुण्यां ददर्श विमलोदकाम् । तीर्थे तत्र नृपश्रेष्ठ प्रह्लादस्य महात्मनः ॥ 46॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,46,4153,मनः प्रसन्नं सञ्जातं स्नात्वा सारस्वते जले । विधिवत्तत्र दैत्येन्द्रः स्नानदानादिकं शुभे ॥ 47॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,47,4154,चकारातिप्रसन्नात्मा तीर्थे परमपावने ॥ 48॥ 4,४.८,अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।,48,4155,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे प्रह्लादतीर्थयात्रावर्णनं नामाष्टमोऽध्यायः ॥ ४.८॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,0,4156,व्यास उवाच । कुर्वंस्तीर्थविधिं तत्र हिरण्यकशिपोः सुतः । न्यग्रोधं सुमहच्छायमपश्यत्पुरतस्तदा ॥ 1॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,1,4157,ददर्श बाणानपरान्नानाजातीयकांस्तदा । गृध्रपक्षयुतांस्तीव्राच्छिलाधौतान्महोज्वलान् ॥ 2॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,2,4158,चिन्तयामास मनसा कस्येमे विशिखास्त्विह । ऋषीणामाश्रमे पुण्ये तीर्थे परमपावने ॥ 3॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,3,4159,एवं चिन्तयतानेन कृष्णाजिनधरौ मुनी । समुन्नतजटाभारौ दृष्टौ धर्मसुतौ तदा ॥ 4॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,4,4160,तयोरग्रे धृते शुभ्रे धनुषी लक्षणान्विते । शार्ङ्गमाजगवञ्चैव तथाक्षय्यौ महेषुधी ॥ 5॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,5,4161,ध्यानस्थौ तौ महाभागौ नरनारायणावृषी । दृष्ट्वा धर्मसुतौ तत्र दैत्यानामधिपस्तदा ॥ 6॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,6,4162,क्रोधरक्तेक्षणस्तौ तु प्रोवाचासुरपालकः । किं भवद्भ्यां समारब्धो दम्भो धर्मविनाशनः ॥ 7॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,7,4163,न श्रुतं नैव दृष्टं हि संसारेऽस्मिन्कदापि हि । तपसश्चरणं तीव्रं तथा चापस्य धारणम् ॥ 8॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,8,4164,विरोधोऽयं युगे चाद्ये कथं युक्तं कलिप्रियम् । ब्राह्मणस्य तपो युक्तं तत्र किं चापधारणम् ॥ 9॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,9,4165,क्व जटाधारणं देहे क्वेषुधी च विडम्बनौ । धर्मस्याचरणं युक्तं युवयोर्दिव्यभावयोः ॥ 10॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,10,4166,व्यास उवाच । इति तस्य वचः श्रुत्वा नरः प्रोवाच भारत । का ते चिन्तात्र दैत्येन्द्र वृथा तपसि चावयोः ॥ 11॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,11,4167,सामर्थ्ये सति यत्कुर्यात्तत्सम्पद्येत तस्य हि । आवां कार्यद्वये मन्द समर्थौ लोकविश्रुतौ ॥ 12॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,12,4168,युद्धे तपसि सामर्थ्यं त्वं पुनः किं करिष्यसि । गच्छ मार्गे यथाकामं कस्मादत्र विकत्थसे ॥ 13॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,13,4169,ब्रह्मतेजो दुराराध्यं न त्वं वेद विमोहितः । विप्रचर्चा न कर्तव्या प्राणिभिः सुखमीप्सुभिः ॥ 14॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,14,4170,प्रह्लाद उवाच । तापसौ मन्दबुद्धी स्थो मृषा वां गर्वमोहितौ । मयि तिष्ठति दैत्येन्द्रे धर्मसेतुप्रवर्तके ॥ 15॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,15,4171,न युक्तमेतत्तीर्थेऽस्मिन्नधर्माचरणं पुनः । का शक्तिस्तव युद्धेऽस्ति दर्शयाद्य तपोधन ॥ 16॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,16,4172,व्यास उवाच । तदाकर्ण्य वचस्तस्य नरस्तं प्रत्युवाच ह । युद्धस्वाद्य मया सार्धं यदि ते मतिरीदृशी ॥ 17॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,17,4173,अद्य ते स्फोटयिष्यामि मूर्धानमसुराधम । (युद्धे श्रद्धा न ते पश्चाद्भविष्यति कदाचन ।)॥ व्यास उवाच । तन्निशम्य वचस्तस्य दैत्येन्द्रः कुपितस्तदा ॥ 18॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,18,4174,प्रह्लादो बलवानत्र प्रतिज्ञामारुरोह सः । येन केनाप्युपायेन जेष्यामि तावुभावपि ॥ 19॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,19,4175,नरनारायणौ दान्तावृषी तपिसमन्वितौ । व्यास उवाच । इत्युक्त्वा वचनं दैत्यः प्रतिगृह्य शरासनम् ॥ 20॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,20,4176,आकृष्य तरसा चापं ज्याशब्दञ्च चकार ह । नरोऽपि धनुरादाय शरांस्तीव्राञ्छिलाशितान् ॥ 21॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,21,4177,मुमोच बहुशः कोधात्प्रह्लादोपरि पार्थिव ॥ 22॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,22,4178,तान्दैत्यराजस्तपनीयपुङ्खै- श्चिच्छेद बाणैस्तरसा समेत्य । समीक्ष्य छिन्नांश्च नरः स्वसृष्टा- नन्यान्मुमोचाशु रुषान्वितो वै ॥ 23॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,23,4179,दैत्याथिपस्तानपि तीव्रवेगै- श्छित्त्वा जघानोरसि तं मुनीन्द्रम् । नरोऽपि तं पञ्चभिराशुगैश्च कुद्धोऽहनद्दैत्यपतिं बाहुदेशे ॥ 24॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,24,4180,सेन्द्राः सुरास्तत्र तयोर्हि युद्धं द्रष्टुं विमानैर्गगनस्थिताश्च । नरस्य वीर्यं युधि संस्थितस्य ते तुष्टुवुर्दैत्यपतेश्च भूयः ॥ 25॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,25,4181,ववर्ष दैत्याधिप आत्तचापः शिलीमुखानम्बुधरो यथापः । आदाय शार्ङ्ग धनुरप्रमेयं मुमोच बाणाञ्छितहेमपुङ्खान् ॥ 26॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,26,4182,बभूव युद्धं तुमुलं तयोस्तु जयैषिणोः पार्थिव देवदैत्ययोः । ववर्षुराकाशपथे स्थितास्ते पुष्पाणि दिव्यानि प्रहृष्टचित्ताः ॥ 27॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,27,4183,चुकोप दैत्याधिपतिर्हरौ स मुमोच बाणानतितीव्रवेगान् । चिच्छेद तान्धर्मसुतः सुतीक्ष्णै- र्धनुर्विमुक्तैर्विशिखैस्तदाऽऽशु ॥ 28॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,28,4184,ततो नारायणं बाणैः प्रह्लादश्चातिकर्षितैः । ववर्ष सुस्थितं वीरं धर्मपुत्रं सनातनम् । नारायणोऽपि तं वेगान्मुक्तैर्बाणैः शिलाशितैः ॥ 29॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,29,4185,तुतोदातीव पुरतो दैत्यानामधिपं स्थितम् । सन्निपातोऽम्बरे तत्र दिदृक्षूणां बभूव ह ॥ 30॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,30,4186,देवानां दानवानाञ्च कुर्वतां जयघोषणम् । उभयोः शरवर्षेण छादिते गगने तदा ॥ 31॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,31,4187,दिवापि रात्रिसदृशं बभूव तिमिरं महत् । ऊचुः परस्परं देवा दैत्याश्चातीव विस्मिताः ॥ 32॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,32,4188,अदृष्टपूर्वं युद्धं वै वर्ततेऽद्य सुदारुणम् । देवर्षयोऽथ गन्धर्वा यक्षकिन्नरपन्नगाः ॥ 33॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,33,4189,विद्याधराश्चारणाश्च विस्मयं परमं ययुः । नारदः पर्वतश्चैव प्रेक्षणार्थं स्थितौ मुनी ॥ 34॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,34,4190,नारदः पर्वतं प्राह नेदृशं चाभवत्पुरा । तारकासुरयुद्धञ्च तथा वृत्रासुरस्य च ॥ 35॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,35,4191,मधुकैटभयोर्युद्धं हरिणा चेदृशं कृतम् । प्रह्लादः प्रबलः शूरो यस्मान्नारायणेन च ॥ 36॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,36,4192,करोति सदृशं युद्धं सिद्धेनाद्भुतकर्मणा । व्यास उवाच । दिने दिने तथा रात्रौ कृत्वा कृत्वा पुनः पुनः ॥ 37॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,37,4193,चक्रतुः परमं युद्धं तौ तदा दैत्यतापसौ । नारायणस्तु चिच्छेद प्रह्लादस्य शरासनम् ॥ 38॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,38,4194,तरसैकेन बाणेन स चान्यद्धनुराददे । नारायणस्तु तरसा मुक्त्वान्यञ्च शिलीमुखम् ॥ 39॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,39,4195,तदैव मध्यतश्चापं चिच्छेद लघुहस्तकः । छिन्नं छिन्नं पुनर्दैत्यो धनुरन्यत्समाददे ॥ 40॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,40,4196,नारायणस्तु चिच्छेद विशिखैराशु कोपितः । छिन्ने धनुषि दैत्येन्द्रः परिघं तु समाददे ॥ 41॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,41,4197,जघान धर्मजं तूर्णं बाह्वोर्मध्येऽतिकोपनः । तमायान्तं स बलवान्मार्गणैर्नवभिर्मुनिः ॥ 42॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,42,4198,चिच्छेद परिघं घोरं दशभिस्तमताडयत् । गदामादाय दैत्येन्द्रः सर्वायसमयीं दृढाम् ॥ 43॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,43,4199,जानुदेशे जघानाशु देवं नारायणं रुषा । गदया चापि गिरिवत्संस्थितः स्थिरमानसः ॥ 44॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,44,4200,धर्मपुत्रोऽतिबलवान्मुमोचाशु शिलीमुखान् । गदां चिच्छेद भगवांस्तदा दैत्यपतेर्दृढाम् ॥ 45॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,45,4201,विस्मयं परमं जग्मुः प्रेक्षका गगने स्थिताः । स तु शक्तिं समादाय प्रह्लादः परवीरहा ॥ 46॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,46,4202,चिक्षेप तरसा क्रुद्धो बलान्नारायणोरसि । तामापतन्तीं संवीक्ष्य बाणेनैकेन लीलया ॥ 47॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,47,4203,सप्तधा कृतवानाशु सप्तभिस्तं जघान ह । दिव्यवर्षशतं चैव तद्युद्धं परमं तयोः ॥ 48॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,48,4204,जातं विस्मयदं राजन् सर्वेषां तत्र चाश्रमे । तदाऽऽजगाम तरसा पीतवासाश्चतुर्भुजः ॥ 49॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,49,4205,प्रह्लादस्याश्रमं तत्र जगाम च गदाधरः । चतुर्भुजो रमाकान्तो रथाङ्गदरपद्मभृत् ॥ 50॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,50,4206,दृष्ट्वा तमागतं तत्र हिरण्यकशिपोः सुतः । प्रणम्य परया भक्त्या प्राञ्जलिः प्रत्युवाच ह ॥ 51॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,51,4207,प्रह्लाद उवाच । देवदेव जगनाथ भक्तवत्सल माधव । कथं न जितवानाजावहमेतौ तपस्विनौ । सङ्ग्रामस्तु मया देव कृतः पूर्णं शतं समाः ॥ 52॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,52,4208,सुराणां न जितौ कस्मादिति मे विस्मयो महान् । विष्णुरुवाच । सिद्धाविमौ मदंशौ च विस्मयः कोऽत्र मारिष ॥ 53॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,53,4209,तापसौ न जितात्मानौ नरनारायणौ जितौ । गच्छ त्वं वितलं राजन् कुरु भक्तिं ममाचलाम् ॥ 54॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,54,4210,नाभ्यां कुरु विरोधं त्वं तापसाभ्यां महामते । व्यास उवाच । इत्याज्ञप्तो दैत्यराजो निर्ययावसुरैः सह ॥ 55॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,55,4211,नरनारायणौ भूयस्तपोयुक्तौ बभूवतुः ॥ 56॥ 4,४.९,नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।,56,4212,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनं नाम नवमोऽध्यायः ॥ ४.९॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,0,4213,जनमेजय उवाच । सन्देहोऽयं महानत्र पाराशर्य कथानके । नरनारायणौ शान्तौ वैष्णवांशौ तपोधनौ ॥ 1॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,1,4214,तीर्थाश्रयौ सत्त्वयुक्तौ वन्याशनपरौ सदा । धर्मपुत्रौ महात्मानौ तापसौ सत्यसंस्थितौ ॥ 2॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,2,4215,कथं रागसमायुक्तौ जातौ युद्धे परस्परम् । सङ्ग्रामं चक्रतुः कस्मात्त्यक्त्वा तपिमनुत्तमाम् ॥ 3॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,3,4216,प्रह्लादेन समं पूर्णं दिव्यवर्षशतं किल । हित्वा शान्तिसुखं युद्धं कृतवन्तौ कथं मुनी ॥ 4॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,4,4217,कथं तौ चक्रतुर्युद्धं प्रह्लादेन समं मुनी । कथयस्व महाभाग कारणं विग्रहस्य वै ॥ 5॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,5,4218,(कामिनी कनकं कार्यं कारणं विग्रहस्य वै)॥ युद्धबुद्धिः कथं जाता तयोश्च तद्विरक्तयोः । तथाविधं तपस्तप्तं ताभ्याञ्च केन हेतुना ॥ 6॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,6,4219,मोहार्थं सुखभोगार्थं स्वर्गार्थं वा परन्तप । कृतमत्युत्कटं ताभ्यां तपः सर्वफलप्रदम् ॥ 7॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,7,4220,मुनिभ्यां शान्तचित्ताभ्यां प्राप्तं किं फलमद्भुतम् । तपसा पीडितो देहः सङ्ग्रामेण पुनः पुनः ॥ 8॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,8,4221,दिव्यवर्षशतं पूर्णं श्रमेण परिपीडितौ । न राज्यार्थे धने वापि न दारेषु गृहेषु च ॥ 9॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,9,4222,किमर्थं तु कृतं युद्धं ताभ्यां तेन महात्मना । निरीहः पुरुषः कस्मात्प्रकुर्याद्युद्धमीदृशम् ॥ 10॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,10,4223,दुःखदं सर्वथा देहे जानन्धर्मं सनातनम् । सुबुद्धिः सुखदानीह कर्माणि कुरुते सदा ॥ 11॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,11,4224,न दुःखदानि धर्मज्ञ स्थितिरेषा सनातनी । धर्मपुत्रौ हरेरंशौ सर्वज्ञौ सर्वभूषितौ ॥ 12॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,12,4225,कृतवन्तौ कथं युद्धं दुःखं धर्मविनाशकम् । त्यक्त्वा तपः समाधीतं सुखारामं महत्फलम् ॥ 13॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,13,4226,संयुगं दारुणं कृष्ण नैव मूर्खोऽपि वाञ्छति । श्रुतो मया ययातिस्तु च्युतः स्वर्गान्महीपतिः ॥ 14॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,14,4227,अहङ्कारभवात्पापात्पातितः पृथिवीतले । यज्ञकृद्दानकर्ता च धार्मिकः पृथिवीपतिः ॥ 15॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,15,4228,शब्दोच्चारणमात्रेण पातितो वज्रपाणिना । अहङ्कारमृते युद्धं न भवत्येव निश्चयः ॥ 16॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,16,4229,किं फलं तस्य युद्धस्य मुनेः पुण्यविनाशनम् । व्यास उवाच । राजन् संसारमूलं हि त्रिविधः परिकीर्तितः ॥ 17॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,17,4230,अहङ्कारस्तु सर्वज्ञैर्मुनिभिर्धर्मनिश्चये । स कथं मुनिना त्यक्तुं योग्यो देहभृता किल ॥ 18॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,18,4231,कारणेन विना कार्यं न भवत्येव निश्चयः । तपो दानं तथा यज्ञाः सात्त्विकात्प्रभवन्ति ते ॥ 19॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,19,4232,राजसाद्वा महाभाग तामसात्कलहस्तथा । क्रिया स्वल्पापि राजेन्द्र नाहङ्कारं विना क्वचित् ॥ 20॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,20,4233,शुभा वाप्यशुभा वापि प्रभवत्यपि निश्चयः । अहङ्काराद् बन्धकारी नान्योऽस्ति जगतीतले ॥ 21॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,21,4234,येनेदं रचितं विश्वं कथं तद्रहितं भवेत् । ब्रह्मा रुद्रस्तथा विष्णुरहङ्कारयुतास्त्वमी ॥ 22॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,22,4235,अन्येषां चैव का वार्ता मुनीनां वसुधाधिप । अहङ्कारावृतं विश्वं भ्रमतीदं चराचरम् ॥ 23॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,23,4236,पुनर्जन्म पुनर्मृत्युः सर्वं कर्मवशानुगम् । देवतिर्यङ्मनुष्याणां संसारेऽस्मिन्महीपते ॥ 24॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,24,4237,रथाङ्गवदसर्वार्थं भ्रमणं सर्वदा स्मृतम् । विष्णोरप्यवताराणां सङ्ख्यां जानाति कः पुमान् ॥ 25॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,25,4238,विततेऽस्मिंस्तु संसारे उत्तमाधमयोनिषु । नारायणो हरिः साक्षान्मात्स्यं वपुरुपाश्रितः ॥ 26॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,26,4239,कामठं सौकरं चैव नारसिंहञ्च वामनम् । युगे युगे जगन्नाथो वासुदेवो जनार्दनः ॥ 27॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,27,4240,अवतारानसङ्ख्यातान्करोति विधियन्त्रितः । वैवस्वते महाराज सप्तमे भगवान्हरिः ॥ 28॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,28,4241,मन्वन्तरेऽवतारान्वै चक्रे ताञ्छ्रुणु तत्त्वतः । भृगुशापान्महाराज विष्णुर्देववरः प्रभुः ॥ 29॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,29,4242,अवताराननेकांस्तु कृतवानखिलेश्वरः । राजोवाच । सन्देहोऽयं महाभाग हृदये मम जायते ॥ 30॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,30,4243,भृगुणा भगवान्विष्णुः कथं शप्तः पितामह । हरिणा च मुनेस्तस्य विप्रियं किं कृतं मुने ॥ 31॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,31,4244,यद्रोषाद् भृगुणा शप्तो विष्णुर्देवनमस्कृतः । व्यास उवाच । श‍ृणु राजन्प्रवक्ष्यामि भृगोः शापस्य कारणम् ॥ 32॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,32,4245,पुरा कश्यपदायादो हिरण्यकशिपुर्नृपः । यदा तदा सुरैः सार्धं कृतं सङ्ख्यं परस्परम् ॥ 33॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,33,4246,कृते सङ्ख्ये जगत्सर्वं व्याकुलं समजायत । हते तस्मिन्नृपे राजा प्रह्लादः समजायत ॥ 34॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,34,4247,देवान्स पीडयामास प्रह्लादः शत्रुकर्षणः । सङ्ग्रामो ह्यभवद् घोरः शक्रप्रह्लादयोस्तदा ॥ 35॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,35,4248,पूर्णं वर्षशतं राजँल्लोकविस्मयकारकम् । देवैर्युद्धं कृतं चोग्रं प्रह्रादस्तु पराजितः ॥ 36॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,36,4249,निर्वेदं परमं प्राप्तो ज्ञात्वा धर्मं सनातनम् । विरोचनसुतं राज्ये प्रतिष्ठाप्य बलिं नृप ॥ 37॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,37,4250,जगाम स तपस्तप्तुं पर्वते गन्धमादने । प्राप्य राज्यं बलिः श्रीमान्सुरैर्वैरं चकार ह ॥ 38॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,38,4251,यतः परस्परं युद्धं जातं परमदारुणम् । ततः सुरैर्जिता दैत्या इन्द्रेणामिततेजसा ॥ 39॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,39,4252,विष्णुना च सहायेन राज्यभ्रष्टाः कृता नृप । ततः पराजिता दैत्याः काव्यस्य शरणं गताः ॥ 40॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,40,4253,किं त्वं न कुरुषे ब्रह्मन् साहाय्यं नः प्रतापवान् । स्थातुं न शक्नुमो ह्यत्र प्रविशामो रसातलम् ॥ 41॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,41,4254,यदि त्वं न सहायोऽसि त्रातुं मन्त्रविदुत्तम । व्यास उवाच । इत्युक्तः सोऽब्रवीद्दैत्यान्काव्यः कारुणिको मुनिः ॥ 42॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,42,4255,मा भैष्ट धारयिष्यामि तेजसा स्वेन भोऽसुराः । मन्त्रैस्तथौषधीभिश्च साहाय्यं वः सदैव हि ॥ 43॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,43,4256,करिष्यामि कृतोत्साहा भवन्तु विगतज्वराः । व्यास उवाच । ततस्ते निर्भया जाता दैत्याः काव्यस्य संश्रयात् ॥ 44॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,44,4257,देवैः श्रुतस्तु वृत्तान्तः सर्वैश्चारमुखात्किल । तत्र सम्मन्त्र्य ते देवाः शक्रेण च परस्परम् ॥ 45॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,45,4258,मन्त्रं चक्रुः सुसंविग्नाः काव्यमन्त्रप्रभावतः । योद्धुं गच्छामहे तूर्णं यावन्न च्यावयन्ति वै ॥ 46॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,46,4259,प्रसह्य हत्वा शिष्टांस्तु पातालं प्रापयामहे । दैत्याञ्जग्मुस्ततो देवाः संरुष्टाः शस्त्रपाणयः ॥ 47॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,47,4260,जग्मुस्तान्विष्णुसहिता दानवान् हरिणोदिताः । वध्यमानास्तु ते दैत्याः सन्त्रस्ता भयपीडिताः ॥ 48॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,48,4261,काव्यस्य शरणं जग्मू रक्ष रक्षेति चाब्रुवन् । ताञ्छुक्रः पीडितान्दृष्ट्वा देवैर्दैत्यान्महाबलान् ॥ 49॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,49,4262,मा भैष्टेति वचः प्राह मन्त्रौषधिबलाद्विभुः । दृष्ट्वा काव्यं सुराः सर्वे त्यक्त्वा तान्प्रययुः किल ॥ 50॥ 4,४.१०,दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।,50,4263,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे भृगुशापकारणवर्णनं नाम दशमोऽध्यायः ॥ ४.१०॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,0,4264,व्यास उवाच । तथा गतेषु देवेषु काव्यस्तान्प्रत्युवाच ह । ब्रह्मणा पूर्वमुक्तं यच्छ्रुणुध्वं दानवोत्तमाः ॥ 1॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,1,4265,विष्णुर्दैत्यवधे युक्तो हनिष्यति जनार्दनः । वाराहरूपं संस्थाय हिरण्याक्षो यथा हतः ॥ 2॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,2,4266,यथा नृसिंहरूपेण हिरण्यकशिपुर्हतः । तथा सर्वान्कृतोत्साहो हनिष्यति न चान्यथा ॥ 3॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,3,4267,न मे मन्त्रबलं सम्यक्प्रतिभाति यथा हरिम् । जेतुं यूयं समर्थाः स्थ मया त्राताः सुरानथ ॥ 4॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,4,4268,तस्मात्कालं प्रतीक्षध्वं कियन्तं दानवोत्तमाः । अहमद्य महादेवं मन्त्रार्थं प्रव्रजामि वै ॥ 5॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,5,4269,प्राप्य मन्त्रान्महादेवादागमिष्यामि साम्प्रतम् । युष्मभ्यं तान्प्रदास्यामि यथार्थं दानवोत्तमाः ॥ 6॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,6,4270,दैत्या ऊचुः । पराजिताः कथं स्थातुं पृथिव्यां मुनिसत्तम । शक्ता भवामोऽप्यबलास्तावत्कालं प्रतीक्षितुम् ॥ 7॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,7,4271,निहता बलिनः सर्वे केचिच्छिष्टाश्च दानवाः । नाद्य युक्ताश्च सङ्ग्रामे स्थातुमेवं सुखावहाः ॥ 8॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,8,4272,शुक्र उवाच । यावदहं मन्त्रविद्यामानयिष्यामि शङ्करात् । तावद्भवद्भिः स्थातव्यं तपोयुक्तैः शमान्वितैः ॥ 9॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,9,4273,सामदानादयः प्रोक्ता विद्वद्भिः समयोचिताः । देशं कालं बलं वीरैर्ज्ञात्वा शक्तिं बलं बुधैः ॥ 10॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,10,4274,सेवाथ समये कार्या शत्रूणां शुभकाम्यया । स्वशक्त्युपचये काले हन्तव्यास्ते मनीषिभिः ॥ 11॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,11,4275,तदद्य विनयं कृत्वा सामपूर्वं छलेन वै । तिष्ठध्वं स्वनिकेतेषु मदागमनकाङ्क्षया ॥ 12॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,12,4276,प्राप्य मन्त्रान्महादेवादागमिष्यामि दानवाः । युध्यामहे पुनर्देवान्मान्त्रमास्थाय वै बलम् ॥ 13॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,13,4277,इत्युक्त्वाथ भृगुस्तेभ्यो जगाम कृतनिश्चयः । महादेवं महाराज मन्त्रार्थं मुनिसत्तमः ॥ 14॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,14,4278,दानवाः प्रेषयामासुः प्रह्लादं सुरसन्निधौ । सत्यवादिनमव्यग्रं सुराणां प्रत्ययप्रदम् ॥ 15॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,15,4279,प्रह्लादस्तु सुरान्प्राह प्रश्रयावनतो नृपः । असुरैः सहितस्तत्र वचनं नम्रतायुतम् ॥ 16॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,16,4280,न्यस्तशस्त्रा वयं सर्वे निःसन्नाहास्तथैव च । देवास्तपश्चरिष्यामः संवृता वल्कलैर्युताः ॥ 17॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,17,4281,प्रह्लादस्य वचः श्रुत्वा सत्याभिव्याहृतं तु तत् । ततो देवा न्यवर्तन्त विज्वरा मुदिताश्च ते ॥ 18॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,18,4282,न्यस्तशस्त्रेषु दैत्येषु विनिवृत्तास्तदा सुराः । विश्रब्धाः स्वगृहान्गत्वा क्रीडासक्ताः सुसंस्थिताः ॥ 19॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,19,4283,दैत्या दम्भं समालम्ब्य तापसास्तपिसंयुताः । कश्यपस्याश्रमे वासं चक्रुः काव्यागमेच्छया ॥ 20॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,20,4284,काव्यो गत्वाथ कैलासं महादेवं प्रणम्य च । उवाच विभुना पृष्टः किं ते कार्यमिति प्रभुः ॥ 21॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,21,4285,मन्त्रानिच्छाम्यहं देव ये न सन्ति बृहस्पतौ । पराजयाय देवानामसुराणां जयाय च ॥ 22॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,22,4286,व्यास उवाच । तच्छ्रुत्वा वचनं तस्य सर्वज्ञः शङ्करः शिवः । चिन्तयामास मनसा किं कर्तव्यमतः परम् ॥ 23॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,23,4287,सुरेषु द्रोहबुद्ध्यासौ मन्त्रार्थमिह साम्प्रतम् । प्राप्तः काव्यो गुरुस्तेषां दैत्यानां विजयाय च ॥ 24॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,24,4288,रक्षणीया मया देवा इति सञ्चिन्त्य शङ्करः । दुष्करं व्रतमत्युग्रं तमुवाच महेश्वरः ॥ 25॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,25,4289,पूर्णं वर्षसहस्रं तु कणधूममवाक्छिराः । यदि पास्यसि भद्रं ते ततो मन्त्रानवाप्स्यसि ॥ 26॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,26,4290,इत्युक्तोऽसौ प्रणम्येशं बाढमित्यब्रवीद्वचः । व्रतं चराम्यहं देव त्वयाज्ञप्तः सुरेश्वर ॥ 27॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,27,4291,व्यास उवाच । इत्युक्त्वा शङ्करं काव्यश्चकार व्रतमुत्तमम् । धूमपानरतः शान्तो मन्त्रार्थं कृतनिश्चयः ॥ 28॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,28,4292,ततो देवाः परिज्ञाय काव्यं व्रतरतं तदा । दैत्यान्दम्भरतांश्चैव बभूवुर्मन्त्रतत्पराः ॥ 29॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,29,4293,विचार्य मनसा सर्वे सङ्ग्रामायोद्यता नृप । ययुर्धृतायुधास्तत्र यत्र ते दानवोत्तमाः ॥ 30॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,30,4294,तानागतान्समीक्ष्याथ सायुधान्दंशितांस्तथा । आसंस्ते भयसंविग्ना दैत्या देवान्समन्ततः ॥ 31॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,31,4295,उत्पेतुः सहसा ते वै सन्नद्धान्भयकर्शिताः । अब्रुवन्वचनं तथ्यं ते देवान्वलदर्पितान् ॥ 32॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,32,4296,न्यस्तशस्त्रे भयवति आचार्ये व्रतमास्थिते । दत्त्वाभयं पुरा देवाः सम्प्राप्ता नो जिघांसया ॥ 33॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,33,4297,सत्यं वः क्व गतं देवा धर्मश्च श्रुतिनोदितः । न्यस्तशस्त्रा न हन्तव्या भीताश्च शरणं गताः ॥ 34॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,34,4298,देवा ऊचुः । भवद्भिः प्रेषितः काव्यो मन्त्रार्थं कुहकेन च । तपो ज्ञातं हि युष्माकं तेन युध्याम एव हि ॥ 35॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,35,4299,सज्जा भवन्तु युद्धाय संरब्धाः शस्त्रपाणयः । शत्रुश्छिद्रेण हन्तव्य एष धर्मः सनातनः ॥ 36॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,36,4300,व्यास उवाच । तच्छ्रुत्वा वचनं दैत्या विचार्य च परस्परम् । पलायनपराः सर्वे निर्गता भयविह्वलाः ॥ 37॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,37,4301,शरणं दानवा जग्मुर्भीतास्ते काव्यमातरम् । दृष्ट्वा तानतिसन्तप्तानभयं च ददावथ ॥ 38॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,38,4302,काव्यमातोवाच । न भेतव्यं न भेतव्यं भयं त्यजत दानवाः । मत्सन्निधौ वर्तमानान्न भीर्भवितुमर्हति ॥ 39॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,39,4303,तच्छ्रुत्वा वचनं दैत्याः स्थितास्तत्र गतव्यथाः । निरायुधा ह्यसम्भ्रान्तास्तत्राश्रमवरेऽसुराः ॥ 40॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,40,4304,देवास्तान्विद्रुतान्वीक्ष्य दानवास्ते पदानुगाः । अभिजग्मुः प्रसह्यैतानविचार्य बलाबलम् ॥ 41॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,41,4305,तत्रागताः सुराः सर्वे हन्तुं दैत्यान्समुद्यताः । वारिताः काव्यमात्रापि जघ्नुस्तानाश्रमस्थितान् ॥ 42॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,42,4306,हन्यमानान्सुरैर्दृष्ट्वा काव्यमातातिवेपिता । उवाच सर्वान्सनिद्रांस्तपसा वै करोम्यहम् ॥ 43॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,43,4307,इत्युक्त्वा प्रेरिता निद्रा तानागत्य पपात च । सेन्द्रा निद्रावशं याता देवा मूकवदास्थिताः ॥ 44॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,44,4308,इन्द्रं निद्राजितं दृष्ट्वा दीनं विष्णुरभाषत । मां त्वं प्रविश भद्रं ते नये त्वां च सुरोत्तम ॥ 45॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,45,4309,एवमुक्तस्ततो विष्णुं प्रविवेश पुरन्दरः । निर्भयो गतनिद्रश्च बभूव हरिरक्षितः ॥ 46॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,46,4310,रक्षितं हरिणा दृष्ट्वा शक्रं तत्र गतव्यथम् । काव्यमाता ततः क्रुद्धा वचनं चेदमब्रवीत् ॥ 47॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,47,4311,मघवंस्त्वां भक्षयामि सविष्णुं वै तपोबलात् । पश्यतां सर्वदेवानामीदृशं मे तपोबलम् ॥ 48॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,48,4312,व्यास उवाच । इत्युक्तौ तु तया देवौ विष्ण्विन्द्रौ योगविद्यया । अभिभूतौ महात्मानौ स्तब्धौ तौ सम्बभूवतुः ॥ 49॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,49,4313,विस्मितास्तु तदा देवा दृष्ट्वा तावतिबाधितौ । चक्रुः किलकिलाशब्दं ततस्ते दीनमानसाः ॥ 50॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,50,4314,क्रोशमानान्सुरान्दृष्ट्वा विष्णुं प्राह शचीपतिः । विशेषेणाभिभूतोऽस्मि त्वत्तोऽहं मधुसूदन ॥ 51॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,51,4315,जह्येनां तरसा विष्णो यावन्नौ न दहेत्प्रभो । तपसा दर्पितां दुष्टां मा विचारय माधव ॥ 52॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,52,4316,इत्युक्तो भगवान्विष्णुः शक्रेण प्रथितेन च । चक्रं सस्मार तरसा घृणां त्यक्त्वाथ माधवः ॥ 53॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,53,4317,स्मृतमात्रं तु सम्प्राप्तं चक्रं विष्णुवशानुगम् । दधार च करे क्रुद्धो वधार्थं शक्रनोदितः ॥ 54॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,54,4318,गृहीत्वा तत्करे चक्रं शिरश्चिच्छेद रंहसा । हतां दृष्ट्वा तु तां शक्रो मुदितश्चाभवत्तदा ॥ 55॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,55,4319,देवाश्चातीव सन्तुष्टा हरिं जय जयेति च । तुष्टुवुर्मुदिताः सर्वे सञ्जाता विगतज्वराः ॥ 56॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,56,4320,इन्द्रविष्णू तु सञ्जातौ तत्क्षणाद्धृदयव्यथौ । स्त्रीवधाच्छङ्कमानौ तु भृगोः शापं दुरत्ययम् ॥ 57॥ 4,४.११,एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।,57,4321,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे शुक्रमातुर्वधवर्णनं नामेकादशोऽध्यायः ॥ ४.११॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,0,4322,व्यास उवाच । तं दृष्ट्वा तु वधं घोरं चुक्रोध भगवान्भृगुः । वेपमानोऽतिदुःखार्तः प्रोवाच मधुसूदनम् ॥ 1॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,1,4323,भृगुरुवाच । अकृत्यं ते कृतं विष्णो जानन्पापं महामते । वधोऽयं विप्रजाताया मनसा कर्तुमक्षमः ॥ 2॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,2,4324,आख्यातस्त्वं सत्त्वगुणः स्मृतो ब्रह्मा च राजसः । तथासौ तामसः शम्भुर्विपरीतं कथं स्मृतम् ॥ 3॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,3,4325,तामसस्त्वं कथं जातः कृतं कर्मातिनिन्दितम् । अवध्या स्त्री त्वया विष्णो हता कस्मान्निरागसा ॥ 4॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,4,4326,शपामि त्वां दुराचारं किमन्यत्प्रकरोमि ते । विधुरोऽहं कृतः पाप त्वयाहं शक्रकारणात् ॥ 5॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,5,4327,न शपेऽहं तथा शक्रं शपे त्वां मधुसूदन । सदा छलपरोऽसि त्वं कीटयोनिर्दुराशयः ॥ 6॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,6,4328,ये च त्वां सात्त्विकं प्राहुस्ते मूर्खा मुनयः किल । तामसस्त्वं दुराचारः प्रत्यक्षं मे जनार्दन ॥ 7॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,7,4329,अवतारा मृत्युलोके सन्तु मच्छापसम्भवाः । प्रायो गर्भभवं दुःखं भुङ्क्ष्व पापाज्जनार्दन ॥ 8॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,8,4330,व्यास उवाच । ततस्तेनाथ शापेन नष्टे धर्मे पुनः पुनः । लोकस्य च हितार्थाय जायते मानुषेष्विह ॥ 9॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,9,4331,राजोवाच । भूगुभार्या हता तत्र चक्रेणामिततेजसा । गार्हस्थ्यञ्च पुनस्तस्य कथं जातं महात्मनः ॥ 10॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,10,4332,व्यास उवाच । इति शप्त्वा हरिं रोषात्तदादाय शिरस्त्वरन् । काये संयोज्य तरसा भृगुः प्रोवाच कार्यवित् ॥ 11॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,11,4333,अद्य त्वां विष्णुना देवि हतां सञ्जीवयाम्यहम् । यदि कृत्स्नो मया धर्मो ज्ञायते चरितोऽपि वा ॥ 12॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,12,4334,तेन सत्येन जीवेत यदि सत्यं ब्रवीम्यहम् । पश्यन्तु देवताः सर्वा मम तेजोबलं महत् ॥ 13॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,13,4335,अद्भिस्त्वां प्रोक्ष्य शीताभिर्जीवयामि तपोबलात् । सत्यं शौचं तथा वेदा यदि मे तपसो बलम् ॥ 14॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,14,4336,व्यास उवाच । अद्भिः सम्प्रोक्षिता देवी सद्यः सञ्जीविता तदा । उत्थिता परमप्रीता भृगोर्भार्या शुचिस्मिता ॥ 15॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,15,4337,ततस्तां सर्वभूतानि दृष्ट्वा सुप्तोत्थितामिव । साधु साध्विति तं तां तु तुष्टुवुः सर्वतो दिशम् ॥ 16॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,16,4338,एवं सञ्चीविता तेन भृगुणा वरवर्णिनी । विस्मयं परमं जग्मुर्देवाः सेन्द्रा विलोक्य तत् ॥ 17॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,17,4339,इन्द्रः सुरानथोवाच मुनिना जीविता सती । काव्यस्तप्त्वा तपो घोरं किं करिष्यति मन्त्रवित् ॥ 18॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,18,4340,व्यास उवाच । गता निद्रा सुरेन्द्रस्य देहेऽक्षेममभून्नृप । स्मृत्वा काव्यस्य वृत्तान्तं मन्त्रार्थमतिदारुणम् ॥ 19॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,19,4341,विमृश्य मनसा शक्रो जयन्तीं स्वसुतां तदा । उवाच कन्यां चार्वङ्गीं स्मितपूर्वमिदं वचः ॥ 20॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,20,4342,गच्छ पुत्रि मया दत्ता काव्याय त्वं तपस्विने । समाराधय तन्वङ्गि मत्कृते तं वशं कुरु ॥ 21॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,21,4343,उपचारैर्मुनिं तैस्तैः समाराध्य मनःप्रियैः । भयं मे तरसा गत्वा हर तत्र वराश्रमे ॥ २२। सा पितुर्वचनं श्रुत्वा तत्रागच्छन्मनोरमा । तमपश्यद्विशालाक्षी पिबन्तं धूममाश्रमे ॥ 23॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,22,4344,तस्य देहं समालोक्य स्मृत्वा वाक्यं पितुस्तदा । कदलीदलमादाय वीजयामास तं मुनिम् ॥ 24॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,23,4345,निर्मलं शीतलं वारि समानीय सुवासितम् । पानाय कल्पयामास भक्त्या परमया लघु ॥ 25॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,24,4346,छायां वस्त्रातपत्रेण भास्करे मध्यगे सति । रचयामास तन्वङ्गी स्वयं धर्मे स्थिता सती ॥ 26॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,25,4347,फलान्यानीय दिव्यानि पक्वानि मधुराणि च । मुमोचाग्रे मुनेस्तस्य भक्षार्थं विहितानि च ॥ 27॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,26,4348,कुशाः प्रादेशमात्रा हि हरिताः शुकसन्निभाः । दधाराग्रेऽथ पुष्पाणि नित्यकर्मसमृद्धये ॥ 28॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,27,4349,निद्रार्थं कल्पयामास संस्तरं पल्लवान्वितम् । तस्मिन्मुनौ चादरस्था चकार व्यजनं शनैः ॥ 29॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,28,4350,हावभावादिकं किञ्चिद्विकारजननं च तत् । न चकार जयन्ती सा शापभीता मुनेस्तदा ॥ 30॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,29,4351,स्तुतिं चकार तन्वङ्गी गीर्भिस्तस्य महात्मनः । सुभाषिण्यनुकूलाभिः प्रीतिकर्त्रीभिरप्युत ॥ 31॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,30,4352,प्रबुद्धे जलमादाय दधाराचमनाय च । मनोऽनुकूलं सततं कुर्वन्ती व्यचरत्तदा ॥ 32॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,31,4353,इन्द्रोऽपि सेवकांस्तत्र प्रेषयामास चातुरः । प्रवृत्तिं ज्ञातुकामो वै मुनेस्तस्य जितात्मनः ॥ 33॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,32,4354,एवं बहूनि वर्षाणि परिचर्यापराभवत् । निर्विकारा जितक्रोधा ब्रह्मचर्यपरा सती ॥ 34॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,33,4355,पूर्णे वर्षसहस्रे तु परितुष्टो महेश्वरः । वरेण छन्दयामास काव्यं प्रीतमना हरः ॥ 35॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,34,4356,ईश्वर उवाच । यच्च किञ्चिदपि ब्रह्मन्विद्यते भृगुनन्दन । प्रतिपश्यसि यत्सर्वं यच्च वाच्यं न कस्यचित् ॥ 36॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,35,4357,सर्वाभिभावकत्वेन भविष्यसि न संशयः । अवध्यः सर्वभूतानां प्रजेशश्च द्विजोत्तमः ॥ 37॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,36,4358,व्यास उवाच । एवं दत्त्वा वराञ्छम्भुस्तत्रैवान्तरधीयत । काव्यस्तामथ संवीक्ष्य जयन्तीं वाक्यमब्रवीत् ॥ 38॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,37,4359,कासि कस्यासि सुश्रोणि ब्रूहि किं ते चिकीर्षितम् । किमर्थमिह सम्प्राप्ता कार्यं वद वरोरु मे ॥ 39॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,38,4360,किं वाञ्छसि करोम्यद्य दुष्करं चेत्सुलोचने । प्रीतोऽस्मि त्वत्कृतेनाद्य वरं वरय सुव्रते ॥ 40॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,39,4361,ततः सा तु मुनिं प्राह जयन्ती मुदितानना । चिकीर्षितं मे भगवंस्तपसा ज्ञातुमर्हसि ॥ 41॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,40,4362,शुक्र उवाच । ज्ञातं मया तथापि त्वं ब्रूहि यन्मनसेप्सितम् । करोमि सर्वथा भद्रं प्रीतोऽस्मि परिचर्यया ॥ 42॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,41,4363,जयन्त्युवाच । शक्रस्याहं सुता ब्रह्मन् पित्रा तुभ्यं समर्पिता । जयन्ती नामतश्चाहं जयन्तावरजा मुने ॥ 43॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,42,4364,सकामास्मि त्वयि विभो वाञ्छितं कुरु मेऽधुना । रंस्ये त्वया महाभाग धर्मतः प्रीतिपूर्वकम् ॥ 44॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,43,4365,शुक्र उवाच । मया सह त्वं सुश्रोणि दशवर्षाणि भामिनि । सर्वैर्भूतैरदृश्या च रमस्वेह यदृच्छया ॥ 45॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,44,4366,व्यास उवाच । एवमुक्त्वा गृहं गत्वा जयन्त्याः पाणिमुद्वहन् । तया सहावसद्देव्या दशवर्षाणि भार्गवः ॥ 46॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,45,4367,अदृश्यः सर्वभूतानां मायया संवृतः प्रभुः । दैत्यास्तमागतं श्रुत्वा कृतार्थं मन्त्रसंयुतम् ॥ 47॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,46,4368,अभिजग्मुर्गृहे तस्य मुदितास्ते दिदृक्षवः । नापश्यन् रममाणं ते जयन्त्या सह संयुतम् ॥ 48॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,47,4369,तदा विमनसः सर्वे जाता भग्नोद्यमाश्च ते । चिन्तापरातिदीनाश्च वीक्षमाणाः पुनः पुनः ॥ 49॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,48,4370,अदृष्ट्वा तं तु संवृत्तं प्रतिजग्मुर्यथागतम् । स्वगृहान्दैत्यवर्यास्ते चिन्ताविष्टा भयातुराः ॥ 50॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,49,4371,रममाणं तथा ज्ञात्वा शक्रः प्रोवाच तं गुरुम् । बृहस्पतिं महाभाग किं कर्तव्यमितः परम् ॥ 51॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,50,4372,गच्छाद्य दानवान्ब्रह्मन्मायया त्वं प्रलोभय । अस्माकं कुरु कार्यं त्वं बुद्ध्या सञ्चिन्त्य मानद ॥ 52॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,51,4373,तच्छ्रुत्वा वचनं काव्यं रममाणं सुसंवृतम् । ज्ञात्वा तद्रूपमास्थाय दैत्यान्मति ययौ गुरुः ॥ 53॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,52,4374,गत्वा तत्रातिभक्त्यासौ दानवान्समुपाह्वयत् । आगतास्तेऽसुराः सर्वे ददृशुः काव्यमग्रतः ॥ 54॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,53,4375,प्रणम्य संस्थिताः सर्वे काव्यं मत्वातिमोहिताः । न विदुस्ते गुरोर्मायां काव्यरूपविभाविनीम् ॥ 55॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,54,4376,तानुवाच गुरुः काव्यरूपः प्रच्छन्नमायया । स्वागतं मम याज्यानां प्राप्तोऽहं वो हिताय वै ॥ 56॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,55,4377,अहं वो बोधयिष्यामि विद्यां प्राप्ताममायया । तपसा तोषितः शम्भुर्युष्मत्कल्याणहेतवे ॥ 57॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,56,4378,तच्छ्रुत्वा प्रीतमनसो जातास्ते दानवोत्तमाः । कृतकार्यं गुरुं मत्वा जहृषुस्ते विमोहिताः ॥ 58॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,57,4379,प्रणेमुस्ते मुदा युक्ता निरातङ्का गतव्यथाः । देवेभ्यश्च भयं त्यक्त्वा तस्थुः सर्वे निरामयाः ॥ 59॥ 4,४.१२,द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।,58,4380,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे जयन्त्या शुक्रसहवासवर्णनं नाम द्वादशोऽध्यायः ॥ ४.१२॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,0,4381,राजोवाच । किं कृतं गुरुणा पश्चाद्भृगुरूपेण वर्तता । छलेनैव हि दैत्यानां पौरोहित्येन धीमता ॥ 1॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,1,4382,गुरुः सुराणामनिशं सर्वविद्यानिधिस्तथा । सुतोऽङ्गिरस एवासौ स कथं छलकृन्मुनिः ॥ 2॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,2,4383,धर्मशास्त्रेषु सर्वेषु सत्यं धर्मस्य कारणम् । कथितं मुनिभिर्येन परमात्मापि लभ्यते ॥ 3॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,3,4384,वाचस्पतिस्तथा मिथ्यावक्ता चेद्दानवान्प्रति । कः सत्यवक्ता संसारे भविष्यति गृहाश्रमी ॥ 4॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,4,4385,आहारादधिकं भोज्यं ज्रह्माण्डविभवेऽपि न । तदर्थं मुनयो मिथ्या प्रवर्तन्ते कथं मुने ॥ 5॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,5,4386,शब्दप्रमाणमुच्छेदं शिष्टाभावे गतं न किम् । छलकर्मप्रवृत्ते वाविगीतत्वं गुरौ कथम् ॥ 6॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,6,4387,देवाः सत्त्वसमुद्भूता राजसा मानवाः स्मृताः । तिर्यञ्चस्तामसाः प्रोक्ता उत्पत्तौ मुनिभिः किल ॥ 7॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,7,4388,अमराणां गुरुः साक्षान्मिथ्यावादी स्वयं यदि । तदा कः सत्यवक्ता स्याद्राजसस्तामसः पुनः ॥ 8॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,8,4389,क्व स्थितिस्तस्य धर्मस्य सन्देहोऽयं ममात्मनः । का गतिः सर्वजन्तूनां मिथ्याभूते जगत्त्रये ॥ 9॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,9,4390,हरिर्ब्रह्मा शचीकान्तस्तथान्ये सुरसत्तमाः । सर्वे छलविधौ दक्षा मनुष्याणाञ्च का कथा ॥ 10॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,10,4391,कामक्रोधाभिसन्तप्ता लोभोपहतचेतसः । छले दक्षाः सुराः सर्वे मुनयश्च तपोधनाः ॥ 11॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,11,4392,वसिष्ठो वामदेवश्च विश्वामित्रो गुरुस्तथा । एते पापरताः कात्र गतिर्धर्मस्य मानद ॥ 12॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,12,4393,इन्द्रोऽग्निश्चन्द्रमा वेधाः परदाराभिलम्पटाः । आर्यत्वं भुवनेष्वेषु स्थितं कुत्र मुने वद ॥ 13॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,13,4394,वचनं कस्य मन्तव्यमुपदेशधियानघ । सर्वे लोभाभिभूतास्ते देवाश्च मुनयस्तदा ॥ 14॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,14,4395,व्यास उवाच । किं विष्णुः किं शिवो ब्रह्मा मघवा किं बृहस्पतिः । देहवान् प्रभवत्येव विकारैः संयुतस्तदा ॥ 15॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,15,4396,रागी विष्णुः शिवो रागी ब्रह्मापि रागसंयुतः । (रागवान्किमकृत्यं वै न करोति नराधिप)॥ रागवानपि चातुर्याद्विदेह इव लक्ष्यते ॥ 16॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,16,4397,सम्प्राप्ते सङ्कटे सोऽपि गुणैः सम्बाध्यते किल । कारणाद्रहितं कार्यं कथं भवितुमर्हति ॥ 17॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,17,4398,ब्रह्मादीनां च सर्वेषां गुणा एव हि कारणम् । पञ्चविंशत्समुद्भूता देहास्तेषां न चान्यथा ॥ 18॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,18,4399,काले मरणधर्मास्ते सन्देहः कोऽत्र ते नृप । परोपदेशे विस्पष्टं शिष्टाः सर्वे भवन्ति च ॥ 19॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,19,4400,विप्लुतिर्ह्यविशेषेण स्वकार्ये समुपस्थिते । कामः क्रोधस्तथा लोभद्रोहाहङ्कारमत्सराः ॥ 20॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,20,4401,देहवान्कः परित्यक्तुमीशो भवति तान्पुनः । संसारोऽयं महाराज सदैवैवंविधः स्मृतः ॥ 21॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,21,4402,नान्यथा प्रभवत्येव शुभाशुभमयः किल । कदाचिद्भगवान्विष्णुस्तपश्चरति दारुणम् ॥ 22॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,22,4403,कदाचिद्विविधान्यज्ञान्वितनोति सुराधिपः । कदाचित्तु रमारङ्गरञ्जितः परमेश्वरः ॥ 23॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,23,4404,रमते किल वैकुण्ठे तद्वशस्तरुणो विभुः । कदाचिद्दानवैः सार्धं युद्धं परमदारुणम् ॥ 24॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,24,4405,करोति करुणासिन्धुस्तद्बाणापीडितो भृशम् । कदाचिज्जयमाप्नोति दैवात्सोऽपि पराजयम् ॥ 25॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,25,4406,सुखदुःखाभिभूतोऽसौ भवत्येव न संशयः । शेषे शेते कदाचिद्वै योगनिद्रासमावृतः ॥ 26॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,26,4407,काले जागर्ति विश्वात्मा स्वभावप्रतिबोधितः । शर्वो ब्रह्मा हरिश्चेति इन्द्राद्या ये सुरास्तथा ॥ 27॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,27,4408,मुनयश्च विनिर्माणैः स्वायुषो विचरन्ति हि । निशावसाने सञ्जाते जगत्स्थावरजङ्गमम् ॥ 28॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,28,4409,म्रियते नात्र सन्देहो नृप किञ्चित्कदापि च । स्वायुषोऽन्ते पद्यजाद्याः क्षयमृच्छन्ति पार्थिव ॥ 29॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,29,4410,प्रभवन्ति पुनर्विष्णुहरशक्रादयः सुराः । तस्मात्कामादिकान्भावान्देहवान्प्रतिपद्यते ॥ 30॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,30,4411,नात्र ते विस्मयः कार्यः कदाचिदपि पार्थिव । संसारोऽयं तु सन्दिग्धः कामक्रोधादिभिर्नृप ॥ 31॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,31,4412,दुर्लभस्तद्विनिर्मुक्तः पुरुषः परमार्थवित् । यो बिभेतीह संसारे स दारान्न करोत्यपि ॥ 32॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,32,4413,विमुक्तः सर्वसङ्गेभ्यो विचरत्यविशङ्कितः । तस्माद्बृहस्पतेर्भार्या शशिना लम्भिता पुनः ॥ 33॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,33,4414,गुरूणा लम्भिता भार्या तथा भ्रातुर्यवीयसः । एवं संसारचक्रेऽस्मिन् रागलोभादिभिर्वृतः ॥ 34॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,34,4415,गार्हस्थ्यञ्च समास्थाय कथं मुक्तो भवेन्नरः । तस्मात्सर्वप्रयत्नेन हित्वा संसारसारताम् ॥ 35॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,35,4416,आराधयेन्महेशानीं सच्चिदानन्दरूपिणीम् । तन्मायागुणतश्छन्नं जगदेतच्चराचरम् ॥ 36॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,36,4417,भ्रमत्युन्मत्तवत्सर्वं मदिरामत्तवन्नृप । तस्या आराधनेनैव गुणान्सर्वान्विमृद्य च ॥ 37॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,37,4418,मुक्तिं भजेत मतिमान्नान्यः पन्थास्त्वितः परः । आराधिता महेशानी न यावत्कुरुते कृपाम् ॥ 38॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,38,4419,तावद्भवेत्सुखं कस्मात्कोऽन्योऽस्ति दयया युतः । करुणासागरामेतां भजेत्तस्मादमायया ॥ 39॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,39,4420,यस्यास्तु भजनेनैव जीवन्मुक्तत्वमश्नुते । मानुष्यं दुर्लभं प्राप्य सेविता न महेश्वरी ॥ 40॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,40,4421,निःश्रेणिकाग्रात्पतिता अध इत्येव विद्महे । अहङ्कारावृतं विश्वं गुणत्रयसमन्वितम् ॥ 41॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,41,4422,असत्येनापि सम्बद्धं मुच्यते कथमन्यथा । हित्वा सर्वं ततः सर्वेः संसेव्या भुवनेश्वरी ॥ 42॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,42,4423,राजोवाच । किं कृतं गुरूणा तत्र काव्यरूपधरेण च । कदा शुक्रः समायातस्तन्मे ब्रूहि पितामह ॥ 43॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,43,4424,व्यास उवाच । श‍ृणु राजन् प्रवक्ष्यामि यत्कृतं गुरुणा तदा । कृत्वा काव्यस्वरूपञ्च प्रच्छन्नेन महात्मना ॥ 44॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,44,4425,गुरुणा बोधिता दैत्या मत्वा काव्यं स्वकं गुरुम् । विश्वासं परमं कृत्वा बभूवुस्तन्मयास्तदा ॥ 45॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,45,4426,विद्यार्थं शरणं प्राप्ता भृगुं मत्वातिमोहिताः । गुरुणा विप्रलब्धास्ते लोभात्को वा न मुह्यति ॥ 46॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,46,4427,दशवर्षात्मके काले सम्पूर्णसमये तदा । जयन्त्या सह क्रीडित्वा काव्यो याज्यानचिन्तयत् ॥ 47॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,47,4428,आशया मम मार्गं ते पश्यन्तः संस्थिताः किल । गत्वा तान्वै प्रपश्येऽहं याज्यानतिभयातुरान् ॥ 48॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,48,4429,मा देवेभ्यो भयं तेषां मद्भक्तानां भवेदिति । सञ्चिन्त्य बुद्धिमास्थाय जयन्तीं प्रत्युवाच ह ॥ 49॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,49,4430,देवानेवोपसंयान्ति पुत्रा मे चारुलोचने । समयस्तेऽद्य सम्पूर्णो जातोऽयं दशवार्षिकः ॥ 50॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,50,4431,तस्माद् गच्छाम्यहं देवि द्रष्टुं याज्यान्सुमध्यमे । पुनरेवागमिष्यामि तवान्तिकमनुद्रुतः ॥ 51॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,51,4432,तथेति तमुवाचाथ जयन्ती धर्मवित्तमा । यथेष्टं गच्छ धर्मज्ञ न ते धर्मं विलोपये ॥ 52॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,52,4433,तच्छ्रुत्वा वचनं काव्यो जगाम त्वरितस्ततः । अपश्यद्दानवानां च पार्श्वे वाचस्पतिं तदा ॥ 53॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,53,4434,छद्मरूपधरं सौम्यं बोधयन्तं छलेन तान् । जैनं धर्मं कृतं स्वेन यज्ञनिन्दापरं तथा ॥ 54॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,54,4435,भो देवरिपवः सत्यं ब्रवीमि भवतां हितम् । अहिंसा परमो धर्मोऽहन्तव्या ह्याततायिनः ॥ 55॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,55,4436,द्विजैर्भोगरतैर्वेदे दर्शितं हिंसनं पशोः । जिह्वास्वादपरैः काममहिंसैव परा मता ॥ 56॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,56,4437,एवंविधानि वाक्यानि वेदशास्त्रपराणि च । ब्रुवाणं गुरुमाकर्ण्य विस्मितोऽसौ भृगोः सुतः ॥ 57॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,57,4438,चिन्तयामास मनसा मम द्वेष्यो गुरुः किल । वञ्चिताः किल धूर्तेन याज्या मे नात्र संशयः ॥ 58॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,58,4439,धिग्लोभं पापबीजं वै नरकद्वारमूर्जितम् । गुरुरप्यनृतं ब्रूते प्रेरितो येन पाप्मना ॥ 59॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,59,4440,प्रमाणं वचनं यस्य सोऽपि पाखण्डधारकः । गुरुः सुराणां सर्वेषां धर्मशास्त्रप्रवर्तकः ॥ 60॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,60,4441,किं किं न लभते लोभान्मलिनीकृतमानसः । अन्योऽपि गुरुरप्येवं जातः पाखण्डपण्डितः ॥ 61॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,61,4442,शैलूषचेष्टितं सर्वं परिगृह्य द्विजोत्तमः । वञ्जयत्यतिसम्मूढान्दैत्यान्याज्यान्ममाप्यसौ ॥ 62॥ 4,४.१३,त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।,62,4443,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनं नाम त्रयोदशोऽध्यायः ॥ ४.१३॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,0,4444,व्यास उवाच । इति सञ्चिन्त्य मनसा तानुवाच हसन्निव । वञ्चिता मत्स्वरूपेण दैत्याः किं गुरुणा किल ॥ 1॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,1,4445,अहं काव्यो गुरुश्चायं देवकार्यप्रसाधकः । अनेन वञ्चिता यूयं मद्याज्या नात्र संशयः ॥ 2॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,2,4446,मा श्रद्धध्वं वचोऽस्यार्या दाम्भिकोऽयं मदाकृतिः । अनुगच्छत मां याज्यास्त्यजतैनं बृहस्पतिम् ॥ 3॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,3,4447,इत्याकर्ण्य वचस्तस्य दृष्ट्वा तौ सदृशौ पुनः । विस्मयं परमं जग्मुः काव्योऽयमिति निश्चिताः ॥ 4॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,4,4448,स तान्वीक्ष्य सुसम्भ्रान्तान्गुरुर्वाक्यमुवाच ह । गुरुर्वो वञ्चयत्येव मद्रूपोऽयं बृहस्पतिः ॥ 5॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,5,4449,प्राप्तो वञ्चयितुं युष्मान्देवकार्यार्थसिद्धये । मा विश्वासं वचस्तस्य कुरुध्वं दैत्यसत्तमाः ॥ 6॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,6,4450,प्राप्ता विद्या मया शम्भोर्युष्मानध्यापयामि ताम् । देवेभ्यो विजयं नूनं करिष्यामि न संशयः ॥ 7॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,7,4451,इति श्रुत्वा गुरोर्वाक्यं काव्यरूपधरस्य ते । विश्वासं परमं जग्मुः काव्योऽयमिति निश्चयात् ॥ 8॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,8,4452,काव्येन बहुधा तत्र बोधिताः किल दानवाः । बुबुधुर्न गुरोर्मायामोहिताः कालपर्ययात् ॥ 9॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,9,4453,एवं ते निश्चयं कृत्वा ततो भार्गवमब्रुवन् । अयं गुरुर्नो धर्मात्मा बुद्धिदश्च हिते रतः ॥ 10॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,10,4454,दशवर्षाणि सततमयं नः शास्ति भार्गवः । गच्छ त्वं कुहको भासि नास्माकं गुरुरप्युत ॥ 11॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,11,4455,इत्युक्त्वा भार्गवं मूढा निर्भर्त्स्य च पुनः पुनः । जगृहुस्तं गुरुं प्रीत्या प्रणिपत्याभिवाद्य च ॥ 12॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,12,4456,काव्यस्तु तन्मयान्दृष्ट्वा चुकोपाथ शशाप च । दैत्यान्विबोधितान्मत्वा गुरुणा चातिवञ्जितान् ॥ 13॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,13,4457,यस्मान्मया बोधिता वै गृह्णीयुर्न च मे वचः । तस्मात्प्रनष्टसंज्ञा वै पराभवमवाप्स्यथ ॥ 14॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,14,4458,मदवज्ञाफलं कामं स्वल्पे काले ह्यवाप्स्यथ । तदास्य कपटं सर्वं परिज्ञातं भविष्यति ॥ 15॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,15,4459,व्यास उवाच । इत्युक्त्वासौ जगामाशु भार्गवः क्रोधसंयुतः । बृहस्पतिर्मुदं प्राप्य तस्थौ तत्र समाहितः ॥ 16॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,16,4460,ततः शप्तान्गुरुर्ज्ञात्वा दैत्यांस्ताम्भार्गवेण हि । जगाम तरसा त्यक्त्वा स्वरूपं स्वं विधाय च ॥ 17॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,17,4461,गत्वोवाच तदा शक्रं कृतं कार्यं मया धुवम् । शप्ताः शुक्रेण ते दैत्या मया त्यक्ताः पुनः किल ॥ 18॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,18,4462,निराधाराः कृता नूनं यतध्वं सुरसत्तमाः । सङ्ग्रामार्थं महाभाग शापदग्धा मया कृताः ॥ 19॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,19,4463,इति श्रुत्वा गुरोर्वाक्यं मघवा मुदमाप्तवान् । जहृषुश्च सुराः सर्वे प्रतिपूज्य बृहस्पतिम् ॥ 20॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,20,4464,सङ्ग्रामाय मतिं चक्रुः संविचार्य मिथः पुनः । निर्ययुर्मिलिताः सर्वे दानवाभिमुखाः सुराः ॥ 21॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,21,4465,सुरान्समुद्यतांज्ञात्वा कृतोद्योगान्महाबलान् । अन्तर्हितं गुरुं चैव बभूवुश्चिन्तयान्विताः ॥ 22॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,22,4466,परस्परमथोचुस्ते मोहितास्तस्य मायया । सम्प्रसाद्यो महात्मा च यातोऽसौ रुष्टमानसः ॥ 23॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,23,4467,वञ्चयित्वा गतः पापो गुरुः कपटपण्डितः । भ्रातृस्त्रीलम्भनः प्रायो मलिनोऽन्तर्बहिः शुचिः ॥ 24॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,24,4468,किं कुर्मः क्व च गच्छामः कथं काव्यं प्रकोपितम् । कुर्वीमहि सहायार्थं प्रसन्नं हृष्टमानसम् ॥ 25॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,25,4469,इति सञ्चिन्त्य ते सर्वे मिलिता भयकम्पिताः । प्रह्लादं पुरतः कृत्वा जग्मुस्ते भार्गवं पुनः ॥ 26॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,26,4470,प्रणेमुश्चरणौ तस्य मुनेर्मौनभृतस्तदा । भार्गवस्तानुवाचाथ रोषसंरक्तलोचनः ॥ 27॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,27,4471,मया प्रबोधिता यूयं मोहिता गुरुमायया । न गृहीतं वचो योग्यं तदा याज्या हितं शुचि ॥ 28॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,28,4472,तदावगणितश्चाहं भवद्भिस्तद्वशं गतैः । प्राप्तं नूनं मदोन्मत्तैर्ममावमानजं फलम् ॥ 29॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,29,4473,तत्र गच्छत सत्भ्रष्टा यत्रासौ कपटाकृतिः । वञ्चकः सुरकार्यार्थी नाहं तद्वद्धि वञ्चकः ॥ 30॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,30,4474,व्यास उवाच । एवं ब्रुवन्तं शुक्रं तु वाक्यसन्दिग्धया गिरा । प्रह्लादस्तं तदोवाच गहीत्वा चरणौ ततः ॥ 31॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,31,4475,प्रह्लाद उवाच । भार्गवाद्य समायातान्याज्यानस्मांस्तथातुरान् । त्यक्तुं नार्हसि सर्वज्ञ त्वद्धितास्तनयान्हि नः ॥ 32॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,32,4476,गते त्वयि तु मन्त्रार्थं शैलूषेण दुरात्मना । त्वद्वेषमधुरालापैर्वयं तेन प्रवञ्चिताः ॥ 33॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,33,4477,अज्ञानकृतदोषेण नैव कुप्यति शान्तिमान् । सर्वज्ञस्त्वं विजानासि चित्तं नः प्रवणं त्वयि ॥ 34॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,34,4478,ज्ञात्वा नस्तपसा भावं त्यज कोपं महामते । ब्रुवन्ति मुनयः सर्वे क्षणकोपा हि साधवः ॥ 35॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,35,4479,जलं स्वभावतः शीतं वह्न्यातपसमागमात् । भवत्युष्णं वियोगाच्च शीतत्वमनुगच्छति ॥ 36॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,36,4480,क्रोथश्चाण्डालरूपो वै त्यक्तव्यः सर्वथा बुधैः । तस्माद्रोषं परित्यज्य प्रसादं कुरु सुव्रत ॥ 37॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,37,4481,यदि न त्यजसि क्रोधं त्यजस्यस्मान्सुदुःखितान् । त्वया त्यक्ता महाभाग गमिष्यामो रसातलम् ॥ 38॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,38,4482,व्यास उवाच । प्रह्लादस्य वचः श्रुत्वा भार्गवो ज्ञानचक्षुषा । विलोक्य सुमना भूत्वा तानुवाच हसन्निव ॥ 39॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,39,4483,न भेतव्यं न गन्तव्यं दानवा वा रसातलम् । रक्षयिष्यामि वो याज्यान्मन्त्रैरवितथैः किल ॥ 40॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,40,4484,हितं सत्यं ब्रवीम्यद्य श‍ृणुध्वं तत्तु निश्चयम् । वचनं मम धर्मज्ञाः श्रुतं यद् ब्रह्मणः पुरा ॥ 41॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,41,4485,अवश्यम्भाविनो भावाः प्रभवन्ति शुभाशुभाः । दैवं न चान्यथा कर्तुं क्षमः कोऽपि धरातले ॥ 42॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,42,4486,अद्य मन्दबला यूयं कालयोगादसंशयम् । देवैर्जिताः सकृच्चापि पातालं प्रतिपत्स्यथ ॥ 43॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,43,4487,प्राप्तः पर्यायकालो व इति ब्रह्माभ्यभाषत । भुक्तं राज्यं भवद्भिश्च पूर्णं सर्वं समृद्धिमत् ॥ 44॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,44,4488,युगानि दश पूर्णानि देवानाक्रम्य मूर्धनि । दैवयोगाच्च युष्माभिर्भुक्तं त्रैलोक्यमूर्जितम् ॥ 45॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,45,4489,सावर्णिके मनौ राज्यं पुनस्तत्तु भविष्यति । पौत्रस्त्रैलोक्यविजयी राज्यं प्राप्स्यति ते बलिः ॥ 46॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,46,4490,यदा वामनरूपेण हृतं देवेन विष्णुना । तदैव च भवत्पौत्रः प्रोक्तो देवेन जिष्णुना ॥ 47॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,47,4491,हृतं येन बले राज्यं देववाञ्छार्थसिद्धये । त्वमिन्द्रो भविता चाग्ने स्थिते सावर्णिके मनौ ॥ 48॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,48,4492,भार्गव उवाच । इत्युक्तो हरिणा पौत्रस्तव प्रह्लाद साम्प्रतम् । अदृश्यः सर्वभूतानां गुप्तश्चरति भीतवत् ॥ 49॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,49,4493,एकदा वासवेनासौ बलिर्गर्दभरूपभाक् । शून्ये गृहे स्थितः कामं भयभीतः शतक्रतोः ॥ 50॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,50,4494,पृष्टश्च बहुधा तेन वासवेन बलिस्तदा । किमर्थं गार्दभं रूपं कृतवान्दैत्यपुङ्गव ॥ 51॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,51,4495,भोक्ता त्वं सर्वलोकस्य दैत्यानां च प्रशासिता । (न लज्जा खररूपेण तव राक्षससत्तम ।)॥ तस्य तद्वचनं श्रुत्वा दैत्यराजो बलिस्तदा ॥ 52॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,52,4496,प्रोवाच वचनं शक्रं कोऽत्र शोकः शतक्रतो । यथा विष्णुर्महातेजा मत्स्यकच्छपतां गतः ॥ 53॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,53,4497,तथाहं खररूपेण संस्थितः कालयोगतः । यथा त्वं कमले लीनः संस्थितो ब्रह्महत्यया ॥ 54॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,54,4498,पीडितश्च तथा ह्यद्य स्थितोऽहं खररूपधृक् । दैवाधीनस्य किं दुःखं किं सुखं पाकशासन ॥ 55॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,55,4499,कालः करोति वै नूनं यदिच्छति यथा तथा । भार्गव उवाच । इति तौ बलिदेवेशौ कृत्वा संविदमुत्तमाम् ॥ 56॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,56,4500,प्रबोधं प्रापतुः कामं यथास्थानञ्च जग्मतुः । इत्येतत्ते समाख्याता मया दैवबलिष्ठता ॥ 57॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,57,4501,दैवाधीनं जगत्सर्वं सदेवासुरमानुषम् ॥ 58॥ 4,४.१४,चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।,58,4502,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे प्रह्लादेन शुक्रकोपसान्त्वनं नाम चतुर्दशोऽध्यायः ॥ ४.१४॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,0,4503,व्यास उवाच । इति तस्य वचः श्रुत्वा भार्गवस्य महात्मनः । प्रह्लादस्तु सुसंहृष्टो बभूव नृपनन्दनः ॥ 1॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,1,4504,ज्ञात्वा दैवं बलिष्ठञ्च प्रह्लादस्तानुवाच ह । कृतेऽपि युद्धे न जयो भविष्यति कदाचन ॥ 2॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,2,4505,तदा ते जयिनः प्रोचुर्दानवा मदगर्विताः । सङ्ग्रामस्तु प्रकर्तव्यो दैवं किं न विदामहे ॥ 3॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,3,4506,निरुद्यमानां दैवं हि प्रधानमसुराधिप । केन दृष्टं क्व वा दृष्टं कीदृशं केन निर्मितम् ॥ 4॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,4,4507,तस्माद्युद्धं करिष्यामो बलमास्थाय साम्प्रतम् । भवाग्रे दैत्यवर्य त्वं सर्वज्ञोऽसि महामते ॥ 5॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,5,4508,इत्युक्तस्तैस्तदा राजन् प्रह्लादः प्रबलारिहा । सेनानीश्च तदा भूत्वा देवान्युद्धे समाह्वयत् ॥ 6॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,6,4509,तेऽपि तत्रासुरान्दृष्ट्वा सङ्ग्रामे समुपस्थितान् । सर्वे सम्भृतसम्भारा देवास्तान्समयोधयन् ॥ 7॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,7,4510,सङ्ग्रामस्तु तदा घोरः शक्रप्रह्लादयोरभूत् । पूर्णं वर्षशतं तत्र मुनीनां विस्मयावहः ॥ 8॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,8,4511,वर्तमाने महायुद्धे शुक्रेण प्रतिपालिताः । जयमापुस्तदा दैत्याः प्रह्लादप्रमुखा नृप ॥ 9॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,9,4512,तदैवेन्द्रो गुरोर्वाक्यात्सर्वदुःखविनाशिनीम् । सस्मार मनसा देवीं मुक्तिदां परमां शिवाम् ॥ 10॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,10,4513,इन्द्र उवाच । जय देवि महामाये शूलधारिणि चाम्बिके । शङ्खचक्रगदापद्मखड्गहस्तेऽभयप्रदे ॥ 11॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,11,4514,नमस्ते भुवनेशानि शक्तिदर्शननायिके । दशतत्त्वात्मिके मातर्महाबिन्दुस्वरूपिणि ॥ 12॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,12,4515,महाकुण्डलिनीरूपे सच्चिदानन्दरूपिणि । प्राणाग्निहोत्रविद्ये ते नमो दीपशिखात्मिके ॥ 13॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,13,4516,पञ्चकोशान्तरगते पुच्छब्रह्मस्वरूपिणि । आनन्दकलिके मातः सर्वोपनिषदर्चिते ॥ 14॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,14,4517,मातः प्रसीद सुमुखी भव हीनसत्त्वां- स्त्रायस्व नो जननि दैत्यपराजितान् वै । त्वं देवि नः शरणदा भुवने प्रमाणा शक्तासि दुःखशमनेऽखिलवीर्ययुक्ते ॥ 15॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,15,4518,ध्यायन्ति येऽपि सुखिनो नितरां भवन्ति दुःखान्विताविगतशोकभयास्तथान्ये । मोक्षार्थिनो विगतमानविमुक्तसङ्गाः संसारवारिधिजलं प्रतरन्ति सन्तः ॥ 16॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,16,4519,त्वं देवि विश्वजननि प्रथितप्रभावा संरक्षणार्थमुदितार्तिहरप्रतापा । संहर्तुमेतदखिलं किल कालरूपा को वेत्ति तेऽम्ब चरितं ननु मन्दबुद्धिः ॥ 17॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,17,4520,ब्रह्मा हरश्च हरिदश्वरथो हरिश्च इन्द्रो यमोऽथ वरुणोऽग्निसमीरणौ च । ज्ञातुं क्षमा न मुनयोऽपि महानुभावा यस्याः प्रभावमतुलं निगमागमाश्च ॥ 18॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,18,4521,धन्यास्त एव तव भक्तिपरा महान्तः संसारदुःखरहिताः सुखसिन्धुमग्नाः । ये भक्तिभावरहिता न कदापि दुःखा- ॥ म्भोधिं जनिक्षयतरङ्गमुमे तरन्ति ॥ 19॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,19,4522,ये वीज्यमानाः सितचामरैश्च क्रीडन्ति धन्याः शिबिकाधिरूढाः । तैः पूजिता त्वं किल पूर्वदेहे नानोपहारैरिति चिन्तयामि ॥ 20॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,20,4523,ये पूज्यमाना वरवारणस्था विलासिनीवृन्दविलासयुक्ताः । सामन्तकैश्चोपनतैर्व्रजन्ति मन्ये हि तैस्त्वं किल पूजितासि ॥ 21॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,21,4524,व्यास उवाच । एवं स्तुता मघवता देवी विश्वेश्वरी तदा । प्रादुर्बभूव तरसा सिंहारूढा चतुर्भुजा ॥ 22॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,22,4525,शङ्खचक्रगदापद्मान्बिभ्रती चारुलोचना । रक्ताम्बरधरा देवी दिव्यमाल्यविभूषणा ॥ 23॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,23,4526,तानुवाच सुरान्देवी प्रसन्नवदना गिरा । भयं त्यजन्तु भो देवाः शं विधास्ये किलाधुना ॥ 24॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,24,4527,इत्युक्त्वा सा तदा देवी सिंहारूढातिसुन्दरी । जगाम तरसा तत्र यत्र दैत्या मदान्विताः ॥ 25॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,25,4528,प्रह्लादप्रमुखाः सर्वे दृष्ट्वा देवीं पुरःस्थिताम् । ऊचुः परस्परं भीताः किं कर्तव्यमितस्तदा ॥ 26॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,26,4529,देवं नारायणं चात्र सम्प्राप्ता चण्डिका किल । महिषान्तकरी नूनं चण्डमुण्डविनाशिनी ॥ 27॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,27,4530,निहनिष्यति नः सर्वानम्बिका नात्र संशयः । वक्रदृष्ट्या यया पूर्वं निहतौ मधुकैटभौ ॥ 28॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,28,4531,एवं चिन्तातुरान्वीक्ष्य प्रह्लादस्तानुवाच ह । योद्धव्यं नाथ गन्तव्यं पलाय्य दानवोत्तमाः ॥ 29॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,29,4532,नमुचिस्तानुवाचाथ पलायनपरानिह । हनिष्यति जगन्माता रुषिता किल हेतिभिः ॥ 30॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,30,4533,तथा कुरु महाभाग यथा दुःखं न जायते । व्रजामोऽद्यैव पातालं तां स्तुत्वा तदनुज्ञया ॥ 31॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,31,4534,प्रह्लाद उवाच । स्तौमि देवीं महामायां सृष्टिस्थित्यन्तकारिणीम् । सर्वेषां जननीं शक्तिं भक्तानामभयङ्करीम् ॥ 32॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,32,4535,व्यास उवाच । इत्युक्त्या विष्णुभक्तस्तु प्रह्लादः परमार्थवित् । तुष्टाव जगतां धात्रीं कृताञ्जलिपुटस्तदा ॥ 33॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,33,4536,मालासर्पवदाभाति यस्यां सर्वं चराचरम् । सर्वाधिष्ठानरूपायै तस्यै ह्रींमूर्तये नमः ॥ 34॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,34,4537,त्वत्तः सर्वमिदं विश्वं स्थावरं जङ्गमं तथा । अन्ये निमित्तमात्रास्ते कर्तारस्तव निर्मिताः ॥ 35॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,35,4538,नमो देवि महामाये सर्वेषां जननी स्मृता । को भेदस्तव देवेषु दैत्येषु स्वकृतेषु च ॥ 36॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,36,4539,मातुः पुत्रेषु को भेदोऽप्यशुभेषु शुभेषु च । तथैव देवेष्वस्मासु न कर्तव्यस्त्वयाधुना ॥ 37॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,37,4540,यादृशास्तादृशा मातः सुतास्ते दानवाः किल । यतस्त्वं विश्वजननी पुराणेषु प्रकीर्तिता ॥ 38॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,38,4541,तेऽपि स्वार्थपरा नूनं यथैव वयमप्युत । नान्तरं दैत्यसुरयोर्भेदोऽयं मोहसम्भवः ॥ 39॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,39,4542,धनदारादिभोगेषु वयं सक्ता दिवानिशम् । तथैव देवा देवेशि को भेदोऽसुरदेवयोः ॥ 40॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,40,4543,तेऽपि कश्यपदायादा वयं तत्सम्भवाः किल । कुतो विरोधसम्भूतिर्जाता मातस्तवाधुना ॥ 41॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,41,4544,न तथा विहितं मातस्त्वयि सर्वसमुद्भवे । साम्यतैव त्वया स्थाप्या देवेष्वस्मासु चैव हि ॥ 42॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,42,4545,गुणव्यतिकरात्सर्वे समुत्पन्नाः सुरासुराः । गुणान्विता भवेयुस्ते कथं देहभृतोऽमराः ॥ 43॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,43,4546,कामः क्रोधश्च लोभश्च सर्वदेहेषु संस्थिताः । वर्तन्ते सर्वदा तस्मात् कोऽविरोधी भवेञ्चनः ॥ 44॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,44,4547,त्वया मिथो विरोधोऽयं कल्पितः किल कौतुकात् । मन्यामहे विभेदेन नूनं युद्धदिदृक्षया ॥ 45॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,45,4548,अन्यथा खलु भ्रातॄणां विरोधः कीदृशोऽनघे । त्वं चेन्नेच्छसि चामुण्डे वीक्षितुं कलहं किल ॥ 46॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,46,4549,जानामि धर्मं धर्मज्ञे वेद्मि चाहं शतक्रतुम् । तथापि कलहोऽस्माकं भोगार्थं देवि सर्वदा ॥ 47॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,47,4550,एकः कोऽपि न शास्तास्ति संसारे त्वां विनाम्बिके । स्पृहावतस्तु कः कर्तुं क्षमते वचनं बुधः ॥ 48॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,48,4551,देवासुरैरयं सिन्धुर्मथितः समये क्वचित् । विष्णुना विहितो भेदः सुधारत्नच्छलेन वै ॥ 49॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,49,4552,त्वयासौ कल्पितः शौरिः पालकत्वे जगद्गुरुः । तेन लक्ष्मीः स्वयं लोभाद् गृहीतामरसुन्दरी ॥ 50॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,50,4553,ऐरावतस्तथेन्द्रेण पारिजातोऽथ कामधुक् । उच्चैःश्रवाः सुरैः सर्वं गृहीतं वैष्णवेच्छया ॥ 51॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,51,4554,अनयं तादृशं कृत्वा जाता देवास्तु साधवः । (अन्यायिनः सुरा नूनं पश्य त्वं धर्मलक्षणं ।)॥ संस्थापिताः सुरा नूनं विष्णुना बहुमानिना ॥ 52॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,52,4555,नूनं दैत्याः पराभूवन्पश्य त्वं धर्मलक्षणम् । क्व धर्मः कीदृशो धर्मः क्व कार्यं क्व च साधुता ॥ 53॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,53,4556,कथयामि च कस्याग्रे सिद्धं मैमांसिकं मतम् । तार्किका युक्तिवादज्ञा विधिज्ञा वेदवादकाः ॥ 54॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,54,4557,उक्ताः सकर्तृकं विश्वं विवदन्ते जडात्मकाः । कर्ता भवति चेदस्मिन्संसारे वितते किल ॥ 55॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,55,4558,विरोधः कीदृशस्तत्र चैककर्मणि वै मिथः । वेदे नैकमतिः कस्माच्छास्त्रेष्वपि तथा पुनः ॥ 56॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,56,4559,नैकवाक्यं वचस्तेषामपि वेदविदां पुनः । यतः स्वार्थपरं सर्वं जगत्स्थावरजङ्गमम् ॥ 57॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,57,4560,निःस्पृहः कोऽपि संसारे न भवेन्न भविष्यति । शशिनाथ गुरोर्भार्या हृता ज्ञात्वा बलादपि ॥ 58॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,58,4561,गौतमस्य तथेन्द्रेण जानता धर्मनिश्चयम् । गुरुणानुजभार्या च भुक्ता गर्भवती बलात् ॥ 59॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,59,4562,शप्तो गर्भगतो बालः कृतश्चान्धस्तथा पुनः । विष्णुना च शिरश्छिन्नं राहोश्चक्रेण वै बलात् ॥ 60॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,60,4563,अपराधं विना कामं तदा सत्त्ववताम्बिके । पौत्रो धर्मवतां शूरः सत्यव्रतपरायणः ॥ 61॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,61,4564,यज्वा दानपतिः शान्तः सर्वज्ञः सर्वपूजकः । कृत्वाथ वामनं रूपं हरिणा छलवेदिना ॥ 62॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,62,4565,वञ्चितोऽसौ बलिः सर्वं हृतं राज्यं पुरा किल । तथापि देवान्धर्मस्थान्प्रवदन्ति मनीषिणः ॥ 63॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,63,4566,वदन्ति चाटुवादांश्च धर्मवादाज्जयं गताः । एवं ज्ञात्वा जगन्मातर्यथेच्छसि तथा कुरु ॥ 64॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,64,4567,शरणा दानवाः सर्वे जहि वा रक्ष वा पुनः । श्रीदेव्युवाच । सर्वे गच्छत पातालं तत्र वासं यथेप्सितम् ॥ 65॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,65,4568,कुरुध्वं दानवाः सर्वे निर्भया गतमन्यवः । कालः प्रतीक्ष्यो युष्माभिः कारणं स शुभेऽशुभे ॥ 66॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,66,4569,सुनिर्वेदपराणां हि सुखं सर्वत्र सर्वदा । त्रैलोक्यस्य च राज्येऽपि न सुखं लोभचेतसाम् ॥ 67॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,67,4570,कृतेऽपि न सुखं पूर्णं सस्पृहाणां फलैरपि । तस्मात्त्यक्त्वा महीमेतां प्रयान्त्वद्य महीतलम् ॥ 68॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,68,4571,ममाज्ञां पुरतः कृत्वा सर्वे विगतकल्मषाः । व्यास उवाच । तच्छ्रुत्वा वचनं देव्यास्तथेत्युक्त्वा रसातलम् ॥ 69॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,69,4572,प्रणम्य दानवाः सर्वे गताः शक्त्याभिरक्षिताः । अन्तर्दधे ततो देवी देवाः स्वभुवनं गताः ॥ 70॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,70,4573,त्यक्त्वा वैरं स्थिताः सर्वे ते तदा देवदानवाः । एतदाख्यानमखिलं यः श‍ृणोति वदत्यथ ॥ 71॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,71,4574,सर्वदुःखविनिर्मुक्तः प्रयाति पदमुत्तमम् ॥ 72॥ 4,४.१५,पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।,72,4575,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे देवीकथनेन दानवानां रसातलं प्रति गमनं नाम पञ्चदशोऽध्यायः ॥ ४.१५॥ 4,४.१६,षोडशोऽध्यायः । हरेर्नानावतारवर्णनम् ।,0,4576,जनमेजय उवाच । भृगुशापान्मुनिश्रेष्ठ हरेरद्भुतकर्मणः । अवताराः कथं जाताः कस्मिन्मन्वन्तरे विभो ॥ 1॥ 4,४.१६,षोडशोऽध्यायः । हरेर्नानावतारवर्णनम् ।,1,4577,विस्तराद्वद धर्मज्ञ अवतारकथा हरेः । पापनाशकरीं ब्रह्मञ्छ्रुतां सर्वसुखावहाम् ॥ 2॥ 4,४.१६,षोडशोऽध्यायः । हरेर्नानावतारवर्णनम् ।,2,4578,व्यास उवाच । श‍ृणु राजन् प्रवक्ष्यामि अवतारान् हरेर्यथा । यस्मिन्मन्वन्तरे जाता युगे यस्मिन्नराधिप ॥ 3॥ 4,४.१६,षोडशोऽध्यायः । हरेर्नानावतारवर्णनम् ।,3,4579,येन रूपेण यत्कार्यं कृतं नारायणेन वै । तत्सर्वं नृप वक्ष्यामि सङ्क्षेपेण तवाधुना ॥ 4॥ 4,४.१६,षोडशोऽध्यायः । हरेर्नानावतारवर्णनम् ।,4,4580,धर्मस्यैवावतारोऽभूच्चाक्षुषे मनुसम्भवे । नरनारायणौ धर्मपुत्रौ ख्यातौ महीतले ॥ 5॥ 4,४.१६,षोडशोऽध्यायः । हरेर्नानावतारवर्णनम् ।,5,4581,अथ वैवस्वताख्येऽस्मिन्द्वितीये तु युगे पुनः । दत्तात्रेयावतारोऽत्रेः पुत्रत्वमगमद्धरिः ॥ 6॥ 4,४.१६,षोडशोऽध्यायः । हरेर्नानावतारवर्णनम् ।,6,4582,ब्रह्मा विष्णुस्तथा रुद्रस्त्रयोऽमी देवसत्तमाः । पुत्रत्वमगमन्देवास्तस्यात्रेर्भार्यया वृताः ॥ 7॥ 4,४.१६,षोडशोऽध्यायः । हरेर्नानावतारवर्णनम् ।,7,4583,अनसूयात्रिपत्नी च सतीनामुत्तमा सती । यया सम्प्रार्थिता देवाः पुत्रत्वमगमंस्त्रयः ॥ 8॥ 4,४.१६,षोडशोऽध्यायः । हरेर्नानावतारवर्णनम् ।,8,4584,ब्रह्माभूत्सोमरूपस्तु दत्तात्रेयो हरिः स्वयम् । दुर्वासा रुद्ररूपोऽसौ पुत्रत्वं ते प्रपेदिरे ॥ 9॥ 4,४.१६,षोडशोऽध्यायः । हरेर्नानावतारवर्णनम् ।,9,4585,नृसिंहस्यावतारस्तु देवकार्यार्थसिद्धये । चतुर्थे तु युगे जातो द्विधारूपो मनोहरः ॥ 10॥ 4,४.१६,षोडशोऽध्यायः । हरेर्नानावतारवर्णनम् ।,10,4586,हिरण्यकशिपोः सम्यग्वधाय भगवान् हरिः । चक्रे रूपं नारसिंहं देवानां विस्मयप्रदम् ॥ 11॥ 4,४.१६,षोडशोऽध्यायः । हरेर्नानावतारवर्णनम् ।,11,4587,बलेर्नियमनार्थाय श्रेष्ठे त्रेतायुगे तथा । चकार रूपं भगवान् वामनं कश्यपान्मुनेः ॥ 12॥ 4,४.१६,षोडशोऽध्यायः । हरेर्नानावतारवर्णनम् ।,12,4588,छलयित्वा मखे भूपं राज्यं तस्य जहार ह । पाताले स्थापयामास बलिं वामनरूपधृक् ॥ 13॥ 4,४.१६,षोडशोऽध्यायः । हरेर्नानावतारवर्णनम् ।,13,4589,युगे चैकोनविंशेऽथ त्रेताख्ये भगवान् हरिः । जमदग्निसुतो जातो रामो नाम महाबलः ॥ 14॥ 4,४.१६,षोडशोऽध्यायः । हरेर्नानावतारवर्णनम् ।,14,4590,क्षत्रियान्तकरः श्रीमान्सत्यवादी जितेन्द्रियः । दत्तवान्मेदिनीं कृत्स्नां कश्यपाय महात्मने ॥ 15॥ 4,४.१६,षोडशोऽध्यायः । हरेर्नानावतारवर्णनम् ।,15,4591,यो वै परशुरामाख्यो हरेरद्भुतकर्मणः । अवतारस्तु राजेन्द्र कथितः पापनाशनः ॥ 16॥ 4,४.१६,षोडशोऽध्यायः । हरेर्नानावतारवर्णनम् ।,16,4592,त्रेतायुगे रघोर्वंशे रामो दशरथात्मजः । नरनारायणांशौ द्वौ जातौ भुवि महाबलौ ॥ 17॥ 4,४.१६,षोडशोऽध्यायः । हरेर्नानावतारवर्णनम् ।,17,4593,अष्टाविंशे युगे शस्तौ द्वापरेऽर्जुनशौरिणौ । धराभारावतारार्थं जातौ कृष्णार्जुनौ भुवि ॥ 18॥ 4,४.१६,षोडशोऽध्यायः । हरेर्नानावतारवर्णनम् ।,18,4594,कृतवन्तौ महायुद्धं कुरुक्षेत्रेऽतिदारुणम् । एवं युगे युगे राजन्नवतारा हरेः किल ॥ 19॥ 4,४.१६,षोडशोऽध्यायः । हरेर्नानावतारवर्णनम् ।,19,4595,भवन्ति बहवः कामं प्रकृतेरनुरूपतः । प्रकृतेरखिलं सर्वं वशमेतज्जगत्त्रयम् ॥ 20॥ 4,४.१६,षोडशोऽध्यायः । हरेर्नानावतारवर्णनम् ।,20,4596,यथेच्छति तथैवेयं भ्रामयत्यनिशं जगत् । पुरुषस्य प्रियार्थं सा रचयत्यखिलं जगत् ॥ 21॥ 4,४.१६,षोडशोऽध्यायः । हरेर्नानावतारवर्णनम् ।,21,4597,सृष्ट्वा पुरा हि भगवाञ्जगदेतच्चराचरम् । सर्वादिः सर्वगश्चासौ दुर्ज्ञेयः परमोऽव्ययः ॥ 22॥ 4,४.१६,षोडशोऽध्यायः । हरेर्नानावतारवर्णनम् ।,22,4598,निरालम्बो निराकारो निःस्पृहश्च परात्परः । उपाधितस्त्रिधा भाति यस्याः सा प्रकृतिः परा ॥ 23॥ 4,४.१६,षोडशोऽध्यायः । हरेर्नानावतारवर्णनम् ।,23,4599,उत्पत्तिकालयोगात्सा भिन्ना भाति शिवा तदा । सा विश्वं कुरुते कामं सा पालयति कामदा ॥ 24॥ 4,४.१६,षोडशोऽध्यायः । हरेर्नानावतारवर्णनम् ।,24,4600,कल्पान्ते संहरत्येव त्रिरूपा विश्वमोहिनी । तया युक्तोऽसृज द्ब्रह्मा विष्णुः पाति तयान्वितः ॥ 25॥ 4,४.१६,षोडशोऽध्यायः । हरेर्नानावतारवर्णनम् ।,25,4601,रुद्रः संहरते कामं तया सम्मिलितः शिवः । सा चैवोत्पाद्य काकुत्स्थं पुरा वै नृपसत्तमम् ॥ 26॥ 4,४.१६,षोडशोऽध्यायः । हरेर्नानावतारवर्णनम् ।,26,4602,कुत्रचित्स्थापयामास दानवानां जयाय च । एवमस्मिंश्च संसारे सुखदुःखान्विताः किल ॥ 27॥ 4,४.१६,षोडशोऽध्यायः । हरेर्नानावतारवर्णनम् ।,27,4603,भवन्ति प्राणिनः सर्वे विधितन्त्रनियन्त्रिताः ॥ 28॥ 4,४.१६,षोडशोऽध्यायः । हरेर्नानावतारवर्णनम् ।,28,4604,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे हरेर्नानावतारवर्णनं नाम षोडशोऽध्यायः ॥ ४.१६॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,0,4605,जनमेजय उवाच । वाराङ्गनास्त्वयाख्याता नरनारायणाश्रमे । एकं नारायणं शान्तं कामयाना स्मरातुराः ॥ 1॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,1,4606,शप्तुकामस्तदा जातो मुनिर्नारायणश्च ताः । निवारितो नरेणाथ भ्रात्रा धर्मविदा नृप ॥ 2॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,2,4607,किं कृतं मुनिना तेन व्यसने समुपस्थिते । ताभिः सङ्कल्पितेनाथ कामार्थाभिर्भृशं मुने ॥ 3॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,3,4608,शक्रेणोत्पादिताभिश्च बहुप्रार्थनया पुनः । याचितेन विवाहार्थं किं कृतं तेन जिष्णुना ॥ 4॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,4,4609,इत्येतच्छ्रोतुमिच्छामि चरितं तस्य मोक्षदम् । नारायणस्य मे ब्रूहि विस्तरेण पितामह ॥ 5॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,5,4610,व्यास उवाच । श‍ृणु राजन्प्रवक्ष्यामि यथा तस्य महात्मनः । धर्मपुत्रस्य धर्मज्ञ विस्तरेण वदामि ते ॥ 6॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,6,4611,शप्तुकामस्तु सन्दृष्टो नरेणाथ यदा हरिः । वारितोऽसौ समाश्वास्य मुनिर्नारायणस्तदा ॥ 7॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,7,4612,शान्तकोपस्तदोवाच तास्तपस्वी महामुनिः । स्मितपूर्वमिदं वाक्यं मधुरं धर्मनन्दनः ॥ 8॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,8,4613,अस्मिञ्जन्मनि चार्वङ्ग्यः कृतसङ्कल्पवानहम् । आवाभ्याञ्च न कर्तव्यः सर्वथा दारसङ्ग्रहः ॥ 9॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,9,4614,तस्माद् गच्छन्तु त्रिदिवं कृपां कृत्वा ममोपरि । धर्मज्ञा न प्रकुर्वन्ति व्रतभङ्गं परस्य वै ॥ 10॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,10,4615,श‍ृङ्गारेऽस्मिन् रसे नूनं स्थायीभावो रतिः स्मृतः । कथं करोमि सम्बन्धं तदभावे सुलोचनाः ॥ 11॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,11,4616,कारणेन विना कार्यं न भवेदिति निश्चयः । कविभिः कथितं शास्त्रे स्थायीभावो रसः किल ॥ 12॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,12,4617,धन्यः सुचारुसर्वाङ्गः सभाग्योऽहं धरातले । प्रीतिपात्रं यतो जातो भवतीनामकृत्रिमम् ॥ 13॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,13,4618,भवतीभिः कृपां कृत्वा रक्षणीयं व्रतं मम । भविष्यामि महाभागाः पतिरप्यन्यजन्मनि ॥ 14॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,14,4619,अष्टाविंशे विशालाक्ष्यो द्वापरेऽस्मिन्धरातले । देवानां कार्यसिद्ध्यर्थं प्रभविष्यामि सर्वथा ॥ 15॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,15,4620,तदा भवत्यो मद्दाराः प्राप्य जन्म पृथक्पृथक् । भूपतीनां सुता भूत्वा पलीभावं गमिष्यथ ॥ 16॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,16,4621,इत्याश्वास्य हरिस्तास्तु प्रतिश्रुत्य परिग्रहम् । व्यसर्जयत्स भगवाञ्जग्मुश्च विगतज्वराः ॥ 17॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,17,4622,एवं विसर्जितास्तेन गताः स्वर्गं तदाङ्गनाः । शक्राय कथयामासुः कारणं सकलं पुनः ॥ 18॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,18,4623,आश्रुत्य मघवांस्ताभ्यो वृत्तान्तं तस्य विस्तरात् । तुष्टाव तं महात्मानं नारीर्दृष्ट्वा तथोर्वशीः ॥ 19॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,19,4624,इन्द्र उवाच । अहो धैर्यं मुनेः कामं तथैव च तपोबलम् । येनोर्वश्यः स्वतपसा तादृग्रूपाः प्रकल्पिताः ॥ 20॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,20,4625,इति स्तुत्वा प्रसन्नात्मा बभूव सुरराट् ततः । नारायणोऽपि धर्मात्मा तपस्यभिरतोऽभवत् ॥ 21॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,21,4626,इत्येतत्सर्वमाख्यातं मुनेर्वृत्तान्तमद्भुतम् । नारायणस्य सकलं नरस्य च महामुनेः ॥ 22॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,22,4627,तौ हि कृष्णार्जुनौ वीरौ भूभारहरणाय च । जातौ तौ भरतश्रेष्ठ भृगोः शापवशादिह ॥ 23॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,23,4628,राजोवाच । कृष्णावतारचरितं विस्तरेण वदस्व मे । सन्देहो मम चित्तेऽस्ति तं निवारय मानद ॥ 24॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,24,4629,ययोः पुत्रत्वमापन्नौ हर्यनन्तौ महाबलौ । देवकीवसुदेवौ तौ दुःखभाजौ कथं मुने ॥ 25॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,25,4630,कंसेन निगडे बद्धौ पीडितौ बहुवत्सरान् । ययोः पुत्रो हरिः साक्षात्तपसा तोषितोऽभवत् ॥ 26॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,26,4631,जातोऽसौ मथुरायां तु गोकुले स कथं गतः । कंसं हत्वा द्वारवत्यां निवासं कृतवान्कथम् ॥ 27॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,27,4632,पित्रादिसेवितं देशं समृद्धं पावनं किल । त्यक्त्वा देशान्तरेऽनार्ये गतवान्स कथं हरिः ॥ 28॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,28,4633,कुलञ्च द्विजशापेन कथमुत्सादितं हरेः । भारावतारणं कृत्वा वासुदेवः सनातनः ॥ 29॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,29,4634,देहं मुमोच तरसा जगाम च दिवं हरिः । पापिष्ठानाञ्च भारेण व्याकुलाभूच्च मेदिनी ॥ 30॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,30,4635,ते हता वासुदेवेन पार्थेनामितकर्मणा । लुण्ठिता यैर्हरेः पत्न्यस्ते कथं न निपातिताः ॥ 31॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,31,4636,भीष्मो द्रोणस्तथा कर्णो बाह्लिकोऽप्यथ पार्थिवः । वैराटोऽथ विकर्णश्च धृष्टद्युम्नश्च पार्थिवः ॥ 32॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,32,4637,सोमदत्तादयः सर्वे निहताः समरे नृपाः । तेषामुत्तारितो भारश्चौराणां न हृतः कथम् ॥ 33॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,33,4638,कृष्णपत्न्यः कथं दुःखं प्राप्ताः प्रान्ते पतिव्रताः । सन्देहोऽयं मुनिश्रेष्ठ चित्ते मे परिवर्तते ॥ 34॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,34,4639,वसुदेवस्तु धर्मात्मा पुत्रदुःखेन तापितः । त्यक्तवान्स कथं प्राणानपमृत्युं जगाम ह ॥ 35॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,35,4640,पाण्डवा धर्मसंयुक्ताः कृष्णे च निरताः सदा । ते कथं दुःखभोक्तारो ह्यभवन्मुनिसत्तम ॥ 36॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,36,4641,द्रौपदी च महाभागा कथं दुःखस्य भागिनी । वेदीमध्याच्च सञ्जाता लक्ष्म्यंशसम्भवा किल ॥ 37॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,37,4642,सभायां सा समानीता रजोदोषसमन्विता । बाला दुःशासनेनाथ केशग्रहणकर्शिता ॥ 38॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,38,4643,पीडिता सिन्धुराज्ञाथ वनमध्यगता सती । तथैव कीचकेनापि पीडिता रुदती भृशम् ॥ 39॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,39,4644,पुत्राः पञ्चैव तस्यास्तु निहता द्रौणिना गृहे । सुभद्रायाः सुतो युद्धे बाल एव निपातितः ॥ 40॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,40,4645,तथा च देवकीपुत्रा षट् कंसेन निषूदिताः । समर्थेनापि हरिणा दैवं न कृतमन्यथा । ४१॥ यादवानां तथा शापः प्रभासे निधनं पुनः । कुलक्षयस्तथा तीव्रस्तत्पत्नीनाञ्च लुण्ठनम् ॥ 42॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,41,4646,विष्णुना चेश्वरेणापि साक्षान्नारायणेन च । उग्रसेनस्य सेवा वै दासवत्सततं कृता ॥ 43॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,42,4647,सन्देहोऽयं महाभाग तत्र नारायणे मुनौ । सर्वजन्तुसमानत्वं व्यवहारे निरन्तरम् ॥ 44॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,43,4648,हर्षशोकादयो भावाः सर्वेषां सदृशाः कथम् । ईश्वरस्य हरेर्जाता कथमप्यन्यथा गतिः ॥ 45॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,44,4649,तस्माद्विस्तरतो ब्रूहि कृष्णस्य चरितं महत् । अलौकिकेन हरिणा कृतं कर्म महीतले ॥ 46॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,45,4650,हता आयुःक्षये दैत्याः क्लेशेन महता पुनः । क्वैश्वर्यशक्तिः प्रथिता हरिणा मुनिसत्तम ॥ 47॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,46,4651,रुक्मिणीहरणे नूनं गृहीत्वाथ पलायनम् । कृतं हि वासुदेवेन चौरवच्चरितं तदा ॥ 48॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,47,4652,मथुरामण्डलं त्यक्त्वा समृद्धं कुलसम्मतम् । जरासन्धभयात्तेन द्वारकागमनं कृतम् ॥ 49॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,48,4653,तदा केनापि न ज्ञातो भगवान्हरिरीश्वरः । किञ्चित्प्रब्रूहि मे ब्रह्मन् कारणं व्रजगोपनम् ॥ 50॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,49,4654,एते चान्ये च बहवः सन्देहा वासवीसुत । नाशयाद्य महाभाग सर्वज्ञोऽसि द्विजोत्तम ॥ 51॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,50,4655,गोप्यस्तथैकः सन्देहो हृदयान्न निवर्तते । पाञ्चाल्याः पञ्चभर्तृत्वं लोके किं न जुगुप्सितम् ॥ 52॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,51,4656,सदाचारं प्रमाणं हि प्रवदन्ति मनीषिणः । पशुधर्मः कथं तैस्तु समर्थैरपि संश्रितः ॥ 53॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,52,4657,भीष्मेणापि कृतं किं वा देवरूपेण भूतले । गोलकौ तौ समुत्पाद्य यत्तु वंशस्य रक्षणम् ॥ 54॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,53,4658,धिग्धर्मनिर्णयः कामं मुनिभिः परिदर्शितः । येन केनाप्युपायेन पुत्रोत्पादनलक्षणः ॥ 55॥ 4,४.१७,सप्तदशोऽध्यायः । नारायणवरदानम् ।,54,4659,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे सुराङ्गनानां प्रति नारायणवरदानं नाम सप्तदशोऽध्यायः ॥ ४.१७॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,0,4660,व्यास उवाच । श‍ृणु राजन्प्रवक्ष्यामि कृष्णस्य चरितं महत् । अवतारकारणं चैव देव्याश्चरितमद्भुतम् ॥ 1॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,1,4661,धरैकदा भराक्रान्ता रुदती चातिकर्शिता । गोरूपधारिणी दीना भीतागच्छत्त्रिविष्टपम् ॥ 2॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,2,4662,पृष्टा शक्रेण किं तेऽद्य वर्तते भयमित्यथ । केन वै पीडितासि त्वं किं ते दुःखं वसुन्धरे ॥ 3॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,3,4663,तच्छ्रुत्वेला तदोवाच श‍ृणु देवेश मेऽखिलम् । दुःखं पृच्छसि यत्त्वं मे भाराक्रान्तोऽस्मि मानद ॥ 4॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,4,4664,जरासन्धो महापापी मागधेषु पतिर्मम । शिशुपालस्तथा चैद्यः काशिराजः प्रतापवान् ॥ 5॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,5,4665,रुक्मी च बलवान्कंसो नरकश्च महाबलः । शाल्वः सौभपतिः क्रूरः केशी धेनुकवत्सकौ ॥ 6॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,6,4666,सर्वे धर्मविहीनाश्च परस्परविरोधिनः । पापाचारा मदोन्मत्ताः कालरूपाश्च पार्थिवाः ॥ 7॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,7,4667,तैरहं पीडिता शक्र भाराक्रान्ताक्षमा विभो । किं करोमि क्व गच्छामि चिन्ता मे महती स्थिता ॥ 8॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,8,4668,पीडिताहं वराहेण विष्णुना प्रभविष्णुना । शक्र जानीहि हरिणा दुःखाद्दुःखतरं गता ॥ 9॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,9,4669,यतोऽहं दुष्टदैत्येन कश्यपस्यात्मजेन वै । हृताहं हिरण्याक्षेण मग्ना तस्मिन्महार्णवे ॥ 10॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,10,4670,तदा सूकररूपेण विष्णुना निहतोऽप्यसौ । उद्धृताहं वराहेण स्थापिता हि स्थिरा कृता ॥ 11॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,11,4671,नोचेद्रसातले स्वस्था स्थिता स्यां सुखशायिनी । न शक्तास्म्यद्य देवेश भारं वोढुं दुरात्मनाम् ॥ 12॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,12,4672,अग्रे दुष्टः समायाति ह्यष्टाविंशस्तथा कलिः । तदाहं पीडिता शक्र गन्तास्म्याशु रसातलम् ॥ 13॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,13,4673,तस्मात्त्वं देवदेवेश दुःखरूपार्णवस्य च । पारदो भव भारं मे हर पादौ नमामि ते ॥ 14॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,14,4674,इन्द्र उवाच । इले किं ते करोम्यद्य ब्रह्माणं शरणं व्रज । अहं तत्रागमिष्यामि स ते दुःखं हरिष्यति ॥ 15॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,15,4675,तच्छ्रुत्वा त्वरिता पृथ्वी ब्रह्मलोकं गता तदा । शक्रोऽपि पृष्ठतः प्राप्तः सर्वदेवपुरःसरः ॥ 16॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,16,4676,सुरभीमागतां तत्र दृष्ट्वोवाच प्रजापतिः । महीं ज्ञात्वा महाराज ध्यानेन समुपस्थिताम् ॥ 17॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,17,4677,कस्माद्रुदसि कल्याणि किं ते दुःखं वदाधुना । पीडितासि च केन त्वं पापाचारेण भूर्वद ॥ 18॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,18,4678,धरोवाच । कलिरायाति दुष्टोऽयं बिभेमि तद्भयादहम् । पापाचाराः प्रजास्तत्र भविष्यन्ति जगत्पते ॥ 19॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,19,4679,राजानश्च दुराचाराः परस्परविरोधिनः । चौरकर्मरताः सर्वे राक्षसाः पूर्णवैरिणः ॥ 20॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,20,4680,तान्हत्वा नृपतीन्भारं हर मेऽद्य पितामह । पीडितास्मि महाराज सैन्यभारेण भूभृताम् ॥ 21॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,21,4681,ब्रह्योवाच । नाहं शक्तस्तथा देवि भारावतरणे तव । गच्छावः सदनं विष्णोर्देवदेवस्य चक्रिणः ॥ 22॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,22,4682,स ते भारापनोदं वै करिष्यति जनार्दनः । पूर्वं मयापि ते कार्यं चिन्तितं सुविचार्य च ॥ 23॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,23,4683,तत्र गच्छ सुरश्रेष्ठ यत्र देवो जनार्दनः । व्यास उवाच । इत्युक्त्वा वेदकर्तासौ पुरस्कृत्य सुरांश्च गाम् ॥ 24॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,24,4684,जगाम विष्णुसदनं हंसारूढश्चतुर्मुखः । तुष्टाव वेदवाक्यैश्च भक्तिप्रवणमानसः ॥ 25॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,25,4685,ब्रह्मोवाच । सहस्रशीर्षास्त्वमसि सहस्राक्षः सहस्रपात् । त्वं वेदपुरुषः पूर्वं देवदेवः सनातनः ॥ 26॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,26,4686,भूतपूर्वं भविष्यच्च वर्तमानं च यद्विभो । अमरत्वं त्वया दत्तमस्माकं च रमापते ॥ 27॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,27,4687,एतावान्महिमा तेऽस्ति को न वेत्ति जगत्त्रये । त्वं कर्ताप्यविता हन्ता त्वं सर्वगतिरीश्वरः ॥ 28॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,28,4688,व्यास उवाच । इतीडितः प्रभुर्विष्णुः प्रसन्नो गरुडध्वजः । दर्शनञ्च ददौ तेभ्यो ब्रह्मादिभ्योऽमलाशयः ॥ 29॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,29,4689,पप्रच्छ स्वागतं देवान्प्रसन्नवदनो हरिः । ततस्त्वागमने तेषां कारणञ्च सविस्तरम् ॥ 30॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,30,4690,तमुवाचाब्जजो नत्वा धरादुःखञ्च संस्मरन् । भारावतरणं विष्णो कर्तव्यं ते जनार्दन ॥ 31॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,31,4691,भुवि धृत्वावतारं त्वं द्वापरान्ते समागते । हत्वा दुष्टान्नृपानुर्व्या हर भारं दयानिधे ॥ 32॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,32,4692,विष्णुरुवाच । नाहं स्वतन्त्र एवात्र न ब्रह्मा न शिवस्तथा । नेन्द्रोऽग्निर्न यमस्त्वष्टा न सूर्यो वरुणस्तथा ॥ 33॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,33,4693,योगमायावशे सर्वमिदं स्थावरजङ्गमम् । ब्रह्मादिस्तम्बपर्यन्तं ग्रथितं गुणसूत्रतः ॥ 34॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,34,4694,यथा सा स्वेच्छया पूर्वं कर्तुमिच्छति सुव्रत । तथा करोति सुहिता वयं सर्वेऽपि तद्वशाः ॥ 35॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,35,4695,यद्यहं स्यां स्वतन्त्रो वै चिन्तयन्तु धिया किल । कुतोऽभवं मत्स्यवपुः कच्छपो वा महार्णवे ॥ 36॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,36,4696,तिर्यग्योनिषु को भोगः का कीर्तिः किं सुखं पुनः । किं पुण्यं किं फलं तत्र क्षुद्रयोनिगतस्य मे ॥ 37॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,37,4697,कोलो वाथ नृसिंहो वा वामनो वाभवं कुतः । जमदग्निसुतः कस्मात्सम्भवेयं पितामह ॥ 38॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,38,4698,नृशंसं वा कथं कर्म कृतवानस्मि भूतले । क्षतजैस्तु ह्रदान्सर्वान्पूरयेयं कथं पुनः ॥ 39॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,39,4699,तत्कथं जमदग्नेश्च पुत्रो भूत्वा द्विजोत्तमः । क्षत्रियान्हतवानाजौ निर्दयो गर्भगानपि ॥ 40॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,40,4700,रामो भूत्वाथ देवेन्द्र प्राविशद्दण्डकं वनम् । पदातिश्चीरवासाश्च जटावल्कलवान्पुनः ॥ 41॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,41,4701,असहायो ह्यपाथेयो भीषणे निर्जने वने । कुर्वन्नाखेटकं तत्र व्यचरं विगतत्रपः ॥ 42॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,42,4702,न ज्ञातवान्मृगं हैमं मायया पिहितस्तदा । उटजे जानकीं त्यक्त्वा निर्गतस्तत्पदानुगः ॥ 43॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,43,4703,लक्ष्मणोऽपि च तां त्यक्त्वा निर्गतो मत्पदानुगः । वारितोऽपि मयात्यर्थं मोहितः प्राकृतैर्गुणैः ॥ 44॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,44,4704,भिक्षुरूपं ततः कृत्वा रावणः कपटाकृतिः । जहार तरसा रक्षो जानकीं शोककर्शिताम् ॥ 45॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,45,4705,दुःखार्तेन मया तत्र रुदितञ्च वने वने । सुग्रीवेण च मित्रत्वं कृतं कार्यवशान्मया ॥ 46॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,46,4706,अन्यायेन हतो वाली शापाच्चैव निवारितः । सहायान्वानरान् कृत्वा लङ्कायां चलितः पुनः ॥ 47॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,47,4707,बद्धोऽहं नागपाशैश्च लक्ष्मणश्च ममानुजः । विसंज्ञौ पतितौ दृष्ट्वा वानरा विस्मयं गताः ॥ 48॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,48,4708,गरुडेन तदाऽऽगत्य मोचितौ भ्रातरौ किल । चिन्ता मे महती जाता दैवं किं वा करिष्यति ॥ 49॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,49,4709,हृतं राज्यं वने वासो मृतस्तातः प्रिया हृता । युद्धं कष्टं ददात्येवमग्रे किं वा करिष्यति ॥ 50॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,50,4710,प्रथमं तु महद्दुःखमराज्यस्य वनाश्रयम् । राजपुत्र्यान्वितस्यैव धनहीनस्य मे सुराः ॥ 51॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,51,4711,वराटिकापि पित्रा मे न दत्ता वननिर्गमे । पदातिरसहायोऽहं धनहीनश्च निर्गतः ॥ 52॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,52,4712,चतुर्दशैव वर्षाणि नीतानि च तदा मया । क्षात्रं धर्मं परित्यज्य व्याधवृत्त्या महावने ॥ 53॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,53,4713,दैवाद्युद्धे जयः प्राप्तो निहतोऽसौ महासुरः । आनीता च पुनः सीता प्राप्तायोध्या मया तथा ॥ 54॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,54,4714,वर्षाणि कतिचित्तत्र सुखं संसारसम्भवम् । प्राप्तं राज्यञ्च सम्पूर्णं कोसलानधितिष्ठता ॥ 55॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,55,4715,पुरैवं वर्तमानेन प्राप्तराज्येन वै तदा । लोकापवादभीतेन त्यक्ता सीता वने मया ॥ 56॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,56,4716,कान्ताविरहजं दुःखं पुनः प्राप्तं दुरासदम् । पातालं सा गता पश्चाद्धरां भित्त्वा धरात्मजा ॥ 57॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,57,4717,एवं रामावतारेऽपि दुःखं प्राप्तं निरन्तरम् । परतन्त्रेण मे नूनं स्वतन्त्रः को भवेत्तदा ॥ 58॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,58,4718,पश्चात्कालवशात्प्राप्तः स्वर्गो मे भ्रातृभिः सह । परतन्त्रस्य का वार्ता वक्तव्या विबुधेन वै ॥ 59॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,59,4719,परतन्त्रोऽत्म्यहं नूनं पद्मयोने निशामय । तथा त्वमपि रुद्रश्च सर्वे चान्ये सुरोत्तमाः ॥ 60॥ 4,४.१८,अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।,60,4720,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे ब्रह्माणं प्रति विष्णुवाक्यं नामाष्टादशोऽध्यायः ॥ ४.१८॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,0,4721,व्यास उवाच । इत्युक्त्वा भगवान्विष्णुः पुनराह प्रजापतिम् । यन्मायामोहितः सर्वस्तत्त्वं जानाति नो जनः ॥ 1॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,1,4722,वयं मायावृताः कामं न स्मरामो जगद्गुरुम् । परमं पुरुषं शान्तं सच्चिदानन्दमव्ययम् ॥ 2॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,2,4723,अहं विष्णुरहं ब्रह्मा शिवोऽहमिति मोहिताः । न जानीमो वयं धातः परं वस्तु सनातनम् ॥ 3॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,3,4724,यन्मायामोहितश्चाहं सदा वर्ते परात्मनः । परवान्दारुपाञ्चाली मायिकस्य यथा वशे ॥ 4॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,4,4725,भवतापि तथा दृष्टा विभूतिस्तस्य चाद्भुता । कल्पादौ भवयुक्तेन मयापि च सुधार्णवे ॥ 5॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,5,4726,मणिद्वीपेऽथ मन्दारविटपे रासमण्डले । समाजे तत्र सा दृष्टा श्रुता न वचसापि च ॥ 6॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,6,4727,तस्मात्तां परमां शक्तिं स्मरन्त्वद्य सुराः शिवाम् । सर्वकामप्रदां मायामाद्यां शक्तिं परात्मनः ॥ 7॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,7,4728,व्यास उवाच । इत्युक्ता हरिणा देवा ब्रह्माद्या भुवनेश्वरीम् । सस्मरुर्मनसा देवीं योगमायां सनातनीम् ॥ 8॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,8,4729,स्मृतमात्रा तदा देवी प्रत्यक्षं दर्शनं ददौ । पाशाङ्कुशवराभीतिधरा देवी जपारुणा । दृष्ट्वा प्रमुदिता देवास्तुष्टुवुस्तां सुदर्शनाम् ॥ 9॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,9,4730,देवा ऊचुः । ऊर्णनाभाद्यथा तन्तुर्विस्फुलिङ्गा विभावसोः । तथा जगद्यदेतस्या निर्गतं तां नता वयम् ॥ 10॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,10,4731,यन्मायाशक्तिसङ्कॢप्तं जगत्सर्वं चराचरम् । तां चितं भुवनाधीशां स्मरामः करुणार्णवाम् ॥ 11॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,11,4732,यदज्ञानाद्भवोत्पत्तिर्यज्ज्ञानाद्भवनाशनम् । संविद्रूपां च तां देवीं स्मरामः सा प्रचोदयात् ॥ 12॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,12,4733,महालक्ष्यै च विद्महे सर्वशक्त्यै च धीमहि । तन्नो देवी प्रचोदयात् ॥ 13॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,13,4734,मातर्नताः स्म भुवनार्तिहरे प्रसीद शन्तो विधेहि कुरु कार्यमिदं दयार्द्रे । भारं हरस्व विनिहत्य सुरारिवर्गं मह्या महेश्वरि सतां कुरु शं भवानि ॥ 14॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,14,4735,यद्यम्बुजाक्षि दयसे न सुरान्कदाचित् किं ते क्षमा रणमुखेऽसिशरैः प्रहर्तुम् । एतत्त्वयैव गदितं ननु यक्षरूपं धृत्वा तृणं दह हुताश पदाभिलाषैः ॥ 15॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,15,4736,कंसः कुजोऽथ यवनेन्द्रसुतश्च केशी बार्हद्रथो बकबकीखरशाल्वमुख्याः । येऽन्ये तथा नृपतयो भुवि सन्ति तांस्त्वं हत्वा हरस्व जगतो भरमाशु मातः ॥ 16॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,16,4737,ये विष्णुना न निहताः किल शङ्करेण ये वा विगृह्य जलजाक्षि पुरन्दरेण । ते ते मुखं सुखकरं सुसमीक्षमाणाः सङ्ख्ये शरैर्विनिहता निजलीलया ते ॥ 17॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,17,4738,शक्तिं विना हरिहरप्रमुखाः सुराश्च ॥ नैवेश्वरा विचलितुं तव देवदेवि । किं धारणाविरहितः प्रभुरप्यनन्तो धर्तुं धराञ्च रजनीशकलावतंसे ॥ 18॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,18,4739,इन्द्र उवाच । वाचा विना विधिरलं भवतीह विश्वं कर्तुं हरिः किमु रमारहितोऽथ पातुम् । संहर्तुमीश उमयोज्झित ईश्वरः किं ते ताभिरेव सहिताः प्रभवः प्रजेशाः ॥ 19॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,19,4740,विष्णुरुवाच । कर्तुं प्रभुर्न द्रुहिणो न कदाचनाहं नापीश्वरस्तव कलारहितस्त्रिलोक्याः । कर्तुं प्रभुत्वमनघेऽत्र तथा विहर्तुं त्वं वै समस्तविभवेश्वरि भासि नूनम् ॥ 20॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,20,4741,व्यास उवाच । एवं स्तुता तदा देवी तानाह विबुधेश्वरान् । किं तत्कार्यं वदन्त्वद्य करोमि विगतज्वराः ॥ 21॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,21,4742,असाध्यमपि लोकेऽस्मिंस्तत्करोमि सुरेप्सितम् । शंसन्तु भवतां दुःखं धरायाश्च सुरोत्तमाः ॥ 22॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,22,4743,देवा ऊचुः । वसुधेयं भराक्रान्ता सम्प्राप्ता विबुधान्प्रति । रुदती वेपमाना च पीडिता दुष्टभूभुजैः ॥ 23॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,23,4744,भारापहरणं चास्याः कर्तव्यं भुवनेश्वरि । देवानामीष्मित कार्यमेतदेवाधुना शिवे ॥ 24॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,24,4745,घातितस्तु पुरा मातस्त्वया महिषरूपभृत् । दानवोऽतिबलाक्रान्तस्तत्सहायाश्च कोटिशः ॥ 25॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,25,4746,तथा शुम्भो निशुम्भश्च रक्तबीजस्तथापरः । चण्डमुण्डौ महावीर्यौ तथैव धूम्रलोचनः ॥ 26॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,26,4747,दुर्मुखो दुःसहश्चैव करालश्चाति वीर्यवान् । अन्ये च बहवः क्रूरास्त्वयैव च निपातिताः ॥ 27॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,27,4748,तथैव च सुरारींश्च जहि सर्वान्महीश्वरान् । (भारं हर धरायाश्च दुर्धरं दुष्टभूभुजां ।)॥ व्यास उवाच । इत्युक्ता सा तदा देवी देवानाहाम्बिका शिवा ॥ 28॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,28,4749,सम्प्रहस्यासितापाङ्गी मेघगम्भीरया गिरा । श्रीदेव्युवाच । मयेदं चिन्तितं पूर्वमंशावतरणं सुराः ॥ 29॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,29,4750,भारावतरणं चैव यथा स्याद्दुष्टभूभुजाम् । मया सर्वे निहन्तव्या दैत्येशा ये महीभुजः ॥ 30॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,30,4751,मागधाद्या महाभागाः स्वशक्त्या मन्दतेजसः । भवद्भिरपि स्वैरंशैरवतीर्य धरातले ॥ 31॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,31,4752,मच्छक्तियुक्तैः कर्तव्यं भारावतरणं सुराः । कश्यपो भार्यया सार्धं दिविजानां प्रजापतिः ॥ 32॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,32,4753,यादवानां कुले पूर्वं भविताऽऽनकदुन्दुभिः । तथैव भृगुशापाद्वै भगवान्विष्णुरव्ययः ॥ 33॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,33,4754,अंशेन भविता तत्र वसुदेवसुतो हरिः । तदाहं प्रभविष्यामि यशोदायां च गोकुले ॥ 34॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,34,4755,कार्यं सर्वं करिष्यामि सुराणां सुरसत्तमाः । कारागारे गतं विष्णुं प्रापयिष्यामि गोकुले ॥ 35॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,35,4756,शेषं च देवकीगर्भात्प्रापयिष्यामि रोहिणीम् । मच्छक्त्योपचितौ तौ च कर्तारौ दुष्टसङ्क्षयम् ॥ 36॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,36,4757,दुष्टानां भूभुजां कामं द्वापरान्ते सुनिश्चितम् । इन्द्रांशोऽप्यर्जुनः साक्षात्करिष्यति बलक्षयम् ॥ 37॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,37,4758,धर्मांशोऽपि महाराजो भविष्यति युधिष्ठिरः । वाय्वंशो भीमसेनश्चाश्विन्यंशौ च यमावपि ॥ 38॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,38,4759,वसोरंशोऽथ गाङ्गेयः करिष्यति बलक्षयम् । व्रजन्तु च भवन्तोऽद्य धरा भवतु सुस्थिरा ॥ 39॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,39,4760,भारावतरणं नूनं करिष्यामि सुरोत्तमाः । कृत्वा निमित्तमात्रांस्तान्स्वशक्त्याहं न संशयः ॥ 40॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,40,4761,कुरुक्षेत्रे करिष्यामि क्षत्त्रियाणां च सङ्क्षयम् । असूयेर्ष्या मतिस्तृष्णा ममताभिमता स्पृहा ॥ 41॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,41,4762,जिगीषा मदनो मोहो दोषैर्नक्ष्यन्ति यादवाः । ब्राह्मणस्य च शापेन वंशनाशो भविष्यति ॥ 42॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,42,4763,भगवानपि शापेन त्यक्ष्यत्येतत्कलेवरम् । भवन्तोऽपि निजाङ्गैश्च सहायाः शार्ङ्गधन्वनः ॥ 43॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,43,4764,प्रभवन्तु सनारीका मथुरायां च गोकुले । व्यास उवाच । इत्युक्त्वान्तर्दधे देवी योगमाया परात्मनः ॥ 44॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,44,4765,सधरा वै सुराः सर्वे जग्मुः स्वान्यालयानि च । धरापि सुस्थिरा जाता तस्या वाक्येन तोषिता ॥ 45॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,45,4766,ओषधीवीरुधोपेता बभूव जनमेजय । प्रजाश्च सुखिनो जाता द्विजाश्चापुर्महोदयम् । सन्तुष्टा मुनयः सर्वे बभूबुर्धर्मतत्पराः ॥ 46॥ 4,४.१९,एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।,46,4767,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे देवान् प्रति देवीवाक्यवर्णनं नामकोनविंशोऽध्यायः ॥ ४.१९॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,0,4768,व्यास उवाच । श‍ृण भारत वक्ष्यामि भारावतरणं तथा । कुरुक्षेत्रे प्रभासे च क्षपितं योगमायया ॥ 1॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,1,4769,यदुवंशे समुत्पत्तिर्विष्णोरमिततेजसः । भृगुशापप्रतापेन महामायाबलेन च ॥ 2॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,2,4770,क्षितिभारसमुत्तारनिमित्तमिति मे मतिः । मायया विहितो योगो विष्णोर्जन्म धरातले ॥ 3॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,3,4771,किं चित्रं नृप देवी सा ब्रह्मविष्णुसुरानपि । नर्तयत्यनिशं माया त्रिगुणानपरान्किमु ॥ 4॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,4,4772,गर्भवासोद्भवं दुःखं विण्मूत्रस्नायुसंयुतम् । विष्णोरापादितं सम्यग्यया विगतलीलया ॥ 5॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,5,4773,पुरा रामावतारेऽपि निर्जरा वानराः कृताः । विदितं ते यथा विष्णुर्दुःखपाशेन मोहितः ॥ 6॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,6,4774,अहं ममेति पाशेन सुदृढेन नराधिप । योगिनो मुक्तसङ्गाश्च भुक्तिकामा मुमुक्षवः ॥ 7॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,7,4775,तामेव समुपासन्ते देवीं विश्वेश्वरीं शिवाम् । यद्भक्तिलेशलेशांशलेशलेशलवांशकम् ॥ 8॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,8,4776,लब्ध्वा मुक्तो भवेज्जन्तुस्तां न सेवेत को जनः । भुवनेशीत्येव वक्त्रे ददाति भुवनत्रयम् ॥ 9॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,9,4777,मां पाहीत्यस्य वचसो देयाभावादृणान्विता । विद्याविद्येति तस्या द्वे रूपे जानीहि पार्थिव ॥ 10॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,10,4778,विद्यया मुच्यते जन्तुर्बध्यतेऽविद्यया पुनः । ब्रह्मा विष्णुश्च रुद्रश्च सर्वे तस्या वशानुगाः ॥ 11॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,11,4779,अवताराः सर्व एव यन्त्रिता इव दामभिः । कदाचिच्च सुखं भुङ्क्ते वैकुण्ठे क्षीरसागरे ॥ 12॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,12,4780,कदाचित्कुरुते युद्धं दानवैर्बलवत्तरैः । हरिः कदाचिद्यज्ञान्वै विततान्प्रकरोति च ॥ 13॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,13,4781,कदाचिच्च तपस्तीव्रं तीर्थे चरति सुव्रत । कदाचिच्छयने शेते योगनिद्रामुपाश्रितः ॥ 14॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,14,4782,न स्वतन्त्रः कदाचिच्च भगवान्मधुसूदनः । तथा ब्रह्मा तथा रुद्रस्तथेन्द्रो वरुणो यमः ॥ 15॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,15,4783,कुबेरोऽग्नी रवीन्दू च तथान्ये सुरसत्तमाः । मुनयः सनकाद्याश्च वसिष्ठाद्यास्तथापरे ॥ 16॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,16,4784,सर्वेऽम्बावशगा नित्यं पाञ्चालीव नरस्य च । नसि प्रोता यथा गावो विचरन्ति वशानुगाः ॥ 17॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,17,4785,तथैव देवताः सर्वाः कालपाशनियन्त्रिताः । हर्षशोकादयो भावा निद्रातन्द्रालसादयः ॥ 18॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,18,4786,सर्वेषां सर्वदा राजन्देहिनां देहसंश्रिताः । अमरा निर्जराः प्रोक्ता देवाश्च ग्रन्थकारकैः ॥ 19॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,19,4787,अभिधानतश्चार्थतो न ते नूनं तादृशाः क्वचित् । उत्पत्तिस्थितिनाशाख्या भावा येषां निरन्तरम् ॥ 20॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,20,4788,अमरास्ते कथं वाच्या निर्जराश्च कथं पुनः । कथं दुःखाभिभूता वा जायन्ते विबुधोत्तमाः ॥ 21॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,21,4789,कथं देवाश्च वक्तव्या व्यसने क्रीडनं कथम् । क्षणादुत्पत्तिनाशश्च दृश्यतेऽस्मिन्न संशयः ॥ 22॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,22,4790,जलजानां च कीटानां मशकानां तथा पुनः । उपमा न कथं चैषामायुषोऽन्ते मराः स्मृताः ॥ 23॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,23,4791,ततो वर्षायुषश्चापि शतवर्षायुषस्तथा । मनुष्या ह्यमरा देवास्तस्माद् ब्रह्मापरः स्मृतः ॥ 24॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,24,4792,रुद्रस्तथा तथा विष्णुः क्रमशश्च भवन्ति हि । नश्यन्ति क्रमशश्चैव वर्धन्ति चोत्तरोत्तरम् ॥ 25॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,25,4793,नूनं देहवतो नाशो मृतस्योत्पत्तिरेव च । चक्रवद् भ्रमणं राजन् सर्वेषां नात्र संशयः ॥ 26॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,26,4794,मोहजालावृतो जन्तुर्मुच्यते न कदाचन । मायायां विद्यमानायां मोहजालं न नश्यति ॥ 27॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,27,4795,उत्पित्सुकाल उत्पत्तिः सर्वेषां नृप जायते । तथैव नाशः कल्पान्ते ब्रह्मादीनां यथाक्रमम् ॥ 28॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,28,4796,निमित्तं यस्तु यन्नाशे स घातयति तं नृप । नान्यथा तद्भवेन्नूनं विधिना निर्मितं तु यत् ॥ 29॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,29,4797,जन्ममृत्युजराव्याधिदुःखं वा सुखमेव वा । तत्तथैव भवेत्कामं नान्यथेह विनिर्णयः ॥ 30॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,30,4798,सर्वेषां सुखदौ देवौ प्रत्यक्षौ शशिभास्करौ । न नश्यति तयोः पीडा क्यचित्तद्वैरिसम्भवा ॥ 31॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,31,4799,भास्करस्य सुतो मन्दः क्षयी चन्द्रः कलङ्कवान् । पश्य राजन् विधेः सूत्रं दुर्वारं महतामपि ॥ 32॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,32,4800,वेदकर्ता जगत्स्रष्टा बुद्धिदस्तु चतुर्मुखः । सोऽपि विक्लवतां प्राप्तो दृष्ट्वा पुत्रीं सरस्वतीम् ॥ 33॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,33,4801,शिवस्यापि मृता भार्या सती दग्ध्वा कलेवरम् । सोऽभवद्दुःखसन्तप्तः कामार्तश्च जनार्तिहा ॥ 34॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,34,4802,कामाग्निदग्धदेहस्तु कालिन्द्यां पतितः शिवः । सापि श्यामजला जाता तन्निदाघवशान्नृप ॥ 35॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,35,4803,कामार्तो रममाणस्तु नग्नः सोऽपि भृगोर्वनम् । गतः प्राप्तोऽथ भृगुणा शप्तः कामातुरो भृशम् ॥ 36॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,36,4804,पतत्वद्यैव ते लिङ्गं निर्लज्जेति भृशं किल । पपौ चामृतवापीञ्च दानवैर्निर्मितां मुदे ॥ 37॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,37,4805,इन्द्रोऽपि च वृषो भूत्वा वाहनत्वं गतः क्षितौ । आद्यस्य सर्वलोकस्य विष्णोरेव विवेकिनः ॥ 38॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,38,4806,सर्वज्ञत्वं गतं कुत्र प्रभुशक्तिः कुतो गता । यद्धेममृगविज्ञानं न ज्ञातं हरिणा किल ॥ 39॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,39,4807,राजन् मायाबलं पश्य रामो हि काममोहितः । रामो विरहसन्तप्तो रुरोद भृशमातुरः ॥ 40॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,40,4808,योऽपृच्छत्पादपान्मूढः क्व गता जनकात्मजा । भक्षिता वा हृता केन रुदन्नुच्चतरं ततः ॥ 41॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,41,4809,लक्ष्मणाहं मरिष्यामि कान्ताविरहदुःखितः । त्वं चापि मम दुःखेन मरिष्यसि वनेऽनुज ॥ 42॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,42,4810,आवयोर्मरणं ज्ञात्वा माता मम मरिष्यति । शत्रुघ्नोऽप्यतिदुःखार्तः कथं जीवितुमर्हति ॥ 43॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,43,4811,सुमित्रा जीवितं जह्यात्पुत्रव्यसनकर्शिता । पूर्णकामाथ कैकेयी भवेत्पुत्रसमन्विता ॥ 44॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,44,4812,हा सीते क्व गतासि त्वं मां विहाय स्मरातुरा । एह्येहि मृगशावाक्षि मां जीवय कृशोदरि ॥ 45॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,45,4813,किं करोमि क्व गच्छामि त्वदधीनञ्च जीवितम् । समाश्वासय दीनं मां प्रियं जनकनन्दिनि ॥ 46॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,46,4814,एवं विलपता तेन रामेणामिततेजसा । वने वने च भ्रमता नेक्षिता जनकात्मजा ॥ 47॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,47,4815,शरण्यः सर्वलोकानां रामः कमललोचनः । शरणं वानराणां स गतो मायाविमोहितः ॥ 48॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,48,4816,सहायान्वानरान्कृत्वा बबन्ध वरुणालयम् । जघान रावणं वीरं कुम्भकर्णं महोदरम् ॥ 49॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,49,4817,आनीय च ततः सीतां रामो दिव्यमकारयत् । सर्वज्ञोऽपि हृतां मत्वा रावणेन दुरात्मना ॥ 50॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,50,4818,किं ब्रवीमि महाराज योगमायाबलं महत् । यया विश्वमिदं सर्वं भ्रामितं भ्रमते किल ॥ 51॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,51,4819,एवं नानावतारेऽत्र विष्णुः शापवशं गतः । करोति विविधाश्चेष्टा दैवाधीनः सदैव हि ॥ 52॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,52,4820,तवाहं कथयिष्यामि कृष्णस्यापि विचेष्टितम् । प्रभवं मानुषे लोके देवकार्यार्थसिद्धये ॥ 53॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,53,4821,कालिन्दीपुलिने रम्ये ह्यासीन्मधुवनं पुरा । लवणो मधुपुत्रस्तु तत्रासीद्दानवो बली ॥ 54॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,54,4822,द्विजानां दुःखदः पापो वरदानेन गर्वितः । निहतोऽसौ महाभाग लक्ष्मणस्यानुजेन वै ॥ 55॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,55,4823,शत्रुघ्नेनाथ सङ्ग्रामे तं निहत्य मदोत्कटम् । वासिता मथुरा नाम पुरी परमशोभना ॥ 56॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,56,4824,स तत्र पुष्कराक्षौ द्वौ पुत्रौ शत्रुनिषूदनः । निवेश्य राज्ये मतिमान्काले प्राप्ते दिवं गतः ॥ 57॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,57,4825,सूर्यवंशक्षये तां तु यादवाः प्रतिपेदिरे । मथुरां मुक्तिदा राजन् ययातितनयः पुरा ॥ 58॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,58,4826,श्ण्सेनाभिधः श्द्वस्तत्राभून्मेदिनीपतिः । माथुराच्छूरसेनांश्च बुभुजे विषयान्नृप ॥ 59॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,59,4827,तत्रोत्पन्नः कश्यपांशः शापाच्च वरुणस्य वै । वसुदेवोऽतिविख्यातः शूरसेनसुतस्तदा ॥ 60॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,60,4828,वैश्यवृत्तिरतः सोऽभून्मृते पितरि माधवः । उग्रसेनो बभूवाथ कंसस्तस्यात्मजो महान् ॥ 61॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,61,4829,अदितिर्देवकी जाता देवकस्य सुता तदा । शापाद्वै वरुणस्याथ कश्यपानुगता किल ॥ 62॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,62,4830,दत्ता सा वसुदेवाय देवकेन महात्मना । विवाहे रचिते तत्र वागभूद् गगने तदा ॥ 63॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,63,4831,कंस कंस महाभाग देवकीगर्भसम्भवः । अष्टमस्तु सुतः श्रीमांस्तव हन्ता भविष्यति ॥ 64॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,64,4832,तच्छ्रुत्वा वचनं कंसो विस्मितोऽभून्महाबलः । देववाचं तु तां मत्वा सत्यां चिन्तामवाप सः ॥ 65॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,65,4833,किं करोमीति सञ्चिन्त्य विमर्शमकरोत्तदा । निहत्यैनां न मे मृत्युर्भवेदद्यैव सत्वरम् ॥ 66॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,66,4834,उपायो नान्यथा चास्मिन्कार्ये मृत्युभयावहे । इयं पितृष्वसा पूज्या कथं हन्मीत्यचिन्तयत् ॥ 67॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,67,4835,पुनर्विचारयामास मरणं मेऽस्त्यहो स्वसा । पापेनापि प्रकर्तव्या देहरक्षा विपश्चिता ॥ 68॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,68,4836,प्रायश्चित्तेन पापस्य शुद्धिर्भवति सर्वदा । प्राणरक्षा प्रकर्तव्या बुधैरप्येनसा तथा ॥ 69॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,69,4837,विचिन्त्य मनसा कंसः खड्गमादाय सत्वरः । जग्राह तां वरारोहां केशेष्वाकृष्य पापकृत् ॥ 70॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,70,4838,कोशात्खड्गमुपाकृष्य हन्तुकामो दुराशयः । पश्यतां सर्वलोकानां नवोढां तां चकर्ष ह ॥ 71॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,71,4839,हन्यमानाञ्च तां दृष्ट्वा हाहाकारो महानभूत् । वसुदेवानुगा वीरा युद्धायोद्यतकार्मुकाः ॥ 72॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,72,4840,मुञ्च मुञ्चेति प्रोचुस्तं ते तदाद्भुतसाहसाः । कृपया मोचयामासुर्देवकीं देवमातरम् ॥ 73॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,73,4841,तद्युद्धमभवद् घोरं वीराणाञ्च परस्परम् । वसुदेवसहायानां कंसेन च महात्मना ॥ 74॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,74,4842,वर्तमाने तथा युद्धे दारुणे लोमहर्षणे । कंसं निवारयामासुर्वृद्धा ये यदुसत्तमाः ॥ 75॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,75,4843,पितृष्वसेयं ते वीर पूजनीया च बालिशा । न हन्तव्या त्वया वीर विवाहोत्सवसङ्गमे ॥ 76॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,76,4844,स्त्रीहत्या दुःसहा वीर कीर्तिघ्नी पापकृत्तमा । भूतभाषितमात्रेण न कर्तव्या विजानता ॥ 77॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,77,4845,अन्तर्हितेन केनापि शत्रुणा तव चास्य वा । उदितेति कुतो न स्याद्वागनर्थकरी विभो ॥ 78॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,78,4846,यशसस्ते विघाताय वसुदेवगृहस्य च । अरिणा रचिता वाणी गुणमायाविदा नृप ॥ 79॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,79,4847,बिभेषि वीरस्त्वं भूत्वा भूतभाषितभाषया । यशोमूलविघातार्थमुपायस्त्वरिणा कृतः ॥ 80॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,80,4848,पितृष्वसा न हन्तव्या विवाहसमये पुनः । भवितव्यं महाराज भवेच्च कथमन्यथा ॥ 81॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,81,4849,एवं तैर्बोध्यमानोऽसौ निवृत्तो नाभवद्यदा । तदा तं वसुदेवोऽपि नीतिज्ञः प्रत्यभाषत ॥ 82॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,82,4850,कंस सत्यं ब्रवीम्यद्य सत्याधारं जगत्त्रयम् । दास्यामि देवकीपुत्रानुत्पन्नांस्तव सर्वशः ॥ 83॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,83,4851,जातं जातं सुतं तुभ्यं न दास्यामि यदि प्रभो । कुम्भीपाके तदा घोरे पतन्तु मम पूर्वजाः ॥ 84॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,84,4852,श्रुत्वाथ वचनं सत्यं पौरवा ये पुरःस्थिताः । ऊचुस्ते त्वरिताः कंसं साधु साधु पुनः पुनः ॥ 85॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,85,4853,न मिथ्या भाषते क्वापि वसुदेवो महामनाः । केशं मुञ्च महाभाग स्त्रीहत्या पातकं तथा ॥ 86॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,86,4854,व्यास उवाच । एवं प्रबोधितः कंसो यदुवृद्धैर्महात्मभिः । क्रोधं त्यक्त्वा स्थितस्तत्र सत्यवाक्यानुमोदितः ॥ 87॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,87,4855,ततो दुन्दुभयो नेदुर्वादित्राणि च सस्वनुः । जयशब्दस्तु सर्वेषामुत्पन्नस्तत्र संसदि ॥ 88॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,88,4856,प्रसाद्य कंसं प्रतिमोच्य देवकीं महायशाः शूरसुतस्तदानीम् । जगाम गेहं स्वजनानुवृत्तो नवोढया वीतभयस्तरस्वी ॥ 89॥ 4,४.२०,विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।,89,4857,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे कृष्णावतारकथोपक्रमवर्णनं नाम विंशोऽध्यायः ॥ ४.२०॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,0,4858,व्यास उवाच । अथ काले तु सम्प्राप्ते देवकी देवरूपिणी । गर्भं दधार विधिवद्वसुदेवेन सङ्गता ॥ 1॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,1,4859,पूर्णेऽथ दशमे मासे सुषुवे सुतमुत्तमम् । रूपावयवसम्पन्नं देवकी प्रथमं यदा ॥ 2॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,2,4860,तदाऽऽह वसुदेवस्तां सत्यवाक्यानुमोदितः । भावित्वाच्च महाभागो देवकीं देवमातरम् ॥ 3॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,3,4861,वरोरु समयं मे त्वं जानासि स्वसुतार्पणे । मोचिता त्वं महाभागे शपथेन मया तदा ॥ 4॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,4,4862,इमं पुत्रं सुकेशान्ते दास्यामि भ्रातृसूनवे । (खले कंसे विनाशार्थं दैवे किं वा करिष्यसि ।)॥ विचित्रकर्मणां पाको दुर्ज्ञेयो ह्यकृतात्मभिः ॥ 5॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,5,4863,सर्वेषां किल जीवानां कालपाशानुवर्तिनाम् । भोक्तव्यं स्वकृतं कर्म शुभ वा यदि वाशुभम् ॥ 6॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,6,4864,प्रारब्धं सर्वथैवात्र जीवस्य विधिनिर्मितम् । देवक्युवाच । स्वामिन् पूर्वं कृतं कर्म भोक्तव्यं सर्वथा नृभिः ॥ 7॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,7,4865,तीर्थैस्तपोभिर्दानैर्वा किं न याति क्षयं हि तत् । लिखितो धर्मशास्त्रेषु प्रायश्चित्तविधिर्नृप ॥ 8॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,8,4866,पूर्वार्जितानां पापानां विनाशाय महात्मभिः । ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः ॥ 9॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,9,4867,द्वादशाब्दव्रते चीर्णे शुद्धिं याति यतस्ततः । मन्वादिभिर्यथोद्दिष्टं प्रायश्चित्तं विधानतः ॥ 10॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,10,4868,तथा कृत्वा नरः पापान्मुच्यते वा न वानघ । विगीतवचनास्ते किं मुनयस्तत्त्वदर्शिनः ॥ 11॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,11,4869,याज्ञवल्क्यादयः सर्वे धर्मशास्त्रप्रवर्तकाः । भवितव्यं भवत्येव यद्येवं निश्चयः प्रभो ॥ 12॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,12,4870,आयुर्वेदः स मिथ्यैव मन्त्रवादास्तथाखिलाः । उद्यमस्तु वृथा सर्वमेवं चेद्दैवनिर्मितम् ॥ 13॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,13,4871,भवितव्यं भवत्येव प्रवृत्तिस्तु निरर्थिका । अग्निष्टोमादिकं व्यर्थं नियतं स्वर्गसाधनम् ॥ 14॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,14,4872,यदा तदा प्रमाणं हि वृथैव परिभाषितम् । वितथे तत्प्रमाणे तु धर्मोच्छेदः कुतो न हि ॥ 15॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,15,4873,उद्यमे च कृते सिद्धिः प्रत्यक्षेणैव साध्यते । तस्मादत्र प्रकर्तव्यः प्रपञ्चश्चित्तकल्पितः ॥ 16॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,16,4874,यथायं बालकः क्षेमं प्राप्नोति मम पुत्रकः । मिथ्या यदि प्रकर्तव्यं वचनं शुभमिच्छता ॥ 17॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,17,4875,न तत्र दूषणं किञ्चित्पवदन्ति मनीषिणः । वसुदेव उवाच । निशामय महाभागे सत्यमेतद् ब्रवीमि ते ॥ 18॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,18,4876,उद्यमः खलु कर्तव्यः फलं दैववशानुगम् । त्रिविधानीह कर्माणि संसारेऽत्र पुराविदः ॥ 19॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,19,4877,प्रवदन्तीह जीवानां पुराणेष्वागमेषु च । सञ्चितानि च जीर्णानि प्रारब्धानि सुमध्यमे ॥ 20॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,20,4878,वर्तमानानि वामोरु विविधानीह देहिनाम् । शुभाशुभानि कर्माणि बीजभूतानि यानि च ॥ 21॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,21,4879,बहुजन्मसमुत्थानि काले तिष्ठन्ति सर्वथा । पूर्वदेहं परित्यज्य जीवः कर्मवशानुगः ॥ 22॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,22,4880,स्वर्गं वा नरकं वापि प्राप्नोति स्वकृतेन वै । दिव्यं देहञ्च सम्प्राप्य यातनादेहमर्थजम् ॥ 23॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,23,4881,भुनक्ति विविधान् भोगान्स्वर्गे वा नरकेऽथवा । भोगान्ते च यदोत्पत्तेः समयस्तस्य जायते ॥ 24॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,24,4882,लिङ्गदेहेन सहितं जायते जीवसंज्ञितम् । तदैव सञ्चितेभ्यश्च कर्मभ्यः कर्मभिः पुनः ॥ 25॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,25,4883,योजयत्येव तं कालं कर्माणि प्राक्कृतानि च । देहेनानेन भाव्यानि शुभानि चाशुभानि च ॥ 26॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,26,4884,प्रारब्धानि च जीवेन भोक्तव्यानि सुलोचने । प्रायश्चित्तेन नश्यन्ति वर्तमानानि भामिनि ॥ 27॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,27,4885,सञ्चितानि तथैवाशु यथार्थं विहितेन च । प्रारब्धकर्मणां भोगात्सङ्क्षयो नान्यथा भवेत् ॥ 28॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,28,4886,तेनायं ते कुमारो वै देयः कंसाय सर्वथा । न मिथ्या वचनं मेऽस्ति लोकनिन्दाभिदूषितम् ॥ 29॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,29,4887,अनित्येऽस्मिंस्तु संसारे धर्मसारे महात्मनाम् । दैवाधीनं हि सर्वेषां मरणं जननं तथा ॥ 30॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,30,4888,तस्माच्छोको न कर्तव्यो देहिना हि निरर्थकः । सत्यं यस्य गतं कान्ते वृथा तस्यैव जीवितम् ॥ 31॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,31,4889,इहलोको गतो यस्मात्परलोकः कुतस्ततः । अतो देहि सुतं सुभ्रु कंसाय प्रददाम्यहम् ॥ 32॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,32,4890,सत्यसंस्तरणाद्देवि शुभमग्रे भविष्यति । कर्तव्यं सुकृतं पुम्भिः सुखे दुःखे सति प्रिये ॥ 33॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,33,4891,(सत्यसंरक्षणाद्देवि शुभमेव भविष्यति)॥ व्यास उवाच । इत्युक्तवति कान्ते सा देवकी शोकसंयुता । ददौ पुत्रं प्रसूतं च वेपमाना मनस्विनी ॥ 34॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,34,4892,वसुदेवोऽपि धर्मात्मा आदाय स्वसुतं शिशुम् । जगाम कंससदनं मार्गे लोकैरभिष्टुतः ॥ 35॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,35,4893,लोका ऊचुः । पश्यन्तु वसुदेवं भो लोका एवं मनस्विनम् । स्ववाक्यमनुरुध्यैव बालमादाय यात्यसौ ॥ 36॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,36,4894,मृत्यवे दातुकामोऽद्य सत्यवागनसूयकः । सफलं जीवितं चास्य धर्मं पश्यन्तु चाद्भुतम् ॥ 37॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,37,4895,यः पुत्रं याति कंसाय दातुं कालात्मनेऽपि हि । व्यास उवाच । इति संस्तूयमानस्तु प्राप्तः कंसालयं नृप ॥ 38॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,38,4896,ददावस्मै कुमारं तं जातमात्रममानुषम् । कंसोऽपि विस्मयं प्राप्तो दृष्ट्वा धैर्यं महात्मनः ॥ 39॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,39,4897,गृहीत्वा बालकं प्राह स्मितपूर्वमिदं वचः । धन्यस्त्वं शूरपुत्राद्य ज्ञातः पुत्रसमर्पणात् ॥ 40॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,40,4898,मम मृत्युर्न चायं वै गिरा प्रोक्तस्तु चाष्टमः । न हन्तव्यो मया कामं बालोऽयं यातु ते गहम् ॥ 41॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,41,4899,अष्टमस्तु प्रदातव्यस्त्वया पुत्रो महामते । इत्युक्त्वा वसुदेवाय ददावाशु खलः शिशुम् ॥ 42॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,42,4900,गच्छत्वयं गृहे बालः क्षेमं व्याहृतवान्नृपः । तमादाय तदा शौरिर्जगाम स्वगृहं मुदा ॥ 43॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,43,4901,कंसोऽपि सचिवानाह वृथा किं घातये शिशुम् । अष्टमाद्देवकीपुत्रान्मम मृत्युरुदाहृतः ॥ 44॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,44,4902,अतः किं प्रथमं बालं हत्वा पापं करोम्यहम् । साधुसाध्विति तेऽप्युक्त्वा संस्थिता मन्त्रिसत्तमाः ॥ 45॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,45,4903,विसर्जितास्तु कंसेन जग्मुस्ते स्वगृहान्प्रति । गतेषु तेषु सम्प्राप्तो नारदो मुनिसत्तमः ॥ 46॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,46,4904,अभ्युत्थानार्घ्यपाद्यादि चकारोग्रसुतस्तदा । पप्रच्छ कुशलं राजा तत्रागमनकारणम् ॥ 47॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,47,4905,नारदस्तं तदोवाच स्मितपूर्वमिदं वचः । कंस कंस महाभाग गतोऽहं हेमपर्वतम् ॥ 48॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,48,4906,तत्र ब्रह्मादयो देवा मन्त्रं चक्रुः समाहिताः । देवक्यां वसुदेवस्य भार्यायां सुरसत्तमः ॥ 49॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,49,4907,वधार्थं तव विष्णुश्च जन्म चात्र करिष्यति । तत्कथं न हतः पुत्रस्त्वया नीतिं विजानता ॥ 50॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,50,4908,कंस उवाच । अष्टमं च हनिष्येऽहं मृत्युं मे देवभाषितम् । नारद उवाच । न जानासि नृपश्रेष्ठ राजनीतिं शुभाशुभा । ५१॥ मायाबलं च देवानां न त्वं वेत्सि वदामि किम् । रिपुरल्पोऽपि शूरेण नोपेक्ष्यः शुभमिच्छता ॥ 52॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,51,4909,सम्मेलनक्रियायां तु सर्वे ते ह्यष्टमाः स्मृताः । मूर्खस्त्वमरिसन्त्यागः कृतोऽयं जानता त्वया ॥ 53॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,52,4910,इत्युक्त्वाशु गतः श्रीमान्नारदो देवदर्शनः । गतेऽथ नारदे कंसः समाहूयाथ बालकम् । पाषाणे पोथयामास सुखं प्राप च मन्दधीः ॥ 54॥ 4,४.२१,एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।,53,4911,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां कंसेन देवकीप्रथमपुत्रवधवर्णनं नामैकविंशोऽध्यायः ॥ ४.२१॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,0,4912,जनमेजय उवाच । किं कृतं पातकं तेन बालकेन पितामह । यज्जातमात्रो निहतस्तथा तेन दुरात्मना ॥ 1॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,1,4913,नारदोऽपि मुनिश्रेष्ठो ज्ञानवान्धर्मतत्परः । कथमेवंविधं पापं कृतवान्ब्रह्मवित्तमः ॥ 2॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,2,4914,कर्ता कारयिता पापे तुल्यपापौ स्मृतौ बुधैः । स कथं प्रेरयामास मुनिः कंसं खलं तदा ॥ 3॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,3,4915,संशयोऽयं महान्मेऽत्र ब्रूहि सर्वं सविस्तरम् । येन कर्मविपाकेन बालको निधनं गतः ॥ 4॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,4,4916,व्यास उवाच । नारदः कौतुकप्रेक्षी सर्वदा कलहप्रियः । देवकार्यार्थमागत्य सर्वमेतच्चकार ह ॥ 5॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,5,4917,न मिथ्याभाषणे बुद्धिर्मुनेस्तस्य कदाचन । सत्यवक्ता सुराणां स कर्तव्ये निरतः शुचिः ॥ 6॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,6,4918,एवं षड् बालकास्तेन जाता जाता निपातिताः । षड् गर्भाः शापयोगेन सम्भूय मरणं गताः ॥ 7॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,7,4919,श‍ृणु राजन्प्रवक्ष्यामि तेषां शापस्य कारणम् । स्वायम्भुवेऽन्तरे पुत्रा मरीचेः षण्महाबलाः ॥ 8॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,8,4920,ऊर्णायां चैव भार्यायामासन्धर्मविचक्षणाः । ब्रह्माणं जहसुर्वीक्ष्य सुतां यभितुमुद्यतम् ॥ 9॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,9,4921,शशाप तांस्तदा ब्रह्मा दैत्ययोनिं विशन्त्वधः । कालनेमिसुता जातास्ते षड्गर्भा विशाम्पते ॥ 10॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,10,4922,अवतारे परे ते तु हिरण्यकशिपोः सुताः । जातास्ते ज्ञानसंयुक्ताः पूर्वशापभयान्नृप ॥ 11॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,11,4923,तस्मिञ्जन्मनि शान्ताश्च तपश्चक्रुः समाहिताः । तेषां प्रीतोऽभवद् ब्रह्मा षड्गर्भाणां वरान्ददौ ॥ 12॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,12,4924,ब्रह्मोवाच । शप्ता यूयं मया पूर्वं क्रोधयुक्तेन पुत्रकाः । तुष्टोऽस्मि वो महाभागा ब्रुवन्तु वाञ्छितं वरम् ॥ 13॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,13,4925,व्यास उवाच । ते तु श्रुत्वा वचस्तस्य ब्रह्मणः प्रीतमानसाः । ब्रह्माणमब्रुवन्कामं सर्वे कार्यार्थतत्पराः ॥ 14॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,14,4926,गर्भा ऊचुः । पितामहाद्य तुष्टोऽसि देहि नो वाञ्छितं वरम् । अवध्या दैवतैः सर्वैर्मानवैश्च महोरगैः ॥ 15॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,15,4927,गन्धर्वसिद्धपतिभिर्वधो माभूत्पितामह । व्यास उवाच । तानुवाच ततो ब्रह्मा सर्वमेतद्भविष्यति ॥ 16॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,16,4928,गच्छन्तु वो महाभागाः सत्यमेव न संशयः । दत्त्वा वरं गतो ब्रह्मा मुदितास्ते तदाभवन् ॥ 17॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,17,4929,हिरण्यकशिपुः क्रुद्धस्तानुवाच कुरूद्वह । यस्माद्विहाय मां पुत्रास्तोषितो वै पितामहः ॥ 18॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,18,4930,वरेण प्रार्थितोऽत्यर्थं बलवन्तो यतोऽभवन् । युष्माभिर्हापितः स्नेहस्ततो युष्मांस्त्यजाम्यहम् ॥ 19॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,19,4931,यूयं व्रजन्तु पाताले षड्गर्भा विश्रुता भुवि । पाताले निद्रयाविष्टास्तिष्ठन्तु बहुवत्सरान् ॥ 20॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,20,4932,ततस्तु देवकीगर्भे वर्षे वर्षे पुनः पुनः । पिता वः कालनेमिस्तु तत्र कंसो भविष्यति ॥ 21॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,21,4933,स एव जातमात्रान्वो वधिष्यति सुदारुणः । व्यास उवाच । एवं शप्तांस्तदा तेन गर्भे जातान्पुनः पुनः ॥ 22॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,22,4934,जघान देवकीपुत्रान्षड्गर्भाञ्छापनोदितः । शेषांशः सप्तमस्तत्र देवकीगर्भसंस्थितः ॥ 23॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,23,4935,विस्रंसितश्च गर्भोऽसौ योगेन योगमायया । नीतश्च रोहिणीगर्भे कृत्वा सङ्कर्षणं बलात् ॥ 24॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,24,4936,पतितः पञ्चमे मासि लोकख्यातिं गतस्तदा । कंसोऽपि ज्ञातवांस्तत्र देवकीगर्भपातनम् ॥ 25॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,25,4937,मुदं प्राप स दुष्टात्मा श्रुत्वा वार्तां सुखावहाम् । अष्टमे देवकीगर्भे भगवान्सात्वतां पतिः ॥ 26॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,26,4938,उवास देवकार्यार्थं भारावतरणाय च । राजोवाच । वसुदेवः कश्यपांशः शेषांशश्च तदाभवत् ॥ 27॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,27,4939,हरेरंशस्तथा प्रोक्तो भवता मुनिसत्तम । अन्ये च येंऽशा देवानां तत्र जातास्तु तान्वद ॥ 28॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,28,4940,भाराववतारणार्थं वै क्षितेः प्रार्थनयानघ । व्यास उवाच । सुराणामसुराणां च ये येंऽशा भुवि विश्रुताः ॥ 29॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,29,4941,तानहं सम्प्रवक्ष्यामि सङ्क्षेपेण श‍ृणुष्व तान् । वसुदेवः कश्यपांशो देवकी च तथादितिः ॥ 30॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,30,4942,बलदेवस्त्वनन्तांशो वर्तमानेषु तेषु च । योऽसौ धर्मसुतः श्रीमान्नारायण इति श्रुतः ॥ 31॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,31,4943,तस्यांशो वासुदेवस्तु विद्यमाने मुनौ तदा । नरस्तस्यानुजो यस्तु तस्यांशोऽर्जुन एव च ॥ 32॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,32,4944,युधिष्ठिरस्तु धर्मांशो वाय्वंशो भीम इत्युत । अश्विन्यंशौ ततः प्रोक्तौ माद्रीपुत्रौ महाबलौ ॥ 33॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,33,4945,सूर्यांशः कर्ण आख्यातो धर्माशो विदुरः स्मृतः । द्रोणो बृहस्पतेरंशस्तत्सतस्तु शिवांशजः ॥ 34॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,34,4946,समुद्रः शन्तनुः प्रोक्तो गङ्गा भार्या मता बुधैः । देवकस्तु समाख्यातो गन्धर्वपतिरागमे ॥ 35॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,35,4947,वसुर्भीष्मो विराटस्तु मरुद्गण इति स्मृतः । अरिष्टस्य सुतो हंसो धृतराष्ट्रः प्रकीर्तितः ॥ 36॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,36,4948,मरुद्गणः कृपः प्रोक्तः कृतवर्मा तथापरः । दुर्योधनः कलेरंशः शकुनिं विद्धि द्वापरम् ॥ 37॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,37,4949,सोमपुत्रः सुवर्चाख्यः सोमप्ररुरुदाहृतः । पावकांशो धृष्टद्युम्नः शिखण्डी राक्षसस्तथा ॥ 38॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,38,4950,सनत्कुमारस्यांशस्तु प्रद्युम्नः परिकीर्तितः । द्रुपदो वरुणस्यांशो द्रौपदी च रमांशजा ॥ 39॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,39,4951,द्रौपदीतनयाः पञ्च विश्वेदेवांशजाः स्मृताः । कुन्तिः सिद्धिर्धृतिर्माद्री मतिर्गान्धारराजजा ॥ 40॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,40,4952,कृष्णपत्न्यस्तथा सर्वा देववाराङ्गनाः स्मृताः । राजानश्च तथा सर्वे असुराः शक्रनोदिताः ॥ 41॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,41,4953,हिरण्यकशिपोरंशः शिशुपाल उदाहृतः । विप्रचित्तिर्जरासन्धः शल्यः प्रह्लाद इत्यपि ॥ 42॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,42,4954,कालनेमिस्तथा कंसः केशी हयशिरास्तथा । अरिष्टो बलिपुत्रस्तु ककुद्मी गोकुले हतः ॥ 43॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,43,4955,अनुह्लादो धृष्टकेतुर्भगदत्तोऽथ बाष्कलः । लम्बः प्रलम्बः सञ्चातः खरोऽसौ धेनुकोऽभवत् ॥ 44॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,44,4956,वाराहश्च किशोरश्च दैत्यौ परमदारुणौ । मल्लौ तावेव सञ्जातौ ख्यातौ चाणूरमुष्टिकौ ॥ 45॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,45,4957,दितिपुत्रस्तथारिष्टो गजः कुवलयाभिधः । बलिपुत्री बकी ख्याता बकस्तदनुजः स्मृतः ॥ 46॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,46,4958,यमो रुद्रस्तथा कामः क्रोधश्चैव चतुर्थकः । तेषामंशैस्तु सञ्जातो द्रोणपुत्रो महाबलः ॥ 47॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,47,4959,अंशावतरणे पूर्वं दैतेया राक्षसास्तथा । जाताः सर्वे सुरांशास्ते क्षितिभारावतारणे ॥ 48॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,48,4960,एतेषां कथितं राजन्नंशावतरणं नृप । सुराणां चासुराणां च पुराणेषु प्रकीर्तितम् ॥ 49॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,49,4961,यदा ब्रह्मादयो देवाः प्रार्थनार्थं हरिं गताः । हरिणा च तदा दत्तौ केशौ खलु सितासितौ ॥ 50॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,50,4962,श्यामवर्णस्ततः कृष्णः श्वेतः सङ्कर्षणस्तथा । भारावतारणार्थं तौ जातौ देवांशसम्भवौ ॥ 51॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,51,4963,अंशावतरणं चैतच्छृणोति भक्तिभावतः । सर्वपापविनिर्मुक्तो मोदते स्वजनैर्वृतः ॥ 52॥ 4,४.२२,द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।,52,4964,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे देवदानवानामंशावतरणवर्णनं नाम द्वाविंशोऽध्यायः ॥ ४.२२॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,0,4965,व्यास उवाच । हतेषु षट्सु पुत्रेषु देवक्या औग्रसेनिना । सप्तमे पतिते गर्भे वचनान्नारदस्य च ॥ 1॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,1,4966,अष्टमस्य च गर्भस्य रक्षणार्थमतन्द्रितः । प्रयत्नमकरोद्राजा मरणं स्वं विचिन्तयन् ॥ 2॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,2,4967,समये देवकीगर्भे प्रवेशमकरोद्धरिः । अंशेन वसुदेवे तु समागत्य यथाक्रमम् ॥ 3॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,3,4968,तदेयं योगमाया च यशोदायां यथेच्छया । प्रवेशमकरोद्देवी देवकार्यार्थसिद्धये ॥ 4॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,4,4969,रोहिण्यास्तनयो रामो गोकुले समजायत । यतः कंसभयोद्विग्ना संस्थिता सा च कामिनी ॥ 5॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,5,4970,कारागारे ततः कंसो देवकीं देवसंस्तुताम् । स्थापयामास रक्षार्थं सेवकान्समकल्पयत् ॥ 6॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,6,4971,वसुदेवस्तु कामिन्याः प्रेमतन्तुनियन्त्रितः । पुत्रोत्पत्तिं च सञ्चिन्त्य प्रविष्टः सह भार्यया ॥ 7॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,7,4972,देवकीगर्भगो विष्णुर्देवकार्यार्थसिद्धये । संस्तुतोऽमरसङ्घैश्च व्यवर्धत यथाक्रमम् ॥ 8॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,8,4973,सञ्जाते दशमे तत्र मासेऽथ श्रावणे शुभे । प्राजापत्यर्क्षसंयुक्ते कृष्णपक्षेऽष्टमीदिने ॥ 9॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,9,4974,कंसस्तु दानवान्सर्वानुवाच भयविह्वलः । रक्षणीया भवद्भिश्च देवकी गर्भमन्दिरे ॥ 10॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,10,4975,अष्टमो देवकीगर्भः शत्रुर्मे प्रभविष्यति । रक्षणीयः प्रयत्नेन मृत्युरूपः स बालकः ॥ 11॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,11,4976,हत्वैनं बालकं दैत्याः सुखं स्वप्स्यामि मन्दिरे । निवृत्तिवर्जिते दुःखे नाशिते चाष्टमे सुते ॥ 12॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,12,4977,खड्गप्रासधराः सर्वे तिष्ठन्तु धृतकार्मुकाः । निद्रातन्द्राविहीनाश्च सर्वत्र निहितेक्षणाः ॥ 13॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,13,4978,व्यास उवाच । इत्यादिश्यासुरगणान् कृशोऽतिभयविह्वलः । मन्दिरं स्वं जगामाशु न लेभे दानवः सुखम् ॥ 14॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,14,4979,निशीथे देवकी तत्र वसुदेवमुवाच ह । किं करोमि महाराज प्रसवावसरो मम ॥ 15॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,15,4980,बहवो रक्षपालाश्च तिष्ठन्त्यत्र भयानकाः । नन्दपत्न्या मया सार्धं कृतोऽस्ति समयः पुरा ॥ 16॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,16,4981,प्रेषितव्यस्त्वया पुत्रो मन्दिरे मम मानिनि । पालयिष्याम्यहं तत्र तवातिमनसा किल ॥ 17॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,17,4982,अपत्यं ते प्रदास्यामि कंसस्य प्रत्ययाय वै । किं कर्तव्यं प्रभो चात्र विषमे समुपस्थिते ॥ 18॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,18,4983,व्यत्ययः सन्ततेः शौरे कथं कर्तुं क्षमो भवेः । दूरे तिष्ठस्व कान्ताद्य लज्जा मेऽतिदुरत्यया ॥ 19॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,19,4984,परावृत्य मुखं स्वामिन्नन्यथा किं करोम्यहम् । इत्युक्त्वा तं महाभागं देवकी देवसम्मतम् ॥ 20॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,20,4985,बालकं सुषुवे तत्र निशीथे परमाद्भुतम् । तं दृष्ट्वा विस्मयं प्राप देवकी बालकं शुभम् ॥ 21॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,21,4986,पतिं प्राह महाभागा हर्षोत्कुल्लकलेवरा । पश्य पुत्रमुखं कान्त दुर्लभं हि तव प्रभो ॥ 22॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,22,4987,अद्यैनं कालरूपोऽसौ घातयिष्यति भ्रातृजः । वसुदेवस्तथेत्युक्त्वा तमादाय करे सुतम् ॥ 23॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,23,4988,अपश्यच्चाननं तस्य सुतस्याद्भुतकर्मणः । वीक्ष्य पुत्रमुखं शौरिश्चिन्ताविष्टो बभूव ह ॥ 24॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,24,4989,किं करोमि कथं न स्याद्दुःखमस्य कृते मम । एवं चिन्तातुरे तस्मिन्वागुवाचाशरीरिणी ॥ 25॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,25,4990,वसुदेवं समाभाष्य गगने विशदाक्षरा । वसुदेव गृहीत्वैनं गोकुलं नय सत्वरः ॥ 26॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,26,4991,रक्षपालास्तथा सर्वे मया निद्राविमोहिताः । विवृतानि कृतान्यष्ट कपाटानि च श‍ृङ्खलाः ॥ 27॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,27,4992,मुक्त्वैनं नन्दगेहे त्वं योगमायां समानय । श्रुत्वैवं वसुदेवस्तु तस्मिन्कारागृहे गतः ॥ 28॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,28,4993,विवृतं द्वारमालोक्य बभूव तरसा नृप । तमादाय ययावाशु द्वारपालैरलक्षितः ॥ 29॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,29,4994,कालिन्दीतटमासाद्य पूरं दृष्ट्वा सुनिश्चितम् । तदैव कटिदघ्नी सा बभूवाशु सरिद्वरा ॥ 30॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,30,4995,योगमायाप्रभावेण ततारानकदुन्दुभिः । गत्वा तु गोकुलं शौरिर्निशीथे निर्जने पथि ॥ 31॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,31,4996,नन्दद्वारे स्थितः पश्यन्विभूतिं पशुसंज्ञिताम् । तदैव तत्र सञ्जाता यशोदा गर्भसम्भवा ॥ 32॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,32,4997,योगमायांशजा देवी त्रिगुणा दिव्यरूपिणी । जातां तां बालिकां दिव्यां गृहीत्वा करपङ्कजे ॥ 33॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,33,4998,तत्रागत्य ददौ देवी सैरन्ध्रीरूपधारिणी । वसुदेवः सुतं दत्त्वा सैरन्ध्रीकरपङ्कजे ॥ 34॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,34,4999,तामादाय ययौ शीघ्रं बालिकां मुदिताशयः । कारागारे ततो गत्वा देवक्याः शयने सुताम् ॥ 35॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,35,5000,निःक्षिप्य संस्थितः पार्श्वे चिन्ताविष्टो भयातुरः । रुरोद सुस्वरं कन्या तदैवागतसंज्ञकाः ॥ 36॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,36,5001,उत्तस्थुः सेवका राज्ञः श्रुत्वा तद्रुदितं निशि । तमूचुर्भूपतिं गत्वा त्वरितास्तेऽतिविह्वलाः ॥ 37॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,37,5002,देवक्याश्च सुतो जातः शीघ्रमेहि महामते । तदाकर्ण्य वचस्तेषां शीघ्रं भोजपतिर्ययौ ॥ 38॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,38,5003,प्रावृतं द्वारमालोक्य वसुदेवमथाह्वयत् । कंस उवाच । सुतमानय देवक्या वसुदेव महामते ॥ 39॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,39,5004,मृत्युर्मे चाष्टमो गर्भस्तन्निहन्मि रिपुं हरिम् । व्यास उवाच । श्रुत्वा कंसवचः शौरिर्भयत्रस्तविलोचनः ॥ 40॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,40,5005,तामादाय सुतां पाणौ ददौ चाशु रुदन्निव । दृष्ट्वाथ दारिकां राजा विस्मयं परमं गतः ॥ 41॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,41,5006,देववाणी वृथा जाता नारदस्य च भाषितम् । वसुदेवः कथं कुर्यादनृतं सङ्कटे स्थितः ॥ 42॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,42,5007,रक्षपालाश्च मे सर्वे सावधाना न संशयः । कुतोऽत्र कन्यका कामं क्व गतः स सुतः किल ॥ 43॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,43,5008,सन्देहोऽत्र न कर्तव्यः कालस्य विषमा गतिः । इति सञ्चिन्त्य तां बालां गृहीत्वा पादयोः खलः ॥ 44॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,44,5009,पोथयामास पाषाणे निर्घृणः कुलपांसनः । सा करान्निःसृता बाला ययावाकाशमण्डलम् ॥ 45॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,45,5010,दिव्यरूपा तदा भूत्वा तमुवाच मृदुस्वना । किं मया हतया पाप जातस्ते बलवान् रिपुः ॥ 46॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,46,5011,हनिष्यति दुराराध्यः सर्वथा त्वां नराधमम् । इत्युक्त्वा सा गता कन्या गगनं कामगा शिवा ॥ 47॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,47,5012,कंसस्तु विस्मयाविष्टो गतो निजगृहं तदा । आनाय्य दानवान्सर्वानिदं वचनमब्रवीत् ॥ 48॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,48,5013,बकधेनुकवत्सादीन्क्रोधाविष्टो भयातुरः । गच्छन्तु दानवाः सर्वे मम कार्यार्थसिद्धये ॥ 49॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,49,5014,जातमात्राश्च हन्तव्या बालका यत्र कुत्रचित् । पूतनैषा व्रजत्वद्य बालघ्नी नन्दगोकुलम् ॥ 50॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,50,5015,जातमात्रान्विनिघ्नन्ती शिशूंस्तत्र ममाज्ञया । धेनुको वत्सकः केशी प्रलम्बो बक एव च ॥ 51॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,51,5016,सर्वे तिष्ठन्तु तत्रैव मम कार्यचिकीर्षया । इत्याज्ञाप्यासुरान्कंसो ययौ निजगृहं खलः ॥ 52॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,52,5017,चिन्ताविष्टोऽतिदीनात्मा चिन्तयित्वैव तं पुनः ॥ 53॥ 4,४.२३,त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।,53,5018,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे कंसं प्रति योगमायावाक्यं नाम त्रयोविंशोऽध्यायः ॥ ४.२३॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,0,5019,व्यास उवाच । प्रातर्नन्दगृहे जातः पुत्रजन्ममहोत्सवः । किंवदन्त्यथ कंसेन श्रुता चारमुखादपि ॥ 1॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,1,5020,जानाति वसुदेवस्य दारास्तत्र वसन्ति हि । पशवो दासवर्गश्च सर्वे ते नन्दगोकुले ॥ 2॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,2,5021,तेन शङ्कासमाविष्टो गोकुलं प्रति भारत । नारदेनापि तत्सर्वं कथितं कारणं पुरा ॥ 3॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,3,5022,गोकुले ये च नन्दाद्यास्तत्पत्न्यश्च सुरांशजाः । देवकीवसुदेवाद्याः सर्वे ते शत्रवः किल ॥ 4॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,4,5023,इति नारदवाक्येन बोधितोऽसौ कुलाधमः । जातः कोपमना राजन् कंसः परमपापकृत् ॥ 5॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,5,5024,पूतना निहता तत्र कृष्णेनामिततेजसा । बको वत्सासुरश्चापि धेनुकश्च महाबलः ॥ 6॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,6,5025,प्रलम्बो निहतस्तेन तथा गोवर्धनो धृतः । श्रुत्वैतत्कर्म कंसस्तु मेने मरणमात्मनः ॥ 7॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,7,5026,तथा विनिहतः केशी ज्ञात्वा कंसोऽतिदुर्मनाः । धनुर्यागमिषेणाशु तावानेतुं प्रचक्रमे ॥ 8॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,8,5027,अक्रूरं प्रेषयामास क्रूरः पापमतिस्तदा । आनेतुं रामकृष्णौ च वधायामितविक्रमौ ॥ 9॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,9,5028,रथमारोप्य गोपालौ गोकुलाद् गान्दिनीसुतः । आगतो मथुरायां तु कंसादेशे स्थितः किल ॥ 10॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,10,5029,तावागत्य तदा तत्र धनुर्भङ्गञ्च चक्रतुः । हत्वाथ रजकं कामं गजं चाणूरमुष्टिकम् ॥ 11॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,11,5030,शलं च तोशलं चैव निजघान हरिस्तदा । जघान कंसं देवेशः केशेष्वाकृष्य लीलया ॥ 12॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,12,5031,पितरौ मोचयित्वाथ गतदुःखौ चकार ह । उग्रसेनाय राज्यं तद्ददावरिनिषूदनः ॥ 13॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,13,5032,वसुदेवस्तयोस्तत्र मौञ्जीबन्धनपूर्वकम् । कारयामास विधिवद् व्रतबन्धं महामनाः ॥ 14॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,14,5033,उपनीतौ तदा तौ तु गतौ सान्दीपनालयम् । विद्याः सर्वाः समभ्यस्य मथुरामागतौ पुनः ॥ 15॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,15,5034,जातौ द्वादशवर्षीयौ कृतविद्यौ महाबलौ । मथुरायां स्थितौ वीरौ सुतावानकदुन्दुभेः ॥ 16॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,16,5035,मागधस्तु जरासन्धो जामातृवधदुःखितः । कृत्वा सैन्यसमाजं स मथुरामागतः पुरीम् ॥ 17॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,17,5036,स सप्तदशवारं तु कृष्णेन कृतबुद्धिना । जितः सङ्ग्राममासाद्य मधुपुर्यां निवासिना ॥ 18॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,18,5037,पश्चाच्च प्रेरितस्तेन स कालयवनाभिधः । सर्वम्लेच्छाधिपः शूरो यादवानां भयङ्करः ॥ 19॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,19,5038,श्रुत्वा यवनमायान्तं कृष्णः सर्वान् यदूत्तमान् । आनाय्य च तथा राममुवाच मधुसूदनः ॥ 20॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,20,5039,भयं नोऽत्र समुत्पन्नं जरासन्धान्महाबलात् । किं कर्तव्यं महाभाग यवनः समुपैति वै ॥ 21॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,21,5040,प्राणत्राणं प्रकर्तव्यं त्यक्त्वा गेहं बलं धनम् । सुखेन स्थीयते यत्र स देशः खलु पैतृकः ॥ 22॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,22,5041,सदोद्वेगकरः कामं किं कर्तव्यः कुलोचितः । शैलसागरसान्निध्ये स्थातव्यं सुखमिच्छता ॥ 23॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,23,5042,यत्र वैरिभयं न स्यात्स्थातव्यं तत्र पण्डितैः । शेषशय्यां समाश्रित्य हरिः स्वपिति सागरे ॥ 24॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,24,5043,तथैव च भयाद्भीतः कैलासे त्रिपुरार्दनः । तस्मान्नात्रैव स्थातव्यमस्माभिः शत्रुतापितैः ॥ 25॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,25,5044,द्वारवत्यां गमिष्यामः सहिताः सर्व एव वै । कथिता गरुडेनाद्य रम्या द्वारवती पुरी ॥ 26॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,26,5045,रैवताचलसानिध्ये सिन्धुकूले मनोहरा । व्यास उवाच । तच्छ्रुत्वा वचनं तथ्यं सर्वे यादवपुङ्गवाः ॥ 27॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,27,5046,गमनाय मतिं चक्रुः सकुटुम्बाः सवाहनाः । शकटानि तथोष्ट्राश्च वाम्यश्च महिषास्तथा ॥ 28॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,28,5047,धनपूर्णानि कृत्वा ते निर्ययुर्नगराद्बहिः । रामकृष्णौ पुरस्कृत्य सर्वे ते सपरिच्छदाः ॥ 29॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,29,5048,अग्रे कृत्वा प्रजाः सर्वाश्चेलुः सर्वे यदूत्तमाः । कतिचिद्दिवसैः प्रापुः पुरीं द्वारवतीं किल ॥ 30॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,30,5049,शिल्पिभिः कारयामास जीर्णोद्धारं हि माधवः । संस्थाप्य यादवांस्तत्र तावेतौ बलकेशवौ ॥ 31॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,31,5050,तरसा मथुरामेत्य संस्थितौ निर्जनां पुरीम् । तदा तत्रैव सम्प्राप्तो बलवान् यवनाधिपः ॥ 32॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,32,5051,ज्ञात्वैनमागतं कृष्णो निर्ययौ नगराद्बहिः । पदातिरग्रे तस्याभूद्यवनस्य जनार्दनः ॥ 33॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,33,5052,पीताम्बरधरः श्रीमान्प्राहसन्मधुसूदनः । तं दृष्ट्वा पुरतो यान्तं कृष्णं कमललोचनम् ॥ 34॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,34,5053,यवनोऽपि पदातिः सन्पृष्ठतोऽनुगतः खलः । प्रसुप्तो यत्र राजर्षिर्मुचुकुन्दो महाबलः ॥ 35॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,35,5054,प्रययौ भगवांस्तत्र सकालयवनो हरिः । तत्रैवान्तर्दधे विष्णुर्मुचुकुन्दं समीक्ष्य च ॥ 36॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,36,5055,तत्रैव यवनः प्राप्तः सुप्तभूतमपश्यत । मत्वा तं वासुदेवं स पादेनाताडयन्नृपम् ॥ 37॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,37,5056,प्रबुद्धः क्रोधरक्ताक्षस्तं ददाह महाबलः । तं दग्ध्वा मुचुकुन्दोऽथ ददर्श कमलेक्षणम् ॥ 38॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,38,5057,वासुदेवं सुदेवेशं प्रणम्य प्रस्थितो वनम् । जगाम द्वारकां कृष्णो बलदेवसमन्वितः ॥ 39॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,39,5058,उग्रसेनं नृपं कृत्वा विजहार यथारुचि । अहरद्रुक्मिणी कामं शिशुपालस्वयंवरात् ॥ 40॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,40,5059,राक्षसेन विवाहेन चक्रे दारविधिं हरिः । ततो जाम्बवतीं सत्यां मित्रविन्दाञ्च भामिनीम् ॥ 41॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,41,5060,कालिन्दीं लक्षणां भद्रां तथा नाग्नजितीं शुभाम् । पृथक्पृथक्समानीयाप्युपयेमे जनार्दनः ॥ 42॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,42,5061,अष्टावेव महीपाल पत्न्यः परमशोभनाः । प्रासूत रुक्मिणी पुत्रं प्रद्युम्नं चारुदर्शनम् ॥ 43॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,43,5062,जातकर्मादिकं तस्य चकार मधुसूदनः । हृतोऽसौ सूतिकागेहाच्छम्बरेण बलीयसा ॥ 44॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,44,5063,नीतश्च स्वपुरीं बालो मायावत्यै समर्पितः । वासुदेवो हृतं दृष्ट्वा पुत्रं शोकसमन्वितः ॥ 45॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,45,5064,जगाम शरणं देवीं भक्तियुक्तेन चेतसा । वृत्रासुरादयो दैत्या लीलयैव यया हताः ॥ 46॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,46,5065,ततोऽसौ योगमायायाश्चकार परमां स्मृतिम् । वचोभिः परमोदारैरक्षरैः स्तवनैः शुभैः ॥ 47॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,47,5066,श्रीकृष्ण उवाच । मातर्मयातितपसा परितोषिता त्वं प्राग्जन्मनि प्रसुमनादिभिरर्चितासि । धर्मात्मजेन बदरीवनखण्डमध्ये किं विस्मृतो जननि ते त्वयि भक्तिभावः ॥ 48॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,48,5067,सूतीगृहादपहृतः किमु बालको मे केनापि दुष्टमनसाप्यथ कौतुकाद्वा । मानापहारकरणाय ममाद्य नूनं लज्जा तवाम्ब खलु भक्तजनस्य युक्ता ॥ 49॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,49,5068,दुर्गो महानतितरां नगरी सुगुप्ता तत्रापि मेऽस्ति सदनं किल मध्यभागे । अन्तःपुरे च पिहितं ननु सूतिगेहं बालो हृतः खलु तथापि ममैव दोषात् ॥ 50॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,50,5069,नाहं गतः परपुरं न च यादवाश्च रक्षावतीव नगरी किल वीरवर्यैः । माया तवैव जननि प्रकटप्रभावा मे बालकः परिहृतः कुहकेन केन ॥ 51॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,51,5070,नो वेद्म्यहं जननि ते चरितं सुगुप्तं को वेद मन्दमतिरल्पविदेव देही । क्वासौ गतो मम भटैर्न च वीक्षितो वा हर्ताम्बिके जवनिका तव कल्पितेयम् ॥ 52॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,52,5071,चित्रं न तेऽत्र पुरतो मम मातृगर्भो नीतस्त्वयार्धसमये किल माययासौ । यं रोहिणी हलधरं सुषुवे प्रसिद्धं दूरे स्थिता पतिपरा मिथुनं विनापि ॥ 53॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,53,5072,सृष्टिं करोषि जगतामनुपालनं च नाशं तथैव पुनरप्यनिशं गुणैस्त्वम् । को वेद तेऽम्ब चरितं दुरितान्तकारि प्रायेण सर्वमखिलं विहितं त्वयैतत् ॥ 54॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,54,5073,उत्पाद्य पुत्रजननप्रभवं प्रमोदं दत्त्वा पुनर्विरहजं किल दुःखभारम् । त्वं क्रीडसे सुललितैः खलु तैर्विहारै- र्नो चेत्कथं मम सुताप्तिरतिर्वृथा स्यात् ॥ 55॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,55,5074,मातास्य रोदिति भृशं कुररीव बाला दुःखं तनोति मम सन्निधिगा सदैव । कष्टं न वेत्सि ललितेऽप्रमितप्रभावे मातस्त्वमेव शरणं भवपीडितानाम् ॥ 56॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,56,5075,सीमा सुखस्य सुतजन्म तदीयनाशो दुःखस्य देवि भवने विबुधा वदन्ति । तत्किं करोमि जननि प्रथमे प्रनष्टे पुत्रे ममाद्य हृदयं स्फुटतीव मातः ॥ 57॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,57,5076,यज्ञं करोमि तव तुष्टिकरं व्रतं वा दैवं च पूजनमथाखिलदुःखहा त्वम् । मातः सुतोऽत्र यदि जीवति दर्शयाशु त्वं वै क्षमा सकलशोकविनाशनाय ॥ 58॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,58,5077,व्यास उवाच । एवं स्तुता तदा देवी कृष्णेनाक्लिष्टकर्मणा । प्रत्यक्षदर्शना भूत्वा तमुवाच जगद्गुरुम् ॥ 59॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,59,5078,श्रीदेव्युवाच । शोकं मा कुरु देवेश शापोऽयं ते पुरातनः । तस्य योगेन पुत्रस्ते शम्बरेण हृतो बलात् ॥ 60॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,60,5079,अतस्ते षोडशे वर्षे हत्वा तं शम्बरं बलात् । आगमिष्यति पुत्रस्ते मत्प्रसादान्न संशयः ॥ 61॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,61,5080,व्यास उवाच । इत्युक्त्वान्तर्दधे देवी चण्डिका चण्डविक्रमा । भगवानपि पुत्रस्य शोकं त्यक्त्वाभवत्सुखी ॥ 62॥ 4,४.२४,चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।,62,5081,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे देव्या कृष्णशोकापनोदनं नाम चतुर्विंशोऽध्यायः ॥ ४.२४॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,0,5082,राजोवाच । सन्देहो मे मुनिश्रेष्ठ जायते वचनात्तव । वैष्णवांशे भगवति दुःखोत्पत्तिं विलोक्य च ॥ 1॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,1,5083,नारायणांशसम्भूतो वासुदेवः प्रतापवान् । कथं स सूतिकागाराद्धृतो बालो हरेरपि ॥ 2॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,2,5084,सुगुप्तनगरे रम्ये गुप्तेऽथ सूतिकागृहे । प्रविश्य तेन दैत्येन गृहीतोऽसौ कथं शिशुः ॥ 3॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,3,5085,न ज्ञातो वासुदेवेन चित्रमेतन्ममाद्भुतम् । जायते महदाश्चर्यं चित्ते सत्यवतीसुत ॥ 4॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,4,5086,ब्रूहि तत्कारणं ब्रह्मन्न ज्ञातं केशवेन यत् । हरणं तत्रसंस्थेन शिशोर्वा सूतिकागृहात् ॥ 5॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,5,5087,व्यास उवाच । माया बलवती राजन्नराणां बुद्धिमोहिनी । शाम्भवी विश्रुता लोके को वा मोहं न गच्छति ॥ 6॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,6,5088,मानुषं जन्म सम्प्राप्य गुणाः सर्वेऽपि मानुषाः । भवन्ति देहजा कामं न देवा नासुरास्तदा ॥ 7॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,7,5089,क्षुत्तृण्निद्रा भयं तन्द्रा व्यामोहः शोकसंशयः । हर्षश्चैवाभिमानश्च जरामरणमेव च ॥ 8॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,8,5090,अज्ञानं ग्लानिरप्रीतिरीर्ष्यासूया मदः श्रमः । एते देहभवा भावाः प्रभवन्ति नराधिप ॥ 9॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,9,5091,यथा हेममृगं रामो न बुबोध पुरोगतम् । जानक्या हरणञ्चैव जटायुमरणं तथा ॥ 10॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,10,5092,अभिषेकदिने रामो वनवासं न वेद च । तथा न ज्ञातवान् रामः स्वशोकान्मरणं पितुः ॥ 11॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,11,5093,अज्ञवद्विचचारासौ पश्यमानो वने वने । जानकीं न विवेदाथ रावणेन हृतां बलात् ॥ 12॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,12,5094,सहायान् वानरान्कृत्वा हत्वा शक्रसुतं बलात् । सागरे सेतुबन्धञ्च कृत्वोत्तीर्य सरित्पतिम् ॥ 13॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,13,5095,प्रेषयामास सर्वासु दिक्षु तान्कपिकुञ्जरान् । सङ्ग्रामं कृतवान्घोरं दुःखं प्राप रणाजिरे ॥ 14॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,14,5096,बन्धनं नागपाशेन प्राप रामो महाबलः । गरुडान्मोक्षणं पश्चादन्वभूद्रघुनन्दनः ॥ 15॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,15,5097,अहनद्रावणं सङ्ख्ये कुम्भकर्णं महाबलम् । मेघनादं निकुम्भञ्च कुपितो रघुनन्दनः ॥ 16॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,16,5098,अदूष्यत्वञ्च जानक्या न विवेद जनार्दनः । दिव्यञ्च कारयामास ज्वलितेऽग्नौ प्रवेशनम् ॥ 17॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,17,5099,लोकापवादाच्च परं ततस्तत्याज तां प्रियाम् । अदूष्यां दूषितां मत्वा सीतां दशरथात्मजः ॥ 18॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,18,5100,न ज्ञातौ स्वसुतौ तेन रामेण च कुशीलवौ । मुनिना कथितौ तौ तु तस्य पुत्रौ महाबलौ ॥ 19॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,19,5101,पातालगमनं चैव जानक्या ज्ञातवान्न च । राघवः कोपसंयुक्तो भ्रातरं हन्तुमुद्यतः ॥ 20॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,20,5102,कालस्यागमनञ्चैव न विवेद खरान्तकः । मानुषं देहमाश्रित्य चक्रे मानुषचेष्टितम् ॥ 21॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,21,5103,तथैव मानुषान्भावान्नात्र कार्या विचारणा । पूर्वं कंसभयात्प्राप्तो गोकुले यदुनन्दनः ॥ 22॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,22,5104,जरासन्धभयात्पश्चाद् द्वारवत्यां गतो हरिः । अधर्मं कृतवान्कृष्णो रुक्मिण्या हरणञ्च यत् ॥ 23॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,23,5105,शिशुपालवृतायाश्च जानन्धर्मं सनातनम् । शुशोच बालकं कृष्णः शम्बरेण हृतं बलात् ॥ 24॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,24,5106,मुमोद जानन्पुत्रं तं हर्षशोकयुतस्ततः । सत्यभामाज्ञया यत्तु युयुधे स्वर्गतः किल ॥ 25॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,25,5107,इन्द्रेण पादपार्थं तु स्त्रीजितत्वं प्रकाशयन् । जहार कल्पवृक्षं यः पराभूय शतक्रतुम् ॥ 26॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,26,5108,मानिनीमानरक्षार्थं हरिश्चित्रधरः प्रभुः । बद्ध्वा वृक्षे हरिं सत्या नारदाय ददौ पतिम् ॥ 27॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,27,5109,दत्त्वाथ कानकं कृष्णं मोचयामास भामिनी । दृष्ट्वा पुत्रान्पुरुगुणान्प्रद्युम्नप्रमुखानथ ॥ 28॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,28,5110,कृष्णं जाम्बवती दीना ययाचे सन्ततिं शुभाम् । स ययौ पर्वतं कृष्णस्तपस्याकृतनिश्चयः ॥ 29॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,29,5111,उपमन्युर्मुनिर्यत्र शिवभक्तः परन्तपः । उपमन्युं गुरु कृत्वा दीक्षां पाशुपतो हरिः ॥ 30॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,30,5112,जग्राह पुत्रकामस्तु मुण्डी दण्डी बभूव ह । उग्रं तत्र तपस्तेपे मासमेकं फलाशनः ॥ 31॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,31,5113,जजाप शिवमन्त्रं तु शिवध्यानपरो हरिः । द्वितीये तु जलाहारस्तिष्ठन्नेकपदा हरिः ॥ 32॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,32,5114,तृतीये वायुभक्षस्तु पादाङ्गुष्ठाग्रसंस्थितः । षष्ठे तु भगवान् रुद्रः प्रसन्नो भक्तिभावतः ॥ 33॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,33,5115,दर्शनञ्च ददौ तत्र सोमः सोमकलाधरः । आजगाम वृषारूढः सुरैरिन्द्रादिभिर्भूतः ॥ 34॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,34,5116,ब्रह्मविष्णुयुतः साक्षाद्यक्षगन्धर्वसेवितः । सम्बोधयन्वासुदेवं शङ्करस्तमुवाच ह ॥ 35॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,35,5117,तुष्टोऽस्मि कृष्ण तपसा तवोग्रेण महामते । ददामि वाच्छितान्कामान्ब्रूहि यादवनन्दन ॥ 36॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,36,5118,मयि दृष्टे कामपूरे कामशेषो न सम्भवेत् । व्यास उवाच । तं दृष्ट्वा शङ्करं तुष्टं भगवान्देवकीसुतः ॥ 37॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,37,5119,पपात पादयोस्तस्य दण्डवत्प्रेमसंयुतः । स्तुतिं चकार देवेशो मेघगम्भीरया गिरा ॥ 38॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,38,5120,स्थितस्तु पुरतः शम्भोर्वासुदेवः सनातनः । श्रीकृष्ण उवाच । देवदेव जगन्ताथ सर्वभूतार्तिनाशन ॥ 39॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,39,5121,विश्वयोने सुरारिघ्न नमस्त्रैलोक्यकारक । नीलकण्ठ नमस्तुभ्यं शूलिने ते नमो नमः ॥ 40॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,40,5122,शैलजावल्लभायाश्च यज्ञघ्नाय नमोऽस्तु ते । धन्योऽहं कृतकृत्योऽहं दर्शनात्तव सुव्रत ॥ 41॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,41,5123,जन्म मे सफलं जातं नत्वा ते पादपङ्कजम् । बद्धोऽहं स्त्रीमयैः पाशैः संसारेऽस्मिञ्जगद्गुरो ॥ 42॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,42,5124,शरणं तेऽद्य सम्प्राप्तो रक्षणार्थं त्रिलोचन । सम्प्राप्य मानुषं जन्म खिन्नोऽहं दुःखनाशन ॥ 43॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,43,5125,त्राहि मां शरणं प्राप्तं भवभीतं भवाधुना । गर्भवासे महद्दुःखं प्राप्तं मदनदाहक ॥ 44॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,44,5126,जन्मतः कंसभयजमनुभूतं च गोकुले । जातोऽहं नन्दगोपालो बल्लवाज्ञाकरस्तथा ॥ 45॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,45,5127,गोरजःकीर्णकेशस्तु भ्रमन्वृन्दावने घने । म्लेच्छराजभयत्रस्तो गतो द्वारवतीं पुनः ॥ 46॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,46,5128,त्यक्त्वा पित्र्यं शुभं देशं माधुरं दुर्लभं विभो । ययातिशापबद्धेन तस्मै दत्तं भयाद्विभो ॥ 47॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,47,5129,राज्यं सुपुष्टमपि च धर्मरक्षापरेण च । उग्रसेनस्य दासत्वं कृतं वै सर्वदा मया ॥ 48॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,48,5130,राजासौ यादवानां वै कृतो नः पूर्वजैः किल । गार्हस्थ्यं दुःखदं शम्भो स्त्रीवश्यं धर्मखण्डनम् ॥ 49॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,49,5131,पारतन्त्र्यं सदा बन्धमोक्षवार्तात्र दुर्लभा । रुक्यिण्यास्तनयान्दृष्ट्वा भार्या जाम्बवती मम ॥ 50॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,50,5132,प्रेरयामास पुत्रार्थं तपसे मदनान्तक । सकामेन मया तप्तं तपः पुत्रार्थमद्य वै ॥ 51॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,51,5133,लज्जा भवति देवेश प्रार्थनायां जगद्गुरो । कस्त्वामाराध्य देवेशं मुक्तिदं भक्तवत्सलम् ॥ 52॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,52,5134,प्रसन्नं याचते मूढः फलं तुच्छं विनाशि यत् । सोऽयं मायाविमूढात्मा याचे पुत्रसुखं विभो ॥ 53॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,53,5135,कामिन्या प्रेरितः शम्भो मुक्तिदं त्वां जगत्पते । जानामि दुःखदं शम्भो संसारं दुःखसाधनम् ॥ 54॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,54,5136,अनित्यं नाशधर्माणं तथापि विरतिर्न मे । शापान्नारायणांशोऽहं जातोऽस्मि क्षितिमण्डले ॥ 55॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,55,5137,भोक्तुं बहुतरं दुःखं मायापाशेन यन्त्रितः । व्यास उवाच । इत्युक्तवन्तं गोविन्दं प्रत्युवाच महेश्वरः ॥ 56॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,56,5138,बहवस्ते भविष्यन्ति पुत्राः शत्रुनिषूदन । स्त्रीणां षोडशसाहस्रं भविष्यति शतार्धकम् ॥ 57॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,57,5139,तासु पुत्रा दश दश भविष्यन्ति महाबलाः । इत्युक्त्वोपररामाशु शङ्करः प्रियदर्शनः ॥ 58॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,58,5140,उवाच गिरिजा देवी प्रणतं मधुसूदनम् । कृष्ण कृष्ण महाबाहो संसारेऽस्मिन्नराधिप ॥ 59॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,59,5141,गृहस्थप्रवरो लोके भविष्यति भवानिह । ततो वर्षशतान्ते तु द्विजशापाज्जनार्दन ॥ 60॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,60,5142,गान्धार्याश्च तथा शापाद्भविता ते कुलक्षयः । परस्परं निहत्याजौ पुत्रास्ते शापमोहिताः ॥ 61॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,61,5143,गमिष्यन्ति क्षयं सर्वे यादवाश्च तथापरे । सानुजस्त्वं तथा देहं त्यक्त्वा यास्यसि वै दिवम् ॥ 62॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,62,5144,शोकस्तत्र न कर्तव्यो भवितव्यं प्रति प्रभो । अवश्यम्भाविभावानां प्रतीकारो न विद्यते ॥ 63॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,63,5145,तत्र शोको न कर्तव्यो नूनं मम मतं सदा । अष्टावक्रस्य शापेन भार्यास्ते मधुसूदन ॥ 64॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,64,5146,चौरेभ्यो ग्रहणं कृष्ण गमिष्यन्ति मृते त्वयि । व्यास उवाच । इत्युक्त्वान्तर्दधे शम्भुः सोमः ससुरमण्डलः ॥ 65॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,65,5147,उपमन्युं प्रणम्याथ कृष्णोऽपि द्वारकां ययौ । यस्माद् ब्रह्मादयो राजन् सन्ति यद्यप्यधीश्वराः ॥ 66॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,66,5148,तथापि मायाकल्लोलयोगसङ्क्षुभितान्तराः । तदधीनाः स्थिताः सर्वे काष्ठपुत्तलिकोपमाः ॥ 67॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,67,5149,यथा यथा पूर्वभवं कर्म तेषां तथा तथा । प्रेरयत्यनिशं माया परब्रह्मस्वरूपिणी ॥ 68॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,68,5150,न वैषम्यं न नैर्घृण्यं भगवत्यां कदाचन । केवलं जीवमोक्षार्थं यतते भुवनेश्वरी ॥ 69॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,69,5151,यदि सा नैव सृज्येत जगदेतच्चराचरम् । तदा मायां विना भूतं जडं स्यादेव नित्यशः ॥ 70॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,70,5152,तस्मात्कारुण्यमाश्रित्य जगज्जीवादिकं च यत् । करोति सततं देवी प्रेरयत्यनिशं च तत् ॥ 71॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,71,5153,तस्माद् ब्रह्मादिमोहेऽस्मिन्कर्तव्यः संशयो न हि । मायान्तःपातिनः सर्वे मायाधीनाः सुरासुराः ॥ 72॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,72,5154,स्वतन्त्रा सैव देवेशी स्वेच्छाचारविहारिणी । तस्मात्सर्वात्मना राजन् सेवनीया महेश्वरी ॥ 73॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,73,5155,नातः परतरं किञ्चिदधिकं भुवनत्रये । एतद्धि जन्मसाफल्यं पराशक्तेः पदस्मृतिः ॥ 74॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,74,5156,माभूत्तत्र कुले जन्म यत्र देवी न दैवतम् । अहं देवी न चान्योऽस्मि ब्रह्मैवाहं न शोकभाक् ॥ 75॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,75,5157,इत्यभेदेन तां नित्यां चिन्तयेज्जगदम्बिकाम् । ज्ञात्वा गुरुमुखादेनां वेदान्तश्रवणादिभिः ॥ 76॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,76,5158,नित्यमेकाग्रमनसा भावयेदात्मरूपिणीम् । मुक्तो भवति तेनाशु नान्यथा कर्मकोटिभिः ॥ 77॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,77,5159,श्वेताश्वतरादयः सर्वे ऋषयो निर्मलाशयाः । आत्मरूपां हृदा ज्ञात्वा विमुक्ता भवबन्धनात् ॥ 78॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,78,5160,ब्रह्मविष्ण्वादयस्तद्वद् गौरीलक्ष्म्यादयस्तथा । तामेव समुपासन्ते सच्चिदानन्दरूपिणीम् ॥ 79॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,79,5161,इति ते कथितं राजन् यद्यत्पुष्टं त्वयानघ । प्रपञ्चतापत्रस्तेन किं भूयः श्रोतुमिच्छसि ॥ 80॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,80,5162,एतत्ते कथितं राजन्मयाख्यानमनुत्तमम् । सर्वपापहरं पुण्यं पुराणं परमाद्भुतम् ॥ 81॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,81,5163,य इदं श‍ृणुयान्नित्यं पुराणं वेदसम्मितम् । सर्वपापविनिर्मुक्तो देवीलोके महीयते ॥ 82॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,82,5164,सूत उवाच । एतन्मया श्रुतं व्यासात्कथ्यमानं सविस्तरम् । पुराणं पञ्चमं नूनं श्रीमद्भागवताभिधम् ॥ 83॥ 4,४.२५,पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।,83,5165,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे पराशक्तेः सर्वज्ञत्वकथनं नाम पञ्चविंशोऽध्यायः ॥ ४.२५॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,0,5166,ऋषय ऊचुः । भवता कथितं सूत महदाख्यानमुत्तमम् । कृष्णस्य चरितं दिव्यं सर्वपातकनाशनम् ॥ 1॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,1,5167,सन्देहोऽत्र महाभाग वासुदेवकथानके । जायते नः प्रोच्यमाने विस्तरेण महामते ॥ 2॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,2,5168,वने गत्वा तपस्तप्तं वासुदेवेन दुष्करम् । विष्णोरंशावतारेण शिवस्याराधनं कृतम् ॥ 3॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,3,5169,वरप्रदानं देव्या च पार्वत्या यत्कृतं पुनः । जगन्मातुश्च पूर्णायाः श्रीदेव्या अंशभूतया ॥ 4॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,4,5170,ईश्वरेणापि कृष्णेन कुतस्तौ सम्प्रपूजितौ । न्यूनता वा किमस्त्वस्य तदेवं संशयो मम ॥ 5॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,5,5171,सूत उवाच । श‍ृणुध्वं कारणं तत्र मया व्यासश्रुतञ्च यत् । प्रब्रवीमि महाभागाः कथां कृष्णगुणान्विताम् ॥ 6॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,6,5172,वृत्तान्तं व्यासतः श्रुत्वा वैराटीसुतजस्तदा । पुनः पप्रच्छ मेधावी सन्देहं परमं गतः ॥ 7॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,7,5173,जनमेजय उवाच । सम्यक्सत्यवतीसूनो श्रुतं परमकारणम् । तथापि मनसो वृत्तिः संशयं न विमुञ्चति ॥ 8॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,8,5174,कृष्णेनाराधितः शम्भुस्तपस्तप्त्वातिदारुणम् । विस्मयोऽयं महाभाग देवदेवेन विष्णुना ॥ 9॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,9,5175,यः सर्वात्मापि सर्वेशः सर्वसिद्धिप्रदः प्रभुः । स कथं कृतवान्घोरं तपः प्राकृतवद्धरिः ॥ 10॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,10,5176,जगत्कर्तुं क्षमः कृष्णस्तथा पालयितुं क्षमः । संहर्तुमपि कस्मात्स दारुणं तप आचरत् ॥ 11॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,11,5177,व्यास उवाच । सत्यमुक्तं त्वया राजन् वासुदेवो जनार्दनः । क्षमः सर्वेषु कार्येषु देवानां दैत्यसूदनः ॥ 12॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,12,5178,तथापि मानुषं देहमाश्रितः परमेश्वरः । कृतवान्मानुषान्भावान्वर्णाश्रमसमाश्रितान् ॥ 13॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,13,5179,वृद्धानां पूजनं चैव गुरुपादाभिवन्दनम् । ब्राह्मणानां तथा सेवा देवताराधनं तथा ॥ 14॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,14,5180,शोके शोकाभियोगश्च हर्षे हर्षसमुन्नतिः । दैन्यं नानापवादाश्च स्त्रीषु कामोपसेवनम् ॥ 15॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,15,5181,कामः क्रोधस्तथा लोभः काले काले भवन्ति हि । तथा गुणमये देहे निर्गुणत्वं कथं भवेत् ॥ 16॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,16,5182,सौबलीशापजाद्दोषात्तथा ब्राह्मणशापजात् । निधनं यादवानां तु कृष्णदेहस्य मोचनम् ॥ 17॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,17,5183,हरणं लुण्ठनं तद्वत्तत्पत्नीनां नराधिप । अर्जुनस्यास्त्रमोक्षे च क्लीबत्वं तस्करेषु च ॥ 18॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,18,5184,अज्ञत्वं हरणे गेहात्तत्प्रद्युम्नानिरुद्धयोः । एवं मानुषदेहेऽस्मिन्मानुषं खलु चेष्टितम् ॥ 19॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,19,5185,विष्णोरंशावतारेऽस्मिन्नारायणमुनेस्तथा । अंशजे वासुदेवेऽत्र किं चित्रं शिवसेवने ॥ 20॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,20,5186,स हि सर्वेश्वरो देवो विष्णोरपि च कारणम् । सुषुप्तस्थाननाथः स विष्णुना च प्रपूजितः ॥ 21॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,21,5187,तदंशभूताः कृष्णाद्यास्तैः कथं न स पूज्यते । अकारो भगवान्ब्रह्माप्युकारः स्याद्धरिः स्वयम् ॥ 22॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,22,5188,मकारो भगवान् रुद्रोऽप्यर्धमात्रा महेश्वरी । उत्तरोत्तरभावेनाप्युत्तमत्वं स्मृतं बुधैः ॥ 23॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,23,5189,अतः सर्वेषु शास्त्रेषु देवी सर्वोत्तमा स्मृता । अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः ॥ 24॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,24,5190,विष्णोरप्यथिको रुद्रो विष्णुस्तु ब्रह्मणोऽधिकः । तस्मान्न संशयः कार्यः कृष्णेन शिवपूजने ॥ 25॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,25,5191,इच्छया ब्रह्मणो वक्त्राद्वरदानार्थमुद्बभौ । मूलरुद्रस्यांशभूतो रुद्रनामा द्वितीयकः ॥ 26॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,26,5192,सोऽपि पूज्योऽस्ति सर्वेषां मूलरुद्रस्य का कथा । देवीतत्त्वस्य सान्निध्यादुत्तमत्वं स्मृतं शिवे ॥ 27॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,27,5193,अवतारा हरेरेवं प्रभवन्ति युगे युगे । योगमायाप्रभावेण नात्र कार्या विचारणा ॥ 28॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,28,5194,या नेत्रपक्ष्मपरिसञ्चलनेन सम्य- ग्विश्वं सृजत्यवति हन्ति निगूढभावा । सैषा करोति सततं द्रुहिणाच्युतेशान् नानावतारकलने परिभूयमानान् ॥ 29॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,29,5195,सूतीगृहाद्व्रजनमप्यनया नियुक्तं सङ्गोपितश्च भवने पशुपालराज्ञः । सम्प्रापितश्च मधुरां विनियोजितश्च श्रीद्वारकाप्रणयने ननु भीतचित्तः ॥ 30॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,30,5196,निर्माय षोडशसहस्रशतार्धकास्ता नार्योऽष्टसम्मततराः स्वकलासमुत्थाः । तासां विलासवशगं तु विधाय कामं दासीकृतो हि भगवाननयाप्यनन्तः ॥ 31॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,31,5197,एकापि बन्धनविधौ युवती समर्था पुंसो यथा सुदृढलोहमयं तु दाम । किं नाम षोडशसहस्रशतार्धकाश्च तं स्वीकृतं शुकमिवातिनिबन्धयन्ति ॥ 32॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,32,5198,सात्राजितीवशगतेन मुदान्वितेन प्राप्तं सुरेन्द्रभवनं हरिणा तदानीम् । कृत्वा मृधं मघवता विहृतस्तरूणा- मीशः प्रियासदनभूषणतां य आप ॥ 33॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,33,5199,यो भीमजां हि हृतवाञ्छिशुपालकादी- ञ्जित्वा विधिं निखिलधर्मकृतो विधित्सुः । जग्राह तां निजबलेन च धर्मपत्नीं कोऽसौ विधिः परकलत्रहृतौ विजातः ॥ 34॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,34,5200,अहङ्कारवशः प्राणी करोति च शुभाशुभम् । विमूढो मोहजालेन तत्कृतेनातिपातिना ॥ 35॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,35,5201,अहङ्काराद्धि सञ्जातमिदं स्थावरजङ्गमम् । मूलाद्धरिहरादीनामुग्रात्प्रकृतिसम्भवात् ॥ 36॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,36,5202,अहङ्कारपरित्यक्तो यदा भवति पद्मजः । तदा विमुक्तो भवति नोचेत्संसारकर्मकृत् ॥ 37॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,37,5203,तन्मुक्तस्तु विमुक्तो हि बद्धस्तद्वशतां गतः । न नारी न धनं गेहं न पुत्रा न सहोदराः ॥ 38॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,38,5204,बन्धनं प्राणिनां राजन्नहङ्कारस्तु बन्धकः । अहं कर्ता मया चेदं कृतं कार्यं बलीयसा ॥ 39॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,39,5205,करिष्यामि करोम्येवं स्वयं बध्नाति प्राणभृत् । कारणेन विना कार्यं न सम्भवति कर्हिचित् ॥ 40॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,40,5206,यथा न दृश्यते जातो मृत्पिण्डेन विना घटः । विष्णुः पालयिता विश्वस्याहङ्कारसमन्वितः ॥ 41॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,41,5207,अन्यथा सर्वदा चिन्ताम्बुधौ मग्नः कथं भवेत् । अहङ्कारविमुक्तस्तु यदा भवति मानवः ॥ 42॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,42,5208,अवतारप्रवाहेषु कथं मज्जेच्छुभाशयः । मोहमूलमहङ्कारः संसारस्तत्समुद्भवः ॥ 43॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,43,5209,अहङ्कारविहीनानां न मोहो न च संसृतिः । त्रिविधः पुरुषः प्रोक्तः सात्त्विको राजसस्तथा ॥ 44॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,44,5210,तामसस्तु महाराज ब्रह्मविष्णुशिवादिषु । त्रिविधस्त्रिषु राजेन्द्र काजेशादिषु सर्वदा ॥ 45॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,45,5211,अहङ्कारः सदा प्रोक्तो मुनिभिस्तत्त्वदर्शिभिः । अहङ्कारेण तेनैव बद्धा एते न संशयः ॥ 46॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,46,5212,मायाविमोहिता मन्दाः प्रवदन्ति मनीषिणः । करोति स्वेच्छया विष्णुरवताराननेकशः ॥ 47॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,47,5213,मन्दोऽपि दुःखगहने गर्भवासेऽतिसङ्कटे । न करोति मतिं विद्वान्कथं कुर्यात्स चक्रभृत् ॥ 48॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,48,5214,कौसल्यादेवकीगर्भे विष्ठामलसमाकुले । स्वेच्छया प्रवदन्त्यद्धा गतो हि मधुसूदनः ॥ 49॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,49,5215,वैकुण्ठसदनं त्यक्त्वा गर्भवासे सुखं नु किम् । चिन्ताकोटिसमुत्थाने दुःखदे विषसम्मिते ॥ 50॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,50,5216,तपस्तप्त्वा क्रतून्कृत्वा दत्त्वा दानान्यनेकशः । न वाञ्छन्ति यतो लोका गर्भवासं सुदुःखदम् ॥ 51॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,51,5217,स कथं भगवान्विष्णुः स्ववशश्चेज्जनार्दनः । गर्भवासरुचिर्भूयाद्भवेत्स्ववशता यदि ॥ 52॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,52,5218,जानीहि त्वं महाराज योगमायावशे जगत् । ब्रह्मादिस्तम्बपर्यन्तं देवमानुषतिर्यगम् ॥ 53॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,53,5219,मायातन्त्रीनिबद्धा ये ब्रह्मविष्णुहरादयः । भ्रमन्ति बन्धमायान्ति लीलया चोर्णनाभवत् ॥ 54॥ 5,५.१,प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।,54,5220,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे योगमायाप्रभाववर्णनं नाम प्रथमोऽध्यायः ॥ ५.१॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,0,5221,राजोवाच । योगेश्वर्याः प्रभावोऽयं कथितश्चातिविस्तरात् । ब्रूहि तच्चरितं स्वामिञ्छ्रोतुं कौतूहलं मम ॥ 1॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,1,5222,महादेवीप्रभावं वै श्रोतुं को नाभिवाञ्छति । यो जानाति जगत्सर्वं तदुत्पन्नं चराचरम् ॥ 2॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,2,5223,व्यास उवाच । श‍ृणु राजन् प्रवक्ष्यामि विस्तरेण महामते । श्रद्दधानाय शान्ताय न ब्रूयात्स तु मन्दधीः ॥ 3॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,3,5224,पुरा युद्धमभूद् घोरं देवदानवसेनयोः । पृथिव्यां पृथिवीपाल महिषाख्ये महीपतौ ॥ 4॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,4,5225,महिषो नाम राजेन्द्र चकार तप उत्तमम् । गत्वा हेमगिरौ चोग्रं देवविस्मयकारकम् ॥ 5॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,5,5226,वर्षाणामयुतं पूर्णं चिन्तयन्हृदि देवताम् । तस्य तुष्टो महाराज ब्रह्मा लोकपितामहः ॥ 6॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,6,5227,तत्रागत्याब्रवीद्वाक्यं हंसारूढश्चतुर्मुखः । वरं वरय धर्मात्मन्ददामि तव वाच्छितम् ॥ 7॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,7,5228,महिष उवाच । अमरत्वं देवदेव वाञ्छामि द्रुहिण प्रभो । यथा मृत्यु भयं न स्यात्तथा कुरु पितामह ॥ 8॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,8,5229,ब्रह्मोवाच । उत्पन्नस्य ध्रुवं मृत्युर्ध्रुवं जन्म मृतस्य च । सर्वथा मरणोत्पत्ती सर्वेषां प्राणिनां किल ॥ 9॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,9,5230,नाशः कालेन सर्वेषां प्राणिनां दैत्यपुङ्गव । महामहीधराणां च समुद्राणां च सर्वथा ॥ 10॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,10,5231,एकं स्थानं परित्यज्य मरणस्य महीपते । प्रब्रूहि तं वरं साधो यस्ते मनसि वर्तते ॥ 11॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,11,5232,महिष उवाच । न देवान्मानुषाद्दैत्यान्मरणं मे पितामह । पुरुषान्न च मे मृत्युर्योषा मां का हनिष्यति ॥ 12॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,12,5233,तस्मान्मे मरणं नूनं कामिन्याः कुरु पद्मज । अबला हन्त मां हन्तुं कथं शक्ता भविष्यति ॥ 13॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,13,5234,ब्रह्मोवाच । यदा कदापि दैत्येन्द्र नार्यास्ते मरणं ध्रुवम् । न नरेभ्यो महाभाग मृतिस्ते महिषासुर ॥ 14॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,14,5235,व्यास उवाच । एवं दत्त्वा वरं तस्मै ययौ ब्रह्मा निजालयम् । सोऽपि दैत्यवरः प्राप निजं स्थानं मुदान्वितः ॥ 15॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,15,5236,राजोवाच । महिषः कस्य पुत्रोऽसौ कथं जातो महाबली । कथं च माहिषं रूपं प्राप्तं तेन महात्मना ॥ 16॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,16,5237,व्यास उवाच । दनोः पुत्रौ महाराज विख्यातौ क्षितिमण्डले । रम्भश्चैव करम्भश्च द्वावास्तां दानवोत्तमौ ॥ 17॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,17,5238,तावपुत्रौ महाराज पुत्रार्थं तेपतुस्तपः । बहून्वर्षगणान्कामं पुण्ये पञ्चनदे जले ॥ 18॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,18,5239,करम्भस्तु जले मग्नश्चकार परमं तपः । वृक्षं रसालवटं प्राप्य रम्भोऽग्निमसेवत ॥ 19॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,19,5240,पञ्चाग्निसाधनासक्तः स रम्भस्तु यदाभवत् । ज्ञात्वा शचीपतिर्दुःखमुद्ययौ दानवौ प्रति ॥ 20॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,20,5241,गत्वा पञ्चनदे तत्र ग्राहरूपं चकार ह । वासवस्तु करम्भं तं तदा जग्राह पादयोः ॥ 21॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,21,5242,निजघान च तं दुष्टं करम्भं वृत्रसूदनः । भ्रातरं निहतं श्रुत्वा रम्भः कोपं परं गतः ॥ 22॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,22,5243,स्वशीर्षं पावके होतुमैच्छच्छित्त्वा करेण ह । केशपाशे गहीत्वाशु वामेन क्रोधसंयुतः ॥ 23॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,23,5244,दक्षिणेन करेणोग्रं गृहीत्वा खड्गमुत्तमम् । छिनत्ति शीर्षं तत्तावद्वह्निना प्रतिबोधितः ॥ 24॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,24,5245,उक्तश्च दैत्य मूर्खोऽसि स्वशीर्षं छेत्तुमिच्छसि । आत्महत्यातिदुःसाध्या कथं त्वं कर्तुमुद्यतः ॥ 25॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,25,5246,वरं वरय भद्रं ते यस्ते मनसि वर्तते । मा म्रियस्व मृतेनाद्य किं ते कार्यं भविष्यति ॥ 26॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,26,5247,व्यास उवाच । तच्छुत्वा वचनं रम्भः पावकस्य सुभाषितम् । ततोऽब्रवीद्वचो रम्भस्त्यक्त्वा केशकलापकम् ॥ 27॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,27,5248,यदि तुष्टोऽसि देवेश देहि मे वाञ्छितं वरम् । त्रैलोक्यविजयी पुत्रः स्यान्नः परबलार्दनः ॥ 28॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,28,5249,अजेयः सर्वथा स स्याद्देवदानवमानवैः । कामरूपी महावीर्यः सर्वलोकाभिवन्दितः ॥ 29॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,29,5250,पावकस्तं तथेत्याह भविष्यति तवेप्सितम् । पुत्रस्तव महाभाग मरणाद्विरमाधुना ॥ 30॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,30,5251,यस्यां चित्तं तु रम्भ त्वं प्रमदायां करिष्यसि । तस्यां पुत्रो महाभाग भविष्यति बलाधिकः ॥ 31॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,31,5252,व्यास उवाच । इत्युक्तो वह्निना रम्भो वचनं चित्तरञ्जनम् । श्रुत्वा प्रणम्य प्रययौ वह्निं तं दानवोत्तमः ॥ 32॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,32,5253,यक्षैः परिवृतं स्थानं रमणीयं श्रियान्वितम् । दृष्ट्वा चक्रे तदा भावं महिष्यां दानवोत्तमः ॥ 33॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,33,5254,मत्तायां रूपपूर्णायां विहायान्याञ्च योषितम् । सा समागाच्च तरसा कामयन्ती मुदान्विता ॥ 34॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,34,5255,रम्भोऽपि गमनं चक्रे भवितव्यप्रणोदितः । सा तु गर्भवती जाता महिषी तस्य वीर्यतः ॥ 35॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,35,5256,तां गृहीत्वाथ पातालं प्रविवेश मनोहरम् । महिषेभ्यश्च तां रक्षन्प्रियामनुमतां किल ॥ 36॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,36,5257,कदाचिन्महिषश्चान्यः कामार्तस्तामुपाद्रवत् । स्वयमागत्य तं हन्तुं दानवः समुपाद्रवत् ॥ 37॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,37,5258,स्वरक्षार्थं समागत्य महिषं समताडयत् । सोऽपि तं निजघानाशु श‍ृङ्गाभ्यां काममोहितः ॥ 38॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,38,5259,ताडितस्तेन तीक्ष्णाभ्यां श‍ृङ्गाभ्यां हृदये भृशम् । भूमौ पपात तरसा ममार च विमूर्च्छितः ॥ 39॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,39,5260,मृते भर्तरि सा दीना भयार्ता विद्रुता भृशम् । सा वेगात्तं वटं प्राप्य यक्षाणां शरणं गता ॥ 40॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,40,5261,पृष्ठतस्तु गतस्तत्र महिषः कामपीडितः । कामयानस्तु तां कामी बलवीर्यमदोद्धतः ॥ 41॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,41,5262,रुदती सा भृशं दीना दृष्टा यक्षैर्भयातुरा । धावमानं च तं वीक्ष्य यक्षास्त्रातुं समाययुः ॥ 42॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,42,5263,युद्धं समभवद् घोरं यक्षाणां च हयारिणा । शरेण ताडितस्तूर्णं पपात धरणीतले ॥ 43॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,43,5264,मृतं रम्भं समानीय यक्षास्ते परमं प्रियम् । चितायां रोपयामासुस्तस्य देहस्य शुद्धये ॥ 44॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,44,5265,महिषी सा पतिं दृष्ट्वा चितायां रोपितं तदा । प्रवेष्टुं सा मतिं चक्रे पतिना सह पावकम् ॥ 45॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,45,5266,वार्यमाणापि यक्षैः सा प्रविवेश हुताशनम् । ज्वालामालाकुलं साध्वी पतिमादाय वल्लभम् ॥ 46॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,46,5267,महिषस्तु चितामध्यात्समुत्तस्थौ महाबलः । रम्भोऽप्यन्यद्वपुः कृत्वा निःसृतः पुत्रवत्सलः ॥ 47॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,47,5268,रक्तबीजोऽप्यसौ जातो महिषोऽपि महाबलः । अभिषिक्तस्तु राज्येऽसौ हयारिरसुरोत्तमैः ॥ 48॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,48,5269,एवं स महिषो जातो रक्तबीजश्च वीर्यवान् । अवध्यस्तु सुरैर्दैत्यैर्मानवैश्च नृपोत्तम ॥ 49॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,49,5270,इत्येतत्कथितं राजन् जन्म तस्य महात्मनः । वरप्रदानञ्च तथा प्रोक्तं सर्वं सविस्तरम् ॥ 50॥ 5,५.२,द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।,50,5271,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे महिषासुरोत्पत्तिर्नाम द्वितीयोऽध्यायः ॥ ५.२॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,0,5272,व्यास उवाच । एवं स महिषो नाम दानवो वरदर्पितः । प्राप्य राज्यं जगत्सर्वं वशे चक्रे महाबलः ॥ 1॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,1,5273,पृथिवीं पालयामास सागरान्तां भुजार्जिताम् । एकच्छत्रां निरातङ्कां वैरिवर्गविवर्जिताम् ॥ 2॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,2,5274,सेनानीश्चिक्षुरस्तस्य महावीर्यो मदोत्कटः । धनाध्यक्षस्तथा ताम्रः सेनायुतसमावृतः ॥ 3॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,3,5275,असिलोमा तथोदर्को बिडालाख्यश्च बाष्कलः । त्रिनेत्रोऽथ तथा कालबन्धको बलदर्पितः ॥ 4॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,4,5276,एते सैन्ययुताः सर्वे दानवा मेदिनीं तदा । आवृत्य संस्थिताः काममृद्धां सागरमेखलाम् ॥ 5॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,5,5277,करदाश्च कृताः सर्वे भूमिपालाः पुरातनाः । निहता ये बलोदग्राः क्षात्रधर्मव्यवस्थिताः ॥ 6॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,6,5278,ब्राह्मणा वशगा जाता यज्ञभागसमर्पकाः । महिषस्य महाराज निखिले क्षितिमण्डले ॥ 7॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,7,5279,एकातपत्रं तद्राज्यं कृत्वा स महिषासुरः । स्वर्गं जेतुं मनश्चक्रे वरदानेन गर्वितः ॥ 8॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,8,5280,प्रणिधिं प्रेषयामास हयारिस्तु शचीपतिम् । स सन्देशहरं शीघ्रमाहूयोवाच दैत्यराट् ॥ 9॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,9,5281,गच्छ वीर महाबाहो दूतत्वं कुरु मेऽनघ । ब्रूहि शक्रं दिवं गत्वा निःशङ्कः सुरसन्निधौ ॥ 10॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,10,5282,मुञ्च स्वर्गं सहस्राक्ष यथेष्टं गच्छ मा चिरम् । सेवां वा कुरु देवेश महिषस्य महात्मनः ॥ 11॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,11,5283,स त्वां संरक्षयेन्नूनं राजा शरणमागतम् । तस्मात्त्वं शरणं याहि महिषस्य शचीपते ॥ 12॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,12,5284,नोचेद्वज्रं गहाणाशु युद्धाय बलसूदन । पूर्वैर्जितोऽसि चास्माकं जानामि तव पौरुषम् ॥ 13॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,13,5285,अहल्याजार विज्ञातं बलं ते सुरसङ्घप । युध्यस्व व्रज वा कामं यत्र ते रमते मनः ॥ 14॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,14,5286,व्यास उवाच । तच्छुत्वा वचनं तस्य शक्रः क्रोधसमन्वितः । उवाच तं नृपश्रेष्ठ स्मितपूर्वं वचस्तदा ॥ 15॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,15,5287,न जानेऽहं सुमन्दात्मन् यतस्त्वं मददर्पितः । चिकित्सां सङ्करिष्यामि रोगस्यास्य प्रभोस्तव ॥ 16॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,16,5288,अतः परं करिष्यामि मूलस्यास्य निमूलनम् । गच्छ दूत तथा ब्रूहि तस्याग्रे मम भाषितम् ॥ 17॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,17,5289,शिष्टैर्दूता न हन्तव्यास्तस्मात्त्वां विसृजाम्यहम् । युद्धेच्छा चेत्समागच्छ त्वरितो महिषीसुत ॥ 18॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,18,5290,हयारे त्वद्बलं ज्ञातं तृणादस्त्वं जडाकृतिः । श‍ृङ्गयोस्ते करिष्यामि सुदृढं च शरासनम् ॥ 19॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,19,5291,दर्पः श‍ृङ्गबलात्तेऽस्ति विदितं कारणं मया । विषाणे ते परिच्छिद्य संहरिष्यामि तद् बलम् ॥ 20॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,20,5292,यद् बलेनातिपूर्णस्त्वं जातोऽसि बलदर्पितः । कुशलस्त्वं तदाघाते न युद्धे महिषाधम ॥ 21॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,21,5293,व्यास उवाच । इत्युक्तोऽसौ सुरेन्द्रेण स दूतस्त्वरितो गतः । जगाम महिषं मत्तं प्रणम्य प्रत्युवाच ह ॥ 22॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,22,5294,दूत उवाच । राजन्देवाधिपः कामं न त्वां विगणयत्यसौ । मन्यते स्वबलं पूर्णं देवसैन्यसमावृतः ॥ 23॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,23,5295,यदुक्तं तेन मूर्खेण कथमन्यद् ब्रवीम्यहम् । प्रियं सत्यं च वक्तव्यं भृत्येन पुरतः प्रभोः ॥ 24॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,24,5296,प्रियं सत्यं च वक्तव्यं प्रभोरग्रे शुभेच्छुना । इति नीतिर्महाराज जागर्ति शुभकारिणी ॥ 25॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,25,5297,केवलं चेत्प्रियं ब्रूयान्न ते कार्यं भविष्यति । परुषं च न वक्तव्यं कदाचिच्छुभमिच्छता ॥ २६ यथा रिपुमुखाद्वाचः प्रसरन्ति विषोपमाः । तथा भृत्यमुखान्नाथ निःसरन्ति कथं गिरः ॥ 27॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,26,5298,यादृशानीह वाक्यानि तेनोक्तानि महीपते । तादृशानि न मे जिह्वा वक्तुमर्हति कर्हिचित् ॥ 28॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,27,5299,व्यास उवाच । तच्छ्रुत्वा वचनं तस्य हेतुगर्भं तृणाशनः । भृशं कोपपरीतात्मा बभूव महिषासुरः ॥ 29॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,28,5300,समाहूयाब्रवीद्दैत्यान्क्रोधसंरक्तलोचनः । लाङ्गूलं पृष्ठदेशे च कृत्वा मूत्रं परित्यजन् ॥ 30॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,29,5301,भो भो दैत्याः सुरेन्द्रोऽसौ युद्धकामोऽस्ति सर्वथा । बलोद्योगं कुरुध्वं वै जेतव्योऽसौ सुराधमः ॥ 31॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,30,5302,मदग्रे को भवेच्छूरः कोटिशश्चेत्तथाविधाः । न बिभेम्येकतः कामं हनिष्याम्यद्य सर्वथा ॥ 32॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,31,5303,शरः शान्तेष्वसौ नूनं तपस्विषु बलाधिकः । बलकर्ता हि कुहको लम्पटः परदारहृत् ॥ 33॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,32,5304,अप्सरोबलसम्मत्तस्तपोविघ्नकरः खलः । छिद्रप्रहरणः पापो नित्यं विश्वासघातकः ॥ 34॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,33,5305,नमुचिर्निहतो येन कृत्वा सन्धिं दुरात्मना । शपथान्विविधानादौ कृत्वा भीतेन छद्मना ॥ 35॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,34,5306,विष्णुस्तु कपटाचार्यः कुहकः शपथाकरः । नानारूपधरः कामं बलकृद्दम्भपण्डितः ॥ 36॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,35,5307,कृत्वा कोलाकृतिं येन हिरण्याक्षो निपातितः । हिरण्यकशिपुर्येन नृसिंहेन च घातितः ॥ 37॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,36,5308,नाहं तद्वशगो नूनं भवेयं दनुनन्दनाः । विश्वासं नैव गच्छामि देवानां कुत्र कर्हिचित् ॥ 38॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,37,5309,किं करिष्यति मे विष्णुरिन्द्रो वा बलवत्तरः । रुद्रो वापि न मे शक्तः प्रतिकर्तुं रणाङ्गणे ॥ 39॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,38,5310,त्रिविष्टपं ग्रहीष्यामि जित्वेन्द्रं वरुणं यमम् । धनदं पावकं चैव चन्द्रसूर्यौ विजित्य च ॥ 40॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,39,5311,यज्ञभागभुजः सर्वे भविष्यामोऽद्य सोमपाः । जित्वा देवसमूहञ्च विहरिष्यामि दानवैः ॥ 41॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,40,5312,न मे भयं सुरेभ्यश्च वरदानेन दानवाः । मरणं न नरेभ्यश्च नारी किं मे करिष्यति ॥ 42॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,41,5313,पातालपर्वतेभ्यश्च समाहूय वरान्वरान् । दानवान्मम सैन्येशान्कुर्वन्तु त्वरिताश्चराः ॥ 43॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,42,5314,एकोऽहं सर्वदेवेशान्विजेतुं दानवाः क्षमः । शोभार्थं वः समाहूय नयामि सुरसङ्गमे ॥ 44॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,43,5315,श‍ृङ्गाभ्यां च खुराभ्यां च हनिष्येऽहं सुरान्किल । न मे भयं सुरेभ्यश्च वरदानप्रभावतः ॥ 45॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,44,5316,अवध्योऽहं सुरगणैरसुरैर्मानवैस्तथा । तस्मात्सज्जा भवन्त्वद्य देवलोकजयाय वै ॥ 46॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,45,5317,जित्वा सुरालयं दैत्या विहरिष्यामि नन्दने । मन्दारकुसुमापीडा देवयोषित्समन्विताः ॥ 47॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,46,5318,कामधेनुपयोत्सिक्ताः सुधापानप्रमोदिताः । देवगन्धर्वगीतादिनृत्यलास्यसमन्विताः ॥ 48॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,47,5319,उर्वशी मेनका रम्भा घृताची च तिलोत्तमा । प्रमद्वरा महासेना मिश्रकेशी मदोत्कटा ॥ 49॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,48,5320,विप्रचित्तिप्रभृतयो नृत्यगीतविशारदाः । रञ्जयिष्यन्ति वः सर्वान्नानासवनिषेवणैः ॥ 50॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,49,5321,सर्वे सज्जा भवन्त्वद्य रोचतां गमनं दिवि । सङ्ग्रामार्थं सुरैः सार्धं कृत्वा मङ्गलमुत्तमम् ॥ 51॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,50,5322,रक्षणार्थं च सर्वेषां भार्गवं मुनिसत्तमम् । समाहूय च सम्पूज्य स्थाप्य यज्ञे गुरुं परम् ॥ 52॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,51,5323,व्यास उवाच । इति सन्दिश्य दैत्येन्द्रान्महिषः पापधीस्तदा । जगाम त्वरितो राजन्भवनं स्वं मुदान्वितः ॥ 53॥ 5,५.३,तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।,52,5324,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे भगवतीमाहाम्ये दैत्यसैन्योद्योगो नाम तृतीयोऽध्यायः ॥ ५.३॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,0,5325,व्यास उवाच । गते दूते सुरेन्द्रोऽपि समाहूय सुरानथ । यमवायुधनाध्यक्षवरुणानिदमूचिवान् ॥ 1॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,1,5326,महिषो नाम दैत्येन्द्रो रम्भपुत्रो महाबलः । वरदर्पमदोन्मत्तो मायाशतविचक्षणः ॥ 2॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,2,5327,तस्य दूतोऽद्य सम्प्राप्तः प्रेषितस्तेन भोः सुराः । स्वर्गकामेन लुब्धेन मामुवाचेदृशं वचः ॥ 3॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,3,5328,त्यज देवालयं शक्र यथेच्छं व्रज वासव । सेवां वा कुरु दैत्यस्य महिषस्य महात्मनः ॥ 4॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,4,5329,दयावान्दानवेन्द्रोऽसौ स ते वृत्तिं विधास्यति । नतेषु भृत्यभूतेषु न कुप्यति कदाचन ॥ 5॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,5,5330,नोचेद्युद्धाय देवेश सेनोद्योगं कुरु स्वयम् । गते मयि स दैत्येन्द्रस्त्वरितः समुपेष्यति ॥ 6॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,6,5331,इत्युक्त्वा स गतो दूतो दानवस्य दुरात्मनः । किं कर्तव्यमतः कार्यं चिन्तयध्वं सुरोत्तमाः ॥ 7॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,7,5332,दुर्बलोऽपि न चोपेक्ष्यः शत्रुर्बलवता सुराः । विशेषेण सदोद्योगी बलवान्बलदर्पितः ॥ 8॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,8,5333,उद्यमः किल कर्तव्यो यथाबुद्धि यथाबलम् । दैवाधीनो भवेन्नूनं जयो वाथ पराजयः ॥ 9॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,9,5334,सन्धियोगो न चात्रास्ति खले सन्धिर्निरर्थकः । सर्वथा साधुभिः कार्यं विचार्य च पुनः पुनः ॥ 10॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,10,5335,यानमप्यधुना नैव कर्तव्यं सहसा पुनः । प्रेक्षकाः प्रेषणीयाश्च शीघ्रगाः सुप्रवेशकाः ॥ 11॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,11,5336,इङ्गितज्ञाश्च निःसङ्गा निःस्पृहाः सत्यवादिनः । सेनाभियोगं प्रस्थानं बलसङ्ख्यां यथार्थतः ॥ 12॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,12,5337,वीराणां च परिज्ञानं कृत्वायान्तु त्वरान्विताः । ज्ञात्वा दैत्यपतेस्तस्य सैन्यस्य च बलाबलम् ॥ 13॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,13,5338,करिष्यामि ततस्तूर्णं यानं वा दुर्गसङ्ग्रहम् । विचार्य खलु कर्तव्यं कार्यं बुद्धिमता सदा । सहसा विहितं कार्यं दुःखदं सर्वथा भवेत् ॥ 14॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,14,5339,तस्माद्विमृश्य कर्तव्यं सुखदं सर्वथा बुधैः । नात्र भेदविधिर्न्याय्यो दानवेषु च सर्वथा ॥ 15॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,15,5340,एकचित्तेषु कार्येऽस्मिंस्तस्माच्चारा व्रजन्तु वै । ज्ञात्वा बलाबलं तेषां पश्चान्नीतिर्विचार्य च ॥ 16॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,16,5341,विधेया विधिवत्तज्ज्ञैस्तेषु कार्यपरेषु च । अन्यथा विहितं कार्यं विपरीतफलप्रदम् ॥ 17॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,17,5342,सर्वथा तद्भवेन्नूनमज्ञातमौषधं यथा । व्यास उवाच । इति सञ्चिन्त्य तैः सर्वैः प्रणिधिं कार्यवेदिनम् ॥ 18॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,18,5343,प्रेषयामास देवेन्द्रः परिज्ञानाय पार्थिव । दूतस्तु त्वरितो गत्वा समागम्य सुराधिपम् ॥ 19॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,19,5344,निवेदयामास तदा सर्वसैन्यबलाबलम् । ज्ञात्वा तद्बलमुद्योगं तुराषाडतिविस्मितः ॥ 20॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,20,5345,देवानचोदयत्तूर्णं समाहूय पुरोहितम् । मन्त्रं मन्त्रविदां श्रेष्ठं चकार त्रिदशेश्वरः ॥ 21॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,21,5346,उवाचाङ्गिरसश्रेष्ठं समासीनं वरासने । इन्द्र उवाच । भो भो देवगुरो विद्वन्किं कर्तव्यं वदस्व नः ॥ 22॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,22,5347,सर्वज्ञोऽसि समुत्पन्ने कार्ये त्वं गतिरद्य नः । दानवो महिषो नाम महावीर्यो मदान्वितः ॥ 23॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,23,5348,योद्धुकामः समायाति बहुभिर्दानवैर्वृतः । तत्र प्रतिक्रिया कार्या त्वया मन्त्रविदाधुना ॥ 24॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,24,5349,तेषां शुक्रस्तथा त्वं मे विघ्नहर्ता सुसंयतः । व्यास उवाच । तच्छ्रुत्वा वचनं प्राह तुरासाहं बृहस्पतिः ॥ 25॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,25,5350,विचिन्त्य मनसा कामं कार्यसाधनतत्परः । गुरुरुवाच । स्वस्थो भव सुरेन्द्र त्वं धैर्यमालम्ब्य मारिष ॥ 26॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,26,5351,व्यसने च समुत्पन्ने न त्याज्यं धैर्यमाशु वै । जयाजयौ सुराध्यक्ष दैवाधीनौ सदैव हि ॥ 27॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,27,5352,स्थातव्यं धैर्यमालम्ब्य तस्माद् बुद्धिमता सदा । भवितव्यं भवत्येव जानन्नेव शतक्रतो ॥ 28॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,28,5353,उद्यमः सर्वथा कार्यो यथापौरुषमात्मनः । मुनयोऽपि हि मुक्त्यर्थमुद्यमैकरताः सदा ॥ 29॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,29,5354,दैवाधीनं च जानन्तो योगध्यानपरायणाः । तस्मात्सदैव कर्तव्यो व्यवहारोदितोद्यमः ॥ 30॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,30,5355,सुखं भवतु वा मा वा दैवे का परिदेवना । विना पुरुषकारेण कदाचित्सिद्धिमाप्नुयात् ॥ 31॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,31,5356,अन्धवत्पङ्गुवत्कामं न तथा मुदमावहेत् । कृते पुरुषकारेऽपि यदि सिद्धिर्न जायते ॥ 32॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,32,5357,न तत्र दूषणं तस्य दैवाधीने शरीरिणि । कार्यसिद्धिर्न सैन्येऽस्ति न मन्त्रे न च मन्त्रणे ॥ 33॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,33,5358,न रथे नायुधे नूनं दैवाधीना सुराधिप । बलवाञ्क्लेशमाप्नोति निर्बलः सुखमश्नुते ॥ 34॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,34,5359,बुद्धिमान्क्षुधितः शेते निर्बुद्धिर्भोगवान्भवेत् । कातरो जयमाप्नोति शूरो याति पराजयम् ॥ 35॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,35,5360,दैवाधीने तु संसारे कामं का परिदेवना । उद्यमे योजयेन्नूनं भवितव्यं सुराधिप ॥ 36॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,36,5361,दुःखदे सुखदे वापि तत्र तौ न विचिन्तयेत् । दुःखे दुःखाधिकान्पश्येत्सुखे पश्येत्सुखाधिकम् ॥ 37॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,37,5362,आत्मानं हर्षशोकाभ्यां शत्रुभ्यामिव नार्पयेत् । धैर्यमेवावगन्तव्यं हर्षशोकोद्भवे बुधैः ॥ 38॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,38,5363,अधैर्याद्यादृशं दुःखं न तु धैर्येऽस्ति तादृशम् । दुर्लभं सहनत्वं वै समये सुखदुःखयोः ॥ 39॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,39,5364,हर्षशोकोद्भवो यत्र न भवेद् बुद्धिनिश्चयात् । किं दुःखं कस्य वा दुःखं निर्गुणोऽहं सदाव्ययः ॥ 40॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,40,5365,चतुर्विंशातिरिक्तोऽस्मि किं मे दुःखं सुखं च किम् । प्राणस्य क्षुत्पिपासे द्वे मनसः शोकमूर्छने ॥ 41॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,41,5366,जरामृत्यू शरीरस्य षडूर्मिरहितः शिवः । शोकमोहौ शरीरस्य गणौ किं मेऽत्र चिन्तने ॥ 42॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,42,5367,शरीरं नाहमथवा तत्सम्बन्धी न चाप्यहम् । सप्तैकषोडशादिभ्यो विभिन्नोऽहं सदा सुखी ॥ 43॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,43,5368,प्रकृतिर्विकृतिर्नाहं किं मे दुःखं सदा पुनः । इति मत्वा सुरेश त्वं मनसा भव निर्ममः ॥ 44॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,44,5369,उपायः प्रथमोऽयं ते दुःखनाशे शतक्रतो । ममता परमं दुःखं निर्ममत्वं परं सुखम् ॥ 45॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,45,5370,सन्तोषादपरं नास्ति सुखस्थानं शचीपते । अथवा यदि न ज्ञानं ममत्वनाशने किल ॥ 46॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,46,5371,ततो विवेकः कर्तव्यो भवितव्ये सुराधिप । प्रारब्धकर्मणां नाशो नाभोगाल्लक्ष्यते किल ॥ 47॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,47,5372,यद्भावि तद्भवत्येव का चिन्ता सुखदुःखयोः । सुरैः सर्वैः सहायैर्वा बुद्ध्या वा तव सत्तम ॥ 48॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,48,5373,सुखं क्षयाय पुण्यस्य दुःखं पापस्य मारिष । तस्मात्सुखक्षये हर्षः कर्तव्यः सर्वथा बुधैः ॥ 49॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,49,5374,अथवा मन्त्रयित्वाद्य कुरु यत्नं यथाविधि । कृते यत्ने महाराज भवितव्यं भविष्यति ॥ 50॥ 5,५.४,चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।,50,5375,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनं नाम चतुर्थोऽध्यायः ॥ ५.४॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,0,5376,व्यास उवाच । इति श्रुत्वा सहस्राक्षः पुनराह बृहस्पतिम् । युद्धोद्योगं करिष्यामि हयारेर्नाशनाय वै ॥ 1॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,1,5377,नोद्यमेन विना राज्यं न सुखं न च वै यशः । निरुद्यमं न शंसन्ति कातरा न च सोद्यमाः ॥ 2॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,2,5378,यतीनां भूषणं ज्ञानं सन्तोषो हि द्विजन्मनाम् । उद्यमः शत्रुहननं भूषणं भूतिमिच्छताम् ॥ 3॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,3,5379,उद्यमेन हतस्त्वाष्ट्रो नमुचिर्बल एव च । तथैनं निहनिष्यामि महिषं मुनिसत्तम ॥ 4॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,4,5380,बलं देवगुरुस्त्वं मे वज्रमायुधमुत्तमम् । सहायस्तु हरिर्नूनं तथोमापतिरव्ययः ॥ 5॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,5,5381,रक्षोघ्नान्पठ मे साधो करोम्यद्य समुद्यमम् । स्वसैन्याभिनिवेशञ्च महिषं प्रति मानद ॥ 6॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,6,5382,व्यास उवाच । इत्युक्तो देवराजेन वाचस्पतिरुवाच ह । सुरेन्द्रं युद्धसंरक्तं स्मितपूर्वं वचस्तदा ॥ 7॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,7,5383,बृहस्पतिरुवाच । प्रेरयामि न चाहं त्वां न च निर्वारयाम्यहम् । सन्दिग्धेऽत्र जये कामं युध्यतश्च पराजये ॥ 8॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,8,5384,न तेऽत्र दूषणं किञ्चिद्भवितव्ये शचीपते । सुखं वा यदि वा दुःखं विहितं च भविष्यति ॥ 9॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,9,5385,न मया तत्परिज्ञातं भावि दुःखं सुखं तथा । यद्भार्याहरणे प्राप्तं पुरा वासव वेत्सि हि ॥ 10॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,10,5386,शशिना मे हृता भार्या मित्रेणामित्रकर्शन । स्वाश्रमस्थेन सम्प्राप्तं दुःखं सर्वसुखापहम् ॥ 11॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,11,5387,बुद्धिमान्सर्वलोकेषु विदितोऽहं सुराधिप । क्व मे गता तदा वुद्धिर्यदा भार्या हृता बलात् ॥ 12॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,12,5388,तस्मादुपायः कर्तव्यो बुद्धिमद्भिः सदा नरैः । कार्यसिद्धिः सदा नूनं दैवाधीना सुराधिप ॥ 13॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,13,5389,व्यास उवाच । तच्छ्रुत्वा वचनं सत्यं गुरोः सार्थं शचीपतिः । ब्रह्माणं शरणं गत्वा नत्वा वचनमब्रवीत् ॥ 14॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,14,5390,पितामह सुराध्यक्ष दैत्यो महिषसंज्ञकः । ग्रहीतुकामः स्वर्गं मे बलोद्योगं करोत्यलम् ॥ 15॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,15,5391,अन्ये च दानवाः सर्वे तत्सैन्यं समुपस्थिताः । योद्धुकामा महावीर्याः सर्वे युद्धविशारदाः ॥ 16॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,16,5392,तेनाहं भीतभीतोऽस्मि त्वत्सकाशमिहागतः । सर्वज्ञोऽसि महाप्राज्ञ साहाय्यं कर्तुमर्हसि ॥ 17॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,17,5393,ब्रह्मोवाच । गच्छामः सर्व एवाद्य कैलासं त्वरिता वयम् । शङ्करं पुरतः कृत्वा विष्णुं च बलिनां वरम् ॥ 18॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,18,5394,ततो युद्धं प्रकर्तव्यं सर्वैः सुरगणैः सह । मिलित्वा मन्त्रमाधाय देशं कालं विचिन्त्य च ॥ 19॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,19,5395,बलाबलमविज्ञाय विवेकमपहाय च । साहसं तु प्रकुर्वाणो नरः पतनमृच्छति ॥ 20॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,20,5396,व्यास उवाच । तन्निशम्य सहस्राक्षः कैलासं निर्जगाम ह । ब्रह्माणं पुरतः कृत्वा लोकपालसमन्वितः ॥ 21॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,21,5397,तुष्टाव शङ्करं गत्वा वेदमन्त्रैर्महेश्वरम् । प्रसन्नं पुरतः कृत्वा ययौ विष्णुपुरं प्रति ॥ 22॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,22,5398,स्तुत्वा तं देवदेवेशं कार्यं प्रोवाच चात्मनः । महिषात्तद्भयं चोग्रं वरदानमदोद्धतात् ॥ 23॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,23,5399,तदाकर्ण्य भयं तस्य विष्णुर्देवानुवाच ह । करिष्यामो वयं युद्धं हनिष्यामस्तु दुर्जयम् ॥ 24॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,24,5400,व्यास उवाच । इति ते निश्चयं कृत्वा ब्रह्मविष्णुहरीश्वराः । स्वानि स्वानि समारुह्य वाहनानि ययुः सुराः ॥ 25॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,25,5401,ब्रह्मा हंससमारूढो विष्णर्गरुडवाहनः । शङ्करो वृषभारूढो वृत्रहा गजसंस्थितः ॥ 26॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,26,5402,मयूरवाहनः स्कन्दो यमो महिषवाहनः । कृत्वा सैन्यसमायोगं यावत्ते निर्ययुः सुराः ॥ 27॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,27,5403,तावद्दैत्यबलं प्राप्तं दृप्तं महिषपालितम् । तत्राभूत्तुमुलं युद्धं देवदानवसैन्ययोः ॥ 28॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,28,5404,बाणैः खड्गैस्तथा प्रासैर्मुसलैश्च परश्वधैः । गदाभिः पट्टिशैः शूलैश्चक्रैश्च शक्तितोमरैः ॥ 29॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,29,5405,मुद्गरैर्भिन्दिपालैश्च हलैश्चैवातिदारुणैः । अन्यैश्च विविधैरस्त्रैर्निजघ्नुस्ते परस्परम् ॥ 30॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,30,5406,सेनानीश्चिक्षुरस्तस्य गजारूढो महाबलः । मघवन्तं पञ्चभिस्तैः सायकैः समताडयत् ॥ 31॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,31,5407,तुराषाडपि तांश्छित्त्वा बाणैर्बाणांस्त्वरान्वितः । हृदये चार्धचन्द्रेण ताडयामास तं कृती ॥ 32॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,32,5408,बाणाहतस्तु सेनानीः प्राप मूर्च्छां गजोपरि । करिणं वज्रघातेन स जघान करे ततः ॥ 33॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,33,5409,तद्वज्राभिहतो नागो भग्नः सैन्यं जगाम ह । दृष्ट्वा तं दैत्यराट् कुद्धो बिडालाख्यमथाब्रवीत् ॥ 34॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,34,5410,गच्छ वीर महाबाहो जहीन्द्रं मदगर्वितम् । वरुणादीन्परान्देवान्हत्वाऽऽगच्छ ममान्तिकम् ॥ 35॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,35,5411,व्यास उवाच । तच्छ्रुत्वा वचनं तस्य बिडालाख्यो महाबलः । आरुह्य वारणं मत्तं जगाम त्रिदशाधिपम् ॥ 36॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,36,5412,वासवस्तं समायान्तं दृष्ट्वा क्रोधसमन्वितः । जघान विशिखैस्तीक्षौराशीविषसमप्रभैः ॥ 37॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,37,5413,स तु छित्त्वा शरांस्तूर्णं स्वशरैश्चापनिःसृतैः । पञ्चाशद्भिर्जघानाशु वासवञ्च शिलीमुखैः ॥ 38॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,38,5414,तथेन्द्रोऽपि च तान्बाणांश्छित्त्वा कोपसमन्वितः । जघान विशिखैस्तीक्ष्णैराशीविषसमप्रभैः ॥ 39॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,39,5415,स तु छित्त्वा शरांस्तूर्णं स्वशरैश्चापनिःसृतैः । गदया ताडयामास गजं तस्य करोपरि ॥ 40॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,40,5416,स्वकरे निहतो नागश्चकारार्तस्वरं मुहुः । परिवृत्य जघानाशु दैत्यसैन्यं भयातुरम् ॥ 41॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,41,5417,दानवस्तु गजं वीक्ष्य परावृत्य गतं रणात् । समाविश्य रथे रम्ये जगामाशु सुरान् रणे ॥ 42॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,42,5418,तुराषाडपि तं वीक्ष्य रथस्थं पुनरागतम् । अहनद्विशिखैस्तीक्ष्णैराशीविषसमप्रभैः ॥ 43॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,43,5419,सोऽपि क्रुद्धश्चकारोग्रां बाणवृष्टिं महाबलः । बभूव तुमुलं युद्धं तयोस्तत्र जयैषिणोः ॥ 44॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,44,5420,इन्द्रस्तु बलिनं दृष्ट्वा कोपेनाकुलितेन्द्रियः । जयन्तमग्रतः कृत्वा युयुधे तेन संयुतः ॥ 45॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,45,5421,जयन्तस्तु शितैर्बाणैस्तं जघान स्तनान्तरे । पञ्चभिः प्रबलाकृष्टैरसुरं मदगर्वितम् ॥ 46॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,46,5422,स बाणाभिहतस्तावन्निपपात रथोपरि । अतिवाह्य रथं सूतो निर्जगाम रणाजिरात् ॥ 47॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,47,5423,तस्मिन्विनिर्गते दैत्ये बिडालाख्येऽथ मूर्च्छिते । जयशब्दो महानासीदुन्दुभीनां च निःस्वनः ॥ 48॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,48,5424,सुराः प्रमुदिताः सर्वे तुष्टुवुस्तं शचीपतिम् । जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥ 49॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,49,5425,चुकोप महिषः श्रुत्वा जयशब्दं सुरैः कृतम् । प्रेषयामास तत्रैव ताम्रं परमदापहम् ॥ 50॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,50,5426,ताम्रस्तु बहुभिः सार्धं समागम्य रणाजिरे । शरवृष्टिं चकाराशु तडित्वानिव सागरे ॥ 51॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,51,5427,वरुणः पाशमुद्यम्य जगाम त्वरितस्तदा । यमश्च महिषारूढो दण्डमादाय निर्ययौ ॥ 52॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,52,5428,तत्र युद्धमभूद् घोरं देवदानवयोर्मिथः । बाणैः खड्गैश्च मुसलैः शक्तिभिश्च परश्वधैः ॥ 53॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,53,5429,दण्डेन निहतस्ताम्रो यमहस्तोद्यतेन च । न चचाल महाबाहुः सङ्ग्रामाङ्गणतस्तदा ॥ 54॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,54,5430,चापमाकृष्य वेगेन मुक्त्वा तीव्राञ्छिलीमुखान् । इन्द्रादीनहनत्तूर्णं ताम्रस्तस्मिन् रणाजिरे ॥ 55॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,55,5431,तेऽपि देवाः शरैर्दिव्यैर्निशितैश्च शिलाशितैः । निजघ्नुर्दानवान्क्रुद्धास्तिष्ठ तिष्ठेति चुकुशुः ॥ 56॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,56,5432,निहतस्तैः सुरैर्दैत्यो मूर्च्छामाप रणाङ्गणे । हाहाकारो महानासीद्दैत्यसैन्ये भयातुरे ॥ 57॥ 5,५.५,पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।,57,5433,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे दैत्यसैन्यपराजयो नाम पञ्चमोऽध्यायः ॥ ५.५॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,0,5434,व्यास उवाच । ताम्रेऽथ मूर्च्छिते दैत्ये महिषः क्रोधसंयुतः । समुद्यम्य गदां गुर्वीं देवानुपजगाम ह ॥ 1॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,1,5435,तिष्ठन्त्वद्य सुराः सर्वे हन्म्यहं गदया किल । सर्वे बलिभुजः कामं बलहीनाः सदैव हि ॥ 2॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,2,5436,इत्युक्त्वासौ गजारूढं सम्प्राप्य मदगर्वितः । जघान गदया तूर्णं बाहुमूले महाभुजः ॥ 3॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,3,5437,सोऽपि वज्रेण घोरेण चिच्छेदाशु गदाञ्च ताम् । प्रहर्तुकामस्त्वरितो जगाम महिषं प्रति ॥ 4॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,4,5438,हयारिरपि कोपेन खड्गमादाय सुप्रभम् । ययाविन्द्रं महावीर्यं प्रहरिष्यन्निवान्तिकम् ॥ 5॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,5,5439,बभूव च तयोर्युद्धं सर्वलोकभयावहम् । आयुधैर्विविधैस्तत्र मुनिविस्मयकारकम् ॥ 6॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,6,5440,चकाराशु तदा दैत्यो मायां मोहकरीं किल । शाम्बरीं सर्वलोकघ्नीं मुनीनामपि मोहिनीम् ॥ 7॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,7,5441,कोटिशो महिषास्तत्र तद्रूपास्तत्पराक्रमाः । ददृशुः सायुधाः सर्वे निघ्नन्तो देववाहिनीम् ॥ 8॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,8,5442,मघवा विस्मितस्तत्र दृष्ट्वा तां दैत्यनिर्मिताम् । बभूवातिभयोद्विग्नो मायां मोहकरीं किल ॥ 9॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,9,5443,वरुणोऽपि सुसन्त्रस्तस्तथैव धननायकः । यमो हुताशनः सूर्यः शीतरश्मिर्भयातुरः ॥ 10॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,10,5444,पलायनपरा सर्वे बभूवुर्मोहिताः सुराः । ब्रह्मविष्णमहेशानां स्मरणं चक्रुरुद्यताः ॥ 11॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,11,5445,तत्राजग्मुश्च काजेशाः स्मृतमात्राः सुरोत्तमाः । हंसतार्क्ष्यवृषारूढास्त्रातुकामा वरायुधाः ॥ 12॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,12,5446,शौरिस्तां मोहिनीं दृष्ट्वा सुदर्शनमथोज्ज्वलम् । मुमोच तत्तेजसैव माया सा विलयं गता ॥ 13॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,13,5447,वीक्ष्य तान्महिषस्तत्र सृष्टिस्थित्यन्तकारिणः । योद्धुकामः समादाय परिघं समुपाद्रवत् ॥ 14॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,14,5448,महिषाख्यो महावीरः सेनानीश्चिक्षुरस्तथा । उग्रास्यश्चोग्रवीर्यश्च दुद्रुवुर्युद्धकामुकाः ॥ 15॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,15,5449,असिलोमात्रिनेत्रश्च बाष्कलोऽन्धक एव च । एते चान्ये च बहवो युद्धकामा विनिर्ययुः ॥ 16॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,16,5450,सन्नद्धा धृतचापास्ते रथारूढा मदोद्धताः । परिवव्रुः सुरान्सर्वान्वृका इव सुवत्सकान् ॥ 17॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,17,5451,बाणवृष्टिं ततश्चक्रुर्दानवा मदगर्विताः । सुराश्चापि तथा चक्रुः परस्परजिघांसवः ॥ 18॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,18,5452,अन्धको हरिमासाद्य पञ्चबाणाञ्छिलाशितान् । मुमोच विषसन्दिग्धान्कर्णाकृष्टान्महाबलान् ॥ 19॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,19,5453,वासुदेवोऽप्यसम्प्राप्तान्विशिखानाशुगैस्तदा । चिच्छेद तान्पुनः पञ्च मुमोच रिपुनाशनः ॥ 20॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,20,5454,तयोः परस्परं युद्धं बभूव हरिदैत्ययोः । बाणासिचक्रमुसलैर्गदाशक्तिपरश्वधैः ॥ 21॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,21,5455,महेशान्धकयोर्युद्धं तुमुलं लोमहर्षणम् । पञ्चाशद्दिनपर्यन्तं बभूव च परस्परम् ॥ 22॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,22,5456,इन्द्रबाष्कलयोस्तद्वन्महिषासुररुद्रयोः । यमत्रिनेत्रयोस्तद्वन्महाहनुधनेशयोः ॥ 23॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,23,5457,असिलोमवरुणयोर्युद्धं परमदारुणम् । गरुडं गदया दैत्यो जघान हरिवाहनम् ॥ 24॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,24,5458,स गदापातखिन्नाङ्गो निःश्वसन्नवतिष्ठत । शौरिस्तं दक्षिणेनाशु हस्तेन परिसान्त्वयन् ॥ 25॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,25,5459,स्थिरं चकार देवेशो वैनतेयं महाबलम् । समाकृष्य धनुः शार्ङ्गं मुमोच विशिखान्बहून् ॥ 26॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,26,5460,अन्धकोपरि कोपेन हन्तुकामो जनार्दनः । दानवोऽपि च तान्वाणांश्चिच्छेद स्वशरैः शितैः ॥ 27॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,27,5461,पञ्चाशद्भिर्हरिं कोपाज्जघान च शिलाशितैः । वासुदेवोऽपि तांस्तूर्णं वञ्चयित्वा शरोत्तमान् ॥ 28॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,28,5462,चक्रं मुमोच वेगेन सहस्रारं सुदर्शनम् । त्यक्तं सुदर्शनं दूरात्स्वचक्रेण न्यवारयत् ॥ 29॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,29,5463,ननाद च महाराज देवान्सम्मोहयन्निव । दृष्ट्वा तु विफलं जातं चक्रं देवस्य शार्ङ्गिणः ॥ 30॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,30,5464,जग्मुः शोकं सुराः सर्वे जहर्षुर्दानवास्तथा । वासुदेवोऽपि तरसा दृष्ट्वा देवाञ्छुचावृतान् ॥ 31॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,31,5465,गदां कौमोदकीं धृत्वा दानवं समुपाद्रवत् । तं जघानातिवेगेन मूर्ध्नि मायाविनं हरिः ॥ 32॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,32,5466,स गदाभिहतो भूमौ निपपातातिमूर्च्छितः । तं तथा पतितं वीक्ष्य हयारिरतिकोपनः ॥ 33॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,33,5467,आजगाम रमानाथं त्रासयन्नतिगर्जितैः । वासुदेवोऽपि तं दृष्ट्वा समायान्तं क्रुधान्वितम् ॥ 34॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,34,5468,चापज्यानिनदं चोग्रं चकार नन्दयन्सुरान् । शरवृष्टिं चकाराशु भगवान्महिषोपरि ॥ 35॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,35,5469,सोऽपि चिच्छेद बाणौघैस्ताञ्छरान्गगनेरितान् । तयोर्युद्धमभूद्राजन् परस्परभयावहम् ॥ 36॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,36,5470,गदया ताडयामास केशवो मस्तकोपरि । स गदाभिहतो मूर्ध्नि पपातोर्व्यां सुमूर्च्छितः ॥ 37॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,37,5471,हाहाकारो महानासीत्सैन्ये तस्य सुदारुणः । स विहाय व्यथां दैत्यो मुहूर्तादुत्थितः पुनः ॥ 38॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,38,5472,गृहीत्वा परिघं शीर्षे जघान मधुसूदनम् । परिघेणाहतस्तेन मूर्च्छामाप जनार्दनः ॥ 39॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,39,5473,मूर्च्छितं तमुवाहाशु जगाम गरुडो रणात् । परावृत्ते जगन्नाथे देवा इन्द्रपुरोगमाः ॥ 40॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,40,5474,भयं प्रापुः सुदुःखार्ताश्चुक्रुशुश्च रणाजिरे । क्रन्दमानान्सुरान्वीक्ष्य शङ्करः शूलभृत्तदा ॥ 41॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,41,5475,महिषं तरसाभ्येत्य प्राहरद्रोषसंयुतः । सोऽपि शक्तिं मुमोचाथ शङ्करस्योरसि स्फुटम् ॥ 42॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,42,5476,जगर्ज स च दुष्टात्मा वञ्चयित्वा त्रिशूलकम् । शङ्करोऽपि तदा पीडां न प्रापोरसि ताडितः ॥ 43॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,43,5477,तं जघान त्रिशूलेन कोपादरुणलोचनः । संलग्नं शङ्करं दृष्ट्वा महिषेण दुरात्मना ॥ 44॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,44,5478,आजगाम हरिस्तावत्त्यक्त्वा मूर्च्छां प्रहारजाम् । महिषस्तु तदा वीक्ष्य सम्प्राप्तौ हरिशङ्करौ ॥ 45॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,45,5479,युद्धकामौ महावीर्यो चक्रशूलधरौ वरौ । कोपयुक्तो बभूवासौ दृष्ट्वा तौ समुपागतौ ॥ 46॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,46,5480,जगाम सम्मुखस्तावत्सङ्ग्रामार्थं महाभुजः । माहिषं वपुरास्थाय धुन्वन्पुच्छं समुत्कटम् ॥ 47॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,47,5481,चकार भैरवं नादं त्रासयन्नमरानपि । धुन्वञ्छृङ्गे महाकायो दारुणो जलदो यथा ॥ 48॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,48,5482,श‍ृङ्गाभ्यां पर्वताज्छृङ्गांश्चिक्षेप भृशमुत्कटान् । दृष्ट्वा तौ तु महावीर्यौ दानवं देवसत्तमौ ॥ 49॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,49,5483,चक्रतुर्बाणवृष्टिं च दानवोपरि दारुणाम् । कुर्वाणौ बाणवृष्टिं तौ दृष्ट्वा हरिहरौ हरिः ॥ 50॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,50,5484,चिक्षेप गिरिश‍ृङ्गं तु पुच्छेनावृत्य दारुणम् । आपतन्तं गिरिं वीक्ष्य भगवान्सात्वतां पतिः ॥ 51॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,51,5485,विशिखैः शतधा चक्रे चक्रेणाशु जघान तम् । हरिचक्राहतः सङ्ख्ये मूर्च्छामाप स दैत्यराट् ॥ 52॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,52,5486,उत्तस्थौ च क्षणान्नूनं मानुषं वपुरास्थितः । गदापाणिर्महाघोरो दानवः पर्वतोपमः ॥ 53॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,53,5487,मेघनादं ननादोच्चैर्भीषयन्नमरानपि । तच्छ्रुत्वा भगवान्विष्णुः पाञ्चजन्यं समुज्ज्वलम् ॥ 54॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,54,5488,पूरयामास तरसा शब्दं कर्तुं खरस्वरम् । तेन शब्देन शङ्खस्य भयत्रस्ताश्च दानवाः । बभूवुर्मुदिता देवा ऋषयश्च तपोधनाः ॥ 55॥ 5,५.६,षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।,55,5489,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनं नाम षष्ठोऽध्यायः ॥ ५.६॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,0,5490,व्यास उवाच । असुरान्महिषो दृष्ट्वा विषण्णमनसस्तदा । त्यक्त्वा तन्माहिषं रूपं बभूव मृगराडसौ ॥ 1॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,1,5491,कृत्वा नादं महाघोरं विस्तार्य च महासटाम् । पपात सुरसेनायां त्रासयन्नखदर्शनैः ॥ 2॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,2,5492,गरुडञ्च नखाघातैः कृत्वा रुधिरविप्लुतम् । जघान च भुजे विष्णुं नखाघातेन केसरी ॥ 3॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,3,5493,वासुदेवोऽपि तं दृष्ट्वा चक्रमुद्यम्य वेगवान् । हन्तुकामो हरिः काममवापाशु क्रुधान्वितः ॥ 4॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,4,5494,यावद्धयरिपुं वेगाच्चक्रेणाभिजघान तम् । तावत्सोऽतिबलः श‍ृङ्गी श‍ृङ्गाभ्यां न्यहनद्धरिम् ॥ 5॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,5,5495,वासुदेवो विषाणाभ्यां ताडितोरसि विह्वलः । पलायनपरो वेगाज्जगाम भुवनं निजम् ॥ 6॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,6,5496,गतं दृष्ट्वा हरिं कामं शङ्करोऽपि भयान्वितः । अवध्यं तं परं मत्वा ययौ कैलासपर्वतम् ॥ 7॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,7,5497,ब्रह्मापि च निजं धाम त्वरितः प्रययौ भयात् । मघवा वज्रमालम्ब्य तस्थावाजौ महाबलः ॥ 8॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,8,5498,वरुणः शक्तिमालम्ब्य धैर्यमालम्ब्य संस्थितः । यमोऽपि दण्डमादाय यत्तः समरतत्परः ॥ 9॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,9,5499,ततो यक्षाधिपः कामं बभूव रणतत्परः । पावकः शक्तिमादाय तत्राभूद्युद्धमानसः ॥ 10॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,10,5500,नक्षत्राधिपतिः सूर्यः समवेतौ स्थितावुभौ । वीक्ष्य तं दानवश्रेष्ठं युद्धाय कृतनिश्चयौ ॥ 11॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,11,5501,एतस्मिन्नन्तरे क्रुद्धं दैत्यसैन्यं समभ्यगात् । विसृजन्बाणजालानि क्रूराहिसदृशानि च ॥ 12॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,12,5502,कृत्वा हि माहिषं रूपं भूपतिः संस्थितस्तदा । देवदानवयोधानां निनादस्तुमुलोऽभवत् ॥ 13॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,13,5503,ज्याघातश्च तलाघातो मेघनादसमोऽभवत् । सङ्ग्रामे सुमहाघोरे देवदानवसेनयोः ॥ 14॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,14,5504,श‍ृङ्गाभ्यां पार्वताञ्छृङ्गांश्चिक्षेप च महाबलः । जघान सुरसङ्घांश्च दानवो मदगर्वितः ॥ 15॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,15,5505,खुराघातैस्तथा देवान्पुच्छस्य भ्रमणेन च । स जघान रुषाविष्टो महिषः परमाद्भुतः ॥ 16॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,16,5506,ततो देवाः सगन्धर्वा भयमाजग्मुरुद्यताः । मघवा महिषं दृष्ट्वा पलायनपरोऽभवत् ॥ 17॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,17,5507,सङ्गरं सम्परित्यज्य गते शक्रे शचीपतौ । यमो धनाधिपः पाशी जग्मुः सर्वे भयातुराः ॥ 18॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,18,5508,महिषोऽपि जयं मत्वा जगाम स्वगृहं ततः । ऐरावतं गजं प्राप्य त्यक्तमिन्द्रेण गच्छता ॥ 19॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,19,5509,तथोच्चैःश्रवसं भानोः कामधेनुं पयस्विनीम् । स्वसैन्यसंवृतस्तूर्णं स्वर्गं गन्तुं मनो दधे ॥ 20॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,20,5510,तरसा देवसदनं गत्वा स महिषासुरः । जग्राह सुरराज्यं वै त्यक्तं देवैर्भयातुरैः ॥ 21॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,21,5511,इन्द्रासने तथा रम्ये दानवः समुपाविशत् । दानवान्स्थापयामास देवानां स्थानकेषु सः ॥ 22॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,22,5512,एवं वर्षशतं पूर्णं कृत्वा युद्धं सुदारुणम् । अवापैन्द्रपदं कामं दानवो मदगर्वितः ॥ 23॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,23,5513,निर्जरा निर्गता नाकात्तेन सर्वेऽतिपीडिताः । एवं बहूनि वर्षाणि बभ्रमुर्गिरिगह्वरे ॥ 24॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,24,5514,श्रान्ताः सर्वे तदा राजन् ब्रह्माणं शरणं ययुः । प्रजापतिं जगन्नाथं रजोरूपं चतुर्मुखम् ॥ 25॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,25,5515,पद्मासनं वेदगर्भं सेवितं मुनिभिः स्वजैः । मरीचिप्रमुखैः शान्तैर्वेदवेदाङ्गपारगैः ॥ 26॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,26,5516,किन्नरैः सिद्धगन्धर्वैश्चारणोरगपन्नगैः । तुष्टुवुर्भयभीतास्ते देवदेवं जगद्गुरुम् ॥ 27॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,27,5517,देवा ऊचुः । धातः किमेतदखिलार्तिहराम्बुजन्म जन्माभिवीक्ष्य न दयां कुरुषे सुरान् यत् । सम्पीडितान् रणजितानसुराधिपेन स्थानच्युतान् गिरिगुहाकृतसन्निवासान् ॥ 28॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,28,5518,पुत्रान्पिता किमपराधशतैः समेता- न्सन्त्यज्य लोभरहितः कुरुतेऽतिदुःस्थान् । यस्त्वं सुरांस्तव पदाम्बुजभक्तियुक्ता- न्दैत्यार्दितांश्च कृपणान् यदुपेक्षसेऽद्य ॥ 29॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,29,5519,अमरभुवनराज्यं तेन भुक्तं नितान्तं मखहविरपि योग्यं ब्राह्मणैराददाति । सुरतरुवरपुष्पं सेवतेऽसौ दुरात्मा जलनिधिनिधिभूतां गामसौ सेवते ताम् ॥ 30॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,30,5520,किं वा गृणीमः सुरकार्यमद्भुतं जानासि देवेश सुरारिचेष्टितम् । ज्ञानेन सर्वं त्वमशेषकार्यवि- त्तस्मात्प्रभो ते प्रणताः स्म पादयोः ॥ 31॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,31,5521,यत्रापि कुत्रापि गतान्सुरानसौ नानाचरित्रः खलु पापमानसः । पीडां करोत्येव स दुष्टचेष्टित- स्त्रातासि देवेश विधेहि शं विभो ॥ 32॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,32,5522,नो चेद्वयं दावमहाग्निपीडिताः कं शान्तिकर्तारमनन्ततेजसम् । यामः प्रजेशं शरणं सुरेष्टं धातारमाद्यं परिमुच्य कं शिवम् ॥ 33॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,33,5523,व्यास उवाच । इति स्तुत्वा सुराः सर्वे प्रणेमुस्तं प्रजापतिम् । बद्धाञ्जलिपुटाः सर्वे विषण्णवदना भृशम् ॥ 34॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,34,5524,तांस्तथा पीडितान्दृष्ट्वा तदा लोकपितामहः । उवाच श्लक्ष्णया वाचा सुखं सञ्जनयन्निव ॥ 35॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,35,5525,ब्रह्मोवाच । किं करोमि सुराः कामं दानवो वरदर्पितः । स्त्रीवध्योऽसौ न पुंवध्यो विधेयं तत्र किं पुनः ॥ 36॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,36,5526,व्रजामोऽद्य सुराः सर्वे कैलासं पर्वतोत्तमम् । शङ्करं पुरतः कृत्वा सर्वकार्यविशारदम् ॥ 37॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,37,5527,ततो व्रजाम वैकुण्ठं यत्र देवो जनार्दनः । मिलित्वा देवकार्यञ्च विमृशामो विशेषतः ॥ 38॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,38,5528,इत्युक्त्वा हंसमारुह्य ब्रह्मा कार्यसमुच्चये । देवांश्च पृष्ठतः कृत्वा कैलासाभिमुखो ययौ ॥ 39॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,39,5529,तावच्छिवोऽपि तरसा ज्ञात्वा ध्यानेन पद्मजम् । आगच्छन्तं सुरैः सार्धं निर्गतः स्वगृहाद्बहिः ॥ 40॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,40,5530,दृष्ट्वा परस्परं तौ तु कृताभिवादनौ भृशम् । प्रणतौ च सुरैः सर्वैः सन्तुष्टौ सम्बभूवतुः ॥ 41॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,41,5531,आसनानि पृथग्दत्त्वा देवेभ्यो गिरिजापतिः । उपविष्टेषु तेष्वेव निषसादासने स्वके ॥ 42॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,42,5532,कृत्वा तु कुशलप्रश्नं ब्रह्माणं वृषभध्वजः । पप्रच्छ कारणं देवान्कैलासागमने विभुः ॥ 43॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,43,5533,शिव उवाच । किमत्रागमनं ब्रह्मन् कृतं देवैः सवासवैः । भवता च महाभाग ब्रूहि तत्कारणं किल ॥ 44॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,44,5534,ब्रह्मोवाच । महिषेण सुरेशान पीडिताः स्वर्निवासिनः । भ्रमन्ति गिरिदुर्गेषु भयत्रस्ताः सवासवाः ॥ 45॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,45,5535,यज्ञभुग्महिषो जातस्तथान्ये सुरशत्रवः । पीडिता लोकपालाश्च त्वामद्य शरणं गताः ॥ 46॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,46,5536,मया ते भवनं शम्भो प्रापिताः कार्यगौरवात् । यद्युक्तं तद्विधत्स्वाद्य सुरकार्यं सुरेश्वर ॥ 47॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,47,5537,त्वयि भारोऽस्ति सर्वेषां देवानां भूतभावन । व्यास उवाच । इति तद्वचनं श्रुत्वा शङ्करः प्रहसन्निव ॥ 48॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,48,5538,वचनं श्लक्ष्णया वाचा प्रोवाच पद्मजं प्रति । शिव उवाच । भवतैव कृतं कार्यं वरदानात्पुरा विभो ॥ 49॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,49,5539,अनर्थदञ्च देवानां किं कर्तव्यमतः परम् । ईदृशो बलवाञ्छूरः सर्वदेवभयप्रदः ॥ 50॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,50,5540,का समर्था वरा नारी तं हन्तुं मददर्पितम् । न मे भार्या न ते भार्या सङ्ग्रामं गन्तुमर्हति ॥ 51॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,51,5541,गत्वैव ते महाभागे युयुधाते कथं पुनः । इन्द्राणी च महाभागा न युद्धकुशलास्ति हि ॥ 52॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,52,5542,कान्या हन्तुं समर्थास्ति तं पापं मददर्पितम् । ममेदं मतमद्यैव गत्वा देवं जनार्दनम् ॥ 53॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,53,5543,स्तुत्वा तं देवकार्याय प्रेरयामः सुसत्वरम् । सोऽतिबुद्धिमतां श्रेष्ठो विष्णुः सर्वार्थसाधने ॥ 54॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,54,5544,मिलित्वा वासुदेवं वै कर्तव्यं कार्यचिन्तनम् । प्रपञ्चेन च बुद्ध्या स संविधास्यति साधनम् ॥ 55॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,55,5545,व्यास उवाच । इति रुद्रवचः श्रुत्वा ब्रह्माद्याः सुरसत्तमाः । उत्थितास्ते तथेत्युक्त्वा शिवेन सह सत्वराः ॥ 56॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,56,5546,स्वकीयैर्वाहनैः सर्वे ययुविष्णपुरं प्रति । मुदिताः शकुनान्दृष्ट्वा कार्यसिद्धिकराञ्छुभान् ॥ 57॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,57,5547,ववुर्वाताः शुभाः शान्ताः सुगन्धाः शुभशंसिनः । पक्षिणश्च शिवा वाचस्तत्रोचुः पथि सर्वशः ॥ 58॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,58,5548,निर्मलं चाभवद्व्योम दिशश्च विमलास्तथा । गमने तत्र देवानां सर्वं शुभमिवाभवत् ॥ 59॥ 5,५.७,सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।,59,5549,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे पराजितदेवतानां शङ्करशरणगमनवर्णनं नाम सप्तमोऽध्यायः ॥ ५.७॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,0,5550,व्यास उवाच । तरसा तेऽथ सम्प्राप्य वैकुण्ठं विष्णुवल्लभम् । ददृशुः सर्वशोभाढ्यं दिव्यसद्मविराजितम् ॥ 1॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,1,5551,सरोवापीसरिद्भिश्च संयुतं सुखदं शुभम् । हंससारसचक्राह्वैः कूजद्भिश्च विराजितम् ॥ 2॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,2,5552,चम्पकाशोककह्लारमन्दारबकुलावृतैः । मल्लिकातिलकाम्रातयुतैः कुरबकादिभिः ॥ 3॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,3,5553,कोकिलारावसन्नादैः शिखण्डैर्नृत्यरञ्जितैः । भ्रमरारावरम्यैश्च दिव्यैरुपवनैर्युतम् ॥ 4॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,4,5554,सुनन्दनन्दनाद्यैश्च पार्षदैर्भक्तितत्परैः । संस्तुवद्भिर्युतं भक्तैरनन्यभववृत्तिभिः ॥ 5॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,5,5555,प्रासादै रत्नखचितैः काञ्चनैश्चित्रमण्डितैः । अभ्रंलिहैर्विराजद्भिः संयुतं शुभसद्मकैः ॥ 6॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,6,5556,गायद्भिर्देवगन्धर्वैर्नृत्यद्भिरप्सरोगणैः । रञ्जितं किन्नरैः शश्वद्रक्तकण्ठेर्मनोहरैः ॥ 7॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,7,5557,मुनिभिश्च तथा शान्तैर्वेदपाठकृतादरैः । स्तुवद्भिः श्रुतिसूक्तैश्च मण्डितं सदनं हरेः ॥ 8॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,8,5558,ते च विष्णुगृहं प्राप्य द्वारपालौ शुभाकृती । वीक्ष्योचुर्जयविजयौ हेमयष्टिधरौ स्थितौ ॥ 9॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,9,5559,गत्वैकोऽप्युभयोर्मध्ये निवेदयतु सङ्गतान् । द्वारस्थान् ब्रह्मरुद्रादीन्विष्णुदर्शनलालसान् ॥ 10॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,10,5560,व्यास उवाच । विजयस्तद्वचः श्रुत्वा गत्वाथ विष्णुसन्निधौ । सर्वान्समागतान्देवान्प्रणम्योवाच सत्वरः ॥ 11॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,11,5561,विजय उवाच । देवदेव महाराज रमाकान्त सुरारिहन् । समागताः सुराः सर्वे द्वारि तिष्ठन्ति वै विभो ॥ 12॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,12,5562,ब्रह्मा रुद्रस्तथेन्द्रश्च वरुणः पावको यमः । स्तुवन्ति वेदवाक्यैस्त्वाममरा दर्शनार्थिनः ॥ 13॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,13,5563,व्यास उवाच । तच्छ्रुत्वा वचनं विष्णर्विजयस्य रमापतिः । निर्जगाम गृहात्तूर्णं सुरान्समधिकोत्सवः ॥ 14॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,14,5564,गत्वा वीक्ष्य हरिर्देवान्द्वारस्थाञ्छ्रमकर्शितान् । प्रीतिप्रवणया दृष्ट्या प्रीणयामास दुःखितान् ॥ 15॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,15,5565,प्रणेमुस्ते सुराः सर्वे देवदेवं जनार्दनम् । तुष्टुवुश्च सुरारिघ्नं वाग्भिर्वेदविनिश्चितम् ॥ 16॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,16,5566,देवा ऊचुः । देवदेव जगन्नाथ सृष्टिस्थित्यन्तकारक । दयासिन्धो महाराज त्राहि नः शरणागतान् ॥ 17॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,17,5567,विष्णुरुवाच । विशन्तु निर्जराः सर्वे कुशलं कथयन्तु वः । आसनेषु किमर्थं वै मिलिताः समुपागताः ॥ 18॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,18,5568,चिन्तातुराः कथं जाता विषण्णा दीनमानसाः । ब्रह्मरुद्रेण सहिताः कार्यं प्रब्रूत सत्वरम् ॥ 19॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,19,5569,देवा ऊचुः । महिषेण महाराज पीडिताः पापकर्मणा । असाध्येनातिदुष्टेन वरदृप्तेन पापिना ॥ 20॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,20,5570,यज्ञभागानसौ भुङ्क्ते ब्राह्मणैः प्रतिपादितान् । अमरा गिरिदुर्गेषु भ्रमन्ति च भयातुराः ॥ 21॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,21,5571,वरदानेन धातुः स दुर्जयो मधुसूदन । तस्मात्त्वां शरणं प्राप्ता ज्ञात्वा तत्कार्यगौरवम् ॥ 22॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,22,5572,समर्थोऽसि समुद्धर्तुं दैत्यमायाविशारद । कुरु कृष्ण वधोपायं तस्य दानवमर्दन ॥ 23॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,23,5573,धात्रा तस्मै वरो दत्तो ह्यवध्योऽसि नरैः किल । का स्त्री त्वेवंविधा बाला या हन्यात्तं शठं रणे ॥ 24॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,24,5574,उमा मा वा शची विद्या का समर्थास्य घातने । महिषस्यातिदुष्टस्य वरदानबलादपि ॥ 25॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,25,5575,विचिन्त्य बुद्ध्या यत्सर्वं मरणस्यास्य कारणम् । कुरु कार्यं च देवानां भक्तवत्सल भूधर ॥ 26॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,26,5576,व्यास उवाच । श्रुत्वा तद्वचनं विष्णुस्तानुवाच हसन्निव । युद्धं कृतं पुरास्माभिस्तथापि न मृतो ह्यसौ ॥ 27॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,27,5577,अद्य सर्वसुराणां वै तेजोभी रूपसम्पदा । उत्पन्ना चेद्वरारोहा सा हन्यात्तं रणे बलात् ॥ 28॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,28,5578,हयारिं वरदृप्तञ्च मायाशतविशारदम् । हन्तुं योग्या भवेन्नारी शक्त्यंशैर्निर्मिता हि नः ॥ 29॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,29,5579,प्रार्थयन्तु च तेजोंऽशान्स्त्रियोऽस्माकं तथा पुनः । उत्पन्नैस्तैश्च तेजोंऽशैस्तेजोराशिर्भवेद्यथा ॥ 30॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,30,5580,आयुधानि वयं दद्मः सर्वे रुद्रपुरोगमाः । तस्यै सर्वाणि दिव्यानि त्रिशूलादीनि यानि च ॥ 31॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,31,5581,सर्वायुधधरा नारी सर्वतेजःसमन्विता । हनिष्यति दुरात्मानं तं पापं मदगर्वितम् ॥ 32॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,32,5582,व्यास उवाच । इत्युक्तवति देवेशे ब्रह्मणो वदनात्ततः । स्वयमेवोद्बभौ तेजोराशिश्चातीव दुःसहः ॥ 33॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,33,5583,रक्तवर्णं शुभाकारं पद्मरागमणिप्रभम् । किञ्चिच्छीतं तथा चोष्णं मरीचिजालमण्डितम् ॥ 34॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,34,5584,निःसृतं हरिणा दृष्टं हरेण च महात्मना । विस्मितौ तौ महाराज बभूवतुरुरुक्रमौ ॥ 35॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,35,5585,शङ्करस्य शरीरात्तु निःसृतं महदद्भुतम् । रौप्यवर्णमभूत्तीव्रं दुर्दर्शं दारुणं महत् ॥ 36॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,36,5586,भयङ्करञ्च दैत्यानां देवानां विस्मयप्रदम् । घोररूपं गिरिप्रख्यं तमोगुणमिवापरम् ॥ 37॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,37,5587,ततो विष्णुशरीरात्तु तेजोराशिमिवापरम् । नीलं सत्त्वगुणोपेतं प्रादुरास महाद्युति ॥ 38॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,38,5588,ततश्चेन्द्रशरीरात्तु चित्ररूपं दुरासदम् । आविरासीत्सुसंवृत्तं तेजः सर्वगुणात्मकम् ॥ 39॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,39,5589,कुबेरयमवह्नीनां शरीरेभ्यः समन्ततः । निश्चक्राम महत्तेजो वरुणस्य तथैव च ॥ 40॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,40,5590,अन्येषां चैव देवानां शरीरेभ्योऽतिभास्वरम् । निर्गतं तन्महातेजोराशिरासीन्महोज्ज्वलः ॥ 41॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,41,5591,तं दृष्ट्वा विस्मिताः सर्वे देवा विष्णुपुरोगमाः । तेजोराशिं महादिव्यं हिमाचलमिवापरम् ॥ 42॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,42,5592,पश्यतां तत्र देवानां तेजःपुञ्जसमुद्भवा । बभूवातिवरा नारी सुन्दरी विस्मयप्रदा ॥ 43॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,43,5593,त्रिगुणा सा महालक्ष्मीः सर्वदेवशरीरजा । अष्टादशभुजा रम्या त्रिवर्णा विश्वमोहिनी ॥ 44॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,44,5594,श्वेतानना कृष्णनेत्रा संरक्ताधरपल्लवा । ताम्रपाणितला कान्ता दिव्यभूषणभूषिता ॥ 45॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,45,5595,अष्टादशभुजा देवी सहस्रभुजमण्डिता । सम्भूतासुरनाशाय तेजोराशिसमुद्भवा ॥ 46॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,46,5596,जनमेजय उवाच । कृष्ण देव महाभाग सर्वज्ञ मुनिसत्तम । विस्तरं ब्रूहि तस्यास्त्वं शरीरस्य समुद्भवम् ॥ 47॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,47,5597,एकीभूतं च सर्वेषां तेजः किं वा पृथक् स्थितम् । अङ्गानि चैव तस्यास्तु सर्वतेजोमयानि वा ॥ 48॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,48,5598,भिन्नभागविभागेन जातान्यङ्गानि यानि तु । मुखनासाक्षिभेदेन सर्वत्रैकभवानि च ॥ 49॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,49,5599,ब्रूहि तद्विस्तरं व्यास शरीराङ्गसमुद्भवम् । बभूव यस्य देवस्य तेजसोऽङ्गं यदद्भुतम् ॥ 50॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,50,5600,आयुधाभरणादीनि दत्तानि यैर्यथा यथा । तत्सर्वं श्रोतुकामोऽस्मि त्वन्मुखाम्बुजनिर्गतम् ॥ 51॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,51,5601,न हि तृप्याम्यहं ब्रह्मन् सुधामयरसं पिबन् । चरितञ्च महालक्ष्यास्त्वन्मुखाम्भोजनिःसृतम् ॥ 52॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,52,5602,सूत उवाच । इति तस्य वचः श्रुत्वा राज्ञः सत्यवतीसुतः । उवाच मधुरं वाक्यं प्रीणयन्निव भूपतिम् ॥ 53॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,53,5603,व्यास उवाच । श‍ृणु राजन्महाभाग विस्तरेण ब्रवीमि ते । यथामति कुरुश्रेष्ठ तस्या देहसमुद्भवम् ॥ 54॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,54,5604,न ब्रह्मा न हरिः साक्षान्न रुद्रो न च वासवः । याथातथ्येन तद्रूपं वक्तुमीशः कदाचन ॥ 55॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,55,5605,कथं जानाम्यहं देव्या यद्रूपं यादृशं यतः । वाचारम्भणमात्रं तदुत्पन्नेति ब्रवीमि यत् ॥ 56॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,56,5606,सा नित्या सर्वदैवास्ते देवकार्यार्थसिद्धये । नानारूपा त्वेकरूपा जायते कार्यगौरवात् ॥ 57॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,57,5607,यथा नटो रङ्गगतो नानारूपो भवत्यसौ । एकरूपस्वभावोऽपि लोकरञ्जनहेतवे ॥ 58॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,58,5608,तथैषा देवकार्यार्थमरूपापि स्वलीलया । करोति बहुरूपाणि निर्गुणा सगुणानि च ॥ 59॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,59,5609,कार्यकर्मानुसारेण नामानि प्रभवन्ति हि । धात्वर्थगुणयुक्तानि गौणानि सुबहून्यपि ॥ 60॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,60,5610,तद्वै बुद्ध्यनुसारेण प्रब्रवीमि नराधिप । यथा तेजःसमुद्भूतं रूपं तस्या मनोहरम् ॥ 61॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,61,5611,शङ्करस्य च यत्तेजस्तेन तन्मुखपङ्कजम् । श्वेतवर्णं शुभाकारमजायत महत्तरम् ॥ 62॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,62,5612,केशास्तस्यास्तथा स्निग्धा याम्येन तेजसाभवन् । वक्राग्राश्चातिदीर्घा वै मेघवर्णा मनोहराः ॥ 63॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,63,5613,नयनत्रितयं तस्या जज्ञे पावकतेजसा । कृष्णं रक्तं तथा श्वेतं वर्णत्रयविभूषितम् ॥ 64॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,64,5614,वक्रे स्निग्धे कृष्णवर्णे सन्ध्ययोस्तेजसा भ्रुवौ । जाते देव्याः सुतेजस्के कामस्य धनुषीव ते ॥ 65॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,65,5615,वायोश्च तेजसा शस्तौ श्रवणौ सम्बभूवतुः । नातिदीर्घो नातिह्रस्वौ दोलाविव मनोभुवः ॥ 66॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,66,5616,तिलपुष्पसमाकारा नासिका सुमनोहरा । सञ्जाता स्निग्धवर्णा वै धनदस्य च तेजसा ॥ 67॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,67,5617,दन्ताः शिखरिणः श्लक्ष्णाः कुन्दाग्रसदृशाः समाः । सञ्जाताः सुप्रभा राजन् प्राजापत्येन तेजसा ॥ 68॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,68,5618,अधरश्चातिरक्तोऽस्याः सञ्जातोऽरुणतेजसा । उत्तरोष्ठस्तथा रम्यः कार्तिकेयस्य तेजसा ॥ 69॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,69,5619,अष्टादशभुजाकारा बाहवो विष्णुतेजसा । वसूनां तेजसाङ्गुल्यो रक्तवर्णास्तथाभवन् ॥ 70॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,70,5620,सौम्येन तेजसा जातं स्तनयोर्युग्ममुत्तमम् । ऐन्द्रेणास्यास्तथा मध्यं जातं त्रिवलिसंयुतम् ॥ 71॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,71,5621,जङ्घोरू वरुणस्याथ तेजसा सम्बभूवतुः । नितम्बः स तु सञ्जातो विपुलस्तेजसा भुवः ॥ 72॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,72,5622,एवं नारी शुभाकारा सुरूपा सुस्वरा भृशम् । समुत्पन्ना तथा राजंस्तेजोराशिसमुद्भवा ॥ 73॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,73,5623,तां दृष्ट्वा सुष्ठुसर्वाङ्गीं सुदतीं चारुलोचनाम् । मुदं प्रापुः सुराः सर्वे महिषेण प्रपीडिताः ॥ 74॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,74,5624,विष्णुस्त्वाह सुरान्सर्वान्भूषणान्यायुधानि च । प्रयच्छन्तु शुभान्यस्यै देवाः सर्वाणि साम्प्रतम् ॥ 75॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,75,5625,स्वायुधेभ्यः समुत्पाद्य तेजोयुक्तानि सत्वराः । समर्पयन्तु सर्वेऽद्य देव्यै नानायुधानि वै ॥ 76॥ 5,५.८,अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।,76,5626,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देव्याः स्वरूपोद्भववर्णनं नामाष्टमोऽध्यायः ॥ ५.८॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,0,5627,व्यास उवाच । देवा विष्णुवचः श्रुत्वा सर्वे प्रमुदितास्तदा । ददुश्च भूषणान्याशु वस्त्राणि स्वायुधानि च ॥ 1॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,1,5628,क्षीरोदश्चाम्बरे दिव्ये रक्ते सूक्ष्मे तथाजरे । निर्मलञ्च तथा हारं प्रीतस्तस्मै सुमण्डितम् ॥ 2॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,2,5629,ददौ चूडामणिं दिव्यं सूर्यकोटिसमप्रभम् । कुण्डले च तथा शुभ्रे कटकानि भुजेषु वै ॥ 3॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,3,5630,केयूरान्कङ्कणान्दिव्यान्नानारत्नविराजितान् । ददौ तस्यै विश्वकर्मा प्रसन्नेन्द्रियमानसः ॥ 4॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,4,5631,नूपुरौ सुस्वरौ कान्तौ निर्मलौ रत्नभूषितौ । ददौ सूर्यप्रतीकाशौ त्वष्टा तस्यै सुपादयोः ॥ 5॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,5,5632,तथा ग्रैवेयकं रम्यं ददौ तस्यै महार्णवः । अङ्गुलीयकरत्नानि तेजोवन्ति च सर्वशः ॥ 6॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,6,5633,अम्लानपङ्कजां मालां गन्धाढ्यां भ्रमरानुगाम् । तथैव वैजयन्तीञ्च वरुणः सम्प्रयच्छत ॥ 7॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,7,5634,हिमवानथ सन्तुष्टो रत्नानि विविधानि च । ददौ च वाहनं सिंहं कनकाभं मनोहरम् ॥ 8॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,8,5635,भूषणैर्भूषिता दिव्यैः सा रराज वरा शुभा । सिंहारूढा वरारोहा सर्वलक्षणसंयुता ॥ 9॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,9,5636,विष्णुश्चक्रात्समुत्पाद्य ददावस्यै रथाङ्गकम् । सहस्रारं सुदीप्तञ्च देवारिशिरसां हरम् ॥ 10॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,10,5637,स्वत्रिशूलात्समुत्पाद्य शङ्करः शूलमुत्तमम् । ददौ देव्यै सुरारीणां कृन्तनं भयनाशनम् ॥ 11॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,11,5638,वरुणश्च प्रसन्नात्मा ददौ शङ्खं समुज्वलम् । घोषवन्तं स्वशङ्खात्तु समुत्पाद्य सुमङ्गलम् ॥ 12॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,12,5639,हुताशनस्तथा शक्तिं शतघ्नीं सुमनोजवाम् । प्रायच्छत्तु प्रसन्नात्मा तस्यै दैत्यविनाशिनीम् ॥ 13॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,13,5640,इषुधिं बाणपूर्णञ्च चापं चाद्भुतदर्शनम् । मारुतो दत्तवांस्तस्यै दुराकर्षं खरस्वरम् ॥ 14॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,14,5641,स्ववज्राद्वज्रमुत्पाद्य ददाविन्द्रोऽतिदारुणम् । घण्टामैरावतात्तूर्णं सुशब्दां चातिसुन्दराम् ॥ 15॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,15,5642,ददौ दण्डं यमः कामं कालदण्डसमुद्भवम् । येनान्तं सर्वभूतानामकरोत्काल आगते ॥ 16॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,16,5643,ब्रह्मा कमण्डलुं दिव्यं गङ्गावारिप्रपूरितम् । ददावस्यै मुदा युक्तो वरुणः पाशमेव च ॥ 17॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,17,5644,कालः खड्गं तथा चर्म प्रायच्छत्तु नराधिप । परशुं विश्वकर्मा च तीक्ष्णमस्यै ददावथ ॥ 18॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,18,5645,धनदस्तु सुरापूर्णं पानपात्रं सुवर्णजम् । पङ्कजं वरुणश्चादाद्देव्यै दिव्यं मनोहरम् ॥ 19॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,19,5646,गदां कौमोदकीं त्वष्टा घण्टाशतनिनादिनीम् । अदात्तस्यै प्रसन्नात्मा सुरशत्रुविनाशिनीम् ॥ 20॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,20,5647,अस्त्राण्यनेकरूपाणि तथाभेद्यञ्च दंशनम् । ददौ त्वष्टा जगन्मात्रे निजरश्मीन्दिवाकरः ॥ 21॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,21,5648,सायुधां भूषणैर्युक्तां दृष्ट्वा ते विस्मयं गताः । तुष्टुवुस्तां सुरा देवीं त्रैलोक्यमोहिनीं शिवाम् ॥ 22॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,22,5649,देवा ऊचुः । नमः शिवायै कल्याण्यै शान्त्यै पुष्ट्यै नमो नमः । भगवत्यै नमो देव्यै रुद्राण्यै सततं नमः ॥ 23॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,23,5650,कालरात्र्यै तथाम्बायै इन्द्राण्यै ते नमो नमः । सिद्ध्यै बुद्ध्यै तथा वृद्ध्यै वैष्णव्यै ते नमो नमः ॥ 24॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,24,5651,पृथिव्यां या स्थिता पृथ्व्या न ज्ञाता पृथिवीञ्च या । अन्तःस्थिता यमयति वन्दे तामीश्वरीं पराम् ॥ 25॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,25,5652,मायायां या स्थिता ज्ञाता मायया न च तामजाम् । अन्तःस्थिता प्रेरयति प्रेरयित्रीं नुमः शिवाम् ॥ 26॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,26,5653,कल्याणं कुरु भो मातस्त्राहि नः शत्रुतापितान् । जहि पापं हयारिं त्वं तेजसा स्वेन मोहितम् ॥ 27॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,27,5654,खलं मायाविनं घोरं स्त्रीवध्यं वरदर्पितम् । दुःखदं सर्वदेवानां नानारूपधरं शतम् ॥ 28॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,28,5655,त्वमेका सर्वदेवानां शरणं भक्तवत्सले । पीडितान्दानवेनाद्य त्राहि देवि नमोऽस्तु ते ॥ 29॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,29,5656,व्यास उवाच । एवं स्तुता तदा देवी सुरैः सर्वसुखप्रदा । तानुवाच महादेवी स्मितपूर्वं शुभं वचः ॥ 30॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,30,5657,देव्युवाच । भयं त्यजन्तु गीर्वाणा महिषान्मन्दचेतसः । हनिष्यामि रणेऽद्यैव वरदृप्तं विमोहितम् ॥ 31॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,31,5658,व्यास उवाच । इत्युक्त्वा सा सुरान्देवी जहासातीव सुस्वरम् । चित्रमेतच्च संसारे भ्रममोहयुतं जगत् ॥ 32॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,32,5659,ब्रह्मविष्णुमहेशाद्याः सेन्द्राश्चान्ये सुरास्तथा । कम्पयुक्ता भयत्रस्ता वर्तन्ते महिषात्किल ॥ 33॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,33,5660,अहो दैवबलं घोरं दुर्जयं सुरसत्तमाः । कालः कर्तास्ति दुःखानां सुखानां प्रभुरीश्वरः ॥ 34॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,34,5661,सृष्टिपालनसंहारे समर्था अपि ते यदा । मुह्यन्ति क्लेशसन्तप्ता महिषेण प्रपीडिताः ॥ 35॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,35,5662,इति कृत्वा स्मितं देवी साट्टहासं चकार ह । उच्चैः शब्दं महाघोरं दानवानां भयप्रदम् ॥ 36॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,36,5663,चकम्पे वसुधा तत्र श्रुत्वा तच्छब्दमद्भुतम् । चेलुश्च पर्वताः सर्वे चुक्षोभाब्धिश्च वीर्यवान् ॥ 37॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,37,5664,मेरुश्चचाल शब्देन दिशः सर्वाः प्रपूरिताः । भयं जग्मुस्तदा श्रुत्वा दानवास्तत्स्वनं महत् ॥ 38॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,38,5665,जय पाहीति देवास्तामूचुः परमहर्षिताः । महिषोऽपि स्वनं श्रुत्वा चुकोप मदगर्वितः ॥ 39॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,39,5666,किमेतदिति तान्दैत्यान्पप्रच्छ स्वनशङ्कितः । गच्छन्तु त्वरिता दूता ज्ञातुं शब्दसमुद्भवम् ॥ 40॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,40,5667,कृतः केनायमत्युग्रः शब्दः कर्णव्यथाकरः । देवो वा दानवो वापि यो भवेत्स्वनकारकः ॥ 41॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,41,5668,गृहीत्वा तं दुरात्मानं मत्समीपं नयन्त्विह । हनिष्यामि दुराचारं गर्जन्तं स्मयदुर्मदम् ॥ 42॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,42,5669,क्षीणायुष्यं मन्दमतिं नयामि यमसादनम् । पराजिताः सुराः कामं न गर्जन्ति भयातुराः ॥ 43॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,43,5670,नासुरा मम वश्यास्ते कस्येदं मूढचेष्टितम् । त्वरिता मामुपायान्तु ज्ञात्वा शब्दस्य कारणम् ॥ 44॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,44,5671,अहं गत्वा हनिष्यामि तं पापं वितथश्रमम् । व्यास उवाच । इत्युक्तास्तेन ते दूता देवीं सर्वाङ्गसुन्दरीम् ॥ 45॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,45,5672,अष्टादशभुजां दिव्यां सर्वाभरणभूषिताम् । सर्वलक्षणसम्पन्नां वरायुधधरां शुभाम् ॥ 46॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,46,5673,दधतीं चषकं हस्ते पिबन्तीं च मुहुर्मधु । संवीक्ष्य भयभीतास्ते जग्मुस्त्रस्ताः सुशङ्किताः ॥ 47॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,47,5674,सकाशे महिषस्याशु तमूचुः स्वनकारणम् । दूता ऊचुः । देवी दैत्येश्वर प्रौढा दृश्यते काचिदङ्गना ॥ 48॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,48,5675,सर्वाङ्गभूषणा नारी सर्वरत्नोपशोभिता । न मानुषी नासुरी सा दिव्यरूपा मनोहरा ॥ 49॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,49,5676,सिंहारूढायुधधरा चाष्टादशकरा वरा । सा नादं कुरुते नारी लक्ष्यते मदगर्विता ॥ 50॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,50,5677,सुरापानरता कामं जानीमो न सभर्तृका । अन्तरिक्षस्थिता देवास्तां स्तुवन्ति मुदान्विताः ॥ 51॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,51,5678,जयेति पाहि नश्चेति जहि शत्रुमिति प्रभो । न जाने का वरारोहा कस्य वा सा परिग्रहः ॥ 52॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,52,5679,किमर्थमागता चात्र किं चिकीर्षति सुन्दरी । द्रष्टुं नैव समर्थाः स्मस्तत्तेजःपरिधर्षिताः ॥ 53॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,53,5680,श‍ृङ्गारवीरहासाढ्या रौद्राद्भुतरसान्विता । दृष्ट्वैवैवंविधां नारीमसम्भाष्य समागताः ॥ 54॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,54,5681,वयं त्वदाज्ञया राजन् किं कर्तव्यमतःपरम् । महिष उवाच । गच्छ वीर मयादिष्टो मन्त्रिश्रेष्ठ बलान्वितः ॥ 55॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,55,5682,सामादिभिरुपायैस्त्वं समानय शुभाननाम् । नायाति यदि सा नारी त्रिभिः सामादिभिस्त्विह ॥ 56॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,56,5683,अहत्वा तां वरारोहां त्वमानय ममान्तिकम् । करोमि पट्टमहिषीं तां मरालभ्रुवं मुदा ॥ 57॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,57,5684,प्रीतियुक्ता समायाति यदि सा मृगलोचना । रसभङ्गो यथा न स्यात्तथा कुरु ममेप्सितम् ॥ 58॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,58,5685,श्रवणान्मोहितोऽस्म्यद्य तस्या रूपस्य सम्पदा । व्यास उवाच । महिषस्य वचः श्रुत्वा पेशलं मन्त्रिसत्तमः ॥ 59॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,59,5686,जगाम तरसा कामं गजाश्वरथसंयुतः । गत्वा दूरतरं स्थित्वा तामुवाच मनस्विनीम् ॥ 60॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,60,5687,विनयावनतः श्लक्ष्णं मन्त्री मधुरया गिरा । प्रधान उवाच । कासि त्वं मधुरालापे किमत्रागमनं कृतम् ॥ 61॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,61,5688,पृच्छति त्वां महाभागे मन्मुखेन मम प्रभुः । स जेता सर्वदेवानामवध्यस्तु नरैः किल ॥ 62॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,62,5689,ब्रह्मणो वरदानेन गर्वितश्चारुलोचने । दैत्येश्वरोऽसौ बलवान्कामरूपधरः सदा ॥ 63॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,63,5690,श्रुत्वा त्वां समुपायातां चारुवेषां मनोहराम् । द्रष्टुमिच्छति राजा मे महिषो नाम पार्थिवः ॥ 64॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,64,5691,मानुषं रूपमादाय त्वत्समीपं समेष्यति । यथा रुच्येत चार्वङ्गि तथा मन्यामहे वयम् ॥ 65॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,65,5692,तर्ह्येहि मृगशावाक्षि समीपं तस्य धीमतः । नो चेदिहानयाम्येनं राजानं भक्तितत्परम् ॥ 66॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,66,5693,तथा करोमि देवेशि यथा ते मनसेप्सितम् । वशगोऽसौ तवात्यर्थं रूपसंश्रवणात्तव ॥ 67॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,67,5694,करभोरु वदाशु त्वं संविधेयं मया तथा ॥ 68॥ 5,५.९,नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।,68,5695,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे महिषमन्त्रिणा देवीवार्तावर्णनं नाम नवमोऽध्यायः ॥ ५.९॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,0,5696,व्यास उवाच । इति तस्य वचः श्रुत्वा प्रहस्य प्रमदोत्तमा । तमुवाच महाराज मेघगम्भीरया गिरा ॥ 1॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,1,5697,देव्युवाच । मन्त्रिवर्य सुराणां वै जननीं विद्धि मां किल । महालक्ष्मीमिति ख्यातां सर्वदैत्यनिषूदिनीम् ॥ 2॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,2,5698,प्रार्थिताहं सुरैः सर्वैर्महिषस्य वधाय च । पीडितैर्दानवेन्द्रेण यज्ञभागबहिष्कृतैः ॥ 3॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,3,5699,तस्मादिहागतास्म्यद्य तद्वधार्थं कृतोद्यमा । एकाकिनी न सैन्येन संयुता मन्त्रिसत्तम ॥ 4॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,4,5700,यत्त्वयाहं सामपूर्वं कृत्वा स्वागतमादरात् । उक्ता मधुरया वाचा तेन तुष्टास्मि तेऽनघ ॥ 5॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,5,5701,नोचेद्धन्मि दृशा त्वां वै कालाग्निसमया किल । कस्य प्रीतिकरं न स्यान्माधुर्यवचनं खलु ॥ 6॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,6,5702,गच्छ तं महिषं पापं वद मद्वचनादिदम् । गच्छ पातालमधुना जीवितेच्छा यदस्ति ते ॥ 7॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,7,5703,नोचेत्कृतागसं दुष्टं हनिष्यामि रणाङ्गणे । मद्बाणक्षुण्णदेहस्त्वं गन्तासि यमसादनम् ॥ 8॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,8,5704,दयालुत्वं ममेदं त्वं विदित्वा गच्छ सत्वरम् । हते त्वयि सुरा मूढ स्वर्गं प्राप्स्यन्ति सत्वरम् ॥ 9॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,9,5705,तस्माद् गच्छस्व त्यक्त्वैको मेदिनीञ्च ससागराम् । पातालं तरसा मन्द यावद् बाणा न मेऽपतन् ॥ 10॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,10,5706,युद्धेच्छा चेन्मनसि ते तर्ह्येहि त्वरितोऽसुर । वीरैर्महाबलैः सर्वैर्नयामि यमसादनम् ॥ 11॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,11,5707,युगे युगे महामूढ हतास्त्वत्सदृशाः किल । असङ्ख्यातास्तथा त्वां वै हनिष्यामि रणाङ्गणे ॥ 12॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,12,5708,साफल्यं कुरु शस्त्राणां धारणे तु श्रमोऽन्यथा । तद्युध्यस्व मया सार्धं समरे स्मरपीडितः ॥ 13॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,13,5709,मा गर्वं कुरु दुष्टात्मन् यन्मेऽस्ति ब्रह्मणो वरः । स्त्रीवध्यत्वे त्वया मूढ पीडिताः सुरसत्तमाः ॥ 14॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,14,5710,कर्तव्यं वचनं धातुस्तेनाहं त्वामुपागता । स्त्रीरूपमतुलं कृत्वा सत्यं हन्तुं कृतागसम् ॥ 15॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,15,5711,यथेच्छं गच्छ वा मूढ पातालं पन्नगावृतम् । हित्वा भूसुरसद्माद्य जीवितेच्छा यदस्ति ते ॥ 16॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,16,5712,व्यास उवाच । इत्युक्तः स ततो देव्या मन्त्रिश्रेष्ठो बलान्वितः । प्रत्युवाच निशम्यासौ वचनं हेतुगर्भितम् ॥ 17॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,17,5713,देवि स्त्रीसदृशं वाक्यं ब्रूषे त्वं मदगर्विता । क्वासौ क्व त्वं कथं युद्धमसम्भाव्यमिदं किल ॥ 18॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,18,5714,एकाकिनी पुनर्बाला प्रारब्धयौवना मृदुः । महिषोऽसौ महाकायो दुर्विभाव्यं हि सङ्गतम् ॥ 19॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,19,5715,सैन्यं बहुविधं तस्य हस्त्यश्वरथसङ्कुलम् । पदातिगणसंविद्धं नानायुधविराजितम् ॥ 20॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,20,5716,कः श्रमः करिराजस्य मालतीपुष्पमर्दने । मारणे तव वामोरु महिषस्य तथा रणे ॥ 21॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,21,5717,यदि त्वां परुषं वाक्यं ब्रवीमि स्वल्पमप्यहम् । श‍ृङ्गारे तद्विरुद्धं हि रसभङ्गाद्बिभेम्यहम् ॥ 22॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,22,5718,राजास्माकं सुररिपुर्वर्तते त्वयि भक्तिमान् । साममेव मया वाच्यं दानयुक्तं तथा वचः ॥ 23॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,23,5719,नोचेद्धन्म्यहमद्यैव बाणेन त्वां मृषावदाम् । मिथ्याभिमानचतुरां रूपयौवनगर्विताम् ॥ 24॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,24,5720,स्वामी मे मोहितः श्रुत्वा रूपं ते भुवनातिगम् । तत्प्रियार्थं प्रियं कामं वक्तव्यं त्वयि यन्मया ॥ 25॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,25,5721,राज्यं तव धनं सर्वं दासस्ते महिषः किल । कुरु भावं विशालाक्षि त्यक्त्वा रोषं मृतिप्रदम् ॥ 26॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,26,5722,पतामि पादयोस्तेऽहं भक्तिभावेन भामिनि । पट्टराज्ञी महाराज्ञो भव शीघ्रं शुचिस्मिते ॥ 27॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,27,5723,त्रैलोक्यविभवं सर्वं प्राप्स्यसि त्वमनाविलम् । सुखं संसारजं सर्वं महिषस्य परिग्रहात् ॥ 28॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,28,5724,देव्युवाच । श‍ृणु साचिव वक्ष्यामि वाक्यानां सारमुत्तमम् । शास्त्रदृष्टेन मार्गेण चातुर्यमनुचिन्त्य च ॥ 29॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,29,5725,महिषस्य प्रधानस्त्वं मया ज्ञातं धिया किल । पशुबुद्धिस्वभावोऽसि वचनात्तव साम्प्रतम् ॥ 30॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,30,5726,मन्त्रिणस्त्वादृशा यस्य स कथं बुद्धिमान्भवेत् । उभयोः सदृशो योगः कृतोऽयं विधिना किल ॥ 31॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,31,5727,यदुक्तं स्त्रीस्वभावासि तद्विचारस्य मूढ किम् । पुमान्नाहं तत्स्वभावाभवंस्त्रीवेषधारिणी ॥ 32॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,32,5728,याचितं मरणं पूर्वं स्त्रिया त्वत्प्रभुणा यथा । तस्मान्मन्येऽतिमूर्खोऽसौ न वीररसवित्तमः ॥ 33॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,33,5729,कामिन्या मरणं क्लीबरतिदं शूरदुःखदम् । प्रार्थितं प्रभुणा तेन महिषेणात्मबुद्धिना ॥ 34॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,34,5730,तस्मात्स्त्रीरूपमाधाय कार्यं कर्तुमुपागता । कथं बिभेमि त्वद्वाक्यैर्धर्मशास्त्रविरोधकैः ॥ 35॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,35,5731,विपरीतं यदा दैवं तृणं वज्रसमं भवेत् । विधिश्चेत्सुमुखः कामं कुलिशं तूलवत्तदा ॥ 36॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,36,5732,किं सैन्यैरायुधैः किं वा प्रपञ्चैर्दुर्गसेवनैः । मरणं साम्प्रतं यस्य तस्य सैन्यैस्तु किं फलम् ॥ 37॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,37,5733,यदायं देहसम्बन्धो जीवस्य कालयोगतः । तदैव लिखितं सर्वं सुखं दुःखं तथा मृतिः ॥ 38॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,38,5734,यस्य येन प्रकारेण मरणं दैवनिर्मितम् । तस्य तेनैव जायेत नान्यथेति विनिश्चयः ॥ 39॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,39,5735,ब्रह्मादीनां यथा काले नाशोत्पत्ती विनिर्मिते । तथैव भवतः कामं किमन्येषां विचार्यते ॥ 40॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,40,5736,ये मृत्युधर्मिणस्तेषां वरदानेन दर्पिताः । मरिष्यामो न मन्यन्ते ते मूढा मन्दचेतसः ॥ 41॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,41,5737,तस्माद् गच्छ नृपं ब्रूहि वचनं मम सत्वरम् । यदाज्ञापयते भूपस्तत्कर्तव्यं त्वया किल ॥ 42॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,42,5738,मघवा स्वर्गमाप्नोतु देवाः सन्तु हविर्भुजः । यूयं प्रयात पातालं यदि जीवितुमिच्छथ ॥ 43॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,43,5739,अन्यथा चेन्मतिर्मन्द महिषस्य दुरात्मनः । तद्युध्यस्व मया सार्धं मरणाय कृतादरः ॥ 44॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,44,5740,मन्यसे सङ्गरे भग्ना देवा विष्णुपुरोगमाः । दैवं हि कारणं तत्र वरदानं प्रजापतेः ॥ 45॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,45,5741,व्यास उवाच । इति देव्या वचः श्रुत्वा चिन्तयामास दानवः । किं कर्तव्यं मया युद्धं गन्तव्यं वा नृपं प्रति ॥ 46॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,46,5742,विवाहार्थमिहाज्ञप्तो राज्ञा कामातुरेण वै । तत्कथं विरसं कृत्वा गच्छेयं नृपसन्निधौ ॥ 47॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,47,5743,इयं बुद्धिः समीचीना यद् व्रजामि कलिं विना । यथागतं तथा शीघ्रं राज्ञे संवेदयाम्यहम् ॥ 48॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,48,5744,स प्रमाणं पुनः कार्ये राजा मतिमतां वरः । करिष्यति विचार्यैव सचिवैर्निपुणैः सह ॥ 49॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,49,5745,सहसा न मया युद्धं कर्तव्यमनया सह । जये पराजये वापि भूपतेरप्रियं भवेत् ॥ 50॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,50,5746,यदि मां सुन्दरी हन्यादहं वा हन्मि तां पुनः । येन केनाप्युपायेन स कुप्येत्पार्थिवः किल ॥ 51॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,51,5747,तस्मात्तत्रैव गत्वाहं बोधयिष्यामि तं नृपम् । यथाद्याभिहितं देव्या यथारुचि करोतु सः ॥ 52॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,52,5748,व्यास उवाच । इति सञ्चिन्त्य मेधावी जगाम नृपसन्निधौ । प्रणम्य तमुवाचेदं कृताञ्जलिरमात्यकः ॥ 53॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,53,5749,मन्त्र्युवाच । राजन् देवी वरारोहा सिंहस्योपरि संस्थिता । अष्टादशभुजा रम्या वरायुधधरा परा ॥ 54॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,54,5750,सा मयोक्ता महाराज महिषं भज भामिनि । महिषी भव राज्ञस्त्वं त्रैलोक्याधिपतेः प्रिया ॥ 55॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,55,5751,पट्टराज्ञी त्वमेवास्य भविता नात्र संशयः । स तवाज्ञाकरो जातो वशवर्ती भविष्यति ॥ 56॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,56,5752,त्रैलोक्यविभवं भुक्त्वा चिरकालं वरानने । महिषं पतिमासाद्य योषितां सुभगा भव ॥ 57॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,57,5753,इति मद्वचनं श्रुत्वा सा स्मयावेशमोहिता । मामुवाच विशालाक्षी स्मितपूर्वमिदं वचः ॥ 58॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,58,5754,महिषीगर्भसम्भूतं पशूनामधमं किल । बलिं दास्याम्यहं देव्यै सुराणां हितकाम्यया ॥ 59॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,59,5755,का मूढा कामिनी लोके महिषं वै पतिं भजेत् । मादृशी मन्दबुद्धे किं पशुभावं भजेदिह ॥ 60॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,60,5756,महिषी महिषं नाथं सश‍ृङ्गा श‍ृङ्गसंयुतम् । कुरुते क्रन्दमाना वै नाहं तत्सदृशी शठा ॥ 61॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,61,5757,करिष्येऽहं मृधे युद्धं हनिष्ये त्वां सुराप्रियम् । गच्छ वा दुष्ट पातालं जीवितेच्छा यदस्ति ते ॥ 62॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,62,5758,परुषं तु तया वाक्यमित्युक्तं नृप मत्तया । तच्छ्रुत्वाहं समायातः प्रविचिन्त्य पुनः पुनः ॥ 63॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,63,5759,रसभङ्गं विचिन्त्यैव न युद्धं तु मया कृतम् । आज्ञां विना तवात्यन्तं कथं कुर्यां वृथोद्यमम् ॥ 64॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,64,5760,सातीव च बलोन्मत्ता वर्तते भूप भामिनी । भवितव्यं न जानामि किं वा भावि भविष्यति ॥ 65॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,65,5761,कार्येऽस्मिंस्त्वं प्रमाणं नो मन्त्रोऽतीव दुरासदः । युद्धं पलायनं श्रेयो न जानेऽहं विनिश्चयम् ॥ 66॥ 5,५.१०,दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।,66,5762,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावो नाम दशमोऽध्यायः ॥ ५.१०॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,0,5763,व्यास उवाच । इति तस्य वचः श्रुत्वा महिषो मदविह्वलः । मन्त्रिवृद्धान् समाहूय राजा वचनमब्रवीत् ॥ 1॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,1,5764,राजोवाच । मन्त्रिणः किं च कर्तव्यं विश्रब्धं ब्रूत मा चिरम् । आगता देवविहिता मायेयं शाम्बरीव किम् ॥ 2॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,2,5765,कार्येऽस्मिन्निपुणा यूयमुपायेषु विचक्षणाः । सामादिषु च कर्तव्यः कोऽत्र मह्यं ब्रुवन्तु च ॥ 3॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,3,5766,मन्त्रिण ऊचुः । सत्यं सदैव वक्तव्यं प्रियञ्च नृपसत्तम । कार्यं हितकरं नूनं विचार्य विबुधैः किल ॥ 4॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,4,5767,सत्यं च हितकृद्राजन्प्रियं चाहितकृद्भवेत् । यथौषधं नृणां लोके ह्यप्रियं रोगनाशनम् ॥ 5॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,5,5768,सत्यस्य श्रोता मन्ता च दुर्लभः पृथिवीपते । वक्तापि दुर्लभः कामं बहवश्चाटुभाषकाः ॥ 6॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,6,5769,कथं ब्रूमोऽत्र नृपते विचारे गहने त्विह । शुभं वाप्यशुभं वापि को वेत्ति भुवनत्रये ॥ 7॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,7,5770,राजोवाच । स्वस्वमत्यनुसारेण ब्रुवन्त्वद्य पृथक्पृथक् । येषां हि यादृशो भावस्तच्छ्रुत्वा चिन्तयाम्यहम् ॥ 8॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,8,5771,बहूनां मतमाज्ञाय विचार्य च पुनः पुनः । यच्छ्रेयस्तद्धि कर्तव्यं कार्यं कार्यविचक्षणैः ॥ 9॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,9,5772,व्यास उवाच । तस्यैवं वचनं श्रुत्वा विरूपाक्षो महाबलः । उवाच तरसा वाक्यं रञ्जयन्पृथिवीपतिम् ॥ 10॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,10,5773,विरूपाक्ष उवाच । राजन्नारी वराकीयं सा ब्रूते मदगर्विता । विभीषिकामात्रमिदं ज्ञातव्यं वचनं त्वया ॥ 11॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,11,5774,को बिभेति स्त्रियो वाक्यैर्दुरुक्तै रणदुर्मदैः । अनृतं साहसं चेति जानन्नारीविचेष्टितम् ॥ 12॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,12,5775,जित्वा त्रिभुवनं राजन्नद्य कान्ताभयेन वै । दीनत्वेऽप्ययशो नूनं वीरस्य भुवने भवेत् ॥ 13॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,13,5776,तस्माद्याम्यहमेकाकी युद्धाय चण्डिकां प्रति । हनिष्ये तां महाराज निर्भयो भव साम्प्रतम् ॥ 14॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,14,5777,सेनावृतोऽहं गत्वा तां शस्त्रास्त्रैर्विविधैः किल । निषूदयामि दुर्मर्षां चण्डिकां चण्डविक्रमाम् ॥ 15॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,15,5778,बद्ध्वा सर्पमयैः पाशैरानयिष्ये तवान्तिकम् । वशगा तु सदा ते स्यात्पश्य राजन् बलं मम ॥ 16॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,16,5779,व्यास उवाच । विरूपाक्षवचः श्रुत्वा दुर्धरो वाक्यमब्रवीत् । सत्यमुक्तं वचो राजन् विरूपाक्षेण धीमता ॥ 17॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,17,5780,ममापि वचनं श्लक्ष्णं श्रोतव्यं धीमता त्वया । कामातुरैषा सुदती लक्ष्यतेऽप्यनुमानतः ॥ 18॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,18,5781,भवत्येवंविधा कामं नायिका रूपगर्विता । भीषयित्वा वरारोहा त्वां वशे कर्तुमिच्छति ॥ 19॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,19,5782,हावोऽयं मानिनीनां वै तं वेत्ति रसवित्तमः । वक्रोक्तिरेषा कामिन्याः प्रियं प्रति परायणम् ॥ 20॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,20,5783,वेत्ति कोऽपि नरः कामं कामशास्त्रविचक्षणः । यदुक्तं नाम बाणैस्त्वा वधिष्ये रणमूर्धनि ॥ 21॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,21,5784,हेतुगर्भमिदं वाक्यं ज्ञातव्यं हेतुवित्तमैः । बाणास्तु मानिनीनां वै कटाक्षा एव विश्रुताः ॥ 22॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,22,5785,पुष्पाञ्जलिमयाश्चान्ये व्यङ्ग्यानि वचनानि च । का शक्तिरन्यबाणानां प्रेरणे त्वयि पार्थिव ॥ 23॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,23,5786,तादृशीनां न सा शक्तिर्ब्रह्मविष्णुहरादिषु । ययोक्तं नेत्रबाणैस्त्वां हनिष्ये मन्द पार्थिवम् ॥ 24॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,24,5787,विपरीतं परिज्ञातं तेनारसविदा किल । पातयिष्यामि शय्यायां रणमय्यां पतिं तव ॥ 25॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,25,5788,विपरीतरतिकीडाभाषणं ज्ञेयमेव तत् । करिष्ये विगतप्राणं यदुक्तं वचनं तया ॥ 26॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,26,5789,वीर्यं प्राणा इति प्रोक्तं तद्विहीनं न चान्यथा । व्यङ्ग्याधिक्येन वाक्येन वरयत्युत्तमा नृप ॥ 27॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,27,5790,तद्वै विचारतो ज्ञेयं रसग्रन्थविचक्षणैः । इति ज्ञात्वा महाराज कर्तव्यं रससंयुतम् ॥ 28॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,28,5791,सामदानद्वयं तस्या नान्योपायोऽस्ति भूपते । रुष्टा वा गर्विता वापि वशगा मानिनी भवेत् ॥ 29॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,29,5792,तादृशैर्मधुरैर्वाक्यैरानयिष्ये तवान्तिकम् । किं बहूक्तेन मे राजन् कर्तव्या वशवर्तिनी ॥ 30॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,30,5793,गत्वा मयाधुनैवेयं किङ्करीव सदैव ते । व्यास उवाव इत्थं निशम्य तद्वाक्यं ताम्रस्तत्त्वविचक्षणः ॥ 31॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,31,5794,उवाच वचनं राजन्निशामय मयोदितम् । हेतुमद्धर्मसहितं रसयुक्तं नयान्वितम् ॥ 32॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,32,5795,नैषा कामातुरा बाला नानुरक्ता विचक्षणा । व्यङ्ग्यानि नैव वाक्यानि तयोक्तानि तु मानद ॥ 33॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,33,5796,चित्रमत्र महाबाहो यदेका वरवर्णिनी । निरालम्बा समायाति चित्ररूपा मनोहरा ॥ 34॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,34,5797,अष्टादशभुजा नारी न श्रुता न च वीक्षिता । केनापि त्रिषु लोकेषु पराक्रमवती शुभा ॥ 35॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,35,5798,आयुधान्यपि तावन्ति धृतानि बलवन्ति च । विपरीतमिदं मन्ये सर्वं कालकृतं नृप ॥ 36॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,36,5799,स्वप्नानि दुर्निमित्तानि मया दृष्टानि वै निशि । तेन जानाम्यहं नूनं वैशसं समुपागतम् ॥ 37॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,37,5800,कृष्णाम्बरधरा नारी रुदती च गृहाङ्गणे । दृष्टा स्वप्नेऽप्युषःकाले चिन्तितव्यस्तदत्ययः ॥ 38॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,38,5801,विकृताः पक्षिणो रात्रौ रोरुवन्ति गृहे गृहे । उत्पाता विविधा राजन् प्रभवन्ति गृहे गृहे ॥ 39॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,39,5802,तेन जानाम्यहं नूनं कारणं किञ्चिदेव हि । यत्त्वां प्रार्थयते बाला युद्धाय कृतनिश्चया ॥ 40॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,40,5803,नैषास्ति मानुषी नो वा गान्धर्वी न तथासुरी । देवैः कृतेयं ज्ञातव्या माया मोहकरी विभो ॥ 41॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,41,5804,कातरत्वं न कर्तव्यं ममैतन्मतमित्यलम् । कर्तव्यं सर्वथा युद्धं यद्भाव्यं तद्भविष्यति ॥ 42॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,42,5805,को वेद दैवकर्तव्यं शुभं वाप्यशुभं तथा । अवलम्ब्य धिया धैर्यं स्थातव्यं वै विचक्षणैः ॥ 43॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,43,5806,जीवितं मरणं पुंसां दैवाधीनं नराधिप । कोऽपि नैवान्यथा कर्तुं समर्थो भुवनत्रये ॥ 44॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,44,5807,महिष उवाच । गच्छ ताम्र महाभाग युद्धाय कृतनिश्चयः । तामानय वरारोहां जित्वा धर्मेण मानिनीम् ॥ 45॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,45,5808,न भवेद्वशगा नारी सङ्ग्रामे यदि सा तव । हन्तव्या नान्यथा कामं माननीया प्रयत्नतः ॥ 46॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,46,5809,वीरस्त्वमसि सर्वज्ञ कामशास्त्रविशारदः । येन केनाप्युपायेन जेतव्या वरवर्णिनी ॥ 47॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,47,5810,त्वरन्वीर महाबाहो सैन्येन महता वृतः । तत्र गत्वा त्वया ज्ञेया विचार्य च पुनः पुनः ॥ 48॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,48,5811,किमर्थमागता चेयं ज्ञातव्यं तद्धि कारणम् । कामाद्वा वैरभावाच्च माया कस्येयमित्युत ॥ 49॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,49,5812,आदौ तन्निश्चयं कृत्वा ज्ञातव्यं तच्चिकीर्षितम् । पश्चाद्युद्धं प्रकर्तव्यं यथायोग्यं यथाबलम् ॥ 50॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,50,5813,कातरत्वं न कर्तव्यं निर्दयत्वं तथा न च । यादृशं हि मनस्तस्याः कर्तव्यं तादृशं त्वया ॥ 51॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,51,5814,व्यास उवाच । इति तद्भाषितं श्रुत्वा ताम्रः कालवशं गतः । निर्गतः सैन्यसंयुक्तः प्रणम्य महिषं नृपम् ॥ 52॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,52,5815,गच्छन्मार्गे दुरात्मासौ शकुनान्वीक्ष्य दारुणान् । विस्मयञ्च भयं प्राप यममार्गप्रदर्शकान् ॥ 53॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,53,5816,सगत्वा तां समालोक्य देवीं सिंहोपरिस्थिताम् । स्तूयमानां सुरैः सर्वैः सर्वायुधविभूषिताम् ॥ 54॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,54,5817,तामुवाच विनीतः सन् वाक्यं मधुरया गिरा । सामभावं समाश्रित्य विनयावनतः स्थितः ॥ 55॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,55,5818,देवि दैत्येश्वरः श‍ृङ्गी त्वद्रूपगुणमोहितः । स्पृहां करोति महिषस्त्वत्पाणिग्रहणाय च ॥ 56॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,56,5819,भावं कुरु विशालाक्षि तस्मिन्नमरदुर्जये । पतिं तं प्राप्य मृद्वङ्गि नन्दने विहराद्भुते ॥ 57॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,57,5820,सर्वाङ्गसुन्दरं देहं प्राप्य सर्वसुखास्पदम् । सुखं सर्वात्मना ग्राह्यं दुःखं हेयमिति स्थितिः ॥ 58॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,58,5821,करभोरु किमर्थं ते गृहीतान्यायुधान्यलम् । पुष्पकन्दुकयोग्यास्ते कराः कमलकोमलाः ॥ 59॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,59,5822,भ्रूचापे विद्यमानेऽपि धनुषा किं प्रयोजनम् । कटाक्षा विशिखाः सन्ति किं बाणैर्निष्प्रयोजनैः ॥ 60॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,60,5823,संसारे दुःखदं युद्धं न कर्तव्यं विजानता । लोभासक्ताः प्रकुर्वन्ति सङ्ग्रामञ्च परस्परम् ॥ 61॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,61,5824,पुष्पैरपि न योद्धव्यं किं पुनर्निशितैः शरैः । भेदनं निजगात्राणां कस्य तज्जायते मुदे ॥ 62॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,62,5825,तस्मात्त्वमपि तन्वङ्गि प्रसादं कर्तुमर्हसि । भर्तारं भज मे नाथं देवदानवपूजितम् ॥ 63॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,63,5826,स तेऽत्र वाञ्छितं सर्वं करिष्यति मनोरथम् । त्वं पट्टमहिषी राज्ञः सर्वथा नात्र संशयः ॥ 64॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,64,5827,वचनं कुरु मे देवि प्राप्स्यसे सुखमुत्तमम् । सङ्ग्रामे जयसन्देहः कष्टं प्राप्य न संशयः ॥ 65॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,65,5828,जानासि राजनीतिं त्वं यथावद्वरवर्णिनि । भुङ्क्ष्व राज्यसुखं पूर्णं वर्षाणामयुतायुतम् ॥ 66॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,66,5829,पुत्रस्ते भविता कान्तः सोऽपि राजा भविष्यति । यौवने क्रीडयित्वान्ते वार्धक्ये सुखमाप्स्यसि ॥ 67॥ 5,५.११,एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।,67,5830,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनं नामैकादशोऽध्यायः ॥ ५.११॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,0,5831,व्यास उवाच । तन्निशम्य वचस्तस्य ताम्रस्य जगदम्बिका । मेघगम्भीरया वाचा हसन्ती तमुवाच ह ॥ 1॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,1,5832,देव्युवाच । गच्छ ताम्र पतिं ब्रूहि मुमूर्षुं मन्दचेतसम् । महिषं चातिकामार्तं मूढं ज्ञानविवर्जितम् ॥ 2॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,2,5833,यथा ते महिषी माता प्रौढा यवसभक्षिणी । नाहं तथा श‍ृङ्गवती लम्बपुच्छा महोदरी ॥ 3॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,3,5834,न कामयेऽहं देवेशं नैव विष्णुं न शङ्करम् । धनदं वरुणं नैव ब्रह्माणं न च पावकम् ॥ 4॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,4,5835,एतान्देवगणान्हित्वा पशुं केन गुणेन वै । वृणोम्यहं वृथा लोके गर्हणा मे भवेदिति ॥ 5॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,5,5836,नाहं पतिंवरा नारी वर्तते मे पतिः प्रभुः । सर्वकर्ता सर्वसाक्षी ह्यकर्ता निःस्पृहः स्थिरः ॥ 6॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,6,5837,निर्गुणो निर्ममोऽनन्तो निरालम्बो निराश्रयः । सर्वज्ञः सर्वगः साक्षी पूर्णः पूर्णाशयः शिवः ॥ 7॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,7,5838,सर्वावासक्षमः शान्तः सर्वदृक्सर्वभावनः । तं त्यक्त्वा महिषं मन्दं कथं सेवितुमुत्सहे ॥ 8॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,8,5839,प्रबुध्य युध्यतां कामं करोमि यमवाहनम् । अथवा मनुजानां वै करिष्ये जलवाहकम् ॥ 9॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,9,5840,जीवितेच्छास्ति चेत्पाप गच्छ पातालमाशु वै । समस्तैर्दानवैर्युक्तस्त्वन्यथा हन्मि सङ्गरे ॥ 10॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,10,5841,कामं सदृशयोर्योगः संसारे सुखदो भवेत् । अन्यथा दुःखदो भूयादज्ञानाद्यदि कल्पितः ॥ 11॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,11,5842,मूर्खस्त्वमसि यद् ब्रूषे पतिं मे भज भामिनि । क्वाहं क्व महिषः श‍ृङ्गी सम्बन्धः कीदृशो द्वयोः ॥ 12॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,12,5843,गच्छ युध्यस्व वा कामं हनिष्येऽहं सबान्धवम् । यज्ञभागं देवलोकं नोचेत्त्यक्त्वा सुखी भव ॥ 13॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,13,5844,व्यास उवाच । इत्युक्त्वा सा तदा देवी जगर्ज भृशमद्भुतम् । कल्पान्तसदृशं नादं चक्रे दैत्यभयावहम् ॥ 14॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,14,5845,चकम्पे वसुधा चेलुस्तेन शब्देन भूधराः । गर्भाश्च दैत्यपत्नीनां सस्रंसुर्गर्जितस्वनात् ॥ 15॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,15,5846,ताम्रः श्रुत्वा च तं शब्दं भयत्रस्तमनास्तदा । पलायनं ततः कृत्वा जगाम महिषान्तिकम् ॥ 16॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,16,5847,नगरे तस्य ये दैत्यास्तेऽपि चिन्तामवाप्नुवन् । बधिरीकृतकर्णाश्च पलायनपरा नृप ॥ 17॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,17,5848,तदा क्रोधेन सिंहोऽपि ननाद भृशमुत्सटः । तेन नादेन दैतेया भयं जग्मुरपि स्फुटम् ॥ 18॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,18,5849,ताम्रं समागतं दृष्ट्वा हयारिरपि मोहितः । चिन्तयामास सचिवैः किं कर्तव्यमतः परम् ॥ 19॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,19,5850,दुर्गग्रहो वा कर्तव्यो युद्धं निर्गत्य वा पुनः । पलायने कृते श्रेयो भवेद्वा दानवोत्तमाः ॥ 20॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,20,5851,बुद्धिमन्तो दुराधर्षाः सर्वशास्त्रविशारदाः । मन्त्रः खलु प्रकर्तव्यः सुगुप्तः कार्यसिद्धये ॥ 21॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,21,5852,मन्त्रमूलं स्मृतं राज्यं यदि स स्यात्सुरक्षितः । मन्त्रिभिश्च सदाचारैर्विधेयः सर्वथा बुधैः ॥ 22॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,22,5853,मन्त्रभेदे विनाशः स्याद्राज्यस्य भूपतेस्तथा । तस्माद्भेदभयाद् गुप्तः कर्तव्यो भूतिमिच्छता ॥ 23॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,23,5854,तदत्र मन्त्रिभिर्वाच्यं वचनं हेतुमद्धितम् । कालदेशानुसारेण विचिन्त्य नीतिनिर्णयम् ॥ 24॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,24,5855,या योषात्र समायाता प्रबला देवनिर्मिता । एकाकिनी निरालम्बा कारणं तद्विचिन्त्यताम् ॥ 25॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,25,5856,युद्धं प्रार्थयते बाला किमाश्चर्यमतः परम् । श्रेयोऽत्र विपरीतं वा को वेत्ति भुवनत्रये ॥ 26॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,26,5857,न बहूनां जयोऽप्यस्ति नैकस्य च पराजयः । दैवाधीनौ सदा ज्ञेयौ युद्धे जयपराजयौ ॥ 27॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,27,5858,उपायवादिनः प्राहुर्दैवं किं केन वीक्षितम् । अदृष्टमिति यन्नाम प्रवदन्ति मनीषिणः ॥ 28॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,28,5859,तत्सत्त्वेऽपि प्रमाणं किं कातराशावलम्बनम् । न समर्थजनानां हि दैवं कुत्रापि लक्ष्यते ॥ 29॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,29,5860,उद्यमो दैवमेतौ हि शूरकातरयोर्मतम् । विचिन्त्याद्य धिया सर्वं कर्तव्यं कार्यमादरात् ॥ 30॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,30,5861,व्यास उवाच । इति राज्ञो वचः श्रुत्वा हेतुगर्भं महायशाः । बिडालाख्यो महाराजमित्युवाच कृताञ्जलिः ॥ 31॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,31,5862,राजन्नेषा विशालाक्षी ज्ञातव्या यत्नतः पुनः । किमर्थमिह सम्प्राप्ता कुतः कस्य परिग्रहः ॥ 32॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,32,5863,मरणं ते परिज्ञाय स्त्रिया सर्वात्मना सुरैः । प्रेषिता पद्मपत्राक्षी समुत्पाद्य स्वतेजसा ॥ 33॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,33,5864,तेऽपि छन्नाः स्थिताः खेऽत्र सर्वे युद्धदिदृक्षवः । समयेऽस्याः सहायास्ते भविष्यन्ति युयुत्सवः ॥ 34॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,34,5865,पुरतः कामिनीं कृत्वा ते वै विष्णुपुरोगमाः । वधिष्यन्ति च नः सर्वान्सा त्वां युद्धे हनिष्यति ॥ 35॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,35,5866,एतच्चिकीर्षितं तेषां मया ज्ञातं नराधिप । भवितव्यस्य न ज्ञानं वर्तते मम सर्वथा ॥ 36॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,36,5867,योद्धव्यं न त्वयाद्येति नाहं वक्तुं क्षमः प्रभो । प्रमाणं त्वं महाराज कार्येऽत्र देवनिर्मिते ॥ 37॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,37,5868,तदर्थेऽस्माभिरनिशं मर्तव्यं कार्यगौरवात् । विहर्तव्यं त्वया सार्धमेष धर्मोऽनुजीविनाम् ॥ 38॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,38,5869,विचारोऽत्र महानस्ति यदेका कामिनी नृप । युद्धं प्रार्थयतेऽस्माभिः ससैन्यैर्बलदर्पितैः ॥ 39॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,39,5870,दुर्मुख उवाच । राजन् युद्धे जयो नोऽद्य भविता वेद्म्यहं किल । पलायनं न कर्तव्यं यशोहानिकरं नृणाम् ॥ 40॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,40,5871,इन्द्रादीनां संयुगेऽपि न कृतं यज्जुगुप्सितम् । एकाकिनीं स्त्रियं प्राप्य को हि कुर्यात्पलायनम् ॥ 41॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,41,5872,तस्माद्युद्धं प्रकर्तव्यं मरणं वा रणे जयः । यद्भावि तद्भवत्येव कात्र चिन्ता विपश्यतः ॥ 42॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,42,5873,मरणेऽत्र यशःप्राप्तिर्जीवने च तथा सुखम् । उभयं मनसा कृत्वा कर्तव्यं युद्धमद्य वै ॥ 43॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,43,5874,पलायने यशोहानिर्मरणं चायुषः क्षये । तस्माच्छोको न कर्तव्यो जीविते मरणे वृथा ॥ 44॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,44,5875,व्यास उवाच । दुर्मुखस्य वचः श्रुत्वा बाष्कलो वाक्यमब्रवीत् । प्रणतः प्राञ्जलिर्भूत्वा राजानं वाक्यकोविदः ॥ 45॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,45,5876,बाष्कल उवाच । राजंश्चिन्ता न कर्तव्या कार्येऽस्मिन्कातरप्रिये । अहमेको हनिष्यामि चण्डीं चञ्चललोचनाम् ॥ 46॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,46,5877,उत्साहस्तु प्रकर्तव्यः स्थायीभावो रसस्य च । भयानको भवेद्वैरी वीरस्य नृपसत्तम ॥ 47॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,47,5878,तस्मात्त्यक्त्वा भयं भूप करिष्ये युद्धमद्भुतम् । नयिष्यामि नरेन्द्राहं चण्डिकां यमसादनम् ॥ 48॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,48,5879,न बिभेमि यमादिन्द्रात्कुबेराद्वरुणादपि । वायोर्वह्नेस्तथा विष्णोः शङ्कराच्छशिनो रवेः ॥ 49॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,49,5880,एकाकिनी तथा नारी किं पुनर्मदगर्विता । अहं तां निहनिष्यामि विशिखैश्च शिलाशितैः ॥ 50॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,50,5881,पश्य बाहुबलं मेऽद्य विहरस्व यथासुखम् । भवतात्र न गन्तव्यं सङ्ग्रामेऽप्यनया समम् ॥ 51॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,51,5882,व्यास उवाच । एवं ब्रुवति राजेन्द्रं बाष्कले मदगर्विते । प्रणम्य नृपतिं तत्र दुर्धरो वाक्यमब्रवीत् ॥ 52॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,52,5883,दुर्धर उवाच । महिषाहं विजेष्यामि देवीं देवविनिर्मिताम् । अष्टादशभुजां रम्यां कारणाच्च समागताम् ॥ 53॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,53,5884,राजन् भीषयितुं त्वां वै मायैषा निर्मिता सुरैः । विभीषिकेयं विज्ञाय त्यज मोहं मनोगतम् ॥ 54॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,54,5885,राजनीतिरियं राजन् मन्त्रिकृत्यं तथा श‍ृणु । सात्त्विका राजसाः केचित्तामसाश्च तथापरे ॥ 55॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,55,5886,मन्त्रिणस्त्रिविधा लोके भवन्ति दानवाधिप । सात्त्विकाः प्रभुकार्याणि साधयन्ति स्वशक्तिभिः ॥ 56॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,56,5887,आत्मकृत्यं प्रकुर्वन्ति स्वामिकार्याविरोधतः । एकचित्ता धर्मपरा मन्त्रशास्त्रविशारदाः ॥ 57॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,57,5888,राजसा भिन्नचित्ताश्च स्वकार्यनिरताः सदा । कदाचित्स्वामिकार्यं ते प्रकुर्वन्ति यदृच्छया ॥ 58॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,58,5889,तामसा लोभनिरताः स्वकार्यनिरताः सदा । प्रभुकार्यं विनाश्यैव स्वकार्यं साधयन्ति ते ॥ 59॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,59,5890,समये ते विभिद्यन्ते परैस्तु परिवञ्चिताः । स्वच्छिद्रं शत्रुपक्षीयान्निर्दिशन्ति गृहस्थिताः ॥ 60॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,60,5891,कार्यभेदकरा नित्यं कोशगुप्तासिवत्सदा । सङ्ग्रामेऽथ समुत्पन्ने भीषयन्ति प्रभुं सदा ॥ 61॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,61,5892,विश्वासस्तु न कर्तव्यस्तेषां राजन् कदाचन । विश्वासे कार्यहानिः स्यान्मन्त्रहानिः सदैव हि ॥ 62॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,62,5893,खलाः किं किं न कुर्वन्ति विश्वस्ता लोभतत्पराः । तामसाः पापनिरता बुद्धिहीनाः शठास्तथा ॥ 63॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,63,5894,तस्मात्कार्यं करिष्यामि गत्वाहं रणमस्तके । चिन्ता त्वया न कर्तव्या सर्वथा नृपसत्तम ॥ 64॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,64,5895,गृहीत्वा तां दुराचारामागमिष्यामि सत्वरः । पश्य मेऽद्य बलं धैर्यं प्रभुकार्यं स्वशक्तितः ॥ 65॥ 5,५.१२,द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।,65,5896,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देवीपराजयकरणाय दुर्धरप्रबोधवचनं नाम द्वादशोऽध्यायः ॥ ५.१२॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,0,5897,व्यास उवाच । इत्युक्त्वा तौ महाबाहू दैत्यौ बाष्कलदुर्मुखौ । जग्मतुर्मददिग्धाङ्गौ सर्वशस्त्रास्त्रकोविदौ ॥ 1॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,1,5898,तौ गत्वा समरे देवीमूचतुर्वचनं तदा । दानवौ च मदोन्मत्तौ मेघगम्भीरया गिरा ॥ 2॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,2,5899,देवि देवा जिता येन महिषेण महात्मना । वरय त्वं वरारोहे सर्वदैत्याधिपं नृपम् ॥ 3॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,3,5900,स कृत्वा मानुषं रूपं सर्वलक्षणसंयुतम् । भूषितं भूषणैर्दिव्यैस्त्वामेष्यति रहः किल ॥ 4॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,4,5901,त्रैलोक्यविभवं कामं त्वमेष्यसि शुचिस्मिते । महिषे परमं भावं कुरु कान्ते मनोगतम् ॥ 5॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,5,5902,कृत्वा पतिं महावीरं संसारसुखमद्भुतम् । त्वं प्राप्स्यसि पिकालापे योषितां खलु वाञ्छितम् ॥ 6॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,6,5903,देव्युवाच । जाल्म त्वं किं विजानासि नारीयं काममोहिता । मन्दबुद्धिबलात्यर्थं भजेयं महिषं शठम् ॥ 7॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,7,5904,कुलशीलगुणैस्तुल्यं तं भजन्ति कुलस्त्रियः । अधिकं रूपचातुर्यबुद्धिशीलक्षमादिभिः ॥ 8॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,8,5905,का नु कामातुरा नारी भजेच्च पशुरूपिणम् । पशूनामधमं नूनं महिषं देवरूपिणी ॥ 9॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,9,5906,गच्छतं महिषं तूर्णं भूपं बाष्कलदुर्मुखौ । वदतं मद्वचो दैत्यं गजतुल्यं विषाणिनम् ॥ 10॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,10,5907,पातालं गच्छ वाभ्येत्य सङ्ग्रामं कुरु वा मया । रणे जाते सहस्राक्षो निर्भयः स्यादिति धुवम् ॥ 11॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,11,5908,हत्वाहं त्वां गमिष्यामि नान्यथा गमनं मम । इत्थं ज्ञात्वा सुदुर्बुद्धे यथेच्छसि तथा कुरु ॥ 12॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,12,5909,मामनिर्जित्य भूभागे न स्थानं ते कदाचन । भविष्यति चतुष्पाद दिवि वा गिरिकन्दरे ॥ 13॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,13,5910,व्यास उवाच । इत्युक्तौ तौ तया दैत्यौ कोपाकुलितलोचनौ । धनुर्बाणधरौ वीरौ युद्धकामौ बभूवतुः ॥ 14॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,14,5911,कृत्वा सुविपुलं नादं देवी सा निर्भया स्थिता । उभौ च चक्रतुस्तीव्रा बाणवृष्टिं कुरूद्वह ॥ 15॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,15,5912,भगवत्यपि बाणौघान्मुमोच दानवौ प्रति । कृत्वातिमधुरं नादं देवकार्यार्थसिद्धये ॥ 16॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,16,5913,तयोस्तु बाष्कलस्तूर्णं सम्मुखोऽभूद् रणाङ्गणे । दुर्मुखः प्रेक्षकस्तत्र देवीमभिमुखः स्थितः ॥ 17॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,17,5914,तयोर्युद्धमभूद् घोरं देवीबाष्कलयोस्तदा । बाणासिपरिघाघातैर्भयदं मन्दचेतसाम् ॥ 18॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,18,5915,ततः क्रुद्धा जगन्माता दृष्ट्वा तं युद्धदुर्मदम् । जघान पञ्चभिर्बाणैः कर्णाकृष्टैः शिलाशितैः ॥ 19॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,19,5916,दानवोऽपि शरान्देव्याश्चिच्छेद निशितैः शरैः । सप्तभिस्ताडयामास देवीं सिंहोपरिस्थिताम् ॥ 20॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,20,5917,सापि तं दशभिस्तीक्ष्णैः सुपीतैः सायकैः खलम् । जघान तच्छरांश्छित्त्वा जहास च मुहुर्मुहुः ॥ 21॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,21,5918,अर्धचन्द्रेण बाणेन चिच्छेद च शरासनम् । बाष्कलोऽपि गदां गृह्य देवीं हन्तुमुपाययौ ॥ 22॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,22,5919,आगच्छन्तं गदापाणिं दानवं मदगर्वितम् । चण्डिका स्वगदापातैः पातयामास भूतले ॥ 23॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,23,5920,बाष्कलः पतितो भूमौ मुहूर्तादुत्थितः पुनः । चिक्षेप च गदां सोऽपि चण्डिकां चण्डविक्रमः ॥ 24॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,24,5921,तमागच्छन्तमालोक्य देवी शूलेन वक्षसि । जघान बाष्कलं क्रुद्धा पपात च ममार सः ॥ 25॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,25,5922,पतिते बाष्कले सैन्यं भग्नं तस्य दुरात्मनः । जयेति च मुदा देवाश्चुक्रुशुर्गगने स्थिताः ॥ 26॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,26,5923,तस्मिंश्च निहते दैत्ये दुर्मुखोऽतिबलान्वितः । आजगाम रणे देवीं क्रोधसंरक्तलोचनः ॥ 27॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,27,5924,तिष्ठ तिष्ठाबले सोऽपि भाषमाणः पुनः पुनः । धनुर्बाणधरः श्रीमान्रथस्थः कवचावृतः ॥ 28॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,28,5925,तमागच्छन्तमालोक्य देवी शङ्खमवादयत् । कोपयन्ती दानवं तं ज्याघोषञ्च चकार ह ॥ 29॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,29,5926,सोऽपि बाणान्मुमोचाशु तीक्ष्णानाशीविषोपमान् । स्वबाणैस्तान्महामाया चिच्छेद च ननाद च ॥ 30॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,30,5927,तयोः परस्परं युद्धं बभूव तुमुलं नृप । बाणशक्तिगदाघातैर्मुसलैस्तोमरैस्तथा ॥ 31॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,31,5928,रणभूमौ तदा जाता रुधिरौघवहा नदी । पतितानि तदा तीरे शिरांसि प्रबभुस्तदा ॥ 32॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,32,5929,यथा सन्तरणार्थाय यमकिङ्करनायकैः । तुम्बीफलानि नीतानि नवशिक्षापरैर्मुदा ॥ 33॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,33,5930,रणभूमिस्तदा घोरा बभूवातीव दुर्गमा । शरीरैः पतितैर्भूमौ खाद्यमानैर्वृकादिभिः ॥ 34॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,34,5931,गोमायुसारमेयाश्च काकाः कङ्का अयोमुखाः । गृध्रा श्येनाश्च खादन्ति शरीराणि दुरात्मनाम् ॥ 35॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,35,5932,ववौ वायुश्च दुर्गन्धो मृतानां देहसङ्गतः । अभूत्किलकिलाशब्दः खगानां पलभक्षिणाम् ॥ 36॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,36,5933,तदा चुकोप दुष्टात्मा दुर्मुखः कालमोहितः । देवीमुवाच गर्वेण कृत्वा चोर्ध्वकरं शुभम् ॥ 37॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,37,5934,गच्छ चण्डि हनिष्यामि त्वामद्यैव सुबालिशे । दैत्यं वा भज वामोरु महिषं मदगर्वितम् ॥ 38॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,38,5935,देव्युवाच । आसन्नमरणः कामं प्रलपस्यद्य मोहितः । अद्यैव त्वां हनिष्यामि यथायं बाष्कलो हतः ॥ 39॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,39,5936,गच्छ वा तिष्ठ वा मन्द मरणं यदि रोचते । हत्वा त्वां वै वधिष्यामि बालिशं महिषीसुतम् ॥ 40॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,40,5937,तच्छ्रुत्वा वचनं तस्या दुर्मुखो मर्तुमुद्यतः । मुमोच बाणवृष्टिं तु चण्डिकां प्रति दारुणाम् ॥ 41॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,41,5938,सापि तां तरसा छित्त्वा बाणवृष्टिं शितैः शरैः । जघान दानवं कृद्धा वृत्रं वज्रधरो यथा ॥ 42॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,42,5939,तयोः परस्परं युद्धं सञ्जातं चातिकर्कशम् । भयदं कातराणाञ्च शूराणां बलवर्धनम् ॥ 43॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,43,5940,देवी चिच्छेद तरसा धनुस्तस्य करे स्थितम् । तथैव पञ्चभिर्बाणैर्बभञ्ज रथमुत्तमम् ॥ 44॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,44,5941,रथे भग्ने महाबाहुः पदातिर्दुर्मुखस्तदा । गदां गहीत्वा दुर्धर्षां जगाम चण्डिकां प्रति ॥ 45॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,45,5942,चकार स गदाघातं सिंहमौलौ महाबलः । न चचाल हरिः स्थानात्ताडितोऽपि महाबलः ॥ 46॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,46,5943,अम्बिका तं समालोक्य गदापाणिं पुरःस्थितम् । खड्गेन शितधारेण शिरश्चिच्छेद मौलिमत् ॥ 47॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,47,5944,छिन्ने च मस्तके भूमौ पपात दुर्मुखो मृतः । जयशब्दं तदा चक्रुर्मुदिता निर्जरा भृशम् ॥ 48॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,48,5945,तुष्टुवुस्तां तदा देवीं दुर्मुखे निहतेऽमराः । पुष्पवृष्टिं तथा चक्रुर्जयशब्दं नभःस्थिताः ॥ 49॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,49,5946,ऋषयः सिद्धगन्धर्वाः सविद्याधरकिन्नराः । जहृषुस्तं हतं दृष्ट्वा दानवं रणमस्तके ॥ 50॥ 5,५.१३,त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।,50,5947,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे महिषसेनाधिप- बाष्कलदुर्मुखनिपातनवर्णनं नाम त्रयोदशोऽध्यायः ॥ ५.१३॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,0,5948,व्यास उवाच । दुर्मुखं निहतं श्रुत्वा महिषः क्रोधमूर्च्छितः । उवाच दानवान्सर्वान्किं जातमिति चासकृत् ॥ 1॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,1,5949,निहतौ दानवौ शूरौ रणे दुर्मुखबाष्कलौ । तन्व्या तत्परमाश्चर्यं पश्यन्तु दैवचेष्टितम् ॥ 2॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,2,5950,कालो हि बलवान्कर्ता सततं सुखदुःखयोः । नराणां परतन्त्राणां पुण्यपापानुयोगतः ॥ 3॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,3,5951,निहतौ दानवश्रेष्ठौ किं कर्तव्यमतः परम् । ब्रुवन्तु मिलिताः सर्वे यद्युक्तं कार्यसङ्कटे ॥ 4॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,4,5952,व्यास उवाच । एवं ब्रुवति राजेन्द्र महिषेऽतिबलान्विते । चिक्षुराख्यस्तु सेनानीस्तमुवाच महारथः ॥ 5॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,5,5953,राजन्नहं हनिष्यामि का चिन्ता स्त्रीविहिंसने । इत्युक्त्वा स्वबलैर्युक्तः प्रययौ रथसंयुतः ॥ 6॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,6,5954,द्वितीयं पार्ष्णिरक्षं तु कृत्वा ताम्रं महाबलम् । महता सैन्यघोषेण पूरयन्गगनं दिशः ॥ 7॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,7,5955,तमागच्छन्तमालोक्य देवी भगवती शिवा । चकार शङ्खज्याघोषं घण्टानादं महाद्भुतम् ॥ 8॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,8,5956,तत्रसुस्तेन शब्देन ते च सर्वे सुरारयः । किमेतदिति भाषन्तो दुद्रुवुर्भयकम्पिताः ॥ 9॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,9,5957,चिक्षुराख्यस्तु तान्दृष्ट्वा पलायनपरायणान् । उवाचातीव सङ्कुद्धः किं भयं वः समागतम् ॥ 10॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,10,5958,अद्यैवाहं हनिष्यामि बाणैर्बालां मदोन्नताम् । तिष्ठन्त्वत्र भयं त्यक्त्वा दैत्याः समरमूर्धनि ॥ 11॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,11,5959,इत्युक्त्वा दानवश्रेष्ठश्चापपाणिर्बलान्वितः । आगत्य सङ्गरे देवीमित्युवाच गतव्यथः ॥ 12॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,12,5960,किं गर्जसि विशालाक्षि भीषयन्तीतरान्नरान् । नाहं बिभेमि तन्वङ्गि श्रुत्वा तेऽद्य विचेष्टितम् ॥ 13॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,13,5961,स्त्रीवधे दूषणं ज्ञात्वा तथैवाकीर्तिसम्भवम् । उपेक्षां कुरुते चित्तं मदीयं वामलोचने ॥ 14॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,14,5962,स्त्रीणां युद्धं कटाक्षैश्च तथा हावैश्च सुन्दरि । न शस्त्रैर्विहितं क्वापि त्वादृशीनां कदाचन ॥ 15॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,15,5963,पुष्पैरपि न योद्धव्यं किं पुनर्निशितैः शरैः । भवादृशीनां देहेषु दुनोति मालतीदलम् ॥ 16॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,16,5964,धिग्जन्म मानुषे लोके क्षात्रधर्मानुजीविनाम् । लालितोऽयं प्रियो देहः कृन्तनीयः शितैः शरैः ॥ 17॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,17,5965,तैलाभ्यङ्गैः पुष्पवातैस्तथा मिष्टान्नभोजनैः । पोषितोऽयं प्रियो देहो घातनीयः परेषुभिः ॥ 18॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,18,5966,देहं छित्त्वासिधाराभिर्धनभृज्जायते नरः । धिग्धनं दुःखदं पूर्वं पश्चात्किं सुखदं भवेत् ॥ 19॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,19,5967,त्वमप्यज्ञैव वामोरु युद्धमाकाङ्क्षसे यतः । सुखं सम्भोगजं त्यक्त्वा कं गुणं वेत्सि सङ्गरे ॥ 20॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,20,5968,खड्गपातं गदाघातं भेदनञ्ज शिलीमुखैः । मरणान्ते तु संस्कारो गोमायुमुखकर्षणम् ॥ 21॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,21,5969,तस्यैव कविभिर्धूर्तैः कृतं चातीव शंसनम् । रणे मृतानां स्वःप्राप्तिरर्थवादोऽस्ति केवलः ॥ 22॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,22,5970,तस्माद् गच्छ वरारोहे यत्र ते रमते मनः । भज वा भूपतिं नाथं हयारिं सुरमर्दनम् ॥ 23॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,23,5971,व्यास उवाच । एवं ब्रुवाणं तं दैत्यं प्रोवाच जगदम्बिका । किं मृषा भाषसे मूढ बुद्धिमानिव पण्डितः ॥ 24॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,24,5972,नीतिशास्त्रं न जानासि विद्यां चान्वीक्षिकीं तथा । न सेवितास्त्वया वृद्धा न धर्मे मतिरस्ति ते ॥ 25॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,25,5973,मूर्खसेवापरो यस्मात्तस्मात्त्वं मूर्ख एव हि । राजधर्मं न जानासि किं ब्रवीषि ममाग्रतः ॥ 26॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,26,5974,सङ्ग्रामे महिषं हत्वा कृत्वा रुधिरकर्दमम् । यशःस्तम्भं स्थिरं कृत्वा गमिष्यामि यथासुखम् ॥ 27॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,27,5975,देवानां दुःखदातारं दानवं मदगर्वितम् । हनिष्येऽहं दुराचारं युद्धं कुरु स्थिरो भव ॥ 28॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,28,5976,जीवितेच्छास्ति चेन्मूढ महिषस्य तथा तव । तदा गच्छन्तु पातालं दानवाः सर्व एव ते ॥ 29॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,29,5977,मुमूर्षा यदि वश्चित्ते युद्धं कुर्वन्तु सत्वराः । सर्वानेव वधिष्यामि निश्चयोऽयं ममाधुना ॥ 30॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,30,5978,व्यास उवाच । तच्छ्रुत्वा वचनं तस्या दानवो बलदर्पितः । मुमोच बाणवृष्टिं तां घनवृष्टिमिवापराम् ॥ 31॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,31,5979,चिच्छेद तस्य सा बाणान्स्वबाणैर्निशितैस्तदा । जघान तं तथा घोरैराशीविषसमैः शरैः ॥ 32॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,32,5980,युद्धं परस्परं तत्र बभूव विस्मयप्रदम् । गदया घातयामास तं रथाज्जगदम्बिका ॥ 33॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,33,5981,मूर्च्छां प्राप स दुष्टात्मा गदयाभिहतो भृशम् । मुहूर्तद्वयमात्रं तु रथोपस्थ इवाचलः ॥ 34॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,34,5982,तं तथा मूर्च्छितं दृष्ट्वा ताम्रः परबलार्दनः । आजगाम रणे योद्धुं चण्डिकां प्रति चापलात् ॥ 35॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,35,5983,आगच्छन्तं तु तं वीक्ष्य हसन्ती प्राह चण्डिका । एह्येहि दानवश्रेष्ठ यमलोकं नयाम्यहम् ॥ 36॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,36,5984,किं भवद्भिः समायातैरबलैश्च गतायुषैः । महिषः किं गृहे मूढः करोति जीवनोद्यमम् ॥ 37॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,37,5985,किं भवद्भिर्हतैर्मन्दैर्ममापि विफलः श्रमः । अहते महिषे पापे सुरशत्रौ दुरात्मनि ॥ 38॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,38,5986,तस्माद्यूयं गृहं गत्वा महिषं प्रेषयन्त्विह । पश्येन्मां सोऽपि मन्दात्मा यादृशीं तादृशीं स्थिताम् ॥ 39॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,39,5987,ताम्रस्तद्वचनं श्रुत्वा बाणवृष्टिं चकार ह । चण्डिकां प्रति कोपेन कर्णाकृष्टशरासनः ॥ 40॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,40,5988,भगवत्यपि ताम्राक्षी समाकृष्य शरासनम् । बाणान्मुमोच तरसा हन्तुकामा सुराहितम् ॥ 41॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,41,5989,चिक्षुराख्योऽपिबलवान्मूर्च्छां त्यक्त्वोत्थितः पुनः । गृहीत्वा सशरं चापं तस्थौ तत्सम्मुखः क्षणात् ॥ 42॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,42,5990,चिक्षुराख्यश्च ताम्रश्च द्वावप्यतिबलोत्कटौ । युयुधाते महावीरौ सह देव्या रणाङ्गणे ॥ 43॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,43,5991,कुपिता च महामाया ववर्ष शरसन्ततिम् । चकार दानवान् सर्वान् बाणक्षततनुच्छदान् ॥ 44॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,44,5992,असुराः क्रोधसम्मूढा बभूवुः शरताडिताः । चिक्षिपुः शरजालानि देवीं प्रति रुषान्विताः ॥ 45॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,45,5993,बभुस्ते राक्षसास्तत्र किंशुका इव पुष्पिणः । शिलीमुखक्षताः सर्वे वसन्ते च वने रणे ॥ 46॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,46,5994,बभूव तुमुलं युद्धं ताम्रेण सह संयुगे । विस्मयं परमं जग्मुर्देवा ये प्रेक्षकाः स्थिताः ॥ 47॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,47,5995,ताम्रो मुसलमादाय लोहजं दारुणं दृढम् । जघान मस्तके सिंहं जहास च ननर्द च ॥ 48॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,48,5996,नर्दमानं तदा तं तु दृष्ट्वा देवी रुषान्विता । खड्गेन शितधारेण शिरश्चिच्छेद सत्वरा ॥ 49॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,49,5997,छिन्ने शिरसि ताम्रस्तु विशीर्षो मुसली बली । बभ्राम क्षणमात्रं तु पपात रणमस्तके ॥ 50॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,50,5998,पतितं ताम्रमालोक्य चिक्षुराख्यो महाबलः । खड्गमादाय तरसा दुद्राव चण्डिकां प्रति ॥ 51॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,51,5999,भगवत्यपि तं दृष्ट्वा खड्गपाणिमुपागतम् । दानवं पञ्चभिर्बाणैर्जघान तरसा रणे ॥ 52॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,52,6000,एकेन पातितं खड्गं द्वितीयेन तु तत्करः । कण्ठाच्च मस्तकं तस्य कृन्तितं चापरैः शरैः ॥ 53॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,53,6001,एवं तौ निहतौ कूरौ राक्षसौ रणदुर्मदौ । भग्नं सैन्यं तयोस्तूर्णं दिक्षु सन्त्रस्तमानसम् ॥ 54॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,54,6002,देवाश्च मुदिताः सर्वे दृष्ट्वा तौ निहतौ रणे । पुष्पवृष्टिं मुदा चक्रुर्जयशब्दं नभःस्थिताः ॥ 55॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,55,6003,ऋषयो देवगन्धर्वा वेतालाः सिद्धचारणाः । ऊचुस्ते जय देवीति चाम्बिकेति पुनः पुनः ॥ 56॥ 5,५.१४,चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।,56,6004,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे ताम्रचिक्षुराख्यवधवर्णनं नाम चतुर्दशोऽध्यायः ॥ ५.१४॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,0,6005,व्यास उवाच । तौ तया निहतौ श्रुत्वा महिषो विस्मयान्वितः । प्रेषयामास दैतेयांस्तद्वधार्थं महाबलान् ॥ 1॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,1,6006,असिलोमबिडालाख्यप्रमुखान् युद्धदुर्मदान् । सैन्येन महता युक्तान्सायुधान्सपरिच्छदान् ॥ 2॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,2,6007,ते तत्र ददृशुर्देवीं सिंहस्योपरि संस्थिताम् । अष्टादशभुजां दिव्यां खड्गखेटकधारिणीम् ॥ 3॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,3,6008,असिलोमाग्रतो गत्वा तामुवाच हसन्निव । विनयावनतः शान्तो देवीं दैत्यवधोद्यताम् ॥ 4॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,4,6009,असिलोमोवाच । देवि ब्रूहि वचः सत्यं किमर्थमिह सुन्दरि । आगतासि किमर्थं वा हंसि दैत्यान्निरागसः ॥ 5॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,5,6010,कारणं कथयाद्य त्वं त्वया सन्धिं करोम्यहम् । काञ्चनं मणिरत्नानि भाजनानि वराणि च ॥ 6॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,6,6011,यानीच्छसि वरारोहे गहीत्वा गच्छ मा चिरम् । किमर्थं युद्धकामासि दुःखसन्तापवर्धनम् ॥ 7॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,7,6012,कथयन्ति महात्मानो युद्धं सर्वसुखापहम् । कोमलेऽतीव ते देहे पुष्पघातासहे भृशम् ॥ 8॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,8,6013,किमर्थं शस्त्रसम्पातान्सहसीति विसिस्मिये । चातुर्यस्य फलं शान्तिः सततं सुखसेवनम् ॥ 9॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,9,6014,तत्किमर्थं दुःखहेतुं सङ्ग्रामं कर्तुमिच्छसि । संसारेऽत्र सुखं ग्राह्यं दुःखं हेयमिति स्थितिः ॥ 10॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,10,6015,तत्सुखं द्विविधं प्रोक्तं नित्यानित्यप्रभेदतः । आत्मज्ञानं सुखं नित्यमनित्यं भोगजं स्मृतम् ॥ 11॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,11,6016,नाशात्मकं तु तत्त्याज्यं वेदशास्त्रार्थचिन्तकैः । सौगतानां मतं चेत्त्वं स्वीकरोषि वरानने ॥ 12॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,12,6017,तथापि यौवनं प्राप्य भुङ्क्ष्व भोगाननुत्तमान् । परलोकस्य सन्देहो यदि तेऽस्ति कृशोदरि ॥ 13॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,13,6018,स्वर्गभोगपरा नित्यं भव भामिनि भूतले । अनित्यं यौवनं देहे ज्ञात्वेति सुकृतं चरेत् ॥ 14॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,14,6019,परोपतापनं कार्यं वर्जनीयं सदा बुधैः । अविरोधेन कर्तव्यं धर्मार्थकामसेवनम् ॥ 15॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,15,6020,तस्मात्त्वमपि कल्याणि मतिं धर्मे सदा कुरु । अपराधं विना दैत्यान्कस्मान्मारयसेऽम्बिके ॥ 16॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,16,6021,दयाधर्मोऽस्य देहोऽस्ति सत्ये प्राणाः प्रकीर्तिताः । तस्माद्दया तथा सत्यं रक्षणीयं सदा बुधैः ॥ 17॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,17,6022,कारणं वद सुश्रोणि दानवानां वधे तव । देव्युवाच । त्वया पृष्टं महाबाहो किमर्थमिह चागता ॥ 18॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,18,6023,तदहं सम्प्रवक्ष्यामि हनने च प्रयोजनम् । विचरामि सदा दैत्य सर्वलोकेषु सर्वदा ॥ 19॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,19,6024,न्यायान्यायौ च भूतानां पश्यन्ती साक्षिरूपिणी । न मे कदापि भोगेच्छा न लोभो न च वैरिता ॥ 20॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,20,6025,धर्मार्थं विचराम्यत्र संसारे साधुरक्षणम् । व्रतमेतत्तु नियतं पालयामि निजं सदा ॥ 21॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,21,6026,साधूनां रक्षणं कार्यं हन्तव्या येऽप्यसाधवः । वेदसंरक्षणं कार्यमवतारैरनेकशः ॥ 22॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,22,6027,युगे युगे तानेवाहमवतारान्बिभर्मि च । महिषस्तु दुराचारो देवान्वै हन्तुमुद्यतः ॥ 23॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,23,6028,ज्ञात्वाहं तद्वधार्थं भोः प्राप्तास्मि राक्षसाधुना । तं हनिष्ये दुराचारं सुरशत्रुं महाबलम् ॥ 24॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,24,6029,गच्छ वा तिष्ठ कामं त्वं सत्यमेतदुदाहृतम् । ब्रूहि वा तं दुरात्मानं राजानं महिषीसुतम् ॥ 25॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,25,6030,किमन्यान् प्रेषयस्यत्र स्वयं युद्धं कुरुष्व ह । सन्धिञ्चेत्कर्तुमिच्छास्ति राज्ञस्तव मया सह ॥ 26॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,26,6031,सर्वे गच्छन्तु पातालं वैरं त्यक्त्वा यथासुखम् । देवद्रव्यं तु यत्किञ्चिद्धृतं जित्वा रणे सुरान् । तद्दत्त्वा यान्तु पातालं प्रह्लादो यत्र तिष्ठति ॥ 27॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,27,6032,व्यास उवाच । तच्छुत्वा वचनं देव्या असिलोमा पुरःस्थितः । बिडालाख्यं महावीरं पप्रच्छ प्रीतिपूर्वकम् ॥ 28॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,28,6033,असिलोमोवाच । श्रुतं तेऽद्य बिडालाख्य भवान्या कथितं च यत् । एवं गते किं कर्तव्यो विग्रहः सन्धिरेव वा ॥ 29॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,29,6034,बिडालाख्य उवाच । न सन्धिकामोऽस्ति नृपोऽभिमानी युद्धे च मृत्युं नियतं हि जानन् । दृष्ट्वा हतान् प्रेरयते तथास्मा- न्दैव हि कोऽतिक्रमितुं समर्थः ॥ 30॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,30,6035,(दुःसाध्य एवास्त्विह सेवकानां धर्मः सदा मानविवर्जितानाम् । आज्ञापराणां वशवर्तिकानां पाञ्चालिकानामिव सूत्रभेदात् ॥) गत्वा कथं तस्य पुरस्त्वया च मयापि वक्तव्यमिदं कठोरम् । गच्छन्तु पातालमितश्च सर्वे दत्त्वाथ रत्नानि धनं सुराणाम् ॥ 31॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,31,6036,(प्रियं हि वक्तव्यमसत्यमेव न च प्रियं स्याद्धितकृत्तु भाषितम् । सत्यं प्रियं नो भवतीह कामं मौनं ततो बुद्धिमतां प्रतिष्ठितम् ॥) न फल्गुवाक्यैः प्रतिबोधनीयो राजा तु वीरैरिति नीतिशास्त्रम् ॥ 32॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,32,6037,न नूनं तत्र गन्तव्यं हितं वा वक्तुमादरात् । प्रष्टुं वापि गते राजा कोपयुक्तो भविष्यति ॥ 33॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,33,6038,इति सञ्चिन्त्य कर्तव्यं युद्धं प्राणस्य संशये । स्वामिकार्यं परं मत्वा मरणं तृणवत्तथा ॥ 34॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,34,6039,व्यास उवाच । इति सञ्चिन्त्य तौ वीरौ संस्थितौ युद्धतत्परौ । धनुर्बाणधरौ तत्र सन्नद्धौ रथसङ्गतौ ॥ 35॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,35,6040,प्रथमं तु बिडालाख्यः सप्तबाणान्मुमोच ह । असिलोमा स्थितो दूरे प्रेक्षकः परमास्त्रवित् ॥ 36॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,36,6041,चिच्छेद तांस्तथाप्राप्तानम्बिका स्वशरैः शरान् । बिडालाख्यं त्रिभिर्बाणैर्जघान च शिलाशितैः ॥ 37॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,37,6042,प्राप्य बाणव्यथां दैत्यः पपात समराङ्गणे । मूर्च्छितोऽथ ममाराशु दानवो दैवयोगतः ॥ 38॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,38,6043,बिडालाख्यं हतं दृष्ट्वा रणे शक्तिशरोत्करैः । असिलोमा धनुष्पाणिः संस्थितो युद्धतत्परः ॥ 39॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,39,6044,ऊर्ध्वं सव्यं करं कृत्वा तामुवाच मितं वचः । देवि जानामि मरणं दानवानां दुरात्मनाम् ॥ 40॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,40,6045,तथापि युद्धं कर्तव्यं पराधीनेन वै मया । महिषो मन्दबुद्धिश्च न जानाति प्रियाप्रिये ॥ 41॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,41,6046,तदग्रे नैव वक्तव्यं हितं चैवाप्रियं मया । मर्तव्यं वीरधर्मेण शुभं वाप्यशुभं भवेत् ॥ 42॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,42,6047,दैवमेव परं मन्ये धिपौरुषमनर्थकम् । पतन्ति दानवास्तूर्णं तव बाणहता भुवि ॥ 43॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,43,6048,इत्युक्त्वा शरवृष्टिं स चकार दानवोत्तमः । देवी चिच्छेद तान्बाणैरप्राप्तांस्तु निजान्तिके ॥ 44॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,44,6049,अन्यैर्विव्याध तं तूर्णमसिलोमानमाशुगैः । वीक्षितामरसङ्घैश्च कोपपूर्णानना तदा ॥ 45॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,45,6050,शुशुभे दानवः कामं बाणैर्विद्धतनुः किल । स्रवद्रुधिरधारः स प्रफुल्लः किंशुको यथा ॥ 46॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,46,6051,असिलोमा गदां गुर्वीं लौहीमुद्यम्य वेगतः । दुद्राव चण्डिकां कोपात्सिंहं मूर्ध्नि जघान ह ॥ 47॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,47,6052,सिंहोऽपि नखराघातैस्तं ददार भुजान्तरे । अगणय्य गदाघातं कृतं तेन बलीयसा ॥ 48॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,48,6053,उत्पत्य तरसा दैत्यो गदापाणिः सुदारुणः । सिंहमूर्ध्नि समारुह्य जघान गदयाम्बिकाम् ॥ 49॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,49,6054,कृतं तेन प्रहारं तु वञ्चयित्वा विशाम्पते । खड्गेन शितधारेण शिरश्चिच्छेद कण्ठतः ॥ 50॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,50,6055,छिन्ने शिरसि दैत्येन्द्रः पपात तरसा क्षितौ । हाहाकारो महानासीत्सैन्ये तस्य दुरात्मनः ॥ 51॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,51,6056,जय देवीति देवास्ता तुष्टुवुर्जगदम्बिकाम् । देवदुन्दुभयो नेदुर्जगुश्च नृप किन्नराः ॥ 52॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,52,6057,निहतौ दानवौ वीक्ष्य पतितौ च रणाङ्गणे । निहताः सैनिकाः सर्वे तत्र केसरिणा बलात् ॥ 53॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,53,6058,भक्षिताश्च तथा केचिन्निःशेषं तद्रणं कृतम् । भग्नाः केचिद् गता मन्दा महिषं प्रति दुःखिताः ॥ 54॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,54,6059,चुक्रुशू रुरुदुश्चैव त्राहि त्राहीति भाषणैः । असिलोमबिडालाख्यौ निहतौ नृपसत्तम ॥ 55॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,55,6060,अन्ये ये सैनिका राजन् सिंहेन भक्षिताश्च ते । एवं ब्रुवन्तो राजानं तदा चक्रुश्च वैशसम् ॥ 56॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,56,6061,तच्छ्रुत्वा वचनं तेषां महिषो दुर्मनास्तदा । बभूव चिन्ताकुलितो विमना दुःखसंयुतः ॥ 57॥ 5,५.१५,पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।,57,6062,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे असिलोम- बिडालाख्यवधवर्णनं नाम पञ्चदशोऽध्यायः ॥ ५.१५॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,0,6063,व्यास उवाच । तेषां तद्वचनं श्रुत्वा क्रोधयुक्तो नराधिपः । दारुकं प्राह तरसा रथमानय मेऽद्भुतम् ॥ 1॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,1,6064,सहस्रखरसंयुक्तं पताकाध्वजभूषितम् । आयुधैः संयुतं शुभ्रं सुचक्रं चारुकूबरम् ॥ 2॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,2,6065,सूतोऽपि रथमानीय तमुवाच त्वरान्वितः । राजन् रथोऽयमानीतो द्वारि तिष्ठति भूषितः ॥ 3॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,3,6066,सर्वायुधसमायुक्तो वरास्तरणसंयुतः । आनीतं तं रथं ज्ञात्वा दानवेन्द्रो महाबलः ॥ 4॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,4,6067,मानुषं देहमास्थाय सङ्ग्रामे गन्तुमुद्यतः । विचार्य मनसा चेति देवी मां प्रेक्ष्य दुर्मुखम् ॥ 5॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,5,6068,श‍ृङ्गिणं महिषं नूनं विमना सा भविष्यति । नारीणां च प्रियं रूपं तथा चातुर्यमित्यपि ॥ 6॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,6,6069,तस्माद्रूपं च चातुर्यं कृत्वा यास्यामि तां प्रति । यथा मां वीक्ष्य सा बाला प्रेमयुक्ता भविष्यति ॥ 7॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,7,6070,ममापि च तदैव स्यात्सुखं नान्यस्वरूपतः । इति सञ्चिन्त्य मनसा दानवेन्द्रो महाबलः ॥ 8॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,8,6071,त्यक्त्वा तन्माहिषं रूपं बभूव पुरुषः शुभः । सर्वायुधधरः श्रीमांश्चारुभूषणभूषितः ॥ 9॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,9,6072,दिव्याम्बरधरः कान्तः पुष्पबाण इवापरः । रथोपविष्टः केयूरस्रग्वी बाणधनुर्धरः ॥ 10॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,10,6073,सेनापरिवृतो देवीं जगाम मदगर्वितः । मनोज्ञं रूपमास्थाय मानिनीनां मनोहरम् ॥ 11॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,11,6074,तमागतं समालोक्य दैत्यानामधिपं तदा । बहुभिः संवृतं वीरैर्देवी शङ्खमवादयत् ॥ 12॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,12,6075,स शङ्खनिनदं श्रुत्वा जनविस्मयकारकम् । समीपमेत्य देव्यास्तु तामुवाच हसन्निव ॥ 13॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,13,6076,देवि संसारचक्रेऽस्मिन्वर्तमानो जनः किल । नरो वाथ तथा नारी सुखं वाञ्छति सर्वथा ॥ 14॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,14,6077,सुखं संयोगजं नॄणां नासंयोगे भवेदिह । संयोगो बहुधा भिन्नस्तान्ब्रवीमि श‍ृणुष्व ह ॥ 15॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,15,6078,भेदान्सुप्रीतिहेतूत्थान्स्वभावोत्थाननेकशः । तत्र प्रीतिभवानादौ कथयामि यथामति ॥ 16॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,16,6079,मातापित्रोस्तु पुत्रेण संयोगस्तूत्तमः स्मृतः । भ्रातुर्भ्रात्रा तथा योगः कारणान्मध्यमो मतः ॥ 17॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,17,6080,उत्तमस्य सुखस्यैव दातृत्वादुत्तमः स्मृतः । तस्मादल्पसुखस्यैव प्रदातृत्वाच्च मध्यमः ॥ 18॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,18,6081,नाविकानां तु संयोगः स्मृतः स्वाभाविको बुधैः । विविधावृतचित्तानां प्रसङ्गपरिवर्तिनाम् ॥ 19॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,19,6082,अत्यल्पसुखदातृत्वात्कनिष्ठोऽयं स्मृतो बुधैः । अत्युत्तमस्तु संयोगः संसारे सुखदः सदा ॥ 20॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,20,6083,नारीपुरुषयोः कान्ते समानवयसो सदा । संयोगो यः समाख्यातः स एवात्युत्तमः स्मृतः ॥ 21॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,21,6084,अत्युत्तमसुखस्यैव दातृत्वात्स तथाविधः । चातुर्यरूपवेषाद्यैः कुलशीलगुणैस्तथा ॥ 22॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,22,6085,परस्परसमुत्कर्षः कथ्यते हि परस्परम् । तं चेत्करोषि संयोगं वीरेण च मया सह ॥ 23॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,23,6086,अत्युत्तमसुखस्यैव प्राप्तिः स्यात्ते न संशयः । नानाविधानि रूपाणि करोमि स्वेच्छया प्रिये ॥ 24॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,24,6087,इन्द्रादयः सुराः सर्वे सङ्ग्रामे विजिता मया । रत्नानि यानि दिव्यानि भवनेऽस्मिन्ममाधुना ॥ 25॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,25,6088,भुङ्क्ष्व त्वं तानि सर्वाणि यथेष्टं देहि वा यथा । पट्टराज्ञी भवाद्य त्वं दासोऽस्मि तव सुन्दरि ॥ 26॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,26,6089,वैरं त्यजेऽहं देवैस्तु तव वाक्यान्न संशयः । यथा त्वं सुखमाप्नोषि तथाहं करवाणि वै ॥ 27॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,27,6090,आज्ञापय विशालाक्षि तथाहं प्रकरोम्यथ । चित्तं मे तव रूपेण मोहितं चारुभाषिणि ॥ 28॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,28,6091,आतुरोऽस्मि वरारोहे प्राप्तस्ते शरणं किल । प्रपन्नं पाहि रम्भोरु कामबाणैः प्रपीडितम् ॥ 29॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,29,6092,धर्माणामुत्तमो धर्मः शरणागतरक्षणम् । त्वदीयोऽस्म्यसितापाङ्गि सेवकोऽहं कृशोदरि ॥ 30॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,30,6093,मरणान्तं वचः सत्यं नान्यथा प्रकरोम्यहम् । पादौ नतोऽस्मि तन्वङ्गि त्यक्त्वा नानायुधानि ते ॥ 31॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,31,6094,दयां कुरु विशालाक्षि तप्तोऽस्मि काममार्गणैः । जन्मप्रभृति चार्वङ्गि दैन्यं नाचरितं मया ॥ 32॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,32,6095,ब्रह्मादीनीश्वरान्प्राप्य त्वयि तद्विदधाम्यहम् । चरितं मम जानन्ति रणे ब्रह्मादयः सुराः ॥ 33॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,33,6096,सोऽप्यहं तव दासोऽस्मि मन्मुखं पश्य भामिनि । व्यास उवाच । इति ब्रुवाणं तं दैत्यं देवी भगवती हि सा ॥ 34॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,34,6097,प्रहस्य सस्मितं वाक्यमुवाच वरवर्णिनी । देव्युवाच । नाहं पुरुषमिच्छामि परमं पुरुषं विना ॥ 35॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,35,6098,तस्य चेच्छास्म्यहं दैत्य सृजामि सकलं जगत् । स मां पश्यति विश्वात्मा तस्याहं प्रकृतिः शिवा ॥ 36॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,36,6099,तत्सान्निध्यवशादेव चैतन्यं मयि शाश्वतम् । जडाहं तस्य संयोगात्प्रभवामि सचेतना ॥ 37॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,37,6100,अयस्कान्तस्य सान्निध्यादयसश्चेतना यथा । न ग्राम्यसुखवाञ्छा मे कदाचिदपि जायते ॥ 38॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,38,6101,मूर्खस्त्वमसि मन्दात्मन् यत्स्त्रीसङ्गं चिकीर्षसि । नरस्य बन्धनार्थाय श‍ृङ्खला स्त्री प्रकीर्तिता ॥ 39॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,39,6102,लोहबद्धोऽपि मुच्येत स्त्रीबद्धो नैव मुच्यते । किमिच्छसि च मन्दात्मन् मूत्रागारस्य सेवनम् ॥ 40॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,40,6103,शमं कुरु सुखाय त्वं शमात्सुखमवाप्स्यसि । नारीसङ्गे महद्दुःखं जानन्किं त्वं विमुह्यसि ॥ 41॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,41,6104,त्यज वैरं सुरैः सार्धं यथेष्टं विचरावनौ । पातालं गच्छ वा कामं जीवितेच्छा यदस्ति ते ॥ 42॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,42,6105,अथवा कुरु सङ्ग्रामं बलवत्यस्मि साम्प्रतम् । प्रेषिताहं सुरैः सर्वैस्तव नाशाय दानव ॥ 43॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,43,6106,सत्यं ब्रवीमि येनाद्य त्वया वचनसौहृदम् । दर्शितं तेन तुष्टास्मि जीवन्गच्छ यथासुखम् ॥ 44॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,44,6107,सतां सप्तपदी मैत्री तेन मुञ्चामि जीवितम् । मरणेच्छास्ति चेद्युद्धं कुरु वीर यथासुखम् ॥ 45॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,45,6108,हनिष्यामि महाबाहो त्वामहं नात्र संशयः । व्यास उवाच । इति तस्या वचः श्रुत्वा दानवः काममोहितः ॥ 46॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,46,6109,उवाच श्लक्ष्णया वाचा मधुरं वचनं ततः । बिभेम्यहं वरारोहे त्वां प्रहर्तुं वरानने ॥ 47॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,47,6110,कोमलां चारुसर्वाङ्गीं नारीं नरविमोहिनीम् । जित्वा हरिहरादींश्च लोकपालांश्च सर्वशः ॥ 48॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,48,6111,किं त्वया सह युद्धं मे युक्तं कमललोचने । रोचते यदि चार्वङ्गि विवाहं कुरु मां भज ॥ 49॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,49,6112,नोचेद् गच्छ यथेष्टं ते देशं यस्मात्समागता । नाहं त्वां प्रहरिष्यामि यतो मैत्री कृता त्वया ॥ 50॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,50,6113,हितमुक्तं शुभं वाक्यं तस्माद् गच्छ यथासुखम् । का शोभा मे भवेदन्ते हत्वा त्वां चारुलोचनाम् ॥ 51॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,51,6114,स्त्रीहत्या बालहत्या च ब्रह्महत्या दुरत्यया । गृहीत्वा त्वां गृहं नूनं गच्छाम्यद्य वरानने ॥ 52॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,52,6115,तथापि मे फलं न स्याद्बलाद्भोगसुखं कुतः । प्रब्रवीमि सुकेशि त्वां विनयावनतो यतः ॥ 53॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,53,6116,पुरुषस्य सुखं न स्यादृते कान्तामुखाम्बुजात् । तत्तथैव हि नारीणां न स्याच्च पुरुषं विना ॥ 54॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,54,6117,संयोगे सुखसम्भूतिर्वियोगे दुःखसम्भवः । कान्तासि रूपसम्पन्ना सर्वाभरणभूषिता ॥ 55॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,55,6118,चातुर्यं त्वयि किं नास्ति यतो मां न भजस्यहो । तवोपदिष्टं केनेदं भोगानां परिवर्जनम् ॥ 56॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,56,6119,वञ्चितासि प्रियालापे वैरिणा केनचित्त्विह । मुञ्चाग्रहमिमं कान्ते कुरु कार्यं सुशोभनम् ॥ 57॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,57,6120,सुखं तव ममापि स्याद्विवाहे विहिते किल । विष्णुर्लक्ष्या सहाभाति सावित्र्या च सहात्मभूः ॥ 58॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,58,6121,रुद्रो भाति च पार्वत्या शच्या शतमखस्तथा । का नारी पतिहीना च सुखं प्राप्नोति शाश्वतम् ॥ 59॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,59,6122,येन त्वमसितापाङ्गि न करोषि पतिं शुभम् । कामः क्वाद्य गतः कान्ते यस्त्वां बाणैः सुकोमलैः ॥ 60॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,60,6123,मादनैः पञ्चभिः कामं न ताडयति मन्दधीः । मन्येऽहमिव कामोऽपि दयावांस्त्वयि सुन्दरि ॥ 61॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,61,6124,अबलेति च मन्वानो न प्रेरयति मार्गणान् । मनोभवस्य वैरं वा किमप्यस्ति मया सह ॥ 62॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,62,6125,तेन च त्वय्यरालाक्षि न मुञ्चति शिलीमुखान् । अथवा मेऽहितैर्देवैर्वारितोऽसौ झषध्वजः ॥ 63॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,63,6126,सुखविध्वंसिभिस्तेन त्वयि न प्रहरत्यपि । त्यक्त्वा मां मृगशावाक्षि पश्चात्तापं करिष्यसि ॥ 64॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,64,6127,मन्दोदरीव तन्वङ्गि परित्यज्य शुभं नृपम् । अनुकूलं पतिं पश्चात्सा चकार शठं पतिम् । कामार्ता च यदा जाता मोहेन व्याकुलान्तरा ॥ 65॥ 5,५.१६,षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।,65,6128,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे महिषद्वारा देवीप्रबोधनं नाम षोडशोऽध्यायः ॥ ५.१६॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,0,6129,व्यास उवाच । इति श्रुत्वा वचस्तस्य देवी पप्रच्छ दानवम् । का सा मन्दोदरी नारी कोऽसौ त्यक्तो नृपस्तया ॥ 1॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,1,6130,शठः को वा नृपः पश्चात्तन्मे ब्रूहि कथानकम् । विस्तरेण यथा प्राप्तं दुःखं वनितया पुनः ॥ 2॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,2,6131,महिष उवाच । सिंहलो नाम देशोऽस्ति विख्यातः पृथिवीतले । घनपादपसंयुक्तो धनधान्यसमृद्धिमान् ॥ 3॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,3,6132,चन्द्रसेनाभिधस्तत्र राजा धर्मपरायणः । न्यायदण्डधरः शान्तः प्रजापालनतत्परः ॥ 4॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,4,6133,सत्यवादी मृदुः शूरस्तितिक्षुर्नीतिसागरः । शास्त्रवित्सर्वधर्मज्ञो धनुर्वेदेऽतिनिष्ठितः ॥ 5॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,5,6134,तस्य भार्या वरारोहा सुन्दरी सुभगा शुभा । सदाचारातिसुमुखी पतिभक्तिपरायणा ॥ 6॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,6,6135,नाम्ना गुणवती कान्ता सर्वलक्षणसंयुता । सुषुवे प्रथमे गर्भे पुत्रीं सा चातिसुन्दरीम् ॥ 7॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,7,6136,पिता चातीव सन्तुष्टः पुत्रीं प्राप्य मनोरमाम् । मन्दोदरीति नामास्याः पिता चक्रे मुदान्वितः ॥ 8॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,8,6137,इन्दोः कलेव चात्यर्थं ववृधे सा दिने दिने । दशवर्षा यदा जाता कन्या चातिमनोहरा ॥ 9॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,9,6138,वरार्थं नृपतिश्चिन्तामवाप च दिने दिने । मद्रदेशाधिपः शूरः सुधन्वा नाम पार्थिवः ॥ 10॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,10,6139,तस्य पुत्रोऽतिमेधावी कम्बुग्रीवोऽतिविश्रुतः । ब्राह्मणैः कथितो राज्ञे स युक्तोऽस्या वरः शुभः ॥ 11॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,11,6140,सर्वलक्षणसम्पन्नः सर्वविद्यार्थपारगः । राज्ञा पृष्टा तदा राज्ञी नाम्ना गुणवती प्रिया ॥ 12॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,12,6141,कम्बुग्रीवाय कन्यां स्वां दास्यामि वरवर्णिनीम् । सा तु पत्युर्वचः श्रुत्वा पुत्रीं पप्रच्छ सादरम् ॥ 13॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,13,6142,विवाहं ते पिता कर्तुं कम्बुग्रीवेण वाञ्छति । तच्छ्रुत्वा मातरं प्राह वाक्यं मन्दोदरी तदा ॥ 14॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,14,6143,नाहं पतिं करिष्यामि नेच्छा मेऽस्ति परिग्रहे । कौमारं व्रतमास्थाय कालं नेष्यामि सर्वथा ॥ 15॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,15,6144,स्वातन्त्र्येण चरिष्यामि तपस्तीव्रं सदैव हि । पारतन्त्र्यं परं दुःखं मातः संसारसागरे ॥ 16॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,16,6145,स्वातन्त्र्यान्मोक्षमित्याहुः पण्डिताः शास्त्रकोविदाः । तस्मान्मुक्ता भविष्यामि पत्या मे न प्रयोजनम् ॥ 17॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,17,6146,विवाहे वर्तमाने तु पावकस्य च सन्निधौ । वक्तव्यं वचनं सम्यक्त्वदधीनास्मि सर्वदा ॥ 18॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,18,6147,श्वश्रूदेवरवर्गाणां दासीत्वं श्वशुरालये । पतिचित्तानुवर्तित्वं दुःखाद्दुःखतरं स्मृतम् ॥ 19॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,19,6148,कदाचित्पतिरन्यां वा कामिनीं च भजेद्यदि । तदा महत्तरं दुःखं सपत्नीसम्भवं भवेत् ॥ 20॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,20,6149,तदेर्ष्या जायते पत्यौ क्लेशश्चापि भवेदथ । संसारे क्व सुखं मातर्नारीणां च विशेषतः ॥ 21॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,21,6150,स्वभावात्परतन्त्राणां संसारे स्वप्नधर्मिणि । श्रुतं मया पुरा मातरुत्तानचरणात्मजः ॥ 22॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,22,6151,उत्तमः सर्वधर्मज्ञो ध्रुवादवरजो नृपः । पत्नीं धर्मपरां साध्वीं पतिभक्तिपरायणाम् ॥ 23॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,23,6152,अपराधं विना कान्तां त्यक्तवान्विपिने प्रियाम् । एवंविधानि दुःखानि विद्यमाने तु भर्तरि ॥ 24॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,24,6153,कालयोगान्मृते तस्मिन्नारी स्याद्दुःखभाजनम् । वैधव्यं परमं दुःखं शोकसन्तापकारकम् ॥ 25॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,25,6154,परोषितपतित्वेऽपि दुःखं स्यादधिकं गृहे । मदनाग्निविदग्धायाः किं सुखं पतिसङ्गजम् ॥ 26॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,26,6155,तस्मात्पतिर्न कर्तव्यः सर्वथेति मतिर्मम । एवं प्रोक्ता तदा माता पतिं प्राह नृपात्मजा ॥ 27॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,27,6156,न च वाञ्छति भर्तारं कौमारव्रतधारिणी । व्रतजाप्यपरा नित्यं संसाराद्विमुखी सदा ॥ 28॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,28,6157,न काङ्क्षति पतिं कर्तुं बहुदोषविचक्षणा । भार्याया भाषितं श्रुत्वा तथैव संस्थितो नृपः ॥ 29॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,29,6158,विवाहो न कृतः पुत्र्या ज्ञात्वा भावविवर्जिताम् । वर्तमाना गृहेष्वेव पित्रा मात्रा च रक्षिता ॥ 30॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,30,6159,यौवनस्याङ्कुरा जाता नारीणां कामदीपकाः । तथापि सा वयस्याभिः प्रेरितापि पुनः पुनः ॥ 31॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,31,6160,चकमे न पतिं कर्तुं ज्ञानार्थपदभाषिणी । एकदोद्यानदेशे सा विहर्तुं बहुपादपे ॥ 32॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,32,6161,जगाम सुमुखी प्रेम्णा सैरन्ध्रीगणसेविता । रेमे कृशोदरी तत्रापश्यत्कुसुमिता लताः ॥ 33॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,33,6162,पुष्पाणि चिन्वती रम्या वयस्याभिः समावृता । कोसलाधिपतिस्तत्र मार्गे दैववशात्तदा ॥ 34॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,34,6163,आजगाम महावीरो वीरसेनोऽतिविश्रुतः । एकाकी रथमारूढः कतिचित्सेवकैर्वृतः ॥ 35॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,35,6164,सैन्यं च पृष्ठतस्तस्य समायाति शनैः शनैः । दृष्टस्तस्या वयस्याभिर्दूरतः पार्थिवस्तदा ॥ 36॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,36,6165,मन्दोदर्यै तथा प्रोक्तं समायाति नरः पथि । रथारूढो महाबाहू रूपवान्मदनोऽपरः ॥ 37॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,37,6166,मन्येऽहं नृपतिः कश्चित्प्राप्तो भाग्यवशादिह । एवं ब्रुवत्यां तत्रासौ कोसलेन्द्रः समागतः ॥ 38॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,38,6167,दृष्ट्वा तामसितापाङ्गीं विस्मयं प्राप भूपतिः । उत्तीर्य स रथात्तूर्णं पप्रच्छ परिचारिकाम् ॥ 39॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,39,6168,केयं बाला विशालाक्षी कस्य पुत्री वदाशु मे । एवं पृष्टा तु सैरन्ध्री तमुवाच शुचिस्मिता ॥ 40॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,40,6169,प्रथमं ब्रूहि मे वीर पृच्छामि त्वां सुलोचन । कोऽसि त्वं किमिहायातः किं कार्यं वद साम्प्रतम् ॥ 41॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,41,6170,इति पृष्टस्तु सैरन्ध्र्या तामुवाच महीपतिः । कोसलो नाम देशोऽस्ति पृथिव्यां परमाद्भुतः ॥ 42॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,42,6171,तस्य पालयिता चाहं वीरसेनाभिधः प्रिये । वाहिनी पृष्ठतः कामं समायाति चतुर्विधा ॥ 43॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,43,6172,मार्गभ्रमादिह प्राप्तं विद्धि मां कोसलाधिपम् । सैरन्ध्र्युवाच । चन्द्रसेनसुता राजन्नाम्ना मन्दोदरी किल ॥ 44॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,44,6173,उद्याने रन्तुकामेयं प्राप्ता कमललोचना । श्रुत्वा तद्भाषितं राजा प्रत्युवाच प्रसाधिकाम् ॥ 45॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,45,6174,सैरन्ध्रि चतुरासि त्वं राजपुत्रीं प्रबोधय । ककुत्स्थवंशजश्चाहं राजास्मि चारुलोचने ॥ 46॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,46,6175,गान्धर्वेण विवाहेन पतिं मां कुरु कामिनि । न मे भार्यास्ति सुश्रोणि वयसोऽद्भुतयौवनाम् ॥ 47॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,47,6176,वाञ्छामि रूपसम्पन्नां सुकुलां कामिनीं किल । अथवा ते पिता मह्यं विधिना दातुमर्हति ॥ 48॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,48,6177,अनुकूलः पतिश्चाहं भविष्यामि न संशयः । महिष उवाच । इत्याकर्ण्य वचस्तस्य सैरन्ध्री प्राह तां तदा ॥ 49॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,49,6178,प्रहस्य मधुरं वाक्यं कामशास्त्रविशारदा । मन्दोदरि नृपः प्राप्तः सूर्यवंशसमुद्भवः ॥ 50॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,50,6179,रूपवान्बलवान्कान्तो वयसा त्वत्समः पुनः । प्रीतिमान्नृपतिर्जातस्त्वयि सुन्दरि सर्वथा ॥ 51॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,51,6180,पितापि ते विशालाक्षि परितप्यति सर्वथा । विवाहकालं ते ज्ञात्वा त्वां च वैराग्यसंयुताम् ॥ 52॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,52,6181,इत्याहास्मान्स नृपतिर्विनिःश्वस्य पुनः पुनः । पुत्रीं प्रबोधयन्त्वेतां सैरन्ध्र्यः सेवने रताः ॥ 53॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,53,6182,वक्तुं शक्ता वयं न त्वां हठधर्मरतां पुनः । भर्तुः शुश्रूषणं स्त्रीणां परो धर्मोऽब्रवीन्मनुः ॥ 54॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,54,6183,भर्तारं सेवमाना वै नारी स्वर्गमवाप्नुयात् । तस्मात्कुरु विशालाक्षि विवाहं विधिपूर्वकम् ॥ 55॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,55,6184,मन्दादर्युवाच । नाहं पतिं करिष्यामि चरिष्ये तप अद्भुतम् । निवारय नृपं बाले किं मां पश्यति निस्त्रपः ॥ 56॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,56,6185,सैरन्ध्र्युवाच । दुर्जयो देवि कामोऽसौ कालोऽसौ दुरतिक्रमः । तस्मान्मे वचनं पथ्यं कर्तुमर्हसि सुन्दरि ॥ 57॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,57,6186,अन्यथा व्यसनं नूनमापतेदिति निश्चयः । इति तस्या वचः श्रुत्वा कन्योवाचाथ तां सखीम् ॥ 58॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,58,6187,यद्यद्भवेत्तद्भवतु दैवयोगादसंशयम् । न विवाहं करिष्येऽहं सर्वथा परिचारिके ॥ 59॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,59,6188,महिष उवाच । इति तस्यास्तु निर्बन्धं ज्ञात्वा प्राह नृपं पुनः । गच्छ राजन् यथाकामं नेयमिच्छति सत्पतिम् ॥ 60॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,60,6189,नृपस्तु तद्वचः श्रुत्वा निर्गतः सह सेनया । कोसलान्विमना भूत्वा कामिनीं प्रति निःस्पृहः ॥ 61॥ 5,५.१७,सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।,61,6190,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देवीमहिषसंवादे राजपुत्रीमन्दोदरीवृत्तवर्णनं नाम सप्तदशोऽध्यायः ॥ ५.१७॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,0,6191,महिष उवाच । तस्यास्तु भगिनी कन्या नाम्ना चेन्दुमती शुभा । विवाहयोग्या सञ्जाता सुरूपावरजा यदा ॥ 1॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,1,6192,तस्या विवाहः संवृत्तः सञ्जातश्च स्वयंवरः । राजानो बहुदेशीयाः सङ्गतास्तत्र मण्डपे ॥ 2॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,2,6193,तया वृतो नृपः कश्चिद्बलवान् रूपसंयुतः । कुलशीलसमायुक्तः सर्वलक्षणसंयुतः ॥ 3॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,3,6194,तदा कामातुरा जाता विटं वीक्ष्य नृपं तु सा । चकमे दैवयोगात्तु शठं चातुर्यभूषितम् ॥ 4॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,4,6195,पितरं प्राह तन्वङ्गी विवाहं कुरु मे पितः । इच्छा मेऽद्य समुद्भूता दृष्ट्वा मद्राधिपं त्विह ॥ 5॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,5,6196,चन्द्रसेनोऽपि तच्छ्रुत्वा पुत्र्या यद्भाषितं रहः । प्रसन्नेन च मनसा तत्कार्ये तत्परोऽभवत् ॥ 6॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,6,6197,तमाहूय नृपं गेहे विवाहविधिना ददौ । कन्यां मन्दोदरीं तस्मै पारिबर्हं तथा बहु ॥ 7॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,7,6198,चारुदेष्णोऽपि तां प्राप्य सुन्दरीं मुदितोऽभवत् । जगाम स्वगृहं तुष्टो राजापि सहितः स्त्रिया ॥ 8॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,8,6199,रेमे नृपतिशार्दूलः कामिन्या बहुवासरान् । कदाचिद्दासपत्न्या स रममाणो रहः किल ॥ 9॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,9,6200,सैरन्ध्र्या कथितं तस्यै तया दृष्टः पतिस्तथा । उपालम्भं ददौ तस्मै स्मितपूर्वं रुषान्विता ॥ 10॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,10,6201,कदाचिदपि सामान्यां रहो रूपवतीं नृपः । क्रीडयँल्लालयन्दृष्टः खेदं प्राप तदैव सा ॥ 11॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,11,6202,न ज्ञातोऽयं शठः पूर्वं यदा दृष्टः स्वयंवरे । किं कृतं तु मया मोहाद्वञ्चिताहं नृपेण ह ॥ 12॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,12,6203,किं करोम्यद्य सन्तापं निर्लज्जे निर्घृणे शठे । का प्रीतिरीदृशे पत्यौ धिगद्य मम जीवितम् ॥ 13॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,13,6204,अद्यप्रभृति संसारे सुखं त्यक्तं मया खलु । पतिसम्भोगजं सर्वं सन्तोषोऽद्य मया कृतः ॥ 14॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,14,6205,अकर्तव्यं कृतं कार्यं तज्जातं दुःखदं मम । देहत्यागः क्रियते चेद्धत्यातीव दुरत्यया ॥ 15॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,15,6206,पितृगेहं व्रजाम्याशु तत्रापि न सुखं भवेत् । हास्ययोग्या सखीनां तु भवेयं नात्र संशयः ॥ 16॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,16,6207,तस्मादत्रैव संवासो वैराग्ययुतया मया । कर्तव्यः कालयोगेन त्यक्त्वा कामसुखं पुनः ॥ 17॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,17,6208,महिष उवाच । इति सञ्चिन्त्य सा नारी दुःखशोकपरायणा । स्थिता पतिगृहं त्यक्त्वा सुखं संसारजं ततः ॥ 18॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,18,6209,तस्मात्त्वमपि कल्याणि मामनादृत्य भूपतिम् । अन्यं कापुरुषं मन्दं कामार्ता संश्रयिष्यसि ॥ 19॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,19,6210,वचनं कुरु मे तथ्यं नारीणां परमं हितम् । अकृत्वा परमं शोकं लप्स्यसे नात्र संशयः ॥ 20॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,20,6211,देव्युवाच । मन्दात्मन् गच्छ पातालं युद्धं वा कुरु साम्प्रतम् । हत्वा त्वामसुरान्सर्वान्गमिष्यामि यथासुखम् ॥ 21॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,21,6212,यदा यदा हि साधूनां दुःखं भवति दानव । तदा तेषां च रक्षार्थं देहं सन्धारयाम्यहम् ॥ 22॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,22,6213,अरूपायाश्च मे रूपमजन्मायाश्च जन्म च । सुराणां रक्षणार्थाय विद्धि दैत्य विनिश्चितम् ॥ 23॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,23,6214,सत्यं ब्रवीमि जानीहि प्रार्थिताहं सुरैः किल । त्वद्वधार्थं हयारे त्वां हत्वा स्थास्यामि निश्चला ॥ 24॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,24,6215,तस्माद्युध्यस्व वा गच्छ पातालमसुरालयम् । सर्वथा त्वां हनिष्यामि सत्यमेतद् ब्रवीम्यहम् ॥ 25॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,25,6216,व्यास उवाच । इत्युक्तः स तया देव्या धनुरादाय दानवः । युद्धकामः स्थितस्तत्र सङ्ग्रामाङ्गणभूमिषु ॥ 26॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,26,6217,मुमोच तरसा बाणान्कर्णाकृष्टाञ्छिलाशितान् । देवी चिच्छेद तान्बाणैः क्रोधान्मुक्तैरयोमुखैः ॥ 27॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,27,6218,तयोः परस्परं युद्धं सम्बभूव भयप्रदम् । देवानां दानवानाञ्च परस्परजयैषिणाम् ॥ 28॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,28,6219,मध्ये दुर्धर आगत्य मुमोच च शिलीमुखान् । देवीं प्रति विषासक्तान्कोपयन्नतिदारुणान् ॥ 29॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,29,6220,ततो भगवती क्रुद्धा तं जघान शितैः शरैः । दुर्धरस्तु पपातोर्व्यां गतासुर्गिरिश‍ृङ्गवत् ॥ 30॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,30,6221,तं तथा निहतं दृष्ट्वा त्रिनेत्रः परमास्त्रवित् । आगत्य सप्तभिर्बाणैर्जघान परमेश्वरीम् ॥ 31॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,31,6222,अनागतांस्तु चिच्छेद देवी तान्विशिखैः शरान् । त्रिशूलेन त्रिनेत्रं तु जघान जगदम्बिका ॥ 32॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,32,6223,अन्धकस्त्वाजगामाशु हतं दृष्ट्वा त्रिलोचनम् । गदया लोहमय्याऽऽशु सिंहं विव्याध मस्तके ॥ 33॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,33,6224,सिंहस्तु नखघातेन तं हत्वा बलवत्तरम् । चखाद तरसा मांसमन्धकस्य रुषान्वितः ॥ 34॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,34,6225,तान् रणे निहतान्वीक्ष्य दानवो विस्मयं गतः । चिक्षेप तरसा बाणानतितीक्ष्णाञ्छिलाशितान् ॥ 35॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,35,6226,द्विधा चक्रे शरान्देवी तानप्राप्ताञ्छिलीमुखैः । गदया ताडयामास दैत्यं वक्षसि चाम्बिका ॥ 36॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,36,6227,स गदाभिहतो मूर्च्छामवापामरबाधकः । विषह्य पीडां पापात्मा पुनरागत्य सत्वरः ॥ 37॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,37,6228,जघान गदया सिंहं मूर्ध्नि क्रोधसमन्वितः । सिंहोऽपि नखघातेन तं ददार महासुरम् ॥ 38॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,38,6229,विहाय पौरुषं रूपं सोऽपि सिंहो बभूव ह । नखैर्विदारयामास देवीसिंहं मदोत्कटम् ॥ 39॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,39,6230,तञ्च केसरिणं वीक्ष्य देवी क्रुद्धा ह्ययोमुखैः । शरैरवाकिरत्तीक्ष्णैः क्रूरैराशीविषैरिव ॥ 40॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,40,6231,त्यक्त्वा स हरिरूपं तु गजो भूत्वा मदस्रवः । शैलश‍ृङ्गं करे कृत्वा चिक्षेप चण्डिकां प्रति ॥ 41॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,41,6232,आगच्छन्तं गिरेः श‍ृङ्गं देवी बाणैः शिलाशितैः । चकार तिलशः खण्डाञ्जहास जगदम्बिका ॥ 42॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,42,6233,उत्पत्य च तदा सिंहस्तस्य मूर्ध्नि व्यवस्थितः । नखैर्विदारयामास महिषं गजरूपिणम् ॥ 43॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,43,6234,विहाय गजरूपं च बभूवाष्टापदी तथा । हन्तुकामो हरिं कोपाद्दारुणो बलवत्तरः ॥ 44॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,44,6235,तं वीक्ष्य शरभं देवी खड्गेन सा रुषान्विता । उत्तमाङ्गे जघानाशु सोऽपि तां प्राहरत्तदा ॥ 45॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,45,6236,तयोः परस्परं युद्धं बभूवातिभयप्रदम् । माहिषं रूपमास्थाय श‍ृङ्गाभ्यां प्राहरत्तदा ॥ 46॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,46,6237,पुच्छप्रभ्रमणेनाशु श‍ृङ्गाघातैर्महासुरः । ताडयामास तन्वङ्गीं घोररूपो भयानकः ॥ 47॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,47,6238,पुच्छेन पर्वताञ्छृङ्गे गृहीत्वा भ्रामयन्बलात् । प्रेषयामास पापात्मा प्रहसन्परया मुदा ॥ 48॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,48,6239,तामुवाच बलोन्मत्तस्तिष्ठ देवि रणाङ्गणे । अद्याहं त्वां हनिष्यामि रूपयौवनभूषिताम् ॥ 49॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,49,6240,मूर्खासि मदमत्ताद्य यन्मया सह सङ्गरम् । करोषि मोहितातीव मृषा बलवती खरा ॥ 50॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,50,6241,हत्वा त्वां निहनिष्यामि देवान्कपटपण्डितान् । ये नारीं पुरतः कृत्वा जेतुमिच्छन्ति मां शठाः ॥ 51॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,51,6242,देव्युवाच । मा गर्वं कुरु मन्दात्मंस्तिष्ठ तिष्ठ रणाङ्गणे । करिष्यामि निरातङ्कान्हत्वा त्वां सुरसत्तमान् ॥ 52॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,52,6243,पीत्वाद्य माधवीं मिष्टां शातयामि रणेऽधम । देवानां दुःखदं पापं मुनीनां भयकारकम् ॥ 53॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,53,6244,व्यास उवाच । इत्युक्त्वा चषकं हैमं गहीत्वा सुरया युतम् । पपौ पुनः पुनः क्रोधाद्धन्तुकामा महासुरम् ॥ 54॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,54,6245,पीत्वा द्राक्षासवं मिष्टं शूलमादाय सत्वरा । दुद्राव दानवं देवी हर्षयन्देवतागणान् ॥ 55॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,55,6246,देवास्तां तुष्टुवुः प्रेष्णा चक्रुः कुसुमवर्षणम् । जय जीवेति ते प्रोचुर्दुन्दुभीनाञ्च निःस्वनैः ॥ 56॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,56,6247,ऋषयः सिद्धगन्धर्वाः पिशाचोरगचारणाः । किन्नराः प्रेक्ष्य सङ्ग्रामं मुदिता गगने स्थिताः ॥ 57॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,57,6248,सोऽपि नानाविधान्देहान्कृत्वा कृत्वा पुनः पुनः । मायामयाञ्जघानाजौ देवीं कपटपण्डितः ॥ 58॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,58,6249,चण्डिकापि च तं पापं त्रिशूलेन बलाद्धृदि । ताडयामास तीक्ष्णेन क्रोधादरुणलोचना ॥ 59॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,59,6250,ताडितोऽसौ पपातोर्व्यां मूर्च्छामाप मुहूर्तकम् । पुनरुत्थाय चामुण्डां पद्भ्यां वेगादताडयत् ॥ 60॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,60,6251,विनिहत्य पदाघातैर्जहास च मुहुर्मुहुः । रुराव दारुणं शब्दं देवानां भयकारकम् ॥ 61॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,61,6252,ततो देवी सहस्रारं सुनाभं चक्रमुत्तमम् । करे कृत्वा जगादोच्चैः संस्थितं महिषासुरम् ॥ 62॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,62,6253,पश्य चक्रं मदान्धाद्य तव कण्ठनिकृन्तनम् । क्षणमात्रं स्थिरो भूत्वा यमलोकं व्रजाधुना ॥ 63॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,63,6254,इत्युक्त्वा दारुणं चक्रं मुमोच जगदम्बिका । शिरश्छिन्नं रथाङ्गेन दानवस्य तदा रणे ॥ 64॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,64,6255,सुस्राव रुधिरं चोष्णं कण्ठनालाद् गिरेर्यथा । गैरिकाद्यरुणं प्रौढं प्रवाहमिव नैर्झरम् ॥ 65॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,65,6256,कबन्धस्तस्य दैत्यस्य भ्रमन्वै पतितः क्षितौ । जयशब्दश्च देवानां बभूव सुखवर्धनः ॥ 66॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,66,6257,सिंहस्त्वतिबलस्तत्र पलायनपरानथ । दानवान्भक्षयामास क्षुधार्त इव सङ्गरे ॥ 67॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,67,6258,मृते च महिषे क्रूरे दानवा भयपीडिताः । मृतशेषाश्च ये केचित्पातालं ते ययुर्नृप ॥ 68॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,68,6259,आनन्दं परमं जग्मुर्देवास्तस्मिन्निपातिते । मुनयो मानवाश्चैव ये चान्ये साधवः क्षितौ ॥ 69॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,69,6260,चण्डिकापि रणं त्यक्त्वा शुभे देशेऽथ संस्थिता । देवास्तत्राययुः शीघ्रं स्तोतुकामाः सुखप्रदाम् ॥ 70॥ 5,५.१८,अष्टादशोऽध्यायः । महिषासुरवधः ।,70,6261,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे महिषासुरवधो नामाष्टादशोऽध्यायः ॥ ५.१८॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,0,6262,व्यास उवाच । अथ प्रमुदिताः सर्वे देवा इन्द्रपुरोगमाः । महिषं निहतं दृष्ट्वा तुष्टुवुर्जगदम्बिकाम् ॥ 1॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,1,6263,देवा ऊचुः । ब्रह्मा सृजत्यवति विष्णुरिदं महेशः शक्त्या तवैव हरते ननु चान्तकाले ॥ ईशा न तेऽपि च भवन्ति तया विहीना- स्तस्मात्त्वमेव जगतः स्थितिनाशकर्त्री ॥ 2॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,2,6264,कीर्तिर्मतिः स्मृतिगती करुणा दया त्वं श्रद्धा धृतिश्च वसुधा कमलाजपा च । पुष्टिः कलाथ विजया गिरिजा जया त्वं तुष्टिः प्रमा त्वमसि बुद्धिरुमा रमा च ॥ 3॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,3,6265,विद्या क्षमा जगति कान्तिरपीह मेधा सर्वं त्वमेव विदिता भुवनत्रयेऽस्मिन् । आभिर्विना तव तु शक्तिभिराशु कर्तुं को वा क्षमः सकललोकनिवासभूमे ॥ 4॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,4,6266,त्वं धारणा ननु न चेदसि कूर्मनागौ धर्तुं क्षमौ कथमिलामपि तौ भवेताम् । पृथ्वी न चेत्त्वमसि वा गगने कथं स्था- स्यत्येतदम्ब निखिलं बहुभारयुक्तम् ॥ 5॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,5,6267,ये वा स्तुवन्ति मनुजा अमरान्विमूढा मायागुणैस्तव चतुर्मुखविष्णुरुद्रान् । शुभ्रांशुवह्नियमवायुगणेशमुख्यान् किं त्वामृते जननि ते प्रभवन्ति कार्ये ॥ 6॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,6,6268,ये जुह्वति प्रविततेऽल्पधियोऽम्ब यज्ञे वह्नौ सुरान्समधिकृत्य हविः समृद्धम् । स्वाहा न चेत्त्वमसि ते कथमापुरद्धा त्वामेव किं न हि यजन्ति ततो हि मूढाः ॥ 7॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,7,6269,भोगप्रदासि भवतीह चराचराणां स्वांशैर्ददासि खलु जीवनमेव नित्यम् । स्वीयान्सुराञ्जननि पोषयसीह यद्व- त्तद्वत्परानपि च पालयसीति हेतोः ॥ 8॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,8,6270,मातः स्वयंविरचितान्विपिने विनोदा- द्वन्ध्यान्पलाशरहितांश्च कटूंश्च वृक्षान् । नोच्छेदयन्ति पुरुषा निपुणाः कथञ्चि- त्तस्मात्त्वमप्यतितरां परिपासि दैत्यान् ॥ 9॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,9,6271,यत्त्वं तु हंसि रणमूर्ध्नि शरैरराती- न्देवाङ्गनासुरतकेलिमतीन्विदित्वा । देहान्तरेऽपि करुणारसमाददाना तत्ते चरित्रमिदमीप्सितपूरणाय ॥ 10॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,10,6272,चित्रं त्वमी यदसुभी रहिता न सन्ति त्वच्चिन्तितेन दनुजाः प्रथितप्रभावाः । येषां कृते जननि देहनिबन्धनं ते क्रीडारसस्तव न चान्यतरोऽत्र हेतुः ॥ 11॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,11,6273,प्राप्ते कलावहह दुष्टतरे च काले न त्वां भजन्ति मनुजा ननु वञ्चितास्ते । धूर्तैः पुराणचतुरैर्हरिशङ्कराणां सेवापराश्च विहितास्तव निर्मितानाम् ॥ 12॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,12,6274,ज्ञात्वा सुरांस्तव वशानसुरार्दितांश्च ये वै भजन्ति भुवि भावयुता विभग्नान् । धृत्वा करे सुविमलं खलु दीपकं ते कूपे पतन्ति मनुजा विजलेऽतिघोरे ॥ 13॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,13,6275,विद्या त्वमेव सुखदासुखदाप्यविद्या मातस्त्वमेव जननार्तिहरा नराणाम् । मोक्षार्थिभिस्तु कलिता किल मन्दधीभि- र्नाराधिता जननि भोगपरैस्तथाज्ञैः ॥ 14॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,14,6276,ब्रह्मा हरश्च हरिरप्यनिशं शरण्यं पादाम्बुजं तव भजन्ति सुरास्तथान्ये । तद्वै न येऽल्पमतयो मनसा भजन्ति भ्रान्ताः पतन्ति सततं भवसागरे ते ॥ 15॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,15,6277,चण्डि त्वदङ्घ्रिजलजोत्थरजःप्रसादै- र्ब्रह्मा करोति सकलं भुवनं भवादौ । शौरिश्च पाति खलु संहरते हरस्तु त्वां सेवते न मनुजस्त्विह दुर्भगोऽसौ ॥ 16॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,16,6278,वाग्देवता त्वमसि देवि सुरासुराणां वक्तुं न तेऽमरवराः प्रभवन्ति शक्ताः । त्वं चेन्मुखे वससि नैव यदैव तेषां यस्माद्भवन्ति मनुजा न हि तद्विहीनाः ॥ 17॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,17,6279,शप्तो हरिस्तु भृगुणा कुपितेन कामं मीनो बभूव कमठः खलु सूकरस्तु । पश्चान्नृसिंह इति यश्छलकृद्धरायां तान्सेवतां जननि मृत्युभयं न किं स्यात् ॥ 18॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,18,6280,शम्भोः पपात भुवि लिङ्गमिदं प्रसिद्धं शापेन तेन च भृगोर्विपिने गतस्य । तं ये नरा भुवि भजन्ति कपालिनं तु तेषां सुखं कथमिहापि परत्र मातः ॥ 19॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,19,6281,योऽभूद् गजाननगणाधिपतिर्महेशा- त्तं ये भजन्ति मनुजा वितथप्रपन्नाः । जानन्ति ते न सकलार्थफलप्रदात्रीं त्वां देवि विश्वजननीं सुखसेवनीयाम् ॥ 20॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,20,6282,चित्रं त्वयारिजनतापि दयार्द्रभावा- द्धत्वा रणे शितशरैर्गमिता द्युलोकम् । नोचेत्स्वकर्मनिचिते निरये नितान्तं दुःखातिदुःखगतिमापदमापतेत्सा ॥ 21॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,21,6283,ब्रह्मा हरश्च हरिरप्युत गर्वभावा- ज्जानन्ति तेऽपि विबुधा न तव प्रभावम् । केऽन्ये भवन्ति मनुजा विदितुं समर्थाः सम्मोहितास्तव गुणैरमितप्रभावैः ॥ 22॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,22,6284,क्लिश्यन्ति तेऽपि मुनयस्तव दुर्विभाव्यं पादाम्बुजं न हि भजन्ति विमूढचित्ताः । सूर्याग्निसेवनपराः परमार्थतत्त्वं ज्ञातं न तैः श्रुतिशतैरपि वेदसारम् ॥ 23॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,23,6285,मन्ये गुणास्तव भुवि प्रथितप्रभावाः कुर्वन्ति ये हि विमुखान्ननु भक्तिभावात् । लोकान्स्वबुद्धिरचितैर्विविधागमैश्च विष्ण्वीशभास्करगणेशपरान्विधाय ॥ 24॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,24,6286,कुर्वन्ति ये तव पदाद्विमुखान्नराग्र्या- न्स्वोक्तागमैर्हरिहरार्चनभक्तियोगैः । तेषां न कुप्यसि दयां कुरुषेऽम्बिके त्वं तान्मोहमन्त्रनिपुणान्प्रथयस्यलं च ॥ 25॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,25,6287,तुर्ये युगे भवति चातिबलं गुणस्य तुर्यस्य तेन मथितान्यसदागमानि । त्वां गोपयन्ति निपुणाः कवयः कलौ वै त्वत्कल्पितान्सुरगणानपि संस्तुवन्ति ॥ 26॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,26,6288,ध्यायन्ति मुक्तिफलदां भुवि योगसिद्धां विद्यां पराञ्च मुनयोऽतिविशुद्धसत्त्वाः । ते नाप्नुवन्ति जननीजठरे तु दुःखं धन्यास्त एव मनुजास्त्वयि ये विलीनाः ॥ 27॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,27,6289,चिच्छक्तिरस्ति परमात्मनि येन सोऽपि व्यक्तो जगत्सु विदितो भवकृत्यकर्ता । कोऽन्यस्त्वया विरहितः प्रभवत्यमुष्मिन् कर्तुं विहर्तुमपि सञ्चलितुं स्वशक्त्या ॥ 28॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,28,6290,तत्त्वानि चिद्विरहितानि जगद्विधातुं किं वा क्षमाणि जगदम्ब यतो जडानि । किं चेन्द्रियाणि गुणकर्मयुतानि सन्ति देवि त्वया विरहितानि फलं प्रदातुम् ॥ 29॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,29,6291,देवा मखेष्वपि हुतं मुनिभिः स्वभागं गृह्णीयुरम्ब विधिवत्प्रतिपादितं किम् । स्वाहा न चेत्त्वमसि तत्र निमित्तभूता तस्मात्त्वमेव ननु पालयसीव विश्वम् ॥ 30॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,30,6292,सर्वं त्वयेदमखिलं विहितं भवादौ त्वं पासि वै हरिहरप्रमुखान्दिगीशान् । कालेऽत्सि विश्वमपि ते चरितं भवाद्यं जानन्ति नैव मनुजाः क्व नु मन्दभाग्याः ॥ 31॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,31,6293,हत्वासुरं महिषरूपधरं महोग्रं मातस्त्वया सुरगणः किल रक्षितोऽयम् । कां ते स्तुतिं जननि मन्दधियो विदामो वेदा गतिं तव यथार्थतया न जग्मुः ॥ 32॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,32,6294,कार्यं कृतं जगति नो यदसौ दुरात्मा वैरी हतो भुवनकण्टकदुर्विभाव्यः । कीर्तिः कृता ननु जगत्सु कृपा विधेया- प्यस्मांश्च पाहि जननि प्रथितप्रभावे ॥ 33॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,33,6295,व्यास उवाच । एवं स्तुता सुरैर्देवी तानुवाच मृदुस्वरा । अन्यत्कार्यं च दुःसाध्यं ब्रुवन्तु सुरसत्तमाः ॥ 34॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,34,6296,यदा यदा हि देवानां कार्यं स्यादतिदुर्घटम् । स्मर्तव्याहं तदा शीघ्रं नाशयिष्यामि चापदम् ॥ 35॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,35,6297,देवा ऊचुः । सर्वं कृतं त्वया देवि कार्यं नः खलु साम्प्रतम् । यदयं निहतः शत्रुरस्माकं महिषासुरः ॥ 36॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,36,6298,स्मरिष्यामो यथा तेऽम्ब सदैव पदपङ्कजम् । तथा कुरु जगन्मातर्भक्तिं त्वय्यप्यचञ्चलाम् ॥ 37॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,37,6299,अपराधसहस्राणि मातैव सहते सदा । इति ज्ञात्वा जगद्योनिं न भजन्ते कुतो जनाः ॥ 38॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,38,6300,द्वौ सुपर्णो तु देहेऽस्मिंस्तयोः सख्यं निरन्तरम् । नान्यः सखा तृतीयोऽस्ति योऽपराधं सहेत हि ॥ 39॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,39,6301,तस्माज्जीवः सखायं त्वां हित्वा किं नु करिष्यति । पापात्मा मन्दभाग्योऽसौ सुरमानुषयोनिषु ॥ 40॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,40,6302,प्राप्य देहं सुदुष्प्रापं न स्मरेत्त्वां नराधमः । मनसा कर्मणा वाचा ब्रूमः सत्यं पुनः पुनः ॥ 41॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,41,6303,सुखे वाप्यथवा दुःखे त्वं नः शरणमद्भुतम् । पाहि नः सततं देवि सर्वैस्तव वरायुधैः ॥ 42॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,42,6304,अन्यथा शरणं नास्ति त्वत्पादाम्बुजरेणुतः । व्यास उवाच । एवं स्तुता सुरैर्देवी तत्रैवान्तरधीयत । विस्मयं परमं जग्मुर्देवास्तां वीक्ष्य निर्गताम् ॥ 43॥ 5,५.१९,एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।,43,6305,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देवीसान्त्वनं नामैकोनविंशोऽध्यायः ॥ ५.१९॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,0,6306,जनमेजय उवाच - अथाद्भुतं वीक्ष्य मुने प्रभावं देव्या जगच्छान्तिकरं परञ्च । न तृप्तिरस्ति द्विजवर्य श‍ृण्वतः कथामृतं ते मुखपद्मजातम् ॥ 1॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,1,6307,अन्तर्हितायां च तदा भवान्या चक्रुश्च किं देवपुरोगमास्ते । देव्याश्चरित्र परमं पवित्रं दुरापमेवाल्पपुण्यैर्नराणाम् ॥ 2॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,2,6308,कस्तृप्तिमाप्नोति कथामृतेन भिन्नोऽल्पभाग्यात्पटुकर्णरन्ध्रः । पीतेन येनामरतां प्रयाति धिक्तान्नरान् ये न पिबन्ति सादरम् ॥ 3॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,3,6309,लीलाचरित्रं जगदम्बिकाया रक्षान्वितं देवमहामुनीनाम् । संसारवार्धेस्तरणं नराणां कथं कृतज्ञा हि परित्यजेयुः ॥ 4॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,4,6310,मुक्ताश्च ये चैव मुमुक्षवश्च संसारिणो रोगयुताश्च केचित् । तेषां सदा श्रोत्रपुटैश्च पेयं सर्वार्थदं वेदविदो वदन्ति ॥ 5॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,5,6311,तथा विशेषेण मुने नृपाणां धर्मार्थकामेषु सदा रतानाम् । मुक्ताश्च यस्मात्खलु तत्पिबन्ति कथं न पेयं रहितैश्च तेभ्यः ॥ 6॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,6,6312,यैः पूजिता पूर्वभवे भवानी सत्कुन्दपुष्पैरथ चम्पकैश्च । बैल्वैर्दलैस्ते भुवि भोगयुक्ता नृपा भवन्तीत्यनुमेयमेवम् ॥ 7॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,7,6313,ये भक्तिहीना समवाप्य देहं तं मानुषं भारतभूमिभागे । यैर्नार्चिता ते धनधान्यहीना रोगान्विताः सन्ततिवर्जिताश्च ॥ 8॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,8,6314,भ्रमन्ति नित्यं किल दासभूता आज्ञाकराः केवलभारवाहाः । दिवानिशं स्वार्थपराः कदापि नैवाप्नुवन्त्यौदरपूर्तिमात्रम् ॥ 9॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,9,6315,अन्धाश्च मूका बधिराश्च खञ्जाः कुष्ठान्विता ये भुवि दुःखभाजः । तत्रानुमानं कविभिर्विधेयं नाराधिता तैः सततं भवानी ॥ 10॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,10,6316,ये राजभोगान्वितऋद्धिपूर्णाः संसेव्यमाना बहुभिर्मनुष्यैः । दृश्यन्ति ये वा विभवैः समेता- स्तैः पूजिताम्बेत्यनुमेयमेव ॥ 11॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,11,6317,तस्मात्सत्यवतीसूनो देव्याश्चरितमुत्तमम् । कथयस्व कृपां कृत्वा दयावानसि साम्प्रतम् ॥ 12॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,12,6318,हत्वा तं महिषं पापं स्तुता सम्पूजिता सुरैः । क्व गता सा महालक्ष्मीः सर्वतेजःसमुद्भवा ॥ 13॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,13,6319,कथितं ते महाभाग गतान्तर्धानमाशु सा । स्वर्गे वा मृत्युलोके वा संस्थिता भुवनेश्वरी ॥ 14॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,14,6320,लयं गता वा तत्रैव वैकुण्ठे वा समाश्रिता । अथवा हेमशैले सा तत्त्वतो मे वदाधुना ॥ 15॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,15,6321,व्यास उवाच । पूर्वं मया ते कथितं मणिद्वीपं मनोहरम् । क्रीडास्थानं सदा देव्या वल्लभं परमं स्मृतम् ॥ 16॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,16,6322,यत्र ब्रह्मा हरिः स्थाणुः स्त्रीभावं ते प्रपेदिरे । पुरुषत्वं पुनः प्राप्य स्वानि कार्याणि चक्रिरे ॥ 17॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,17,6323,यः सुधासिन्धुमध्येऽस्ति द्वीपः परमशोभनः । नानारूपैः सदा तत्र विहारं कुरुतेऽम्बिका ॥ 18॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,18,6324,स्तुता सम्पूजिता देवैः सा तत्रैव गता शिवा । यत्र सङ्क्रीडते नित्यं मायाशक्तिः सनातनी ॥ 19॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,19,6325,देवास्तां निर्गतां वीक्ष्य देवीं सर्वेश्वरीं तथा । रविवंशोद्भवं चक्रुर्भूमिपालं महाबलम् ॥ 20॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,20,6326,अयोध्याधिपतिं वीरं शत्रुघ्नं नाम पार्थिवम् । सर्वलक्षणसम्पन्नं महिषस्यासने शुभे ॥ 21॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,21,6327,दत्त्वा राज्यं तदा तस्मै देवा इन्द्रपुरोगमाः । स्वकीयैर्वाहनैः सर्वे जग्मुः स्वान्यालयानि ते ॥ 22॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,22,6328,गतेषु तेषु देवेषु पृथिव्यां पृथिवीपते । धर्मराज्यं बभूवाथ प्रजाश्च सुखितास्तथा ॥ 23॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,23,6329,पर्जन्यः कालवर्षी च धरा धान्यगुणावृता । पादपाः फलपुष्पाढ्या बभूवुः सुखदाः सदा ॥ 24॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,24,6330,गावश्च क्षीरसम्पना घटोध्न्यः कामदा नृणाम् । नद्यः सुमार्गगाः स्वच्छाः शीतोदाः खगसंयुताः ॥ 25॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,25,6331,ब्राह्मणा वेदतत्त्वाश्च यज्ञकर्मरतास्तथा । क्षत्रिया धर्मसंयुक्ता दानाध्ययनतत्पराः ॥ 26॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,26,6332,शस्त्रविद्यारता नित्यं प्रजारक्षणतत्पराः । न्यायदण्डधराः सर्वे राजानः शमसंयुताः ॥ 27॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,27,6333,अविरोधस्तु भूतानां सर्वेषां सम्बभूव ह । आकरा धनदा नृणां व्रजा गोयूथसंयुताः ॥ 28॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,28,6334,ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च नृपसत्तम । देवीभक्तिपराः सर्वे सम्बभूवुर्धरातले ॥ 29॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,29,6335,सर्वत्र यज्ञयूपाश्च मण्डपाश्च मनोहराः । मखैः पूर्णा धराश्चासन् ब्राह्मणैः क्षत्रियैः कृतैः ॥ 30॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,30,6336,पतिव्रतधरा नार्यः सुशीलाः सत्यसंयुताः । पितृभक्तिपराः पुत्रा आसन्धर्मपरायणाः ॥ 31॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,31,6337,न पाखण्डं न वाधर्मः कुत्रापि पृथिवीतले । वेदवादा शास्त्रवादा नान्ये वादास्तथाभवन् ॥ 32॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,32,6338,कलहो नैव केषाञ्चिन्न दैन्यं नाशुभा मतिः । सर्वत्र सुखिनो लोकाः काले च मरणं तथा ॥ 33॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,33,6339,सुहृदां न वियोगश्च नापदश्च कदाचन । नानावृष्टिर्न दुर्भिक्षं न मारी दुःखदा नृणाम् ॥ 34॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,34,6340,न रोगो न च मात्सर्यं न विरोधः परस्परम् । सर्वत्र सुखसम्पन्ना नरा नार्यः सुखान्विताः ॥ 35॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,35,6341,क्रीडन्ति मानवाः सर्वे स्वर्गे देवगणा इव । न चौरा न च पाखण्डा वञ्चका दम्भकास्तथा ॥ 36॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,36,6342,पिशुना लम्पटाः स्तब्धा न बभूवुस्तदा नृप । न वेदद्वेषिणः पापा मानवाः पृथिवीपते ॥ 37॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,37,6343,सर्वधर्मरता नित्यं द्विजसेवापरायणाः । त्रिधात्वात्सृष्टिधर्मस्य त्रिविधा ब्राह्मणास्ततः ॥ 38॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,38,6344,सात्त्विका राजसाश्चैव तामसाश्च तथापरे । सर्वे वेदविदो दक्षाः सात्त्विकाः सत्त्ववृत्तयः ॥ 39॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,39,6345,प्रतिग्रहविहीनाश्च दयादमपरायणाः । यज्ञास्ते सात्त्विकैरन्नैः कुर्वाणा धर्मतत्पराः ॥ 40॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,40,6346,पुरोडाशविधानैश्च पशुभिर्न कदाचन । दानमध्ययनञ्चैव यजनं तु तृतीयकम् ॥ 41॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,41,6347,त्रिकर्मरसिकास्ते वै सात्त्विका ब्राह्मणा नृप । राजसा वेदविद्वांसः क्षत्रियाणां पुरोहिताः ॥ 42॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,42,6348,षट्कर्मनिरता सर्वे विधिवन्मांसभक्षकाः । यजनं याजनं दानं तथैव च प्रतिग्रहः ॥ 43॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,43,6349,अध्ययनं तु वेदानां तथैवाध्यापनं तु षट् । तामसाः क्रोधसंयुक्ता रागद्वेषपराः पुनः ॥ 44॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,44,6350,राज्ञां कर्मकरा नित्यं किञ्चिदध्ययने रताः । महिषे निहते सर्वे सुखिनो वेदतत्पराः ॥ 45॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,45,6351,बभूवुर्व्रतनिष्णाता दानधर्मपरास्तथा । क्षत्रियाः पालने युक्ता वैश्या वणिजवृत्तयः ॥ 46॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,46,6352,कृषिवाणिज्यगोरक्षाकुसीदवृत्तयः परे । एवं प्रमुदितो लोको महिषे विनिपातिते ॥ 47॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,47,6353,अनुद्वेगः प्रजानां वै सम्बभूव धनागमः । बहुक्षीरा शुभा गावो नद्यश्चैव बहूदकाः ॥ 48॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,48,6354,वृक्षा बहुफलाश्चासन्मानवा रोगवर्जिताः । नाधयो नेतयः क्वापि प्रजानां दुःखदायकाः ॥ 49॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,49,6355,न निधनमुपयान्ति प्राणिनस्तेऽप्यकाले सकलविभवयुक्ता रोगहीनाः सदैव । निगमविहितधर्मे तत्पराश्चण्डिकाया- श्चरणसरसिजानां सेवने दत्तचित्ताः ॥ 50॥ 5,५.२०,विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।,50,6356,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे महिषवधानन्तरं पृथिवीसुखवर्णनं नाम विशोऽध्यायः ॥ ५.२०॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,0,6357,व्यास उवाच । श‍ृणु राजन् प्रवक्ष्यामि देव्याश्चरितमुत्तमम् । सुखदं सर्वजन्तूनां सर्वपापप्रणाशनम् ॥ 1॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,1,6358,यथा शुम्भो निशुम्भश्च भ्रातरौ बलवत्तरौ । बभूवतुर्महावीरौ अवध्यौ पुरुषैः किल ॥ 2॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,2,6359,बहुसेनावृतौ शूरौ देवानां दुःखदौ सदा दुराचारौ मदोत्सिक्तौ बहुदानवसंयुतौ ॥ 3॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,3,6360,हतावम्बिकया तौ तु सङ्ग्रामेऽतीव दारुणे । देवानाञ्ज हितार्थाय सर्वैः परिचरैः सह ॥ 4॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,4,6361,चण्डमुण्डौ महाबाहू रक्तबीजोऽतिदारुणः । धूम्रलोचननामा च निहतास्ते रणाङ्गणे ॥ 5॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,5,6362,तान्निहत्य सुराणां सा जहार भयमुत्तमम् । स्तुता सम्पूजिता देवैर्गिरौ हेमाचले शुभे ॥ 6॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,6,6363,राजोवाच । कावेतावसुरावादौ कथं तौ बलिनां वरौ । केन संस्थापितौ चेह स्त्रीवध्यत्वं कुतो गतौ ॥ 7॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,7,6364,तपसा वरदानेन कस्य जातौ महाबलौ । कथञ्च निहतौ सर्वं कथयस्व सविस्तरम् ॥ 8॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,8,6365,व्यास उवाच । श‍ृणु राजन्कथां दिव्यां सर्वपापप्रणाशिनीम् । देव्याश्चरितसंयुक्तां सर्वार्थफलदां शुभाम् ॥ 9॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,9,6366,पुरा शुम्भनिशुम्भौ द्वावसुरौ भूमिमण्डले । पातालतश्च सम्प्राप्तौ भ्रातरौ शुभदर्शनौ ॥ 10॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,10,6367,तौ प्राप्तयौवनौ चैव चेरतुस्तप उत्तमम् । अन्नोदकं परित्यज्य पुष्करे लोकपावने ॥ 11॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,11,6368,वर्षाणामयुतं यावद्योगविद्यापरायणौ । एकत्रैवासनं कृत्वा तेपाते परमं तपः ॥ 12॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,12,6369,तयोस्तुष्टोऽभवद् ब्रह्मा सर्वलोकपितामहः । तत्रागतश्च भगवानारुह्य वरटापतिम् ॥ 13॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,13,6370,तावुभौ च जगत्स्रष्टा दृष्ट्वा ध्यानपरौ स्थितौ । उत्तिष्ठत महाभागौ तुष्टोऽहं तपसा किल ॥ 14॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,14,6371,वाञ्छितं वां वरं कामं ददामि ब्रुवतामिह । कामदोऽहं समायातो दृष्ट्वा वां तपसो बलम् ॥ 15॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,15,6372,व्यास उवाच । इति श्रुत्वा वचस्तस्य प्रबुद्धौ तौ समाहितौ । प्रदक्षिणक्रियां कृत्वा प्रणामं चक्रतुस्तदा ॥ 16॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,16,6373,दण्डवत्प्रणिपातञ्च कृत्वा तौ दुर्बलाकृती । ऊचतुर्मधुरां वाचं दीनौ गद्गदया गिरा ॥ 17॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,17,6374,देवदेव दयासिन्धो भक्तानामभयप्रद । अमरत्वञ्च नौ ब्रह्मन्देहि तुष्टोऽसि चेद्विभो ॥ 18॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,18,6375,मरणादपरं किञ्चिद्भयं नास्ति धरातले । तस्माद्भयाच्च सन्त्रस्तौ युष्माकं शरणं गतौ ॥ 19॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,19,6376,त्राहि त्वं देवदेवेश जगत्कर्तः क्षमानिधे । परिस्फोटय विश्वात्मन् सद्यो मरणजं भयम् ॥ 20॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,20,6377,ब्रह्मोवाच । किमिदं प्रार्थनीयं वो विपरीतं तु सर्वथा । अदेयं सर्वथा सर्वैः सर्वेभ्यो भुवनत्रये ॥ 21॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,21,6378,जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । मर्यादा विहिता लोके पूर्वं विश्वकृता किल ॥ 22॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,22,6379,मर्तव्यं सर्वथा सर्वैः प्राणिभिर्नात्र संशयः । अन्यं प्रार्थयतं कामं ददामि यच्च वाञ्छितम् ॥ 23॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,23,6380,व्यास उवाच । तदाकर्ण्य वचस्तस्य सुविमृश्य च दानवौ । ऊचतुः प्रणिपत्याथ ब्रह्माणं पुरतः स्थितम् ॥ 24॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,24,6381,पुरुषैरमराद्यैश्च मानवैर्मृगपक्षिभिः । अवध्यत्वं कृपासिन्धो देहि नौ वाञ्छितं वरम् ॥ 25॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,25,6382,नारी बलवती कास्ति या नौ नाशं करिष्यति । न बिभीवः स्त्रियः कामं त्रैलोक्ये सचराचरे ॥ 26॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,26,6383,अवध्यौ भ्रातरौ स्यातां नरेभ्यः पङ्कजोद्भव । भयं न स्त्रीजनेभ्यश्च स्वभावादबला हि सा ॥ 27॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,27,6384,व्यास उवाच । इति श्रुत्वा तयोर्वाक्यं प्रददौ वाञ्छितं वरम् । ब्रह्मा प्रसन्नमनसा जगामाथ स्वमालयम् ॥ 28॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,28,6385,गतेऽथ भवने तस्मिन्दानवौ स्वगृहं गतौ । भृगुं पुरोहितं कृत्वा चक्रतुः पूजनं तदा ॥ 29॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,29,6386,शुभे दिने सुनक्षत्रे जातरूपमयं शुभम् । कृत्वा सिंहासनं दिव्यं राज्यार्थं प्रददौ मुनिः ॥ 30॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,30,6387,शुम्भाय ज्येष्ठभूताय ददौ राज्यासनं शुभम् । सेवनार्थं तदैवाशु सम्प्राप्ता दानवोत्तमाः ॥ 31॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,31,6388,चण्डमुण्डौ महावीरौ भ्रातरौ बलदर्पितौ । सम्प्राप्तौ सैन्यसंयुक्तौ रथवाजिगजान्वितौ ॥ 32॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,32,6389,धूम्रलोचननामा च तद्रूपश्चण्डविक्रमः । शुम्भञ्च भूपतिं श्रुत्वा तदागाद्बलसंयुतः ॥ 33॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,33,6390,रक्तबीजस्तथा शूरो वरदानबलाधिकः । अक्षौहिणीभ्यां संयुक्तस्तत्रैवागत्य सङ्गतः ॥ 34॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,34,6391,तस्यैकं कारणं राजन् सङ्ग्रामे युध्यतः सदा । देहाद्रुधिरसम्पातस्तस्य शस्त्राहतस्य च ॥ 35॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,35,6392,जायते च यदा भूमावुत्पद्यन्ते ह्यनेकशः । तादृशाः पुरुषाः क्रूरा बहवः शस्त्रपाणयः ॥ 36॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,36,6393,सम्भवन्ति तदाकारास्तद्रूपास्तत्पराक्रमाः । युद्धं पुनस्ते कुर्वन्ति पुरुषा रक्तसम्भवाः ॥ 37॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,37,6394,अतः सोऽपि महावीर्यः सङ्ग्रामेऽतीव दुर्जयः । अवध्यः सर्वभूतानां रक्तबीजो महासुरः ॥ 38॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,38,6395,अन्ये च बहवः शूराश्चतुरङ्गसमन्विताः । शुम्भञ्च नृपतिं मत्वा बभूवुस्तस्य सेवकाः ॥ 39॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,39,6396,असङ्ख्याता तदा जाता सेना शुम्भनिशुम्भयोः । पृथिव्याः सकलं राज्यं गृहीतं बलवत्तया ॥ 40॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,40,6397,सेनायोगं तदा कृत्वा निशुम्भः परवीरहा । जगाम तरसा स्वर्गे शचीपतिजयाय च ॥ 41॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,41,6398,चकारासौ महायुद्धं लोकपालैः समन्ततः । वृत्रहा वज्रपातेन ताडयामास वक्षसि ॥ 42॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,42,6399,स वज्राभिहतो भूमौ पपात दानवानुजः । भग्नं बलं तदा तस्य निशुम्भस्य महात्मनः ॥ 43॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,43,6400,भ्रातरं मूर्च्छितं श्रुत्वा शुम्भः परबलार्दनः । तत्रागत्य सुरान्मर्वांस्ताडयामास सायकैः ॥ 44॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,44,6401,कृतं युद्धं महत्तेन शुम्भेनाक्लिष्टकर्मणा । निर्जितास्तु सुराः सर्वे सेन्द्राः पालाश्च सर्वशः ॥ 45॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,45,6402,ऐन्द्रं पदं तदा तेन गृहीतं बलवत्तया । कल्पपादपसंयुक्तं कामधेनुसमन्वितम् ॥ 46॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,46,6403,त्रैलोक्यं यज्ञभागाश्च हृतास्तेन महात्मना । नन्दनं च वनं प्राप्य मुदितोऽभून्महासुरः ॥ 47॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,47,6404,सुधायाश्चैव पानेन सुखमाप महासुरः । कुबेरं स च निर्जित्य तस्य राज्यं चकार ह ॥ 48॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,48,6405,अधिकारं तथा भानोः शशिनश्च चकार ह । यमञ्चैव विनिर्जित्य जग्राह तत्पदं तथा ॥ 49॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,49,6406,वरुणस्य तथा राज्यं चकार वह्निकर्म च । वायोः कार्यं निशुम्भश्च चकार स्वबलान्वितः ॥ 50॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,50,6407,ततो देवा विनिर्धूता हृतराज्या हृतश्रियः । सन्त्यज्य नन्दनं सर्वे निर्ययुर्गिरिगह्वरे ॥ 51॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,51,6408,हृताधिकारास्ते सर्वे बभ्रमुर्विजने वने । निरालम्बा निराधारा निस्तेजस्का निरायुधाः ॥ 52॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,52,6409,विचेरुरमराः सर्वे पर्वतानां गुहासु च । उद्यानेषु च शून्येषु नदीनां गह्वरेषु च ॥ 53॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,53,6410,न प्रापुस्ते सुखं वापि स्थानभ्रष्टा विचेतसः । लोकपाला महाराज दैवाधीनं सुखं किल ॥ 54॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,54,6411,बलवन्तो महाभागा बहुज्ञा धनसंयुताः । काले दुःखं तथा दैन्यमाप्नुवन्ति नराधिप ॥ 55॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,55,6412,चित्रमेतन्महाराज कालस्यैव विचेष्टितम् । यः करोति नरं तावद्राजानं भिक्षुकं ततः ॥ 56॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,56,6413,दातारं याचकं चैव बलवन्तं तथाबलम् । पण्डितं विकलं कामं शूरं चातीव कातरम् ॥ 57॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,57,6414,मखानाञ्च शतं कृत्वा प्राप्येन्द्रासनमुत्तमम् । पुनर्दुःखं परं प्राप्तं कालस्य गतिरीदृशी ॥ 58॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,58,6415,कालः करोति धर्मिष्ठं पुरुषं ज्ञानसंयुतम् । तमेवातीव पापिष्ठं ज्ञानलेशविवर्जितम् ॥ 59॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,59,6416,न विस्मयोऽत्र कर्तव्यः सर्वथा कालचेष्टिते । ब्रह्मविष्णुहरादीनामपीदृक्कष्टचेष्टितम् ॥ 60॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,60,6417,विष्णुर्जननमाप्नोति सूकरादिषु योनिषु । हरः कपाली सञ्जातः कालेनैव बलीयसा ॥ 61॥ 5,५.२१,एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।,61,6418,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनं नामकविंशोऽध्यायः ॥ ५.२१॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,0,6419,व्यास उवाच । पराजिताः सुराः सर्वे राज्यं शुम्भः शशास ह । एवं वर्षसहस्रं तु जगाम नृपसत्तम ॥ 1॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,1,6420,भ्रष्टराज्यास्ततो देवाश्चिन्तामापुः सुदुस्तराम् । गुरुं दुःखातुरास्ते तु पप्रच्छुरिदमादृताः ॥ 2॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,2,6421,किं कर्तव्यं गुरो ब्रूहि सर्वज्ञस्त्वं महामुनिः । उपायोऽस्ति महाभाग दुःखस्य विनिवृत्तये ॥ 3॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,3,6422,उपचारपरा नूनं वेदमन्त्राः सहस्रशः । वाच्छितार्थकरा नूनं सूत्रैः संलक्षिताः किल ॥ 4॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,4,6423,इष्टयो विविधाः प्रोक्ताः सर्वकामफलप्रदाः । ताः कुरुष्व मुने नूनं त्वं जानासि च तत्क्रियाः ॥ 5॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,5,6424,विधिः शत्रुविनाशाय यथोद्दिष्टः सदागमे । तं कुरुष्वाद्य विधिवद्यथा नो दुःखसङ्क्षयः ॥ 6॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,6,6425,भवेदाङ्गिरसाद्यैव तथा त्वं कर्तुमर्हसि । दानवानां विनाशाय अभिचारं यथामति ॥ 7॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,7,6426,बृहस्पतिरुवाच । सर्वे मन्त्राश्च वेदोक्ता दैवाधीनफलाश्च ते । न स्वतन्त्राः सुराधीश तथैकान्तफलप्रदाः ॥ 8॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,8,6427,मन्त्राणां देवता यूयं ते तु दुःखैकभाजनम् । जाताः स्म कालयोगेन किं करोमि प्रसाधनम् ॥ 9॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,9,6428,इन्द्राग्निवरुणादीनां यजनं यज्ञकर्मसु । ते यूयं विपदं प्राप्ताः करिष्यन्ति किमिष्टयः ॥ 10॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,10,6429,अवश्यम्भाविभावानां प्रतीकारो न विद्यते । उपायस्त्वथ कर्तव्य इति शिष्टानुशासनम् ॥ 11॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,11,6430,दैवं हि बलवत्केचित्प्रवदन्ति मनीषिणः । उपायवादिनो दैवं प्रवदन्ति निरर्थकम् ॥ 12॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,12,6431,दैवं चैवाप्युपायश्च द्वावेवाभिमतौ नृणाम् । केवलं दैवमाश्रित्य न स्थातव्यं कदाचन ॥ 13॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,13,6432,उपायः सर्वथा कार्यो विचार्य स्वधिया पुनः । तस्माद् ब्रवीमि वः सर्वान्संविचार्य पुनः पुनः ॥ 14॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,14,6433,पुरा भगवती तुष्टा जघान महिषासुरम् । युष्माभिस्तु स्तुता देवी वरदानं ददावथ ॥ 15॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,15,6434,आपदं नाशयिष्यामि संस्मृता वा सदैव हि । यदा यदा वो देवेशा आपदो दैवसम्भवाः ॥ 16॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,16,6435,प्रभवन्ति तदा कामं स्मर्तव्याहं सुरैः सदा । स्मृताहं नाशयिष्यामि युष्माकं परमापदः ॥ 17॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,17,6436,तस्माद्धिमाचले गत्वा पर्वते सुमनोहरे । आराधनं चण्डिकायाः कुरुध्वं प्रेमपूर्वकम् ॥ 18॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,18,6437,मायाबीजविधानज्ञास्तत्पुरश्चरणे रताः । जानाम्यहं योगबलात्प्रसन्ना सा भविष्यति ॥ 19॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,19,6438,दुःखस्यान्तोऽद्य युष्माकं दृश्यते नात्र संशयः । तस्मिञ्छैले सदा देवी तिष्ठतीति मया श्रुतम् ॥ 20॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,20,6439,स्तुता सम्पूजिता सद्यो वाञ्छितार्थान् प्रदास्यति । निश्चयं परमं कृत्वा गच्छध्वं वै हिमालयम् ॥ 21॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,21,6440,सुराः सर्वाणि कार्याणि सा वः कामं विधास्यति । व्यास उवाच । इति तस्य वचः श्रुत्वा देवास्ते प्रययुर्गिरिम् ॥ 22॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,22,6441,हिमालयं महाराज देवीध्यानपरायणाः । मायाबीजं हृदा नित्यं जपन्तः सर्व एव हि ॥ 23॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,23,6442,नमश्चक्रुर्महामायां भक्तानामभयप्रदाम् । तुष्टुवुः स्तोत्रमन्त्रैश्च भक्त्या परमया युताः ॥ 24॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,24,6443,नमो देवि विश्वेश्वरि प्राणनाथे सदानन्दरूपे सुरानन्ददे ते । नमो दानवान्तप्रदे मानवाना- मनेकार्थदे भक्तिगम्यस्वरूपे ॥ 25॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,25,6444,न ते नामसङ्ख्यां न ते रूपमीदृ- क्तथा कोऽपि वेदादिदेवस्वरूपे । त्वमेवासि सर्वेषु शक्तिस्वरूपा प्रजासृष्टिसंहारकाले सदैव ॥ 26॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,26,6445,स्मृतिस्त्वं धृतिस्त्वं त्वमेवासि बुद्धि- र्जरा पुष्टितुष्टी धृतिः कान्तिशान्ती । सुविद्या सुलक्ष्मीर्गतिः कीर्तिमेधे त्वमेवासि विश्वस्य बीजं पुराणम् ॥ 27॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,27,6446,यदा यैः स्वरूपैः करोषीह कार्यं सुराणां च तेभ्यो नमामोऽद्य शान्त्यै । क्षमा योगनिद्रा दया त्वं विवक्षा स्थिता सर्वभूतेषु शस्तैः स्वरूपैः ॥ 28॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,28,6447,कृतं कार्यमादौ त्वया यत्सुराणां हतोऽसौ महारिर्मदान्धो हयारिः । दया ते सदा सर्वदेवेषु देवि प्रसिद्धा पुराणेषु वेदेषु गीता ॥ 29॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,29,6448,किमत्रास्ति चित्रं यदम्बा सुतं स्वं मुदा पालयेत्पोषयेत्सम्यगेव । यतस्त्वं जनित्री सुराणां सहाया कुरुष्वैकचित्तेन कार्यं समग्रम् ॥ 30॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,30,6449,न वा ते गुणानामियत्तां स्वरूपं वयं देवि जानीमहे विश्ववन्द्ये । कृपापात्रमित्येव मत्वा तथास्मा- न्भयेभ्यः सदा पाहि पातुं समर्थे ॥ 31॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,31,6450,विना बाणपातैर्विना मुष्टिघातै- र्विनाशूलखड्गैर्विना शक्तिदण्डैः । रिपून्हन्तुमेवासि शक्ता विनोदा- त्तथापीह लोकोपकाराय लीला ॥ 32॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,32,6451,इदं शाश्वतं नैव जानन्ति मूढा न कार्यं विना कारणं सम्भवेद्वा । वयं तर्कयामोऽनुमानं प्रमाणं त्वमेवासि कर्तास्य विश्वस्य चेति ॥ 33॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,33,6452,अजः सृष्टिकर्ता मुकुन्दोऽवितायं हरो नाशकृद्वै पुराणे प्रसिद्धः । न किं त्वत्प्रसूतास्त्रयस्ते युगादौ त्वमेवासि सर्वस्य तेनैव माता ॥ 34॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,34,6453,त्रिभिस्त्वं पुराराधिता देवि दत्ता त्वया शक्तिरुग्रा च तेभ्यः समग्रा । त्वया संयुतास्ते प्रकुर्वन्ति कामं जगत्पालनोत्पत्तिसंहारमेव ॥ 35॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,35,6454,ते किं न मन्दमतयो यतयो विमूढा- स्त्वां ये न विश्वजननीं समुपाश्रयन्ति । विद्यां परां सकलकामफलप्रदां तां मुक्तिप्रदां विबुधवृन्दसुवन्दिताङ्घ्रिम् ॥ 36॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,36,6455,ये वैष्णवाः पाशपताश्च सौरा दम्भास्त एव प्रतिभान्ति नूनम् । ध्यायन्ति न त्वां कमलाञ्च लज्जां कान्तिं स्थितिं कीर्तिमथापि पुष्टिम् ॥ 37॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,37,6456,हरिहरादिभिरप्यथ सेविता त्वमिह देववरैरसुरैस्तथा । भुवि भजन्ति न येऽल्पधियो नरा जननि ते विधिना खलु वञ्चिताः ॥ 38॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,38,6457,जलधिजापदपङ्कजरञ्जनं जतुरसेन करोति हरिः स्वयम् । त्रिनयनोऽपि धराधरजाङ्घ्रिपं- कजपरागनिषेवणतत्परः ॥ 39॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,39,6458,किमपरस्य नरस्य कथानकै- स्तव पदाब्जयुगं न भजन्ति के । विगतरागगृहाश्च दयां क्षमां कृतधियो मुनयोऽपि भजन्ति ते ॥ 40॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,40,6459,देवि त्वदङ्घ्रिभजने न जना रता ये संसारकूपपतिताः पतिताः किलामी । ते कुष्ठगुल्मशिराधियुता भवन्ति दारिद्र्यदैन्यसहिता रहिताः सुखौघैः ॥ 41॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,41,6460,ये काष्ठभारवहने यवसावहारे कार्ये भवन्ति निपुणा धनदारहीनाः । जानीमहेऽल्पमतिभिर्भवदङ्घ्रिसेवा पूर्वे भवे जननि तैर्न कृता कदापि ॥ 42॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,42,6461,व्यास उवाच । एवं स्तुता सुरैः सर्वैरम्बिका करुणान्विता । प्रादुर्बभूव तरसा रूपयौवनसंयुता ॥ 43॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,43,6462,दिव्याम्बरधरा देवी दिव्यभूषणभूषिता । दिव्यमाल्यसमायुक्ता दिव्यचन्दनचर्चिता ॥ 44॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,44,6463,जगन्मोहनलावण्या सर्वलक्षणलक्षिता । अद्वितीयस्वरूपा सा देवानां दर्शनं गता ॥ 45॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,45,6464,जाह्नव्यां स्नातुकामा सा निर्गता गिरिगह्वरात् । दिव्यरूपधरा देवी विश्वमोहनमोहिनी ॥ 46॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,46,6465,देवान्स्तुतिपरानाह मेघगम्भीरया गिरा । प्रेमपूर्वं स्मितं कृत्वा कोकिलामञ्जुवादिनी ॥ 47॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,47,6466,देव्युवाच । भो भोः सुरवराः कात्र भवद्भिः स्तूयते भृशम् । किमर्थं ब्रूत वः कार्यं चिन्ताविष्टाः कुतः पुनः ॥ 48॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,48,6467,व्यास उवाच । तच्छ्रुत्वा भाषितं तस्या मोहिता रूपसम्पदा । प्रेमपूर्वं हृदुत्साहास्तामूचुः सुरसत्तमाः ॥ 49॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,49,6468,देवा ऊचुः । देवि स्तुमस्त्वां विश्वेशि प्रणताः स्म कृपार्णवे । पाहि नः सर्वदुःखेभ्यः संविग्नान्दैत्यतापितान् ॥ 50॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,50,6469,पुरा त्वया महादेवि निहत्यासुरकण्टकम् । महिषं नो वरो दत्तः स्मर्तव्याहं सदापदि ॥ 51॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,51,6470,स्मरणाद्दैत्यजां पीडां नाशयिष्याम्यसंशयम् । तेन त्वं संस्मृता देवि नूनमस्माभिरित्यपि ॥ 52॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,52,6471,अद्य शुम्भनिशुम्भौ द्वावसुरौ घोरदर्शनौ । उत्पन्नौ विघ्नकर्तारावहन्यौ पुरुषैः किल ॥ 53॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,53,6472,रक्तबीजश्च बलवांश्चण्डमुण्डौ तथासुरौ । एतैरन्यैश्च देवानां हृतं राज्यं महाबलैः ॥ 54॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,54,6473,गतिरन्या न चास्माकं त्वमेवासि महाबले । कुरु कार्यं सुराणां वै दुःखितानां सुमध्यमे ॥ 55॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,55,6474,देवास्त्वदङ्घ्रिभजने निरताः सदैव ते दानवैरतिबलैर्विपदं सुनीताः । तान्देवि दुःखरहितान् कुरु भक्तियुक्ता- न्मातस्त्वमेव शरणं भव दुःखितानाम् ॥ 56॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,56,6475,सकलभुवनरक्षा देवि कार्या त्वयाद्य स्वकृतमिति विदित्वा विश्वमेतद्युगादौ । जननि जगति पीडां दानवा दर्पयुक्ताः स्वबलमदसमेतास्ते प्रकुर्वन्ति मातः ॥ 57॥ 5,५.२२,द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।,57,6476,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देवकृतदेव्याराधनवर्णनं नाम द्वाविंशोऽध्यायः ॥ ५.२२॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,0,6477,व्यास उवाच । एवं स्तुता तदा देवी दैवतैः शत्रुतापितैः । स्वशरीरात्परं रूपं प्रादुर्भूतं चकार ह ॥ 1॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,1,6478,पार्वत्यास्तु शरीराद्वै निःसृता चाम्बिका यदा । कौशिकीति समस्तेषु ततो लोकेषु पठ्यते ॥ 2॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,2,6479,निःसृतायां तु तस्यां सा पार्वती तनुव्यत्ययात् । कृष्णरूपाथ सञ्जाता कालिका सा प्रकीर्तिता ॥ 3॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,3,6480,मषीवर्णा महाघोरा दैत्यानां भयवर्धिनी । कालरात्रीति सा प्रोक्ता सर्वकामफलप्रदा ॥ 4॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,4,6481,अम्बिकायाः परं रूपं विरराज मनोहरम् । सर्वभूषणसंयुक्तं लावण्यगुणसंयुतम् ॥ 5॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,5,6482,ततोऽम्बिका तदा देवानित्युवाच ह सस्मिता । तिष्ठन्तु निर्भया यूयं हनिष्यामि रिपूनिह ॥ 6॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,6,6483,कार्यं वः सर्वथा कार्यं विहरिष्याम्यहं रणे । निशुम्भादीन्वधिष्यामि युष्माकं सुखहेतवे ॥ 7॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,7,6484,इत्युक्त्वा सा तदा देवी सिंहारूढा मदोत्कटा । कालिकां पार्श्वतः कृत्वा जगाम नगरे रिपोः ॥ 8॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,8,6485,सा गत्वोपवने तस्थावम्बिका कालिकान्विता । जगावथ कलं तत्र जगन्मोहनमोहनम् ॥ 9॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,9,6486,श्रुत्वा तन्मधुरं गानं मोहमीयुः खगा मृगाः । मुदञ्च परमां प्रापुरमरा गगने स्थिताः ॥ 10॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,10,6487,तस्मिन्नवसरे तत्र दानवौ शुम्भसेवकौ । चण्डमुण्डाभिधौ घोरौ रममाणौ यदृच्छया ॥ 11॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,11,6488,आगतौ ददृशाते तु तां तदा दिव्यरूपिणीम् । अम्बिकां गानसंयुक्तां कालिकां पुरतः स्थिताम् ॥ 12॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,12,6489,दृष्ट्वा तां दिव्यरूपाञ्च दानवौ विस्मयान्वितौ । जग्मतुस्तरसा पार्श्वं शुम्भस्य नृपसत्तम ॥ 13॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,13,6490,तौ गत्वा तं समासीनं दैत्यानामधिपं गृहे । ऊचतुर्मधुरां वाणीं प्रणम्य शिरसा नृपम् ॥ 14॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,14,6491,राजन् हिमालयात्कामं कामिनी काममोहिनी । सम्प्राप्ता सिंहमारूढा सर्वलक्षणसंयुता ॥ 15॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,15,6492,नेदृशी देवलोकेऽस्ति न गन्धर्वपुरे तथा । न दृष्टा न श्रुता क्वापि पृथिव्यां प्रमदोत्तमा ॥ 16॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,16,6493,गानञ्च तादृशं राजन् करोति जनरञ्जनम् । मृगास्तिष्ठन्ति तत्पार्श्वे मथुरस्वरमोहिताः ॥ 17॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,17,6494,ज्ञायतां कस्य पुत्रीयं किमर्थमिह चागता । गृह्यतां राजशार्दूल तव योग्यास्ति कामिनी ॥ 18॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,18,6495,ज्ञात्वाऽऽनय गृहे भार्यां कुरु कल्याणलोचनाम् । निश्चितं नास्ति संसारे नारी त्वेवंविधा किल ॥ 19॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,19,6496,देवानां सर्वरत्नानि गृहीतानि त्वया नृप । कस्मान्नेमां वरारोहां प्रगह्णासि नृपोत्तम ॥ 20॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,20,6497,इन्द्रस्यैरावतः श्रीमान्पारिजाततरुस्तथा । गृहीतोऽश्वः सप्तमुखस्त्वया नृप बलात्किल ॥ 21॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,21,6498,विमानं वैधसं दिव्यं मरालध्वजसंयुतम् । त्वयात्तं रत्नभूतं तद्बलेन नृप चाद्भुतम् ॥ 22॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,22,6499,कुबेरस्य निधिः पद्मस्त्वया राजन् समाहृतः । छत्रं जलपतेः शुभ्रं गृहीतं तत्त्वया बलात् ॥ 23॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,23,6500,पाशश्चापि निशुम्भेन भ्रात्रा तव नृपोत्तम । गृहीतोऽस्ति हठात्कामं वरुणस्य जितस्य च ॥ 24॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,24,6501,अम्लानपङ्कजां तुभ्यं मालां जलनिधिर्ददौ । भयात्तव महाराज रत्नानि विविधानि च ॥ 25॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,25,6502,मृत्योः शक्तिर्यमस्यापि दण्डः परमदारुणः । त्वया जित्वा हृतः कामं किमन्यद्वर्ण्यते नृप ॥ 26॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,26,6503,कामधेनुर्गहीताद्य वर्तते सागरोद्भवा । मेनकाद्या वशे राजंस्तव तिष्ठन्ति चाप्सराः ॥ 27॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,27,6504,एवं सर्वाणि रत्नानि त्वयात्तानि बलादपि । कस्मान्न गृह्यते कान्तारत्नमेषा वराङ्गना ॥ 28॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,28,6505,सर्वाणि ते गृहस्थानि रत्नानि विशदान्यथ । अनया सम्भविष्यन्ति रत्नभूतानि भूपते ॥ 29॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,29,6506,त्रिषु लोकेषु दैत्येन्द्र नेदृशी वर्तते प्रिया । तस्मात्तामानयाशु त्वं कुरु भार्यां मनोहराम् ॥ 30॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,30,6507,व्यास उवाच । इति श्रुत्वा तयोर्वाक्यं मधुरं मधुराक्षरम् । प्रसन्नवदनः प्राह सुग्रीवं सनिधौ स्थितम् ॥ 31॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,31,6508,गच्छ सुग्रीव दूतत्वं कुरु कार्यं विचक्षण । वक्तव्यञ्च तथा तत्र यथाभ्येति कृशोदरी ॥ 32॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,32,6509,उपायौ द्वौ प्रयोक्तव्यौ कान्तासु सुविचक्षणैः । सामदाने इति प्राहुः श‍ृङ्गाररसकोविदाः ॥ 33॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,33,6510,भेदे प्रयुज्यमानेऽपि रसाभासस्तु जायते । निग्रहे रसभङ्गः स्यात्तस्मात्तौ दूषितौ बुधैः ॥ 34॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,34,6511,सामदानमुखैर्वाक्यैः श्लक्ष्णैर्नर्मयुतैस्तथा । का न याति वशे दूत कामिनी कामपीडिता ॥ 35॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,35,6512,व्यास उवाच । सुग्रीवस्तु वचः श्रुत्वा शुम्भोक्तं सुप्रियं पटु । जगाम तरसा तत्र यत्रास्ते जगदम्बिका ॥ 36॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,36,6513,सोऽपश्यत्सुमुखीं कान्तां सिंहस्योपरिसंस्थिताम् । प्रणम्य मधुरं वाक्यमुवाच जगदम्बिकाम् ॥ 37॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,37,6514,दूत उवाच । वरोरु त्रिदशारातिः शुम्भः सर्वाङ्गसुन्दरः । त्रैलोक्याधिपतिः शूरः सर्वजिद्राजते नृपः ॥ 38॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,38,6515,तेनाहं प्रेषितः कामं त्वत्सकाशं महात्मना । त्वद्रूपश्रवणासक्तचित्तेनातिविदूयता ॥ 39॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,39,6516,वचनं तस्य तन्वङ्गि श‍ृणु प्रेमपुरःसरम् । प्रणिपत्य यथा प्राह दैत्यानामधिपस्त्वयि ॥ 40॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,40,6517,देवा मया जिताः सर्वे त्रैलोक्याधिपतिस्त्वहम् । यज्ञभागानहं कान्ते गह्णामीह स्थितः सदा ॥ 41॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,41,6518,हृतसारा कृता नूनं द्यौर्मया रत्नवर्जिता । यानि रत्नानि देवानां तानि चाहृतवानहम् ॥ 42॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,42,6519,भोक्ताहं सर्वरत्नानां त्रिषु लोकेषु भामिनि । वशानुगाः सुराः सर्वे मम दैत्याश्च मानवाः ॥ 43॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,43,6520,त्वद्गुणैः कर्णमागत्य प्रविश्य हृदयान्तरम् । त्वदधीनः कृतः कामं किङ्करोऽस्मि करोमि किम् ॥ 44॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,44,6521,त्वमाज्ञापय रम्भोरु तत्करोमि वशानुगः । दासोऽहं तव चार्वङ्गि रक्ष मां कामबाणतः ॥ 45॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,45,6522,भज मां त्वं मरालाक्षि तवाधीनं स्मराकुलम् । त्रैलोक्यस्वामिनी भूत्वा भुङ्क्ष्व भोगाननुत्तमान् ॥ 46॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,46,6523,तव चाज्ञाकरः कान्ते भवामि मरणावधि । अवध्योऽस्मि वरारोहे सदेवासुरमानुषैः ॥ 47॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,47,6524,सदा सौभाग्यसंयुक्ता भविष्यसि वरानने । यत्र ते रमते चित्तं तत्र क्रीडस्व सुन्दरि ॥ 48॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,48,6525,इति तस्य वचश्चित्ते विमृश्य मदमन्थरे । वक्तव्यं यद्भवेत्प्रेम्णा तद् ब्रूहि मधुरं वचः ॥ 49॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,49,6526,शुम्भाय चञ्चलापाङ्गि तद्ब्रवीम्यहमाशु वै । व्यास उवाच । तद्दूतवचनं श्रुत्वा स्मितं कृत्वा सुपेशलम् ॥ 50॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,50,6527,तं प्राह मधुरां वाचं देवी देवार्थसाधिका । देव्युवाच । जानाम्यहं निशुम्भं च शुम्भं चातिबलं नृपम् ॥ 51॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,51,6528,जेतारं सर्वदेवानां हन्तारञ्चैव विद्विषाम् । राशिं सर्वगुणानाञ्च भोक्तारं सर्वसम्पदाम् ॥ 52॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,52,6529,दातारं चातिशूरं च सुन्दरं मन्मथाकृतिम् । द्वात्रिंशल्लक्षणैर्युक्तमवध्यं सुरमानुषैः ॥ 53॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,53,6530,ज्ञात्वा समागतास्स्म्यत्र द्रष्टुकामा महासुरम् । रत्नं कनकमायाति स्वशोभाधिकवृद्धये ॥ 54॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,54,6531,तत्राहं स्वपतिं द्रष्टुं दूरादेवागतास्मि वै । दृष्टा मया सुराः सर्वे मानवा भुवि मानदाः ॥ 55॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,55,6532,गन्धर्वा राक्षसाश्चान्ये ये चातिप्रियदर्शनाः । सर्वे शुम्भभयाद्भीता वेपमाना विचेतसः ॥ 56॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,56,6533,श्रुत्वा शुम्भगुणानत्र प्राप्तास्म्यद्य दिदृक्षया । गच्छ दूत महाभाग ब्रूहि शुम्भं महाबलम् ॥ 57॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,57,6534,निर्जने श्लक्ष्णया वाचा वचनं वचनान्मम । त्वां ज्ञात्वा बलिनां श्रेष्ठं सुन्दराणां च सुन्दरम् ॥ 58॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,58,6535,दातारं गुणिनं शूरं सर्वविद्याविशारदम् । जेतारं सर्वदेवानां दक्षं चोग्रं कुलोत्तरम् ॥ 59॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,59,6536,भोक्तारं सर्वरत्नानां स्वाधीनं स्वबलोन्नतम् । पतिकामास्म्यहं सत्यं तव योग्या नराधिप ॥ 60॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,60,6537,स्वेच्छया नगरे तेऽत्र समायाता महामते । ममास्ति कारणं किञ्चिद्विवाहे राक्षसोत्तम ॥ 61॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,61,6538,बालभावाद्व्रतं किञ्चित्कृतं राजन्मया पुरा । क्रीडन्त्या च वयस्याभिः सहैकान्ते यदृच्छया ॥ 62॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,62,6539,स्वदेहबलदर्पेण सखीनां पुरतो रहः । मत्समानबलः शूरो रणे मां जेष्यति स्फुटम् ॥ 63॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,63,6540,तं वरिष्याम्यहं कामं ज्ञात्वा तस्य बलाबलम् । जहसुर्वचनं श्रुत्वा सख्यो विस्मितमानसाः ॥ 64॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,64,6541,किमेतया कृतं क्रूरं व्रतमद्भुतमाशु वै । तस्मात्त्वमपि राजेन्द्र ज्ञात्वा मे हीदृशं बलं । ६५॥ जित्वा मां स्वबलेनात्र वाञ्छितं कुरु चात्मनः । त्वं वा तवानुजो भ्राता समेत्य समराङ्गणे । जित्वा मां समरेणात्र विवाहं कुरु सुन्दर ॥ 66॥ 5,५.२३,त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।,65,6542,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देव्या सुग्रीवदूताय स्वव्रतकथनं नाम त्रयोविंशोऽध्यायः ॥ ५.२३॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,0,6543,व्यास उवाच । देव्यास्तद्वचनं श्रुत्वा स दूतः प्राह विस्मितः । किं ब्रूषे रुचिरापाङ्गि स्त्रीस्वभावाद्धि साहसात् ॥ 1॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,1,6544,इन्द्राद्या निर्जिता येन देवा दैत्यास्तथापरे । तं कथं समरे देवि जेतुमिच्छसि भामिनि ॥ 2॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,2,6545,त्रैलोक्ये तादृशो नास्ति यः शुम्भं समरे जयेत् । का त्वं कमलपत्राक्षि तस्याग्रे युधि साम्प्रतम् ॥ 3॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,3,6546,अविचार्य न वक्तव्यं वचनं चापि सुन्दरि । बलं स्वपरयोर्ज्ञात्वा वक्तव्यं समयोचितम् ॥ 4॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,4,6547,त्रैलोक्याधिपतिः शुम्भस्तव रूपेण मोहितः । त्वाञ्च प्रार्थयते राजा कुरु तस्येप्सितं प्रिये ॥ 5॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,5,6548,त्यक्त्वा मूर्खस्वभावं त्वं सम्मान्य वचनं मम । भज शुम्भं निशुम्भं वा हितमेतद् ब्रवीमि ते ॥ 6॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,6,6549,श‍ृङ्गारः सर्वथा सर्वैः प्राणिभिः परया मुदा । सेवनीयो बुद्धिमद्भिर्नवानामुत्तमो यतः ॥ 7॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,7,6550,नागमिष्यसि चेद् बाले सङ्क्रुद्धः पृथिवीपतिः । अन्यानाज्ञाकरान्प्रेष्य बलान्नेष्यति साम्प्रतम् ॥ 8॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,8,6551,केशेष्वाकृष्य ते नूनं दानवा बलदर्पिताः । त्वां नयिष्यन्ति वामोरु तरसा शुम्भसन्तिधौ ॥ 9॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,9,6552,स्वलज्जां रक्ष तन्वङ्गि साहसं सर्वथा त्यज । मानिता गच्छ तत्पार्श्वे मानपात्रं यतोऽसि वै ॥ 10॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,10,6553,क्व युद्धं निशितैर्बाणैः क्व सुखं रतिसङ्गजम् । सारासारं परिच्छेद्य कुरु मे वचनं पटु ॥ 11॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,11,6554,भज शुम्भं निशुम्भं वा लब्धासि परमं सुखम् । देव्युवाच । सत्यं दूत महाभाग प्रवक्तुं निपुणो ह्यसि ॥ 12॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,12,6555,निशुम्भशुम्भौ जानामि बलवन्ताविति ध्रुवम् । प्रतिज्ञा मे कृता बाल्यादन्यथा सा कथं भवेत् ॥ 13॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,13,6556,तस्माद् ब्रूहि निशुम्भञ्च शुम्भं वा बलवत्तरम् । विना युद्धं न मे भर्ता भविता कोऽपि सौष्ठवात् ॥ 14॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,14,6557,जित्वा मां तरसा कामं करं गृह्णातु साम्प्रतम् । युद्धेच्छया समायातां विद्धि मामबलां नृप ॥ 15॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,15,6558,युद्धं देहि समर्थोऽसि वीरधर्मं समाचर । बिभेषि मम शूलाच्चेत्पातालं गच्छ मा चिरम् ॥ 16॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,16,6559,त्रिदिवं च धरां त्यक्त्वा जीवितेच्छा यदस्ति ते । इति दूत वदाशु त्वं गत्वा स्वपतिमादरात् ॥ 17॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,17,6560,स विचार्य यथायुक्तं करिष्यति महाबलः । संसारे दूतधर्मोऽयं यत्सत्यं भाषणं किल ॥ 18॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,18,6561,शत्रौ पत्यौ च धर्मज्ञ तथा त्वं कुरु मा चिरम् । व्यास उवाच । अथ तद्वचनं श्रुत्वा नीतिमद्बलसंयुतम् ॥ 19॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,19,6562,हेतुयुक्तं प्रगल्पञ्च विस्मितः प्रययौ तदा । गत्वा दैत्यपतिं दूतो विचार्य च पुनः पुनः ॥ 20॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,20,6563,प्रणम्य पादयोः प्रह्वः प्रत्युवाच नृपञ्ज तम् । राजनीतिकरं वाक्यं मृदुपूर्वं प्रियं वचः ॥ 21॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,21,6564,दूत उवाच । सत्यं प्रियं च वक्तव्यं तेन चिन्तापरो ह्यहम् । सत्यं प्रियं च राजेन्द्र वचनं दुर्लभं किल ॥ 22॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,22,6565,अप्रियं वदतां कामं राजा कुप्यति सर्वथा । साक्षात्कुतः समायाता कस्य वा किम्बलाबला ॥ 23॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,23,6566,न ज्ञानगोचरं किञ्चित्किं ब्रवीमि विचेष्टितम् । युद्धकामा मया दृष्टा गर्विता कटुभाषिणी ॥ 24॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,24,6567,तया यत्कथितं सम्यक् तच्छृणुष्व महामते । मया बाल्यात्प्रतिज्ञेयं कृता पूर्वं विनोदतः ॥ 25॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,25,6568,सखीनां पुरतः कामं विवाहं प्रति सर्वथा । यो मां युद्धे जयेदद्धा दर्पञ्च विधुनोति वै ॥ 26॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,26,6569,तं वरिष्याम्यहं कामं पतिं समबलं किल । न मे प्रतिज्ञा मिथ्या सा कर्तव्या नृपसत्तम ॥ 27॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,27,6570,तस्माद्युध्यस्व धर्मज्ञ जित्वा मां स्ववशं कुरु । तयेति व्याहृतं वाक्यं श्रुत्वाहं समुपागतः ॥ 28॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,28,6571,यथेच्छसि महाराज तथा कुरु तव प्रियम् । सा युद्धार्थं कृतमतिः सायुधा सिंहगामिनी ॥ 29॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,29,6572,निश्चला वर्तते भूप यद्योग्यं तद्विधीयताम् । व्यास उवाच । इत्याकर्ण्य वचस्तस्य सुग्रीवस्य नराधिपः ॥ 30॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,30,6573,पप्रच्छ भ्रातरंशूरं समीपस्थं महाबलम् । शुम्भ उवाच । भ्रातः किमत्र कर्तव्यं ब्रूहि सत्यं महामते ॥ 31॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,31,6574,नार्येका योद्धुकामास्ति समाह्वयति साम्प्रतम् । अहं गच्छामि सङ्ग्रामे त्वं वा गच्छ बलान्वितः ॥ 32॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,32,6575,यद्रोचते निशुम्भात्र तत्कर्तव्यं मया किल । निशुम्भ उवाच । न मया न त्वया वीर गन्तव्यं रणमूर्धनि ॥ 33॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,33,6576,प्रेषयस्व महाराज त्वरितं धूम्रलोचनम् । स गत्वा तां रणे जित्वा गृहीत्वा चारुलोचनाम् ॥ 34॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,34,6577,आगमिष्यति शुम्भात्र विवाहः संविधीयताम् । व्यास उवाच । तन्निशम्य वचस्तस्य शुम्भो भ्रातुः कनीयसः ॥ ३५ कोपात्सम्प्रेषयामास पार्श्वस्थं धूम्रलोचनम् । शुम्भ उवाच । धूम्रलोचन गच्छाशु सैन्येन महताऽऽवृतः ॥ 36॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,35,6578,गृहीत्वाऽऽनय तां मुग्धां स्ववीर्यमदमोहिताम् । देवो वा दानवो वापि मनुष्यो वा महाबलः ॥ 37॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,36,6579,तत्पार्ष्णिग्राहतां प्राप्तो हन्तव्यस्तरसा त्वया । तत्पार्श्ववर्तिनीं कालीं हत्वा सङ्गृह्य तां पुनः ॥ 38॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,37,6580,शीघ्रमत्र समागच्छ कृत्वा कार्यमनुत्तमम् । रक्षणीया त्वया साध्वी मुञ्चन्ती मृदुमार्गणान् ॥ 39॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,38,6581,यत्नेन महता वीर मृदुदेहा कृशोदरी । तत्सहायाश्च हन्तव्या ये रणे शस्त्रपाणयः ॥ 40॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,39,6582,सर्वथा सा न हन्तव्या रक्षणीया प्रयत्नतः । व्यास उवाच । इत्यादिष्टस्तदा राज्ञा तरसा धूम्रलोचनः ॥ 41॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,40,6583,प्रणम्य शुम्भं सैन्येन भूतः शीघ्रं ययौ रणे । असाधूनां सहस्राणां षष्ट्या तेषां वृतस्तथा ॥ 42॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,41,6584,स ददर्श ततो देवीं रम्योपवनसंस्थिताम् । दृष्ट्वा तां मृगशावाक्षीं विनयेन समन्वितः ॥ 43॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,42,6585,उवाच वचनं श्लक्ष्णं हेतुमद्रसभूषितम् । श‍ृणु देवि महाभागे शुम्भस्त्वद्विरहातुरः ॥ 44॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,43,6586,दूतं प्रेषितवान्पार्श्वे तव नीतिविशारदः । रसभङ्गभयोद्विग्नः सामपूर्वं त्वयि स्वयम् ॥ 45॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,44,6587,तेनागत्य वचः प्रोक्तं विपरीतं वरानने । वचसा तेन मे भर्ता चिन्ताविष्टमना नृपः ॥ 46॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,45,6588,बभूव रसमार्गज्ञे शुम्भः कामविमोहितः । दूतेन तेन न ज्ञातं हेतुगर्भं वचस्तव ॥ 47॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,46,6589,यो मां जयति सङ्ग्रामे यदुक्तं कठिनं वचः । न ज्ञातस्तेन सङ्ग्रामो द्विविधः खलु मानिनि ॥ 48॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,47,6590,रतिजोऽथोत्साहजश्च पात्रभेदे विवक्षितः । रतिजस्त्वयि वामोरु शत्रोरुत्साहजः स्मृतः ॥ 49॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,48,6591,सुखदः प्रथमः कान्ते दुःखदश्चारिजः स्मृतः । जानाम्यहं वरारोहे भवत्या मानसं किल ॥ 50॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,49,6592,रतिसङ्ग्रामभावस्ते हृदये परिवर्तते । इति तज्ज्ञं विदित्वा मां त्वत्सकाशं नराधिपः ॥ 51॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,50,6593,प्रेषयामास शुम्भोऽद्य बलेन महताऽऽवृतम् । चतुरासि महाभागे श‍ृणु मे वचनं मृदु ॥ 52॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,51,6594,भज शुम्भं त्रिलोकेशं देवदर्पनिबर्हणम् । पट्टराज्ञी प्रिया भूत्वा भुङ्क्ष्व भोगाननुत्तमान् ॥ 53॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,52,6595,जेष्यति त्वां महाबाहुः शुम्भः कामबलार्थवित् । विचित्रान्कुरु हावांस्त्वं सोऽपि भावान्करिष्यति ॥ 54॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,53,6596,भविष्यति कालिकेयं तत्र वै नर्मसाक्षिणी । एवं सङ्गरयोगेन पतिर्मे परमार्थवित् ॥ 55॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,54,6597,जित्वा त्वां सुखशय्यायां परिश्रान्तां करिष्यति । रक्तदेहां नखाघातैर्दन्तैश्च खण्डिताधराम् ॥ 56॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,55,6598,स्वेदक्लिन्नां प्रभग्नां त्वां संविधास्यति भूपतिः । भविता मानसः कामो रतिसङ्ग्रामजस्तव ॥ 57॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,56,6599,दर्शनाद्वश एवास्ते शुम्भः सर्वात्मना प्रिये । वचनं कुरु मे पथ्यं हितकृच्चापि पेशलम् ॥ 58॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,57,6600,भज शुम्भं गणाध्यक्षं माननीयातिमानिनी । मन्दभाग्याश्च ते नूनं ह्यस्त्रयुद्धप्रियाश्च ये ॥ 59॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,58,6601,न तदर्हासि कान्ते त्वं सदा सुरतवल्लभे । अशोकं कुरु राजानं पादाघातविकासितम् ॥ 60॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,59,6602,बकुलं सीधुसेकेन तथा कुरबकं कुरु ॥ 61॥ 5,५.२४,चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।,60,6603,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणं नाम चतुर्विंशोऽध्यायः ॥ ५.२४॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,0,6604,व्यास उवाच । इत्युक्त्वा विररामासौ वचनं धूम्रलोचनः । प्रत्युवाच तदा काली प्रहस्य ललितं वचः ॥ 1॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,1,6605,विदूषकोऽसि जाल्म त्वं शैलूष इव भाषसे । वृथा मनोरथांश्चित्ते करोषि मधुरं वदन् ॥ 2॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,2,6606,बलवान्बलसंयुक्तः प्रेषितोऽसि दुरात्मना । कुरु युद्धं वृथा वादं मुञ्च मूढमतेऽधुना ॥ 3॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,3,6607,हत्वा शुम्भं निशुम्भञ्च त्वदन्यान्वा बलाधिकान् । देवी क्रुद्धा शराघातैर्व्रजिष्यति निजालयम् ॥ 4॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,4,6608,क्वासौ मन्दमतिः शुम्भः क्व वा विश्वविमोहिनी । अयुक्तः खलु संसारे विवाहविधिरेतयोः ॥ 5॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,5,6609,सिंही किं त्वतिकामार्ता जम्बुकं कुरुते पतिम् । करिणी गर्दभं वापि गवयं सुरभिः किमु ॥ 6॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,6,6610,गच्छ शुम्भं निशुम्भं च वद सत्यं वचो मम । कुरु युद्धं न चेद्याहि पातालं तरसाधुना ॥ 7॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,7,6611,व्यास उवाच । कालिकायावचः श्रुत्वा स दैत्यो धूम्रलोचनः । तामुवाच महाभाग क्रोधसंरक्तलोचनः ॥ 8॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,8,6612,दुर्दर्शे त्वां निहत्याजौ सिंहञ्च मदगर्वितम् । गृहीत्वैनां गमिष्यामि राजानं प्रत्यहं किल ॥ 9॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,9,6613,रसभङ्गभयात्कालि बिभेमि त्विह साम्प्रतम् । नोचेत्त्वां निशितैर्बाणैर्हन्म्यद्य कलहप्रिये ॥ 10॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,10,6614,कालिकोवाच । किं विकत्थसि मन्दात्मन्नायं धर्मो धनुष्मताम् । स्वशक्त्या मुञ्च विशिखान्गन्तासि यमसंसदि ॥ 11॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,11,6615,व्यास उवाच । तच्छ्रुत्वा वचनं दैत्यः सङ्गृह्य कार्मुकं दृढम् । कालिकां तां शरासारैर्ववर्षातिशिलाशितैः ॥ 12॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,12,6616,देवास्तु प्रेक्षकास्तत्र विमानवरसंस्थिताः । तां स्तुवन्तो जयेत्यूचुर्देवीं शक्रपुरोगमाः ॥ 13॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,13,6617,तयोः परस्परं युद्धं प्रवृत्तं चातिदारुणम् । बाणखड्गगदाशक्तिमुसलादिभिरुत्कटम् ॥ 14॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,14,6618,कालिका बाणपातैस्तु हत्वा पूर्वं खरानथ । बभञ्ज तद्रथं व्यूढं जहास च मुहुर्मुहुः ॥ 15॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,15,6619,स चान्यं रथमारूढः कोपेन प्रज्वलन्निव । बाणवृष्टिं चकारोग्रां कालिकोपरि भारत ॥ 16॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,16,6620,सापि चिच्छेद तरसा तस्य बाणानसङ्गतान् । मुमोचान्यानुग्रवेगान्दानवोपरि कालिका ॥ 17॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,17,6621,तैर्बाणैर्निहतास्तस्य पार्ष्णिग्राहा सहस्रशः । बभञ्ज च रथं वेगात्सूतं हत्वा खरानपि ॥ 18॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,18,6622,चिच्छेद तद्धनुः सद्यो बाणैरुरगसन्निभैः । मुदं चक्रे सुराणां सा शङ्खनादं तथाकरोत् ॥ 19॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,19,6623,विरथः परिघं गृह्य सर्वलोहमयं दृढम् । आजगाम रथोपस्थं कुपितो धूम्रलोचनः ॥ 20॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,20,6624,वाचा निर्भर्त्सयन्कालीं करालः कालसन्निभः । अद्यैव त्वां हनिष्यामि कुरूपे पिङ्गलोचने ॥ 21॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,21,6625,इत्युक्त्वा सहसाऽऽगत्य परिघं क्षिपते यदा । हुङ्कारेणैव तं भस्म चकार तरसाम्बिका ॥ 22॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,22,6626,दृष्ट्वा भस्मीकृतं दैत्यं सैनिका भयविह्वलाः । चक्रुः पलायनं सद्यो हा तातेत्यब्रुवन्पथि ॥ 23॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,23,6627,देवास्तं निहतं दृष्ट्वा दानवं धूम्रलोचनम् । मुमुचुः पुष्पवृष्टिं ते मुदिता गगने स्थिताः ॥ 24॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,24,6628,रणभूमिस्तदा राजन् दारुणा समपद्यत । निहतैर्दानवैरश्वैः खरैश्च वारणैस्तथा ॥ 25॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,25,6629,गृध्राः काका वटाः श्येना वरफा जम्बुकास्तथा । ननृतुश्चुक्रुशुः प्रेतान्पतितान् रणभूमिषु ॥ 26॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,26,6630,अम्बिका तद्रणस्थानं त्यक्त्वा दूरं स्थलान्तरे । गत्वा चकार चाप्युग्रं शङ्खनादं भयप्रदम् ॥ 27॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,27,6631,तं श्रुत्वा दरशब्दं तु शुम्भः सद्मनि संस्थितः । दृष्ट्वाथ दानवान्भग्नानागतान् रुधिरोक्षितान् ॥ 28॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,28,6632,छिन्नपादकराक्षांश्च मञ्चकारोपितानपि । भग्नपृष्ठकटिग्रीवान्क्रन्दमानाननेकशः ॥ 29॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,29,6633,वीक्ष्य शुम्भो निशुम्भश्च क्व गतो धूम्रलोचनः । कथं भग्नाः समायाता नानीता किं वरानना ॥ 30॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,30,6634,सैन्यं कुत्र गतं मन्दाः कथयन्तु यथोचितम् । कस्यायं शङ्खनादोऽद्य श्रूयते भयवर्धनः ॥ 31॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,31,6635,गणा ऊचुः । बलञ्च पातितं सर्वं निहतो धूम्रलोचनः । कृतं कालिकया कर्म रणभूमावमानुषम् ॥ 32॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,32,6636,शङ्खनादोऽम्बिकायास्तु गगनं व्याप्य राजते । हर्षदः सुरसङ्घानां दानवानाञ्च शोककृत् ॥ 33॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,33,6637,यदा निपातिताः सर्वे तेन केसरिणा विभो । रथा भग्ना हयाश्चैव बाणपातैर्विनाशिताः ॥ 34॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,34,6638,गगनस्थाः सुराश्चक्रुः पुष्पवृष्टिं मुदान्विताः । दृष्ट्वा भग्नं बलं सर्वं पातितं धूम्रलोचनम् ॥ 35॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,35,6639,निश्चयस्तु कृतोऽस्माभिर्जयो नैव भवेदिति । विचारं कुरु राजेन्द्र मन्त्रिभिर्मन्त्रवित्तमैः ॥ 36॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,36,6640,विस्मयोऽयं महाराज यदेका जगदम्बिका । भवद्भिः सह युद्धाय संस्थिता सैन्यवर्जिता ॥ 37॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,37,6641,निर्भयैकाकिनी बाला सिंहारूढा मदोत्कटा । चित्रमेतन्महाराज भासतेऽद्भुतमञ्जसा ॥ 38॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,38,6642,सन्धिर्वा विग्रहो वाद्य स्थानं निर्याणमेव च । मन्त्रयित्वा महाराज कुरु कार्यं यथारुचि ॥ 39॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,39,6643,तत्सन्निधौ बलं नास्ति तथापि शत्रुतापन । पार्ष्णिग्राहा सुराः सर्वे भविष्यन्ति किलापदि ॥ 40॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,40,6644,समये तत्समीपस्थौ ज्ञातौ च हरिशङ्करौ । लोकपालाः समीपेऽद्य वर्तन्ते गगने स्थिताः ॥ 41॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,41,6645,रक्षोगणाश्च गन्धर्वाः किन्नरा मानुषास्तथा । तत्सहायाश्च मन्तव्याः समये सुरतापन ॥ 42॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,42,6646,अस्माकं मतिमानेन ज्ञायते सर्वथेदृशम् । अम्बिकायाः सहायाशा तत्कार्याशा न काचन ॥ 43॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,43,6647,एका नाशयितुं शक्ता जगत्सर्वं चराचरम् । का कथा दानवानां तु सर्वेषामिति निश्चयः ॥ 44॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,44,6648,इति ज्ञात्वा महाभाग यथारुचि तथा कुरु । हितं सत्यं मितं वाक्यं वक्तव्यमनुयायिभिः ॥ 45॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,45,6649,व्यास उवाच । तच्छ्रुत्वा वचनं तेषां शुम्भः परबलार्दनः । कनीयांसं समानीय पप्रच्छ रहसि स्थितः ॥ 46॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,46,6650,भ्रातः कालिकयाद्यैव निहतो धूम्रलोचनः । बलञ्च शातितं सर्वं गणा भग्नाः समागताः ॥ 47॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,47,6651,अम्बिका शङ्खनादं वै करोति मदगर्विता । ज्ञानिनां चैव दुर्ज्ञेया गतिः कालस्य सर्वथा ॥ 48॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,48,6652,तृणं वज्रायते नूनं वज्रं चैव तृणायते । बलवान्बलहीनः स्याद्दैवस्य गतिरीदृशी ॥ 49॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,49,6653,पृच्छामि त्वां महाभाग किं कर्तव्यमितः परम् । अभोग्या चाम्बिका नूनं कारणादत्र चागता ॥ 50॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,50,6654,युक्तं पलायनं वीर युद्धं वा वद सत्वरम् । लघुं ज्येष्ठं विजानामि त्वामहं कार्यसङ्कटे ॥ 51॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,51,6655,निशुम्भ उवाच । न वा पलायनं युक्तं न दुर्गग्रहणं तथा । युद्धमेव परं श्रेयः सर्वथैवानयानघ ॥ 52॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,52,6656,ससैन्योऽहं गमिष्यामि रणे तु प्रवराश्रितः । हत्वा तामागमिष्यामि तरसा त्वबलामिमाम् ॥ 53॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,53,6657,अथवा बलवद्दैवादन्यथा चेद्भविष्यति । मृते मयि त्वया कार्यं विमृश्य च पुनः पुनः ॥ 54॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,54,6658,इति तस्य वचः श्रुत्वा शुम्भः प्रोवाच चानुजम् । तिष्ठ त्वं चण्डमुण्डौ द्वौ गच्छेतां बलसंयुतौ ॥ 55॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,55,6659,शशकग्रहणायात्र न युक्तं गजमोचनम् । चण्डमुण्डौ महावीरौ तां हन्तुं सर्वथा क्षमौ ॥ 56॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,56,6660,इत्युक्त्वा भ्रातरं शुम्भः सम्भाष्य च महाबलौ । उवाच वचनं राजा चण्डमुण्डौ पुरःस्थितौ ॥ 57॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,57,6661,गच्छतं चण्डमुण्डौ द्वौ स्वसैन्यपरिवारितौ । हन्तुं तामबलां शीघ्रं निर्लज्जां मदगर्विताम् ॥ 58॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,58,6662,गृहीत्वाथ निहत्याजौ कालिकां पिङ्गलोचनाम् । आगम्यतां महाभागौ कृत्वा कार्यं महत्तरम् ॥ 59॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,59,6663,सा नायाति गृहीतापि गर्विता चाम्बिका यदि । तदा बाणैर्महातीक्ष्णैर्हन्तव्याहवमण्डिता ॥ 60॥ 5,५.२५,पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।,60,6664,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देव्यासह युद्धाय चण्डमुण्डप्रेषणं नाम पञ्चविंशोऽध्यायः ॥ ५.२५॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,0,6665,व्यास उवाच । इत्याज्ञप्तौ तदा वीरौ चण्डमुण्डौ महाबलौ । जग्मतुस्तरसैवाजौ सैन्येन महतान्वितौ ॥ 1॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,1,6666,दृष्ट्वा तत्र स्थितां देवीं देवानां हितकारिणीम् । ऊचतुस्तौ महावीर्यौ तदा सामान्वितं वचः ॥ 2॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,2,6667,बाले त्वं किं न जानासि शुम्भं सुरबलार्दनम् । निशुम्भञ्च महावीर्यं तुराषाड्विजयोद्धतम् ॥ 3॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,3,6668,त्वमेकासि वरारोहे कालिकासिंहसंयुता । जेतुमिच्छसि दुर्बुद्धे शुम्भं सर्वबलान्वितम् ॥ 4॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,4,6669,मतिदः कोऽपि ते नास्ति नारी वापि नरोऽपि वा । देवास्त्वां प्रेरयन्त्येव विनाशाय तवैव ते ॥ 5॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,5,6670,विमृश्य कुरु तन्वङ्गि कार्यं स्वपरयोर्बलम् । अष्टादशभुजत्वात्त्वं गर्वञ्च कुरुषे मृषा ॥ 6॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,6,6671,किं भुजैर्बहुभिर्व्यर्थैरायुधैः किं श्रमप्रदैः । शुम्भस्याग्रे सुराणां वै जेतुः समरशालिनः ॥ 7॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,7,6672,ऐरावतकरच्छेत्तुर्दन्तिदारणकारिणः । जयिनः सुरसङ्घानां कार्यं कुरु मनोगतम् ॥ 8॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,8,6673,वृथा गर्वायसे कान्ते कुरु मे वचनं प्रियम् । हितं तव विशालाक्षि सुखदं दुःखनाशनम् ॥ 9॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,9,6674,दुःखदानि च कार्याणि त्याज्यानि दूरतो बुधैः । सुखदानि च सेव्यानि शास्त्रतत्त्वविशारदैः ॥ 10॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,10,6675,चतुरासि पिकालापे पश्य शुम्भबलं महत् । प्रत्यक्षं सुरसङ्घानां मर्दनेन महोदयम् ॥ 11॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,11,6676,प्रत्यक्षञ्च परित्यज्य वृथैवानुमितिः किल । सन्देहसहिते कार्ये न विपश्चित्प्रवर्तते ॥ 12॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,12,6677,शत्रुः सुराणां परमः शुम्भः समरदुर्जयः । तस्मात्त्वां प्रेरयन्त्यत्र देवा दैत्येशपीडिताः ॥ 13॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,13,6678,तस्मात्तद्वचनैः स्निग्धैर्वञ्चितासि शुचिस्मिते । दुःखाय तव देवानां शिक्षा स्वार्थस्य साधिका ॥ 14॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,14,6679,कार्यमित्रं परिक्षिप्य धर्ममित्रं समाश्रयेत् । देवाः स्वार्थपराः कामं त्वामहं सत्यमब्रुवम् ॥ 15॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,15,6680,भज शुम्भं सुरेशानं जेतारं भुवनेश्वरम् । चतुरं सुन्दरं शूरं कामशास्त्रविशारदम् ॥ १६ ऐश्वर्यं सर्वलोकानां प्राप्स्यसे शुम्भशासनात् । निश्चयं परमं कृत्वा भर्तारं भज शोभनम् ॥ 17॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,16,6681,व्यास उवाच । इति तस्य वचः श्रुत्वा चण्डस्य जगदम्बिका । मेघगम्भीरनिनदं जगर्ज पुनरब्रवीत् ॥ 18॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,17,6682,गच्छ जाल्म मृषा किं त्वं भाषसे वञ्चकं वचः । त्यक्त्वा हरिहरादींश्च शुम्भं कस्माद्भजे पतिम् ॥ 19॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,18,6683,न मे कश्चित्पतिः कार्यो न कार्यं पतिना सह । स्वामिनी सर्वभूतानामहमेव निशामय ॥ 20॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,19,6684,शुम्भा मे बहवो दृष्टा निशुम्भाश्च सहस्रशः । घातिताश्च मया पूर्वं शतशो दैत्यदानवाः ॥ 21॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,20,6685,ममाग्रे देववृन्दानि विनष्टानि युगे युगे । नाशं यास्यन्ति दैत्यानां यूथानि पुनरद्य वै ॥ 22॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,21,6686,काल एवागतोऽस्त्यत्र दैत्यसंहारकारकः । वृथा त्वं कुरुषे यत्नं रक्षणायात्मसन्ततेः ॥ 23॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,22,6687,कुरु युद्धं वीरधर्मरक्षायै त्वं महामते । मरणं भावि दुस्त्याज्यं यशो रक्ष्यं महात्मभिः ॥ 24॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,23,6688,किं ते कार्यं निशुम्भेन शुम्भेन च दुरात्मना । वीरधर्मं परं प्राप्य गच्छ स्वर्गं सुरालयम् ॥ 25॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,24,6689,शुम्भो निशुम्भश्चैवान्ये ये चात्र तव बान्धवाः । सर्वे तवानुगाः पश्चादागमिष्यन्ति साम्प्रतम् ॥ 26॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,25,6690,क्रमशः सर्वदैत्यानां करिष्याम्यद्य सङ्क्षयम् । विषादं त्यज मन्दात्मन् कुरु युद्धं विशाम्पते ॥ 27॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,26,6691,त्वामहं निहनिष्यामि भ्रातरं तव साम्प्रतम् । ततः शुम्भं निशुम्भं च रक्तबीजं मदोत्कटम् ॥ 28॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,27,6692,अन्यांश्च दानवान्सर्वान्हत्वाहं समराङ्गणे । गमिष्यामि यथास्थानं तिष्ठ वा गच्छ वा द्रुतम् ॥ 29॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,28,6693,गृहाणास्त्रं वृथापुष्ट कुरु युद्धं मयाधुना । किं जल्पसि मृषा वाक्यं सर्वथा कातरप्रियम् ॥ 30॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,29,6694,व्यास उवाच । तयेत्थं प्रेरितौ दैत्यौ चण्डमुण्डौ क्रुधान्वितौ । ज्याशब्दं तरसा घोरं चक्रतुर्बलदर्पितौ ॥ 31॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,30,6695,सापि शङ्खस्वनं चक्रे पूरयन्ती दिशो दश । सिंहोऽपि कुपितस्तावन्नादं समकरोद्बली ॥ 32॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,31,6696,तेन नादेन शक्राद्या जहर्षुरमरास्तदा । मुनयो यक्षगन्धर्वाः सिद्धाः साध्याश्च किन्नराः ॥ 33॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,32,6697,युद्धं परस्परं तत्र जातं कातरभीतिदम् । चण्डिकाचण्डयोस्तीव्रं बाणखड्गगदादिभिः ॥ 34॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,33,6698,चण्डमुक्ताञ्छरान्देवी चिच्छेद निशितैः शरैः । मुमोच पुनरुग्रान्सा बाणांश्च पन्नगानिव ॥ 35॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,34,6699,गगनं छादितं तत्र सङ्ग्रामे विशिखैस्तदा । शलभैरिव मेघान्ते कर्षकाणां भयप्रदैः ॥ 36॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,35,6700,मुण्डोऽपि सैनिकैः सार्धं पपात तरसा रणे । मुमोच बाणवृष्टिं वै क्रुद्धः परमदारुणः ॥ 37॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,36,6701,बाणजालं महद् दृष्ट्वा कुद्धा तत्राम्बिका भृशम् । कोपेन वदनं तस्या बभूव घनसन्निभम् ॥ 38॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,37,6702,कदलीपुष्पनेत्रञ्च भृकुटीकुटिलं तदा । निष्क्रान्ता च तदा काली ललाटफलकाद्द्रुतम् ॥ 39॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,38,6703,व्याघ्रचर्माम्बरा क्रूरा गजचर्मोत्तरीयका । मुण्डमालाधरा घोरा शुष्कवापीसमोदरा ॥ 40॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,39,6704,खड्गपाशधरातीव भीषणा भयदायिनी । खट्वाङ्गधारिणी रौद्रा कालरात्रिरिवापरा ॥ 41॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,40,6705,विस्तीर्णवदना जिह्वां चालयन्ती मुहुर्मुहुः । विस्तारजघना वेगाज्जघानासुरसैनिकान् ॥ 42॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,41,6706,करे कृत्वा महावीरांस्तरसा सा रुषान्विता । मुखे चिक्षेप दैतेयान्पिपेष दशनैः शनैः ॥ 43॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,42,6707,गजान्घण्टान्वितान्हस्ते गृहीत्वा निदधौ मुखे । सारोहान्भक्षयित्वाजौ साट्टहासं चकार ह ॥ 44॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,43,6708,तथैव तुरगानुष्ट्रांस्तथा सारथिभिः सह । निक्षिप्य वक्त्त्रे दशनैश्चर्वयत्यतिभैरवम् ॥ 45॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,44,6709,हन्यमानं बलं प्रेक्ष्य चण्डमुण्डौ महासुरौ । छादयामासतुर्देवीं बाणासारैरनन्तरैः ॥ 46॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,45,6710,चण्डश्चण्डकरच्छायं चक्रं चक्रधरायुधम् । चिक्षेप तरसा देवीं ननाद च मुहुर्मुहुः ॥ 47॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,46,6711,नदन्तं वीक्ष्य तं काली रथाङ्गञ्च रविप्रभम् । बाणेनैकेन चिच्छेद सुप्रभं तत्सुदर्शनम् ॥ 48॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,47,6712,तं जघान शरैस्तीक्ष्णैश्चण्डं चण्डी शिलाशितैः । मूर्च्छितोऽसौ पपातोर्व्यां देवीबाणार्दितो भृशम् ॥ 49॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,48,6713,पतितं भ्रातरं वीक्ष्य मुण्डो दुःखार्दितस्तदा । चकार शरवृष्टिञ्च कालिकोपरि कोपतः ॥ 50॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,49,6714,चण्डिका मुण्डनिर्मुक्तां शरवृष्टिं सुदारुणाम् । ईषिकास्त्रैर्बलान्मुक्तैश्चकार तिलशः क्षणात् ॥ 51॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,50,6715,अर्धचन्द्रेण बाणेन ताडयामास तं पुनः । पतितोऽसौ महावीर्यो मेदिन्यां मदवर्जितः ॥ 52॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,51,6716,हाहाकारो महानासीद्दानवानां बले तदा । जहर्षुरमराः सर्वे गगनस्था गतव्यथाः ॥ 53॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,52,6717,विहाय मूर्च्छां चण्डस्तु सङ्गृह्य महतीं गदाम् । तरसा ताडयामास कालिकां दक्षिणे भुजे ॥ 54॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,53,6718,वञ्चयित्वा गदाघातं तं बबन्ध महासुरम् । तरसा बाणपाशेन मन्त्रमुक्तेन कालिका ॥ 55॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,54,6719,उत्थितस्तु तदा मुण्डो बद्धं दृष्ट्वानुजं बलात् । आजगाम सुसन्नद्धः शक्तिं कृत्वा करे दृढाम् ॥ 56॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,55,6720,आगच्छन्तं तदा काली दानवं वीक्ष्य सत्वरम् । बबन्ध तरसा तं तु द्वितीयं भ्रातरं भृशम् ॥ 57॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,56,6721,गृहीत्वा तौ महावीर्यौ चण्डमुण्डौ शशाविव । कुर्वती विपुलं हासमाजगामाम्बिकां प्रति ॥ 58॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,57,6722,आगत्य तामथोवाच गृहाणेमौ पशू प्रिये । रणयज्ञार्थमानीतौ दानवौ रणदुर्जयौ ॥ 59॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,58,6723,तावानीतौ तदा वीक्ष्य चण्डिका तौ वृकाविव । अम्बिका कालिकां प्राह माधुरीसंयुतं वचः ॥ 60॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,59,6724,वधं मा कुरु मा मुञ्च चतुरासि रणप्रिये । देवानां कार्यसंसिद्धिः कर्तव्या तरसा त्वया ॥ 61॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,60,6725,व्यास उवाच । इति तस्या वचः श्रुत्वा कालिका प्राह तां पुनः । युद्धयज्ञेऽतिविख्याते खड्गयूपे प्रतिष्ठिते ॥ 62॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,61,6726,आलम्भञ्च करिष्यामि यथा हिंसा न जायते । इत्युक्त्वा सा तदा देवी खड्गेन शिरसी तयोः ॥ 63॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,62,6727,चकर्त तरसा काली पपौ च रुधिरं मुदा । एवं दैत्यौ हतौ दृष्ट्वा मुदितोवाच चाम्बिका ॥ 64॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,63,6728,कृतं कार्यं सुराणां ते ददाम्यद्य वरं शुभम् । चण्डमुण्डौ हतौ यस्मात्तस्मात्ते नाम कालिके । चामुण्डेति सुविख्यातं भविष्यति धरातले ॥ 65॥ 5,५.२६,षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।,64,6729,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनं नाम षड्विंशोऽध्यायः ॥ ५.२६॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,0,6730,व्यास उवाच । हतौ तौ दानवौ दृष्ट्वा हतशेषाश्च सैनिकाः । पलायनं ततः कृत्वा जग्मुः सर्वे नृपं प्रति ॥ 1॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,1,6731,भिन्नाङ्गा विशिखैः केचित्केचिच्छिन्नकरास्तथा । रुधिरस्रावदेहाश्च रुदन्तोऽभिययुः पुरे ॥ 2॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,2,6732,गत्वा दैत्यपतिं सर्वे चक्रुर्बुम्बारवं मुहुः । रक्ष रक्ष महाराज भक्षयत्यद्य कालिका ॥ 3॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,3,6733,तया हतौ महावीरौ चण्डमुण्डौ सुरार्दनौ । भक्षिताः सैनिकाः सर्वे वयं भग्ना भयातुराः ॥ 4॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,4,6734,भीतिदञ्च रणस्थानं कृतं कालिकया प्रभो । पातितैर्गजवीराश्वैर्दासेरकपदातिभिः ॥ 5॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,5,6735,शोणितौघवहा कुल्या कृता मांसातिकर्दमा । केशशैवलिनी भग्नरथचक्रविराजिता ॥ 6॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,6,6736,छिन्नबाह्वादिमत्स्याढ्या शीर्षतुम्बीफलान्विता । भयदा कातराणां वै सुराणां मोदवर्धिनी ॥ 7॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,7,6737,कुलं रक्ष महाराज पातालं गच्छ सत्वरम् । क्रुद्धा देवी क्षयं सद्यः करिष्यति न संशयः ॥ 8॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,8,6738,सिंहोऽपि भक्षयत्याजौ दानवान्दनुजेश्वर । तथैव कालिका देवी हन्ति बाणैरनेकधा ॥ 9॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,9,6739,तस्मात्त्वमपि राजेन्द्र मरणाय मृषा मतिम् । करोषि सहितो भ्रात्रा शुम्भेन कुपिताशयः ॥ 10॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,10,6740,किं करिष्यति नार्येषा क्रूरा कुलविनाशिनी । यस्या हेतोर्महाराज हन्तुमिच्छसि बान्धवान् ॥ 11॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,11,6741,दैवाधीनौ महाराज लोके जयपराजयौ । अल्पार्थाय महद्दुःखं बुद्धिमान्न प्रकल्पयेत् ॥ 12॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,12,6742,चित्रं पश्य विधेः कर्म यदधीनं जगत् प्रभो । निहता राक्षसाः सर्वे स्त्रिया पश्यैकयानया ॥ 13॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,13,6743,जेता त्वं लोकपालानां सैन्ययुक्तो हि साम्प्रतम् । एका प्रार्थयते बाला युद्धायेति सुसम्भ्रमः ॥ 14॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,14,6744,पुरा त्वया तपस्तप्तं पुष्करे देवतायने । वरदानाय सम्प्राप्तो ब्रह्मा लोकपितामहः ॥ 15॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,15,6745,धात्रोक्तस्त्वं महाराज वरं वरय सुव्रत । तदा त्वयामरत्वं च प्रार्थितं ब्रह्मणः किल ॥ 16॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,16,6746,देवदैत्यमनुष्येभ्यो न भवेन्मरणं मम । सर्पकिन्नरयक्षेभ्यः पुंल्लिङ्गवाचकादपि ॥ 17॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,17,6747,तस्मात्त्वां हन्तुकामैषा प्राप्ता योषिद्वरा प्रभो । युद्धं मा कुरु राजेन्द्र विचार्यैवं धियाधुना ॥ 18॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,18,6748,देवी ह्येषा महामाया प्रकृतिः परमा मता । कल्पान्तकाले राजेन्द्र सर्वसंहारकारिणी ॥ 19॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,19,6749,उत्पादयित्री लोकानां देवानामीश्वरी शुभा । त्रिगुणा तामसी देवी सर्वशक्तिसमन्विता ॥ 20॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,20,6750,अजय्या चाक्षया नित्या सर्वज्ञा च सदोदिता । वेदमाता च गायत्री सन्ध्या सर्वसुरालया ॥ 21॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,21,6751,निर्गुणा सगुणा सिद्धा सर्वसिद्धिप्रदाव्यया । आनन्दानन्ददा गौरी देवानामभयप्रदा ॥ 22॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,22,6752,एवं ज्ञात्वा महाराज वैरभावं त्यजानया । शरणं व्रज राजेन्द्र देवी त्वां पालयिष्यति ॥ 23॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,23,6753,आज्ञाकरो भवैतस्याः सञ्जीवय निजं कुलम् । हतशेषाश्च ये दैत्यास्ते भवन्तु चिरायुषः ॥ 24॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,24,6754,व्यास उवाच । इति तेषां वचः श्रुत्वा शुम्भः सुरबलार्दनः । उवाच वचनं तथ्यं वीरवर्यगुणान्वितम् ॥ 25॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,25,6755,शुम्भ उवाच । मौनं कुर्वन्तु भो मन्दा यूयं भग्ना रणाजिरात् । शीघ्रं गच्छत पातालं जीविताशा बलीयसी ॥ 26॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,26,6756,दैवाधीनं जगत्सर्वं का चिन्तात्र जये मम । देवास्तथैव ब्रह्माद्या दैवाधीना वयं यथा ॥ 27॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,27,6757,ब्रह्मा विष्णुश्च रुद्रोऽयं यमोऽग्निर्वरुणस्तथा । सूर्यश्चन्द्रस्तथा शक्रः सर्वे दैववशाः किल ॥ 28॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,28,6758,का चिन्ता तर्हि मे मन्दा यद्भावि तद्भविष्यति । उद्यमस्तादृशो भूयाद्यादृशी भवितव्यता ॥ 29॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,29,6759,सर्वथैव विचार्यैव न शोचन्ति बुधाः क्वचित् । स्वधर्मं न त्यजन्तीह ज्ञानिनो मरणाद्भयात् ॥ 30॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,30,6760,सुखं दुःखं तथैवायुर्जीवितं मरणं नृणाम् । काले भवति सम्प्राप्ते सर्वथा दैवनिर्मितम् ॥ 31॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,31,6761,ब्रह्मा पतति काले स्वे विष्णुश्च पार्वतीपतिः । नाशं गच्छन्त्यायुषोऽन्ते सर्वे देवाः सवासवाः ॥ 32॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,32,6762,तथाहमपि कालस्य वशगः सर्वथाधुना । नाशं जयं वा गन्तास्मि स्वधर्मपरिपालनात् ॥ 33॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,33,6763,आहूतोऽप्यनया कामं युद्धायाबलया किल । कथं पलायनपरो जीवेयं शरदां शतम् ॥ 34॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,34,6764,करिष्याम्यद्य सङ्ग्रामं यद्भावि तद्भवत्विह । जयो वा मरणं वापि स्वीकरोमि यथा तथा ॥ 35॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,35,6765,दैवं मिथ्येति विद्वांसो वदन्त्युद्यमवादिनः । युक्तियुक्तं वचस्तेषां ये जानन्त्यभिभाषितम् ॥ 36॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,36,6766,उद्यमेन विना कामं न सिध्यन्ति मनोरथाः । कातरा एव जल्पन्ति यद्भाव्यं तद्भविष्यति ॥ 37॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,37,6767,अदृष्टं बलवन्मूढाः प्रवदन्ति न पण्डिताः । प्रमाणं तस्य सत्त्वे किमदृश्यं दृश्यते कथम् ॥ 38॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,38,6768,अदृष्टं क्त्वापि दृष्टं स्यादेषा मूर्खविभीषिका । अवलम्बं विनैवैषा दुःखे चित्तस्य धारणा ॥ 39॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,39,6769,चक्रीसमीपे संविष्टा संस्थिता पिष्टकारिणी । उद्यमेन विना पिष्टं न भवत्येव सर्वथा ॥ 40॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,40,6770,उद्यमे च कृते कार्यं सिद्धिं यात्येव सर्वथा । कदाचित्तस्य न्यूनत्वे कार्यं नैव भवेदपि ॥ 41॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,41,6771,देशं कालञ्च विज्ञाय स्वबलं शत्रुजं बलम् । कृतं कार्यं भवत्येव बृहस्पतिवचो यथा ॥ 42॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,42,6772,व्यास उवाच । इति निश्चित्य दैत्येन्द्रो रक्तबीजं महासुरम् । प्रेषयामास सङ्ग्रामे सैन्येन महताऽऽवृतम् ॥ 43॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,43,6773,शुम्भ उवाच । रक्तबीज महाबाहो गच्छ त्वं समराङ्गणे । कुरु युद्धं महाभाग यथा ते बलमाहितम् ॥ 44॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,44,6774,रक्तबीज उवाच । महाराज न ते कार्या चिन्ता स्वल्पतरापि वा । अहमेनां हनिष्यामि करिष्यामि वशे तव ॥ 45॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,45,6775,पश्य मे युद्धचातुर्यं क्वेयं बाला सुरप्रिया । दासीं तेऽहं करिष्यामि जित्वेमां समरे बलात् ॥ 46॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,46,6776,व्यास उवाच । इत्याभाष्य कुरुश्रेष्ठ रक्तबीजो महासुरः । जगाम रथमारुह्य स्वसैन्यपरिवारितः ॥ 47॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,47,6777,हस्त्यश्वरथपादातवृन्दैश्च परिवेष्टितः । निर्जगाम रथारूढो देवीं शैलोपरिस्थिताम् ॥ 48॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,48,6778,तमागतं समालोक्य देवी शङ्खमवादयत् । भयदं सर्वदैत्यानां देवानां मोदवर्धनम् ॥ 49॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,49,6779,श्रुत्वा शङ्खस्वनं चोग्रं रक्तबीजोऽतिवेगवान् । गत्वा समीपे चामुण्डां बभाषे वचनं मृदु ॥ 50॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,50,6780,रक्तबीज उवाच । बाले किं मां भीषयसि मत्वा त्वं कातरं किल । शङ्खनादेन तन्वङ्गि वेत्सि किं धूम्रलोचनम् ॥ 51॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,51,6781,रक्तबीजोऽस्मि नाम्नाहं त्वत्सकाशमिहागतः । युद्धेच्छा चेत्पिकालापे सज्जा भव भयं न मे ॥ 52॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,52,6782,पश्याद्य मे बलं कान्ते दृष्टा ये कातरास्त्वया । नाहं पङ्क्तिगतस्तेषां कुरु युद्धं यथेच्छसि ॥ 53॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,53,6783,वृद्धाश्च सेविताः पूर्वं नीतिशास्त्रं श्रुतं त्वया । पतितं चार्थविज्ञानं विद्वद्गोष्ठी कृताथ वा ॥ 54॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,54,6784,साहित्यतन्त्रविज्ञानं चेदस्ति तव सुन्दरि । श‍ृणु मे वचनं पथ्यं तथ्यं प्रमितिबृंहितम् ॥ 55॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,55,6785,रसानाञ्च नवानां वै द्वावेव मुख्यतां गतौ । श‍ृङ्गारकः शान्तिरसो विद्वज्जनसभासु च ॥ 56॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,56,6786,तयोः श‍ृङ्गार एवादौ नृपभावे प्रतिष्ठितः । विष्णुर्लक्ष्म्या सहास्ते वै सावित्र्या चतुराननः ॥ 57॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,57,6787,शच्येन्द्रः शैलसुतया शङ्करः सह शेरते । वल्ल्या वृक्षो मृगो मृग्या कपोत्या च कपोतकः ॥ 58॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,58,6788,एवं सर्वे प्राणभृतः संयोगरसिका भृशम् । अप्राप्तभोगविभवा ये चान्ये कातरा नराः ॥ 59॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,59,6789,भवन्ति यतयस्ते वै मूढा दैवेन वञ्चिताः । असंसाररसज्ञास्ते वञ्चिता वञ्चनापरैः ॥ 60॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,60,6790,मधुरालापनिपुणै रताः शान्तिरसे हि ते । क्व ज्ञानं क्व च वैराग्यं वर्तमाने मनोभवे ॥ 61॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,61,6791,लोभे क्रोधे च दुर्धर्षे मोहे मतिविनाशके । तस्मात्त्वमपि कल्याणि कुरु कान्तं मनोहरम् ॥ 62॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,62,6792,शुम्भं सुराणां जेतारं निशुम्भं वा महाबलम् । व्यास उवाच । इत्युक्त्वा रक्तबीजोऽसौ विरराम पुरःस्थितः । श्रुत्वा जहास चामुण्डा कालिका चाम्बिका तथा ॥ 63॥ 5,५.२७,सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,63,6793,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनं नाम सस्तविंशोऽध्यायः ॥ ५.२७॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,0,6794,व्यास उवाच । कृत्वा हास्यं ततो देवी तमुवाच विशाम्पते । मेघगम्भीरया वाचा युक्तियुक्तमिदं वचः ॥ 1॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,1,6795,पूर्वमेव मया प्रोक्तं मन्दात्मन् किं विकत्थसे । दूतस्याग्रे यथायोग्यं वचनं हितसंयुतम् ॥ 2॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,2,6796,सदृशो मम रूपेण बलेन विभवेन च । त्रिलोक्यां यदि कोऽपि स्यात्तं पतिं प्रवृणोम्यहम् ॥ 3॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,3,6797,ब्रूहि शुम्भं निशुम्भञ्च प्रतिज्ञा मे पुरा कृता । तस्माद्युध्यस्व जित्वा मां विवाहं विधिवत्कुरु ॥ 4॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,4,6798,त्वं वै तदाज्ञया प्राप्तस्तस्य कार्यार्थसिद्धये । सङ्ग्रामं कुरु पातालं गच्छ वा पतिना सह ॥ 5॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,5,6799,व्यास उवाच । तच्छ्रुत्वा वचनं देव्याः स दैत्योऽमर्षपूरितः । मुमोच तरसा बाणान्सिंहस्योपरि दारुणान् ॥ 6॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,6,6800,अम्बिका ताच्छरान्वीक्ष्य गगने पन्नगोपमान् । चिच्छेद सायकैस्तीक्ष्णैर्लघुहस्ततया क्षणात् ॥ 7॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,7,6801,अन्यैर्जघान विशिखै रक्तबीजं महासुरम् । अम्बिकाचापनिर्मुक्तैः कर्णाकृष्टैः शिलाशितैः ॥ 8॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,8,6802,देवीबाणहतः पापो मूर्च्छामाप रथोपरि । पतिते रक्तबीजे तु हाहाकारो महानभूत् ॥ 9॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,9,6803,सैनिकाश्चुक्रुशुः सर्वे हताः स्म इति चाब्रुवन् । ततो बुम्बारवं श्रुत्वा शुम्भः परमदारुणम् ॥ 10॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,10,6804,उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह । शुम्भ उवाच । निर्यान्तु दानवाः सर्वे काम्बोजाः स्वबलैर्वृताः ॥ 11॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,11,6805,अन्येऽप्यतिबलाः शूराः कालकेया विशेषतः । व्यास उवाच । इत्याज्ञप्तं बलं सर्वं शुम्भेन च चतुर्विधम् ॥ 12॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,12,6806,निर्जगाम मदाऽऽविष्टं देवीसमरमण्डले । तमागतं समालोक्य चण्डिका दानवं बलम् ॥ 13॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,13,6807,घण्टानादं चकाराशु भीषणं भयदं मुहुः । ज्यास्वनं शङ्खनादञ्च चकार जगदम्बिका ॥ 14॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,14,6808,तेन नादेन सा जाता काली विस्तारितानना । श्रुत्वा तन्निनदं घोरं सिंहो देव्याश्च वाहनम् ॥ 15॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,15,6809,जगर्ज सोऽपि बलवाञ्जनयन्भयमद्भुतम् । तन्निनादमुपश्रुत्य दानवाः क्रोधमूर्च्छिताः ॥ 16॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,16,6810,सर्वे चिक्षिपुरस्त्राणि देवीं प्रति महाबलाः । तस्मिन्नेवायते युद्धे दारुणे लोमहर्षणे ॥ 17॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,17,6811,ब्रह्मादीनाञ्च देवानां शक्तयश्चण्डिकां ययुः । यस्य देवस्य यद्रूपं यथा भूषणवाहनम् ॥ 18॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,18,6812,तादृग्रूपास्तदा देव्यः प्रययुः समराङ्गणे । ब्रह्माणी वरटारूढा साक्षसूत्रकमण्डलुः ॥ 19॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,19,6813,आगता ब्रह्मणः शक्तिर्ब्रह्माणीति प्रतिश्रुता । वैष्णवी गरुडारूढा शङ्खचक्रगदाधरा ॥ 20॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,20,6814,पद्महस्ता समायाता पीताम्बरविभूषिता । शाङ्करी तु वृषारूढा त्रिशूलवरधारिणी ॥ 21॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,21,6815,अर्धचन्द्रधरा देवी तथाहिवलया शिवा । कौमारी शिखिसंरूढा शक्तिहस्ता वरानना ॥ 22॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,22,6816,युद्धकामा समायाता कार्तिकेयस्वरूपिणी । इन्द्राणी सुष्ठुवदना सुश्वेतगजवाहना ॥ 23॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,23,6817,वज्रहस्तातिरोषाढ्या सङ्ग्रामाभिमुखी ययौ । वाराही शूकराकारा प्रौढप्रेतासना मता ॥ 24॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,24,6818,नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः । याम्या च महिषारूढा दण्डहस्ता भयप्रदा ॥ 25॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,25,6819,समायाताथ सङ्ग्रामे यमरूपा शुचिस्मिता । तथैव वारुणी शक्तिः कौबेरी च मदोत्कटा ॥ 26॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,26,6820,एवंविधास्तथाऽऽकारा ययुः स्वस्वबलैर्वृताः । आगतास्ताः समालोक्य देवी मुदमवाप च ॥ 27॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,27,6821,स्वस्था मुमुदिरे देवा दैत्याश्च भयमाययुः । ताभिः परिवृतस्तत्र शङ्करो लोकशङ्करः ॥ 28॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,28,6822,समागम्य च सङ्ग्रामे चण्डिकामित्युवाच ह । हन्यन्तामसुराः शीघ्रं देवानां कार्यसिद्धये ॥ 29॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,29,6823,निशुम्भं चैव शुम्भं च ये चान्ये दानवाः स्थिताः । हत्वा दैत्यबलं सर्वं कृत्वा च निर्भयं जगत् ॥ 30॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,30,6824,स्वानि स्वानि च धिष्ण्यानि समागच्छन्तु शक्तयः । देवा यज्ञभुजः सन्तु ब्राह्मणा यजने रताः ॥ 31॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,31,6825,प्राणिनः सन्तु सन्तुष्टाः सर्वे स्थावरजङ्गमाः । शमं यान्तु तथोत्पाता ईतयश्च तथा पुनः ॥ 32॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,32,6826,घनाः काले प्रवर्षन्तु कृषिर्बहुफला तथा । व्यास उवाच । एवं ब्रुवति देवेशे शङ्करे लोकशङ्करे ॥ 33॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,33,6827,चण्डिकाया शरीरात्तु निर्गता शक्तिरद्भुता । भीषणातिप्रचण्डा च शिवाशतनिनादिनी ॥ 34॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,34,6828,घोररूपाथ पञ्चास्यमित्युवाच स्मितानना । देवदेव व्रजाशु त्वं दैत्यानामधिपं प्रति ॥ 35॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,35,6829,दूतत्वं कुरु कामारे ब्रूहि शुम्भं स्मराकुलम् । निशुम्भञ्च मदोत्सिक्तं वचनान्मम शङ्कर ॥ 36॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,36,6830,मुक्त्वा त्रिविष्टपं यात यूयं पातालमाशु वै । देवाः स्वर्गे सुखं यान्तु तुराषाट् स्वासनं शभम् ॥ 37॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,37,6831,प्राप्नोतु त्रिदिवं स्थानं यज्ञभागांश्च देवताः । जीवितेच्छा च युष्माकं यदि स्यात्तु महत्तरा ॥ 38॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,38,6832,तर्हि गच्छत पातालं तरसा यत्र दानवाः । अथवा बलमास्थाय युद्धेच्छा मरणाय चेत् ॥ 39॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,39,6833,तदाऽऽगच्छन्तु तृप्यन्तु मच्छिवाः पिशितेन वः । व्यास उवाच । तच्छ्रुत्वा वचनं तस्याः शूलपाणिस्त्वरान्वितः ॥ 40॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,40,6834,गत्वाऽऽह दैत्यराजानं शुम्भं सदसि संस्थितम् । शिव उवाच । राजन् दूतोऽहमम्बायास्त्रिपुरान्तकरो हरः ॥ 41॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,41,6835,त्वत्सकाशमिहायातो हितं कर्तुं तवाखिलम् । त्यक्त्वा स्वर्गं तथा भूमिं यूयं गच्छत सत्वरम् ॥ 42॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,42,6836,पातालं यत्र प्रह्लादो बलिश्च बलिनां वरः । अथवा मरणेच्छा चेत्तर्ह्यागच्छत सत्वरम् ॥ 43॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,43,6837,सङ्ग्रामे वो हनिष्यामि सर्वानेवाहमाशु वै । इत्युवाच महाराज्ञी युष्मत्कल्याणहेतवे ॥ 44॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,44,6838,व्यास उवाच । इति दैत्यवरान्देवीवाक्यं पीयूषसन्निभम् । हितकृच्छ्रावयित्वा स प्रत्यायातश्च शूलभृत् ॥ 45॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,45,6839,ययासौ प्रेरितः शम्भुर्दूतत्वे दानवान्प्रति । शिवदूतीति विख्याता जाता त्रिभुवनेऽखिले ॥ 46॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,46,6840,तेऽपि श्रुत्वा वचो देव्याः शङ्करोक्तं तुदुष्करम् । युद्धाय निर्ययुः शीघ्रं दंशिताः शस्त्रपाणयः ॥ 47॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,47,6841,तरसा रणमागत्य चण्डिकां प्रति दानवाः । निर्जघ्नुश्च शरैस्तीक्ष्णैः कर्णाकृष्टैः शिलाशितैः ॥ 48॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,48,6842,कालिका शूलपातैस्तान् गदाशक्तिविदारितान् । कुर्वन्ती व्यचरत्तत्र भक्षयन्ती च दानवान् ॥ 49॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,49,6843,कमण्डलुजलाक्षेपगतप्राणान् महाबलान् । ब्रह्माणी चाकरोत्तत्र दानवान्समराङ्गणे ॥ 50॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,50,6844,माहेश्वरी वृषारूढा त्रिशूलेनातिरंहसा । जघान दानवान्सङ्ख्ये पातयामास भूतले ॥ 51॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,51,6845,वैष्णवी चक्रपातेन गदापातेन दानवान् । गतप्राणांश्चकाराशु चोत्तमाङ्गविवर्जितान् ॥ 52॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,52,6846,ऐन्द्री वज्रप्रहारेण पातयामास भूतले । ऐरावतकराघातपीडितान्दैत्यपुङ्गवान् ॥ 53॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,53,6847,वाराही तुण्डघातेन दंष्ट्राग्रपातनेन च । जघान क्रोधसंयुक्ता शतशो दैत्यदानवान् ॥ 54॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,54,6848,नारसिंही नखैस्तीव्रैर्दारितान्दैत्यपुङ्गवान् । भक्षयन्ती चचाराजौ ननाद च मुहुर्मुहुः ॥ 55॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,55,6849,शिवदूती अट्टहासैः पातयामास भूतले । तांश्चखादाथ चामुण्डा कालिका च त्वरान्विता ॥ 56॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,56,6850,शिखिसंस्था च कौमारी कर्णाकृष्टैः शिलाशितैः । निजघान रणे शत्रून्देवानां च हिताय वै ॥ 57॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,57,6851,वारुणी पाशसम्बद्धान्दैत्यान्समरमस्तके । पातयामास तत्पृष्ठे मूर्च्छितान्गतचेतनान् ॥ 58॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,58,6852,एवं मातृगणेनाजावतिवीर्यपराक्रमम् । मर्दितं दानवं सैन्यं पलायनपरं ह्यभूत् ॥ 59॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,59,6853,बुम्बारवस्तु सुमहानभूत्तत्र बलार्णवे । पुष्पवृष्टिं तदा देवाश्चक्रुर्देव्या गणोपरि ॥ 60॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,60,6854,तच्छ्रुत्वा निनदं घोरं जयशब्दं च दानवाः । रक्तबीजश्चुकोपाशु दृष्ट्वा दैत्यान्पलायितान् ॥ 61॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,61,6855,गर्जमानांस्तथा देवान्वीक्ष्य दैत्यो महाबलः । रक्तबीजस्तु तेजस्वी रणमभ्याययौ तदा ॥ 62॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,62,6856,सायुधो रथसंविष्टः कुर्वञ्ज्याशब्दमद्भुतम् । आजगाम तदा देवीं क्रोधरक्तेक्षणोद्यतः ॥ 63॥ 5,५.२८,अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।,63,6857,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे रक्तबीजेन देव्या युद्धवर्णनं नामाष्टाविशोऽध्यायः ॥ ५.२८॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,0,6858,व्यास उवाच । वरदानमिदं तस्य दानवस्य शिवार्पितम् । अत्यद्भुततरं राजञ्छ्रुणु तत्प्रब्रवीम्यहम् ॥ 1॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,1,6859,तस्य देहाद्रक्तबिन्दुर्यदा पतति भूतले । समुत्पतन्ति दैतेयास्तद्रूपास्तत्पराक्रमाः ॥ 2॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,2,6860,असङ्ख्याता महावीर्या दानवा रक्तसम्भवाः । प्रभवन्त्विति रुद्रेण दत्तोऽस्त्यत्यद्भुतो वरः ॥ 3॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,3,6861,स तेन वरदानेन दर्पितः क्रोधसंयुतः । अभ्यगात्तरसा सङ्ख्ये हन्तुं देवीं सकालिकाम् ॥ 4॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,4,6862,स दृष्ट्वा वैष्णवीं शक्तिं गरुडोपरिसंस्थिताम् । शक्त्या जघान दैत्येन्द्रस्तां वै कमललोचनाम् ॥ 5॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,5,6863,गदया वारयामास शक्तिः सा शक्तिसंयुता । अताडयच्च चक्रेण रक्तबीजं महासुरम् ॥ 6॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,6,6864,रथाङ्गहतदेहात्तु बहु सुस्राव शोणितम् । वज्राहतगिरेः श‍ृङ्गान्निर्झरा इव गैरिका ॥ 7॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,7,6865,यत्र यत्र यदा भूमौ पतन्ति रक्तबिन्दवः । समुत्तस्थुस्तदाकाराः पुरुषाश्च सहस्रशः ॥ 8॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,8,6866,ऐन्द्री तमसुरं घोरं वज्रेणाभिजघान च । रक्तबीजं क्रुधाऽऽविष्टा निःससार च शोणितम् ॥ 9॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,9,6867,ततस्तत्क्षतजाज्जाता रक्तबीजा ह्यनेकशः । तद्वीर्याश्च तदाकारा सायुधा युद्धदुर्मदाः ॥ 10॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,10,6868,ब्रह्माणी ब्रह्मदण्डेन कुपिता ह्यहनद् भृशम् । माहेश्वरी त्रिशूलेन दारयामास दानवम् ॥ 11॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,11,6869,नारसिंही नखाघातैस्तं विव्याध महासुरम् । अहनत्तुण्डघातेन क्रुद्धा तं राक्षसाधमम् ॥ 12॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,12,6870,कौमारी च तथा शक्त्या वक्षस्येनमताडयत् । सोऽपि क्रुद्धः शरासारैर्बिभेद निशितैश्च ताः ॥ 13॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,13,6871,गदाशक्तिप्रहारैस्तु मातॄः सर्वाः पृथक्पृथक् । शक्तयस्तं शराघातैर्विव्यधुस्तत्प्रकोपिताः ॥ 14॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,14,6872,तस्य शस्त्राणि चिच्छेद चण्डिका स्वशरैः शितैः । जघानान्यैश्च विशिखैस्तं देवी कुपिता भृशम् ॥ 15॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,15,6873,तस्य देहाच्च सुस्राव रुधिरं बहुधा तु यत् । तस्मात्तत्सदृशाः शूराः प्रादुरासन्सहस्रशः ॥ 16॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,16,6874,रक्तबीजैर्जगद्व्याप्तं रुधिरौघसमुद्भवैः । सन्नद्धैः सायुधैः कामं कुर्वद्भिर्युद्धमद्भुतम् ॥ 17॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,17,6875,प्रहरन्तश्च तान्दृष्ट्वा रक्तबीजाननेकशः । भयभीताः सुरास्त्रेसुर्विषण्णाः शोककर्षिताः ॥ 18॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,18,6876,कथमद्य क्षयं दैत्या गमिष्यन्ति सहस्रशः । महाकाया महावीर्या दानवा रक्तसम्भवाः ॥ 19॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,19,6877,एकैव चण्डिकात्रास्ति तथा काली च मातरः । एताभिर्दानवाः सर्वे जेतव्याः कष्टमेव तत् ॥ 20॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,20,6878,निशुम्भो वाथ शुम्भो वा सहसा बलसंवृतः । आगमिष्यति सङ्ग्रामे ततोऽनर्थो महान्भवेत् ॥ 21॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,21,6879,व्यास उवाच । एवं देवा भयोद्विग्नाश्चिन्तामापुर्महत्तराम् । यदा तदाम्बिका प्राह कालीं कमललोचनाम् ॥ 22॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,22,6880,चामुण्डे कुरु विस्तीर्णं वदनं त्वरिता भृशम् । मच्छस्त्रपातसम्भूतं रुधिरं पिब सत्वरा ॥ 23॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,23,6881,भक्षयन्ती चर रणे दानवानद्य कामतः । हनिष्यामि शरैस्तीक्ष्णैर्गदासिमुसलैस्तथा ॥ 24॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,24,6882,तथा कुरु विशालाक्षि पानं तद्रुधिरस्य च । बिन्दुमात्रं यथा भूम्यां न पतेदपि साम्प्रतम् ॥ 25॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,25,6883,भक्ष्यमाणास्तदा दैत्या न चोत्पत्स्यन्ति चापरे । एवमेषां क्षयो नूनं भविष्यति न चान्यथा ॥ 26॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,26,6884,घातयिष्याम्यहं दैत्यं त्वं भक्षय च सत्वरा । पिबन्ती क्षतजं सर्वं यतमानारिसङ्क्षये ॥ 27॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,27,6885,इत्थं दैत्यक्षयं कृत्वा दत्त्वा राज्यं सुरालयम् । इन्द्राय सुस्थिरं सर्वं गमिष्यामो यथासुखम् ॥ 28॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,28,6886,व्यास उवाच । इत्युक्ताम्बिकया देवी चामुण्डा चण्डविक्रमा । पपौ च क्षतजं सर्वं रक्तबीजशरीरजम् ॥ 29॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,29,6887,अम्बिका तं जघानाशु खड्गेन मुसलेन च । चखाद देहशकलांश्चामुण्डा तान्कृशोदरी ॥ 30॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,30,6888,सोऽपि क्रुद्धो गदाघातैश्चामुण्डां समघातयत् । तथापि सा पपावाशु क्षतजं तमभक्षयत् ॥ 31॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,31,6889,येऽन्ये रुधिरजाः क्रूरा रक्तबीजा महाबलाः । तेऽपि निष्पातिताः सर्वे भक्षिता गतशोणिताः ॥ 32॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,32,6890,कृत्रिमा भक्षिताः सर्वे यस्तु स्वाभाविकोऽसुरः । सोऽपि प्रपातितो हत्वा खड्गेनातिविखण्डितः ॥ 33॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,33,6891,रक्तबीजे हते रौद्रे ये चान्ये दानवा रणे । पलायनं ततः कृत्वा गतास्ते भयकम्पिताः ॥ 34॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,34,6892,हाहेति विब्रुवन्तस्ते शुम्भं प्रोचुः सविह्वलाः । रुथिरारक्तदेहाश्च विगतास्त्रा विचेतसः ॥ 35॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,35,6893,राजन्नम्बिकया रक्तबीजोऽसौ विनिपातितः । चामुण्डा तस्य देहात्तु पपौ सर्वं च शोणितम् ॥ 36॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,36,6894,ये चान्ये दानवाः शूरा वाहनेनातिरंहसा । सिंहेन निहताः सर्वे काल्या च भक्षिताः परे ॥ 37॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,37,6895,वयं त्वां कथितुं राजन्नागता युद्धचेष्टितम् । चरितञ्च तथा देव्याः सङ्ग्रामे परमाद्भुतम् ॥ 38॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,38,6896,अजेयेयं महाराज सर्वथा दैत्यदानवैः । गन्धर्वासुरयक्षैश्च पन्नगोरगराक्षसैः ॥ 39॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,39,6897,अन्यास्तत्रागता देव्य इन्द्राणीप्रमुखा भृशम् । युध्यमाना महाराज वाहनैरायुधैर्युताः ॥ 40॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,40,6898,ताभिः सर्वं हतं सैन्यं दानवानां वरायुधैः । रक्तबीजोऽपि राजेन्द्र तरसा विनिपातितः ॥ 41॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,41,6899,एकापि दुःसहा देवी किं पुनस्ताभिरन्विता । सिंहोऽपि हन्ति सङ्ग्रामे राक्षसानमितप्रभः ॥ 42॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,42,6900,अतो विचार्य सचिवैर्यद्युक्तं तद्विधीयताम् । न वैरमनया युक्तं सन्धिरेव सुखप्रदः ॥ 43॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,43,6901,आश्चर्यमेतदखिलं यन्नारी हन्ति राक्षसान् । रक्तबीजोऽपि निहतः पीतं तस्यापि शोणितम् ॥ 44॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,44,6902,अन्ये निपातिता दैत्याः सङ्ग्रामेऽम्बिकया नृप । चामुण्डया च मांसं वै भक्षितं सकलं रणे ॥ 45॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,45,6903,वरं पातालगमनं तस्याः सेवाथवा वरा । न तु युद्धं महाराज कार्यमम्बिकया सह ॥ 46॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,46,6904,न नारी प्राकृता ह्येषा देवकार्यार्थसाधिनी । मायेयं प्रबला देवी क्षपयन्तीयमुत्थिता ॥ 47॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,47,6905,व्यास उवाच । इति तेषां वचस्तथ्यं श्रुत्वा कालविमोहितः । मुमूर्षुः प्रत्युवाचेदं शुम्भः प्रस्फुरिताधरः ॥ 48॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,48,6906,शुम्भ उवाच । यूयं गच्छत पातालं शरणं वा भयातुराः । हनिष्याम्यहमद्यैव ताञ्च ताश्च समुद्यतः ॥ 49॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,49,6907,जित्वा सर्वान्सुरानाजौ कृत्वा राज्यं सुपुष्कलम् । कथं नारीभयोद्विग्नः पातालं प्रविशाम्यहम् ॥ 50॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,50,6908,निहत्य पार्षदान्सर्वान् रक्तबीजमुखान् रणे । प्राणत्राणाय गच्छामि हित्वा किं विपुलं यशः ॥ 51॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,51,6909,मरणं त्वनिवार्यं वै प्राणिनां कालकल्पितम् । तद्भयं जन्मनोपात्तं त्यजेत्को दुर्लभं यशः ॥ 52॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,52,6910,निशुम्भाहं गमिष्यामि रथारूढो रणाजिरे । हत्वा तामागमिष्यामि नागमिष्यामि चान्यथा ॥ 53॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,53,6911,त्वं तु सेनायुतो वीर पार्ष्णिग्राहो भवस्व मे । तरसा तां शरैस्तीक्ष्णैर्नारीं नय यमालये ॥ 54॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,54,6912,निशुम्भ उवाच । अहमद्य हनिष्यामि गत्वा दुष्टाञ्च कालिकाम् । आगमिष्याम्यहं शीघ्रं गृहीत्वा तामथाम्बिकाम् ॥ 55॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,55,6913,मा चिन्तां कुरु राजेन्द्र वराकायास्तु कारणे । क्वैषा बाला क्व मे बाहुवीर्यं विश्ववशङ्करम् ॥ 56॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,56,6914,त्यक्त्वाऽऽर्तिं विपुलां भ्रातर्भुङ्क्ष भोगाननुत्तमान् । आनयिष्याम्यहं कामं मानिनीं मानसंयुताम् ॥ 57॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,57,6915,मयि तिष्ठति ते राजन्न युक्तं गमनं रणे । गत्वाहमानयिष्यामि तवार्थे वै जयश्रियम् ॥ 58॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,58,6916,व्यास उवाच । इत्युक्त्वा भ्रातरं ज्येष्ठं कनीयान्बलगर्वितः । रथमास्थाय विपुलं सन्नद्धः स्वबलावृतः ॥ 59॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,59,6917,जगाम तरसा तूर्णं सङ्गरे कृतमङ्गलः । संस्तुतो बन्दिसूतैश्च सायुधः सपरिष्करः ॥ 60॥ 5,५.२९,एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।,60,6918,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देव्यासह युद्धकरणाय निशुम्भप्रयाणं नामकोनत्रिंशोऽध्यायः ॥ ५.२९॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,0,6919,व्यास उवाच । निशुम्भो निश्चयं कृत्वा मरणाय जयाय वा । सोद्यमः सबलः शूरो रणे देवीमुपाययौ ॥ 1॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,1,6920,तमाजगाम शुम्भोऽपि स्वबलेन समावृतः । प्रेक्षकोऽभूद्रणे राजा सङ्ग्रामरसपण्डितः ॥ 2॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,2,6921,गगने संस्थिता देवास्तदाभ्रपटलावृताः । दिदृक्षवस्तु सङ्ग्रामे सेन्द्रा यक्षगणास्तथा ॥ 3॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,3,6922,निशुम्भोऽथ रणे गत्वा धनुरादाय शार्ङ्गकम् । चकार शरवृष्टिं स भीषयञ्जगदम्बिकाम् ॥ 4॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,4,6923,मुञ्चन्तं शरजालानि निशुम्भं चण्डिका रणे । वीक्ष्यादाय धनुः श्रेष्ठं जहास सुस्वरं मुहुः ॥ 5॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,5,6924,उवाच कालिकां देवी पश्य मूर्खत्वमेतयोः । मरणायागतौ कालि मत्समीपमिहाधुना ॥ 6॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,6,6925,दृष्ट्वा दैत्यवधं घोरं रक्तबीजात्ययं तथा । जयाशां कुरुतस्त्वेतौ मोहितौ मम मायया ॥ 7॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,7,6926,आशा बलवती ह्येषा न जहाति नरं क्वचित् । भग्नं हृतबलं नष्टं गतपक्षं विचेतनम् ॥ 8॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,8,6927,आशापाशनिबद्धौ द्वौ युद्धाय समुपागतौ । निहन्तव्यौ मया कालि रणे शुम्भनिशुम्भकौ ॥ 9॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,9,6928,आसन्नमरणावेतौ सम्प्राप्तौ दैवमोहितौ । पश्यतां सर्वदेवानां हनिष्याम्यहमद्य तौ ॥ 10॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,10,6929,व्यास उवाच । इत्युक्त्वा कालिकां चण्डी कर्णाकृष्टशरोत्करैः । छादयामास तरसा निशुम्भं पुरतः स्थितम् ॥ 11॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,11,6930,दानवोऽपि शरांस्तस्याश्चिच्छेद निशितैः शरैः । तयोः परस्परं युद्धं बभूवातिभयानकम् ॥ 12॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,12,6931,केसरी केशजालानि धुन्वानः सैन्यसागरम् । गाहयामास बलवान्सरसीं वारणो यथा ॥ 13॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,13,6932,नखैर्दन्तप्रहारैस्तु दानवान्पुरतः स्थितान् । चखाद च विशीर्णाङ्गान् गजानिव मदोत्कटान् ॥ 14॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,14,6933,एवं विमथ्यमाने तु सैन्ये केसरिणा तदा । अभ्यधावन्निशुम्भोऽथ विकृष्टवरकार्मुकः ॥ 15॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,15,6934,अन्येऽपि क्रुद्धा दैत्येन्द्रा देवीं हन्तुमुपाययुः । सन्दष्टदन्तरसना रक्तनेत्रा ह्यनेकशः ॥ 16॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,16,6935,तत्राजगाम तरसा शुम्भः सैन्यसमावृतः । निहत्य कालिकां कोपाद्ग्रहीतुं जगदम्बिकाम् ॥ 17॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,17,6936,तत्रागत्य ददर्शाजावम्बिकाञ्च पुरःस्थिताम् । रौद्ररसयुतां कान्तां श‍ृङ्गाररससंयुताम् ॥ 18॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,18,6937,तां वीक्ष्य विपुलापाङ्गीं त्रैलोक्यवरसुन्दरीम् । सुरक्तनयनां रम्यां क्रोधरक्तेक्षणां तथा ॥ 19॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,19,6938,विवाहेच्छां परित्यज्य जयाशां दूरतस्तथा । मरणे निश्चयं कृत्वा तस्थावाहितकार्मुकः ॥ 20॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,20,6939,तं तथा दानवं देवी स्मितपूर्वमिदं वचः । बभाषे श‍ृण्वतां तेषां दैत्यानां रणमस्तके ॥ 21॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,21,6940,गच्छध्वं पामरा यूयं पातालं वा जलार्णवम् । जीविताशां स्थिरां कृत्वा त्यक्त्वात्रैवायुधानि च ॥ 22॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,22,6941,अथवा मच्छराघातहतप्राणा रणाजिरे । प्राप्य स्वर्गसुखं सर्वे क्रीडन्तु विगतज्वराः ॥ 23॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,23,6942,कातरत्वं च शूरत्वं न भवत्येव सर्वथा । ददाम्यभयदानं वै यान्तु सर्वे यथासुखम् ॥ 24॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,24,6943,व्यास उवाच । इत्याकर्ण्य वचस्तस्या निशुम्भो मदगर्वितः । निशितं खड्गमादाय चर्म चैवाष्टचन्द्रकम् ॥ 25॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,25,6944,धावमानस्तु तरसासिना सिंहं मदोत्कटम् । जघानातिबलान्मूर्ध्नि भ्रामयञ्जगदम्बिकाम् ॥ 26॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,26,6945,ततो देवी स्वगदया वञ्चयित्वासिपातनम् । ताडयामास तं बाहोर्मूले परशुना तदा ॥ 27॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,27,6946,खड्गेन निहतः सोऽपि बाहुमूले महामदः । संस्तभ्य वेदनां भूयो जघान चण्डिकां तदा ॥ 28॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,28,6947,सापि घण्टास्वनं घोरं चकार भयदं नृणाम् । पपौ पुनः पुनः पानं निशुम्भं हन्तुमिच्छती ॥ 29॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,29,6948,एवं परस्परं युद्धं बभूवातिभयप्रदम् । देवानां दानवानाञ्च परस्परजयैषिणाम् ॥ 30॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,30,6949,पलादाः पक्षिणः क्रूराः सारमेयाश्च जम्बुकाः । ननृतुश्चातिसन्तुष्टा गृध्राः कङ्काश्च वायसाः ॥ 31॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,31,6950,रणभूर्भाति भूयिष्ठपतितासुरवर्ष्मकैः । रुधिरस्रावसंयुक्तैर्गजाश्वदेहसङ्कुला ॥ 32॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,32,6951,पतितान्दानवान्दृष्ट्वा निशुम्भोऽतिरुषान्वितः । प्रययौ चण्डिकां तूर्णं गदामादाय दारुणाम् ॥ 33॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,33,6952,सिंहं जघान गदया मस्तके मदगर्वितः । प्रहृत्य च स्मितं कृत्वा पुनर्देवीमताडयत् ॥ 34॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,34,6953,सापि तं कुपितातीव निशुम्भं पुरतः स्थितम् । प्रहरन्तं समीक्ष्याथ देवी वचनमब्रवीत् ॥ 35॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,35,6954,देव्युवाच । तिष्ठ मन्दमते तावद्यावत्खड्गमिदं तव । ग्रीवायां प्रेरयाम्यस्माद् गन्तासि यमसादनम् ॥ 36॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,36,6955,व्यास उवाच । इत्युक्त्वा तरसा देवी कृपाणेन समाहिता । चिच्छेद मस्तकं तस्य निशुम्भस्याथ चण्डिका ॥ 37॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,37,6956,सच्छिन्नमस्तको देव्या कबन्धोऽतीव दारुणः । बभ्राम च गदापाणिस्त्रासयन्देवतागणान् ॥ 38॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,38,6957,देवी तस्य शितैर्बाणैश्चिच्छेद चरणौ करौ । पपातोर्व्यां ततः पापी गतासुः पर्वतोपमः ॥ 39॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,39,6958,तस्मिन्निपतिते दैत्ये निशुम्भे भीमविक्रमे । हाहाकारो महानासीत्तत्सैन्ये भयकम्पिते ॥ 40॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,40,6959,त्यक्त्वाऽऽयुधानि सर्वाणि सैनिकाः क्षतजाप्लुताः । जग्मुर्बुम्बारवं सर्वे कुर्वाणा राजमन्दिरम् ॥ 41॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,41,6960,तानागतान्सुसम्प्रेक्ष्य शुम्भः शत्रुनिषूदनः । पप्रच्छ क्व निशुम्भोऽसौ कथं भग्नाः पलायिताः ॥ ४२ तच्छ्रुत्वा वचनं राज्ञस्ते प्रोचुः प्रणता भृशम् । राजंस्ते निहतो भ्राता शेते समरमूर्धनि ॥ 43॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,42,6961,तया निपातिताः शूरा ये च तेऽप्यनुजानुगाः । वयं त्वां कथितुं सर्वं वृत्तान्तं समुपागताः ॥ 44॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,43,6962,निशुम्भो निहतस्तत्र तया चण्डिकयाधुना । न हि युद्धस्य कालोऽद्य तव राजन् रणाङ्गणे ॥ 45॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,44,6963,देवकार्यं समुद्दिश्य कापीयं परमाङ्गना । हन्तुं दैत्यकुलं नूनं प्राप्तेति परिचिन्तय ॥ 46॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,45,6964,नैषा प्राकृतयोषैव देवी शक्तिरनुत्तमा । अचिन्त्यचरिता क्वापि दुर्ज्ञेया दैवतैरपि ॥ 47॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,46,6965,नानारूपधरातीव मायामूलविशारदा । विचित्रभूषणा देवी सर्वायुधधरा शुभा ॥ 48॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,47,6966,गहना गूढचरिता कालरात्रिरिवापरा । अपारपारगा पूर्णा सर्वलक्षणसंयुता ॥ 49॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,48,6967,अन्तरिक्षस्थिता देवास्तां स्तुवन्त्यकुतोभयाः । देवकार्यञ्च कुर्वाणां श्रीदेवीं परमाद्भुताम् ॥ 50॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,49,6968,पलायनं परो धर्मः सर्वथा देहरक्षणम् । रक्षिते किल देहेस्मिन्कालेऽस्मत्सुखताङ्गते ॥ 51॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,50,6969,सङ्ग्रामे विजयो राजन् भविता ते न संशयः । कालः करोति बलिनं समये निर्बलं क्वचित् ॥ 52॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,51,6970,तं पुनः सबलं कृत्वा जयायोपदधाति हि । दातारं याचकं कालः करोति समये क्वचित् ॥ 53॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,52,6971,भिक्षुकं धनदातारं करोति समयान्तरे । विष्णुः कालवशे नूनं ब्रह्मा वा पार्वतीपतिः ॥ 54॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,53,6972,इन्द्राद्या निर्जराः सर्वे काल एव प्रभुः स्वयम् । तस्मात्कालं प्रतीक्षस्व विपरीतं तवाधुना ॥ 55॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,54,6973,सम्मुखो देवतानाञ्च दैत्यानां नाशहेतुकः । एकैव च गतिर्नास्ति कालस्य किल भूपते ॥ 56॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,55,6974,नानारूपधराप्यस्ति ज्ञातव्यं तस्य चेष्टितम् । कदाचित्सम्भवो नॄणां कदाचित्प्रलयस्तथा ॥ 57॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,56,6975,उत्पत्तिहेतुः कालोऽन्यः क्षयहेतुस्तथापरः । प्रत्यक्षं ते महाराज देवाः सर्वे सवासवाः ॥ 58॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,57,6976,करदास्ते कृताः पूर्वं कालेन सम्मुखेन च । तेनैव विमुखेनाद्य बलिनोऽबलयासुराः ॥ 59॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,58,6977,निहता नितरां कालः करोति च शुभाशुभम् । नैवात्र कारणं काली नैव देवाः सनातनाः ॥ 60॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,59,6978,यथा ते रोचते राजंस्तथा कुरु विमृश्य च । कालोऽयं नात्र हेतुस्ते दानवानां तथा पुनः ॥ 61॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,60,6979,त्वदग्रतो गतः शक्रो भग्नः सङ्ख्ये निरायुधः । तथा विष्णुस्तथा रुद्रो वरुणो धनदो यमः ॥ 62॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,61,6980,तथा त्वमपि राजेन्द्र वीक्ष्य कालवशं जगत् । पातालं गच्छ तरसा जीवन्भद्रमवाप्स्यसि ॥ 63॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,62,6981,मृते त्वयि महाराज शत्रवस्ते मुदान्विताः । मङ्गलानि प्रगायन्तो विचरिष्यन्ति सर्वतः ॥ 64॥ 5,५.३०,त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।,63,6982,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनं नाम त्रिंशोऽध्यायः ॥ ५.३०॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,0,6983,व्यास उवाच । इति तेषां वचः श्रुत्वा शुम्भो दैत्यपतिस्तथा । उवाच सैनिकानाशु कोपाकुलितलोचनः ॥ 1॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,1,6984,शुम्भ उवाच । जाल्माः किं श्रूत दुर्वाच्यं कृत्वा जीवितुमुत्सहे । निहत्य सचिवान्भ्रातॄन्निर्लज्जो विचरामि किम् ॥ 2॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,2,6985,कालः कर्ता शुभानां वाशुभानां बलवत्तरः । का चिन्ता मम दुर्वारे तस्मिन्नीशेऽप्यरूपके ॥ 3॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,3,6986,यद्भवति तद्भवतु यत्करोति करोतु तत् । न मे चिन्तास्ति कुत्रापि मरणाज्जीवनात्तथा ॥ 4॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,4,6987,स कालोऽप्यन्यथाकर्तुं भावितो नेशते क्वचित् । न वर्षति च पर्जन्यः श्रावणे मासि सर्वथा ॥ 5॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,5,6988,कदाचिन्मार्गशीर्षे वा पौषे माघेऽथ फाल्गुने । अकाले वर्षतीवाशु तस्मान्मुख्यो न चास्त्वयम् ॥ 6॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,6,6989,कालो निमित्तमात्रं तु दैवं हि बलवत्तरम् । दैवेन निर्मितं सर्वं नान्यथा भवतीत्यदः ॥ ७ दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् । जेता यः सर्वदेवानां निशुम्भोऽप्यनया हतः ॥ ८ रक्तबीजो महाशूरः सोऽपि नाशं गतो यदा । तदाहं कीर्तिमुत्सृज्य जीविताशां करोमि किम् ॥ 9॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,7,6990,प्राप्ते काले स्वयं ब्रह्मा परार्धद्वयसम्मिते । निधनं याति तरसा जगत्कर्ता स्वयं प्रभुः ॥ 10॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,8,6991,चतुर्युगसहस्रं तु ब्रह्मणो दिवसे किल । पतन्ति भवनात्पञ्च नव चेन्द्रास्तथा पुनः ॥ 11॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,9,6992,तथैव द्विगुणे विष्णुर्मरणायोपकल्पते । तथैव द्विगुणे काले शङ्करः शान्तिमेति च ॥ 12॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,10,6993,का चिन्ता मरणे मूढा निश्चले दैवनिर्मिते । मही महीधराणाञ्च नाशः सूर्यशशाङ्कयोः ॥ 13॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,11,6994,जातस्य हि ध्रुवं मृत्युर्धुवं जन्म मृतस्य च । अध्रुवेऽस्मिञ्छरीरे तु रक्षणीयं यशः स्थिरम् ॥ 14॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,12,6995,रथो मे कल्प्यतां शीघ्रं गमिष्यामि रणाजिरे । जयो वा मरणं वापि भवत्वद्यैव दैवतः ॥ 15॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,13,6996,इत्युक्त्वा सैनिकाञ्छुम्भो रथमास्थाय सत्वरः । प्रययावम्बिका यत्र संस्थिता तु हिमाचले ॥ 16॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,14,6997,सैन्यं प्रचलितं तस्य सङ्गे तत्र चतुर्विधम् । हस्त्यश्वरथपादातिसंयुतं सायुधं बहु ॥ 17॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,15,6998,तत्र गत्वाचले शुम्भः संस्थितां जगदम्बिकाम् । त्रैलोक्यमोहिनीं कान्तामपश्यत्सिंहवाहिनीम् ॥ 18॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,16,6999,सर्वाभरणभूषाढ्यां सर्वलक्षणसंवृताम् । स्तूयमानां सुरैः खस्थैर्गन्धर्वयक्षकिन्नरैः ॥ 19॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,17,7000,पुष्पैश्च पूज्यमानाञ्च मन्दारपादपोद्भवैः । कुर्वाणां शङ्खनिनदं घण्टानादं मनोहरम् ॥ 20॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,18,7001,दृष्ट्वा तां मोहमगमच्छुम्भः कामविमोहितः । पञ्चबाणाहतः कामं मनसा समचिन्तयत् ॥ 21॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,19,7002,अहो रूपमिदं सम्यगहो चातुर्यमद्भुतम् । सौकुमार्यञ्ज धैर्यञ्च परस्परविरोधि यत् ॥ 22॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,20,7003,सुकुमारातितन्वङ्गी सद्यः प्रकटयौवना । चित्रमेतदसौ बाला कामभावविवर्जिता ॥ 23॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,21,7004,कामकान्तासमा रूपे सर्वलक्षणलक्षिता । अम्बिकेयं किमेतत्तु हन्ति सर्वान्महाबलान् ॥ 24॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,22,7005,उपायः कोऽत्र कर्तव्यो येन मे वशगा भवेत् । न मन्त्रा वा मरालाक्षीसाधने सन्निधौ मम ॥ 25॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,23,7006,सर्वमन्त्रमयी ह्येषा मोहिनी मदगर्विता । सुन्दरीयं कथं मे स्याद्वशगा वरवर्णिनी ॥ 26॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,24,7007,पातालगमनं मेऽद्य न युक्तं समराङ्गणात् । सामदानविभेदैश्च नेयं साध्या महाबला ॥ 27॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,25,7008,किं कर्तव्यं च गन्तव्यं विषमे समुपस्थिते । मरणं नोत्तमं चात्र स्त्रीकृतं तु यशोऽपहृत् ॥ 28॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,26,7009,मरणमृषिभिः प्रोक्तं सङ्गरे मङ्गलास्पदम् । यत्तत्समानबलयोर्योधयोर्युध्यतोः किल ॥ 29॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,27,7010,प्राप्तेयं दैवरचिता नारी नरशतोत्तमा । नाशायास्मत्कुलस्येह सर्वथातिबलाबला ॥ 30॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,28,7011,वृथा किं सामवाक्यानि मया योज्यानि साम्प्रतम् । हननायागता ह्येषा किं नु साम्ना प्रसीदति ॥ 31॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,29,7012,न दानैश्चालितुं योग्या नानाशस्त्रविभूषिता । भेदस्तु विफलः कामं सर्वदेववशानुगा ॥ 32॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,30,7013,तस्मात्तु मरणं श्रेयो न सङ्ग्रामे पलायनम् । जयो वा मरणं वाद्य भवत्वेव यथाविधि ॥ 33॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,31,7014,व्यास उवाच । इति सञ्चिन्त्य मनसा शुम्भः सत्त्वाश्रितोऽभवत् । युद्धाय सुस्थिरो भूत्वा तामुवाच पुरःस्थिताम् ॥ 34॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,32,7015,देवि युध्यस्व कान्तेऽद्य मृथायं ते परिश्रमः । मूर्खासि किल नारीणां नायं धर्मः कदाचन ॥ 35॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,33,7016,नारीणां लोचने बाणा भ्रुवावेव शरासनम् । हावभावास्तु शस्त्राणि पुमाँल्लक्ष्यं विचक्षणः ॥ 36॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,34,7017,सन्नाहश्चाङ्गरागोऽत्र रथश्चापि मनोरथः । मन्दप्रजल्पितं भेरीशब्दो नान्यः कदाचन ॥ 37॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,35,7018,अन्यास्त्रधारणं स्त्रीणां विडम्बनमसंशयम् । लज्जैव भूषणं कान्ते न च धार्ष्ट्यं कदाचन ॥ 38॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,36,7019,युध्यमाना वरा नारी कर्कशेवाभिदृश्यते । स्तनौ सङ्गोपनीयौ वा धनुषः कर्षणे कथम् ॥ 39॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,37,7020,क्व मन्दगमनं कुत्र गदामादाय धावनम् । बुद्धिदा कालिका तेऽत्र चामुण्डा परनायिका ॥ 40॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,38,7021,चण्डिका मन्त्रमध्यस्था लालनेऽसुस्वरा शिवा । वाहनं मृगराडास्ते सर्वसत्त्वभयङ्करः ॥ 41॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,39,7022,वीणानादं परित्यज्य घण्टानादं करोषि यत् । रूपयौवनयोः सर्वं विरोधि वरवर्णिनि ॥ 42॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,40,7023,यदि ते सङ्गरेच्छास्ति कुरूपा भव भामिनि । लम्बोष्ठी कुनखी क्रूरा ध्वाङ्क्षवर्णा विलोचना ॥ 43॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,41,7024,लम्बपादा कुदन्ती च मार्जारनयनाकृतिः । ईदृशं रूपमास्थाय तिष्ठ युद्धे स्थिरा भव ॥ 44॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,42,7025,कर्कशं वचनं ब्रूहि ततो युद्धं करोम्यहम् । ईदृशीं सुदतीं दृष्ट्वा न मे पाणिः प्रसीदति ॥ 45॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,43,7026,हन्तुं त्वां मृगशावाक्षि कामकान्तोपमे मृधे । व्यास उवाच । इति ब्रुवाणं कामार्तं वीक्ष्य तं जगदम्बिका ॥ 46॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,44,7027,स्मितपूर्वमिदं वाक्यमुवाच भरतोत्तम । देव्युवाच । किं विषीदसि मन्दात्मन् कामबाणविमोहितः ॥ 47॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,45,7028,प्रेक्षिकाहं स्थिता मूढ कुरु कालिकया मृधम् । चामुण्डया वा कुर्वेते तव योग्ये रणाङ्गणे ॥ 48॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,46,7029,प्रहरस्व यथाकामं नाहं त्वां योद्धमुत्सहे । इत्युक्त्वा कालिकां प्राह देवी मधुरया गिरा ॥ 49॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,47,7030,जह्येनं कालिके क्रूरे कुरूपप्रियमाहवे । व्यास उवाच । इत्युक्ता कालिका कालप्रेरिता कालरूपिणी ॥ 50॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,48,7031,गदां प्रगृह्य तरसा तस्थावाजौ कृतोद्यमा । तयोः परस्परं युद्धं बभूवातिभयानकम् ॥ 51॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,49,7032,पश्यतां सर्वदेवानां मुनीनाञ्च महात्मनाम् । गदामुद्यम्य शुम्भोऽथ जघान कालिकां रणे ॥ 52॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,50,7033,कालिका दैत्यराजानं गदया न्यहनद् भृशम् । बभञ्जास्य रथं चण्डी गदया कनकोज्ज्वलम् ॥ 53॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,51,7034,खरान्हत्वा जघानाशु दारुकं दारुणस्वना । स पदातिर्गदां गुर्वीं समादाय क्रुधान्वितः ॥ 54॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,52,7035,कालिकाभुजयोर्मध्ये प्रहसन्नहनत्तदा । वञ्चयित्वा गदाघातं खड्गमादाय सत्वरा ॥ 55॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,53,7036,चिच्छेदास्य भुजं सव्यं सायुधं चन्दनार्चितम् । स छिन्नबाहुर्विरथो गदापाणिः परिप्लुतः ॥ 56॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,54,7037,अचिरेण समागम्य कालिकामहनत्तदा । काली च करवालेन भुजं तस्याथ दक्षिणम् ॥ 57॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,55,7038,चिच्छेद प्रहसन्ती सा सगदं किल साङ्गदम् । कर्तुं पादप्रहारं स कुपितः प्रययौ जवात् ॥ 58॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,56,7039,काली चिच्छेद चरणौ खड्गेनास्य त्वरान्विता । सच्छिन्नकरपादोऽपि तिष्ठ तिष्ठेति च ब्रुवन् ॥ 59॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,57,7040,धावमानो ययावाशु कालिकां भीषयन्निव । तमागच्छन्तमालोक्य कालिका कमलोपमम् ॥ 60॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,58,7041,चकर्त मस्तकं कण्ठाद्रुधिरौघवहं भृशम् । छिन्नेऽसौ मस्तके भूमौ पपात गिरिसन्निभः ॥ 61॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,59,7042,प्राणा विनिर्ययुस्तस्य देहादुत्क्रम्य सत्वरम् । गतासुं पतितं दैत्यं दृष्ट्वा देवाः सवासवाः ॥ 62॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,60,7043,तुष्टुवुस्तां तदा देवीं चामुण्डां कालिकां तथा । ववुर्वाताः शिवास्तत्र दिशश्च विमला भृशम् ॥ 63॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,61,7044,बभूवुश्चाग्नयो होमे प्रदक्षिणशिखाः शुभाः । हतशेषाश्च ये दैत्याः प्रणम्य जगदम्बिकाम् ॥ 64॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,62,7045,त्यक्त्वाऽऽयुधानि ते सर्वे पातालं प्रययुर्नृप । एतत्ते सर्वमाख्यातं देव्याश्चरितमुत्तमम् ॥ 65॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,63,7046,शुम्भादीनां वधं चैव सुराणां रक्षणं तथा । एतदाख्यानकं सर्वं पठन्ति भुवि मानवाः ॥ 66॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,64,7047,श‍ृण्वन्ति च सदा भक्त्या ते कृतार्था भवन्ति हि । अपुत्रो लभते पुत्रान्निर्धनश्च धनं बहु ॥ 67॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,65,7048,रोगी च मुच्यते रोगात्सर्वान्कामानवाप्नुयात् । शत्रुतो न भयं तस्य य इदं चरितं शुभम् । श‍ृणोति पठते नित्यं मुक्तिमाञ्जायते नरः ॥ 68॥ 5,५.३१,एकत्रिंशोऽध्यायः । शुम्भवधः ।,66,7049,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे शुम्भवधो नामेकत्रिंशोऽध्यायः ॥ ५.३१॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,0,7050,जनमेजय उवाच । महिमा वर्णितः सम्यक्चण्डिकायास्त्वया मुने । केन चाराधिता पूर्वं चरित्रत्रययोगतः ॥ 1॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,1,7051,प्रसन्ना कस्य वरदा केन प्राप्तं फलं महत् । आराध्य कामदां देवीं कथयस्व कृपानिधे ॥ 2॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,2,7052,उपासनाविधिं ब्रह्मंस्तथा पूजाविधिं वद । विस्तरेण महाभाग होमस्य च विधिं पुनः ॥ 3॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,3,7053,सूत उवाच । इति भूपवचः श्रुत्वा प्रीतः सत्यवतीसुतः । प्रत्युवाच नृपं कृष्णो महामायाप्रपूजनम् ॥ 4॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,4,7054,व्यास उवाच । स्वारोचिषेऽन्तरे पूर्वं सुरथो नाम पार्थिवः । बभूव परमोदारः प्रजापालनतत्परः ॥ 5॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,5,7055,सत्यवादी कर्मपरो ब्राह्मणानाञ्च पूजकः । गुरुभक्तिरतो नित्यं स्वदारगमने रतः ॥ 6॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,6,7056,दानशीलोऽविरोधी च धनुर्वेदैकपारगः । एवं पालयतो राज्यं म्लेच्छाः पर्वतवासिनः ॥ 7॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,7,7057,बलाच्छत्रुत्वमापन्नाः सैन्यं कृत्वा चतुर्विधम् । हस्त्यश्वरथपादातिसहितास्ते मदोत्कटाः ॥ 8॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,8,7058,कोलाविध्वंसिनः प्राप्ताः पृथ्वीग्रहणतत्पराः । सुरथः सैन्यमादाय सम्मुखः समपद्यत ॥ 9॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,9,7059,युद्धं समभवद्घोरं तस्य तैरतिदारुणैः । म्लेच्छानां तु बलं स्वल्पं राज्ञस्द्बलमद्भुतम् ॥ 10॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,10,7060,तथापि तैर्जितो युद्धे दैवाद्राजा पराजितः । भग्नश्च स्वपुरं प्राप्तः सुरक्षं दुर्गमण्डितम् ॥ 11॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,11,7061,चिन्तयामास मेधावी राजा नीतिविचक्षणः । प्रधानान्विमना दृष्ट्वा शत्रुपक्षसमाश्रितान् ॥ 12॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,12,7062,स्थानं गृहीत्वा विपुलं परिखादुर्गमण्डितम् । कालप्रतीक्षा कर्तव्या किं वा युद्धं वरं मतम् ॥ 13॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,13,7063,मन्त्रिणः शत्रुवशगा मन्त्रयोग्या न ते किल । किं करोमीति मनसा भूपतिः समचिन्तयत् ॥ 14॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,14,7064,कदाचित्ते गहीत्वा मां पापाचाराः पराश्रिताः । शत्रुभ्योऽथ प्रदास्यन्ति तदा किं वा भविष्यति ॥ 15॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,15,7065,पापबुद्धिषु विश्वासो न कर्तव्यः कदाचन । किन्न ते वै प्रकुर्वन्ति ये लोभवशगा नराः ॥ 16॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,16,7066,भ्रातरं पितरं मित्रं सुहृदं बान्धवं तथा । गुरुं पूज्यं द्विजं द्वेष्टि लोभाविष्टः सदा नरः ॥ 17॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,17,7067,तस्मान्मया न कर्तव्यो विश्वासः सर्वथाधुना । मन्त्रिवर्गेऽतिपापिष्ठे शत्रुपक्षसमाश्रिते ॥ 18॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,18,7068,इति सञ्चिन्त्य मनसा राजा परमदुर्मनाः । एकाकी हयमारुह्य निर्जगाम पुरात्ततः ॥ 19॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,19,7069,असहायोऽथ निर्गत्य गहनं वनमाश्रितः । चिन्तयामास मेधावी क्व गन्तव्यं मया पुनः ॥ 20॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,20,7070,योजनत्रयमात्रे तु मुनेराश्रममुत्तमम् । ज्ञात्वा जगाम भूपालस्तापसस्य सुमेधसः ॥ 21॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,21,7071,बहुवृक्षसमायुक्तं नदीपुलिनसंश्रितम् । निर्वैरश्वापदाकीर्णं कोकिलारावमण्डितम् ॥ 22॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,22,7072,शिष्याध्ययनशब्दाढ्यं मृगयूथशतावृतम् । नीवारान्नसुपक्वाढ्यं सुपुष्पफलपादपम् ॥ 23॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,23,7073,होमधूमसुगन्धेन प्रीतिदं प्राणिनां सदा । वेदध्वनिसमाक्रान्तं स्वर्गादपि मनोहरम् ॥ 24॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,24,7074,दृष्ट्वा तमाश्रमं राजा बभूवासौ मुदान्वितः । भयं त्यक्त्वा मतिं चक्रे विश्रामाय द्विजाश्रमे ॥ 25॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,25,7075,आसज्य पादपेऽश्वं तु जगाम विनयान्वितः । दृष्ट्वा तं मुनिमासीनं सालच्छायासु संश्रितम् ॥ 26॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,26,7076,मृगाजिनासनं शान्तं तपसातिकृशं ऋजुम् । अध्यापयन्तं शिष्यांश्च वेदशास्त्रार्थदर्शिनम् ॥ 27॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,27,7077,रहितं क्रोधलोभाद्यैर्द्वन्द्वातीतं विमत्सरम् । आत्मज्ञानरतं सत्यवादिनं शमसंयुतम् ॥ 28॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,28,7078,तं वीक्ष्य भूपतिर्भूमौ पपात दण्डवत्तदा । तदग्रेऽश्रुजलापूर्णनयनः प्रेमसंयुतः ॥ 29॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,29,7079,उत्तिष्ठोत्तिष्ठ भद्रं ते तमुवाच तदा मुनिः । शिष्यो ददौ बृसीं तस्मै गुरुणा नोदितस्तदा ॥ 30॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,30,7080,उत्थाय नृपतिस्तस्यां समासीनस्तदाज्ञया । अर्ध्यपाद्यार्हणं चक्रे सुमेधा विधिपूर्वकम् ॥ 31॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,31,7081,पप्रच्छात्र कुतः प्राप्तः कस्त्वं चिन्तापरः कथम् । कथयस्व यथाकामं संवृतं कारणं त्विह ॥ 32॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,32,7082,किमागमनकृत्यं ते ब्रूहि कार्यं मनोगतम् । करिष्ये वाञ्छितं काममसाध्यमपि यत्तव ॥ 33॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,33,7083,राजोवाच । सुरथो नाम राजाहं शत्रुभिश्च पराजितः । त्यक्त्वा राज्यं गृहं भार्यामहं ते शरणं गतः ॥ 34॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,34,7084,यदाज्ञापयसे ब्रह्मंस्तदहं भक्तितत्परः । करिष्यामि न मे त्राता त्वदन्यः पृथिवीतले ॥ 35॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,35,7085,शत्रुभ्यो मे भयं घोरं प्राप्तोऽस्म्यद्य तवान्तिकम् । त्रायस्व मुनिशार्दूल शरणागतवत्सल ॥ 36॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,36,7086,ऋषिरुवाच । निर्भयं वस राजेन्द्र नात्र ते शत्रवः किल । आगमिष्यन्ति बलिनो निश्चयं तपसो बलात् ॥ 37॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,37,7087,नात्र हिंसा प्रकर्तव्या वनवृत्त्वा नृपोत्तम । कर्तव्यं जीवनं शस्तैर्नीवारफलमूलकैः ॥ 38॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,38,7088,व्यास उवाच । इति तस्य वचः श्रुत्वा निर्भयः स नृपस्तदा । उवासाश्रम एवासौ फलमूलाशनः शुचिः ॥ 39॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,39,7089,कदाचित्स नृपस्तत्र वृक्षच्छायां समाश्रितः । चिन्तयामास चिन्तार्तो गृह एव गताशयः ॥ 40॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,40,7090,राज्यं मे शत्रुभिः प्राप्तं म्लेच्छैः पापरतैः सदा । सम्पीडिताः स्युर्लोकास्तैर्दुराचारैर्गतत्रपैः ॥ 41॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,41,7091,गजाश्च तुरगाः सर्वे दुर्बला भक्ष्यवर्जिताः । जाताः स्युर्नात्र सन्देहः शत्रुणा परिपीडिताः ॥ 42॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,42,7092,सेवका मम सर्वे ते शत्रूणां वशवर्तिनः । दुःखिता एव जाताः स्युः पालिता ये मया पुरा ॥ 43॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,43,7093,धनं मे सुदुराचारैरसद्व्ययपरैः परैः । द्यूतासवभुजिष्यादिस्थाने स्यात्प्रापितं किल ॥ 44॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,44,7094,कोशक्षयं करिष्यन्ति व्यसनैः पापबुद्धयः । न पात्रदाननिपुणा म्लेच्छास्ते मन्त्रिणोऽपि मे ॥ 45॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,45,7095,इति चिन्तापरो राजा वृक्षमूलस्थितो यदा । तदाऽऽजगाम वैश्यस्तु कश्चिदार्तिपरस्तथा ॥ 46॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,46,7096,नृपेण पुरतो दृष्टः पार्श्वे तत्रोपवेशितः । पप्रच्छ तं नृपः कोऽसि कुत एवागतो वनम् ॥ 47॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,47,7097,कोऽसि कस्माच्च दीनोऽसि हरिणः शोकपीडितः । ब्रूहि सत्यं महाभाग मैत्री साप्तपदी मता ॥ 48॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,48,7098,व्यास उवाच । तच्छ्रुत्वा वचनं राज्ञस्तमुवाच विशोत्तमः । उपविश्य स्थिरो भूत्वा मत्वा साधुसमागमम् ॥ 49॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,49,7099,वैश्य उवाच । मित्राहं वैश्यजातीयः समाधिर्नाम विश्रुतः । धनवान्धर्मनिपुणः सत्यवागनसूयकः ॥ 50॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,50,7100,पुत्रदारैर्निरस्तोऽहं धनलुब्धैरसाधुभिः । (कृपणेति मिषं कृत्वा त्यक्त्वा मायां सुदुस्त्यजां ।) स्वजनेन च सन्त्यक्तः प्राप्तोऽस्मि वनमाशु वै ॥ 51॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,51,7101,कोऽसि त्वं भाग्यवान्भासि कथयस्व प्रियाधुना । राजोवाच । सुरथो नाम राजाहं दस्युभिः पीडितोऽभवम् ॥ 52॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,52,7102,प्राप्तोऽस्मि गतराज्योऽत्र मन्त्रिभिः परिवञ्चितः । दिष्ट्या त्वमत्र मित्रं मे मिलितोऽसि विशोत्तम ॥ 53॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,53,7103,सुखेन विहरिष्यावो वनेऽत्र शुभपादपे । शोकं त्यज महाबुद्धे स्वस्थो भव विशोत्तम ॥ 54॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,54,7104,(अत्रैव च यथाकामं सुखं तिष्ठ मया सह ।) वैश्य उवाच । कुटुम्बं मे निरालम्बं मया हीनं सुदुःखितम् । भविष्यति च चिन्ताऽऽर्तं व्याधिशोकोपतापितम् ॥ 55॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,55,7105,भार्यादेहे सुखं नो वा पुत्रदेहे न वा सुखम् । इति चिन्तातुरं चेतो न मे शाम्यति भूमिप ॥ 56॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,56,7106,कदा द्रक्ष्ये सुतं भार्यां गृहं स्वजनमेव च । स्वस्थं न मन्मनो राजन् गृहचिन्ताकुलं भृशम् ॥ 57॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,57,7107,राजोवाव यैर्निरस्तोऽसि पुत्राद्यैरसद्वृत्तैः सुबालिशैः । तान्दृष्ट्वा किं सुखं तेऽद्य भविष्यति महामते ॥ 58॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,58,7108,हितकारी वरः शत्रुर्दुःखदाः सुहृदः कुतः । तस्मात्स्थिरं मनः कृत्वा विहरस्व मया सह ॥ 59॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,59,7109,वैश्य उवाच । मनो मे न स्थिरं राजन् भवत्यद्य सुदुःखितम् । चिन्तयात्र कुटुम्बस्य दुस्त्यजस्य दुरात्मभिः ॥ 60॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,60,7110,राजोवाच । ममापि राज्यजं दुःखं दुनोति किल मानसम् । पृच्छावोऽद्य मुनिं शान्तं शोकनाशनमौषधम् ॥ 61॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,61,7111,व्यास उवाच । इति कृत्वा मतिं तौ तु राजा वैश्यश्च जग्मतुः । मुनिं तौ विनयोपेतौ प्रष्टुं शोकस्य कारणम् ॥ 62॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,62,7112,गत्वा तं प्रणिपत्याह राजा ऋषिमनुत्तमम् । आसीनं सम्यगासीनः शान्तं शान्तिमुपागतः ॥ 63॥ 5,५.३२,द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।,63,7113,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे सुरथराजसमाधि- वैश्ययोर्मुनिसमीपे गमनं नाम द्वात्रिंशोऽध्यायः ॥ ५.३२॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,0,7114,राजोवाव मुने वैश्योऽयमधुना वने मे मित्रतां गतः । पुत्रदारैर्निरस्तोऽयं प्राप्तोऽत्र मम सङ्गमम् ॥ 1॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,1,7115,(कुटुम्बविरहेणासौ दुःखितोऽतीव दुर्मनाः । न शान्तिमुपयात्येष तथापि मम साम्प्रतम् । गतराज्यस्य दुःखेन शोकार्तोऽस्मि महामते ।) निष्कारणञ्च मे चिन्ता हृदयान्न निवर्तते । हया मे दुर्बलाः स्युः किं गजाः शत्रुवशं गताः ॥ 2॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,2,7116,भृत्यवर्गस्तथा दुःखी जातः स्यात्तु मया विना । कोशक्षयं करिष्यन्ति रिपवोऽतिबलात्क्षणात् ॥ 3॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,3,7117,इत्येवं चिन्तयानस्य न मे निद्रा तनौ सुखम् । जानामीदं जगन्मिथ्या स्वप्नवत्सर्वमेव हि ॥ 4॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,4,7118,जानतोऽपि मनो भ्रान्तं न स्थिरं भवति प्रभो । कोऽहं केऽश्वा गजाः केऽमी न ते मे च सहोदराः ॥ 5॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,5,7119,न पुत्रा न च मित्राणि येषां दुःखं दुनोति माम् । भ्रमोऽयमिति जानामि तथापि मम मानसः ॥ 6॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,6,7120,मोहो नैवापसरति किं तत्कारणमद्भुतम् । स्वामिंस्त्वमसि सर्वज्ञः सर्वसंशयनाशकृत् ॥ 7॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,7,7121,कारणं ब्रूहि मोहस्य ममास्य च दयानिधे । व्यास उवाच । इति पृष्टस्तदा राज्ञा सुमेधा मुनिसत्तमः ॥ 8॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,8,7122,तमुवाच परं ज्ञानं शोकमोहविनाशनम् । ऋषिरुवाच । श‍ृणु राजन् प्रवक्ष्यामि कारणं बन्धमोक्षयोः ॥ 9॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,9,7123,महामायेति विख्याता सर्वेषां प्राणिनामिह । ब्रह्मा विष्णुस्तथेशानस्तुराषाड् वरुणोऽनिलः ॥ 10॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,10,7124,सर्वे देवा मनुष्याश्च गन्धर्वोरगराक्षसाः । वृक्षाश्च विविधा वल्ल्यः पशवो मृगपक्षिणः ॥ 11॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,11,7125,मायाधीनाश्च ते सर्वे भाजनं बन्धमोक्षयोः । तया सृष्टमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ 12॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,12,7126,तद्वशे वर्तते नूनं मोहजालेन यन्त्रितम् । त्वं कियान्मानुषेष्वेकः क्षत्रियो रजसाविलः ॥ 13॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,13,7127,ज्ञानिनामपि चेतांसि मोहयत्यनिशं हि सा । ब्रह्मेशवासुदेवाद्या ज्ञाने सत्यपि शेषतः ॥ 14॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,14,7128,तेऽपि रागवशाल्लोके भ्रमन्ति परिमोहिताः । पुरा सत्ययुगे राजन् विष्णुर्नारायणः स्वयम् ॥ 15॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,15,7129,श्वेतद्वीपं समासाद्य चकार विपुलं तपः । वर्षाणामयुतं यावद् ब्रह्मविद्याप्रसक्तये ॥ 16॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,16,7130,अनश्वरसुखायासौ चिन्तयानस्ततः परम् । एकस्मिन्निर्जने देशे ब्रह्मापि परमाद्भुते ॥ 17॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,17,7131,स्थितस्तपसि राजेन्द्र मोहस्य विनिवृत्तये । कदाचिद्वासुदेवोऽसौ स्थलान्तरमतिर्हरिः ॥ 18॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,18,7132,तस्माद्देशात्समुत्थाय जगामान्यद्दिदृक्षया । चतुर्मुखोऽपि राजेन्द्र तथैव निःसृतः स्थलात् ॥ 19॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,19,7133,मिलितौ मार्गमध्ये तु चतुर्मुखचतुर्भुजौ । अन्योन्यं पृष्टवन्तौ तौ कस्त्वं कस्त्वमिति स्म ह ॥ 20॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,20,7134,ब्रह्मा प्रोवाच तं देवं कर्ताहं जगतः किल । विष्णस्तमाह भो मूर्ख जगत्कर्ताहमच्युतः ॥ 21॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,21,7135,त्वं कियान्बलहीनोऽसि रजोगुणसमाश्रितः । सत्त्वाश्रितं हि मां विद्धि वासुदेवं सनातनम् ॥ 22॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,22,7136,मया त्वं रक्षितोऽद्यैव कृत्वा युद्धं सुदारुणम् । शरणं मे समायातो दानवाभ्यां प्रपीडितः ॥ 23॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,23,7137,मया तौ निहतौ कामं दानवौ मधुकैटभौ । कथं गर्वायसे मन्द मोहोऽयं त्यज साम्प्रतम् ॥ 24॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,24,7138,न मत्तोऽप्यधिकः कश्चित्संसारेऽस्मिन्प्रसारिते । ऋषिरुवाच । एवं प्रवदमानौ तौ ब्रह्मविष्णू परस्परम् ॥ 25॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,25,7139,स्फुरदोष्ठौ वेपमानौ लोहिताक्षौ बभूवतुः । प्रादुर्बभूव सहसा तयोर्विवदमानयोः ॥ 26॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,26,7140,मध्ये लिङ्गं सुधाश्वेतं विपुलं दीर्घमद्भुतम् । आकाशे तरसा तत्र वागुवाचाशरीरिणी ॥ 27॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,27,7141,तौ सम्बोध्य महाभागौ विवदन्तौ परस्परम् । ब्रह्मन् विष्णो विवादं मा कुरुतां वां परस्परम् ॥ 28॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,28,7142,लिङ्गस्यास्य परं पारमधस्तादुपरि धुवम् । यो याति युवयोर्मध्ये स श्रेष्ठो वां सदैव हि ॥ 29॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,29,7143,एकः प्रयातु पातालमाकाशमपरोऽधुना । प्रमाणं मे वचः कार्यं त्यक्त्वा वादं निरर्थकम् ॥ 30॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,30,7144,मध्यस्थः सर्वदा कार्यो विवादेऽस्मिन्द्वयोरिह । ऋषिरुवाच । तच्छ्रुत्वा वचनं दिव्यं सज्जीभूतौ कृतोद्यमौ ॥ 31॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,31,7145,जग्मतुर्मातुमग्रस्थं लिङ्गमद्भुतदर्शनम् । पातालमगमद्विष्णुर्ब्रह्माप्याकाशमेव च ॥ 32॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,32,7146,परिमातुं महालिङ्गं स्वमहत्त्वविवृद्धये । विष्णुर्गत्वा कियद्देशं श्रान्तः सर्वात्मना यतः ॥ 33॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,33,7147,न प्रापान्तं स लिङ्गस्य परिवृत्य ययौ स्थलम् । ब्रह्मागच्छत्ततश्चोर्ध्वं पतितं केतकीदलम् ॥ 34॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,34,7148,शिवस्य मस्तकात्प्राप्य परावृत्तो मुदावृतः । आगत्य तरसा ब्रह्मा विष्णवे केतकीदलम् ॥ 35॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,35,7149,दर्शयित्वा च वितथमुवाच मदमोहितः । लिङ्गस्य मस्तकादेतद् गृहीतं केतकीदलम् ॥ 36॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,36,7150,अभिज्ञानाय चानीतं तव चित्तप्रशान्तये । श्रुत्वा तद्ब्रह्मणोवाक्यं दृष्ट्वा च केतकीदलम् ॥ 37॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,37,7151,हरिस्तं प्रत्युवाचेदं साक्षी कः कथयाधुना । यथार्थवादी मेधावी सदाचारः शुचि समः ॥ 38॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,38,7152,साक्षी भवति सर्वत्र विवादे समुपस्थिते । ब्रह्मोवाच । दूरदेशात्समायाति साक्षी कः समयेऽधुना ॥ 39॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,39,7153,यत्सत्यं तद्वचः सेयं केतकी कथयिष्यति । इत्युक्त्वा प्रेरिता तत्र ब्रह्मणा केतकी स्फुटम् ॥ 40॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,40,7154,वचनं प्राह तरसा शार्ङ्गिणं प्रत्यबोधयत् । शिवमूर्ध्नि स्थितां ब्रह्मा गहीत्वा मां समागतः ॥ 41॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,41,7155,सन्देहोऽत्र न कर्तव्यस्त्वया विष्णो कदाचन । मम वाक्यं प्रमाणं हि ब्रह्मा पारङ्गतोऽस्य ह ॥ 42॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,42,7156,गृहीत्वा मां समायातः शिवभक्तैः समर्पिताम् । केतक्या वचनं श्रुत्वा हरिराह स्मयन्निव ॥ 43॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,43,7157,महादेवः प्रमाणं मे यद्यसौ वचनं वदेत् । ऋषिरुवाच । तदाकर्ण्य हरेर्वाक्यं महादेवः सनातनः ॥ 44॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,44,7158,कुपितः केतकीं प्राह मिथ्यावादिनि मा वद । गच्छतो मध्यतः प्राप्ता पतिता मस्तकान्मम ॥ 45॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,45,7159,मिथ्याभिभाषिणी त्यक्ता मया त्वं सर्वदैव हि । ब्रह्मा लज्जापरो भूत्वा ननाम मधुसूदनम् ॥ 46॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,46,7160,शिवेन केतकी त्यक्ता तद्दिनात्कुसुमेषु वै । एवं मायाबलं विद्धि ज्ञानिनामपि मोहदम् ॥ 47॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,47,7161,अन्येषां प्राणिनां राजन् का वार्ता विभ्रमं प्रति । देवानां कार्यसिद्ध्यर्थं सर्वदैव रमापतिः ॥ 48॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,48,7162,दैत्यान्वञ्चयते चाशु त्यक्त्वा पापभयं हरिः । अवतारकरो देवो नानायोनिषु माधवः ॥ 49॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,49,7163,त्यक्त्वानन्दसुखं दैत्यैर्युद्धं चैवाकरोद्विभुः । नूनं मायाबलं चैतन्माधवेऽपि जगद्गुरौ ॥ 50॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,50,7164,सर्वज्ञे देवकार्यांशे का वार्तान्यस्य भूपते । ज्ञानिनामपि चेतांसि परमा प्रकृतिः किल ॥ 51॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,51,7165,बलादाकृष्य मोहाय प्रयच्छति महीपते । यया व्याप्तमिदं सर्वं भगवत्या चराचरम् ॥ 52॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,52,7166,मोहदा ज्ञानदा सैव बन्धमोक्षप्रदा सदा । राजोवाच । भगवन्ब्रूहि मे तस्याः स्वरूपं बलमुत्तमम् ॥ 53॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,53,7167,उत्पत्तिकारणं वापि स्थानं परमकं च यत् । ऋषिरुवाच । न चोत्पत्तिरनादित्वान्नृप तस्याः कदाचन ॥ 54॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,54,7168,नित्यैव सा परा देवी कारणानां च कारणम् । वर्तते सर्वभूतेषु शक्तिः सर्वात्मना नृप ॥ 55॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,55,7169,शववच्छक्तिहीनस्तु प्राणी भवति सर्वथा । चिच्छक्तिः सर्वभूतेषु रूपं तस्यास्तदेव हि ॥ 56॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,56,7170,आविर्भावतिरोभावौ देवानां कार्यसिद्धये । यदा स्तुवन्ति तां देवा मनुजाश्च विशाम्पते ॥ 57॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,57,7171,प्रादुर्भवति भूतानां दुःखनाशाय चाम्बिका । नानारूपधरा देवी नानाशक्तिसमन्विता ॥ 58॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,58,7172,आविर्भवति कार्यार्थं स्वेच्छया परमेश्वरी । दैवाधीना न सा देवी यथा सर्वे सुरा नृप ॥ 59॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,59,7173,न कालवशगा नित्यं पुरुषार्थप्रवर्तिनी । अकर्ता पुरुषो द्रष्टा दृश्यं सर्वमिदं जगत् ॥ 60॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,60,7174,दृश्यस्य जननी सैव देवी सदसदात्मिका । पुरुषं रञ्जयत्येका कृत्वा ब्रह्माण्डनाटकम् ॥ 61॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,61,7175,रञ्जिते पुरुषे सर्वं संहरत्यतिरंहसा । तया निमित्तभूतास्ते ब्रह्मविष्णुमहेश्वराः ॥ 62॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,62,7176,कल्पिताः स्वस्वकार्येषु प्रेरिता लीलया त्वमी । स्वांशं तेषु समारोप्य कृतास्ते बलवत्तराः ॥ 63॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,63,7177,दत्ताश्च शक्तयस्तेभ्यो गीर्लक्ष्मीर्गिरिजा तथा । ते तां ध्यायन्ति देवेशा पूजयन्ति परां मुदा ॥ 64॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,64,7178,ज्ञात्वा सर्वेश्वरीं शक्तिं सृष्टिस्थितिविनाशिनीम् । एतत्ते सर्वमाख्यातं देवीमाहात्म्यमुत्तमम् । मम बुद्ध्यनुसारेण नान्तं जानामि भूपते ॥ 65॥ 5,५.३३,त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।,65,7179,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देवीमाहात्म्यवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ५.३३॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,0,7180,राजोवाच । भगवन्ब्रूहि मे सम्यक्तस्या आराधने विधिम् । पूजाविधिञ्च मन्त्रांश्च तथा होमविधिं वद ॥ 1॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,1,7181,ऋषिरुवाच । श‍ृणु राजन्प्रवक्ष्यामि तस्याः पूजाविधिं शुभम् । कामदं मोक्षदं नॄणां ज्ञानदं दुःखनाशनम् ॥ 2॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,2,7182,आदौ स्नानविधिं कृत्वा शुचिः शुक्लाम्बरो नरः । आचम्य प्रयतः कृत्वा शुभमायतनं निजम् ॥ 3॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,3,7183,ततोऽवलिप्तभूम्यां तु संस्थाप्यासनमुत्तमम् । तत्रोपविश्य विधिवत् त्रिराचम्य मुदान्वितः ॥ 4॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,4,7184,पूजाद्रव्यं सुसंस्थाप्य यथाशक्त्यनुसारतः । प्राणायामं ततः कृत्वा भूतशुद्धिं विधाय च ॥ 5॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,5,7185,कुर्यात्प्राणप्रतिष्ठां तु सम्भारं प्रोक्ष्य मन्त्रतः । कालज्ञानं ततः कृत्वा न्यासं कुर्याद्यथाविधि ॥ 6॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,6,7186,शुभे ताम्रमये पात्रे चन्दनेन सितेन च । षट्कोणं विलिखेद्यन्त्रं चाष्टकोणं ततो बहिः ॥ 7॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,7,7187,नवाक्षरस्य मन्त्रस्य बीजानि विलिखेत्ततः । कृत्वा यन्त्रप्रतिष्ठाञ्च वेदोक्ता संविधाय च ॥ 8॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,8,7188,अर्चां वा धातवीं कुर्यात्पूजामन्त्रैः शिवोदितैः । पूजनं पृथिवीपाल भगवत्याः प्रयत्नतः ॥ 9॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,9,7189,कृत्वा वा विधिवत्पूजामागमोक्तां समाहितः । जपेन्नवाक्षरं मन्त्रं सततं ध्यानपूर्वकम् ॥ 10॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,10,7190,होमं दशांशतः कुर्याद्दशांशेन च तर्पणम् । भोजनं ब्राह्मणानाञ्च तद्दशांशेन कारयेत् ॥ 11॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,11,7191,चरित्रत्रयपाठञ्च नित्यं कुर्याद्विसर्जयेत् । नवरात्रव्रतं चैव विधेयं विधिपूर्वकम् ॥ 12॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,12,7192,आश्विने च तथा चैत्रे शुक्ले पक्षे नराधिप । नवरात्रोपवासो वै कर्तव्यः शुभमिच्छता ॥ 13॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,13,7193,होमः सुविपुलः कार्यो जप्यमन्त्रैः सुपायसैः । शर्कराघृतमिश्रैश्च मधुयुक्तैः सुसंस्कृतैः ॥ 14॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,14,7194,छागमांसेन वा कार्यो बिल्वपत्रैस्तथा शुभैः । हयारिकुसुमै रक्तैस्तिलैर्वा शर्करायुतैः ॥ 15॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,15,7195,अष्टम्याञ्च चतुर्दश्यां नवम्याञ्च विशेषतः । कर्तव्यं पूजनं देव्या ब्राह्मणानाञ्च भोजनम् ॥ 16॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,16,7196,निर्धनो धनमाप्नोति रोगी रोगात्प्रमुच्यते । अपुत्रो लभते पुत्राञ्छुभांश्च वशवर्तिनः ॥ 17॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,17,7197,राज्यभ्रष्टो नृपो राज्यं प्राप्नोति सार्वभौमिकम् । शत्रुभिः पीडितो हन्ति रिपुं मायाप्रसादतः ॥ 18॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,18,7198,विद्यार्थी पूजनं यस्तु करोति नियतेन्द्रियः । अनवद्यां शुभा विद्यां विन्दते नात्र संशयः ॥ 19॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,19,7199,ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा भक्तिसंयुतः । पूजयेज्जगतां धात्रीं स सर्वसुखभाग्भवेत् ॥ 20॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,20,7200,नवरात्रव्रतं कुर्यान्नरनारीगणश्च यः । वाञ्छितं फलमाप्नोति सर्वदा भक्तितत्परः ॥ 21॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,21,7201,आश्विने शुक्लपक्षे तु नवरात्रव्रतं शुभम् । करोति भावसंयुक्तः सर्वान्कामानवाप्नुयात् ॥ 22॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,22,7202,विधिवन्मण्डलं कृत्वा पूजास्थानं प्रकल्पयेत् । कलशं स्थापयेत्तत्र वेदमन्त्रविधानतः ॥ 23॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,23,7203,यन्त्रं सुरुचिरं कृत्वा स्थापयेत्कलशोपरि । वापयित्वा यवांश्चारून्पार्श्वतः परिवर्तितान् ॥ 24॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,24,7204,कृत्वोपरि वितानञ्च पुष्पमालासमावृतम् । धूपदीपसुसंयुक्तं कर्तव्यं चण्डिकागृहम् ॥ 25॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,25,7205,त्रिकालं तत्र कर्तव्या पूजा शक्त्यनुसारतः । वित्तशाठ्यं न कर्तव्यं चण्डिकायाश्च पूजने ॥ 26॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,26,7206,धूपैर्दीपैः सुनैवेद्यैः फलपुष्पैरनेकशः । गीतवाद्यैः स्तोत्रपाठैर्वेदपारायणैस्तथा ॥ 27॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,27,7207,उत्सवस्तत्र कर्तव्यो नानावादित्रसंयुतैः । कन्यकानां पूजनञ्च विधेयं विधिपूर्वकम् ॥ 28॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,28,7208,चन्दनैर्भूषणैर्वस्त्रैर्भक्ष्यैश्च विविधैस्तथा । सुगन्धतैलमाल्यैश्च मनसो रुचिकारकैः ॥ 29॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,29,7209,एवं सम्पूजनं कृत्वा होमं मन्त्रविधानतः । अष्टम्यां वा नवम्यां वा कारयेद्विधिपूर्वकम् ॥ 30॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,30,7210,ब्राह्मणान्भोजयेत्पश्चात्पारणं दशमीदिने । कर्तव्यं शक्तितो दानं देयं भक्तिपरैर्नृपैः ॥ 31॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,31,7211,एवं यः कुरुते भक्त्या नवरात्रव्रतं नरः । नारी वा सधवा भक्त्या विधवा वा पतिव्रता ॥ 32॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,32,7212,इह लोके सुखं भोगान्प्राप्नोति मनसेप्सितान् । देहान्ते परमं स्थानं प्राप्नोति व्रततत्परः ॥ 33॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,33,7213,जन्मान्तरेऽम्बिकाभक्तिर्भवत्यव्यभिचारिणी । जन्मोत्तमकुले प्राप्य सदाचारो भवेद्धि सः ॥ 34॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,34,7214,नवरात्रव्रतं प्रोक्तं व्रतानामुत्तमं व्रतम् । आराधनं शिवायास्तु सर्वसौख्यकरं परम् ॥ 35॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,35,7215,अनेन विधिना राजन् समाराधय चण्डिकाम् । जित्वा रिपूनस्खलितं राज्यं प्राप्स्यस्यनुत्तमम् ॥ 36॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,36,7216,सुखञ्च परमं भूप देहेऽस्मिन्स्वगृहे पुनः । पुत्रदारान्समासाद्य लप्स्यसे नात्र संशयः ॥ 37॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,37,7217,वैश्योत्तम त्वमेवाद्य समाराधय कामदाम् । देवीं विश्वेश्वरीं मायां सृष्टिसंहारकारिणीम् ॥ 38॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,38,7218,स्वजनानां च मान्यस्त्वं भविष्यसि गृहे गतः । सुखं सांसारिकं प्राप्य यथाभिलषितं पुनः ॥ 39॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,39,7219,देवीलोके शुभे वासो भविता ते न संशयः । नाराधिता भगवती यैस्ते नरकभागिनः ॥ 40॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,40,7220,इह लोकेऽतिदुःखार्ता नानारोगैः प्रपीडिताः । भवन्ति मानवा राजञ्छत्रुभिश्च पराजिताः ॥ 41॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,41,7221,निष्कलत्रा ह्यपुत्राश्च तृष्णार्ताः स्तब्धबुद्धयः । बिल्वीदलैः करवीरैः शतपत्रैश्च चम्पकैः ॥ 42॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,42,7222,अर्चिता जगतां धात्री यैस्तेऽतीव विलासिनः । भवन्ति कृतपुण्यास्ते शक्तिभक्तिपरायणाः ॥ 43॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,43,7223,धनविभवसुखाढ्या मानवा मानवन्तः सकलगुणगणानां भाजनं भारतीशाः । निगमपठितमन्त्रैः पूजिता यैर्भवानी नृपतितिलकमुख्यास्ते भवन्तीह लोके ॥ 44॥ 5,५.३४,चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।,44,7224,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे भगवत्याः पूजाराधनविधिवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ५.३४॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,0,7225,व्यास उवाच । इति तस्य वचः श्रुत्वा दुःखितौ वैश्यपार्थिवौ । प्रणिपत्य मुनिं प्रीत्या प्रश्रयावनतौ भृशम् ॥ 1॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,1,7226,हर्षेणोत्फुल्लनयनावूचतुर्वाक्यकोविदौ । कृताञ्जलिपुटौ शान्तौ भक्तिप्रवणचेतसौ ॥ 2॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,2,7227,भगवन्पावितावद्य शान्तौ दीनौ शुचान्वितौ । तव सूक्तसरस्वत्या गङ्गयेव भगीरथः ॥ 3॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,3,7228,साधवः सम्भवन्तीह परोपकृतितत्पराः । अकृत्रिमगुणारामाः सुखदाः सर्वदेहिनाम् ॥ 4॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,4,7229,पूर्वपुण्यप्रसङ्गेन प्राप्तोऽयमाश्रमः शुभः । तवावाभ्यां महाभाग महादुःखविनाशकः ॥ 5॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,5,7230,भवन्ति मानवा भूमौ बहवः स्वार्थतत्पराः । परार्थसाधने दक्षाः केचित्क्वापि भवादृशाः ॥ 6॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,6,7231,दुःखितोऽहं मुनिश्रेष्ठ वैश्योऽयं चातिदुःखितः । उभौ संसारसन्तप्तौ तवाश्रमपदे मुदा ॥ 7॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,7,7232,दर्शनादेव हे विद्वन् गतं दुःखमिहावयोः । देहजं मानसं वाक्यश्रवणादेव साम्प्रतम् ॥ 8॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,8,7233,धन्यावावां कृतकृत्यौ जातौ सूक्तिसुधारसात् । पावितौ भवता ब्रह्मन् कृपया करुणार्णव ॥ 9॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,9,7234,गृहाणास्मत्करौ साधो नय पारं भवार्णवे । मग्नौ श्रान्ताविति ज्ञात्वा मन्त्रदानेन साम्प्रतम् ॥ 10॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,10,7235,तपः कृत्वातिविपुलं समाराध्य सुखप्रदाम् । सम्प्राप्य दर्शनं भूयो यास्यावो निजमन्दिरम् ॥ 11॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,11,7236,वदनात्तव सम्प्राप्य देवीमन्त्रं नवाक्षरम् । स्मरणञ्ज करिष्यावो निराहारौ धृतव्रतौ ॥ 12॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,12,7237,व्यास उवाच । इति सञ्चोदितस्ताभ्यां सुमेधा मुनिसत्तमः । ददौ मन्त्रं शुभं ताभ्यां ध्यानबीजपुरःसरम् ॥ 13॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,13,7238,तौ च प्राप्य मुनेर्मन्त्रं सम्मन्त्र्य गुरुदैवतौ । जग्मतुर्वैश्यराजानौ नदीतीरमनुत्तमम् ॥ 14॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,14,7239,एकान्ते विजने स्थाने कृत्वाऽऽसनपरिग्रहम् । उपविष्टौ स्थिरप्रज्ञौ तावतीव कृशोदरौ ॥ 15॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,15,7240,मन्त्रजाप्यरतौ शान्तौ चरित्रत्रयपाठकौ । निन्यतुर्मासमेकं तु तत्र ध्यानपरायणौ ॥ 16॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,16,7241,तयोर्मासव्रतेनैव जाता प्रीतिरनुत्तमा । पादाम्बुजे भवान्यास्तु स्थिरा बुद्धिस्तथाप्यलम् ॥ 17॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,17,7242,कदाचित्पादयोर्गत्वा मुनेस्तस्य महात्मनः । कृतप्रणामावागत्य तस्थतुश्च कुशासने ॥ 18॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,18,7243,नान्यकार्यपरौ क्वापि बभूवतुः कदाचन । देवीध्यानपरौ नित्यं जपमन्त्ररतौ सदा ॥ 19॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,19,7244,एवं जाते तदा पूर्णे तत्र संवत्सरे नृप । बभूवतुः फलाहारं त्यक्त्वा पर्णाशनौ नृप ॥ 20॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,20,7245,वर्षमेकं तपस्तत्र चक्रतुर्वैश्यपार्थिवौ । शुष्कपर्णाशनौ दान्तौ जपध्यानपरायणौ ॥ 21॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,21,7246,पूर्णे वर्षद्वये जाते कदाचिद्दर्शनञ्च तौ । प्रापतुः स्वप्नमध्ये तु भगवत्या मनोहरम् ॥ 22॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,22,7247,रक्ताम्बरधरां देवीं चारुभूषणभूषिताम् । कदाचिनॄपतिः स्वप्नेऽप्यपश्यज्जगदम्बिकाम् ॥ 23॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,23,7248,वीक्ष्य स्वप्ने च तौ देवीं प्रीतियुक्तौ बभूवतुः । जलाहारैस्तृतीये तु स्थितौ संवत्सरे तु तौ ॥ 24॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,24,7249,एवं वर्षत्रयं कृत्वा ततस्तौ वैश्यपार्थिवौ । चक्रतुस्तौ तदा चिन्तां चित्ते दर्शनलालसौ ॥ 25॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,25,7250,प्रत्यक्षं दर्शनं देव्या न प्राप्तं शान्तिदं नृणाम् । देहत्यागं करिष्यावो दुःखितौ भृशमातुरौ ॥ 26॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,26,7251,इति सञ्चिन्त्य मनसा राजा कुण्डं चकार ह । त्रिकोणं सुस्थिरं सौम्यं हस्तमात्रप्रमाणतः ॥ 27॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,27,7252,संस्थाप्य पावकं राजा तथा वैश्योऽतिभक्तिमान् । जुहावासौ निजं मांसं छित्त्वा छित्त्वा पुनः पुनः ॥ 28॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,28,7253,तथा वैश्योऽपि दीप्तेऽग्नौ स्वमांसं प्राक्षिपत्तदा । रुधिरेण बलिं चास्यै ददतुस्तौ कृतोद्यमौ ॥ 29॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,29,7254,तदा भगवती दत्त्वा प्रत्यक्षं दर्शनं तयोः । प्राह प्रीतिभरोद्भ्रान्तौ दृष्ट्वा तौ दुःखितौ भृशम् ॥ 30॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,30,7255,देव्युवाच । वरं वरय भो राजन् यत्ते मनसि वाञ्छितम् । तुष्टाहं तपसा तेऽद्य भक्तोऽसि त्वं मतो मम ॥ 31॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,31,7256,वैश्यं प्राह तदा देवी प्रसन्नाहं महामते । किं तेऽभीष्टं ददाम्यद्य प्रार्थयाशु मनोगतम् ॥ 32॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,32,7257,व्यास उवाच । तच्छ्रुत्वा वचनं राजा तामुवाच मुदान्वितः । देहि मेऽद्य निजं राज्यं हतशत्रुबलं बलात् ॥ 33॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,33,7258,तमुवाच तदा देवी गच्छ राजन् निजं गृहम् । शत्रवः क्षीणसत्त्वास्ते गमिष्यन्ति पराजिताः ॥ 34॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,34,7259,मन्त्रिणस्ते समागम्य ते पतिष्यन्ति पादयोः । कुरु राज्यं महाभाग नगरे स्वं यथासुखम् ॥ 35॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,35,7260,कृत्वा राज्यं सुविपुलं वर्षाणामयुतं नृप । देहान्ते जन्म सम्प्राप्य सूर्याच्च भविता मनुः ॥ 36॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,36,7261,व्यास उवाच । वैश्यस्तामप्युवाचेदं कृताञ्जलिपुटः शुचिः । न मे गृहेण कार्यं वै न पुत्रेण धनेन वा ॥ 37॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,37,7262,सर्वं बन्धकरं मातः स्वप्नवन्नश्वरं स्फुटम् । ज्ञानं मे देहि विशदं मोक्षदं बन्धनाशनम् ॥ 38॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,38,7263,असारेऽस्मिंश्च संसारे मूढा मज्जन्ति पामराः । पण्डिताः सन्तरन्तीह तस्मान्नेच्छन्ति संसृतिम् ॥ 39॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,39,7264,व्यास उवाच । तदाकर्ण्य महामाया वैश्यं प्राह पुरःस्थितम् । वैश्यवर्य तव ज्ञानं भविष्यति न संशयः ॥ 40॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,40,7265,इति दत्त्वा वरं ताभ्यां तत्रैवान्तरधीयत । अदर्शनं गतायां तु राजा तं मुनिसत्तमम् ॥ 41॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,41,7266,प्रणम्य हयमारुह्य गमनाय मनो दधे । तदैव तस्य सचिवास्तत्रागत्य नृपं प्रजाः ॥ 42॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,42,7267,प्रणेमुर्विनयोपेतास्तमूचुः प्राञ्जलिस्थिताः । राजंस्ते शत्रवः सर्वे पापाच्च निहता रणे ॥ 43॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,43,7268,राज्यं निष्कण्टकं भूप कुरुष्व पुरमास्थितः । तच्छ्रुत्वा वचनं राजा नत्वा तं मुनिसत्तमम् ॥ 44॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,44,7269,आपूच्छ्य निर्ययौ तत्र मन्त्रिभिः परिवारितः । सम्प्राप्य च निजं राज्यं दारान्स्वजनबान्धवान् ॥ 45॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,45,7270,बुभुजे पृथिवीं सर्वां ततः सागरमेखलाम् । वैश्योऽपि ज्ञानमासाद्य मुक्तसङ्गः समन्ततः ॥ 46॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,46,7271,कालातिवाहनं तत्र मुक्तबन्धश्चकार ह । तीर्थेषु विचरन्गायन्भगवत्या गुणानथ ॥ 47॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,47,7272,एतत्ते कथितं देव्याश्चरितं परमाद्भुतम् । आराधनफलप्राप्तिर्यथावद्भूपवैश्ययोः ॥ 48॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,48,7273,दैत्यानां हननं प्रोक्तं प्रादुर्भावस्तथा शुभः । एवम्प्रभावा सा देवी भक्तानामभयप्रदा ॥ 49॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,49,7274,यः श‍ृणोति नरो नित्यमेतदाख्यानमुत्तमम् । सम्प्राप्नोति नरः सत्यं संसारसुखमद्भुतम् ॥ 50॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,50,7275,ज्ञानदं मोक्षदं चैव कीर्तिदं सुखदं तथा । पावनं श्रवणान्नूनमेतदाख्यानमद्भुतम् ॥ 51॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,51,7276,अखिलार्थप्रदं न्नॄणां सर्वधर्मसमावृतम् । धर्मार्थकाममोक्षाणां कारणं परमं मतम् ॥ 52॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,52,7277,सूत उवाच । जनमेजयेन राज्ञासौ पृष्टः सत्यवतीसुतः । उवाच संहितां दिव्यां व्यासः सर्वार्थतत्त्ववित् ॥ 53॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,53,7278,चरितं चण्डिकायास्तु शुम्भदैत्यवधाश्रितम् । कथयामास भगवान्कृष्णः कारुणिको मुनिः । इति वः कथितः सारः पुराणानां मुनीश्वराः ॥ 54॥ 5,५.३५,पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।,54,7279,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे सुरथराजसमाधिवैश्ययोर्देवी- भक्त्येष्टप्राप्तिवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ ५.३५॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,0,7280,ऋषय ऊचुः । सूत सूत महाभाग मिष्टं ते वचनामृतम् । न तृप्ताः स्मो वयं पीत्वा द्वैपायनकृतं शुभम् ॥ 1॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,1,7281,पुनस्त्वां प्रष्टुमिच्छामः कथां पौराणिकीं शुभाम् । वेदेऽपि कथितां रम्यां प्रसिद्धां पापनाशिनीम् ॥ 2॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,2,7282,वृत्रासुर इति ख्यातो वीर्यवांस्त्वष्टुरात्मजः । स कथं निहतः सङ्ख्ये वासवेन महात्मना ॥ 3॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,3,7283,त्वष्टा वै सुरपक्षीयस्तत्पुत्रो बलवत्तरः । शक्रेण घातितः कस्माद्ब्रह्मयोनिर्महाबलः ॥ 4॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,4,7284,देवाः सत्त्वगुणोत्पना मानुषा राजसाः स्मृताः । तिर्यञ्चस्तामसाः प्रोक्ताः पुराणागमवादिभिः ॥ 5॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,5,7285,विरोधोऽत्र महान् भाति नूनं शतमखेन ह । छलेन बलवान् वृत्रः शक्रेण विनिपातितः ॥ 6॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,6,7286,विष्णुः प्रेरयिता तत्र स तु सत्त्वधरः परः । प्रविष्टः पविमध्ये स छद्मना भगवान् प्रभुः ॥ 7॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,7,7287,सन्धिं विधाय स ह्येवं मन्त्रितोऽसौ महाबलः । हरिभ्यां सत्यमुत्सृज्य जलफेनेन शातितः ॥ 8॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,8,7288,कृतमिन्द्रेण हरिणा किमेतत्सूत साहसम् । महान्तोऽपि च मोहेन वञ्चिताः पापबुद्धयः ॥ 9॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,9,7289,अन्यायवर्तिनोऽत्यर्थं भवन्ति सुरसत्तमाः । सदाचारेण युक्तेन देवाः शिष्टत्वमागताः ॥ 10॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,10,7290,एवं विशिष्टधर्मेण शिष्टत्वं कीदृशं पुनः । हत्वा वृत्रं तु विश्वस्तं शक्रेण छद्मना पुनः ॥ 11॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,11,7291,प्राप्तं पापफलं नो वा ब्रह्महत्यासमुद्भवम् । किं च त्वया पुरा प्रोक्तं वृत्रासुरवधः कृतः ॥ 12॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,12,7292,श्रीदेव्या इति तच्चापि चित्तं मोहयतीह नः । सूत उवाच । श‍ृण्वन्तु मुनयो वृत्तं वृत्रासुरवधाश्रयम् ॥ 13॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,13,7293,यथेन्द्रेण च सम्प्राप्तं दुःखं हत्यासमुद्भवम् । एवमेव पुरा पृष्टो व्यासः सत्यवतीसुतः ॥ 14॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,14,7294,पारीक्षितेन राज्ञापि स यदाह च तद्ब्रुवे । जनमेजय उवाच । कथं वृत्रासुरः पूर्वं हतो मघवता मुने ॥ 15॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,15,7295,सहायं विष्णुमासाद्य छद्मना सात्त्विकेन ह । कथं च देव्या निहतो दैत्योऽसौ केन हेतुना ॥ 16॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,16,7296,कथमेकवधो द्वाभ्यां कृतः स्यान्मुनिपुङ्गव । तदेतच्छ्रोतुमिच्छामि परं कौतूहलं हि मे ॥ 17॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,17,7297,महतां चरितं श‍ृण्वन् को विरज्येत मानवः । कथयाम्बावैभवं त्वं वृत्रासुरवधाश्रितम् ॥ 18॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,18,7298,व्यास उवाच । धन्योऽसि राजंस्तव बुद्धिरीदृशी जाता पुराणश्रवणेऽतिसादरा । पीत्वामृतं देववरास्तु सर्वथा पाने वितृष्णाः प्रभवन्ति वै पुनः ॥ 19॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,19,7299,दिने दिने तेऽधिकभक्तिभावः कथासु राजन् महनीयकीर्तेः । श्रोता यदैकप्रवणः श‍ृणोति वक्ता तदा प्रीतमना ब्रवीति ॥ 20॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,20,7300,युद्धं पुरा वासववृत्रयोर्यद् वेदे प्रसिद्धं च तथा पुराणे । दुःखं सुरेन्द्रेण तथैव लब्धं हत्वा रिपुं त्वाष्ट्रमपापमेव ॥ 21॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,21,7301,चित्रं किमत्र नृपते हरिवज्रभृद्भ्यां यच्छद्मना विनिहतस्त्रिशिरोऽथ वृत्रः । मायाबलेन मुनयोऽपि विमोहितास्ते चक्रुश्च निन्द्यमनिशं किल पापभीताः ॥ 22॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,22,7302,विष्णुः सदैव कपटेन जघान दैत्यान् सत्त्वात्ममूर्तिरपि मोहमवाप्य कामम् । कोऽन्योऽस्ति तां भगवतीं मनसापि जेतुं शक्तः समस्तजनमोहकरीं भवानीम् ॥ 23॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,23,7303,मत्स्यादियोनिषु सहस्रयुगेषु सद्यः साक्षाद्भवत्यपि यया विनियोजितोऽत्र । नारायणो नरसखो भगवाननन्तः कार्यं करोति विहिताविहितं कदाचित् ॥ 24॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,24,7304,देहं धनं गृहमिदं स्वजना मदीयं पुत्राः कलत्रमिति मोहमुपेत्य सर्वः । पुण्यं करोत्यथ च पापचयं करोति मायागुणैरतिबलैर्विकलीकृतो यत् ॥ 25॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,25,7305,न जातु मोहं क्षपितुं नरः क्षमः कश्चिद्भवेद्भूप परावरार्थवित् । विमोहितस्तैस्त्रिभिरेव मूलतो वशीकृतात्मा जगतीतले भृशम् ॥ 26॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,26,7306,अथ तौ मायया विष्णुवासवौ मोहितौ भृशम् । जघ्नतुश्छद्मना वृत्रं स्वार्थसाधनतत्परौ ॥ 27॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,27,7307,तदहं सम्प्रवक्ष्यामि वृत्तान्तमवनीपते । कारणं पूर्ववैरस्य वृत्रवासवयोर्मिथः ॥ 28॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,28,7308,त्वष्टा प्रजापतिर्ह्यासीद्देवश्रेष्ठो महातपाः । देवानां कार्यकर्ता च निपुणो ब्राह्मणप्रियः ॥ 29॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,29,7309,स पुत्रं वै त्रिशिरसमिन्द्रद्वेषात्किलासृजत् । विश्वरूपेति विख्यातं नाम्ना रूपेण मोहनम् ॥ 30॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,30,7310,त्रिभिः स वदनैः श्रेष्ठैर्व्यरोचत मनोहरैः । त्रिभिर्भिन्नानि कार्याणि मुखैः समकरोन्मुनिः ॥ 31॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,31,7311,वेदानेकेन सोऽधीते सुरां चैकेन सोऽपिबत् । तृतीयेन दिशः सर्वा युगपच्च निरीक्षते ॥ 32॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,32,7312,त्रिशिरा भोगमुत्सृज्य तपश्चक्रे सुदुष्करम् । तपस्वी स मृदुर्दान्तो धर्ममेव समाश्रितः ॥ 33॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,33,7313,पञ्चाग्निसाधनं काले पादपाग्रे निवेशनम् । जलमध्ये निवासं च हेमन्ते शिशिरे तथा ॥ 34॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,34,7314,निराहारो जितात्मासौ त्यक्तसर्वपरिग्रहः । तपश्चचार मेधावी दुष्करं मन्दबुद्धिभिः ॥ 35॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,35,7315,तं च दृष्ट्वा तपस्यन्तं खेदमाप शचीपतिः । विषादमगमत्तत्र शक्रोऽयं मास्मभूदिति ॥ 36॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,36,7316,दृष्ट्वा तस्य तपो वीर्यं सत्यं चामिततेजसः । चिन्तां च महतीं प्राप ह्यनिशं पाकशासनः ॥ 37॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,37,7317,विवर्धमानस्त्रिशिरा मामयं शातयिष्यति । नोपेक्ष्यः सर्वथा शत्रुर्वर्धमानबलो बुधैः ॥ 38॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,38,7318,तस्मादुपायः कर्तव्यस्तपोनाशाय साम्प्रतम् । कामस्तु तपसां शत्रुः कामान्नश्यति वै तपः ॥ 39॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,39,7319,तथैवाद्य प्रकर्तव्यं भोगासक्तो भवेद्यथा । इति सञ्चिन्त्य मनसा बुद्धिमान्बलमर्दनः ॥ 40॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,40,7320,आज्ञापयत्सोऽप्सरसस्त्वाष्ट्रपुत्रप्रलोभने । उर्वशीं मेनकां रम्भां घृताचीं च तिलोत्तमाम् ॥ 41॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,41,7321,समाहूयाब्रवीच्छक्रस्तास्तदा रूपगर्विताः । प्रियं कुरुध्वं मे सर्वाः कार्येऽद्य समुपस्थिते ॥ 42॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,42,7322,यत्तो मेऽद्य महाञ्छत्रुस्तपस्तपति दुर्जयः । कार्यं कुरुत गच्छध्वं प्रलोभयत माचिरम् ॥ 43॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,43,7323,श‍ृङ्गारवेषैर्विविधैर्हावैर्देहसमुद्भवैः । प्रलोभयत भद्रं वः शमयध्वं ज्वरं मम ॥ 44॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,44,7324,अस्वस्थोऽहं महाभागास्तस्य ज्ञात्वा तपोबलम् । बलवानासनं मेऽद्य ग्रहीष्यत्यविलम्बितः ॥ 45॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,45,7325,भयं मे समुपायातं क्षिप्रं नाशयताबलाः । उपकुर्वन्तु सहिताः कार्येऽद्य समुपस्थिते ॥ 46॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,46,7326,तच्छ्रुत्वा वचनं नार्य ऊचुस्तं प्रणताः पुरः । मा भयं कुरु देवेश यतिष्यामः प्रलोभने ॥ 47॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,47,7327,यथा न स्याद्भयं तस्मात्तथा कार्यं महाद्युते । नृत्यगीतविहारैश्च मुनेस्तस्य प्रलोभने ॥ 48॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,48,7328,कटाक्षैरङ्गभेदैश्च मोहयित्वा मुनिं विभो । लोलुपं वशमस्माकं करिष्यामो नियन्त्रितम् ॥ 49॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,49,7329,व्यास उवाच । इत्याभाष्य हरिं नार्यो ययुस्त्रिशिरसोऽन्तिकम् । कुर्वन्त्यो विविधान्भावान्कामशास्त्रोचितानपि ॥ 50॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,50,7330,गायन्त्यस्तालभेदैस्ता नृत्यन्त्यः पुरतो मुनेः । तं प्रलोभयितुं चक्रुर्नानाभावान्वराङ्गनाः ॥ 51॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,51,7331,नापश्यत्स तपोराशिरङ्गनानां विडम्बनम् । इन्द्रियाणि वशे कृत्वा मूकान्धबधिरः स्थितः ॥ 52॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,52,7332,दिनानि कतिचित्तस्थुर्नार्यस्तस्याश्रमे वरे । कुर्वन्त्यो गाननृत्यादिप्रपञ्चानतिमोहदान् ॥ 53॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,53,7333,न चचाल यदा कामं ध्यानाच्च त्रिशिरा मुनिः । परावृत्य तदा देव्यः पुनः शक्रमुपस्थिताः ॥ 54॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,54,7334,कृताञ्जलिपुटाः सर्वा देवराजमथाब्रुवन् । श्रान्ता दीना भयत्रस्ता विवर्णवदना भृशम् ॥ 55॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,55,7335,देवदेव महाराज यत्नश्च परमः कृतः । न स शक्यो दुराधर्षो धैर्याच्चालयितुं विभो ॥ 56॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,56,7336,उपायोऽन्यः प्रकर्तव्यः सर्वथा पाकशासन । नास्माकं बलमेतस्मिंस्तापसे विजितेन्द्रिये ॥ 57॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,57,7337,दिष्ट्या वयं न शप्ताः स्म यदनेन महात्मना । मुनिना वह्नितुल्येन तपसा द्योतितेन हि ॥ 58॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,58,7338,विसृज्याप्सरसः शक्रश्चिन्तयामास मन्दधीः । तस्यैव च वधोपायं पापबुद्धिरसाम्प्रतम् ॥ 59॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,59,7339,विसृज्य लोकलज्जां स तथा पापभयं भृशम् । चकार पापबुद्धिं तु तद्वधाय महीपते ॥ 60॥ 6,६.१,प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।,60,7340,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनं नाम प्रथमोऽध्यायः ॥ ६.१॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,0,7341,व्यास उवाच । अथ स लोभमुपेत्य सुराधिपः समधिगम्य गजासनसंस्थितः । त्रिशिरसं प्रति दुष्टमतिस्तदा मुनिमपश्यदमेयपराक्रमम् ॥ 1॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,1,7342,तमभिवीक्ष्य दृढासनसंस्थितं जितगिरं सुसमाधिवशं गतम् । रविविभावसुसन्निभमोजसा सुरपतिः परमापदमभ्यगात् ॥ 2॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,2,7343,कथमसौ विनिहन्तुमहो मया मुनिरपापमतिः किल सम्मतः । रिपुरयं सुसमिद्धतपोबलः कथमुपेक्ष्य इहासनकामुकः ॥ 3॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,3,7344,इति विचिन्त्य पविं परमायुधं प्रति मुमोच मुनिं तपसि स्थितम् । शशिदिवाकरसन्निभमाशुगं त्रिशिरसं सुरसङ्घपतिः स्वयम् ॥ 4॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,4,7345,तदभिघातहतः स धरातले किल पपात ममार च तापसः । शिखरिणः शिखरं कुलिशार्दितं निपतितं भुवि चाद्भुतदर्शनम् ॥ 5॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,5,7346,तं निहत्य मुदमाप सुरेश- श्चुक्रुशुश्च मुनयस्तु संस्थिताः । हा हतेति भृशमार्तनिःस्वनाः किं कृतं शतमखेन पापिना ॥ 6॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,6,7347,विनापराधं तपसां निधिर्हतः शचीपतिः पापमतिर्दुरात्मा । फलं किलायं तरसा कृतस्य प्राप्नोतु पापी हननोद्भवस्य ॥ 7॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,7,7348,तं निहत्य तरसा सुरराजो निर्जगाम निजमन्दिरमाशु । स हतोऽपि विरराज महात्मा जीवमान इव तेजसां निधिः ॥ 8॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,8,7349,तं दृष्ट्वा पतितं भूमौ जीवन्तमिव वृत्रहा । चिन्तामापातिखिन्नाङ्गः किं वा जीवेदयं पुनः ॥ 9॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,9,7350,विमृश्य मनसातीव तक्षाणं पुरतः स्थितम् । मघवा वीक्ष्य तं प्राह स्वकार्यसदृशं वचः ॥ 10॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,10,7351,तक्षंश्छिन्धि शिरांस्यस्य कुरुष्व वचनं मम । मा जीवतु महातेजा भाति जीवन्निव स्वयम् ॥ 11॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,11,7352,इत्याकर्ण्य वचस्तस्य तक्षोवाच विगर्हयन् । तक्षोवाच । महास्कन्धो भृशं भाति परशुर्न तरिष्यति ॥ 12॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,12,7353,ततो नाहं करिष्यामि कार्यमेतद्विगर्हितम् । त्वया वै निन्दितं कर्म कृतं सद्भिर्विगर्हितम् ॥ 13॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,13,7354,अहं बिभेमि पापाद्वै मृतस्यैव च मारणे । मृतोऽयं मुनिरस्त्येव शिरसः कृन्तनेन किम् ॥ 14॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,14,7355,भयं किं तेऽत्र सञ्जातं पाकशासन कथ्यताम् । इन्द्र उवाच । सजीव इव देहोऽयमाभाति विशदाकृतिः ॥ 15॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,15,7356,तस्माद्बिभेमि मा जीवेन्मुनिः शत्रुरयं मम । तक्षोवाच । नात्र किं त्रपसे विद्वन् क्रूरेणानेन कर्मणा ॥ 16॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,16,7357,ऋषिपुत्रमिमं हत्वा ब्रह्महत्याभयं न किम् । इन्द्र उवाच । प्रायश्चित्तं करिष्यामि पश्चात्पापक्षयाय वै ॥ 17॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,17,7358,शत्रुस्तु सर्वथा वध्यश्छलेनापि महामते । तक्षोवाच । त्वं लोभाभिहतः पापं करोषि मघवन्निह ॥ 18॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,18,7359,तं विनाहं कथं पापं करोमि वद मे विभो । इन्द्र उवाच । मखेषु खलु भागं ते करिष्यामि सदैव हि ॥ 19॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,19,7360,शिरः पशोस्तु ते भागं यज्ञे दास्यन्ति मानवाः । शुल्केनानेन छिन्धि त्वं शिरांस्यस्य कुरु प्रियम् ॥ 20॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,20,7361,व्यास उवाच । एतच्छ्रुत्वा महेन्द्रस्य वचस्तक्षा मुदान्वितः । कुठारेण शिरांस्यस्य चकर्त सुदृढेन हि ॥ 21॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,21,7362,छिन्नानि त्रीणि शीर्षाणि पतितानि यदा भुवि । तेभ्यस्तु पक्षिणः क्षिप्रं विनिष्पेतुः सहस्रशः ॥ 22॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,22,7363,कलविङ्कास्तित्तिरयस्तथैव च कपिञ्जलाः । पृथक्पृथग्विनिष्पेतुर्मुखतस्तरसा तदा ॥ 23॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,23,7364,येन वेदानधीते स्म सोमं च पिबते तथा । तस्माद्वक्त्रात्किलोत्पेतुः सद्य एव कपिञ्जलाः ॥ 24॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,24,7365,येन सर्वा दिशः कामं पिबन्निव निरीक्षते । तस्मात्तु तित्तिरास्तत्र निःसृतास्तिग्मतेजसः ॥ 25॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,25,7366,यत्सुरापं तु तद्वक्त्रं तस्मात्तु चटकाः किल । विनिष्पेतुस्त्रिशिरस एवं ते विहगा नृप ॥ 26॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,26,7367,एवंविनिःसृतान्दृष्ट्वा तेभ्यः शक्रस्तदाण्डजान् । मुमोद मनसा राजन् जगाम त्रिदिवं पुनः ॥ 27॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,27,7368,गते शक्रे तु तक्षापि स्वगृहं तरसा ययौ । यज्ञभागं परं लब्ध्वा मुदमाप महीपते ॥ 28॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,28,7369,इन्द्रोऽथ स्वगृहं गत्वा हत्वा शत्रुं महाबलम् । मेने कृतार्थमात्मानं ब्रह्महत्यामचिन्तयन् ॥ 29॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,29,7370,तं श्रुत्वा निहतं त्वष्टा पुत्रं परमधार्मिकम् । चुकोपातीव मनसा वचनं चेदमब्रवीत् ॥ 30॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,30,7371,अनागसं मुनिं यस्मात्पुत्रं निहतवान्मम । तस्मादुत्पादयिष्यामि तद्वधार्थं सुतं पुनः ॥ 31॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,31,7372,सुराः पश्यन्तु मे वीर्यं तपसश्च बलं तथा । जानातु सर्वं पापात्मा स्वकृतस्य फलं महत् ॥ 32॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,32,7373,इत्युक्त्वाग्निं जुहावाथ मन्त्रैराथर्वणोदितैः । पुत्रस्योत्पादनार्थाय त्वष्टा क्रोधसमाकुलः ॥ 33॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,33,7374,कृते होमेऽष्टरात्रं तु सन्दीप्ताच्च विभावसोः । प्रादुर्बभूव तरसा पुरुषः पावकोपमः ॥ 34॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,34,7375,तं दृष्ट्वाग्रे सुतं त्वष्टा तेजोबलसमन्वितम् । वेगात्प्रकटितं वह्नेर्दीप्यमानमिवानलम् ॥ 35॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,35,7376,उवाच वचनं त्वष्टा सुतं वीक्ष्य पुरःस्थितम् । इन्द्रशत्रो विवर्धस्व प्रतापात्तपसो मम ॥ 36॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,36,7377,इत्युक्ते वचने त्वष्ट्रा क्रोधप्रज्वलितेन च । सोऽवर्धत दिवं स्तब्ध्वा वैश्वानरसमद्युतिः ॥ 37॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,37,7378,जातः स पर्वताकारः कालमृत्युसमः स्वराट् । किं करोमीति तं प्राह पितरं परमातुरम् ॥ 38॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,38,7379,कुरु मे नामकं नाथ कार्यं कथय सुव्रत । चिन्तातुरोऽसि कस्मात्त्वं ब्रूहि मे शोककारणम् ॥ 39॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,39,7380,नाशयाम्यद्य ते शोकमिति मे व्रतमाहितम् । तेन जातेन किं भूयः पिता भवति दुःखितः ॥ 40॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,40,7381,पिबामि सागरं सद्यश्चूर्णयामि धराधरान् । उद्यन्तं वारयाम्यद्य तरणिं तिग्मतेजसम् ॥ 41॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,41,7382,हन्मीन्द्रं ससुरं सद्यो यमं वा देवतान्तरम् । क्षिपामि सागरे सर्वान्समुत्पाट्य च मेदिनीम् ॥ 42॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,42,7383,इत्याकर्ण्य वचस्तस्य त्वष्टा पुत्रस्य पेशलम् । प्रत्युवाचातिमुदितस्तं सुतं पर्वतोपमम् ॥ 43॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,43,7384,वृजिनात्त्रातुमधुना यस्माच्छक्तोऽसि पुत्रक । तस्माद्वृत्र इति ख्यातं तव नाम भविष्यति ॥ 44॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,44,7385,भ्राता तव महाभाग त्रिशिरा नाम तापसः । त्रीणि तस्य च शीर्षाणि ह्यभवन्वीर्यवन्ति च ॥ 45॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,45,7386,वेदवेदाङ्गतत्त्वज्ञः सर्वविद्याविशारदः । संस्थितस्तपसि प्रायस्त्रिलोकीविस्मयप्रदे ॥ 46॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,46,7387,शक्रेण तु हतः सोऽद्य वज्रघातेन साम्प्रतम् । विनापराधं सहसा छिन्नानि मस्तकानि च ॥ 47॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,47,7388,तस्मात्त्वं पुरुषव्याघ्र जहि शक्रं कृतागसम् । ब्रह्महत्यायुतं पापं निस्त्रपं दुर्मतिं शठम् ॥ 48॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,48,7389,इत्युक्त्वा च तदा त्वष्टा पुत्रशोकसमाकुलः । आयुधानि च दिव्यानि चकार विविधानि च ॥ 49॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,49,7390,ददावस्मै सहस्राक्षवधाय प्रबलानि च । खड्गशूलगदाशक्तितोमरप्रमुखानि वै ॥ 50॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,50,7391,शार्ङ्ग धनुस्तथा बाणं परिघं पट्टिशं तथा । चक्रं दिव्यं सहस्रारं सुदर्शनसमप्रभम् ॥ 51॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,51,7392,तूणीरौ चाक्षयौ दिव्यौ कवचं चातिसुन्दरम् । रथं मेघप्रतीकाशं दृढं भारसहं जवम् ॥ 52॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,52,7393,युद्धोपकरणं सर्वं कृत्वा पुत्राय पार्थिव । दत्त्वासौ प्रेरयामास त्वष्टा क्रोधसमन्वितः ॥ 53॥ 6,६.२,द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।,53,7394,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनं नाम द्वितीयोऽध्यायः ॥ ६.२॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,0,7395,व्यास उवाच । कृतस्वस्त्ययनो वृत्रो ब्राह्मणैर्वेदपारगैः । निर्जगाम रथारूढो हन्तुं शक्रं महाबलः ॥ 1॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,1,7396,तदैव राक्षसाः क्रूराः पुरा देवपराजिताः । समाजग्मुश्च सेवार्थं वृत्रं ज्ञात्वा महाबलम् ॥ 2॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,2,7397,इन्द्रदूतास्तु तं दृष्ट्वा युद्धाय तु समागतम् । वेगादागत्य वृत्तान्तं शशंसुस्तस्य चेष्टितम् ॥ 3॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,3,7398,दूता ऊचुः । स्वामिञ्छीघ्रमिहायाति वृत्रो नाम रिपुस्तव । बलवान्स्यन्दने रूढस्त्वष्ट्रा चोत्पादितः किल ॥ 4॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,4,7399,अविचारेण नाशार्थं तव क्रोधान्वितेन वै । पुत्रघाताभितप्तेन दुःसहो राक्षसैर्युतः ॥ 5॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,5,7400,यत्नं कुरु महाभाग शीघ्रमायाति साम्प्रतम् । मेरुमन्दरसङ्काशो घोरशब्दोऽतिदारुणः ॥ 6॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,6,7401,एतस्मिन्नन्तरे तत्र भीता देवगणा भृशम् । आगत्योचुः सुरपतिं श‍ृण्वन्तं दूतभाषितम् ॥ 7॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,7,7402,गणाः ऊचुः । मघवन् दुर्निमित्तानि भवन्ति त्रिदशालये । बहूनि भयशंसीनि पक्षिणां विरुतानि च ॥ 8॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,8,7403,काकगृध्रास्तथा श्येनाः कङ्काद्या दारुणाः खगाः । रुदन्ति विकृतैः शब्दैरुत्कारैर्भवनोपरि ॥ 9॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,9,7404,चीचीकूचीति निनदान् कुर्वन्ति विहगा भृशम् । वाहनानां च नेत्रेभ्यो जलधाराः पतन्त्यधः ॥ 10॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,10,7405,श्रूयतेऽतिमहाञ्छब्दो रुदतीनां निशासु च । राक्षसीनां महाभाग भवनोपरि दारुणः ॥ 11॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,11,7406,प्रपतन्ति ध्वजास्तूर्णं विना वातेन मानद । प्रभवन्ति महोत्पाता दिवि भूम्यन्तरिक्षजाः ॥ 12॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,12,7407,कृष्णाम्बरधरा नार्यो भ्रमन्ति च गृहे गृहे । यान्तु यान्तु गृहात्तूर्णं कुर्वन्त्यो विकृताननाः ॥ 13॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,13,7408,रात्रौ स्वप्नेषु कान्तानां सुप्तानां निजमन्दिरे । केशाँल्लुनन्ति राक्षस्यो भीषयन्त्यो भृशातुराः ॥ 14॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,14,7409,एवंविधानि देवेश भूकम्पोल्कादयस्तथा । गोमायवो रुदन्ति स्म निशायां भवनाङ्गणे ॥ 15॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,15,7410,सरटानां च जालानि प्रभवन्ति गृहे गृहे । अङ्गप्रस्फुरणादीनि दुर्निमित्तानि सर्वशः ॥ 16॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,16,7411,व्यास उवाच । इति तेषां वचः श्रुत्वा चिन्तामाप सुरेश्वरः । बृहस्पतिं समाहूय पप्रच्छ च मनोगतम् ॥ 17॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,17,7412,इन्द्र उवाच । ब्रह्मन् किमुत घोराणि निमित्तानि भवन्ति वै । वाताश्च दारुणा वान्ति प्रपतन्त्युलकाः खतः ॥ 18॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,18,7413,सर्वज्ञोऽसि महाभाग समर्थो विघ्ननाशने । बुद्धिमाञ्छास्त्रतत्त्वज्ञो देवतानां गुरुस्तथा ॥ 19॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,19,7414,कुरु शान्तिं विधानज्ञ शत्रुक्षयविधायिनीम् । यथा मे न भवेद्दुःखं तथा कार्यं विधीयताम् ॥ 20॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,20,7415,बृहस्पतिरुवाच । किं करोमि सहस्राक्ष त्वयाद्य दुष्कृतं कृतम् । अनागसं मुनिं हत्वा किं फलं समुपार्जितम् ॥ 21॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,21,7416,अत्युग्रं पुण्यपापानां फलं भवति सत्वरम् । विचार्य खलु कर्तव्यं कार्यं तद्भूतिमिच्छता ॥ 22॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,22,7417,परोपतापनं कर्म न कर्तव्यं कदाचन । न सुखं विन्दते प्राणी परपीडापरायणः ॥ 23॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,23,7418,मोहाल्लोभाद्ब्रह्महत्या कृता शक्र त्वयाधुना । तस्य पापस्य सहसा फलमेतदुपागतम् ॥ 24॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,24,7419,अवध्यः सर्वदेवानां जातोऽसौ वृत्रसंज्ञकः । हन्तुं त्वां स समायाति दानवैर्बहुभिर्वृतः ॥ 25॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,25,7420,आयुधानि च सर्वाणि वज्रतुल्यानि वासव । त्वष्ट्रा दत्तानि दिव्यानि गृहीत्वा समुपस्थितः ॥ 26॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,26,7421,समागच्छति दुर्धर्षो रथारूढः प्रतापवान् । देवेन्द्र प्रलयं कुर्वन्नास्य मृत्युर्भविष्यति ॥ 27॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,27,7422,कोलाहलस्तदा जातस्तथा ब्रुवति वाक्पतौ । गन्धर्वाः किन्नरा यक्षा मुनयश्च तपोधनाः ॥ 28॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,28,7423,सदनानि विहायैवामराः सर्वे पलायिताः । तद्दृष्ट्वा महदाश्चर्यं शक्रश्चिन्तापरायणः ॥ 29॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,29,7424,आज्ञापयामास तदा सेनोद्योगाय सेवकान् । आनयध्वं वसून् रुद्रानश्विनौ च दिवाकरान् ॥ 30॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,30,7425,पूषणं च भगं वायुं कुबेरं वरुणं यमम् । विमानेषु समारुह्य सायुधाः सुरसत्तमाः ॥ 31॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,31,7426,समागच्छन्तु तरसा शत्रुरायाति साम्प्रतम् । इत्याज्ञाप्य सुरपतिः समारुह्य गजोत्तमम् ॥ 32॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,32,7427,बृहस्पतिं पुरोधाय निर्गतो निजमन्दिरात् । तथैव त्रिदशाः सर्वे स्वं स्वं वाहनमास्थिताः ॥ 33॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,33,7428,युद्धाय कृतसङ्कल्पा निर्ययुः शस्त्रपाणयः । वृत्रोऽथ दानवैर्युक्तः सम्प्राप्तो मानसोत्तरम् ॥ 34॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,34,7429,पर्वतं देवतावासं रम्यं पादपशोभितम् । इन्द्रोऽप्यागत्य सङ्ग्रामं चकार मानसोत्तरे ॥ 35॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,35,7430,पर्वते देवतायुक्तो वाचस्पतिपुरःसरः । तत्राभूद्दारुणं युद्धं वृत्रवासवयोस्तदा ॥ 36॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,36,7431,गदासिपरिघैः पाशैर्बाणैः शक्तिपरश्वधैः । मानुषेण प्रमाणेन सङ्ग्रामः शरदां शतम् ॥ 37॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,37,7432,बभूव भयदो नॄणामृषीणां भावितात्मनाम् । वरुणः प्रथमं भग्नस्ततो वायुगणः किल ॥ 38॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,38,7433,यमो विभावसुः शक्रः सर्वे ते निर्गता रणात् । पलायनपरान् दृष्ट्वा देवानिन्द्रपुरोगमान् ॥ 39॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,39,7434,वृत्रोऽपि पितरं प्रागादाश्रमस्थं मुदान्वितम् । प्रणम्य प्राह त्वष्टारं पितः कार्यं मया कृतम् ॥ 40॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,40,7435,देवा विनिर्जिताः सर्वे सेन्द्राः समरसंस्थिताः । विद्रुतास्ते गताः स्थानं यथा सिंहान्मृगा गजाः ॥ 41॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,41,7436,इन्द्रः पदातिरगमन्मयानीतो गजोत्तमः । ऐरावतोऽयं भगवन् गृहाण द्विरदोत्तमम् ॥ 42॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,42,7437,न हतास्ते मया यस्मादयुक्तं भीतमारणम् । आज्ञापय पुनस्तात किं करोमि तवेप्सितम् ॥ 43॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,43,7438,निर्जरा निर्गताः सर्वे भयभीता श्रमातुराः । इन्द्रोऽप्यैरावतं त्यक्त्वा भयभीतः पलायितः ॥ 44॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,44,7439,व्यास उवाच । इति पुत्रवचः श्रुत्वा त्वष्टा प्राह मुदान्वितः । पुत्रवानद्य जातोऽस्मि सफलं मम जीवितम् ॥ 45॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,45,7440,त्वयाहं पावितः पुत्र गतो मे मानसो ज्वरः । निश्चलं मे मनो जातं दृष्ट्वा वीर्यं तवाद्भुतम् ॥ 46॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,46,7441,श‍ृणु वक्ष्याम्यहं पुत्र हितं तेऽद्य निशामय । तपः कुरु महाभाग सावधानः स्थिरासनः ॥ 47॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,47,7442,विश्वासो नैव कर्तव्यः केषाञ्चित्पाकशासनः । शत्रुस्ते छलकर्तास्ति नानाभेदविशारदः ॥ 48॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,48,7443,तपसा प्राप्यते लक्ष्मीस्तपसा राज्यमुत्तमम् । तपसा बलवृद्धिः स्यात्सङ्ग्रामे विजयस्तथा ॥ 49॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,49,7444,आराध्य द्रुहिणं देवं लब्ध्वा वरमनुत्तमम् । जहि शक्रं दुराचारं ब्रह्महत्यासमावृतम् ॥ 50॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,50,7445,सावधानः स्थिरो भूत्वा दातारं भज शङ्करम् । वाञ्छितं स वरं दद्यात्सन्तुष्टश्चतुराननः ॥ 51॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,51,7446,तोषयित्वा विश्वयोनिं ब्रह्माणममितौजसम् । अविनाशित्वमासाद्य जहि शक्रं कृतागसम् ॥ 52॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,52,7447,वैरं मनसि मे पुत्र वर्तते सुतघातजम् । न शान्तिमनुगच्छामि न स्वपामि सुखेन ह ॥ 53॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,53,7448,तापसो मे हतः पुत्रो निरागाः पाप्मना यतः । न विन्दामि सुखं वृत्र त्वं मामुद्धर दुःखितम् ॥ 54॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,54,7449,व्यास उवाच । तदाकर्ण्य पितुर्वाक्यं वृत्रः क्रोधयुतस्तदा । आज्ञामादाय च पितुर्जगाम तपसे मुदा ॥ 55॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,55,7450,गन्धमादनमासाद्य पुण्यां देवधुनीं शुभाम् । स्नात्वा कुशासनं कृत्वा संस्थितश्च स्थिरासनः ॥ 56॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,56,7451,त्यक्त्वान्नं वारिपानं च योगाभ्यासपरायणः । ध्यायन्विश्वसृजं चित्ते सोपविष्टः स्थिरासने ॥ 57॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,57,7452,मघवा तं तपस्यन्तं ज्ञात्वा चिन्तातुरो ह्यभूत् । गन्धर्वान्प्रेषयामास विघ्नार्थं पाकशासनः ॥ 58॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,58,7453,यक्षांश्च पन्नगान्सर्पान्किन्नरानमितौजसः । विद्याधरानप्सरसो देवदूताननेकशः ॥ 59॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,59,7454,उपायास्तैः कृताः सम्यक् तपोविघ्नाय मायिभिः । न चचाल ततो ध्यानात्त्वाष्ट्रः परमतापसः ॥ 60॥ 6,६.३,तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।,60,7455,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनं नाम तृतीयोऽध्यायः ॥ ६.३॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,0,7456,व्यास उवाच । निर्गतास्ते परावृत्तास्तपोविघ्नकराः सुराः । निराशाः कार्यसंसिद्ध्यै तं दृष्ट्वा दृढचेतसम् ॥ 1॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,1,7457,जाते वर्षशते पूर्णे ब्रह्मा लोकपितामहः । तत्राजगाम तरसा हंसारूढश्चतुर्मुखः ॥ 2॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,2,7458,आगत्य तमुवाचेदं त्वष्ट्टपुत्र सुखी भव । त्यक्त्वा ध्यानं वरं ब्रूहि ददामि तव वाञ्छितम् ॥ 3॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,3,7459,तपसा तेऽद्य तुष्टोऽस्मि त्वां दृष्ट्वा चातिकर्शितम् । वरं वरय भद्रं ते मनोऽभिलषितं तव ॥ 4॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,4,7460,व्यास उवाच । वृत्रस्तदातिविशदां पुरतो निशम्य वाचं सुधासमरसां जगदेककर्तुः । सन्त्यज्य योगकलनां सहसोदतिष्ठ- त्सञ्जातहर्षनयनाश्रुकलाकलापः ॥ 5॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,5,7461,पादौ प्रणम्य शिरसा प्रणयाद्विधातु- र्बद्धाञ्जलिः पुरत एव समाससाद । प्रोवाच तं सुवरदं तपसा प्रसन्नं प्रेम्णातिगद्गदगिरा विनयेन नम्रः ॥ 6॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,6,7462,प्राप्तं मया सकलदेवपदं प्रभोऽद्य यद्दर्शनं तव सुदुर्लभमाशु जातम् । वाञ्छास्ति नाथ मनसि प्रवणे दुरापा तां प्रब्रवीमि कमलासन वेत्सि भावम् ॥ 7॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,7,7463,मृत्युश्च मा भवतु मे किल लोहकाष्ठ- शुष्कार्द्रवंशनिचयैरपरैश्च शस्त्रैः । वृद्धि प्रयातु मम वीर्यमतीव युद्धे यस्माद्भवामि सबलैरमरैरजेयः ॥ 8॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,8,7464,व्यास उवाच । इत्थं सम्प्रार्थितो ब्रह्मा तमाह प्रहसन्निव । उत्तिष्ठ गच्छ भद्रं ते वाञ्छितं सफलं सदा ॥ 9॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,9,7465,न शुष्केण न चार्द्रेण न पाषाणेन दारुणा । भविष्यति च ते मृत्युरिति सत्यं ब्रवीम्यहम् ॥ 10॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,10,7466,इति दत्त्वा वरं ब्रह्मा जगाम भुवनं परम् । वृत्रस्तु तं वरं लब्धा मुदितः स्वगृहं ययौ ॥ 11॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,11,7467,शशंस पितुरग्रे तद्वरदानं महामतिः । त्वष्टा तु मुदितः प्राप्तं पुत्रं प्राप्तवरं तदा ॥ 12॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,12,7468,स्वस्ति तेऽस्तु महाभाग जहि शक्रं रिपुं मम । हत्वागच्छ त्रिशिरसो हन्तारं पापसंयुतम् ॥ 13॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,13,7469,भव त्वं त्रिदशाधीशः सम्प्राप्य विजयं रणे । ममाधिं छिन्धि विपुलं पुत्रनाशसमुद्भवम् ॥ 14॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,14,7470,जीवतो वाक्यकरणात्क्षयाहे भूरिभोजनात् । गयायां पिण्डदानाच्च त्रिभिः पुत्रस्य पुत्रता ॥ 15॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,15,7471,तस्मात्पुत्र ममात्यर्थं दुःखं नाशितुमर्हसि । त्रिशिरा मम चित्तात्तु नापसर्पति कर्हिचित् ॥ 16॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,16,7472,सुशीलः सत्यवादी च तापसो वेदवित्तमः । अपराधं विना तेन निहतः पापबुद्धिना ॥ 17॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,17,7473,व्यास उवाच । इति तस्य वचः श्रुत्वा वृत्रः परमदुर्जयः । रथमारुह्य तरसा निर्जगाम पितुर्गृहात् ॥ 18॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,18,7474,रणदुन्दुभिनिर्घोषं शङ्खनादं महाबलम् । कारयित्वा प्रयाणं स चकार मदगर्वितः ॥ 19॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,19,7475,निर्ययौ नयसंयुक्तः सेवकानिति संवदन् । हत्वा शक्रं ग्रहीष्यामि सुरराज्यमकण्टकम् ॥ 20॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,20,7476,इत्युक्त्वा निर्जगामाशु स्वसैन्यपरिवारितः । महता सैन्यनादेन भीषयन्नमरावतीम् ॥ 21॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,21,7477,तमागच्छन्तमाज्ञाय तुराषाडपि सत्वरः । सेनोद्योगं भयत्रस्तः कारयामास भारत ॥ 22॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,22,7478,सर्वानाहूय तरसा लोकपालानरिन्दमः । युद्धार्थं प्रेरयन्सर्वान्व्यरोचत महाद्युतिः ॥ 23॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,23,7479,गृध्रन्व्यूहं ततः कृत्वा संस्थितः पाकशासनः । तत्राजगाम वेगात्तु वृत्रः परबलार्दनः ॥ 24॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,24,7480,देवदानवयोस्तावत्सङ्ग्रामस्तुमुलोऽभवत् । वृत्रवासवयोः सङ्ख्ये मनसा विजयैषिणोः ॥ 25॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,25,7481,एवं परस्परं युद्धे सन्दीप्ते भयदे भृशम् । आकूतं देवताः प्रापुर्दैत्याश्च परमां मुदम् ॥ 26॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,26,7482,तोमरैर्भिन्दिपालैश्च खड्गैः परशुपट्टिशैः । जघ्नुः परस्परं देवदैत्या स्वस्ववरायुधैः ॥ 27॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,27,7483,एवं युद्धे वर्तमाने दारुणे लोमहर्षणे । शक्रं जग्राह सहसा वृत्रः क्रोधसमन्वितः ॥ 28॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,28,7484,अपावृत्य मुखे क्षिप्त्वा स्थितो वृत्रः शतक्रतुम् । मुदितोऽभून्महाराज पूर्ववैरमनुस्मरन् ॥ 29॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,29,7485,शक्रे ग्रस्तेऽथ वृत्रेण सम्भ्रान्ता निर्जरास्तदा । चुक्रुशः परमार्तास्ते हा शक्रेति मुहुर्मुहुः ॥ 30॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,30,7486,अपावृतं मुखे शक्रं ज्ञात्वा सर्वे दिवौकसः । बृहस्पतिं प्रणम्योचुर्दीना व्यथितचेतसः ॥ 31॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,31,7487,किं कर्तव्यं द्विजश्रेष्ठ त्वमस्माकं गुरुः परः । शक्रो ग्रस्तस्तु वृत्रेण रक्षितो देवतान्तरैः ॥ 32॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,32,7488,विना शक्रेण किं कुर्मः सर्वे हीनपराक्रमाः । अभिचारं कुरु विभो सत्वरः शक्रमुक्तये ॥ 33॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,33,7489,बृहस्पतिरुवाच । किं कर्तव्यं सुराः क्षिप्तो मुखमध्येऽस्ति वासवः । वृत्रेणोत्सादितो जीवन्नस्ति कोष्ठान्तरे रिपोः ॥ 34॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,34,7490,व्यास उवाच । देवाश्चिन्तातुराः सर्वे तुरासाहं तथाकृतम् । दृष्ट्वा विमृश्य तरसा चक्रुर्यत्नं विमुक्तये ॥ 35॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,35,7491,असृजन्त महासत्त्वां जृम्भिकां रिपुनाशिनीम् । ततो विजृम्भमाणः स व्यावृतास्यो बभूव ह ॥ 36॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,36,7492,विजृम्भमाणस्य ततो वृत्रस्यास्यादवापतत् । स्वान्यङ्गान्यपि सङ्क्षिप्य निष्क्रान्तो बलसूदनः ॥ 37॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,37,7493,ततः प्रभृति लोकेषु जृम्भिका प्राणिसंस्थिता । जहृषुश्च सुराः सर्वे शक्रं दृष्ट्वा विनिर्गतम् ॥ 38॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,38,7494,ततः प्रववृते युद्धं तयोर्लोकभयप्रदम् । वर्षाणामयुतं यावद्दारुणं लोमहर्षणम् ॥ 39॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,39,7495,एकतश्च सुराः सर्वे युद्धाय समुपस्थिताः । एकतो बलवांस्त्वाष्ट्रः सङ्ग्रामे समवर्तत ॥ 40॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,40,7496,यदा व्यवर्धत रणे वृत्रो वरमदावृतः । पराजितस्तदा शक्रस्तेजसा तस्य धर्षितः ॥ 41॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,41,7497,विव्यथे मघवा युद्धे ततः प्राप्य पराजयम् । विषादमगमन्देवा दृष्ट्वा शक्रं पराजितम् ॥ 42॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,42,7498,जग्मुस्त्यक्त्वा रणं सर्वे देवा इन्द्रपुरोगमाः । गृहीतं देवसदनं वृत्रेणागत्य रंहसा ॥ 43॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,43,7499,देवोद्यानानिसर्वाणि भुङ्क्तेऽसौ दानवो बलात् । ऐरावतोऽपि दैत्येन गृहीतोऽसौ गजोत्तमः ॥ 44॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,44,7500,विमानानि च सर्वाणि गृहीतानि विशाम्पते । उच्चैःश्रवा हयवरो जातस्तस्य वशे तदा ॥ 45॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,45,7501,कामधेनुः पारिजातो गणश्चाप्सरसां तथा । गृहीतं रत्नमात्रं तु तेन त्वष्ट्टसुतेन ह ॥ 46॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,46,7502,स्थानभ्रष्टाः सुराः सर्वे गिरिदुर्गेषु संस्थिताः । दुःखमापुः परिभ्रष्टा यज्ञभागात्सुरालयात् ॥ 47॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,47,7503,वृत्रः सुरपदं प्राप्य बभूव मदगर्वितः । त्वष्टातीव सुखं प्राप्य मुमोद सुतसंयुतः ॥ 48॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,48,7504,अमन्त्रयन्हितं देवा मुनिभिः सह भारत । किं कर्तव्यमिति प्राप्ते विचिन्त्य भयमोहिताः ॥ 49॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,49,7505,जग्मुः कैलासमचलं सुराः शक्रसमन्विताः । महादेवं प्रणम्योचुः प्रह्वाः प्राञ्जलयो भृशम् ॥ 50॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,50,7506,देवदेव महादेव कृपासिन्धो महेश्वर । रक्षास्मान्भयभीतांस्तु वृत्रेणातिपराजितान् ॥ 51॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,51,7507,गृहीतं देवसदनं तेन देव बलीयसा । किं कर्तव्यमतः शम्भो ब्रूहि सत्यं शिवाद्य नः ॥ 52॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,52,7508,किं कुर्मः क्व च गच्छामः स्थानभ्रष्टा महेश्वर । दुःखस्य नाधिगच्छामो विनाशोपायमीश्वर ॥ 53॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,53,7509,साहाय्यं कुरु भूतेश व्यथिताः स्म कृपानिधे । वृत्रं जहि मदोत्सिक्तं वरदानबलाद्विभो ॥ 54॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,54,7510,शिव उवाच । ब्रह्माणं पुरतः कृत्वा वयं सर्वे हरेः क्षयम् । गत्वा समेत्य तं विष्णुं चिन्तयामो वधोद्यमम् ॥ 55॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,55,7511,स शक्तश्च छलज्ञश्च बलवान्बुद्धिमत्तरः । शरण्यश्च दयाब्धिश्च वासुदेवो जनार्दनः ॥ 56॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,56,7512,विना तं देवदेवेशं नार्थसिद्धिर्भविष्यति । तस्मात्तत्र च गन्तव्यं सर्वकार्यार्थसिद्धये ॥ 57॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,57,7513,व्यास उवाच । इति सञ्चिन्त्य ते सर्वे ब्रह्मा शक्रः सशङ्करः । जग्मुर्विष्णोः क्षयं देवाः शरण्यं भक्तवत्सलम् ॥ 58॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,58,7514,गत्वा विष्णुपदं देवास्तुष्टुवुः परमेश्वरम् । हरिं पुरुषसूक्तेन वेदोक्तेन जगद्गुरुम् ॥ 59॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,59,7515,प्रत्यक्षोऽभूज्जगन्नाथस्तेषां स कमलापतिः । सम्मान्य च सुरान्सर्वानित्युवाच पुरःस्थितः ॥ 60॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,60,7516,किमागताः स्म लोकेशा हरब्रह्मसमन्विताः । कारणं कथयध्वं वः सर्वेषां सुरसत्तमाः ॥ 61॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,61,7517,व्यास उवाच । इति श्रुत्वा हरेर्वाक्यं नोचुर्देवा रमापतिम् । चिन्ताविष्टाः स्थिताः प्रायः सर्वेप्राञ्जलयस्तथा ॥ 62॥ 6,६.४,चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।,62,7518,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनं नाम चतुर्थोऽध्यायः ॥ ६.४॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,0,7519,व्यास उवाच । तथा चिन्तातुरान्वीक्ष्य सर्वान्मर्वार्थतत्त्ववित् । प्राह प्रेमभरोद्भ्रान्तान्माधवो मेदिनीपते ॥ 1॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,1,7520,विष्णुरुवाच । किं मौनमाश्रिता यूयं ब्रुवन्तु कारणं सुराः । सदसद्वापि यच्छ्रुत्वा यतिष्ये तन्निवारणे ॥ 2॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,2,7521,देवा ऊचुः । किमज्ञातं तव विभो त्रिषु लोकेषु वर्तते । सर्वं वेद भवान्कार्यं किं पृच्छसि पुनः पुनः ॥ 3॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,3,7522,त्वया पूर्वं बलिर्बद्धः शक्रो देवाधिपः कृतः । वामनं वपुरास्थाय क्रान्तं त्रिभुवनं पदैः ॥ 4॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,4,7523,अमृतं त्वाहृतं विष्णो दैत्याश्च विनिपातिताः । त्वं प्रभुः सर्वदेवानां सर्वापद्विनिवारणे ॥ 5॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,5,7524,विष्णुरुवाच । न भेतव्यं सुरवरा वेद्म्युपायं सुसम्मतम् । तद्वधाय प्रवक्ष्यामि येन सौख्यं भविष्यति ॥ 6॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,6,7525,अवश्यं करणीयं मे भवतां हितमात्मना । बुद्ध्या बलेन चार्थेन येन केनच्छलेन वा ॥ 7॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,7,7526,उपायाः खलु चत्वारः कथितास्तत्त्वदर्शिभिः । सामादयः सुहृत्स्वेव दुर्हृदेषु विशेषतः ॥ 8॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,8,7527,ब्रह्मणास्य वरो दत्तस्तपसाऽऽराधितेन च । दुर्जयत्वं च सम्प्राप्तं वरदानप्रभावतः ॥ 9॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,9,7528,अजेयः सर्वभूतानां त्वष्ट्रा समुपपादितः । ततो बलेन वृद्धिं स प्राप्तः परपुरञ्जयः ॥ 10॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,10,7529,दुःसाध्योऽसौ सुराः शत्रुर्विना सामप्रतारणम् । प्रलोभ्य वशमानेयो हन्तव्यस्तु ततः परम् ॥ 11॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,11,7530,गच्छध्वं सर्वगन्धर्वा यत्रास्ति बलवत्तरः । साम तस्य प्रयुञ्जध्वं तत एनं विजेष्यथ ॥ 12॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,12,7531,सङ्गम्य शपथात्कृत्वा विश्वास्य समयेन हि । मित्रत्वं च समाधाय हन्तव्यः प्रबलो रिपुः ॥ 13॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,13,7532,अदृश्यः सम्प्रवेक्ष्यामि वज्रमस्य वरायुधम् । साहाय्यं च करिष्यामि शक्रस्याहं सुरोत्तमाः ॥ 14॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,14,7533,समयं च प्रतीक्षध्वं सर्वथैवायुषः क्षये । मरणं विबुधास्तस्य नान्यथा सम्भविष्यति ॥ 15॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,15,7534,गच्छध्वमृषिभिः सार्धं गन्धर्वाः कपटावृताः । इन्द्रेण सह मित्रत्वं कुरुध्वं वाक्यदानतः ॥ 16॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,16,7535,यथा स याति विश्वासं तथा कार्यं प्रतारणम् । गुप्तोऽहं सम्प्रवेक्ष्यामि पविं सञ्छादितं दृढम् ॥ 17॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,17,7536,विश्वस्तं मघवा शत्रुं हनिष्यति न चान्यथा । विश्वासस्य कृते पापं कृत्वा शक्रस्तु पृष्ठतः ॥ 18॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,18,7537,मत्सहायोऽथ वज्रेण शातयिष्यति पापिनम् । न दोषोऽत्र शठे शत्रौ शाठ्यमेव प्रकुर्वतः ॥ 19॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,19,7538,नान्यथा बलवान्वध्यः शूरधर्मेण जायते । वामनं रूपमाधाय मयायं वञ्चितो बलिः ॥ 20॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,20,7539,कृत्वा च मोहिनीवेषं दैत्याः सर्वेऽपिवञ्चिताः । भवन्तः सहिताः सर्वे देवीं भगवतीं शिवाम् ॥ 21॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,21,7540,गच्छध्वं शरणं भावैः स्तोत्रमन्त्रैः सुरोत्तमाः । साहाय्यं सा योगमाया भवतां संविधास्यति ॥ 22॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,22,7541,वन्दामहे सदा देवीं सात्त्विकीं प्रकृतिं पराम् । सिद्धिदां कामदां कामां दुरापामकृतात्मभिः ॥ 23॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,23,7542,इन्द्रोऽपि तां समाराध्य हनिष्यति रिपुं रणे । मोहिनी सा महामाया मोहयिष्यति दानवम् ॥ 24॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,24,7543,मोहितो मायया वृत्रः सुखसाध्यो भविष्यति । प्रसन्नायां पराम्बायां सर्वं साध्यं भविष्यति ॥ 25॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,25,7544,नोचेन्मनोरथावाप्तिर्न कस्यापि भविष्यति । अन्तर्यामिस्वरूपा सा सर्वकारणकारणा ॥ 26॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,26,7545,तस्मात्तां विश्वजननीं प्रकृतिं परमादृताः । भजध्वं सात्त्विकैर्भावैः शत्रुनाशाय सत्तमाः ॥ 27॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,27,7546,पुरा मयापि सङ्ग्रामं कृत्वा परमदारुणम् । पञ्चवर्षसहस्राणि निहतौ मधुकैटभौ ॥ 28॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,28,7547,स्तुता मया तदात्यर्थं प्रसन्ना प्रकृतिः परा । मोहितौ तौ तदा दैत्यौ छलेन च मया हतौ ॥ 29॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,29,7548,विप्रलब्धौ महाबाहू दानवौ मदगर्वितौ । तथा कुरुध्वं प्रकृतेर्भजनं भावसंयुताः ॥ 30॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,30,7549,सर्वथा कार्यसिद्धिं सा करिष्यति सुरोत्तमाः । एवं ते दत्तमतयो विष्णुना प्रभविष्णुना ॥ 31॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,31,7550,जग्मुस्ते मेरुशिखरं मन्दारद्रुममण्डितम् । एकान्ते संस्थिता देवाः कृत्वा ध्यानं जपं तपः ॥ 32॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,32,7551,तुष्टुवुर्जगतां धात्रीं सृष्टिसंहारकारिणीम् । भक्तकामदुघामम्बां संसारक्लेशनाशिनीम् ॥ 33॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,33,7552,देवा ऊचुः । देवि प्रसीद परिपाहि सुरान्प्रतप्तान् वृत्रासुरेण समरे परिपीडितांश्च । दीनार्तिनाशनपरे परमार्थतत्त्वे प्राप्तांस्त्वदङ्घ्रिकमलं शरणं सदैव ॥ 34॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,34,7553,त्वं सर्वविश्वजननी परिपालयास्मान् पुत्रानिवातिपतितान् रिपुसङ्कटेऽस्मिन् । मातर्न तेऽस्त्यविदितं भुवनत्रयेऽपि कस्मादुपेक्षसि सुरानसुरप्रतप्तान् ॥ 35॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,35,7554,त्रैलोक्यमेतदखिलं विहितं त्वयैव ब्रह्मा हरिः पशुपतिस्तव वासनोत्थाः । कुर्वन्ति कार्यमखिलं स्ववशा न ते ते भ्रूभङ्गचालनवशाद्विहरन्ति कामम् ॥ 36॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,36,7555,माता सुतान्परिभवात्परिपाति दीनान् रीतिस्त्वयैव रचिता प्रकटापराधान् । कस्मान्न पालयसि देवि विनापराधा- नस्मांस्त्वदङ्घ्रिशरणान्करुणारसाब्धे ॥ 37॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,37,7556,नूनं मदङ्घ्रिभजनाप्तपदाः किलैते भक्तिं विहाय विभवे सुखभोगलुब्धाः । नेमे कटाक्षविषया इति चेन्न चैषा रीतिः सुते जननकर्तरि चापि दृष्टा ॥ 38॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,38,7557,दोषो न नोऽत्र जननि प्रतिभाति चित्ते यत्ते विहाय भजनं विभवे निमग्नाः । मोहस्त्वया विरचितः प्रभवत्यसौ न- स्तस्मात्स्वभावकरुणे दयसे कथं न ॥ 39॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,39,7558,पूर्वं त्वया जननि दैत्यपतिर्बलिष्ठो व्यापादितो महिषरूपधरः किलाजौ । अस्मत्कृते सकललोकभयावहोऽसौ वृत्रं कथं न भयदं विधुनोषि मातः ॥ 40॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,40,7559,शुम्भस्तथातिबलवाननुजो निशुम्भ- स्तौ भ्रातरौ तदनुगा निहता हतौ च । वृत्रं तथा जहि खलं प्रबलं दयार्द्रे मत्तं विमोहय तथा न भवेद्यथासौ ॥ 41॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,41,7560,त्वं पालयाद्य विबुधानसुरेण मातः सन्तापितानतितरां भयविह्वलांश्च । नान्योऽस्ति कोऽपि भुवनेषु सुरार्तिहन्ता यः क्लेशजालमखिलं निदहेत्स्वशक्त्या ॥ 42॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,42,7561,वृत्रे दया तव यदि प्रथिता तथापि जह्येनमाशु जनदुःखकरं खलं च । पापात्समुद्धर भवानि शरैः पुनाना नोचेत्प्रयास्यति तमो ननु दुष्टबुद्धिः ॥ 43॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,43,7562,ते प्रापिताः सुरवनं विबुधारयो ये हत्वा रणेऽपि विशिखैः किल पावितास्ते । त्राता न किं निरयपातभयाद्दयार्द्रे यच्छत्रवोऽपि न हि किं विनिहंसि वृत्रम् ॥ 44॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,44,7563,जानीमहे रिपुरसौ तव सेवको न प्रायेण पीडयति नः किल पापबुद्धिः । यस्तावकस्त्विह भवेदमरानसौ किं त्वत्पादपङ्कजरतान्ननु पीडयेद्वा ॥ 45॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,45,7564,कुर्मः कथं जननि पूजनमद्य तेऽम्ब पुष्पादिकं तव विनिर्मितमेव यस्मात् । मन्त्रा वयं च सकलं परशक्तिरूपं तस्माद्भवानि चरणे प्रणताः स्म नूनम् ॥ 46॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,46,7565,धन्यास्त एव मनुजा हि भजन्ति भक्त्या पादाम्बुजं तव भवाब्धिजलेषु पोतम् । यं योगिनोऽपि मनसा सततं स्मरन्ति मोक्षार्थिनो विगतरागविकारमोहाः ॥ 47॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,47,7566,ये याज्ञिकाः सकलवेदविदोऽपि नूनं त्वां संस्मरन्ति सततं किल होमकाले । स्वाहां तु तृप्तिजननीममरेश्वराणां भूयः स्वधां पितृगणस्य च तृप्तिहेतुम् ॥ 48॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,48,7567,मेधासि कान्तिरसि शान्तिरपि प्रसिद्धा बुद्धिस्त्वमेव विशदार्थकरी नराणाम् । सर्वं त्वमेव विभवं भुवनत्रयेऽस्मि- न्कृत्वा ददासि भजतां कृपया सदैव ॥ 49॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,49,7568,व्यास उवाच । एवं स्तुता सुरैर्देवी प्रत्यक्षा साभवत्तदा । चारुरूपधरा तन्वी सर्वाभरणभूषिता ॥ 50॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,50,7569,पाशाङ्कुशवराभीतिलसद्बाहुचतुष्टया । रणत्किङ्किणिकाजालरसनाबद्धसत्कटिः ॥ 51॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,51,7570,कलकण्ठीरवा कान्ता क्वणत्कङ्कणनूपुरा । चन्द्रखण्डसमाबद्धरत्नमौलिविराजिता ॥ 52॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,52,7571,मन्दस्मितारविन्दास्या नेत्रत्रयविभूषिता । पारिजातप्रसूनाच्छनालवर्णसमप्रभा ॥ 53॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,53,7572,रक्ताम्बरपरीधाना रक्तचन्दनचर्चिता । प्रसादसुमुखी देवी करुणारससागरा ॥ 54॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,54,7573,सर्वश‍ृङ्गारवेषाढ्या सर्वद्वैतारणिः परा । सर्वज्ञा सर्वकर्त्री च सर्वाधिष्ठानरूपिणी ॥ 55॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,55,7574,सर्ववेदान्तसंसिद्धा सच्चिदानन्दरूपिणी । प्रणेमुस्तां समालोक्य सुरा देवीं पुरःस्थिताम् ॥ 56॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,56,7575,तानाह प्रणतानम्बा किं वः कार्यं ब्रुवन्तु माम् । देवा ऊचुः । मोहयैनं रिपुं वृत्रं देवानामतिदुःखदम् ॥ 57॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,57,7576,यथा विश्वसते देवांस्तथा कुरु विमोहितम् । आयुधे च बलं देहि हतः स्याद्येन वा रिपुः ॥ 58॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,58,7577,व्यास उवाच । तथेत्युक्त्वा भगवती तत्रैवान्तरधीयत । स्वानि स्वानि निकेतानि जग्मुर्देवा मुदान्विताः ॥ 59॥ 6,६.५,पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।,59,7578,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे देवीसमाराधनाय देवकृतस्तुतिवर्णनं नाम पञ्चमोऽध्यायः ॥ ६.५॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,0,7579,व्यास उवाच । एवं प्राप्तवरा देवा ऋषयश्च तपोधनाः । (जग्मुः सर्वे च सम्मन्त्र्य वृत्रस्याश्रममुत्तमं ।) ददृशुस्तत्र तं वृत्रं ज्वलन्तमिव तेजसा ॥ 1॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,1,7580,धक्ष्यन्तमिव लोकांस्त्रीन्ग्रसन्तमिव चामरान् । ऋषयोऽथ ततोऽभ्येत्य वृत्रमूचुः प्रियं वचः ॥ 2॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,2,7581,देवकार्यार्थसिद्ध्यर्थं सामयुक्तं रसात्मकम् । ऋषय ऊचुः । वृत्र वृत्र महाभाग सर्वलोकभयङ्कर ॥ 3॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,3,7582,व्याप्तं त्वयैतत्सकलं ब्रह्माण्डमखिलं किल । शक्रेण तव वैरं यत्तत्तु सौख्यविघातकम् ॥ 4॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,4,7583,युवयोर्दुःखदं कामं चिन्तावृद्धिकरं परम् । न त्वं स्वपिषि सन्तुष्टो न चापि मघवा तथा ॥ 5॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,5,7584,सुखं स्वपिति चिन्तार्तो द्वयोर्यद्वैरिजं भयम् । युवयोर्युध्यतोः कालो व्यतीतस्तु महानिह ॥ 6॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,6,7585,पीड्यन्ते च प्रजाः सर्वाः सदेवासुरमानवाः । संसारेऽत्र सुखं ग्राह्यं दुःखं हेयमिति स्थितिः ॥ 7॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,7,7586,न सुखं कृतवैरस्य भवतीति विनिर्णयः । सङ्ग्रामरसिकाः शूराः प्रशंसन्ति न पण्डिताः ॥ 8॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,8,7587,युद्धं श‍ृङ्गारचतुरा इन्द्रियार्थविघातकम् । पुष्पैरपि न योद्धव्यं किं पुनर्निशितैः शरैः ॥ 9॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,9,7588,युद्धे विजयसन्देहो निश्चयं बाणताडनम् । दैवाधीनमिदं विश्वं तथा जयपराजयौ ॥ 10॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,10,7589,दैवाधीनाविति ज्ञात्वा न योद्धव्यं कदाचन । कालेऽथ भोजनं स्नानं शय्यायां शयनं तथा ॥ 11॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,11,7590,परिचर्यापरा भार्या संसारे सुखसाधनम् । किं सुखं युध्यतः सङ्ख्ये बाणवृष्टिभयङ्करे ॥ 12॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,12,7591,खड्गपातातिरौद्रे च तथारातिसुखप्रदे । सङ्ग्रामे मरणात्स्वर्गसुखप्राप्तिरिति स्फुटम् ॥ 13॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,13,7592,प्रलोभनपरं वाक्यं नोदनार्थं निरर्थकम् । छित्त्वा देहं व्यथां प्राप्य श‍ृगालकरटादिभिः ॥ 14॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,14,7593,पश्चात्स्वर्गसुखावाप्तिं को वा वाञ्छति मन्दधीः । सख्यं भवतु ते वृत्र शक्रेण सह नित्यदा ॥ 15॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,15,7594,अवाप्स्यसि सुखं त्वं च शक्रश्चापि निरन्तरम् । वयं च तापसाः सर्वे गन्धर्वाश्च निजाश्रमे ॥ 16॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,16,7595,सुखवासं गमिष्यामः शान्ते वैरेऽधुनैव वाम् । सङ्ग्रामे युवयोर्धीर वर्तमाने दिवानिशम् ॥ 17॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,17,7596,पीड्यन्ते मुनयः सर्वे गन्धर्वाः किन्नरा नराः । सर्वेषां शान्तिकामानां सख्यमिच्छामहे वयम् ॥ 18॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,18,7597,मुनयस्त्वं च शक्रश्च प्राप्नुवन्तु सुखं किल । मध्यस्थाश्च वयं वृत्र युवयोः सख्यकारणे ॥ 19॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,19,7598,शपथं कारयित्वात्र योजयामो मिथः प्रियम् । शक्रस्तु शपथान्कृत्वा यथोक्तांश्च तवाग्रतः ॥ 20॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,20,7599,चित्तं ते प्रीतिसंयुक्तं करिष्यति तु साम्प्रतम् । सत्याधारा धरा नूनं सत्येन च दिवाकरः ॥ 21॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,21,7600,तपत्ययं यथाकालं वायुः सत्येन वात्यथ । उदन्वानपि मर्यादां सत्येनैव न मुञ्चति ॥ 22॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,22,7601,तस्मात्सत्येन सख्यं वा भवत्वद्य यथासुखम् । एकत्र शयनं क्रीडा जलकेलिं सुखासनम् ॥ 23॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,23,7602,युवाभ्यां सर्वथा कार्यं कर्तव्यं सख्यमेत्य च । व्यास उवाच । महर्षिवचनं श्रुत्वा तानुवाच महामतिः ॥ 24॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,24,7603,अवश्यं भगवन्तो मे माननीयास्तपस्विनः । भवन्तो मुनयः क्वापि न मिथ्यावादिनो भृशम् ॥ 25॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,25,7604,सदाचाराः सुशान्ताश्च न विदुश्छलकारणम् । कृतवैरे शठे स्तब्धे कामुके च गतत्विषि ॥ 26॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,26,7605,निर्लज्जे नैव कर्तव्यं सख्यं मतिमता सदा । निर्लज्जोऽयं दुराचारो ब्रह्महा लम्पटः शठः ॥ 27॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,27,7606,न विश्वासस्तु कर्तव्यः सर्वथैवेदृशे जने । भवन्तो निपुणाः सर्वे न द्रोहमतयः सदा ॥ 28॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,28,7607,अनभिज्ञास्तु शान्तत्वाच्चित्तानामतिवादिनाम् । मुनय ऊचुः । जन्तुः कृतस्य भोक्ता वै शुभस्य त्वशुभस्य च ॥ 29॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,29,7608,द्रोहं कृत्वा कुतः शान्तिमाप्नुयान्नष्टचेतनः । विश्वासघातकर्तारो नरकं यान्ति निश्चयम् ॥ 30॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,30,7609,दुःखं च समवाप्नोति नूनं विश्वासघातकः । निष्कृतिर्ब्रह्महन्तॄणां सुरापानां च निष्कृतिः ॥ 31॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,31,7610,विश्वासघातिनां नैव मित्रद्रोहकृतामपि । समयं ब्रूहि सर्वज्ञ यथा ते चेतसि ध्रुवम् ॥ 32॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,32,7611,तेनैव समयेनाद्य सन्धिः स्यादुभयोः किल । वृत्र उवाच । न शुष्केण न चार्द्रेण नाश्मना न च दारुणा ॥ 33॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,33,7612,न वज्रेण महाभाग न दिवा निशि नैव च । वध्यो भवेयं विप्रेन्द्राः शक्रस्य सह दैवतैः ॥ 34॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,34,7613,एवं मे रोचते सन्धिः शक्रेण सह नान्यथा । व्यास उवाच । ऋषयस्तं तदा प्राहुर्बाढमित्येव चादृताः ॥ 35॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,35,7614,समयं श्रावयामासुस्तत्रानीय सुरेश्वरम् । इन्द्रोऽपि शपथांस्तत्र चकार विगतज्वरः ॥ 36॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,36,7615,साक्षिणं पावकं कृत्वा मुनीनां सन्निधौ किल । वृत्रस्तु वचनैस्तस्य विश्वासमगमत्तदा ॥ 37॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,37,7616,बभूव मित्रवच्छक्रे सहचर्यापरायणः । कदाचिन्नन्दने चोभौ कदाचिद्गन्धमादने ॥ 38॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,38,7617,कदाचिदुदधेस्तीरे मोदमानौ विचेरतुः । एवं कृते च सन्धाने वृत्रः प्रमुदितोऽभवत् ॥ 39॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,39,7618,शक्रोऽपि वधकामस्तु तदुपायानचिन्तयत् । रन्ध्रान्वेषी समुद्विग्नस्तदासीन्मघवा भृशम् ॥ 40॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,40,7619,एवं चिन्तयतस्तस्य कालः समभिवर्तत । विश्वासं परमं प्राप वृत्रः शक्रेऽतिदारुणे ॥ 41॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,41,7620,एवं कतिचिदब्दानि गतानि समये कृते । वृत्रस्य मरणोपायान्मनसीन्द्रोऽप्यचिन्तयत् ॥ 42॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,42,7621,त्वष्टैकदा सुतं प्राह विश्वस्तं पाकशासने । पुत्र वृत्र महाभाग श‍ृणु मे वचनं हितम् ॥ 43॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,43,7622,न विश्वासस्तु कर्तव्यः कृतवैरे कथञ्चन । मघवा कृतवैरस्ते सदासूयापरः परैः ॥ 44॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,44,7623,लोभान्मत्तो द्वेषरतः परदुःखोत्सवान्वितः । परदारलम्पटः स पापबुद्धिः प्रतारकः ॥ 45॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,45,7624,रन्ध्रान्वेषी द्रोहपरो मायावी मदगर्वितः । यः प्रविश्योदरे मातुर्गर्भच्छेदं चकार ह ॥ 46॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,46,7625,सप्तकृत्वः सप्तकृत्वः क्रन्दमानमनातुरः । तस्मात्पुत्र न कर्तव्यो विश्वासस्तु कथञ्चन ॥ 47॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,47,7626,कृतपापस्य का लज्जा पुनः पुत्र प्रकुर्वतः । व्यास उवाच । एवं प्रबोधितः पित्रा वचनैर्हेतुसंयुतैः ॥ 48॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,48,7627,न बुबोध तदा वृत्र आसन्नमरणः किल । स कदाचित्समुद्रान्ते तमपश्यन्महासुरम् ॥ 49॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,49,7628,सन्ध्याकाल उपावृत्ते मुहूर्तेऽतीव दारुणे । ततः सञ्चिन्त्य मघवा वरदानं महात्मनाम् ॥ 50॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,50,7629,सन्ध्येयं वर्तते रौद्रा न रात्रिर्दिवसो न च । हन्तव्योऽयं मया चाद्य बलेनैव न संशयः ॥ 51॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,51,7630,एकाकी विजने चात्र सम्प्राप्तः समयोचितः । एवं विचार्य मनसा सस्मार हरिमव्ययम् ॥ 52॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,52,7631,तत्राजगाम भगवानदृश्यः पुरुषोत्तमः । वज्रमध्ये प्रविश्यासौ संस्थितो भगवान्हरिः ॥ 53॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,53,7632,इन्द्रो बुद्धिं चकाराशु तदा वृत्रवधं प्रति । इति सञ्चिन्त्य मनसा कथं हन्यां रिपुं रणे ॥ 54॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,54,7633,अजेयं सर्वथा सर्वदेवैश्च दानवैस्तथा । यदि वृत्रं न हन्म्यद्य वञ्चयित्वा महाबलम् ॥ 55॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,55,7634,न श्रेयो मम नूनं स्यात्सर्वथा रिपुरक्षणात् । अपां फेनं तदापश्यत्समुद्रे पर्वतोपमम् ॥ 56॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,56,7635,नायं शुष्को न चार्द्रोऽयं न च शस्त्रमिदं तथा । अपां फेनं तदा शक्रो जग्राह किल लीलया ॥ 57॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,57,7636,परां शक्तिं च सस्मार भक्त्या परमया युतः । स्मृतमात्रा तदा देवी स्वांशं फेने न्यधापयत् ॥ 58॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,58,7637,वज्रं तदावृतं तत्र चकार हरिसंयुतम् । फेनावृतं पविं तत्र शक्रश्चिक्षेप तं प्रति ॥ 59॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,59,7638,सहसा निपपाताशु वज्राहत इवाचलः । वासवस्तु प्रहृष्टात्मा बभूव निहते तदा ॥ 60॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,60,7639,ऋषयश्च महेन्द्रं तमस्तुवन्विविधैः स्तवैः । हतशत्रुः प्रहृष्टात्मा वासवः सह दैवतैः ॥ 61॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,61,7640,देवीं सम्पूजयामास यत्प्रसादाद्धतो रिपुः । प्रसादयामास तदा स्तोत्रैर्नानाविधैरपि ॥ 62॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,62,7641,देवोद्याने पराशक्तेः प्रासादमकरोद्धरिः । पद्मरागमयीं मूर्तिं स्थापयामास वासवः ॥ 63॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,63,7642,त्रिकालं महतीं पूजां चक्रुः सर्वेऽपि निर्जराः । तदाप्रभृति देवानां श्रीदेवी कुलदैवतम् ॥ 64॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,64,7643,विष्णुं त्रिभुवनश्रेष्ठं पूजयामास वासवः । ततो हते महावीर्ये वृत्रे देवभयङ्करे ॥ 65॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,65,7644,प्रववौ च शिवो वायुर्जहृषुर्देवतास्तथा । हते तस्मिन्सगन्धर्वा यक्षराक्षसकिन्नराः ॥ 66॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,66,7645,इत्थं वृत्रः पराशक्तिप्रवेशयुतफेनतः । तया कृतविमोहाच्च शक्रेण सहसा हतः ॥ 67॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,67,7646,ततो वृत्रनिहन्त्रीति देवी लोकेषु गीयते । शक्रेण निहतत्वाच्च शक्रेण हत उच्यते ॥ 68॥ 6,६.६,षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।,68,7647,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे छद्मेनेन्द्रेण फेनद्वारा पराशक्ति- स्मरणमूर्वकं वृत्रहननवर्णनं नाम षष्ठोऽध्यायः ॥ ६.६॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,0,7648,व्यास उवाच । अथ तं पतितं दृष्ट्वा विष्णुर्विष्णुपुरीं ययौ । मनसा शङ्कमानस्तु तस्य हत्याकृतं भयम् ॥ 1॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,1,7649,इन्द्रोऽपि भयसन्त्रस्तो ययाविन्द्रपुरीं ततः । मुनयो भयसंविग्ना ह्यभवन्निहते रिपौ ॥ 2॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,2,7650,किमस्माभिः कृतं पापं यदसौ वञ्चितः किल । मुनिशब्दो वृथा जातः सुरेशस्य च सङ्गमात् ॥ 3॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,3,7651,अस्माकं वचनाद्वृत्रो विश्वासमगमत्किल । विश्वासघातिनः सङ्गाद्वयं विश्वासघातकाः ॥ 4॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,4,7652,धिगियं ममता पापमूलमेवमनर्थकृत् । यदस्माभिश्छलं कृत्वा शपथैर्वञ्चितोऽसुरः ॥ 5॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,5,7653,मन्त्रकृद्बुद्धिदाता च प्रेरकः पापकारिणाम् । पापभाक्स भवेन्नूनं पक्षकर्ता तथैव च ॥ 6॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,6,7654,विष्णुनापि कृतं पापं यत्साहाय्यमवाप्तवान् । वज्रं प्रविश्य येनासौ पातितः सत्त्वमूर्तिना ॥ 7॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,7,7655,नूनं स्वार्थपरः प्राणी न पापात्त्रासमश्नुते । हरिणा हरिसङ्गेन सर्वथा दुष्कृतं कृतम् ॥ 8॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,8,7656,द्वावेव स्तः पदार्थानां द्वावेव निधनं गतौ । प्रथमश्च तुरीयश्च यौ त्रिलोक्यां तु दुर्लभौ ॥ 9॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,9,7657,अर्थकामौ प्रशस्तौ द्वौ सर्वेषां सम्मतौ प्रियौ । धर्माधर्मेति वाग्वादो दम्भोऽयं महतामपि ॥ 10॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,10,7658,मुनयोऽपि मनस्तापमेवं कृत्वा पुनः पुनः । जग्मुः स्वानाश्रमानेव विमनस्का हतोद्यमाः ॥ 11॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,11,7659,त्वष्टा तु निहतं श्रुत्वा पुत्रमिन्द्रेण भारत । रुरोद दुःखसन्तप्तो निर्वेदमगमत्पुनः ॥ 12॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,12,7660,यत्रासौ पतितस्तत्र गत्वा वीक्ष्य तथागतम् । संस्कारं कारयामास विधिवत्पारलौकिकम् ॥ 13॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,13,7661,स्नात्वास्य सलिलं दत्त्वा कृत्वा चैवौर्ध्वदैहिकम् । शशापेन्द्रं स शोकार्तः पापिष्ठं मित्रघातकम् ॥ 14॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,14,7662,यथा मे निहतः पुत्रः प्रलोभ्य शपथैर्भृशम् । तथेन्द्रोऽपि महद्दुःखं प्राप्नोतु विधिनिर्मितम् ॥ 15॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,15,7663,इति शप्त्वा सुरेशानं त्वष्टा तापसमन्वितः । मेरोः शिखरमास्थाय तपस्तेपे सुदुष्करम् ॥ 16॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,16,7664,जनमेजय उवाच । हत्वा त्वाष्ट्रं सुरेशोऽथ कामवस्थामवाप्तवान् । सुखं वा दुःखमेवाग्रे तन्मे ब्रूहि पितामह ॥ 17॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,17,7665,व्यास उवाच । किं पृच्छसि महाभाग सन्देहः कीदृशस्तव । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ 18॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,18,7666,बलिष्ठैर्दुर्बलैर्वापि स्वल्पं वा बहु वा कृतम् । सर्वथैव हि भोक्तव्यं सदेवासुरमानुषैः ॥ 19॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,19,7667,शक्रायेत्थं मतिर्दत्ता हरिणा वृत्रघातिने । प्रविष्टोऽथ पविं विष्णुः सहायः प्रत्यपद्यत ॥ 20॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,20,7668,न चापदि सहायोऽभूद्वासुदेवः कथञ्चन । समये स्वजनः सर्वः संसारेऽस्मिन्नराधिप ॥ 21॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,21,7669,दैवे विमुखतां प्राप्ते न कोऽप्यस्ति सहायवान् । पिता माता तथा भार्या भ्राता वाथ सहोदरः ॥ 22॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,22,7670,सेवको वापि मित्रं वा पुत्रश्चैव तथौरसः । प्रतिकूले गते दैवे न कोऽप्येति सहायताम् ॥ 23॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,23,7671,भोक्ता पापस्य पुण्यस्य कर्ता भवति सर्वथा । वृत्रं हत्वा गताः सर्वे निस्तेजस्कः शचीपतिः ॥ 24॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,24,7672,शेपुस्तं त्रिदशाः सर्वे ब्रह्महेत्यब्रुवञ्छनैः । को नाम शपथान्कृत्वा सत्यं दत्त्वा वचः पुनः ॥ 25॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,25,7673,जिघांसति सुविश्वस्तं मुनिं मित्रत्वमागतम् । देवगोष्ठ्यां सुरोद्याने गन्धर्वाणां समागमे ॥ 26॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,26,7674,सर्वत्रैव कथा तस्य विस्तारमगमत्किल । किं कृतं दुष्कृतं कर्म शक्रेणाद्य जिघांसता ॥ 27॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,27,7675,वृत्रं छलेन विश्वस्तं मुनिभिश्च प्रतारितम् । वेदप्रमाणमुत्सृज्य स्वीकृतं सौगतं मतम् ॥ 28॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,28,7676,यदयं निहतः शनुर्वञ्चयित्वातिसाहसात् । को नाम वचनं दत्त्वा विपरीतमथाचरेत् ॥ 29॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,29,7677,विना शक्रं हरिं वापि यथायं विनिपातितः । एवंविधाः कथाश्चान्याः समाजेष्वभवन्भृशम् ॥ 30॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,30,7678,शुश्रावेन्द्रोऽपि विविधाः स्वकीर्तेर्हानिकारकाः । यस्य कीर्तिर्हता लोके धिक्तस्यैव कुजीवितम् ॥ 31॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,31,7679,यं दृष्ट्वा पथि गच्छन्तं शत्रुः स्मेरमुखो भवेत् । इन्द्रद्युम्नोऽपि राजर्षिः पतितः कीर्तिसङ्क्षयात् ॥ 32॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,32,7680,स्वर्गादकृतपापोऽसौ पापकृत्किं न पात्यते । स्वल्पेऽपराधेऽपि नृपो ययातिः पतितः किल ॥ 33॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,33,7681,नृपः कर्कटतां प्राप्तो युगानष्टादशैव तु । भृगुपत्नीशिरश्छेदाद्भगवान्हरिरच्युतः ॥ 34॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,34,7682,ब्रह्मशापात्पशोर्योनौ सञ्जातो मकरादिषु । विष्णुश्च वामनो भूत्वा याचनार्थं बलेर्गृहे ॥ 35॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,35,7683,गतः किमपरं दुःखं प्राप्नोति दुष्कृती नरः । रामोऽपि वनवासेषु सीताविरहजं बहु ॥ 36॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,36,7684,दुःखं च प्राप्तवान्घोरं भृगुशापेन भारत । तथेन्द्रोऽपि ब्रह्महत्याकृतं प्राप्य महद्भयम् ॥ 37॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,37,7685,न स्वास्थ्यं प्राप गेहेऽसौ सर्वसिद्धिसमन्विते । पौलोमी तं सभाहीनं दृष्ट्वा प्रोवाच वासवम् ॥ 38॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,38,7686,निःश्वसन्तं भयत्रस्तं नष्टसंज्ञं विचेतसम् । किं प्रभोऽद्य भयार्तोऽसि मृतस्ते दारुणो रिपुः ॥ 39॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,39,7687,का चिन्ता वर्तते कान्त तव शत्रुनिषूदन । कस्माच्छोचसि लोकेश निःश्वसन्प्राकृतो यथा ॥ 40॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,40,7688,नान्योऽस्ति बलवाञ्छत्रुर्येन चिन्तापरो भवान् । इन्द्र उवाच । नारातिर्बलवान्मेऽस्ति न शान्तिर्न सुखं तथा ॥ 41॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,41,7689,ब्रह्महत्याभयाद्राज्ञि बिभेमि सततं गृहे । न नन्दनं सुखकरं नामृतं न गृहं वनम् ॥ 42॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,42,7690,गन्धर्वाणां तथा गेयं नृत्यमप्सरसां पुनः । न त्वं सुखकरा नारी नाना च सुरयोषितः ॥ 43॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,43,7691,न तथा कामधेनुश्च देववृक्षः सुखप्रदः । किं करोमि क्व गच्छामि क्व शर्म मम जायते ॥ 44॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,44,7692,इति चिन्तापरः कान्ते न लभे सुखमात्मनि । व्यास उवाच । इत्युक्त्वा वचनं शक्रः प्रियां परमकातराम् ॥ 45॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,45,7693,निर्जगाम गृहान्मन्दो मानसं सर उत्तमम् । पद्मनाले प्रविष्टोऽसौ भयार्तः शोककर्षितः ॥ 46॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,46,7694,न प्राज्ञायत देवेन्द्रस्त्वभिभूतश्च कल्मषैः । प्रतिच्छन्नो वसत्यप्सु चेष्टमान इवोरगः ॥ 47॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,47,7695,असहायस्तुराषाडैच्चिन्तार्तो विकलेन्द्रियः । ततः प्रनष्टे देवेन्द्रे ब्रह्महत्याभयार्दिते ॥ 48॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,48,7696,सुराश्चिन्तातुराश्चासन्नुत्पाताश्चाभवन्नथ । ऋषयः सिद्धगन्धर्वा भयार्ताश्चाभवन्भृशम् ॥ 49॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,49,7697,अराजकं जगत्सर्वमभिभूतमुपद्रवैः । अवर्षणं तदा जातं पृथिवी क्षीणवैभवा ॥ 50॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,50,7698,विच्छिन्नस्रोतसो नद्यः सरांस्यनुदकानि वै । एवं त्वराजके जाते देवता मुनयस्तथा ॥ 51॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,51,7699,विचार्य नहुषं चक्रुः शक्रं सर्वे दिवौकसः । सम्प्राप्य नहुषो राजा धर्मिष्ठोऽपि रजोबलात् ॥ 52॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,52,7700,बभूव विषयासक्तः पञ्चबाणशराहतः । अप्सरोभिर्वृतः क्रीडन्देवोद्यानेषु भारत ॥ 53॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,53,7701,शक्रपत्नीगुणाञ्छ्रुत्वा चकमे तां स पार्थिवः । ऋषीनाह किमिन्द्राणी नोपगच्छति मां किल ॥ 54॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,54,7702,भवद्भिश्चामरैः सर्वैः कृतोऽहं वासवस्त्विह । प्रेषयध्वं सुराः कामं सेवार्थं मम वै शचीम् ॥ 55॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,55,7703,प्रियं चेन्मम कर्तव्यं सर्वथा मुनयोऽमराः । अहमिन्द्रोऽद्य देवानां लोकानां च तथेश्वरः ॥ 56॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,56,7704,आगच्छतु शची मह्यं क्षिप्रमद्य निवेशनम् । इति तस्य वचः श्रुत्वा देवा देवर्षयस्तथा ॥ 57॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,57,7705,गत्वा चिन्तातुराः प्रोचुः पौलोमीं प्रणतास्ततः । इन्द्रपत्नि दुराचारो नहुषस्त्वामिहेच्छति ॥ 58॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,58,7706,कुपितोऽस्मानुवाचेदं प्रेषयध्वं शचीमिह । किं कुर्मस्तदधीनाः स्मो येनेन्द्रोऽयं कृतः किल ॥ 59॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,59,7707,तच्छ्रुत्वा दुर्मना देवी बृहस्पतिमुवाच ह । रक्ष मां नहुषाद्ब्रह्मंस्तवास्मि शरणं गता ॥ 60॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,60,7708,बृहस्पतिरुवाच । न भेतव्यं त्वया देवि नहुषात्पापमोहितात् । न त्वां दास्याम्यहं वत्से त्यक्त्वा धर्मं सनातनम् ॥ 61॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,61,7709,शरणागतमार्तं च यो ददाति नराधमः । स एव नरकं याति यावदाभूतसम्प्लवम् । स्वस्था भव पृथुश्रोणि न त्यक्ष्ये त्वां कदाचन ॥ 62॥ 6,६.७,सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।,62,7710,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनं नाम सप्तमोऽध्यायः ॥ ६.७॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,0,7711,व्यास उवाच । नहुषस्त्वथ तां श्रुत्वा गुरोस्तु शरणं गताम् । चुक्रोध स्मरबाणार्तस्तमाङ्गिरसमाशु वै ॥ 1॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,1,7712,देवानाहाङ्गिरासूनुर्हन्तव्योऽयं मया किल । इतीन्द्राणीं गृहे मूढो रक्षतीति मया श्रुतम् ॥ 2॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,2,7713,इति तं कुपितं दृष्ट्वा देवाः सर्षिपुरोगमाः । अब्रुवन्नहुषं घोरं सामपूर्वं वचस्तदा ॥ 3॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,3,7714,क्रोधं संहर राजेन्द्र त्यज पापमतिं प्रभो । निन्दन्ति धर्मशास्त्रेषु परदाराभिमर्शनम् ॥ 4॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,4,7715,शक्रपत्नी सदा साध्वी जीवमाने पतौ पुनः । कथमन्ये पतिं कुर्यात्सुभगातिपतिव्रता ॥ 5॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,5,7716,त्रिलोकीशस्त्वमधुना शास्ता धर्मस्य वै विभो । त्वादृशोऽधर्ममातिष्ठेत्तदा नश्येत्प्रजा ध्रुवम् ॥ 6॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,6,7717,सर्वथा प्रभुणा कार्यं शिष्टाचारस्य रक्षणम् । वारमुख्याश्च शतशो वर्तन्तेऽत्र शचीसमाः ॥ 7॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,7,7718,रतिस्तु कारणं प्रोक्तं श‍ृङ्गारस्य महात्मभिः । रसहानिर्बलात्कारे कृते सति तु जायते ॥ 8॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,8,7719,उभयोः सदृशं प्रेम यदि पार्थिवसत्तम । तदा वै सुखसम्पत्तिरुभयोरुपजायते ॥ 9॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,9,7720,तस्माद्भावमिमं मुञ्च परदाराभिमर्शने । सद्भावं कुरु देवेन्द्र पदं प्राप्तोऽस्यनुत्तमम् ॥ 10॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,10,7721,ऋद्धिक्षयस्तु पापेन पुण्येनातिविवर्धनम् । तस्मात्पापं परित्यज्य सन्मतिं कुरु पार्थिव ॥ 11॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,11,7722,नहुष उवाच । गौतमस्य यदा भुक्ता दाराः शक्रेण देवताः । वाचस्पतेस्तु सोमेन क्व यूयं संस्थितास्तदा ॥ 12॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,12,7723,परोपदेशे कुशला प्रभवन्ति नराः किल । कर्ता चैवोपदेष्टा च दुर्लभः पुरुषो भवेत् ॥ 13॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,13,7724,मामागच्छतु सा देवी हितं स्यादद्भुतं हि वः । एतस्याः परमं देवाः सुखमेव भविष्यति ॥ 14॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,14,7725,अन्यथा न हि तुष्येऽहं सत्यमेतद्ब्रवीमि वः । विनयाद्वा बलाद्वापि तामाशु प्रापयन्त्विह ॥ 15॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,15,7726,इति तस्य वचः श्रुत्वा देवाश्च मुनयस्तथा । तमूचुश्चातिसन्त्रस्ता नहुषं मदनातुरम् ॥ 16॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,16,7727,इन्द्राणीमानयिष्यामः सामपूर्वं तवान्तिकम् । इत्युक्त्वा ते तदा जग्मुर्बृहस्पतिनिकेतनम् ॥ 17॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,17,7728,व्यास उवाच । ते गत्वाङ्गिरसः पुत्रं प्रोचुः प्राञ्जलयः सुराः । जानीमः शरणं प्राप्तामिन्द्राणीं तव वेश्मनि ॥ 18॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,18,7729,सा देया नहुषायाद्य वासवोऽसौ कृतो यतः । वृणोत्वियं वरारोहा पतित्वे वरवर्णिनी ॥ 19॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,19,7730,बृहस्पतिः सुरानाह तच्छ्रुत्वा दारुणं वचः । नाहं त्यक्ष्ये तु पौलोमीं सतीं च शरणागताम् ॥ 20॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,20,7731,देवा ऊचुः । उपायोऽन्यः प्रकर्तव्यो येन सोऽद्य प्रसीदति । अन्यथा कोपसंयुक्तो दुराराध्यो भविष्यति ॥ 21॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,21,7732,गुरुरुवाच । तत्र गत्वा शची भूपं प्रलोभ्य वचसा भृशम् । करोतु समयं बाला पतिं ज्ञात्वा मृतं भजे ॥ 22॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,22,7733,इन्द्रे जीवति मे कान्ते कथमन्यं करोम्यहम् । अन्वेषणार्थं गन्तव्यं मया तस्य महात्मनः ॥ 23॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,23,7734,इति सा समयं कृत्वा वञ्चयित्वा च भूपतिम् । भर्तुरानयने यत्नं करोतु मम वाक्यतः ॥ 24॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,24,7735,इति सञ्चिन्त्य मे सर्वे बृहस्पतिपुरोगमाः । नहुषं सहिता जग्मुरिन्द्रपत्न्या दिवौकसः ॥ 25॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,25,7736,तानागतान्ममीक्ष्याह तदा कृत्रिमवासवः । जहर्ष च मुदायुक्तस्तां वीक्ष्य मुदितोऽब्रवीत् ॥ 26॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,26,7737,अद्यास्मि वासवः कान्ते भज मां चारुलोचने । पतित्वे सर्वलोकस्य पूज्योऽहं विहितः सुरैः ॥ 27॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,27,7738,इत्युक्ता सा नृपं प्राह वेपमाना त्रपायुता । वरमिच्छाम्यहं राजंस्त्वत्तः प्राप्तं सुरेश्वर ॥ 28॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,28,7739,किञ्चित्कालं प्रतीक्षस्व यावत्कुर्वे विनिर्णयम् । इन्द्रोऽस्तीति न वास्तीति सन्देहो मे हृदि स्थितः ॥ 29॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,29,7740,ततस्त्वां समुपस्थास्ये कृत्वा निश्चयमात्मनि । तावत्क्षमस्व राजेन्द्र सत्यमेतद्ब्रवीमि ते ॥ 30॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,30,7741,न हि विज्ञायते शक्रो नष्टः किं वा क्व वा गतः । एवमुक्तः स चेन्द्राण्या नहुषः प्रीतिमानभूत् ॥ 31॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,31,7742,व्यसर्जयत्स तां देवीं तथेत्युक्त्वा मुदान्वितः । सा विसृष्टा नृपेणाशु गत्वा प्राह सुरान्सती ॥ 32॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,32,7743,इन्द्रस्यागमने यत्नं कुरुताद्य कृतोद्यमाः । श्रुत्वा तद्वचनं देवा इन्द्राण्या रसवच्छुचि ॥ 33॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,33,7744,मन्त्रयामासुरेकाग्राः शक्रार्थं नृपसत्तम । ते गत्वा वैष्णवं धाम तुष्टुवुः परमेश्वरम् ॥ 34॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,34,7745,आदिदेवं जगन्नाथं शरणागतवत्सलम् । ऊचुश्चैनं समुद्विग्ना वाक्यं वाक्यविशारदाः ॥ 35॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,35,7746,देवदेव सुरपतिर्ब्रह्महत्याप्रपीडितः । अदृश्यः सर्वभूतानां क्वापि तिष्ठति वासवः ॥ 36॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,36,7747,त्वद्धिया निहते विप्रे ब्रह्महत्या कुतः प्रभो । त्वं गतिस्तस्य भगवन्नस्माकं च तथैव हि ॥ 37॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,37,7748,त्राहि नः परमापन्नान्मोक्षं तस्य विनिर्दिश । देवानां वचनं श्रुत्वा कातरं विष्णुरब्रवीत् ॥ 38॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,38,7749,यजतामश्वमेधेन शक्रपापनिवृत्तये । पुण्येन हयमेधेन पावितः पाकशासनः ॥ 39॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,39,7750,पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः । हयमेधेन सन्तुष्टा देवी श्रीजगदम्बिका ॥ 40॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,40,7751,ब्रह्महत्यादिपापानि नाशयिष्यत्यसंशयम् । यस्याः स्मरणमात्रेण पापजालं विनश्यति ॥ 41॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,41,7752,किं पुनर्वाजिमेधेन तत्प्रीत्यर्थं कृतेन च । इन्द्राणी कुरुतान्नित्यं भगवत्याः प्रपूजनम् ॥ 42॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,42,7753,आराधनं शिवायास्तु सुखकारि भविष्यति । नहुषोऽपि जगन्मातुर्मायया मोहितः किल ॥ 43॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,43,7754,विनाशं स्वकृतेनाशु गमिष्यत्येनसा सुराः । पावितश्चाश्वमेधेन तुराषाडपि वैभवम् ॥ 44॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,44,7755,प्राप्स्यत्यचिरकालेन स्वमासनमनुत्तमम् । ते तु श्रुत्वा शुभां वाणीं विष्णोरमिततेजसः ॥ 45॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,45,7756,जग्मुस्तं देशमनिशं यत्रास्ते पाकशासनः । तमाश्वास्य सुराः शक्रं बृहस्पतिपुरोगमाः ॥ 46॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,46,7757,कारयामासुरखिलं हयमेधं महाक्रतुम् । विभज्य ब्रह्महत्यां तु वृक्षेषु च नदीषु च ॥ 47॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,47,7758,पर्वतेषु पृथिव्यां च स्त्रीषु चैवाक्षिपद्विभुः । तां विसृज्य च भूतेषु विपापः पाकशासनः ॥ 48॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,48,7759,विज्वरः समभूद्भूयः कालाकाङ्क्षी स्थितो जले । अदृश्यः सर्वभूतानां पद्मनाले व्यतिष्ठत ॥ 49॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,49,7760,देवास्तु निर्गताः स्थाने कृत्वा कार्यं तदद्भुतम् । पौलोमी तु गुरुं प्राह दुःखिता विरहाकुला ॥ 50॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,50,7761,कृतयज्ञोऽपि मे भर्ता किमदृश्यः पुरन्दरः । कथं द्रक्ष्ये प्रियं स्वामिंस्तमुपायं वदस्व मे ॥ 51॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,51,7762,बृहस्पतिरुवाच । त्वमाराधय पौलोमि देवीं भगवतीं शिवाम् । दर्शयिष्यति ते नाथं देवी विगतकल्मषम् ॥ 52॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,52,7763,आराधिता जगद्धात्री नहुषं वारयिष्यति । मोहयित्वा नृपं स्थानात्पातयिष्यति चाम्बिका ॥ 53॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,53,7764,इत्युक्ता सा तदा तेन पुलोमतनया नृप । जग्राह मन्त्रं विधिवद्गुरोर्देव्याः ससाधनम् ॥ 54॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,54,7765,विद्यां प्राप्य गुरोर्देवी देवीं श्रीभुवनेश्वरीम् । सम्यगाराधयामास बलिपुष्पार्चनैः शुभै ॥ 55॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,55,7766,त्यक्तान्यभोगसम्भारा तापसीवेषधारिणी । चकार पूजनं देव्याः प्रियदर्शनलालसा ॥ 56॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,56,7767,कालेन कियता तुष्टा प्रत्यक्षं दर्शनं ददौ । सौम्यरूपधरा देवी वरदा हंसवाहिनी ॥ 57॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,57,7768,सूर्यकोटिप्रतीकाशा चन्द्रकोटिसुशीतला । विद्युत्कोटिसमानाभा चतुर्वेदसमन्विता ॥ 58॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,58,7769,पाशाङ्कुशाभयवरान्दधती निजबाहुभिः । आपादलम्बिनीं स्वच्छां मुक्तामालां च बिभ्रती ॥ 59॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,59,7770,प्रसन्तस्मेरवदना लोचनत्रयभूषिता । आब्रह्मकीटजननी करुणामृतसागरा ॥ 60॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,60,7771,अनन्तकोटिब्रह्माण्डनायिका परमेश्वरी । सौम्यानन्तरसैर्युक्तस्तनद्वयविराजिता ॥ 61॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,61,7772,सर्वेश्वरी च सर्वज्ञा कूटस्थाक्षररूपिणी । तामुवाच प्रसन्ना सा शक्रपत्नीं कृतोद्यमाम् ॥ 62॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,62,7773,मेघगम्भीरशब्देन मुदमाददती भृशम् । देव्युवाच । वरं वरय सुश्रोणि वाञ्छितं शक्रवल्लभे ॥ 63॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,63,7774,ददाम्यद्य प्रसन्नास्मि पूजिता सुभृशं त्वया । वरदाहं समायाता दर्शनं सहजं न मे ॥ 64॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,64,7775,अनेककोटिजन्मोत्थपुण्यपुञ्जैर्हि लभ्यते । इत्युक्ता सा तदा देवी तामाह प्रणता पुरः ॥ 65॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,65,7776,शक्रपत्नी भगवतीं प्रसन्नां परमेश्वरीम् । वाञ्छामि दर्शनं मातः पत्युः परमदुर्लभम् ॥ 66॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,66,7777,नहुषाद्भयनाशं च स्वपदप्रापणं तथा । देव्युवाच । गच्छ त्वमनया दूत्या सार्धं श्रीमानसं सरः ॥ 67॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,67,7778,यत्र मे मूर्तिरचला विश्वकामाभिधा मता । तत्र पश्यसि शक्रं त्वं दुःखितं भयविह्वलम् ॥ 68॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,68,7779,मोहयिष्यामि राजानं कालेन कियता पुनः । स्वस्था भव विशालाक्षि करोमि तव चेप्सितम् ॥ 69॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,69,7780,भ्रंशयिष्यामि भूपालं मोहितं त्रिदशासनात् । व्यास उवाच । देवीदूती तां गृहीत्वा शक्रपत्नीं त्वरान्विता ॥ 70॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,70,7781,प्रापयामास सान्निध्यं स्वपत्युः परमेश्वरीम् । सा दृष्ट्वा तं पतिं बाला सुरेशं गुप्तसंस्थितम् । मुदिताभूद्वरं वीक्ष्य बहुकालाभिवाञ्छितम् ॥ 71॥ 6,६.८,अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।,71,7782,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे इन्द्राण्या शक्रदर्शनं नामाष्टमोऽध्यायः ॥ ६.८॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,0,7783,व्यास उवाच । तां वीक्ष्य विपुलापाङ्गीं रहः शोकसमन्विताम् । आखण्डलः प्रियां भार्यां विस्मितश्चाब्रवीत्तदा ॥ 1॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,1,7784,कथमत्रागता कान्ते कथं ज्ञातस्त्वया ह्यहम् । दुर्ज्ञेयः सर्वभूतानां संस्थितोऽस्मि शुभानने ॥ 2॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,2,7785,शच्युवाच । देव देव्याः प्रसादेन ज्ञातोऽस्यद्य भवानिह । पुनस्तस्याः प्रसादेन प्राप्तास्मि त्वां दिवस्पते ॥ 3॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,3,7786,नहुषो नाम राजर्षिः स्थापितो भवदासने । त्रिदशैर्मुनिभिश्चैव स मां बाधति नित्यशः ॥ 4॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,4,7787,पतिं मां कुरु चार्वङ्गिः तुरासाहं सुराधिपम् । एवं वदति मां पाप्मा किं करोमि बलार्दन ॥ 5॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,5,7788,इन्द्र उवाच । कालाकाङ्क्षी वरारोहे संस्थितोऽस्मि यदृच्छया । तथा त्वमपि कल्याणि सुस्थिरं स्वमनः कुरु ॥ 6॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,6,7789,व्यास उवाच । इत्युक्ता तेन सा देवी पतिनातिप्रशंसिना । निःश्वसन्त्याह तं शक्रं वेपमानातिदुःखिता ॥ 7॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,7,7790,कथं तिष्ठे महाभाग पापात्मा मां वशानुगाम् । करिष्यति मदोन्मत्तो वरदानेन गर्वितः ॥ 8॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,8,7791,देवाश्च मुनयः सर्वे मामूचुस्तद्भयाकुलाः । तं भजस्व वरारोहे देवराजं स्मरातुरम् ॥ 9॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,9,7792,बृहस्पतिस्तु शत्रुघ्न वाडवो बलवर्जितः । कथं मां रक्षितुं शक्तो भवेद्देवानुगः सदा ॥ 10॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,10,7793,तस्माच्चिन्तास्ति महती नार्यहं वशवर्तिनी । अनाथा किं करिष्यामि विपरीते विधौ विभो ॥ 11॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,11,7794,नार्यस्म्यहं न कुलटा त्वच्चित्तातिपतिव्रता । नास्ति मे शरणं तत्र यो मां रक्षति दुःखिताम् ॥ 12॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,12,7795,इन्द्र उवाच । उपायं प्रब्रवीम्यद्य तं कुरुष्व वरानने । शीलं ते दुःखिते काले परित्रातं भविष्यति ॥ 13॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,13,7796,परेण रक्षिता नारी न भवेच्च पतिव्रता । उपायैः कोटिभिः कामभिन्नचित्तातिचञ्चला ॥ 14॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,14,7797,शीलमेव हि नारीणां सदा रक्षति पापतः । तस्मात्त्वं शीलमास्थाय स्थिरा भव शुचिस्मिते ॥ 15॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,15,7798,यदा त्वां नहुषो राजा बलादाकर्षयेत्खलः । तदा त्वं समयं कृत्वा गजं वञ्चय भूपतिम् ॥ 16॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,16,7799,एकान्ते तत्समीपे त्वं गत्वा वद मदालसे । ऋषियानेन दिव्येन मामुपैहि जगत्पते ॥ 17॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,17,7800,एवं तव वशे प्रीता भविष्यामीति मे ततम् । इति तं वद सुश्रोणि तदा तु परिमोहितः ॥ 18॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,18,7801,कामान्धः स मुनीन् याने योजयिष्यति पार्थिवः । अवश्यं तापसो भूपं शापदग्धं करिष्यति ॥ 19॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,19,7802,साहाय्यं जगदम्बा ते करिष्यति न संशयः । जगदम्बापदस्मर्तुः सङ्कटं न कदाचन ॥ 20॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,20,7803,यदि जायेत तच्चापि ज्ञेयं तत्स्वस्तये किल । तस्मात्सर्वप्रयत्नेन मणिद्वीपाधिवासिनीम् ॥ 21॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,21,7804,भज त्वं भुवनेशानीं गुरुवाक्यानुसारतः । व्यास उवाच । इत्याख्याता शची तेन जगाम नहुषं प्रति ॥ 22॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,22,7805,तथेत्युक्त्वातिविश्वस्ता भाविकार्ये कृतोद्यमा । नहुषस्तां समालोक्य मुदितो वाक्यमब्रवीत् ॥ 23॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,23,7806,स्वागतं सत्यवचनैस्त्वदधीनोऽस्मि कामिनि । दासोऽहं तव सत्येन पालितं वचनं त्वया ॥ 24॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,24,7807,यदागता समीपे मे तुष्टोऽस्मि मितभाषिणि । न च व्रीडा त्वया कार्या भक्तं मां भज सुस्मिते ॥ 25॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,25,7808,कार्यं वद विशालाक्षि करिष्यामि तव प्रियम् । शच्युवाच । सर्वं कृतं त्वया कार्यं मम कृत्रिमवासव ॥ 26॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,26,7809,मनोरथोऽस्ति मे देव श‍ृणु चित्तेऽधुना विभो । वाञ्छितं कुरु कल्याण त्वद्वशाहमतः परम् ॥ 27॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,27,7810,ब्रवीमि मानसोत्साहं त्वं तं कर्तुमिहार्हसि । नहुष उवाच । कार्यं त्वं ब्रूहि चन्द्रास्ये करोमि तव वाञ्छितम् ॥ 28॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,28,7811,अलभ्यमपि दास्यामि तुभ्यं सुभ्रु वदस्व माम् । शच्युवाच । कथं ब्रवीमि राजेन्द्र प्रत्ययो नास्ति मे तव ॥ 29॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,29,7812,शपथं कुरु राजेन्द्र यत्करोमि प्रियं तव । राजानः सत्यवचसो दुर्लभा एव भूतले ॥ 30॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,30,7813,पश्चाद्ब्रवीम्यहं राजन् ज्ञात्वा सत्येन यन्त्रितम् । कृते चेद्वाञ्छिते भूप सदा ते वशवर्तिनी ॥ 31॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,31,7814,भविष्यामि तुराषाड् वै सत्यमेतद्वचो मम । नहुष उवाच । अवश्यमेव कर्तव्यं वचनं तव सुन्दरि ॥ 32॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,32,7815,शपामि सुकृतेनाहं यज्ञदानकृतेन वै । शच्युवाच । इन्द्रस्य हरयो वाहा गजश्चैव रथस्तथा ॥ 33॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,33,7816,गरुडो वासुदेवस्य यमस्य महिषस्तथा । वृषभः शङ्करस्यापि ब्रह्मणो वरटापतिः ॥ 34॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,34,7817,मयूरः कार्तिकेयस्य गजास्यस्य तु मूषकः । इच्छाम्यहमपूर्वं वै वाहनं ते सुराधिप ॥ 35॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,35,7818,यन्न विष्णोर्न रुद्रस्य नासुराणां न रक्षसाम् । वहन्तु त्वां महाराज मुनयः संशितव्रताः ॥ 36॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,36,7819,सर्वे शिबिकया राजन्नेतद्धि मम वाञ्छितम् । सर्वदेवाधिकं त्वां वै जानामि वसुधाधिप ॥ 37॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,37,7820,तेन ते तेजसो वृद्धिं वाञ्छाम्यहमतन्द्रिता । व्यास उवाच । तस्यास्तद्वचनं श्रुत्वा प्रहस्य ज्ञानदुर्बलः ॥ 38॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,38,7821,मोहितस्तु महादेव्या कृतमोहेन तत्क्षणम् । उवाच वचनं भूपः संस्तुवन्वासवप्रियाम् ॥ 39॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,39,7822,नहुष उवाच । सत्यमुक्तं त्वया तन्वि वाहनं रुचिरं मम । करिष्यामि सुकेशान्ते वचनं तव सर्वथा ॥ 40॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,40,7823,न ह्यल्पवीर्यो भवति यो वाहान्कुरुते मुनीन् । अहमारुह्य यानेन त्वामेष्यामि शुचिस्मिते ॥ 41॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,41,7824,सप्तर्षयो मां वक्ष्यन्ति सर्वे देवर्षयस्तथा । समर्थं त्रिषु लोकेषु ज्ञात्वा मां तपसाधिकम् ॥ 42॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,42,7825,व्यास उवाच । इत्युक्त्वा तां सुसन्तुष्टो विससर्ज हरिप्रियाम् । मुनीनाहूय सर्वास्तानित्युवाच स्मरान्वितः ॥ 43॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,43,7826,नहुष उवाच । अहमिन्द्रोऽद्य भो विप्राः सर्वशक्तिसमन्वितः । कार्यमत्र प्रकुर्वन्तु भवन्तो विगतस्मयाः ॥ 44॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,44,7827,इन्द्रासनं मया प्राप्तं नेन्द्राणी मामुपैति च । आकारिता च मां सूते प्रेमपूर्वमिदं वचः ॥ 45॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,45,7828,मुनियानेन देवेन्द्र मामुपैहि सुराधिप । देवदेव महाराज मत्प्रियं कुरु मानद ॥ 46॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,46,7829,एतत्कार्यं मुनिश्रेष्ठा ममात्यन्तं दुरासदम् । भवद्भिस्तु प्रकर्तव्यं सर्वथैव दयालुभिः ॥ 47॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,47,7830,मनो दहति मे कामः शक्रपत्न्यां प्रवर्तितम् । भवन्तः शरणं मेऽद्य कुरुध्वं कार्यमद्भुतम् ॥ 48॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,48,7831,अगस्तिप्रमुखास्तस्य श्रुत्वा वाक्यमसत्करम् । अङ्गीचक्रुश्च भावित्वात्कृपया परमर्षयः ॥ 49॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,49,7832,अङ्गीकृतेऽथ तद्वाक्ये मुनिभिस्तत्त्वदर्शिभिः । मुदं प्राप नृपः कामं पौलोमीकृतमानसः ॥ 50॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,50,7833,आरुह्य शिबिकां रम्यां संस्थितस्त्वरयान्वितः । वाहात्कृत्वा मुनीन्दिव्यान्सर्प सर्पेति चाब्रवीत् ॥ 51॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,51,7834,कामार्तः सोऽस्मृशन्मूढः पादेन मुनिमस्तकम् । अगस्तिं तापसश्रेष्ठं लोपामुद्रापतिं तदा ॥ 52॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,52,7835,वातापिभक्षकर्तारं समुद्रस्यापि शोषकम् । कशया ताडयामास पञ्चबाणशराहतः ॥ 53॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,53,7836,इन्द्राणीहृतचित्तोऽसौ सर्पेति प्रब्रुवन्मुनिम् । तं शशाप मुनिः क्रुद्धः कशाघातमनुस्मरन् ॥ 54॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,54,7837,सर्पो भव दुराचार वने घोरवपुर्महान् । बहुवर्षसहस्राणि यत्र क्लेशो महान्भवेत् ॥ 55॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,55,7838,विचरिष्यसि वीर्येण पुनः स्वर्गमवाप्स्यसि । दृष्ट्वा युधिष्ठिरं नाम तव मोक्षो भविष्यति ॥ 56॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,56,7839,प्रश्नानामुत्तरं श्रुत्वा धर्मपुत्रमुखात्ततः । व्यास उवाच । एवं शप्तः स राजर्षिः स्तुत्वा तं मुनिसत्तमम् ॥ 57॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,57,7840,स्वर्गात्पपात सहसा सर्परूपधरोऽभवत् । बृहस्पतिस्ततो गत्वा तरसा मानसं प्रति ॥ 58॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,58,7841,इन्द्राय सर्ववृत्तान्तं कथयामास विस्तरात् । तच्छ्रुत्वा मघवा राज्ञः स्वर्गात्प्रच्यवनादिकम् ॥ 59॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,59,7842,मुदितोऽभून्महाराज स्थितस्तत्रैव वासवः । देवाश्च मुनयो दृष्ट्वा नहुषं पतितं भुवि ॥ 60॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,60,7843,जग्मुः सर्वेऽपि तत्रैव यत्रेन्द्रः सरसि स्थितः । तमाश्वास्य सुराः सर्वे मुनिभिः सहितास्तदा ॥ 61॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,61,7844,स्वर्गे समानयामासुर्मानपूर्वं शचीपतिम् । समागतं ततः शक्रं सर्वे ते मुनयः सुराः ॥ 62॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,62,7845,स्थापयित्वाऽऽसने पश्चादभिषेकं दधुः शिवम् । इन्द्रोऽपि स्वासनं प्राप्य शच्या सह सुरालये ॥ 63॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,63,7846,चिक्रीड नन्दने रम्ये कानने प्रेमयुक्तया । व्यास उवाच । एवमिन्द्रेण सम्प्राप्तं दुःखं परमदारुणम् ॥ 64॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,64,7847,हत्वासुरं कामरूपं विश्वरूपं महामुनिम् । पुनर्देव्याः प्रसादेन स्वस्थानं प्राप्तवान्नृप ॥ 65॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,65,7848,एतत्ते सर्वमाख्यातं वृत्रासुरवधाश्रयम् । यत्पृष्टोऽहं त्वया राजन् कथानकमनुत्तमम् ॥ 66॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,66,7849,यादृशं कुरुते कर्म तादृशं फलमाप्नुयात् । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ 67॥ 6,६.९,नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।,67,7850,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे नहुषस्वर्गच्युतिवर्णनं नाम नवमोऽध्यायः ॥ ६.९॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,0,7851,जनमेजय उवाच । कथितं चरितं ब्रह्मञ्छक्रस्याद्भुतकर्मणः । स्थानभ्रंशस्तथा दुःखप्राप्तिरुक्ता विशेषतः ॥ 1॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,1,7852,यत्र देवाधिदेव्याश्च महिमातीव वर्णितः । सन्देहोऽत्र ममाप्यस्ति यच्छक्रोऽपि महातपाः ॥ 2॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,2,7853,देवाधिपत्यमासाद्य दुःसहं दुःखमन्वभूत् । मखानां तु शतं कृत्वा प्राप्तं स्थानमनुत्तमम् ॥ 3॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,3,7854,देवेशत्वं च सम्प्राप्य भ्रष्टः स्थानादसौ कथम् । एतत्सर्वं समाचक्ष्व कारणं करुणानिधे ॥ 4॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,4,7855,सर्वज्ञोऽसि मुनिश्रेष्ठ पुराणानां प्रवर्तकः । नावाच्यं महतां किञ्चिच्छिष्ये च श्रद्धयान्विते ॥ 5॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,5,7856,तस्मात्कुरु महाभाग मत्सन्देहापनोदनम् । सूत उवाच । इति पृष्टः स राज्ञा वै तदा सत्यवतीसुतः ॥ 6॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,6,7857,तमाहातिप्रसन्नात्मा यथानुक्रममुत्तरम् । व्यास उवाच । निबोध नृपतिश्रेष्ठ कारणं परमाद्भुतम् ॥ 7॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,7,7858,कर्मणस्तु त्रिधा प्रोक्ता गतिस्तत्त्वविदां वरैः । सञ्चितं वर्तमानं च प्रारब्धमिति भेदतः ॥ 8॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,8,7859,अनेकजन्मसञ्जातं प्राक्तनं सञ्चितं स्मृतम् । सात्त्विकं राजसं कर्म तामसं त्रिविधं पुनः ॥ 9॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,9,7860,शुभं वाप्यशुभं भूप सञ्चितं बहुकालिकम् । अवश्यमेव भोक्तव्यं सुकृतं दुष्कृतं तथा ॥ 10॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,10,7861,जन्मजन्मनि जीवानां सञ्चितानां च कर्मणाम् । निःशेषस्तु क्षयो नाभूत्कल्पकोटिशतैरपि ॥ 11॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,11,7862,क्रियमाणं च यत्कर्म वर्तमानं तदुच्यते । देहं प्राप्य शुभं वापि ह्यशुभं वा समाचरेत् ॥ 12॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,12,7863,सञ्चितानां पुनर्मध्यात्समाहृत्य कियान्किल । देहारम्भे च समये कालः प्रेरयतीव तत् ॥ 13॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,13,7864,प्रारब्धं कर्म विज्ञेयं भोगात्तस्य क्षयः स्मृतः । प्राणिभिः खलु भोक्तव्यं प्रारब्धं नात्र संशयः ॥ 14॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,14,7865,पुरा कृतानि राजेन्द्र ह्यशुभानि शुभानि च । अवश्यमेव कर्माणि भोक्तव्यानीति निश्चयः ॥ 15॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,15,7866,देवैर्मनुष्यैरसुरैर्यक्षगन्धर्वकिन्नरैः । कर्मैव हि महाराज देहारम्भस्य कारणम् ॥ 16॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,16,7867,कर्मक्षये जन्मनाशः प्राणिनां नात्र संशयः । ब्रह्मा विष्णुस्तथा रुद्र इन्द्राद्याश्च सुरास्तथा ॥ 17॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,17,7868,दानवा यक्षगन्धर्वाः सर्वे कर्मवशा किल । अन्यथा देहसम्बन्धः कथं भवति भूपते ॥ 18॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,18,7869,कारणं यस्तु भोगस्य देहिनः सुखदुःखयोः । तस्मादनेकजन्मोत्थसञ्चितानां च कर्मणाम् ॥ 19॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,19,7870,मध्ये वेगः समायाति कस्यचित्कालपाकतः । तत्प्रारब्धवशात्पुण्यं करोति च यथा तथा ॥ 20॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,20,7871,पापं करोति मनुजस्तथा देवादयोऽपि च । तथा नारायणो राजन्नरश्च धर्मजावुभौ ॥ 21॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,21,7872,जातौ कृष्णार्जुनौ काममंशौ नारायणस्य तौ । पुराणपीठिकेयं वै मुनिभिः परिकीर्तिता ॥ 22॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,22,7873,देवांशः स तु विज्ञेयो यो भवेद्विभवाधिकः । नानृषिः कुरुते काव्यं नारुद्रो रुद्रमर्चते ॥ 23॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,23,7874,नादेवांशो ददात्यन्नं नाविष्णुः पृथिवीपतिः । इन्द्रादग्नेर्यमाद्विष्णोर्धनदादिति भूपते ॥ 24॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,24,7875,प्रभुत्वं च प्रभावं च कोपं चैव पराक्रमम् । आदाय क्रियते नूनं शरीरमिति निश्चयः ॥ 25॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,25,7876,यः कश्चिद्बलवाँल्लोके भाग्यवानथ भोगवान् । विद्यावान्दानवान्वापि स देवांशः प्रपढ्यते ॥ 26॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,26,7877,तथैवैते मयाख्याता पाण्डवाः पृथिवीपते । देवांशो वासुदेवोऽपि नारायणसमद्युतिः ॥ 27॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,27,7878,शरीरं प्राणिनां नूनं भाजनं सुखदुःखयोः । शरीरी प्राप्नुयात्कामं सुखं दुःखमनन्तरम् ॥ 28॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,28,7879,देही नास्ति वशः कोऽपि दैवाधीनः सदैव हि । जननं मरणं दुःखं सुखं प्राप्नोति चावशः ॥ 29॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,29,7880,पाण्डवास्ते वने जाताः प्राप्तास्तु स्वगृहं पुनः । स्वबाहुबलतः पश्चाद्राजसूयं क्रतूत्तमम् ॥ 30॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,30,7881,वनवासं पुनः प्राप्ता बहुदुःखकरं परम् । अर्जुनेन तपस्तप्तं दुष्करं ह्यजितेन्द्रियैः ॥ 31॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,31,7882,सन्तुष्टैस्तु सुरैर्दत्तं वरदानं पुनः शुभम् । नरदेहकृतं पुण्यं क्व गतं वनवासजम् ॥ 32॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,32,7883,नरदेहे तपस्तप्तं चोग्रं बदरिकाश्रमे । नार्जुनस्य शरीरे तत्फलदं सम्बभूव ह ॥ 33॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,33,7884,प्राणिनां देहसम्बन्धे गहना कर्मणो गतिः । दुर्ज्ञेया सर्वथा देवैर्मानवानां तु का कथा ॥ 34॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,34,7885,वासुदेवोऽपि सञ्जातः कारागारेऽतिसङ्कटे । नीतोऽसौ वसुदेवेन नन्दगोपस्य गोकुलम् ॥ 35॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,35,7886,एकादशैव वर्षाणि संस्थितस्तत्र भारत । पुनः स मथुरां गत्वा जघानोग्रसुतं बलात् ॥ 36॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,36,7887,मोचयामास पितरौ बन्धनाद्भृशदुःखितौ । उग्रसेनं च राजानञ्चकार मधुरापुरे ॥ 37॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,37,7888,जगाम द्वारवत्यां स म्लेच्छराजभयात्पुनः । सर्वं भाविवशात्कृष्णः कृतवान्पौरुषं महत् ॥ 38॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,38,7889,कृत्वा कार्याण्यनेकानि द्वारवत्यां जनार्दनः । देहं त्यक्त्वा प्रभासे तु सकुटुम्बो दिवं गतः ॥ 39॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,39,7890,पुत्राः पौत्राश्च सुहृदो भ्रातरो जामयस्तथा । प्रभासे यादवाः सर्वे विप्रशापात्क्षयं गताः ॥ 40॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,40,7891,एवं ते कथिता राजन् कर्मणो गहना गतिः । वासुदेवोऽपि व्याधस्य बाणेन निधनं गतः ॥ 41॥ 6,६.१०,दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।,41,7892,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे कर्मणां गहनगतिवर्णनं नाम दशमोऽध्यायः ॥ ६.१०॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,0,7893,जनमेजय उवाच । भारावतारणार्थाय कथितं जन्म कृष्णयोः । संशयोऽयं द्विजश्रेष्ठ हृदये मम तिष्ठति ॥ 1॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,1,7894,पृथिवी गोस्वरूपेण ब्रह्माणं शरणं गता । द्वापरान्तेऽतिदीनार्ता गुरुभारप्रपीडिता ॥ 2॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,2,7895,वेधसा प्रार्थितो विष्णुः कमलापतिरीश्वरः । भूभारोत्तारणार्थाय साधूनां रक्षणाय च ॥ 3॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,3,7896,भगवन् भारते खण्डे देवैः सह जनार्दन । अवतारं गृहाणाशु वसुदेवगृहे विभो ॥ 4॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,4,7897,एवं सम्प्रार्थितो धात्रा भगवान्देवकीसुतः । बभूव सह रामेण भूभारोत्तारणाय वै ॥ 5॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,5,7898,कियानुत्तारितो भारो हत्वा दुष्टाननेकशः । ज्ञात्वा सर्वान्दुराचारान्पापबुद्धिनृपानिह ॥ 6॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,6,7899,हतो भीष्मो हतो द्रोणो विराटो द्रुपदस्तथा । बाह्लीकः सोमदत्तश्च कर्णो वैकर्तनस्तथा ॥ 7॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,7,7900,यैर्लुण्ठितं धनं सर्वं हृताश्च हरियोषितः । कथं न नाशिता दुष्टा ये स्थिताः पृथिवीतले ॥ 8॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,8,7901,आभीराश्च शका म्लेच्छा निषादाः कोटिशस्तथा । भारावतरणं किं तत्कृतं कृष्णेन धीमता ॥ 9॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,9,7902,सन्देहोऽयं महाभाग न निवर्तति चित्ततः । कलावस्मिन्मजाः सर्वाः पश्यतः पापनिश्चयाः ॥ 10॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,10,7903,व्यास उवाच । राजन् यस्मिन्युगे यादृक्प्रजा भवति कालतः । नान्यथा तद्भवेन्नूनं युगधर्मोऽत्र कारणम् ॥ 11॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,11,7904,ये धर्मरसिका जीवास्ते वै सत्ययुगेऽभवन् । धर्मार्थरसिका ये तु ते वै त्रेतायुगेऽभवन् ॥ 12॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,12,7905,धर्मार्थकामरसिका द्वापरे चाभवन्युगे । अर्थकामपराः सर्वे कलावस्मिन्भवन्ति हि ॥ 13॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,13,7906,युगधर्मस्तु राजेन्द्र न याति व्यत्ययं पुनः । कालः कर्तास्ति धर्मस्य ह्यधर्मस्य च वै पुनः ॥ 14॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,14,7907,राजोवाच । ये तु सत्ययुगे जीवा भवन्ति धर्मतत्पराः । कुत्र तेऽद्य महाभाग तिष्ठन्ति पुण्यभागिनः ॥ 15॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,15,7908,त्रेतायुगे द्वापरे वा ये दानव्रतकारकाः । वर्तन्ते मुनयः श्रेष्ठाः कुत्र ब्रूहि पितामह ॥ 16॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,16,7909,कलावद्य दुराचारा येऽत्र सन्ति गतत्रपाः । आद्ये युगे क्व यास्यन्ति पापिष्ठा देवनिन्दकाः ॥ 17॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,17,7910,एतत्सर्वं समाचक्ष्व विस्तरेण महामते । सर्वथा श्रोतुकामोऽस्मि यदेतद्धर्मनिर्णयम् ॥ 18॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,18,7911,व्यास उवाच । ये वै कृतयुगे राजन् सम्भवन्तीह मानवाः । कृत्वा ते पुण्यकर्माणि देवलोकान्व्रजन्ति वै ॥ 19॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,19,7912,ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च नृपसत्तम । स्वधर्मनिरता यान्ति लोकान्कर्मजितान्किल ॥ 20॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,20,7913,सत्यं दया तथा दानं स्वदारगमनं तथा । अद्रोहः सर्वभूतेषु समता सर्वजन्तुषु ॥ 21॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,21,7914,एतत्साधारणं धर्मं कृत्वा सत्ययुगे पुनः । स्वर्गं यान्तीतरे वर्णा धर्मतो रजकादयः ॥ 22॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,22,7915,तथा त्रेतायुगे राजन् द्वापरेऽथ युगे तथा । कलावस्मिन्युगे पापा नरकं यान्ति मानवाः ॥ 23॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,23,7916,तावत्तिष्ठन्ति ते तत्र यावत्स्याद्युगपर्ययः । पुनश्च मानुषे लोके भवन्ति भुवि मानवाः ॥ 24॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,24,7917,यदा सत्ययुगस्यादिः कलेरन्तश्च पार्थिव । तदा स्वर्गात्पुण्यकृतो जायन्ते किल मानवाः ॥ 25॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,25,7918,यदा कलियुगस्यादिर्द्वापरस्य क्षयस्तथा । नरकात्पापिनः सर्वे भवन्ति भुवि मानवाः ॥ 26॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,26,7919,एवं कालसमाचारो नान्यथाभूत्कदाचन । तस्मात्कलिरसत्कर्ता तस्मिंस्तु तादृशी प्रजा ॥ 27॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,27,7920,कदाचिद्दैवयोगात्तु प्राणिनां व्यत्ययो भवेत् । कलौ ये साधवः केचिद्द्वापरे सम्भवन्ति ते ॥ 28॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,28,7921,तथा त्रेतायुगे केचित्केचित्सत्ययुगे तथा । दुष्टाः सत्ययुगे ये तु ते भवन्ति कलावपि ॥ 29॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,29,7922,कृतकर्मप्रभावेण प्राप्नुवन्त्यसुखानि च । पुनश्च तादृशं कर्म कुर्वन्ति युगभावतः ॥ 30॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,30,7923,जनमेजय उवाच । युगधर्मान्महाभाग ब्रूहि सर्वानशेषतः । यस्मिन्वै यादृशो धर्मो ज्ञातुमिच्छामि तं तथा ॥ 31॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,31,7924,व्यास उवाच । निबोध नृपशार्दूल दृष्टान्तं ते ब्रवीम्यहम् । साधूनामपि चेतांसि युगभावाद्भ्रमन्ति हि ॥ 32॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,32,7925,पितुर्यथा ते राजेन्द्र वुद्धिर्विप्रावहेलने । कृता वै कलिना राजन् धर्मज्ञस्य महात्मनः ॥ 33॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,33,7926,अन्यथा क्षत्रियो राजा ययातिकुलसम्भवः । तापसस्य गले सर्पं मृतं कस्मादयोजयत् ॥ 34॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,34,7927,सर्वं युगबलं राजन्वेदितव्यं विजानता । प्रयत्नेन हि कर्तव्यं धर्मकर्म विशेषतः ॥ 35॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,35,7928,नूनं सत्ययुगे राजन् ब्राह्मणा वेदपारगाः । पराशक्त्यर्चनरता देवीदर्शनलालसाः ॥ 36॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,36,7929,गायत्रीप्रणवासक्ता गायत्रीध्यानकारिणः । गायत्रीजपसंसक्ता मायाबीजैकजापिनः ॥ 37॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,37,7930,ग्रामे ग्रामे पराम्बायाः प्रासादकरणोत्सुकाः । स्वकर्मनिरताः सर्वे सत्यशौचदयान्विताः ॥ 38॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,38,7931,त्रय्युक्तकर्मनिरतास्तत्त्वज्ञानविशारदाः । अभवन्क्षत्रियास्तत्र प्रजाभरणतत्पराः ॥ 39॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,39,7932,वैश्यास्तु कृषिवाणिज्यगोसेवानिरतास्तथा । शूद्राः सेवापरास्तत्र पुण्ये सत्ययुगे नृप ॥ 40॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,40,7933,पराम्बापूजनासक्ताः सर्वे वर्णाः परे युगे । तथा त्रेतायुगे किञ्चिन्न्यूना धर्मस्य संस्थितिः ॥ 41॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,41,7934,द्वापरे च विशेषेण न्यूना सत्ययुगस्थितिः । पूर्वं ये राक्षसा राजन् ते कलौ ब्राह्मणाः स्मृताः ॥ 42॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,42,7935,पाखण्डनिरताः प्रायो भवन्ति जनवञ्चकाः । असत्यवादिनः सर्वे वेदधर्मविवर्जिताः ॥ 43॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,43,7936,दाम्भिका लोकचतुरा मानिनो वेदवर्जिताः । शूद्रसेवापराः केचिन्नानाधर्मप्रवर्तकाः ॥ 44॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,44,7937,वेदनिन्दाकराः क्रूरा धर्मभ्रष्टातिवादुकाः । यथा यथा कलिर्वृद्धिं याति राजंस्तथा तथा ॥ 45॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,45,7938,धर्मस्य सत्यमूलस्य क्षयः सर्वात्मना भवेत् । तथैव क्षत्रिया वैश्याः शूद्राश्च धर्मवर्जिताः ॥ 46॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,46,7939,असत्यवादिनः पापास्तथा वर्णेतराः कलौ । शूद्रधर्मरता विप्राः प्रतिग्रहपरायणाः ॥ 47॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,47,7940,भविष्यन्ति कलौ राजन् युगे वृद्धिं गताः किल । कामचाराः स्त्रियः कामलोभमोहसमन्विताः ॥ 48॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,48,7941,पापा मिथ्याभिवादिन्यः सदा क्लेशरता नृप । स्वभर्तृवञ्जका नित्यं धर्मभाषणपण्डिताः ॥ 49॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,49,7942,भवन्त्येवंविधा नार्यः पापिष्ठाश्च कलौ युगे । आहारशुद्ध्या नृपते चित्तशुद्धिस्तु जायते ॥ 50॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,50,7943,शुद्धे चित्ते प्रकाशः स्याद्धर्मस्य नृपसत्तम । वृत्तसङ्करदोषेण जायते धर्मसङ्करः ॥ 51॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,51,7944,धर्मस्य सङ्करे जाते नूनं स्याद्वर्णसङ्करः । एवं कलियुगे भूप सर्वधर्मविवर्जिते ॥ 52॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,52,7945,स्ववर्णधर्मवार्तैषा न कुत्राप्युपलभ्यते । महान्तोऽपि च धर्मज्ञा अधर्मं कुर्वते नृप ॥ 53॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,53,7946,कलिस्वभाव एवैष परिहार्यो न केनचित् । तस्मादत्र मनुष्याणां स्वभावात्पापकारिणाम् ॥ 54॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,54,7947,निष्कृतिर्न हि राजेन्द्र सामान्योपायतो भवेत् । जनमेजय उवाच । भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद ॥ 55॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,55,7948,कलावधर्मबहुले नराणां का गतिर्भवेत् । यद्यस्ति तदुपायश्चेद्दयया तं वदस्व मे ॥ 56॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,56,7949,व्यास उवाच । एक एव महाराज तत्रोपायोऽस्ति नापरः । सर्वदोषनिरासार्थं ध्यायेद्देवीपदाम्बुजम् ॥ 57॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,57,7950,न सन्त्यघानि तावन्ति यावती शक्तिरस्ति हि । नास्ति देव्याः पापदाहे तस्माद्भीतिः कुतो नृप ॥ 58॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,58,7951,अवशेनापि यन्नाम लीलयोच्चारितं यदि । किं किं ददाति तज्ज्ञातुं समर्था न हरादयः ॥ 59॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,59,7952,प्रायश्चित्तं तु पापानां श्रीदेवीनामसंस्मृतिः । तस्मात्कलिभयाद्राजन् पुण्यक्षेत्रे वसेन्नरः ॥ 60॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,60,7953,निरन्तरं पराम्बाया नामसंस्मरणं चरेत् । छित्त्वा भित्त्वा च भूतानि हत्वा सर्वमिदं जगत् ॥ 61॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,61,7954,देवीं नमति भक्त्या यो न स पापैर्विलिप्यते । रहस्यं सर्वशास्त्राणां मया राजन्नुदीरितम् ॥ 62॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,62,7955,विमृश्यैतदशेषेण भज देवीपदाम्बुजम् । अजपां नाम गायत्रीं जपन्ति निखिला जनाः ॥ 63॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,63,7956,महिमानं न जानन्ति मायाया वैभवं महत् । गायत्रीं ब्राह्मणाः सर्वे जपन्ति हृदयान्तरे ॥ 64॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,64,7957,महिमानं न जानन्ति मायाया वैभवं महत् । एतत्सर्वं समाख्यातं यत्पृष्टं तत्त्वया नृप । युगधर्मव्यवस्थायां किं भूयः श्रोतुमिच्छसि ॥ 65॥ 6,६.११,एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।,65,7958,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे युगधर्मव्यवस्थावर्णनं नामकादशोऽध्यायः ॥ ६.११॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,0,7959,राजोवाच । तीर्थानि भुवि पुण्यानि ब्रूहि मे मुनिसत्तम । गम्यानि मानवैर्देवैः क्षेत्राणि सरितस्तथा ॥ 1॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,1,7960,फलं च यादृशं यत्र तीर्थेषु स्नानदानतः । विधिं तु तीर्थयात्रायां नियमांश्च विशेषतः ॥ 2॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,2,7961,व्यास उवाच । श‍ृणु राजन् प्रवक्ष्यामि तीर्थानि विविधानि च । येषु तीर्थेषु देवीनां प्रशस्तान्यायनानि च ॥ 3॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,3,7962,नदीनां जाह्नवी श्रेष्ठा यमुना च सरस्वती । नर्मदा गण्डकी सिन्धुर्गोमती तमसा तथा ॥ 4॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,4,7963,कावेरी चन्द्रभागा च पुण्या वेत्रवती शुभा । चर्मण्वती च सरयूस्तापी साभ्रमती तथा ॥ 5॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,5,7964,एताश्च कथिता राजन्नन्याश्च शतशः पुनः । तासां समुद्रगाः पुण्याः स्वल्पपुण्या ह्यनब्धिगाः ॥ 6॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,6,7965,समुद्रगानां ताः पुण्याः सर्वदौघवहास्तु याः । मासद्वयं श्रावणादौ ताश्च सर्वा रजस्वलाः ॥ 7॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,7,7966,भवन्ति वृष्टियोगेन ग्राम्यवारिवहास्तथा । पुष्करं च कुरुक्षेत्रं धर्मारण्यं सुपावनम् ॥ 8॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,8,7967,प्रभासं च प्रयागं च नैमिषारण्यमेव च । विश्रुतं चार्बुदारण्यं शैलाश्च पावनास्तथा ॥ 9॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,9,7968,श्रीशैलश्च सुमेरुश्च पर्वतो गन्धमादनः । सरांसि चैव पुण्यानि मानसं सर्वविश्रुतम् ॥ 10॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,10,7969,तथा बिन्दुसरः श्रेष्ठमच्छोदं नाम पावनम् । आश्रमास्तु तथा पुण्या मुनीनां भावितात्मनाम् ॥ 11॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,11,7970,विश्रुतस्तु सदा पुण्यः ख्यातो बदरिकाश्रमः । नरनारायणौ यत्र तेपाते तौ मुनी तपः ॥ 12॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,12,7971,वामनाश्रम आख्यातः शतयूपाश्रमस्तथा । येन यत्र तपस्तप्तं तस्य नाम्नातिविश्रुतः ॥ 13॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,13,7972,एवं पुण्यानि स्थानानि ह्यसङ्ख्यातानि भूतले । मुनिभिः परिगीतानि पावनानि महीपते ॥ 14॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,14,7973,एषु स्थानेषु सर्वत्र देवीस्थानानि भूपते । दर्शनात्पापहारीणि वसन्ति नियमेन च ॥ 15॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,15,7974,कथयिष्यामि तान्यग्रे प्रसङ्गेन च कानिचित् । तीर्थानि नृप दानानि व्रतानि च मखास्तथा ॥ 16॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,16,7975,तपांसि पुण्यकर्माणि सापेक्षाणि महीपते । द्रव्यशुद्धिं क्रियाशुद्धिं मनःशुद्धिमपेक्ष्य च ॥ 17॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,17,7976,पावनानि हि तीर्थानि तपांसि च व्रतानि च । कदाचिद्द्रव्यशुद्धिः स्यात्क्रियाशुद्धिः कदाचन ॥ 18॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,18,7977,दुर्लभा मनसः शुद्धिः सर्वेषां सर्वदा नृप । मनस्तु चञ्चलं राजन्ननेकविषयाश्रितम् ॥ 19॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,19,7978,कथं शुद्धं भवेद्राजन्नानाभावसमाश्रितम् । कामक्रोधौ तथा लोभो ह्यहङ्कारो मदस्तथा ॥ 20॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,20,7979,सर्वविघ्नकरा ह्येते तपस्तीर्थव्रतेषु च । अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः ॥ 21॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,21,7980,स्वधर्मपालनं राजन् सर्वतीर्थफलप्रदम् । नित्यकर्मपरित्यागान्मार्गे संसर्गदोषतः ॥ 22॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,22,7981,व्यर्थं तीर्थाधिगमनं पापमेवावशिष्यते । क्षालयन्ति हि तीर्थानि सर्वथा देहजं मलम् ॥ 23॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,23,7982,मानसं क्षालितुं तानि न समर्थानि वै नृप । शक्तानि यदि चेत्तानि गङ्गातीरनिवासिनः ॥ 24॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,24,7983,मुनयो द्रोहसंयुक्ताः कथं स्युर्भावितेश्वराः । वसिष्ठसदृशाः प्रह्वा विश्वामित्रादयः किल ॥ 25॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,25,7984,रागद्वेषरताः सर्वे कामक्रोधाकुलाः सदा । चित्तशुद्धिमयं तीर्थं गङ्गादिभ्योऽतिपावनम् ॥ 26॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,26,7985,यदि स्याद्दैवयोगेन क्षालयत्यान्तरं मलम् । विशेषेण तु सत्सङ्गो ज्ञाननिष्ठस्य भूपते ॥ 27॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,27,7986,न वेदा न च शास्त्राणि न व्रतानि तपांसि न । न मखा न च दानानि चित्तशुद्धेस्तु कारणम् ॥ 28॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,28,7987,वसिष्ठो ब्रह्मणः पुत्रो वेदविद्याविशारदः । रागद्वेषान्वितः कामं गङ्गातीरसमाश्रितः ॥ 29॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,29,7988,आडीबकं महायुद्धं विश्वामित्रवसिष्ठयोः । जातं निरर्थकं द्वेषाद्देवानां विस्मयप्रदम् ॥ 30॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,30,7989,विश्वामित्रो बकस्तत्र जातः परमतापसः । शप्तः स तु वसिष्ठेन हरिश्चन्द्रस्य कारणात् ॥ 31॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,31,7990,कौशिकेन वसिष्ठोऽपि शस्त्वाडीदेहभाक्कृतः । शापादाडीबकौ जातौ तौ मुनी विशदप्रभौ ॥ 32॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,32,7991,निवासं प्रापतुस्तीरे सरसो मानसस्य च । चक्रतुर्दारुणं युद्धं नखचञ्चुप्रताडनैः ॥ 33॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,33,7992,वर्षाणामयुतं यावत्तावृषी रोषसंयुतौ । युयुधाते मदोन्मत्तौ सिंहाविव परस्परम् ॥ 34॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,34,7993,राजोवाच । कथं तौ मुनिशार्दूलौ तापसौ धर्मतत्परौ । परस्परं वैरपरौ सञ्जातौ केन हेतुना ॥ 35॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,35,7994,शापं परस्परं केन कारणेन महामती । दत्तवन्तौ मिथः क्लेशकारकौ दुःखदौ नृणाम् ॥ 36॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,36,7995,व्यास उवाच । हरिश्चन्द्रो नृपश्रेष्ठस्त्रिशङ्कुतनयः पुरा । बभूव रविवंशीयो रामचन्द्रस्य पूर्वजः ॥ 37॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,37,7996,अनपत्यः स राजर्षिर्वरुणाय महाक्रतुम् । प्रतिजज्ञे पुत्रकामो नरमेधं दुरासदम् ॥ 38॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,38,7997,वरुणस्तस्य सन्तुष्टो यज्ञस्य नियमे कृते । दधार गर्भं राज्ञस्तु भार्या परमसुन्दरी ॥ 39॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,39,7998,राजा बभूव सन्तुष्टो दृष्ट्वा भार्यां सदोहदाम् । चकार विधिवत्कर्म गर्भसंस्कारकारकम् ॥ 40॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,40,7999,सुषुवे तनयं नारी सर्वलक्षणसंयुतम् । मुदं प्राप नृपस्तत्र पुत्रे जाते विशाम्पते ॥ 41॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,41,8000,कृतवाञ्जातकर्मादिसंस्कारविधिमुत्तमम् । ददौ हिरण्यं गा दोग्धीर्ब्राह्मणेभ्यो विशेषतः ॥ 42॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,42,8001,जन्मोत्सवेऽतिसंवृत्ते गेहे वै यादसाम्पतिः । आजगाम महाराज विप्रवेषधरस्तथा ॥ 43॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,43,8002,पूजितः पार्थिवेनाथ दत्त्वा विधिवदासनम् । कार्ये पृष्टेऽब्रवीद्वाक्यं वरुणोऽस्मीति भूपतिम् ॥ 44॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,44,8003,कुरु यज्ञं सुतं कृत्वा पशुं परमपावनम् । सत्यवाग्भव राजेन्द्र सङ्कल्पस्तु त्वया कृतः ॥ 45॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,45,8004,तच्छ्रुत्वा वचनं राजा विह्वलोऽतिव्यथाकुलः । संस्तभ्याधिं नृपः प्राह वरुणं सत्कृताञ्जलिः ॥ 46॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,46,8005,स्वामिन्करोमि तं यज्ञं सर्वथा विधिपूर्वकम् । मया ते यत्प्रतिज्ञातं भवामि सत्यवागहम् ॥ 47॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,47,8006,पूर्णे मासे विशुध्येत धर्मपत्नी सुरोत्तम । विशुद्धायां तु भार्यायां कर्तव्यः स पशोर्मखः ॥ 48॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,48,8007,व्यास उवाच । इत्युक्ते वचने राज्ञा वरुणः स्वगृहं गतः । राजा बभूव सन्तुष्टः किञ्चिच्चिन्तातुरस्तथा ॥ 49॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,49,8008,पूर्णे मासि पुनः पाशी परीक्षार्थं नृपालये । आजगाम द्विजो भूत्वा सुवेषः सुष्ठुभाषकः ॥ 50॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,50,8009,कृतार्हणं सुखासीनं भूपतिस्तं सुरोत्तमम् । उवाच विनयोपेतो हेतुगर्भं वचस्तदा ॥ 51॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,51,8010,असंस्कृतं सुतं स्वामिन्यूपे बध्नामि तं कथम् । संस्कत्य क्षत्रियं कृत्वा यजेऽहं यज्ञमुत्तमम् ॥ 52॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,52,8011,दयसे यदि देव त्वं ज्ञात्वा दीनं स्वसेवकम् । असंस्कृतस्य बालस्य नाधिकारोऽस्ति कुत्रचित् ॥ 53॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,53,8012,वरुण उवाच । प्रतारयसि राजेन्द्र कृत्वा समयमग्रतः । दुस्त्यजस्तव जानामि सुतस्नेहो ह्यपुत्रिणः ॥ 54॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,54,8013,गृहं व्रजामि भूपाल वचनात्तव कोमलात् । कियत्कालं प्रतीक्ष्याहमागमिष्यामि ते गृहम् ॥ 55॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,55,8014,भवितव्यं त्वया तात तदा सत्यवचोऽन्वितम् । अन्यथा त्वयि मुञ्चामि कोपं शापसमन्वितम् ॥ 56॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,56,8015,राजोवाच । समावर्तनकर्मान्ते सर्वथा यादसाम्पते । कृत्वा पुत्रपशुं यज्ञे यजिष्ये विधिपूर्वकम् ॥ 57॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,57,8016,व्यास उवाच । तच्छ्रुत्वा वचनं राज्ञो वरुणः प्रीतमानसः । तथेत्युक्त्वा ययौ तूर्णं नृपस्तु सुस्थितोऽभवत् ॥ 58॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,58,8017,रोहिताख्य इति ख्यातः सुतस्तस्य विवृद्धिमान् । सञ्जातश्चतुरः सर्वविद्यानां च विशारदः ॥ 59॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,59,8018,यज्ञस्य कारणं तेन ज्ञातं सर्वं सविस्तरम् । भयभीतस्ततः सोऽपि मत्वा मरणमात्मनः ॥ 60॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,60,8019,कृत्वा पलायनं वीरो गतोऽसौ गिरिगह्वरे । अगम्ये नृपतिस्थाने स्थितस्तत्र भयातुरः ॥ 61॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,61,8020,प्राप्ते कालेऽथ वरुणो यज्ञार्थी नृपतेर्गृहम् । गत्वा तमाह भूपालं कुरु यज्ञं विशाम्पते ॥ 62॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,62,8021,प्रम्लानवदनो राजा तमाह व्यथितेन्द्रियः । किं करोमि गतः क्वापि सुतो मे सुरसत्तम ॥ 63॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,63,8022,श्रुत्वा तद्वचनं राज्ञः कुपितो यादसाम्पतिः । शशाप तं नृपं कोपादसत्यवादिनं भृशम् ॥ 64॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,64,8023,जलोदराभिधो व्याधिर्देहे भवतु ते नृप । यतः प्रतारितश्चाहं कृत्वा कपटपण्डित ॥ 65॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,65,8024,इति शप्त्वा ययौ धाम स्वकं पाशधरस्तदा । राजा चिन्तातुरस्तस्थौ भवने व्याधिपीडितः ॥ 66॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,66,8025,यदातिव्याधितो राजा रोगेण शापजेन ह । तदा शुश्राव पुत्रोऽपि पितरं व्याधिपीडितम् ॥ 67॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,67,8026,पान्थिकः प्राह पुत्रं हि पिता ते भृशदुःखितः । जलोदरविकारेण शापजेन नृपात्मज ॥ 68॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,68,8027,विनष्टं जीवितं तेऽद्य वृथा जातस्य दुर्मते । यत्त्यक्त्वा पितरं दुःस्थं प्राप्तोऽसि गिरिगह्वरम् ॥ 69॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,69,8028,किमनेन शरीरेण प्राप्तं ते जन्मनः फलम् । देहदं दुःखितं कृत्वा स्थितोऽस्यत्र सुताधम ॥ 70॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,70,8029,प्राणास्त्याज्याः पितुः कार्ये सत्पुत्रेणेति निश्चयः । त्वदर्थे दुःखितो राजा क्रन्दति व्याधिपीडितः ॥ 71॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,71,8030,व्यास उवाच । तदाकर्ण्य वचस्तथ्यं पान्थिकाद्धर्मसंयुतम् । यदा चक्रे मनो गन्तुं द्रष्टुं तातं व्यथातुरम् ॥ 72॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,72,8031,तदा विप्रवपुर्भूत्वा वासवस्तमुपागमत् । रहः प्राह हितं वाक्यं दयावानिव भारत ॥ 73॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,73,8032,मूर्खोऽसि राजपुत्र त्वं गमनाय मतिं वृथा । करोषि पितरं त्वद्य न जानासि व्यथायुतम् ॥ 74॥ 6,६.१२,द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।,74,8033,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनं नाम द्वादशोऽध्यायः ॥ ६.१२॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,0,8034,इन्द्र उवाच । साहसं कृतवान् राजा पूर्वं यत्कथितो मखः । वरुणाय प्रतिज्ञातः पुत्रं कृत्वा पशुं प्रियम् ॥ 1॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,1,8035,गते त्वयि पिता पुत्रं बद्ध्वा यूपेऽघृणः पुनः । पशुं कृत्वा महाबुद्धे वधिष्यति व्यथातुरः ॥ 2॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,2,8036,इत्थं निषिद्धस्तत्पुत्रः शक्रेणामिततेजसा । स्थितस्तत्रैव मायेशीमायया मोहितो भृशम् ॥ 3॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,3,8037,यदा पुनः पुनः श्रुत्वा पितरं रोगपीडितम् । गमनाय मतिं चक्रे तदेन्द्रः प्रत्यषेधयत् ॥ 4॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,4,8038,हरिश्चन्द्रोऽतिदुःखार्तः पप्रच्छ गुरुमन्तिके । स्थितं वसिष्ठमेकान्ते सर्वज्ञं हिततत्परम् ॥ 5॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,5,8039,राजोवाच । भगवन् कि करोम्यद्य कातरोऽस्मि व्यथाकुलः । त्राहि मां दुःखमनसं महाव्याधिभयातुरम् ॥ 6॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,6,8040,वसिष्ठ उवाच । श‍ृणु राजन्नुपायोऽस्ति रोगनाशं प्रति स्तुतः । त्रयोदशविधाः पुत्राः कथिता धर्मसङ्ग्रहे ॥ 7॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,7,8041,तस्मात्क्रीतं सुतं कृत्वा यजस्व मखमुत्तमम् । द्रव्यं दत्त्वा यथोद्दिष्टमानयस्व द्विजोत्तमम् ॥ 8॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,8,8042,एवं कृते मखे भूप रोगनाशो भविष्यति । वरुणोऽपि प्रसन्नात्मा भविष्यति यथासुखम् ॥ 9॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,9,8043,व्यास उवाच । इति तस्य वचः श्रुत्वा राजा प्रोवाच मन्त्रिणम् । अन्वेषय महाबुद्धे विषयेष्वतियत्नतः ॥ 10॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,10,8044,कदाचित्कोऽपि लोभार्थी ददाति स्वसुतं पिता । समानय धनं दत्त्वा यावत्प्रार्थयतेऽप्यसौ ॥ 11॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,11,8045,सर्वथैव समानेयो यज्ञार्थे द्विजबालकः । न कार्या कृपणा बुद्धिस्त्वया मत्कार्यहेतवे ॥ 12॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,12,8046,प्रार्थनीयस्त्वया पुत्रः कस्यचिद्द्विजवादिनः । द्रव्येण देहि यज्ञार्थं कर्तव्योऽसौ पशुः किल ॥ 13॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,13,8047,इति सञ्चोदितस्तेन सचिवः कार्यहेतवे । अन्वेषयामास पुरे ग्रामे ग्रामे गृहे गृहे ॥ 14॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,14,8048,एवमन्वेषतस्तस्य विषये कश्चिदातुरः । निर्धनस्त्रिसुतश्चासीदजीगर्तेति नामतः ॥ 15॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,15,8049,तस्य पुत्रं शुनःशेपं मध्यमं मन्त्रिसत्तमः । आनयामास दत्त्वार्थं प्रार्थितं यद्धनं तदा ॥ 16॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,16,8050,समानीय शुनःशेपं सचिवः कार्यतत्परः । राज्ञे निवेदयामास पशुयोग्यं द्विजात्मजम् ॥ 17॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,17,8051,राजातिमुदितस्तेन विप्रानानीय सर्वतः । कारयामास सम्भारान्यज्ञार्थं वेदवित्तमान् ॥ 18॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,18,8052,प्रारब्धे तु मखे तत्र विश्वामित्रो महामुनिः । बद्धं दृष्ट्वा शुनःशेपं निषिषेध नृपं तदा ॥ 19॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,19,8053,राजन्मा साहसं कार्षीर्मुञ्चैनं द्विजबालकम् । प्रार्थयाम्यहमायुष्मन् सुखं तेऽद्य भविष्यति ॥ 20॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,20,8054,क्रन्दत्ययं शुनःशेपः करुणा मां दुनोत्यपि । दयावान्भव राजेन्द्र कुरु मे वचनं नृप ॥ 21॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,21,8055,परदेहस्य रक्षायै स्वदेहं ये दयापराः । ददति क्षत्रियाः पूर्वं स्वर्गकामाः शुचिव्रताः ॥ 22॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,22,8056,त्वं स्वदेहस्य रक्षार्थं हंसि द्विजसुतं बलात् । पापं मा कुरु राजेन्द्र दयावान् भव बालके ॥ 23॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,23,8057,सर्वेषां सदृशी प्रीतिर्देहे वेत्सि स्वयं नृप । मुञ्चैनं बालकं तस्मात्प्रमाणं यदि मे वचः ॥ 24॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,24,8058,व्यास क्त्वच अनादृत्य च तद्वाक्यं राजा दुःखातुरो भृशम् । न मुमोच मुनिस्तस्मै चूकोपातीव तापसः ॥ 25॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,25,8059,उपदेशं ददौ तस्मै शुनःशेपाय कौशिकः । मन्त्रं पाशधरस्याथ दयावान्वेदवित्तमः ॥ 26॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,26,8060,शुनःशेपोऽपि तं मन्त्रमसकृद्वधकर्शितः । स्तुतस्वरेण चुक्रोश संस्मरन्वरुणं भृशम् ॥ 27॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,27,8061,स्तुवन्तं मुनिपुत्रं तं ज्ञात्वा वै यादसां पतिः । तत्रागत्य शुनःशेपं मुमोच करुणार्णवः ॥ 28॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,28,8062,रोगहीनं नृपं कृत्वा वरुणः स्वगृहं ययौ । विश्वामित्रस्तु तं पुत्रं कृतवान्मोचितं मृतेः ॥ 29॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,29,8063,न कृतं वचनं राज्ञा कौशिकस्य महात्मनः । रोषं दधार मनसा राजोपरि स गाधिजः ॥ 30॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,30,8064,एकस्मिन्समये राजा हयारूढो वनं गतः । सूकरं हन्तुकामस्तु मध्याह्ने कौशिकीतटे ॥ 31॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,31,8065,वृद्धब्राह्मणवेषेण विश्वामित्रेण वञ्चितः । सर्वस्वं प्रार्थितं तस्य गृहीतं राज्यमद्भुतम् ॥ 32॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,32,8066,पीडितोऽसौ हरिश्चन्द्रो यजमानो यतो भृशम् । वसिष्ठः कौशिकं प्राह वने प्राप्तं यदृच्छया ॥ 33॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,33,8067,क्षत्रियाधम दुर्बुद्धे वृथा ब्राह्मणवेषभृत् । बकधर्म वृथा किं त्वं गर्वं वहसि दाम्भिक ॥ 34॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,34,8068,कस्मात्त्वया नृपश्रेष्ठो यजमानो ममाप्यसौ । अपराधं विना जाल्म गमितो दुःखमद्भुतम् ॥ 35॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,35,8069,बकध्यानपरो यस्मात्तस्मात्त्वं वै बको भव । इति शप्तो वसिष्ठेन कौशिकः प्राह तं पुनः ॥ 36॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,36,8070,त्वमप्याडिर्भवायुष्मन् बकोऽहं यावदेव हि । व्यास उवाच । एवं परस्परं दत्त्वा शापं तौ क्रोधपीडितौ ॥ 37॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,37,8071,अण्डजौ तरसा जातौ सरस्याडीबकौ मुनी । एकस्मिन्पादपे नीडं कृत्वासौ बकरूपभाक् ॥ 38॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,38,8072,विश्वामित्रः स्थितस्तत्र दिव्ये सरसि मानसे । अन्यस्मित्पादपे कृत्वा वसिष्ठो नीडमुत्तमम् ॥ 39॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,39,8073,आडीरूपधरस्तस्थावन्योन्यं द्वेषतत्परौ । दिने दिने तौ सङ्ग्रामं चक्रतुः क्रोधसंयुतौ ॥ 40॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,40,8074,दुःखदं सर्वलोकानां क्रन्दमानावुभौ भृशम् । चञ्चुपक्षप्रहारैस्तु नखाघातैः परस्परम् ॥ 41॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,41,8075,जघ्नतू रुधिरक्लिनौ पुष्पिताविव किंशुकौ । एवं बहूनि वर्षाणि पक्षिरूपधरौ मुनी ॥ 42॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,42,8076,स्थितौ तत्र महाराज शापपाशेन यन्त्रितौ । राजोवाच । कथं मुक्तौ मुनिश्रेष्ठौ शापाद्वसिष्ठकौशिकौ ॥ 43॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,43,8077,तन्ममाचक्ष्व विप्रर्षे परं कौतूहलं हि मे । व्यास उवाच । युध्यमानाब्वुभौ दृष्ट्वा ब्रह्मा लोकपितामहः ॥ 44॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,44,8078,तत्राजगामानिमिषैर्वृतः सर्वैर्दयापरैः । तावाश्वास्य जगत्कर्ता युद्धतो विनिवार्य च ॥ 45॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,45,8079,शापं सम्मोचयामास तयोः क्षिप्तं परस्परम् । ततो जग्मुः सुराः सर्वे स्वानि धिष्ण्यानि पद्मभूः ॥ 46॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,46,8080,सत्यलोकं जगामाशु हंसारूढः प्रतापवान् । विश्वामित्रोऽप्यगात्तूर्णं वसिष्ठः स्वाश्रमं गतः ॥ 47॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,47,8081,मिथः स्नेहं ततः कृत्वा प्रजापत्युपदेशतः । मैत्रावरुणिनाप्येवं कृतं युद्धमकारणम् ॥ 48॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,48,8082,कौशिकेन समं भूप दुःखदं च परस्परम् । को नाम मानवो लोके देवो वा दानवोऽपि वा ॥ 49॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,49,8083,अहङ्कारजयं कृत्वा सर्वदा सुखभाग्भवेत् । तस्माद्राजंश्चित्तशुद्धिर्महतामपि दुर्लभा ॥ 50॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,50,8084,यत्नेन साधनीया सा तद्विहीनं निरर्थकम् । तीर्थं दानं तपः सत्यं यत्किञ्चिद्धर्मसाधनम् ॥ 51॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,51,8085,(श्रद्धात्र त्रिविधा प्रोक्ता सात्त्विकी राजसी तथा । तामसी सर्वदेहेषु देहिनां धर्मकर्मसु ॥ सात्त्विकी दुर्लभा लोके यथोक्तफलदा सदा । तदर्धफलदा प्रोक्ता राजसी विधिसंयुता ॥ तामसी त्वफला राजन्न तु कीर्तिकरी पुनः । कामक्रोधाभिभूतानां जनानां नृपसत्तम ॥) वासनारहितं कृत्वा तच्चित्तं श्रवणादिना । तीर्थादिषु वसेन्नित्यं देवीपूजनतत्परः ॥ 52॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,52,8086,देवीनामानि वचसा गृह्णंस्तस्या गुणान्स्तुवन् । ध्यायंस्तस्याः पदाम्भोजं कलिदोषभयार्दितः ॥ 53॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,53,8087,एवं तु कुर्वतस्तस्य न कदाचित्कलेर्भयम् । अनायासेन संसारान्मुच्यते पातकी जनः ॥ 54॥ 6,६.१३,त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।,54,8088,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनं नाम त्रयोदशोऽध्यायः ॥ ६.१३॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,0,8089,जनमेजय उवाच । मैत्रावरुणिरित्युक्तं नाम तस्य मुनेः कथम् । वसिष्ठस्य महाभाग ब्रह्मणस्तनुजस्य ह ॥ 1॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,1,8090,किमसौ कर्मतो नाम प्राप्तवान् गुणतस्तथा । ब्रूहि मे वदतांश्रेष्ठ कारणं तस्य नामजम् ॥ 2॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,2,8091,व्यास उवाच । निबोध नृपतिश्रेष्ठ वसिष्ठो ब्रह्मणः सुतः । निमिशापात्तनुं त्यक्त्वा पुनर्जातो महाद्युतिः ॥ 3॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,3,8092,मित्रावरुणयोर्यस्मात्तस्मात्तन्नाम विश्रुतम् । मैत्रावरुणिरित्यस्मिँल्लोके सर्वत्र पार्थिव ॥ 4॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,4,8093,राजोवाच । कस्माच्छप्तः स धर्मात्मा राज्ञा ब्रह्मात्मजो मुनिः । चित्रमेतन्मुनिं लग्नो राज्ञः शापोऽतिदारुणः ॥ 5॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,5,8094,अनागसं मुनिं राजा किमसौ शप्तवान्मुने । कारणं वद धर्मज्ञ तस्य शापस्य मूलतः ॥ 6॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,6,8095,व्यास उवाच । कारणं तु मया प्रोक्तं तव पूर्वं विनिश्चितम् । संसारोऽयं त्रिभिर्व्याप्तो राजन्मायागुणैः किल ॥ 7॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,7,8096,धर्मं करोतु भूपालश्चरन्तु तापसास्तपः । सर्वेषां तु गुणैर्विद्धं नोज्ज्वलं तद्भवेदिह ॥ 8॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,8,8097,कामक्रोधाभिभूताश्च राजानो मुनयस्तथा । लोभाहङ्कारसंयुक्ताश्चरन्ति दुश्चरं तपः ॥ 9॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,9,8098,यजन्ति क्षत्रिया राजन् रजोगुणसमावृताः । ब्राह्मणास्तु तथा राजन् न कोऽपि सत्त्वसंयुतः ॥ 10॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,10,8099,ऋषिणासौ निमिः शप्तस्तेन शप्तो मुनिः पुनः । दुःखाद्दुःखतरं प्राप्तावुभावपि विधेर्बलात् ॥ 11॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,11,8100,द्रव्यशुद्धिः क्रियाशुद्धिर्मनसः शुद्धिरुज्ज्वला । दुर्लभा प्राणिनां भूप संसारे त्रिगुणात्मके ॥ 12॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,12,8101,पराशक्तिप्रभावोऽयं नोल्लङ्घ्यः केनचित्क्वचित् । यस्यानुगृहमिच्छेत्सा मोचयत्येव तं क्षणात् ॥ 13॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,13,8102,महान्तोऽपि न मुच्यन्ते हरिब्रह्महरादयः । पामरा अपि मुच्यन्ते यथा सत्यव्रतादयः ॥ 14॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,14,8103,तस्यास्तु हृदयं कोऽपि न वेत्ति भुवनत्रये । तथापि भक्तवश्येयं भवत्येव सुनिश्चितम् ॥ 15॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,15,8104,तस्मात्तद्भक्तिरास्थेया दोषनिर्भूलनाय च । रागदम्भादियुक्ता चेत्सा भक्तिर्नाशिनी भवेत् ॥ 16॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,16,8105,इक्ष्याकुकुलसम्भूतो निमिर्नाम नराधिपः । रूपवान् गुणसम्पन्नो धर्मज्ञो लोकरञ्जकः ॥ 17॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,17,8106,सत्यवादी दानपरो याजको ज्ञानवाच्छुचिः । द्वादशस्तनयो धीमान्प्रजापालनतत्परः ॥ 18॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,18,8107,पुरं निवेशयामास गौतमाश्रमसन्निधौ । जयन्तपुरसंज्ञं तु ब्राह्मणानां हिताय सः ॥ 19॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,19,8108,बुद्धिस्तस्य समुत्पन्ना यजेयमिति राजसी । यज्ञेन बहुकालेन दक्षिणासंयुतेन च ॥ 20॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,20,8109,इस्वाकुं पितरं पृष्ट्वा यज्ञकार्याय पार्थिवः । कारयामास सम्भारं यथोद्दिष्टं महात्मभिः ॥ 21॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,21,8110,भृगुमङ्गिरसं चैव वामदेवं च गौतमम् । वसिष्ठं च पुलस्त्यं च ऋचीकं पुलहं क्रतुम् ॥ 22॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,22,8111,मुनीनामन्त्रयामास सर्वज्ञान्वेदपारगान् । यज्ञविद्याप्रवीणांश्च तापसान्वेदवित्तमान् ॥ 23॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,23,8112,राजा सम्भृतसम्भारः सम्पूज्य गुरुमात्मनः । वसिष्ठं प्राह धर्मज्ञो विनयेन समन्वितः ॥ 24॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,24,8113,यजेयं मुनिशार्दूल याजयस्व कृपानिधे । गुरुस्त्वं सर्ववेत्तासि कार्यं मे कुरु साम्प्रतम् ॥ 25॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,25,8114,यज्ञोपकरणं सर्वं समानीतं सुसंस्कृतम् । पञ्चवर्षसहस्रं तु दीक्षां कर्तुं मतिश्च मे ॥ 26॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,26,8115,यस्मिन्यज्ञे समाराध्या देवी श्रीजगदम्बिका । तत्प्रीत्यर्थमहं यज्ञं करोमि विधिपूर्वकम् ॥ 27॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,27,8116,तच्छ्रुत्वासौ निमेर्वाक्यं वसिष्ठः प्राह भूपतिम् । इन्द्रेणाहं वृतः पूर्वं यज्ञार्थं नृपसत्तम ॥ 28॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,28,8117,पराशक्तिमखं कर्तुमुद्युक्तः पाकशासनः । स दीक्षां गमितो देवः पञ्चवर्षशतात्मिकाम् ॥ 29॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,29,8118,तस्मात्त्वमन्तरं तावत्प्रतिपालय पार्थिव । इन्द्रयज्ञे समाप्तेऽत्र कृत्वा कार्यं दिवस्पतेः ॥ 30॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,30,8119,आगमिष्याम्यहं राजंस्तावत्त्वं प्रतिपालय । राजोवाच । मया निमन्त्रिताश्चान्ये मुनयो यज्ञकारणात् ॥ 31॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,31,8120,सम्भाराः सम्भृताः सर्वे पालयामि कथं गुरो । इक्ष्वाकूणां कुले ब्रह्मन्गुरुस्त्वं वेदवित्तमः ॥ 32॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,32,8121,कथं त्यक्त्वाद्य मे कार्यमुद्यतो गन्तुमाशु वै । न ते युक्तं द्विजश्रेष्ठ यदुत्सृज्य मखं मम ॥ 33॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,33,8122,गन्तासि धनलोभेन लोभाकुलितचेतनः । निवारितोऽपि राज्ञा स जगामेन्द्रमखं गुरुः ॥ 34॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,34,8123,राजापि विमना भूत्वा गौतमं प्रत्यपूजयत् । इयाज हिमवत्पार्श्वे सागरस्य समीपतः ॥ 35॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,35,8124,दक्षिणा बहुला दत्ता विप्रेभ्यो मखकर्मणि । निमिना पञ्चसाहस्री दीक्षा तत्र कृता नृप ॥ 36॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,36,8125,ऋत्विजः पूजिताः कामं धनैर्गोभिर्मुदा युताः । शक्रयज्ञसमाप्ते तु पञ्चवर्षशतात्मके ॥ 37॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,37,8126,आजगाम वसिष्ठस्तु राज्ञः सत्रदिदृक्षया । आगत्य संस्थितस्तत्र दर्शनार्थं नृपस्य च ॥ 38॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,38,8127,तदा राजा प्रसुप्तस्तु निद्रयापहृतो भृशम् । नासौ प्रबोधितो भृत्यैर्नागतस्तु मुनिं नृपः ॥ 39॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,39,8128,वसिष्ठस्य ततो मन्युः प्रादुर्भूतोऽवमानतः । अदर्शनान्निमेस्तत्र चुकोप मुनिसत्तमः ॥ 40॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,40,8129,शापं च दत्तवांस्तस्मै राज्ञे मन्युवशं गतः । यस्मात्त्वं मां गुरुं त्यक्त्वा कृत्वान्यं गुरुमात्मनः ॥ 41॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,41,8130,दीक्षितोऽसि बलान्मन्द मामवज्ञाय पार्थिव । वारितोऽपि मया तस्माद्विदेहस्त्वं भविष्यसि ॥ 42॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,42,8131,पतत्विदं शरीरं ते विदेहो भव भूपते । व्यास उवाच । इति तद्व्याहृतं श्रुत्वा राज्ञस्तु परिचारकाः ॥ 43॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,43,8132,सद्यः प्रबोधयामासुर्मुनिमाहुः प्रकोपितम् । कुपितं तं समागत्य राजा विगतकल्मषः ॥ 44॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,44,8133,उवाच वचनं श्लक्ष्णं हेतुगर्भं च युक्तिमत् । । मम दोषो न धर्मज्ञ गतस्त्वं तृष्णयाऽऽकुलः ॥ 45॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,45,8134,हित्वा मां यजमानं वै प्रार्थितोऽपि मया भृशम् । न लज्जसे द्विजश्रेष्ठ कृत्वा कर्म जुगुप्सितम् ॥ 46॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,46,8135,सन्तोषे ब्राह्मणश्रेष्ठ जानन्धर्मस्य निश्चयम् । पुत्रोऽसि ब्रह्मणः साक्षाद्वेदवेदाङ्गवित्तमः ॥ 47॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,47,8136,न वेत्सि विप्रधर्मस्य गतिं सूक्ष्मां दुरत्ययाम् । आत्मदोषं मयि ज्ञात्वा मृषा मां शस्तुमिच्छसि ॥ 48॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,48,8137,त्याज्यस्तु सुजनैः क्रोधश्चण्डालादधिको यतः । वृथा क्रोधपरीतेन मयि शापः प्रपातितः ॥ 49॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,49,8138,तवापि च पतत्वद्य देहोऽयं क्रोधसंयुतः । एवं शप्तो मुनी राज्ञा राजा च मुनिना तथा ॥ 50॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,50,8139,परस्परं प्राप्य शापं दुःखितौ तौ बभूवतुः । वसिष्ठस्त्वतिचिन्तार्तो ब्रह्माणं शरणं गतः ॥ 51॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,51,8140,निवेदयामास तथा शापं भूपकृतं महत् । वसिष्ट उवाच । राज्ञा शप्तोऽस्मि देहोऽयं पतत्वद्य तवेति वै ॥ 52॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,52,8141,किं करोमि पितः प्राप्यं कष्टं कायप्रपातजम् । अन्यदेहसमुत्पत्तौ जनकं वद साम्प्रतम् ॥ 53॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,53,8142,तथा मे देहसंयोगः पूर्ववत्समपद्यताम् । यादृशं ज्ञानमेतस्मिन्देहे तत्रास्तु तत्पितः ॥ 54॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,54,8143,समर्थोऽसि महाराज प्रसादं कर्तुमर्हसि । वसिष्ठस्य वचः श्रुत्वा ब्रह्मा प्रोवाच तं सुतम् ॥ 55॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,55,8144,मित्रावरुणयोस्तेजस्त्वं प्रविश्य स्थिरो भव । तस्मादयोनिजः काले भविता त्वं न संशयः ॥ 56॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,56,8145,पुनर्देहं समासाद्य धर्मयुक्तो भविष्यसि । भूतात्मा वेदवित्कामं सर्वज्ञः सर्वपूजितः ॥ 57॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,57,8146,एवमुक्तस्तदा पित्रा प्रययौ वरुणालयम् । कृत्वा प्रदक्षिणं प्रीत्या प्रणम्य च पितामहम् ॥ 58॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,58,8147,विवेश स तयोर्देहे मित्रावरुणयोः किल । जीवांशेन वसिष्ठोऽथ त्यक्त्वा देहमनुत्तमम् ॥ 59॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,59,8148,कदाचित्तूर्वशी राजन्नागता वरुणालयम् । यदृच्छया वरारोहा सखीगणसमावृता ॥ 60॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,60,8149,दृष्ट्वा तामप्सरां दिव्यां रूपयौवनसंयुताम् । जातौ कामातुरौ देवौ तदा तामूचतुर्नृप ॥ 61॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,61,8150,विवशौ चारुसर्वाङ्गीं देवकन्यां मनोरमाम् । आवां त्वमनवद्याङ्गि वरयस्व समाकुलौ ॥ 62॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,62,8151,विहरस्व यथाकामं स्थानेऽस्मिन्वरवर्णिनि । तथोक्ता सा ततो देवी ताभ्यां तत्र स्थितावशा ॥ 63॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,63,8152,कृत्वा भावं स्थिरं देवी मित्रावरुणयोर्गृहे । सा गृहीत्वा तयोर्भावं संस्थिता चारुदर्शना ॥ 64॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,64,8153,तयोस्तु पतितं वीर्यं कुम्भे दैवादनावृते । तस्माज्जातौ मुनी राजन्द्वावेवातिमनोहरौ ॥ 65॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,65,8154,अगस्तिः प्रथमस्तत्र वसिष्ठश्चापरस्तथा । मित्रावरुणयोर्वीर्यात्तापसावृषिसत्तमौ ॥ 66॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,66,8155,प्रथमस्तु वनं प्राप्तो बाल एव महातपाः । इक्ष्वाकुस्तु वसिष्ठं तं बालं वव्रे पुरोहितम् ॥ 67॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,67,8156,वंशस्यास्य सुखार्थं ते पालयामास पार्थिव । विशेषेण मुनिं ज्ञात्वा प्रीत्या युक्तो बभूव ह ॥ 68॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,68,8157,एतत्ते सर्वमाख्यातं वसिष्ठस्य च कारणम् । शापाद्देहान्तरप्राप्तिर्मित्रावरुणयोः कुले ॥ 69॥ 6,६.१४,चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।,69,8158,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनं नाम चतुर्दशोऽध्यायः ॥ ६.१४॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,0,8159,जनमेजय उवाच । देहप्राप्तिर्वसिष्ठस्य कथिता भवता किल । निमिः कथं पुनर्देहं प्राप्तवानिति मे वद ॥ 1॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,1,8160,व्यास उवाच । वसिष्ठेन च सम्प्राप्तः पुनर्देहो नराधिप । निमिना न तथा प्राप्तो देहः शापादनन्तरम् ॥ 2॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,2,8161,यदा शप्तो वसिष्ठेन तदा ते ब्राह्मणाः क्रतौ ऋत्विजो ये वृता राज्ञा ते सर्वे समचिन्तयन् ॥ 3॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,3,8162,किं कर्तव्यमहोऽस्माभिः शापदग्धो महीपतिः । अस्मिन्यज्ञे त्वसम्पूर्णे दीक्षायुक्तश्च धार्मिकः ॥ 4॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,4,8163,किं कर्तव्यं कार्यमेतद्विपरीतमभूत्किल । अवश्यम्भाविभावत्वादशक्ताः स्म निवारणे ॥ 5॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,5,8164,मन्त्रैर्बहुविधैर्देहं तदा तस्य महात्मनः । रक्षितं धारयामासुः किञ्चिच्छ्वसनसंयुतम् ॥ 6॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,6,8165,गन्धैर्माल्यैश्च विविधैः पूज्यमानं मुहुर्मुहुः । मन्त्रशक्त्या प्रतिष्टभ्य निर्विकारं सुपूजितम् ॥ 7॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,7,8166,समाप्ते च क्रतौ तत्र देवाः सर्वे समागताः । ऋत्विग्भिस्तु स्तुताः सर्वे सुप्रीताश्चाभवन्नृप ॥ 8॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,8,8167,विज्ञप्ता मुनिभिः स्तोत्रैर्निर्विण्णात्मानमब्रुवन् । प्रसन्नाः स्म महीपाल वरं वरय सुव्रत ॥ 9॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,9,8168,यज्ञेनानेन राजर्षे वरं जन्म विधीयते । देवदेहं नृदेहं वा यत्ते मनसि वाञ्छितम् ॥ 10॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,10,8169,दृप्तः कामं पुरोधास्ते मृत्युलोके यथासुखम् । एवमुक्तो निमेरात्मा सन्तुष्टस्तानुवाच ह ॥ 11॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,11,8170,न देहे मम वाञ्छास्ति सर्वदैव विनश्वरे । वासो मे सर्वसत्त्वानां दृष्टावस्तु सुरोत्तमाः ॥ 12॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,12,8171,नेत्रेषु सर्वभूतानां वायुभूतश्चराम्यहम् । एवमुक्ताः सुरास्तत्र निमेरात्मानमब्रुवन् ॥ 13॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,13,8172,प्रार्थय त्वं महाराज देवीं सर्वेश्वरीं शिवाम् । मखेनानेन सन्तुष्टा सा तेऽभीष्टं विधास्यति ॥ 14॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,14,8173,स देवैरेवमुक्तस्तु प्रार्थयामास देवताम् । स्तोत्रैर्नानाविधैर्दिव्यैर्भक्त्या गद्गदया गिरा ॥ 15॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,15,8174,प्रसन्ना सा तदा देवी प्रत्यक्षं दर्शनं ददौ । कोटिसूर्यप्रतीकाशं रूपं लावण्यदीपितं । १६ दृष्ट्वा प्रमुदिताः सर्वे कृतकृत्याश्च चेतसि । प्रसन्नायां देवतायां राजा वव्रे वरं नृप ॥ 17॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,16,8175,ज्ञानं तद्विमलं देहि येन मोक्षो भवेदपि । नेत्रेषु सर्वभूतानां निवासो मे भवेदिति ॥ 18॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,17,8176,ततः प्रसन्ना देवेशी प्रोवाच जगदम्बिका । ज्ञानं ते विमलं भूयात्प्रारब्धस्यावशेषतः ॥ 19॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,18,8177,नेत्रेषु सर्वभूतानां निवासोऽपि भविष्यति । निमिषं यान्ति चक्षूंषि त्वत्कृतेनैव देहिनाम् ॥ 20॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,19,8178,तव वासात्सनिमिषा मानवाः पशवस्तथा । पतङ्गाश्च भविष्यन्ति पुनश्चानिमिषाः सुराः ॥ 21॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,20,8179,इति दत्त्वा वरं तस्मै तदा श्रीवरदेवता । आमन्त्र्य च मुनीन्सर्वांस्तत्रैवान्तर्हिताभवत् ॥ 22॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,21,8180,अन्तर्हितायां देव्यां तु मुनयस्तत्र संस्थिताः । विचिन्त्य विथिवत्सर्वे निमेर्देहं समाहरन् ॥ 23॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,22,8181,अरणिं तत्र संस्थाप्य ममन्धुर्मन्त्रवत्तदा । मन्त्रहोमैर्महात्मानः पुत्रहेतोर्निमेरथ ॥ 24॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,23,8182,अरण्यां मथ्यमानायां पुत्रः प्रादुरभूत्तदा । सर्वलक्षणसम्पन्नः साक्षान्निमिरिवापरः ॥ 25॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,24,8183,अरण्या मथनाज्जातस्तस्मान्मिथिरिति स्मृतः । येनायं जनकाज्जातस्तेनासौ जनकोऽभवत् ॥ 26॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,25,8184,विदेहस्तु निमिर्जातो यस्मात्तस्मात्तदन्वये । समुद्भूतास्तु राजानो विदेहा इति कीर्तिताः ॥ 27॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,26,8185,एवं निमिसुतो राजा प्रथितो जनकोऽभवत् । नगरी निर्मिता तेन गङ्गातीरे मनोहरा ॥ 28॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,27,8186,मिथिलेति सुविख्याता गोपुराट्टालसंयुता । धनधान्यसमायुक्ता हट्टशालाविराजिता ॥ 29॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,28,8187,वंशेऽस्मिन्येऽपि राजानस्ते सर्वे जनकास्तथा । विख्याता ज्ञानिनः सर्वे विदेहाः परिकीर्तिताः ॥ 30॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,29,8188,एतत्ते कथितं राजन्निमेराख्यानमुत्तमम् । शापाद्यस्य विदेहत्वं विस्तरादुदितं मया ॥ 31॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,30,8189,राजोवाच । भगवन्भवता प्रोक्तं निमिशापस्य कारणम् । श्रुत्वा सन्देहमापन्नं मनो मेऽतीव चञ्चलम् ॥ 32॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,31,8190,वसिष्ठो ब्राह्मणः श्रेष्ठो राज्ञश्चैव पुरोहितः । पुत्रः पङ्कजयोनेस्तु राज्ञा शप्तः कथं मुनिः ॥ 33॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,32,8191,गुरुं च ब्राह्मणं ज्ञात्वा निमिना न कृता क्षमा । यज्ञकर्म शुभं कृत्वा कथं क्रोधमुपागतः ॥ 34॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,33,8192,ज्ञात्वा धर्मस्य विज्ञानं कथमिक्ष्वाकुसम्भवः । क्रोधस्य वशमापन्तः शप्तवान्ब्राह्मणं गुरुम् ॥ 35॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,34,8193,व्यास उवाच । क्षमातिदुर्लभा राजन्प्राणिभिरजितात्मभिः । क्षमावान्दुर्लभो लोके सुसमर्थो विशेषतः ॥ 36॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,35,8194,सर्वसङ्गपरित्यागी मुनिर्भवतु तापसः । निद्राक्षुधोर्विजेता च योगाभ्यासे सुनिष्ठितः ॥ 37॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,36,8195,कामः क्रोधस्तथा लोभो ह्यहङ्कारश्चतुर्थकः । दुर्ज्ञेया देहमध्यस्था रिपवस्तेन सर्वथा ॥ 38॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,37,8196,न भूतपूर्वः संसारे न चैव वर्ततेऽधुना । भविता न पुमान्कश्चिद्यो जयेत रिपूनिमान् ॥ 39॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,38,8197,न स्वर्गे न च भूलोके ब्रह्मलोके हरेः पदे । कैलासे नेदृशः कश्चिद्यो जयेत रिपूनिमान् ॥ 40॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,39,8198,मुनयो ब्रह्मपुत्राश्च तथान्ये तापसोत्तमाः । तेऽपि गुणत्रयाविद्धाः किं पुनर्मानवा भुवि ॥ 41॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,40,8199,कपिलः साङ्ख्यवेत्ता च योगाभ्यासरतः शुचिः । तेनापि दैवयोगाद्धि प्रदग्धाः सगरात्मजाः ॥ 42॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,41,8200,तस्माद्राजन्नहङ्कारात्सञ्जातं भुवनत्रयम् । कार्यकारणभावात्तु तद्वियुक्तं कथं भवेत् ॥ 43॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,42,8201,ब्रह्मा गुणत्रयाविष्टो विष्णुश्चैवाथ शङ्करः । प्रभवन्ति शरीरेषु तेषां भावाः पृथक्पृथक् ॥ 44॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,43,8202,मानवानां च का वार्ता सत्त्वैकान्तव्यवस्थितौ । गुणानां सङ्करो राजन्सर्वत्र समवस्थितः ॥ 45॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,44,8203,कदाचित्सत्त्ववृद्धिः स्यात्कदाचिद्रजसः किल । कदाचित्तमसो वृद्धिः समभावः कदाचन ॥ 46॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,45,8204,निर्गुणः परमात्मासौ निर्लेपः परमोऽव्ययः । अलक्ष्यः सर्वसत्त्वानामप्रमेयः सनातनः ॥ 47॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,46,8205,तथैव परमा शक्तिर्निर्गुणा ब्रह्मसंस्थिता । दुर्ज्ञेया चाल्पमतिभिः सर्वभूतव्यवस्थितिः ॥ 48॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,47,8206,परात्मनस्तथा शक्तेस्तयोरैक्यं सदैव हि । अभिन्नं तद्वपुर्ज्ञात्वा मुच्यते सर्वदोषतः ॥ 49॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,48,8207,तज्ज्ञानादेव मोक्षः स्यादिति वेदान्तडिण्डिमः । यो वेद स विमुक्तोऽस्मिन्संसारे त्रिगुणात्मके ॥ 50॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,49,8208,ज्ञानं तु द्विविधं प्रोक्तं शाब्दिकं प्रथमं स्मृतम् । वेदशास्त्रार्थविज्ञानात्तद्भवेद्बुद्धियोगतः ॥ 51॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,50,8209,विकल्पास्तत्र बहवो भवन्ति मतिकल्पिताः । (कुतर्ककल्पिताः केचित्सतर्ककल्पिताः परे । वितर्कैर्विभ्रमोत्पत्तिर्विभ्रमाद्बुद्धिभ्रंशता । बुद्धिभ्रंशाज्ज्ञाननाशः प्राणिनां परिकीर्तितः । ) अनुभवाख्यं द्वितीयं तु ज्ञानं तद्दुर्लभं नृप ॥ 52॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,51,8210,तत्तदा प्राप्यते तस्य वेत्तुः सङ्गो यदा भवेत् । शब्दज्ञानान्न कार्यस्य सिद्धिर्भवति भारत ॥ 53॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,52,8211,तस्मान्नानुभवज्ञानं सम्भवत्यतिमानुषम् । अन्तर्गतं तमश्छेत्तुं शाब्दबोधो हि न क्षमः ॥ 54॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,53,8212,यथा न नश्यति तमः कृतया दीपवार्तया । तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये ॥ 55॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,54,8213,आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् । शीलं परहितत्वं च कोपाभावः क्षमा धृतिः ॥ 56॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,55,8214,सन्तोषश्चेति विद्यायाः परिपाकोज्ज्वलं फलम् । विद्यया तपसा वापि योगाभ्यासेन भूपते ॥ 57॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,56,8215,विना कामादिशत्रूणां नैव नाशः कदाचन । (मनस्तु चञ्चलं रास्वभावादतिदुर्ग्रहम् । तद्वशः सर्वथा प्राणी त्रिविधो भुवनत्रये । ) कामक्रोधादयो भावाश्चित्तजाः परिकीर्तिताः ॥ 58॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,57,8216,ते तदा न भवन्त्येव यदा वै निर्जितं मनः । तस्मात्तु निमिना राजन्न क्षमा विहिता मुनौ ॥ 59॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,58,8217,यथा ययातिना पूर्वं कृता शुक्रे कृतागसि । भृगुपुत्रेण शप्तोऽपि ययातिर्नृपसत्तमः ॥ 60॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,59,8218,न शशाप मुनिं क्रोधाज्जरां राजा गृहीतवान् । कश्चित्सौम्यो भवेत्कश्चित्क्रूरो भवति पार्थिवः ॥ 61॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,60,8219,स्वभावभेदान्नृपते कस्य दोषोऽत्र कल्प्यते । हैहया भार्गवान्पूर्वं धनलोभात्पुरोहितान् ॥ 62॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,61,8220,ब्राह्मणान्मूलतः सर्वांश्चिच्छिदुः क्रोधमूर्च्छिताः । पातकं पृष्ठतः कृत्वा ब्रह्महत्यासमुद्भवम् ॥ 63॥ 6,६.१५,पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।,62,8221,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे देवीमहिम्नि नानाभाववर्णनं नाम पञ्चदशोऽध्यायः ॥ ६.१५॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,0,8222,जनमेजय उवाच । कुले कस्य समुत्पन्नाः क्षत्रिया हैहयाश्च ते । ब्रह्महत्यामनादृत्य निजघ्नुर्भार्गवांश्च ये ॥ 1॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,1,8223,वैरस्य कारणं तेषां किं मे ब्रूहि पितामह । निमित्तेन विना क्रोधं कथं कुर्वन्ति सत्तमाः ॥ 2॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,2,8224,वैरं पुरोहितैः सार्धं कस्मात्तेषामजायत । नाल्पहेतोर्हि तद्वैरं क्षत्रियाणां भविष्यति ॥ 3॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,3,8225,अन्यथा ब्राह्मणान् पूज्यान्कथं जघ्नुरनागसः । बाहुजा बलवन्तोऽपि पापभीताः कथं न ते ॥ 4॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,4,8226,स्वल्पेऽपराधे को हन्याद्वाडवान्क्षत्रियर्षभः । सन्देहो मे मुनिश्रेष्ठ कारणं वक्तुमर्हसि ॥ 5॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,5,8227,सूत उवाच । इति पृष्टस्तदा तेन राज्ञा सत्यवतीसुतः । उवाच परमप्रीतः कथां संस्मृत्य चेतसा ॥ 6॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,6,8228,व्यास उवाच । श‍ृणु पारिक्षिते वार्तां क्षत्रियाणां पुरातनीम् । आश्चर्यकारिणीं सम्यग्विदितां च पुरा मया ॥ 7॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,7,8229,कार्तवीर्येति नाम्नाभूद्धैहयः पृथिवीपतिः । सहस्रबाहुर्बलवानर्जुनो धर्मतत्परः ॥ 8॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,8,8230,दत्तात्रेयस्य शिष्योऽभूदवतारो हरेरिव । सिद्धः सर्वार्थदः शाक्तो भृगूणां याज्य एव सः ॥ 9॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,9,8231,यज्वा परमधर्मिष्ठः सदा दानपरायणः । ददौ वित्तं भृगुभ्योऽसौ कृत्वा यज्ञाननेकशः ॥ 10॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,10,8232,धनिनस्ते द्विजा जाता भृगवो नृपदानतः । हयरत्नसमृद्ध्याढ्याः सञ्जाताः प्रथिता भुवि ॥ 11॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,11,8233,स्वर्याते नृपशार्दूले कार्तवीर्यार्जुने पुनः । हैहया निर्धना जाताः कालेन महता नृप ॥ 12॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,12,8234,धनकार्यं समुत्पन्नं हैहयानां कदाचन । याचिष्णवोऽभिजग्मुस्तान्भूगूंस्ते हैहया नृप ॥ 13॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,13,8235,विनयं क्षत्रियाः कृत्वाप्ययाचन्त धनं बहु । न ददुस्तेऽतिलोभार्ता नास्ति नास्तीतिवादिनः ॥ 14॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,14,8236,भूमौ च निदधुः केचिद्भृगवो धनमुत्तमम् । ददुः केचिद्द्विजातिभ्यो ज्ञात्वा क्षत्रियतो भयम् ॥ 15॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,15,8237,कृत्वा स्थानान्तरे द्रव्यं ब्राह्मणा भयविह्वलाः । त्यक्त्वाऽऽश्रमान्ययुः सर्वे भृगवस्तृष्णयान्विताः ॥ 16॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,16,8238,याज्यांश्च दुःखितान्दृष्ट्वा न ददुर्लोभमोहिताः । पलायित्वा गताः सर्वे गिरिदुर्गानुपाश्रिताः ॥ 17॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,17,8239,ततस्ते हैहयास्तात दुःखिताः कार्यगौरवात् । भृगूणामाश्रमाञ्जग्मुर्द्रव्यार्थं क्षत्रियर्षभाः ॥ 18॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,18,8240,भृगूंस्तु निर्गतान्वीक्ष्य शून्यांस्त्यक्त्या गृहानथ । चखनुर्भूतलं तत्र द्रव्यार्थं हैहया भृशम् ॥ 19॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,19,8241,खनताधिगतं वित्तं केनचिद्भृगुवेश्मनि । ददृशुः क्षत्रियाः सर्वे तद्वित्तं श्रमकर्शिताः ॥ 20॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,20,8242,यत्र यत्र समुत्पन्नं भूरि द्रव्यं महीतलात् । तदा ते पार्श्वभागस्थब्राह्मणानां गृहाण्यपि ॥ 21॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,21,8243,निर्भिद्य हैहया द्रव्यं ददृशुर्धनलिप्सया । ब्राह्मणाश्चुकुशः सर्वे भीताश्च शरणं गताः ॥ 22॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,22,8244,अतिचिन्वत्सु विप्राणां भवनान्निःसृतं बहु । निजघ्नुस्ताञ्छरैः कोपाद्वाडवाञ्छरणागतान् ॥ 23॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,23,8245,ययुस्ते गिरिदुर्गांश्च यत्र वै भृगवः स्थिताः । आगर्भादनुकृन्तन्तश्चेरुश्चैव महीमिमाम् ॥ 24॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,24,8246,प्राप्तान्प्राप्तान्भृगून्सर्वान्निजघ्नुर्निशितैः शरैः । आबालवृद्धानपरानवमन्य च पातकम् ॥ 25॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,25,8247,एवमुत्पाट्यमानेषु भार्गवेषु यतस्ततः । हन्युर्गर्भांश्च नारीणां गृहीत्वा हैहया भृशम् ॥ 26॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,26,8248,रुरुदुस्ताः स्त्रियः कामं कुरर्य इव दुःखिताः । गर्भाश्च कृन्तिता यासां क्षत्रियैः पापनिश्चयैः ॥ 27॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,27,8249,अन्येऽप्याहुश्च तान्दृप्तान्मुनयस्तीर्थवासिनः । मुञ्चन्तु क्षत्रियाः क्रोधं ब्राह्मणेषु भयावहम् ॥ 28॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,28,8250,अयुक्तमेतदारब्धं भवद्भिः कर्म गर्हितम् । यद्गर्भान्भृगुपत्नीनां निहन्युः क्षत्रियर्षभाः ॥ 29॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,29,8251,अत्युग्रपुण्यपापानामिहैव फलमाप्नुयात् । तस्माज्जुगुप्सितं कर्म त्यक्तव्यं भूतिमिच्छता ॥ 30॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,30,8252,तानाहुर्हैहयाः क्रुद्धा मुनीनथ दयापरान् । भवन्तः साधवः सर्वे नार्थज्ञाः पापकर्मणाम् ॥ 31॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,31,8253,एभिर्हृतं धनं सर्वं पूर्वजानां महात्मनाम् । वञ्चयित्वा छलाभिज्ञैर्मार्गे पाटच्चरैरिव ॥ 32॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,32,8254,एते प्रतारका दम्भास्तादृशा बकवृत्तयः । उत्पन्ने च महाकार्ये प्रार्थिता विनयेन ते ॥ 33॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,33,8255,न ददुः प्रार्थितं विप्राः पादवृद्ध्यापि याचिताः । नास्तीतिवादिनः स्तब्धाः दुःखितान्वीक्ष्य याज्यकान् ॥ 34॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,34,8256,धनं प्राप्तं कार्तवीर्याद्रक्षितं केन हेतुना । न कृताः क्रतवः किं तैर्दानं चार्थिषु भूरिशः ॥ 35॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,35,8257,न सञ्चितव्यं विप्रैस्तु धनं चापि कदाचन । यष्टव्यं विधिवद्देयं भोक्तव्यं च यथासुखम् ॥ 36॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,36,8258,द्रव्ये चौरभयं प्रोक्तं तथा राजभयं द्विजाः । वह्नेर्भयं महाघोरं तथा धूर्तभयं महत् ॥ 37॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,37,8259,येन केनाप्युपायेन धनं त्यजति रक्षकम् । अथवासौ मृतो याति द्रव्यं त्यक्त्वा ह्यसद्गतिम् ॥ 38॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,38,8260,पादवृद्ध्या तथास्माभिः प्रार्थितं विनयान्वितैः । तथापि लोभसन्दिग्धैर्न दत्तं नः पुरोहितैः ॥ 39॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,39,8261,दानं भोगस्तथा नाशो धनस्य गतिरीदृशी । दानभोगौ कृतीनां च नाशः पापात्मनां किल ॥ 40॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,40,8262,न दाता न च यो भोक्ता कृपणो गुप्तितत्परः । राज्ञासौ सर्वथा दण्ड्यो वञ्चको दुःखभाङ्नरः ॥ 41॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,41,8263,तस्माद्वयं गुरूनेतान्वञ्चकान्ब्राह्मणाधमान् । हन्तुं समुद्यताः सर्वे न क्रोधव्यं महात्मभिः ॥ 42॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,42,8264,व्यास उवाच । इत्युक्त्वा हेतुमद्वाक्यं तानाश्वास्य मुनीनथ । विचेरुश्च विचिन्वाना भृगुदाराननेकशः ॥ 43॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,43,8265,भयार्ता भृगुपत्न्यस्तु हिमवन्तं धराधरम् । प्रपेदिरे रुदन्त्यश्च वेपमानाः कृशा भृशम् ॥ 44॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,44,8266,एवं ते हैहयैर्विप्राः पीडिता धनकामुकैः । निहताश्च यथाकामं संरब्धैः पापकर्मभिः ॥ 45॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,45,8267,लोभ एव मनुष्याणां देहसंस्थो महारिपुः । सर्वदुःखाकरः प्रोक्तो दुःखदः प्राणनाशकः ॥ 46॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,46,8268,सर्वपापस्य मूलं हि सर्वदा तृष्णयान्वितः । विरोधकृत्त्रिवर्णानां सर्वार्तेः कारणं तथा ॥ 47॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,47,8269,लोभात्त्यजन्ति धर्मं वै कुलधर्मं तथैव हि । मातरं भ्रातरं हन्ति पितरं बान्धवं तथा ॥ 48॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,48,8270,गुरुं मित्रं तथा भार्यां पुत्रं च भगिनीं तथा । लोभाविष्टो न किं कुर्यादकृत्यं पापमोहितः ॥ 49॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,49,8271,क्रोधात्कामादहङ्काराल्लोभ एव महारिपुः । प्राणांस्त्यजति लोभेन किं पुनः स्यादनावृतम् ॥ 50॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,50,8272,पूर्वजास्ते महाराज धर्मज्ञाः सत्पथे स्थिताः । पाण्डवाः कौरवाश्चैव लोभेन निधनं गताः ॥ 51॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,51,8273,यत्र भीष्मश्च द्रोणश्च कृपः कर्णश्च बाह्लिकः । भीमसेनो धर्भपुत्रस्तथैवार्जुनकेशवौ ॥ 52॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,52,8274,तथापि युद्धमत्युग्रं कृतं तैश्च परस्परम् । कुटुम्बकदनं भूरि कृतं लोभातुरैरिह ॥ 53॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,53,8275,हतो द्रोणो हतो भीष्मस्तथैव पाण्डवात्मजाः । भ्रातरः पितरः पुत्राः सर्वे वै निहता रणे ॥ 54॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,54,8276,तस्माल्लोभाभिभूतस्तु किं न कुर्यान्नरः किल । हैहयैर्निहताः सर्वे भृगवः पापबुद्धिभिः ॥ 55॥ 6,६.१६,षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।,55,8277,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनं नाम षोडशोऽध्यायः ॥ ६.१६॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,0,8278,जनमेजय उवाच । कथं ताश्च स्त्रियः सर्वा भृगूणां दुःखसागरात् । मुक्ता वंशः पुनस्तेषां ब्राह्मणानां स्थिरोऽभवत् ॥ 1॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,1,8279,हैहयैः किं कृतं कार्यं हत्वा तान्ब्राह्मणानपि । क्षत्रियैर्लोभसंयुक्तैः पापाचारैर्वदस्व तत् ॥ 2॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,2,8280,न तृप्तिरस्ति मे ब्रह्मन् पिबतस्ते कथामृतम् । पावनं सुखदं नॄणां परलोके फलप्रदम् ॥ 3॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,3,8281,व्यास उवाच । श‍ृणु राजन्प्रवक्ष्यामि कथां पापप्रणाशिनीम् । यथा स्त्रियस्तु ता मुक्ता दुःखात्तस्माद्दुरत्ययात् ॥ 4॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,4,8282,भृगुपत्न्यो यदा राजन् हिमवन्तं गिरिं गताः । भयत्रस्ता विभग्नाशा हैहयैः पीडिता भृशम् ॥ 5॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,5,8283,गौरीं तत्र तु संस्थाप्य मृण्मयीं सरितस्तटे । उपोषणपराश्चकुर्निश्चयं मरणं प्रति ॥ 6॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,6,8284,स्वप्ने गत्वा तदा देवी प्राह ताः प्रमदोत्तमाः । युष्मासु मध्ये कस्याश्चिद्भविता चोरुजः पुमान् ॥ 7॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,7,8285,मदंशशक्तिसम्भिन्नः स वः कार्यं विधास्यति । इत्यादिश्य पराम्बा सा पश्चादन्तर्हिताभवत् ॥ 8॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,8,8286,जागृतास्तु ततः सर्वा मुदमापुर्वराङ्गनाः । काचित्तासां भयोद्विग्ना कामिनी चतुरा भृशम् ॥ 9॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,9,8287,दधार चोरुणैकेन गर्भं सा कुलवृद्धये । पलायनपरा दृष्टा क्षत्रियैर्ब्राह्मणी यदा ॥ 10॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,10,8288,विह्वला तेजसा युक्ता तदा ते दुद्रुवुर्भृशम् । गृह्यतां वध्यतां नारी सगर्भा याति सत्वरा ॥ 11॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,11,8289,इति ब्रुवन्तः सम्प्राप्ताः कामिनीं खड्गपाणयः । सा भयार्ता तु तान्दृष्ट्वा रुरोद समुपागतान् ॥ 12॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,12,8290,गर्भस्य रक्षणार्थं सा चुक्रोशातिभयातुरा । रुदतीं मातरं श्रुत्वा दीनां प्राणविवर्जिताम् ॥ 13॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,13,8291,निराधारां क्रन्दमानां क्षत्रियैर्भृशतापिताम् । गृहीतामिव सिंहेन सगर्भां हरिणीं यथा ॥ 14॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,14,8292,साश्रुनेत्रां वेपमानां सङ्क्रुध्य बालकस्तदा । भित्त्वोरुं निर्जगामाशु गर्भः सूर्य इवापरः ॥ 15॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,15,8293,मुष्णन्दृष्टीः क्षत्रियाणां तेजसा बालकः शुभः । दर्शनाद्बालकस्याशु सर्वे जाता विलोचनाः ॥ 16॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,16,8294,बभ्रमुर्गिरिदुर्गेषु जन्मान्धा इव क्षत्रियाः । चिन्तितं मनसा सर्वैः किमेतदिति साम्प्रतम् ॥ 17॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,17,8295,सर्वे चक्षुर्विहीना यज्जाता स्म बालदर्शनात् । ब्राह्मण्यास्तु प्रभावोऽयं सतीव्रतबलं महत् ॥ 18॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,18,8296,क्षणाद्वामोघसङ्कल्पाः किं करिष्यन्तिदुःखिताः । इति सञ्चिन्त्य मनसा नेत्रहीना निराश्रयाः ॥ 19॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,19,8297,ब्राह्मणीं शरणं जग्मुर्हैहया गतचेतसः । प्रणेमुस्तां भयत्रस्तां कृताञ्जलिपुटाश्च ते ॥ 20॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,20,8298,ऊचुश्चैनां भयोद्विग्नां दृष्ट्यर्थं क्षत्रियर्षभाः । प्रसीद सुभगे मातः सेवकास्ते वयं किल ॥ 21॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,21,8299,कृतापराधा रम्भोरु क्षत्रियाः पापबुद्धयः । दर्शनात्तव तन्वङ्गि जाताः सर्वे विलोचनाः ॥ 22॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,22,8300,मुखं ते नैव पश्यामो जन्मान्धा इव भामिनि । अद्भुतं ते तपो वीर्यं किं कुर्मः पापकारिणः ॥ 23॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,23,8301,शरणं ते प्रपन्नाः स्मो देहि चक्षूंषि मानदे । अन्धत्वं मरणादुग्रं कृपां कर्तुं त्वमर्हसि ॥ 24॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,24,8302,पुनर्दृष्टिप्रदानेन सेवकान्क्षत्रियान्कुरु । उपरम्य च गच्छेम सहिताः पापकर्मणः ॥ 25॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,25,8303,अतः परं न कर्तव्यमीदृशं कर्म कर्हिचित् । भार्गवाणां तु सर्वेषां सेवकाः स्मो वयं किल ॥ 26॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,26,8304,अज्ञानाद्यत्कृतं पापं क्षन्तव्यं तत्त्वयाधुना । वैरं नातः परं क्वापि भृगुभिः क्षत्रियैः सह ॥ 27॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,27,8305,कर्तव्यं शपथैः सम्यग्वर्तितव्यं तु हैहयैः । सपुत्रा भव सुश्रोणि प्रणताः स्मो वयं च ते ॥ 28॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,28,8306,प्रसादं कुरु कल्याणि न द्विष्यामः कदाचन । व्यास उवाच । इति तेषां वचः श्रुत्वा ब्राह्मणी विस्मयान्विता ॥ 29॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,29,8307,तानाह प्रणतान्दुःस्थानाश्वास्य गतलोचनान् । गृहीता न मया दृष्टिर्युष्माकं क्षत्रियाः किल ॥ 30॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,30,8308,नाहं रुषान्विता सत्यं कारणं श‍ृणुताद्य यत् । अयं च भार्गवो नूनमूरुजः कुपितोऽद्य वः ॥ 31॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,31,8309,चक्षूंषि तेन युष्माकं स्तम्भितानि रुषावता । स्वबन्धून्निहतांज्ञात्वा गर्भस्थानपि क्षत्रियैः ॥ 32॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,32,8310,अनागसो धर्मपरांस्तापसान्धनकाम्यया । गर्भानपि यदा यूयं भृगूनघ्नंस्तु पुत्रकाः ॥ 33॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,33,8311,तदायमूरुणा गर्भो मया वर्षशतं धृतः । षडङ्गश्चाखिलो वेदो गृहीतोऽनेन चाञ्जसा ॥ 34॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,34,8312,गर्भस्थेनापि बालेन भृगुवंशविवृद्धये । सोऽपि पितृवधान्नूनं क्रोथेद्धो हन्तुमिच्छति ॥ 35॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,35,8313,भगवत्याः प्रसादेन जातोऽयं मम बालकः । तेजसा यस्य दिव्येन चक्षूंषि मुषितानि वः ॥ 36॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,36,8314,तस्मादौर्वं सुतं मेऽद्य याचध्वं विनयान्विताः । प्रणिपातेन तुष्टोऽसौ दृष्टिं वः प्रतिमोक्ष्यति ॥ 37॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,37,8315,व्यास उवाच । तच्छ्रुत्वा वचनं तस्या हैहयास्तुष्टुवुश्च तम् । प्रणेमुर्विनयोपेता ऊरुजं मुनिसत्तमम् ॥ 38॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,38,8316,स सन्तुष्टो बभूवाथ तानुवाच विचक्षुषः । गच्छध्वं स्वगृहान्भूपा ममाख्यानकृतं वचः ॥ 39॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,39,8317,अवश्यम्भाविभावास्ते भवन्ति देवनिर्मिताः । नात्र शोकस्तु कर्तव्यः पुरुषेण विजानता ॥ 40॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,40,8318,पूर्ववदृषयः सर्वे प्राप्नुवन्तु यथासुखम् । व्रजन्तु विगतक्रोधा भवनानि यथासुखम् ॥ 41॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,41,8319,इति तेन समादिष्टा हैहयाः प्राप्तलोचनाः । और्वमामन्त्र्य जग्मुस्ते सदनानि यथारुचि ॥ 42॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,42,8320,ब्राह्मणी तं सुतं दिव्यं गृहीत्वा स्वाश्रमं गता । पालयामास भूपाल तेजस्विनमतन्द्रिता ॥ 43॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,43,8321,एवं ते कथितं राजन् भृगूणां तु विनाशनम् । लोभाविष्टैः क्षत्रियैश्च यत्कृतं पातकं किल ॥ 44॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,44,8322,जनमेजय उवाच । श्रुतं मया महत्कर्म क्षत्रियाणाञ्च दारुणम् । कारणं लोभ एवात्र दुःखदश्चोभयोस्तु सः ॥ 45॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,45,8323,किञ्चित्प्रष्टुमिहेच्छामि संशयं वासवीसुत । हैहयास्ते कथं नाम्ना ख्याता भुवि नृपात्मजाः ॥ 46॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,46,8324,यदोस्तु यादवाः कामं भरताद्भारतास्तथा । हैहयः कोऽपि राजाभूत्तेषां वंशे प्रतिष्ठितः ॥ 47॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,47,8325,तदहं श्रोतुमिच्छामि कारणं करुणानिधे । हैहयास्ते कथं जाताः क्षत्रियाः केन कर्मणा ॥ 48॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,48,8326,व्यास उवाच । हैहयानां समुत्पत्तिं श‍ृणु भूप सविस्तराम् । पुरातनीं सुपुण्यां च कथां पापप्रणाशिनीम् ॥ 49॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,49,8327,कस्मिंश्चित्समये भूप सूर्यपुत्रः सुशोभनः । रेवन्तेति च विख्यातो रूपवानमितप्रभः ॥ 50॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,50,8328,उच्चैःश्रवसमारुह्य हयरत्नं मनोहरम् । जगाम विष्णुसदनं वैकुण्ठं भास्करात्मजः ॥ 51॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,51,8329,भगवद्दर्शनाकाङ्क्षी हयारूढो यदागतः । हयस्थस्तु तदा दृष्टो लक्ष्म्यासौ रविनन्दनः ॥ 52॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,52,8330,रमा वीक्ष्य हयं दिव्यं भ्रातरं सागरोद्भवम् । रूपेण विस्मिता तस्य तस्थौ स्तम्भितलोचना ॥ 53॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,53,8331,भगवानपि तं दृष्ट्वा हयारूढं मनोहरम् । आगच्छन्तं रमां विष्णुः पप्रच्छ प्रणयात्प्रभुः ॥ 54॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,54,8332,कोऽयमायाति चार्वङ्गि हयारूढ इवापरः । स्मरतेजस्तनुः कान्ते मोहयन्भुवनत्रयम् ॥ 55॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,55,8333,प्रेक्षमाणा तदा लक्ष्मीस्तच्चित्ता दैवयोगतः । नोवाच वचनं किञ्चित्पृष्टापि च पुनः पुनः ॥ 56॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,56,8334,व्यास उवाच । अश्वासक्तमतिं वीक्ष्य कामिनीमतिमोहिताम् । पश्यन्तीं परमप्रेम्णा चञ्चलाक्षीं च चञ्चलाम् ॥ 57॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,57,8335,तामाह भगवान्कुद्धः किं पश्यसि सुलोचने । मोहिता च हरिं दृष्ट्वा पृष्टा नैवाभिभाषसे ॥ 58॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,58,8336,सर्वत्र रमसे यस्माद्रमा तस्माद्भविष्यसि । चञ्चलत्वाच्चलेत्येवं सर्वथैव न संशयः ॥ 59॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,59,8337,प्राकृता च यथा नारी नूनं भवति चञ्चला । तथा त्वमपि कल्याणि स्थिरा नैव कदाचन ॥ 60॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,60,8338,त्वं हयं मत्समीपस्था समीक्ष्य यदि मोहिता । वडवा भव वामोरु मर्त्यलोकेऽतिदारुणे ॥ 61॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,61,8339,इति शप्ता रमा देवी हरिणा दैवयोगतः । रुरोद वेपमाना सा भयभीतातिदुःखिता ॥ 62॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,62,8340,तमुवाच रमानाथ शङ्किता चारुहासिनी । प्रणम्य शिरसा देवं स्वपतिं विनयान्विता ॥ 63॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,63,8341,देवदेव जगन्नाथ करुणाकर केशव । स्वल्पेऽपराधे गोविन्द कस्माच्छापं ददासि मे ॥ 64॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,64,8342,न कदाचिन्मया दृष्टः क्रोधस्ते हीदृशः प्रभो । क्व गतस्ते मयि स्नेहः सहजो न तु नश्वरः ॥ 65॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,65,8343,वज्रपातस्तु शत्रौ वै कर्तव्यो न सुहृज्जने । सदाहं वरयोग्या ते शापयोग्या कथं कृता ॥ 66॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,66,8344,प्राणांस्त्यक्ष्यामि गोविन्द पश्यतोऽद्य तवाग्रतः । कथं जीवे त्वया हीना विरहानलतापिता ॥ 67॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,67,8345,प्रसादं कुरु देवेश शापादस्मात्सुदारुणात् । कदा मुक्ता समीपं ते प्राप्नोमि सुखदं विभौ ॥ 68॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,68,8346,हरिरुवाच । यदा ते भविता पुत्रः पृथिव्यां मत्समः प्रिये । तदा मां प्राप्य तन्वङ्गि सुखिता त्वं भविष्यसि ॥ 69॥ 6,६.१७,सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।,69,8347,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनं नाम सप्तदशोऽध्यायः ॥ ६.१७॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,0,8348,जनमेजय उवाच । इति शप्ता भगवता सिन्धुजा कोपयोगतः । कथं सा वडवा जाता रेवन्तेन च किं कृतम् ॥ 1॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,1,8349,कस्मिन्देशेऽब्धिजा देवी वडवारूपधारिणी । संस्थितैकाकिनी बाला परोषित्पतिका यथा ॥ 2॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,2,8350,कालं कियन्तमायुष्मन् वियुक्ता पतिना रमा । संस्थिता विजनेऽरण्ये किं कृतं च तया पुनः ॥ 3॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,3,8351,समागमं कदा प्राप्ता वासुदेवस्य सिन्धुजा । पुत्रः कथं तया प्राप्तो नारायणवियुक्तया ॥ 4॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,4,8352,एतद्वृत्तान्तमार्येश कथयस्व सविस्तरम् । श्रोतुकामोऽस्मि विप्रेन्द्र कथाख्यानमनुत्तमम् ॥ 5॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,5,8353,सूत उवाच । इति पृष्टस्तदा व्यासः परीक्षित्तनयेन वै । कथयामास भो विप्राः कथामेतां सुविस्तराम् ॥ 6॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,6,8354,व्यास उवाच । श‍ृणु राजन् प्रवक्ष्यामि कथां पौराणिकीं शुभाम् । पावनीं सुखदां कर्णे विशदाक्षरसंयुताम् ॥ 7॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,7,8355,रेवन्तस्तु रमां दृष्ट्वा शप्ता देवेन कामिनीम् । भयार्तः प्रययौ दूरात्प्रणम्य जगतां पतिम् ॥ 8॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,8,8356,पितुः सकाशं त्वरितो वीक्ष्य कोपं जगत्पतेः । निवेदयामास कथां भास्कराय स शापजाम् ॥ 9॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,9,8357,दुःखिता सा रमा देवी प्रणम्य जगदीश्वरम् । आज्ञप्ता मानुषं लोकं प्राप्ता कमललोचना ॥ 10॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,10,8358,सूर्यपत्न्या तपस्तप्तं यत्र पूर्वं सुदारुणम् । तत्रैव सा ययावाशु वडवारूपधारिणी ॥ 11॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,11,8359,कालिन्दीतमसासङ्गे सुपर्णाक्षस्य चोत्तरे । सर्वकामप्रदे स्थाने सुरम्यवनमण्डिते ॥ 12॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,12,8360,तत्र स्थिता महादेवं शङ्करं वाञ्छितप्रदम् । दध्यौ चैकेन मनसा शूलिनं चन्द्रशेखरम् ॥ 13॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,13,8361,पञ्चाननं दशभुजं गौरीदेहार्धधारिणम् । कर्पूरगौरदेहाभं नीलकण्ठं त्रिलोचनम् ॥ 14॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,14,8362,व्याघ्राजिनधरं देवं गजचर्मोत्तरीयकम् । कपालमालाकलितं नागयज्ञोपवीतिनम् ॥ 15॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,15,8363,सागरस्य सुता कृत्वा हयीरूपं मनोहरम् । तस्मिंस्तीर्थे रमादेवी चकार दुश्चरं तपः ॥ 16॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,16,8364,ध्यायमाना परं देवं वैराग्यं समुपाश्रिता । दिव्यं वर्षसहस्रं तु गतं तत्र महीपते ॥ 17॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,17,8365,ततस्तुष्टो महादेवो वृषारूढस्त्रिलोचनः । प्रत्यक्षोऽभून्महेशानः पार्वतीसहितः प्रभुः ॥ 18॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,18,8366,तत्रैत्य सगणः शम्भुस्तामाह हरिवल्लभाम् । तपस्यन्तीं महाभागामश्विनीरूपधारिणीम् ॥ 19॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,19,8367,किं तपस्यसि कल्याणि जगन्मातर्वदस्व मे । सर्वार्थदः पतिस्तेऽस्ति सर्वलोकविधायकः ॥ 20॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,20,8368,हरिं त्यक्त्वाद्य मां कस्मात्स्तौषि देवि जगत्पतिम् । वासुदेवं जगन्नाथं भुक्तिमुक्तिप्रदायकम् ॥ 21॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,21,8369,वेदोक्तं वचनं कार्यं नारीणां देवता पतिः । नान्यस्मिन्सर्वथा भावः कर्तव्यः कर्हिचित्क्वचित् ॥ 22॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,22,8370,पतिशुश्रूषणं स्त्रीणां धर्म एव सनातनः । यादृशस्तादृशः सेव्यः सर्वथा शुभकाम्यया ॥ 23॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,23,8371,नारायणस्तु सर्वेषां सेव्यो योग्यः सदैव हि । तं त्यक्त्वा देवदेवेशं किं मां ध्यायसि सिन्धुजे ॥ 24॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,24,8372,लक्ष्मीरुवाच । आशुतोष महेशान शप्ताहं पतिना शिव । मां समुद्धर देवेश शापादस्माद्दयानिधे ॥ 25॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,25,8373,तदोक्तं हरिणा शम्भो शापानुग्रहकारणम् । विज्ञप्तेन मया कामं दयायुक्तेन विष्णुना ॥ 26॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,26,8374,यदा ते भविता पुत्रस्तदा शापस्य मोक्षणम् । भविष्यति च वैकुण्ठवासस्ते कमलालये ॥ 27॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,27,8375,इत्युक्ताहं तपस्तप्तुमागतास्मि तपोवने । आराधितो मया देव त्वं सर्वार्थप्रदायकः ॥ 28॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,28,8376,पतिसङ्गं विना पुत्रं देवदेव लभे कथम् । स तु तिष्ठति वैकुण्ठे त्यक्त्वा वामामनागसम् ॥ 29॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,29,8377,वरं मे देहि देवेश यदि तुष्टोऽसि शङ्कर । तव तस्य द्विधा भावो नास्ति नूनं कदाचन ॥ 30॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,30,8378,मयैतद्गिरिजाकान्त ज्ञातं पत्युः पुरो हर । यस्त्वं योऽसौ पुनर्योऽसौ स त्वं नास्त्यत्र संशयः ॥ 31॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,31,8379,एकत्वं च मया ज्ञात्वा मया ते स्मरणं कृतम् । अन्यथा मम दोषस्त्वामाश्रयन्त्या भवेच्छिव ॥ 32॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,32,8380,शिव उवाच । कथं ज्ञातस्त्वया देवि मम तस्य च सुन्दरि । ऐक्यभावो हरेर्नूनं सत्यं मे वद सिन्धुजे ॥ 33॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,33,8381,एकत्वं च न जानन्ति देवाश्च मुनयस्तथा । ज्ञानिनो वेदतत्त्वज्ञाः कुतर्कोपहताः किल ॥ 34॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,34,8382,मद्भक्ता वासुदेवस्य निन्दका बहवस्तथा । विष्णभक्तास्तु बहवो मम निन्दापरायणाः ॥ 35॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,35,8383,भवन्ति कालभेदेन कलौ देवि विशेषतः । कथं ज्ञातस्त्वया भद्रे दुर्ज्ञेयो ह्यकृतात्मभिः ॥ 36॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,36,8384,सर्वथा त्वैक्यभावस्तु हरेर्मम च दुर्लभः । व्यास उवाच । इति सा शम्भुना पुष्टा तुष्टेन हरिवल्लभा ॥ 37॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,37,8385,वृत्तान्तं तस्य विज्ञातं प्रवक्तुमुपचक्रमे । शिवं प्रति रमा तत्र प्रसन्नवदना भृशम् ॥ 38॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,38,8386,लक्ष्मीरुवाच । एकदा देवदेवेश विष्णुर्ध्यानपरो रहः । दृष्टो मया तपः कुर्वन्पद्मासनगतो यदा ॥ 39॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,39,8387,तदाहं विस्मिता देवं तमपृच्छं पतिं किल । प्रबुद्धं सुप्रसन्नं च ज्ञात्वा विनयपूर्वकम् ॥ 40॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,40,8388,देवदेव जगन्नाथ यदाहं निर्गतार्णवात् । मथ्यमानात्सुरैर्दैत्यैः सर्वैर्ब्रह्मादिभिः प्रभो ॥ 41॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,41,8389,वीक्षिताश्च मया सर्वे पतिकामनया तदा । वृतस्त्वं सर्वदेवेभ्यः श्रेष्ठोऽसीति विनिश्चयात् ॥ 42॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,42,8390,त्वं कं ध्यायसि सर्वेश संशयोऽयं महान्मम । प्रियोऽसि कैटभारे मे कथयस्व मनोगतम् ॥ 43॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,43,8391,विष्णुरुवाच । श‍ृणु कान्ते प्रवक्ष्यामि यं ध्यायामि सुरोत्तमम् । आशुतोषं महेशानं गिरिजावल्लभं हृदि ॥ 44॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,44,8392,कदाचिद्देवदेवो मां ध्यायत्यमितविक्रमः । ध्यायाम्यहं च देवेशं शङ्करं त्रिपुरान्तकम् ॥ 45॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,45,8393,शिवस्याहं प्रियः प्राणः शङ्करस्तु तथा मम । उभयोरन्तरं नास्ति मिथः संसक्तचेतसोः ॥ 46॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,46,8394,नरकं यान्ति ते नूनं ये द्विषन्ति महेश्वरम् । भक्ता मम विशालाक्षि सत्यमेतद्ब्रवीम्यहम् ॥ 47॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,47,8395,इत्युक्तं देवदेवेन विष्णुना प्रभविष्णुना । एकान्ते किल पृष्टेन मया शैलसुताप्रिय ॥ 48॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,48,8396,तस्मात्त्वां वल्लभं विष्णोर्ज्ञात्वा ध्यातवती ह्यहम् । तथा कुरु महेशान यथा मे प्रियसङ्गमः ॥ 49॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,49,8397,व्यास उवाच । इति श्रियो वचः श्रुत्वा प्रत्युवाच महेश्वरः । तामाश्वास्य प्रियैर्वाक्यैर्यथार्थं वाक्यकोविदः ॥ 50॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,50,8398,स्वस्था भव पृथुश्रोणि तुष्टोऽहं तपसा तव । समागमस्ते पतिना भविष्यति न संशयः ॥ 51॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,51,8399,अत्रैव हयरूपेण भगवाञ्जगदीश्वरः । आगमिष्यति ते कामं पूर्णं कर्तुं मयेरितः ॥ 52॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,52,8400,तथाहं प्रेरयिष्यामि तं देवं मधुसूदनम् । यथासौ हयरूपेण त्वामेष्यति मदातुरः ॥ 53॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,53,8401,पुत्रस्ते भविता सुभ्रु नारायणसमः क्षितौ । भविष्यति स भूपालः सर्वलोकनमस्कृतः ॥ 54॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,54,8402,सुतं प्राप्य महाभागे त्वं तेन पतिना सह । गन्तासि देवि वैकुण्ठं प्रिया तस्य भविष्यसि ॥ 55॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,55,8403,एकवीरेति नाम्नासौ ख्यातिं यास्यति ते सुतः । तस्मात्तु हैहयो वंशो भुवि विस्तारमेष्यति ॥ 56॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,56,8404,परं तु विस्मृतासि त्वं हृदिस्थां परमेश्वरीम् । मदान्धा मत्तचित्ता च तेन ते फलमीदृशम् ॥ 57॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,57,8405,अतस्तद्दोषशान्त्यर्थं हृदिस्थां परदेवताम् । शरणं याहि सर्वात्मभावेन जलधेः सुते ॥ 58॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,58,8406,अन्यथा तव चित्तं तु कथं गच्छेद्धयोत्तमे । व्यास उवाच । इति दत्त्वा वरं देव्यै भगवाञ्छैलजापतिः ॥ 59॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,59,8407,अन्तर्धानं गतः साक्षादुमया सहितः शिवः । सापि तत्रैव चार्वङ्गी संस्थिता कमलासना ॥ 60॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,60,8408,ध्यायन्ती चरणाम्भोजं देव्याः परमशोभनम् । देवासुरशिरोरत्ननिघृष्टनखमण्डलम् ॥ 61॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,61,8409,प्रेमगद्गदया वाचा तुष्टाव च मुहुर्मुहुः । प्रतीक्षमाणा भर्तारं हयरूपधरं हरिम् ॥ 62॥ 6,६.१८,अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।,62,8410,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनं नामाष्टादशोऽध्यायः ॥ ६.१८॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,0,8411,व्यास उवाच । तस्यै दत्त्वा वरं शम्भुः कैलासं त्वरितो ययौ । रम्यं देवगणैर्जुष्टमप्सरोभिश्च मण्डितम् ॥ 1॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,1,8412,तत्र गत्वा चित्ररूपं गणं कार्यविशारदम् । प्रेषयामास वैकुण्ठे लक्ष्मीकार्यार्थसिद्धये ॥ 2॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,2,8413,शिव उवाच । चित्ररूप हरिं गत्वा ब्रूहि त्वं वचनान्मम । यथासौ दुःखितां पत्नीं विशोकां च करिष्यति ॥ 3॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,3,8414,इत्युक्तश्चित्ररूपोऽथ निर्जगाम त्वरान्वितः । वैकुण्ठं परमं स्थानं वैष्णवैश्च गणैर्वृतम् ॥ 4॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,4,8415,नानाद्रुमगणाकीर्णं वापीशतविराजितम् । सञ्जुष्टं हंसकारण्डमयूरशुककोकिलैः ॥ 5॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,5,8416,उच्चप्रासादसंयुक्तं पताकाभिरलङ्कृतम् । नृत्यगीतकलापूर्णं मन्दारद्रुमसंयुतम् ॥ 6॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,6,8417,बकुलाशोकतिलकचम्पकालिविमण्डितम् । कूजितैर्विहगानां तु कर्णाह्लादकरैर्युतम् ॥ 7॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,7,8418,संवीक्ष्य भवनं विष्णोर्द्वास्थौ प्राह प्रणम्य च । जयविजयनामानौ वेत्रपाणी स्थितावुभौ ॥ 8॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,8,8419,चित्ररूप उवाच । भो निवेदयत शीघ्रं हरये परमात्मने । दूतं प्राप्यं हरस्यात्र प्रेरितं शूलपाणिना ॥ 9॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,9,8420,तच्छ्रुत्वा वचनं तस्य जयः परमबुद्धिमान् । गत्वा हरिं प्रणम्याह कृताञ्जलिपुटः पुरः ॥ 10॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,10,8421,देवदेव रमाकान्त करुणाकर केशव । द्वारि तिष्ठति दूतोऽत्र शङ्करस्य समागतः ॥ 11॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,11,8422,आज्ञापय प्रवेष्टव्यो न वेति गरुडध्वज । चित्ररूपधरोऽप्यस्ति न जाने कार्यगौरवम् ॥ 12॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,12,8423,इत्याकर्ण्य हरिः प्राह जयं प्रज्ञातकारणः । प्रवेशयात्र रुद्रस्य भृत्यं समयसंस्थितम् ॥ 13॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,13,8424,इत्याकर्ण्य जयस्तूर्णं गत्वा तं परमाद्भुतम् । एहीत्याकारयामास जयः शङ्करसेवकम् ॥ 14॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,14,8425,प्रवेशितो जयेनाथ चित्ररूपस्तथाकृतिः । प्रणम्य दण्डवद्विष्णुं कृताञ्जलिपुटः स्थितः ॥ 15॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,15,8426,दृष्ट्वा तं विस्मयं प्राप भगवान् गरुडध्वजः । चित्ररूपधरं शम्भोः सेवकं विनयान्वितम् ॥ 16॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,16,8427,पप्रच्छ तं स्मितं कृत्वा चित्ररूपं रमापतिः । कुशलं देवदेवस्य सकुटुम्बस्य चानघ ॥ 17॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,17,8428,कस्मात्त्वं प्रेषितोऽस्यत्र ब्रूहिकार्यं हरस्य किम् । अथवा देवतानां च किञ्चित्कार्यं समुत्थितम् ॥ 18॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,18,8429,दूत उवाच । किमज्ञातं तवास्तीह संसारे गरुडध्वज । वर्तमानं त्रिकालज्ञ यदहं प्रब्रवीमि वै ॥ 19॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,19,8430,प्रेषितोऽस्मि भवेनात्र विज्ञस्तु त्वां जनार्दन । हरस्य वचनाद्वाक्यं प्रब्रवीमि त्वयि प्रभो ॥ 20॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,20,8431,तेनोक्तमेतद्देवेश भार्या ते कमलालया । तपस्तपति कालिन्दीतमसासङ्गमे विभो ॥ 21॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,21,8432,हयीरूपधरा देवी सर्वार्थसिद्धिदायिनी । ध्यातुं योग्यामरगणैर्मानवैर्यक्षकिन्नरैः ॥ 22॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,22,8433,विना तया नरः कोऽपिसुखभागी भवेन्न हि । तां त्यक्त्वा पुण्डरीकाक्ष प्राप्नोषि किं सुखं हरे ॥ 23॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,23,8434,दुर्बलोऽपि स्त्रियं पाति निर्धनोऽपि जगत्पते । विनापराधं च विभो किं त्यक्ता जगदीश्वरी ॥ 24॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,24,8435,दुःखं प्राप्नोति संसारे यस्य भार्या जगद्गुरो । धिक्तस्य जीवितं लोके निन्दितं त्वरिमण्डले ॥ 25॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,25,8436,सकामा रिपवस्तेऽद्य दृष्ट्वा तां दुःखिता भृशम् । त्वां वियुक्तं च रमया हसिष्यन्ति दिवानिशम् ॥ 26॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,26,8437,रमां रमय देवेश त्वदुत्सङ्गगतां कुरु । सर्वलक्षणसम्पन्नां सुशीलां च सुरूपिणीम् ॥ 27॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,27,8438,सुखितो भव तां प्राप्य वल्लभां चारुहासिनीम् । कान्ताविरहजं दुःखं स्मराम्यहमनातुरः ॥ 28॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,28,8439,मम भार्या मृता विष्णो दक्षयज्ञे सती यदा । तदाहं दुःसहं दुःखं भुक्तवानम्बुजेक्षण ॥ 29॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,29,8440,संसारेऽस्मिन्नरः कोऽपि माभून्मत्सदृशोऽपरः । मनसाकरवं शोकं तस्या विरहपीडितः ॥ 30॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,30,8441,कालेन महता प्राप्ता मया गिरिसुता पुनः । तपस्तप्त्वातिदुःसाध्यं या दग्धा तु रुषाध्वरे ॥ 31॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,31,8442,हरे किं सुखमापन्नं त्वया सन्त्यज्य कामिनीम् । एकाकी तिष्ठता कालं सहस्रवत्सरात्मकम् ॥ 32॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,32,8443,गत्वाश्वास्य महाभागां समानय निजालयम् । माभूत्कोऽपीह संसारे विमुक्तो रमया तया ॥ 33॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,33,8444,कृत्वा तुरगरूपं त्वं भज तां कमलालयाम् । उत्पाद्य पुत्रमायुष्मंस्तामानय शुचिस्मिताम् ॥ 34॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,34,8445,व्यास उवाच । हरिराकर्ण्य तद्वाक्यं चित्ररूपस्य भारत । तथेत्युक्त्वा तु तं दूतं प्रेषयामास शङ्करम् ॥ 35॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,35,8446,गते दूतेऽथ भगवान्वैकुण्ठात्कामसंयुतः । जगाम धृत्वा तत्राशु वाजिरूपं मनोहरम् ॥ 36॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,36,8447,यत्र सा वडवारूपं कृत्वा तपति सिन्धुजा । विष्णुस्तं देशमासाद्य तामपश्यद्धयीं स्थिताम् ॥ 37॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,37,8448,सापि तं वीक्ष्य गोविन्दं हयरूपधरं पतिम् । ज्ञात्वा वीक्ष्य स्थिता साध्वी विस्मिता साश्रुलोचना ॥ 38॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,38,8449,तयोस्तु सङ्गमस्तत्र प्रवृत्तो मन्मथार्तयोः । कालिन्दीतमसासङ्गे पावने लोकविश्रुते ॥ 39॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,39,8450,सगर्भा सा तदा जाता वडवा हरिवल्लभा । सुषुवे सुन्दरं बालं तत्रैव सुगुणोत्तरम् ॥ 40॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,40,8451,तामाह भगवान्वाक्यं प्रहस्य समयाश्रितम् । त्यजाद्य वाडवं देहं पूर्वदेहा भवाधुना ॥ 41॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,41,8452,गमिष्यावः स्ववैकुण्ठमावां कृत्वा निजं वपुः । तिष्ठत्वत्र कुमारोऽयं त्वया जातः सुलोचने ॥ 42॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,42,8453,लक्ष्मीरुवाच । स्वदेहसम्भवं पुत्रं कथं हित्वा व्रजाम्यहम् । स्नेहः सुदुस्त्यजः कामं स्वात्मजस्य सुरर्षभ ॥ 43॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,43,8454,का गतिः स्यादमेयात्मन् बालस्यास्य नदीतटे । अनाथस्यासमर्थस्य विजनेऽल्पतनोरिह ॥ 44॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,44,8455,अनाश्रयं सुतं त्यक्त्वा कथं गन्तुं मनो मम । समर्थं सदयं स्वामिन् भवेदम्बुजलोचन ॥ 45॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,45,8456,दिव्यदेहौ ततो जातौ लक्ष्मीनारायणावुभौ । विमानवरसंविष्टौ स्तूयमानौ सुरैर्दिवि ॥ 46॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,46,8457,गन्तुकामं पतिं प्राह कमला कमलापतिम् । गृहाणेमं सुतं नाथ नाहं शक्तास्मि हापितुम् ॥ 47॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,47,8458,प्राणप्रियोऽस्ति मे पुत्रः कान्त्या त्वत्सदृशः प्रभो । गृहीत्वैनं गमिष्यावो वैकुण्ठं मधुसूदन ॥ 48॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,48,8459,हरिरुवाच । मा विषादं प्रिये कर्तुं त्वमर्हसि वरानने । तिष्ठत्वयं सुखेनात्र रक्षा मे विहिता त्विह ॥ 49॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,49,8460,कार्यं किमपि वामोरु वर्तते महदद्भुतम् । निबोध कथयाम्यद्य सुतस्यात्र विमोचने ॥ 50॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,50,8461,तुर्वसुर्नाम विख्यातो ययातितनुजो भुवि । हरिवर्मेति पित्रास्य कृतं नाम सुविश्रुतम् ॥ 51॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,51,8462,स राजा पुत्रकामोऽद्य तपस्तपति पावने । तीर्थे वर्षशतं जातं तस्य वै कुर्वतस्तपः ॥ 52॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,52,8463,तस्यार्थे निर्मितः पुत्रो मयायं कमलालये । तत्र गत्वा नृपं सुभ्रु प्रेरयिष्यामि साम्प्रतम् ॥ 53॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,53,8464,तस्मै दास्याम्यहं पुत्रं पुत्रकामाय कामिनि । गृहीत्वा स्वगृहं राजा प्रापयिष्यति बालकम् ॥ 54॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,54,8465,व्यास उवाच । इत्याश्वास्य प्रियां पद्मां कृत्वा रक्षां च बालके । विमानवरमारुह्य प्रययौ प्रियया सह ॥ 55॥ 6,६.१९,एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।,55,8466,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनं नामैकोनविंशोऽध्यायः ॥ ६.१९॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,0,8467,जनमेजय उवाच । संशयोऽयं महानत्र जातमात्रः शिशुस्तथा । मुक्तः केन गृहीतोऽसावेकाकी विजने वने ॥ 1॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,1,8468,का गतिस्तस्य बालस्य जाता सत्यवतीसुत । व्याघ्रसिंहादिभिर्हिंस्रैर्गृहीतो नातिबालकः ॥ 2॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,2,8469,व्यास उवाच । लक्ष्मीनारायणौ तस्मात्स्थानाच्च चलितौ यदा । तदैव तत्र चम्पाख्यः प्राप्तो विद्याधरः किल ॥ 3॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,3,8470,विमानवरमारूढः कामिन्या सहितो नृप । मदनालसया कामं क्रीडमानो यदृच्छया ॥ 4॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,4,8471,विलोक्य तं शिशुं भूमावेकाकिनमनुत्तमम् । देवपुत्रप्रतीकाशं रममाणं यथासुखम् ॥ 5॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,5,8472,विमानात्तरसोत्तीर्य चम्पकस्तं शिशु जवात् । जग्राह च मुदं प्राप निधिं प्राप्य यथाधनः ॥ 6॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,6,8473,गृहीत्वा चम्पकः प्रादाद्देव्यै तं मदनोपमम् । मदनालसायै तं बालं जातमात्रं मनोहरम् ॥ 7॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,7,8474,सा गृहीत्वा शिशुं प्रेम्णा सरोमाञ्चा सविस्मया । मुखं चुचुम्ब बालस्य कृत्वा तु हृदये भृशम् ॥ 8॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,8,8475,आलिङ्गितश्चुम्बितश्च तयासौ प्रीतिपूर्वकम् । उत्सङ्गे च कृतस्तन्व्या पुत्रभावेन भारत ॥ 9॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,9,8476,कृत्वाङ्के तौ समारूढौ विमानं दम्पती मुदा । पतिं पप्रच्छ चार्वङ्गी प्रहस्य मदनालसा ॥ 10॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,10,8477,कस्यायं बालकः कान्त त्यक्तः केन च कानने । पुत्रोऽयं मम देवेन दत्तस्त्र्यम्बकपाणिना ॥ 11॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,11,8478,चम्पक उवाच । प्रिये गत्वाद्य पृच्छेयं शक्रं सर्वज्ञमाशु वै । देवो वा दानवो वापि गन्धर्वो वा शिशुः किल ॥ 12॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,12,8479,तेनाज्ञप्तः करिष्यामि पुत्रं प्राप्तं वनादमुम् । अपृष्ट्वा नैव कर्तव्यं कार्यं किञ्चिन्मया ध्रुवम् ॥ 13॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,13,8480,इत्युक्त्वा तां गृहीत्वा तं विमानेनाथ चम्पकः । ययौ शक्रपुरं तूर्णं हर्षेणोत्फुल्ललोचनः ॥ 14॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,14,8481,प्रणम्य पादयोः प्रीत्या चम्पकस्तु शचीपतिम् । निवेद्य बालकं प्राह कृताञ्जलिपुटः स्थितः ॥ 15॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,15,8482,देवदेव मया लब्धस्तीर्थे परमपावने । कालिन्दीतमसासङ्गे बालकोऽयं स्मरप्रभः ॥ 16॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,16,8483,कस्यायं बालकः कान्तः कथं त्यक्तः शचीपते । आज्ञा चेत्तव देवेश कुर्वेऽहं बालकं सुतम् ॥ 17॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,17,8484,अतीव सुन्दरो बालः प्रियाया वल्लभः सुतः । कृत्रिमस्तु सुतः प्रोक्तो धर्मशास्त्रेषु सर्वथा ॥ 18॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,18,8485,इन्द्र उवाच । पुत्रोऽयं वासुदेवस्य वाजिरूपधरस्य ह । हैहयोऽयं महाभाग लक्ष्म्यां जातः परन्तपः ॥ 19॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,19,8486,उत्पादितो भगवता कार्यार्थं किल बालकः । दातुं नृपतये नूनं ययातितनयाय च ॥ 20॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,20,8487,हरिणा प्रेरितः सोऽद्य राजा परमधार्मिकः । आगमिष्यति पुत्रार्थं तीर्थे तस्मिन्मनोरमे ॥ 21॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,21,8488,तावत्त्वं गच्छ तत्रैव गृहीत्वा बालकं शुभम् । यावन्न याति नृपतिर्ग्रहीतुं हरिणेरितः ॥ 22॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,22,8489,गत्वा तत्र विमुञ्चैनं विलम्बं मा कृथा वर । अदृष्ट्वा बालकं राजा दुःखितश्च भविष्यति ॥ 23॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,23,8490,तस्माच्चम्पक मुञ्चैनं राजा प्राप्नोतु पुत्रकम् । एकवीरेति नाम्नायं ख्यातः स्यात् पृथिवीतले ॥ 24॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,24,8491,व्यास उवाच । इति तस्य वचः श्रुत्वा चम्पकस्त्वरयान्वितः । जगाम पुत्रमादाय स्थले तस्मिन्महीपते ॥ 25॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,25,8492,मुमोच बालकं तत्र यत्र पूर्वं स्थितो ह्यभूत् । आरुह्य स्वविमानं तु ययौ स्वाश्रममण्डलम् ॥ 26॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,26,8493,तदैव कमलाकान्तो लक्ष्म्या सह जगद्गुरुः । विमानवरमारूढो जगाम नृपतिं प्रति ॥ 27॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,27,8494,दृष्टस्तदा तेन नृपेण विष्णुः समुत्तरंस्तत्र विमानमुख्यात् । जहर्ष राजा हरिदर्शनेन पपात भूमौ खलु दण्डवच्च ॥ 28॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,28,8495,उत्तिष्ठ वत्सेति हरिः पतन्त- माश्वासयद्भूमिगतं स्वभक्तम् । सोऽप्युत्सुको वासुदेवं पुरःस्थं तुष्टाव भक्त्या मुखरीकृतोऽथ ॥ 29॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,29,8496,देवाधिदेवाखिललोकनाथ कृपानिधे लोकगुरो रमेश । मन्दस्य मे ते किल दर्शनं य- त्सुदुर्लभं योगिजनैरलभ्यम् ॥ 30॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,30,8497,ये निःस्पृहास्ते विषयैरपेता- स्तेषां त्वदीयं खलु दर्शनं स्यात् । आशापरोऽहं भगवन्ननन्त योग्यो न ते दर्शने देवदेव ॥ 31॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,31,8498,इति स्तुतस्तेन नृपेण विष्णु- स्तमाह वाक्येन सुधामयेन । वृणीष्व राजन् मनसेप्सितं ते ददामि तुष्टस्तपसा तवेति ॥ 32॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,32,8499,ततो नृपस्तं प्रणिपत्य पादयोः प्रोवाच विष्णुं पुरतः स्थितं च । तपस्तु तप्तं हि मया सुतार्थे पुत्रं ददस्वात्मसमं मुरारे ॥ 33॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,33,8500,श्रुत्वा नृपप्रार्थितमादिदेव- स्तमाह राजानममोघवाक्यम् । ययातिसूनो व्रज तत्र तीर्थे कलिन्दकन्यातमसाप्रसङ्गे ॥ 34॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,34,8501,मयाद्य पुत्रस्तु यथेप्सितस्ते तत्रैव मुक्तोऽस्त्यमितप्रभावः । लक्ष्म्याः प्रसूतो मम वीर्यजश्च कृतस्तवार्थेऽथ गृहाण राजन् ॥ 35॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,35,8502,श्रुत्वा हरेर्वाक्यमतीव मृष्टं सन्तुष्टचित्तः प्रबभूव राजा । हरिस्तु दत्त्वेति वरं जगाम वैकुण्ठलोकं रमया युतश्च ॥ 36॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,36,8503,गते हरौ सोऽथ ययातिसूनु- र्ययावनुद्धातरथेन राजा । प्रेमान्वितस्तत्र सुतोऽस्ति यत्र वचो निशम्येति जनार्दनस्य ॥ 37॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,37,8504,स तत्र गत्वातिमनोहरं तं ददर्श बालं भुवि खेलमानम् । मुखे निवेश्यैककरेण कृत्वा श्लक्ष्णं पदाङ्गुष्ठमनन्यसत्त्वः ॥ 38॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,38,8505,तं वीक्ष्य पुत्रं मदनस्वरूपं नारायणांशं कमलाप्रसूतम् । हरिप्रभावं हरिवर्मनामा हर्षप्रफुल्लाननपङ्कजोऽभूत् ॥ 39॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,39,8506,गृह्णन् सुवेगात् करपङ्कजाभ्यां बभूव प्रेमार्णवमग्नदेहः । मूर्धन्युपाघ्राय मुदान्वितोऽसौ ननन्द राजा सुतमालिलिङ्ग ॥ 40॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,40,8507,मुखं समीक्ष्यातिमनोहरं त- मुवाच नेत्राम्बुनिरुद्धकण्ठः । दत्तोऽसि देवेन जनार्दनेन मात्रा हि पुत्रावमदुःखभीतेः ॥ 41॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,41,8508,तप्तं मया पुत्र तपस्तवार्थे सुदुष्करं वर्षशतं च पूर्णम् । तेनैव तुष्टेन रमाप्रियेण दत्तोऽसि संसारसुखोदयाय ॥ 42॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,42,8509,माता रमा त्वां तनुजं मदर्थे त्यक्त्वा गता सा हरिणा समेता । धन्या तु सा या प्रहसन्तमङ्के कृत्वा सुतं त्वां मुदितानना स्यात् ॥ 43॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,43,8510,त्वमेव संसारसमुद्रनौका- रूपः कृतः पुत्र लक्ष्मीधरेण । इत्येवमुक्त्वा नृपतिः सुतं तं मुदा समादाय ययौ गृहाय ॥ 44॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,44,8511,पुरीसमीपे नृपमागतं त- माकर्ण्य सर्वे सचिवास्तु राज्ञः । ययुः समीपं नृपतेश्च लोकाः सोपायनास्ते सपुरोहिताश्च ॥ 45॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,45,8512,बन्दीजना गायनकाश्च सूताः समाययुः सम्मुखमाशु राज्ञः । नृपः पुरं प्राप्य पुरः समागतं जनं समाश्वास्य वाक्यैश्च दृष्ट्या ॥ 46॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,46,8513,सम्पूजितः पौरजनेन राजा विवेश पुत्रेण युतो नगर्याम् । मार्गेषु लाजैः कुसुमैः समन्ता- द्विकीर्यमाणो नृपतिर्जगाम ॥ 47॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,47,8514,गृहं समृद्धं सचिवैः समेतः सुतं समादाय मुदा कराभ्याम् । राज्ये ददौ चाथ सुतं मनोज्ञं सद्यःप्रसूतं च मनोभवाभम् ॥ 48॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,48,8515,राज्ञी गृहीत्वाभिनवं तनूजं पप्रच्छ राजानमनिन्दिता सा । राजन् कुतश्चैव सुतः सुजन्मा प्राप्तस्त्वया मन्मथतुल्यरूपः ॥ 49॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,49,8516,केनैष दत्तः कथयाशु कान्त चेतो मदीयं प्रहृतं सुतेन । नृपस्तदोवाच मुदान्वितोऽसौ प्रिये रमेशेन सुतो हि मह्यम् ॥ 50॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,50,8517,लोलाक्षि दत्तः कमलासमुत्थो जनार्दनांशोऽयमहीनसत्त्वः । सा तं गृहीत्वा मुदमाप राज्ञी राजा चकारोत्सवमद्भुतं च ॥ 51॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,51,8518,ददौ च दानं किल याचकेभ्यो गीतानि वाद्यानि बहूनि नेदुः । कृत्वोत्सवं भूपतिरात्मजस्य नामैकवीरेति चकार विश्रुतम् ॥ 52॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,52,8519,सुखं च सम्प्राप्य मुदान्वितोऽसौ ननन्द देवाधिपतुल्यवीर्यः । पुत्रं हरे रूपगुणानुरूपं सम्प्राप्य वंशस्य ऋणाच्च मुक्तः ॥ 53॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,53,8520,इति सकलसुराणामीश्वरेणार्पितं तं सकलगुणगणाढ्यं पुत्रमासाद्य राजा । विविधसुखविनोदैर्भार्यया सेव्यमानो व्यहरत निजगेहे शक्रतुल्यप्रतापः ॥ 54॥ 6,६.२०,विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।,54,8521,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे एकवीराख्यानवर्णनं नाम विंशोऽध्यायः ॥ ६.२०॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,0,8522,व्यास उवाच । जातकर्मादिसंस्कारांश्चकार नृपतिस्तदा । दिने दिने जगामाशु वृद्धिं बालः सुलालितः ॥ 1॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,1,8523,नृपः संसारजं प्राप्य सुखं पुत्रसभुद्भवम् । ऋणत्रयविमोक्षं च मेने तेन महात्मना ॥ 2॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,2,8524,षष्ठेऽन्नप्राशनं तस्य कृत्वा मासि यथाविधि । तृतीयेऽथ तथा वर्षे चूडाकरणमुत्तमम् ॥ 3॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,3,8525,चकार ब्राह्मणान् द्रव्यैः सम्पूज्य विविधैर्धनैः । गोभिश्च विविधैर्दानैर्याचकानितरानपि ॥ 4॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,4,8526,वर्षे चैकादशे तस्य मौञ्जीबन्धनकर्म वै । कारयित्वा धनुर्वेदमध्यापयत पार्थिवः ॥ 5॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,5,8527,अधीतवेदं पुत्रं तं राजधर्मविशारदम् । दृष्ट्वा तस्याभिषेकाय मतिं चक्रे जनाधिपः ॥ 6॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,6,8528,पुष्यार्कयोगसंयुक्ते दिवसे नृपसत्तमः । कारयामास सम्भारानभिषेकार्थमादरात् ॥ 7॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,7,8529,द्विजानाहूय वेदज्ञान् सर्वशास्त्रविचक्षणान् । अभिषेकं चकारासौ विधिवत् स्वात्मजस्य ह ॥ 8॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,8,8530,जलमानीय तीर्थेभ्यः सागरेभ्यश्च पार्थिवः । स्वयं चकार विथिवदभिषेकं शुभे दिने ॥ 9॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,9,8531,धनं दत्त्वाथ विप्रेभ्यो राज्यं पुत्रे निवेश्य सः । जगाम वनमेवाशु स्वर्गकामः स भूपतिः ॥ 10॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,10,8532,एकवीरं नृपं कृत्वा सम्मान्य सचिवानथ । भार्यया सह भूपालः प्रविवेश वनं वशी ॥ 11॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,11,8533,मैनाकशिखरे राजा कृत्वा तार्तीयमाश्रमम् । नित्यं पत्रफलाहारश्चिन्तयामास पार्वतीम् ॥ 12॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,12,8534,एवं स नृपतिः कृत्वा दिष्टान्ते सह भार्यया । मृतोऽसौ वासवं लोकं गतः पुण्येन कर्मणा ॥ 13॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,13,8535,इन्द्रलोकं पिता प्राप्त इति श्रुत्वाथ हैहयः । चकार वेदनिर्दिष्टं कर्म चैवौर्ध्वदैहिकम् ॥ 14॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,14,8536,कृत्वोत्तराः क्रियाः सर्वाः पितुः पार्थिवनन्दनः । राज्यं चकार मेधावी पित्रा दत्तं सुसम्मतम् ॥ 15॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,15,8537,एकवीरोऽथ धर्मज्ञः प्राप्य राज्यमनुत्तमम् । बुभुजे विविधान् भोगान्सचिवैश्च सुमानितः ॥ 16॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,16,8538,एकस्मिन् दिवसे राजा मन्त्रिपुत्रैः समन्वितः । जगाम जाह्नवीतीरे हयारूढः प्रतापवान् ॥ 17॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,17,8539,सम्पश्यन् पादपान् रम्यान् कोकिलालापसंयुतान् । पुष्पितान् फलसंयुक्तान् षट्पदालिविराजितान् ॥ 18॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,18,8540,मुनीनामाश्रमान्दिव्यान् वेदध्वनिनिनादितान् । होमधूमावृताकाशान् मृगशावसमावृतान् ॥ 19॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,19,8541,केदाराञ्छालिसम्पक्वान् गोपिकाभिः सुरक्षितान् । प्रफुल्लपङ्कजारामान्निकुञ्जांश्च मनोरमान् ॥ 20॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,20,8542,प्रेक्षमाणः प्रियालांस्तु चम्पकान् पनसद्रुमान् । बकुलांस्तिलकान्नीपान्मन्दारांश्च प्रफुल्लितान् ॥ 21॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,21,8543,शालांस्तालांस्तमालांश्च जम्बूचूतकदम्बकान् । स गच्छञ्जाह्नवीतोये प्रफुल्लं शतपत्रकम् ॥ 22॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,22,8544,पङ्कजं चातिगन्धाढ्यमपश्यदवनीपतिः । दक्षिणे जलजस्याथ पार्श्वे कमललोचनाम् ॥ 23॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,23,8545,कनकाभां सुकेशीं च कम्बुग्रीवां कृशोदरीम् । बिम्बोष्ठी सुन्दरीं किञ्चित्समुद्यत्सुपयोधराम् ॥ 24॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,24,8546,सुनासां चारुसर्वाङ्गीमपश्यत् कन्यकां नृपः । रुदतीं तां सखीं त्यक्त्वा विह्वलां दुःखपीडिताम् ॥ 25॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,25,8547,साश्रुनेत्रां क्रन्दमानां विजने कुररीमिव । संवीक्ष्य राजा पप्रच्छ कन्यकां शोककारणम् ॥ 26॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,26,8548,सुनसे ब्रूहि कासि त्वं कस्य पुत्री शुभानने । गन्धर्वी देवकन्याथ कथं रोदिषि सुन्दरि ॥ 27॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,27,8549,कथमेकाकिनी बाले त्यक्ता केन पिकस्वरे । पतिस्ते क्व गतः कान्ते पिता वा ब्रूहि साम्प्रतम् ॥ 28॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,28,8550,किं ते दुःखमरालभ्रु कथयाद्य ममान्तिके । करोमि दुःखनाशं ते सर्वथैव कृशोदरि ॥ 29॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,29,8551,न राज्ये मम तन्वङ्गि पीडां कोऽपि करोत्यलम् । न भयं चौरजं कान्ते न राक्षसभयं तथा ॥ 30॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,30,8552,मयि शासति भूपाले नोत्पाता दारुणा भुवि । भयं न व्याघ्रसिंहेभ्यो न भयं कस्यचिद्भवेत् ॥ 31॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,31,8553,वद वामोरु कस्मात्त्वं विलापं जाह्नवीतटे । करोषि त्राणहीनात्र किं ते दुःखं वदस्व मे ॥ 32॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,32,8554,हन्म्यहं दुःखमत्युग्रं प्राणिनां पृथिवीतले । दैवं च मानुषं कान्ते व्रतमेतन्ममाद्भुतम् ॥ 33॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,33,8555,विशाललोचने ब्रूहि करोमि तव चिन्तितम् । इत्युक्ते वचने राज्ञा श्रुत्वोवाच मृदुस्वना ॥ 34॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,34,8556,श‍ृणु राजेन्द्र वक्ष्यामि मम शोकस्य कारणम् । विपत्तिरहितः प्राणी कथं रुदति भूपते ॥ 35॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,35,8557,प्रब्रवीमि महाबाहो यदर्थं रुदती त्वहम् । तव राज्यादन्यदेशे राजा परमधार्मिकः ॥ 36॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,36,8558,रैभ्यो नाम महाराजः सन्तानरहितो भृशम् । तस्य भार्या सुविख्याता रुक्मरेखेति नामतः ॥ 37॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,37,8559,सुरूपा चतुरा साध्वी सर्वलक्षणसंयुता । अपुत्रा दुःखिता कान्तमित्युवाच पुनः पुनः ॥ 38॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,38,8560,किं जीवितेन मे नाथ धिग्वृथा जीवितं मम । वन्ध्यायाः सुखहीनाया ह्यपुत्राया धरातले ॥ 39॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,39,8561,इत्येवं भार्यया भूपः प्रेरितो मखमुत्तमम् । चकार ब्राह्मणांस्तज्ज्ञानाहूय विधिवत्तदा ॥ 40॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,40,8562,पुत्रकामो धनं भूरि ददावथ यथोदितम् । हूयमाने घृतेऽत्यर्थं पावकादतिसुप्रभात् ॥ 41॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,41,8563,आविर्बभूव चार्वङ्गी कन्यका शुभलक्षणा । बिम्बोष्ठी सुदती सुभ्रूः पूर्णचन्द्रनिभानना ॥ 42॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,42,8564,कनकाभा सुकेशान्ता रक्तपाणितला मृदुः । सुरक्तनयना तन्वी रक्तपादतला भृशम् ॥ 43॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,43,8565,हुताशनात्समुद्भूता होत्रा सा स्वीकृता तदा । होता प्रोवाच राजानं गृहीत्वा तां सुमध्यमाम् ॥ 44॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,44,8566,राजन् पुत्रीं गृहाणेमां सर्वलक्षणसंयुताम् । एकावलीव सम्भूता हूयमानाद्धुताशनात् ॥ 45॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,45,8567,नाम्ना चैकावली लोके ख्याता पुत्री भविष्यति । सुखितो भव भूपाल पुत्र्या पुत्रसमानया ॥ 46॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,46,8568,सन्तोषं कुरु राजेन्द्र दत्ता देवेन विष्णुना । होतुर्वाक्यं नृपः श्रुत्वा दृष्ट्वा तां कन्यकां शुभाम् ॥ 47॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,47,8569,जग्राह परमप्रीतो होत्रा दत्तां सुसम्मताम् । गृहीत्वा नृपतिस्तां तु ददौ पत्न्यै वराननाम् ॥ 48॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,48,8570,आभाष्य रुक्मरेखायै गृहाण सुभगे सुताम् । सा तां कमलपत्राक्षीं प्राप्य कन्यां मनोरमाम् ॥ 49॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,49,8571,जहर्ष मुदिता राज्ञी पुत्रं प्राप्य यथासुखम् । चकार मङ्गलं कर्म जातकर्मादिकं शुभम् ॥ 50॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,50,8572,पुत्रजन्मसमुत्थं यत्तत्सर्वं विधिवत्ततः । समाप्य च मखं राजा द्विजेभ्यो दक्षिणां शुभाम् ॥ 51॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,51,8573,दत्त्वा विसृज्य विप्रेन्द्रान् मुदं प्राप महीपतिः । दिने दिनेऽसितापाङ्गी पुत्रवृद्ध्या भृशं बभौ ॥ 52॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,52,8574,मुदं च परमां प्राप नृपभार्या सुतान्विता । उत्सवस्तद्दिने तस्य प्रवृत्तः सुतजन्मजः ॥ 53॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,53,8575,पुत्री पुत्रसमात्यर्थं बभूव वल्लभा किल । राज्ञो मन्त्रिसुता चाहं सुबुद्धे मन्मथाकृते ॥ 54॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,54,8576,यशोवती च मे नाम समानं वय आवयोः । वयस्याहं कृता राज्ञा क्रीडनाय तया सह ॥ 55॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,55,8577,सदा सहचरी जाता प्रेमयुक्ता दिवानिशम् । एकावली गन्धवन्ति यत्र पद्मानि पश्यति ॥ 56॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,56,8578,तत्र सा रमते बाला नान्यत्र सुखमाप्नुयात् । सुदूरे जाह्नवीतीरे भवन्ति कमलान्यपि ॥ 57॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,57,8579,रममाणा तत्र याता मत्समेता सखीयुता । मया निवेदितं राजन् पुत्री ते कमलाकरान् ॥ 58॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,58,8580,प्रेक्षमाणातिदूरे सा प्रयाति निर्जने वने । निषेधिताथ पित्रासौ गृहे कृत्वा जलाशयान् ॥ 59॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,59,8581,कमलान् वापयित्वाथ पुष्पितान् भ्रमरावृतान् । तथापि निर्ययौ बाला कमलासक्तचेतना ॥ 60॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,60,8582,तदा राज्ञा रक्षपालाः प्रेरिताः शस्त्रपाणयः । एवं रक्षायुता तन्वी मत्समेता सखीयुता । क्रीडार्थं जाह्नवीतोये नित्यमायाति याति च ॥ 61॥ 6,६.२१,एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।,61,8583,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे राजपुत्र्याः एकावल्याः वर्णनं नामैकविंशोऽध्यायः ॥ ६.२१॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,0,8584,यशोवत्युवाच । प्रातरुत्थाय तन्वङ्गी चलिता च सखीयुता । चामरैर्वीज्यमाना सा रक्षिता बहुरक्षिभिः ॥ 1॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,1,8585,सायुधैश्चातिसन्नद्धैः सहिता वरवर्णिनी । क्रीडार्थमत्र राजेन्द्र सम्प्राप्ता नलिनीं शुभाम् ॥ 2॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,2,8586,अहमप्यनया सार्धं गङ्गातीरे समागता । अप्सरोभिः समेता च कमलैः क्रीडमानया ॥ 3॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,3,8587,एकावली तथा चाहं जाते क्रीडापरे यदा । सहसैव तदायातो दानवो बलसंयुतः ॥ 4॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,4,8588,कालकेतुरिति ख्यातो राक्षसैर्बहुभिर्युतः । परिघासिगदाचापबाणतोमरपाणिभिः ॥ 5॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,5,8589,दृष्टा चैकावली तेन रूपयौवनशालिनी । द्वितीया कामपत्नीव क्रीडमाना सुपङ्कजैः ॥ 6॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,6,8590,मयोक्तैकावली राजन् कोऽयं दैत्यः समागतः । गच्छावो रक्षपालानां मध्ये पङ्कजलोचने ॥ 7॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,7,8591,विमृश्यैव सखी चाहं त्वरयैव गते भयात् । मध्ये वै सैनिकानां तु सायुधानां नृपात्मज ॥ 8॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,8,8592,कालकेतुस्तु तां दृष्ट्वा मोहिनीं मदनातुरः । गदां गुर्वी गृहीत्वा तु धावमानः समागतः ॥ 9॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,9,8593,रक्षकान्दूरतः कृत्वा जग्राहाम्बुजलोचनाम् । त्रस्तां वेपथुसंयुक्तां क्रन्दमानां कृशोदरीम् ॥ 10॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,10,8594,त्यजैनां मां गृहाणेति मया चोक्तोऽपि दानवः । न मां जग्राह कामार्तस्तां गृहीत्वा विनिःसृतः ॥ 11॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,11,8595,तिष्ठ तिष्ठेति भाषन्तो रक्षकास्तं महाबलम् । प्रतिषिध्य तु सङ्ग्रामं चक्रुर्विस्मयकारकम् ॥ 12॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,12,8596,तस्यापि राक्षसाः क्रूराः सर्वतः शस्त्रपाणयः । युयुधू रक्षकैः सार्धं स्वामिकार्ये कृतोद्यमाः ॥ 13॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,13,8597,सङ्ग्रामस्तु तदा जातः कालकेतोस्तथा रणे । निहत्य रक्षकान्सर्वान्गृहीत्वैनां महाबलः ॥ 14॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,14,8598,युक्तो राक्षससैन्येन निर्जगाम पुरं प्रति । वीक्ष्य तां रुदतीं बालां गृहीता दानवेन तु ॥ 15॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,15,8599,पृष्ठतोऽहं गता तत्र यत्र नीता सखी मम । विक्रोशन्ती यथा सा मां पश्येदिति पदानुगा ॥ 16॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,16,8600,सापि मामागतां वीक्ष्य किञ्चित्स्वस्थाभवत्तदा । गताहं तत्समीपे तु तामाभाष्य पुनः पुनः ॥ 17॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,17,8601,सा मां प्राप्यातिदुःखार्ता स्तम्भस्वेदसमाकुला । कण्ठे गृहीत्वा मां भूप रुरोद भृशदुःखिता ॥ 18॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,18,8602,स मामाह कालकेतुः प्रीतिपूर्वमिदं वचः । समाश्वासय भीतां त्वं सखीं चञ्चललोचनाम् ॥ 19॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,19,8603,प्राप्तं ममाद्य नगरं देवलोकसमं प्रिये । दासोऽस्मि तव रत्या हि कस्मात्क्रन्दसि कातरा ॥ 20॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,20,8604,कथयैनां सखीं तेऽद्य स्वस्था भव सुलोचने । इत्युक्त्वा मां सखीपार्श्वे समारोप्य रथोत्तमे ॥ 21॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,21,8605,जगाम तरसा दुष्टः पुरे स्वस्य मनोहरे । सैन्येन महता युक्तः प्रफुल्लवदनाम्बुजः ॥ 22॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,22,8606,एकावली तथा मां च संस्थाप्य धवले गृहे । राक्षसान् गृहरक्षार्थं कल्पयामास कोटिशः ॥ 23॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,23,8607,द्वितीये दिवसे सोऽथ मामुवाच रहो नृप । प्रबोधय सखीं बालां शोचन्तीं विरहातुराम् ॥ 24॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,24,8608,पत्नी मे भव सुश्रोणि सुखं भुङ्क्षव यथेप्सितम् । राज्यं त्वदीयं चन्द्रास्ये सेवकोऽहं सदा तव ॥ 25॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,25,8609,पुनरुक्तं मया वाक्यं श्रुत्वा तद्भाषितं खरम् । नाहं क्षमाप्रियं वक्तुं त्वमेनां कथय प्रभो ॥ 26॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,26,8610,इत्युक्ते वचने दुष्टो मदनक्षतमानसः । उवाच विनयादेनां सखीं क्षामोदरीं प्रियाम् ॥ 27॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,27,8611,कृशोदरि त्वया मन्त्रो निक्षिप्तोऽस्ति ममोपरि । तेन मे हृदयं कान्ते हृतं ते वशतां गतम् ॥ 28॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,28,8612,तेनाहं तव दासोऽद्य कृतोऽस्मीति विनिश्चयः । भज मां कामबाणेन पीडितं विवशं भृशम् ॥ 29॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,29,8613,यौवनं याति रम्भोरु चञ्चलं दुर्लभं तदा । सफलं कुरु कल्याणि पतिं मां परिरभ्य च ॥ 30॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,30,8614,एकावल्युवाच । पित्राहं कल्पिता पूर्वं दातुं राजसुताय वै । हैहयस्तु महाभाग स मया मनसा वृतः ॥ 31॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,31,8615,कथमन्यं भजे कान्तं त्यक्त्वा धर्मं सनातनम् । कन्याधर्मं विहायाद्य वेत्सि शास्त्रविनिश्चयम् ॥ 32॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,32,8616,यस्मै दद्यात्पिता कामं कन्या तं पतिमाप्नुयात् । परतन्त्रा सदा कन्या न स्वातन्त्र्यं कदाचन ॥ 33॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,33,8617,इत्युक्तोऽपि तया पापी विरराम न मोहितः । न मुमोच विशालाक्षीं मां च पार्श्वस्थितां तथा ॥ 34॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,34,8618,पातालविवरे तस्य पुरं परमसङ्कटे । राक्षसै रक्षितं दुर्गं मण्डितं परिखावृतम् ॥ 35॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,35,8619,तत्र तिष्ठति दुःखार्ता सखी मे प्राणवल्लभा । तेनाहं विरहेणात्र रारटीमि सुदुःखिता ॥ 36॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,36,8620,एकवीर उवाच । कथं त्वमत्र सम्प्राप्ता पुरात्तस्य दुरात्मनः । विस्मयो मे महानत्र तत्त्वं ब्रूहि वरानने ॥ 37॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,37,8621,त्वया च कथितं वाक्यं सन्दिग्धं भाति भामिनि । हैहयार्थे कल्पिता सा पित्रेति मम साम्प्रतम् ॥ 38॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,38,8622,हैहयो नाम राजाहं नान्योऽस्ति पृथिवीपतिः । मदर्थे कथिता सा किं सखी तव सुलोचना ॥ 39॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,39,8623,एतन्मे संशयं सुभ्रु छेत्तुमर्हसि भामिनि । अहं तामानयिष्यामि तं हत्वा राक्षसाधमम् ॥ 40॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,40,8624,स्थानं दर्शय मे तस्य यदि जानासि सुव्रते । राज्ञे निवेदितं किं वा तत्पित्रे चातिदुःखिता ॥ 41॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,41,8625,यस्यैषा वल्लभा पुत्री न किं जानाति तां हृताम् । नोद्यमः किं कृतस्तेन ततो मोचनहेतवे ॥ 42॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,42,8626,बन्दीकृतां सुतां ज्ञात्वा कथं तिष्ठति सुस्थिरः । असमर्थो नृपः किं वा कारणं ब्रूहि सत्वरम् ॥ 43॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,43,8627,त्वया मेऽपहृतं चेतो गुणानुक्त्वा ह्यमानुषान् । सख्याः पङ्कजपत्राक्षि कृतः कामवशो भृशम् ॥ 44॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,44,8628,कदा पश्यामि तां कान्तां मोचयित्वातिसङ्कटात् । इति मे हृदयं चाद्य करोत्यतिमनोरथम् ॥ 45॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,45,8629,ब्रूहि मे गमनोपायं पुरे तस्यातिदुर्गमे । कथं त्वमागता तस्मात्सङ्कटादत्र तद्वद ॥ 46॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,46,8630,यशोवत्युवाच । बालभावान्मया मन्त्रो भगवत्या विशाम्पते । प्राप्तोऽस्ति ब्राह्मणात्सिद्धात्सबीजध्यानपूर्वकः ॥ 47॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,47,8631,तत्रावस्थितया राजन् मया चित्ते विचारितम् । आराधयामि सततं चण्डिकां चण्डविक्रमाम् ॥ 48॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,48,8632,सा देवी सेविता कामं बन्धमोक्षं करिष्यति । भक्तानुकम्पिनी शक्तिः समर्था सर्वसाधने ॥ 49॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,49,8633,या विश्वं सृजते शक्त्या पालयत्येव सा पुनः । कल्पान्ते संहरत्येव निराकारा निराश्रया ॥ 50॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,50,8634,इति सञ्चिन्त्य मनसा देवीं विश्वेश्वरीं शिवाम् । ध्यात्वा रक्ताम्बरां सौम्यां सुरक्तनयनां हृदि ॥ 51॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,51,8635,संस्मृत्य मनसा रूपं मन्त्रजाप्यपराभवम् । उपासिता मया देवी मासमेकं समाधिना ॥ 52॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,52,8636,स्वप्ने मम समायाता भक्तिभावेन तोषिता । मामाहामृतया वाचा किं सुप्तासीति चण्डिका ॥ 53॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,53,8637,उत्तिष्ठ याहि तरसा गङ्गातीरं मनोहरम् । आगमिष्यति तत्रासौ हैहयो नृपपुङ्गवः ॥ 54॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,54,8638,एकवीरो महाबाहुः सर्वशत्रुविमर्दनः । दत्तात्रेयेण मन्मन्त्रो महाविद्याभिधः परः ॥ 55॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,55,8639,दत्तोऽस्मै सोऽपि सततं मामुपास्तेऽतिभक्तितः । मय्यासक्तमतिर्नित्यं मम पूजापरायणः ॥ 56॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,56,8640,मामेव सर्वभूतेषु ध्यायन्नास्ते च मत्परः । स ते दुःखविनाशं वै करिष्यति महामतिः ॥ 57॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,57,8641,मासुतो विहरंस्तत्र तव त्राता भविष्यति । हत्वा तं राक्षसं घोरं मोचयिष्यति मानिनीम् ॥ 58॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,58,8642,एकावलीमेकवीरः सर्वशास्त्रविशारदः । पश्चात्सैव पतिः कार्यस्त्वया राजसुतः शुभः ॥ 59॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,59,8643,इत्युक्त्वान्तर्दधे देवी प्रबुद्धाहं तदैव हि । कथितं स्वप्नवृत्तान्तं देव्याश्चाराधनं तथा ॥ 60॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,60,8644,प्रसन्नवदना जाता श्रुत्वा सा कमलेक्षणा । विशेषेण च सन्तुष्टा मामुवाच शुचिस्मिता ॥ 61॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,61,8645,गच्छ तत्र त्वरायुक्ता कुरु कार्यं मम प्रिये । सत्यवाक्या भगवती सावां मोक्षं विधास्यति ॥ 62॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,62,8646,इत्याज्ञप्ता तया चाहं सख्या वै प्रेमयुक्तया । मत्वोपसरणं युक्तं तस्मात्स्थानात्तदा नृप ॥ 63॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,63,8647,चालिताहं ततः शीघ्रं महादेवीप्रसादतः । मार्गज्ञानं शीघ्रगतिर्मया प्राप्ता नृपात्मज ॥ 64॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,64,8648,इत्येतत्कथितं सर्वं कारणं मम दुःखजम् । कस्त्वं कस्य सुतश्चेति वद वीर यथा तथा ॥ 65॥ 6,६.२२,द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।,65,8649,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनं नाम द्वाविंशोऽध्यायः ॥ ६.२२॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,0,8650,व्यास उवाच । तस्यास्तु वचनं श्रुत्वा रमापुत्रः प्रतापवान् । प्रफुल्लवदनाम्भोजस्तामुवाच विशाम्पते ॥ 1॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,1,8651,राजोवाच । रम्भोरु यस्त्वया पृष्टो वृत्तान्तो विशदाक्षरः । हेहयोऽहं चैकवीरनाम्ना सिन्धुसुतासुतः ॥ 2॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,2,8652,मनो मे यत्त्वया नूनं परतन्त्रं कृतं किल । किं करोमि क्व गच्छामि विरहेणातिपीडितः ॥ 3॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,3,8653,प्रथमं रूपमाख्यातं सर्वलोकातिगं त्वया । तेन मे विह्वलं जातं कामबाणहतं मनः ॥ 4॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,4,8654,ततस्तस्या गुणाः प्रोक्तास्तैस्तु चित्तं हृतं पुनः । यत्त्वयोक्तं पुनर्वाक्यं तेन मे विस्मयोऽभवत् ॥ 5॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,5,8655,एकावल्या वचः प्रोक्तं दानवाग्रे मया वृतः । हैहयस्तं विना नान्यं वृणोमीति विनिश्चयः ॥ 6॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,6,8656,तेन वाक्येन तन्वङ्गि भृत्योऽहमधुना कृतः । त्वया तस्याः सुकेशान्ते ब्रूहि किं करवाणि वाम् ॥ 7॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,7,8657,स्थानं तस्य न जानामि राक्षसस्य दुरात्मनः । गतिर्मे नास्ति गमने पुरे तस्मिन्सुलोचने ॥ 8॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,8,8658,वद मां त्वं विशालाक्षि तत्र प्रापयितुं क्षमा । प्रापयाशु सखी ते सा यत्र तिष्ठति सुन्दरी ॥ 9॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,9,8659,हत्वा तं राक्षसं क्रूरं मोचयिष्यामि साम्प्रतम् । विवशां शोकसन्तप्तां राजपुत्रीं तव प्रियाम् ॥ 10॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,10,8660,विमुक्तदुःखां कृत्वाऽऽशु प्रापयिष्यामि ते पुरम् । पित्रे चास्याः प्रदास्यामि कन्यामेकावलीमहम् ॥ 11॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,11,8661,पश्चाद्विवाहं कर्तासौ राजा पुत्र्याः परन्तपः । एवं ते मनसः कामो मम चापि प्रियंवदे ॥ 12॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,12,8662,भविष्यति स सम्पूर्णः साधनेन तवाधुना । दर्शयाशु पुरं तस्य पश्य मे त्वं पराक्रमम् ॥ 13॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,13,8663,यथा हन्मि दुराचारं परदारापहारकम् । तथा कुरु प्रियं कर्तुं शक्तासि वरवर्णिनि ॥ 14॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,14,8664,मार्गं दर्शय तस्याद्य पुरस्य दुर्गमस्य च । व्यास उवाच । तन्निशम्य प्रियं वाक्यं मुदिता च यशोवती ॥ 15॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,15,8665,तमुवाच रमापुत्रं गमनोपायमादरात् । मन्त्रं गृहाण राजेन्द्र भगवत्यास्तु सिद्धिदम् ॥ 16॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,16,8666,दर्शयिष्यामि तस्याद्य पुरं राक्षसपालितम् । सज्जो भव महाभाग गमनाय मया सह ॥ 17॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,17,8667,सैन्येन महता युक्तस्तत्र युद्धं भविष्यति । कालकेतुर्महावीरो राक्षसैर्बलिभिर्वृतः ॥ 18॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,18,8668,तस्मान्मन्त्रं गृहीत्वा त्वं व्रज तत्र मया सह । दर्शयिष्यामि ते मार्गं पुरस्यास्य दुरात्मनः ॥ 19॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,19,8669,हत्वा तं पापकर्माणं मोचयाशु च मे सखीम् । श्रुत्वा तद्वचनं वीरो मन्त्रं जग्राह सत्वरः ॥ 20॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,20,8670,दत्तात्रेयाद्दैवयोगात्प्राप्ताज्ज्ञानिवराच्छुभात् । योगेश्वरीमहामन्त्रं त्रिलोकीतिलकाभिधम् ॥ 21॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,21,8671,तेन सर्वज्ञता जाता सर्वान्तश्चारिता तथा । तया सह जगामाशु पुरं तस्य सुदुर्गमम् ॥ 22॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,22,8672,रक्षितं राक्षसैघोरैः पातालमिव पन्नगैः । यशोवत्या च सैन्येन महता संयुतो नृपः ॥ 23॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,23,8673,तमायान्तं समालोक्य दूतास्तस्य भयातुराः । क्रोशन्तोऽभिययुः पार्श्वं कालकेतोस्तरस्विनः ॥ 24॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,24,8674,तमूचुः सहसा मत्वा राक्षसं काममोहितम् । एकावलीसमीपस्थं कुर्वन्तं विनयान्बहून् ॥ 25॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,25,8675,दूता ऊचुः । राजन् यशोवती नारी कामिन्याः सहचारिणी । आयाति सह सैन्येन राजपुत्रेण संयुता ॥ 26॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,26,8676,जयन्तो वा महाराज कार्तिकेयोऽथवा नु किम् । आगच्छति बलोन्मत्तो वाहिनीसहितः किल ॥ 27॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,27,8677,संयत्तो भव राजेन्द्र सङ्ग्रामः समुपस्थितः । देवपुत्रेण युध्यस्व त्यज वा कमलेक्षणाम् ॥ 28॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,28,8678,इतो दूरेऽस्ति सैन्यं तद्योजनत्रयमात्रतः । सज्जो भव महीपाल दुन्दुभिं घोषयाशु वै ॥ 29॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,29,8679,व्यास उवाच । तेषां तद्वचनं श्रुत्वा राक्षसः क्रोधमूर्च्छितः । राक्षसान्प्रेरयामास सायुधान्सबलान्वहून् ॥ 30॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,30,8680,गच्छध्वं राक्षसाः सर्वे सम्मुखाः शस्त्रपाणयः । तानाज्ञाप्य कालकेतुः पप्रच्छ प्रणयान्वितः ॥ 31॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,31,8681,एकावलीं समीपस्थां विवशां भृशदुःखिताम् । कोऽयमायाति तन्वङ्गि पिता ते वापरः पुमान् ॥ 32॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,32,8682,त्वदर्थे सैन्यसंयुक्तो ब्रूहि सत्यं कृशोदरि । पिता ते यदि सम्प्राप्तो नेतुं त्वां विरहातुरः ॥ 33॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,33,8683,ज्ञात्वा ते पितरं सम्यक् सङ्ग्रामं न करोम्यहम् । आनयित्वा गृहे पूजां रत्नैर्वस्त्रैर्हयैः शुभैः ॥ 34॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,34,8684,करोमि तस्य चातिथ्यं गृहे प्राप्तस्य सर्वथा । अन्यश्चेद्यदि सम्प्राप्तस्तं हन्मि निशितैः शरैः ॥ 35॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,35,8685,आनीतः किल कालेन मरणाय महात्मना । तस्माद्वद विशालाक्षि कोऽयमायाति मन्दधीः ॥ 36॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,36,8686,अज्ञात्वा मां दुराधर्षं कालरूपं महाबलम् । एकावल्युवाच । न जानेऽहं महाभाग कोऽयमायाति सत्वरः ॥ 37॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,37,8687,नमेऽस्ति विदितः कोऽपि स्थितायास्तव बन्धने । नायं पिता मे न भ्राता कोऽप्यन्योऽस्ति महाबलः ॥ 38॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,38,8688,किमर्थमिह चायाति नाहं वेद विनिश्चयम् । दैत्य उवाच । एवं वदन्त्यमी दूता वयस्या ते यशोवती ॥ 39॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,39,8689,समानीय च तं वीरमागतेति कृतोद्यमा । क्व गता सा सखी कान्ते विदग्धा कार्यनिश्चये ॥ 40॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,40,8690,नान्यः कोऽपि ममारातिर्यो मे प्रतिबलो भवेत् । व्यास उवाच । एतस्मिन्नन्तरे दूतास्तत्रान्ये वै समागताः ॥ 41॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,41,8691,ते होचुस्त्वरिता भीताः कालकेतुं गृहे स्थितम् । किं स्वस्थोऽसि महाराज समीपे सैन्यमागतम् ॥ 42॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,42,8692,निर्गच्छ नगरात्तूर्णं सैन्येन महताऽऽवृतः । इति तेषां वचः श्रुत्वा कालकेतुर्महाबलः ॥ 43॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,43,8693,रथमारुह्य त्वरितो निर्ययौ स्वपुराद्बहिः । एकवीरोऽपि सहसा हयारूढः प्रतापवान् ॥ 44॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,44,8694,आगतस्तत्र कामिन्या विरहेण समाकुलः । युद्धं तयोरभूत्तत्र वृत्रवासवयोरिव ॥ 45॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,45,8695,शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम् । वर्तमाने तदा युद्धे कातराणां भयावहे ॥ 46॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,46,8696,गदया ताडयामास दैत्यं सिन्धुसुतासुतः । स गतासुः पपातोर्व्यां वज्राहत इवाचलः ॥ 47॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,47,8697,पलायित्वा गताः सर्वे राक्षसा भयपीडिताः । यशोवती ततो गत्वा वेगादेकावलीं तदा ॥ 48॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,48,8698,उवाच मधुरां वाणीं विस्मिता मुदिता भृशम् । एह्यालि नृपपुत्रेण दानवोऽसौ निपातितः ॥ 49॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,49,8699,एकवीरेण धीरेण युद्धं कृत्वा सुदारुणम् । स्कन्धावारेऽप्यसौ राजा तिष्ठत्यद्य श्रमातुरः ॥ 50॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,50,8700,दर्शनं काङ्क्षमाणस्ते श्रुतरूपगुणस्तव । पश्य तं कुटिलापाङ्गि मनोभवसमं नृपम् ॥ 51॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,51,8701,कथिता त्वं मया पूर्वं तस्याग्रे जाह्नवीतटे । पूर्णानुरागः सञ्जातस्तेनासौ विरहातुरः ॥ 52॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,52,8702,वाञ्छति त्वां चारुरूपां द्रष्टुं नृपतिनन्दनः । सा तस्या वचनं श्रुत्वा गमनाय मनो दधे ॥ 53॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,53,8703,लज्जमाना भृशं भीत्या कौमारं प्राप्तया तया । कथं तस्य मुखं द्रक्ष्ये कुमारी ह्यवशा भृशम् ॥ 54॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,54,8704,स मां गृह्णाति कामार्त इति चिन्ताकुला सती । यशोवत्या युता तत्र नरयानस्थिता ययौ ॥ 55॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,55,8705,स्कन्धावारेऽतिमलिना मलिनाम्बरधारिणी । तामागतां विशालाक्षीं दृष्ट्वा राजसुतोऽब्रवीत् ॥ 56॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,56,8706,दर्शनं देहि तन्वङ्गि तृषिते नयने मम । कामातुरं च तं वीक्ष्य तां च लज्जाभरावृताम् ॥ 57॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,57,8707,नीतिज्ञा शिष्टमार्गज्ञा तमुवाच यशोवती । राजपुत्र पिताप्यस्यास्त्वामेनां दातुमिच्छति ॥ 58॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,58,8708,एषापि त्वद्वशा नूनं भविता सङ्गमस्तव । कालं प्रतीक्ष्य राजेन्द्र नयैनां पितुरन्तिकम् ॥ 59॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,59,8709,स विवाहविधिं कृत्वा दास्यतीति विनिश्चयः । स तस्या वचनं तथ्यं मत्वा सैन्यसमन्वितः ॥ 60॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,60,8710,समेतः कामिनीभ्यां तु ययौ तत्पितुराश्रमम् । राजपुत्रीं तथायातां श्रुत्वा प्रेमसमन्वितः ॥ 61॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,61,8711,प्रययौ सम्मुखस्तूर्णं सचिवैः परिवेष्टितः । बहुभिर्दिवसैर्दृष्टा पुत्री सा मलिनाम्बरा ॥ 62॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,62,8712,यशोवत्या तु वृत्तान्तः कथितो विस्तरात्पुनः । एकवीरं मिलित्वासौ गृहमानीय चादरात् ॥ 63॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,63,8713,पुण्येऽह्नि कारयामास विवाहं विधिपूर्वकम् । पारिबर्हं ततो दत्त्वा सम्पूज्य विधिवत्तदा ॥ 64॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,64,8714,पुत्रीं विसर्जयामास यशोवत्या समन्विताम् । एवं विवाहे संवृत्ते रमापुत्रो मुदान्वितः ॥ 65॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,65,8715,गृहं प्राप्य बहून्भोगाम्बुभुजे प्रियया समम् । बभूव तस्यां पुत्रस्तु कृतवीर्याभिधः किल । तत्सुतः कार्तवीर्यस्तु वंशोऽयं कथितो मया ॥ 66॥ 6,६.२३,त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।,66,8716,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे एकवीरैकावल्योर्विवाहवर्णनं नाम त्रयोविंशोऽध्यायः ॥ ६.२३॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,0,8717,राजोवाच । भगवंस्त्वन्मुखाम्भोजाच्च्युतं दिव्यकथारसम् । न तृप्तिमधिगच्छामि पिबंस्तु सुधया समम् ॥ 1॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,1,8718,विचित्रमिदमाख्यानं कथितं भवता मम । हैहयानां समुत्पत्तिर्विस्तराद्विस्मयप्रदा ॥ 2॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,2,8719,परं कौतूहलं मेऽत्र यद्विष्णुः कमलापतिः । देवदेवो जगन्नाथः सृष्टिस्थित्यन्तकारकः ॥ 3॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,3,8720,सोऽप्यश्वभावमापन्नो भगवान्हरिरच्युतः । परतन्त्रः कथं जातः स्वतन्त्रः पुरुषोत्तमः ॥ 4॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,4,8721,एतन्मे संशयं ब्रह्मञ्छेत्तुमर्हसि साम्प्रतम् । सर्वज्ञस्त्वं मुनिश्रेष्ठ ब्रूहि वृत्तान्तमद्भुतम् ॥ 5॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,5,8722,व्यास उवाच । श‍ृणु राजन् प्रवक्ष्यामि सन्देहस्यास्य निर्णयम् । यथा श्रुतं मया पूर्वं नारदान्मुनिसत्तमात् ॥ 6॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,6,8723,ब्रह्मणो मानसः पुत्रो नारदो नाम तापसः । सर्वज्ञः सर्वगः शान्तः सर्वलोकप्रियः कविः ॥ 7॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,7,8724,स चैकदा मुनिश्रेष्ठो विचरन्पृथिवीमिमाम् । वादयन्महतीं वीणां स्वरतानसमन्विताम् ॥ 8॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,8,8725,बृहद्रथन्तरादीनां साम्नां भेदाननेकशः । गायन्गायत्रममृतं सम्प्राप्तोऽथ ममाश्रमम् ॥ 9॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,9,8726,शम्याप्रासं महातीर्थं सरस्वत्याः सुपावनम् । निवासं मुनिमुख्यानां शर्मदं ज्ञानदं तथा ॥ 10॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,10,8727,तमागतमहं प्रेक्ष्य ब्रह्मपुत्रं महाद्युतिम् । अभ्युत्थानादिकं सर्वं कृतवानर्चनादिकम् ॥ 11॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,11,8728,अर्घ्यपाद्यविधिं कृत्वा तस्यासनस्थितस्य च । उपविष्टः समीपेऽहं मुनेरमिततेजसः ॥ 12॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,12,8729,दृष्ट्वा विश्रमिणं शान्तं नारदं ज्ञानपारदम् । तमपृच्छमहं राजन् यत्पृष्टोऽहं त्वयाधुना ॥ 13॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,13,8730,असारेऽस्मिंस्तु संसारे प्राणिनां किं सुखं मुने । न पश्यामि विनिश्चित्य कदाचित्कुत्रचित्क्वचित् ॥ 14॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,14,8731,द्वीपे जातो जनन्याहं सन्त्यक्तस्तत्क्षणादपि । अनाश्रयो वने वृद्धिं प्राप्तः कर्मानुसारतः ॥ 15॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,15,8732,तपस्तप्तं मया चोग्रं पर्वते बहुवार्षिकम् । पुत्रकामेन देवर्षे शङ्करः समुपासितः ॥ 16॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,16,8733,ततो मया शुकः प्राप्तः पुत्रो ज्ञानवतां वरः । पाठितस्तु मया सम्यग्वेदानां सार आदितः ॥ 17॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,17,8734,स त्यक्त्वा मां गतः क्वापि रुदन्तं विरहातुरम् । लोकाल्लोकान्तरं साधो वचनात्तव बोधितः ॥ 18॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,18,8735,ततोऽहं पुत्रसन्तप्तस्त्यक्त्वा मेरुं महागिरिम् । मातरं मनसा कृत्वा सम्प्राप्तः कुरुजाङ्गलम् ॥ 19॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,19,8736,पुत्रस्नेहादतितरां कृशाङ्गः शोकसंयुतः । जानन्मिथ्येति संसारं मायापाशनियन्त्रितः ॥ 20॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,20,8737,ततो राज्ञा वृतां ज्ञात्वा मातरं वासवीं शुभाम् । स्थितोऽत्रैवाश्रमं कृत्वा सरस्वत्यास्तटे शुभे ॥ 21॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,21,8738,शन्तनुः स्वर्गतिं प्राप्तो विधुरा जननी स्थिता । पुत्रद्वययुता साध्वी भीष्मेण प्रतिपालिता ॥ 22॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,22,8739,चित्राङ्गदः कृतो राजा गङ्गापुत्रेण धीमता । कालेन सोऽपि मे भ्राता मृतः कामसमद्युतिः ॥ 23॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,23,8740,ततः सत्यवती माता निमग्ना शोकसागरे । चित्राङ्गदं मृतं पुत्रं रुरोद भृशमातुरा ॥ 24॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,24,8741,सम्प्राप्तोऽहं महाभाग ज्ञात्वा तां दुःखितां सतीम् । आश्वासिता मयात्यर्थं भीष्मेण च महात्मना ॥ 25॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,25,8742,विचित्रवीर्यस्त्वपरो वीर्यवान्पृथिवीपतिः । कृतो भीष्मेण भ्राता वै स्त्रीराज्यविमुखेन ह ॥ 26॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,26,8743,काशिराजसुते रम्ये विजित्य पृथिवीपतीन् । भीष्मेणानीय स्वबलात्कन्यके द्वे समर्पिते ॥ 27॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,27,8744,सत्यवत्यै शुभे काले विवाहः परिकल्पितः । भ्रातुर्विचित्रवीर्यस्य तदाहं सुखितोऽभवम् ॥ 28॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,28,8745,पुनः सोऽपि मृतो भ्राता यक्ष्मणा पीडितो भृशम् । अनपत्यो युवा धन्वी माता मे दुःखिताभवत् ॥ 29॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,29,8746,काशिराजसुते द्वे तु मृतं दृष्ट्वा पतिं तदा । पतिव्रताधर्मपरे भगिन्यौ सम्बभूवतुः ॥ 30॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,30,8747,ते ऊचतुः सतीं श्वश्रूं रुदतीं भृशदुःखिताम् । पतिना सहगामिन्यौ भविष्यावो हुताशने ॥ 31॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,31,8748,पुत्रेण सह ते श्वश्रु स्वर्गे गत्वाथ नन्दने । सुखेन विहरिष्यावः पतिना सह संयुते ॥ 32॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,32,8749,निवारिते तदा मात्रा वध्वौ तस्मान्महोद्यमात् । स्नेहभावं समाश्रित्य भीष्मस्य वचनात्तदा ॥ 33॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,33,8750,गाङ्गेयेन च मात्रा मे सम्मन्त्र्य च परस्परम् । कृत्वौर्ध्वदैहिकं सर्वं संस्मृतोऽहं गजाह्वये ॥ 34॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,34,8751,स्मृतमात्रस्तु मात्रा वै ज्ञात्वा भावं मनोगतम् । तरसैवागतश्चाहं नगरं नागसाह्वयम् ॥ 35॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,35,8752,प्रणम्य मातरं मूर्ध्ना संस्थितोऽथ कृताञ्जलिः । तामब्रवं सुतप्ताङ्गीं पुत्रशोकेन कर्शिताम् ॥ 36॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,36,8753,मातस्त्वया किमाहूतो मनसाहं तपस्विनि । आज्ञापय महत्कार्ये दासोऽस्मि करवाणि किम् ॥ 37॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,37,8754,त्वं मे तीर्थं परं मातर्देवश्च प्रथितः परः । आगतश्चिन्तितश्चात्र ब्रूहि कृत्यं तव प्रियम् ॥ 38॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,38,8755,व्यास उवाच । इत्युक्त्वाहं स्थितस्तत्र मातुरग्रे यदा मुने । तदा सा मामुवाचेदं पश्यन्ती भीष्ममन्तिके ॥ 39॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,39,8756,पुत्र तेऽद्य मृतो भ्राता पीडितो राजयक्ष्मणा । तेनाहं दुःखिता जाता वंशच्छेदभयादिह ॥ 40॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,40,8757,तस्मात्त्वमद्य मेधाविन् मयाहूतः समाधिना । गाङ्गेयस्य मतेनात्र पाराशर्यार्थसिद्धये ॥ 41॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,41,8758,कुलं स्थापय नष्टं त्वं शन्तनोर्नामकारणात् । रक्ष मां दुःखतः कृष्ण वंशच्छेदोद्भवाद्द्रुतम् ॥ 42॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,42,8759,काशिराजसुते भार्ये भ्रातुस्तव यवीयसः । साधोर्विचित्रवीर्यस्य रूपयौवनभूषिते ॥ 43॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,43,8760,ताभ्यां सङ्गम्य मेधाविन् पुत्रोत्पादनकं कुरु । रक्षस्व भारतं वंशं नात्र दोषोऽस्ति कर्हिचित् ॥ 44॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,44,8761,व्यास उवाच । इति मातुर्वचः श्रुत्वा जातश्चिन्तातुरो ह्यहम् । लज्जयाऽऽकुलचित्तस्तामब्रवं विनयानतः ॥ 45॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,45,8762,मातः पापाधिकं कर्म परदाराभिमर्शनम् । ज्ञात्वा धर्मपथं सम्यक्करोमि कथमादरात् ॥ 46॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,46,8763,तथा यवीयसो भ्रातुर्वधूः कन्या प्रकीर्तिता । व्यभिचारं कथं कुर्यामधीत्य निगमानहम् ॥ 47॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,47,8764,अन्यायेन न कर्तव्यं सर्वथा कुलरक्षणम् । न तरन्ति हि संसारात्पितरः पापकारिणः ॥ 48॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,48,8765,लोकानामुपदेष्टा यः पुराणानां प्रवर्तकः । स कथं कुत्सितं कर्म ज्ञात्वा कुर्यान्महाद्भुतम् ॥ 49॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,49,8766,पुनरुक्तो ह्यहं मात्रा रुदत्या भृशमन्तिके । पुत्रशोकातितप्ता या वंशरक्षणकाम्यया ॥ 50॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,50,8767,पाराशर्य न ते दोषो वचनान्मम पुत्रक । गुरूणां वचनं तथ्यं सदोषमपि मानवैः ॥ 51॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,51,8768,कर्तव्यमविचार्यैव शिष्टाचारप्रमाणतः । वचनं कुरु मे पुत्र न ते दोषोऽस्ति मानद ॥ 52॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,52,8769,पुत्रस्य जननं कृत्वा सुखिनी कुरु मातरम् । विशेषेण तु सन्तप्तां मग्नां शोकार्णवे सुत ॥ 53॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,53,8770,इति तां ब्रुवतीं श्रुत्वा तदा सुरनदीसुतः । मामुवाच विशेषज्ञः सूक्ष्मधर्मस्य निर्णये ॥ 54॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,54,8771,द्वैपायन विचारोऽत्र न कर्तव्यस्त्वयानघ । मातुर्वचनमादाय विहरस्व यथासुखम् ॥ 55॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,55,8772,व्यास उवाच । इति तस्य वचः श्रुत्वा मातुश्च प्रार्थनं तथा । निःशङ्कोऽहं तदा जातः कार्ये तस्मिञ्जुगुप्सिते ॥ 56॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,56,8773,अम्बिकायां प्रवृत्तोऽहमृतुमत्यां मुदा निशि । मयि विमनसायां तु तापसे कुत्सिते भृशम् ॥ 57॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,57,8774,शप्ता मया सा सुश्रोणी प्रसङ्गे प्रथमे तदा । अन्धस्ते भविता पुत्रो यतो नेत्रे निमीलिते ॥ 58॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,58,8775,द्वितीयेऽह्नि मुनिश्रेष्ठ पृष्टो मात्रा रहः पुनः । भविष्यति सुतः पुत्र काशिराजसुतोदरे ॥ 59॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,59,8776,मयोक्ता जननी तत्र व्रीडानम्रमुखेन ह । विनेत्रो भविता पुत्रो मातः शापान्ममैव हि ॥ 60॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,60,8777,तया निर्भर्त्सितस्तत्र कठोरवचसा मुने । कथं पुत्र त्वया शप्ता पुत्रस्तेऽन्धो भविष्यति ॥ 61॥ 6,६.२४,चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।,61,8778,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे अम्बिकायां नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनं नाम चतुर्विंशोऽध्यायः ॥ ६.२४॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,0,8779,व्यास उवाच । वासवी चकिता जाता श्रुत्वा मे वाक्यमीदृशम् । दाशेयी मामुवाचेदं पुत्रार्थे भृशमातुरा ॥ 1॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,1,8780,अम्बालिका वधूर्धन्या काशिराजसुता सुत । भार्या विचित्रवीर्यस्य विधवा शोकसंयुता ॥ 2॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,2,8781,सर्वलक्षणसम्पन्ना रूपयौवनशालिनी । तस्यां जनय सङ्गं त्वं कृत्वा पुत्रं सुसम्मतम् ॥ 3॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,3,8782,नान्धो राजाधिकारी स्यात्तस्मात्पुत्र मनोहरम् । उत्पादय राजपुत्र्यां वचनान्मम मानद ॥ 4॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,4,8783,इत्युक्तोऽहं तदा मात्रा स्थितस्तत्र गजाह्वये । यावदृतुमती जाता काशिराजसुता मुने ॥ 5॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,5,8784,एकान्ते शयनागारे प्राप्ता सा मम सन्निधौ । लज्जमाना सुकेशान्ता स्वश्वश्रूवचनात्तदा ॥ 6॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,6,8785,दृष्ट्वा मां जटिलं दान्तं तापसं रसवर्जितम् । सा स्वेदवदना जाता पाण्डुरा विमना भृशम् ॥ 7॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,7,8786,कुपितोऽहं तदा दृष्ट्वा कामिनीं निशि सङ्गताम् । वेपमानां स्थितां पार्श्वे ह्यब्रवं तामहं रुषा ॥ 8॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,8,8787,दृष्ट्वा मां यदि गर्वेण पाण्डुवर्णा समावृता । अतस्ते तनयः पाण्डुर्भविष्यति सुमध्यमे ॥ 9॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,9,8788,इत्युक्त्वा निशि तत्रैव स्थितोऽम्बालिकया युतः । भुक्त्वा तां निशि निर्यातः स्थानमापृच्छ्य मातरम् ॥ 10॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,10,8789,ततस्ताभ्यां सुतौ काले प्रसूतावन्धपाण्डुरौ । धृतराष्ट्रश्च पाण्डुश्च प्रथितौ सम्बभूवतुः ॥ 11॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,11,8790,माता मे विमना जाता तादृशौ वीक्ष्य तौ सुतौ । ततः संवत्सरस्यान्ते मामाहूय तदाब्रवीत् ॥ 12॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,12,8791,द्वैपायन सुतौ जातौ राज्ययोग्यौ न तादृशौ । अन्यं मनोहरं पुत्रं समुत्पादय मे प्रियम् ॥ 13॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,13,8792,तथेति सा मया प्रोक्ता मुदिता जननी तदा । अम्बिकां प्रार्थयामास सुतार्थे काल आगते ॥ 14॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,14,8793,पुत्रि व्यासं समालिङ्ग्य पुत्रमुत्पादयाद्भुतम् । कुरुवंशस्य कर्तारं राज्ययोग्यं वरानने ॥ 15॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,15,8794,वधूर्लज्जान्विता किञ्चिन्नोवाच वचनं तदा । गतोऽहं शयनागारे मातुस्तद्वचनान्निशि ॥ 16॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,16,8795,दासी विचित्रवीर्यस्य रूपयौवनसंयुता । प्रेषिताम्बिकया त्वत्र विचित्राभरणाम्बरा ॥ 17॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,17,8796,चन्दनारक्तदेहा सा पुष्पमालाविभूषिता । आयाता हावसंयुक्ता सुकेशी हंसगामिनी ॥ 18॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,18,8797,पर्यङ्के मां समावेश्य संस्थिता प्रेमसंयुता । प्रसन्नोऽहं तदा तस्या विलासेनाभवं मुने ॥ 19॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,19,8798,रात्रौ सङ्क्रीडितं प्रेम्णा तया सह मया भृशम् । वरो दत्तः पुनस्तस्यै प्रसन्नेन तु नारद ॥ 20॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,20,8799,सुभगे भविता पुत्रः सर्वलक्षणसंयुतः । सुरूपः सर्वधर्मज्ञः सत्यवादी शमे रतः ॥ 21॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,21,8800,स तदा विदुरो जातस्त्रयः पुत्रा मयाभवन् । माया वृद्धिं गता साधो परक्षेत्रोद्भवे मम ॥ 22॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,22,8801,विस्मृतः शुकसम्बन्धी विरहः शोककारणम् । दृष्ट्वा त्रीन्स्वसुतान्कामं बलिनो वीर्यसम्मतान् ॥ 23॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,23,8802,माया बलवती ब्रह्मन् दुस्त्यजा ह्यकृतात्मभिः । अरूपा च निरालम्बा ज्ञानिनामपि मोहिनी ॥ 24॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,24,8803,मातरि स्नेहसम्बद्धं तथा पुत्रेषु संवृतम् । न मे चित्तं वने शान्तिमगान्मुनिवरोत्तम ॥ 25॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,25,8804,दोलारूढं मनो जातं कदाचिद्धस्तिनापुरे । पुनः सरस्वतीतीरे न चैकत्र व्यवस्थितिः ॥ 26॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,26,8805,कदाचिच्चिन्तयन् ज्ञानं मानसे प्रतिभाति वै । केऽमी पुत्राः क्व मोहोऽयं न श्राद्धार्हा मृतस्य मे ॥ 27॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,27,8806,व्यभिचारोद्भवाः किं मे सुखदाः स्युः सुताः किल । माया बलवती मोहं वितनोति हि मानसे ॥ 28॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,28,8807,जानन्मोहान्धकूपेऽस्मिन्पतितोऽहं मृषा मुने । इत्यकुर्वं रहस्तापं कदाचित्स्सुसमाहितः ॥ 29॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,29,8808,राज्यं प्राप ततः पाण्डुर्बलवान्भीष्मसम्मतः । तदा मम मनो जातं प्रसन्नं सुतकारणात् ॥ 30॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,30,8809,कुन्ती माद्री सुरूपे द्वे भार्ये तस्य बभूवतुः । शूरसेनसुता कुन्ती मद्रराजसुतापरा ॥ 31॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,31,8810,स शापं द्विजतः प्राप्य कामिनीद्वयसंयुतः । पाण्डुर्निर्वेदमापन्नस्त्यक्त्वा राज्यं वनं गतः ॥ 32॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,32,8811,तदा मामाविशच्छोकः श्रुत्वा पुत्रं वने स्थितम् । गतोऽहं तत्र यत्रासौ भार्याभ्यां सह संस्थितः ॥ 33॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,33,8812,तमाश्वास्य वने पाण्डुं पुनः प्राप्तो गजाह्वये । धृतराष्ट्रं समाभाष्य ह्यगमं ब्रह्मजातटे ॥ 34॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,34,8813,क्षेत्रजान्पञ्चपुत्रान्स समुत्पाद्य वनाश्रमे । धर्मतो वायुतः शक्रादश्विभ्यां पञ्च पाण्डवान् ॥ 35॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,35,8814,युधिष्ठिरो भीमसेनस्तथैवार्जुन इत्यपि । कुन्तीपुत्राः समाख्याता धर्मानिलसुरेशजाः ॥ 36॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,36,8815,नकुलः सहदेवश्च मद्रराजसुतासुतौ । कदाचित्तु रहो माद्रीं समालिङ्ग्य महीपतिः ॥ 37॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,37,8816,मृतः शापात्तु मुनिभिः संस्कृतो हुतभुङ्मुखे । माद्री तत्र सती भूत्वा प्रविष्टा पतिना सह ॥ 38॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,38,8817,स्थिता पुत्रयुता कुन्ती ज्वलिते जातवेदसि । मुनयः सुतसंयुक्तां शूरसेनसुतां तदा ॥ 39॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,39,8818,दुःखितां पतिहीनां तामानिन्युर्गजसाह्वये । समर्पिताथ भीष्माय विदुराय महात्मने ॥ 40॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,40,8819,श्रुत्वाहं सुखदुःखाभ्यां पीडितस्तु परात्मभिः । भीष्मेण पालिताः पुत्राः पाण्डोरिति विचिन्त्य ते ॥ 41॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,41,8820,विदुरेण तथा प्रीत्या धृतराष्ट्रेण धीमता । दुर्योधनादयस्तस्य पुत्रा ये क्रूरमानसाः ॥ 42॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,42,8821,एकत्र स्थितिमापन्ना विरोधं चकुरद्भुतम् । द्रोणाचार्यस्तु सम्माप्तस्तत्र भीष्मेण मानितः ॥ 43॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,43,8822,अध्यापनाय पुत्राणां पुरे तस्मिन्निवासितः । कर्णः कुन्त्या परित्यक्तो जातमात्रः शिशुर्यदा ॥ 44॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,44,8823,सूतेन पालितो नद्यां प्रान्तश्चाधिरथेन ह । दुर्योधनप्रियश्चाभूत्कर्णः शूरतमस्तथा ॥ 45॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,45,8824,परस्परं विरोधोऽभूद्भीमदुर्योधनादिषु । धृतराष्ट्रस्तु सञ्चिन्त्य क्लेशं पुत्रेषु तेषु च ॥ 46॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,46,8825,निवासं कल्पयामास पाण्डवानां महात्मनाम् । विरोधशमनायैव नगरे वारणावते ॥ 47॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,47,8826,दुर्योधनेन तत्रैव द्रोहाज्जतुगृहाणि वै । कारितानि च दिव्यानि प्रेष्य मित्रं पुरोचनम् ॥ 48॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,48,8827,श्रुत्वा जतुगृहे दग्धान्पाण्डवान्पृथया युतान् । पौत्रभावान्मुनिश्रेष्ठ मग्नोऽहं व्यसनार्णवे ॥ 49॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,49,8828,शोकातुरो भृशं शून्ये वने पश्यन्नहर्निशम् । दृष्टा मयैकचक्रायां पाण्डवा दुःखकर्शिताः ॥ 50॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,50,8829,ततस्तुष्टमनाश्चाहं जातः पार्थान्विलोक्य च । प्रेरितास्ते मया तूर्णं द्रुपदस्य पुरं प्रति ॥ 51॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,51,8830,ते गतास्तत्र दुःखार्ता विप्रवेषधराः कृशाः । मृगचर्मपरीधानाः सभायां संस्थितास्तदा ॥ 52॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,52,8831,कृत्वा पराक्रमं जिष्णुः स जित्वा द्रुपदात्मजाम् । चक्रुर्विवाहं मानिन्या पञ्चैव मातृवाक्यतः ॥ 53॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,53,8832,दृष्ट्वा विवाहं तेषां तु मुदितोऽहं भृशं तदा । ततो नागाह्वये प्राप्ताः पाञ्चालीसहिता मुने ॥ 54॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,54,8833,निवासं खाण्डवप्रस्थं धृतराष्ट्रेण कल्पितम् । पाण्डवानां द्विजश्रेष्ठ वसुदेवसुतेन वै ॥ 55॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,55,8834,तर्पितः पावकस्तत्र विष्णुना सह जिष्णुना । राजसूयः कृतो यज्ञस्तदाहं मुदितोऽभवम् ॥ 56॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,56,8835,दृष्ट्वाथ विभवं तेषां तथा मयकृतां सभाम् । दुर्योधनोऽतिसन्तप्तो दुरोदरमथाकरोत् ॥ 57॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,57,8836,दुर्द्यूतवेदी शकुनिरनक्षज्ञश्च धर्मजः । हृतं राज्यं धनं सर्वं याज्ञसेनी च क्लेशिता ॥ 58॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,58,8837,वने द्वादश वर्षाणि पाण्डवास्ते विवासिताः । पाञ्चालीसहितास्तेन दुःखं मे जनितं भृशम् ॥ 59॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,59,8838,एवं नारद संसारे सुखदुःखात्मके भृशम् । निमग्नोऽहं भ्रमेणैव जानन् धर्मं सनातनम् ॥ 60॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,60,8839,कोऽहं कस्य सुतास्तेऽमी का माता किं सुखं पुनः । येन मे हृदयं मोहाद्भ्रमतीति दिवानिशम् ॥ 61॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,61,8840,किं करोमि क्व गच्छामि सन्तोषो नाधिगच्छति । दोलारूढं मनो मेऽत्र चञ्चलं न स्थिरं भवेत् ॥ 62॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,62,8841,सर्वज्ञोऽसि मुनिश्रेष्ठ सन्देहं मे निवर्तय । तथा कुरु यथाहं स्यां सुखितो विगतज्वरः ॥ 63॥ 6,६.२५,पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।,63,8842,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे व्यासस्वकीयमोहवर्णनं नाम पञ्चविंशोऽध्यायः ॥ ६.२५॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,0,8843,व्यास उवाच । इति मे वचनं श्रुत्वा नारदः परमार्थवित् । मामाह च स्मितं कृत्वा पृच्छन्तं मोहकारणम् ॥ 1॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,1,8844,नारद उवाच । पाराशर्य पुराणज्ञ किं पृच्छसि सुनिश्चयम् । संसारेऽस्मिन्विना मोहं कोऽपि नास्ति शरीरवान् ॥ 2॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,2,8845,ब्रह्माविष्णुस्तथा रुद्रः सनकः कपिलस्तथा । मायया वेष्टिताः सर्वे भ्रमन्ति भववर्त्मनि ॥ 3॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,3,8846,ज्ञानिनं मां जनो वेत्ति भ्रान्तोऽहं सर्वलोकवत् । श‍ृणु मे पूर्ववृत्तान्तं प्रब्रवीमि सुनिश्चितम् ॥ 4॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,4,8847,दुःखं मया यथा पूर्वमनुभूतं महत्तरम् । स्वकृतेन च मोहेन भार्यार्थे वासवीसुत ॥ 5॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,5,8848,एकदा पर्वतश्चाहं देवलोकान्महीतलम् । प्राप्तो विलोकनार्थाय भारतं खण्डमुत्तमम् ॥ 6॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,6,8849,भ्रमन्तौ सहितावुर्व्यां पश्यन्तौ तीर्थमण्डलम् । पावनानि च स्थानानि मुनीनामाश्रमाञ्छुभान् ॥ 7॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,7,8850,शपथं देवलोकात्तु कृत्वा पूर्वं परस्परम् । चलितौ समयं चेमं सम्मन्त्र्य निश्चयेन वै ॥ 8॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,8,8851,चित्तवृत्तिस्तु वक्तव्या यादृशी यस्य जायते । शुभा वाप्यशुभा वापि न गोप्तव्या कदाचन ॥ 9॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,9,8852,भोजनेच्छा धनेच्छापि रतीच्छा वा भवेदपि । यादृशी यस्य चित्ते तु कथनीया परस्परम् ॥ 10॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,10,8853,इत्यावां समयं कृत्वा स्वर्गाद्भूलोकमागतौ । एकचित्तौ मुनीभूतौ विचरन्तौ यथेच्छया ॥ 11॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,11,8854,एवं भ्रमन्तौ लोकेऽस्मिन्ग्रीष्मान्ते समुपागते । सञ्जयस्य पुरं रम्यं सम्प्राप्तौ नृपते पुनः ॥ 12॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,12,8855,तेन सम्पूजितौ भक्त्या राज्ञा सम्मानितौ भृशम् । स्थितौ तत्र गृहे तस्य चातुर्मास्यं महात्मनः ॥ 13॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,13,8856,वार्षिकाश्चतुरो मासा दुर्गमाः पथि सर्वदा । तस्मादेकत्र विबुधैः स्थातव्यमिति निश्चयः ॥ 14॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,14,8857,अष्टौ मासांस्तु प्रवसेत्सदा कार्यवशाद्द्विजः । वर्षाकाले न गन्तव्यं प्रवासे सुखमिच्छता ॥ 15॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,15,8858,इति सञ्चिन्त्य मनसा सञ्जयस्य गृहे तदा । संस्थितौ मानितौ राज्ञा कृतातिथ्यौ महात्मना ॥ 16॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,16,8859,दमयन्तीति विख्याता तस्य पुत्री महीपतेः । आज्ञप्ता परिचर्यार्थं सुदती सुन्दरी भृशम् ॥ 17॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,17,8860,विवेकज्ञा विशालाक्षी राजपुत्री कृतोद्यमा । सेवनं सर्वकाले च व्यदधादुभयोरपि ॥ 18॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,18,8861,स्नानार्थमुदकं काले भोजनं मृष्टमायतम् । मुखवासं तथा चान्यं यदिष्टं तद्ददाति सा ॥ 19॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,19,8862,मनोऽभिलषितान्कामानुभयोरपि कन्यका । व्यजनासनशय्यादीन्वाञ्छितानप्यकल्पयत् ॥ 20॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,20,8863,एवं संसेव्यमानौ तु स्थितौ राज्ञो गृहे किल । वेदाध्ययनसंशीलावावां वेदव्रते रतौ ॥ 21॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,21,8864,अहं वीणां करे कृत्वा साधयित्वा स्वरोत्तमम् । गायत्रं साम सुस्वादमगां कर्णरसायनम् ॥ 22॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,22,8865,राजपुत्री तु तच्छ्रुत्वा सामगानं मनोहरम् । बभूव मयि रागाढ्या प्रीतियुक्ता विशारदा ॥ 23॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,23,8866,दिने दिनेऽनुरागोऽस्या मयि वृद्धिं गतः परः । ममापि प्रीतियुक्तायां मनो जातं स्पृहापरम् ॥ 24॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,24,8867,मम तस्य च सा कन्या भोजनादिषु कर्हिचित् । अकरोदन्तरं किञ्चित्सेवाभेदं रसान्विता ॥ 25॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,25,8868,स्नानायोष्णजलं मह्यं पर्वताय च शीतलम् । दधि मह्यं तथा तक्रं पर्वतायाप्यकल्पयत् ॥ 26॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,26,8869,शयनास्तरणं शुभ्रं मदर्थे पर्यकल्पयत् । प्रीत्या परमया यद्वत्पर्वताय न तादृशम् ॥ 27॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,27,8870,विलोकयति मां प्रेम्णा सुन्दरी न च पर्वतम् । ततोऽस्यास्तादृशं दृष्ट्वा पर्वतः प्रेमकारणम् ॥ 28॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,28,8871,मनसा चिन्तयामास किमेतदिति विस्मितः । पप्रच्छ मां रहः सम्यग्ब्रूहि नारद सर्वथा ॥ 29॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,29,8872,राजपुत्री त्वयि प्रेम करोति मुदिता भृशम् । ददाति भक्ष्यभोज्यानि स्नेहयुक्ता समन्ततः ॥ 30॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,30,8873,न तथा मयि भेदोऽत्र सन्देहं जनयत्यसौ । मन्यते त्वां पतिं कर्तुं सर्वथा सञ्जयात्मजा ॥ 31॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,31,8874,तवापि तादृशं भावं जानामि लक्षणैरहम् । नेत्रवक्त्रविकारैश्च ज्ञायते प्रीतिकारणम् ॥ 32॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,32,8875,सत्यं वद न ते मिथ्या वक्तव्यं वचनं मुने । स्वर्गतः समयं कृत्वा चलितौ संस्मराधुना ॥ 33॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,33,8876,नारद उवाच । पृष्टोऽहं पर्वतेनेदं कारणं तु हठाद्यदा । तदाहं ह्रीसमाक्रान्तः सञ्जातश्चाब्रुवं पुनः ॥ 34॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,34,8877,पर्वतैषा विशालाक्षी पतिं मां कर्तुमुद्यता । ममापि मानसो भावो वर्ततेऽस्यां विशेषतः ॥ 35॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,35,8878,तच्छ्रुत्वा वचनं सत्यं पर्वतः कोपसंयुतः । मामुवाच मुनिर्वाक्यं धिग्धिगिति पुनः पुनः ॥ 36॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,36,8879,प्रथमं शपथान्कृत्वा वञ्चितोऽहं त्वया यतः । भव वानरवक्त्रस्त्वं शापाच्च मम मित्रधुक् ॥ 37॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,37,8880,इति शप्तस्तु तेनाहं कुपितेन महात्मना । सहसा ह्यभवं क्रूरः शाखामृगमुखस्तदा ॥ 38॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,38,8881,मयापि न कृता तस्मिन्क्षमा तु भगिनीसुते । सोऽपि शप्तोऽतिकोपाद्वै मा स्वर्गे ते गतिः किल ॥ 39॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,39,8882,स्वल्पेऽपराधे यस्मान्मां शप्तवानसि पर्वत । तस्मात्तवापि मन्दात्मन् मृत्युलोके स्थितिः किल ॥ 40॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,40,8883,पर्वतस्तु गतस्तस्मान्नगराद्विमना भृशम् । अहं वानरवक्त्रस्तु सञ्जातस्तत्क्षणादपि ॥ 41॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,41,8884,दृष्ट्वा मां वानरं क्रूरं राजपुत्री विलक्षणा । विमनातीव सञ्जाता वीणाश्रवणलालसा ॥ 42॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,42,8885,व्यास उवाच । ततः किमभवद्ब्रह्मन् कथं शापान्निवर्तितः । मानुषास्यः पुनर्जातो भवान्ब्रूहि यथाविधि ॥ 43॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,43,8886,पर्वतः क्व गतो भूयः सङ्गमो युवयोरभूत् । कदा कुत्र कथं सर्वं विस्तरेण वदस्व ह ॥ 44॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,44,8887,नारद उवाच । किं ब्रवीमि महाभाग मायायाश्चरितं महत् । दुःखितोऽहं भृशं तत्र पर्वते रुषिते गते ॥ 45॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,45,8888,पुनः सेवापरात्यर्थं राजपुत्री ममाभवत् । गतेऽथ पर्वते कामं स्थितस्तत्रैव सद्मनि ॥ 46॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,46,8889,अहं दुःखान्वितो दीनस्तथा वानरवन्मुखः । विशेषेण तु चिन्तार्तः किं मे स्यादिति चिन्तयन् ॥ 47॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,47,8890,सञ्जयोऽथ सुतां दृष्ट्वा किञ्चित्प्रकटयौवनाम् । विवाहार्थे राजसुतामपृच्छत्सचिवं तदा ॥ 48॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,48,8891,विवाहकालः सम्प्राप्तः सुताया मम साम्प्रतम् । योग्यं वरं मम ब्रूहि राजपुत्रं सुसम्मतम् ॥ 49॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,49,8892,रूपौदार्यगुणैर्युक्तं शूरं सुकुलसम्भवम् । विवाहं विधिवत्पुत्र्याः करोमि किल साम्प्रतम् ॥ 50॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,50,8893,प्रधानस्त्वब्रवीद्राजन् राजपुत्रा ह्यनेकशः । वर्तन्ते भुवि पुत्र्यास्ते योग्याः सर्वगुणान्विताः ॥ 51॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,51,8894,यस्मिन् रुचिस्ते राजेन्द्र तमाहूय नृपात्मजम् । देहि कन्यां धनं भूरि हस्त्यश्वरथसंयुतम् ॥ 52॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,52,8895,नारद उवाच । पितुश्चिकीर्षितं ज्ञात्वा दमयन्ती तदा नृपम् । धात्र्या मुखेन वाक्यज्ञा तमुवाच रहः स्थितम् ॥ 53॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,53,8896,धात्र्युवाच । दमयन्ती महाराज पुत्री ते मामथाब्रवीत् । पितरं ब्रूहि धात्रेयि वचनान्मे सुखान्वितम् ॥ 54॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,54,8897,मया वृतोऽथ मेधावी नारदो महतीयुतः । नादमोहितया कामं नान्यः कोऽपि प्रियो मम ॥ 55॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,55,8898,कुरु मे वाञ्छितं तात विवाहं मुनिना सह । नान्यं वरिष्ये धर्मज्ञ नारदं तु पतिं विना ॥ 56॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,56,8899,मग्नाहं नादसिन्धौ वै नक्रहीने रसात्मके । अक्षारे सुखसम्पूर्णे तिमिङ्गिलविवर्जिते ॥ 57॥ 6,६.२६,षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।,57,8900,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे दमयन्तीविवाहप्रस्ताववर्णनं नाम षड्विंशोऽध्यायः ॥ ६.२६॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,0,8901,नारद उवाच । तत्पुत्र्या वचनं श्रुत्वा राजा धात्रीमुखात्ततः । भार्यां प्रोवाच कैकेयीं समीपस्थां सुलोचनाम् ॥ 1॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,1,8902,राजोवाच । यदुक्तं वचनं कान्ते धात्र्या तत्तु त्वया श्रुतम् । वृतोऽयं नारदः कामं मुनिर्वानरवक्त्रभाक् ॥ 2॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,2,8903,किमिदं चिन्तितं पुत्र्या बुद्धिहीनं विचेष्टितम् । कथमस्मै मया देया कन्या हरिमुखाय सा ॥ 3॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,3,8904,क्वासौ भिक्षुः कुरूपः क्व दमयन्ती ममात्मजा । विपरीतमिदं कार्यं न विधेयं कदाचन ॥ 4॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,4,8905,तामेकान्ते सुकेशान्ते निवारय हठात्सुताम् । युक्त्या मुनिरतां मुग्धां शास्त्रवृद्धानुसारया ॥ 5॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,5,8906,इति भर्तृवचः श्रुत्वा जननी तामथाब्रवीत् । च ते रूपं मुनिः क्वासौ वानरास्योऽधनः पुनः ॥ 6॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,6,8907,कथं मोहमवाप्तासि भिक्षुके चतुरा पुनः । लताकोमलदेहा त्वं भस्मरूक्षतनुस्त्वयम् ॥ 7॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,7,8908,वार्ता वानरवक्त्रेण कथं युक्ता तवानघे । का प्रीतिः कुत्सिते पुंसि भविष्यति शुचिस्मिते ॥ 8॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,8,8909,वरस्ते राजपुत्रोऽस्तु मा कुरु त्वं वृथा हठम् । पिता ते दुःखमाप्नोति श्रुत्वा धात्रीमुखाद्वचः ॥ 9॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,9,8910,लग्नां बुबूलवृक्षेण कोमलां मालतीलताम् । दृष्ट्वा कस्य मनः खेदं चतुरस्य न गच्छति ॥ 10॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,10,8911,दासेरकाय ताम्बूलीदलानि कोमलानि कः । ददाति भक्षणार्थाय मूर्खोऽपि धरणीतले ॥ 11॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,11,8912,वीक्ष्य त्वां करसंलग्नां नारदस्य समीपतः । विवाहे वर्तमाने तु कस्य चेतो न दह्यति ॥ 12॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,12,8913,कुमुखेन समं वार्ता न रुचिं जनयत्यतः । आमृतेस्तु कथं कालः क्षपितव्यस्त्वयामुना ॥ 13॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,13,8914,नारद उवाच । इति मातुर्वचः श्रुत्वा दमयन्ती भृशातुरा । मातरं प्राह तन्वङ्गी मयि सा कृतनिश्चया ॥ 14॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,14,8915,किं मुखेन च रूपेण मूर्खस्य च धनेन किम् । किं राज्येनाविदग्धस्य रसमार्गाविदोऽस्य च ॥ 15॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,15,8916,हरिण्योऽपि वने धन्या या नादेन विमोहिताः । मातः प्राणान्प्रयच्छन्ति धिङ्मूर्खान्मानुषान्भुवि ॥ 16॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,16,8917,नारदो वेत्ति यां विद्यां मातः सप्तस्वरात्मिकाम् । तृतीयः कोऽपि नो वेद शिवादन्यः पुमान्किल ॥ 17॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,17,8918,मूर्खेण सह संवासो मरणं तत्क्षणे क्षणे । रूपवान्धनवांस्त्याज्यो गुणहीनो नरः सदा ॥ 18॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,18,8919,धिङ्मैत्रीं मूर्खभूपाले वृथा गर्वसमन्विते । गुणज्ञे भिक्षुके श्रेष्ठा वचनात्सुखदायिनी ॥ 19॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,19,8920,स्वरज्ञो ग्रामवित्कामं मूर्च्छनाज्ञानभेदभाक् । दुर्लभः पुरुषश्चाष्टरसज्ञो दुर्बलोऽपि वै ॥ 20॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,20,8921,यथा नयति कैलासं गङ्गा चैव सरस्वती । तथा नयति कैलासं स्वरज्ञानविशारदः । २१॥ स्वरमानं तु यो वेद स देवो मानुषोऽपि सन् । सप्तभेदं न यो वेद स पशुः सुरराडपि ॥ 22॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,21,8922,मूर्च्छनातानमार्गं तु श्रुत्वा मोदं न याति यः । स पशुः सर्वथा ज्ञेयो हरिणाः पशवो न हि ॥ 23॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,22,8923,वरं विषधरः सर्पः श्रुत्वा नादं मनोहरम् । अश्रोत्रोऽपि मुदं याति धिक्सकर्णांश्च मानवान् ॥ 24॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,23,8924,बालोऽपि सुस्वरं गेयं श्रुत्वा मुदितमानसः । जायते किन्तु ते वृद्धा न जानन्ति धिगस्तु तान् ॥ 25॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,24,8925,पिता मे किं न जानाति नारदस्य गुणान् बत । द्वितीयः सामगो नास्ति त्रिषु लोकेषु तत्समः ॥ 26॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,25,8926,तस्मादसौ मया नूनं वृतः पूर्वं समागमात् । पश्चाच्छापवशाज्जातो वानरास्यो गुणाकरः ॥ 27॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,26,8927,किन्नरा न प्रियाः कस्य भवन्ति तुरगाननाः । गानविद्यासमायुक्ताः किं मुखेन वरेण ह ॥ 28॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,27,8928,पितरं ब्रूहि मे मातर्वृतोऽयं मुनिसत्तमः । तस्मात्त्वमाग्रहं त्यक्त्वा देहि तस्मै च मां मुदा ॥ 29॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,28,8929,नारद उवाच । इति पुत्र्या वचः श्रुत्वा राज्ञी राज्ञे न्यवेदयत् । आग्रहं सुन्दरी ज्ञात्वा सुताया नारदे मुनौ ॥ 30॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,29,8930,विवाहं कुरु राजेन्द्र दमयन्त्याः शुभे दिने । मुनिना स च सर्वज्ञो वृतोऽसौ मनसानया ॥ 31॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,30,8931,नारद उवाच । इति सञ्चोदितो राज्ञ्या सञ्जयः पृथिवीपतिः । चकार विथिवत्सर्वं विधिं वैवाहिकं ततः ॥ 32॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,31,8932,एवं दारग्रहं कृत्वा वानरास्यः परन्तप । स्थितस्तत्रैव मनसा दह्यमानेन चान्वहम् ॥ 33॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,32,8933,यदाऽऽगच्छद्राजसुता सेवार्थं मम सन्निधौ । अभवं दुःखसन्तप्तस्तदाहं वानराननः ॥ 34॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,33,8934,दमयन्ती तु मां वीक्ष्य प्रफुल्लवदनाम्बुजा । शोकं वानरवक्त्रत्वान्न चकार कदाचन ॥ 35॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,34,8935,एवं गच्छति काले तु सहसा पर्वतो मुनिः । कुर्वंस्तीर्थान्यनेकानि द्रष्टुं मां समुपागतः ॥ 36॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,35,8936,मयातिमानितः प्रेम्णा पूजितश्च यथाविधि । आसीन आसने दिव्ये वीक्ष्य मां दुःखितो ह्यभूत् ॥ 37॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,36,8937,कृतदारं वानरास्यं दीनं चिन्तातुरं भृशम् । दयावान्मामुवाचेदं पर्वतो मातुलं कृशम् ॥ 38॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,37,8938,मया नारद कोपात्त्वं शप्तोऽसि मुनिसत्तम । निष्कृतिं तस्य शापस्य करोम्यद्य निशामय ॥ 39॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,38,8939,भव त्वं चारुवदनो मम पुण्येन नारद । दृष्ट्वा राजसुतां चित्ते कृपा जाता ममाधुना ॥ 40॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,39,8940,नारद उवाच । मयापि प्रवणं चित्तं कृत्वा श्रुत्वास्य भाषितम् । अनुग्रहः कृतः सद्यस्तस्य शापस्य तत्क्षणात् ॥ 41॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,40,8941,भागिनेय तवाप्यस्तु गमनं सुरसद्मनि । शापस्यानुग्रहः कामं कृतोऽयं पर्वताधुना ॥ 42॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,41,8942,नारद उवाच । जातोऽहं चारुवदनो वचनात्तस्य पश्यतः । राजपुत्री तु सन्तुष्टा मातरं प्राह सत्वरम् ॥ 43॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,42,8943,मातस्ते सुमुखो जातो जामाता च महाद्युतिः । वचनात्पर्वतस्याद्य मुक्तशापो मुनेरभूत् ॥ 44॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,43,8944,तच्छ्रुत्वा वचनं राज्ञ्या कथितं तत्तु राजनि । ययौ द्रष्टुं मुनिं तत्र सञ्जयः प्रीतिमांस्तदा ॥ 45॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,44,8945,धनं समर्पितं राज्ञा सन्तुष्टेन तदा महत् । मह्यं च भागिनेयाय पारिबर्हं महात्मना ॥ 46॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,45,8946,एतत्ते सर्वमाख्यातं वर्तनं यत्पुरातनम् । मायाया बलमाहात्म्यं ह्यनुभूतं यथा मया ॥ 47॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,46,8947,संसारेऽस्मिन्महाभाग मायागुणकृतेऽनृते । तनुभृत्तु सुखी नास्ति न भूतो न भविष्यति ॥ 48॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,47,8948,कामक्रोधौ तथा लोभो मत्सरो ममता तथा । अहङ्कारो मदः केन जिताः सर्वे महाबलाः ॥ 49॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,48,8949,सत्त्वं रजस्तमश्चैव गुणास्त्रय इमे किल । कारणं प्राणिनां देहसम्भवे सर्वथा मुने ॥ 50॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,49,8950,कस्मिंश्चित्समये व्यास वनेऽहं विष्णुना सह । गच्छन्हास्यविनोदेन स्त्रीभावं गमितः क्षणात् ॥ 51॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,50,8951,राजपत्नीत्वमापन्नो मायाबलविमोहितः । पुत्राः प्रसूता बहवो गेहे तस्य नृपस्य ह ॥ 52॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,51,8952,व्यास उवाच । संशयोऽयं महान्साधो श्रुत्वा ते वचनं किल । कथं नारीत्वमापन्नस्त्वं मुने ज्ञानवान्भृशम् ॥ 53॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,52,8953,कथं च पुरुषो जातो ब्रूहि सर्वमशेषतः । कथं पुत्रास्त्वया जाताः कस्य राज्ञो गृहेऽञ्जसा ॥ 54॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,53,8954,एतदाख्याहि चरितं मायाया महदद्भुतम् । मोहितं च यया सर्वमिदं स्थावरजङ्गमम् ॥ 55॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,54,8955,न तृप्तिमधिगच्छामि श‍ृण्वंस्तव कथामृतम् । सर्वग्रन्थार्थतत्त्वं च सर्वसंशयनाशनम् ॥ 56॥ 6,६.२७,सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।,55,8956,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे नारदस्य मायादमयन्त्या सह विवाहवर्णनं नाम सप्तविंशोऽध्यायः ॥ ६.२७॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,0,8957,नारद उवाच । निशामय मुनिश्रेष्ठ गदतो मम सत्कथाम् । मायाबलं सुदुर्ज्ञेयं मुनिभिर्योगवित्तमैः ॥ 1॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,1,8958,मायया मोहितं सर्वं जगत्स्थावरजङ्गमम् । ब्रह्मादिस्तम्बपर्यन्तमजया दुर्विभाव्यया ॥ 2॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,2,8959,कदाचित्सत्यलोकाद्वै श्वेतद्वीपे मनोहरे । गतोऽहं दर्शनाकाङ्क्षी हरेरद्भुतकर्मणः ॥ 3॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,3,8960,वादयन्महतीं वीणां स्वरतानविभूषिताम् । गायत्रं गायमानस्तु साम सप्तस्वरान्वितम् ॥ 4॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,4,8961,दृष्टो मया देवदेवश्चक्रपाणिर्गदाधरः । कौस्तुभोद्भासितोरस्को मेघश्यामश्चतुर्भुजः ॥ 5॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,5,8962,पीताम्बरपरीधानो मुकुटाङ्गदराजितः । लक्ष्म्या सह विलासिन्या क्रीडमानो मुदा युतः ॥ 6॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,6,8963,वीक्ष्य मां कमला देवी गतान्तर्धानमन्तिकात् । सर्वलक्षणसम्पन्ना सर्वभूषणभूषिता ॥ 7॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,7,8964,नारीणां प्रवरा कान्ता रूपयौवनगर्विता । सुप्रिया वासुदेवस्य वरचामीकरप्रभा ॥ 8॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,8,8965,अन्तर्गृहं गता दृष्ट्वा सिन्धुजां व्यञ्जनान्विताम् । मया पृष्टो देवदेवो वनमाली जगत्प्रभुः ॥ 9॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,9,8966,भगवन्देवदेवेश पद्मनाभ सुरारिहन् । कथं च मा गता दृष्ट्वा मामागच्छन्तमन्तिकात् ॥ 10॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,10,8967,नाहं विटो न वा धूर्तः तापसोऽहं जगद्गुरो । जितेन्द्रियो जितक्रोधो जितमायो जनार्दन ॥ 11॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,11,8968,नारद उवाच । निशम्य वचनं किञ्चिद्गर्वयुक्तं जनार्दनः । उवाच मां स्मितं कृत्वा वीणावन्मधुरां गिरम् ॥ 12॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,12,8969,विष्णुरुवाच । नारदैवंविधा नीतिर्न स्थातव्यं कदाचन । पतिं विनान्यसानिध्ये कस्यचिद्योषया क्वचित् ॥ 13॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,13,8970,माया सुदुर्जया विद्वन् योगिभिर्जितमारुतैः । साङ्ख्यविद्भिर्निराहारैस्तापसैश्च जितेन्द्रियैः ॥ 14॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,14,8971,देवैश्च मुनिशार्दूल यत्त्वयोक्तं वचोऽधुना । जितमायोऽस्मि गीतज्ञ नैवं वाच्यं कदाचन ॥ 15॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,15,8972,नाहं शिवो न वा ब्रह्मा जेतुं तां प्रभवोऽप्यजाम् । मुनयः सनकाद्याश्च कस्त्वं केऽन्ये क्षमा जये ॥ 16॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,16,8973,देवदेहं नृदेहं वा तिर्यग्देहमथापि वा । बिभृयाद्यः शरीरं च स कथं तां जयेदजाम् ॥ 17॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,17,8974,त्रियुतस्तां कथं मायां जेतुं शक्तः पुमाम्भवेत् । वेदविद्योगविद्वापि सर्वज्ञो विजितेन्द्रियः ॥ 18॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,18,8975,कालोऽपि तस्या रूपं हि रूपहीनः स्वरूपकृत् । तद्वशे वर्तते देही विद्वान्मूर्खोऽथ मध्यमः ॥ 19॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,19,8976,कालः करोति धर्मज्ञं कदाचिद्विकलं पुनः । स्वभावात्कर्मतो वापि दुर्ज्ञेयं तस्य चेष्टितम् ॥ 20॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,20,8977,नारद उवाच । इत्युक्त्वा विरतो विष्णुरहं विस्मयमानसः । तमब्रवं जगन्नाथं वासुदेवं सनातनम् ॥ 21॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,21,8978,रमापते कथंरूपा माया सा कीदृशी पुनः । कियद्बला क्व संस्थाना कस्याधारा वदस्व मे ॥ 22॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,22,8979,द्रष्टुकामोऽस्मि तां मायां दर्शयाशु महीधर । ज्ञातुमिच्छामि तां सम्यक्प्रसादं कुरु मापते ॥ 23॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,23,8980,विष्णुरुवाच । त्रिगुणा साखिलाधारा सर्वज्ञा सर्वसम्मता । अजेयानेकरूपा च सर्वं व्याप्य स्थिता जगत् ॥ 24॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,24,8981,दिदृक्षा यदि ते चित्ते नारदारोहणं कुरु । गरुडे मत्समेतोऽद्य गच्छावोऽन्यत्र साम्प्रतम् ॥ 25॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,25,8982,दर्शयिष्यामि ते मायां दुर्जयामजितात्मभिः । दृष्ट्वा तां ब्रह्मपुत्र त्वं विषादे मा मनः कृथाः ॥ 26॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,26,8983,इत्युक्त्वा देवदेवो मां सस्मार विनतासुतम् । स्मृतमात्रस्तु गरुडस्तदागाद्धरिसन्निधौ ॥ 27॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,27,8984,आगतं गरुडं वीक्ष्य आरुरोह जनार्दनः । समारोप्य च मां पृष्ठे गमनाय कृतादरः ॥ 28॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,28,8985,चलितो विनतापुत्रो वैकुण्ठाद्वायुवेगवान् । प्रेरितो यत्र कृष्णेन गन्तुकामेन काननम् ॥ 29॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,29,8986,महावनानि दिव्यानि सरांसि सरितस्तथा । पुरग्रामाकरादींश्च खेटखर्वटगोव्रजान् ॥ 30॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,30,8987,मुनीनामाश्रमान् रम्यान् वापीश्च सुमनोहराः । पल्वलानि विशालानि ह्रदान् पङ्कजभूषितान् ॥ 31॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,31,8988,मृगाणां च वराहाणां वृन्दान्यप्यवलोक्य च । गतावावां कान्यकुब्जसमीपं गरुडासनौ ॥ 32॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,32,8989,तत्र रम्यं सरो दिव्यं दृष्टं पङ्कजमण्डितम् । हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ॥ 33॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,33,8990,नानावर्णैः प्रफुल्लैश्च पङ्कजैरुपरञ्जितम् । शुचि मिष्टजलं भृङ्गयूथनादविराजितम् ॥ 34॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,34,8991,मामाह भगवान् वीक्ष्य तडागं परमाद्भुतम् । स्पर्धकं चोदधेः क्षीरं मिष्टं वारि विशेषतः ॥ 35॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,35,8992,श्रीभगवानुवाच । पश्य नारद गम्भीरं सरः सारसनादितम् । सर्वत्र पङ्कजैश्छन्नं स्वच्छनीरप्रपूरितम् ॥ 36॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,36,8993,अत्र स्नात्वा गमिष्यावः कान्यकुब्जं पुरोत्तमम् । इत्युक्त्वा गरुडादाशु मामुत्तार्य व्यतारयत् ॥ 37॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,37,8994,विहस्य भगवांस्तत्र जग्राह मम तर्जनीम् । स्तुवन्सरोवरं भूयस्तीरे मामनयत्प्रभुः ॥ 38॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,38,8995,विश्रम्य तटभागे तु स्निग्धच्छाये मनोहरे । मामुवाच मुने स्नानं कुरु त्वं विमले जले ॥ 39॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,39,8996,पश्चादहं करिष्यामि तडागेऽस्मिन्सुपावने । साधूनामिव चेतांसि जलानि निर्मलानि च ॥ 40॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,40,8997,सुरभीणि परागैस्तु पङ्कजानां विशेषतः । इत्युक्तोऽहं भगवता मुक्त्वा वीणां मृगाजिनम् ॥ 41॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,41,8998,स्नानाय कृतधीस्तीरे गतः प्रेमसमन्वितः । पादौप्रक्षाल्य हस्तौच शिखां बद्ध्वा कुशग्रहम् ॥ 42॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,42,8999,कृत्वाऽऽचम्य शुचिस्तोये स्नातवानस्मि तज्जले । यदा तस्मिज्जले रम्ये स्नातोऽहं पश्यतो हरेः ॥ 43॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,43,9000,विहाय पौरुषं रूपं प्राप्तः स्त्रीत्वमनुत्तमम् । हरिर्गृहीत्वा वीणां मे तथा कृष्णाजिनं शुभम् ॥ 44॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,44,9001,आरुह्य गरुडं तूर्णं जगाम स्वगृहं क्षणात् । ततोऽहं स्त्रीत्वमापन्नश्चारुभूषणभूषितः ॥ 45॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,45,9002,तत्क्षणान्मनसो जाता पूर्वदेहस्य विस्मृतिः । विस्मृतोऽसौ जगन्नाथो महती विस्मृता पुनः ॥ 46॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,46,9003,सम्प्राप्य मोहिनीरूपं तडागान्निर्गतो बहिः । अपश्यं नलिनीजुष्टं सरस्तद्विमलोदकम् ॥ 47॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,47,9004,किमेतदिति मनसाकरवं विस्मयं मुहुः । एवं चिन्तयमानस्य नारीरूपधरस्य मे ॥ 48॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,48,9005,सहसा दृक्पथं प्राप्तस्तत्र तालध्वजो नृपः । गजाश्वरथवृन्दैश्च संवृतो रथसंस्थितः ॥ 49॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,49,9006,युवा भूषणसंवीतो देहवानिव मन्मथः । वीक्ष्य मां भूपतिस्तत्र दिव्यभूषणभूषिताम् ॥ 50॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,50,9007,राकाचन्द्रमुखीं योषां विस्मयं परमं गतः । पप्रच्छ कासि कल्याणि कस्य पुत्री सुरस्य वा ॥ 51॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,51,9008,मानुषस्य च वा कान्ते गन्धर्वस्योरगस्य च । एकाकिनी कथं बाला रूपयौवनभूषिता ॥ 52॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,52,9009,विवाहिताथ कन्या वा सत्यं वद सुलोचने । किं पश्यसि सुकेशान्ते तडागेऽस्मिन्सुमध्यमे ॥ 53॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,53,9010,चिकीर्षितं पिकालापे ब्रूहि मन्मथमोहिनि । भुङ्क्षव भोगान्मरालाक्षि मया सह कृशोदरि । वाञ्छितान्मनसा नूनं कृत्वा मां पतिमुत्तमम् ॥ 54॥ 6,६.२८,अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।,54,9011,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे नारदेन स्वस्त्रीत्वप्राप्तिवर्णनं नामाष्टाविंशोऽध्यायः ॥ ६.२८॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,0,9012,नारद उवाच । इत्युक्तोऽहं तदा तेन राज्ञा तालध्वजेन च । विमृश्य मनसात्यर्थं तमुवाच विशाम्पते ॥ 1॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,1,9013,राजन्नाहं विजानामि पुत्री कस्येति निश्चयम् । पितरौ क्व च मे केन स्थापिता च सरोवरे ॥ 2॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,2,9014,किं करोमि क्व गच्छामि कथं मे सुकृतं भवेत् । निराधारास्मि राजेन्द्र चिन्तयामि चिकीर्षितम् ॥ 3॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,3,9015,दैवमेव परं राजन्नास्त्यत्र पौरुषं मम । धर्मज्ञोऽसि महीपाल यथेच्छसि तथा कुरु ॥ 4॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,4,9016,तवाधीनास्म्यहं भूप न मे कोऽप्यस्ति पालकः । न पिता न च माता च न स्थानं न च बान्धवाः ॥ 5॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,5,9017,इत्युक्तोऽसौ मया राजा बभूव मदनातुरः । मां निरीक्ष्य विशालाक्षीं सेवकानित्युवाच ह ॥ 6॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,6,9018,नरयानमानयध्वं चतुर्वाह्यं मनोहरम् । आरोहणार्थमस्यास्तु कौशेयाम्बरवेष्टितम् ॥ 7॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,7,9019,मृद्वास्तरणसंयुक्तं मुक्ताजालविभूषितम् । चतुरस्रं विशालं च सुवर्णरचितं शुभम् ॥ 8॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,8,9020,तस्य तद्वचनं श्रुत्वा भृत्याः सत्वरगामिनः । आनिन्युः शिबिकां दिव्यां मदर्थे वस्त्रवेष्टिताम् ॥ 9॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,9,9021,आरूढाऽहं तदा तस्यां तस्य प्रियचिकीर्षया । मुदितोऽसौ गृहे नीत्वा मां तदा पृथिवीपतिः ॥ 10॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,10,9022,विवाहविधिना राजा शुभे लग्ने शुभे दिने । उपयेमे च मां तत्र हुतभुक्सन्निधौ ततः ॥ 11॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,11,9023,तस्याहं वल्लभा जाता प्राणेभ्योऽपि गरीयसी । सौभाग्यसुन्दरीत्येवं नाम तत्र कृतं मम ॥ 12॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,12,9024,रममाणो मया सार्धं सुखमाप महीपतिः । नानाभोगविलासैश्च कामशास्त्रोदितैस्तथा ॥ 13॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,13,9025,राजकार्याणि सन्त्यज्य क्रीडासक्तो दिवानिशम् । नासौ विवेद गच्छन्तं कालं कामकलारतः ॥ 14॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,14,9026,उद्यानेषु च रम्येषु वापीषु च गृहेषु च । हर्म्येषु वरशैलेषु दीर्घिकासु वरासु च ॥ 15॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,15,9027,वारुणीमदमत्तोऽसौ विहरन्कानने शुभे । विसृज्य सर्वकार्याणि मदधीनो बभूव ह ॥ 16॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,16,9028,व्यासाहं तेन संसक्ता क्रीडारसवशीकृता । स्मृतवान्पूर्वदेहं न पुम्भावं मुनिजन्म च ॥ 17॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,17,9029,ममैवायं पतिर्योषाहं पत्नीषु प्रिया सती । पट्टराज्ञी विलासज्ञा सफलं जीवितं मम ॥ 18॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,18,9030,इति चिन्तयती तस्मिन्प्रेमबद्धा दिवानिशम् । क्रीडासक्ता सुखे लुब्धा तं स्थिता वशवर्तिनी ॥ 19॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,19,9031,विस्मृतं ब्रह्मविज्ञानं ब्रह्मज्ञानं च शाश्वतम् । धर्मशास्त्रपरिज्ञानं तदासक्तमना स्थिता ॥ 20॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,20,9032,एवं विहरतस्तत्र वर्षाणि द्वादशैव तु । गतानि क्षणवत्कामक्रीडासक्तस्य मे मुने ॥ 21॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,21,9033,जाता गर्भवती चाहं मुदं प्राप नृपस्तदा । कारयामास विधिवद्गर्भसंस्कारकर्म च ॥ 22॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,22,9034,अपृच्छद्दोहदं राजा प्रीणयन्मां पुनः पुनः । नाब्रवं लज्जमानाहं नृपं प्रीतमना भृशम् ॥ 23॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,23,9035,सम्पूर्णे दशमे मासि पुत्रो जातस्ततो मम । शुभेऽह्नि ग्रहनक्षत्रलग्नताराबलान्विते ॥ 24॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,24,9036,बभूव नृपतेर्गेहे पुत्रजन्ममहोत्सवः । राजा परमसन्तुष्टो बभूव सुतजन्मतः ॥ 25॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,25,9037,सूतकान्ते सुतं वीक्ष्य राजा मुदमवाप ह । अहं भूमिपतेश्चासं प्रिया भार्या परन्तप ॥ 26॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,26,9038,ततो वर्षद्वयान्ते वै पुनर्गर्भो मया धृतः । द्वितीयस्तु सुतो जातः सर्वलक्षणसंयुतः ॥ 27॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,27,9039,सुधन्वेति सुतस्याथ नाम चक्रे नृपस्तदा । वीरवर्मेति ज्येष्ठस्य ब्राह्मणैः प्रेरितस्त्वयम् ॥ 28॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,28,9040,एवं द्वादश पुत्राश्च प्रसूता भूपसम्मताः । मोहितोऽहं तदा तेषां प्रीत्या पालनलालने ॥ 29॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,29,9041,पुनरष्ट सुताः काले काले जाताः स्वरूपिणः । गार्हस्थ्यं मे ततः पूर्णं सम्पन्नं सुखसाधनम् ॥ 30॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,30,9042,तेषां दारक्रियाः काले कृता राज्ञा यथोचिताः । स्नुषाभिश्च तथा पुत्रैः परिवारो महानभूत् ॥ 31॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,31,9043,ततः पौत्रादिसम्भूतास्तेऽपि क्रीडारसान्विताः । आसन्नानारसोपेता मोहवृद्धिकरा भृशम् ॥ 32॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,32,9044,कदाचित्सुखमैश्वर्यं कदाचिद्दुःखमद्भुतम् । पुत्रेषु रोगजनितं देहसन्तापकारकम् ॥ 33॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,33,9045,परस्परं कदाचित्तु विरोधोऽभूत्सुदारुणः । पुत्राणां वा वधूनां च तेन सन्तापसम्भवः ॥ 34॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,34,9046,सुखदुःखात्मके घोरे मिथ्याचारकरे भृशम् । सङ्कल्पजनिते क्षुद्रे मग्नोऽहं मुनिसत्तम ॥ 35॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,35,9047,विस्मृतं पूर्वविज्ञानं शास्त्रज्ञानं तथा गतम् । योषाभावे विलीनोऽहं गृहकार्येषु सर्वथा ॥ 36॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,36,9048,अहङ्कारस्तु सञ्जातो भृशं मोहविवर्धकः । एते मे बलिनः पुत्राः स्नुषाः सुकुलसम्भवाः ॥ 37॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,37,9049,एते पुत्राः सुसन्नद्धाः क्रीडन्ति मम वेश्मसु । धन्याहं खलु नारीणां संसारेऽस्मिन्नहो भृशम् ॥ 38॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,38,9050,नारदोऽहं भगवता वञ्चितो मायया किल । न कदाचिन्मयाप्येवं चिन्तितं मनसा किल ॥ 39॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,39,9051,राजपत्नी शुभाचारा बहुपुत्रा पतिव्रता । धन्याहं किल संसारे कृष्णैवं मोहितस्त्वहम् ॥ 40॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,40,9052,अथ कश्चिन्नृपः कामं दूरदेशाधिपो महान् । अरातिभावमापन्नः पतिना सह मानद ॥ 41॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,41,9053,कृत्वा सैन्यसमायोगं रथैश्च वारणैर्युतम् । आजगाम कान्यकुब्जे पुरे युद्धमचिन्तयत् ॥ 42॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,42,9054,वेष्टितं नगरं तेन राज्ञा सैन्ययुतेन च । मम पुत्राश्च पौत्राश्च निर्गता नगरात्तदा ॥ 43॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,43,9055,सङ्ग्रामस्तुमुलस्तत्र कृतस्तैस्तेन पुत्रकैः । हता रणे सुताः सर्वे वैरिणा कालयोगतः ॥ 44॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,44,9056,राजा भग्नस्तु सङ्ग्रामादागतः स्वगृहं पुनः । श्रुतं मया मृताः पुत्राः सङ्ग्रामे भृशदारुणे ॥ 45॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,45,9057,स हत्वा मे सुतान्पौत्रान्गतो राजा बलान्वितः । क्रन्दमाना ह्यहं तत्र गता समरमण्डले ॥ 46॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,46,9058,दृष्ट्वा तान्पतितान्पुत्रान्पौत्रांश्चदुःखपीडिता । विललापाहमायुष्मञ्छोकसागरसम्प्लवे ॥ 47॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,47,9059,हा पुत्राः क्व गता मेऽद्य हा हतास्मि दुरात्मना । दैवेनातिबलिष्ठेन दुर्वारेणातिपापिना ॥ 48॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,48,9060,एतस्मिन्नन्तरे तत्र भगवान्मधुसूदनः । कृत्वा रूपं द्विजस्यागाद्वृद्धः परमशोभनः ॥ 49॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,49,9061,सुवासा वेदवित्कामं मत्समीपं समागतः । मामुवाचातिदीनां स क्रन्दमानां रणाजिरे ॥ 50॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,50,9062,ब्राह्मण उवाच । किं विषीदसि तन्वङ्गि भ्रमोऽयं प्रकटीकृतः । मोहेन कोकिलालापे पतिपुत्रगृहात्मके ॥ 51॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,51,9063,का त्वं कस्याः सुताः केऽमी चिन्तयात्मगतिं पराम् । उत्तिष्ठ रोदनं त्यक्त्वा स्वस्था भव सुलोचने ॥ 52॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,52,9064,स्नानं च तिलदानं च पुत्राणां कुरु कामिनि । परलोकगतानां च मर्यादारक्षणाय वै ॥ 53॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,53,9065,कर्तव्यं सर्वथा तीर्थे स्नानं तु न गृहे क्वचित् । मृतानां किल बन्धूनां धर्मशास्त्रविनिर्णयः ॥ 54॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,54,9066,नारद उवाच । इत्युक्त्वा तेन विप्रेण वृद्धेन प्रतिबोधिता । उत्थिताहं नृपेणाथ युक्ता बन्धुभिरावृता ॥ 55॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,55,9067,अग्रतो द्विजरूपेण भगवान्भूतभावनः । चलिताहं ततस्तूर्णं तीर्थं परमपावनम् ॥ 56॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,56,9068,हरिर्मां कृपया तत्र पुन्तीर्थे सरसि प्रभुः । नीत्वाह भगवान्विष्णुर्द्विजरूपी जनार्दनः ॥ 57॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,57,9069,स्नानं कुरु तडागेऽस्मिन्पावने गजगामिनि । त्यज शोकं क्रियाकालः पुत्राणां च निरर्थकम् ॥ 58॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,58,9070,कोटिशस्ते मृताः पुत्रा जन्मजन्मसमुद्भवाः । पितरः पतयश्चैव भ्रातरो जामयस्तथा ॥ 59॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,59,9071,केषां दुःखं त्वया कार्यं भ्रमेऽस्मिन्मानसोद्भवे । वितथे स्वप्नसदृशे तापदे देहिनामिह ॥ 60॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,60,9072,नारद उवाच । इति तस्य वचः श्रुत्वा तीर्थे पुरुषसंज्ञके । प्रविष्टा स्नातुकामाहं प्रेरिता तत्र विष्णुना ॥ 61॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,61,9073,मज्जनादेव तीर्थेषु पुमाञ्जातः क्षणादपि । हरिर्वीणां करे कृत्वा स्थितस्तीरे स्वदेहवान् ॥ 62॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,62,9074,उन्मज्ज्य च मया तीरे दृष्टः कमललोचनः । प्रत्यभिज्ञा तदा जाता मम चित्ते द्विजोत्तम ॥ 63॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,63,9075,सञ्चिन्तितं मया तत्र नारदोऽहमिहागतः । हरिणा सह स्त्रीभावं प्राप्तो मायाविमोहितः ॥ 64॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,64,9076,इति चिन्तापरश्चाहं यदा जातस्तदा हरिः । मामाह नारदागच्छ किं करोषि जले स्थितः ॥ 65॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,65,9077,विस्मितोऽहं तदा स्मृत्वा स्त्रीभावं दारुणं भृशम् । पुनः पुरुषभावश्च सम्पन्नः केन हेतुना ॥ 66॥ 6,६.२९,एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।,66,9078,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे नारदस्य पुनः स्वरूपप्राप्तिवर्णनं नामेकोनत्रिंशोऽध्यायः ॥ ६.२९॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,0,9079,नारद उवाच । मां दृष्ट्वा नारदं विप्रं विस्मितोऽसौ महीपतिः । क्व गता मम भार्या सा कुतोऽयं मुनिसत्तमः ॥ 1॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,1,9080,विललाप नृपस्तत्र हा प्रियेति मुहुर्मुहुः । क्व गता मां परित्यज्य विलपन्तं वियोगिनम् ॥ 2॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,2,9081,विना त्वां विपुलश्रोणि वृथा मे जीवितं गृहम् । राज्यं कमलपत्राक्षि किं करोमि शुचिस्मिते ॥ 3॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,3,9082,न प्राणा मे बहिर्यान्ति विरहेण तवाधुना । गतो वै प्रीतिधर्मस्तु त्वामृते प्राणधारणात् ॥ 4॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,4,9083,विलपामि विशालाक्षि देहि प्रत्युत्तरं प्रियम् । क्व गता सा मयि प्रीतिर्याभूत्प्रथमसङ्गमे ॥ 5॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,5,9084,निमग्ना किं जले सुभ्रूर्भक्षिता मत्स्यकच्छपैः । गृहीता वरुणेनाशु मम दौर्भाग्ययोगतः ॥ 6॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,6,9085,धन्या सुचारुसर्वाङ्गि या त्वं पुत्रैः समागता । अकृत्रिमस्तु पुत्रेषु स्नेहस्तेऽमृतभाषिणि ॥ 7॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,7,9086,न युक्तमधुना यन्मां विहाय त्रिदिवं गता । विलपन्तं पतिं दीनं पुत्रस्नेहेन यन्त्रिता ॥ 8॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,8,9087,उभयं मे गतं कान्ते पुत्रास्त्वं प्राणवल्लभा । तथापि मरणं नास्ति दुःखितस्य भृशं प्रिये ॥ 9॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,9,9088,किं करोमि क्व गच्छामि रामो नास्ति महीतले । रामाविरहजं दुःखं जानाति रघुनन्दनः ॥ 10॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,10,9089,विधिना निष्ठुरेणात्र विपरीतं कृतं भुवि । दम्पत्योर्मरणं भिन्नं सर्वथा समचित्तयोः ॥ 11॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,11,9090,उपकारस्तु नारीणां मुनिभिर्विहितः किल । यदुक्तं धर्मशास्त्रेषु ज्वलनं पतिना सह ॥ 12॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,12,9091,एवं विलपमानं तं राजानं भगवान्हरिः । निवारयामास तदा वचनैर्युक्तियोजितैः ॥ 13॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,13,9092,श्रीभगवानुवाच । किं विषीदसि राजेन्द्र क्व गता ते प्रियाङ्गना । न श्रुतं किं त्वया शास्त्रं न कृतोऽसौ बुधाश्रयः ॥ 14॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,14,9093,का सा कस्त्वं क्व संयोगो वियोगः कीदृशस्तव । प्रवाहरूपे संसारे नृणां नौतरतामिव ॥ 15॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,15,9094,गृहे गच्छ नृपश्रेष्ठ वृथा ते रुदितेन किम् । संयोगश्च वियोगश्च दैवाधीनः सदा नृणाम् ॥ 16॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,16,9095,अनया सह ते राजन् संयोगस्त्विह संवृतः । भुक्ता त्वया विशालाक्षी सुन्दरी तनुमध्यमा ॥ 17॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,17,9096,न दृष्टौ पितरावस्यास्त्वया प्राप्ता सरोवरे । काकतालीप्रसङ्गेन यद्भूतं तत्तथा गतम् ॥ 18॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,18,9097,मा शोकं कुरु राजेन्द्र कालो हि दुरतिक्रमः । कालयोगं समासाद्य भुङ्क्ष्व भोगान् गृहे यथा ॥ 19॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,19,9098,यथागता गता सा तु तथैव वरवर्णिनी । यथा पूर्वं तथा तत्र गच्छ कार्यं कुरु प्रभो ॥ 20॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,20,9099,रुदितेन तवाद्यैव नागमिष्यति कामिनी । वृथा शोचसि पृध्वीश योगयुक्तो भवाधुना ॥ 21॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,21,9100,भोगः कालवशादेति तथैव प्रतियाति च । नात्र शोकस्तु कर्तव्यो निष्फले भववर्त्मनि ॥ 22॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,22,9101,नैकत्र सुखसंयोगो दुःखयोगस्तु नैकतः । घटिकायन्त्रवत्कामं भ्रमणं सुखदुःखयोः ॥ 23॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,23,9102,मनः कृत्वा स्थिरं भूप कुरु राज्यं यथासुखम् । अथवा न्यस्य दायादे वनं सेवय साम्प्रतम् ॥ 24॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,24,9103,दुर्लभो मानुषो देहः प्राणिनां क्षणभङ्गुरः । तस्मिन्प्राप्ते तु कर्तव्यं सर्वथैवात्मसाधनम् ॥ 25॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,25,9104,जिह्वोपस्थरसो राजन् पशुयोनिषु वर्तते । ज्ञानं मानुषदेहे वै नान्यासु च कुयोनिषु ॥ 26॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,26,9105,तस्माद्गच्छ गृहं त्यक्त्वा शोकं कान्तासमुद्भवम् । मायेयं भगवत्यास्तु यया सम्मोहितं जगत् ॥ 27॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,27,9106,नारद उवाच । इत्युक्तो हरिणा राजा प्रणम्य कमलापतिम् । कृत्वा स्नानविधिं सम्यग्जगाम निजमन्दिरम् ॥ 28॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,28,9107,दत्त्वा राज्यं स्वपौत्राय प्राप्य निर्वेदमद्भुतम् । वनं जगाम भूपालस्तत्त्वज्ञानमवाप च ॥ 29॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,29,9108,गते राजन्यहं वीक्ष्य भगवन्तमधोक्षजम् । तमब्रवं जगन्नाथं हसन्तं मां पुनः पुनः ॥ 30॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,30,9109,वञ्चितोऽहं त्वया देव ज्ञातं मायाबलं महत् । स्मरामि चरितं सर्वं स्त्रीदेहे यत्कृतं मया ॥ 31॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,31,9110,ब्रूहि मे देवदेवेश प्रविष्टोऽहं सरोवरे । विगतं पूर्वविज्ञानं स्नानादेव कथं हरे ॥ 32॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,32,9111,योषिद्देहं समासाद्य मोहितोऽहं जगद्गुरो । पतिं प्राप्य नृपश्रेष्ठं पुलोमी वासवं यथा ॥ 33॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,33,9112,मनस्तदेव तच्चित्तं देहः स च पुरातनः । लिङ्गं तदेव देवेश स्मृतेर्नाशः कथं हरे ॥ 34॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,34,9113,विस्मयोऽयं महान्मेऽत्र ज्ञाननाशं प्रति प्रभो । कथयाद्य रमाकान्त कारणं परमं च यत् ॥ 35॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,35,9114,नारीदेहं मया प्राप्य भुक्ता भोगा ह्यनेकशः । सुरापानं कृतं नित्यं विधिहीनं च भोजनम् ॥ 36॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,36,9115,मया तदेव न ज्ञातं नारदोऽहमिति स्फुटम् । जानाम्यद्य यथा सर्वं विविक्तं न तथा तदा ॥ 37॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,37,9116,विष्णुरुवाच । पश्य नारद मायावी विलासोऽयं महामते । देहेषु सर्वजन्तूनां दशाभेदा ह्यनेकशः ॥ 38॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,38,9117,जाग्रत्स्वप्नसुषुप्तिश्च तुरीया देहिनां दशा । तथा देहान्तरे प्राप्ते सन्देहः कीदृशः पुनः ॥ 39॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,39,9118,सुप्तो नरो न जानाति न श‍ृणोति वदत्यपि । पुनः प्रबुद्धो जानाति सर्वं ज्ञातमशेषतः ॥ 40॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,40,9119,निद्रया चाल्यते चित्तं भवन्ति स्वप्नसम्भवाः । नानाविधा मनोभेदा मनोभावा ह्यनेकशः ॥ 41॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,41,9120,गजो मां हन्तुमायाति न शक्तोऽस्मि पलायने । किं करोमि न मे स्थानं यत्र गच्छामि सत्वरः ॥ 42॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,42,9121,मृतं पितामहं स्वप्ने पश्यति स्वगृहागतम् । संयोगस्तेन वार्ता च भोजनं सह मन्यते ॥ 43॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,43,9122,प्रबुद्धः खलु जानाति स्वप्ने दृष्टं सुखासुखम् । स्मृत्वा सर्वं जनेभ्यस्तु विस्तरात्प्रवदत्यपि ॥ 44॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,44,9123,स्वप्नेकोऽपि न जानाति भ्रमोऽयमिति निश्चयः । तथा तथैव विभवो मायाया दुर्गमः किल ॥ 45॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,45,9124,नाहं नारद जानामि पारं परमदुर्घटम् । गुणानां किल मायाया नैव शम्भुर्न पद्मजः ॥ 46॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,46,9125,कोऽन्यो ज्ञातुं समर्थोऽभून्मानतो मन्दधीः पुनः । मायागुणपरिज्ञानं न कस्यापि भवेदिह ॥ 47॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,47,9126,गुणत्रयकृतं सर्वं जगत्स्थावरजङ्गमम् । विना गुणैर्न संसारो वर्तते किञ्चिदप्यदः ॥ 48॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,48,9127,अहं सत्त्वप्रधानोऽस्मि रजस्तमसमन्वितः । न कदाचित्त्रिभिर्हीनो भवामि भुवनेश्वरः ॥ 49॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,49,9128,तथा ब्रह्मा पिता तेऽत्र रजोमुख्यः प्रकीर्तितः । तमःसत्त्वसमायुक्तो न ताभ्यामुज्झितः किल ॥ 50॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,50,9129,शिवस्तथा तमोमुख्यो रजःसत्त्वसमावृतः । गुणत्रयविहीनस्तु नैव कोऽपि मया श्रुतः ॥ 51॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,51,9130,तस्मान्मोहो न कर्तव्यः संसारेऽस्मिन्मुनीश्वर । मायाविनिर्मितेऽसारेऽपारे परमदुर्घटे ॥ 52॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,52,9131,दृष्टा माया त्वयाद्यैव भुक्ता भोगा ह्यनेकशः । किं पृच्छसि महाभाग तस्याश्चरितमद्भुतम् ॥ 53॥ 6,६.३०,त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।,53,9132,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे मायाप्राबल्यवर्णनं नाम त्रिंशोऽध्यायः ॥ ६.३०॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,0,9133,व्यास उवाच । निशामय महाराज ब्रवीमि विशदाक्षरम् । माहात्म्यं खलु मायाया नारदात्तु मया श्रुतम् ॥ 1॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,1,9134,मया पुनर्मुनिः पृष्टो नारदः सर्ववित्तमः । श्रुत्वा कथां मुनेस्तस्य नारीदेहसमुद्भवाम् ॥ 2॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,2,9135,ब्रूहि नारद पश्चात्किं कथितं हरिणा तदा । क्व गतश्च जगन्नाथो भवता सह माधवः ॥ 3॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,3,9136,नारद उवाच । इत्युक्त्वा भगवांस्तस्मिंस्तडागेऽतिमनोहरे । आरुह्य गरुडं गन्तुं वैकुण्ठे च मनो दधे ॥ 4॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,4,9137,मामुवाच रमाकान्तो यथेष्टं गच्छ नारद । एहि वा मम लोकं त्वं यथारुचि तथा कुरु ॥ 5॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,5,9138,ब्रह्मलोकं गतश्चाहमापृच्छ्य मधुसूदनम् । भगवानपि देवेशस्तत्क्षणाद्गरुडासनः ॥ 6॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,6,9139,वैकुण्ठमगमत्तूर्णं मामादिश्य यथासुखम् । ततोऽहं पितृसदनं गतो याते जनार्दने ॥ 7॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,7,9140,चिन्तयन्सकलं दुःखं सुखं च परमाद्भुतम् । गत्वा प्रणम्य पितरं स्थितो यावत्पुरः पितुः ॥ 8॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,8,9141,तावत्पृष्टो मुने पित्रा वीक्ष्य चिन्तातुरं तु माम् । ब्रह्योवाच । क्व गतोऽसि महाभाग कस्माच्चिन्तातुरः सुत ॥ 9॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,9,9142,स्वस्थं नैवाद्य पश्यामि मनस्ते मुनिसत्तम । केनापि वञ्चितोऽसि त्वं दृष्टं वा किञ्चिदद्भुतम् ॥ 10॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,10,9143,विषण्णं गतविज्ञानं पश्यामि त्वां कथं सुत । नारद उवाच । इति पृष्टस्तदा पित्रा बृस्यां समुपवेश्य च ॥ 11॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,11,9144,तमब्रवं स्ववृत्तान्तं मायाबलसमुद्भवम् । वञ्चितोऽहं पितः कामं विष्णुना प्रभविष्णुना ॥ 12॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,12,9145,स्त्रीभावं गमितः कामं वर्षाणि सुबहून्यपि । अनुभूतं महद्दुःखं पुत्रशोकसमुद्भवम् ॥ 13॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,13,9146,प्रबोधितोऽहं तेनैव मृदुवाक्यामृतेन च । पुनः सरोवरे स्नात्वा जातोऽहं नारदः पुमान् ॥ 14॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,14,9147,किमेतत्कारणं ब्रह्मन् यन्मोहमगमं तदा । विस्मृतं पूर्वविज्ञानं तन्मयस्तरसा कृतः ॥ 15॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,15,9148,एतन्मायाबलं ब्रह्मन्न जानेऽहं दुरत्ययम् । ज्ञानहानिकरं जातं मूलं मोहस्य विस्फुटम् ॥ 16॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,16,9149,अनुभूतं मया सम्यग्ज्ञातं सर्वं शुभाशुभम् । कथं त्वं जितवांस्तात तमुपायं वदस्व मे ॥ 17॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,17,9150,नारद उवाच । विज्ञप्तोऽसौ मया धाता प्रीतिपूर्वमतः परम् । मामुवाच स्मितं कृत्वा पिता मे वासवीसुत ॥ 18॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,18,9151,ब्रह्मोवाच । दुर्जयैषा सुरैः सर्वैर्मुनिभिश्च महात्मभिः । तापसैर्ज्ञानयुक्तैश्च योगिभिः पवनाशनैः ॥ 19॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,19,9152,नाहं तां सर्वथा ज्ञातुं शक्तो मायां महाबलाम् । विष्णुर्ज्ञातुं न शक्तश्च तथा शम्भुरुमापतिः ॥ 20॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,20,9153,दुर्ज्ञेया सा महामाया सृष्टिस्थित्यन्तकारिणी । कालकर्मस्वभावाद्यैर्निमित्तकारणैर्वृता ॥ 21॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,21,9154,शोकं मा कुरु मेधाविंस्तत्र मायामहाबले । न चैव विस्मयः कार्यो वयं सर्वे विमोहिताः ॥ 22॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,22,9155,नारद उवाच । पित्रेत्युक्तस्तदा व्यास तमापृच्छ्य गतस्मयः । आगतोऽस्म्यत्र पश्यन्वै तीर्थानि च वराणि च ॥ 23॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,23,9156,तस्मात्त्वमपि सन्त्यज्य मोहं कौरवनाशजम् । कालक्षयं सुखासीनः स्थानेऽस्मिन् कुरु सत्तम ॥ 24॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,24,9157,अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । निश्चयं हृदये कृत्वा विचरस्व यथासुखम् ॥ 25॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,25,9158,व्यास उवाच । इत्युक्त्वा नारदो राजन् गतो मां प्रतिबोध्य च । अहं तच्चिन्तयन्वाक्यं यदुक्तं मुनिना तदा ॥ 26॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,26,9159,स्थितः सरस्वतीतीरे कल्पे सारस्वते वरे । कालातिवाहनायैतत्कृतं भागवतं मया ॥ 27॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,27,9160,पुराणमुत्तमं भूप सर्वसंशयनाशनम् । नानाख्यानसमायुक्तं वेदप्रामाण्यसंश्रितम् ॥ 28॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,28,9161,सन्देहोऽत्र न कर्तव्यः सर्वथा नृपसत्तम । यथेन्द्रजालिकः कश्चित्पाञ्चालीं दारवीं करे ॥ 29॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,29,9162,कृत्वा नर्तयते कामं स्वेच्छया वशवर्तिनीम् । तथा नर्तयते माया जगत्स्थावरजङ्गमम् ॥ 30॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,30,9163,ब्रह्मादिस्तम्बपर्यन्तं सदेवासुरमानुषम् । पञ्चेन्द्रियसमायुक्तं मनश्चित्तानुवर्तनम् ॥ 31॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,31,9164,गुणास्तु कारणं राजन् सर्वेषां सर्वथा त्रयः । कार्यं कारणसंयुक्तं भवतीति विनिश्चयः ॥ 32॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,32,9165,भिन्नभिन्नस्वभावास्ते गुणा मायासमुद्भवाः । शान्तो घोरस्तथा मूढस्त्रयस्तु विविधा यतः ॥ 33॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,33,9166,तत्समेतः पुमान्नित्यं तद्विहीनः कथं भवेत् । न भवत्येव संसारे रहितस्तन्तुभिः पटः ॥ 34॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,34,9167,तथा गुणैस्त्रिभिर्हीनो न देहीति विनिश्चयः । देवदेहो मनुष्यो वा तिरश्चो वा नराधिप ॥ 35॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,35,9168,गुणैर्विरहितो न स्यान्मृद्विहीनो घटो यथा । ब्रह्मा विष्णुस्तथा रुद्रस्त्रयश्चामी गुणाश्रयाः ॥ 36॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,36,9169,कदाचित्प्रीतियुक्तास्ते तथाप्रीतियुताः पुनः । तथा विषादयुक्तास्ते भवन्ति गुणयोगतः ॥ 37॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,37,9170,ब्रह्मा कदाचित्सत्त्वस्थस्तदा शान्तः समाधिमान् । प्रीतियुक्तो भवेत्सर्वभूतेषु ज्ञानसंयुतः ॥ 38॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,38,9171,पुनः सत्त्वविहीनस्तु रजोगुणसमावृतः । तदा भवेद् घोररूपः सर्वत्राप्रीतिसंयुतः ॥ 39॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,39,9172,यदा तमोगुणाविष्टो बाहुल्येन भवेद्विधिः । तदा विषादसम्पन्नो मूढो भवति नान्यथा ॥ 40॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,40,9173,माधवोऽपि सदा सत्त्वसंश्रितः सर्वथा भवेत् । यदा शान्तः प्रीतियुक्तो भवेज्ज्ञानसमन्वितः ॥ 41॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,41,9174,स एव रजाधिक्यादप्रीतिसंयुतो भवेत् । घोरश्च सर्वभूतेषु गुणाधीनो रमापतिः ॥ 42॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,42,9175,रुद्रोऽपि सत्त्वसंयुक्तः प्रीतिमाञ्छान्तिमान्भवेत् । रजोनिमीलितः सोऽपि घोरः प्रीतिविवर्जितः ॥ 43॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,43,9176,तमोगुणयुतः सोऽपि मूढो विषादयुग्भवेत् । एते यदि गुणाधीना ब्रह्मविष्णुहरादयः ॥ 44॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,44,9177,सूर्यवंशोद्भवास्तद्वत्सोमवंशभवा अपि । मन्वादयश्च ये प्रोक्ताश्चतुर्दश युगे युगे ॥ 45॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,45,9178,अन्येषां चैव का वार्ता संसारेऽस्मिन्नृपोत्तम । मायाधीनं जगत्सर्वं सदेवासुरमानुषम् ॥ 46॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,46,9179,तस्माद्राजन्न कर्तव्यः सन्देहोऽत्र कदाचन । देही मायापराधीनश्चेष्टते तद्वशानुगः ॥ 47॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,47,9180,सा च माया परे तत्त्वे संविद्रूपेऽपि सर्वदा । तदधीना प्रेरिता च तेन जीवेषु सर्वदा ॥ 48॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,48,9181,ततो मायाविशिष्टां तां संविदं परमेश्वरीम् । मायेश्वरीं भगवतीं सच्चिदानन्दरूपिणीम् ॥ 49॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,49,9182,ध्यायेत्तथाराधयेच्च प्रणमेच्च जपेदपि । तेन सा सदया भूत्वा मोचयत्येव देहिनम् ॥ 50॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,50,9183,स्वमायां संहरत्येव स्वानुभूतिप्रदानतः । भुवनं खलु माया स्यादीश्वरी तस्य नायिका ॥ 51॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,51,9184,भुवनेशी ततः प्रोक्ता देवी त्रैलोक्यसुन्दरी । तद्रूपे यदि सक्तं स्याच्चित्तं भूमिपते सदा ॥ 52॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,52,9185,मायया किं भवेत्तत्र सदसद्भूतया नृप । तस्मान्मायानिरासार्थं नान्यद्वै देवतान्तरम् ॥ 53॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,53,9186,समर्थं तु विना देवीं सच्चिदानन्दरूपिणीम् । तमोराशिं नाशयितुं शक्तं नैव तमो भवेत् ॥ 54॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,54,9187,किन्तु भानुप्रभाचन्द्रविद्युद्वह्निप्रभादयः । तस्मान्मायेश्वरीमम्बां स्वप्रकाशां तु संविदम् ॥ 55॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,55,9188,आराधयेदतिप्रीत्या मायागुणनिवृत्तये । इति सम्यङ्मयाख्यातं वृत्रासुरवधादिकम् ॥ 56॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,56,9189,यत्पृष्टं राजशार्दूल किमन्यच्छ्रोतुमिच्छसि । पूर्वार्धोऽयं पुराणस्य कथितस्तव सुव्रत ॥ 57॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,57,9190,यत्र देव्यास्तु महिमा विस्तरेणोपपादितः । एतद्रहस्यं श्रीमातुर्न देयं यस्य कस्यचित् ॥ 58॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,58,9191,देयं भक्ताय शान्ताय देवीभक्तिरताय च । शिष्याय ज्येष्ठपुत्राय गुरुभक्तियुताय च ॥ 59॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,59,9192,इदमखिलकथानां सारभूतं पुराणं निखिलनिगमतुल्यं सप्रमाणानुविद्धम् । पठति परमभावाद्यः श‍ृणोतीह भक्त्या स भवति धनवान्वै ज्ञानवान्मानवोऽत्र ॥ 60॥ 6,६.३१,एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।,60,9193,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे भगवतीमाहात्म्यवर्णनं नामकत्रिंशोऽध्यायः ॥ ६.३१॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,0,9194,सूत उवाच - श्रुत्वैतां तापसाद्दिव्यां कथां राजा मुदान्वितः । व्यासं पप्रच्छ धर्मात्मा परीक्षितसुतः पुनः ॥ 1॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,1,9195,जनमेजय उवाच - स्वामिन् सूर्यान्वयानां च राज्ञां वंशस्य विस्तरम् । तथा सोमान्वयानां च श्रोतुकामोऽस्मि सर्वथा ॥ 2॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,2,9196,कथयानघ सर्वज्ञ कथां पापप्रणाशिनीम् । चरितं भूपतीनां च विस्तराद्वंशयोर्द्वयोः ॥ 3॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,3,9197,ते हि सर्वे पराशक्तिभक्ता इति मया श्रुतम् । देवीभक्तस्य चरितं श‍ृण्वन्कोऽस्ति विरक्तिभाक् ॥ 4॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,4,9198,इति राजर्षिणा पृष्टो व्यासः सत्यवतीसुतः । तमुवाच मुनिश्रेष्ठः प्रसन्नवदनो मुनिः ॥ 5॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,5,9199,व्यास उवाच - निशामय महाराज विस्तराद्गदतो मम । सोमसूर्यान्वयानां च तथान्येषां समुद्भवम् ॥ 6॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,6,9200,विष्णोर्नाभिसरोजाद्वै ब्रह्माभूच्चतुराननः । तपस्तप्त्वा समाराध्य महादेवीं सुदुर्गमाम् ॥ 7॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,7,9201,तया दत्तवरो धाता जगत्कर्तुं समुद्यतः । नाशकन्मानुषीं सृष्टिं कर्तुं लोकपितामहः ॥ 8॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,8,9202,विचिन्त्य बहुधा चित्ते सृष्ट्यर्थं चतुराननः । न विस्तारं जगामाशु रचितापि महात्मना ॥ 9॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,9,9203,(ससर्ज मानसान्पुत्रान्सप्तसङ्ख्यान्प्रजापतिः) मरीचिरङ्गिरात्रिश्च वसिष्ठः पुलहः क्रतुः । पुलस्त्यश्चेति विख्याताः सप्तैते मानसाः सुताः ॥ 10॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,10,9204,रुद्रो रोषात्समुत्पन्नोऽप्युत्सङ्गान्नारदोऽभवत् । दक्षोऽङ्गुष्ठात्तथान्येऽपि मानसाः सनकादयः ॥ 11॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,11,9205,वामाङ्गुष्ठाद्दक्षपत्नी जाता सर्वाङ्गसुन्दरी । वीरिणी नाम विख्याता पुराणेषु महीपते ॥ 12॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,12,9206,असिक्नीति च नाम्ना सा यस्यां जातोऽथ नारदः । देवर्षिप्रवरः कामं ब्रह्मणो मानसः सुतः ॥ 13॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,13,9207,जनमेजय उवाच - अत्र मे संशयो ब्रह्मन् यदुक्तं भवता वचः । वीरिण्यां नारदो जातो दक्षादिति महातपाः ॥ 14॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,14,9208,कथं दक्षस्य पत्न्यां तु वीरिण्यां नारदो मुनिः । जातो हि ब्रह्मणः पुत्रो धर्मज्ञस्तापसोत्तमः ॥ 15॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,15,9209,विचित्रमिदमाख्यातं भवता नारदस्य च । दक्षाज्जन्मास्य भार्यायां तद्वदस्व सविस्तरम् ॥ 16॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,16,9210,पूर्वदेहः कथं मुक्तः शापात्कस्य महामना । नारदेन बहुज्ञेन कस्माज्जन्म कृतं मुने ॥ 17॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,17,9211,व्यास उवाच - ब्रह्मणासौ समादिष्टो दक्षः सृष्ट्यर्थमादितः । प्रजाः सृजेति सुभृशं वृद्धिहेतोः स्वयम्भुवा ॥ 18॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,18,9212,ततः पञ्चसहस्रांश्च जनयामास वीर्यवान् । दक्षः प्रजापतिः पुत्रान् वीरिण्यां बलवत्तरान् ॥ 19॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,19,9213,दृष्ट्वा तान्नारदः पुत्रान्सर्वान्वर्धयिषून्प्रजाः । उवाच प्रहसन्वाचं देवर्षिः कालनोदितः ॥ 20॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,20,9214,भुवः प्रमाणमज्ञात्वा स्रष्टुकामाः प्रजाः कथम् । लोकानां हास्यतां यूयं गमिष्यथ न संशयः ॥ 21॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,21,9215,पृथिव्या वै प्रमाणं तु ज्ञात्वा कार्यः समुद्यमः । कृत्तोऽसौ सिद्धिमायाति नान्यथेति विनिश्चयः ॥ 22॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,22,9216,बालिशा बत यूयं वै यदज्ञात्वा भुवस्तलम् । समुद्यताः प्रजाः कर्तुं कथं सिद्धिर्भविष्यति ॥ 23॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,23,9217,व्यास उवाच - नारदेनैवमुक्तास्ते हर्यश्वा दैवयोगतः । अन्योन्यमूचुः सहसा सम्यगाह मुनिः किल ॥ 24॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,24,9218,ज्ञात्व प्रमाणमुर्व्यास्तु सुखं स्रक्ष्यामहे प्रजाः । इति सञ्चिन्त्य ते सर्वे प्रयाताः प्रेक्षितुं भुवः ॥ 25॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,25,9219,तलं सर्वं परिज्ञातुं वचनान्नारदस्य च । प्राच्यां केचिद्गताः कामं दक्षिणस्यां तथापरे ॥ 26॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,26,9220,प्रतीच्यामुत्तरस्यां तु कृतोत्साहाः समन्ततः । दक्षः पुत्रान्गतान्दृष्ट्वा पीडितस्तु शुचा भृशम् ॥ 27॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,27,9221,अन्यानुत्पादयामास प्रजार्थं कृतनिश्चयः । तेऽपि तत्रोद्यताः कर्तुं प्रजार्थमुद्यमं सुताः ॥ 28॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,28,9222,नारदः प्राह तान्दृष्ट्वा पूर्वं यद्वचनं मुनिः । बालिशा बत यूयं वै यदज्ञात्वा भुवः किल ॥ 29॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,29,9223,प्रमाणं तु प्रजाः कर्तुं प्रवृत्ताः केन हेतुना । श्रुत्वा वाक्यं मुनेस्तेऽपि मत्वा सत्यं विमोहिताः ॥ 30॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,30,9224,जग्मुः सर्वे यथापूर्वं भ्रातरश्चलितास्तथा । तान्सुतान्प्रस्थितान्दृष्ट्वा दक्षः कोपसमवितः ॥ 31॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,31,9225,शशाप नारदं कोपात् पुत्रशोकसमुद्भवात् । दक्ष उवाच - नाशिता मे सुता यस्मात् तस्मान्नाशमवाप्नुहि ॥ 32॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,32,9226,पापेनानेन दुर्बुद्धे गर्भवासं व्रजेति च । पुत्रो मे भव कामं त्वं यतो मे भ्रंशिताः सुताः ॥ 33॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,33,9227,इति शप्तस्ततो जातो वीरिण्यां नारदो मुनिः । षष्टिर्भूयोऽसृजत्कन्या वीरिण्यामिति नः श्रुतम् ॥ 34॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,34,9228,शोकं विहाय पुत्राणां दक्षः परमधर्मवित् । तासां त्रयोदश प्रादात्कश्यपाय महात्मने ॥ 35॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,35,9229,दश धर्माय सोमाय सप्तविंशति भूपते । द्वे चैव भृगवे प्रादाच्चतस्रोऽरिष्टनेमिने ॥ 36॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,36,9230,द्वे चैवाङ्गिरसे कन्ये तथैवाङ्गिरसे पुनः । तासां पुत्राश्च पौत्राश्च देवाश्च दानवास्तथा ॥ 37॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,37,9231,जाता बलसमायुक्ताः परस्परविरोधकाः । रागद्वेषान्विताः सर्वे परस्परविरोधिनः । सर्वे मोहावृताः शूरा ह्यभवन्नतिमायिनः ॥ 38॥ 7,७.१,प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।,38,9232,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे सोमसूर्यवंशवर्णने दक्षप्रजापतिवर्णनं नाम प्रथोमोऽध्यायः ॥ ७.१॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,0,9233,ममाख्याहि महाभाग राज्ञां वंशं सुविस्तरम् । सूर्यान्वयप्रसूतानां धर्मज्ञानां विशेषतः ॥ 1॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,1,9234,श‍ृणु भारत वक्ष्यामि रविवंशस्य विस्तरम् । यथा श्रुतं मया पूर्वं नारदादृषिसत्तमात् ॥ 2॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,2,9235,एकदा नारदः श्रीमान्सरस्वत्यास्तटे शुभे । आजगामाश्रमे पुण्ये विचरन्स्वेच्छया मुनिः ॥ 3॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,3,9236,प्रणम्य शिरसा पादौ तस्याग्रे संस्थितस्तदा । ततस्तस्यासनं दत्त्वा कृत्वार्हणमथादरात् ॥ 4॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,4,9237,विधिवत्पूजयित्वा तमुक्तवान्वचनं त्विदम् । पावितोऽहं मुनिश्रेष्ठ पूज्यस्यागमनेन वै ॥ 5॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,5,9238,कथां कथय सर्वज्ञ राज्ञां चरितसंयुताम् । राजानो ये समाख्याताः सप्तमेऽस्मिन्मनोः कुले ॥ 6॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,6,9239,तेषामुत्पत्तिरतुला चरितं परमाद्भुतम् । श्रोतुकामोऽस्म्यहं ब्रह्मन् सूर्यवंशस्य विस्तरम् ॥ 7॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,7,9240,समाख्याहि मुनिश्रेष्ठ समासव्यासपूर्वकम् । इति पृष्टो मया राजन्नारदः परमार्थवित् ॥ 8॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,8,9241,उवाच प्रहसन्प्रीतः समाभाष्य मुदान्वयम् । नारद उवाच - श‍ृणु सत्यवतीसूनो राज्ञां वंशमनुत्तमम् ॥ 9॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,9,9242,पावनं कर्णसुखदं धर्मज्ञानादिभिर्युतम् । ब्रह्मा पूर्वं जगत्कर्ता नाभिपङ्कजसम्भवः ॥ 10॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,10,9243,विष्णोरिति पुराणेषु प्रसिद्धः परिकीर्तितः । सर्वज्ञः सर्वकर्तासौ स्वयम्भूः सर्वशक्तिमान् ॥ 11॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,11,9244,तपस्तप्त्वा स विश्वात्मा वर्षाणामयुतं पुरा । सृष्टिकामः शिवां ध्यात्वा प्राप्य शक्तिमनुत्तमाम् ॥ 12॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,12,9245,पुत्रानुत्पदयामास मानसाञ्छुभलक्षणान् । मरीचिः प्रथिस्तेषामभवत्सृष्टिकर्मणि ॥ 13॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,13,9246,तस्य पुत्रोऽतिविख्यातः कश्यपः सर्वसम्मतः । त्रयोदशैव तस्यासन्भार्या दक्षसुताः किल ॥ 14॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,14,9247,देवाः सर्वे समुत्पन्ना दैत्या यक्षाश्च पन्नगाः । पशवः पक्षिणश्चैव तस्मात्सृष्टिस्तु काश्यपी ॥ 15॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,15,9248,देवानां प्रथितः सूर्यो विवस्वान्नाम तस्य तु । तस्य पुत्रः स विख्यातो वैवस्वतमनुर्नृपः ॥ 16॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,16,9249,तस्य पुत्रस्तथेक्ष्वाकुः सूर्यवंशविवर्धनः । नवाभवन्सुतास्तस्य मनोरिक्ष्वाकुपूर्वजाः ॥ 17॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,17,9250,तेषां नामानि राजेन्द्र श‍ृणुष्वैकमनाः पुनः । इक्ष्वाकुरथ नाभागो धृष्टः शर्यातिरेव च ॥ 18॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,18,9251,नरिष्यन्तस्तथा प्रांशुर्नृगो दिष्टश्च सप्तमः । करूषश्च पृषध्रश्च नवैते मानवाः स्मृताः ॥ 19॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,19,9252,इक्ष्वाकुस्तु मनोः पुत्रः प्रथमः समजायत । तस्य पुत्रशतं चासीज्ज्येष्ठो विकुक्षिरात्मवान् ॥ 20॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,20,9253,नवानां वंशविस्तारं सङ्क्षेपेण निशामय । शूराणां मनुपुत्राणां मनोरन्तरजन्मनाम् ॥ 21॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,21,9254,नाभागस्य तु पुत्रोऽभूदम्बरीषः प्रतापवान् । धर्मज्ञः सत्यसन्धश्च प्रजापालनतत्परः ॥ 22॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,22,9255,धृष्टात्तु धार्ष्टकं क्षत्रं ब्रह्मभूतमजायत । सङ्ग्रामकातरं सम्यग्ब्रह्मकर्मरतं तथा ॥ 23॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,23,9256,शर्यातेस्तनयश्चाभूदानर्तो नाम विश्रुतः । सुकन्या च तथा पुत्री रूपलावण्यसंयुता ॥ 24॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,24,9257,च्यवनाय सुता दत्ता राज्ञाप्यन्धाय सुन्दरी । मुनिः सुलोचनो जातस्तस्याः शीलगुणेन ह ॥ 25॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,25,9258,विहितो रविपुत्राभ्यामश्विभ्यामिति नः श्रुतम् । जनमेजय उवाच । सन्देहोऽयं महान् ब्रह्मन् कथायां कथितस्त्वया ॥ 26॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,26,9259,यद्राजा मुनयेऽन्धाय दत्ता पुत्री सुलोचना । कुरूपा गुणहीना वा नारी लक्षणवर्जिता ॥ 27॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,27,9260,पुत्री यदा भवेद्राजा तदान्धाय प्रयच्छति । ज्ञात्वान्धं सुमुखीं कस्माद्दत्तवान्नृपसत्तमः ॥ 28॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,28,9261,कारणं ब्रूहि मे ब्रह्मन्ननुग्राह्योऽस्मि सर्वदा । सूत उवाच - इति राज्ञो वचः श्रुत्वा परीक्षितसुतस्य वै ॥ 29॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,29,9262,द्वैपायनः प्रसन्नात्मा तमुवाच हसन्निव । व्यास उवाच - वैवस्वतसुतः श्रीमाञ्छर्यातिर्नाम पार्थिवः ॥ 30॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,30,9263,तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहाः । राजपुत्र्यः सरूपाश्च सर्वलक्षणसंयुताः ॥ 31॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,31,9264,पत्न्यः प्रेमयुताः सर्वाः प्रिया राज्ञः सुसम्मताः । एका पुत्री तु तासां वै सुकन्या नाम सुन्दरी ॥ 32॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,32,9265,पितुः प्रिया च मातॄणां सर्वासां चारुहासिनी । नगरान्नातिदूरेऽभूत्सरो मानससन्निभम् ॥ 33॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,33,9266,बद्धसोपानमार्गं च स्वच्छपानीयपूरितम् । हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ॥ 34॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,34,9267,दात्यूहसारसाकीर्णं सर्वपक्षिगणावृतम् । पञ्चधाकमलोपेतं चञ्चरीकसुसेवितम् ॥ 35॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,35,9268,पार्श्वतश्च द्रुमाकीर्णं वेष्टितं पादपैः शुभैः । सालैस्तमालैः सरलैः पुन्नागाशोकमण्डितम् ॥ 36॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,36,9269,वटाश्वत्थकदम्बैश्च कदलीखण्डराजितम् । जम्बीरैर्बीजपूरैश्च खर्जूरैः पनसैस्तथा ॥ 37॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,37,9270,क्रमुकैर्नारिकेलैश्च केतकैः काञ्चनद्रुमैः । यूथिकाजालकैः शुभ्रैः संवृतं मल्लिकागणैः ॥ 38॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,38,9271,जम्ब्वाम्रतिन्तिणीभिश्च करञ्जकुटजावृतम् । पलाशनिम्बखदिरबिल्वामलकमण्डितम् ॥ 39॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,39,9272,बभूव कोकिलारावः केकास्वनविराजितम् । तत्समीपे शुभे देशे पादपानां गणावृते ॥ 40॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,40,9273,भार्गवश्च्यवनः शान्तस्तापसः संस्थितो मुनिः । ज्ञात्वासौ विजनं स्थानं तपस्तेपे समाहितः ॥ 41॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,41,9274,कृत्वा दृढासनं मौनमाधाय जितमारुतः । इन्द्रियाणि च संयम्य त्यक्ताहारस्तपोनिधिः ॥ 42॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,42,9275,जलपानादिरहितो ध्यायन्नास्ते पराम्बिकाम् । सवल्मीकोऽभवद्राजल्लँताभिः परिवेष्टितः ॥ 43॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,43,9276,कालेन महता राजन् समाकीर्णः पिपीलिकैः । तथा स संवृतो धीमान्मृत्पिण्ड इव सर्वतः ॥ 44॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,44,9277,कदाचित्स महीपालः कामिनीगणसंवृतः । आजगाम सरो राजन् विहर्तुमिदमुत्तमम् ॥ 45॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,45,9278,शर्यातिः सुन्दरीवृन्दसंयुतः सलिलेऽमले । क्रीडासक्तो महीपालो बभूव कमलाकरे ॥ 46॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,46,9279,सुकन्या वनमासाद्य विजहार सखीवृता । सुमनांसि विचिन्वन्ती चञ्चला चञ्चलोपमा ॥ 47॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,47,9280,सर्वाभरणसंयुक्ता रणच्चरणनूपुरा । चङ्क्रममाणा वल्मीकं च्यवनस्य समासदत् ॥ 48॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,48,9281,क्रीडासक्तोपविष्टा सा वल्मीकस्य समीपतः । ददर्श चास्य रन्ध्रे वै खद्योत इव ज्योतिषी ॥ 49॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,49,9282,किमेतदिति सञ्चिन्त्य समुद्धर्तुं मनो दधे । गृहीत्वा कण्टकं तीक्ष्णं त्वरमाणा कृशोदरी ॥ 50॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,50,9283,सा दृष्टा मुनिना बाला समीपस्था कृतोद्यमा । विचरन्ती सुकेशान्ता मन्मथस्येव कामिनी ॥ 51॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,51,9284,तां वीक्ष्य सुदतीं तत्र क्षामकण्ठस्तपोनिधिः । तामभाषत कल्याणीं किमेतदिति भार्गवः ॥ 52॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,52,9285,दूरं गच्छ विशालाक्षि तापसोऽहं वरानने । मा भिन्दस्वाद्य वल्मीकं कण्टकेन कृशोदरि ॥ 53॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,53,9286,तेनेदं प्रोच्यमानापि सा चास्य न श‍ृणोति वै । किमु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने ॥ 54॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,54,9287,दैवेन नोदिता भित्त्वा जगाम नृपकन्यका । क्रीडन्ती शङ्कमाना सा किं कृतं तु मयेति च ॥ 55॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,55,9288,चुक्रोध स तथा विद्धनेत्रः परममन्युमान् । वेदनाभ्यर्दितः कामं परितापं जगाम ह ॥ 56॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,56,9289,शकृन्मूत्रनिरोधोऽभूत्सैनिकानां तु तत्क्षणात् । विशेषेण तु भूपस्य सामात्यस्य समन्ततः ॥ 57॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,57,9290,गजोष्ट्रतुरगाणां च सर्वेषां प्राणिनां तदा । ततो रुद्धे शकृन्मूत्रे शर्यातिर्दुःखितोऽभवत् ॥ 58॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,58,9291,सैनिकैः कथितं तस्मै शकृन्मूत्रनिरोधनम् । चिन्तयामास भूपालः कारणं दुःखसम्भवे ॥ 59॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,59,9292,विचिन्त्याह ततो राजा सैनिकान्स्वजनांस्तथा । गृहमागत्य चिन्तार्तः केनेदं दुष्कृतं कृतम् ॥ 60॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,60,9293,सरसः पश्चिमे भागे वनमध्ये महातपाः । च्यवनस्तापसस्तत्र तपश्चरति दुश्चरम् ॥ 61॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,61,9294,केनाप्यपकृतं तत्र तापसेऽग्निसमप्रभे । तस्मात्पीडा समुत्पन्ना सर्वेषामिति निश्चयः ॥ 62॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,62,9295,तपोवृद्धस्य वृद्धस्य वरिष्ठस्य विशेषतः । केनाप्यपकृतं मन्ये भार्गवस्य महात्मनः ॥ 63॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,63,9296,ज्ञातं वा यदि वाज्ञातं तस्येदं फलमुत्तमम् । कैश्च दुष्टैः कृतं तस्य हेलनं तापसस्य ह ॥ 64॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,64,9297,इति पृष्टास्तमूचुस्ते सैनिका वेदनार्दिताः । मनोवाक्कायनितं न विद्मोऽपकृतं वयम् ॥ 65॥ 7,७.२,द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।,65,9298,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे शर्यातिराजवर्णनं नाम द्वितीयोऽध्यायः ॥ ७.२॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,0,9299,व्यास उवाच - इति पप्रच्छ तान्सर्वान् राजा चिन्ताकुलस्तथा । पर्यपृच्छत्सुहृद्वर्गं साम्ना चोग्रतयापि च ॥ 1॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,1,9300,पीड्यमानं जनं वीक्ष्य पितरं दुःखितं तथा । विचिन्त्य शूलभेदं सा सुकन्या चेदमब्रवीत् ॥ 2॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,2,9301,वने मया पितस्तत्र वल्मीको वीरुधावृतः । क्रीडन्त्या सुदृढो दृष्टश्छिद्रद्वयसमन्वितः ॥ 3॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,3,9302,तत्र खद्योतवद्दीप्तज्योतीषी वीक्षिते मया । सूच्याविद्धे महाराज पुनः खद्योतशङ्कया ॥ 4॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,4,9303,जलक्लिन्ना तदा सूची मया दृष्टा पितः किल । हाहेति च श्रुतः शब्दो मन्दो वल्मीकमध्यतः ॥ 5॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,5,9304,तदाहं विस्मिता राजन्किमेतदिति शङ्कया । न जाने किं मया विद्धं तस्मिन्वल्मीकमण्डले ॥ 6॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,6,9305,राजा श्रुत्वा तु शर्यातिः सुकन्यावचनं मृदु । मुनेस्तद्धेलनं ज्ञात्वा वल्मीकं क्षिप्रमभ्यगात् ॥ 7॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,7,9306,तत्रापश्यत्तपोवृद्धं च्यवनं दुःखितं भृशम् । स्फोटयामास वल्मीकं मुनिदेहावृतं भृशम् ॥ 8॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,8,9307,प्रणम्य दण्डवद्भूमौ राजा तं भार्गवं प्रति । तुष्टाव विनयोपेतस्तमुवाच कृताञ्जलिः ॥ 9॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,9,9308,पुत्र्या मम महाभाग क्रीडन्त्या दुष्कृतं कृतम् । अज्ञानाद्बालया ब्रह्मन् कृतं तत्क्षन्तुमर्हसि ॥ 10॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,10,9309,अक्रोधना हि मुनयो भवन्तीति मया श्रुतम् । तस्मात्त्वमपि बालायाः क्षन्तुमर्हसि साम्प्रतम् ॥ 11॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,11,9310,व्यास उवाच - इति श्रुत्वा वचस्तस्य च्यवनो वाक्यमब्रवीत् । विनयोपनतं दृष्ट्वा राजानं दुःखितं भृशम् ॥ 12॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,12,9311,च्यवन उवाच - राजन्नाहं कदाचिद्वै करोमि क्रोधमण्वपि । न मयाद्यैव शप्तस्त्वं दुहित्रा पीडने कृते ॥ 13॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,13,9312,नेत्रे पीडा समुत्पन्ना मम चाद्य निरागसः । तेन पापेन जानामि दुःखितस्त्वं महीपते ॥ 14॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,14,9313,अपराधं परं कृत्वा देवीभक्तस्य को जनः । सुखं लभेत यदपि भवेत् त्राता शिवः स्वयम् ॥ 15॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,15,9314,किं करोमि महीपाल नेत्रहीनो जरावृतः । अन्धस्य परिचर्यां च कः करिष्यति पार्थिव ॥ 16॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,16,9315,राजोवाच - सेवका बहवः सेवां करिष्यन्ति तवानिशम् । क्षमस्व मुनिशार्दूल स्वल्पक्रोधा हि तापसाः ॥ 17॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,17,9316,च्यवन उवाच - अन्धोऽहं निर्जनो राजंस्तपस्तप्तुं कथं क्षमः । त्वदीयाः सेवकाः किं ते करिष्यन्ति मम प्रियम् ॥ 18॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,18,9317,क्षमापयसि चेन्मां त्वं कुरु मे वचनं नृप । देहि मे परिचर्यार्थं कन्यां कमललोचनाम् ॥ 19॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,19,9318,तुष्येऽनया महाराज पुत्र्या तव महामते । करिष्यामि तपश्चाहं सा मे सेवां करिष्यति ॥ 20॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,20,9319,एवं कृते सुखं मे स्यात्तव चैव भविष्यति । सन्तुष्टे मयि राजेन्द्र सैनिकानां न संशयः ॥ 21॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,21,9320,विचिन्त्य मनसा भूप कन्यादानं समाचर । न चात्र दूषणं किञ्चित्तापसोऽहं यतव्रतः ॥ 22॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,22,9321,व्यास उवाच - शर्यातिर्वचनं श्रुत्वा मुनेश्चिन्तातुरोऽभवत् । न दास्येऽप्यथवा दास्ये किञ्चिन्नोवाच भारत ॥ 23॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,23,9322,कथमन्धाय वृद्धाय कुरूपाय सुतामिमाम् । देवकन्योपमां दत्त्वा सुखी स्यामात्मसम्भवाम् ॥ 24॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,24,9323,को वात्मनः सुखार्थाय पुत्र्याः संसारजं सुखम् । हरतेऽल्पमतिः पापो जानन्नपि शुभाशुभम् ॥ 25॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,25,9324,प्राप्य सा च्यवनं सुभ्रूः पञ्चबाणशरार्दिता । अन्धं वृद्धं पतिं प्राप्य कथं कालं नयिष्यति ॥ 26॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,26,9325,यौवने दुर्जयः कामो विशेषेण सुरूपया । आत्मतुल्यं पतिं प्राप्य किमु वृद्धं विलोचनम् ॥ 27॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,27,9326,गौतमं तापसं प्राप्य रूपयौवनसंयुता । अहल्या वासवेनाशु वञ्चिता वरवर्णिनी ॥ 28॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,28,9327,शप्ता च पतिना पश्चाज्ज्ञात्वा धर्मविपर्ययम् । तस्माद्भवतु मे दुःखं न ददामि सुकन्यकाम् ॥ 29॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,29,9328,इति सञ्चिन्त्य शर्यातिर्विमना स्वगृहं ययौ । सचिवांश्च समादाय मन्त्रं चक्रेऽतिदुःखितः ॥ 30॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,30,9329,भो मन्त्रिणो ब्रुवन्त्वद्य किं कर्तव्यं मयाधुना । पुत्री देयाथ विप्राय भोक्तव्यं दुःखमेव वा ॥ 31॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,31,9330,विचारयध्वं मिलिता हितं स्यान्मम वै कथम् । मन्त्रिण ऊचुः - किं ब्रूमोऽस्मिन्महाराज सङ्कटेऽतिदुरासदे ॥ 32॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,32,9331,दुर्भगाय सुकन्यैषा कथं देयातिसुन्दरी । व्यास उवाच - तदा चिन्ताकुलं वीक्ष्य पितरं मन्त्रिणस्तदा ॥ 33॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,33,9332,सुकन्या त्विङ्गितं ज्ञात्वा प्रहस्येदमुवाच ह । पितः कस्माद्भवानद्य चिन्ताव्याकुलितेन्द्रियः ॥ 34॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,34,9333,मत्कृते दुःखसंविग्नो विषण्णवदनोऽसि वै । अहं गत्वा मुनिं तत्र समाश्वास्य भयार्दितम् ॥ 35॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,35,9334,करिष्यामि प्रसन्नं तमात्मदानेन वै पितः । इति राजा वचः श्रुत्वा भाषितं यत्सुकन्यया ॥ 36॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,36,9335,तामुवाच प्रसन्नात्मा सचिवानां च श‍ृण्वताम् । कथं पुत्रि त्वमन्धस्य परिचर्यां वनेऽबला ॥ 37॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,37,9336,करिष्यसि जरार्तस्य क्रोधनस्य विशेषतः । कथमन्धाय चानेन रूपेण रतिसन्निभाम् ॥ 38॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,38,9337,ददामि जरया ग्रस्तदेहाय सुखवाञ्छया । पित्रा पुत्री प्रदातव्या वयोज्ञातिबलाय च ॥ 39॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,39,9338,धनधान्यसमृद्धाय नाधनाय कदाचन । क्व ते रूपं विशालाक्षि क्वासौ वृद्धो वनेचरः ॥ 40॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,40,9339,कथं देया मया पुत्री तस्मै नातिवराय च । उटजे नियतं वासो यस्य नित्यं मनोहरे ॥ 41॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,41,9340,कथमम्बुजपत्राक्षि कल्पनीयो मया तव । मरणं मे वरं प्राप्तं सैनिकानां तथैव च ॥ 42॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,42,9341,न ते प्रदानमन्धाय रोचते पिकभाषिणि । भवितव्यं भवत्येव धैर्यं नैव त्यजाम्यहम् ॥ 43॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,43,9342,सुस्थिरा भव सुश्रोणि न दास्येऽन्धाय कर्हिचित् । राज्यं तिष्ठतु वा यातु देहोऽयं च तथैव मे ॥ 44॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,44,9343,न त्वां दास्याम्यहं तस्मै नेत्रहीनाय बालिके । सुकन्या तं तदा प्राह श्रुत्व तद्वचनं पितुः ॥ 45॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,45,9344,प्रसन्नवदनातीव स्नेहयुक्तमिदं वचः । सुकन्योवाच - न मे चिन्ता पितः कार्या देहि मां मुनयेऽधुना ॥ 46॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,46,9345,सुखं भवतु सर्वेषां लोकानां मत्कृतेन हि । सेवयिष्यामि सन्तुष्टा पतिं परमपावनम् ॥ 47॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,47,9346,भक्त्या परमया चापि वृद्धं च विजने वने । सतीधर्मपरा चाहं चरिष्यामि सुसम्मतम् ॥ 48॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,48,9347,न भोगेच्छास्ति मे तात स्वस्थं चित्तं ममानघ । व्यास उवाच - तच्छ्रुत्वा भाषितं तस्या मन्त्रिणो विस्मयं गताः ॥ 49॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,49,9348,राजा च परमप्रीतो जगाम मुनिसन्निधौ । गत्वा प्रणम्य शिरसा तमुवाच तपोधनम् ॥ 50॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,50,9349,स्वामिन् गृहाण पुत्रीं मे सेवार्थं विधिवद्विभो । इत्युक्त्वासौ ददौ पुत्रीं विवाहविधिना नृपः ॥ 51॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,51,9350,प्रतिगृह्य मुनिः कन्यां प्रसन्नो भार्गवोऽभवत् । पारिबर्हं न जग्राह दीयमानं नृपेण ह ॥ 52॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,52,9351,कन्यामेवाग्रहीत्कामं परिचर्यार्थमात्मनः । प्रसन्नेऽस्मिन्मुनौ जातं सैनिकानां सुखं तदा ॥ 53॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,53,9352,राज्ञश्च परमाह्लादः सञ्जातस्तत्क्षणादपि । दत्त्वा पुत्रीं यदा राजा गमनाय गृहं प्रति ॥ 54॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,54,9353,मतिं चकार तवङ्गी तदोवाच नृपं सुता । सुकन्योवाच - गृहाण मम वासांसि भूषणानि च मे पितः ॥ 55॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,55,9354,वल्कलं परिधानाय प्रयच्छाजिनमुत्तमम् । वेषं तु मुनिपत्नीनां कृत्वा तपसि सेवनम् ॥ 56॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,56,9355,करिष्यामि तथा तात यथा ते कीर्तिरच्युता । भविष्यति भुवः पृष्ठे तथा स्वर्गे रसातले ॥ 57॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,57,9356,परलोकसुखायाहं चरिष्यामि दिवानिशम् । दत्त्वान्धाय च वृद्धाय सुन्दरीं युवतीं तु माम् ॥ 58॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,58,9357,चिन्ता त्वया न कर्तव्या शीलनाशसमुद्भवा । अरुन्धती वसिष्ठस्य धर्मपत्नी यथा भुवि ॥ 59॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,59,9358,तथैवाहं भविष्यामि नात्र कार्या विचारणा । अनसूया यथा साध्वी भार्यात्रेः प्रथिता भुवि ॥ 60॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,60,9359,तथैवाहं भविष्यामि पुत्री कीर्तिकरी तव । सुकन्यावचनं श्रुत्वा राजा परमधर्मवित् ॥ 61॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,61,9360,दत्त्वाजिनं रुरोदाशु वीक्ष्य तां चारुहासिनीम् । त्यक्त्वा भूषणवासांसि मुनिवेषधरां सुताम् ॥ 62॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,62,9361,विवर्णवदनो भूत्वा स्थितस्तत्रैव पार्थिवः । राज्ञ्यः सर्वाः सुतां दृष्ट्वा वल्कलाजिनधारिणीम् ॥ 63॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,63,9362,रुरुदुर्भृशशोकार्ता वेपमाना इवाभवन् । तामापृच्छ्य महीपालो मन्त्रिभिः परिवारितः । ययौ स्वनगरं राजन् मुक्त्वा पुत्रीं शुचार्पिताम् ॥ 64॥ 7,७.३,तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।,64,9363,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनं नाम तृतीयोऽध्यायः ॥ ७.३॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,0,9364,व्यास उवाच - गते राजनि सा बाला पतिसेवापरायणा । बभूव च तथाग्नीनां सेवने धर्मतत्परा ॥ 1॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,1,9365,फलान्यादाय स्वादूनि मूलानि विविधानि च । ददौ सा मुनये बाला पतिसेवापरायणा ॥ 2॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,2,9366,पतिं तप्तोदकेनाशु स्नापयित्वा मृगत्वचा । परिवेष्ट्य शुभायां तु बृस्यां स्थापितवत्यपि ॥ 3॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,3,9367,तिलान् यवकुशानग्रे परिकल्प्य कमण्डलुम् । तमुवाच नित्यकर्म कुरुष्व मुनिसत्तम ॥ 4॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,4,9368,तमुत्थाप्य करे कृत्वा समाप्ते नित्यकर्मणि । बृस्यां वा संस्तरे बाला भर्तारं संन्यवेशयत् ॥ 5॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,5,9369,पश्चादानीय पक्वानि फलानि च नृपात्मजा । भोजयामास च्यवनं नीवारान्नं सुसंस्कृतम् ॥ 6॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,6,9370,भुक्तवन्तं पतिं तृप्तं दत्त्वाचमनमादरात् । पश्चाच्च पूगं पत्राणि ददौ चादरसंयुता ॥ 7॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,7,9371,गृहीतमुखवासं तं संवेश्य च शुभासने । गृहीत्वाऽऽज्ञां शरीरस्य चकार साधनं ततः ॥ 8॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,8,9372,फलाहारं स्वयं कृत्वा पुनर्गत्वा च सन्निधौ । प्रोवाच प्रणयोपेता किमाज्ञापयसे प्रभो ॥ 9॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,9,9373,पादसंवाहनं तेऽद्य करोमि यदि मन्यसे । एवं सेवापरा नित्यं बभूव पतितत्परा ॥ 10॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,10,9374,सायं होमावसाने सा फलान्याहृत्य सुन्दरी । अर्पयामास मुनये स्वादूनि च मृदूनि च ॥ 11॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,11,9375,ततः शेषाणि बुभुजे प्रेमयुक्ता तदाज्ञया । सुस्पर्शास्तरणं कृत्वा शाययामास तं मुदा ॥ 12॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,12,9376,सुप्ते सुखं प्रिये कान्ता पदसंवाहनं तदा । चकार पृच्छती धर्मं कुलस्त्रीणां कृशोदरी ॥ 13॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,13,9377,पादसंवाहनं कृत्वा निशि भक्तिपरायणा । निद्रितं च मुनिं ज्ञात्वा सुष्वाप चरणान्तिके ॥ 14॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,14,9378,शुचौ प्रतिष्ठितं वीक्ष्य तालवृन्तेन भामिनी । कुर्वाणा शीतलं वायुं सिषेवे स्वपतिं तदा ॥ 15॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,15,9379,हेमन्ते काष्ठसम्भारं कृत्वाग्निज्वलनं पुरः । स्थापयित्वा तथापृच्छत्सुखं तेऽस्तीति चासकृत् ॥ 16॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,16,9380,ब्राह्मे मुहूर्ते चोत्थाय जलं पात्रं च मृत्तिकाम् । समर्पयित्वा शौचार्थं समुत्थाप्य पतिं प्रिया ॥ 17॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,17,9381,स्थानाद्दूरे च संस्थाप्य दूरं गत्वा स्थिराभवत् । कृतशौचं पतिं ज्ञात्वा गत्वा जग्राह तं पुनः ॥ 18॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,18,9382,आनीयाश्रममव्यग्रा चोपवेश्यासने शुभे । मृज्जलाभ्यां च प्रक्षाल्य पादावस्य यथाविधि ॥ 19॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,19,9383,दत्त्वाऽऽचमनपात्रं तु दन्तधावनमाहरत् । समर्प्य दन्तकाष्ठं च यथोक्तं नृपनन्दिनी ॥ 20॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,20,9384,चकारोष्णं जलं शुद्धं समानीतं सुपावनम् । स्नानार्थं जलमाहृत्य पप्रच्छ प्रणयान्विता ॥ 21॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,21,9385,किमाज्ञापयसे ब्रह्मन् कृतं वै दन्तधावनम् । उष्णोदकं सुसम्पन्नं कुरु स्नानं समन्त्रकम् ॥ 22॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,22,9386,वर्तते होमकालोऽयं सन्ध्या पूर्वा प्रवर्तते । विधिवद्धवनं कृत्वा देवतापूजनं कुरु ॥ 23॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,23,9387,एवं कन्या पतिं लब्ध्वा तपस्विनमनिन्दिता । नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च ॥ 24॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,24,9388,अग्नीनामतिथीनां च शुश्रूषां कुर्वती सदा । आराधयामास मुदा च्यवनं सा शुभानना ॥ 25॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,25,9389,कस्मिंश्चिदथ काले तु रविजावश्विनावुभौ । च्यवनस्याश्रमाभ्याशे क्रीडमानौ समगतौ ॥ 26॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,26,9390,जले स्नात्वा तु तां कन्यां निवृत्तां स्वाश्रमं प्रति । गच्छन्तीं चारुसर्वाङ्गीं रविपुत्रावपश्यताम् ॥ 27॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,27,9391,तां दृष्ट्वा देवकन्याभां गत्वा चान्तिकमादरात् । ऊचतुः समभिद्रुत्य नासत्यावतिमोहितौ ॥ 28॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,28,9392,क्षणं तिष्ठ वरारोहे प्रष्टुं त्वां गजगामिनि । आवां देवसुतौ प्राप्तौ ब्रूहि सत्यं शुचिस्मिते ॥ 29॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,29,9393,पुत्री कस्य पतिः कस्ते कथमुद्यानमागता । एकाकिनी तडागेऽस्मिन् स्नानार्थं चारुलोचने ॥ 30॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,30,9394,द्वितीया श्रीरिवाभासि कान्त्या कमललोचने । इच्छामस्तु वयं ज्ञातुं तत्त्वमाख्याहि शोभने ॥ 31॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,31,9395,कोमलौ चरणौ कान्ते स्थितौ भूमावनावृतौ । हृदाये कुरुतः पीडां चलन्तौ चललोचने ॥ 32॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,32,9396,विमानार्हासि तन्वङ्गि कथं पद्भ्यां व्रजस्यदः । अनावृतात्र विपिने किमर्थं गमनं तव ॥ 33॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,33,9397,दासीशतसमायुक्ता कथं च त्वं विनिर्गता । राजपुत्र्यप्सरा वासि वद सत्यं वरानने ॥ 34॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,34,9398,धन्या माता यतो जाता धन्योऽसौ जनकस्तव । वक्तुं त्वां नैव शक्तौ च भर्तुर्भाग्यं तवानघे ॥ 35॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,35,9399,देवलिकाधिका भूमिरियं चैव सुलोचने । प्रचलंश्चरणस्तेऽद्य सम्पावयति भूतलम् ॥ 36॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,36,9400,सौभाग्याश्च मृगाः कामं ये त्वां पश्यन्ति वै वने । ये चान्ये पक्षिणः सर्वे भूरियं चातिपावना ॥ 37॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,37,9401,स्तुत्यालं तव चात्यर्थं सत्यं ब्रूहि सुलोचने । पिता कस्ते पतिः क्वासौ द्रष्टुमिच्छास्ति सादरम् ॥ 38॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,38,9402,व्यास उवाच - तयोरिति वचः श्रुत्वा राजकन्यातिसुन्दरी । तावुवाच त्रपाक्रान्ता देवपुत्री नृपात्मजा ॥ 39॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,39,9403,शर्यातितनयां मां वां वित्तं भार्यां मुनेरिह । च्यवनस्य सतीं कान्तां पित्रा दत्तां यदृच्छया ॥ 40॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,40,9404,पतिरन्धोऽस्ति मे देवौ वृद्धश्चातीव तापसः । तस्य सेवामहोरात्रं करोमि प्रीतिमानसा ॥ 41॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,41,9405,कौ युवां किमिहायातौ पतिस्तिष्ठति चाश्रमे । तत्रागत्य प्रकुरुतमाश्रमं चाद्य पावनम् ॥ 42॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,42,9406,तदाकर्ण्य वचो दस्रावूचतुस्तां नराधिप । कथं त्वमपि कल्याणि पिता दत्ता तपस्विने ॥ 43॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,43,9407,भ्राजसेऽस्मिन्वनोद्देशे विद्युत्सौदामिनी यथा । न देवेष्वपि तुल्या हि तव दृष्टास्ति भामिनि ॥ 44॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,44,9408,त्वं दिव्याम्बरयोग्यासि शोभसे नाजिनैर्वृता । सर्वाभरणसंयुक्ता नीलालकवरूथिनी ॥ 45॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,45,9409,अहो विधेर्दुष्कलितं विचेष्टितं यदत्र रम्भोरु वने विषीदसि । विशालनेत्रेऽन्धमिमं पतिं प्रिये मुनिं समासाद्य जरातुरं भृशम् ॥ 46॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,46,9410,वृथा व्रतस्तेन भृशं न शोभसे नवं वयः प्राप्य सुनृत्यपण्डिते । मनोभवेनाशु शराः सुसन्धिताः पतन्ति कस्मिन्पतिरीदृशस्तव ॥ 47॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,47,9411,त्वमन्धभार्या नवयौवनान्विता कृतासि धात्रा ननु मन्दबुद्धिना । न चैनमर्हस्यसितायतेक्षणे पतिं त्वमन्यं कुरु चारुलोचने ॥ 48॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,48,9412,वृथैव ते जीवितमम्बुजेक्षणे पतिं च सम्प्राप्य मुनिं गतेक्षणम् । वने निवासं च तथाजिनाम्बर- प्रधारणं योग्यतरं न मन्महे ॥ 49॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,49,9413,अतोऽनवद्याङ्ग्युभयोस्त्वमेकं वरं कुरुषावहिता सुलोचने । किं यौवनं मानिनि सङ्करोषि वृथा मुनिं सुन्दरि सेवमाना ॥ 50॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,50,9414,किं सेवसे भाग्यविवर्जितं तं समुज्झितं पोषणरक्षणाभ्याम् । त्यक्त्वा मुनिं सर्वसुखापवर्जितं भजानवद्याङ्ग्युभयोस्त्वमेकम् ॥ 51॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,51,9415,त्वं नन्दने चैत्ररथे वने च कुरुष्व कान्ते प्रथितं विहारम् । अन्धेन वृद्धेन कथं हि कालं विनेष्यसे मानिनि मानहीनम् ॥ 52॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,52,9416,भूपात्मजा त्वं शुभलक्षणा च जानासि संसारविहारभावम् । भाग्येन हीना विजने वनेऽत्र कालं कथं वाहयसे वृथा च ॥ 53॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,53,9417,तस्माद्भजस्व पिकभाषिणि चारुवक्त्रे एवं द्वयोस्तव सुखाय विशालनेत्रे । देवालयुषे च कृशोदरि भुङ्क्ष्व भोगान् त्यक्त्वा मुनिं जरठमाशु नृपेन्द्रपुत्रि ॥ 54॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,54,9418,किं ते सुखं चात्र वने सुकेशि वृद्धेन सार्धं विजने मृगाक्षि । सेवा तथान्धस्य नवं वयश्च किं ते मतं भूपतिपुत्रि दुःखम् ॥ 55॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,55,9419,शशिमुखि त्वमतीव सुकोमला फलजलाहरणं तव नोचितम् ॥ 56॥ 7,७.४,चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।,56,9420,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनं नाम चतुर्थोऽध्यायः ॥ ७.४॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,0,9421,व्यास उवाच - तयोस्तद्भाषितं श्रुत्वा वेपमाना नृपात्मजा । धैर्यमालम्ब्य तौ तत्र बभाषे मितभाषिणी ॥ 1॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,1,9422,देवौ वां रविपुत्रौ च सर्वज्ञौ सुरसम्मतौ । सतीं मां धर्मशीलां च नैवं वदितुमर्हथः ॥ 2॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,2,9423,पित्रा दत्ता सुरश्रेष्ठौ मुनये योगधर्मिणे । कथं गच्छामि तं मार्गं पुंश्चलीगणसेवितम् ॥ 3॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,3,9424,द्रष्टायं सर्वलोकस्य कर्मसाक्षी दिवाकरः । कश्यपाच्चैव सम्भूतो नैवं भाषितुमर्हथः ॥ 4॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,4,9425,कुलकन्या पतिं त्यक्त्वा कथमन्यं भजेन्नरम् । असारेऽस्मिन्हि संसारे जानन्तौ धर्मनिर्णयम् ॥ 5॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,5,9426,यथेच्छं गच्छतं देवौ शापं दास्यामि वानघौ । सुकन्याहं च शर्यातेः पतिभक्तिपरायणा ॥ 6॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,6,9427,व्यास उवाच - इत्याकर्ण्य वचस्तस्या नासत्यौ विस्मितौ भृशम् । तावब्रूतां पुनस्त्वेनां शङ्कमानौ भयं मुनेः ॥ 7॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,7,9428,राजपुत्रि प्रसन्नौ ते धर्मेण वरवर्णिनि । वरं वरय सुश्रोणि दास्यावः श्रेयसे तव ॥ 8॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,8,9429,जानीहि प्रमदे नूनमावां देवभिषग्वरौ । युवानं रूपसम्पन्नं प्रकुर्यावः पतिं तव ॥ 9॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,9,9430,ततस्त्रयाणामस्माकं पतिमेकतमं वृणु । समानरूपदेहानां मध्ये चातुर्यपण्डिते ॥ 10॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,10,9431,सा तर्योवचनं श्रुत्वा विस्मिता स्वपतिं तदा । गत्वोवाच तयोर्वाक्यं ताभ्यामुक्तं यदद्भुतम् ॥ 11॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,11,9432,सुकन्योवाच - स्वामिन् सूर्यसुतौ देवौ सम्प्राप्तौ च्यवनाश्रमे । दृष्टौ मया दिव्यदेहौ नासत्यौ भृगुनन्दन ॥ 12॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,12,9433,वीक्ष्य मां चारुसर्वाङ्गीं जातौ कामातुरावुभौ । कथितं वचनं स्वामिन् पतिं ते नवयौवनम् ॥ 13॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,13,9434,दिव्यदेहं करिष्यावश्चक्षुष्मन्तं मुनिं किल । एतेन समयेनाद्य तं श‍ृणु त्वं मयोदितम् ॥ 14॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,14,9435,समावयवरूपं च करिष्यावः पतिं तव । तत्र त्रयाणामस्माकं पतिमेकतमं वृणु ॥ 15॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,15,9436,तच्छ्रुत्वाहमिहायाता प्रष्टुं त्वां कार्यमद्भुतम् । किं कर्तव्यमतः साधो ब्रूह्यस्मिन्कार्यसङ्कटे ॥ 16॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,16,9437,देवमायापि दुर्ज्ञेया न जाने कपटं तयोः । यदाज्ञापय सर्वज्ञ तत्करोमि तवेप्सितम् ॥ 17॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,17,9438,च्यवन उवाच - गच्छ कान्तेऽद्य नासत्यौ वचनान्मम सुव्रते । आनयस्व समीपं मे शीघ्रं देवभिषग्वरौ ॥ 18॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,18,9439,क्रियतामाशु तद्वाक्यं नात्र कार्या विचारणा व्यास उवाच - एवं सा समनुज्ञाता तत्र गत्वा वचोऽब्रवीत् ॥ 19॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,19,9440,क्रियतामाशु नासत्यौ समयेन सुरोत्तमौ । तच्छ्रुत्वा चाश्विनौ वाक्यं तस्यास्तौ तत्र चागतौ ॥ 20॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,20,9441,ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः । रूपार्थं च्यवनस्तूर्णं ततोऽम्भः प्रविवेश ह ॥ 21॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,21,9442,अश्विनावपि पश्चात्तत्प्रविष्टौ सर उत्तमम् । ततस्ते निःसृतास्तस्मात्सरसस्तत्क्षणात्त्रयः । तुल्यरूपा दिव्य देहा युवानः सदृशाः किल । दिव्यकुण्डलभूषाढ्याः समानावयवास्तथा ॥ 23॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,22,9443,तेऽब्रुवन्सहिताः सर्वे वृणीष्व वरवर्णिनि । अस्माकमीप्सितं भद्रे पतिं त्वममलानने ॥ 24॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,23,9444,यस्मिन्वाप्यधिका प्रीतिस्तं वृणुष्व वरानने । व्यास उवाच - सा दृष्ट्वा तुल्यरूपांस्तान्समानवयसस्तथा ॥ 25॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,24,9445,एकस्वरांस्तुल्यवेषांस्त्रीन्वै देवसुतोपमान् । सा तु संशयमापन्ना वीक्ष्य तान्सदृशाकृतीन् ॥ 26॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,25,9446,अजानन्ती पतिं सम्यग्व्याकुला समचिन्तयत् । किं करोमि त्रयस्तुल्याः कं वृणोमि न वेद्म्यहम् ॥ 27॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,26,9447,पतिं देवसुता ह्येते संशये पतितास्म्यहम् । इन्द्रजालमिदं सम्यग्देवाभ्यामिह कल्पितम् ॥ 28॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,27,9448,कर्तव्यं किं मया चात्र मरणं समुपागतम् । न मया पतिमुत्सृज्य वरणीयः कथञ्चन ॥ 29॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,28,9449,देवस्त्वाधुनिकः कश्चिदित्येषा मम धारणा । इति सञ्चिन्त्य मनसा परां विश्वेश्वरीं शिवाम् ॥ 30॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,29,9450,दध्यौ भगवतीं देवीं तुष्टाव च कृशोदरी । सुकन्योवाच - शरणं त्वां जगन्मातः प्राप्तास्मि भृशदुःखिता ॥ 31॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,30,9451,रक्ष मेऽद्य सतीधर्मं नमामि चरणौ तव । नमः पद्मोद्भवे देवि नमः शङ्करवल्लभे ॥ 32॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,31,9452,विष्णुप्रिये नमो लक्ष्मि वेदमातः सरस्वति । इदं जगत्त्वया सृष्टं सर्वं स्थावरजङ्गमम् ॥ 33॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,32,9453,पासि त्वमिदमव्यग्रा तथात्सि लोकशान्तये । ब्रह्मविष्णुमहेशानां जननी त्वं सुसम्मता ॥ 34॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,33,9454,बुद्धिदासि त्वमज्ञानां ज्ञानिनां मोक्षदा सदा । आज्ञा त्वं प्रकृतिः पूर्णा पुरुषप्रियदर्शना ॥ 35॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,34,9455,भुक्तिमुक्तिप्रदासि त्वं प्राणिनां विशदात्मनाम् । अज्ञानां दुःखदा कामं सत्त्वानां सुखसाधना ॥ 36॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,35,9456,सिद्धिदा योगिनामम्ब जयदा कीर्तिदा पुनः । शरणं त्वां प्रपन्नास्मि विस्मयं परमं गता ॥ 37॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,36,9457,पतिं दर्शय मे मातर्मग्नास्मि शोकसागरे । देवाभ्यां चरितं कूटं कं वृणोमि विमोहिता ॥ 38॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,37,9458,पतिं दर्शय सर्वज्ञे विदित्वा मे सतीव्रतम् । व्यास उवाच - एवं स्तुता तदा देवा तथा त्रिपुरसुन्दरी ॥ 39॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,38,9459,हृदयेऽस्यास्तदा ज्ञानं ददावाशु सुखोदयम् । निश्चित्य मनसा तुल्यवयोरूपधरान्सती ॥ 40॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,39,9460,प्रसमीक्ष्य तु तान् सर्वान्वव्रे बाला स्वकं पतिम् । वृतेऽथ च्यवने देवौ सन्तुष्टौ तौ बभूवतुः ॥ 41॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,40,9461,सतीधर्मं समालोक्य सम्प्रीतौ ददतुर्वरम् । भगवत्याः प्रसादेन प्रसन्नौ तौ सुरौत्तमौ ॥ 42॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,41,9462,मुनिमामन्त्र्य तरसा गमनायोद्यतावुभौ । लब्ध्वा तु च्यवनो रूपं नेत्रे भार्यां च यौवनम् ॥ 43॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,42,9463,हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः । उपकारः कृतोऽयं मे युवाभ्यां सुरसत्तमौ ॥ 44॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,43,9464,किं ब्रवीमि सुखं प्राप्तं संसारेऽस्मिन्ननुत्तमे । प्राप्य भार्यां सुकेशान्तां दुःखं मेऽभवदन्वहम् ॥ 45॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,44,9465,अन्धस्य चातिवृद्धस्य भोगहीनस्य कानने । युवाभ्यां नयने दत्ते यौवनं रूपमद्भुतम् ॥ 46॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,45,9466,सम्पादितं ततं किञ्चिदुपकर्तुमहं ब्रुवे । उपकारिणि मित्रे यो नोपकुर्यात्कथञ्चन ॥ 47॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,46,9467,तं धिगस्तु नरं देवौ भवेच्च ऋणवान्भुवि । तस्माद्वां वाञ्छितं किञ्चिद्दातुमिच्छामि साम्प्रतम् ॥ 48॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,47,9468,आत्मनो ऋणमोक्षाय देवेशौ नूतनस्य च । प्रार्थितं वां प्रदास्यामि यदलभ्यं सुरासुरैः ॥ 49॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,48,9469,ब्रुवाथां वां मनोद्दिष्टं प्रीतोऽस्मि सुकृतेन वाम् । श्रुत्वा तौ तु मुनेर्वाक्यमभिमन्त्र्य परस्परम् ॥ 50॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,49,9470,तमूचतुर्मुनिश्रेष्ठं सुकन्यासहितं स्थितम् । मुने पितुः प्रसादेन सर्वं नो मनसेप्सितम् ॥ 51॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,50,9471,उत्कण्ठा सोमपानस्य वर्तते नौ सुरैः सह । भिषजाविति देवेन निषिद्धौ चमसग्रहे ॥ 52॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,51,9472,शक्रेण वितते यज्ञे ब्रह्मणः कनकाचले । तस्मात्त्वमपि धर्मज्ञ यदि शक्तोऽसि तापस ॥ 53॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,52,9473,कार्यमेतद्धि कर्तव्यं वाञ्छितं नौ सुसम्मतम् । एतद्विज्ञाय वा ब्रह्मन्कुरु वां सोमपायिनौ ॥ 54॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,53,9474,पिपासास्ति सुदुष्प्रापपा त्वत्तः समुपयास्यति । च्यवनस्तु तयोः प्राह तच्छ्रुत्वा वचनं मृदु ॥ 55॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,54,9475,यदहं रूपसम्पन्नो वयसा च समन्वितः । कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवानिति ॥ 56॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,55,9476,तस्माद्युवां करिष्यामि प्रीत्याहं सोमपायिनौ । मिषतो देवराजस्य सत्यमेतद्ब्रवीम्यहम् ॥ 57॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,56,9477,राज्ञस्तु वितते यज्ञे शर्यातेरमितद्युतेः । इत्याकर्ण्य वचो हृष्टौ तौ दिवं प्रतिजग्मतुः ॥ 58॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,57,9478,च्यवनस्तां गृहीत्वा तु जगामाश्रममण्डलम् ॥ 59॥ 7,७.५,पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।,58,9479,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनं नाम पञ्चमोऽध्यायः ॥ ७.५॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,0,9480,जनमेजय उवाच - च्यवनेन कथं वैद्यौ तौ कृतौ सोमपायिनौ । वचनं च कथं सत्यं जातं तस्य महात्मनः ॥ 1॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,1,9481,मानुषस्य बलं कीदृग्देवराजबलं प्रति । निषिद्धौ भिषजौ तेन कृतौ तौ सोमपायिनौ ॥ 2॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,2,9482,धर्मनिष्ठ तदाश्चर्यं विस्तरेण वद प्रभो । चरितं च्यवनस्याद्य श्रोतुकामोऽस्मि सर्वथा ॥ 3॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,3,9483,व्यास उवाच - निशामय महाराज चरितं परमाद्भुतम् । च्यवनस्य मखे तस्मिञ्छर्यातेर्भुवि भारत ॥ 4॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,4,9484,सुकन्यां सुन्दरीं प्राप्य च्यवनः सुरसन्निभः । विजहार प्रसन्नात्मा देवकन्यामिवापरः ॥ 5॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,5,9485,कदाचिदथ शर्यातिभार्या चिन्तातुरा भृशम् । पतिं प्राह वेपमाना वचनं रुदती प्रिया ॥ 6॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,6,9486,राजन् पुत्री त्वया दत्ता मुनयेऽन्धाय कानने । मृता जीवति वा सा तु द्रष्टव्या सर्वथा त्वया ॥ 7॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,7,9487,गच्छ नाथ मुनेस्तावदाश्रमं द्रष्टुमादरात् । किं करोति सुकन्या सा प्राप्य नाथं तथाविधम् ॥ 8॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,8,9488,पुत्रीदुःखेन राजर्षे दग्धास्मि सर्वथा हृदि । तामानय विशालाक्षीं तपःक्षामां मदन्तिके ॥ 9॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,9,9489,पश्यामि सर्वथा पुत्रीं कृशाङ्गीं वल्कलावृताम् । अन्धं पतिं समासाद्य दुःखभाजं कृशोदरीम् ॥ 10॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,10,9490,शर्यातिरुवाच - गच्छामोऽद्य विशालाक्षि सुकन्यां द्रष्टुमादरात् । प्रियपुत्रीं वरारोहे मुनिं तं संशितव्रतम् ॥ 11॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,11,9491,व्यास उवाच - एवमुक्त्व तु शर्यातिः कामिनीं शोकसङ्कुलाम् । जगाम रथमारुह्य त्वरितश्चाश्रमं मुनेः ॥ 12॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,12,9492,गत्वाऽऽश्रमसमीपे तु तमपश्यन्महीपतिः । नवयौवनसम्पन्नं देवपुत्रोपमं मुनिम् ॥ 13॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,13,9493,तं विलोक्यामराकारं विस्मयं नृपतिर्गतः । किं कृतं कुत्सितं कर्म पुत्र्या लोकविगर्हितम् ॥ 14॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,14,9494,निहतोऽसौ मुनिर्वृद्धस्त्वनयान्यः पतिः कृतः । कामपीडितया कामं प्रशान्तोऽप्यतिनिर्धनः ॥ 15॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,15,9495,दुःसहयोऽयं पुष्पधन्वा विशेषेण च यौवने । कुले कलङ्कः सुमहाननया मानवे कृतः ॥ 16॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,16,9496,धिक्तस्य जीवितं लोके यस्य पुत्री हि कुत्सिता । सर्वपापैस्तु दुःखाय पुत्री भवति देहिनाम् ॥ 17॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,17,9497,मया त्वनुचितं कर्म कृतं स्वार्थस्य सिद्धये । वृद्धायान्धाय या दत्ता पुत्री सर्वात्मना किल ॥ 18॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,18,9498,कन्या योग्याय दातव्या पित्रा सर्वात्मना किल । तादृशं हि फलं प्राप्तं यादृशं वै कृतं मया ॥ 19॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,19,9499,हन्मि चेदद्य तनयां दुःशीलां पापकारिणीम् । स्त्रीहत्या दुस्तरा स्यान्मे तथा पुत्र्या विशेषतः ॥ 20॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,20,9500,मनुवंशस्तु विख्यातः सकलङ्कः कृतो मया । लोकापवादो बलवान्दुस्त्याज्या स्नेहश‍ृङ्खला ॥ 21॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,21,9501,किं करोमीति चिन्ताब्धौ यदा मग्नः स पार्थिवः । सुकन्यया तदा दैवाद्दृष्टश्चिन्ताकुलः पिता ॥ 22॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,22,9502,सा दृष्ट्वा तं जगामाशु सुकन्या पितुरन्तिके । गत्वा पप्रच्छ भूपालं प्रेमपूरितमानसा ॥ 23॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,23,9503,किं विचारयसे राजंश्चिन्ताव्याकुलिताननः । उपविष्टं मुनिं वीक्ष्य युवानमम्बुजेक्षणम् ॥ 24॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,24,9504,एह्येहि पुरुषव्याघ्र प्रणमस्व पतिं मम । मा विषादं नृपश्रेष्ठ साम्प्रतं कुरु मानव ॥ 25॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,25,9505,व्यास उवाच - इति पुत्र्या वचं श्रुत्वा शर्यातिः क्रोधपीडितः । प्रोवाच वचनं राजा पुरःस्थां तनयां ततः ॥ 26॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,26,9506,राजोवाच - क्व मुनिश्च्यवनः पुत्रि वृद्धोऽन्धस्तापसोत्तमः । कोऽयं युवा मदोन्मत्तः सन्देहोऽत्र महान्मम ॥ 27॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,27,9507,मुनिः किं निहतः पापे त्वया दुष्कृतकारिणि । नूतनोऽसौ पतिः कामात्कृतः कुलविनाशिनि ॥ 28॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,28,9508,सोऽहं चिन्तातुरस्तं न पश्याम्याश्रमसंस्थितम् । किं कृतं दुष्कृतं कर्म कुलटाचरितं किल ॥ 29॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,29,9509,निमग्नोऽहं दुराचारे शोकाब्धौ त्वत्कृतेऽधुना । दृष्ट्वैनं पुरुषं दिव्यमदृष्ट्वा च्यवनं मुनिम् ॥ 30॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,30,9510,विहस्य तमुवाचाशु सा श्रुत्वा वचनं पितुः । गृहीत्वाऽऽनीय पितरं भर्तुरन्तिकमादरात् ॥ 31॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,31,9511,च्यवनोऽसौ मुनिस्तात जामाता ते न संशयः । अश्विभ्यामीदृशः कान्तः कृतः कमललोचनः ॥ 32॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,32,9512,यदृच्छयात्र सम्प्राप्तौ नासत्यावाश्रमे मम । ताभ्यां करुणया नूनं च्यवनस्तादृशः कृतः ॥ 33॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,33,9513,नाहं तव सुता तात तथा स्यां पापकारिणी । यथा त्वं मन्यसे राजन् विमूढो रूपसंशये ॥ 34॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,34,9514,प्रणम त्वं मुनिं राजन् भार्गवं च्यवनं पितः । आपृच्छ कारणं सर्वं कथियिष्यति विस्तरम् ॥ 35॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,35,9515,इति श्रुत्वा वचं पुत्र्या शर्यातिस्त्वरितस्तदा । प्रणनाम मुनिं तत्र गत्वा पप्रच्छ सादरम् ॥ 36॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,36,9516,राजोवाच - कथयस्व स्ववृत्तान्तं भार्गवाशु यथोचितम् । नयने च कथं प्राप्ते क्व गता ते जरा पुनः ॥ 37॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,37,9517,संशयोऽयं महान्मेऽस्ति रूपं दृष्ट्वातिसुन्दरम् । वद विस्तरतो ब्रह्मन् श्रुत्वाहं सुखमाप्नुयाम् ॥ 38॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,38,9518,च्यवन उवाच - नासत्यावत्र सम्प्राप्तौ देवानां भिषजावुभौ । उपकारः कृतस्ताभ्यां कृपया नृपसत्तम ॥ 39॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,39,9519,मया ताभ्यां वरो दत्त उपकारस्य हेतवे । करिष्यामि मखे राज्ञो भवन्तौ सोमपायिनौ ॥ 40॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,40,9520,एवं मया वयः प्राप्तं लोचने विमले तथा । स्वस्थो भव महाराज संविशस्वासने शुभे ॥ 41॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,41,9521,इत्युक्तः स तु विप्रेण सभार्यः पृथिवीपतिः । सुखोपविष्टः कल्याणीः कथाश्चक्रे महात्मना ॥ 42॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,42,9522,अथैनं भार्गवं प्राह राजानं परिसान्त्वयन् । याजयिष्यामि राजंस्त्वां सम्भारानुपकल्पय ॥ 43॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,43,9523,मया प्रतिश्रुतं ताभ्यां कर्तव्यौ सोमपौ युवाम् । तत्कर्तव्यं नृपश्रेष्ठ तव यज्ञेऽतिविस्तरे ॥ 44॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,44,9524,इन्द्रं निवारयिष्यामि क्रुद्धं तेजोबलेन वै । पाययिष्यामि राजेन्द्र सोमं सोममखे तव ॥ 45॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,45,9525,ततः परमसन्तुष्टः शर्यातिः पृथिवीपतिः । च्यवनस्य महाराज तद्वाक्यं प्रत्यपूजयत् ॥ 46॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,46,9526,सम्मान्य च्यवनं राजा जगाम नगरं प्रति । सभार्यश्चातिसन्तुष्टः कुर्वन्वार्तां मुनेः किल ॥ 47॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,47,9527,प्रशस्तेहनि यज्ञीये सर्वकामसमृद्धिमान् । कारयामास शर्यातिर्यज्ञायतनमुत्तमम् ॥ 48॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,48,9528,समानीय मुनीन्पूज्यान्वसिष्ठप्रमुखानसौ । भार्गवो याजयामास च्यवनः पृथिवीपतिम् ॥ 49॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,49,9529,वितते तु तथा यज्ञे देवाः सर्वे सवासवाः । आजग्मुश्चाश्विनौ तत्र सोमार्थमुपजग्मतुः ॥ 50॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,50,9530,इन्द्रस्तु शङ्कितस्तत्र वीक्ष्य तावश्विनावुभौ । पप्रच्छ च सुरान्सर्वान्किमेतौ समुपागतौ ॥ 51॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,51,9531,चिकित्सकौ न सोमार्हौ केनानीताविहेति च । नाब्रुवन्नमरास्तत्र राज्ञस्तु वितते मखे ॥ 52॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,52,9532,अगृह्णाच्च्यवनः सोममश्विनोर्देवयोस्तदा । शक्रस्तं वारयामास मा गृहाणैतयोर्ग्रहम् ॥ 53॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,53,9533,तमाह च्यवनस्तत्र कथमेतौ रवेः सुतौ । न ग्रहार्हौ च नासत्यौ ब्रूहि सत्यं शचीपते ॥ 54॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,54,9534,न सङ्करौ समुत्पन्नौ धर्मपत्नीसुतौ रवेः । केन दोषेण देवेन्द्र नार्हौ सोमं भिषग्वरौ ॥ 55॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,55,9535,निर्णयोऽत्र मखे शक्र कर्तव्यः सर्वदैवतैः । ग्राहयिष्यामहं सोमं कृतौ तौ सोमपौ मया ॥ 56॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,56,9536,प्रेरितोऽसौ मया राजा मखाय मघवन्किल । एतदर्थं करिष्यामि सत्यं मे वचनं विभो ॥ 57॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,57,9537,आभ्यामुपकृतः शक्र तथा दत्तं नवं वयः । तस्मात्प्रत्युपकारस्तु कर्तव्यः सर्वथा मया ॥ 58॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,58,9538,इन्द्र उवाच - चिकित्सकौ कृतावेतौ नासत्यौ निन्दितौ सुरैः । उभावेतौ न सोमार्हौ मा गृहाणैतयोर्ग्रहम् ॥ 59॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,59,9539,च्यवन उवाच - अहल्याजार संयच्छ कोपं चाद्य निरर्थकम् । वृत्रघ्न किं हि नासत्यौ न सोमार्हौ सुरात्मजौ ॥ 60॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,60,9540,एवं विवादे समुपस्थिते च न कोऽपि वाचं तमुवाच भूप । ग्रहं तयोर्भार्गवतिग्मतेजाः सङ्ग्राहयामास तपोबलेन ॥ 61॥ 7,७.६,षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।,61,9541,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे च्यवनाश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनं नाम षष्टोऽध्यायः ॥ ७.६॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,0,9542,व्यास उवाच - दत्ते ग्रहे तु राजेन्द्र वासवः कुपितौ भृशम् । प्रोवाच च्यवनं तत्र दर्शयन्बलमात्मनः ॥ 1॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,1,9543,मा ब्रह्मबन्धो मर्यादामिमां त्वं कर्त्तुमर्हसि । वधिष्यामि द्विषन्तं त्वां विश्वरूपमिवाऽपरम् ॥ 2॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,2,9544,च्यवन उवाच - मावमंस्था महात्मानौ रूपद्रविणवर्चसा । यौ चक्रतुर्मां मघवन् वृन्दारकमिवापरम् ॥ 3॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,3,9545,ऋते त्वां विबुधाश्चान्ये कथं वाददते ग्रहम् । अश्विनावपि देवेन्द्र देवौ विद्धि परन्तपौ ॥ 4॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,4,9546,इन्द्र उवाच - भिषजौ नार्हतः कामं ग्रहं यज्ञे कथञ्चन । यदि दित्ससि मन्दात्मन् शिरश्छेत्स्यामि साम्प्रतम् ॥ 5॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,5,9547,व्यास उवाच । अनादृत्य तु तद्वाक्यं वासवस्य च भार्गवः । ग्रहं तु ग्राहयामास भर्त्सयन्निव तं भृशम् ॥ 6॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,6,9548,सोमपात्रं यदा ताभ्यां गृहीतं तु पिपासया । समीक्ष्य बलभिद्देव इदं वचनमब्रवीत् ॥ 7॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,7,9549,आभ्यमर्थाय सोमं त्वं ग्राहयिष्यसि चेत्स्वयम् । वज्रं तु प्रहरिष्यामि विश्वरूपमिवापरम् ॥ 8॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,8,9550,वासवेनैवमुक्तस्तु भार्गवश्चातिगर्वितः । जग्राह विधिवत्सोममश्विभ्यामतिमन्युमान् ॥ 9॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,9,9551,इन्द्रोऽपि प्राक्षिपत्कोपाद्वज्रमस्मै स्वमायुधम् । पश्यतां सर्वदेवानां सूर्यकोटिसमप्रभम् ॥ 10॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,10,9552,प्रेरितं चाशनिं प्रेक्ष्य च्यवनस्तपसा ततः । स्तम्भयामास वज्रं स शक्रस्यामिततेजसः ॥ 11॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,11,9553,कृत्यया स महाबाहुरिन्द्रं हन्तुमिहोद्यतः । जुहावाग्नौ श्रुतं हव्यं मन्त्रेण मुनिसत्तमः ॥ 12॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,12,9554,तत्र कृत्या समुत्पन्ना च्यवनस्य तपोबलात् । प्रबलः पुरुषः क्रूरो बृहत्कायो महासुरः ॥ 13॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,13,9555,मदो नाम महाघोरो भयदः प्राणिनामिह । शरीरे पर्वताकारस्तीक्ष्णदंष्ट्रो मयानकः ॥ 14॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,14,9556,चतस्रश्चायता दंष्ट्रा योजनानां शतं शतम् । इतरे त्वस्य दशना बभूवुर्दशयोजनाः ॥ 15॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,15,9557,बाहू पर्वतसङ्काशावायतौ क्रूरदर्शनौ । जिह्वा तु भीषणा क्रूरा लेलिहाना नभस्तलम् ॥ 16॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,16,9558,ग्रीवा तु गिरिश‍ृङ्गाभा कठिना भीषणा भृशम् । नखा व्याघ्रनखप्रख्याः केशाश्चातीवभीषणाः ॥ 17॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,17,9559,शरीरं कज्जलाभं च तस्य चास्यं भयानकम् । नेत्रे दावानलप्रख्ये भीषणेऽतिभयानके ॥ 18॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,18,9560,हनुरेका स्थिता तस्य भूमावेका दिवं गता । एवंविधः समुत्पन्नो मदो नाम बृहत्तनुः ॥ 19॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,19,9561,तं विलोक्य सुराः सर्वे भयमाजग्मुरंहसा । इन्द्रोऽपि भयसन्त्रस्तो युद्धाय न मनो दधे ॥ 20॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,20,9562,दैत्योऽपि वदने कामं वज्रमादाय संस्थितः । व्याप्तं नभो घोरदृष्टिर्ग्रसन्निव जगत्त्रयम् ॥ 21॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,21,9563,स भक्ष्ययिष्यन्सङ्क्रुद्धः शतक्रतुमुपाद्रवत् । चक्रुशुश्च सुराः सर्वे हा हताः स्मेति संस्थिताः ॥ 22॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,22,9564,इन्द्रः स्तम्भितबाहुस्तु मुमुक्षुर्वज्रमन्तिकात् । न शशाक पविं तस्मिन्प्रहर्तुं पाकशासनः ॥ 23॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,23,9565,वज्रहस्तः सुरेशानस्तं वीक्ष्य कालसन्निभम् । सस्मार मनसा तत्र गुरुं समयकोविदम् ॥ 24॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,24,9566,स्मरणादाजगामाशु बृहस्पतिरुदारधीः । गुरुस्तत्समयं दृष्ट्वा विपत्तिसदृशं महत् ॥ 25॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,25,9567,विचार्य मनसा कृत्यं तमुवाच शचीपतिम् । दुःसाध्योऽयं महामन्त्रैस्त्वयं वज्रेण वासव ॥ 26॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,26,9568,असुरो मदसंज्ञस्तु यज्ञकुण्डात्समुत्थितः । तपोबलमृषेः सम्यक् च्यवनस्य महाबलः ॥ 27॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,27,9569,अनिवार्यो ह्ययं शत्रुस्त्वया देवैस्तथा मया । शरणं याहि देवेश च्यवनस्य महात्मनः ॥ 28॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,28,9570,स निवारयिता नूनं कृत्यामात्मकृतां किल । न निवारयितुं शक्ताः शक्तिभक्तरुषं क्वचित् ॥ 29॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,29,9571,व्यास उवाच - इत्युक्तो गुरुणा शक्रस्तदागच्छन्मुनिं प्रति । प्रणम्य शिरसा नम्रः तमुवाच भयान्वितः ॥ 30॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,30,9572,क्षमस्व मुनिशार्दूल शमयासुरमुद्यतम् । प्रसन्नो भव सर्वज्ञ वचनं ते करोम्यहम् ॥ 31॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,31,9573,सोमार्हावश्विनावेतावद्यप्रभृति भार्गव । भविष्यतः सत्यमेतद्वचो विप्र प्रसीद मे ॥ 32॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,32,9574,मिथ्या ते नोद्यमो ह्येष भवत्येव तपोधन । जाने त्वमपि धर्मज्ञ मिथ्या नैव करिष्यसि ॥ 33॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,33,9575,सोमपावश्विनावेतौ त्वत्कृतौ च सदैवे हि । भविष्यतश्च शर्यातेः कीर्तिस्तु विपुला भवेत् ॥ 34॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,34,9576,मया यद्धि कृतं कर्म सर्वथा मुनिसत्तम । परीक्षार्थं तु विज्ञेयं तव वीर्यप्रकाशनम् ॥ 35॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,35,9577,प्रसादं कुरु मे ब्रह्मन् मदं संहर चोत्थितम् । कल्याणं सर्वदेवानां तथा भूयो विधीयताम् ॥ 36॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,36,9578,एवमुक्तस्तु शक्रेण च्यवनः परमार्थवित् । सञ्जहार तपः कोपं समुत्पन्नं विरोधजम् ॥ 37॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,37,9579,देवमाश्वास्य संविग्नं भार्गवस्तु मदं ततः । व्यभजत्स्त्रीषु पानेषु द्यूतेषु मृगयासु च ॥ 38॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,38,9580,मदं विभज्य देवेन्द्रमाश्वास्य चकितं भिया । संस्थाप्य च सुरान्सर्वान्मखं तस्य न्यवर्तयत् ॥ 39॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,39,9581,ततस्तु संस्कृतं सोमं वासवाय महात्मने । अश्विभ्यां सर्वधर्मात्मा पाययामास भार्गवः ॥ 40॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,40,9582,एवं तौ च्यवनेनार्यावश्विनौ रविपुत्रकौ । विहितौ सोमपौ राजन् सर्वथा तपसो बलात् ॥ 41॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,41,9583,सरस्तदपि विख्यातं जातं यूपविमण्डितम् । आश्रमस्तु मुनेः सम्यक् पृथिव्यां विश्रुतोऽभवत् ॥ 42॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,42,9584,शर्यातिरपि सन्तुष्टो ह्यभवत्तेन कर्मणा । यज्ञं समाप्य नगरे जगाम सचिवैर्वृतः ॥ 43॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,43,9585,राज्यं चकार धर्मज्ञो मनुपुत्रः प्रतापवान् । आनर्तस्तस्य पुत्रोऽभूदानर्ताद्रेवतोऽभवत् ॥ 44॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,44,9586,सोऽन्तःसमुद्रे नगरीं विनिर्माय कुशस्थलीम् । आस्थितोऽभुङ्क्त विषयानानर्तादीनरिन्दमः ॥ 45॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,45,9587,तस्य पुत्रशतं जज्ञे ककुद्मिज्येष्ठमुत्तमम् । पुत्री च रेवती नाम्ना सुन्दरी शुभलक्षणा ॥ 46॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,46,9588,वरयोग्या यदा जाता तदा राजा च रेवतः । चिन्तयामास राजेन्द्रो राजपुत्रान्कुलोद्भवान् ॥ 47॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,47,9589,रैवतं नाम च गिरिमाश्रितः पृथिवीपतिः । चकार राज्यं बलवानानर्तेषु नराधिपः ॥ 48॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,48,9590,विचिन्त्य मनसा राजा कस्मै देया मया सुता । गत्वा पृच्छामि ब्रह्माणं सर्वज्ञं सुरपूजितम् ॥ 49॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,49,9591,इति सञ्चिन्त्य भूपालः सुतामादाय रेवतीम् । ब्रह्मलोकं जगामाशु प्रष्टुकामः पितामहम् ॥ 50॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,50,9592,यत्र देवाश्च यज्ञाश्च छन्दांसि पर्वतास्तथा । अब्धयः सिद्धगन्धर्वाः दिव्यरूपधराः स्थिताः ॥ 51॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,51,9593,ऋषयः सिद्धगन्धर्वाः पन्नगाश्चारणास्तथा । तस्थुः प्राञ्जलयः सर्वे स्तुवन्तश्च पुरातनाः ॥ 52॥ 7,७.७,सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।,52,9594,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनं नाम सप्तमोऽध्यायः ॥ ७.७॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,0,9595,जनमेजय उवाच - संशयोऽयं महान् ब्रह्मन् वर्तते मम मानसे । ब्रह्मलोकं गतो राजा रेवतीसंयुतः स्वयम् ॥ 1॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,1,9596,मया पूर्वं श्रुतं कृत्स्नं ब्राह्मणेभ्यः कथान्तरे । ब्राह्मणो ब्रह्मविच्छान्तो ब्रह्मलोकमवाप्नुयात् ॥ 2॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,2,9597,राजा कथं गतस्तत्र रेवतीसंयुतः स्वयम् । सत्यलोकेऽतिदुष्प्रापे भूर्लोकादिति संशयः ॥ 3॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,3,9598,मृतः स्वर्गमवाप्नोति सर्वशास्त्रेषु निर्णयः । (मानुषेण तु देहेन ब्रह्मलोके गतिः कथं । ) स्वर्गात्पुनः कथं लोके मानुषे जायते गतिः ॥ 4॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,4,9599,एतन्मे संस्ययं विद्वंश्छेत्तुमर्हसि साम्प्रतम् । यथा राजा गतस्तत्र प्रष्टुकामः प्रजापतिम् ॥ 5॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,5,9600,व्यास उवाच - मेरोस्तु शिखरे राजन् सर्वे लोकाः प्रतिष्ठिताः । इन्द्रलोको वह्निलोको या च संयमिनी पुरी ॥ 6॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,6,9601,तथैव सत्यलोकश्च कैलासश्च तथा पुनः । वैकुण्ठश्च पुनस्तत्र वैष्णवं पदमुच्यते ॥ 7॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,7,9602,यथार्जुनः शक्रलोके गतः पार्थो धनुर्धरः । पञ्चवर्षाणि कौन्तेयः स्थितस्तत्र सुरालये ॥ 8॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,8,9603,मानुषेणैव देहेन वासवस्य च सन्निधौ । तथैवान्येऽपि भूपालाः ककुत्स्थप्रमुखाः किल ॥ 9॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,9,9604,स्वर्लोकगतयः पश्चाद्दैत्याश्चापि महाबलाः । जित्वेन्द्रसदनं प्राप्य संस्थितास्तत्र कामतः ॥ 10॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,10,9605,महाभिषः पुरा राजा ब्रह्मलोकं गतः स्वराट् । आगच्छन्तीं नृपो गङ्गामपश्यच्चातिसुन्दरीम् ॥ 11॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,11,9606,वायुनाम्बरमस्यास्तु दैवादपहृतं नृप । किञ्चिन्नग्ना नृपेणाथ दृष्टा सा सुन्दरी तथा ॥ 12॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,12,9607,स्मितं चकार कामार्तः सा च किञ्चिज्जहास वै । ब्रह्मणा तौ तदा दृष्टौ शप्तौ जातौ वसुन्धराम् ॥ 13॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,13,9608,वैकुण्ठेऽपि सुराः सर्वे पीडिता दैत्यदानवैः । गत्वा हरिं जगन्नाथमस्तुवन्कमलापतिम् ॥ 14॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,14,9609,सन्देहो नात्र कर्तव्यः सर्वथा नृपसत्तम । गम्याः सर्वेऽपि लोकाः स्युर्मानवानां नराधिप ॥ 15॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,15,9610,अवश्यं कृतपुण्यानां तापसानां नराधिप । पुण्यसद्भाव एवात्र गमने कारणं नृप ॥ 16॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,16,9611,तथैव यजमानानां यज्ञेन भावितात्मनाम् । जनमेजय उवाच - रेवतो रेवतीं कन्यां गृहीत्वा चारुलोचनाम् ॥ 17॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,17,9612,ब्रह्मलोकं गतः पश्चात्किं कृतं तेने भूभुजा । ब्रह्मणा किं समादिष्टं कस्मै दत्ता सुता पुनः ॥ 18॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,18,9613,तत्सर्वं विस्तराद्बह्मन् कथय त्वं ममाधुना । व्यास उवाच - निशामय महीपाल राजा रेवतकः किल ॥ 19॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,19,9614,पुत्र्या वरं परिप्रष्टुं ब्रह्मलोकं गतो यदा । आवर्तमाने गान्धर्वे स्थितो लब्धक्षणः क्षणम् ॥ 20॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,20,9615,श‍ृण्वन्नतृप्यद्धृष्टात्मा सभायां तु सकन्यकः । समाप्ते तत्र गान्धर्वे प्रणम्य परमेश्वरम् ॥ 21॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,21,9616,दर्शयित्वा सुतां तस्मै स्वाभिप्रायं न्यवेदयत् । राजोवाच - वरं कथय देवेश कन्येयं मम पुत्रिका ॥ 22॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,22,9617,देया कस्मै मया ब्रह्मन् प्रष्टुं त्वां समुपागतः । बहवो राजपुत्रा मे वीक्षिताः कुलसम्भवाः ॥ 23॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,23,9618,कस्मिंश्चिन्मे मनः कामं नोपतिष्ठति चञ्चलम् । तस्मात्त्वां देवदेवेश प्रष्टुमत्रागतोऽस्म्यहम् ॥ 23॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,24,9619,तदाज्ञापय सर्वज्ञ योग्यं राजसुतं वरम् । कुलीनं बलवन्तं च सर्वलक्षणसंयुतम् ॥ 25॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,25,9620,दातारं धर्मशीलं च राजपुत्रं समादिश । व्यास उवाच - तदाकर्ण्य जगत्कर्ता वचनं नृपतेस्तदा ॥ 26॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,26,9621,तमुवाच हसन्वाक्यं दृष्ट्वा कालस्य पर्ययम् । ब्रह्मोवाच - राजपुत्रास्त्वया राजन् वरा ये हृदये कृताः ॥ 27॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,27,9622,ग्रस्ताः कालेन ते सर्वे सपितृपौत्रबान्धवाः । सप्तविंशतिमोऽद्यैव द्वापरस्तु प्रवर्तते ॥ 28॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,28,9623,वंशजास्ते मृताः सर्वे पुरी दैत्यैर्विलुण्ठिता । सोमवंशोद्भवस्तत्र राजा राज्यं प्रशास्ति हि ॥ 29॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,29,9624,उग्रसेन इति ख्यातो मथुराधिपतिः किल । ययातिवंशसम्भूतो राजा माथुरमण्डले ॥ 30॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,30,9625,उग्रसेनात्मजः कंसः सुरद्वेषी महाबलः । दैत्यांशः पितरं सोऽपि कारागारं न्यवेशयत् ॥ 31॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,31,9626,स्वयं राज्यं चकारासौ नृपाणां मदगर्वितः । मेदिनी चातिभारार्ता ब्रह्माणं शरणं गता ॥ 32॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,32,9627,दुष्टराजन्यसैन्यायां भारेणातिसमाकुला । अंशावतरणं तत्र गदितं सुरसत्तमैः ॥ 33॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,33,9628,वासुदेवः समुत्पन्नः कृष्णः कमललोचनः । देवक्यां देवरूपिण्यां योऽसौ नारायणो मुनिः ॥ 34॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,34,9629,तपश्चचार दुःसाध्यं धर्मपुत्रः सनातनः । गङ्गातीरे नरसखः पुण्ये बदरिकाश्रमे ॥ 35॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,35,9630,सोऽवतीर्णो यदुकुले वासुदेवोऽपि विश्रुतः । तेनासौ निहतः पापः कंसः कृष्णेन सत्तम ॥ 36॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,36,9631,उग्रसेनाय राज्यं वै दत्तं हत्वा खलं सुतम् । कंसस्य श्वशुरः पापो जरासन्धो महाबलः ॥ 37॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,37,9632,आगत्य मथुरां क्रोधाच्चकार सङ्गरं मुदा । कृष्णेनासौ जितः सङ्ख्ये जरासन्धो महाबलः ॥ 38॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,38,9633,प्रेषयामास युद्धाय सबलं यवनं ततः । श्रुत्वाऽऽयान्तं महाशूरं ससैन्यं यवनाधिपम् ॥ 39॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,39,9634,[कृष्णस्तु मथुरां त्यक्त्वा पुरीं द्वारावतीमगात् । प्रभग्नां तां पुरीं कृष्णः शिल्पिभिः सह सङ्गतैः ॥ कारयामास दुर्गाढ्यां हट्टशालाविमण्डिताम् । जीर्णोद्धारं पुरः कृत्वा वासुदेवः प्रतापवान् । उग्रसेनं च राजानं चकार वशवर्तिनम् ॥ ] यादवान्स्थापयामास द्वारवत्यां यदूत्तमः । वासुदेवस्तु तत्राद्य वर्तते बान्धवैः सह ॥ 40॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,40,9635,तास्याग्रतः स विख्यातो बलदेवो हलायुधः । शेषांशो मुसली वीरो वरोऽस्तु तव सम्मतः ॥ 41॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,41,9636,सङ्कर्षणाय देह्याशु कन्यां कमललोचनाम् । रेवतीं बलभद्राय विवाहविधिना ततः ॥ 42॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,42,9637,दत्त्वा पुत्रीं नृपश्रेष्ठ गच्छ त्वं बदरिकाश्रमम् । तपस्तप्तुं सुरारामं पावनं कामदं नृणाम् ॥ 43॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,43,9638,व्यास उवाच - इति राजा समादिष्टो ब्रह्मणा पद्मयोनिना । जगाम तरसा राजन् द्वारकां कन्ययान्वितः ॥ 44॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,44,9639,ददौ तां बलदेवाय कन्यां वै शुभलक्षणाम् । ततस्तप्त्वा तपस्तीव्रं नृपतिः कालपर्यये ॥ 45॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,45,9640,जगाम त्रिदशावासं त्यक्त्वा देहं सरित्तटे । राजोवाच - भगवन्महदाश्चर्यं भवता समुदाहृतम् ॥ 46॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,46,9641,रेवतस्तु स्थितस्तत्र ब्रह्मलोके सुतार्थतः । युगानां तु गतं तत्र शतमष्टोत्तरं किल ॥ 47॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,47,9642,कन्या वृद्धा न सञ्जाता राजा वातितरां नु किम् । एतावन्तं तथा कालमायुः पूर्णं तयोः कथम् ॥ 48॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,48,9643,व्यास उवाच - न जरा क्षुपित्पासा वा न मृत्युर्न भयं पुनः । न तु ग्लानिः प्रभवति ब्रह्मलोके सदानघ ॥ 49॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,49,9644,मेरुं गतस्य शर्यातेः सन्तती राक्षसैर्हता । गताः कुशस्थलीं त्यक्त्वा भयभीता इतस्ततः ॥ 50॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,50,9645,मनोश्च क्षुवतः पुत्र उत्पन्नो वीर्यवत्तरः । इक्ष्वाकुरिति विख्यातः सूर्यवंशकरस्तु सः ॥ 51॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,51,9646,वंशार्थं तप आतिष्ठद्देवीं ध्यात्वा निरन्तरम् । नारदस्योपदेशेन प्राप्य दीक्षामनुत्तमाम् ॥ 52॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,52,9647,तस्य पुत्रशतं राजन्निक्ष्वाकोरिति विश्रुतम् । विकुक्षिः प्रथमस्तेषां बलवीर्यसमन्वितः ॥ 53॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,53,9648,अयोध्यायां स्थितो राजा इक्ष्वाकुरिति विश्रुतः । शकुनिप्रमुखाः पुत्रा पञ्चाशद्बलवत्तराः ॥ 54॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,54,9649,उत्तरापथदेशस्य रक्षितारः कृताः किल । दक्षिणस्यां तथा राजन्नादिष्टास्तेन ते सुताः ॥ 55॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,55,9650,चत्वारिंशत्तथाष्टौ च रक्षणार्थं महात्मना । अन्यौ द्वौ संस्थितौ पार्श्वे सेवार्थं तस्य भूपतेः ॥ 56॥ 7,७.८,अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।,56,9651,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे इक्ष्वाकुवंशवर्णनं नामाष्टमोऽध्यायः ॥ ७.८॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,0,9652,व्यास उवाच - कदाचिदष्टकाश्राद्धे विकुक्षिं पृथिवीपतिः । आज्ञापयदसम्मूढो मांसमानय सत्वरम् ॥ 1॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,1,9653,मेध्यं श्राद्धार्थमधुना वने गत्वा सूतादरात् । उत्युक्तोऽसौ तथेत्याशु जगाम वनमस्त्रभृत् ॥ 2॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,2,9654,गत्वा जघान बाणैः स वराहान्सूकरान्मृगान् । शशांश्चापि परिश्रान्तो बभूवाथ बुभूक्षितः ॥ 3॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,3,9655,विस्मृता चाष्टका तस्य शशं चाददसौ वने । शेषं निवेदयामास पित्रे मांसमनुत्तमम् ॥ 4॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,4,9656,प्रोक्षणाय समानीतं मांसं दृष्ट्वा गुरुस्तदा । अनर्हमिति तज्ज्ञात्वा चुकोप मुनिसत्तमः ॥ 5॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,5,9657,भुक्तशेषं तु न श्राद्धे प्रोक्षणीयमिति स्थितिः । राज्ञे निवेदयामास वसिष्ठः पाकदूषणम् ॥ 6॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,6,9658,पुत्रस्य कर्म तज्ज्ञात्वा भूपतिर्गुरुणोदितम् । चुकोप विधिलोपात्तं देशान्निःसारयत्ततः ॥ 7॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,7,9659,शशाप इति विख्यातो नाम्ना जातो नृपात्मजः । गतो वने शशादस्तु पितृकोपादसम्भ्रमः ॥ 8॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,8,9660,वन्येन वर्तयन्कालं नीतवान् धर्मतत्परः । पितर्युपरते राज्यं प्राप्तं तेन महात्मना ॥ 9॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,9,9661,शशादस्त्वकरोद्राज्यमयोध्यायाः पतिः स्वयम् । यज्ञाननेकशः पूर्णांश्चकार सरयूतटे ॥ 10॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,10,9662,शशादस्याभवत्पुत्रः ककुत्स्थ इति विश्रुतः । तस्यैव नामभेदाद्वै इन्द्रवाहः पुरञ्जयः ॥ 11॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,11,9663,जनमेजय उवाच - नामभेदः कथं जातो राजपुत्रस्य चानघ । कारणं ब्रूहि मे सर्वं कर्मणा येन चाभवत् ॥ 12॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,12,9664,व्यास उवाच - शशादे स्वर्गते राजा ककुत्स्थ इति चाभवत् । [राज्यं चकार धर्मज्ञः पितृपैतामहं बलात् ।] एतस्मिन्नन्तरे देवा दैत्यैः सर्वे पराजिताः ॥ 13॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,13,9665,जग्मुस्त्रिलोकाधिपतिं विष्णुं शरणमव्ययम् । तान्प्रोवाच महाविष्णुस्तदा देवान्सनातनः ॥ 14॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,14,9666,विष्णुरुवाच - पार्ष्णिग्राहं महीपालं प्रार्थयन्तु शशादजम् । स हनिष्यति वै दैत्यान्सङ्ग्रामे सुरसत्तमाः ॥ 15॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,15,9667,आगमिष्यति धर्मात्मा साहाय्यार्थं धनुर्धरः । पराशक्तेः प्रसादेन सामर्थ्यं तस्य चातुलम् ॥ 16॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,16,9668,हरेः सुवचनाद्देवा ययुः सर्वे सवासवाः । अयोध्यायां महाराज शशादतनयं प्रति ॥ 17॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,17,9669,तानागतान् सुरान् राजा पूजयामास धर्मतः । पप्रच्छागमने राजा प्रयोजनमतन्द्रितः ॥ 18॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,18,9670,राजोवाच - धन्योऽहं पावितश्चास्मि जीवितं सफलं मम । यदागत्य गृहे देवा ददुश्च दर्शनं महत् ॥ 19॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,19,9671,ब्रुवन्तु कृत्यं देवेशा दुःसाध्यमपि मानवैः । करिष्यामि महत्कार्यं सर्वथा भवतां महत् ॥ 20॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,20,9672,देवा ऊचुः - साहाय्यं कुरु राजेन्द्र सखा भव शचीपतेः । सङ्ग्रामे जय दैत्येन्द्रान्दुर्जयांस्त्रिदशैरपि ॥ 21॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,21,9673,पराशक्तिप्रसादेन दुर्लभं नास्ति ते क्वचित् । विष्णुना प्रेरिताश्चैवमागतास्तव सन्निधौ ॥ 22॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,22,9674,राजोवाच - पार्ष्णिग्राहो भवाम्यद्य देवानां सुरसत्तमाः । इन्द्रो मे वाहनं तत्र भवेद्यदि सुराधिपः ॥ 23॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,23,9675,सङ्ग्रामं तु करिष्यामि दैत्यैर्देवकृतेऽधुना । आरुह्येन्द्रं गमिष्यामि सत्यमेतद्ब्रवीम्यहम् ॥ 24॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,24,9676,तदोचुर्वासवं देवाः कर्तव्यं कार्यमद्भुतम् । पत्रं भव नरेन्द्रस्य त्यक्त्वा लज्जां शचीपते ॥ 25॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,25,9677,लज्जमानस्तदा शक्रः प्रेरितो हरिणा भृशम् । बभूव वृषभस्तूर्णं रुद्रस्येवापरो महान् ॥ 26॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,26,9678,तमारुरोह राजासौ सङ्ग्रामगमनाय वै । स्थितः ककुदि येनास्य ककुत्स्थस्तेन चाभवत् ॥ 27॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,27,9679,इन्द्रो वाहः कृतो येन तेन नाम्नेन्द्रवाहकः । पुरं जितं तु दैत्यानां तेनाभूच्च पुरञ्जयः ॥ 28॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,28,9680,जित्वा दैत्यान्महाबाहुर्धनं तेषां प्रदत्तवान् । पप्रच्छ चैवं राजर्षेरिति सख्यं बभूव ह ॥ 29॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,29,9681,ककुत्स्थश्चातिविख्यातो नृपतिस्तस्य वंशजाः । काकुत्स्था भुवि राजानो बभूवुर्बहुविश्रुताः ॥ 30॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,30,9682,ककुत्स्थस्याभवत्पुत्रो धर्मपत्न्यां महाबलः । अनेना विश्रुतस्तस्य पृथुः पुत्रश्च वीर्यवान् ॥ 31॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,31,9683,विष्णोरंशः स्मृतः साक्षात्पराशक्तिपदार्चकः । विश्वरन्धिस्तु विज्ञेयः पृथोः पुत्रो नराधिपः ॥ 32॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,32,9684,चन्द्रस्तस्य सुतः श्रीमान् राजा वंशकरः स्मृतः । तत्सुतो युवनाश्वस्तु तेजस्वी बलवत्तरः ॥ 33॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,33,9685,शावन्तो युवनाश्वस्य जज्ञे परमधार्मिकः । शावन्ती निर्मिता तेन पुरी शक्रपुरीसमा ॥ 34॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,34,9686,बृहदश्वस्तु पुत्रोऽभूच्छावन्तस्य महात्मनः । कुवलयाश्वः सुतस्तस्य बभूव पृथिवीपतिः ॥ 35॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,35,9687,धुन्धुर्नामा हतो दैत्यस्तेनासौ पृथिवीतले । धुन्धुमारेति विख्यातं नाम प्रापातिविश्रुतम् ॥ 36॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,36,9688,पुत्रस्तस्य दृढाश्वस्तु पालयामास मेदिनीम् । दृढाश्वस्य सुतः श्रीमान्हर्यश्व इति कीर्तितः ॥ 37॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,37,9689,निकुम्भस्तत्सुतः प्रोक्तो बभूव पृथिवीपतिः । बर्हणाश्वो निकुम्भस्य कुशाश्वस्तस्य वै सुतः ॥ 38॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,38,9690,प्रसेनजित्कृशाश्वस्य बलवान्सत्यविक्रमः । तस्य पुत्रो महाभागो यौवनाश्वेति विश्रुतः ॥ 39॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,39,9691,यौवनाश्वसुतः श्रीमान्मान्धातेति महीपतिः । अष्टोत्तरसहस्रं तु प्रासादा येन निर्मिताः ॥ 40॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,40,9692,भगवत्यास्तु तुष्ट्यर्थं महातीर्थेषु मानद । मातृगर्भे न जातोऽसावुत्पन्नो जनकोदरे ॥ 41॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,41,9693,निःसारितस्ततः पुत्रः कुक्षिं भित्त्वा पितुः पुनः । राजोवाच - न श्रुतं न च दृष्टं वा भवता तदुदाहृतम् ॥ 42॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,42,9694,असम्भाव्यं महाभाग तस्य जन्म यथोदितम् । विस्तरेण वदस्वाद्य मान्धातुर्जन्मकारणम् ॥ 43॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,43,9695,राजोदरे यथोत्पन्नः पुत्रः सर्वाङ्गसुन्दरः । व्यास उवाच - यौवनाश्वोऽनपत्योऽभूद्राजा परमधार्मिकः ॥ 44॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,44,9696,भार्याणां च शतं तस्य बभूव नृपतेर्नृप । राजा चिन्तापरः प्रायश्चिन्तयामास नित्यशः ॥ 45॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,45,9697,अपत्यार्थे यौवनाश्वो दुःखितस्तु वनं गतः । ऋषीणामाश्रमे पुण्ये निर्विण्णः स च पार्थिवः ॥ 46॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,46,9698,मुमोच दुःखितः श्वासांस्तापसानां च पश्यताम् । दृष्ट्वा तु दुःखितं विप्रा बभूवुश्च कृपालवः ॥ 47॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,47,9699,तमूचुर्ब्राह्मणा राजन्कस्माच्छोचसि पार्थिव । किं ते दुःखं महाराज ब्रूहि सत्यं मनोगतम् ॥ 48॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,48,9700,प्रतीकारं करिष्यामो दुःखस्य तव सर्वथा । यौवनाश्व उवाच - राज्यं धनं सदश्वाश्च वर्तन्ते मुनयो मम ॥ 49॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,49,9701,भार्याणां च शतं शुद्धं वर्तते विशदप्रभम् । नारातिस्त्रिषु लोकेषु कोऽप्यस्ति बलवान्मम ॥ 50॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,50,9702,आज्ञाकरास्तु सामन्ता वर्तन्ते मन्त्रिणस्तथा । एकं सन्तानजं दुःखं नान्यत्पश्यामि तापसाः ॥ 51॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,51,9703,अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च । तस्माच्छोचामि विप्रेन्द्राः सन्तानार्थं भृशं ततः ॥ 52॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,52,9704,वेदशास्त्रार्थतत्त्वज्ञास्तापसाश्च कृतश्रमाः । इष्टिं सन्तानकामस्य युक्तां ज्ञात्वा दिशन्तु मे ॥ 53॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,53,9705,कुर्वन्तु मम कार्यं वै कृपा चेदस्ति तापसाः । व्यास उवाच - तच्छ्रुत्वा वचनं राज्ञः कृपया पूर्णमानसाः ॥ 54॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,54,9706,कारयामासुरव्यग्रास्तस्येष्टिमिन्द्रदेवताम् । कलशः स्थापितस्तत्र जलपूर्णस्तु वाडवैः ॥ 55॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,55,9707,मन्त्रितो वेदमन्त्रैश्च पुत्रार्थं तस्य भूपतेः । राजा तद्यज्ञसदनं प्रविष्टस्तृषितो निशि ॥ 56॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,56,9708,विप्रान्दृष्ट्वा शयानान्स पपौ मन्त्रजलं स्वयम् । भार्यार्थं संस्कृतं विप्रैर्मन्त्रितं विधिनोद्धृतम् ॥ 57॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,57,9709,पीतं राज्ञा तृषार्तेन तदज्ञानान्नृपोत्तम । व्युदकं कलशं दृष्ट्वा तदा विप्रा विशङ्किताः ॥ 58॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,58,9710,पप्रच्छुस्ते नृपं केन पीतं जलमिति द्विजाः । राज्ञा पीतं विदित्वा ते ज्ञात्वा दैवबलं महत् ॥ 59॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,59,9711,इष्टिं समापयामासुर्गतास्ते मुनयो गृहान् । गर्भं दधार नृपतिस्ततो मन्त्रबलादथ ॥ 60॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,60,9712,ततः काले स उत्पन्नः कुक्षिं भित्त्वाऽस्य दक्षिणाम् । पुत्रं निष्कासमायासुर्मन्त्रिणस्तस्य भूपतेः ॥ 61॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,61,9713,देवानां कृपया तत्र न ममार महीपतिः । कं धास्यति कुमारोऽयं मन्त्रिणश्चुक्रुशुर्भृशम् ॥ 62॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,62,9714,तदेन्द्रो देशिनीं प्रादान्मां धातेत्यवदद्वचः । सोऽभवद्बलवान् राजा मान्धाता पृथिवीपतिः । तदुत्पत्तिस्तु भूपाल कथिता तव विस्तरात् ॥ 63॥ 7,७.९,नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।,63,9715,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे मान्धातोत्पत्तिवर्णनं नाम नवमोऽध्यायः ॥ ७.९॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,0,9716,व्यास उवाच - बभूव चक्रवर्ती स नृपतिः सत्यसङ्गरः । मान्धाता पृथिवीं सर्वामजयन्नृपतीश्वरः ॥ 1॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,1,9717,दस्यवोऽस्य भयत्रस्ता ययुर्गिरिगुहासु च । इन्द्रेणास्य कृतं नाम त्रसद्दस्युरिति स्फुटम् ॥ 2॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,2,9718,तस्य बिन्दुमती भार्या शशबिन्दोः सुताभवत् । पतिव्रता सुरूपा च सर्वलक्षणसंयुता ॥ 3॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,3,9719,तस्यामुत्पादयामास मान्धाता द्वौ सुतौ नृप । पुरुकुत्सं सुविख्यातं मुचुकुन्दं तथापरम् ॥ 4॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,4,9720,पुरुकुत्सात्ततोऽरण्यः पुत्रः परमधार्मिकः । पितृभक्तिरतश्चाभूद्बृहदश्वस्तदात्मजः ॥ 5॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,5,9721,हर्यश्वस्तस्य पुत्रोऽभूद्धार्मिकः परमार्थवित् । तस्यात्मजस्त्रिधन्वाभूदरुणस्तस्य चात्मजः ॥ 6॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,6,9722,अरुणस्य सुतः श्रीमान्सत्यव्रत इति श्रुतः । सोऽभूदिच्छाचरः कामी मन्दात्मा ह्यतिलोलुपः ॥ 7॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,7,9723,स पापात्मा विप्रभार्यां हृतवान्काममोहितः । विवाहे तस्य विघ्नं स चकार नृपतेः सुतः ॥ 8॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,8,9724,मिलिता ब्राह्मणास्तत्र राजानमरुणं नृप । ऊचुर्भृशं सुदुःखार्ता हा हताःस्मेति चासकृत् ॥ 9॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,9,9725,पप्रच्छ राजा तान्विप्रान्दुःखितान्पुरवासिनः । किं कृतं मम पुत्रेण भवतामशुभं द्विजाः ॥ 10॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,10,9726,तन्निशम्य द्विजा वाक्यं राज्ञो विनयपूर्वकम् । तदोचुस्त्वरुणं विप्रां कृताशीर्वचना भृशम् ॥ 11॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,11,9727,ब्राह्मणा ऊचुः - राजंस्तव सुतेनाद्य विवाहे प्रहृता किल । विवाहिता विप्रकन्या बलेन बलिनांवर ॥ 12॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,12,9728,व्यास उवाच - श्रुत्वा तेषां वचस्तथ्यं राजा परमधार्मिकः । पुत्रमाह वृथा नाम कृतं ते दुष्टकर्मणा ॥ 13॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,13,9729,गच्छ दूरं सुमन्दात्मन्दुराचार गृहान्मम । न स्थातव्यं त्वया पाप विषये मम सर्वथा ॥ 14॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,14,9730,कुपितं पितरं प्राह क्व गच्छामीति वै मुहुः । अरुणस्तमथोवाच श्वपाकैः सह वर्तय ॥ 15॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,15,9731,श्वपचस्य कृतं कर्म द्विजदारापहारणम् । तस्मात्तैः सह संसर्गं कृत्वा तिष्ठ यथासुखम् ॥ 16॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,16,9732,नाहं पुत्रेण पुत्रार्थी त्वया च कुलपांसन । यथेष्टं व्रज दुष्टात्मन् कीर्तिनाशः कृतस्त्वया ॥ 17॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,17,9733,स निशम्य पितुर्वाक्यं कुपितस्य महात्मनः । निश्चक्राम पुरात्तस्मात्तरसा श्वपचान्ययौ ॥ 18॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,18,9734,सत्यव्रतस्तदा तत्र श्वपाकैः सह वर्तते । धनुर्बाणधरः श्रीमान्कवची करुणालयः ॥ 19॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,19,9735,यदा निष्कासितः पित्रा कुपितेन महात्मना । गुरुणाथ वसिष्ठेन प्रेरितोऽसौ महीपतिः ॥ 20॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,20,9736,तस्मात्सत्यव्रतस्तस्मिन्बभूव क्रोधसंयुतः । वसिष्ठे धर्मशास्त्रज्ञे निवारणपराङ्मुखे ॥ 21॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,21,9737,केनचित्कारणेनाथ पिता तस्य महीपतिः । पुत्रार्थेऽसौ तपस्तप्तुं पुरं त्यक्त्वा वनं गतः ॥ 22॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,22,9738,न ववर्ष तदा तस्मिन्विषये पाकशासनः । समा द्वादश राजेन्द्र तेनाधर्मेण सर्वथा ॥ 23॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,23,9739,विश्वामित्रस्तदा दारांस्तस्मिंस्तु विषये नृप । संन्यस्य कौशिकीतीरे चचार विपुलं तपः ॥ 24॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,24,9740,कातरा तत्र सञ्जाता भार्या वै कौशिकस्य ह । कुटुम्बभरणार्थाय दुःखिता वरवर्णिनी ॥ 25॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,25,9741,बालकान्क्षुधयाक्रान्तान्रुदतः पश्यती भृशम् । याचमानांश्च नीवारान्कष्टमाप पतिव्रता ॥ 26॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,26,9742,चिन्तयामास दुःखार्ता तोकान्वीक्ष्य क्षुधातुरान् । नृपो नास्ति पुरे ह्यद्य कं याचे वा करोमि किम् ॥ 27॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,27,9743,न मे त्रातास्ति पुत्राणां पतिर्मे नास्ति सन्निधौ । रुदन्ति बालकाः कामं धिङ्मे जीवनमद्य वै ॥ 28॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,28,9744,धनहीनां च मां त्यक्त्वा तपस्तप्तुं गतः पतिः । न जानाति समर्थोऽपि दुःखितां धनवर्जिताम् ॥ 29॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,29,9745,बालानां भरणं केन करोमि पतिना विना । मरिष्यन्ति सुताः सर्वे क्षुधया पीडिता भृशम् ॥ 30॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,30,9746,एकं सुतं तु विक्रीय द्रव्येण कियता पुनः । पालयामि सुतानन्यानेष मे विहितो विधिः ॥ 31॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,31,9747,सर्वेषां मारणं नाद्धा युक्तं मम विपर्यये । कालस्य कलनायाहं विक्रीणामि तथात्मजम् ॥ 32॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,32,9748,हृदयं कठिनं कृत्वा सञ्चिन्त्य मनसा सती । सा दर्भरज्ज्वा बद्ध्वाथ गले पुत्रं विनिर्गता ॥ 33॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,33,9749,मुनिपत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम् । शेषस्य भरणार्थाय गृहीत्वा चलिता गृहात् ॥ 34॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,34,9750,दृष्टा सत्यव्रतेनार्ता तापसी शोकसंयुता । पप्रच्छ नृपतिस्तां तु किं चिकीर्षसि शोभने ॥ 35॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,35,9751,रुदन्तं बालकं कण्ठे बद्ध्वा नयसि काधुना । किमर्थं चारुसर्वाङ्गि सत्यं ब्रूहि ममाग्रतः ॥ 36॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,36,9752,ऋषिपत्न्युवाच - विश्वामित्रस्य भार्याहं पुत्रोऽयं मे नृपात्मज । विक्रेतुमौरसं कामं गमिष्ये विषमे सुतम् ॥ ३७। अन्नं नास्ति पतिर्मुक्त्वा गतस्तप्तुं नृप क्वचित् । विक्रीणामि क्षुधार्तैनं शेषस्य भरणाय वै ॥ 38॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,37,9753,राजोवाच - पतिव्रते रक्ष पुत्रं दास्यामि भरणं तव । तावदेव पतिस्तेऽत्र वनाच्चैवागमिष्यति ॥ 39॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,38,9754,वृक्षे तवाश्रमाभ्याशे भक्ष्यं किञ्चिन्निरन्तरम् । बन्धयित्वा गमिष्यामि सत्यमेतद्ब्रवीम्यहम् ॥ 40॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,39,9755,इत्ययुक्ता सा तदा तेन राज्ञा कौशिककामिनी । विबन्धं तनयं कृत्वा जगामाश्रममण्डलम् ॥ 41॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,40,9756,सोऽभवद् गालवो नाम गलबन्धान्महातपाः । सा तु स्वस्याश्रमे गत्वा मुमोद बालकैर्वृता ॥ 42॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,41,9757,सत्यव्रतस्तु भक्त्या च कृपया च परिप्लुतः । विश्वामित्रस्य च मुनेः कलत्रं तद् बभार ह ॥ 43॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,42,9758,वने स्थितान्मृगान्हत्वा वराहान्महिषांस्तथा । विश्वामित्रवनाभ्याशे मांसं वृक्षे बबन्ध ह ॥ 44॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,43,9759,ऋषिपत्नी गृहीत्वा तन्मांसं पुत्रानदात्ततः । निर्वृत्तिं परमां प्राप प्राप्य भक्ष्यमनुत्तमम् ॥ 45॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,44,9760,अयोध्यां चैव राज्यं च तथैवान्तःपुरं मुनिः । गते तप्तुं नृपे तस्मिन्वसिष्ठः पर्यरक्षत ॥ 46॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,45,9761,सत्यव्रतोऽपि धर्मात्मा ह्यतिष्ठन्नगराद् बहिः । पितुराज्ञां समास्थाय पशुघ्नव्रतवान्वने ॥ 47॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,46,9762,सत्यव्रतो ह्यकस्माच्च कस्यचित्कारणान्नृपः । वसिष्ठे चाधिकं मन्युं धारयामास नित्यदा ॥ 48॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,47,9763,त्यज्यमानं वने पित्रा धर्मिष्ठं च प्रियं सुतम् । न वारयामास मुनिर्वसिष्ठः कारणेन ह ॥ 49॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,48,9764,पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे । जानन्नपि स धर्मात्मा विप्रदारपरिग्रहे ॥ 50॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,49,9765,कस्मिंश्चिद्दिवसेऽरण्ये मृगाभावे महीपतिः । वसिष्ठस्य च गां दोग्ध्रीमपश्यद्वनमध्यगाम् ॥ 51॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,50,9766,तां जघान क्षुधार्तस्तु क्रोधान्मोहाच्च दस्युवत् । वृक्षे बबन्ध तन्मांसं नीत्वा स्वयमभक्षयत् ॥ 52॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,51,9767,ऋषिपत्नी सुतान्सर्वान्भोजयमास तत्तदा । शङ्कमाना मृगस्येति न गोरिति च सुव्रता ॥ 53॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,52,9768,वसिष्ठस्तु हतां दोग्ध्रीं ज्ञात्वा क्रुद्धस्तमब्रवीत् । दुरात्मन् किं कृतं पापं धेनुघातात्पिशाचवत् ॥ 54॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,53,9769,एवं ते शङ्कवः क्रूराः पतन्तु त्वरितास्त्रयः । गोवधाद्दारहरणात्पितुः क्रोधात्तथा भृशम् ॥ 55॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,54,9770,त्रिशङ्कुरिति नाम्ना वै भुवि ख्यातो भविष्यसि । पिशाचरूपमात्मानं दर्शयन्सर्वदेहिनाम् ॥ 56॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,55,9771,व्यास उवाच - एवं शप्तो वसिष्ठेन तदा सत्यव्रतो नृपः । चचार च तपस्तीव्रं तस्मिन्नेवाश्रमे स्थितः ॥ 57॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,56,9772,कस्माच्चिन्मुनिपुत्रात्तु प्राप्य मन्त्रमनुत्तमम् । ध्यायन्भगवतीं देवीं प्रकृतिं परमां शिवाम् ॥ 58॥ 7,७.१०,दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।,57,9773,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे सत्यव्रताख्यानवर्णनं नाम दशमोऽध्यायः ॥ ७.१०॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,0,9774,जनमेजय उवाच - वसिष्ठेन च शप्तोऽसौ त्रिशङ्कुर्नृपतेः सुतः । कथं शापाद्विनिर्मुक्तस्तन्मे ब्रूहि महामते ॥ 1॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,1,9775,व्यास उवाच - सत्यव्रतस्तथा शप्तः पिशाचत्वमवाप्तवान् । तस्मिन्नेवाश्रमे तस्थौ देवीभक्तिपरायणः ॥ 2॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,2,9776,कदाचिन्नृपतिस्तत्र जप्त्वा मन्त्रं नवाक्षरम् । होमार्थं ब्राह्मणान्गत्वा प्रणम्योवाच भक्तितः ॥ 3॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,3,9777,भूमिदेवाः श‍ृणुध्वं वै वचनं प्रणतस्य मे । ऋत्विजो मम सर्वेऽत्र भवन्तः प्रभवन्तु ह ॥ 4॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,4,9778,जपस्य च दशांशेन होमः कार्यो विधानतः । भवद्भिः कार्यसिद्ध्यर्थं वेदविद्भिः कृपापरैः ॥ 5॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,5,9779,सत्यव्रतोऽहं नृपतेः पुत्रो ब्रह्मविदांवराः । कार्यं मम विधातव्यं सर्वथा सुखहेतवे ॥ 6॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,6,9780,तच्छ्रुत्वा ब्राह्मणास्तत्र तमूचुर्नृपतेः सुतम् । शप्तस्त्वं गुरुणा प्राप्तं पिशाचत्वं त्वयाधुना ॥ 7॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,7,9781,न यागार्होऽसि तस्मात्त्वं वेदेष्वनधिकारतः । पिशाचत्वमनुप्राप्तं सर्वलोकेषु गर्हितम् ॥ 8॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,8,9782,व्यास उवाच - तन्निशम्य वचस्तेषां राजा दुःखमवाप ह । धिग्जीवितमिदं मेऽद्य किं करोमि वने स्थितः ॥ 9॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,9,9783,पित्रा चाहं परित्यक्तः शप्तश्च गुरुणा भृशम् । राज्याद्भ्रष्टः पिशाचत्वमनुप्राप्तः करोमि किम् ॥ 10॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,10,9784,तदा पृथुतरां कृत्वा चितां काष्ठैर्नृपात्मजः । सस्मार चण्डिकां देवीं प्रवेशमनुचिन्तयन् ॥ 11॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,11,9785,स्मृता देवीं महामायां चितां प्रज्वलितां पुरः । कृत्वा स्नात्वा प्रवेशार्थं स्थितः प्राञ्जलिरग्रतः ॥ 12॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,12,9786,ज्ञात्वा भगवती तं तु मर्तुकामं महीपतिम् । आजगाम तदाऽऽकाशं प्रत्यक्षं तस्य चाग्रतः ॥ 13॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,13,9787,दत्त्वाथ दर्शनं देवी तमुवाच नृपात्मजम् । सिंहारूढा महाराज मेघगम्भीरया गिरा ॥ १४। देव्युवाच - किं ते व्यवसितं साधो हुताशे मा तनुं त्यज । स्थिरो भव महाभाग पिता ते जरसान्वितः ॥ 15॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,14,9788,राज्यं दत्त्वा वने तुभ्यं गन्तास्ति तपसे किल । विषादं त्यज हे वीर परश्वोऽहनि भूपते ॥ 16॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,15,9789,नेतुं त्वामागमिष्यन्ति सचिवाश्व पितुस्तव । मत्प्रसादात्पिता च त्वामभिषिच्य नृपासने ॥ 17॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,16,9790,जित्वा कामं ब्रह्मलोकं गमिष्येत्येष निश्चयः । व्यास उवाच - इत्युक्त्वा तं तदा देवी तत्रैवान्तरधीयत ॥ 18॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,17,9791,राजपुत्रो विरमितो मरणात्पावकात्ततः । अयोध्यायां तदाऽऽगत्य नारदेन महात्मना ॥ 19॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,18,9792,वृत्तान्तः कथितः सर्वो राज्ञे सत्वरमादितः । श्रुत्वा राजाथ पुत्रस्य तं तथा मरणोद्यमम् ॥ 20॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,19,9793,खेदमाधाय मनसि शुशोच बहुधा नृपः । सचिवानाह धर्मात्मा पुत्रशोकपरिप्लुतः ॥ 21॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,20,9794,ज्ञातं भवद्भिरत्युग्रं पुत्रस्य मम चेष्टितम् । त्यक्तो मया वने धीमान्पुत्रः सत्यव्रतो मम ॥ 22॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,21,9795,आज्ञयासौ गतः सद्यो राज्यार्हः परमार्थवित् । स्थितस्तत्रैव विज्ञाने धनहीनः क्षमान्वितः ॥ 23॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,22,9796,वसिष्ठेन तथा शप्तः पिशाचसदृशः कृतः । सोऽद्य दुःखेन सन्तप्तः प्रवेष्टुञ्च हुताशनम् ॥ 24॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,23,9797,उद्यतः श्रीमहादेव्या निषिद्धः संस्थितः पुनः । तस्माद् गच्छन्तु तं शीघ्रं ज्येष्ठपुत्रं महाबलम् ॥ 25॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,24,9798,आश्वास्य वचनैरत्र तरसैवानयन्त्विह । अभिषिच्य सुतं राज्ये औरसं पालनक्षमम् ॥ 26॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,25,9799,वनं यास्यामि शान्तोऽहं तपसे कृतनिश्चयः । इत्युक्त्वा मन्त्रिणः सर्वान्प्रेषयामास पार्थिवः ॥ 27॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,26,9800,तस्यैवानयनार्थं हि प्रीतिप्रवणमानसः । ते गत्वा तं समाश्वास्य मन्त्रिणः पार्थिवात्मजम् ॥ 28॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,27,9801,अयोध्यायां महात्मानं मानपूर्वं समानयन् । दृष्ट्वा सत्यव्रतं राजा दुर्बलं मलिनाम्बरम् ॥ 29॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,28,9802,जटाजूटधरं क्रूरं चिन्तातुरमचिन्तयत् । किं कृतं निष्ठुरं कर्म मया पुत्रो विवासितः ॥ 30॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,29,9803,राज्यार्हश्चातिमेधावी जानता धर्मनिश्चयम् । इति सञ्चिन्त्य मनसा तमालिङ्य महीपतिः ॥ 31॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,30,9804,आसने स्वसमीपशे समाश्वास्योपवेशयत् । उपविष्टं सुतं राजा प्रेमपूर्वमुवाच ह ॥ 32॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,31,9805,प्रेमगद्गदया वाचा नीतिशास्त्रविशारदः । राजोवाच - पुत्र धर्मे मतिः कार्या माननीया मुखोद्भवाः ॥ 33॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,32,9806,न्यायागतं धनं ग्राह्यं रक्षणीयाः सदा प्रजाः । नासत्यं क्वापि वक्तव्यं नामार्गे गमनं क्वचित् ॥ 34॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,33,9807,शिष्टप्रोक्तं प्रकर्तव्यं पूजनीयास्तपस्विनः । हन्तव्या दस्यवः क्रूरा इन्द्रियाणां तथा जयः ॥ 35॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,34,9808,कर्तव्यं कार्यसिद्ध्यर्थं राज्ञा पुत्र सदैव हि । मन्त्रस्तु सर्वथा गोप्यः कर्तव्यः सचिवैः सह ॥ 36॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,35,9809,नोपेक्ष्योऽल्पोऽपि कृतिना रिपुः सर्वात्मना सुत । न विश्वसेत्परासक्तं सचिवं च तथा नतम् ॥ 37॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,36,9810,चाराः सर्वत्र योक्तव्याः शत्रुमित्रेषु सर्वथा । धर्मे मतिः सदा कार्या दानं दद्याच्च नित्यशः ॥ 38॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,37,9811,शुष्कवादो न कर्तव्यो दुष्टसङ्गं च वर्जयेत् । यष्टव्या विविधा यज्ञाः पूजनीया महर्षयः ॥ 39॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,38,9812,न विश्वसेत्स्त्रियं क्वापि स्त्रैणं द्यूतरतं नरम् । अत्यादरो न कर्तव्यो मृगयायां कदाचन ॥ 40॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,39,9813,द्यूते मद्ये तथा गेये नूनं वारवधूषु च । स्वयं तद्विमुखो भूयात् प्रजास्तेभ्यश्च रक्षयेत् ॥ 41॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,40,9814,ब्राह्मे मुहूर्ते कर्तव्यमुत्थानं सर्वथा सदा । स्नानादिकं सर्वविधिं विधाय विधिवद्यथा ॥ 42॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,41,9815,पराशक्तेः परां पूजां भक्त्या कुर्यात्सुदीक्षितः । पुत्रैतज्जन्मसाफल्यं पराशक्तेः पदार्चनम् ॥ 43॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,42,9816,सकृत्कृत्वा महापूजां दैवीपादजलं पिबन् । न जातु जननीगर्भे गच्छेदिति विनिश्चयः ॥ 44॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,43,9817,सर्वं दृश्यं महादेवी द्रष्टा साक्षी च सैव हि । इति तद्भावभरितस्तिष्ठेन्निर्भयचेतसा ॥ 45॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,44,9818,कृत्वा नित्यविधिं सम्यग्गन्तव्यं सदसि द्विजान् । समाहूय च प्रष्टव्यो धर्मशास्त्रविनिर्णयः ॥ 46॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,45,9819,सम्पूज्य ब्राह्मणान्पूज्यान्वेदवेदान्तपारगान् । गोभूहिरण्यादिकं च देयं पात्रेषु सर्वदा ॥ 47॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,46,9820,अविद्वान्ब्राह्मणः कोऽपि नैव पूज्यः कदाचन । आहारादधिकं नैव देयं मूर्खाय कर्हिचित् ॥ 48॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,47,9821,न वा लोभात्त्वया पुत्र कर्तव्यं धर्मलङ्घनम् । अतः परं न कर्तव्यं क्वचिद्विप्रावमाननम् ॥ 49॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,48,9822,ब्राह्मणा भूमिदेवाश्च माननीयाः प्रयत्नतः । कारणं क्षत्रियाणां च द्विजा एव न संशयः ॥ 50॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,49,9823,अद्भ्योऽग्निर्ब्रह्मणः क्षत्रमश्मनो लोहमुत्थितम् । तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ 51॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,50,9824,तस्माद्राज्ञा विशेषेण माननीया मुखोद्भवाः । दानेन विनयेनैव सर्वथा भूतिमिच्छता ॥ 52॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,51,9825,दण्डनीतिः सदा कार्या धर्मशास्त्रानुसारतः । कोशस्य सङ्ग्रहः कार्यो नूनं न्यायागतस्य ह ॥ 53॥ 7,७.११,एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।,52,9826,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे सत्यव्रताय राजनीत्युपदेशवर्णनं नामैकादशोऽध्यायः ॥ ७.११॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,0,9827,एवं प्रबोधितः पित्रा त्रिशङ्कुः प्रणतो नृपः । तथेति पितरं प्राह प्रेमगद्गदया गिरा ॥ 1॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,1,9828,विप्रानाहूय मन्त्रज्ञान्वेदशास्त्रविशारदान् । अभिषेकाय सम्भारान् कारयामास सत्वरम् ॥ 2॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,2,9829,सलिलं सर्वतीर्थानां समानाय्य विशाम्पतिः । प्रकृतीश्च समाहूय सामन्तान्भूपतींस्तथा ॥ 3॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,3,9830,पुण्येऽह्नि विधिवत्तस्मै ददावासनमुत्तमम् । अभिषिच्य सुतं राज्ये त्रिशङ्कुं विधिवत्पिता ॥ 4॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,4,9831,तृतीयमाश्रमं पुण्यं जग्राह भार्यया युतः । वने त्रिपथगाकूले चचार दुश्चरं तपः ॥ 5॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,5,9832,काले प्राप्ते ययौ स्वर्गं पूजितस्त्रिदशैरपि । इन्द्रासनसमीपस्थो रराज रविवत्सदा ॥ 6॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,6,9833,राजोवाच । पूर्वं भगवता प्रोक्तं कथायोगेन साम्प्रतम् । सत्यव्रतो वसिष्ठेन शप्तो दोग्ध्रीवधात्किल ॥ 7॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,7,9834,कुपितेने पिशाचत्वं प्रापितो गुरुणा ततः । कथं मुक्तः पिशाचत्वादित्येतत्संशयः प्रभो ॥ 8॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,8,9835,न सिंहासनयोग्यो हि भवेच्छापसमन्वितः । मुनिना मोचितः शापात्केनान्येन च कर्मणा ॥ 9॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,9,9836,एतन्मे ब्रूहि विप्रर्षे शापमोक्षणकारणम् । आनीतस्तु कथं पित्रा स्वगृहे तादृशाकृतिः ॥ 10॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,10,9837,व्यास उवाच - वसिष्ठेन च शप्तोऽसौ सद्यः पैशाचतां गतः । दुर्वेषश्चातिदुर्धर्षः सर्वलोकभयङ्करः ॥ 11॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,11,9838,यदैवोपासिता देवी भक्त्या सत्यव्रतेन ह । तया प्रसन्नया राजन् दिव्यदेहः कृतः क्षणात् ॥ 12॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,12,9839,पिशाचत्वं गतं तस्य पापं चैव क्षयं गतम् । विपाप्मा चातितेजस्वी सम्भूतस्तत्कृपामृतात् ॥ 13॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,13,9840,वसिष्ठोऽपि प्रसन्नात्मा जातः शक्तिप्रसादतः । पितापि च बभूवास्य प्रेमयुक्तस्त्वनुग्रहात् ॥ 14॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,14,9841,राज्यं शशास धर्मात्मा मृते पितरि पार्थिवः । ईजे च विविधैर्यज्ञैर्देवदेवीं सनातनीम् ॥ 15॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,15,9842,तस्य पुत्रो बभूवाथ हरिश्चन्द्रः सुशोभनः । लक्षणैः शास्त्रनिर्दिष्टैः संयुतश्चातिसुन्दरः ॥ 16॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,16,9843,युवराजं सुतं कृत्वा त्रिशङ्कुः पृथिवीपतिः । मानुषेण शरीरेण स्वर्गं भोक्तुं मनो दधे ॥ 17॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,17,9844,वसिष्ठस्याश्रमं गत्वा प्रणम्य विधिवन्नृपः । उवाच वचनं प्रीतः कृताञ्जलिपुटस्तदा ॥ 18॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,18,9845,राजोवाच - ब्रह्मपुत्र महाभाग सर्वमन्त्रविशारद । विज्ञप्तिं मे सुमनसा श्रोतुमर्हसि तापस ॥ 19॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,19,9846,इच्छा मेऽद्य समुत्पन्ना स्वर्गलोकसुखाय च । अनेनैव शरीरेण भोगान्भोक्तुममानुषान् ॥ 20॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,20,9847,अप्सरोभिश्च संवासः क्रीडितुं नन्दने वने । देवगन्धर्वगानं च श्रोतव्यं मधुरं किल ॥ 21॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,21,9848,याजय त्वं मखेनाशु तादृशेन महामुने । यथानेन शरीरेण वसे लोकं त्रिविष्टपम् ॥ 22॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,22,9849,समर्थोऽसि मुनिश्रेष्ठ कुरु कार्यं ममाधुना । प्रापयाशु मखं कृत्वा देवलोकं दुरासदम् ॥ 23॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,23,9850,वसिष्ठ उवाच - राजन् मानुषदेहेन स्वर्गे वासः सुदुर्लभः । मृतस्य हि ध्रुवं स्वर्गः कथितः पुण्यकर्मणा ॥ 24॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,24,9851,तस्माद् बिभेमि सर्वज्ञ दुर्लभाच्च मनोरथात् । अप्सरोभिश्च संवासो जीवमानस्य दुर्लभः ॥ 25॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,25,9852,कुरु यज्ञान्महाभाग मृतः स्वर्गमवाप्स्यसि । व्यास उवाच - इत्याकर्ण्य वचस्तस्य राजा परमदुर्मनाः ॥ 26॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,26,9853,उवाच वचनं भूयो वसिष्ठं पूर्वरोषितम् । न त्वं याजयसे ब्रह्मन् गर्वावेशाच्च मां यदि ॥ 27॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,27,9854,अन्यं पुरोहितं कृत्वा यक्ष्येऽहं किल साम्प्रतम् । तच्छ्रुत्वा वचनं तस्य वसिष्ठः कोपसंयुतः ॥ 28॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,28,9855,शशाप भूपतिं चेति चाण्डालो भव दुर्मते । अनेन त्वं शरीरेण श्वपचो भव सत्वरम् ॥ 29॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,29,9856,स्वर्गकृन्तन पापिष्ठ सुरभीवधदूषित । ब्रह्मपत्नीहरोच्छिन्न धर्ममार्गविदूषक ॥ 30॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,30,9857,न ते स्वर्गगतिः पाप मृतस्यापि कथञ्चन । व्यास उवाच - इत्युक्तो गुरुणा राजंस्त्रिशङ्कुस्तत्क्षणादपि ॥ 31॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,31,9858,तत्र तेन शरीरेण बभूव श्वपचाकृतिः । कुण्डलेऽश्ममये वापि जाते तस्य च तत्क्षणात् ॥ 32॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,32,9859,देहे चन्दनगन्धश्च विगन्धो ह्यभवत्तदा । नीलवर्णेऽथ सञ्जाते दिव्ये पीताम्बरे तनौ ॥ 33॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,33,9860,राजवर्णोऽभवद्देहः शापात्तस्य महात्मनः । शक्त्युपासकरोषेण फलमेतदभून्नृप ॥ 34॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,34,9861,तस्माच्छ्रीशक्तिभक्तो हि नावमान्यः कदाचन । गायत्रीजपनिष्ठो हि वसिष्ठो मुनिसत्तमः ॥ 35॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,35,9862,दृष्ट्वा निन्द्यं निजं देहं राजा दुःखमवाप्तवान् । न जगाम गृहे दीनो वनमेवाभितो ययौ ॥ 36॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,36,9863,चिन्तयामास दुःखार्तास्त्रिशङ्कुः शोकविह्वलः । किं करोमि क्व गच्छामि देहो मेऽतीव निन्दितः ॥ 37॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,37,9864,कर्तव्यं नैव पश्यामि येन मे दुःखसङ्क्षयः । गृहे गच्छामि चेत्पुत्रः पीडितोऽद्य भविष्यति ॥ 38॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,38,9865,भार्यापि श्वपचं दृष्ट्वा नाङ्गीकारं करिष्यति । सचिवा नादरिष्यन्ति वीक्ष्य मामीदृशं पुनः ॥ 39॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,39,9866,ज्ञातयो बन्धुवर्गश्च सङ्गतो न भजिष्यति । सर्वैस्तक्तस्य मे नूनं जीवितान्मरणं वरम् ॥ 40॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,40,9867,विषं वा भक्षयित्वाद्य पतित्वा वा जलाशये । कृत्वा वा कण्ठपाशं च देहत्यागं करोम्यहम् ॥ 41॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,41,9868,अग्नौ वा ज्वलिते देहं जुहोमि विधिवद् बलात् । कृत्वा वानशनं प्राणांस्त्यजामि दूषितान्भृशम् ॥ 42॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,42,9869,आत्महत्या भवेन्नूनं पुनर्जन्मनि जन्मनि । श्वपचत्वं च शापश्च हत्यादोषाद्भवेदपि ॥ 43॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,43,9870,पुनर्विचार्य भूपालश्चेतसा समचिन्तयत् । आत्महत्या न कर्तव्या सर्वथैव मयाधुना ॥ 44॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,44,9871,भोक्तव्यं स्वकृतं कर्म देहेनानेन कानने । भोगेनास्य विपाकस्य भविता सर्वथा क्षयः ॥ 45॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,45,9872,प्रारब्धकर्मणां भोगादन्यथा न क्षयो भवेत् । तस्मान्मयात्र भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ 46॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,46,9873,कुर्वन्पुण्याश्रमाभ्याशे तीर्थानां सेवनं तथा । स्मरणं चाम्बिकायास्तु साधूनां सेवनं तथा ॥ 47॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,47,9874,एवं कर्मक्षयं नूनं करिष्यामि वने वसन् । भाग्ययोगात्कदाचित्तु भवेत्साधुसमागमः ॥ 48॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,48,9875,इति सञ्चिन्त्य मनसा त्यक्त्वा स्वनगरं नृपः । गङ्गातीरे गतः कामं शोचंस्तत्रैव संस्थितः ॥ 49॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,49,9876,हरिश्चन्द्रस्तदा ज्ञात्वा पितुः शापस्य कारणम् । दुःखितः सचिवांस्तत्र प्रेषयामास पार्थिवः ॥ 50॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,50,9877,सचिवास्तत्र गत्वाऽऽशु तमूचुः प्रश्रयान्विताः । प्रणम्य श्वपचाकारं निःश्वसन्तं मुहुर्मुहुः ॥ 51॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,51,9878,राजन् पुत्रेण ते नूनं प्रेषितान्समुपागतान् । अवेहि सचिवांस्त्वं नो हरिश्चन्द्राज्ञया स्थितान् ॥ 52॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,52,9879,युवराजसुतः प्राह यत्तच्छृणु नराधिप । आनयध्वं नृपं यूयं सम्मान्य पितरं मम ॥ 53॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,53,9880,तस्माद्राजन् समागच्छ राज्यं प्रति गतव्यथः । सेवां सर्वे करिष्यन्ति सचिवाश्च प्रजास्तथा ॥ 54॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,54,9881,गुरुं प्रसादयिष्यामः स यथा तु दयेत वै । प्रसन्नोऽसौ महातेजा दुःखस्यान्तं करिष्यति ॥ 55॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,55,9882,इति पुत्रेण ते राजन् कथितं बहुधा किल । तस्माद् गमनमेवाशु रोचतां निजसद्मनि ॥ 56॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,56,9883,व्यास उवाच - इति तेषां नृपः श्रुत्वा भाषितं श्वपचाकृतिः । स्वगृहं गमनायासौ न मतिं कृतवानतः ॥ 57॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,57,9884,तानुवाच तदा वाक्यं व्रजन्तु सचिवाः पुरम् । गत्वा पुरं महाभागा ब्रुवन्तु वचनाच्च मे ॥ 58॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,58,9885,नागमिष्याम्यहं पुत्र कुरु राज्यमतन्द्रितः । मानयन्ब्राह्मणान्देवान्यजन्यज्ञैरनेकशः ॥ 59॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,59,9886,नाहं श्वपचवेषेण गर्हितेन महात्मभिः । आगमिष्याम्ययोध्यायां सर्वे गच्छन्तु मा चिरम् ॥ 60॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,60,9887,पुत्रं सिंहासने स्थाप्य हरिश्चन्द्रं महाबलम् । कुर्वन्तु राज्यकर्माणि यूयं तत्र ममाज्ञया ॥ 61॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,61,9888,इत्यादिष्टास्ततस्ते तु रुरुदुश्चातुरा भृशम् । सचिवा निर्ययुस्तूर्णं नत्वा तं च वनाश्रमात् ॥ 62॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,62,9889,अयोध्यायामुपागत्य पुण्येऽह्नि विधिपूर्वकम् । अभिषेकं तदा चक्रुर्हरिश्चन्द्रस्य मूर्ध्नि ते ॥ 63॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,63,9890,अभिषिक्तस्तु तेजस्वी सचिवैश्च नृपाज्ञया । राज्यं चकार धर्मिष्ठः पितरं चिन्तयन्भृशम् ॥ 64॥ 7,७.१२,द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।,64,9891,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे त्रिशङ्कूपाख्यानवर्णनं नाम द्वादशोऽध्यायः ॥ ७.१२॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,0,9892,राजोवाच - हरिश्चन्द्रः कृतो राजा सचिवैर्नृपशासनात् । त्रिशङ्कुस्तु कथं मुक्तस्तस्माच्चाण्डालदेहतः ॥ 1॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,1,9893,मृतो वा वनमध्ये तु गङ्गातीरे परिप्लुतः । गुरुणा वा कृपां कृत्वा शापात्तस्माद्विमोचितः ॥ 2॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,2,9894,एतद् वृत्तान्तमखिलं कथयस्व ममाग्रतः । चरितं तस्य नृपतेः श्रोतुकामोऽस्मि सर्वथा ॥ 3॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,3,9895,व्यास उवाच - अभिषिक्तं सुतं कृत्वा राजा सन्तुष्टमानसः । कालातिक्रमणं तत्र चकार चिन्तयञ्छिवाम् ॥ 4॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,4,9896,एवं गच्छति काले तु तपस्तप्त्वा समाहितः । द्रष्टुं दारान्सुतादींश्च तदागात्कौशिको मुनिः ॥ 5॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,5,9897,आगत्य स्वजनं दृष्ट्वा सुस्थितं मुदमाप्तवान् । भार्यां पप्रच्छ मेधावी स्थितामग्रे सपर्यया ॥ 6॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,6,9898,दुर्भिक्षे तु कथं कालस्तया नीतः सुलोचने । अन्नं विना त्विमे बालाः पालिता केन तद्वद ॥ 7॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,7,9899,अहं तपसि सन्नद्धो नागतः श‍ृणु सुन्दरि । किं कृतं तु त्वया कान्ते विना द्रव्येण शोभने ॥ 8॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,8,9900,मया चिन्ता कृता तत्र श्रुत्वा दुर्भिक्षमद्भुतम् । नागतोऽहं विचार्यैवं किं करिष्यामि निर्धनः ॥ 9॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,9,9901,अहमप्यति वामोरु पीडितः क्षुधया वने । प्रविष्टश्चौरभावेन कुत्रचिच्छ्वपचालये ॥ 10॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,10,9902,श्वपचं निद्रितं दृष्ट्वा क्षुधया पीडितो भृशम् । महानसं परिज्ञाय भक्ष्यार्थं समुपस्थितः ॥ 11॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,11,9903,यदा भाण्डं समुद्घाट्य पक्वं श्वतनुजामिषम् । गृह्णामि भक्षणार्थाय तदा दृष्टस्तु तेन वै ॥ 12॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,12,9904,पृष्टः कस्त्वं कथं प्राप्तो गृहे मे निशि सादरम् । ब्रूहि कार्यं किमर्थं त्वमुद्घाटयसि भाण्डकम् ॥ 13॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,13,9905,इत्युक्तः श्वपचेनाहं क्षुधया पीडितो भृशम् । तमवोचं सुकेशान्ते कामं गद्गदया गिरा ॥ 14॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,14,9906,ब्राह्मणोऽहं महाभाग तापसः क्षुधयार्दितः । चौरभावमनुप्राप्तो भक्ष्यं पश्यामि भाण्डके ॥ 15॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,15,9907,चौरभावेन सम्प्राप्तोऽस्म्यतिथिस्ते महामते । क्षुधितोऽस्मि ददस्वाज्ञां मांसमद्मि सुसंस्कृतम् ॥ 16॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,16,9908,विश्वामित्र उवाच - श्वपचस्तु वचः श्रुत्वा मामुवाच सुनिश्चितम् । भक्षं मा कुरु वर्णाग्र्य जानीहि श्वपचालयम् ॥ 17॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,17,9909,दुर्लभं खलु मानुष्यं तत्रापि च द्विजन्मता । द्विजत्वे ब्राह्मणत्वं च दुर्लभं वेत्सि किं न हि ॥ 18॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,18,9910,दुष्टाहारो न कर्तव्यः सर्वथा लोकमिच्छता । अग्राह्या मनुना प्रोक्ताः कर्मणा सप्त चान्त्यजाः ॥ 19॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,19,9911,त्याज्योऽहं कर्मणा विप्र श्वपचो नात्र संशयः । निवारयामि भक्ष्यात्त्वां न लोभेनाञ्जसा द्विज ॥ 20॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,20,9912,वर्णसङ्करदोषोऽयं मा यातु त्वां द्विजोत्तम । विश्वामित्र उवाच । सत्यं वदसि धर्मज्ञ मतिस्ते विशदान्त्यज ॥ 21॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,21,9913,तथाप्यापदि धर्मस्य सूक्ष्ममार्गं ब्रवीम्यहम् । देहस्य रक्षणं कार्यं सर्वथा यदि मानद ॥ 22॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,22,9914,पापस्यान्ते पुनः कार्यं प्रायश्चित्तं विशुद्धये । दुर्गतिस्तु भवेत्पापादनापदि न चापदि ॥ 23॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,23,9915,मरणात्क्षुधितस्याथ नरको नात्र संशयः । तस्मात्क्षुधापहरणं कर्तव्यं शुभमिच्छता ॥ 24॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,24,9916,तेनाहं चौर्यधर्मेण देहं रक्षेऽप्यथान्त्यज । अवर्षणे च चौर्येण यत्पापं कथितं बुधैः ॥ 25॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,25,9917,यो न वर्षति पर्जन्यस्तत्तु तस्मै भविष्यति । इत्युक्ते वचने कान्ते पर्जन्यः सहसापतत् ॥ 26॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,26,9918,गगनाद्धस्तिहस्ताभिर्धाराभिरभिकाङ्क्षितः । मुदितोऽहं घनं वीक्ष्य वर्षन्तं विद्युता सह ॥ 27॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,27,9919,तदाहं तद्गृहं त्यक्त्वा निःसृतः परया मुदा । कथय त्वं वरारोहे कालो नीतस्त्वया कथम् ॥ 28॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,28,9920,कान्तारे परमः क्रूरः क्षयकृत्प्राणिनामिह । व्यास उवाच - इति तस्य वचः श्रुत्वा पतिमाह प्रियंवदा ॥ 29॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,29,9921,यथा श‍ृणु मया नीतः कालः परमदारुणः । गते त्वयि मुनिश्रेष्ठ दुर्भिक्षं समुपागतम् ॥ 30॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,30,9922,अन्नार्थं पुत्रकाः सर्वे बभूवुश्चातिदुःखिताः । क्षुधितान्बालकान्वीक्ष्य नीवारार्थं वने वने ॥ 31॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,31,9923,भ्रान्ताहं चिन्तयाऽऽविष्टा किञ्चित्प्राप्तं फलं तदा । एवं च कतिचिन्मासा नीवारेणातिवाहिताः ॥ 32॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,32,9924,तदभावे मया कान्त चिन्तितं मनसा पुनः । न भिक्षा किल दुर्भिक्षे नीवारा नापि कानने ॥ 33॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,33,9925,न वृक्षेषु फलान्यासुर्न मूलानि धरातले । क्षुधया पीडिता बाला रुदन्ति भृशमातुराः ॥ 34॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,34,9926,किं करोमि क्व गच्छामि किं ब्रवीमि क्षुधार्तितान् । एवं विचिन्त्य मनसा निश्चयस्तु मया कृतः ॥ 35॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,35,9927,पुत्रमेकं ददाम्यद्य कस्मैचिद्धनिने किल । गृहीत्वा तस्य मौल्यं तु तेन द्रव्येण बालकान् ॥ 36॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,36,9928,पालयेऽहं क्षुधार्तांस्तु नान्योपायोऽस्ति पालने । इति सञ्चिन्त्य मनसा पुत्रोऽयं प्रहितो मया ॥ 37॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,37,9929,विक्रयार्थं महाभाग क्रन्दमानो भृशातुरः । क्रन्दमानं गृहीत्वैनं निर्गताहं गतत्रपा ॥ 38॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,38,9930,तदा सत्यव्रतो मार्गे मामुद्वीक्ष्य भृशातुराम् । पप्रच्छ स च राजर्षिः कस्माद्रोदिति बालकः ॥ 39॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,39,9931,तदाहं तमुवाचेदं वचनं मुनिसत्तम । विक्रयार्थं नीयतेऽसौ बालकोऽद्य मया नृप ॥ 40॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,40,9932,श्रुत्वा मे वचनं राजा दयार्द्रहृदयस्ततः । मामुवाच गृहं याहि गृहीत्वैनं कुमारकम् ॥ 41॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,41,9933,भोजनार्थे कुमाराणामामिषं विहितं तव । प्रापयिष्याम्यहं नित्यं यावन्मुनिसमागमः ॥ 42॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,42,9934,अहन्यहनि भूपालो वृक्षेऽस्मिन्मृगसूकरान् । विन्यस्य याति हत्वासौ प्रत्यहं दययान्वितः ॥ 43॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,43,9935,तेनैव बालकाः कान्त पालिता वृजिनार्णवात् । वसिष्ठेनाथ शप्ताऽसौ भूपतिर्मम कारणात् ॥ 44॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,44,9936,कस्मिंश्चिद्दिवसे मांसं न प्राप्तं तेन कानने । हता दोग्ध्री वसिष्ठस्य तेनासौ कुपितो मुनिः ॥ 45॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,45,9937,त्रिशङ्कुरिति भूपस्य कृतं नाम महात्मना । कुपितेन वधाद्धेतोश्चाण्डालश्च कृतो नृपः ॥ 46॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,46,9938,तेनाहं दुःखिता जाता तस्य दुःखेन कौशिक । श्वपचत्वमसौ प्राप्तो मत्कृते नृपनन्दनः ॥ 47॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,47,9939,येन केनाप्युपायेन भवता नृपतेः किल । तस्माद्रक्षा प्रकर्तव्या तपसा प्रबलेन ह ॥ 48॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,48,9940,व्यास उवाच - इति भार्यावचः श्रुत्वा कौशिको मुनिसत्तमः । तामाह कामिनीं दीनां सान्त्वपूर्वमरिन्दम ॥ 49॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,49,9941,विश्वामित्र उवाच - मोचयिष्यामि तं शापान्नृपं कमललोचने । उपकारः कृतो येन कान्ताराद्रक्षितासि वै ॥ 50॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,50,9942,विद्यातपोबलेनाहं करिष्ये दुःखसङ्क्षयम् । इत्याश्वास्य प्रियां तत्र कौशिकः परमार्थवित् ॥ 51॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,51,9943,चिन्तयामास नृपतेः कथं स्याद्दुःखनाशनम् । संविमृश्य मुनिस्तत्र जगाम यत्र पार्थिवः ॥ 52॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,52,9944,त्रिशङ्कुः पक्वणे दीनः संस्थितः श्वपचाकृतिः । आगच्छन्तं मुनिं दृष्ट्वा विस्मितोऽसौ नराधिपः ॥ 53॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,53,9945,दण्डवन्निपपातोर्व्यां पादयोस्तरसा मुनेः । गृहीत्वा तं करे भूपं पतितं कौशिकस्तदा ॥ 54॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,54,9946,उत्थाप्योवाच वचनं सान्त्वपूर्वं द्विजोत्तमः । मत्कृते त्वं महीपाल शप्तोऽसि मुनिना यतः ॥ 55॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,55,9947,वाञ्छितं ते करिष्यामि ब्रूहि किं करवाण्यहम् । राजोवाच - मया सम्प्रार्थितः पूर्वं वसिष्ठो मखहेतवे ॥ 56॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,56,9948,मां याजय मुनिश्रेष्ठ करोमि मखमुत्तमम् । यथेष्टं कुरु विप्रेन्द्र यथा स्वर्गं व्रजाम्यहम् ॥ 57॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,57,9949,अनेनैव शरीरेण शक्रलोकं सुखालयम् । कोपं कृत्वा वसिष्ठोऽसौ मामाहेति सुदुर्मते ॥ 58॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,58,9950,मानुषेण हि देहेन स्वर्गवासः कुतस्तव । पुनर्मयोक्तो भगवान्स्वर्गलुब्धेन चानघ ॥ 59॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,59,9951,अन्यं पुरोहितं कृत्वा यक्ष्येऽहं यज्ञमुत्तमम् । तदा तेनैव शप्तोऽहं चाण्डालो भव पामर ॥ 60॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,60,9952,इत्येतत्कथितं सर्वं कारणं शापसम्भवम् । मम दुःखविनाशाय समर्थोऽसि मुनीश्वर ॥ 61॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,61,9953,इत्युक्त्वा विररमासौ राजा दुःखरुजार्दितः । कौशिकोऽपि निराकर्तुं शापं तस्य व्यचिन्तयत् ॥ 62॥ 7,७.१३,त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।,62,9954,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनं नाम त्रयोदशोऽध्यायः ॥ ७.१३॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,0,9955,व्यास उवाच - विचिन्त्य मनसा कृत्यं गाधिसूनुर्महातपाः । प्रकल्प्य यज्ञसम्भारान्मुनीनामन्त्रयत्तदा ॥ 1॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,1,9956,मुनयस्तं मखं ज्ञात्वा विश्वामित्रनिमन्त्रिताः । नागताः सर्व एवैते वसिष्ठेन निवारिताः ॥ 2॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,2,9957,गाधिसूनुस्तदाज्ञाय विमनाश्चातिदुःखितः । आजगामाश्रमं तत्र यत्रासौ नृपतिः स्थितः ॥ 3॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,3,9958,तमाह कौशिकः क्रुद्धो वसिष्ठेन निवारिताः । नागताः ब्राह्मणाः सर्वे यज्ञार्थं नृपसत्तम ॥ 4॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,4,9959,पश्य मे तपसः सिद्धिं यथा त्वां सुरसद्मनि । प्रापयामि महाराज वाञ्छितं ते करोम्यहम् ॥ 5॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,5,9960,इत्युक्त्वा जलमादाय हस्तेन मुनिसत्तमः । ददौ पुण्यं तदा तस्मै गायत्रीजपसम्भवम् ॥ 6॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,6,9961,दत्त्वाथ सुकृतं राज्ञे तमुवाच महीपतिम् । यथेष्टं गच्छ राजर्षे त्रिविष्टपमतन्द्रितः ॥ 7॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,7,9962,पुण्येन मम राजेन्द्र बहुकालार्जितेन च । याहि शक्रपुरीं प्रीतः स्वस्ति तेऽस्तु सुरालये ॥ 8॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,8,9963,व्यास उवाच - इत्युक्तवति विप्रेन्द्रे त्रिशङ्कुस्तरसा ततः । उत्पपात यथा पक्षी वेगवांस्तपसो बलात् ॥ 9॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,9,9964,उत्पत्य गगने राजा गतः शक्रपुरीं यदा । दृष्टो देवगणैस्तत्र क्रूरश्चाण्डालवेषभाक् ॥ 10॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,10,9965,कथितोऽसौ सुरेन्द्राय कोऽयमायाति सत्वरः । गगने देववद्वा यो दुर्दर्शः श्वपचाकृतिः ॥ 11॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,11,9966,सहसोत्थाय शक्रस्तमपश्यत्पुरुषाधमम् । ज्ञात्वा त्रिशङ्कुमपि स निर्भर्त्स्य तरसाब्रवीत् ॥ 12॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,12,9967,श्वपच क्व समायासि देवलोके जुगुप्सितः । याहि शीघ्रं ततो भूमौ नात्र स्थातुं त्वयोचितम् ॥ 13॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,13,9968,इत्युक्तः स्खलितः स्वर्गाच्छक्रेणामित्रकर्शन । निपपात तदा राजा क्षीणपुण्यो यथामरः ॥ 14॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,14,9969,पुनश्चुक्रोश भूपालो विश्वामित्रेति चासकृत् । पतामि रक्ष दुःखार्तं स्वर्गाच्चलितमाशुगम् ॥ 15॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,15,9970,तस्य तत्क्रन्दितं राजन् पतितः कौशिको मुनिः । श्रुत्वा तिष्ठेति होवाच पतन्तं वीक्ष्य भूपतिम् ॥ 16॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,16,9971,वचनात्तस्य तत्रैव स्थितोऽसौ गगने नृपः । मुनेस्तपःप्रभावेण चलितोऽपि सुरालयात् ॥ 17॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,17,9972,विश्वामित्रोऽप्यपः स्पृष्ट्वा चकारेष्टिं सुविस्तराम् । विधातुं नूतनां सृष्टिं स्वर्गलोकं द्वितीयकम् ॥ 18॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,18,9973,तस्योद्यमं तथा ज्ञात्वा त्वरितस्तु शचीपतिः । तत्राजगाम सहसा मुनिं प्रति तु गाधिजम् ॥ 19॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,19,9974,किं ब्रह्मन् क्रियते साधो कस्मात्कोपसमाकुलः । अलं सृष्ट्या मुनिश्रेष्ठ ब्रूहि किं करवाणि ते ॥ 20॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,20,9975,विश्वामित्र उवाच - स्वं निवासं महीपालं च्युतं त्वद्भुवनाद् विभो । नयस्व प्रीतियोगेन त्रिशङ्कुं चातिदुःखितम् ॥ 21॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,21,9976,व्यास उवाच - तस्य तं निश्चयं ज्ञात्वा तुराषाडतिशङ्कितः । तपोबलं विदित्वोग्रमोमित्योवाच वासवः ॥ 22॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,22,9977,दिव्यदेहं नृपं कृत्वा विमानवरसंस्थितम् । आपृच्छ्य कौशिकं शक्रोऽगमन्निजपुरीं तदा ॥ 23॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,23,9978,गते शक्रे तु वै स्वर्गं त्रिशङ्कुसहिते ततः । विश्वामित्रः सुखं प्राप्य स्वाश्रमे सुस्थिरोऽभवत् ॥ 24॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,24,9979,हरिश्चन्द्रोऽथ तच्छ्रुत्वा विश्वामित्रोपकारकम् । पितुः स्वर्गमनं कामं मुदितो राज्यमन्वशात् ॥ 25॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,25,9980,अयोध्याधिपतिः क्रीडां चकार सह भार्यया । रूपयौवनचातुर्ययुक्तया प्रीतिसंयुतः ॥ 26॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,26,9981,अतीतकाले युवती न सा गर्भवती ह्यभूत् । तदा चिन्तातुरो राजा बभूवातीव दुःखितः ॥ 27॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,27,9982,वसिष्टस्याश्रमं गत्वा प्रणम्य शिरसा मुनिम् । अनपत्यत्वजां चिन्तां गुरवे समवेदयत् ॥ 28॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,28,9983,दैवज्ञोऽसि भवान्कामं मन्त्रविद्याविशारदः । उपायं कुरु धर्मज्ञ सन्ततेर्मम मानद ॥ 29॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,29,9984,अपुत्रस्य गतिर्नास्ति जानासि द्विजसत्तम । कस्मादुपेक्षसे जानन् दुःखं मम च शक्तिमान् ॥ 30॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,30,9985,कलविङ्कास्त्विमे धन्या ये शिशुं लालयन्ति हि । मन्दभाग्योऽहमनिशं चिन्तयामि दिवानिशम् ॥ 31॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,31,9986,व्यास उवाच - इत्याकर्ण्य मुनिस्तस्य निर्वेदमिश्रितं वचः । सञ्चिन्त्य मनसा सम्यक् तमुवाच विधेः सुतः ॥ 32॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,32,9987,वसिष्ठ उवाच - सत्यं ब्रूहि महाराज संसारेऽस्मिन्न विद्यते । अनपत्यत्वजं दुःखं यत्तथा दुःखमद्भुतम् ॥ 33॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,33,9988,तस्मात्त्वमपि राजेन्द्र वरुणं यादसां पतिम् । समाराधय यत्नेन स ते कार्यं करिष्यति ॥ 34॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,34,9989,वरुणादधिको नास्ति देवः सन्तानदायकः । तमाराधय धर्मिष्ठ कार्यसिद्धिर्भविष्यति ॥ 35॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,35,9990,दैवं पुरुषकारश्च माननीयाविमौ नृभिः । उद्यमेन विना कार्यसिद्धिः सञ्जायते कथम् ॥ 36॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,36,9991,न्यायतस्तु नरैः कार्य उद्यमस्तत्त्वदर्शिभिः । कृते तस्मिन्भवेत्सिद्धिर्नान्यथा नृपसत्तम ॥ 37॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,37,9992,इति तस्य वचः श्रुत्वा गुरोरमिततेजसः । प्रणम्य निर्ययौ राजा तपसे कृतनिश्चयः ॥ 38॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,38,9993,गङ्गातीरे शुभे स्थाने कृतपद्मासनो नृपः । ध्यायन्पाशधरं चित्ते चचार दुश्चरं तपः ॥ 39॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,39,9994,एवं तपस्यतस्तस्य प्रचेता दृष्टिगोचरः । कृपयाभून्महाराज प्रसन्नमुखपङ्कजः ॥ 40॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,40,9995,हरिश्चन्द्रमुवाचेदं वचनं यादसां पतिः । वरं वरय धर्मज्ञ तुष्टोऽस्मि तपसा तव ॥ 41॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,41,9996,राजोवाच - अनपत्योऽस्मि देवेश पुत्रं देहि सुखप्रदम् । ऋणत्रयापहारार्थमुद्यमोऽयं मया कृतः ॥ 42॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,42,9997,नृपस्य वचनं श्रुत्वा प्रगल्भं दुःखितस्य च । स्मितपूर्वं ततः पाशी तमाह पुराः स्थितम् ॥ 43॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,43,9998,वरुण उवाच - पुत्रो यदि भवेद्राजन् गुणी मनसि वाञ्छितः । सिद्धे कार्ये ततः पश्चात्किं करिष्यसि मे प्रियम् ॥ 44॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,44,9999,यदि त्वं तेन पुत्रेण मां यजेथा विशङ्कितः । पशुबन्धेन तेनैव ददामि नृपते वरम् ॥ 45॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,45,10000,राजोवाच - देव मे मास्तु वन्ध्यत्वं यजिष्येऽहं जलाधिप । पशुं कृत्वा सुतं पुत्रं सत्यमेतद्ब्रवीमि ते ॥ 46॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,46,10001,वन्ध्यत्वे परमं दुःखमसह्यं भुवि मानद । शोकाग्निशमनं नॄणां तस्माद्देहि सुतं शुभम् ॥ 47॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,47,10002,वरुण उवाच - भविष्यति सुतः कामं राजन् गच्छ गृहाय वै । सत्यं तद्वचनं कार्यं यद्ब्रवीषि ममाग्रतः ॥ 48॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,48,10003,व्यास उवाच - इत्युक्तो वरुणेनासौ हरिश्चन्द्रो गृहं ययौ । भार्यायै कथयामास वृत्तान्तं वरदानजम् ॥ 49॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,49,10004,तस्य भार्याशतं पूर्णं बभूवातिमनोहरम् । पट्टराज्ञी शुभा शैव्या धर्मपत्नी पतिव्रता ॥ 50॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,50,10005,काले गतेऽथ सा गर्भं दधार वरवर्णिनी । बभूव मुदितो राजा श्रुत्वा दोहदचेष्टितम् ॥ 51॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,51,10006,कारयामास विधिवत्संस्कारान्नृपतिस्तदा । मासेऽथ दशमे पूर्णे सुषुवे सा शुभे दिने ॥ 52॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,52,10007,ताराग्रहबलोपेते पुत्रं देवसुतोपमम् । पुत्रे जाते नृपः स्नात्वा ब्राह्मणैः परिवेष्टितः ॥ 53॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,53,10008,चकार जातकर्मादौ ददौ दानानि भूरिशः । राज्ञश्चातिप्रमोदोऽभूत्पुत्रजन्मसमुद्भवः ॥ 54॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,54,10009,बभूव परमोदारो धनधान्यसमन्वितः । विशेषदानसंयुक्तो गीतवादित्रसङ्कुलः ॥ 55॥ 7,७.१४,चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।,55,10010,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनं नाम चतुर्दशोऽध्यायः ॥ ७.१४॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,0,10011,व्यास उवाच - प्रवृत्ते सदने तस्य राज्ञः पुत्रमहोत्सवे । आजगाम तदा पाशी विप्रवेषधरः शुभः ॥ 1॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,1,10012,स्वस्तीत्युक्त्वा नृपं प्राह वरुणोऽहं निशामय । पुत्रो जातस्तवाधीश यजानेन नृपाशु माम् ॥ 2॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,2,10013,सत्यं कुरु वचो राजन् यत्प्रोक्तं भवतः पुरा । वन्ध्यत्वं तु गतं तेऽद्य वरदानेन मे किल ॥ 3॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,3,10014,इति तस्य वचः श्रुत्वा राजा चिन्तां चकार ह । कथं हन्मि सुतं जातं जलजेन समाननम् ॥ 4॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,4,10015,लोकपालः समायातो विप्रवेषेण वीर्यवान् । न देवहेलनं कार्यं सर्वथा शुभमिच्छता ॥ 5॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,5,10016,पुत्रस्नेहः सुदुश्छेद्यः सर्वथा प्राणिभिः सदा । किं करोमि कथं मे स्यात्सुखं सन्ततिसम्भवम् ॥ 6॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,6,10017,धैर्यमालम्ब्य भूपालस्तं नत्वा प्रतिपूज्य च । उवाच वचनं श्लक्ष्णं युक्तं विनयपूर्वकम् ॥ 7॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,7,10018,राजोवाच - देवदेव तवानुज्ञां करोमि करुणानिधे । वेदोक्तेन विधानेन मखं च बहुदक्षिणम् ॥ 8॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,8,10019,पुत्रे जाते दशाहेन कर्मयोग्यो भवेत्पिता । मासेन शुध्येज्जननी दम्पती तत्र कारणम् ॥ 9॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,9,10020,सर्वज्ञोऽसि प्रचेतस्त्वं धर्मं जानासि शाश्वतम् । कृपां कुरु त्वं वारीश क्षमस्व परमेश्वर ॥ 10॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,10,10021,व्यास उवाच - इत्युक्तस्तु प्रचेतास्तं प्रत्युवाच जनाधिपम् । स्वस्ति तेऽस्तु गमिष्यामि कुरु कार्याणि पार्थिव ॥ 11॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,11,10022,आगमिष्यामि मासान्ते यष्टव्यं सर्वथा त्वया । कृत्वौत्थानिकमाचारं पुत्रस्य नृपसत्तम ॥ 12॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,12,10023,इत्युक्त्वा श्लक्ष्णया वाचा राजानं यादसां पतिः । हरिश्चन्द्रो मुदं प्राप गते पाशिनि पार्थिवः ॥ 13॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,13,10024,कोटिशः प्रददौ गास्ता घटोध्नीर्हेमपूरिताः । विप्रेभ्यो वेदविद्भ्यश्च तथैव तिलपर्वतान् ॥ 14॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,14,10025,राजा पुत्रमुखं दृष्ट्वा सुखमाप महत्तरम् । नामास्य रोहितश्चेति चकार विधिपूर्वकम् ॥ 15॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,15,10026,पूर्णे मासे ततः पाशी विप्रवेषेण भूपतेः । आजगाम गृहे सद्यो यजस्वेति ब्रुवन्मुहुः ॥ 16॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,16,10027,वीक्ष्य तं नृपतिर्देवं निमग्नः शोकसागरे । प्रणिपत्य कृतातिथ्यं तमुवाच कृताञ्जलिः ॥ 17॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,17,10028,दिष्ट्या देव त्वमायातो गृहं मे पावितं प्रभो । मखं करोमि वारीश विधिवद्वाञ्छितं तव ॥ 18॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,18,10029,अदन्तो न पशुः श्लाघ्य इत्याहुर्वेदवादिनः । तस्माद्दन्तोद्भवे तेऽहं करिष्यामि महामखम् ॥ 19॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,19,10030,व्यास उवाच - इत्युक्तस्तेन वरुणस्तथेत्युक्त्वा ययावथ । हरिश्चन्द्रो मुदं प्राप्य विजहार गृहाश्रमे ॥ 20॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,20,10031,पुनर्दन्तोद्भवं ज्ञात्वा प्रचेता द्विजरूपवान् । आजगाम गृहे तस्य कुरु कार्यमिति ब्रुवन् ॥ 21॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,21,10032,भूपालोऽपि जलाधीशं वीक्ष्य प्राप्तं द्विजाकृतिम् । प्रणम्यासनसम्मानैः पूजयामास सादरम् ॥ 22॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,22,10033,स्तुत्वा प्रोवाच वचनं विनयानतकन्धरः । करोमि विधिवत्कामं मखं प्रबलदक्षिणम् ॥ 23॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,23,10034,बालोऽप्यकृतचौलोऽयं गर्भकेशो न सम्मतः । यज्ञार्थे पशुकरणे मया वृद्धमुखाच्छ्रुतम् ॥ 24॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,24,10035,तावत्क्षमस्व वारीश विधिं जानासि शाश्वतम् । कर्तव्यः सर्वथा यज्ञो मुण्डनान्ते शिशोः किल ॥ 25॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,25,10036,तस्येति वचनं श्रुत्वा प्रचेताः प्राह तं पुनः । प्रतारयसि मां राजन् पुनः पुनरिदं ब्रुवन् ॥ 26॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,26,10037,अपि ते सर्वसामग्री वर्तते नृपतेऽधुना । पुत्रस्नेहनिबद्धस्त्वं वञ्चयस्येव साम्प्रतम् ॥ 27॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,27,10038,क्षौरकर्मविधिं कृत्वा न कर्तासि मखं यदि । तदाहं दारुणं शापं दास्ये कोपसमन्वितः ॥ 28॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,28,10039,अद्य गच्छामि राजेन्द्र वचनात्तव मानद । न मृषा वचनं कार्यं त्वयेक्ष्वाकुकुलोद्भव ॥ 29॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,29,10040,इत्याभाष्य ययावाशु प्रचेता नृपतेर्गृहात् । राजा परमसन्तुष्टो ननन्द भवने तदा ॥ 30॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,30,10041,चूडाकरणकाले तु प्रवृत्ते परमोत्सवे । सम्प्राप्तस्तरसा पाशी भवनं नृपतेः पुनः ॥ 31॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,31,10042,यदाङ्के सुतमादाय राज्ञी नृपतिसन्निधौ । उपविष्टा क्रियाकाले तदैव वरुणोऽभ्यगात् ॥ 32॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,32,10043,कुरु कर्मेति विस्पष्टं वचनं कथयन्नृपम् । विप्ररूपधरः श्रीमान् प्रत्यक्ष इव पावकः ॥ 33॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,33,10044,नृपतिस्त्वं समालोक्य बभूवातीव विह्वलः । नमश्चकार तं भीत्या कृताञ्जलिपुटः पुरः ॥ 34॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,34,10045,विधिवत्पूजयित्वा तं राजोवाच विनीतवान् । स्वामिन् कार्यं करोम्यद्य मखस्य विधिपूर्वकम् ॥ 35॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,35,10046,वक्तव्यमस्ति तत्रापि श‍ृणुष्वैकमना विभो । युक्तं चेन्मन्यसे स्वामिंस्तद् ब्रवीमि तवाग्रतः ॥ 36॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,36,10047,ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः । संस्कृताश्चान्यथा शूद्रा एवं वेदविदो विदुः ॥ 37॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,37,10048,तस्मादयं सुतो मेऽद्य शुद्रवद्वर्तते शिशुः । उपनीतः क्रियार्हः स्यादिति वेदेषु निर्णयः ॥ 38॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,38,10049,राज्ञामेकादशे वर्षे सदोपनयनं स्मृतम् । अष्टमे ब्राह्मणानां च वैश्यानां द्वादशे किल ॥ 39॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,39,10050,दयसे यदि देवेश दीनं मां सेवकं तव । तदोपनीय कर्तास्मि पशुना यज्ञमुत्तमम् ॥ 40॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,40,10051,लोकपालोऽसि धर्मज्ञ सर्वशास्त्रविशारद । मन्यसे मद्वचः सत्यं तद् गच्छ भवनं विभो ॥ 41॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,41,10052,व्यास उवाच - इति तस्य वचः श्रुत्वा दयावान् यादसां पतिः । ओमित्युक्त्वा ययावाशु प्रसन्नवदनो नृपः ॥ 42॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,42,10053,गतेऽथ वरुणो राजा बभूवातिमुदान्वितः । सुखं प्राप्य सुतस्यैवं राजा मुदमवाप ह ॥ 43॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,43,10054,चकार राजकार्याणि हरिश्चन्द्रस्तदा नृपः । कालेन व्रजता पुत्रो बभूव दशवार्षिकः ॥ 44॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,44,10055,तस्योपवीतसामग्रीं विभूतिसदृशीं नृपः । चकार ब्राह्मणैः शिष्टैरन्वितः सचिवैस्तथा ॥ 45॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,45,10056,एकादशे सुतास्याब्दे व्रतबन्धविधौ नृपः । विदधे विधिवत्कार्यं चित्ते चिन्तातुरः पुनः ॥ 46॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,46,10057,वर्तमाने तथा कार्ये उपनीते कुमारके । आजगामाथ वरुणो विप्रवेषधरस्तदा ॥ 47॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,47,10058,तं वीक्ष्य नृपतिस्तूर्णं प्रणम्य पुरतः स्थितः । कृताञ्जलिपुटः प्रीतः प्रत्युवाच सुरोत्तमम् ॥ 48॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,48,10059,देव दत्तोपवीतोऽयं पशुयोग्योऽस्ति मे सुतः । प्रसादात्तव मे शोको गतो वन्ध्यापवादजः ॥ 49॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,49,10060,कर्तुमिच्छाम्यहं यज्ञं प्रभूतवरदक्षिणम् । समये श‍ृणु धर्मज्ञ सत्यमद्य ब्रवीम्यहम् ॥ 50॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,50,10061,समावर्तनकर्मान्ते करिष्यामि तवेप्सितम् । ममोपरि दयां कृत्वा तावत्त्वं क्षन्तुमर्हसि ॥ 51॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,51,10062,वरुण उवाच - प्रतारयसि मां राजन् पुत्रप्रेमाकुलो भृशम् । मुहुर्मुहुर्मतिं कृत्वा युक्तियुक्तां महामते ॥ 52॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,52,10063,गच्छाम्यद्य महाराज वचसा तव नोदितः । आगमिष्यामि समये समावर्तनकर्मणि ॥ 53॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,53,10064,इत्युक्त्वा प्रययौ पाशी तपापृच्छ्य विशाम्पते । राजा प्रमुदितः कार्यं चकार च यथोत्तरम् ॥ 54॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,54,10065,आगतं वरुणं दृष्ट्वा कुमारोऽतिविचक्षणः । यज्ञस्य समयं ज्ञात्वा तदा चिन्तातुरोऽभवत् ॥ 55॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,55,10066,शोकस्य कारणं राज्ञः पर्यपृच्छदितस्ततः । ज्ञात्वात्मवधमायुष्मन् गमनाय मतिं दधौ ॥ 56॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,56,10067,निश्चयं परमं कृत्वा सम्मन्त्र्य सचिवात्मजैः । प्रययौ नगरात्तस्मान्निर्गत्य वनमप्यसौ ॥ 57॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,57,10068,गते पुत्रे नृपः कामं दुःखितोऽभूद् भृशं तदा । प्रेरयामास दूतान्स्वांस्तस्यान्वेषणकाम्यया ॥ 58॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,58,10069,एवं गतेऽथ कालेऽसौ वरुणस्तद्गृहं गतः । राजानं शोकसन्तप्तं कुरु यज्ञमिति ब्रुवन् ॥ 59॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,59,10070,राजा प्रणम्य तं प्राह देवदेव करोमि किम् । न जाने क्वापि पुत्रो मे गतस्त्वद्य भयाकुलः ॥ 60॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,60,10071,सर्वत्र गिरिदुर्गेषु मुनीनामाश्रमेषु च । अन्वेषितो मे दूतैस्तु न प्राप्तो यादसाम्पते ॥ 61॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,61,10072,आज्ञापय महाराज किं करोमि गते सुते । न मे दोषोऽत्र सर्वज्ञ भाग्यदोषस्तु सर्वथा ॥ 62॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,62,10073,व्यास उवाच - इति भूपवचः श्रुत्वा प्रचेताः कुपितो भृशम् । शशाप च नृपं क्रोधाद्वञ्चितस्तु पुनः पुनः ॥ 63॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,63,10074,नृपतेऽहं त्वया यस्माद्वचसा च प्रवञ्चितः । तस्माज्जलोदरो व्याधिस्त्वां तुदत्वतिदारुणः ॥ 64॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,64,10075,व्यास उवाच - इति शप्तो महीपालः कुपितेन प्रचेतसा । पीडितोऽभूत्तदा राजा व्याधिना दुःखदेन तु ॥ 65॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,65,10076,एवं शप्त्वा नृपं पाशी जगाम निजमास्पदम् । राजा प्राप्य महाव्याधिं बभूवातीव दुःखितः ॥ 66॥ 7,७.१५,पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।,66,10077,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनं नाम पञ्चदशोऽध्यायः ॥ ७.१५॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,0,10078,व्यास उवाच - गतेऽथ वरुणे राजा रोगेणातीव पीडितः । दुःखाद्दुःखं परं प्राप्य व्यथितोऽभूद् भृशं तदा ॥ 1॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,1,10079,कुमारोऽसौ वने श्रुत्वा पितरं रोगपीडितम् । गमनाय मतिं राजंश्चकार स्नेहयन्त्रितः ॥ 2॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,2,10080,संवत्सरे व्यतीते तु पितरं द्रष्टुमादरात् । गन्तुकामं तु तं ज्ञात्वा शक्रस्तत्राजगाम ह ॥ 3॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,3,10081,वासवस्तु तदा रूपं कृत्वा विप्रस्य सत्वरः । वारयामास युक्त्या वै कुमारं गन्तुमुद्यतम् ॥ 4॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,4,10082,इन्द्र उवाच - राजपुत्र न जानासि राजनीतिं सुदुर्लभाम् । अतः करोषि मूढस्त्वं गमनाय मतिं वृथा ॥ 5॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,5,10083,पिता तव महाभाग ब्राह्मणैर्वेदपारगैः । कारयिष्यति होमं ते ज्वलितेऽथ विभावसौ ॥ 6॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,6,10084,आत्मा हि वल्लभस्तात सर्वेषां प्राणिनां खलु । तदर्थे वल्लभाः सन्ति पुत्रदारधनादयः ॥ 7॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,7,10085,आत्मनो देहरक्षार्थं हत्वा त्वां वल्लभं सुतम् । हवनं कारयित्वासौ रोगमुक्तो भविष्यति ॥ 8॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,8,10086,तस्मात्त्वया न गन्तव्यं राजपुत्र पितुर्गृहे । मृते पितरि गन्तव्यं राज्यार्थे सर्वथा पुनः ॥ 9॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,9,10087,एवं निषेधितस्तत्र वासवेन नृपात्मजः । वनमध्ये स्थितः कामं पुनः संवत्सरं नृप ॥ 10॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,10,10088,अत्यन्तं दुःखितं श्रुत्वा हरिश्चन्द्रं तदाऽऽत्मजः । गमनाय मतिं चक्रे मरणे कृतनिश्चयः ॥ 11॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,11,10089,तुषाराड् द्विजरूपेण तत्रागत्य च रोहितम् । निवारयामास सुतं युक्तिवाक्यैः पुनः पुनः ॥ 12॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,12,10090,हरिश्चन्द्रोऽतिदुःखार्तो वसिष्ठं स्वपुरोहितम् । पप्रच्छ रोगनाशाय तत्रोपायं सुनिश्चितम् ॥ 13॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,13,10091,तमाह ब्रह्मणः पुत्रो यज्ञं कुरु नृपोत्तम । क्रयक्रीतेन पुत्रेण शापमोक्षो भविष्यति ॥ 14॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,14,10092,पुत्रा दशविधां प्रोक्ता ब्राह्मणैर्वेदपारगैः । द्रव्येणानीय तस्मात्त्वं पुत्रं कुरु नृपोत्तम ॥ 15॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,15,10093,वरुणोऽपि प्रसन्नः सन्सुखकारी भविष्यति । लोभात्कोऽपि द्विजः पुत्रं प्रदास्यति स्वराष्ट्रजः ॥ 16॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,16,10094,एवं प्रमोदितो राजा वसिष्ठेन महामना । प्रधानं प्रेरयामास तदन्वेषणकाम्यया ॥ 17॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,17,10095,अजीगर्तो द्विजः कश्चिद्विषये तस्य भूपतेः । तस्यासंश्च त्रयः पुत्रा निर्धनस्य विशेषतः ॥ 18॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,18,10096,प्रधानेनाप्यसौ पृष्टः पुत्रार्थं दुर्बलो द्विजः । गवां शतं ददामीति देहि पुत्रं मखाय वै ॥ 19॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,19,10097,शुनःपुच्छः शुनःशेपः शुनोलाङ्गूल इत्यमी । तेषामेकतमं देहि ददामि तु गवां शतम् ॥ 20॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,20,10098,अजीगर्तस्तु तच्छ्रुत्वा क्षुधया पीडितो भृशम् । पुत्रं च कतमं तेभ्यो विक्रेतुं वै मनो दधे ॥ 21॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,21,10099,कार्याधिकारिणं ज्येष्ठं मत्वा नासावदादमुम् । कनिष्ठं नाप्यदान्माता ममैष इति वादिनी ॥ 22॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,22,10100,मध्यमं च शुनःशेपं ददौ गवां शतेन च । आनिनाय पशुं चक्रे नरमेधे नराधिपः ॥ 23॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,23,10101,रुदन्तं दुःखितं दीनं वेपमानं भृशातुरम् । यूपे बद्धं निरीक्ष्यामुं चुक्रुशुर्मुनयस्तदा ॥ 24॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,24,10102,शामित्राय पशुं चक्रे नरमेधे नराधिपः । शमिता नाददे शस्त्रं तमालम्भयितुं शिशुम् ॥ 25॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,25,10103,नाहं द्विजसुतं दीनं रुदन्तं करुणं भृशम् । हनिष्यामि स्वलोभार्थमित्युवाचाप्यसौ तदा ॥ 26॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,26,10104,इत्युक्त्वा विररामासौ कर्मणो दुष्करादथ । राजा आभासदः प्राह किं कर्तव्यमिति द्विजाः ॥ 27॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,27,10105,जातः किलकिलाशब्दो जनानां क्रोशतां तदा । क्रन्दमाने शुनःशेपे सभायां भृशमद्भुतम् ॥ 28॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,28,10106,अजीगर्तस्तदोत्थाय तमुवाच नृपोत्तमम् । राजन् कार्यं करिष्यामि तवाहं सुस्थिरो भव ॥ 29॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,29,10107,वेतनं द्विगुणं देहि हनिष्यामि पशुं किल । कर्तव्यं मखकार्यं वै मया तेऽद्य धनार्थिना ॥ 30॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,30,10108,दुःखितस्य धनार्थस्य सदासूया प्रसूयते । व्यास उवाच - तच्छ्रुत्वा वचनं तस्य हरिश्चन्द्रो मुदान्वितः ॥ 31॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,31,10109,तमुवाच ददाम्यद्य गवां शतमनुत्तमम् । तदाकर्ण्य पिता तस्य पुत्रं हन्तुं समुद्यतः ॥ 32॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,32,10110,लोभेनाकुलचित्तोऽसौ शामित्रे कृतनिश्चयः । समुद्यतं च तं दृष्ट्वा जनाः सर्वे सभासदः ॥ 33॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,33,10111,चुक्रुशुर्भृशदुःखार्ता हाहेति जगदुर्वचः । पिशाचोऽयं महापापी क्रूरकर्मा द्विजाकृतिः ॥ 34॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,34,10112,यत्स्वयं स्वसुतं हन्तुमुद्यतः कुलपांसनः । धिक्चाण्डाल किमेतत्ते पापकर्म चिकीर्षितम् ॥ 35॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,35,10113,हत्वा सुतं धनं प्राप्य किं सुखं ते भविष्यति । आत्मा वै जायते पुत्र अङ्गाद्वै वेदभाषितम् ॥ 36॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,36,10114,तत्कथं पापबुद्धे त्वमात्मानं हन्तुमिच्छसि । एवं कोलाहले तत्र जाते कुशिकनन्दनः ॥ 37॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,37,10115,समीपं नृपतेर्गत्वा तमुवाच दयापरः । विश्वामित्र उवाच - राजन्नमुं शुनःशेपं रुदन्तं भृशदुःखितम् ॥ 38॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,38,10116,क्रतुस्ते भविता पूर्णो रोगनाशश्च सर्वथा । दयासमं नास्ति पुण्यं पापं हिंसासमं नहि ॥ 39॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,39,10117,रागिणां रोचनार्थाय नोदनेयं विचारय । आत्मदेहस्य रक्षार्थं परदेहनिकृन्तनम् ॥ 40॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,40,10118,न कर्तव्यं महाराज सर्वतः शुभमिच्छता । दयया सर्वभूतेषु सन्तुष्टो येन केन च ॥ 41॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,41,10119,सर्वेन्द्रियोपशान्त्या च तुष्यत्याशु जगत्पतिः । आत्मवत्सर्वभूतेषु चिन्तनीयं नृपोत्तम ॥ 42॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,42,10120,जीवितव्यं प्रियं नूनं सर्वेषां सर्वदा किल । त्वमिच्छसि सुखं कर्तुं देहे हत्वा त्वमुं द्विजम् ॥ 43॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,43,10121,कथं नेच्छेदसौ देहं रक्षितुं स्वसुखास्पदम् । पूर्वजन्मकृतं वैरं नानेन सह ते नृप ॥ 44॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,44,10122,येनामुं हन्तुकामस्त्वं द्विजपुत्रं निरागसम् । यो यं हन्ति विना वैरं स्वकामः सततं पुनः ॥ 45॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,45,10123,हन्तारं हन्ति तं प्राप्य जननं जननान्तरे । जनकोऽस्य सुदुष्टात्मा येनासौ ते समर्पितः ॥ 46॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,46,10124,स्वात्मजो धनलोभेन पापाचारः सुदुर्मतिः । एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ॥ 47॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,47,10125,यजेत चाश्वमेधेन नीलं वा वृषमुत्सृजेत् । देशमध्ये च यः कश्चित्पापकर्म समाचरेत् ॥ 48॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,48,10126,षष्ठांशस्तस्य पापस्य राजा भुङ्क्ते न संशयः । निषेधनीयो राज्ञासौ पापं कर्तुं समुद्यतः ॥ 49॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,49,10127,न निषिद्धस्त्वया कस्मात्पुत्रं विक्रेतुमुद्यतः । सूर्यवंशे समुत्पन्नस्त्रिशङ्कुतनयः शुभः ॥ 50॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,50,10128,आर्यस्त्वनार्यवत्कर्म कर्तुमिच्छसि पार्थिव । मोचनान्मुनिपुत्रस्य करणाद्वचनस्य मे ॥ 51॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,51,10129,तव देहे सुखं राजन् भविष्यत्यविचारणात् । पिता ते शापयोगेन चाण्डालत्वमुपागतः ॥ 52॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,52,10130,मयासौ तेन देहेन स्वर्लोकं प्रापितः किल । तेनैव प्रीतियोगेन कुरु मे वचनं नृप ॥ 53॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,53,10131,मुञ्चैनं बालकं दीनं रुदन्तं भृशमातुरम् । याचितोऽसि मया नूनं यज्ञेऽस्मिन् राजसूयके ॥ 54॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,54,10132,प्रार्थनाभङ्गजं दोषं कथं त्वं नावबुध्यसे । प्रार्थितं सर्वदा देयं मखेऽस्मिन्नृपसत्तम ॥ 55॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,55,10133,अन्यथा पापमेव स्यात्तव राजन्न संशयः । व्यास उवाच - इति तस्य वचः श्रुत्वा कौशिकस्य नृपोतमः ॥ 56॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,56,10134,प्रत्युवाच महाराज कौशिकं मुनिसत्तमम् । जलोदरेण गाधेय दुःखितोऽहं भृशं मुने ॥ 57॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,57,10135,तस्मान्न मोचयाम्येनमन्यत्प्रार्थय कौशिक । न त्वया विग्रहः कार्यः कार्येऽस्मिन्मम सर्वथा ॥ 58॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,58,10136,तच्छ्रुत्वा वचनं राज्ञो विश्वामित्रोऽतिकोपनः । बभूव दुःखसन्तप्तो वीक्ष्य दीनं द्विजात्मजम् ॥ 59॥ 7,७.१६,षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।,59,10137,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनं नाम षोडशोऽध्यायः ॥ ७.१६॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,0,10138,व्यास उवाच - रुदन्तं बालकं वीक्ष्य विश्वामित्रो दयातुरः । शुनःशेपमुवाचेदं गत्वा पार्श्वेऽतिदुःखितम् ॥ 1॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,1,10139,मन्त्रं प्रचेतसः पुत्र मयोक्तं मनसा स्मरन् । जपतस्तव कल्याणं भविष्यति ममाज्ञया ॥ 2॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,2,10140,विश्वामित्रवचः श्रुत्वा शुनःशेपः शुचाऽऽकुलः । मन्त्रं जजाप मनसा कौशिकोक्तं स्फुटाक्षरम् ॥ 3॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,3,10141,जपतस्तत्र तस्याशु प्रचेतास्तु कृपाकरः । प्रादुर्बभूव सहसा प्रसन्नो नृप बालके ॥ 4॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,4,10142,दृष्ट्वा तमागतं सर्वे विस्मयं परमं गताः । तुष्टुवुर्वरुणं देवं मुदिता दर्शनेन ते ॥ 5॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,5,10143,राजातिविस्मितः पादौ प्रणनाम रुजातुरः । बद्धाञ्जलिपुटो देवं तुष्टाव पुरतः स्थितम् ॥ 6॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,6,10144,हरिश्चन्द्र उवाच - देवदेव कृपासिन्धो पापात्माहं सुमन्दधीः । कृतापराधः कृपणः पावितः परमेष्ठिना ॥ 7॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,7,10145,मया ते पुत्रकामेन दुःखसंस्थेन हेलनम् । कृतं क्षमाप्यं प्रभुणा कोऽपराधः सुदुर्मतेः ॥ 8॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,8,10146,अर्थी दोषं न जानाति तस्मात्पुत्रार्थिना मया । वञ्चितस्त्वं देवदेव भीतेन नरकाद्विभो ॥ 9॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,9,10147,अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च । भीतोऽहं तेन वाक्येन तस्मात्ते हेलनं कृतम् ॥ 10॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,10,10148,नाज्ञस्य दूषणं चिन्त्यं नूनं ज्ञानवता विभो । दुःखितोऽहं रुजाक्रान्तो वञ्चितः स्वसुतेन ह ॥ 11॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,11,10149,न जानेऽहं महाराज पुत्रो मे क्व गतः प्रभो । वञ्चयित्वा वने भीतो मरणान्मां कृपानिधे ॥ 12॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,12,10150,प्रययौ द्रविणं दत्वा गृहीतो द्विजबालकः । यज्ञोऽयं क्रीतपुत्रेण प्रारब्धस्तव तुष्टये ॥ 13॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,13,10151,दर्शनं तव सम्प्राप्य गतं दुःखं ममाद्भुतम् । जलोदरकृतं सर्वं प्रसन्ने त्वयि साम्प्रतम् ॥ 14॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,14,10152,व्यास उवाच - इति तस्य वचः श्रुत्वा राज्ञो रोगातुरस्य च । दयावान्देवदेवेशः प्रत्युवाच नृपोत्तमम् ॥ 15॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,15,10153,वरुण उवाच - मुञ्च राजञ्छुनःशेपं स्तुवन्तं मां भृशातुरम् । यज्ञोऽयं परिपूर्णस्ते रोगमुक्तो भवात्मना ॥ 16॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,16,10154,इत्युक्त्वा वरुणस्तूर्णं राजानं विरुजं तथा । चकार पश्यतां तत्र सदस्यानां सुसंस्थितम् ॥ 17॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,17,10155,विमुक्तोऽसौ द्विजः पाशाद्वरुणेन महात्मना । जयशब्दस्ततस्तत्र सञ्जातो मखमण्डपे ॥ 18॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,18,10156,राजा प्रमुदितः सद्यो रोगान्मुक्तः सुदारुणात् । यूपान्मुक्तः शुनःशेपो बभूवातीव संस्थितः ॥ 19॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,19,10157,राजा त्विमं मखं पूर्णं चकार विनयान्वितः । शुनःशेपस्तदा सभ्यानित्युवाच कृताञ्जलिः ॥ 20॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,20,10158,भो भोः सभ्या सुधर्मज्ञाः ब्रुवन्तु धर्मनिर्णयम् । वेदशास्त्रानुसारेण यथार्थवादिनः किल ॥ 21॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,21,10159,पुत्रोऽहं कस्य सर्वज्ञाः पिता के कोऽग्रतः परम् । भवतां वचनात्तस्य शरणं प्रव्रजाम्यहम् ॥ 22॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,22,10160,इत्युक्ते वचने तत्र सभ्याः प्रोचुः परस्परम् । सभ्या ऊचूः - अजीगर्तस्य पुत्रोऽयं कस्यान्यस्य भवेदसौ ॥ 23॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,23,10161,अङ्गादङ्गात्समुद्भूतः पालितस्तेन भक्तितः । अन्यस्य कस्य पुत्रोऽसौ प्रभवेदिति निश्चयः ॥ 24॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,24,10162,तच्छ्रुत्वा वामदेवस्तु तानुवाच सभासदः । विक्रीतस्तेन तातेन द्रव्यलोभात्सुतः किल ॥ 25॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,25,10163,पुत्रोऽयं धनदातुश्च राज्ञस्तत्र न संशयः । अथवा वरुणस्यैष पाशान्मुक्तोऽस्त्यनेन वै ॥ 26॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,26,10164,अन्नदाता भयत्राता तथा विद्याप्रदश्च यः । तथा वित्तप्रदश्चैव पञ्चैते पितरः स्मृताः ॥ 27॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,27,10165,तदा केचित्पितुः प्राहुः केचिद्राज्ञस्तथापरे । वरुणस्येति संवादे निर्णयं न ययुश्च ते ॥ 28॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,28,10166,इत्थं सन्देहमापन्ने वसिष्ठो वाक्यमब्रवीत् । सभ्यान्विवदतस्तत्र सर्वज्ञः सर्वपूजितः ॥ 29॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,29,10167,श‍ृणुध्वं भो महाभागा निर्णयं श्रुतिसम्मतम् । निःस्नेहेन यदा पित्रा विक्रीतोऽयं सुतः शिशुः ॥ 30॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,30,10168,सम्बन्धस्तु गतस्तस्य तदैव धनसङ्ग्रहात् । हरिश्चन्द्रस्य सञ्जातः पुत्रोऽसौ क्रीत एव च ॥ 31॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,31,10169,यूपे बद्धो यदा राज्ञा तदा तस्य न वै सुतः । वरुणस्तु स्तुतोऽनेन तेन तुष्टेन मोचितः ॥ 32॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,32,10170,तस्मान्नायं महाभागा ह्यसौ पुत्रः प्रचेतसः । यो यं स्तौति महामन्त्रैः सोऽपि तुष्टो ददाति च ॥ 33॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,33,10171,धनं प्राणान्पशून् राज्यं तथा मोक्षं किलेप्सितम् । कौशिकस्य सुतश्चायमरिष्टे येन रक्षितः ॥ 34॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,34,10172,मन्त्रं दत्त्वा महावीर्यं वरुणस्यातिसङ्कटे । व्यास उवाच - श्रुत्वा वाक्यं वसिष्ठस्य बाढमूचुः सभासदः ॥ 35॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,35,10173,विश्वामित्रस्तु जग्राह तं करे दक्षिणे तदा । एहि पुत्र गृहं मे त्वमित्युक्त्वा प्रेमपूरितः ॥ 36॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,36,10174,शुनःशेपो जगामाशु तेनैव सह सत्वरः । वरुणस्तु प्रसन्नात्मा जगाम च स्वमालयम् ॥ 37॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,37,10175,ऋत्विजश्च तथा सभ्याः स्वगृहान्निर्ययुस्तदा । राजापि रोगनिर्मुक्तो बभूवातिमुदान्वितः ॥ 38॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,38,10176,प्रजास्तु पालयामास सुप्रसन्नेन चेतसा । रोहिताख्यस्तु तच्छ्रुत्वा वृत्तान्तं वरुणस्य ह ॥ 39॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,39,10177,आजगाम गृहं प्रीतो दुर्गमाद्वनपर्वतात् । दूता राजानमभ्येत्य प्रोचुः पुत्रं समागतम् ॥ 40॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,40,10178,मुदितोऽसौ जगामाशु सम्मुखः कोसलाधिपः । दृष्ट्वा पितरमायान्तं प्रेमोद्रिक्तः सुसम्भ्रमः ॥ 41॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,41,10179,दण्डवत्पतितो भूमावश्रुपूर्णमुखः शुचा । राजापि तं समुत्थाप्य परिरभ्य मुदान्वितः ॥ 42॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,42,10180,तमाघ्राय सुतं मूर्ध्नि पप्रच्छ कुशलं पुनः । उत्सङ्गे तं समारोप्य मुदितो मेदिनीपतिः ॥ 43॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,43,10181,उष्णैर्नेत्रजलैः शीर्षण्यभिषेकमथाकरोत् । राज्यं शशास तेनासौ पुत्रेणातिप्रियेण च ॥ 44॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,44,10182,वृत्तान्तं नरमेधस्य कथयामास विस्तरात् । राजसूयं क्रतुवरं चकार नृपसत्तमः ॥ 45॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,45,10183,वसिष्ठं पूजयित्वाथ होतारमकरोद्विभुः । समाप्ते त्वथ यज्ञेशे वसिष्ठोऽतीव पूजितः ॥ 46॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,46,10184,शक्रस्य सदनं रम्यं जगाम मुनिरादरात् । विश्वामित्रोऽपि तत्रैव वसिष्ठेन च सङ्गतः ॥ 47॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,47,10185,मिलित्वा तौ स्थितौ देवसदने मुनिसत्तम । विश्वामित्रोऽपि पप्रच्छ वसिष्ठं प्रतिपूजितम् ॥ 48॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,48,10186,वीक्ष्य विस्मयचित्तस्तं सभायां तु शचीपतेः । विश्वामित्र उवाच - क्वेयं पूजा त्वया प्राप्ता महती मुनिसत्तम ॥ 49॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,49,10187,कृता केन महाभाग सत्यं ब्रूहि ममान्तिके । वसिष्ठ उवाच - यजमानोऽस्ति मे राजा हरिश्चन्द्रः प्रतापवान् ॥ 50॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,50,10188,राजसूयः कृतस्तेन राज्ञा प्रवरदक्षिणः । नेदृशोऽस्ति नृपश्चान्यः सत्यवादी धृतव्रतः ॥ 51॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,51,10189,दाता च धर्मशीलश्च प्रजारञ्जनतत्परः । तस्य यज्ञे मया पूजा प्राप्ता कौशिकनन्दन ॥ 52॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,52,10190,[ किं पृच्छसि पुनः सत्यं ब्रवीम्यकृत्रिमं द्विज ] हरिश्चन्द्रसमो राजा न भूतो न भविष्यति । सत्यवादी तथा दाता शूरः परमधार्मिकः ॥ 53॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,53,10191,व्यास उवाच । इति तस्य वचः श्रुत्वा विश्वामित्रोऽतिकोपनः । बभूव क्रोधसंरक्तलोचनोऽप्यब्रवीच्च तम् ॥ 54॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,54,10192,विश्वामित्र उवाच । एवं स्तौषि नृपं मिथ्यावादिनं कपटप्रियम् । वञ्चितो वरुणो येन प्रतिश्रुत्य वरं पुनः ॥ 55॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,55,10193,मम जन्मार्जितं पुण्यं तपसः पठितस्य च । त्वदीयं वातितपसो ग्लहं कुरु महामते ॥ 56॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,56,10194,अहं चेत्तं नृपं सद्यो न करोम्यतिसंस्तुतम् । असत्यवादिनं काममदातारं महाखलम् ॥ 57॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,57,10195,आजन्मसञ्चितं सर्वं पुण्यं मम विनश्यतु । अन्यथा त्वत्कृतं सर्वं पुण्यं त्विति पणावहे ॥ 58॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,58,10196,ग्लहं कृत्वा ततस्तौ तु विवदन्तौ मुनी तदा । स्वाश्रमं स्वर्गलोकाच्च गतौ परमकोपनौ ॥ 59॥ 7,७.१७,सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।,59,10197,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे वसिष्ठविश्वामित्रपणवर्णनं नाम सप्तदशोऽध्यायः ॥ ७.१७॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,0,10198,व्यास उवाच - कदाचित्तु हरिश्चन्द्रो मृगयार्थं वनं ययौ । अपश्यद्रुदतीं बालां सुन्दरीं चारुलोचनाम् ॥ 1॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,1,10199,तामपृच्छन्महाराजः कामिनीं करुणापरः । पद्मपत्रविशालाक्षि किं रोदिषि वरानने ॥ 2॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,2,10200,केनासि पीडितात्यर्थं किं ते दुःखं वदाशु मे । का च त्वं विजने घोरे कस्ते भर्ता पिताथवा ॥ 3॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,3,10201,न बाधते च राज्ये मे राक्षसोऽपि पराङ्गनाम् । तं हन्मि तरसा कान्ते यस्त्वां सुन्दरि बाधते ॥ 4॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,4,10202,ब्रूहि दुःखं वरारोहे स्वस्था भव कृशोदरि । विषये मम पापात्मा न तिष्ठति सुमध्यमे ॥ 5॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,5,10203,इति तस्य वचः श्रुत्वा नारी तमब्रवीन्नृपम् । प्रमृज्याश्रूणि वदनाद्धरिश्चन्द्रं नृपोत्तमम् ॥ 6॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,6,10204,नार्युवाच - राजन् मां बाधतेऽत्यर्थं विश्वामित्रो महामुनिः । तपः करोति यद्घोरं मदर्थं कौशिको वने ॥ 7॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,7,10205,तेनाहं दुःखिता राजन् विषये तव सुव्रत । विद्धि मां कमनां कान्तां पीडितां मुनिना भृशम् ॥ 8॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,8,10206,राजोवाच - स्वस्था भव विशालाक्षि न ते दुःखं भविष्यति । तमहं वारयिष्यामि मुनिं तापपरायणम् ॥ 9॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,9,10207,इत्याश्वास्य स्त्रियं राजा तरसा मुनिसन्निधौ । नत्वा प्रणम्य शिरसा तमुवाच महीपतिः ॥ 10॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,10,10208,स्वामिन्किं क्रियतेऽत्यर्थं तपसा देहपीडनम् । किमर्थं ते समारम्भो ब्रूहि सत्यं महामते ॥ 11॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,11,10209,वाञ्छितं तव गाधेय करोमि सफलं किल । उत्तिष्ठोत्तिष्ठ तरसा तपसालमतः परम् ॥ 12॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,12,10210,विषये मम सर्वज्ञ न कर्तव्यं सुदारुणम् । लोकपीडाकरं घोरं तपः केनापि कर्हिचित् ॥ 13॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,13,10211,इत्थं निषिध्य तं राजा विश्वामित्रं गृहं ययौ । मनसा क्रोधमाधाय गतोऽसौ कौशिको मुनिः ॥ 14॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,14,10212,स गत्वा चिन्तयामास नृपकृत्यमसाम्प्रतम् । वसिष्ठस्य च संवादं तपसः प्रतिषेधनम् ॥ 15॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,15,10213,कोपाविष्टेन मनसा प्रतीकारमथाकरोत् । विचिन्त्य बहुधा चित्ते दानवं घोरविग्रहम् ॥ 16॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,16,10214,प्रेषयामास तद्देशं विधाय सूकराकृतिम् । सोऽतिकायो महाकालः कुर्वन्नादं सुदारुणम् ॥ 17॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,17,10215,राज्ञश्चोपवने प्राप्तस्त्रासयन् रक्षकांस्तदा । मालतीनां च खण्डानि कदम्बानां तथैव च ॥ 18॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,18,10216,यूथिकानां च वृन्दानि कम्पयंश्च मुहुर्मुहुः । दन्तेन विलिखन्भूमिं समुन्मूलयते द्रुमान् ॥ 19॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,19,10217,चम्पकान्केतकीखण्डान्मल्लिकानां च पादपान् । करवीरानुशीरांश्च निचखान शुभान्मृदून् ॥ 20॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,20,10218,मुचुकुन्दानशोकांश्च बकुलांस्तिलकांस्तथा । उन्मूल्य कदनं तत्र चकार सूकरो वने ॥ 21॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,21,10219,वाटिकारक्षकाः सर्वे दुद्रुवुः शस्त्रपाणयः । हाहेति चुक्रुशुस्तत्र मालाकारा भृशातुराः ॥ 22॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,22,10220,बाणैः सन्ताड्यमानोऽपि यदा त्रस्तो न वै मृगः । रक्षकान्पीडयामास कोलः कालसमद्युतिः ॥ 23॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,23,10221,ते तदातिभयाक्रान्ता राजानं शरणं ययुः । तमूचुस्त्राहि त्राहीति वेपमाना भयाकुलाः ॥ 24॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,24,10222,तानागतान्समालोक्य भयार्तान्भूपतिस्तदा । पप्रच्छ किं भयं कस्मान्मां ब्रुवन्तु समागताः ॥ 25॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,25,10223,नाहं बिभेमि देवेभ्यो राक्षसेभ्यश्च रक्षकाः । कस्माद्भयं समुत्पन्नं तद् ब्रुवन्तु ममाग्रतः ॥ 26॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,26,10224,हन्मि चैकेन बाणेन तं शत्रुं दुर्भगं किल । यो मेऽरातिः समुत्पन्नो लोके पापमतिः खलः ॥ 27॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,27,10225,देवो वा दानवो वापि तं निहन्मि शरैः शितैः । क्व तिष्ठति कियद्रूपः कियद्बलसमन्वितः ॥ 28॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,28,10226,मालाकारा ऊचुः - न देवो न च दैत्योऽस्ति न यक्षो न च किन्नरः । कश्चित्कोलो महाकायो राजंस्तिष्ठति कानने ॥ 29॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,29,10227,पुष्पवृक्षानतिमृदून्दन्तेनोन्मूलयत्यसौ । विदीर्णं तद्वनं सर्वं सूकरेणातिरंहसा ॥ 30॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,30,10228,विशिखैस्ताडितोऽस्माभिर्दृषद्भिर्लकुटैस्तथा । न बिभेति महाराज हन्तुमस्मानुपाद्रवत् ॥ 31॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,31,10229,व्यास उवाच - इत्याकर्ण्य वचस्तेषां राजा कोपसमाकुलः । अश्वमारुह्य तरसा जगामोपवनं प्रति ॥ 32॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,32,10230,सैन्येन महता युक्तो गजाश्वरथसंयुतः । पदातिवृन्दसहितः प्रययौ वनमुत्तमम् ॥ 33॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,33,10231,तत्रापश्यन्महाकोलं घुर्घुरन्तं भयानकम् । वनं भग्नं च संवीक्ष्य राजा क्रोधयुतोऽभवत् ॥ 34॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,34,10232,चापे बाणं समारोप्य विकृष्य च शरासनम् । तं हन्तुं सूकरं पापं तरसा समुपाक्रमत् ॥ 35॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,35,10233,समालोक्य च राजानं चापहस्तं रुषाकुलम् । सम्मुखोऽभ्यद्रवत्तूर्णं कुर्वञ्छब्दं सुदारुणम् ॥ 36॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,36,10234,तमायान्तं समालोक्य वराहं विकृताननम् । मुमोच विशिखं तस्मिन्हन्तुकामो महीपतिः ॥ 37॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,37,10235,वञ्चयित्वाथ तद्बाणं सूकरस्तरसा बलात् । निर्जगाम महावेगात्तमुल्लङ्घ्य नृपं तदा ॥ 28॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,38,10236,गच्छन्तं तं समालोक्य राजा कोपसमन्वितः । मुमोच विशिखांस्तीक्ष्णांश्चापमाकृष्य यत्नतः ॥ 39॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,39,10237,क्षणं दृष्टिपथं राज्ञः क्षणं चादर्शनं गतः । कुर्वन्बहुविधारावं सूकरं समुपाद्रवत् ॥ 40॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,40,10238,हरिश्चन्द्रोऽतिकुपितो मृगस्यानुजगाम ह । अश्वेन वायुवेगेन विकृष्य च शरासनम् ॥ 41॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,41,10239,इतस्ततस्ततः सैन्यमगमच्च वनान्तरम् । एकाकी नृपतिः कोलं व्रजन्तं समुपाद्रवत् ॥ 42॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,42,10240,मध्याह्नसमये राजा सम्प्राप्तो विजने वने । तृषितः क्षुधितोऽत्यर्थं बभूव श्रान्तवाहनः ॥ 43॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,43,10241,सूकरोऽदर्शनं प्राप्तो राजा चिन्तातुरोऽभवत् । मार्गभ्रष्टोऽतिविपिने दारुणे दीनवत्स्थितः ॥ 44॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,44,10242,किं करोमि क्व गच्छामि न सहायोऽस्ति मे वने । अज्ञातस्वपथः कुत्र व्रजामीति व्यचिन्तयत् ॥ 45॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,45,10243,एवं चिन्तयतस्तत्र विपिने जनवर्जिते । राज्ञा चिन्तातुरोऽपश्यन्नदीं सुविमलोदकाम् ॥ 46॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,46,10244,वीक्ष्य तां मुदितो राजा पाययित्वा तुरङ्गकम् । अश्वादुत्तेर्य विमलं पपौ पानीयमुत्तमम् ॥ 47॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,47,10245,जलं पीत्वा नृपस्तत्र सुखमाप महीपतिः । इत्येष नगरं गन्तुं दिग्भ्रमेणातिमोहितः ॥ 48॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,48,10246,विश्वामित्रस्तु सम्प्राप्तो वृद्धब्राह्मणरूपधृक् । ननाम वीक्ष्य राजा तं प्रीतिपूर्वं द्विजोत्तमम् ॥ 49॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,49,10247,तमुवाच गाधिराजः प्रणमन्तं नृपोत्तमम् । स्वस्ति तेऽस्तु महाराज किमर्थमिह चागतः ॥ 50॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,50,10248,एकाकी विजने राजन् किं चिकीर्षितमत्र ते । ब्रूहि सर्वं स्थिरो भूत्वा कारणं नृपसत्तम ॥ 51॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,51,10249,राजोवाच - सूकरोऽतिमहाकायो बलवान्पुष्पकाननम् । समुपेत्य ममर्दाशु कोमलान्पुष्पपादपान् ॥ 52॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,52,10250,तं निवारयितुं दुष्टं करे कृत्वा च कार्मुकम् । ससैन्योऽहं स्वनगरान्निर्गतो मुनिसत्तम ॥ 53॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,53,10251,गतोऽसौ दृक्पथात्पापो मायावी क्वापि वेगवान् । पृष्ठतोऽहमपि प्राप्तः सैन्यं क्वापि गतं मम ॥ 54॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,54,10252,क्षुधितस्तृषितश्चाहं सैन्यभ्रष्टस्त्विहागतः । न जाने पुरमार्गं च तथा सैन्यगतिं मुने ॥ 55॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,55,10253,पन्थानं दर्शय विभो व्रजामि नगरं प्रति । ममात्र भाग्ययोगेन प्राप्तस्त्वं विजने वने ॥ 56॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,56,10254,अयोध्यादिपतिश्चाहं हरिश्चन्द्रोऽतिविश्रुतः । राजसूयस्य कर्ता च वाञ्छितार्थप्रदः सदा ॥ 57॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,57,10255,धनेच्छा यदि ते ब्रह्मन् यज्ञार्थं द्विजसत्तम । आगन्तव्यमयोध्यायां दास्यामि विपुलं धनम् ॥ 58॥ 7,७.१८,अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।,58,10256,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनं नामाष्टादशोऽध्यायः ॥ ७.१८॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,0,10257,व्यास उवाच - इति तस्य वचः श्रुत्वा भूपतेः कौशिको मुनिः । प्रहस्य प्रत्युवाचेदं हरिश्चन्द्रं तथा नृप ॥ 1॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,1,10258,राजंस्तीर्थमिदं पुण्यं पावनं पापनाशनम् । स्नानं कुरु महाभाग पितॄणां तर्पणं तथा ॥ 2॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,2,10259,कालः शुभतमोऽस्तीह तीर्थे स्नात्वा विशाम्पते । दानं ददस्व शक्त्यात्र पुण्यतीर्थेऽतिपावने ॥ 3॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,3,10260,प्राप्य तीर्थं महापुण्यमस्नात्वा यस्तु गच्छति । स भवेदात्महा भूय इति स्वायम्भुवोऽब्रवीत् ॥ 4॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,4,10261,तस्मात्तीर्थवरे राजन् कुरु पुण्यं स्वशक्तितः । दर्शयिष्यामि मार्गं ते गन्तासि नगरं ततः ॥ 5॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,5,10262,आगमिष्यामहं मार्गदर्शनार्थं तवानघ । त्वया सहाद्य काकुत्स्थ तव दानेन तोषितः ॥ 6॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,6,10263,तच्छ्रुत्वा वचनं राजा मुनेः कपटमण्डितम् । वासांस्युत्तार्य विधिवत्स्नातुमभ्याययौ नदीम् ॥ 7॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,7,10264,बन्धयित्वा हयं वृक्षे मुनिवाक्येन मोहितः । अवश्यम्भावियोगेन तद्वशस्तु तदाभवत् ॥ 8॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,8,10265,राजा स्नानविधिं कृत्वा सन्तर्प्य पितृदेवताः । विश्वामित्रमुवाचेदं स्वामिन् दानं ददामि ते ॥ 9॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,9,10266,यदिच्छसि महाभाग तत्ते दास्यामि साम्प्रतम् । गावो भूमिर्हिरण्यं च गजाश्वरथवाहनम् ॥ 10॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,10,10267,नादेयं मे किमप्यस्ति कृतमेतद् व्रतं पुरा । राजसूये मखश्रेष्ठे मुनीनां सन्निधावपि ॥ 11॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,11,10268,तस्मात्त्वमिह सम्प्ताप्तस्तीर्थेऽस्मिन्प्रवरे मुने । यत्तेऽस्ति वाञ्छितं ब्रूहि ददामि तव वाञ्छितम् ॥ 12॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,12,10269,विश्वामित्र उवाच - मया पूर्वं श्रुता राजन् कीर्तिस्ते विपुला भुवि । वसिष्ठेन च सम्प्रोक्ता दाता नास्ति महीतले ॥ 13॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,13,10270,हरिश्चन्द्रो नृपश्रेष्ठः सूर्यवंशे महीपतिः । तादृशो नृपतिर्दाता न भूतो न भविष्यति ॥ 14॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,14,10271,पृथिव्यां परमोदारस्त्रिशङ्कुतनयो यथा । अतस्त्वां प्रार्थयाम्यद्य विवाहो मेऽस्ति पार्थिवः ॥ 15॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,15,10272,पुत्रस्य च महाभाग तदर्थं देहि मे धनम् । राजोवाच - विवाहं कुरु विप्रेन्द्र ददामि प्रार्थितं तव ॥ 16॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,16,10273,यदिच्छसि धनं कामं दाता तस्यास्मि निश्चितम् । व्यास उवाच - इत्युक्तः कौशिकस्तेन वञ्चनातत्परो मुनिः ॥ 17॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,17,10274,उद्भाव्य मायां गान्धर्वीं पार्थिवायाप्यदर्शयत् । कुमारः सुकामारश्च कन्या च दशवार्षिकी ॥ 18॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,18,10275,एतयोः कार्यमप्यद्य कर्तव्यं नृपसत्तम । राजसूयाधिकं पुण्यं गृहस्थस्य विवाहतः ॥ 19॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,19,10276,भविष्यति तवाद्यैव विप्रपुत्रविवाहतः । तच्छ्रुत्वा वचनं राजा मायया तस्य मोहितः ॥ 20॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,20,10277,तथेति च प्रतिज्ञाय नोवाचाल्पं वचस्तथा । तेन दर्शितमार्गोऽसौ नगरं प्रति जग्मिवान् ॥ 21॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,21,10278,विश्वामित्रोऽपि राजानं वञ्चयित्वाऽऽश्रमं ययौ । कृतोद्वाहविधिस्तावद्विश्वामित्रोऽब्रवीन्नृपम् ॥ 22॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,22,10279,वेदीमध्ये नृपाद्य त्वं देहि दानं यथेप्सितम् । राजोवाच - किं तेऽभीष्टं द्विज ब्रूहि ददामि वाञ्छितं किल ॥ 23॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,23,10280,अदेयमपि संसरे यशःकामोऽस्मि साम्प्रतम् । व्यर्थं हि जीवितं तस्य विभवं प्राप्य येन वै ॥ 24॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,24,10281,नोपार्जितं यशः शुद्धं परलोकसुखप्रदम् । विश्वामित्र उवाच - राज्यं देहि महाराज वराय सपरिच्छदम् ॥ 25॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,25,10282,गजाश्वरथरत्नाढ्यं वेदीमध्येऽतिपावने । व्यास उवाच - मोहितो मायया तस्य श्रुत्वा वाक्यं मुनेर्नृपः ॥ 26॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,26,10283,दत्तमित्युक्तवान् राज्यमविचार्य यदृच्छया । गृहीतमिति तं प्राह विश्वामित्रोऽतिनिष्ठुरः ॥ 27॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,27,10284,दक्षिणां देहि राजेन्द्र दानयोग्यां महामते । दक्षिणारहितं दानं निष्फलं मनुरब्रवीत् ॥ 28॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,28,10285,तस्माद्दानफलाय त्वं यथोक्तां देहि दक्षिणाम् । इत्युक्तस्तु तदा राजा तमुवाचातिविस्मितः ॥ 29॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,29,10286,ब्रूहि कियद्धनं तुभ्यं देयं स्वामिन् मयाधुना । दक्षिणानिष्क्रयं साधो वद तावत्प्रमाणकम् ॥ 30॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,30,10287,दानपूर्त्यै प्रदास्यामि स्वस्थो भव तपोधन । विश्वामित्रस्तु तच्छ्रुत्वा तमाह मेदिनीपतिम् ॥ 31॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,31,10288,हेमभारद्वयं सार्धं दक्षिणां देहि साम्प्रतम् । दास्यामीति प्रतिश्रुत्य तस्मै राजातिविस्मितः ॥ 32॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,32,10289,तदैव सैनिकास्तस्य वीक्षमाणाः समागताः । दृष्ट्वा महीपतिं व्यग्रं तुष्टुवुस्ते मुदान्विताः ॥ 33॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,33,10290,व्यास उवाच - श्रुत्वा तेषां वचो राजा नोक्त्वा किञ्चिच्छुभाशुभम् । चिन्तयन्स्वकृतं कर्म ययावन्तःपुरे ततः ॥ 34॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,34,10291,किं मया स्वीकृतं दानं सर्वस्वं यत्समर्पितम् । वञ्चितोऽहं द्विजेनात्र वने पाटच्चरैरिव ॥ 35॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,35,10292,राज्यं सोपस्करं तस्मै मया सर्वं प्रतिश्रुतम् । भारद्वयं सुवर्णस्य सार्धं च दक्षिणा पुनः ॥ 36॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,36,10293,किं करोमि मतिर्भ्रष्टा न ज्ञातं कपटं मुनेः । प्रतारितोऽहं सहसा ब्राह्मणेन तपस्विना ॥ 37॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,37,10294,न जाने दैवकार्यं वै हा दैव किं भविष्यति । इति चिन्तापरो राजा गृहं प्राप्तोऽतिविह्वलः ॥ 38॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,38,10295,पतिं चिन्तापरं दृष्त्वा राज्ञी पप्रच्छ कारणम् । किं प्रभो विमना भासि का चिन्ता ब्रूहि साम्प्रतम् ॥ 39॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,39,10296,वनात्पुत्रः समायातो राजसूयः कृतः पुरा । कस्माच्छोचसि राजेन्द्र शोकस्य कारणं वद ॥ 40॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,40,10297,नारातिर्विद्यते क्वापि बलवान्दुर्बलोऽपि वा । वरुणोऽपि सुसन्तुष्टः कृतकृत्योऽसि भूतले ॥ 41॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,41,10298,चिन्तया क्षीयते देहो नास्ति चिन्तासमा मृतिः । त्यज्यतां नृपशार्दूल स्वस्थो भव विचक्षण ॥ 42॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,42,10299,तन्निशम्य प्रियावाक्यं प्रीतिपूर्वं नराधिपः । प्रोवाच किञ्चिच्चिन्तायाः कारणं च शुभाशुभम् ॥ 43॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,43,10300,भोजनं न चकाराऽसौ चिन्ताविष्टस्तथा नृपः । सुप्त्वापि शयने शुभ्रे लेभे निद्रां न भूमिपः ॥ 44॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,44,10301,प्रातरुत्थाय चिन्तार्तो यावत्सन्ध्यादिकाः क्रियाः । करोति नृपतिस्तावद्विश्वामित्रः समागतः ॥ 45॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,45,10302,क्षत्रा निवेदितो राज्ञे मुनिः सर्वस्वहारकः । आगत्योवाच राजानं प्रणमन्तं पुनः पुनः ॥ 46॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,46,10303,विश्वामित्र उवाच - राजंस्त्यज स्वराज्यं मे देहि वाचा प्रतिश्रुतम् । सुवर्णं स्पृश राजेन्द्र सत्यवाग्भव साम्प्रतम् ॥ 47॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,47,10304,हरिश्चन्द्र उवाच - स्वामिन् राज्यं तवेदं मे मया दत्तं किलाधुना । त्यक्त्वान्यत्र गमिष्यामि मा चिन्ता कुरु कौशिक ॥ 48॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,48,10305,सर्वस्वं मम ते ब्रह्मन् गृहीतं विधिवद्विभो । सुवर्णदक्षिणां दातुमशक्तोऽस्म्यधुना द्विज ॥ 49॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,49,10306,दानं ददामि ते तावद्यावन्मे स्याद्धनागमः । पुनश्चेत्कालयोगेन तदा दास्यामि दक्षिणाम् ॥ 50॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,50,10307,इत्युक्त्वा नृपतिः प्राह पुत्रं भार्यां च माधवीम् । राज्यमस्मै प्रदत्तं वै मया वेद्यां सुविस्तरम् ॥ 51॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,51,10308,हस्त्यश्वरथसंयुक्तं रत्नहेमसमन्वितम् । त्यक्त्वा त्रीणि शरीराणि सर्वं चास्मै समर्पितम् ॥ 52॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,52,10309,त्यक्त्वायोध्यां गमिष्यामि कुत्रचिद्वनगह्वरे गृह्णात्विदं मुनिः सम्यग्राज्यं सर्वसमृद्धिमत् ॥ 53॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,53,10310,इत्याभाष्य सुतं भार्यां हरिश्चन्द्रः स्वमन्दिरात् । विनिर्गतः सुधर्मात्मा मानयंस्तं द्विजोत्तमम् ॥ 54॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,54,10311,व्रजन्तं भूपतिं वीक्ष्य भार्यापुत्रावुभावपि । चिन्तातुरौ सुदीनास्यौ जग्मतुः पृष्ठतस्तदा ॥ 55॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,55,10312,हाहाकारो महानासीन्नगरे वीक्ष्य तांस्तथा । चुक्रुशुः प्राणिनः सर्वे साकेतपुरवासिनः ॥ 56॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,56,10313,हा राजन् किं कृतं कर्म कुतः क्लेशः समागतः । वञ्चितोऽसि महाराज विधिनापण्डितेन ह ॥ 57॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,57,10314,सर्वे वर्णास्तदा दुःखमाप्नुयुस्तं महीपतिम् । विलोक्य भार्यया सार्धं पुत्रेण च महात्मना ॥ 58॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,58,10315,निनिन्दुर्ब्राह्मणं तं तु दुराचारं पुरौकसः । धूर्तोऽयमिति भाषन्तो दुःखार्ता ब्राह्मणादयः ॥ 59॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,59,10316,निर्गत्य नगरात्तस्माद्विश्वामित्रः क्षितीश्वरम् । गच्छन्तं तमुवाचेदं समेत्य निष्ठुरं वचः ॥ 60॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,60,10317,दक्षिणायाः सुवर्णं मे दत्त्वा गच्छ नराधिप । नाहं दास्यामि वा ब्रूहि मया त्यक्तं सुवर्णकम् ॥ 61॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,61,10318,राज्यं गृहाण वा सर्वं लोभश्चेद्धृति वर्तते । दत्तं चेन्मन्यसे राजन् देहि यत्तत्प्रतिश्रुतम् ॥ 62॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,62,10319,एवं ब्रुवन्तं गाधेयं हरिश्चन्द्रो महीपतिः । प्रणिपत्य सुदीनात्मा कृताञ्जलिपुटोऽब्रवीत् ॥ 63॥ 7,७.१९,एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।,63,10320,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनं नामैकोनविंशोऽध्यायः ॥ ७.१९॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,0,10321,हरिश्चन्द्र उवाच - अदत्त्वा ते हिरण्यं वै न करिष्यामि भोजनम् । प्रतिज्ञा मे मुनिश्रेष्ठ विषादं त्यज सुव्रत ॥ 1॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,1,10322,सूर्यवंशसमुद्भूतः क्षत्रियोऽहं महीपतिः । राजसूयस्य यज्ञस्य कर्ता वाञ्छितदो नृषु ॥ 2॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,2,10323,कथं करोमि नाकारं स्वामिन्दत्त्वा यदृच्छया । अवश्यमेव दातव्यमृणं ते द्विजसत्तम ॥ 3॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,3,10324,स्वस्थो भव प्रदास्यामि सुवर्णं मनसेप्सितम् । कञ्चित्कालं प्रतीक्षस्व यावत्प्राप्स्याम्यहं धनम् ॥ 4॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,4,10325,विश्वामित्र उवाच - कुतस्ते भविता राजन् धनप्राप्तिरतः परम् । गतं राज्यं तथा कोशो बलं चैवार्थसाधनम् ॥ 5॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,5,10326,वृथाशा ते महीपाल धनार्थे किं करोम्यहम् । निर्धनं त्वां च लोभेन पीडयामि कथं नृप ॥ 6॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,6,10327,तस्मात्कथय भूपाल न दास्यामीति साम्प्रतम् । त्यक्त्वाऽऽशां महतीं कामं गच्छाम्यहमतः परम् ॥ 7॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,7,10328,यथेष्टं व्रज राजेन्द्र भार्यापुत्रसमन्वितः । सुवर्णं नास्ति किं तुभ्यं ददामीति वदाधुना ॥ 8॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,8,10329,गच्छन्वाक्यमिदं श्रुत्वा ब्राह्मणस्य च भूपतिः । प्रत्युवाच मुनिं ब्रह्मन् धैर्यं कुरु ददाम्यहम् ॥ 9॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,9,10330,मम देहोऽस्ति भार्यायाः पुरस्य च ह्यनामयः । क्रीत्वा देहं तु तं नूनमृणं दास्यामि ते द्विज ॥ 10॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,10,10331,ग्राहकं पश्य विप्रेन्द्र वाराणस्यां पुरि प्रभो । दासभावं गमिष्यामि सदारोऽहं सपुत्रकः ॥ 11॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,11,10332,गृहाण काञ्चनं पूर्णं सार्धं भारद्वयं मुने । मौल्येन दत्त्वा सर्वान्नः सन्तुष्टो भव भूधर ॥ 12॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,12,10333,इति ब्रुवञ्जगामाथ सह पत्न्या सुतान्वितः । उमया कान्तया सार्धं यत्रास्ते शङ्करः स्वयम् ॥ 13॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,13,10334,तां दृष्ट्वा च पुरीं रम्यां मनसो ह्लादकारिणीम् । उवाच स कृतार्थोऽस्मि पुरीं पश्यन्सुवर्चसम् ॥ 14॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,14,10335,ततो भागीरथीं प्राप्य स्नात्वा देवादितर्पणम् । देवार्चनं च निर्वर्त्य कृतवान् दिग्विलोकनम् ॥ 15॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,15,10336,प्रविश्य वसुधापालो दिव्यां वाराणसीं पुरीम् । नैषा मनुष्यभुक्तेति शूलपाणेः परिग्रहः ॥ 16॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,16,10337,जगाम पद्भ्यां दुःखार्तः सह पत्न्या समाकुलः । पुरीं प्रविश्य स नृपो विश्वासमकरोत्तदा ॥ 17॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,17,10338,ददृशेऽथ मुनिश्रेष्ठं ब्राह्मणं दक्षिणार्थिनम् । तं दृष्ट्वा समनुप्राप्तं विनयावनतोऽभवत् ॥ 18॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,18,10339,प्राह चैवाञ्जलिं कृत्वा हरिश्चन्द्रो महामुनिम् । इमे प्राणाः सुतश्चायं प्रिया पत्नी मुने मम ॥ 19॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,19,10340,येन ते कृत्यमस्त्याशु गृहाणाद्य द्विजोत्तम । यच्चान्यत्कार्यमस्माभिस्तन्ममाख्यातुमर्हसि ॥ 20॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,20,10341,विश्वामित्र उवाच - पूर्णः स मासो भद्रं ते दीयतां मम दक्षिणा । पूर्वं तस्य निमित्तं हि स्मर्यते स्ववचो यदि ॥ 21॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,21,10342,राजोवाच - ब्रह्मन्नाद्यापि सम्पूर्णो मासो ज्ञानतपोबल । तिष्ठत्येकदिनार्धं यत्तप्रतीक्षस्व नापरम् ॥ 22॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,22,10343,विश्वामित्र उवाच - एवमस्तु महाराज आगमिष्याम्यहं पुनः । शापं तव प्रदास्यामि न चेदद्य प्रयच्छसि ॥ 23॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,23,10344,इत्युक्त्वाथ ययौ विप्रो राजा चाचिन्तयत्तदा । कथमस्मै प्रयच्छामि दक्षिणा या प्रतिश्रुता ॥ 24॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,24,10345,कुतः पुष्टानि मित्राणि कुत्रार्थः साम्प्रतं मम । प्रतिग्रहः प्रदुष्टो मे तत्र याञ्चा कथं भवेत् ॥ 25॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,25,10346,राज्ञां वृत्तित्रयं प्रोक्तं धर्मशास्त्रेषु निश्चितम् । यदि प्राणान्विमुञ्चामि ह्यप्रदाय च दक्षिणाम् ॥ 26॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,26,10347,ब्रह्मस्वहा कृमिः पापो भविष्याम्यधमाधमः । अथवा प्रेततां यास्ये वर एवात्मविक्रयः ॥ 27॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,27,10348,सूत उवाच - राजानं व्याकुलं दीनं चिन्तयानमधोमुखम् । प्रत्युवाच तदा पत्नी बाष्पगद्गदया गिरा ॥ 28॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,28,10349,त्यज चिन्तां महाराज स्वधर्ममनुपालय । प्रेतवद्वर्जनीयो हि नरः सत्यबहिष्कृतः ॥ 29॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,29,10350,नातः परतरं धर्मं वदन्ति पुरुषस्य च । यादृशं पुरुषव्याघ्र स्वसत्यस्यानुपालनम् ॥ 30॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,30,10351,अग्निहोत्रमधीतं च दानाद्याः सकलाः क्रियाः । भवन्ति तस्य वैफल्यं वाक्यं यस्यानृतं भवेत् ॥ 31॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,31,10352,सत्यमत्यन्तमुदितं धर्मशास्त्रेषु धीमताम् । तारणायानृतं तद्वत्पातनायाकृतात्मनाम् ॥ 32॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,32,10353,शताश्वमेधानादृत्य राजसूयं च पार्थिवः । कृत्वा राजा सकृत्स्वर्गादसत्यवचनाच्च्युतः ॥ 33॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,33,10354,राजोवाच - वंशवृद्धिकरश्चायं पुत्रस्तिष्ठति बालकः । उच्यतां वक्तुकामासि यद्वाक्यं गजगामिनि ॥ 34॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,34,10355,पत्न्युवाच - राजन् माभूदसत्यं ते पुंसां पुत्रफलाः स्त्रियः । तन्मां प्रदाय वित्तेन देहि विप्राय दक्षिणाम् ॥ 35॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,35,10356,व्यास उवाच - एतद्वाक्यमुपश्रुत्य ययौ मोहं महीपतिः । प्रतिलभ्य च संज्ञां वै विललापातिदुःखितः ॥ 36॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,36,10357,महद्दुखःमिदं भद्रे यत्त्वमेवं ब्रवीषि मे । किं तव स्मितसंल्लापा मम पापस्य विस्मृताः ॥ 37॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,37,10358,हा हा त्वया कथं योग्यं वक्तुमेतच्छुचिस्मिते । दुर्वाच्यमेतद्वचनं कथं वदसि भामिनि ॥ 38॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,38,10359,इत्युक्त्वा नृपतिश्रेष्ठो न धीरो दारविक्रये । निपपात महीपृष्ठे मूर्च्छयातिपरिप्लुतः ॥ 39॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,39,10360,शयानं भुवि तं दृष्ट्वा मूर्च्छयापि महीपतिम् । उवाचेदं सुकरुणं राजपुत्री सुदुःखिता ॥ 40॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,40,10361,हा महाराज कस्येदमपध्यानादुपागतम् । यस्त्वं निपतितो भूमौ रङ्कवच्छरणोचितः ॥ 41॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,41,10362,येनैव कोटिशो वित्तं विप्राणामपवर्जितम् । स एव पृथिवीनाथो भुवि स्वपिति मे पतिः ॥ 42॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,42,10363,हा कष्टं किं तवानेन कृतं दैव महीक्षिता । यदिन्द्रोपेन्द्रतुल्योऽयं नीतः पापामिमां दशाम् ॥ 43॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,43,10364,इत्युक्त्वा सापि सुश्रोणी मूर्च्छिता निपपात ह । भर्तुर्दुःखमहाभारेणासह्येनातिपीडिता ॥ 44॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,44,10365,शिशुर्दृष्ट्वा क्षुधाविष्टः प्राह वाक्यं सुदुःखितः । तात तात प्रदेह्यन्नं मातर्मे देहि भोजनम् ॥ 45॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,45,10366,क्षुन्मे बलवती जाता जिह्वाग्रे मेऽतिशुष्यति ॥ 46॥ 7,७.२०,विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,46,10367,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रोपाख्यानवर्णनं नाम विंशोऽध्यायः ॥ ७.२०॥ 7,७.२१,एकविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,0,10368,एतस्मिन्नन्तरे प्राप्तो विश्वामित्रो महातपाः । अन्तकेन समः क्रुद्धो धनं स्वं याचितुं हृदा ॥ 1॥ 7,७.२१,एकविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,1,10369,तमालोक्य हरिश्चन्द्रः पपात भुवि मूर्च्छितः । स वारिणा तमभ्युक्ष्य राजानमिदमब्रवीत् ॥ 2॥ 7,७.२१,एकविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,2,10370,उत्तिष्ठोत्तिष्ठ राजेन्द्र स्वां ददस्वेष्टदक्षिणाम् । ऋणं धारयतां दुःखमहन्यहनि वर्धते ॥ 3॥ 7,७.२१,एकविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,3,10371,आप्यायमानः स तदा हिमशीतेन वारिणा । अवाप्य चेतनां राजा विश्वामित्रमवेक्ष्य च ॥ 4॥ 7,७.२१,एकविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,4,10372,पुनर्मोहं समापेदे ह्यथ क्रोधं ययौ मुनिः समाश्वास्य च राजानं वाक्यमाह द्विजोत्तमः ॥ 5॥ 7,७.२१,एकविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,5,10373,विश्वामित्र उवाच - दीयतां दक्षिणा सा मे यदि धैर्यमवेक्षसे । सत्येनार्कः प्रतपति सत्ये तिष्ठति मेदिनी ॥ 6॥ 7,७.२१,एकविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,6,10374,सत्ये प्रोक्तः परो धर्मः स्वर्गः सत्ये प्रतिष्ठितः । अश्वमेधसहस्रं तु सत्यं च तुलया धृतम् ॥ 7॥ 7,७.२१,एकविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,7,10375,अश्वमेधसहस्राद्धि सत्यमेकं विशिष्यते । अथवा किं ममैतेन प्रोक्तेनास्ति प्रयोजनम् ॥ 8॥ 7,७.२१,एकविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,8,10376,मदीयां दक्षिणां राजन्न दास्यति भवान्यदि । अस्ताचलगते ह्यर्के शप्स्यामि त्वामतो ध्रुवम् ॥ 9॥ 7,७.२१,एकविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,9,10377,इत्युक्त्वा स ययौ विप्रो राजा चासीद्भयातुरः । दुःखीभूतोऽवनौ निःस्वो नृशंसमुनिनार्दितः ॥ 10॥ 7,७.२१,एकविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,10,10378,सूत उवाच - एतस्मिन्नन्तरे तत्र ब्राह्मणो वेदपारगः । ब्राह्मणैर्बहुभिः सार्धं निर्ययौ स्वगृहाद् बहिः ॥ 11॥ 7,७.२१,एकविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,11,10379,ततो राज्ञी तु तं दृष्ट्वा आयान्तं तापसं स्थितम् । उवाच वाक्यं राजानं धर्मार्थसहितं तदा ॥ 12॥ 7,७.२१,एकविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,12,10380,त्रयाणामपि वर्णानां पिता ब्राह्मण उच्यते । पितृद्रव्यं हि पुत्रेण ग्रहीतव्यं न संशयः ॥ 13॥ 7,७.२१,एकविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,13,10381,तस्मादयं प्रार्थनीयो धनार्थमिति मे मतिः । राजोवाच - नाहं प्रतिग्रहं काङ्क्षे क्षत्रियोऽहं सुमध्यमे ॥ 14॥ 7,७.२१,एकविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,14,10382,याचनं खलु विप्राणां क्षत्रियाणां न विद्यते । गुरुर्हि विप्रो वर्णानां पूजनीयोऽस्ति सर्वदा ॥ 15॥ 7,७.२१,एकविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,15,10383,तस्माद् गुरुर्न याच्यः स्यात्क्षत्रियाणां विशेषतः । यजनाध्ययनं दानं क्षत्रियस्य विधीयते ॥ 16॥ 7,७.२१,एकविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,16,10384,शरणागतानामभयं प्रजानां प्रतिपालनम् । न चाप्येवं तु वक्तव्यं देहीति कृपणं वचः ॥ 17॥ 7,७.२१,एकविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,17,10385,ददामीत्येव मे देवि हृदये निहितं वचः । अर्जितं कुत्रचिद् द्रव्यं ब्राह्मणाय ददाम्यहम् ॥ 18॥ 7,७.२१,एकविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,18,10386,पत्न्युवाच - कालः समविषमकरः परिभवसम्मानमानदः कालः । कालः करोति पुरुषं दातारं याचितारं च ॥ 19॥ 7,७.२१,एकविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,19,10387,विप्रेण विदुषा राजा क्रुद्धेनातिबलीयसा । राज्यान्निरस्तः सौख्याच्च पश्य कालस्य चेष्टितम् ॥ 20॥ 7,७.२१,एकविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,20,10388,राजोवाच - असिना तीक्ष्णधारेण वरं जिह्वा द्विधा कृता । न तु मानं परित्यज्य देहि देहीति भाषितम् ॥ 21॥ 7,७.२१,एकविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,21,10389,क्षत्रियोऽहं महाभागे न याचे किञ्चिदप्यहम् । ददामि वाहं नित्यं हि भुजवीर्यार्जितं धनम् ॥ 22॥ 7,७.२१,एकविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,22,10390,पत्न्युवाच - यदि ते हि महाराज याचितुं न क्षमं मनः । अहं तु न्यायतो दत्ता देवैरपि सवासवैः ॥ 23॥ 7,७.२१,एकविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,23,10391,अहं शास्या च पत्या च रक्ष्या चैव महाद्युते । मन्मौल्यं सङ्गृहीत्वाथ गुर्वर्थं सम्प्रदीयताम् ॥ 24॥ 7,७.२१,एकविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,24,10392,एतद्वाक्यमुपश्रुत्य हरिश्चन्द्रो महीपतिः । कष्टं कष्टमिति प्रोच्य विललापातिदुःखितः ॥ 25॥ 7,७.२१,एकविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,25,10393,भार्या च भूयः प्राहेदं क्रियतां वचनं मम । विप्रशापाग्निदग्धत्वान्नीचत्वमुपयास्यसि ॥ 26॥ 7,७.२१,एकविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,26,10394,न द्युतहेतोर्न च मद्यहेतो- र्न राज्यहेतोर्न च भोगहेतोः । ददस्व गुर्वर्थमतो मया त्वं सत्यव्रतत्वं सफलं कुरुष्व ॥ 27॥ 7,७.२१,एकविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,27,10395,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रोपाख्यानवर्णनं नाम एकविंशोऽध्यायः ॥ ७.२१॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,0,10396,व्यास उवाच - स तया नोद्यमानस्तु राजा पत्न्या पुनः पुनः । प्राह भद्रे करोम्येष विक्रयं ते सुनिर्घृणः ॥ 1॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,1,10397,नृशंसैरपि यत्कर्तुं न शक्यं तत्करोम्यहम् । यदि ते भ्राजते वाणी वक्तुमीदृक्सुनिष्ठुरम् ॥ 2॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,2,10398,एवमुक्त्वा ततो राजा गत्वा नगरमातुरः । अवतार्य तदा रङ्गे तां भार्यां नृपसत्तमः । बाष्पगद्गदकण्ठस्तु ततो वचनमब्रवीत् । भो भो नागरिकाः सर्वे श‍ृणुध्वं वचनं मम ॥ 4॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,3,10399,कस्यचिद्यदि कार्यं स्याद्दास्या प्राणेष्टया मम । स ब्रवीतु त्वरायुक्तो यावत्स्वं धारयाम्यहम् ॥ 5॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,4,10400,तेऽब्रुवन्पण्डिताः कस्त्वं पत्नीं विक्रेतुमागतः । राजोवाच - किं मां पृच्छथ कस्त्वं भो नृशंसोऽहममानुषः ॥ 6॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,5,10401,राक्षसो वास्मि कठिनस्ततः पापं करोम्यहम् । व्यास उवाच - तं शब्दं सहसा श्रुत्वा कौशिको विप्ररूपधृक् ॥ 7॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,6,10402,वृद्धरूपं समास्थाय हरिश्चन्द्रमभाषत । समर्पयस्व मे दासीमहं क्रेता धनप्रदः ॥ 8॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,7,10403,अस्ति मे वित्तमतुलं सुकुमारी च मे प्रिया । गृहकर्म न शक्नोति कर्तुमस्मात्प्रयच्छ मे ॥ 9॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,8,10404,अहं गृह्णामि दासीं तु कति दास्यामि ते धनम् । एवमुक्ते तु विप्रेण हरिश्चन्द्रस्य भूपतेः ॥ 10॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,9,10405,विदीर्णं तु मनो दुःखान्न चैनं किञ्चिदब्रवीत् । विप्र उवाच - कर्मणश्च वयोरूपशीलानां तव योषितः ॥ 11॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,10,10406,अनुरूपमिदं वित्तं गृहाणार्पय मेऽबलाम् । धर्मशास्त्रेषु यद् दृष्टं स्त्रियो मौल्यं नरस्य च ॥ 12॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,11,10407,द्वात्रिंशल्लक्षणोपेता दक्षा शीलगुणान्विता । कोटिमौल्यं सुवर्णस्य स्त्रियः पुंसस्तथार्बुदम् ॥ 13॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,12,10408,इत्याकर्ण वचस्तस्य हरिश्चन्द्रो महीपतिः । दुःखेन महताऽऽविष्टो न चैनं किञ्चिदब्रवीत् ॥ 14॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,13,10409,ततः स विप्रो नृपतेः पुरतो वल्कलोपरि । धनं निधाय केशेषु धृत्वा राज्ञीमकर्षयत् ॥ 15॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,14,10410,राज्ञ्युवाच - मुञ्च मुञ्चार्य मां सद्यो यावत्पश्याम्यहं सुतम् । दुर्लभं दर्शनं विप्र पुनरस्य भविष्यति ॥ 16॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,15,10411,पश्येह पुत्र मामेवं मातरं दास्यतां गताम् । मां मास्प्राक्षी राजपुत्र न स्पृश्याहं त्वयाधुना ॥ 17॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,16,10412,ततः स बालः सहसा दृष्ट्वाऽऽकृष्टां तु मातरम् । समभ्यधावदम्बेति वदन्साश्रुविलोचनः ॥ 18॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,17,10413,हस्ते वस्त्रं समाकर्षन् काकपक्षधरः स्खलन् । तमागतं द्विजः क्रोधाद् बालमप्याहनत्तदा ॥ 19॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,18,10414,वदंस्तथापि सोऽम्बेति नैव मुञ्चति मातरम् । राज्ञ्युवाच - प्रसादं कुरु मे नाथ क्रीणीष्वेमं हि बालकम् ॥ 20॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,19,10415,क्रीतापि नाहं भविता विनैनं कार्यसाधिका । इत्थं ममाल्पभाग्यायाः प्रसादं कुरु मे प्रभो ॥ 21॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,20,10416,ब्राह्मण उवाच - गृह्यतां वित्तमेतत्ते दीयतां मम बालकः । स्त्रीपुंसोर्धर्मशास्त्रज्ञैः कृतमेव हि वेतनम् ॥ 22॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,21,10417,शतं सहस्रं लक्षं च कोटिमौल्यं तथापरैः । द्वात्रिंशल्लक्षणोपेता दक्षा शीलगुणान्विता ॥ 23॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,22,10418,कोटिमौल्यं स्त्रियः प्रोक्तं पुरुषस्य तथार्बुदम् । सूत उवाच - तथैव तस्य तद्वित्तं पुरः क्षिप्तं पटे पुनः ॥ 24॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,23,10419,प्रगृह्य बालकं मात्रा सहैकस्थमबन्धयत् । प्रतस्थे स गृहं क्षिप्रं तया सह मुदान्वितः ॥ 25॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,24,10420,प्रदक्षिणां तु सा कृत्वा जानुभ्यां प्रणता स्थिता । बाष्पपर्याकुला दीना त्विदं वचनमब्रवीत् ॥ 26॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,25,10421,यदि दत्तं यदि हुतं ब्राह्मणास्तर्पिता यदि । तेन पुण्येन मे भर्ता हरिश्चन्द्रोऽस्तु वै पुनः ॥ 27॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,26,10422,पादयोः पतितां दृष्ट्वा प्राणेभ्योऽपि गरीयसीम् । हाहेति च वदन् राजा विललापाकुलेन्द्रियः ॥ 28॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,27,10423,वियुक्तेयं कथं जाता सत्यशीलगुणान्विता । वृक्षच्छायापि वृक्षं तं न जहाति कदाचन ॥ 29॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,28,10424,एवं भार्यां वदित्वाथ सुसम्बद्धं परस्परम् । पुत्रं च तमुवाचेदं मां त्वं हित्वा क्व यास्यसि ॥ 30॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,29,10425,कां दिशं प्रति यास्यामि को मे दुःखं निवारयेत् । राज्यत्यागे न मे दुःखं वनवासे न मे द्विज ॥ 31॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,30,10426,यत्पुत्रेण वियोगो मे एवमाह स भूपतिः । सद्भर्तृभोग्या हि सदा लोके भार्या भवन्ति हि ॥ 32॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,31,10427,मया त्यक्तासि कल्याणि दुःखेन विनियोजिता । इक्ष्वाकुवंशसम्भूतं सर्वराज्यसुखोचितम् ॥ 33॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,32,10428,मामीदृशां पतिं प्राप्य दासीभावं गता ह्यसि । ईदृशे मज्जमानं मां सुमहच्छोकसागरे ॥ 34॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,33,10429,को मामुद्धरते देवि पौराणाख्यानविस्तरैः । सूत उवाच - पश्यतस्तस्य राजर्षेः कशाघातैः सुदारुणैः ॥ 35॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,34,10430,घातयित्वा तु विप्रेशो नेतुं समुपचक्रमे । नीयमानौ तु तौ दृष्ट्वा भार्यापुत्रौ स पार्थिवः ॥ 36॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,35,10431,विललापातिदुःखार्तो निःश्वस्योष्णं पुनः पुनः । यां न वायुर्न वाऽऽदित्यो न चन्द्रो न पृथ्ग्जनाः ॥ 37॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,36,10432,दृष्टवन्तः पुरा पत्नीं सेयं दासीत्वमागता । सूर्यवंशप्रसूतोऽयं सुकुमारकराङ्गुलिः ॥ 38॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,37,10433,सम्प्राप्तो विक्रयं बालो धिङ्मामस्तु सुदुर्मतिम् । हा प्रिये हा शिशो वत्स ममानार्यस्य दुर्नयः ॥ 39॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,38,10434,दैवाधीनदशां प्राप्तो न मृतोऽस्मि तथापि धिक् । व्यास उवाच - एवं विलपितो राज्ञोऽग्रे विप्रोऽन्तरधीयत ॥ 40॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,39,10435,वृक्षगेहादिभिस्तुङ्गैस्तावादाय त्वरान्वितः । अत्रान्तरे मुनिश्रेष्ठस्त्वाजगाम महातपाः ॥ 41॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,40,10436,सशिष्यः कौशिकेन्द्रोऽसौ निष्ठुरः क्रूरदर्शनः । विश्वामित्र उवाच- या त्वयोक्ता पुरा राजन् राजसूयस्य दक्षिणा ॥ 42॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,41,10437,तां ददस्व महाबाहो यदि सत्यं पुरस्कृतम् । हरिश्चन्द्र उवाच - नमस्करोमि राजर्षे गृहाणेमां स्वदक्षिणाम् ॥ 43॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,42,10438,राजसूयस्य यागस्य या मयोक्ता पुरानघ । विश्वामित्र उवाच - कुतो लब्धमिदं द्रव्यं दक्षिणार्थे प्रदीयते ॥ 44॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,43,10439,एतदाचक्ष्व राजेन्द्र यथा द्रव्यं त्वयार्जितम् । राजोवाच - किमनेन महाभाग कथितेन तवानघ ॥ 45॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,44,10440,शोकस्तु वर्धते विप्र श्रुतेनानेन सुव्रत । ऋषिरुवाच - अशस्तं नैव गृह्णामि शस्तमेव प्रयच्छ मे ॥ 46॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,45,10441,द्रव्यस्यागमनं राजन् कथयस्व यथातथम् । राजोवाच - मया देवी तु सा भार्या विक्रीता कोटिसम्मितैः । निष्कैः पुत्रो रोहिताख्यो विक्रीतोऽर्बुदसङ्ख्यया । विप्रैकादशकोट्यस्त्वं सुवर्णस्य गृहाण मे ॥ 48॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,46,10442,सूत उवाच - तद्वित्तं स्वप्लमालक्ष्य दारविक्रयसम्भवम् । शोकाभिभूतं राजानं कुपितः कौशिकोऽब्रवीत् ॥ 49॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,47,10443,ऋषिरुवाच - राजसूयस्य यज्ञस्य नैषा भवति दक्षिणा । अन्यदुत्पादय क्षिप्रं सम्पूर्णा येन सा भवेत् ॥ 50॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,48,10444,क्षत्रबन्धो ममेमां त्वं सदृशीं यदि दक्षिणाम् । मन्यसे तर्हि तत्क्षिप्रं पश्य त्वं मे परं बलम् ॥ 51॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,49,10445,तपसोऽस्य सुतप्तस्य ब्राह्मणस्यामलस्य च । मत्प्रभावस्य चोग्रस्य शुद्धस्याध्ययनस्य च ॥ 52॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,50,10446,राजोवाच - अन्यद्दास्यामि भगवन् कालः कश्चित्प्रतीक्ष्यताम् । अधुनैवास्ति विक्रीता पत्नी पुत्रश्च बालकः ॥ 53॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,51,10447,विश्वामित्र उवाच - चतुर्भागः स्थितो योऽयं दिवसस्य नराधिप । एष एव प्रतीक्ष्यो मे वक्तव्यं नोत्तरं त्वया ॥ 54॥ 7,७.२२,द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।,52,10448,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनं नाम द्वाविंशोऽध्यायः ॥ ७.२२॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,0,10449,व्यास उवाच - तमेवमुक्त्वा राजानं निर्घृणं निष्ठुरं वचः । तदादाय धनं पूर्णं कुपितः कौशिको ययौ ॥ 1॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,1,10450,विश्वामित्रे गते राजा ततः शोकमुपागतः । श्वासोच्छ्वासं मुहुः कृत्वा प्रोवाचोच्चैरधोमुखः ॥ 2॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,2,10451,वित्तक्रीतेन यस्यार्तिर्मया प्रेतेन गच्छति । स ब्रवीतु त्वरायुक्तो यामे तिष्ठति भास्करः ॥ 3॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,3,10452,अथाजगाम त्वरितो धर्मश्चाण्डालरूपधृक् । दुर्गन्धो विकृतोरस्कः श्मश्रुलो दन्तुरोऽघृणी ॥ 4॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,4,10453,कृष्णो लम्बोदरः स्निग्धः करालः पुरुषाधमः । हस्तजर्जरयष्टिश्च शवमाल्यैरलङ्कृतः ॥ 5॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,5,10454,चाण्डाल उवाच - अहं गृह्णामि दासत्वे भृत्यार्थः सुमहान्मम । क्षिप्रमाचक्ष्व मौल्यं किमेतत्ते सम्प्रदीयते ॥ 6॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,6,10455,व्यास उवाच - तं तादृशमथालक्ष्य क्रूरदृष्टिं सुनिर्घृणम् । वदन्तमतिदुःशीलं कस्त्वमित्याह पार्थिवः ॥ 7॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,7,10456,चाण्डाल उवाच - चाण्डालोऽहमिह ख्यातः प्रवीरेति नृपोत्तम । शासने सर्वदा तिष्ठ मृतचैलापहारकः ॥ 8॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,8,10457,एवमुक्तस्तदा राजा वचनं चेदमब्रवीत् । ब्राह्मणः क्षत्रियो वापि गृह्णात्विति मतिर्मम ॥ 9॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,9,10458,उत्तमस्योत्तमो धर्मो मध्यमस्य च मध्यमः । अधमस्याधमश्चैव इति प्राहुर्मनीषिणः ॥ 10॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,10,10459,चाण्डाल उवाच । एवमेव त्वया धर्मः कथितो नृपसत्तम । अविचार्य त्वया राजन्नधुनोक्तं ममाग्रतः ॥ 11॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,11,10460,विचारयित्वा यो ब्रूते सोऽभीष्टं लभते नरः । सामान्यमेव तत्प्रोक्तमविचार्य त्वयानघ ॥ 12॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,12,10461,यदि सत्यं प्रमाणं ते गृहीतोऽसि न संशयः । हरिश्चन्द्र उवाच - असत्यान्नरके गच्छेत्सद्यः क्रूरे नराधमः ॥ 13॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,13,10462,ततश्चाण्डालता साध्वी न वरा मे ह्यसत्यता । व्यास उवाच - तस्यैवं वदतः प्राप्तो विश्वामित्रस्तपोनिधिः ॥ 14॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,14,10463,क्रोधामर्षविवृत्ताक्षः प्राह चेदं नराधिपम् । चाण्डालोऽयं मनस्थं ते दातुं वित्तमुपस्थितः ॥ 15॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,15,10464,कस्मान्न दीयते मह्यमशेषा यज्ञदक्षिणा । राजोवाच - भगवन्सूर्यवंशोत्थमात्मानं वेद्मि कौशिक ॥ 16॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,16,10465,कथं चाण्डालदासत्वं गमिष्ये वित्तकामतः । विश्वामित्र उवाच - यदि चाण्डालवित्तं त्वमात्मविक्रयजं मम ॥ 17॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,17,10466,न प्रदास्यसि चेत्तर्हि शप्स्यामि त्वामसंशयम् । चाण्डालादथवा विप्राद्देहि मे दक्षिणाधनम् ॥ 18॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,18,10467,विना चाण्डालमधुना नान्यः कश्चिद्धनप्रदः । धनेनाहं विना राजन्न यास्यामि न संशयः ॥ 19॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,19,10468,इदानीमेव मे वित्तं न प्रदास्यसि चेन्नृप । दिनेऽर्धघटिकाशेषे तत्त्वां शापाग्निना दहे ॥ 20॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,20,10469,व्यास उवाच - हरिश्चन्द्रस्ततो राजा मृत्ववच्छ्रितजीवितः । प्रसीदेति वदन्पादौ ऋषेर्जग्राह विह्वलः ॥ 21॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,21,10470,हरिश्चन्द्र उवाच - दासोऽस्म्यार्तोऽस्मि दीनोऽस्मि त्वद्भक्तश्च विशेषतः । प्रसादं कुरु विप्रर्षे कष्टश्चाण्डालसङ्करः ॥ 22॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,22,10471,भवेयं वित्तशेषेण तव कर्मकरो वशः । तवैव मुनिशार्दूल प्रेष्यश्चित्तानुवर्तकः ॥ 23॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,23,10472,विश्वामित्र उवाच - एवमस्तु महाराज ममैव भव किङ्करः । किन्तु मद्वचनं कार्यं सर्वदैव नराधिप ॥ 24॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,24,10473,व्यास उवाच - एवमुक्तेऽथ वचने राजा हर्षसमन्वितः । अमन्यत पुनर्जातमात्मानं प्राह कौशिकम् ॥ 25॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,25,10474,तवादेशं करिष्यामि सदैवाहं न संशयः । आदेशय द्विजश्रेष्ठ किं करोमि तवानघ ॥ 26॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,26,10475,विश्वामित्र उवाच - चाण्डालागच्छ मद्दासमौल्यं किं मे प्रयच्छसि । गृहाण दासं मौल्येन मया दत्तं तवाधुना ॥ 27॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,27,10476,नास्ति दासेन मे कार्यं वित्ताशा वर्तते मम । व्यास उवाच - एवमुक्ते तदा तेन स्वपचो हृष्टमानसः ॥ 28॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,28,10477,आगत्य सन्निधौ तूर्णं विश्वामित्रमभाषत । चाण्डाल उवाच - दशयोजनविस्तीर्णे प्रयागस्य च मण्डले ॥ 29॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,29,10478,भूमिं रत्नमयीं कृत्वा दास्ये तेऽहं द्विजोत्तम । अस्य विक्रयणेनेयमार्तिश्च प्रहता त्वया ॥ 30॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,30,10479,व्यास उवाच - ततो रत्नसहस्राणि सुवर्णमणिमौक्तिकैः । चाण्डालेन प्रदत्तानि जग्राह द्विजसत्तमः ॥ 31॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,31,10480,हरिश्चन्द्रस्तथा राजा निर्विकारमुखोऽभवत् । अमन्यत तथा धैर्याद्विश्वामित्रो हि मे पतिः ॥ 32॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,32,10481,तत्तदेव मया कार्यं यदयं कारयिष्यति । अथान्तरिक्षे सहसा वागुवाचाशरीरिणी ॥ 33॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,33,10482,अनृणोऽसि महाभाग दत्ता सा दक्षिणा त्वया । ततो दिवः पुष्पवृष्टिः पपात नृपमूर्धनि ॥ 34॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,34,10483,साधु साध्विति तं देवाः प्रोचुः सेन्द्रा महौजसः । हर्षेण महताऽऽविष्टो राजा कौशिकमब्रवीत् ॥ 35॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,35,10484,राजोवाच - त्वं हि माता पिता चैव त्वं हि बन्धुर्महामते । यदर्थं मोचितोऽहं ते क्षणाच्चैवानृणीकृतः ॥ 36॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,36,10485,किं करोमि महाबाहो श्रेयो मे वचनं तव । एवमुक्ते तु वचने नृपं मुनिरभाषत ॥ 37॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,37,10486,विश्वामित्र उवाच - चाण्डालवचनं कार्यमद्यप्रभृति ते नृप । स्वस्ति तेऽस्विति तं प्रोच्य तदादाय धनं ययौ ॥ 38॥ 7,७.२३,त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।,38,10487,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रोपाख्यानवर्णनं नाम त्रयोविंशोऽध्यायः ॥ ७.२३॥ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,0,10488,शौनक उवाच - ततः किमकरोद्राजा चाण्दालस्य गृहे गतः । तद् ब्रूहि सूतवर्य त्वं पृच्छतः सत्वरं हि मे ॥ 1॥ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,1,10489,सूत उवाच - विश्वामित्रे गते विप्रे श्वपचो हृष्टमानसः । विश्वामित्राय तद् द्रव्यं दत्त्वा बद्ध्वा नरेश्वरम् ॥ 2॥ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,2,10490,असत्यो यास्यसीत्युक्त्वा दण्डेनाताडयत्तदा । दण्डप्रहारसम्भ्रान्तमतीव व्याकुलेन्द्रियम् ॥ 3॥ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,3,10491,इष्टबन्धुवियोगार्तमानीय निजपक्कणे । निगडे स्थापयित्वा तं स्वयं सुष्वाप विज्वरः ॥ 4॥ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,4,10492,निगडस्थस्ततो राजा वसंश्चाण्डालपक्कणे । अन्नपाने परित्यज्य सदा वै तदशोचयत् ॥ 5॥ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,5,10493,तन्वी दीनमुखी दृष्ट्वा बालं दीनमुखं पुरः । मां स्मरन्त्यसुखाविष्टा मोक्षयिष्यति नौ नृपः ॥ 6॥ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,6,10494,उपात्तवित्तो विप्राय दत्त्वा वित्तं प्रतिश्रुतम् । रोदमानं सुतं वीक्ष्य मां च सम्बोधयिष्यति ॥ 7॥ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,7,10495,तातपार्श्वं व्रजामीति रुदन्तं बालकं पुनः । तात तातेति भाषन्तं तथा सम्बोधयिष्यति ॥ 8॥ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,8,10496,न सा मां मृगशावाक्षी वेत्ति चाण्डालतां गतम् । राज्यनाशः सुहृत्त्यागो भार्यातनयविक्रयः ॥ 9॥ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,9,10497,ततश्चाण्डालता चेयमहो दुःखपरम्परा । एवं स निवसन्नित्यं स्मरंश्च दयितां सुतम् ॥ 10॥ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,10,10498,निनाय दिवसान् राजा चतुरो विधिपीडितः । अथाह्नि पञ्चमे तेन निगडान्मोचितो नृपः ॥ 11॥ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,11,10499,चाण्डालेनानुशिष्टश्च मृतचैलापहारणे । क्रुद्धेन परुषैर्वाक्यैर्निर्भत्स्य च पुनः पुनः ॥ 12॥ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,12,10500,काश्याश्च दक्षिणे भागे श्मशानं विद्यते महत् । तद्रक्षस्व यथान्यायं न त्याज्यं तत्त्वया क्वचित् ॥ 13॥ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,13,10501,इमं च जर्जरं दण्डं गृहीत्वा याहि मा चिरम् । वीरबाहोरयं दण्ड इति घोषस्व सर्वतः ॥ 14॥ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,14,10502,सूत उवाच - कस्मिंश्चिदथ काले तु मृतचैलापहारकः । हरिश्चन्द्रोऽभवद्राजा श्मशाने दद्वशानुगः ॥ 15॥ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,15,10503,चाण्डालेनानुशिष्टस्तु मृतचैलापहारिणा । राजा तेन समादिष्टो जगाम शवमन्दिरम् ॥ 16॥ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,16,10504,पुर्यास्तु दक्षिणे देशे विद्यमानं भयानकम् । शवमाल्यसमाकीर्णं दुर्गन्धं बहुधूमकम् ॥ 17॥ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,17,10505,श्मशानं घोरसन्नादं शिवाशतसमाकुलम् । गृद्ध्रगोमायुसङ्कीर्णं श्ववृन्दपरिवारितम् ॥ 18॥ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,18,10506,अस्थिसङ्घातसङ्कीर्णं महादुर्गन्धसङ्कुलम् । अर्धदग्धशवास्यानि विकसद्दन्तपङ्क्तिभिः ॥ 19॥ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,19,10507,हसन्तीवाग्निमध्यस्थकायस्यैवं व्यवस्थितिः । नानामृतसुहृन्नादं महाकोलाहलाकुलम् ॥ 20॥ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,20,10508,हा पुत्र मित्र हा बन्धो भ्रातर्वत्स प्रियाद्य मे । हाप्यते भागिनेयार्ह हा मातुल पितामह ॥ 21॥ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,21,10509,मातामह पितः पौत्र क्व गतोऽस्येहि बान्धव । इति शब्दैः समाकीर्णं भैरवैः सर्वदेहिनाम् ॥ 22॥ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,22,10510,ज्वलन्मांसवसामेदच्छूमिति ध्वनिसङ्कुलम् । अग्नेश्चटचटाशब्दो भैरवो यत्र जायते ॥ 23॥ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,23,10511,कल्पान्तसदृशाकारं श्मशानं तत्सुदारुणम् । स राजा तत्र सम्प्राप्तो दुःखादेवमशोचत ॥ 24॥ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,24,10512,हा भृत्या मन्त्रिणो यूयं क्व तद्राज्यं कुलोचितम् । हा प्रिय पुत्र मे बाल मां त्यक्त्वा मन्दभाग्यकम् ॥ 25॥ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,25,10513,ब्राह्मणस्य च कोपेन गता यूयं क्व दूरतः । विना धर्मं मनुष्याणां जायते न शुभं क्वचित् ॥ 26॥ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,26,10514,यत्नतो धारयेत्तस्मात्पुरुषो धर्ममेव हि । इत्येवं चिन्तयंस्तत्र चाण्डालोक्तं पुनः पुनः ॥ 27॥ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,27,10515,मलेन दिग्धसर्वाङ्गः शवानां दर्शने व्रजन् । लकुटाकारकल्पश्च धावंश्चापि ततस्ततः ॥ 28॥ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,28,10516,अस्मिञ्छव इदं मौल्यं शतं प्राप्स्यामि चाग्रतः । इदं मम इदं राज्ञ इदं चाण्डालकस्य च ॥ 29॥ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,29,10517,इत्येवं चिन्तयन् राजा व्यवस्थां दुस्तरां गतः । जीर्णैकपटसुग्रन्थिकृतकन्थापरिग्रहः ॥ 30॥ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,30,10518,चिताभस्मरजोलिप्तमुखबाहूदराङ्घ्रिकः । नानामेदोवसामज्जालिप्तपाण्यङ्गुलिः श्वसन् ॥ 31॥ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,31,10519,नानाशवौदनकृतक्षुन्निवृत्तिपरायणः । तदीयमाल्यसंश्लेषकृतमस्तकमण्डलः ॥ 32॥ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,32,10520,न रात्रौ न दिवा शेते हाहेति प्रवदन्मुहुः । एवं द्वादश मासास्तु नीता वर्षशतोपमाः ॥ 33॥ 7,७.२४,चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।,33,10521,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रचिन्तावर्णनं नाम चतुर्विंशोऽध्यायः ॥ ७.२४॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,0,10522,सूत उवाच - एकदा तु गतो रन्तुं बालकैः सहितो बहिः । वाराणस्या नातिदूरे रोहिताख्यः कुमारकः ॥ 1॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,1,10523,क्रीडां कृत्वा ततो दर्भान् ग्रहीतुमुपचक्रमे । कोमलानल्पमूलांश्च साग्राञ्छक्त्यनुसारतः ॥ 2॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,2,10524,आर्यप्रीत्यर्थमित्युक्त्वा हस्तयुग्मेन यत्नतः । सलक्षणाश्च समिधो बर्हिरिध्मं सलक्षणम् ॥ 3॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,3,10525,पलाशकाष्ठान्यादाय त्वग्निहोमार्थमादरात् । मस्तके भारकं कृत्वा खिद्यमानः पदे पदे ॥ 4॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,4,10526,उदकस्थानमासाद्य तदा बालस्तृषान्वितः । भुवि भारं विनिक्षिप्य जलस्थाने तदा शिशुः ॥ 5॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,5,10527,कामतः सलिलं पीत्वा विश्रम्य च मुहूर्तकम् । वल्मीकोपरि विन्यस्तभारो हर्तुं प्रचक्रमे ॥ 6॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,6,10528,विश्वामित्राज्ञया तावत्कृष्णसर्पो भयावहः । महाविषो महाघोरो वल्मीकान्निर्गतस्तदा ॥ 7॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,7,10529,तेनासौ बालको दष्टस्तदैव च पपात ह । रोहिताख्यं मृतं दृष्ट्वा ययुर्बाला द्विजालयम् ॥ 8॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,8,10530,त्वरिता भयसंविग्नाः प्रोचुस्तन्मातुरग्रतः । हे विप्रदासि ते पुत्रः क्रीडां कर्तुं बहिर्गतः ॥ 9॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,9,10531,अस्माभिः सहितस्तत्र सर्पदष्टो मृतस्ततः । इति सा तद्वचः श्रुत्वा वज्रपातोपमं तदा ॥ 10॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,10,10532,पपात मूर्च्छिता भूमौ छिन्नेव कदली यथा । अथ तां ब्राह्मणो रुष्टः पानीयेनाभ्यषिञ्चत ॥ 11॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,11,10533,मुहूर्ताच्चेतनां प्राप्ता ब्राह्मणस्तामथाब्रवीत् । ब्राह्मण उवाच - अलक्ष्मीकारकं निन्द्यं जानती त्वं निशामुखे ॥ 12॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,12,10534,रोदनं कुरुषे दुष्टे लज्जा ते हृदये न किम् । ब्राह्मणेनैवमुक्ता सा न किञ्चिद्वाक्यमब्रवीत् ॥ 13॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,13,10535,रुरोद करुणं दीना पुत्रशोकेन पीडिता । अश्रुपूर्णमुखी दीना धूसरा मुक्तमूर्धजा ॥ 14॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,14,10536,अथ तां कुपितो विप्रो राजपत्नीमभाषत । धिक्त्वां दुष्टे क्रयं गृह्य मम कार्यं विलुम्पसि ॥ 15॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,15,10537,अशक्ता चेत्कथं तर्हि गृहीतं मम तद्धनम् । एवं निर्भर्त्सिता तेन क्रूरवाक्यैः पुनः पुनः ॥ 16॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,16,10538,रुदिता कारणं प्राह विप्रं गद्गदया गिरा । स्वामिन् मम सुतो बालः सर्पदष्टो मृतो बहिः ॥ 17॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,17,10539,अनुज्ञां मे प्रयच्छस्व द्रष्टुं यास्यामि बालकम् । दुर्लभं दर्शनं तेन सञ्जातं मम सुव्रत ॥ 18॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,18,10540,इत्युक्त्वा करुणं बाला पुनरेव रुरोद ह । पुनस्तां कुपितो विप्रो राजपत्नीमभाषत ॥ 19॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,19,10541,ब्राह्मण उवाच - शठे दुष्टसमाचारे किं न जानासि पातकम् । यः स्वामिवेतनं गृह्य तस्य कार्यं विलुम्पति ॥ 20॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,20,10542,नरके पच्यते सोऽथ महारौरवपूर्वके । उषित्वा नरके कल्पं ततोऽसौ कुक्कुटो भवेत् ॥ 21॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,21,10543,किमनेनाथवा कार्यं धर्मसङ्कीर्तनेन मे । यस्तु पापरतो मूर्खः क्रूरो नीचोऽनृतः शठः ॥ 22॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,22,10544,तद्वाक्यं निष्फलं तस्मिन्भवेद् बीजमिवोषरे । एहि ते विद्यते किञ्चित्परलोकभयं यदि ॥ 23॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,23,10545,एवमुक्ताथ सा विप्रं वेपमानाब्रवीद्वचः । कारुण्यं कुरु मे नाथ प्रसीद सुमुखो भव ॥ 24॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,24,10546,प्रस्थापय मुहूर्तं मां यावद् द्रक्ष्यामि बालकम् । एवमुक्त्वाथ सा मूर्ध्ना निपत्य द्विजपादयोः ॥ 25॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,25,10547,रुरोद करुणं बाला पुत्रशोकेन पीडिता । अथाह कुपितो विप्रः क्रोधसंरक्तलोचनः ॥ 26॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,26,10548,विप्र उवाच - किं ते पुत्रेण मे कार्यं गृहकर्म कुरुष्व मे । किं न जानासि मे क्रोधं कशाघातफलप्रदम् ॥ 27॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,27,10549,एवमुक्ता स्थिता धैर्याद् गृहकर्म चकार ह । अर्धरात्रो गतस्तस्याः पादाभ्यङ्गादिकर्मणा ॥ 28॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,28,10550,ब्राह्मणेनाथ सा प्रोक्ता पुत्रपार्श्वं व्रजाधुना । तस्य दाहादिकं कृत्वा पुनरागच्छ सत्वरम् ॥ 29॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,29,10551,न लुप्येत यथा प्रातर्गृहकर्म ममेति च । ततस्त्वेकाकिनी रात्रौ विलपन्ती जगाम ह ॥ 30॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,30,10552,दृष्ट्वा मृतं निजं पुत्रं भृशं शोकेन पीडिता । यूथभ्रष्टा कुरङ्गीव विवत्सा सौरभी यथा ॥ 31॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,31,10553,वाराणस्या बहिर्गत्वा क्षणाद् दृष्ट्वा निजं सुतम् । शयानं रङ्कवद्भूमौ काष्ठदर्भतृणोपरि ॥ 32॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,32,10554,विललापातिदुःखार्ता शब्दं कृत्वा सुनिष्ठुरम् । एहि मे सम्मुखं कस्माद्रोषितोऽसि वदाधुना ॥ 33॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,33,10555,आयास्यभिमुखो नित्यमम्बेत्युक्त्वा पुनः पुनः । गत्वा स्खलत्पदा तस्य पपातोपरि मूर्छिता ॥ 34॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,34,10556,पुनः सा चेतनां प्राप्य दोर्भ्यामालिङ्ग्य बालकम् । तन्मुखे वदनं न्यस्य रुरोदार्तस्वनैस्तदा ॥ 35॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,35,10557,कराभ्यां ताडनं चक्रे मस्तकस्योदरस्य च । हा बाल हा शिशो वत्स हा कुमारक सुन्दर ॥ 36॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,36,10558,हा राजन् क्व गतोऽसि त्वं पश्येमं बालकं निजम् । प्राणेभ्योऽपि गरीयांसं भूतले पतितं मृतम् ॥ 37॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,37,10559,तथापश्यन्मुखं तस्य भूयो जीवितशङ्कया । निर्जीववदनं ज्ञात्वा मूर्छिता निपपात ह ॥ 38॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,38,10560,हस्तेन वदनं गृह्य पुनरेवमभाषत । शयनं त्यज हे बाल शीघ्रं जागृहि भीषणम् ॥ 39॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,39,10561,निशार्धं वर्धते चेदं शिवाशतनिनादितम् । भूतप्रेतपिशाचादिडाकिनीयूथनादितम् ॥ 40॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,40,10562,मित्राणि ते गतान्यस्तात्त्वमेकस्तु कुतः स्थितः । सूत उवाच - एवमुक्त्वा पुनस्तन्वी करुणं प्ररुरोद ह ॥ 41॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,41,10563,हा शिशो बाल हा वत्स रोहिताख्य कुमारक । रे पुत्र प्रतिशब्दं मे कस्मात्त्वं न प्रयच्छसि ॥ 42॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,42,10564,तवाहं जननी वत्स किं न जानासि पश्य माम् । देशत्यागाद्राज्यनाशात्पुत्र भर्त्रा स्वविक्रयात् ॥ 43॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,43,10565,यद्दासीत्वाच्च जीवामि त्वां दृष्ट्वा पुत्र केवलम् । ते जन्मसमये विप्रैरादिष्टं यत्त्वनागतम् ॥ 44॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,44,10566,दीर्घायुः पृथिवीराजः पुत्रपौत्रसमन्वितः । शौर्यदानरतिः सत्त्वो गुरुदेवद्विजार्चकः ॥ 45॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,45,10567,मातापित्रोस्तु प्रियकृत्सत्यवादी जितेन्द्रियः । इत्यादि सकलं जातमसत्यमधुना सुत ॥ 46॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,46,10568,चक्रमत्स्यावातपत्रश्रीवत्सस्वस्तिकध्वजाः । तव पाणितले पुत्र कलशश्चामरं तथा ॥ 47॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,47,10569,लक्षणानि तथान्यानि त्वद्धस्ते यानि सन्ति च । तानि सर्वाणि मोघानि सञ्जातान्यधुना सुत ॥ 48॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,48,10570,हा राजन्पृथिवीनाथ क्व ते राज्यं क्व मन्त्रिणः । क्व ते सिंहासनं छत्रं क्व ते खड्गः क्व तद्धनम् ॥ 49॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,49,10571,क्व सायोध्या क्व हर्म्याणि क्व गजाश्वरथप्रजाः । सर्वमेतत्तथा पुत्र मां त्यक्त्वा क्व गतोऽसि रे ॥ 50॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,50,10572,हा कान्त हा नृपागच्छ पश्येमं स्वसुतं प्रियम् । येन ते रिङ्गता वक्षः कुङ्कुमेनावलेपितम् ॥ 51॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,51,10573,स्वशरीररजःपङ्कैर्विशालं मलिनीकृतम् । येन ते बालभावेन मृगनाभिविलेपितः ॥ 52॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,52,10574,भ्रंशितो भालतिलकस्तवाङ्कस्थेन भूपते । यस्य वक्त्रं मृदा लिप्तं स्नेहाद्वै चुम्बितं मया ॥ 53॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,53,10575,तन्मुखं मक्षिकालिङ्ग्यं पश्ये कीटैर्विदूषितम् । हा राजन् पश्य तं पुत्रं भुविस्थं रङ्कवन्मृतम् ॥ 54॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,54,10576,हा देव किं मया कृत्यं कृतं पूर्वभवान्तरे । तस्य कर्मफलस्येह न पारमुपलक्षये ॥ 55॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,55,10577,हा पुत्र हा शिशो वत्स का कुमारक सुन्दर । एवं तस्या विलापं ते श्रुत्वा नगरपालकाः ॥ 56॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,56,10578,जागृतास्त्वरितास्तस्याः पार्श्वमीयुः सुविस्मिताः । जना ऊचुः - का त्वं बालस्य कस्यायं पतिस्ते कुत्र तिष्ठति ॥ 57॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,57,10579,एकैव निर्भया रात्रौ कस्मात्त्वमिह रोदिषि । एवमुक्ताथ सा तन्वी न किञ्चिद्वाक्यमब्रवीत् ॥ 58॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,58,10580,भूयोऽपि पृष्टा सा तूष्णीं स्तब्धीभूता बभूव ह । विललापातिदुःखार्ता शोकाश्रुप्लुतलोचना ॥ 59॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,59,10581,अथ ते शङ्कितास्तस्यां रोमाञ्चिततनूरुहाः । सन्त्रस्ताः प्राहुरन्योन्यमुद्धृतायुधपाणयः ॥ 60॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,60,10582,नूनं स्त्री न भवत्येषा यतः किञ्चिन्न भाषते । तस्माद्वध्या भवेदेषा यत्नतो बालघातिनी ॥ 61॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,61,10583,शुभा चेत्तर्हि किं ह्यत्र निशार्धे तिष्ठते बहिः । भक्षार्थमनया नूनमानीतः कस्यचिच्छिशुः ॥ 62॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,62,10584,इत्युक्त्वा तैर्गृहिता सा गाढं केशेषु सत्वरम् । भुजयोरपरैश्चैव कैश्चापि गलके तथा ॥ 63॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,63,10585,खेचरी यास्यतीत्युक्तं बहुभिः शस्त्रपाणिभिः । आकृष्य पक्कणे नीता चाण्डालाय समर्पिता ॥ 64॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,64,10586,हे चाण्डाल बहिर्दृष्टा ह्यस्माभिर्बालघातिनी । वध्यतां वध्यतामेष शीघ्रं नीत्वा बहिःस्थले ॥ 65॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,65,10587,चाण्डालः प्राह तां दृष्ट्वा ज्ञातेयं लोकविश्रुता । न दृष्टपूर्वा केनापि लोकडिम्भान्यनेकधा ॥ 66॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,66,10588,भक्षितान्यनया भूरि भवद्भिः पुण्यमार्जितम् । ख्यातिर्वः शाश्वती लोके गच्छध्वं च यथासुखम् ॥ 67॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,67,10589,द्विजस्त्रीबालगोघाती स्वर्णस्तेयी च यो नरः । अग्निदो वर्त्मघाती च मद्यपो गुरुतल्पगः ॥ 68॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,68,10590,महाजनविरोधी च तस्य पुण्यप्रदो वधः । द्विजस्यापि स्त्रियो वापि न दोषो विद्यते वधे ॥ 69॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,69,10591,अस्या वधश्च मे योग्य इत्युक्त्वा गाडबन्धनैः । बद्ध्वा केशेष्वथाकृष्य रज्जुभिस्तामताडयत् ॥ 70॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,70,10592,हरिश्चन्द्रमथोवाच वाचा परुषया तदा । रे दास वध्यतामेषा दुष्टात्मा मा विचारय ॥ 71॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,71,10593,तद्वाक्यं भूपतिः श्रुत्वा वज्रपातोपमं तदा । वेपमानोऽथ चाण्डालं प्राह स्त्रीवधशङ्कितः ॥ 72॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,72,10594,न शक्तोऽहमिदं कर्तुं प्रेष्यं देहि ममापरम् । असाध्यमपि यत्कर्म तत्करिष्ये त्वयोदितम् ॥ 73॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,73,10595,श्रुत्वा तदुक्तं वचनं श्वपचो वाक्यमब्रवीत् । मा भैषीस्त्वं गृहाणासिं वधोऽस्याः पुण्यदो मतः ॥ 74॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,74,10596,बालानामेव भयदा नेयं रक्ष्या कदाचन । तच्छ्रुत्वा वचनं तस्य राजा वचनमब्रवीत् ॥ 75॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,75,10597,स्त्रियो रक्ष्याः प्रयत्नेन न हन्तव्याः कदाचन । स्त्रीवधे कीर्तितः पापं मुनिभिर्धर्मतत्परैः ॥ 76॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,76,10598,पुरुषो यः स्त्रियं हन्याज्ज्ञानतोऽज्ञानतोऽपि वा । नरके पच्यते सोऽथ महारौरवपूर्वके ॥ 77॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,77,10599,चाण्डाल उवाच - मा वदासिं गृहाणैनं तीक्ष्णं विद्युत्समप्रभम् । यत्रैकस्मिन्वधं नीते बहूनां तु सुखं भवेत् ॥ 78॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,78,10600,तस्य हिंसा कृतं नूनं बहुपुण्यप्रदा भवेत् । भक्षितान्यनया भूरि लोके डिम्भानि दुष्टया ॥ 79॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,79,10601,तत्क्षिप्रं वध्यतामेषा लोकः स्वस्थो भविष्यति । राजोवाच - चाण्डालाधिपते तीव्रं व्रतं स्त्रीवधवर्जनम् ॥ 80॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,80,10602,आजन्मतस्ततो यत्नं न कुर्यां स्त्रीवधे तव । चाण्डाल उवाच - स्वामिकार्यं विना दुष्ट किं कार्यं विद्यतेऽपरम् ॥ 81॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,81,10603,गृहीत्वा वेतनं मेऽद्य कस्मात्कार्यं विलुम्पसि । यः स्वामिवेतनं गृह्य स्वामिकार्यं विलुम्पति ॥ 82॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,82,10604,नरकान्निष्कृतिस्तस्य नास्ति कल्पायुतैरपि । राजोवाच - चाण्डालनाथ मे देहि प्राप्यमन्यत्सुदारुणम् ॥ 83॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,83,10605,स्वशत्रुं ब्रूहि तं क्षिप्रं घातयिष्याम्यसंशयम् । घातयित्वा तु तं शत्रुं तव दास्यामि मेदिनीम् ॥ 84॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,84,10606,देव देवोरगैः सिद्धैर्गन्धर्वैरपि संयुतम् । देवेन्द्रमपि जेष्यामि निहत्य निशितैः शरैः ॥ 85॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,85,10607,एतच्छ्रुत्वा ततो वाक्यं हरिश्चन्द्रस्य भूपतेः । चाण्डालः कुपितः प्राह वेपमानं महीपतिम् ॥ 86॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,86,10608,चाण्डाल उवाच - (नैतद्वाक्यं सुघटितं यद्वाक्यं दासकीर्तितम्) चाण्डालदासतां कृत्वा सुराणां भाषसे वचः । दास किं बहुना नूनं श‍ृणु मे गदतो वचः ॥ 87॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,87,10609,निर्लज्ज तव चेदस्ति किञ्चित्पापभयं हृदि । किमर्थं दासतां यातश्चाण्डालस्य तु वेश्मनि ॥ 88॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,88,10610,गृहाणैनं ततः खड्गमस्याश्छिन्धि शिरोऽम्बुजम् । एवमुक्त्वाथ चाण्डालो राज्ञे खड्गं न्यवेदयत् ॥ 89॥ 7,७.२५,पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।,89,10611,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनं नाम पञ्चविंशोऽध्यायः ॥ ७.२५॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,0,10612,सूत उवाच - ततोऽथ भूपतिः प्राह राज्ञीं स्थित्वा ह्यधोमुखः । अत्रोपविश्यतां बाले पापस्य पुरतो मम ॥ 1॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,1,10613,शिरस्ते छेदयिष्यामि हन्तुं शक्नोति चेत्करः । एवमुक्त्वा समुद्यम्य खड्गं हन्तुं गतो नृपः ॥ 2॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,2,10614,न जानाति नृपः पत्नीं सा न जानाति भूपतिम् । अब्रवीद् भृशदुःखार्ता स्वमृत्युमभिकाङ्क्षति ॥ 3॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,3,10615,स्त्र्युवाच - चाण्डाल श‍ृणु मे वाक्यं किञ्चित्त्वं यदि मन्यसे । मृतस्तिष्ठति मे पुत्रो नातिदूरे बहिः पुरात् ॥ 4॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,4,10616,तं दहामि हतं यावदानयित्वा तवान्तिकम् । तावत्प्रतीक्ष्यतां पश्चादसिना घातयस्व माम् ॥ 5॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,5,10617,तेनाथ बाढमित्युक्त्वा प्रेषिता बालकं प्रति । सा जगामातिदुःखार्ता विपलन्ती सुदारुणम् ॥ 6॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,6,10618,भार्या तस्य नरेन्द्रस्य सर्पदष्टं हि बालकम् । हा पुत्र हा वत्स शिशो इत्येवं वदती मुहुः ॥ 7॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,7,10619,कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा । श्मशानभूमिमागत्य बालं स्थाप्याविशद्भुवि ॥ 8॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,8,10620,(राजन्नद्य स्वबालं तं पश्यसीह महीतले । रममाणं स्वसखिभिर्दष्टं दुष्टाहिना मृतम् ॥) तस्या विलापशब्दं तमाकर्ण्य स नराधिपः । शवसन्निधिमागत्य वस्त्रमस्याक्षिपत्तदा ॥ 9॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,9,10621,तां तथा रुदतीं भार्यां नाभिजानाति भूमिपः । चिरप्रवाससन्तप्तां पुनर्जातामिवाबलाम् ॥ 10॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,10,10622,सापि तं चारुकेशान्तं पुरो दृष्ट्वा जटालकम् । नाभ्यजानान्नृपवरं शुष्कवृक्षत्वचोपमम् ॥ 11॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,11,10623,भूमौ निपतितं बालं दृष्ट्वाशीविषपीडितम् । नरेन्द्रलक्षणोपेतमचिन्तयदसौ नृपः ॥ 12॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,12,10624,अस्य पूर्णेन्दुवद्वक्त्रं शुभमुन्नसमव्रणम् । दर्पणप्रतिमोत्तुङ्गकपोलयुगशोभितम् ॥ 13॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,13,10625,नीलान्केशान्कुञ्चिताग्रान् सान्द्रान्दीर्घांस्तरङ्गिणः । राजीवसदृशे नेत्रे ओष्ठौ बिम्बफलोपमौ ॥ 14॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,14,10626,विशालवक्षा दीर्घाक्षो दीर्घबाहून्नतांसकः । विशालपादो गम्भीरःसूक्ष्माङ्गुल्यवनीधरः ॥ 15॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,15,10627,मृणालपादो गम्भीरनाभिरुद्धतकन्धरः । अहो कष्टं नरेन्द्रस्य कस्याप्येष कुले शिशुः ॥ 16॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,16,10628,जातो नीतः कृतान्तेन कालपाशाद्दुरात्मना । सूत उवाच - एवं दृष्ट्वाथ तं बालं मातुरङ्के प्रसारितम् ॥ 17॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,17,10629,स्मृतिमभ्यागतो राजा हाहेत्यश्रूण्यपातयत् । सोऽप्युवाच च वत्सो मे दशामेतामुपागतः ॥ 18॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,18,10630,नीतो यदि च घोरेण कृतान्तेनात्मनो वशम् । विचारयित्वा राजासौ हरिश्चन्द्रस्तथा स्थितः ॥ 19॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,19,10631,ततो राज्ञी महादुःखावेशादिदमभाषत । राज्ञ्युवाच - हा वत्स कस्य पापस्य त्वपध्यानादिदं महत् ॥ 20॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,20,10632,दुःखमापतितं घोरं तद्रूपं नोपलभ्यते । हा नाथ राजन् भवता मामपास्य सुदुःखिताम् ॥ 21॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,21,10633,कस्मिन्संस्थीयते स्थाने विश्रब्धं केन हेतुना । राज्यनाशं सुहृत्त्यागो भार्यातनयविक्रयः ॥ 22॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,22,10634,हरिश्चन्द्रस्य राजर्षेः किं विधातः कृतं त्वया । इति तस्या वचः श्रुत्वा राजा स्थानच्युतस्तदा ॥ 23॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,23,10635,प्रत्यभिज्ञाय देवीं तां पुत्रं च निधनं गतम् । कष्टं ममैव पत्नीयं बालकश्चापि मे सुतः ॥ 24॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,24,10636,ज्ञात्वा पपात सन्तप्तो मूर्च्छामतिजगाम ह । सा च तं प्रत्यभिज्ञाय तामवस्थामुपागतम् ॥ 25॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,25,10637,मूर्च्छिता निपपातार्ता निश्चेष्टा धरणीतले । चेतनां प्राप्य राजेन्द्रो राजपत्नी च तौ समम् ॥ 26॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,26,10638,विलेपतुः सुसन्तप्तौ शोकभारेण पीडितौ । राजोवाच - हा वत्स सुकुमारं ते वदनं कुञ्चितालकम् ॥ 27॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,27,10639,पश्यतो मे मुखं दीनं हृदयं किं न दीर्यते । तात तातेति मधुरं ब्रुवाणं स्वयमागतम् ॥ 28॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,28,10640,उपगुह्य कदा वक्ष्ये वत्सवत्सेति सौहृदात् । कस्य जानुप्रणीतेन पिङ्गेन क्षितिरेणुना ॥ 29॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,29,10641,ममोत्तरीयमुत्सङ्गं तथाङ्गं मलमेष्यति । न वालं मम सम्भूतं मनो हृदयनन्दन ॥ 30॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,30,10642,(मयासि पितृमान्पित्रा विक्रीतो येन वस्तुवत् ।) गतं राज्यमशेषं मे सबान्धवधनं महत् । (हीनदैवान्नृशंसेन दृष्टो मे तनयस्ततः ।) अहं महाहिदष्टस्य पुत्रस्याननपङ्कजम् ॥ 31॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,31,10643,निरीक्षन्नद्य घोरेण विषेणाधिकृतोऽधुना । एवमुक्त्वा तमादाय बालकं बाष्पगद्गदः ॥ 32॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,32,10644,परिष्वज्य च निश्चेष्टो मूर्च्छया निपपात ह । ततस्तं पतितं दृष्ट्वा शैव्या चैवमचिन्तयत् ॥ 33॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,33,10645,अयं स पुरुषव्याघ्रः स्वरेणैवोपलक्ष्यते । विद्वज्जनमनश्चन्द्रो हरिश्चन्द्रो न संशयः ॥ 34॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,34,10646,तथास्य नासिका तुङ्गा तिलपुष्पोपमा शुभा । दन्ताश्च मुकुलप्रख्याः ख्यातकीर्तेर्महात्मनः ॥ 35॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,35,10647,श्मशानमागतः कस्माद्यद्येवं स नरेश्वरः । विहाय पुत्रशोकं सा पश्यन्ती पतितं पतिम् ॥ 36॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,36,10648,प्रहृष्टा विस्मिता दीना भर्तृपुत्रार्तिपीडिता । वीक्षती सा तदापतन्मूर्च्छया धरणीतले ॥ 37॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,37,10649,प्राप्य चेतश्च शनकैः सा गद्गदमभाषत । धिक्त्वां दैव ह्यकरुण निर्मर्याद जुगुप्सित ॥ 38॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,38,10650,येनायममरप्रख्यो नीतो राजा श्वपाकताम् । राज्यनाशं सुहृत्त्यागं भार्यातनयविक्रयम् ॥ 39॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,39,10651,प्रापयित्वापि येनाद्य चाण्डालोऽयं कृतो नृपः । नाद्य पश्यामि ते छत्रं सिंहासनमथापि वा ॥ 40॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,40,10652,चामरव्यजने वापि कोऽयं विधिविपर्ययः । यस्यास्य व्रजतः पूर्वं राजानो भृत्यतां गताः ॥ 41॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,41,10653,स्वोत्तरीयैः प्रकुर्वन्ति विरजस्कं महीतलम् । सोऽयं कपालसंलग्ने घटीपटनिरन्तरे ॥ 42॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,42,10654,मृतनिर्माल्यसूत्रान्तर्लग्नकेशसुदारुणे । वसानिष्पन्दसंशुष्कमहापटलमण्डिते ॥ 43॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,43,10655,भस्माङ्गारार्धदग्धास्थिमज्जासङ्घट्टभीषणे । गृध्रगोमायुनादार्ते पुष्टक्षुद्रविहङ्गमे ॥ 44॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,44,10656,चिताधूमायतपटे नीलीकृतदिगन्तरे । कुणपास्वादनमुदा सम्प्रकृष्टनिशाचरे ॥ 45॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,45,10657,चरत्यमेध्ये राजेन्द्रः श्मशाने दुःखपीडितः । एवमुक्त्वाथ संश्लिष्य कण्ठे राज्ञो नृपात्मजा ॥ 46॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,46,10658,कष्टं शोकसमाविष्टा विललापार्तया गिरा । राजन् स्वप्नोऽथ तथ्यं वा यदेतन्मन्यते भवान् ॥ 47॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,47,10659,तत्कथ्यतां महाभाग मनो वै मुह्यते मम । यद्येतदेव धर्मज्ञ नास्ति धर्मे सहायता ॥ 48॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,48,10660,तथैव विप्रदेवादिपूजने सत्यपालने । नास्ति धर्मः कुतः सत्यं नार्जवं नानृशंसता ॥ 49॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,49,10661,यत्र त्वं धर्मपरमः स्वराज्यादवरोपितः । सूत उवाच - इति तस्या वचः श्रुत्वा निःश्वस्योष्णं सगद्गदः ॥ 50॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,50,10662,कथयामास तन्वङ्ग्यै यथा प्राप्तः श्वपाकताम् । रुदित्वा सा तु सुचिरं निःश्वस्योष्णं सुदुःखिता ॥ 51॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,51,10663,स्वपुत्रमरणं भीरुर्यथावत्तं न्यवेदयत् । श्रुत्वा राजा तथा वाक्यं निपपात महीतले ॥ 52॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,52,10664,मृतपुत्रं समानीय जिह्वया विलिहन्मुहुः । हरिश्चन्द्रमथो प्राह शैव्या गद्गदया गिरा ॥ 53॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,53,10665,कुरुष्व स्वामिनः प्रेष्यं छेदयित्वा शिरो मम । स्वामिद्रोहो न तेऽस्त्वद्य मासत्यो भव भूपते ॥ 54॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,54,10666,मासत्यं तव राजेन्द्र परद्रोहस्तु पातकम् । एतदाकर्ण्य राजा तु पपात भुवि मूर्च्छितः ॥ 55॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,55,10667,क्षणेन चेतनां प्राप्य विललापातिदुःखितः । राजोवाच - कथं प्रिये त्वया प्रोक्तं वचनं त्वतिनिष्ठुरम् ॥ 56॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,56,10668,यदशक्यं भवेद्वक्तुं तत्कर्म क्रियते कथम् । पत्न्युवाच - मया च पूजिता गौरी देवा विप्रास्तथैव च ॥ 57॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,57,10669,भविष्यसि पतिस्त्वं मे ह्यन्यस्मिञ्जन्मनि प्रभो । श्रुत्वा राजा तदा वाक्यं निपपात महीतले ॥ 58॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,58,10670,मृतस्य पुत्रस्य तदा चुचुम्ब दुःखितो मुखम् । राजोवाच - प्रिये न रोचते दीर्घं कालं क्लेशं मयाशितुम् ॥ 59॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,59,10671,नात्मायत्तोऽहं तन्वङ्गि पश्य मे मन्दभाग्यताम् । चाण्डालेनाननुज्ञातः प्रवेक्ष्ये ज्वलनं यदि ॥ 60॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,60,10672,चाण्डालदासतां यास्ये पुनरप्यन्यजन्मनि । नरकं च वरं प्राप्य खेदं प्राप्स्यामि दारुणम् ॥ 61॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,61,10673,तापं प्राप्स्यामि सम्प्राप्य महारौरवरौरवे । मग्नस्य दुःखजलधौ वरं प्राणैर्वियोजनम् ॥ 63॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,62,10674,एकोऽपि बालको योऽयमासीद्वंशकरः सुतः । मम दैवानुयोगेन मृतो सोऽपि बलीयसा ॥ 63॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,63,10675,कथं प्राणान्विमुञ्चामि परायत्तोऽस्मि दुर्गतः । तथापि दुःखबाहुल्यात्त्यक्ष्यामि तु निजां तनुम् ॥ 64॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,64,10676,त्रैलोक्ये नास्ति तद्दुःखं नासिपत्रवने तथा । वैतरण्यां कुतस्तद्वद्यादृशं पुत्रविप्लवे ॥ 65॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,65,10677,सोऽहं सुतशरीरेण दीप्यमाने हुताशने । निपतिष्यामि तन्वङ्गि क्षन्तव्यं तन्ममाधुना ॥ 66॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,66,10678,न वक्तव्य त्वया किञ्चिदतः कमललोचने । मम वाक्यं च तन्वङ्गि निबोधाहतमानसा ॥ 67॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,67,10679,अनुज्ञाताथ गच्छ त्वं विप्रवेश्म शुचिस्मिते । यदि दत्तं यदि हुतं गुरवो यदि तोषिताः ॥ 68॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,68,10680,सङ्गमः परलोके मे निजपुत्रेण चेत्त्वया । इहलोके कुतस्त्वेतद्भविष्यति समीप्सितम् ॥ 69॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,69,10681,यन्मया हसता किञ्चिद्रहसि त्वां शुचिस्मिते । अशेषमुक्तं तत्सर्वं क्षन्तव्यं मम यास्यतः ॥ 70॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,70,10682,राजपत्नीति गर्वेण नावज्ञेयः स मे द्विजः । सर्वयत्नेन तोष्यं स्यात्स्वामी दैवतवच्छुभे ॥ 71॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,71,10683,राज्ञ्युवाच । अहमप्यत्र राजर्षे निपतिष्ये हुताशने । दुःखभारासहा देव सह यास्यामि वै त्वया ॥ 72॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,72,10684,त्वया सह मम श्रेयो गमनं नान्यथा भवेत् । सह स्वर्गं च नरकं त्वया भोक्ष्यामि मानद । श्रुत्वा राजा तदोवाच एवमस्तु पतिव्रते ॥ 73॥ 7,७.२६,षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।,73,10685,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनं नाम षड्विंशोऽध्यायः ॥ ७.२६॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,0,10686,सूत उवाच - ततः कृत्वा चितां राजा आरोप्य तनयं स्वकम् । भार्यया सहितो राजा बद्धाञ्जलिपुटस्तदा ॥ 1॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,1,10687,चिन्तयन्परमेशानीं शताक्षीं जगदीश्वरीम् । पञ्चकोशान्तरगतां पुच्छब्रह्मस्वरूपिणीम् ॥ 2॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,2,10688,रक्ताम्बरपरीधानां करुणारससागरम् । नानायुधधरामम्बां जगत्पालनतत्पराम् ॥ 3॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,3,10689,तस्य चिन्तयमानस्य सर्वे देवाः सवासवाः । धर्मं प्रमुखतः कृत्वा समाजग्मुस्त्वरान्विताः ॥ 4॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,4,10690,आगत्य सर्वे प्रोचुस्ते राजञ्छ्रुणु महाप्रभो । अहं पितामहः साक्षाद्धर्मश्च भवगान्स्वयम् ॥ 5॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,5,10691,साध्याः सविश्वे मरुतो लोकपालाः सचारणाः । नागाः सिद्धाः सगन्धर्वा रुद्राश्चैव तथाश्विनौ ॥ 6॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,6,10692,एते चान्येऽथ बहवो विश्वामित्रस्तथैव च । विश्वत्रयेण यो मैत्रीं कर्तुमिच्छति धर्मतः ॥ 7॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,7,10693,विश्वामित्रः स तेऽभीष्टमाहर्तुं सम्यगिच्छति । धर्म उवाच - मा राजन् साहसं कार्षीर्धर्मोऽहं त्वामुपागतः ॥ 8॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,8,10694,तितिक्षादमसत्त्वाद्यैस्त्वद्गुणैः परितोषितः । इन्द्र उवाच - हरिश्चन्द्र महाभाग प्राप्तः शक्रोऽस्मि तेऽन्तिकम् ॥ 9॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,9,10695,त्वयाद्य भार्यापुत्रेण जिता लोकाः सनातनाः । आरोह त्रिदिवं राजन् भार्यापुत्रसमन्वितः ॥ 10॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,10,10696,सुदुष्प्रापं नरैरन्यैर्जितमात्मीयकर्मभिः । सूत उवाच - ततोऽमृतमयं वर्षमपमृत्युविनाशनम् ॥ 11॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,11,10697,इन्द्रः प्रासृजदाकाशाच्चितामध्यगते शिशौ । पुष्पवृष्टिश्च महती दुन्दुभिस्वन एव च ॥ 12॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,12,10698,समुत्तस्थौ मृतः पुत्रो राज्ञस्तस्य महात्मनः । सुकुमारतनुः स्वस्थः प्रसन्नः प्रीतमानसः ॥ 13॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,13,10699,ततो राजा हरिश्चन्द्रः परिष्वज्य सुतं तदा । सभार्यः स्वश्रिया युक्तो दिव्यमालाम्बरावृतः ॥ 14॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,14,10700,बभूव तत्क्षणादिन्द्रो भूपं चैवमभाषत ॥ 15॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,15,10701,सभार्यस्त्वं सपुत्रश्च स्वर्लोकं सद्गतिं पराम् । समारोह महाभाग निजानां कर्मणां फलम् ॥ 16॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,16,10702,हरिश्चन्द्र उवाच - देवराजाननुज्ञातः स्वामिना श्वपचेन हि । अकृत्वा निष्कृतिं तस्य नारोक्ष्ये वै सुरालयम् ॥ 17॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,17,10703,धर्म उवाच - तवैवं भाविनं क्लेशमवगम्यात्ममायया । आत्मा श्वपचतां नीतो दर्शितं तच्च पक्कणम् ॥ 18॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,18,10704,इन्द्र उवाच - प्रार्थ्यते यत्परं स्थानं समस्तैर्मनुजैर्भुवि । तदारोह हरिश्चन्द्र स्थानं पुण्यकृतां नृणाम् ॥ 19॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,19,10705,हरिश्चन्द्र उवाच - देवराज नमस्तुभ्यं वाक्यं चेदं निबोध मे । मच्छोकमग्नमनसः कौसले नगरे नराः ॥ 20॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,20,10706,तिष्ठन्ति तानपास्यैवं कथं यास्याम्यहं दिवम् । ब्रह्महत्या सुरापानं गोवधः स्त्रीवधस्तथा ॥ 21॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,21,10707,तुल्यमेभिर्महत्पापं भक्तत्यागादुदाहृतम् । भजन्तं भक्तमत्याज्यं त्यजतः स्यात्कथं सुखम् ॥ 22॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,22,10708,तैर्विना न प्रयास्यामि तस्माच्छक्र दिवं व्रज । यदि ते सहिताः स्वर्गं मया यान्ति सुरेश्वर ॥ 23॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,23,10709,ततोऽहमपि यास्यामि नरकं वापि तैः सह । इन्द्र उवाच - बहूनि पुण्यपापानि तेषां भिन्नानि वै नृप ॥ 24॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,24,10710,कथं सङ्घातभोज्यं त्वं भूप स्वर्गमभीप्ससि । हरिश्चन्द्र उवाच - भुङ्क्ते शक्र नृपो राज्यं प्रभावात्प्रकृतेध्रुवम् ॥ 25॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,25,10711,यजते च महायज्ञैः कर्म पूर्तं करोति च । तच्च तेषां प्रभावेण मया सर्वमनुष्ठितम् ॥ 26॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,26,10712,उपदादान्न सन्त्यक्ष्ये तानहं स्वर्गलिप्सया । तस्माद्यन्मम देवेश किञ्चिदस्ति सुचेष्टितम् ॥ 27॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,27,10713,दत्तमिष्टमथो जप्तं सामान्यं तैस्तदस्तु नः । बहुकालोपभोज्यं च फलं यन्मम कर्मगम् ॥ 28॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,28,10714,तदस्तु दिनमप्येकं तैः समं त्वप्रसादतः । सूत उवाच - एवं भविष्यतीत्युक्त्वा शक्रस्त्रिभुवनेश्वरः ॥ 29॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,29,10715,प्रसन्नचेता धर्मश्च विश्वामित्रश्च गाधिजः । गत्वा तु नगरं सर्वे चातुर्वर्ण्यसमाकुलम् ॥ 30॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,30,10716,हरिश्चन्द्रस्य निकटे प्रोवाच विबुधाधिपः । आगच्छन्तु जनाः शीघ्रं स्वर्गलोकं सुदुर्लभम् ॥ 31॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,31,10717,धर्मप्रसादात्सम्प्राप्तं सर्वैर्युष्माभिरेव तु । हरिश्चन्द्रोऽपि तान्सर्वाञ्जनान्नगरवासिनः ॥ 32॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,32,10718,प्राह राजा धर्मपरो दिवमारुह्यतामिति । सूत उवाच - तदिन्द्रस्य वचः श्रुत्वा प्रीतास्तस्य च भूपतेः ॥ 33॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,33,10719,ये संसारेषु निर्विण्णास्ते धुरं स्वसुतेषु वै । कृत्वा प्रहृष्टमनसो दिवमारुरुहुर्जनाः ॥ 34॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,34,10720,विमानवरमारूढाः सर्वे भास्वरविग्रहाः । तदा सम्भूतहर्षास्ते हरिश्चन्द्रश्च पार्थिवः ॥ 35॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,35,10721,राज्येऽभिषिच्य तनयं रोहिताख्यं महामनाः । अयोध्याख्ये पुरे रम्ये हृष्टपुष्टजनान्विते ॥ 36॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,36,10722,तनयं सुहृदश्चापि प्रतिपूज्याभिनन्द्य च । पुण्येन लभ्यां विपुलां देवादीनां सुदुर्लभाम् ॥ 37॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,37,10723,सम्प्राप्य कीर्तिमतुलां विमाने स महीपतिः । आसाञ्चक्रे कामगमे क्षुद्रघण्टाविराजिते ॥ 38॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,38,10724,ततस्तर्हि समालोक्य श्लोकमन्त्रं तदा जगौ । दैत्याचार्यो महाभागः सर्वशास्त्रार्थतत्त्ववित् ॥ 39॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,39,10725,शुक्र उवाच - अहो तितिक्षामाहात्म्यमहो दानफलं महत् । यदागतो हरिश्चन्द्रो महेन्द्रस्य सलोकताम् ॥ 40॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,40,10726,सूत उवाच - एतत्ते सर्वमाख्यानं हरिश्चन्द्रस्य चेष्टितम् । यः श‍ृणोति च दुःखार्तः स सुखं लभतेऽन्वहम् ॥ 41॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,41,10727,स्वर्गार्थी प्राप्नुयात् स्वर्गं सुतार्थी सुतमाप्नुयात् । भार्यार्थी प्राप्नुयाद्भार्यां राज्यार्थीं राज्यमाप्नुयात् ॥ 42॥ 7,७.२७,सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।,42,10728,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्राख्यानश्रवणफलवर्णनं नाम सप्तविंशोऽध्यायः ॥ ७.२७॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,0,10729,जनमेजय उवाच - विचित्रमिदमाख्यानं हरिश्चन्द्रस्य कीर्तितम् । शताक्षीपादभक्तस्य राजर्षेर्धार्मिकस्य च ॥ 1॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,1,10730,शताक्षी सा कुतो जाता देवी भगवती शिवा । तत्कारणं वद मुने सार्थकं जन्म मे कुरु ॥ 2॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,2,10731,को हि देव्या गुणाञ्छृण्वंस्तृप्तिं यास्यति शुद्धधीः । पदे पदेऽश्वमेधस्य फलमक्षय्यमश्नुते ॥ 3॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,3,10732,व्यास उवाच - श‍ृणु राजन् प्रवक्ष्यामि शताक्षीसम्भवं शुभम् । तवावाच्यं न मे किञ्चिद्देवीभक्तस्य विद्यते ॥ 4॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,4,10733,दुर्गमाख्यो महादैत्यः पूर्वं परमदारुणः । हिरण्याक्षान्वये जातो रुरुपुत्रो महाखलः ॥ 5॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,5,10734,देवानां तु बलं वेदो नाशे तस्य सुरा अपि नङ्क्ष्यन्त्येव न सन्देहो विधेयं तावदेव तत् ॥ 6॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,6,10735,विमृश्यैतत्तपश्चर्यां गतः कर्तुं हिमालये । ब्रह्माणं मनसा ध्यात्वा वायुभक्षो व्यतिष्ठत ॥ 7॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,7,10736,सहस्रवर्षपर्यन्तं चकार परमं तपः । तेजसा तस्य लोकास्तु सन्तप्ताः ससुरासुराः ॥ 8॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,8,10737,ततः प्रसन्नो भगवान् हंसारूढश्चतुर्मुखः । ययौ तस्मै वरं दातुं प्रसन्नमुखपङ्कजः ॥ 9॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,9,10738,समाधिस्थं मीलिताक्षं स्फुटमाह चतुर्मुखः । वरं वरय भद्रं ते यस्ते मनसि वर्तते ॥ 10॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,10,10739,तवाद्य तपसा तुष्टो वरदेशोऽहमागतः । श्रुत्वा ब्रह्ममुखाद्वाणीं व्युत्थितः स समाधितः ॥ 11॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,11,10740,पूजयित्वा वरं वव्रे वेदान्देहि सुरेश्वर । त्रिषु लोकेषु ये मन्त्रा ब्राह्मणेषु सुरेष्वपि ॥ 12॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,12,10741,विद्यन्ते ते तु सान्निध्ये मम सन्तु महेश्वर । बलं च देहि येन स्याद्देवानां च पराजयः ॥ 13॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,13,10742,इति तस्य वचः श्रुत्वा तथास्त्विति वचो वदन् । जगाम सत्यलोकं तु चतुर्वेदेश्वरः परः ॥ 14॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,14,10743,ततः प्रभृति विप्रैस्तु विस्मृता वेदराशयः । स्नानसन्ध्यानित्यहोमश्राद्धयज्ञजपादयः ॥ 15॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,15,10744,विलुप्ता धरणीपृष्ठे हाहाकारो महानभूत् । किमिदं किमिदं चेति विप्रा ऊचुः परस्परम् ॥ 16॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,16,10745,वेदाभावात्तदस्माभिः कर्तव्यं किमतः परम् । इति भूमौ महानर्थे जाते परमदारुणे ॥ 17॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,17,10746,निर्जराः सजरा जाता हविर्भागाद्यभावतः । रुरोध स तदा दैत्यो नगरीममरावतीम् ॥ 18॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,18,10747,अशक्तास्तेन ते योद्धुं वज्रदेहासुरेण च । पलायनं तदा कृत्वा निर्गता निर्जराः क्वचित् ॥ 19॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,19,10748,निलयं गिरिदुर्गेषु रत्नसानुगुहासु च । संस्थिताः परमां शक्तिं ध्यायन्तस्ते पराम्बिकाम् ॥ 20॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,20,10749,अग्नौ होमाद्यभावात्तु वृष्ट्यभावोऽप्यभून्नृप । वृष्टेरभावे संशुष्कं निर्जलं चापि भूतलम् ॥ 21॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,21,10750,कूपवापीतडागाश्च सरितः शुष्कतां गताः । अनावृष्टिरियं राजन्नभूच्च शतवार्षिकी ॥ 22॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,22,10751,मृताः प्रजाश्च बहुधा गोमहिष्यादयस्तथा । गृहे गृहे मनुष्याणामभवच्छवसङ्ग्रहः ॥ 23॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,23,10752,अनर्थे त्वेवमुद्भूते ब्राह्मणाः शान्तचेतसः । गत्वा हिमवतः पार्श्वे रिराधयिषवः शिवम् ॥ 24॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,24,10753,समाधिध्यानपूजाभिर्देवीं तुष्टुवुरन्वहम् । निराहारास्तदासक्तास्तामेव शरणं ययुः ॥ 25॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,25,10754,दयां कुरु महेशानि पामरेषु जनेषु हि । सर्वापराधयुक्तेषु नैतच्छ्लाघ्यं तवाम्बिके ॥ 26॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,26,10755,कोपं संहर देवेशि सर्वान्तर्यामिरूपिणि । त्वया यथा प्रेर्यतेऽयं करोति स तथा जनः ॥ 27॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,27,10756,नान्या गतिर्जनस्यास्य किं पश्यसि पुनः पुनः । यथेच्छसि तथा कर्तुं समर्थासि महेश्वरि ॥ 28॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,28,10757,समुद्धर महेशानि सङ्कटात्परमोत्थितात् । जीवनेन विनास्माकं कथं स्यात्स्थितिरम्बिके ॥ 29॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,29,10758,प्रसीद त्वं महेशानि प्रसीद जगदम्बिके । अनन्तकोटिब्रह्माण्डनायिके ते नमो नमः ॥ 30॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,30,10759,नमः कूटस्थरूपायै चिद्रूपायै नमो नमः । नमो वेदान्तवेद्यायै भुवनेश्यै नमो नमः ॥ 31॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,31,10760,नेति नेतीति वाक्यैर्या बोध्यते सकलागमैः । तां सर्वकारणां देवीं सर्वभावेन सन्नताः ॥ 32॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,32,10761,इति सम्प्रार्थिता देवी भुवनेशी महेश्वरी । अनन्ताक्षिमयं रूपं दर्शयामास पार्वती ॥ 33॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,33,10762,नीलाञ्जनसमप्रख्यं नीलपद्मायतेक्षणम् । सुकर्कशसमोत्तुङ्गवृत्तपीनघनस्तनम् ॥ 34॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,34,10763,बाणमुष्टिं च कमलं पुष्पपल्लवमूलकान् । शाकादीन्फलसंयुक्ताननन्तरससंयुतान् ॥ 35॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,35,10764,क्षुत्तृड्जरापहान् हस्तैर्बिभ्रती च महाधनुः । सर्वसौन्दर्यसारं तद्रूपं लावण्यशोभितम् ॥ 36॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,36,10765,कोटिसूर्यप्रतीकाशं करुणारससागरम् । दर्शयित्वा जगद्धात्री सानन्तनयनोद्भवा ॥ 37॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,37,10766,मोचयामास लोकेषु वारिधारां सहस्रशः । नवरात्रं महावृष्टिरभून्नेत्रोद्भवैर्जलैः ॥ 38॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,38,10767,दुःखितान्वीक्ष्य सकलान्नेत्राश्रूणि विमुञ्चती । तर्पितास्तेन ते लोका ओषध्यः सकला अपि ॥ 39॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,39,10768,नदीनदप्रवाहास्तैर्जलैः समभवन्नृप । निलीय संस्थिताः पूर्वं सुरास्ते निर्गता बहिः ॥ 40॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,40,10769,मिलित्वा ससुरा विप्रा देवीं समभितुष्टुवुः । नमो वेदान्तवेद्ये ते नमो ब्रह्मस्वरूपिणि ॥ 41॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,41,10770,स्वमायया सर्वजगद्विधात्र्यै ते नमो नमः । भक्तकल्पद्रुमे देवि भक्तार्थं देहधारिणि ॥ 42॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,42,10771,नित्यतृप्ते निरुपमे भुवनेश्वरि ते नमः । अस्मच्छान्त्यर्थमतुलं लोचनानां सहस्रकम् ॥ 43॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,43,10772,त्वया यतो धृतं देवि शताक्षी त्वं ततो भव । क्षुधया पीडिता मातः स्तोतुं शक्तिर्न चास्ति नः ॥ 44॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,44,10773,कृपां कुरु महेशानि वेदानप्याहराम्बिके । व्यास उवाच - इति तेषां वचः श्रुत्वा शाकान्स्वकरसंस्थितान् ॥ 45॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,45,10774,स्वादूनि फलमूलानि भक्षणार्थं ददौ शिवा । नानाविधानि चान्नानि पशुभोज्यानि यानि च ॥ 46॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,46,10775,काम्यानन्तरसैर्युक्तान्यानवीनोद्भवं ददौ । शाकम्भरीति नामापि तद्दिनात्समभून्नृप ॥ 47॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,47,10776,ततः कोलाहले जाते दूतवाक्येन बोधितः । ससैन्यः सायुधो योद्धुं दुर्गमाख्योऽसुरो ययौ ॥ 48॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,48,10777,सहस्राक्षौहिणीयुक्तः शरान्मुञ्चंस्त्वरान्वितः । रुरोध देवसैन्यं तद्यद्देव्यग्रे स्थितं पुरा ॥ 49॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,49,10778,तथा विप्रगणं चैव रोधयामास सर्वतः । ततः किलकिला शब्दः समभूद्देवमण्डले ॥ 50॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,50,10779,त्राहि त्राहीति वाक्यानि प्रोचुः सर्वे द्विजामराः । ततस्तेजोमयं चक्रं देवानां परितः शिवा ॥ 51॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,51,10780,चकार रक्षणार्थाय स्वयं तस्माद् बहिः स्थिता । ततः समभवद्युद्धं देव्या दैत्यस्य चोभयोः ॥ 52॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,52,10781,शरवर्षसमाच्छन्नं सूर्यमण्डलमद्भुतम् । परस्परशरोद्घर्षसमुद्भूताग्निसुप्रभम् ॥ 53॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,53,10782,कठोरज्याटणत्कारबधिरीकृतदिक्तटम् । ततो देवीशरीरात्तु निर्गतास्तीव्रशक्तयः ॥ 54॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,54,10783,कालिका तारिणी बाला त्रिपुरा भैरवी रमा । बगला चैव मातङ्गी तथा त्रिपुरसुन्दरी ॥ 55॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,55,10784,कामाक्षी तुलजा देवी जम्भिनी मोहिनी तथा । छिन्नमस्ता गुह्यकाली दशसाहस्रबाहुका ॥ 56॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,56,10785,द्वात्रिंशच्छक्तयश्चान्याश्चतुष्षष्टिमिताः पराः । असङ्ख्यातास्ततो देव्यः समुद्भूतास्तु सायुधाः ॥ 57॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,57,10786,मृदङ्गशङ्खवीणादिनादितं सङ्गरस्थलम् । शक्तिभिर्दैत्यसैन्ये तु नाशितेऽक्षौहिणीशते ॥ 58॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,58,10787,अग्रेसरः समभवद्दुर्गमो वाहिनीपतिः । शक्तिभिः सह युद्धं च चकार प्रथमं रिपुः ॥ 59॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,59,10788,महद्युद्धं समभवद्यत्राभूद्रक्तवाहिनी । अक्षौहिण्यस्तु ताः सर्वा विनष्टा दशभिर्दिनैः ॥ 60॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,60,10789,तत एकादशे प्राप्ते दिने परमदारुणे । रक्तमाल्याम्बरधरो रक्तगन्धानुलेपनः ॥ 61॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,61,10790,कृत्वोत्सवं महान्तं तु युद्धाय रथसंस्थितः । संरम्भेणैव महता शक्तीः सर्वा विजित्य च ॥ 62॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,62,10791,महादेवीरथाग्रे तु स्वरथं संन्यवेशयत् । ततोऽभवन्महद्युद्धं देव्या दैत्यस्य चोभयोः ॥ 63॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,63,10792,प्रहरद्वयपर्यन्तं हृदयत्रासकारकम् । ततः पञ्चदशात्युग्रबाणान्देवी मुमोच ह ॥ 64॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,64,10793,चतुर्भिश्चतुरो वाहान्बाणेनैकेन सारथिम् । द्वाभ्यां नेत्रे भुजौ द्वाभ्यां ध्वजमेकेन पत्रिणा ॥ 65॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,65,10794,पञ्चभिर्हृदयं तस्य विव्याध जगदम्बिका । ततो वमन् स रुधिरं ममार पुर ईशितुः ॥ 66॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,66,10795,तस्य तेजस्तु निर्गत्य देवीरूपे विवेश ह । हते तस्मिन्महावीर्ये शान्तमासीज्जगत्त्रयम् ॥ 67॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,67,10796,ततो ब्रह्मादयः सर्वे तुष्टुवुर्जगदम्बिकाम् । पुरस्कृत्य हरीशानौ भक्त्या गद्गदया गिरा ॥ 68॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,68,10797,देवा ऊचुः । जगद्भ्रमविवर्तैककारणे परमेश्वरि । नमः शाकम्भरि शिवे नमस्ते शतलोचने ॥ 69॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,69,10798,सर्वोपनिषदुद्घुष्टे दुर्गमासुरनाशिनि । नमो मायेश्वरि शिवे पञ्चकोशान्तरस्थिते ॥ 70॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,70,10799,चेतसा निर्विकल्पेन यां ध्यायन्ति मुनीश्वराः । प्रणवार्थस्वरूपां तां भजामो भुवनेश्वरीम् ॥ 71॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,71,10800,अनन्तकोटिब्रह्माण्डजननीं दिव्यविग्रहाम् । ब्रह्मविष्ण्वादिजननीं सर्वभावैर्नता वयम् ॥ 72॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,72,10801,कः कुर्यात्पामरान्दृष्ट्वा रोदनं सकलेश्वरः । सदयां परमेशानीं शताक्षीं मातरं विना ॥ 73॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,73,10802,व्यास उवाच - इति स्तुता सुरैर्देवी ब्रह्मविष्ण्वादिभिर्वरैः । पूजिता विविधैर्द्रव्यैः सन्तुष्टाभूच्च तत्क्षणे ॥ 74॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,74,10803,प्रसन्ना सा तदा देवी वेदानाहृत्य सा ददौ । ब्राह्मणेभ्यो विशेषेण प्रोवाच पिकभाषिणी ॥ 75॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,75,10804,ममेयं तनुरुत्कृष्टा पालनीया विशेषतः । यया विनानर्थ एष जातो दृष्टोऽधुनैव हि ॥ 76॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,76,10805,पूज्याहं सर्वदा सेव्या युष्माभिः सर्वदैव हि । नातः परतरं किञ्चित्कल्याणायोपदिश्यते ॥ 77॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,77,10806,पठनीयं ममैतद्धि माहात्म्यं सर्वदोत्तमम् । तेन तुष्टा भविष्यामि हरिष्यामि तथापदः ॥ 78॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,78,10807,दुर्गमासुरहन्त्रीत्वाद्दुर्गेति मम नाम यः । गृह्णाति च शताक्षीति मायां भित्त्वा व्रजत्यसौ ॥ 79॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,79,10808,किमुक्तेनात्र बहुना सारं वक्ष्यामि तत्त्वतः । संसेव्याहं सदा देवाः सर्वैरपि सुरासुरैः ॥ 80॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,80,10809,इत्युक्त्वान्तर्हिता देवी देवानां चैव पश्यताम् । सन्तोषं जनयन्त्येवं सच्चिदनन्दरूपिणी ॥ 81॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,81,10810,एतत्ते सर्वमाख्यातं रहस्यं परमं महत् । गोपनीयं प्रयत्नेन सर्वकल्याणकारकम् ॥ 82॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,82,10811,य इमं श‍ृणुयान्नित्यमध्यायं भक्तितत्परः । सर्वान्कामानवाप्नोति देवीलोके महीयते ॥ 83॥ 7,७.२८,अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।,83,10812,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे शताक्षीचरित्रवर्णनं नामाष्टाविंशोऽध्यायः ॥ ७.२८॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,0,10813,व्यास उवाच - इत्येवं सूर्यवंश्यानां राज्ञां चरितमुत्तमम् । सोमवंशोद्भवानां च वर्णनीयं मया कियत् ॥ 1॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,1,10814,पराशक्तिप्रसादेन महत्त्वं प्रतिपेदिरे । राजन् सुनिश्चितं विद्धि पराशक्तिप्रसादतः ॥ 2॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,2,10815,यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं पराशक्त्यंशसम्भवम् ॥ 3॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,3,10816,एते चान्ये च राजानः पराशक्तेरुपासकाः । संसारतरुमूलस्य कुठारा अभवन्नृप ॥ 4॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,4,10817,तस्मात्सर्वप्रयत्नेन संसेव्या भुवनेश्वरी । पलालमिव धान्यार्थी त्यजेदन्यमशेषतः ॥ 5॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,5,10818,आमथ्य वेददुग्धाब्धिं प्राप्तं रत्नं मया नृप । पराशक्तिपदाम्भोजं कृतकृत्योऽस्म्यहं ततः ॥ 6॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,6,10819,पञ्चब्रह्मासनारूढा नास्त्यन्या कापि देवता । तत एव महादेव्या पञ्चब्रह्मासनं कृतम् ॥ 7॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,7,10820,पञ्चभ्यस्त्वधिकं वस्तु वेदेऽव्यक्तमितीर्यते । यस्मिन्नोतं च प्रोतं च सैव श्रीभुवनेश्वरी ॥ 8॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,8,10821,तामविज्ञाय राजेन्द्र नैव मुक्तो भवेन्नरः । यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ॥ 9॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,9,10822,तदा शिवामविज्ञाय दुःखस्यान्तो भविष्यति । अत एव श्रुतौ प्राहुः श्वेताश्वतरशाखिनः ॥ 10॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,10,10823,ते ध्यानयोगानुगता अपश्य- न्देवात्मशक्तिं स्वगुणैर्निगूढाम् ॥ 11॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,11,10824,तस्मात् सर्वप्रयत्नेन जन्मसाफल्यहेतवे । लज्जया वा भयेनापि भक्त्या वा प्रेमयुक्तया । सर्वसङ्गं परित्यज्य मनो हृदि निरुध्य च ॥ 12॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,12,10825,तन्निष्ठस्तत्परो भूयादिति वेदान्तडिण्डिमः । येन केन मिषेणापि स्वपंस्तिष्ठन्व्रजन्नपि ॥ 13॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,13,10826,कीर्तयेत्सततं देवीं स वै मुच्येत बन्धनात् । तस्मात्सर्वप्रयत्नेन भज राजन् महेश्वरीम् ॥ 14॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,14,10827,विराड्रूपां सूत्ररूपां तथान्तर्यामिरूपिणीम् । सोपानक्रमतः पूर्वं ततः शुद्धे तु चेतसि ॥ 15॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,15,10828,सच्चिदानन्दलक्ष्यार्थरूपां तां ब्रह्मरूपिणीम् । आराधय परां शक्तिं प्रपञ्चोल्लासवर्जिताम् ॥ 16॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,16,10829,तस्यां चित्तलयो यः स तस्या आराधनं स्मृतम् । राजन् राज्ञां पराशक्तिभक्तानां चरितं मया ॥ 17॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,17,10830,धार्मिकाणां सूर्यसोमवंशजानां मनस्विनाम् । पावनं कीर्तिदं धर्मबुद्धिदं सद्गतिप्रदम् ॥ 18॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,18,10831,कथितं पुण्यदं पश्चात्किमन्यच्छ्रोतुमिच्छसि । जनमेजय उवाच - गौरीलक्ष्मीसरस्वत्यो दत्ताः पूर्वं पराम्बया ॥ 19॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,19,10832,हराय हरये तद्वन्नाभिपद्मोद्भवाय च । तुषाराद्रेश्च दक्षस्य गौरी कन्येति विश्रुतम् ॥ 20॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,20,10833,क्षीरोदधेश्च कन्येति महालक्ष्मीरिति स्मृतम् । मूलदेव्युद्भवानां च कथं कन्यात्वमन्ययोः ॥ 21॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,21,10834,असम्भाव्यमिदं भाति संशयोऽत्र महामुने । छिन्धि ज्ञानासिना तं त्वं संशयच्छेदतत्परः ॥ 22॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,22,10835,व्यास उवाच - श‍ृणु राजन् प्रवक्ष्यामि रहस्यं परमाद्भुतम् । देवीभक्तस्य ते किञ्चिदवाच्यं न हि विद्यते ॥ 23॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,23,10836,देवीत्रयं यदा देवत्रयायादात्पराम्बिका । तदाप्रभृति ते देवाः सृष्टिकार्याणि चक्रिरे ॥ 24॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,24,10837,कस्मिंश्चित्समये राजन् दैत्या हालाहलाभिधाः । महापराक्रमा जातास्त्रैलोक्यं तैर्जितं क्षणात् ॥ 25॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,25,10838,ब्रह्मणो वरदानेन दर्पिता रजताचलम् । रुरुधुर्निजसेनाभिस्तथा वैकुण्ठमेव च ॥ 26॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,26,10839,कामारिः कैटभारिश्च युद्धोद्योगं च चक्रतुः । षष्टिवर्षसहस्राणामभूद्युद्धं महोत्कटम् ॥ 27॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,27,10840,हाहाकारो महानासीद्देवदानवसेनयोः । महताथ प्रयत्नेन ताभ्यां ते दानवा हताः ॥ 28॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,28,10841,स्वस्वस्थानेषु गत्वा तावभिमानं च चक्रतुः । स्वशक्त्योर्निकटे राजन् यद्वशादेव ते हताः ॥ 29॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,29,10842,अभिमानं तयोर्ज्ञात्वा छलहास्यं च चक्रतुः । महालक्ष्मीश्च गौरी च हास्यं दृष्ट्वा तयोस्तु तौ ॥ 30॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,30,10843,देवावतीव सङ्कृद्धौ मोहितावादिमायया । दुरुत्तरं च ददतुरवमानपुरःसरम् ॥ 31॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,31,10844,ततस्ते देवते तस्मिन्क्षणे त्यक्त्वा तु तौ पुनः । अन्तर्हिते चाभवतां हाहाकारस्तदा ह्यभूत् ॥ 32॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,32,10845,निस्तेजस्कौ च निःशक्ती विक्षिप्तौ च विचेतनौ । अवमानात्तयोः शक्त्योर्जातौ हरिहरौ तदा ॥ 33॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,33,10846,ब्रह्मा चिन्तातुरो जातः किमेतत्समुपस्थितम् । प्रधानौ देवतामध्ये कथं कार्याक्षमावमू ॥ 34॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,34,10847,अकाण्डे किं निमित्तेन सङ्कटं समुपस्थितम् । प्रलयो भविता किं वा जगतोऽस्य निरागसः ॥ 35॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,35,10848,निमित्तं नैव जानेऽहं कथं कार्या प्रतिक्रिया । इति चिन्तातुरोऽत्यर्थं दध्यौ मीलितलोचनः ॥ 36॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,36,10849,पराशक्तिप्रकोपात्तु जातमेतदिति स्म ह । जानंस्तदा सावधानः पद्मजोऽभून्नृपोत्तम ॥ 37॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,37,10850,ततस्तयोश्च यत्कार्यं स्वयमेवाऽकरोत्तदा । स्वशक्तेश्च प्रभावेण कियत्कालं तपोनिधिः ॥ 38॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,38,10851,ततस्तयोस्तु स्वस्त्यर्थं मन्वादीन्स्वसुतानथ । आह्वयामास धर्मात्मा सनकादींश्च सत्वरः ॥ 39॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,39,10852,उवाच वचनं तेभ्यः सन्नतेभ्यस्तपोनिधिः । कार्यासक्तोऽहमधुना तपः कर्तुं न च क्षमः ॥ 40॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,40,10853,पराशक्तेस्तु तोषार्थं जगद्भारयुतोऽस्म्यहम् । शिवविष्णू च विक्षिप्तौ पराशक्तिप्रकोपतः ॥ 41॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,41,10854,तस्मात्तां परमां शक्तिं यूयं सन्तोषयन्त्वथ । अत्यद्भुतं तपः कृत्वा भक्त्या परमया युताः ॥ 42॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,42,10855,यथा तौ पूर्ववृत्तौ च स्यात शक्तियुतावपि । तथा कुरुत मत्पुत्रा यशोवृद्धिर्भवेद्धि वः ॥ 43॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,43,10856,कुले यस्य भवेज्जन्म तयोः शक्त्योस्तु तत्कुलम् । पावयेज्जगतीं सर्वां कृतकृत्यं स्वयं भवेत् ॥ 44॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,44,10857,व्यास उवाच - पितामहवचः श्रुत्वा गताः सर्वे वनान्तरे । रिराधयिषवः सर्वे दक्षाद्या विमलान्तराः ॥ 45॥ 7,७.२९,एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।,45,10858,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनं नामैकोनत्रिंशोऽध्यायः ॥ ७.२९॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,0,10859,व्यास उवाच - ततस्ते तु वनोद्देशे हिमाचलतटाश्रयाः । मायाबीजजपासक्तास्तपश्चेरुः समाहिताः ॥ 1॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,1,10860,ध्यायतां परमां शक्तिं लक्षवर्षाण्यभून्नृप । ततः प्रसन्ना देवी सा प्रत्यक्ष्यं दर्शनं ददौ ॥ 2॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,2,10861,पाशाङ्कुशवराभीतिचतुर्बाहुस्त्रिलोचना । करुणारससम्पूर्णा सच्चिदानन्दरूपिणी ॥ 3॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,3,10862,दृष्ट्वा तां सर्वजननीं तुष्टुवुर्मुनयोऽमलाः । नमस्ते विश्वरूपायै वैश्वानरसुमूर्तये ॥ 4॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,4,10863,नमस्तेजसरूपायै सूत्रात्मवपुषे नमः । यस्मिन्सर्वे लिङ्गदेहा ओतप्रोता व्यवस्थिताः ॥ 5॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,5,10864,नमः प्राज्ञस्वरूपायै नमोऽव्याकृतमूर्तये । नमः प्रत्यक्स्वरूपायै नमस्ते ब्रह्ममूर्तये ॥ 6॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,6,10865,नमस्ते सर्वरूपायै सर्वलक्ष्यात्ममूर्तये । इति स्तुत्वा जगद्धात्रीं भक्तिगद्गदया गिरा ॥ 7॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,7,10866,प्रणेमुश्चरणाम्भोजं दक्षाद्या मुनयोऽमलाः । ततः प्रसन्ना सा देवी प्रोवाच पिकभाषिणी ॥ 8॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,8,10867,वरं ब्रूत महाभागा वरदाहं सदा मता । तस्यास्तु वचनं श्रुत्वा हरविष्ण्वोस्तनोः शमम् ॥ 9॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,9,10868,तयोस्तच्छक्तिलाभं च वव्रिरे नृपसत्तम । दक्षोऽथ पुनरप्याह जन्म देवि कुले मम ॥ 10॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,10,10869,भवेत्तवाम्ब येनाहं कृतकृत्यो भवे इति । जपं ध्यानं तथा पूजां स्थानानि विविधानि च ॥ 11॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,11,10870,वद मे परमेशानि स्वमुखेनैव केवलम् । देव्युवाच - मच्छक्त्योरवमानाच्च जातावस्था तयोर्द्वयोः ॥ 12॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,12,10871,नैतादृशः प्रकर्तव्यो मेऽपराधः कदाचन । अधुना मत्कृपालेशाच्छरीरे स्वस्थता तयोः ॥ 13॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,13,10872,भविष्यति च ते शक्ती त्वद्गृहे क्षीरसागरे । जनिष्यतस्तत्र ताभ्यां प्राप्स्यतः प्रेरिते मया ॥ 14॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,14,10873,मायाबीजं हि मन्त्रो मे मुख्यः प्रियकरः सदा । ध्यानं विराट्स्वरूपं मेऽथवा त्वत्पुरतः स्थितम् ॥ 15॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,15,10874,सच्चिदानन्दरूपं वा स्थानं सर्वं जगन्मम । युष्माभिः सर्वदा चाहं पूज्या ध्येया च सर्वदा ॥ 16॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,16,10875,व्यास उवाच - इत्युक्त्वान्तर्दधे देवी मणिद्वीपाधिवासिनी । दक्षाद्या मुनयः सर्वे ब्रह्माणं पुनराययुः ॥ 17॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,17,10876,ब्रह्मणे सर्ववृतान्तं कथयामासुरादरात् । हरो हरिश्च स्वस्थौ तौ स्वस्वकार्यक्षमौ नृप ॥ 18॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,18,10877,जातौ पराम्बाकृपया गर्वेण रहितौ तदा । कदाचितदथ काले तु महः शाक्तमवातरत् ॥ 19॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,19,10878,दक्षदेहे महाराज त्रैलोक्येऽप्युत्सवोऽभवत् । देवाः प्रमुदिताः सर्वे पुष्पवृष्टिं च चक्रिरे ॥ 20॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,20,10879,नेदुर्दुन्दुभयः स्वर्गे करकोणाहता नृप । मनांस्यासन्प्रसन्नानि साधूनाममलात्मनाम् ॥ 21॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,21,10880,सरितो मार्गवाहिन्यः सुप्रभोऽभूद्दिवाकरः । मङ्गलायां तु जातायां जातं सर्वत्र मङ्गलम् ॥ 22॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,22,10881,तस्या नाम सतीं चक्रे सत्यत्वात्परसंविदः । ददौ पुनः शिवायाथ तस्य शक्तिस्तु याभवत् ॥ 23॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,23,10882,सा पुनर्ज्वलने दग्धा दैवयोगान्मनोर्नृप । जनमेजय उवाच - अनर्थकरमेतत्ते श्रावितं वचनं मुने ॥ 24॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,24,10883,एतादृशं महद्वस्तु कथं दग्धं हुताशने । यन्नामस्मरणान्नृणां संसाराग्निभयं न हि ॥ 25॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,25,10884,केन कर्मविपाकेन मनोर्दग्धं तदेव हि । व्यास उवाच - श‍ृणु राजन् पुरा वृत्तं सतीदायस्य कारणम् ॥ 26॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,26,10885,कदाचिदथ दुर्वासा गतो जाम्बूनदेश्वरीम् । ददर्श देवीं तत्रासौ मायाबीजं जजाप सः ॥ 27॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,27,10886,ततः प्रसन्ना देवेशी निजकण्ठगतां स्रजम् । भ्रमद्भ्रमरसंसक्तां मकरन्दमदाकुलाम् ॥ 28॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,28,10887,ददौ प्रसादभूतां तां जग्राह शिरसा मुनिः । ततो निर्गत्य तरसा व्योममार्गेण तापसः ॥ 29॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,29,10888,आजगाम स यत्रास्ते दक्षः साक्षात्सतीपिता । सन्दर्शनार्थमम्बाया ननाम च सतीपदे ॥ 30॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,30,10889,पृष्टो दक्षेण स मुनिर्माला कस्यास्त्यलौकिकी । कथं लब्धा त्वया नाथ दुर्लभा भुवि मानवैः ॥ 31॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,31,10890,तच्छ्रुत्वा वचनं तस्य प्रोवाचाश्रुयुतेक्षणः । देव्याः प्रसादमतुलं प्रेमगद्गदितान्तरः ॥ 32॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,32,10891,प्रार्थयामास तां मालां तं मुनिं स सतीपिता । अदेयं शक्तिभक्ताय नास्ति त्रैलोक्यमण्डले ॥ 33॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,33,10892,इति बुद्ध्या तु तां मालां मनवे स समर्पयत् । गृहीता शिरसा माला मनुना निजमन्दिरे ॥ 34॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,34,10893,स्थापिता शयनं यत्र दम्पत्योरतिसुन्दरम् । पशुकर्मरतो रात्रौ मालागन्धेन मोदितः ॥ 35॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,35,10894,अभवत्स महीपालस्तेन पापेन शङ्करे । शिवे द्वेषमतिर्जातो देव्यां सत्यां तथा नृप ॥ 36॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,36,10895,राजंस्तेनापराधेन तज्जन्यो देह एव च । सत्या योगाग्निना दग्धः सतीधर्मदिदृक्षया ॥ 37॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,37,10896,पुनश्च हिमवत्पृष्ठे प्रादुरासीत्तु तन्महः । जनमेजय उवाच - दह्यमाने सतीदेहे जाते किमकरोच्छिवः ॥ 38॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,38,10897,प्राणाधिका सती तस्य तद्वियोगेन कातरः । व्यास उवाच - ततः परं तु यज्जातां मया वक्तुं न शक्यते ॥ 39॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,39,10898,त्रैलोक्यप्रलयो जातः शिवकोपाग्निना नृप । वीरभद्रः समुत्पन्नो भद्रकालीगणान्वितः ॥ 40॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,40,10899,त्रैलोक्यनाशनोद्युक्तो वीरभद्रो यदाभवत् । ब्रह्मादयस्तदा देवाः शङ्करं शरणं ययुः ॥ 41॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,41,10900,जाते सर्वस्वनाशेऽपि करुणानिधिरीश्वरः । अभयं दत्तवांस्तेभ्यो बस्तवक्त्रेण तं मनुम् ॥ 42॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,42,10901,अजीवयन्महात्मासौ ततः खिन्नो महेश्वरः । यज्ञवाटमुपागम्य रुरोद भृशदुःखितः ॥ 43॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,43,10902,अपश्यत्तां सतीं वह्नौ दह्यमानां तु चित्कलाम् । स्कन्धेऽप्यारोपयामास हा सतीति वदन्मुहुः ॥ 44॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,44,10903,बभ्राम भ्रान्तचित्तः सन्नानादेशेषु शङ्करः । तदा ब्रह्मादयो देवाश्चिन्तामापुरनुत्तमाम् ॥ 45॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,45,10904,विष्णुस्तु त्वरया तत्र धनुरुद्यम्य मार्गणैः । चिच्छेदावयवान्सत्यास्तत्तत्स्थानेषु तेऽपतन् ॥ 46॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,46,10905,तत्तत्स्थानेषु तत्रासीन्नानामूर्तिधरो हरः । उवाच च ततो देवान्स्थानेष्वेतेषु ये शिवाम् ॥ 47॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,47,10906,भजन्ति परया भक्त्या तेषां किञ्चिन्न दुर्लभम् । नित्यं सन्निहिता यत्र निजाङ्गेषु पराम्बिका ॥ 48॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,48,10907,स्थानेष्वेतेषु ये मर्त्याः पुरश्चरणकर्मिणः । तेषां मन्त्राः प्रसिद्ध्यन्ति मायाबीजं विशेषतः ॥ 49॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,49,10908,इत्युक्त्वा शङ्करस्तेषु स्थानेषु विरहातुरः । कालं निन्ये नृपश्रेष्ठ जपध्यानसमाधिभिः ॥ 50॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,50,10909,जनमेजय उवाच - कानि स्थानानि तानि स्युः सिद्धपीठानि चानघ । कति सङ्ख्यानि नामानि कानि तेषां च मे वद ॥ 51॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,51,10910,तत्र स्थितानां देवीनां नामानि च कृपाकर । कृतार्थोऽहं भवे येन तद्वदाशु महामुने ॥ 52॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,52,10911,व्यास उवाच - श‍ृणु राजन्प्रवक्ष्यामि देवेपीठानि साम्प्ततम् । येषां श्रवणमात्रेण पापहीनो भवेन्नरः ॥ 53॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,53,10912,येषु येषु च पीठेषूपास्येयं सिद्धिकाङ्क्षिभिः । भूतिकामैरभिध्येया तानि वक्ष्यामि तत्त्वतः ॥ 54॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,54,10913,वाराणस्यां विशालाक्षी गौरीमुखनिवासिनी । क्षेत्रे वै नैमिषारण्ये प्रोक्ता सा लिङ्गधारिणी ॥ 55॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,55,10914,प्रयागे ललिता प्रोक्ता कामुकी गन्धमादने । मानसे कुमुदा प्रोक्ता दक्षिणे चोत्तरे तथा ॥ 56॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,56,10915,विश्वकामा भगवती विश्वकामप्रपूरणी । गोमन्ते गोमती देवी मन्दरे कामचारिणी ॥ 57॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,57,10916,मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे । गौरी प्रोक्ता कान्यकुब्जे रम्भा तु मलयाचले ॥ 58॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,58,10917,एकाम्रपीठे सम्प्रोक्ता देवी सा कीर्तिमत्यपि । विश्वे विश्वेश्वरीं प्राहुः पुरुहूतां च पुष्करे ॥ 59॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,59,10918,केदारपीठे सम्प्रोक्ता देवी सन्मार्गदायिनी । मन्दा हिमवतः पृष्ठे गोकर्णे भद्रकर्णिका ॥ 60॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,60,10919,स्थानेश्वरे भवानी तु बिल्वले बिल्वपत्रिका । श्रीशैले माधवी प्रोक्ता भद्रा भद्रेश्वरे तथा ॥ 61॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,61,10920,वराहशैले तु जया कमला कमलालये । रुद्राणी रुद्रकोट्यां तु काली कालञ्जरे तथा ॥ 62॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,62,10921,शालग्रामे महादेवी शिवलिङ्गे जलप्रिया । महालिङ्गे तु कपिला माकोटे मुकुटेश्वरी ॥ 63॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,63,10922,मायापुर्यां कुमारी स्यात्सन्ताने ललिताम्बिका । गयायां मङ्गला प्रोक्ता विमला पुरुषोत्तमे ॥ 64॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,64,10923,उत्पलाक्षी सहस्राक्षे हिरण्याक्षे महोत्पला । विपाशायाममोघाक्षी पाडला पुण्ड्रवर्धने ॥ 65॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,65,10924,नारायणी सुपार्श्वे तु त्रिकुटे रुद्रसुन्दरी । विपुले विपुला देवी कल्याणी मलयाचले ॥ 66॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,66,10925,सह्याद्रावेकवीरा तु हरिश्चन्द्रे तु चन्द्रिका । रमणा रामतीर्थे तु यमुनायां मृगावती ॥ 67॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,67,10926,कोटवी कोटतीर्थे तु सुगन्धा माधवे वने । गोदावर्यां त्रिसन्ध्या तु गङ्गाद्वारे रतिप्रिया ॥ 68॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,68,10927,शिवकुण्डे शुभानन्दा नन्दिनी देविकातटे । रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ॥ 69॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,69,10928,देवकी मथुरायां तु पाताले परमेश्वरी । चित्रकूटे तथा सीता विन्ध्ये विन्ध्याधिवासिनी ॥ 70॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,70,10929,करवीरे महालक्षीरुमा देवी विनायके । आरोग्या वैद्यनाथे तु महाकाले महेश्वरी ॥ 71॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,71,10930,अभयेत्युष्णतीर्थेषु नितम्बा विन्ध्यपर्वते । माण्डव्ये माण्डवी नाम स्वाहा माहेश्वरीपुरे ॥ 72॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,72,10931,छगलण्डे प्रचण्डा तु चण्डीकामरकण्टके । सोमेश्वरे वरारोहा प्रभासे पुष्करावती ॥ 73॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,73,10932,देवमाता सरस्वत्यां पारावारा तटे स्मृता । महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी ॥ 74॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,74,10933,सिंहिका कृतशौचे तु कार्तिके त्वतिशाङ्करी । उत्पलावर्तके लोला सुभद्रा शोणसङ्गमे ॥ 75॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,75,10934,माता सिद्धवने लक्ष्मीरनङ्गा भरताश्रमे । जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते ॥ 76॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,76,10935,देवदारुवने पुष्टिर्मेधा काश्मीरमण्डले । भीमा देवी हिमाद्रौ तु तुष्टिर्विश्वेश्वरे तथा ॥ 77॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,77,10936,कपालमोचने शुद्धिर्माता कामावरोहणे । शङ्खोद्धारे धारा नाम धृतिः पिण्डारके तथा ॥ 78॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,78,10937,कला तु चन्द्रभागायामच्छोदे शिवधारिणी । वेणायाममृता नाम बदर्यामुर्वशी तथा ॥ 79॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,79,10938,औषधिश्चोत्तरकुरौ कुशद्वीपे कुशोदका । मन्मथा हेमकूटे तु कुमुदे सत्यवादिनी ॥ 80॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,80,10939,अश्वत्थे वन्दनीया तु निधिर्वैश्रवणालये । गायत्री वेदवदने पार्वती शिवसन्निधौ ॥ 81॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,81,10940,देवलोके तथेन्द्राणी ब्रह्मास्येषु सरस्वती । सूर्यबिम्बे प्रभा नाम मातॄणां वैष्णवी मता ॥ 82॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,82,10941,अरुन्धती सतीनां तु रामासु च तिलोत्तमा । चित्ते ब्रह्मकला नाम शक्तिः सर्वशरीरिणाम् ॥ 83॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,83,10942,इमान्यष्ट शतानि स्युः पीठानि जनमेजय । तत्सङ्ख्याकास्तदीशान्यो देव्यश्च परिकीर्तिताः ॥ 84॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,84,10943,सतीदेव्यङ्गभूतानि पीठानि कथितानि च । अन्यान्यपि प्रसङ्गेन यानि मुख्यानि भूतले ॥ 85॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,85,10944,यः स्मरेच्छृणुयाद्वापि नामाष्टशतमुत्तमम् । सर्वपापविनिर्मुक्तो देवीलोकं परं व्रजेत् ॥ 86॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,86,10945,एतेषु सर्वपीठेषु गच्छेद्यात्राविधानतः । सन्तर्पयेच्च पित्रादीञ्छ्राद्धादीनि विधाय च ॥ 87॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,87,10946,कुर्याच्च महतीं पूजां भगवत्या विधानतः । क्षमापयेज्जगधात्रीं जगदम्बां मुहुर्मुहुः ॥ 88॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,88,10947,कृतकृत्यं स्वमात्मानं जानीयाज्जनमेजय । भक्ष्यभोज्यादिभिः सर्वान्ब्राह्मणान्भोजयेत्ततः ॥ 89॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,89,10948,सुवासिनीः कुमारीश्च बटुकादींस्तथा नृप । तस्मिन्क्षेत्रे स्थिता ये तु चाण्डालाद्या अपि प्रभो ॥ 90॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,90,10949,देवीरूपाः स्मृताः सर्वे पूजनीयास्ततो हि ते । प्रतिग्रहादिकं सर्वं तेषु क्षेत्रेषु वर्जयेत् ॥ 91॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,91,10950,यथाशक्ति पुरश्चर्यां कुर्यान्मन्त्रस्य सत्तमः । मायाबीजेन देवेशीं तत्तत्पीठाधिवासिनीम् ॥ 92॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,92,10951,पूजयेदनिशं राजन् पुरश्चरणकृद्भवेत् । वित्तशाठ्यं न कुर्वीत देवीभक्तिपरो नरः ॥ 93॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,93,10952,य एवं कुरुते यात्रां श्रीदेव्याः प्रीतमानसः । सहस्रकल्पपर्यन्तं ब्रह्मलोके महत्तरे ॥ 94॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,94,10953,वसन्ति पितरस्तस्य सोऽपि देवीपुरे तथा । अन्ते लब्ध्वा परं ज्ञानं भवेन्मुक्तो भवाम्बुधेः ॥ 95॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,95,10954,नामाष्टशतजापेन बहवः सिद्धतां गताः । यत्रैतल्लिखितं साक्षात्पुस्तके वापि तिष्ठति ॥ 96॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,96,10955,ग्रहमारीभयादीनि तत्र नैव भवन्ति हि । सौभाग्यं वर्धते नित्यं यथा पर्वणि वारिधिः ॥ 97॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,97,10956,न तस्य दुर्लभं किञ्चिन्नामाष्टशतजापिनः । कृतकृत्यो भवेन्नूनं देवीभक्तिपरायणः ॥ 98॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,98,10957,नमन्ति देवतास्तं वै देवीरूपो हि स स्मृतः । सर्वथा पूज्यते देवैः किं पुनर्मनुजोत्तमैः ॥ 99॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,99,10958,श्राद्धकाले पठेदेतन्नामाष्टशतमुत्तमम् । तृप्तास्तत्पितरः सर्वे प्रयान्ति परमां गतिम् ॥ 100॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,100,10959,इमानि मुक्तिक्षेत्राणि साक्षात्संविन्मयानि च । सिद्धपीठानि राजेन्द्र संश्रयेन्मतिमान्नरः ॥ 101॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,101,10960,पृष्टं यत्तत्त्वया राजन्नुक्तं सर्वं महेशितुः । रहस्यातिरहस्यं च किं भूयः श्रोतुमिच्छसि ॥ 102॥ 7,७.३०,त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।,102,10961,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे देवीपीठवर्णनं नाम त्रिंशोऽध्यायः ॥ ७.३०॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,0,10962,जनमेजय उवाच । धराधराधीशमौलावाविरासीत्परं महः । यदुक्तं भवता पूर्वं विस्तरात्तद्वदस्व मे ॥ 1॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,1,10963,को विरज्येत मतिमान् पिबञ्छक्तिकथामृतम् । सुधां तु पिबतां मृत्युः स नैतच्छृण्वतो भवेत् ॥ 2॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,2,10964,व्यास उवाच । धन्योऽसि कृतकृत्योऽसि शिक्षितोऽसि महात्मभिः । भाग्यवानसि यद्देव्यां निर्व्याजा भक्तिरस्ति ते ॥ 3॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,3,10965,श‍ृणु राजन्पुरा वृत्तं सतीदेहेऽग्निभर्जिते । भ्रान्तः शिवस्तु बभ्राम क्वचिद्देशे स्थिरोऽभवत् ॥ 4॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,4,10966,प्रपञ्चभानरहितः समाधिगतमानसः । ध्यायन्देवीस्वरूपं तु कालं निन्ये स आत्मवान् ॥ 5॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,5,10967,सौभाग्यरहितं जातं त्रैलोक्यं सचराचरम् । शक्तिहीनं जगत्सर्वं साब्धिद्वीपं सपर्वतम् ॥ 6॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,6,10968,आनन्दः शुष्कतां यातः सर्वेषां हृदयान्तरे । उदासीनाः सर्वलोकाश्चिन्ताजर्जरचेतसः ॥ 7॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,7,10969,सदा दुःखोदधौ मग्ना रोगग्रस्तास्तदाभवन् । ग्रहाणां देवतानां च वैपरीत्येन वर्तनम् ॥ 8॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,8,10970,अधिभूताधिदैवानां सत्यभावान्नृपाभवन् । अथाऽस्मिन्नेव काले तु तारकाख्यो महसुरः ॥ 9॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,9,10971,ब्रह्मदत्तवरो दैत्योऽभवत्त्रैलोक्यनायकः । शिवौरसस्तु यः पुत्रः स ते हन्ता भविष्यति ॥ 10॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,10,10972,इति कल्पितमृत्युः स देवदेवैर्महासुरः । शिवौरससुताभावाज्जगर्ज च ननन्द च ॥ 11॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,11,10973,तेन चोपद्रुताः सर्वे स्वस्थानात्प्रच्युताः सुराः । शिवौरससुताभावाच्चिन्तामापुर्दुरत्ययाम् ॥ 12॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,12,10974,नाङ्गना शङ्करस्यास्ति कथं तत्सुतसम्भवः । अस्माकं भाग्यहीनानां कथं कार्यं भविष्यति ॥ 13॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,13,10975,इति चिन्तातुराः सर्वे जग्मुर्वैकुण्ठमण्डले । शशंसुर्हरिमेकान्ते स चोपायं जगाद ह ॥ 14॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,14,10976,कुतश्चिन्तातुराः सर्वे कामकल्पद्रुमा शिवा । जागर्ति भूवनेशानी मणिद्वीपाधिवासिनी ॥ 15॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,15,10977,अस्माकमनया देव तदुपेक्षास्ति नान्यथा । शिक्षैवेयं जगन्मात्रा कृतास्मच्छिक्षणाय च ॥ 16॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,16,10978,लालने ताडने मातुर्नाकारुण्यं यथार्भके । तद्वदेव जगन्मातुर्नियन्त्र्या गुणदोषयोः ॥ 17॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,17,10979,अपराधो भवत्येव तनयस्य पदे पदे । कोऽपरः सहते लोके केवलं मातरं विना ॥ 18॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,18,10980,तस्माद्यूयं पराम्बां तां शरणं यात मा चिरम् । निर्व्याजया चित्तवृत्त्या सा वः कार्यं विधास्यति ॥ 19॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,19,10981,इत्यादिश्य सुरान्सर्वान्महाविष्णुः स्वजायया । संयुतो निर्जगामाशु देवैः सह सुराधिपः ॥ 20॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,20,10982,आजगाम महाशैलं हिमवन्तं नगाधिपम् । अभवंश्च सुराः सर्वे पुरश्चरणकर्मिणः ॥ 21॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,21,10983,अम्बायज्ञविधानज्ञा अम्बायज्ञं च चक्रिरे । तृतीयादिव्रतान्याशु चक्रुः सर्वे सुरा नृप ॥ 22॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,22,10984,केचित्समाधिनिष्णाताः केचिन्नामपरायणाः । केचित्सूक्तपराः केचिन्नामपारायणोत्सुकाः ॥ 23॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,23,10985,मन्त्रपारायणपराः केचित्कृच्छ्रादिकारिणः । अन्तर्यागपराः केचित्केचिन्न्यासपरायणाः ॥ 24॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,24,10986,हृल्लेखया पराशक्तेः पूजां चक्रुरतन्द्रिताः । इत्येवं बहुवर्षाणि कालोऽगाज्जनमेजय ॥ 25॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,25,10987,अकस्माच्चैत्रमासीयनवम्यां च भृगोर्दिने । प्रादुर्बभूव पुरतस्तन्महः श्रुतिबोधितम् ॥ 26॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,26,10988,चतुर्दिक्षु चतुर्वेदैर्मूर्तिमद्भिरभिष्टुतम् । कोटिसूर्यप्रतीकाशं चन्द्रकोटिसुशीतलम् ॥ 27॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,27,10989,विद्युत्कोटिसमानाभमरुणं तत्परं महः । नैव चोर्ध्वं न तिर्यक्च न मध्ये परिजग्रभत् ॥ 28॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,28,10990,आद्यन्तरहितं तत्तु न हस्ताद्यङ्गसंयुतम् । न च स्त्रीरूपमथवा न पुंरूपमथोभयम् ॥ 29॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,29,10991,दीप्त्या पिधानं नेत्राणां तेषामासीन्महीपते । पुनश्च धैर्यमालम्ब्य यावत्ते ददृशुः सुराः ॥ 30॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,30,10992,तावत्तदेव स्त्रीरूपेणाभाद्दिव्यं मनोहरम् । अतीव रमणीयाङ्गीं कुमारीं नवयौवनाम् ॥ 31॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,31,10993,उद्यत्पीनकुचद्वन्द्वनिन्दिताम्भोजकुड्मलाम् । रणत्किङ्किणिकाजालसिञ्जन्मञ्जीरमेखलाम् ॥ 32॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,32,10994,कनकाङ्गदकेयूरग्रैवेयकविभूषिताम् । अनर्घ्यमणिसम्भिन्नगलबन्धविराजिताम् ॥ 33॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,33,10995,तनुकेतकसंराजन्नीलभ्रमरकुन्तलाम् । नितम्बबिम्बसुभगां रोमराजिविराजिताम् ॥ 34॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,34,10996,कर्पूरशकलोन्मिश्रताम्बूलपूरिताननाम् । कनत्कनकताटङ्कविटङ्कवदनाम्बुजाम् ॥ 35॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,35,10997,अष्टमीचन्द्रबिम्बाभललाटामायतभ्रुवम् । रक्तारविन्दनयनामुन्नसां मधुराधराम् ॥ 36॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,36,10998,कुन्दकुड्मलदन्ताग्रां मुक्ताहारविराजिताम् । रत्नसम्भिन्नमुकुटां चन्द्ररेखावतंसिनीम् ॥ 37॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,37,10999,मल्लिकामालतीमालाकेशपाशविराजिताम् । काश्मीरबिन्दुनिटिलां नेत्रत्रयविलासिनीम् ॥ 38॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,38,11000,पाशाङ्कुशवराभीतिचतुर्बाहुं त्रिलोचनाम् । रक्तवस्त्रपरीधानां दाडिमीकुसुमप्रभाम् ॥ 39॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,39,11001,सर्वश‍ृङ्गारवेषाढ्यां सर्वदेवनमस्कृताम् । सर्वाशापूरिकां सर्वमातरं सर्वमोहिनीम् ॥ 40॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,40,11002,प्रसादसुमुखीमम्बां मन्दस्मितमुखाम्बुजाम् । अव्याजकरुणामूर्तिं ददृशुः पुरतः सुराः ॥ 41॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,41,11003,दृष्ट्वा तां करुणामुर्तिं प्रणेमुः सकलाः सुराः । वक्तुं नाशक्नुवन् किञ्चिद्वाष्पसंरुद्धनिःस्वनाः ॥ 42॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,42,11004,कथञ्चित्स्थैर्यमालम्ब्य भक्त्या चानतकन्धराः । प्रेमाश्रुपूर्णनयनास्तुष्टुवुर्जगदम्बिकाम् ॥ 43॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,43,11005,देवा ऊचुः । नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ 44॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,44,11006,तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् । दुर्गां देवीं शरणमहं प्रपद्ये सुतरसि तरसे नमः ॥ 45॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,45,11007,देवीं वाचमजनयन्त देवा- स्तां विश्वरूपाः पशवो वदन्ति । सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुपसुष्टुतैतु ॥ 46॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,46,11008,कालरात्रिं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम् । सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवाम् ॥ 47॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,47,11009,महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि । तन्नो देवी प्रचोदयात् ॥ 48॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,48,11010,नमो विराट्स्वरूपिण्यै नमः सूत्रात्ममूर्तये । नमोऽव्याकृतरूपिण्यै नमः श्रीब्रह्ममूर्तये ॥ 49॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,49,11011,यदज्ञानाज्जगद्भाति रज्जुसर्पस्रगादिवत् । यज्ज्ञानाल्लयमाप्नोति नुमस्तां भुवनेश्वरीम् ॥ 50॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,50,11012,नुमस्तत्पदलक्ष्यार्थां चिदेकरसरूपिणीम् । अखण्डानन्दरूपां तां वेदतात्पर्यभूमिकाम् ॥ 51॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,51,11013,पञ्चकोशातिरिक्तां तामवस्थात्रयसाक्षिणीम् । नुमस्त्वम्पदलक्ष्यार्थां प्रत्यगात्मस्वरूपिणीम् ॥ 52॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,52,11014,नमः प्रणवरूपायै नमो ह्रीङ्कारमूर्तये । नानामन्त्रात्मिकायै ते करुणायै नमो नमः ॥ 53॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,53,11015,इति स्तुता तदा देवैर्मणिद्वीपाधिवासिनी । प्राह वाचा मधुरया मत्तकोकिलनिःस्वना ॥ 54॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,54,11016,श्रीदेव्युवाच । वदन्तु विबुधाः कार्यं यदर्थमिह सङ्गताः । वरदाहं सदा भक्तकामकल्पद्रुमास्मि च ॥ 55॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,55,11017,तिष्ठन्त्यां मयि का चिन्ता युष्माकं भक्तिशालिनाम् । समुद्धरामि मद्भक्तान्दुःखसंसारसागरात् ॥ 56॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,56,11018,इति प्रतिज्ञां मे सत्यां जानीथ विबुधोत्तमाः । इति प्रेमाकुलां वाणीं श्रुत्वा सन्तुष्टमानसाः ॥ 57॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,57,11019,निर्भया निर्जरा राजन्नूचुर्दुःखं स्वकीयकम् । देवा ऊचुः । नाज्ञातं किञ्चिदप्यत्र भवत्यास्ति जगत्त्रये ॥ 58॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,58,11020,सर्वज्ञया सर्वसाक्षिरूपिण्या परमेश्वरि । तारकेणासुरेन्द्रेण पीडिताः स्मो दिवानिशम् ॥ 59॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,59,11021,शिवाङ्गजाद्वधस्तस्य निर्मितो ब्रह्मणा शिवे । शिवाङ्गना तु नैवास्ति जानासि त्वं महेश्वरि ॥ 60॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,60,11022,सर्वज्ञपुरतः किं वा वक्तव्यं पामरैर्जनैः । एतदुद्देशतः प्रोक्तमपरं तर्कयाम्बिके ॥ 61॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,61,11023,सर्वदा चरणाम्भोजे भक्तिः स्यात्तव निश्चला । प्रार्थनीयमिदं मुख्यमपरं देहहेतवे ॥ 62॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,62,11024,इति तेषां वचः श्रुत्वा प्रोवाच परमेश्वरी । मम शक्तिस्तु या गौरी भविष्यति हिमालये ॥ 63॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,63,11025,शिवाय सा प्रदेया स्यात्सा वः कार्यं विधास्यति । भक्तिर्यच्चरणाम्भोजे भूयाद्युष्माकमादरात् ॥ 64॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,64,11026,हिमालयो हि मनसा मामुपास्तेऽतिभक्तितः । ततस्तस्य गृहे जन्म मम प्रियकरं मतम् ॥ 65॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,65,11027,व्यास उवाच । हिमालयोऽपि तच्छ्रुत्वात्यनुग्रहकरं वचः । बाष्पैः संरुद्धकण्ठाक्षो महाराज्ञीं वचोऽब्रवीत् ॥ 66॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,66,11028,महत्तरं तं कुरुषे यस्यानुग्रहमिच्छसि । नोचेत्क्वाहं जडः स्थाणुः क्व त्वं सच्चित्स्वरूपिणी ॥ 67॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,67,11029,असम्भाव्यं जन्मशतैस्त्वत्पितृत्वं ममानघे । अश्वमेधादिपुण्यैर्वा पुण्यैर्वा तत्समाधिजैः ॥ 68॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,68,11030,अद्य प्रपञ्चे कीर्तिः स्याज्जगन्माता सुताभवत् । अहो हिमालयस्यास्य धन्योऽसौ भाग्यवानिति ॥ 69॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,69,11031,यस्यास्तु जठरे सन्ति ब्रह्माण्डानां च कोटयः । सैव यस्य सुता जाता को वा स्यात्तत्समो भुवि ॥ 70॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,70,11032,न जानेऽस्मत्पितॄणां किं स्थानं स्यान्निर्मितं परम् । एतादृशानां वासाय येषां वंशेऽस्ति मादृशः ॥ 71॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,71,11033,इदं यथा च दत्तं मे कृपया प्रेमपूर्णया । सर्ववेदान्तसिद्धं च त्वद्रूपं ब्रूहि मे तथा ॥ 72॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,72,11034,योगं च भक्तिसहितं ज्ञानं च श्रुतिसम्मतम् । वदस्व परमेशानि त्वमेवाहं यतो भवेः ॥ 73॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,73,11035,व्यास उवाच । इति तस्य वचः श्रुत्वा प्रसन्नमुखपङ्कजा । वक्तुमारभताम्बा सा रहस्यं श्रुतिगूहितम् ॥ 74॥ 7,७.३१,एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।,74,11036,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनं नामैकत्रिंशोऽध्यायः ॥ ७.३१॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,0,11037,श्रीदेव्युवाच । श‍ृण्वन्तु निर्जराः सर्वे व्याहरन्त्या वचो मम । यस्य श्रवणमात्रेण मद्रूपत्वं प्रपद्यते ॥ 1॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,1,11038,अहमेवास पूर्वं तु नान्यत्किञ्चिन्नगाधिप । तदात्मरूपं चित्संवित्परब्रह्मैकनामकम् ॥ 2॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,2,11039,अप्रतर्क्यमनिर्देश्यमनौपम्यमनामयम् । तस्य काचित्स्वतः सिद्धा शक्तिर्मायेति विश्रुता ॥ 3॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,3,11040,न सती सा नासती सा नोभयात्मा विरोधतः । एतद्विलक्षणा काचिद्वस्तुभूतास्ति सर्वदा ॥ 4॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,4,11041,पावकस्योष्णतेवेयमुष्णांशोरिव दीधितिः । चन्द्रस्य चन्द्रिकेवेयं ममेयं सहजा ध्रुवा ॥ 5॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,5,11042,तस्यां कर्माणि जीवानां जीवाः कालाश्च सञ्चरे । अभेदेन विलीनाः स्युः सुषुप्तौ व्यवहारवत् ॥ 6॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,6,11043,स्वशक्तेश्च समायोगादहं बीजात्मतां गता । स्वाधारावरणात्तस्या दोषत्वं च समागतम् ॥ 7॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,7,11044,चैतन्यस्य समायोगान्निमित्तत्वं च कथ्यते । प्रपञ्चपरिणामाच्च समवायित्वमुच्यते ॥ 8॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,8,11045,केचित्तां तप इत्याहुस्तमः केचिज्जडं परे । ज्ञानं मायां प्रधानं च प्रकृतिं शक्तिमप्यजाम् ॥ 9॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,9,11046,विमर्श इति तां प्राहुः शैवशास्त्रविशारदाः । अविद्यामितरे प्राहुर्वेदतत्त्वार्थचिन्तकाः ॥ 10॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,10,11047,एवं नानाविधानि स्युर्नामानि निगमादिषु । तस्या जडत्वं दृश्यत्वाज्ज्ञाननाशात्ततोऽसती ॥ 11॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,11,11048,चैतन्यस्य न दृश्यत्वं दृश्यत्वे जडमेव तत् । स्वप्रकाशं च चैतन्यं न परेण प्रकाशितम् ॥ 12॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,12,11049,अनवस्थादोषसत्त्वान्न स्वेनापि प्रकाशितम् । कर्मकर्त्रीविरोधः स्यात्तस्मात्तद्दीपवत्स्वयम् ॥ 13॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,13,11050,प्रकाशमानमन्येषां भासकं विद्धि पर्वत । अत एव च नित्यत्वं सिद्धसंवित्तनोर्मम ॥ 14॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,14,11051,जाग्रत्स्वप्नसुषुप्त्यादौ दृश्यस्य व्यभिचारतः । संविदो व्यभिचारश्च नानुभूतोऽस्ति कर्हिचित् ॥ 15॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,15,11052,यदि तस्याप्यनुभवस्तर्ह्ययं येन साक्षिणा । अनुभूतः स एवात्र शिष्टः संविद्वपुः पुरा ॥ 16॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,16,11053,अत एव च नित्यत्वं प्रोक्तं सच्छास्त्रकोविदैः । आनन्दरूपता चास्याः परप्रेमास्पदत्वतः ॥ 17॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,17,11054,मा न भूवं हि भूयासमिति प्रेमात्मनि स्थितम् । सर्वस्यान्यस्य मिथ्यात्वादसङ्गत्वं स्फुटं मम ॥ 18॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,18,11055,अपरिच्छिन्नताप्येवमत एव मता मम । तच्च ज्ञानं नात्मधर्मो धर्मत्वे जडताऽऽत्मनः ॥ 19॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,19,11056,ज्ञानस्य जडशेषत्वं न दृष्टं न च सम्भवि । चिद्धर्मत्वं तथा नास्ति चितश्चिन्न हि भिद्यते ॥ 20॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,20,11057,तस्मादात्मा ज्ञानरूपः सुखरूपश्च सर्वदा । सत्यः पूर्णोऽप्यसङ्गश्च द्वैतजालविवर्जितः ॥ 21॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,21,11058,स पुनः कामकर्मादियुक्तया स्वीयमायया । पूर्वानुभूतसंस्कारात् कालकर्मविपाकतः ॥ 22॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,22,11059,अविवेकाच्च तत्त्वस्य सिसृक्षावान्प्रजायते । अबुद्धिपूर्वः सर्गोऽयं कथितस्ते नगाधिप ॥ 23॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,23,11060,एतद्धि यन्मया प्रोक्तं मम रूपमलौकिकम् । अव्याकृतं तदव्यक्तं मायाशबलमित्यपि ॥ 24॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,24,11061,प्रोच्यते सर्वशास्त्रेषु सर्वकारणकारणम् । तत्त्वानामादिभूतं च सच्चिदानन्दविग्रहम् ॥ 25॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,25,11062,सर्वकर्मघनीभूतमिच्छाज्ञानक्रियाश्रयम् । ह्रीङ्कारमन्त्रवाच्यं तदादितत्त्वं तदुच्यते ॥ 26॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,26,11063,तस्मादाकाश उत्पन्नः शब्दतन्मात्ररूपकः । भवेत्स्पर्शात्मको वायुस्तेजोरूपात्मकं पुनः ॥ 27॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,27,11064,जलं रसात्मकं पश्चात्ततो गन्धात्मिका धरा । शब्दैकगुण आकाशो वायुः स्पर्शरवान्वितः ॥ 28॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,28,11065,शब्दस्पर्शरूपगुणं तेज इत्युच्यते बुधैः । शब्दस्पर्शरूपरसैरापो वेदगुणाः स्मृताः ॥ 29॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,29,11066,शब्दस्पर्शरूपरसगन्धैः पञ्चगुणा धरा । तेभ्योऽभवन्महत्सूत्रं यल्लिङ्गं परिचक्षते ॥ 30॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,30,11067,सर्वात्मकं तत्सम्प्रोक्तं सूक्ष्मदेहोऽयमात्मनः । अव्यक्तं कारणो देहः स चोक्तः पूर्वमेव हि ॥ 31॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,31,11068,यस्मिञ्जगद्बीजरूपं स्थितं लिङ्गोद्भवो यतः । ततः स्थूलानि भूतानि पञ्चीकरणमार्गतः ॥ 32॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,32,11069,पञ्चसङ्ख्यानि जायन्ते तत्प्रकारस्त्वथोच्यते । पूर्वोक्तानि च भूतानि प्रत्येकं विभजेद् द्विधा ॥ 33॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,33,11070,एकैकं भागमेकस्य चतुर्धा विभजेद् गिरे । स्वस्वेतरद्वितीयांशे योजनात्पञ्च पञ्च ते ॥ 34॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,34,11071,तत्कार्यं च विराड्देहः स्थूलदेहोऽयमात्मनः । पञ्चभूतस्थसत्त्वांशैः श्रोत्रादीनां समुद्भवः ॥ 35॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,35,11072,ज्ञानेन्द्रियाणां राजेन्द्र प्रत्येकं मिलितैस्तु तैः । अन्तःकरणमेकं स्याद् वृत्तिभेदाच्चतुर्विधम् ॥ 36॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,36,11073,यदा तु सङ्कल्पविकल्पकृत्यं तदा भवेत्तन्मन इत्यभिख्यम् । स्याद् बुद्धिसंज्ञं च यदा प्रवेत्ति सुनिश्चितं संशयहीनरूपम् ॥ 37॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,37,11074,अनुसन्धानरूपं तच्चित्तं च परिकीर्तितम् । अहङ्कृत्यात्मवृत्त्या तु तदहङ्कारतां गतम् ॥ 38॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,38,11075,तेषां रजोंशैर्जातानि क्रमात्कर्मेन्द्रियाणि च । प्रत्येकं मिलितैस्तैतु प्राणो भवति पञ्चधा ॥ 39॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,39,11076,हृदि प्राणो गुदेऽपानो नाभिस्थस्तु समानकः । कण्ठदेशेऽप्युदानः स्याद् व्यानः सर्वशरीरगः ॥ 40॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,40,11077,ज्ञानेन्द्रियाणि पञ्चैव पञ्चकर्मेन्द्रियाणि च । प्राणादिपञ्चकं चैव धिया च सहितं मनः ॥ 41॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,41,11078,एतत्सूक्ष्मशरीरं स्यान्मम लिङ्गं यदुच्यते । तत्र या प्रकृतिः प्रोक्ता सा राजन्द्विविधा स्मृता ॥ 42॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,42,11079,सत्त्वात्मिका तु माया स्यादविद्या गुणमिश्रिता । स्वाश्रयं या तु संरक्षेत्सा मायेति निगद्यते ॥ 43॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,43,11080,तस्यां यत्प्रतिबिम्बं स्याद्बिम्बभूतस्य चेशितुः । स ईश्वरः समाख्यातः स्वाश्रयज्ञानवान्परः ॥ 44॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,44,11081,सर्वज्ञः सर्वकर्ता च सर्वानुग्रहकारकः । अविद्यायां तु यत्किञ्चित्प्रतिबिम्बं नगाधिप ॥ 45॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,45,11082,तदेव जीवसंज्ञं स्यात्सर्वदुःखाश्रयं पुनः । द्वयोरपीह सम्प्रोक्तं देहत्रयमविद्यया ॥ 46॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,46,11083,देहत्रयाभिमानाच्चाप्यभून्नामत्रयं पुनः । प्राज्ञस्तु कारणात्मा स्यात्सूक्ष्मदेही तु तैजसः ॥ 47॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,47,11084,स्थूलदेही तु विश्वाख्यस्त्रिविधः परिकीर्तितः । एवमीशोऽपि सम्प्रोक्त ईशसूत्रविराट्पदैः ॥ 48॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,48,11085,प्रथमो व्यष्टिरूपस्तु समष्ट्यात्मा परः स्मृतः । स हि सर्वेश्वरः साक्षाज्जीवानुग्रहकाम्यया ॥ 49॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,49,11086,करोति विविधं विश्वं नानाभोगाश्रयं पुनः । मच्छक्तिप्रेरितो नित्यं मयि राजन्प्रकल्पितः ॥ 50॥ 7,७.३२,द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।,50,11087,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे देवीगीतायां देव्या व्यष्टिसमष्टिरूपवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ७.३२॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,0,11088,देव्युवाच । मन्मायाशक्तिसङ्क्लृप्तं जगत्सर्वं चराचरम् । सापि मत्तः पृथङ्माया नास्त्येव परमार्थतः ॥ 1॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,1,11089,व्यवहारदृशा सेयं विद्या मायेति विश्रुता । तत्त्वदृष्ट्या तु नास्त्येव तत्त्वमेवास्ति केवलम् ॥ 2॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,2,11090,साहं सर्वं जगत्सृष्ट्वा तदन्तः प्रविशाम्यहम् । मायाकर्मादिसहिता गिरे प्राणपुरःसरा ॥ 3॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,3,11091,लोकान्तरगतिर्नोचेत्कथं स्यादिति हेतुना । यथा यथा भवन्त्येव मायाभेदास्तथा तथा ॥ 4॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,4,11092,उपाधिभेदाद्भिन्नाहं घटाकाशादयो यथा । उच्चनीचादिवस्तूनि भासयन्भास्करः सदा ॥ 5॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,5,11093,न दुष्यति तथैवाहं दोषैर्लिप्ता कदापि न । मयि बुद्ध्यादिकर्तृत्वमध्यस्यैवापरे जनाः ॥ 6॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,6,11094,वदन्ति चात्मा कर्मेति विमूढा न सुबुद्धयः । अज्ञानभेदतस्तद्वन्मायाया भेदतस्तथा ॥ 7॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,7,11095,जीवेश्वरविभागश्च कल्पितो माययैव तु । घटाकाशमहाकाशविभागः कल्पितो यथा ॥ 8॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,8,11096,तथैव कल्पितो भेदो जीवात्मपरमात्मनोः । यथा जीवबहूत्वं च माययैव न च स्वतः ॥ 9॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,9,11097,तथेश्वरबहुत्वं च मायया न स्वभावतः । देहेन्द्रियादिसङ्घातवासनाभेदभेदिता ॥ 10॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,10,11098,अविद्या जीवभेदस्य हेतुर्नान्यः प्रकीर्तितः । गुणानां वासनाभेदभेदिता या धराधर ॥ 11॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,11,11099,माया सा परभेदस्य हेतुर्नान्यः कदाचन । मयि सर्वमिदं प्रोतमोतं च धरणीधर ॥ 12॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,12,11100,ईश्वरोऽहं च सूत्रात्मा विराडात्माहमस्मि च । ब्रह्माहं विष्णुरुद्रौ च गौरी ब्राह्मी च वैष्णावी ॥ 13॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,13,11101,सूर्योऽहं तारकाश्चाहं तारकेशस्तथास्म्यहम् । पशुपक्षिस्वरूपाहं चाण्डालोऽहं च तस्करः ॥ 14॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,14,11102,व्याधोऽहं क्रूरकर्माहं सत्कर्माहं महाजनः । स्त्रीपुन्नपुंसकाकारोऽप्यहमेव न संशयः ॥ 15॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,15,11103,यच्च किञ्चित्क्वचिद्वस्तु दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्याहं सर्वदा स्थिता ॥ 16॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,16,11104,न तदस्ति मया त्यक्तं वस्तु किञ्चिच्चराचरम् । यद्यस्ति चेत्तच्छून्यं स्याद्वन्ध्यापुत्रोपमं हि तत् ॥ 17॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,17,11105,रज्जुर्यथा सर्पमालाभेदैरेका विभाति हि । तथैवेशादिरूपेण भाम्यहं नात्र संशयः ॥ 18॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,18,11106,अधिष्ठानातिरेकेण कल्पितं तन्न भासते । तस्मान्मत्सत्तयैवैतत्सत्तावान्नान्यथा भवेत् ॥ 19॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,19,11107,हिमालय उवाच । यथा वदसि देवेशि समष्ट्याऽऽत्मवपुस्त्विदम् । तथैव द्रष्टुमिच्छामि यदि देवि कृपा मयि ॥ 20॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,20,11108,व्यास उवाच । इति तस्य वचः श्रुत्वा सर्वे देवाः सविष्णवः । ननन्दुर्मुदितात्मानः पूजयन्तश्च तद्वचः ॥ 21॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,21,11109,अथ देवमतं ज्ञात्वा भक्तकामदुघा शिवा । अदर्शयन्निजं रूपं भक्तकामप्रपूरिणी ॥ 22॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,22,11110,अपश्यंस्ते महादेव्या विराड्रूपं परात्परम् । द्यौर्मस्तकं भवेद्यस्य चन्द्रसूर्यौ च चक्षुषी ॥ 23॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,23,11111,दिशः श्रोत्रे वचो देवाः प्राणो वायुः प्रकीर्तितः । विश्वं हृदयमित्याहुः पृथिवी जघनं स्मृतम् ॥ 24॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,24,11112,नभस्तलं नाभिसरो ज्योतिश्चक्रमुरःस्थलम् । महर्लोकस्तु ग्रीवा स्याज्जनोलोको मुखं स्मृतम् ॥ 25॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,25,11113,तपोलोको रराटिस्तु सत्यलोकादधः स्थितः । इन्द्रादयो बाहवः स्युः शब्दः श्रोत्रं महेशितुः ॥ 26॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,26,11114,नासत्यदस्रौ नासे स्तो गन्धो घ्राणं स्मृतो बुधैः । मुखमग्निः समाख्यातो दिवारात्री च पक्ष्मणी ॥ 27॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,27,11115,ब्रह्मस्थानं भ्रूविजृम्भोऽप्यापस्तालुः प्र्कीर्तिताः । रसो जिह्वा समाख्याता यमो दंष्ट्राः प्रकीर्तिताः ॥ 28॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,28,11116,दन्ताः स्नेहकला यस्य हासो माया प्रकीर्तिता । सर्गस्त्वपाङ्गमोक्षः स्याद् व्रीडोर्ध्वोष्ठो महेशितुः ॥ 29॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,29,11117,लोभः स्यादधरोष्ठोऽस्याधर्ममार्गस्तु पृष्ठभूः । प्रजापतिश्च मेढ्रं स्याद्यः स्रष्टा जगतीतले ॥ 30॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,30,11118,कुक्षिः समुद्रा गिरयोऽस्थीनि देव्या महेशितुः । नद्यो नाड्यः समाख्याता वृक्षाः केशाः प्रकीर्तिताः ॥ 31॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,31,11119,कौमारयौवनजरा वयोऽस्य गतिरुत्तमा । बलाहकास्तु केशाः स्युः सन्ध्ये ते वाससी विभो ॥ 32॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,32,11120,राजञ्छ्रीजगदम्बायाश्चन्द्रमास्तु मनः स्मृतः । विज्ञानशक्तिस्तु हरी रुद्रोऽन्तःकरणं स्मृतम् ॥ 33॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,33,11121,अश्वा हि जातयः सर्वाः श्रोणिदेशे स्थिता विभोः । अतलादिमहालोकाः कट्यधोभागतां गताः ॥ 34॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,34,11122,एतादृशं महारूपं ददृशुः सुरपुङ्गवाः । ज्वालामालासहस्राढ्यं लेलिहानं च जिह्वया ॥ 35॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,35,11123,दंष्ट्राकटकटारावं वमन्तं वह्निमक्षिभिः । नानायुधधरं वीरं ब्रह्मक्षत्रौदनं च यत् ॥ 36॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,36,11124,सहस्रशीर्षनयनं सहस्रचरणं तथा । कोटिसूर्यप्रतीकाशं विद्युत्कोटिसमप्रभम् ॥ 37॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,37,11125,भयङ्करं महाघोरं हृदक्ष्णोस्त्रासकारकम् । ददृशुस्ते सुराः सर्वे हाहाकारं च चक्रिरे ॥ 38॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,38,11126,विकम्पमानहृदया मूर्च्छामापुर्दुरत्ययाम् । स्मरणं च गतं तेषां जगदम्बेयमित्यपि ॥ 39॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,39,11127,अथ ते ये स्थिता वेदाश्चतुर्दिक्षु महाविभोः । बोधयामासुरत्युग्रं मूर्छातो मूर्च्छितान्सुरान् ॥ 40॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,40,11128,अथ ते धैर्यमालम्ब्य लब्ध्वा च श्रुतिमुत्तमाम् । प्रेमाश्रुपूर्णनयना रुद्धकण्ठास्तु निर्जराः ॥ 41॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,41,11129,बाष्पगद्गदया वाचा स्तोतुं समुपचक्रिरे । देवा ऊचुः । अपराधं क्षमस्वाम्ब पाहि दीनांस्त्वदुद्भवान् ॥ 42॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,42,11130,कोपं संहर देवेशि सभया रूपदर्शनात् । का ते स्तुतिः प्रकर्तव्या पामरैर्निर्जरैरिह ॥ 43॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,43,11131,स्वस्याप्यज्ञेय एवासौ यावान्यश्च स्वविक्रमः । तदर्वाग्जायमानानां कथं स विषयो भवेत् ॥ 44॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,44,11132,नमस्ते भुवनेशानि नमस्ते प्रणवात्मिके । सर्ववेदान्तसंसिद्धे नमो ह्रीङ्कारमूर्तये ॥ 45॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,45,11133,यस्मादग्निः समुत्पन्नो यस्मात्सूर्यश्च चन्द्रमाः । यस्मादोषधयः सर्वास्तस्मै सर्वात्मने नमः ॥ 46॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,46,11134,यस्माच्च देवाः सम्भूताः साध्याः पक्षिण एव च । पशवश्च मनुष्याश्च तस्मै सर्वात्मने नमः ॥ 47॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,47,11135,प्राणापानौ व्रीहियवौ तपः श्रद्धा ऋतं तथा । ब्रह्मचर्यं विधिश्चैव यस्मात्तस्मै नमो नमः ॥ 48॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,48,11136,सप्त प्राणार्चिषो यस्मात्समिधः सप्त एव च । होमाः सप्त तथा लोकास्तस्मै सर्वात्मने नमः ॥ 49॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,49,11137,यस्मात्समुद्रा गिरयः सिन्धवः प्रचरन्ति च । यस्मादोषधयः सर्वा रसास्तस्मै नमो नमः ॥ 50॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,50,11138,यस्माद्यज्ञः समुद्भूतो दीक्षा यूपश्च दक्षिणाः । ऋचो यजूंषि सामानि तस्मै सर्वात्मने नमः ॥ 51॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,51,11139,नमः पुरस्तात्पृष्ठे च नमस्ते पार्श्वयोर्द्वयोः । अध ऊर्ध्वं चतुर्दिक्षु मातर्भूयो नमो नमः ॥ 52॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,52,11140,उपसंहर देवेशि रूपमेतदलौकिकम् । तदेव दर्शयास्माकं रूपं सुन्दरसुन्दरम् ॥ 53॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,53,11141,व्यास उवाच । इति भीतान्सुरान्दृष्ट्वा जगदम्बा कृपार्णवा । संहृत्य रूपं घोरं तद्दर्शयामास सुन्दरम् ॥ 54॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,54,11142,पाशाङ्कुशवराभीतिधरं सर्वाङ्गकोमलम् । करुणापूर्णनयनं मन्दस्मितमुखाम्बुजम् ॥ 55॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,55,11143,दृष्ट्वा तत्सुन्दरं रूपं तदा भीतिविवर्जिताः । शान्तचित्ताः प्रणेमुस्ते हर्षगद्गदनिःस्वनाः ॥ 56॥ 7,७.३३,त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।,56,11144,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ७.३३॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,0,11145,श्री देव्युवाच । क्व यूयं मन्दभाग्या वै क्वेदं रूपं महाद्भुतम् । तथापि भक्तवात्सल्यादीदृशं दर्शितं मया ॥ 1॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,1,11146,न वेदाध्ययनैर्योगैर्न दानैस्तपसेज्यया । रूपं द्रष्टुमिदं शक्यं केवलं मत्कृपां विना ॥ 2॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,2,11147,प्रकृतं श‍ृणु राजेन्द्र परमात्मात्र जीवताम् । उपाधियोगात्सम्प्राप्तः कर्तृत्वादिकमप्युत ॥ 3॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,3,11148,क्रियाः करोति विविधा धर्माधर्मैकहेतवः । नाना योनीस्ततः प्राप्य सुखदुःखैश्च युज्यते ॥ 4॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,4,11149,पुनस्तत्संस्कृतिवशान्नानाकर्मरतः सदा । नानादेहान्समाप्नोति सुखदुःखैश्च युज्यते ॥ 5॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,5,11150,घटीयन्त्रवदेतस्य न विरामः कदापि हि । अज्ञानमेव मूलं स्यात्ततः कामः क्रियास्ततः ॥ 6॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,6,11151,तस्मादज्ञाननाशाय यतेत नियतं नरः । एतद्धि जन्मसाफल्यं यदज्ञानस्य नाशनम् ॥ 7॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,7,11152,पुरुषार्थसमाप्तिश्च जीवन्मुक्तदशापि च । अज्ञाननाशने शक्ता विद्यैव तु पटीयसी ॥ 8॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,8,11153,न कर्म तज्जं नोपास्तिर्विरोधाभावतो गिरे । प्रत्युताशाज्ञाननाशे कर्मणा नैव भाव्यताम् ॥ 9॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,9,11154,अनर्थदानि कर्माणि पुनः पुनरुशन्ति हि । ततो रागस्ततो दोषस्ततोऽनर्थो महान्भवेत् ॥ 10॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,10,11155,तस्मात्सर्वप्रयत्नेन ज्ञानं सम्पादयेन्नरः । कुर्वन्नेवेह कर्माणीत्यतः कर्माप्यवश्यकम् ॥ 11॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,11,11156,ज्ञानादेव हि कैवल्यमतः स्यात्तत्समुच्चयः । सहायतां व्रजेत्कर्म ज्ञानस्य हितकारि च ॥ 12॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,12,11157,इति केचिद्वदन्त्यत्र तद्विरोधान्न सम्भवेत् । ज्ञानाधृद्ग्रन्थिभेदः स्याद्धृद्ग्रन्थौ कर्मसम्भवः ॥ 13॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,13,11158,यौगपद्यं न सम्भाव्यं विरोधात्तु ततस्तयोः । तमः प्रकाशयोर्यद्वद्यौगपद्यं न सम्भवि ॥ 14॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,14,11159,तस्मात् सर्वाणि कर्माणि वैदिकानि महामते । चित्तशुद्ध्यन्तमेव स्युस्तानि कुर्यात्प्रयत्नतः ॥ 15॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,15,11160,शमो दमस्तितिक्षा च वैराग्यं सत्त्वसम्भवः । तावत्पर्यन्तमेव स्युः कर्माणि न ततः परम् ॥ 16॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,16,11161,तदन्ते चैव संन्यस्य संश्रयेद् गुरुमात्मवान् । श्रोत्रियं ब्रह्मनिष्ठं च भक्त्या निर्व्याजया पुनः ॥ 17॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,17,11162,वेदान्तश्रवणं कुर्यान्नित्यमेवमतन्द्रितः । तत्त्वमस्यादिवाक्यस्य नित्यमर्थं विचारयेत् ॥ 18॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,18,11163,तत्त्वमस्यादि वाक्यं तु जीवब्रह्मैक्यबोधकम् । ऐक्ये ज्ञाते निर्भयस्तु मद्रूपो हि प्रजायते ॥ 19॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,19,11164,पदार्थावगतिः पूर्वं वाक्यार्थावगतिस्ततः । तत्पदस्य च वाक्यार्थो गिरेऽहं परिकीर्तितः ॥ 20॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,20,11165,त्वं पदस्य च वाच्यार्थो जीव एव न संशयः । उभयोरैक्यमसिना पदेन प्रोच्यते बुधैः ॥ 21॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,21,11166,वाच्यार्थयोर्विरुद्धत्वादैक्यं नैव घटेत ह । लक्षणातः प्रकर्तव्या तत्त्वमोः श्रुतिसंस्थयोः ॥ 22॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,22,11167,चिन्मात्रं तु तयोर्लक्ष्यं तयोरैक्यस्य सम्भवः । तयोरैक्यं तथा ज्ञात्वा स्वाभेदेनाद्वयो भवेत् ॥ 23॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,23,11168,देवदत्तः स एवायमितिवल्लक्षणा स्मृता । स्थूलादि देहरहितो ब्रह्म सम्पद्यते नरः ॥ 24॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,24,11169,पञ्चीकृतमहाभूतसम्भूतः स्थूलदेहकः । भोगालयो जराव्याधिसंयुतः सर्वकर्मणाम् ॥ 25॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,25,11170,मिथ्याभूतोऽयमाभाति स्फुटं मायामयत्वतः । सोऽयं स्थूल उपाधिः स्यादात्मनो मे नगेश्वर ॥ 26॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,26,11171,ज्ञानकर्मेन्द्रिययुतं प्राणपञ्चकसंयुतम् । मनोबुद्धियुतं चैतत्सूक्ष्मं तत्कवयो विदुः ॥ 27॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,27,11172,अपञ्चीकृतभूतोत्थं सूक्ष्मदेहोऽयमात्मनः । द्वितीयोऽयमुपाधिः स्यात्सुखादेरवबोधकः ॥ 28॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,28,11173,अनाद्यनिर्वाच्यमिदमज्ञानं तु तृतीयकः । देहोऽयमात्मनो भाति कारणात्मा नगेश्वर ॥ 29॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,29,11174,उपाधिविलये जाते केवलात्मावशिष्यते । देहत्रये पञ्चकोशा अन्तःस्थाः सन्ति सर्वदा ॥ 30॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,30,11175,पञ्चकोशपरित्यागे ब्रह्मपुच्छं हि लभ्यते । नेतिनेतीत्यादिवाक्यैर्मम रूपं यदुच्यते ॥ 31॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,31,11176,न जायते म्रियते तत्कदाचि- न्नायं भूत्वा न बभूव कश्चित् । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ 32॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,32,11177,हतं चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ 33॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,33,11178,अणोरणीयान्महतो महीया- नात्मास्य जन्तोर्निहितो गुहायाम् । तमक्रतुः पश्यति वीतशोको धातुः प्रसादान्महिमानमस्य ॥ 34॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,34,11179,आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ 35॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,35,11180,इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ 36॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,36,11181,यस्त्वविद्वान्भवति चामनस्कश्च सदाशुचिः । न तत्पदमवाप्नोति संसारं चाधिगच्छति ॥ 37॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,37,11182,यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः । स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ 38॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,38,11183,विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति मदीयं यत्परं पदम् ॥ 39॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,39,11184,इत्थं श्रुत्या च मत्या च निश्चित्यात्मानमात्मना । भावयेन्मामात्मरूपां निदिध्यासनतोऽपि च ॥ 40॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,40,11185,योगवृत्तेः पुरा स्वस्मिन्भावयेदक्षरत्रयम् । देवीप्रणवसंज्ञस्य ध्यानार्थं मन्त्रवाच्ययोः ॥ 41॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,41,11186,हकारः स्थूलदेहः स्याद्रकारः सूक्ष्मदेहकः । ईकारः कारणात्मासौ ह्रीङ्कारोऽहं तुरीयकम् ॥ 42॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,42,11187,एवं समष्टिदेहेऽपि ज्ञात्वा बीजत्रयं क्रमात् । समष्टिव्यष्ट्योरेकत्वं भावयेन्मतिमान्नरः ॥ 43॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,43,11188,समाधिकालात्पूर्वं तु भावयित्वैवमादृतः । ततो ध्यायेन्निलीनाक्षो देवीं मां जगदीश्वरीम् ॥ 44॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,44,11189,प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ । निवृत्तविषयाकाङ्क्षो वीतदोषो विमत्सरः ॥ 45॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,45,11190,भक्त्या निर्व्याजया युक्तो गुहायां निःस्वने स्थले । हकारं विश्वमात्मानं रकारे प्रविलापयेत् ॥ 46॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,46,11191,रकारं तैजसं देवमीकारे प्रविलापयेत् । ईकारं प्राज्ञमात्मानं ह्रीङ्कारे प्रविलापयेत् ॥ 47॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,47,11192,वाच्यवाचकताहीनं द्वैतभावविवर्जितम् । अखण्डं सच्चिदानन्दं भावयेत्तच्छिखान्तरे ॥ 48॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,48,11193,इति ध्यानेन मां राजन् साक्षात्कृत्य नरोत्तमः । मद्रूप एव भवति द्वयोरप्येकता यतः ॥ 49॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,49,11194,योगयुक्त्यानया दृष्ट्वा मामात्मानं परात्परम् । अज्ञानस्य सकार्यस्य तत्क्षणे नाशको भवेत् ॥ 50॥ 7,७.३४,चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।,50,11195,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ७.३४॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,0,11196,हिमालय उवाच । योगं वद महेशानि साङ्गं संवित्प्रदायकम् । कृतेन येन योग्योऽहं भवेयं तत्त्वदर्शने ॥ 1॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,1,11197,श्रीदेव्युवाच । न योगो नभसः पृष्ठे न भूमौ न रसातले । ऐक्यं जीवात्मनोराहुर्योगं योगविशारदाः ॥ 2॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,2,11198,तत्प्रत्यूहाः षडाख्याता योगविघ्नकरानघ । कामक्रोधौ लोभमोहौ मदमात्सर्यसंज्ञकौ ॥ 3॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,3,11199,योगाङ्गैरेव भित्त्वा तान्योगिनो योगमाप्नुयुः । यमं नियममासनप्राणायामौ ततः परम् ॥ 4॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,4,11200,प्रत्याहारं धारणाख्यं ध्यानं सार्धं समाधिना । अष्टाङ्गान्याहुरेतानि योगिनां योगसाधने ॥ 5॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,5,11201,अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयाऽऽर्जवम् । क्षमा धृतिर्मिताहारः शौचं चेति यमा दश ॥ 6॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,6,11202,तपः सन्तोष आस्तिक्यं दानं देवस्य पूजनम् । सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो हुतम् ॥ 7॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,7,11203,दशैते नियमाः प्रोक्ता मया पर्वतनायक । पद्मासनं स्वस्तिकं च भद्रं वज्रासनं तथा ॥ 8॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,8,11204,वीरासनमिति प्रोक्तं क्रमादासनपञ्चकम् । ऊर्वोरुपरि विन्यस्य सम्यक्पादतले शुभे ॥ 9॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,9,11205,अङ्गुष्ठौ च निबध्नीयाद्धस्ताभ्यां व्युत्क्रमात्ततः । पद्मासनमिति प्रोक्तं योगिनां हृदयङ्गमम् ॥ 10॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,10,11206,जानूर्वोरन्तरे सम्यक्कृत्वा पादतले शुभे । ऋजुकायो विशेद्योगी स्वस्तिकं तत्प्रचक्षते ॥ 11॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,11,11207,सीवन्याः पार्श्वयोर्न्यस्य गुल्फयुग्मं सुनिश्चितम् । वृषणाधः पादपार्ष्णी पार्ष्णिभ्यां परिबन्धयेत् ॥ 12॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,12,11208,भद्रासनमिति प्रोक्तं योगिभिः परिपूजितम् । उर्वोः पादौ क्रमान्न्यस्य जान्वोः प्रत्यङ्मुखाङ्गुली ॥ 13॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,13,11209,करौ विदध्यादाख्यातं वज्रासनमनुत्तमम् । एकं पादमधः कृत्वा विन्यस्योरुं तथोत्तरे ॥ 14॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,14,11210,ऋजुकायो विशेद्योगी वीरासनमितीरितम् । इडयाऽऽकर्षयेद्वायुं बाह्यं षोडशमात्रया ॥ 15॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,15,11211,धारयेत्पूरितं योगी चतुःषष्ट्या तु मात्रया । सुषुम्नामध्यगं सम्यग्द्वात्रिंशन्मात्रया शनैः ॥ 16॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,16,11212,नाड्या पिङ्गलया चैव रेचयेद्योगवित्तमः । प्राणायाममिमं प्राहूर्योगशास्त्रविशारदाः ॥ 17॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,17,11213,भूयो भूयः क्रमात्तस्य बाह्यमेवं समाचरेत् । मात्रावृद्धिः क्रमेणैव सम्यग्द्वादश षोडश ॥ 18॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,18,11214,जपध्यानादिभिः सार्धं सगर्भं तं विदुर्बुधाः । तदपेतं विगर्भं च प्राणायामं परे विदुः ॥ 19॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,19,11215,क्रमादभ्यस्यतः पुंसो देहे स्वेदोद्गमोऽधमः । मध्यमः कम्पसंयुक्तो भूमित्यागः परो मतः ॥ 20॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,20,11216,उत्तमस्य गुणावाप्तिर्यावच्छीलनमिष्यते । इन्द्रियाणां विचरतां विषयेषु निरर्गलम् ॥ 21॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,21,11217,बलादाहरणं तेभ्यः प्रत्याहारोऽभिधीयते । अङ्गुष्ठगुल्फजानूरुमूलाधोलिङ्गनाभिषु ॥ 22॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,22,11218,हृद्ग्रीवाकण्ठदेशेषु लम्बिकायां ततो नसि । भ्रूमध्ये मस्तके मूर्ध्नि द्वादशान्ते यथाविधि ॥ 23॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,23,11219,धारणं प्राणमरुतो धारणेति निगद्यते । समाहितेन मनसा चैतन्यान्तरवर्तिना ॥ 24॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,24,11220,आत्मन्यभीष्टदेवानां ध्यानं ध्यानमिहोच्यते । समत्वभावना नित्यं जीवात्मपरमात्मनोः ॥ 25॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,25,11221,समाधिमाहुर्मुनयः प्रोक्तमष्टाङ्गलक्षणम् । इदानीं कथये तेऽहं मन्त्रयोगमनुत्तमम् ॥ 26॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,26,11222,विश्वं शरीरमित्युक्तं पञ्चभूतात्मकं नग । चन्द्रसूर्याग्नितेजोभिर्जीवब्रह्मैक्यरूपकम् ॥ 27॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,27,11223,तिस्रः कोट्यस्तदर्धेन शरीरे नाडयो मताः । तासु मुख्या दश प्रोक्तास्ताभ्यस्तिस्रो व्यवस्थिताः ॥ 28॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,28,11224,प्रधाना मेरुदण्डेऽत्र चन्द्रसूर्याग्ररूपिणी । इडा वामे स्थिता नाडी शुभ्रा तु चन्द्ररूपिणी ॥ 29॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,29,11225,शक्तिरूपा तु सा नाडी साक्षादमृतविग्रहा । दक्षिणे या पिङ्गलाख्या पुंरूपा सूर्यविग्रहा ॥ 30॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,30,11226,सर्वतेजोमयी सा तु सुषुम्ना वह्निरूपिणी । तस्या मध्ये विचित्राख्ये इच्छाज्ञानक्रियात्मकम् ॥ 31॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,31,11227,मध्ये स्वयम्भूलिङ्गं तु कोटिसूर्यसमप्रभम् । तदूर्ध्वं मायाबीजं तु हरात्माबिन्दुनादकम् ॥ 32॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,32,11228,तदूर्ध्वं तु शिखाकारा कुण्डली रक्तविग्रहा । देव्यात्मिका तु सा प्रोक्ता मदभिन्ना नगाधिप ॥ 33॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,33,11229,तद्बाह्ये हेमरूपाभं वादिसान्तचतुर्दलम् । द्रुतहेमसमप्रख्यं पद्मं तत्र विचिन्तयेत् ॥ 34॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,34,11230,तदूर्ध्वं त्वनलप्रख्यं षड्दलं हीरकप्रभम् । बादिलान्तषड्वर्णेन स्वाधिष्ठानमनुत्तमम् ॥ 35॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,35,11231,मूलमाधारषट्कोणं मूलाधारं ततो विदुः । स्वशब्देन परं लिङ्गं स्वाधिष्ठानं ततो विदुः ॥ 36॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,36,11232,तदूर्ध्वं नाभिदेशे तु मणिपूरं महाप्रभम् । मेघाभं विद्युदाभं च बहुतेजोमयं ततः ॥ 37॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,37,11233,मणिवद्भिन्नं तत्पद्मं मणिपद्मं तथोच्यते । दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम् ॥ 38॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,38,11234,विष्णुनाधिष्ठितं पद्मं विष्ण्वालोकनकारणम् । तदूर्ध्वेऽनाहतं पद्ममुद्यदादित्यसन्निभम् ॥ 39॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,39,11235,कादिठान्तदलैरर्कपत्रैश्च समधिष्ठितम् । तन्मध्ये बाणलिङ्गं तु सूर्यायुतसमप्रभम् ॥ 40॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,40,11236,शब्दब्रह्ममयं शब्दानाहतं तत्र दृश्यते । अनाहताख्यं तत्पद्मं मुनिभिः परिकीर्तितम् ॥ 41॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,41,11237,आनन्दसदनं तत्तु पुरुषाधिष्ठितं परम् । तदूर्ध्वं तु विशुद्धाख्यं दलं षोडशपङ्कजम् ॥ 42॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,42,11238,स्वरैः षोडशभिर्युक्तं धूम्रवर्णं महाप्रभम् । विशुद्धं तनुते यस्माज्जीवस्य हंसलोकनात् ॥ 43॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,43,11239,विशुद्धं पद्ममाख्यातमाकाशाख्यं महाद्भुतम् । आज्ञाचक्रं तदूर्ध्वं तु आत्मनाधिष्ठितं परम् ॥ 44॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,44,11240,आज्ञासङ्क्रमणं तत्र तेनाज्ञेति प्रकीर्तितम् । द्विदलं हक्षसंयुक्तं पद्मं तत्सुमनोहरम् ॥ 45॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,45,11241,कैलासाख्यं तदूर्ध्वं तु रोधिनी तु तदूर्ध्वतः । एवं त्वाधारचक्राणि प्रोक्तानि तव सुव्रत ॥ 46॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,46,11242,सहस्रारयुतं बिन्दुस्थानं तदूर्ध्वमीरितम् । इत्येतत्कथितं सर्वं योगमार्गमनुत्तमम् ॥ 47॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,47,11243,आदौ पूरकयोगेनाप्याधारे योजयेन्मनः । गुदमेढ्रान्तरे शक्तिस्तामाकुञ्च्य प्रबोधयेत् ॥ 48॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,48,11244,लिङ्गभेदक्रमेणैव बिन्दुचक्रं च प्रापयेत् । शम्भुना तां परां शक्तिमेकीभूतां विचिन्तयेत् ॥ 49॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,49,11245,तत्रोत्थितामृतं यत्तु द्रुतलाक्षारसोपमम् । पाययित्वा तु तां शक्तिं मायाख्यां योगसिद्धिदाम् ॥ 50॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,50,11246,षड्चक्रदेवतास्तत्र सन्तर्प्यामृतधारया । आनयेत्तेन मार्गेण मूलाधारं ततः सुधीः ॥ 51॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,51,11247,एवमभ्यस्यमानस्याप्यहन्यहनि निश्चितम् । पूर्वोक्तदूषिता मन्त्राः सर्वे सिध्यन्ति नान्यथा ॥ 52॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,52,11248,जरामरणदुःखाद्यैर्मुच्यते भवबन्धनात् । ये गुणाः सन्ति देव्या मे जगन्मातुर्यथा तथा ॥ 53॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,53,11249,ते गुणाः साधकवरे भवन्त्येव न चान्यथा । इत्येवं कथितं तात वायुधारणमुत्तमम् ॥ 54॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,54,11250,इदानीं धारणाख्यं तु श‍ृणुष्वावहितो मम । दिक्कालाद्यनवच्छिन्नदेव्यां चेतो विधाय च ॥ 55॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,55,11251,तन्मयो भवति क्षिप्रं जीवब्रह्मैक्ययोजनात् । अथवा समलं चेतो यदि क्षिप्रं न सिद्ध्यति ॥ 56॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,56,11252,तदावयवयोगेन योगी योगान्समभ्यसेत् । मदीयहस्तपादादावङ्गे तु मधुरे नग ॥ 57॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,57,11253,चित्तं संस्थापयेन्मन्त्री स्थानस्थानजयात्पुनः । विशुद्धचित्तः सर्वस्मिन्रूपे संस्थापयेन्मनः ॥ 58॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,58,11254,यावन्मनो लयं याति देव्यां संविदि पर्वत । तावदिष्टमनुं मन्त्री जपहोमैः समभ्यसेत् ॥ 59॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,59,11255,मन्त्राभ्यासेन योगेन ज्ञेयज्ञानाय कल्पते । न योगेन विना मन्त्रो न मन्त्रेण विना हि सः ॥ 60॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,60,11256,द्वयोरभ्यासयोगो हि ब्रह्मसंसिद्धिकारणम् । तमः परिवृते गेहे घटो दीपेन दृश्यते ॥ 61॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,61,11257,एवं मायावृतो ह्यात्मा मनुना गोचरीकृतः । इति योगविधिः कृत्स्नः साङ्गः प्रोक्तो मयाऽधुना ॥ 62॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,62,11258,गुरूपदेशतो ज्ञेयो नान्यथा शास्त्रकोटिभिः ॥ 63॥ 7,७.३५,पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।,63,11259,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे देवीगीतायां मन्त्रसिद्धिसाधनवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ ७.३५॥ 7,७.३६,षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।,0,11260,देव्युवाच । इत्यादियोगयुक्तात्मा ध्यायेन्मां ब्रह्मरूपिणीम् । भक्त्या निर्व्याजया राजन्नासने समुपस्थितः ॥ 1॥ 7,७.३६,षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।,1,11261,आविः सन्निहितं गुहाचरं नाम महत्पदम् । अत्रैतत्सर्वमर्पितमेजत्प्राणमिषच्च यत् ॥ 2॥ 7,७.३६,षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।,2,11262,एतज्जानथ सदसद्वरेण्यं परं विज्ञानाद्यद्वरिष्ठं प्रजानाम् । यदर्चिमद्यदणुभ्योऽणु च यस्मिंल्लोका निहिता लोकिनश्च ॥ 3॥ 7,७.३६,षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।,3,11263,तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः । तदेतत्सत्यममृतं तद्वेद्धव्यं सौम्य विद्धि ॥ 4॥ 7,७.३६,षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।,4,11264,धनुर्गृहीत्वौपनिषदं महास्त्रं शरं ह्युपासानिशितं सन्धयीत । आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सौम्य विद्धि ॥ 5॥ 7,७.३६,षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।,5,11265,प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ 6॥ 7,७.३६,षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।,6,11266,यस्मिन् द्यौश्च पृथिवी चान्तरिक्ष- मोतं मनः सह प्राणैश्च सर्वैः । तमेवैकं जानथात्मानं अन्या वाचो विमुञ्चथामृतस्यैष सेतुः ॥ 7॥ 7,७.३६,षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।,7,11267,अरा इव रथनाभौ संहता यत्र नाड्यः । स एषोऽन्तश्चरते बहुधा जायमानः ॥ 8॥ 7,७.३६,षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।,8,11268,ओमित्येवं ध्यायथात्मानं स्वस्ति वः पाराय तमसः परस्तात् । दिव्ये ब्रह्मपुरे व्योम्नि आत्मा सम्प्रतिष्ठितः ॥ 9॥ 7,७.३६,षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।,9,11269,मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं सन्निधाय । तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति ॥ 10॥ 7,७.३६,षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।,10,11270,भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ 11॥ 7,७.३६,षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।,11,11271,हिरण्मये परे कोशे विराजं ब्रह्म निष्कलम् । तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ॥ 12॥ 7,७.३६,षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।,12,11272,न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ 13॥ 7,७.३६,षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।,13,11273,ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण । अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वं वरिष्ठम् ॥ 14॥ 7,७.३६,षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।,14,11274,एतादृगनुभवो यस्य स कृतार्थो नरोत्तमः । ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ॥ 15॥ 7,७.३६,षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।,15,11275,द्वितीयाद्वै भयं राजंस्तदभावाद् बिभेति न । न तद्वियोगो मेऽप्यस्ति मद्वियोगोऽपि तस्य न ॥ 16॥ 7,७.३६,षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।,16,11276,अहमेव स सोऽहं वै निश्चितं विद्धि पर्वत । मद्दर्शनं तु तत्र स्याद्यत्र ज्ञानी स्थितो मम ॥ 17॥ 7,७.३६,षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।,17,11277,नाहं तीर्थे न कैलासे वैकुण्ठे वा न कर्हिचित् । वसामि किन्तु मज्ज्ञानिहृदयाम्भोजमध्यमे ॥ 18॥ 7,७.३६,षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।,18,11278,मत्पूजाकोटिफलदं सकृन्मज्ज्ञानिनोऽर्चनम् । कुलं पवित्रं तस्यास्ति जननी कृतकृत्यका ॥ 19॥ 7,७.३६,षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।,19,11279,विश्वम्भरा पुण्यवती चिल्लयो यस्य चेतसः । ब्रह्मज्ञानं तु यत्पृष्टं त्वया पर्वतसत्तम ॥ 20॥ 7,७.३६,षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।,20,11280,कथितं तन्मया सर्वं नातो वक्तव्यमस्ति हि । इदं ज्येष्ठाय पुत्राय भक्तियुक्ताय शीलिने ॥ 21॥ 7,७.३६,षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।,21,11281,शिष्याय च यथोक्ताय वक्तव्यं नान्यथा क्वचित् । यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ॥ 22॥ 7,७.३६,षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।,22,11282,तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः । येनोपदिष्टा विद्येयं स एव परमेश्वरः ॥ 23॥ 7,७.३६,षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।,23,11283,यस्यायं सुकृतं कर्तुमसमर्थस्ततो ऋणी । पित्रोरप्यधिकः प्रोक्तो ब्रह्मजन्मप्रदायकः ॥ 24॥ 7,७.३६,षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।,24,11284,पितृजातं जन्म नष्टं नेत्थं जातं कदाचन । तस्मै न द्रुह्येदित्यादि निगमोऽप्यवदन्नग ॥ 25॥ 7,७.३६,षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।,25,11285,तस्माच्छास्त्रस्य सिद्धान्तो ब्रह्मदाता गुरुः परः । शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न शङ्करः ॥ 26॥ 7,७.३६,षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।,26,11286,तस्मात्सर्वप्रयत्नेन श्रीगुरुं तोषयेन्नग । कायेन मनसा वाचा सर्वदा तत्परो भवेत् ॥ 27॥ 7,७.३६,षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।,27,11287,अन्यथा तु कृतघ्नः स्यात्कृतघ्ने नास्ति निष्कृतिः । इन्द्रेणाथर्वणायोक्ता शिरश्छेदप्रतिज्ञया ॥ 28॥ 7,७.३६,षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।,28,11288,अश्विभ्यां कथने तस्य शिरश्छिन्नं च वज्रिणा । अश्वीयं तच्छिरो नष्टं दृष्ट्वा वैद्यौ सुरोत्तमौ ॥ 29॥ 7,७.३६,षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।,29,11289,पुनः संयोजितं स्वीयं ताभ्यां मुनिशिरस्तदा । इति सङ्कटसम्पाद्या ब्रह्मविद्या नगाधिप । लब्धा येन स धन्यः स्यात्कृतकृत्यश्च भूधर ॥ 30॥ 7,७.३६,षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।,30,11290,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे देवीगीतायां ब्रह्मविद्योपदेशवर्णनं नाम षट्त्रिंशोऽध्यायः ॥ ७.३६॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,0,11291,हिमालय उवाच । स्वीयां भक्तिं वदस्वाम्ब येन ज्ञानं सुखेन हि । जायेत मनुजस्यास्य मध्यमस्याविरागिणः ॥ 1॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,1,11292,देव्युवाच । मार्गास्त्रयो मे विख्याता मोक्षप्राप्तौ नगाधिप । कर्मयोगो ज्ञानयोगो भक्तियोगश्च सत्तम ॥ 2॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,2,11293,त्रयाणामप्ययं योग्यः कर्तुं शक्योऽस्ति सर्वथा । सुलभत्वान्मानसत्वात्कायचित्ताद्यपीडनात् ॥ 3॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,3,11294,गुणभेदान्मनुष्याणां सा भक्तिस्त्रिविधा मता । परपीडां समुद्दिश्य दम्भं कृत्वा पुरःसरम् ॥ 4॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,4,11295,मात्सर्यक्रोधयुक्तो यस्तस्य भक्तिस्तु तामसी । परपीडादिरहितः स्वकल्याणार्थमेव च ॥ 5॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,5,11296,नित्यं सकामो हृदयं यशोऽर्थी भोगलोलुपः । तत्तत्फलसमावाप्त्यै मामुपास्तेऽतिभक्तितः ॥ 6॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,6,11297,भेदबुद्ध्या तु मां स्वस्मादन्यां जानाति पामरः । तस्य भक्तिः समाख्याता नगाधिप तु राजसी ॥ 7॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,7,11298,परमेशार्पणं कर्म पापसङ्क्षालनाय च । वेदोक्तत्वादवश्यं तत्कर्तव्यं तु मयानिशम् ॥ 8॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,8,11299,इति निश्चितबुद्धिस्तु भेदबुद्धिमुपाश्रितः । करोति प्रीतये कर्म भक्तिः सा नग सत्त्विकी ॥ 9॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,9,11300,परभक्तेः प्रापिकेयं भेदबुद्ध्यवलम्बनात् । पूर्वप्रोक्ते ह्युभे भक्ती न परप्रापिके मते ॥ 10॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,10,11301,अधुना परभक्तिं तु प्रोच्यमानां निबोध मे । मद्गुणश्रवणं नित्यं मम नामानुकीर्तनम् ॥ 11॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,11,11302,कल्याणगुणरत्नानामाकरायां मयि स्थिरम् । चेतसो वर्तनं चैव तैलधारासमं सदा ॥ 12॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,12,11303,हेतुस्तु तत्र को वापि न कदाचिद्भवेदपि । सामीप्यसार्ष्टिसायुज्यसालोक्यानां न चैषणा ॥ 13॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,13,11304,मत्सेवातोऽधिकं किञ्चिन्नैव जानाति कर्हिचित् । सेव्यसेवकताभावात्तत्र मोक्षं न वाञ्छति ॥ 14॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,14,11305,परानुरक्त्या मामेव चिन्तयेद्यो ह्यतन्द्रितः । स्वाभेदेनैव मां नित्यं जानाति न विभेदतः ॥ 15॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,15,11306,मद्रूपत्वेन जीवानां चिन्तनं कुरुते तु यः । यथा स्वस्यात्मनि प्रीतिस्तथैव च परात्मनि ॥ 16॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,16,11307,चैतन्यस्य समानत्वान्न भेदं कुरुते तु यः । सर्वत्र वर्तमानानां सर्वरूपां च सर्वदा ॥ 17॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,17,11308,नमते यजते चैवाप्याचाण्डालान्तमीश्वर । न कुत्रापि द्रोहबुद्धिं कुरुते भेदवर्जनात् ॥ 18॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,18,11309,मत्स्थानदर्शने श्रद्धा मद्भक्तदर्शने तथा । मच्छास्त्रश्रवणे श्रद्धा मन्त्रतन्त्रादिषु प्रभो ॥ 19॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,19,11310,मायि प्रेमाकुलमती रोमाञ्चिततनुः सदा । प्रेमाश्रुजलपूर्णाक्षः कण्ठगद्गदनिस्वनः ॥ 20॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,20,11311,अनन्येनैव भावेन पूजयेद्यो नगाधिप । मामीश्वरीं जगद्योनिं सर्वकारणकारणम् ॥ 21॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,21,11312,व्रतानि मम दिव्यानि नित्यनैमित्तिकान्यपि । नित्यं यः कुरुते भक्त्या वित्तशाठ्यविवर्जितः ॥ 22॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,22,11313,मदुत्सवदिदृक्षा च मदुत्सवकृतिस्तथा । जायते यस्य नियतं स्वभावादेव भूधर ॥ 23॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,23,11314,उच्चैर्गायंश्च नामानि ममैव खलु नृत्यति । अहङ्कारादिरहितो देहतादात्म्यवर्जितः ॥ 24॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,24,11315,प्रारब्धेन यथा यच्च क्रियते तत्तथा भवेत् । न मे चिन्तास्ति तत्रापि देहसंरक्षणादिषु ॥ 25॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,25,11316,इति भक्तिस्तु या प्रोक्ता परभक्तिस्तु सा स्मृता । यस्यां देव्यतिरिक्तं तु न किञ्चिदपि भाव्यते ॥ 26॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,26,11317,इत्थं जाता परा भक्तिर्यस्य भूधर तत्त्वतः । तदैव तस्य चिन्मात्रे मद्रूपे विलयो भवेत् ॥ 27॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,27,11318,भक्तेस्तु या परा काष्ठा सैव ज्ञानं प्रकीर्तितम् । वैराग्यस्य च सीमा सा ज्ञाने तदुभयं यतः ॥ 28॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,28,11319,भक्तौ कृतायां यस्यापि प्रारब्धवशतो नग । न जायते मम ज्ञानं मणिद्वीपं स गच्छति ॥ 29॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,29,11320,तत्र गत्वाखिलान्भोगाननिच्छन्नपि चर्च्छति । तदन्ते मम चिद्रूपज्ञानं सम्यग्भवेन्नग ॥ 30॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,30,11321,तेन मुक्तः सदैव स्याज्ज्ञानान्मुक्तिर्न चान्यथा । इहैव यस्य ज्ञानं स्याद्धृद्गतप्रत्यगात्मनः ॥ 31॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,31,11322,मम संवित्परतनोस्तस्य प्राणा व्रजन्ति न । ब्रह्मैव संस्तदाप्नोति ब्रह्मैव ब्रह्म वेद यः ॥ 32॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,32,11323,कण्ठचामीकरसममज्ञानात्तु तिरोहितम् । ज्ञानादज्ञाननाशेन लब्धमेव हि लभ्यते ॥ 33॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,33,11324,विदिताविदितादन्यन्नगोत्तम वपुर्मम । यथादर्शे तथात्मनि यथा जले तथा पितृलोके ॥ 34॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,34,11325,छायातपौ यथा स्वच्छौ विविक्तौ तद्वदेव हि । मम लोके भवेज्ज्ञानं द्वैतभावविवर्जितम् ॥ 35॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,35,11326,यस्तु वैराग्यवानेव ज्ञानहीनो म्रियेत चेत् । ब्रह्मलोके वसेन्नित्यं यावत्कल्पं ततः परम् ॥ 36॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,36,11327,शुचीनां श्रीमतां गेहे भवेत्तस्य जनिः पुनः । करोति साधनं पश्चात्ततो ज्ञानं हि जायते ॥ 37॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,37,11328,अनेकजन्मभी राजंज्ञानं स्यान्नैकजन्मना । ततः सर्वप्रयत्नेन ज्ञानार्थं यत्नमाश्रयेत् ॥ 38॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,38,11329,नोचेन्महान् विनाशः स्याज्जन्मैतद्दुर्लभं पुनः । तत्रापि प्रथमे वर्णे वेदप्राप्तिश्च दुर्लभा ॥ 39॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,39,11330,शमादिषट्कसम्पत्तिर्योगसिद्धिस्तथैव च । तथोत्तमगुरुप्राप्तिः सर्वमेवात्र दुर्लभम् ॥ 40॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,40,11331,तथेन्द्रियाणां पटुता संस्कृतत्वं तनोस्तथा । अनेकजन्मपुण्यैस्तु मोक्षेच्छा जायते ततः ॥ 41॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,41,11332,साधने सफलेऽप्येवं जायमानेऽपि यो नरः । ज्ञानार्थं नैव यतते तस्य जन्म निरर्थकम् ॥ 42॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,42,11333,तस्माद्राजन्यथाशक्त्या ज्ञानार्थं यत्नमाश्रयेत् । पदे पदेऽश्वमेधस्य फलमाप्नोति निश्चितम् ॥ 43॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,43,11334,घृतमिव पयसि निगूढं भूते भूते च वसति विज्ञानम् । सततं मन्थयितव्यं मनसा मन्थानभूतेन ॥ 44॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,44,11335,ज्ञानं लब्ध्वा कृतार्थः स्यादिति वेदान्तडिण्डिमः । सर्वमुक्तं समासेन किं भूयः श्रोतुमिच्छसि ॥ 45॥ 7,७.३७,सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।,45,11336,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे देवीगीतायां भक्तिमहिमावर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ७.३७॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,0,11337,हिमालय उवाच । कति स्थानानि देवेशि द्रष्टव्यानि महीतले । मुख्यानि च पवित्राणि देवीप्रियतमानि च ॥ 1॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,1,11338,व्रतान्यपि तथा यानि तुष्टिदान्युत्सवा अपि । तत्सर्वं वद मे मातः कृतकृत्यो यतो नरः ॥ 2॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,2,11339,श्रीदेव्युवाच । सर्वं दृश्यं मम स्थानं सर्वे काला व्रतात्मकाः । उत्सवाः सर्वकालेषु यतोऽहं सर्वरूपिणी ॥ 3॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,3,11340,तथापि भक्तवात्सल्यात्किञ्चित्किञ्चिदथोच्यते । श‍ृणुष्वावहितो भूत्वा नगराज वचो मम ॥ 4॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,4,11341,कोलापुरं महास्थानं यत्र लक्ष्मीः सदा स्थिता । मातुः पुरं द्वितीयं च रेणुकाधिष्ठितं परम् ॥ 5॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,5,11342,तुलजापुरं तृतीयं स्यात्सप्तश‍ृङ्गं तथैव च । हिङ्गुलाया महास्थानं ज्वालामुख्यास्तथैव च ॥ 6॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,6,11343,शाकम्भर्याः परं स्थानं भ्रामर्याः स्थानमुत्तमम् । श्रीरक्तदन्तिकास्थानं दुर्गास्थानं तथैव च ॥ 7॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,7,11344,विन्ध्याचलनिवासिन्याः स्थानं सर्वोत्तमोत्तमम् । अन्नपूर्णामहास्थानं काञ्चीपुरमनुत्तमम् ॥ 8॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,8,11345,भीमादेव्याः परं स्थानं विमलास्थानमेव च । श्रीचन्द्रलामहास्थानं कौशिकीस्थानमेव ॥ 9॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,9,11346,नीलाम्बायाः परं स्थानं नीलपर्वतमस्तके । जाम्बूनदेश्वरीस्थानं तथा श्रीनगरं शुभम् ॥ 10॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,10,11347,गुह्यकाल्या महास्थानं नेपाले यत्प्रतिष्ठितम् । मीनाक्ष्याः परमं स्थानं यच्च प्रोक्तं चिदम्बरे ॥ 11॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,11,11348,वेदारण्यं महास्थानं सुन्दर्याः समधिष्ठितम् । एकाम्बरं महास्थानं परशक्त्या प्रतिष्ठितम् ॥ 12॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,12,11349,महालसा परं स्थानं योगेश्वर्यास्तथैव च । तथा नीलसरस्वत्याः स्थानं चीनेषु विश्रुतम् ॥ 13॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,13,11350,वैद्यनाथे तु बगलास्थानं सर्वोत्तमं मतम् । श्रीमच्छ्रीभुवनेश्वर्या मणिद्वीपं मम स्मृतम् ॥ 14॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,14,11351,श्रीमत्त्रिपुरभैरव्याः कामाख्यायोनिमण्डलम् । भूमण्डले क्षेत्ररत्नं महामायाधिवासितम् ॥ 15॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,15,11352,नातः परतरं स्थानं क्वचिदस्ति धरातले । प्रतिमासं भवेद्देवी यत्र साक्षाद्रजस्वला ॥ 16॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,16,11353,तत्रत्या देवताः सर्वाः पर्वतात्मकतां गताः । पर्वतेषु वसन्त्येव महत्यो देवता अपि ॥ 17॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,17,11354,तत्रत्या पृथिवी सर्वा देवीरूपा स्मृता बुधैः । नातः परतरं स्थानं कामाख्यायोनिमण्डलात् ॥ 18॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,18,11355,गायत्र्याश्च परं स्थानं श्रीमत्पुष्करमीरितम् । अमरेशे चण्डिका स्यात्प्रभासे पुष्करेक्षिणी ॥ 19॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,19,11356,नैमिषे तु महास्थाने देवी सा लिङ्गधारिणी । पुरुहूता पुष्कराक्षे आषाढौ च रतिस्तथा ॥ 20॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,20,11357,चण्डमुण्डीमहास्थाने दण्डिनी परमेश्वरी । भारभूतौ भवेद्भूतिर्नाकुले नकुलेश्वरी ॥ 21॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,21,11358,चन्द्रिका तु हरिश्चन्द्रे श्रीगिरौ शाङ्करी स्मृता । जप्येश्वरे त्रिशूला स्यात्सूक्ष्मा चाम्रातकेश्वरे ॥ 22॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,22,11359,शाङ्करी तु महाकाले शर्वाणी मध्यमाभिधे । केदाराख्ये महाक्षेत्रे देवी सा मार्गदायिनी ॥ 23॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,23,11360,भैरवाख्ये भैरवी सा गयायां मङ्गला स्मृता । स्थाणुप्रिया कुरुक्षेत्रे स्वायम्भुव्यपि नाकुले ॥ 24॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,24,11361,कनखले भवेदुग्रा विश्वेशा विमलेश्वरे । अट्टहासे महानन्दा महेन्द्रे तु महान्तका ॥ 25॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,25,11362,भीमे भीमेश्वरी प्रोक्ता स्थाने वस्त्रापथे पुनः । भवानी शाङ्करी प्रोक्ता रुद्राणी त्वर्धकोटिके ॥ 26॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,26,11363,अविमुक्ते विशालाक्षी महाभागा महालये । गोकर्णे भद्रकर्णी स्याद्भद्रा स्याद्भद्रकर्णके ॥ 27॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,27,11364,उत्पलाक्षी सुवर्णाक्षे स्थाण्वीशा स्थाणुसंज्ञके । कमलालये तु कमला प्रचण्डा छगलण्डके ॥ 28॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,28,11365,कुरण्डले त्रिसन्ध्या स्यान्माकोटे मुकुटेश्वरी । मण्डलेशे शाण्डकी स्यात्काली कालञ्जरे पुनः ॥ 29॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,29,11366,शङ्कुकर्णे ध्वनिः प्रोक्ता स्थूला स्यात्स्थूलकेश्वरे । ज्ञानिनां हृदयाम्भोजे हृल्लेखा परमेश्वरी ॥ 30॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,30,11367,प्रोक्तानीमानि स्थानानि देव्याः प्रियतमानि च । तत्तत्क्षेत्रस्य माहात्म्यं श्रुत्वा पूर्वं नगोत्तम ॥ 31॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,31,11368,तदुक्तेन विधानेन पश्चाद्देवीं प्रपूजयेत् । अथवा सर्वक्षेत्राणि काश्यां सन्ति नगोत्तम ॥ 32॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,32,11369,अतस्तत्र वसेन्नित्यं देवीभक्तिपरायणः । तानि स्थानानि सम्पश्यञ्जपन्देवीं निरन्तरम् ॥ 33॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,33,11370,ध्यायंस्तच्चरणाम्भोजं मुक्तो भवति बन्धनात् । इमानि देवीनामानि प्रातरुत्थाय यः पठेत् ॥ 34॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,34,11371,भस्मीभवन्ति पापानि तत्क्षणान्नग सत्वरम् । श्राद्धकाले पठेदेतान्यमलानि द्विजाग्रतः ॥ 35॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,35,11372,मुक्तास्तत्पितरः सर्वे प्रयान्ति परमां गतिम् । अधुना कथयिष्यामि व्रतानि तव सुव्रत ॥ 36॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,36,11373,नारीभिश्च नरैश्चैव कर्तव्यानि प्रयत्नतः । व्रतमनन्ततृतीयाख्यं रसकल्याणिनीव्रतम् ॥ 37॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,37,11374,आर्द्रानन्दकरं नाम्ना तृतीयाया व्रतं च यत् । शुक्रवारव्रतं चैव तथा कृष्णचतुर्दशी ॥ 38॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,38,11375,भौमवारव्रतं चैव प्रदोषव्रतमेव च । यत्र देवो महादेवो देवीं संस्थाप्य विष्टरे ॥ 39॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,39,11376,नृत्यं करोति पुरतः सार्धं देवैर्निशामुखे । तत्रोपोष्य रजन्यादौ प्रदोषे पूजयेच्छिवाम् ॥ 40॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,40,11377,प्रतिपक्षं विशेषेण तद्देवीप्रीतिकारकम् । सोमवारव्रतं चैव ममातिप्रियकृन्नग ॥ 41॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,41,11378,तत्रापि देवीं सम्पूज्य रात्रौ भोजनमाचरेत् । नवरात्रद्वयं चैव व्रतं प्रीतिकरं मम ॥ 42॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,42,11379,एवमन्यान्यपि विभो नित्यनैमित्तिकानि च । व्रतानि कुरुते यो वै मत्प्रीत्यर्थं विमत्सरः ॥ 43॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,43,11380,प्राप्नोति मम सायुज्यं स मे भक्तः स मे प्रियः । उत्सवानपि कुर्वीत दोलोत्सवसुखान्विभो ॥ 44॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,44,11381,शयनोत्सवं यथा कुर्यात्तथा जागरणोत्सवम् । रथोत्सवं च मे कुर्याद्दमनोत्सवमेव च ॥ 45॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,45,11382,पवित्रोत्सवमेवापि श्रावणे प्रीतिकारकम् । मम भक्तः सदा कुर्यादेवमन्यान्महोत्सवान् ॥ 46॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,46,11383,मद्भक्तान्भोजयेत्प्रीत्या तथा चैव सुवासिनीः । कुमारीर्बटुकांश्चापि मद्बुद्ध्या तद्गतान्तरः ॥ 47॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,47,11384,वित्तशाठ्येन रहितो यजेदेतान्सुमादिभिः । य एवं कुरुते भक्त्या प्रतिवर्षमतन्द्रितः ॥ 48॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,48,11385,स धन्यः कृतकृत्योऽसौ मत्प्रीतेः पात्रमञ्जसा । सर्वमुक्तं समासेन मम प्रीतिप्रदायकम् । नाशिष्याय प्रदातव्यं नाभक्ताय कदाचन ॥ 49॥ 7,७.३८,अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।,49,11386,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे देवीगीतायां महोत्सवव्रतस्थानवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ७.३८॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,0,11387,हिमालय उवाच । देवदेवि महेशानि करुणासागरेऽम्बिके । ब्रूहि पूजाविधिं सम्यग्यथावदधुना निजम् ॥ 1॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,1,11388,श्रीदेव्युवाच । वक्ष्ये पूजाविधिं राजन्नम्बिकाया यथा प्रियम् । अत्यन्तश्रद्धया सार्धं श‍ृणु पर्वतपुङ्गव ॥ 2॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,2,11389,द्विविधा मम पूजा स्याद् बाह्या चाभ्यन्तरापि च । बाह्यापि द्विविधा प्रोक्ता वैदिकी तान्त्रिकी तथा ॥ 3॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,3,11390,वैदिक्यर्चापि द्विविधा मूर्तिभेदेन भूधर । वैदिकी वैदिकैः कार्या वेददीक्षासमन्वितैः ॥ 4॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,4,11391,तन्त्रोक्तदीक्षावद्भिस्तु तान्त्रिकी संश्रिता भवेत् । इत्थं पूजारहस्यं च न ज्ञात्वा विपरीतकम् ॥ 5॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,5,11392,करोति यो नरो मूढः स पतत्येव सर्वथा । तत्र या वैदिकी प्रोक्ता प्रथमा तां वदाम्यहम् ॥ 6॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,6,11393,यन्मे साक्षात्परं रूपं दृष्ट्वानसि भूधर । अनन्तशीर्षनयनमनन्तचरणं महत् ॥ 7॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,7,11394,सर्वशक्तिसमायुक्तं प्रेरकं यत्परात्परम् । तदेव पूजयेन्नित्यं नमेद् ध्यायेत्स्मरेदपि ॥ 8॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,8,11395,इत्येतत्प्रथमार्चायाः स्वरूपं कथितं नग । शान्तः समाहितमना दम्भाहङ्कारवर्जितः ॥ 9॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,9,11396,तत्परो भव तद्याजी तदेव शरणं व्रज । तदेव चेतसा पश्य जप ध्यायस्व सर्वदा ॥ 10॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,10,11397,अनन्यया प्रेमयुक्तभक्त्या मद्भावमाश्रितः । यज्ञैर्यज तपोदानैर्मामेव परितोषय ॥ 11॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,11,11398,इत्थं ममानुग्रहतो मोक्ष्यसे भवबन्धनात् । मत्परा ये मदासक्तचित्ता भक्तवरा मताः ॥ 12॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,12,11399,प्रतिजाने भवादस्मादुद्धराम्यचिरेण तु । ध्यानेन कर्मयुक्तेन भक्तिज्ञानेन वा पुनः ॥ 13॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,13,11400,प्राप्याहं सर्वथा राजन्न तु केवलकर्मभिः । धर्मात्सञ्जायते भक्तिर्भक्त्या सञ्जायते परम् ॥ 14॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,14,11401,श्रुतिस्मृतिभ्यामुदितं यत्स धर्मः प्रकीर्तितः । अन्यशास्त्रेण यः प्रोक्तो धर्माभासः स उच्यते ॥ 15॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,15,11402,सर्वज्ञात्सर्वशक्तेश्च मत्तो वेदः समुत्थितः । अज्ञानस्य ममाभावादप्रमाणा न च श्रुतिः ॥ 16॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,16,11403,स्मृतयश्च श्रुतेरर्थं गृहीत्वैव च निर्गताः । मन्वादीनां श्रुतीनां च ततः प्रामाण्यमिष्यते ॥ 17॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,17,11404,क्वचित्कदाचित्तन्त्रार्थकटाक्षेण परोदितम् । धर्मं वदन्ति सोंऽशस्तु नैव ग्राह्योऽस्ति वैदिकैः ॥ 18॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,18,11405,अन्येषां शास्त्रकर्तॄणामज्ञानप्रभवत्वतः । अज्ञानदोषदुष्टत्वात्तदुक्तेर्न प्रमाणता ॥ 19॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,19,11406,तस्मान्मुमुक्षुर्धर्मार्थं सर्वथा वेदमाश्रयेत् । राजाज्ञा च यथा लोके हन्यते न कदाचन ॥ 20॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,20,11407,सर्वेशान्या ममाज्ञा सा श्रुतिस्त्याज्या कथं नृभिः । मदाज्ञारक्षणार्थं तु ब्रह्मक्षत्रियजातयः ॥ 21॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,21,11408,मया सृष्टास्ततो ज्ञेयं रहस्यं मे श्रुतेर्वचः । यदा यदा हि धर्मस्य ग्लानिर्भवति भूधर ॥ 22॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,22,11409,अभ्युत्थानमधर्मस्य तदा वेषान्बिभर्म्यहम् । देवदैत्यविभागश्चाप्यत एवाभवन्नृप ॥ 23॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,23,11410,ये न कुर्वन्ति तद्धर्मं तच्छिक्षार्थं मया सदा । सम्पादितास्तु नरकास्त्रासो यच्छ्रवणाद्भवेत् ॥ 24॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,24,11411,यो वेदधर्ममुज्झित्य धर्ममन्यं समाश्रयेत् । राजा प्रवासयेद्देशान्निजादेतानधर्मिणः ॥ 25॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,25,11412,ब्राह्मणैर्न च सम्भाष्याः पङ्क्तिग्राह्या न च द्विजैः । अन्यानि यानि शास्त्राणि लोकेऽस्मिन्विविधानि च ॥ 26॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,26,11413,श्रुतिस्मृतिविरुद्धानि तामसान्येव सर्वशः । वामं कापालकं चैव कौलकं भैरवागमः ॥ 27॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,27,11414,शिवेन मोहनार्थाय प्रणीतो नान्यहेतुकः । दक्षशापाद् भृगोः शापाद्दधीचस्य च शापतः ॥ 28॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,28,11415,दग्धा ये ब्राह्मणवरा वेदमार्गबहिष्कृताः । तेषामुद्धरणार्थाय सोपानक्रमतः सदा ॥ 29॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,29,11416,शैवाश्च वैष्णवाश्श्चैव सौराः शाक्तास्तथैव च । गाणपत्या आगमाश्च प्रणीताः शङ्करेण तु ॥ 30॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,30,11417,तत्र वेदाविरुद्धांशोऽप्युक्त एव क्वचित्क्वचित् । वैदिकैस्तद्ग्रहे देषो न भवत्येव कर्हिचित् ॥ 31॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,31,11418,सर्वथा वेदभिन्नार्थे नाधिकारी द्विजो भवेत् । वेदाधिकारहीनस्तु भवेत्तत्राधिकारवान् ॥ 32॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,32,11419,तस्मात्सर्वप्रयत्नेन वैदिको वेदमाश्रयेत् । धर्मेण सहितं ज्ञानं परं ब्रह्म प्रकाशयेत् ॥ 33॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,33,11420,सर्वैषणाः परित्यज्य मामेव शरणं गताः । सर्वभूतदयावन्तो मानाहङ्कारवर्जिताः ॥ 34॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,34,11421,मच्चित्ता मद्गतप्राणा मत्स्थानकथने रताः । संन्यासिनो वनस्थाश्च गृहस्था ब्रह्मचारिणः ॥ 35॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,35,11422,उपासन्ते सदा भक्त्या योगमैश्वरसंज्ञितम् । तेषां नित्याभियुक्तानामहमज्ञानजं तमः ॥ 36॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,36,11423,ज्ञानसूर्यप्रकाशेन नाशयामि न संशयः । इत्थं वैदिकपूजायाः प्रथमाया नगाधिप ॥ 37॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,37,11424,स्वरूपमुक्तं सङ्क्षेपाद् द्वितीयाया अथो ब्रुवे । मूर्तौ वा स्थण्डिले वापि तथा सूर्येन्दुमण्डले ॥ 38॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,38,11425,जलेऽथवा बाणलिङ्गे यन्त्रे वापि महापटे । तथा श्रीहृदयाम्भोजे ध्यात्वा देवीं परात्पराम् ॥ 39॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,39,11426,सगुणां करुणापूर्णां तरुणीमरुणारुणाम् । सौन्दर्यसारसीमां तां सर्वावयवसुन्दरीम् ॥ 40॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,40,11427,श‍ृङ्गाररससम्पूर्णां सदा भक्तार्तिकातराम् । प्रसादसुमुखीमम्बां चन्द्रखण्डशिखण्डिनीम् ॥ 41॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,41,11428,पाशाङ्कुशवराभीतिधरामानन्दरूपिणीम् । पूजयेदुपचारैश्च यथावित्तानुसारतः ॥ 42॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,42,11429,यावदान्तरपूजायामधिकारो भवेन्न हि । तावद्बाह्यामिमां पूजां श्रयेज्जाते तु तां त्यजेत् ॥ 43॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,43,11430,आभ्यन्तरा तु या पूजा सा तु संविल्लयः स्मृतः । संविदेव परं रूपमुपाधिरहितं मम ॥ 44॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,44,11431,अतः संविदि मद्रूपे चेतः स्थाप्यं निराश्रयम् । संविद्रूपातिरिक्तं तु मिथ्या मायामयं जगत् ॥ 45॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,45,11432,अतः संसारनाशाय साक्षिणीमात्मरूपिणीम् । भावयेन्निर्मनस्केन योगयुक्तेन चेतसा ॥ 46॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,46,11433,अतः परं बाह्यपूजाविस्तारः कथ्यते मया । सावधानेन मनसा श‍ृणु पर्वतसत्तम ॥ 47॥ 7,७.३९,एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।,47,11434,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ ७.३९॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,0,11435,श्री देव्युवाच । प्रातरुत्थाय शिरसि संस्मरेत्पद्ममुज्ज्वलम् । कर्पूराभं स्मरेत्तत्र श्रीगुरुं निजरूपिणम् ॥ 1॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,1,11436,सुप्रसन्नं लसद्भूषाभूषितं शक्तिसंयुतम् । नमस्कृत्य ततो देवीं कुण्डलीं संस्मरेद्बुधः ॥ 2॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,2,11437,प्रकाशमानां प्रथमे प्रयाणे प्रतिप्रयाणेऽप्यमृतायमानाम् । अन्तः पदव्यामनुसञ्चरन्ती- मानन्दरूपामबलां प्रपद्ये ॥ 3॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,3,11438,ध्यात्वैवं तच्छिखामध्ये सच्चिदानन्दरूपिणीम् । मां ध्यायेदथ शौचादिक्रियाः सर्वाः समापयेत् ॥ 4॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,4,11439,अग्निहोत्रं ततो हूत्वा मत्प्रीत्यर्थं द्विजोत्तमः । होमान्ते स्वासने स्थित्वा पूजासङ्कल्पमाचरेत् ॥ 5॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,5,11440,भूतशुद्धिं पुरा कृत्वा मातृकान्यासमेव च । हृल्लेखामातृकान्यासं नित्यमेव समाचरेत् ॥ 6॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,6,11441,मूलाधारे हकारं च हृदये च रकारकम् । भ्रूमध्ये तद्वदीकारं ह्रीङ्कारं मस्तके न्यसेत् ॥ 7॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,7,11442,तत्तन्मन्त्रोदितानन्यान्न्यासान्सर्वान्समाचरेत् । कल्पयेत्स्वात्मनो देहे पीठं धर्मादिभिः पुनः ॥ 8॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,8,11443,ततो ध्यायेन्महादेवीं प्राणायामैर्विजृम्भिते । हृदम्भोजे मम स्थाने पञ्चप्रेतासने बुधः ॥ 9॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,9,11444,ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः । एते पञ्च महाप्रेताः पादमूले मम स्थिताः ॥ 10॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,10,11445,पञ्चभूतात्मका ह्येते पञ्चावस्थात्मका अपि । अहं त्वव्यक्तचिद्रूपा तदतीतास्ति सर्वथा ॥ 11॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,11,11446,ततो विष्टरतां याताः शक्तितन्त्रेषु सर्वदा । ध्यात्वैवं मानसैर्भोगैः पूजयेन्मां जपेदपि ॥ 12॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,12,11447,जपं समर्प्य श्रीदेव्यै ततोऽर्घ्यस्थापनं चरेत् । पात्रासादनकं कृत्वा पूजाद्रव्याणि शोधयेत् ॥ 13॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,13,11448,जलेन तेन मनुना चास्त्रमन्त्रेण देशिकः । दिग्बन्धं च पुरा कृत्वा गुरून्नत्वा ततः परम् ॥ 14॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,14,11449,तदनुज्ञां समादाय बाह्यपीठे ततः परम् । हृदिस्थां भवितां मूर्तिं मम दिव्यां मनोहराम् ॥ 15॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,15,11450,आवाहयेत्ततः पीठे प्राणस्थापनविद्यया । असनावाहने चार्घ्यं पाद्याद्याचमनं तथा ॥ 16॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,16,11451,स्नानं वासोद्वयं चैव भूषणानि च सर्वशः । गन्धपुष्पं यथायोग्यं दत्त्वा देव्यै स्वभक्तितः ॥ 17॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,17,11452,यन्त्रस्थानामावृतीनां पूजनं सम्यगाचरेत् । प्रतिवारमशक्तानां शुक्रवारो नियम्यते ॥ 18॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,18,11453,मूलदेवीप्रभारूपाः स्मर्तव्या अङ्गदेवताः । तत्प्रभापटलव्याप्तं त्रैलोक्यं च विचिन्तयेत् ॥ 19॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,19,11454,पुनरावृत्तिसहितां मूलदेवीं च पूजयेत् । गन्धादिभिः सुगन्धैस्तु तथा पुष्पैः सुवासितैः ॥ 20॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,20,11455,नैवेद्यैस्तर्पणैश्चैव ताम्बूलैर्दक्षिणादिभिः । तोषयेन्मां त्वत्कृतेन नाम्नां साहस्रकेण च ॥ 21॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,21,11456,कवचेन च सूक्तेनाहं रुद्रेभिरिति प्रभो । देव्यथर्वशिरोमन्त्रैर्हृल्लेखोपनिषद्भवैः ॥ 22॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,22,11457,महाविद्यामहामन्त्रैस्तोषयेन्मां मुहुर्मुहुः । क्षमापयेज्जगद्धात्रीं प्रेमार्द्रहृदयो नरः ॥ 23॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,23,11458,पुलकाङ्कितसर्वाङ्गैर्बाष्परुद्धाक्षिनिःस्वनः । नृत्यगीतादिघोषेण तोषयेन्मां मुहुर्मुहुः ॥ 24॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,24,11459,वेदपारायणैश्चैव पुराणैः सकलैरपि । प्रतिपाद्या यतोऽहं वै तस्मात्तैस्तोषयेत्तु माम् ॥ 25॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,25,11460,निजं सर्वस्वमपि मे सदेहं नित्यशोऽर्पयेत् । नित्यहोमं ततः कुर्याद्ब्राह्मणांश्च सुवासिनीः ॥ 26॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,26,11461,बटुकान्पामरानन्यान्देवीबुद्ध्या तु भोजयेत् । नत्वा पुनः स्वहृदये व्युत्क्रमेण विसर्जयेत् ॥ 27॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,27,11462,सर्वं हृल्लेखया कुर्यात् पूजनं मम सुब्रत । हृल्लेखा सर्वमन्त्राणां नायिका परमा स्मृता ॥ 28॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,28,11463,हृल्लेखादर्पणे नित्यमहं तत्प्रतिबिम्बिता । तस्माद्धृल्लेखया दत्तं सर्वमन्त्रैः समर्पितम् ॥ 29॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,29,11464,गुरुं सम्पूज्य भूषाद्यैः कृतकृत्यत्वमावहेत् । य एवं पूजयेद्देवीं श्रीमद्भुवनसुन्दरीम् ॥ 30॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,30,11465,न तस्य दुर्लभं किञ्चित्कदाचित्क्वचिदस्ति हि । देहान्ते तु मणिद्वीपं मम यात्येव सर्वथा ॥ 31॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,31,11466,ज्ञेयो देवीस्वरूपोऽसौ देवा नित्यं नमन्ति तम् । इति ते कथितं राजन् महादेव्याः प्रपूजनम् ॥ 32॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,32,11467,विमृश्यैतदशेषेणाप्यधिकारानुरूपतः । कुरु मे पूजनं तेन कृतार्थस्त्वं भविष्यसि ॥ 33॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,33,11468,इदं तु गीताशास्त्रं मे नाशिष्याय वदेत् क्वचित् । नाभक्ताय प्रदातव्यं न धूर्ताय च दुर्हृदे ॥ 34॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,34,11469,एतत्प्रकाशनं मातुरुद्घाटनमुरोजयोः । तस्मादवश्यं यत्नेन गोपनीयमिदं सदा ॥ 35॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,35,11470,देयं भक्ताय शिष्याय ज्येष्ठपुत्राय चैव हि । सुशीलाय सुवेषाय देवीभक्तियुताय च ॥ 36॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,36,11471,श्राद्धकाले पठेदेतद्ब्राह्मणानां समीपतः । तृप्तास्तत्पितरः सर्वे प्रयान्ति परमं पदम् ॥ 37॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,37,11472,व्यास उवाच । इत्युक्त्वा सा भगवती तत्रैवान्तरधीयत । देवाश्च मुदिताः सर्वे देवीदर्शनतोऽभवन् ॥ 38॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,38,11473,ततो हिमालये जज्ञे देवी हैमवती तु सा । या गौरीति प्रसिद्धासीद्दत्ता सा शङ्कराय च ॥ 39॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,39,11474,ततः स्कन्दः समुद्भूतस्तारकस्तेन पातितः । समुद्रमन्थने पूर्वं रत्नान्यासुर्नराधिप ॥ 40॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,40,11475,तत्र देवैः स्तुता देवी लक्ष्मीप्राप्त्यर्थमादरात् । तेषामनुग्रहार्थाय निर्गता तु रमा ततः ॥ 41॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,41,11476,वैकुण्ठाय सुरैर्दत्ता तेन तस्य शमोऽभवत् । इति ते कथितं राजन् देवीमाहात्म्यमुत्तमम् ॥ 42॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,42,11477,गौरीलक्ष्म्योः समुद्भूतिविषयं सर्वकामदम् । न वाच्यं त्वेतदन्यस्मै रहस्यं कथितं यतः ॥ 43॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,43,11478,गीता रहस्यभूतेयं गोपनीया प्रयत्नतः । सर्वमुक्तं स्मसेन यत्पृष्टं तत्त्वयानघ । पवित्रं पावनं दिव्यं किं भूयः श्रोतुमिच्छसि ॥ 44॥ 7,७.४०,चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।,44,11479,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे देवीगीतायां बाह्यपूजाविधिवर्णनं नाम चत्वारिंशोऽध्यायः ॥ ७.४०॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,0,11480,जनमेजय उवाच । सूर्यचन्द्रान्वयोत्थानां नृपाणां सत्कथाश्रितम् । चरितं भवता प्रोक्तं श्रुतं तदमृतास्पदम् ॥ 1॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,1,11481,अधुना श्रोतुमिच्छामि सा देवी जगदम्बिका । मन्वन्तरेषु सर्वेषु यद्यद्रूपेण पूज्यते ॥ 2॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,2,11482,यस्मिन्यस्मिंश्च वै स्थाने येन येन च कर्मणा । (शरीरेण च देवेशी पूजनीया फलप्रदा । येनैव मन्त्रबीजेन यत्र यत्र च पूज्यते ॥) देव्या विराट्स्वरूपस्य वर्णनं च यथातथम् ॥ 3॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,3,11483,येन ध्यानेन तत्सूक्ष्मे स्वरूपे स्यान्मतेर्गतिः । तत्सर्वं वद विप्रर्षे येन श्रेयोऽहमाप्नुयाम् ॥ 4॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,4,11484,व्यास उवाच । श‍ृणु राजन् प्रवक्ष्यामि देव्याराधनमुत्तमम् । यत्कृतेन श्रुतेनापि नरः श्रेयोऽत्र विन्दते ॥ 5॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,5,11485,एवमेतन्नारदेन पृष्टो नारायणः पुरा । तस्मै यदुक्तवान्देवो योगचर्याप्रवर्तकः ॥ 6॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,6,11486,एकदा नारदः श्रीमान्पर्यटन्पृथिवीमिमाम् । नारायणाश्रमं प्राप्तो गतखेदश्च तस्थिवान् ॥ 7॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,7,11487,तस्मै योगात्मने नत्वा ब्रह्मदेवतनूद्भवः । पर्यपृच्छदिमं चार्थं यत्पृष्टो भवतानघ ॥ 8॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,8,11488,नारद उवाच । देवदेव महादेव पुराणपुरुषोत्तम । जगदाधार सर्वज्ञ श्लाघनीयोरुसद्गुण ॥ 9॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,9,11489,जगतस्तत्त्वमाद्यं यत्तन्मे वद यथेप्सितम् । जायते कुत एवेदं कुतश्चेदं प्रतिष्ठितम् ॥ 10॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,10,11490,कुतोऽन्तं प्राप्नुयात्काले कुत्र सर्वफलोदयः । केन ज्ञातेन मायैषा मोहभूर्नाशमाप्नुयात् ॥ 11॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,11,11491,कयार्चया किं जपेन किं ध्यानेनात्महृत्कजे । प्रकाशो जायते देव तमस्यर्कोदयो यथा ॥ 12॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,12,11492,एतत्प्रश्नोत्तरं देव ब्रूहि सर्वमशेषतः । यथा लोकस्तरेदन्धतमसं त्वञ्जसैव हि ॥ 13॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,13,11493,व्यास उवाच । एवं देवर्षिणा पृष्टः प्राचीनो मुनिसत्तमः । नारायणो महायोगी प्रतिनन्द्य वचोऽब्रवीत् ॥ 14॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,14,11494,श्रीनारायण उवाच । श‍ृणु देवर्षिवर्यात्र जगतस्तत्त्वमुत्तमम् । येन ज्ञातेन मर्त्यो हि जायते न जगद्भ्रमे ॥ 15॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,15,11495,जगतस्तत्त्वमित्येव देवी प्रोक्ता मयापि हि । ऋषिभिर्देवगन्धर्वैरन्यैश्चापि मनीषिभिः ॥ 16॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,16,11496,सा जगत्सृजते देवी तया च प्रतिपाल्यते । तया च नाश्यते सर्वमिति प्रोक्तं गुणत्रयात् ॥ 17॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,17,11497,तस्याः स्वरूपं वक्ष्यामि देव्याः सिद्धर्षिपूजितम् । स्मरतां सर्वपापघ्नं कामदं मोक्षदं तथा ॥ 18॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,18,11498,मनुः स्वायम्भुवस्त्वाद्यः पद्मपुत्रः प्रतापवान् । शतरूपापतिः श्रीमान्सर्वमन्वन्तराधिपः ॥ 19॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,19,11499,स मनुः पितरं देवं प्रजापतिमकल्मषम् । भक्त्या पर्यचरत्पूर्वं तमुवाचात्मभूः सुतम् ॥ 20॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,20,11500,पुत्र पुत्र त्वया कार्यं देव्याराधनमुत्तमम् । तत्प्रसादेन ते तात प्रजासर्गः प्रसिद्ध्यति ॥ 21॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,21,11501,एवमुक्तः प्रजास्रष्ट्रा मनुः स्वायम्भुवो विराट् । जगद्योनिं तदा देवीं तपसातर्पयद् विभुः ॥ 22॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,22,11502,तुष्टाव देवीं देवेशीं समाहितमतिः किल । आद्यां मायां सर्वशक्तिं सर्वकारणकारणाम् ॥ 23॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,23,11503,मनुरुवाच । नमो नमस्ते देवेशि जगत्कारणकारणे । शङ्खचक्रगदाहस्ते नारायणहृदाश्रिते ॥ 24॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,24,11504,वेदमूर्त्ते जगन्मातः कारणस्थानरूपिणि । वेदत्रयप्रमाणज्ञे सर्वदेवनुते शिवे ॥ 25॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,25,11505,माहेश्वरि महाभागे महामाये महोदये । महादेवप्रियावासे महादेवप्रियङ्करि ॥ 26॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,26,11506,गोपेन्द्रस्य प्रिये ज्येष्ठे महानन्दे महोत्सवे । महामारीभयहरे नमो देवादिपूजिते ॥ 27॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,27,11507,सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥ 28॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,28,11508,यतश्चेदं यया विश्वमोतं प्रोतं च सर्वदा । चैतन्यमेकमाद्यन्तरहितं तेजसां निधिम् ॥ 29॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,29,11509,ब्रह्मा यदीक्षणात्सर्वं करोति च हरिः सदा । पालयत्यपि विश्वेशः संहर्ता यदनुग्रहात् ॥ 30॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,30,11510,मधुकैटभसम्भूतभयार्तः पद्मसम्भवः । यस्याः स्तवेन मुमुचे घोरदैत्यभवाम्बुधेः ॥ 31॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,31,11511,त्वं ह्रीः कीर्तिः स्मृतिः कान्तिः कमला गिरिजा सती । दाक्षायणी वेदगर्भा सिद्धिदात्री सदाभया ॥ 32॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,32,11512,स्तोष्ये त्वां च नमस्यामि पूजयामि जपामि च । ध्यायामि भावये वीक्षे श्रोष्ये देवि प्रसीद मे ॥ 33॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,33,11513,ब्रह्मा वेदनिधिः कृष्णो लक्ष्यावासः पुरन्दरः । त्रिलोकाधिपतिः पाशी यादसाम्पतिरुत्तमः ॥ 34॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,34,11514,कुबेरो निधिनाथोऽभूद्यमो जातः परेतराट् । नैरृतो रक्षसां नाथः सोमो जातो ह्यपोमयः ॥ 35॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,35,11515,त्रिलोकवन्द्ये लोकेशि महामाङ्गल्यरूपिणि । नमस्तेऽस्तु पुनर्भूयो जगन्मातर्नमो नमः ॥ 36॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,36,11516,श्रीनारायण उवाच । एवं स्तुता भगवती दुर्गा नारायणी परा । प्रसन्ना प्राह देवर्षे ब्रह्मपुत्रमिदं वचः ॥ 37॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,37,11517,देव्युवाच । वरं वरय राजेन्द्र ब्रह्मपुत्र यदिच्छसि । प्रसन्नाहं स्तवेनात्र भक्त्या चाराधनेन च ॥ 38॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,38,11518,मनुरुवाच । यदि देवि प्रसन्नासि भक्त्या कारुणिकोत्तमे । तदा निर्विघ्नतः सृष्टिः प्रजायाः स्यात्तवाज्ञया ॥ 39॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,39,11519,देव्युवाच । प्रजासर्गः प्रभवतु ममानुग्रहतः किल । निर्विघ्नेन च राजेन्द्र वृद्धिश्चाप्युत्तरोत्तरम् ॥ 40॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,40,11520,यः कश्चित्पठते स्तोत्रं मद्भक्त्या त्वत्कृतं सदा । तेषां विद्या प्रजासिद्धिः कीर्तिः कान्त्युदयः खलु ॥ 41॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,41,11521,जायन्ते धनधान्यानि शक्तिरप्रहता नृणाम् । सर्वत्र विजयो राजन् सुखं शत्रुपरिक्षयः ॥ 42॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,42,11522,श्रीनारायण उवाच । एवं दत्त्वा वरान् देवी मनवे ब्रह्मसूनवे । अन्तर्धानं गता चासीत्पश्यतस्तस्य धीमतः ॥ 43॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,43,11523,अथ लब्धवरो राजा ब्रह्मपुत्रः प्रतापवान् । ब्रह्माणमब्रवीत्तात स्थानं मे दीयतां रहः ॥ 44॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,44,11524,यत्राहं समधिष्ठाय प्रजाः स्रक्ष्यामि पुष्कलाः । यक्ष्यामि यज्ञैर्देवेशं तत्समादिश माचिरम् ॥ 45॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,45,11525,इति पुत्रवचः श्रुत्वा प्रजापतिपतिर्विभुः । चिन्तयामास सुचिरं कथं कार्यं भवेदिदम् ॥ 46॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,46,11526,सृजतो मे गतः कालो विपुलोऽनन्तसङ्ख्यकः । धरा वार्भिः स्तुता मग्ना रसं याताखिलाश्रया ॥ 47॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,47,11527,इदं मच्चिन्तितं कार्यं भगवानादिपूरुषः । करिष्यति सहायो मे यदादेशेऽहमाश्रितः ॥ 48॥ 8,८.१,प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।,48,11528,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनं नाम प्रधमोऽध्यायः ॥ ८.१॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,0,11529,श्रीनारायण उवाच । एवं मीमांसतस्तस्य पद्मयोनेः परन्तप । मन्वादिभिर्मुनिवरैर्मरीच्याद्यैः समन्ततः ॥ 1॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,1,11530,ध्यायतस्तस्य नासाग्राद्विरञ्चेः सहसानघ । वराहपोतो निरगादेकाङ्गुलप्रमाणतः ॥ 2॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,2,11531,तस्यैव पश्यतः खस्थः क्षणेन किल नारद । करिमात्रं प्रववृधे तदद्भुततमं ह्यभूत् ॥ 3॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,3,11532,मरीचिमुख्यैर्विप्रेन्द्रैः सनकाद्यैश्च नारद । तद् दृष्ट्वा सौकरं रूपं तर्कयामास पद्मभूः ॥ 4॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,4,11533,किमेतत्सौकरव्याजं दिव्यं सत्त्वमवस्थितम् । अत्याश्चर्यमिदं जातं नासिकाया विनिःसृतम् ॥ 5॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,5,11534,दृष्टोऽङ्गुष्ठशिरोमात्रः क्षणाच्छैलेन्द्रसन्तिभः । आहोस्विद्भगवान्किं वा यज्ञो मे खेदयन्मनः ॥ 6॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,6,11535,इति तर्कयतस्तस्य ब्रह्मणः परमात्मनः । वराहरूपो भगवाञ्जगर्जाचलसन्निभः ॥ 7॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,7,11536,विरञ्चिं हर्षयामास संहतांश्च द्विजोत्तमान् । स्वगर्जशब्दमात्रेण दिक्प्रान्तमनुनादयन् ॥ 8॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,8,11537,ते निशम्य स्वखेदस्य क्षयितुं घुर्घुरस्वनम् । जनस्तपःसत्यलोकवासिनोऽमरवर्यकाः ॥ 9॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,9,11538,छन्दोमयैः स्तोत्रवरैरृक्सामाथर्वसम्भवैः । वचोभिः पुरुषं त्वाद्यं द्विजेन्द्राः पर्यवाकिरन् ॥ 10॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,10,11539,तेषां स्तोत्रं निशम्याद्यो भगवान् हरिरीश्वरः । कृपावलोकमात्रेणानुगृहीत्वाऽऽप आविशत् ॥ 11॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,11,11540,तस्यान्तर्विशतः क्रूरसटाघातप्रपीडितः । समुद्रोऽथाब्रवीद्देव रक्ष मां शरणार्तिहन् ॥ 12॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,12,11541,इत्याकर्ण्य समुद्रोक्तं वचनं हरिरीश्वरः । विदारयञ्जलचराञ्जगामान्तर्जले विभुः ॥ 13॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,13,11542,इतस्ततोऽभिधावन्सन् विचिन्वन्पृथिवीं धराम् । आघ्रायाघ्राय सर्वेशो धरामासादयच्छनैः ॥ 14॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,14,11543,अन्तर्जलगतां भूमिं सर्वसत्त्वाश्रयां तदा । भूमिं स देवदेवेशो दंष्ट्रयोदाजहार ताम् ॥ 15॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,15,11544,तां समुद्धृत्य दंष्ट्राग्रे यज्ञेशो यज्ञपूरूषः । शुशुभे दिग्गजो यद्वदुद्धृत्याथ सुपद्मीनीम् ॥ 16॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,16,11545,तं दृष्ट्वा देवदेवेशो विरञ्चिः समनुः स्वराट् । तुष्टाव वाग्भिर्देवेशं दंष्ट्रोद्धतवसुन्धरम् ॥ 17॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,17,11546,ब्रह्मोवाच । जितं ते पुण्डरीकाक्ष भक्तानामार्तिनाशन । खर्वीकृतसुराधार सर्वकामफलप्रद ॥ 18॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,18,11547,इयं च धरणी देव शोभते वसुधा तव । पद्मिनीव सुपत्राढ्या मतङ्गजकरोद्धृता ॥ 19॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,19,11548,इदं च ते शरीरं वै शोभते भूमिसङ्गमात् । उद्धृताम्बुजशुण्डाग्रकरीन्द्रतनुसन्निभम् ॥ 20॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,20,11549,नमो नमस्ते देवेश सृष्टिसंहारकारक । दानवानां विनाशाय कृतनानाकृते प्रभो ॥ 21॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,21,11550,अग्रतश्च नमस्तेऽस्तु पृष्ठतश्च नमो नमः । सर्वामराधारभूत बृहद्धाम नमोऽस्तु ते ॥ 22॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,22,11551,त्वयाहं च प्रजासर्गे नियुक्तः शक्तिबृंहितः । त्वदाज्ञावशतः सर्गं करोमि विकरोमि च ॥ 23॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,23,11552,त्वत्सहायेन देवेशा अमराश्च पुरा हरे । सुधां विभेजिरे सर्वे यथाकालं यथाबलम् ॥ 24॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,24,11553,इन्द्रस्त्रिलोकीसाम्राज्यं लब्धवांस्तन्निदेशतः । भुनक्ति लक्ष्मीं बहुलां सुरसङ्घप्रपूजितः ॥ 25॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,25,11554,वह्निः पावकतां लब्ध्वा जाठरादिविभेदतः । देवासुरमनुष्याणां करोत्याप्यायनं तथा ॥ 26॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,26,11555,धर्मराजोऽथ पितॄणामधिपः सर्वकर्मदृक् । कर्मणां फलदातासौ त्वन्नियोगादधीश्वरः ॥ 27॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,27,11556,नैरृतो रक्षसामीशो यक्षो विघ्नविनाशनः । सर्वेषां प्राणिनां कर्मसाक्षी त्वत्तः प्रजायते ॥ 28॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,28,11557,वरुणो यादसामीशो लोकपालो जलाधिपः । त्वदाज्ञाबलमाश्रित्य लोकपालत्वमागतः ॥ 29॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,29,11558,वायुर्गन्धवहः सर्वभूतप्राणनकारणम् । जातस्तव निदेशेन लोकपालो जगद्गुरुः ॥ 30॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,30,11559,कुबेरः किन्नरादीनां यक्षाणां जीवनाश्रयः । त्वदाज्ञान्तर्गतः सर्वलोकपेषु च मान्यभूः ॥ 31॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,31,11560,ईशानः सर्वरुद्राणामीश्वरान्तकरः प्रभुः । जातो लोकेशवन्द्योऽसौ सर्वदेवाधिपालकः ॥ 32॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,32,11561,नमस्तुभ्यं भगवते जगदीशाय कुर्महे । यस्यांशभागाः सर्वे हि जाता देवाः सहस्रशः ॥ 33॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,33,11562,नारद उवाच । एवं स्तुतो विश्वसृजा भगवानादिपूरुषः । लीलावलोकमात्रेणाप्यनुग्रहमवासृजत् ॥ 34॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,34,11563,तत्रैवाभ्यागतं दैत्यं हिरण्याक्षं महासुरम् । रुन्धानमध्वनो भीमं गदयाताडयद्धरिः ॥ 35॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,35,11564,तद्रक्तपङ्कदिग्धाङ्गो भगवानादिपूरुषः । उद्धृत्य धरणीं देवो दंष्ट्रया लीलयाप्सु ताम् ॥ 36॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,36,11565,निवेश्य लोकनाथेशो जगाम स्थानमात्मनः । एतद्भगवतश्चित्रं धरण्युद्धरणं परम् ॥ 37॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,37,11566,श‍ृणुयाद्यः पुमान् यश्च पठेच्चरितमुत्तमम् । सर्वपापविनिर्मुक्तो वैष्णवीं गतिमाप्नुयात् ॥ 38॥ 8,८.२,द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।,38,11567,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे धरण्युद्धारवर्णनं नाम द्वितीयोऽध्यायः ॥ ८.२॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,0,11568,श्रीनारायण उवाच । महीं देवः प्रतिष्ठाप्य यथास्थाने च नारद । वैकुण्ठलोकमगमद् ब्रह्मोवाच स्वमात्मजम् ॥ 1॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,1,11569,स्वायम्भूव महाबाहो पुत्र तेजस्विनांवर । स्थाने महीमये तिष्ठ प्रजाः सृज यथोचितम् ॥ 2॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,2,11570,देशकालविभागेन यज्ञेशं पुरुषं यज । उच्चावचपदार्थैश्च यज्ञसाधनकैर्विभो ॥ 3॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,3,11571,धर्ममाचर शास्त्रोक्तं वर्णाश्रमनिबन्धनम् । एतेन क्रमयोगेन प्रजावृद्धिर्भविष्यति ॥ 4॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,4,11572,पुत्रानुत्पाद्य गुणतः कीर्त्या कान्त्यात्मरूपिणः । विद्याविनयसम्पन्नान् सदाचारवतां वरान् ॥ 5॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,5,11573,कन्याश्च दत्त्वा गुणवद्यशोवद्भ्यः समाहितः । मनः सम्यक् समाधाय प्रधानपुरुषे परे ॥ 6॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,6,11574,भक्तिसाधनयोगेन भगवत्परिचर्यया । गतिमिष्टां सदा वन्द्यां योगिनां गमिता भवान् ॥ 7॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,7,11575,इत्याश्वास्य मनुं पुत्र पद्मयोनिः प्रजापतिः । प्रजासर्गे नियम्यामुं स्वधाम प्रत्यपद्यत ॥ 8॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,8,11576,प्रजाः सृजत पुत्रेति पितुराज्ञां समादधत् । स्वायम्भुवः प्रजासर्गमकरोत्पृथिवीपतिः ॥ 9॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,9,11577,प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ । कन्यास्तिस्रः प्रसूताश्च तासां नामानि मे श‍ृणु ॥ १० आकूतिः प्रथमा कन्या द्वितीया देवहूतिका । तृतीया च प्रसूतिर्हि विख्याता लोकपावनी ॥ ११ आकूतिं रुचये प्रादात्कर्दमाय च मध्यमाम् । दक्षायादात्प्रसूतिं च यासां लोक इमाः प्रजाः ॥ १२ रुचेः प्रजज्ञे भगवान् यज्ञो नामादिपूरुषः । आकूत्यां देवहूत्यां च कपिलोऽसौ च कर्दमात् ॥ १३ साङ्ख्याचार्यः सर्वलोके विख्यातः कपिलो विभुः । दक्षात्प्रसूत्यां कन्याश्च बहुशो जज्ञिरे प्रजाः ॥ १४ यासां सन्तानसम्भूता देवतिर्यङ्नरादयः । प्रसूता लोकविख्याता सर्वे सर्गप्रवर्तकाः ॥ १५ यज्ञश्च भगवान् स्वायम्भुवमन्वन्तरे विभुः । मनुं ररक्ष रक्षोभ्यो यामैर्देवगणैर्वृतः ॥ १६ कपिलोऽपि महायोगी भगवान् स्वाश्रमे स्थितः । देवहूत्यै परं ज्ञानं सर्वाविद्यानिवर्तकम् ॥ १७ सविशेषं ध्यानयोगमध्यात्मज्ञाननिश्चयम् । कापिलं शास्त्रमाख्यातं सर्वाज्ञानविनाशनम् ॥ १८ उपदिश्य महायोगी स ययौ पुलहाश्रमम् । अद्यापि वर्तते देवः साङ्ख्याचार्यो महाशयः ॥ १९ यन्नामस्मरणेनापि साङ्ख्ययोगश्च सिद्ध्यति । तं वन्दे कपिलं योगाचार्यं सर्ववरप्रदम् ॥ २० एवमुक्तं मनोः कन्यावंशवर्णनमुत्तमम् । पठतां श‍ृण्वतां चापि सर्वपापविनाशनम् ॥ २१ अतः परं प्रवक्ष्यामि मनुपुत्रान्वयं शुभम् । यदाकर्णनमात्रेण परं पदमवाप्नुयात् ॥ २२ द्वीपवर्षसमुद्रादिव्यवस्था यत्सुतैः कृता । व्यवहारप्रसिद्ध्यर्थं सर्वभूतसुखाप्तये ॥ २३ चतुऽर्थोऽध्यायः । भुवनकोशविषये प्रियव्रतवंशवर्णनम् । श्रीनारायण उवाच । मनोः स्वायम्भुवस्यासीज्ज्येष्ठः पुत्रः प्रियव्रतः । पितुः सेवापरो नित्यं सत्यधर्मपरायणः ॥ 1॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,10,11578,प्रजापतेर्दुहितरं सुरूपां विश्वकर्मणः । बर्हिष्मतीं चोपयेमे समानां शीलकर्मभिः ॥ 2॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,11,11579,तस्यां पुत्रान्दश गुणैरन्वितान्भावितात्मनः । जनयामास कन्यां चोर्जस्वतीं च यवीयसीम् ॥ 3॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,12,11580,आग्नीध्रश्चेध्मजिह्वश्च यज्ञबाहुस्तृतीयकः । महावीरश्चतुर्थस्तु पञ्चमो रुक्मशुक्रकः ॥ 4॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,13,11581,घृतपृष्ठश्च सवनो मेधातिथिरथाष्टमः । वीतिहोत्रः कविश्चेति दशैते वह्निनामकाः ॥ 5॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,14,11582,एतेषां दशपुत्राणां त्रयोऽप्यासन्विरागिणः । कविश्च सवनश्चैव महावीर इति त्रयः ॥ 6॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,15,11583,आत्मविद्यापरिष्णाताः सर्वे ते ह्यूर्ध्वरेतसः । आश्रमे परहंसाख्ये निःस्पृहा ह्यभवन्मुदाः ॥ 7॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,16,11584,अपरस्यां च जायायां त्रयः पुत्राश्च जज्ञिरे । उत्तमस्तामसश्चैव रैवतश्चेति विश्रुताः ॥ 8॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,17,11585,मन्वन्तराधिपतय एते पुत्रा महौजसः । प्रियव्रतः स राजेन्द्रो बुभुजे जगतीमिमाम् ॥ 9॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,18,11586,एकादशार्बुदाब्दानामव्याहतबलेन्द्रियः । यदा सूर्यः पृथिव्याश्च विभागे प्रथमेऽतपत् ॥ 10॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,19,11587,भागे द्वितीये तत्रासीदन्धकारोदयः किल । एवं व्यतिकरं राजा विलोक्य मनसा चिरम् ॥ 11॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,20,11588,प्रशास्ति मयि भूम्यां च तमः प्रादुर्भवेत्कथम् । एवं निवारयिष्यामि भूमौ योगबलेन च ॥ 12॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,21,11589,एवं व्यवसितो राजा पुत्रः स्वायम्भुवस्य सः । रथेनादित्यवर्णेन सप्तकृत्वः प्रकाशयन् ॥ 13॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,22,11590,तस्यापि गच्छतो राज्ञो भूमौ यद्रथनेमयः । पतितास्ते समुद्राख्यां भेजिरे लोकहेतवे ॥ 14॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,23,11591,जाताः प्रदेशास्ते सप्त द्वीपा भूमौ विभागशः । रथनेमिसमुत्थास्ते परिखाः सप्त सिन्धवः ॥ 15॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,24,11592,यत आसंस्ततः सप्त भुवो द्वीपा हि ते स्मृताः । जम्बुद्वीपः प्लक्षद्वीपः शाल्मलीद्वीपसंज्ञकः ॥ 16॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,25,11593,कुशद्वीपः क्रौञ्चद्वीपः शाकद्वीपश्च पुष्करः । तेषां च परिमाणं तु द्विगुणं चोत्तरोत्तरम् ॥ 17॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,26,11594,समन्ततश्चोपक्लृप्तं बहिर्भागक्रमेण च । क्षारोदेक्षुरसोदौ च सुरोदश्च घृतोदकः ॥ 18॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,27,11595,क्षीरोदो दधिमण्डोदः शुद्धोदश्चेति ते स्मृताः । सप्तैते प्रतिविख्याताः पृथिव्यां सिन्धवस्तदा ॥ 19॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,28,11596,प्रथमो जम्बुद्वीपाख्यो यः क्षारोदेन वेष्टितः । तत्पतिं विदधे राजा पुत्रमाग्नीध्रसंज्ञकम् ॥ 20॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,29,11597,प्लक्षद्वीपे द्वितीयेऽस्मिन्द्वीपेक्षुरससम्प्लुते । जातस्तदधिपः प्रैयव्रत इध्मादिजिह्वकः ॥ 21॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,30,11598,शाल्मलीद्वीप एतस्मिन्सुरोदधिपरिप्लुते । यज्ञबाहुं तदधिपं करोति स्म प्रियव्रतः ॥ 22॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,31,11599,कुशद्वीपेऽतिरम्ये च घृतोदेनोपवेष्टिते । हिरण्यरेता राजाभूत्प्रियव्रततनूजनिः ॥ 23॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,32,11600,क्रौञ्चद्वीपे पञ्चमे तु क्षीरोदपरिसम्प्लुते । प्रैयव्रतो घृतपृष्ठः पतिरासीन्महाबलः ॥ 24॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,33,11601,शाकद्वीपे चारुतरे दधिमण्डोदसङ्कुले । मेधातिथिरभूद्राजा प्रियव्रतसुतो वरः ॥ 25॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,34,11602,पुष्करद्वीपके शुद्धोदकसिन्धुसमाकुले । वीतिहोत्रो बभूवासौ राजा जनकसम्मतः ॥ 26॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,35,11603,कन्यामूर्जस्वतीनाम्नीं ददावुशनसे विभुः । आसीत्तस्यां देवयानी कन्या काव्यस्य विश्रुता ॥ 27॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,36,11604,एवं विभज्य पुत्रेभ्यः सप्तद्वीपान् प्रियव्रतः । विवेकवशगो भूत्वा योगमार्गाश्रितोऽभवत् ॥ 28॥ 8,८.३,तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।,37,11605,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनं नाम तृतीयोऽध्यायः ॥ ८.३॥ 8,८.५,पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।,0,11606,श्रीनारायण उवाच । देवर्षे श‍ृणु विस्तारं द्वीपवर्षविभेदतः । भूमण्डलस्य सर्वस्य यथा देवप्रकल्पितम् ॥ 1॥ 8,८.५,पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।,1,11607,समासात्सम्प्रवक्ष्यामि नालं विस्तरतः क्वचित् । जम्बुद्वीपः प्रथमतः प्रमाणे लक्षयोजनः ॥ 2॥ 8,८.५,पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।,2,11608,विशालो वर्तुलाकारो यथाब्जस्य च कर्णिका । नव वर्षाणि यस्मिंश्च नवसाहस्रयोजनैः ॥ 3॥ 8,८.५,पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।,3,11609,आयामैः परिसङ्ख्यानि गिरिभिः परितः श्रितैः । अष्टाभिर्दीर्घरूपैश्च सुविभक्तानि सर्वतः ॥ 4॥ 8,८.५,पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।,4,11610,धनुर्वत्संस्थिते ज्ञेये द्वे वर्षे दक्षिणोत्तरे । दीर्घाणि तत्र चत्वारि चतुरस्रमिलावृतम् ॥ 5॥ 8,८.५,पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।,5,11611,इलावृतं मध्यवर्षं यन्नाभ्यां सुप्रतिष्ठितः । सौवर्णो गिरिराजोऽयं लक्षयोजनमुच्छ्रितः ॥ 6॥ 8,८.५,पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।,6,11612,कर्णिकारूप एवायं भूगोलकमलस्य च । मूर्ध्नि द्वात्रिंशत्सहस्रयोजनैर्विततस्त्वयम् ॥ 7॥ 8,८.५,पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।,7,11613,मूले षोडशसाहस्रस्तावतान्तर्गतः क्षितौ । इलावृतस्योत्तरतो नीलः श्वेतश्च श‍ृङ्गवान् ॥ 8॥ 8,८.५,पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।,8,11614,त्रयो वै गिरयः प्रोक्ता मर्यादावधयस्त्रिषु । रम्यकाख्ये तथा वर्षे द्वितीये च हिरण्मये ॥ 9॥ 8,८.५,पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।,9,11615,कुरुवर्षे तृतीये तु मर्यादां व्यञ्जयन्ति ते । प्रागायता उभयतः क्षारोदावधयस्तथा ॥ 10॥ 8,८.५,पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।,10,11616,द्विसहस्रपृथुतरास्तथा एकैकशः क्रमात् । पूर्वात्पूर्वाच्चोत्तरस्यां दशांशादधिकांशतः ॥ 11॥ 8,८.५,पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।,11,11617,दैर्घ्य एव ह्रसन्तीमे नानानदनदीयुताः । इलावृताद्दक्षिणतो निषधो हेमकूटकः ॥ 12॥ 8,८.५,पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।,12,11618,हिमालयश्चेति त्रयः प्राग्विस्तीर्णाः सुशोभनाः । अयुतोत्सेधभाजस्ते योजनैः परिकीर्तिताः ॥ 13॥ 8,८.५,पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।,13,11619,हरिवर्षं किम्पुरुषं भारतं च यथातथम् । विभागात्कथयन्त्येते मर्यादागिरयस्त्रयः ॥ 14॥ 8,८.५,पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।,14,11620,इलावृतात्पश्चिमतो माल्यवान्नामपर्वतः । पूर्वेण च ततः श्रीमान् गन्धमादनपर्वतः ॥ 15॥ 8,८.५,पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।,15,11621,आनीलनिषधं त्वेतौ चायतौ द्विसहस्रतः । योजनैः पृथुतां यातौ मर्यादाकारकौ गिरी ॥ 16॥ 8,८.५,पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।,16,11622,केतुमालाख्यभद्राश्ववर्षयोः प्रथितौ च तौ । मन्दरश्च तथा मेरुमन्दरश्च सुपार्श्वकः ॥ 17॥ 8,८.५,पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।,17,11623,कुमुदश्चेति विख्याता गिरयो मेरुपादकाः । योजनायुतविस्तारोन्नाहा मेरोश्चतुर्दिशम् ॥ 18॥ 8,८.५,पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।,18,11624,अवष्टम्भकरास्ते तु सर्वतोऽभिविराजिताः । एतेषु गिरिषु प्राप्ताः पादपाश्चूतजम्बुनी ॥ 19॥ 8,८.५,पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।,19,11625,कदम्बन्यग्रोध इति चत्वारः पर्वताः स्थिताः । केतवो गिरिराजेषु एकादशशतोच्छ्रयाः ॥ 20॥ 8,८.५,पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।,20,11626,तावद्विटपविस्ताराः शताख्यपरिणाहिनः । चत्वारश्च ह्रदास्तेषु पयोमध्विक्षुसज्जलाः ॥ 21॥ 8,८.५,पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।,21,11627,यदुपस्पर्शिनो देवा योगैश्वर्याणि विन्दते । देवोद्यानानि चत्वारि भवन्ति ललनासुखाः ॥ 22॥ 8,८.५,पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।,22,11628,नन्दनं चैत्ररथकं वैभ्राजं सर्वभद्रकम् । येषु स्थित्वामरगणा ललनायूथसंयुताः ॥ 23॥ 8,८.५,पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।,23,11629,उपदेवगणैर्गीतमहिमानो महाशयाः । विहरन्ति स्वतन्त्रास्ते यथाकामं यथासुखम् ॥ 24॥ 8,८.५,पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।,24,11630,मन्दरोत्सङ्गसंस्थस्य देवचूतस्य मस्तकात् । एकादशशतोच्छ्रायात्फलान्यमृतभाञ्जि च ॥ 25॥ 8,८.५,पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।,25,11631,गिरिकूटप्रमाणानि सुस्वादूनि मृदूनि च । तेषां विशीर्यमाणानां फलानां सुरसेन च ॥ 26॥ 8,८.५,पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।,26,11632,अरुणोदसवर्णेन अरुणोदा प्रवर्तते । नदी रम्यजला देवदैत्यराजप्रपूजिता ॥ 27॥ 8,८.५,पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।,27,11633,अरुणाख्या महाराज वर्तते पापहारिणी । पूजयन्ति च तां देवीं सर्वकामफलप्रदाम् ॥ 28॥ 8,८.५,पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।,28,11634,नानोपहारबलिभिः कल्मषघ्न्यभयप्रदाम् । तस्याः कृपावलोकेन क्षेमारोग्यं व्रजन्ति ते ॥ 29॥ 8,८.५,पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।,29,11635,आद्या मायातुलानन्ता पुष्टिरीश्वरमालिनी । दुष्टनाशकरी कान्तिदायिनीति स्मृता भुवि ॥ 30॥ 8,८.५,पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।,30,11636,अस्याः पूजाप्रभावेण जाम्बूनदमुदावहत् ॥ 31॥ 8,८.५,पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।,31,11637,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनं नाम पञ्चमोऽध्यायः ॥ ८.५॥ 8,८.६,षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।,0,11638,श्रीनारायण उवाच । अरुणोदा नदी या तु मया प्रोक्ता च नारद । मन्दरान्निपतन्ती सा पूर्वेणेलावृतं प्लवेत् ॥ 1॥ 8,८.६,षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।,1,11639,यज्जोषणाद्भवान्याश्चानुचरीणां स्त्रियामपि । यक्षगन्धर्वपत्नीनां देहगन्धवहोऽनिलः ॥ 2॥ 8,८.६,षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।,2,11640,वासयत्यभितो भूमिं दशयोजनसङ्ख्यया । एवं जम्बूफलानां च तुङ्गदेशनिपातनात् ॥ 3॥ 8,८.६,षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।,3,11641,विशीर्यतामनस्थीनां कुञ्जराङ्गप्रमाणिनाम् । रसेन च नदी जम्बूनाम्नी मेर्वाख्यमन्दरात् ॥ 4॥ 8,८.६,षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।,4,11642,पतन्ती भूमिभागे च दक्षिणेलावृतं गता । देवी जम्बूफलास्वादतुष्टा जम्ब्वादिनी स्मृता ॥ 5॥ 8,८.६,षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।,5,11643,तत्रत्यानां च लोकानां देवनागर्षिरक्षसाम् । पूजनीयपदा मान्या सर्वभूतदयाकरी ॥ 6॥ 8,८.६,षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।,6,11644,पावनी पापिनां रोगनाशिनी स्मरतामपि । कीर्तिता विघ्नसंहर्त्री माननीया दिवौकसाम् ॥ 7॥ 8,८.६,षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।,7,11645,कोकिलाक्षी कामकला करुणा कामपूजिता । कठोरविग्रहा धन्या नाकिमान्या गभस्तिनी ॥ 8॥ 8,८.६,षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।,8,11646,एभिर्नामपदैः कामं जपनीया सदा नृणाम् । जम्बूनदीरोधसोर्या मृत्तिकातीरवर्तिनी ॥ 9॥ 8,८.६,षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।,9,11647,जम्बूरसेनानुविद्ध्यमाना वाय्वर्कयोगतः । विद्याधरामरस्त्रीणां भूषणं विविधं महत् ॥ 10॥ 8,८.६,षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।,10,11648,जाम्बूनदं सुवर्णं च प्रोक्तं देवविनिर्मितम् । यत्सुवर्णं च विबुधा योषिद्भिः कामुकाः सदा ॥ 11॥ 8,८.६,षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।,11,11649,मुकुटं कटिसूत्रं च केयूरादीन्प्रकुर्वते । महाकदम्बः सम्प्रोक्तः सुपार्श्वगिरिसंस्थितः ॥ 12॥ 8,८.६,षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।,12,11650,तस्य कोटरदेशेभ्यः पञ्च धाराश्च याः स्मृताः । सुपार्श्वगिरिमूर्ध्नीह पतन्त्येता भुवं गताः ॥ 13॥ 8,८.६,षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।,13,11651,मधुधाराः पञ्च तास्तु पश्चिमेलावृतं प्लुताः । याश्चोपभुज्यमानानां देवानां मुखगन्धभृत् ॥ 14॥ 8,८.६,षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।,14,11652,वायुः समन्ततोऽगच्छञ्छतयोजनवासनः । धारेश्वरी महादेवी भक्तानां कार्यकारिणी ॥ 15॥ 8,८.६,षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।,15,11653,देवपूज्या महोत्साहा कालरूपा महानना । वसते कर्मफलदा कान्तारग्रहणेश्वरी ॥ 16॥ 8,८.६,षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।,16,11654,करालदेहा कालाङ्गी कामकोटिप्रवर्तिनी । इत्येतैर्नामभिः पूज्या देवी सर्वसुरेश्वरी ॥ 17॥ 8,८.६,षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।,17,11655,एवं कुमुदरूढो यो नाम्ना शतबलो वटः । तत्स्कन्धेभ्योऽधोमुखाश्च नदाः कुमुदमूर्धतः ॥ 18॥ 8,८.६,षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।,18,11656,पयोदधिमधुघृतगुडान्नाद्यम्बरादिभिः । शय्यासनाद्याभरणैः सर्वे कामदुघाश्च ते ॥ 19॥ 8,८.६,षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।,19,11657,उत्तरेणेलावृतं ते प्लावयन्ति समन्ततः । मीनाक्षी तत्तले देवी देवासुरनिषेविता ॥ 20॥ 8,८.६,षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।,20,11658,नीलाम्बरा रौद्रमुखी नीलालकयुता च सा । नाकिनां देवसङ्घानां फलदा वरदा च सा ॥ 21॥ 8,८.६,षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।,21,11659,अतिमान्यातिपूज्या च मत्तमातङ्गगामिनी । मदनोन्मादिनी मानप्रिया मानप्रियान्तरा ॥ 22॥ 8,८.६,षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।,22,11660,मारवेगधरा मारपूजिता मारमादिनी । मयूरवरशोभाढ्या शिखिवाहनगर्भभूः ॥ 23॥ 8,८.६,षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।,23,11661,एभिर्नामपदैर्वन्द्या देवी सा मीनलोचना । जपतां स्मरतां मानदात्री चेश्वरसङ्गिनी ॥ 24॥ 8,८.६,षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।,24,11662,तेषां नदानां पानीयपानानुगतचेतसाम् । प्रजानां न कदाचित्स्याद्वलीपलितलक्षणम् ॥ 25॥ 8,८.६,षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।,25,11663,क्लमस्वेदादिदौर्गन्ध्यं जरामयमृतिभ्रमाः । शीतोष्णवातवैवर्ण्यमुखोपप्लवसञ्चयाः ॥ 26॥ 8,८.६,षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।,26,11664,नापदश्चैव जायन्ते यावज्जीवं सुखं भवेत् । नैरन्तर्येण तत्स्याद्वै सुखं निरतिशायकम् ॥ 27॥ 8,८.६,षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।,27,11665,तत ऊर्ध्वं प्रवक्ष्यामि सन्निवेशं च तद्गिरेः । सुवर्णमयनाम्नो वै सुमेरोः पर्वताः पृथक् ॥ 28॥ 8,८.६,षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।,28,11666,गिरयो विंशतिपराः कर्णिकाया इवेह ते । केसरीभूय सर्वेऽपि मेरोर्मूलविभागके ॥ 29॥ 8,८.६,षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।,29,11667,परितश्चोपक्लृप्तास्ते तेषां नामानि श‍ृण्वतः । कुरङ्गः कुरगश्चैव कुसुम्भोऽथो विकङ्कतः ॥ 30॥ 8,८.६,षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।,30,11668,त्रिकूटः शिशिरश्चैव पतङ्गो रुचकस्तथा । निषधश्च शिनीवासः कपिलः शङ्ख एव च ॥ 31॥ 8,८.६,षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।,31,11669,वैदूर्यश्चारुधिश्चैव हंसो ऋषभ एव च । नागः कालञ्जरश्चैव नारदश्चेति विंशतिः ॥ 32॥ 8,८.६,षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।,32,11670,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनं नाम षष्ठोऽध्यायः ॥ ८.६॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,0,11671,श्रीनारायण उवाच । गिरी मेरुं च पूर्वेण द्वौ चाष्टादशयोजनैः । सहस्रैरायतौ चोदग्द्विसहस्रं पृथूच्चकौ ॥ 1॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,1,11672,जठरो देवकूटश्च तावेतौ गिरिवर्यकौ । मेरोः पश्चिमतोऽद्री द्वौ पवमानस्तथापरः ॥ 2॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,2,11673,पारियात्रश्च तौ तावद्विख्यातौ तुङ्गविस्तरौ । मेरोर्दक्षिणतः ख्यातौ कैलासकरवीरकौ ॥ 3॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,3,11674,प्रागायतौ पूर्ववृत्तौ महापर्वतराजकौ । एवं चोत्तरतो मेरोस्त्रिश‍ृङ्गमकरौ गिरी ॥ 4॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,4,11675,एतैश्चाद्रिवरैरष्टसङ्ख्यैः परिवृतो गिरिः । सुमेरुः काञ्चनगिरिः परिभ्राजन् रविर्यथा ॥ 5॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,5,11676,मेरोर्मूर्धनि धातुर्हि पुरी पङ्कजजन्मनः । मध्यतश्चोपक्लृप्तेयं दशसाहस्रयोजनैः ॥ 6॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,6,11677,समानचतुरस्रां च शातकौम्भमयीं पुरीम् । वर्णयन्ति महात्मानः परावरविदो बुधाः ॥ 7॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,7,11678,तां पुरीमनुलोकानामष्टानामीशिषां पराः । पुर्यः प्रख्यातसौवर्णरूपास्ताश्च यथादिशम् ॥ 8॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,8,11679,यथारूपं सार्धनेत्रसहस्रप्रमिताः कृताः । मेरोर्नव पुराणि स्युर्मनोवत्यमरावती ॥ 9॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,9,11680,तेजोवती संयमनी तथा कृष्णाङ्गनापरा । श्रद्धावती गन्धवती तथा चान्या महोदया ॥ 10॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,10,11681,यशोवती च ब्रह्मेन्द्रवह्न्यादीनां यथाक्रमम् । तत्रैव यज्ञलिङ्गस्य विष्णोर्भगवतो विभोः ॥ 11॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,11,11682,वामपादाङ्गुष्ठनखनिर्भिन्नस्य च नारद । अण्डोर्ध्वभागरन्ध्रस्य मध्यात्संविशती दिवः ॥ 12॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,12,11683,मूर्धन्यवततारेयं गङ्गा संविशती विभो । लोकानामखिलानां च पापहारिजलाकुला ॥ 13॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,13,11684,इयं च साक्षाद्भगवत्पदी लोकेषु विश्रुता । कालेन महता सा तु युगसाहस्रकेण तु ॥ 14॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,14,11685,दिवो मूर्धानमागत्य देवी देवनदीश्वरी । यत्तद्विष्णुपदं नाम स्थानं त्रैलोक्यविश्रुतम् ॥ 15॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,15,11686,औत्तानपादिर्यत्रास्ते ध्रुवः परमपावनः । भगवत्पादयुगलं पद्मकोशरजो दधत् ॥ 16॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,16,11687,अद्याप्यास्ते स राजर्षिः पदवीमचलां श्रितः । तत्र सप्तर्षयस्तस्य प्रभावज्ञा महाशयाः ॥ 17॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,17,11688,प्रदक्षिणं प्रक्रमन्ति सर्वलोकहितेप्सवः । आत्यन्तिकी सिद्धिरियं तपतां सिद्धिदायिनी ॥ 18॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,18,11689,आद्रियन्ते च शिरसा जटाजूटोषितेन च । ततो विष्णुपदाद्देवी नैकसाहस्रकोटिभिः ॥ 19॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,19,11690,विमानैराकुले देवयानेऽवतरती च सा । चन्द्रमण्डलमाप्लाव्य पतन्ती ब्रह्यसद्यनि ॥ 20॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,20,11691,चतुर्धा भिद्यमाना सा ब्रह्मलोके च नारद । चतुर्भिर्नामभिर्देवी चतुर्दिशमभिसृता ॥ 21॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,21,11692,सरितां च नदीनां च पतिमेवान्वपद्यत । सीता चालकनन्दा च चतुर्भद्रेति नामभिः ॥ 22॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,22,11693,सीता च ब्रह्मसदनाच्छिखरेभ्यः क्षमाभृताम् । केसराभिधनाम्ना च प्रस्रवन्ती च स्वर्णदी ॥ 23॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,23,11694,गन्धमादनमूर्ध्नीह पतिता पापहारिणी । अन्तरेण तु भद्राश्ववर्षं प्राच्यां समागता ॥ 24॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,24,11695,क्षारोदधिं गता सा तु द्युनदी देवपूजिता । ततो माल्यवतः श‍ृङ्गाद् द्वितीया परिनिर्गता ॥ 25॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,25,11696,ततो वेगवती भूत्वा केतुमालं समागता । चक्षुर्नाम्नी देवनदी प्रतीच्यां दिश्युपागता ॥ 26॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,26,11697,सरितां पतिमाविष्टा सा गङ्गा देववन्दिता । ततस्तृतीया धारा तु नाम्ना ख्याता च नारद ॥ 27॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,27,11698,पुण्या चालकनन्दा वै दक्षिणेनाब्जभूपदात् । वनानि गिरिकूटानि समतिक्रम्य चागता ॥ 28॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,28,11699,हेमकूटं गिरिवरं प्राप्तातोऽपीह निर्गता । अतिवेगवती भूत्वा भारतं चागतापरा ॥ 29॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,29,11700,दक्षिणं जलधिं प्राप्ता तृतीया सा सरिद्वरा । यस्याः स्नानाय सरतां मनुजानां पदे पदे ॥ 30॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,30,11701,राजसूयाश्वमेधादि फलं तु न हि दुर्लभम् । ततश्चतुर्थी धारा तु भृङ्गवत्पर्वतात्पुनः ॥ 31॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,31,11702,भद्राभिधा संस्रवन्ती कुरून्सन्तर्प्य चोत्तरान् । समुद्रं समनुप्राप्ता गङ्गा त्रैलोक्यपावनी ॥ 32॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,32,11703,अन्ये नदाश्च नद्यश्च वर्षे वर्षेऽपि सन्ति हि । बहुशो मेरुमन्दारप्रसूताश्चैव नारद ॥ 33॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,33,11704,तत्रापि भारतं वर्षं कर्मक्षेत्रमुशन्ति हि । अन्यानि चाष्टवर्षाणि भौमस्वर्गप्रदानि च ॥ 34॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,34,11705,स्वर्गिणां पुण्यशेषस्य भोगस्थानानि नारद । पुरुषाणां चायुतायुर्वज्राङ्गा देवसन्निभाः ॥ 35॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,35,11706,पुरुषा नागसाहस्रैर्दशभिः परिकल्पिताः । महासौरतसन्तुष्टाः कलत्राढ्याः सुखान्विताः ॥ 36॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,36,11707,एकवर्षोनके चायुष्याप्तगर्भाः स्त्रियोऽपि हि । त्रेतायुगसमः कालो वर्तते सर्वदैव हि ॥ 37॥ 8,८.७,सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।,37,11708,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनं नाम सप्तमोऽध्यायः ॥ ८.७॥ 8,८.८,अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।,0,11709,श्रीनारायण उवाच । तेषु वर्षेषु देवेशाः पूर्वोक्तैः स्तवनैः सदा । पूजयन्ति महादेवीं जपध्यानसमाधिभिः ॥ 1॥ 8,८.८,अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।,1,11710,सर्वर्तुकुसुमश्रेणी शोभिता वनराजयः । फलानां पल्लवानां च यत्र शोभा निरन्तरम् ॥ 2॥ 8,८.८,अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।,2,11711,तेषु काननवर्षेषु वर्षपर्वतसानुषु । गिरिद्रोणीषु सर्वासु निर्मलोदकराशिषु ॥ 3॥ 8,८.८,अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।,3,11712,विकचोत्पलमालासु हंससारससञ्चयैः । विमिश्रितेषु तेष्वेव पक्षिभिः कूजितेषु च ॥ 4॥ 8,८.८,अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।,4,11713,जलक्रीडादिभिश्चित्रविनोदैः क्रीडयन्ति च । सुन्दरीललितभ्रूणां विलासायतनेषु च ॥ 5॥ 8,८.८,अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।,5,11714,तत्रत्या विहरन्त्यत्र स्वैरं युवतिभिः सह । नवस्वपि च वर्षेषु भगवानादिपूरुषः ॥ 6॥ 8,८.८,अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।,6,11715,(नारायणाख्यो लोकानामनुग्रहरसैकदृक् ।) देवीमाराधयन्नास्ते स च सर्वैश्च पूज्यते । आत्मव्यूहेनेज्ययासौ सन्निधत्ते समाहितः ॥ 7॥ 8,८.८,अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।,7,11716,इलावृते तु भगवान् पद्मजाक्षिसमुद्भवः । एक एव भवो देवो नित्यं वसति साङ्गनः ॥ 8॥ 8,८.८,अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।,8,11717,तत्क्षेत्रे नापरः कश्चित्प्रवेशं वितनोति च । भवान्याः शापतस्तत्र पुमान्स्त्री भवति स्फुटम् ॥ 9॥ 8,८.८,अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।,9,11718,भवानीनाथकैः स्त्रीणामसङ्ख्यैर्गणकोटिभिः । संरुध्यमानो देवेशो देवं सङ्कर्षणं भजन् ॥ 10॥ 8,८.८,अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।,10,11719,आत्मना ध्यानयोगेन सर्वभूतहितेच्छया । तां तामसीं तुरीयां च मूर्तिं प्रकृतिमात्मनः ॥ 11॥ 8,८.८,अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।,11,11720,उपधावते चैकाग्रमनसा भगवानजः । श्रीभगवानुवाच । ओन्नमो भगवते महापुरुषाय सर्वगुणसङ्ख्यानायानन्तायाव्यक्ताय नम इति ॥ 12॥ 8,८.८,अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।,12,11721,भजे भजन्यारणपादपङ्कजं भगस्य कृत्स्नस्य परं परायणम् । भक्तेष्वलं भावितभूतभावनं भवापहं त्वा भव भावमीश्वरम् ॥ 13॥ 8,८.८,अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।,13,11722,न यस्य मायागुणकर्मवृत्तिभि- र्निरीक्षितो ह्यण्वपि दृष्टिरज्यते । ईशे यथा नो जितमन्युरंहसा कस्तं न मन्येत जिगीषुरात्मनः ॥ 14॥ 8,८.८,अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।,14,11723,असद्दृशो यः प्रतिभाति मायया क्षीबेव मध्वासवतागम्रलोचनः । न नागवध्वोऽर्हण ईशिरे ह्रिया यत्पादयोः स्पर्शनधर्षितेन्द्रियाः ॥ 15॥ 8,८.८,अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।,15,11724,यमाहुरस्य स्थितिजन्मसंयमं त्रिभिर्विहीनं यमनन्तमॄषयः । न वेद सिद्धार्थमिव क्वचित्स्थितं भूमण्डलं मूर्धसहस्रधामसु ॥ 16॥ 8,८.८,अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।,16,11725,यस्याद्य आसीद् गुणविग्रहो महान् विज्ञानधिष्ण्यो भगवानजः किल । यत्संवृतोऽहं त्रिवृता स्वतेजसा वैकारिकं तामसमैन्द्रियं सृजे ॥ 17॥ 8,८.८,अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।,17,11726,एते वयं यस्य वशे महात्मनः स्थिताः शकुन्ता इव सूत्रयन्त्रिताः । महानहंवैकृततामसेन्द्रियाः सृजाम सर्वे यदनुग्रहादिदम् ॥ 18॥ 8,८.८,अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।,18,11727,यन्निर्मितां कर्ह्यपि कर्मपर्वणीं मायां जनोऽयं गुरुसर्गमोहितः । न वेद निस्तारणयोगमञ्जसा तस्मै नमस्ते विलयोदयात्मने ॥ 19॥ 8,८.८,अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।,19,11728,श्रीनारायण उवाच । एवं स भगवान् रुद्रो देवं सङ्कर्षणं प्रभुम् । इलावृतमुपासीत देवीगणसमाहितः ॥ 20॥ 8,८.८,अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।,20,11729,तथैव धर्मपुत्रोऽसौ नाम्ना भद्रश्रवा इति । तत्कुलस्यापि पतयः पुरुषा भद्रसेवकाः ॥ 21॥ 8,८.८,अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।,21,11730,भद्राश्ववर्षे तां मूर्तिं वासुदेवस्य विश्रुताम् । हयमूर्तिभिदा तां तु हयग्रीवपदाङ्किताम् ॥ 22॥ 8,८.८,अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।,22,11731,परमेण समाध्यन्यवारकेण नियन्त्रिताम् । एवमेव च तां मूर्तिं गृणन्त उपयान्ति च ॥ 23॥ 8,८.८,अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।,23,11732,भद्रश्रवस ऊचुः । ॐ नमो भगवते धर्मायात्मविशोधनाय नम इति । अहो विचित्रं भगवद्विचेष्टितं घ्नन्तं जनोऽयं हि मिषन्न पश्यति । ध्यायन्न सद्यर्हि विकर्म सेवितुं निर्हृत्य पुत्रं पितरं जिजीविषुः ॥ 24॥ 8,८.८,अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।,24,11733,वदन्ति विश्वं कवयः स्म नश्वरं पश्यन्ति चाध्यात्मविदो विपश्चितः । तथापि मुह्यन्ति तवाज मायया सुविस्मितं कृत्यमजं नतोऽस्मि तम् ॥ 25॥ 8,८.८,अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।,25,11734,विश्वोद्भवस्थाननिरोधकर्म ते ह्यकर्तुरङ्गीकृतमप्यपावृतः । युक्तं न चित्रं त्वयि कार्यकारणे सर्वात्मनि व्यतिरिक्ते च वस्तुतः ॥ 26॥ 8,८.८,अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।,26,11735,वेदान् युगान्ते तमसा तिरस्कृतान् रसातलाद्यो नृतुरङ्गविग्रहः । प्रत्याददे वै कवयेऽभियाचते तस्मै नमस्ते वितथेहिताय ते ॥ 27॥ 8,८.८,अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।,27,11736,एवं स्तुवन्ति देवेशं हयशीर्षं हरिं च ते । भद्रश्रवसनामानो वर्णयन्ति च तद्गुणान् ॥ 28॥ 8,८.८,अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।,28,11737,एषां चरितमेतद्धि यः पठेच्छ्रावयेच्च यः । पापकञ्चुकमुत्सृज्य देवीलोकं व्रजेच्च सः ॥ 29॥ 8,८.८,अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।,29,11738,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनं नामाष्टमोऽध्यायः ॥ ८.८॥ 8,८.९,नवमोऽध्यायः । भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनम् ।,0,11739,श्रीनारायण उवाच । हरिवर्षे च भगवान्नृहरिः पापनाशनः । वर्तते योगयुक्तात्मा भक्तानुग्रहकारकः ॥ 1॥ 8,८.९,नवमोऽध्यायः । भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनम् ।,1,11740,तस्य तद्दयितं रूपं महाभागवतोऽसुरः । पश्यन्भक्तिसमायुक्तः स्तौति तद्गुणतत्त्ववित् ॥ 2॥ 8,८.९,नवमोऽध्यायः । भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनम् ।,2,11741,प्रह्लाद उवाच । ॐ नमो भगवते नरसिंहाय नमस्तेजस्तेजसे आविराविर्भव वज्रदंष्ट्र कर्माशयान् रन्धय रन्धय तमो ग्रस ग्रस ॐ स्वाहा । अभयं ममात्मनि भूयिष्ठाः ॥ ॐ क्षौम् ॥ स्वस्त्यस्तु विश्वस्य खलः प्रसीदतां ध्यायन्तु भूतानि शिवं मिथो धिया । मनश्च भद्रं भजतादधोक्षजे आवेश्यतां नो मतिरप्यहैतुकी ॥ 3॥ 8,८.९,नवमोऽध्यायः । भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनम् ।,3,11742,मागारदारात्मजवित्तबन्धुषु सङ्गो यदि स्याद्भगवत्प्रियेषु नः । यः प्राणवृत्त्या परितुष्ट आत्मवान् सिद्ध्यत्यदूरान्न तथेन्द्रियप्रियः ॥ 4॥ 8,८.९,नवमोऽध्यायः । भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनम् ।,4,11743,यत्सङ्गलब्धं निजवीर्यवैभवं तीर्थं मुहुः संस्पृशतां हि मानसम् । हरत्यजोऽन्तः श्रुतिभिर्गतोऽङ्गजं को वै न सेवेत मुकुन्दविक्रमम् ॥ 5॥ 8,८.९,नवमोऽध्यायः । भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनम् ।,5,11744,यस्यास्ति भक्तिर्भगवत्यकिञ्चना सर्वैर्गुणैस्तत्र समासते सुराः । हरावभक्तस्य कुतो महद्गुणा मनोरथेनासति धावतो बहिः ॥ 6॥ 8,८.९,नवमोऽध्यायः । भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनम् ।,6,11745,हरिर्हि साक्षाद्भगवाञ्छरीरिणा- मात्मा झषाणामिव तोयमीप्सितम् । हित्वा महांस्तं यदि सज्जते गृहे तदा महत्त्वं वयसा दम्पतीनाम् ॥ 7॥ 8,८.९,नवमोऽध्यायः । भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनम् ।,7,11746,तस्माद्रजोरागविषादमन्यु- मानस्पृहाभयदैन्याधिमूलम् । हित्वा गृहं संसृतिचक्रवालं नृसिंहपादं भजतां कुतो भयम् ॥ 8॥ 8,८.९,नवमोऽध्यायः । भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनम् ।,8,11747,एवं दैत्यपतिः सोऽपि भक्त्यानुदिनमीडते । नृहरिं पापमातङ्गहरिं हृत्पद्मवासिनम् ॥ 9॥ 8,८.९,नवमोऽध्यायः । भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनम् ।,9,11748,केतुमाले च वर्षे हि भगवान्स्मररूपधृक् । आस्ते तद्वर्षनाथानां पूजनीयश्च सर्वदा ॥ 10॥ 8,८.९,नवमोऽध्यायः । भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनम् ।,10,11749,एतेनोपासते स्तोत्रजालेन च रमाब्धिजा । तद्वर्षनाथा सततं महतां मानदायिका ॥ 11॥ 8,८.९,नवमोऽध्यायः । भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनम् ।,11,11750,रमोवाच । ॐ ह्रां ह्रीं ह्रूं स्म नमो भगवते हृषीकेशाय सर्वगुणविशेषैर्विलक्षितात्मने आकूतीनां चित्तीनां चेतसां विशेषाणां चाधिपतये षोडशकलाय छन्दोमयायान्नमयायामृतमयाय सर्वमयाय महसे ओजसे बलाय कान्ताय कामाय नमस्ते उभयत्र भूयात् । स्त्रियो व्रतैस्त्वां हृषीकेश्वरं स्वतो ह्याराध्य लोके पतिमाशासतेऽन्यम् । तासां न ते वै परिपान्त्यपत्यं प्रियं धनायूंषि यतोऽस्वतन्त्राः ॥ 12॥ 8,८.९,नवमोऽध्यायः । भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनम् ।,12,11751,स वै पतिः स्यादकुतोभयः स्वतः समन्ततः पाति भयातुरं जनम् । स एक एवेतरथा मिथो भयं नैवात्मलाभादधिमन्यते परम् ॥ 13॥ 8,८.९,नवमोऽध्यायः । भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनम् ।,13,11752,या तस्य ते पादसरोरुहार्हणं न कामयेत्साखिलकामलम्पटा । तदेव रासीप्सितमीप्सितोऽर्चितो यद्भग्नयाञ्चा भगवन् प्रतप्यते ॥ 14॥ 8,८.९,नवमोऽध्यायः । भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनम् ।,14,11753,मत्प्राप्तयेऽजेशसुरासुरादय- स्तप्यन्त उग्रं तप ऐन्द्रिये धियः । ऋते भवत्पादपरायणान्न मां विदन्त्यहं त्वद्धृदया यतोऽजित ॥ 15॥ 8,८.९,नवमोऽध्यायः । भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनम् ।,15,11754,स त्वं ममाप्यच्युत शीर्ष्णि वन्दितं कराम्बुजं यत्त्वदधायि सात्वताम् । बिभर्षि मां लक्ष्य वरेण्य मायया क ईश्वरस्येहितमूहितुं विभुः ॥ 16॥ 8,८.९,नवमोऽध्यायः । भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनम् ।,16,11755,एवं कामं स्तुवन्त्येव लोकबन्धुस्वरूपिणम् । प्रजापतिमुखा वर्षनाथाः कामस्य सिद्धये ॥ 17॥ 8,८.९,नवमोऽध्यायः । भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनम् ।,17,11756,रम्यके नामवर्षे च मूर्तिं भगवतः पराम् । मात्स्यां देवासुरैर्वन्द्यां मनुः स्तौति निरन्तरम् ॥ 18॥ 8,८.९,नवमोऽध्यायः । भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनम् ।,18,11757,मनुरुवाच । ॐ नमो भगवते मुख्यतमाय नमः सत्त्वाय प्राणायौजसे बलाय महामत्स्याय नमः । अन्तर्बहिश्चाखिललोकपालकै- रदृष्टरूपो विचरस्युरुस्वनः । स ईश्वरस्त्वं य इदं वशे नय- न्नाम्ना यथा दारुमयीं नरः स्त्रियम् ॥ 19॥ 8,८.९,नवमोऽध्यायः । भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनम् ।,19,11758,यं लोकपालाः किल मत्सरज्वरा हित्वा यतन्तोऽपि पृथक् समेत्य च । पातुं न शेकुर्द्विपदश्चतुष्पदः सरीसृपं स्थाणु यदत्र दृश्यते ॥ 20॥ 8,८.९,नवमोऽध्यायः । भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनम् ।,20,11759,भवान् युगान्तार्णव ऊर्मिमालिनि क्षोणीमिमामोषधिवीरुधां निधिम् । मया सहोरुक्रम तेऽज ओजसा तस्मै जगत्प्राणगणात्मने नमः ॥ 21॥ 8,८.९,नवमोऽध्यायः । भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनम् ।,21,11760,एवं स्तौति च देवेशं मनुः पार्थिवसत्तमः । मत्स्यावतारं देवेशं संशयच्छेदकारणम् ॥ 22॥ 8,८.९,नवमोऽध्यायः । भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनम् ।,22,11761,ध्यानयोगेन देवस्य निर्धूताशेषकल्मषः । आस्ते परिचरन्भक्त्या महाभागवतोत्तमः ॥ 23॥ 8,८.९,नवमोऽध्यायः । भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनम् ।,23,11762,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनं नाम नवमोऽध्यायः ॥ ८.९॥ 8,८.१०,दशमोऽध्यायः । भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनम् ।,0,11763,श्रीनारायण उवाच । हिरण्मये नाम वर्षे भगवान्कूर्मरूपधृक् । आस्ते योगपतिः सोऽयमर्यम्णा पूज्य ईड्यते ॥ 1॥ 8,८.१०,दशमोऽध्यायः । भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनम् ।,1,11764,अर्यमोवाच । ॐ नमो भगवते अकूपाराय सर्वसत्त्वगुण- विशेषणाय नोपलक्षितस्थानाय नमो वर्ष्मणे नमो भूम्ने नमोऽवस्थानाय नमस्ते । यद्रूपमेतन्निजमाययार्पित- मर्थस्वरूपं बहुरूपरूपितम् । सङ्ख्या न यस्यास्त्ययथोपलम्भना- त्तस्मै नमस्तेऽव्यपदेशरूपिणे ॥ 2॥ 8,८.१०,दशमोऽध्यायः । भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनम् ।,2,11765,जरायुजं स्वेदजमण्डजोद्भिदं चराचरं देवर्षिपितृभूतमैन्द्रियम् । द्यौः खं क्षितिः शैलसरित्समुद्रं द्वीपग्रहर्क्षेत्यभिधेय एकः ॥ 3॥ 8,८.१०,दशमोऽध्यायः । भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनम् ।,3,11766,यस्मिन्नसङ्ख्येयविशेषनाम- रूपाकृतौ कविभिः कल्पितेयम् । सङ्ख्या यया तत्त्वदृशापनीयते तस्मै नमः साङ्ख्यनिदर्शनाय ते ॥ 4॥ 8,८.१०,दशमोऽध्यायः । भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनम् ।,4,11767,एवं स्तुवति देवेशमर्यमा सह वर्षपैः । गीयते चापि भजते सर्वभूतभवं प्रभुम् ॥ 5॥ 8,८.१०,दशमोऽध्यायः । भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनम् ।,5,11768,तथोत्तरेषु कुरुषु भगवान्यज्ञपूरुषः । आदिवाराहरूपोऽसौ धरण्या पूज्यते सदा ॥ 6॥ 8,८.१०,दशमोऽध्यायः । भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनम् ।,6,11769,सम्पूज्य विधिवद्देवं तद्भक्त्यार्द्रार्द्रहृत्कजा । भूमिः स्तौति हरिं यज्ञवाराहं दैत्यमर्दनम् ॥ 7॥ 8,८.१०,दशमोऽध्यायः । भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनम् ।,7,11770,भूरुवाच । ॐ नमो भगवते मन्त्रतत्त्वलिङ्गाय यज्ञक्रतवे महाध्वरावयवाय महावराहाय नमः कर्मशुक्लाय त्रियुगाय नमस्ते ॥ 8॥ 8,८.१०,दशमोऽध्यायः । भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनम् ।,8,11771,यस्य स्वरूपं कवयो विपश्चितो गुणेषु दारुष्विव जातवेदसम् । मथ्नन्ति मथ्ना मनसा दिदृक्षवो गूढं क्रियार्थैर्नम ईरितात्मने ॥ 9॥ 8,८.१०,दशमोऽध्यायः । भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनम् ।,9,11772,द्रव्यक्रियाहेत्वयनेशकर्तृभि- र्मायागुणैर्वस्तुभिरीक्षितात्मने । अन्वीक्षयाङ्गातिशयात्मबुद्धिभि- र्निरस्तमायाकृतये नमोऽस्तु ते ॥ 10॥ 8,८.१०,दशमोऽध्यायः । भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनम् ।,10,11773,करोति विश्वस्थितिसंयमोदयं यस्येप्सितं नेप्सितुमीक्षितुर्गुणैः । माया यथाऽयो भ्रमते तदाश्रयं ग्राव्णो नमस्ते गुणकर्मसाक्षिणे ॥ 11॥ 8,८.१०,दशमोऽध्यायः । भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनम् ।,11,11774,प्रमथ्य दैत्यं प्रतिवारणं मृधे यो मां रसाया जगदादिसूकरः । कृत्वाग्रदंष्ट्रं निरगादुदन्वतः क्रीडन्निवेभः प्रणतास्मि तं विभुम् ॥ 12॥ 8,८.१०,दशमोऽध्यायः । भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनम् ।,12,11775,किम्पुरुषे वर्षेऽस्मिन्भगवन्तं दाशरथिं च सर्वेशम् । सीतारामं देवं श्रीहनुमानादिपूरुषं स्तौति ॥ 13॥ 8,८.१०,दशमोऽध्यायः । भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनम् ।,13,11776,ॐ नमो भगवते उत्तमश्लोकाय नम इति । आर्यलक्षणशीलव्रताय नम उपशिक्षितात्मने उपासितलोकाय नमः । साधुवादनिकषणाय नमो ब्रह्मण्यदेवाय महापुरुषाय महाभागाय नम इति । यत्तद्विशुद्धानुभवात्ममेकं स्वतेजसा ध्वस्तगुणव्यवस्थम् । प्रत्यक् प्रशान्तं सुधियोपलम्भनं ह्यनामरूपं निरहं प्रपद्ये ॥ 14॥ 8,८.१०,दशमोऽध्यायः । भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनम् ।,14,11777,मर्त्यावतारस्त्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं विभो । कुतोऽन्यथा स्याद्ऽऽरमतः स्व आत्मनः सीताकृतानि व्यसनानीश्वरस्य ॥ 15॥ 8,८.१०,दशमोऽध्यायः । भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनम् ।,15,11778,न वै स आत्माऽऽत्मवतां सुहृत्तमः सक्तस्त्रिलोक्यां भगवान्वासुदेवः । न स्त्रीकृतं कश्मलमश्नुवीत न लक्षणं चापि विहातुमर्हति ॥ 16॥ 8,८.१०,दशमोऽध्यायः । भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनम् ।,16,11779,न जन्म नूनं महतो न सौभगं न वाङ् न बुद्धिर्नाकृतिस्तोषहेतुः । तैर्यद्विसृष्टानपि नो वनौकस- श्चकार सख्ये बत लक्ष्मणाग्रजः ॥ 17॥ 8,८.१०,दशमोऽध्यायः । भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनम् ।,17,11780,सुरोऽसुरो वाप्यथवा नरोऽनरः सर्वात्मना यः सुकृतज्ञमुत्तमम् । भजेत रामं मनुजाकृतिं हरिं य उत्तराननयत्कोसलान् दिवम् ॥ 18॥ 8,८.१०,दशमोऽध्यायः । भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनम् ।,18,11781,श्रीनारायण उवाच । एवं किम्पुरुषे वर्षे सत्यसन्धं दृढव्रतम् । रामं राजीवपत्राक्षं हनुमान् वानरोत्तमः ॥ 19॥ 8,८.१०,दशमोऽध्यायः । भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनम् ।,19,11782,स्तौति गायति भक्त्या च सम्पूजयति सर्वशः । य एतच्छृणुयाच्चित्रं रामचन्द्रकथानकम् । सर्वपापविशुद्धात्मा याति रामसलोकताम् ॥ 20॥ 8,८.१०,दशमोऽध्यायः । भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनम् ।,20,11783,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनं नाम दशमोऽध्यायः ॥ ८.१०॥ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,0,11784,श्रीनारायण उवाच । भारताख्ये च वर्षेऽस्मिन्नहमादिजपूरुषः । तिष्ठामि भवता चैव स्तवनं क्रियतेऽनिशम् ॥ 1॥ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,1,11785,नारद उवाच । ॐ नमो भगवते उपशमशीलायोपरतानात्म्याय नमोऽकिञ्चनवित्ताय ऋषिऋषभाय नरनारायणाय परमहंसपरमगुरवे आत्मारामाधिपतये नमो नम इति । कर्तास्य सर्गादिषु यो न बध्यते न हन्यते देहगतोऽपि दैहिकैः । द्रष्टुर्न दृश्यस्य गुणैर्विदूष्यते तस्मै नमोऽसक्तविविक्तसाक्षिणे ॥ 2॥ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,2,11786,इदं हि योगेश्वरयोगनैपुणं हिरण्यगर्भो भगवाञ्जगाद यत् । यदन्तकाले त्वयि निर्गुणे मनो भक्त्या दधीतोज्झितदुष्कलेवरः ॥ 3॥ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,3,11787,यथैहिकामुष्मिककामलम्पटः सुतेषु दारेषु धनेषु चिन्तयन् । शङ्केत विद्वान् कुकलेवरात्यया- द्यस्तस्य यत्नः श्रम एव केवलम् ॥ 4॥ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,4,11788,तन्नः प्रभो त्वं कुकलेवरार्पितां त्वं माययाहं ममतामधोक्षज । भिन्द्याम येनाशु वयं सुदुर्भिदां विधेहि योगं त्वयि नः स्वभावजम् ॥ 5॥ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,5,11789,एवं स्तौति सदा देवं नारायणमनामयम् । नारदो मुनिशार्दूलः प्रज्ञाताखिलसारदृक् ॥ 6॥ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,6,11790,अस्मिन् वै भारते वर्षे सरिच्छैलास्तु सन्ति हि । तान्प्रवक्ष्यामि देवर्षे श‍ृणुष्वैकाग्रमानसः ॥ 7॥ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,7,11791,मलयो मङ्गलप्रस्थो मैनाकश्च त्रिकूटकः । ऋषभः कूटकः कोल्लः सह्यो देवगिरिस्तथा ॥ 8॥ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,8,11792,ऋष्यमूकश्च श्रीशैलो व्यङ्कटाद्रिर्महेन्द्रकः । वारिधारश्च विन्ध्यश्च मुक्तिमानृक्षपर्वतः ॥ 9॥ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,9,11793,पारियात्रस्तथा द्रोणश्चित्रकूटगिरिस्तथा । गोवर्धनो रैवतकः ककुभो नीलपर्वतः ॥ 10॥ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,10,11794,गौरमुखश्चेन्द्रकीलो गिरिः कामगिरिस्तथा । एते चान्येऽप्यसङ्ख्याता गिरयो बहुपुण्यदाः ॥ 11॥ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,11,11795,एतदुत्पन्नसरितः शतशोऽथ सहस्रशः । पानावगाहनस्नानदर्शनोत्कीर्तनैरपि ॥ 12॥ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,12,11796,नाशयन्ति च पापानि त्रिविधानि शरीरिणाम् । ताम्रपर्णी चन्द्रवशा कृतमाला वटोदका ॥ 13॥ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,13,11797,वैहायसी च कावेरी वेणा चैव पयस्विनी । तुङ्गभद्रा कृष्णवेणा शर्करावर्तका तथा ॥ 14॥ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,14,11798,गोदावरी भीमरथी निर्विन्ध्या च पयोष्णिका । तापी रेवा च सुरसा नर्मदा च सरस्वती ॥ 15॥ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,15,11799,चर्मण्वती च सिन्धुश्च अन्धशोणौ महानदौ । ऋषिकुल्या त्रिसामा च वेदस्मृतिर्महानदी ॥ 16॥ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,16,11800,कौशिकी यमुना चैव मन्दाकिनी दृषद्वती । गोमती सरयू रोधवती सप्तवती तथा ॥ 17॥ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,17,11801,सुषोमा च शतद्रुश्च चन्द्रभागा मरुद्वृधा । वितस्ता च असिक्नी च विश्वा चेति प्रकीर्तिताः ॥ 18॥ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,18,11802,अस्मिन्वर्षे लब्धजन्मपुरुषैः स्वस्वकर्मभिः । शुक्ललोहितकृष्णाख्यैर्दिव्यमानुषनारकाः ॥ 19॥ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,19,11803,भवन्ति विविधा भोगाः सर्वेषां च निवासिनाम् । यथा वर्णविधानेनापवर्गो भवति स्फुटम् ॥ 20॥ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,20,11804,एतदेव च वर्षस्य प्राधान्यं कार्यसिद्धितः । वदन्ति मुनयो वेदवादिनः स्वर्गवासिनः ॥ 21॥ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,21,11805,अहो अमीषां किमकारि शोभनं प्रसन्न एषां स्विदुत स्वयं हरिः । यैर्जन्म लब्धं नृषु भारताजिरे मुकुन्दसेवौपयिकं स्पृहा हि नः ॥ 22॥ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,22,11806,किं दुष्करैर्नः क्रतुभिस्तपोव्रतै- र्दानादिभिर्वा द्युजयेन फल्गुना । न यत्र नारायणपदपङ्कज- स्मृतिः प्रमुष्टातिशयेन्द्रियोत्सवात् ॥ 23॥ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,23,11807,कल्पायुषां स्थानजयात्पुनर्भवा- त्क्षणायुषां भारतभूजयो वरम् । क्षणेन मर्त्येन कृतं मनस्विनः संन्यस्य संयान्त्यभयं पदं हरेः ॥ 24॥ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,24,11808,न यत्र वैकुण्ठकथासुधापगा न साधवो भागवतास्तदाश्रयाः । न यत्र यज्ञेशमखा महोत्सवाः सुरेशलोकोऽपि न वै स सेव्यताम् ॥ 25॥ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,25,11809,प्राप्ता नृजातिं त्विह ये च जन्तवो ज्ञानक्रियाद्रव्यकलापसम्भृताम् । न वै यतेरन्न पुनर्भवाय ते भूयो वनौका इव यान्ति बन्धनम् ॥ 26॥ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,26,11810,यैः श्रद्धया बर्हिषि भागशो हवि- र्निरुप्तमिष्टं विधिमन्त्रवस्तुतः । एकः पृथङ्नामभिराहुतो मुदा गृह्णाति पूर्णः स्वयमाशिषां प्रभुः ॥ 27॥ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,27,11811,सत्यं दिशत्यर्थितमर्थितो नृणां नैवार्थदो यत्पुनरर्थिता यतः । स्वयं विधत्ते भजतामनिच्छता- मिच्छापिधानं निजपादपल्लवम् ॥ 28॥ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,28,11812,(यद्यत्र नः स्वर्गसुखावशेषितं स्विष्टस्य पूर्तस्य कृतस्य शोभनम् । तेनाब्जनाभे स्मृतिमज्जन्म नः स्या- द्वर्षे हरिर्भजतां शं तनोति ॥) श्रीनारायण उवाच । एवं स्वर्गगता देवाः सिद्धाश्च परमर्षयः । प्रवदन्ति च माहात्म्यं भारतस्य सुशोभनम् ॥ 29॥ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,29,11813,जम्बुद्वीपस्य चाष्टौ हि उपद्वीपाः स्मृताः परे । हयमार्गान्विशोधद्भिः सागरैः परिकल्पिताः ॥ 30॥ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,30,11814,स्वर्णप्रस्थश्चन्द्रशुक्र आवर्तनरमाणकौ । मन्दरोपाख्यहरिणः पाञ्चजन्यस्तथैव च ॥ 31॥ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,31,11815,सिंहलश्चैव लङ्केति उपद्वीपाष्टकं स्मृतम् । जम्बुद्वीपस्य मानं हि कीर्तितं विस्तरेण च ॥ 32॥ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,32,11816,अतः परं प्रवक्ष्यामि प्लक्षादिद्वीपषट्ककम् ॥ 33॥ 8,८.११,एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।,33,11817,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णने भारतवर्षवर्णनं नामैकादशोऽध्यायः ॥ ८.११॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,0,11818,श्रीनारायण उवाच । जम्बुद्वीपो यथा चायं यत्प्रमाणेन कीर्तितः । तावता सर्वतः क्षारोदधिना परिवेष्टितः ॥ 1॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,1,11819,जम्ब्वाख्येन यथा मेरुस्तथा क्षारोदकेन च । क्षारोदधिस्तु द्विगुणः प्लक्षाख्येनोपवेष्टितः ॥ 2॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,2,11820,यथैव परिखा बाह्योपवनेन हि वेष्ट्यते । प्लक्षाख्यश्च स्वयं जम्बुप्रमाणो द्वीपरूपधृक् ॥ 3॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,3,11821,हिरण्मयोऽग्निस्तत्रैव तिष्ठतीति विनिश्चयः । प्रियव्रतात्मजस्तत्र सप्तजिह्व इति स्मृतः ॥ 4॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,4,11822,अग्निस्तदधिपस्त्विध्मजिह्वः स्वं द्वीपमेव च । विभज्य सप्तवर्षाणि स्वपुत्रेभ्यो ददौ विभुः ॥ 5॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,5,11823,स्वयमात्मविदां मान्यां योगचर्यां समाश्रितः । तेनैव चात्मयोगेन भगवन्तमुपागतः ॥ 6॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,6,11824,शिवं च यवसं भद्रं शान्तं क्षेमामृते तथा । अभयं चेति सप्तैव तद्वर्षाणि सदेक्षताम् ॥ 7॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,7,11825,तेषु प्रोक्ता नदीः सप्त गिरयः सप्त चैव हि । अरुणा नृम्णाङ्गिरसी सावित्री सुप्रभातिका ॥ 8॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,8,11826,ऋतम्भरा सत्यम्भरा इति नद्यः प्रकीर्तिताः । मणिकूटो वज्रकूट इन्द्रसेनस्तथैव च ॥ 9॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,9,11827,ज्योतिष्मान्वै सुपर्णश्च हिरण्यष्ठीव एव च । मेघमाल इति ख्याताः प्लक्षद्वीपस्य पर्वताः ॥ 10॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,10,11828,नदीनां जलमात्रेण दर्शनस्पर्शनादिभिः । निर्धूताशेषरजसो निस्तमस्काः प्रजास्तथा ॥ 11॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,11,11829,हंसश्चैव पतङ्गश्च ऊर्ध्वायन इतीव च । सत्याङ्गसंज्ञाश्चत्वारो वर्णाः प्लक्षस्य द्वीपके ॥ 12॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,12,11830,सहस्रायुप्रमाणाश्च विविधोपमदर्शनाः । स्वर्गद्वारं त्रयीविद्याविधिनार्कं यजन्ति ते ॥ 13॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,13,11831,प्रत्नस्य विष्णो रूपं च सत्यर्तस्य च ब्रह्मणः । अमृतस्य च मृत्योश्च सूर्यमात्मानमीमहि ॥ 14॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,14,11832,प्लक्षादिषु च सर्वेषु पञ्चद्वीपेषु नारद । आयुरिन्द्रियमोजश्च बलं बुद्धिः सहोऽपि च ॥ 15॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,15,11833,विक्रमः सर्वलोकानां सिद्धिरौत्पत्तिकी सदा । प्लक्षद्वीपात्परं चेक्षुरसोदः सरिताम्पतिः ॥ 16॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,16,11834,प्लक्षद्वीपं समग्रं च परिवार्यावतिष्ठते । शाल्मलाख्यस्ततो द्वीपश्चास्माद् द्विगुणविस्तरः ॥ 17॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,17,11835,समानेन सुरोदेन सिन्धुना परिवेष्टितः । यत्र वै शाल्मलीवृक्षः प्लक्षायामः प्रकीर्तितः ॥ 18॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,18,11836,स्थानं तत्पक्षिराजस्य गरुडस्य महात्मनः । तस्य द्वीपस्य नाथो हि यज्ञबाहुः प्रियव्रतात् ॥ 19॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,19,11837,जातः स एव सप्तभ्यः स्वपुत्रेभ्यो ददौ धराम् । तद्वर्षाणां च नामानि कथितानि निबोधत ॥ 20॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,20,11838,सुरोचनं सौमनस्यं रमणं देववर्षकम् । पारिभद्रं तथा चाप्यायनं विज्ञातनामकम् ॥ 21॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,21,11839,तेषु वर्षाद्रयः सप्त सप्तैव सरितः स्मृताः । सरसः शतश‍ृङ्गश्च वामदेवश्च कन्दकः ॥ 22॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,22,11840,कुमुदः पुष्पवर्षश्च सहस्रश्रुतिरेव च । एते च पर्वताः सप्त नदीनामानि चोच्यते ॥ 23॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,23,11841,अनुमतिः सिनीवाली सरस्वती कुहूस्तथा । रजनी चैव नन्दा च राकेति परिकीर्तिताः ॥ 24॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,24,11842,तद्वर्षपुरुषाः सर्वे चातुर्वर्ण्यसमाह्वयाः । श्रुतधरो वीर्यधरो वसुन्धर इषुन्धरः ॥ 25॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,25,11843,भगवन्तं वेदमयं यजन्ते सोममीश्वरम् । स्वगोभिः पितृदेवेभ्यो विभजन्कृष्णशुक्लयोः ॥ 26॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,26,11844,सर्वासां च प्रजानां च राजा सोमः प्रसीदतु । एवं सुरोदाद् द्विगुणः स्वमानेन प्रकीर्तितः ॥ 27॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,27,11845,घृतोदेनावृतः सोऽयं कुशद्वीपः प्रकाशते । यस्मिन्नास्ते कुशस्तम्बो द्वीपाख्याकारणो ज्वलन् ॥ 28॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,28,11846,स्वशष्परोचिषा काष्ठा भासयन्परितिष्ठते । हिरण्यरेतास्तद्द्वीपपतिः प्रैयव्रत स्वराट् ॥ 29॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,29,11847,स्वपुत्रेभ्यश्च सप्तभ्यस्तद्द्वीपं सप्तधाभजत् । वसुश्च वसुदानश्च तथा दृढरुचिः परः ॥ 30॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,30,11848,नाभिगुप्तस्तुत्यव्रतौ विविक्तनामदेवकौ । तेषां वर्षेषु सप्तैव सीमागिरिवराः स्मृताः ॥ 31॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,31,11849,नद्यः सप्तैव सन्तीह तन्नामानि निबोधत । चक्रस्तथा चतुःश‍ृङ्गः कपिलश्चित्रकूटकः ॥ 32॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,32,11850,देवानीकश्चोर्ध्वरोमा द्रविणः सप्त पर्वताः । रसकुल्या मधुकुल्या मित्रविन्दा तथैव च ॥ 33॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,33,11851,श्रुतविन्दा देवगर्भा घृतच्युन्मन्दमालिके । यत्पयोभिः कुशद्वीपवासिनः सर्व एव ते ॥ 34॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,34,11852,कुशलः कोविदश्चैवाप्यभियुक्तस्तथैव च । कुलकश्चेति संज्ञाभिश्चतुर्वर्णाः प्रकीर्तिताः ॥ 35॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,35,11853,जातवेदसरूपं तं देवं कर्मजकौशलैः । यजन्ते देववर्याभाः सर्वे सर्वविदो जनाः ॥ 36॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,36,11854,परस्यब्रह्मणः साक्षाज्जातवेदोऽसि हव्यवाट् । देवानां पुरुषाङ्गानां यज्ञेन पुरुषं यज । एवं यजन्ते ज्वलनं सर्वे द्वीपाधिवासिनः ॥ 37॥ 8,८.१२,द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।,37,11855,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनं नाम द्वादशोऽध्यायः ॥ ८.१२॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,0,11856,नारद उवाच । शिष्टद्वीपप्रमाणं च वद सर्वार्थदर्शन । येन विज्ञातमात्रेण परानन्दमयो भवेत् ॥ 1॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,1,11857,श्रीरानारायण उवाच । कुशद्वीपस्य परितो घृतोदावरणं महत् । ततो बहिः क्रौञ्चद्वीपो द्विगुणः स्यात्स्वमानतः ॥ 2॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,2,11858,क्षीरोदेनावृतो भाति यस्मिन्क्रौञ्चाद्रिरस्ति च । नामनिर्वर्तकः सोऽयं द्वीपस्य परिवर्तते ॥ 3॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,3,11859,योऽसौ गुहस्य शक्त्या च भिन्नकुक्षिः पुराभवत् । क्षीरोदेनासिच्यमानो वरुणेन च रक्षितः ॥ 4॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,4,11860,घृतपृष्ठो नाम यस्य विभाति किल नायकः । प्रियव्रतात्मजः श्रीमान् सर्वलोकनमस्कृतः ॥ 5॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,5,11861,स्वद्वीपं तु विभज्यैव सप्तधा स्वात्मजान्ददौ । पुत्रनामसु वर्षेषु वर्षपान्सन्निवेशयन् ॥ 6॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,6,11862,स्वयं भगवतस्तस्य शरणं सञ्जगाम ह । आमो मधुरुहश्चैव मेघपृष्ठः सुधामकः ॥ 7॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,7,11863,भ्राजिष्ठो लोहितार्णश्च वनस्पतिरितीव च । नगा नद्यश्च सप्तैव विख्याता भुवि सर्वतः ॥ 8॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,8,11864,शुक्लो वै वर्धमानश्च भोजनश्चोपबर्हणः । नन्दश्च नन्दनः सर्वतोभद्र इति कीर्तिताः ॥ 9॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,9,11865,अभया अमृतौघा चार्यका तीर्थवतीति च । वृत्तिरूपवती शुक्ला पवित्रवतिका तथा ॥ 10॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,10,11866,एतासामुदकं पुण्यं चातुर्वर्ण्येन पीयते । पुरुषऋषभौ तद्वद् द्रविणाख्यश्च देवकः ॥ 11॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,11,11867,एते चतुर्वर्णजाताः पुरुषा निवसन्ति हि । तत्रत्याः पुरुषा आपोमयं देवमपां पतिम् ॥ 12॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,12,11868,पूर्णेनाञ्जलिना भक्त्या यजन्ते विविधक्रियाः । आपः पुरुषवीर्याः स्थ पुनन्तीर्भूर्भुवः स्वरः ॥ 13॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,13,11869,ता नः पुनीतामीवघ्नीः स्पृशतामात्मना भुवः । इति मन्त्रजपान्ते च स्तुवन्ति विविधैः स्तवैः ॥ 14॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,14,11870,एवं परस्तात्क्षीरोदात्परितश्चोपवेशितः । द्वात्रिंशल्लक्षसङ्ख्याकयोजनायाममाश्रितः ॥ 15॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,15,11871,स्वमानेन च द्वीपोऽयं दधिमण्डोदकेन च । शाकद्वीपो विशिष्टोऽयं यस्मिच्छाको महीरुहः ॥ 16॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,16,11872,स्वक्षेत्रव्यपदेशस्य कारणं स हि नारद । प्रैयव्रतोऽधिपस्तस्य मेधातिथिरिति स्मृतः ॥ 17॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,17,11873,विभज्य सप्त वर्षाणि पुत्रनामानि तेषु च । सप्त पुत्रान्निजान् स्थाप्य स्वयं योगगतिं गतः ॥ 18॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,18,11874,पुरोजवो मनःपूर्वजवोऽथ पवमानकः । धूम्रानीकश्चित्ररेफो बहुरूपोऽथ विश्वधृक् ॥ 19॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,19,11875,मर्यादागिरयः सप्त नद्यः सप्तैव कीर्तिताः । ईशान ऊरुश‍ृङ्गोऽथ बलभद्रः शतकेशरः ॥ 20॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,20,11876,सहस्रस्रोतको देवपालोऽप्यन्ते महाशनः । एतेऽद्रयः सप्त चोक्ताः सरिन्नामानि सप्त च ॥ 21॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,21,11877,अनघा प्रथमाऽऽयुर्दा उभयस्पृष्टिरेव च । अपराजिता पञ्चपदी सहस्रश्रुतिरेव च ॥ 22॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,22,11878,ततो निजधृतिश्चोक्ताः सप्त नद्यो महोज्ज्वलाः । तद्वर्षपुरुषाः सर्वे सत्यव्रतक्रतुव्रतौ ॥ 23॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,23,11879,दानव्रतानुव्रतौ च चतुर्वर्णा उदीरिताः । भगवन्तं प्राणवायुं प्राणायामेन संयुताः ॥ 24॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,24,11880,यजन्ति निर्धूतरजस्तमसः परमं हरिम् । अन्तः प्रविश्य भूतानि यो बिभर्त्यात्मकेतुभिः ॥ 25॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,25,11881,अन्तर्यामीश्वरः साक्षात्पातु नो यद्वशे इदम् । परस्ताद्दधिमण्डोदात्ततस्तु बहुविस्तरः ॥ 26॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,26,11882,पुष्करद्वीपनामायं शाकद्वीपद्विसङ्गुणः । स्वसमानेन स्वादूदकेनायं परिवेष्टितः ॥ 27॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,27,11883,यत्रास्ते पुष्करं भ्राजदग्निचूडानिभानि च । पत्राणि विशदानीह स्वर्णपत्रायुतायुतम् ॥ 28॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,28,11884,श्रीमद्भगवतश्चेदमासनं परमेष्ठिनः । कल्पितं लोकगुरुणा सर्वलोकसिसृक्षया ॥ 29॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,29,11885,तद्द्वीप एक एवायं मानसोत्तरनामकः । अर्वाचीनपराचीनवर्षयोरवधिर्गिरिः ॥ 30॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,30,11886,उच्छ्रायायामयोः सङ्ख्यायुतयोजनसम्मिता । यत्र दिक्षु च चत्वारि चतसृषु पुराणि ह ॥ 31॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,31,11887,इन्द्रादिलोकपालानां यदुपर्यर्कनिर्गमः । मेरुं प्रदक्षिणीकुर्वन् भानुः पर्येति यत्र हि ॥ 32॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,32,11888,संवत्सरात्मकं चक्रं देवाहोरात्रतो भ्रमन् । प्रैयव्रतोऽधिपो वीतिहोत्रः स्वात्मजकद्वयम् ॥ 33॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,33,11889,वर्षद्वये परिस्थाप्य वर्षनामधरं क्रमात् । रमणो धातकिश्चैव तत्तद्वर्षपती उभौ ॥ 34॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,34,11890,कृताः स्वयं पूर्वजवद्भगवद्भक्तितत्पराः । तद्वर्षपुरुषा ब्रह्मरूपिणं परमेश्वरम् ॥ 35॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,35,11891,सकर्मकेन योगेन यजन्ति परिशीलिताः । यत्तत्कर्ममयं लिङ्ग ब्रह्मलिङ्गं जनोऽर्चयेत् । एकान्तमद्वयं शान्तं तस्मै भगवते नमः ॥ 36॥ 8,८.१३,त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।,36,11892,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णनं क्रौञ्चशाकपुष्करद्वीपवर्णनं नाम त्रयोदशोऽध्यायः ॥ ८.१३॥ 8,८.१४,चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् ।,0,11893,नारायण उवाच । ततः परस्तादचलो लोकालोकेति नामकः । अन्तराले च लोकालोकयोर्यः परिकल्पितः ॥ 1॥ 8,८.१४,चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् ।,1,11894,यावदस्ति च देवर्षे ह्यन्तरं मानसोत्तरात् । सुमेरोस्तावती शुद्धा काञ्चनी भूमिरस्ति हि ॥ 2॥ 8,८.१४,चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् ।,2,11895,दर्पणोदरतुल्या सा सर्वप्राणिविवर्जिता । यस्यां पदार्थः प्रहितो न किञ्चित्प्रत्युदीयते ॥ 3॥ 8,८.१४,चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् ।,3,11896,अतः सर्वप्राणिसङ्घरहिता सा च नारद । लोकालोक इति व्याख्या यदत्र परिकल्पिता ॥ 4॥ 8,८.१४,चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् ।,4,11897,लोकालोकान्तरे चास्य वर्तते सर्वदा स्थितिः । ईश्वरेण स लोकानां त्रयाणामन्तगः कृतः ॥ 5॥ 8,८.१४,चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् ।,5,11898,सूर्यादीनां ध्रुवान्तानां रश्मयो यद्वशादिह । अर्वाचीनाश्च त्रीँल्लोकानातन्वानाः कदापि हि ॥ 6॥ 8,८.१४,चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् ।,6,11899,पराचीनत्वभाजो हि न भवन्ति च नारद । तावदुन्नहनायामः पर्वतेन्द्रो महोदयः ॥ 7॥ 8,८.१४,चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् ।,7,11900,एतावाँल्लोकविन्यासोऽयं संस्थामानलक्षणैः । कविभिः स तु पञ्चाशत्कोटिभिर्गणितस्य च ॥ 8॥ 8,८.१४,चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् ।,8,11901,भूगोलस्य चतुर्थांशो लोकालोकाचलो मुने । तस्योपरि चतुर्दिक्षु ब्रह्मणा चात्मयोनिना ॥ 9॥ 8,८.१४,चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् ।,9,11902,निवेशिता दिग्गजा ये तन्नामानि निबोधत । ऋषभः पुष्पचूडोऽथ वामनोऽथापराजितः ॥ 10॥ 8,८.१४,चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् ।,10,11903,एते समस्तलोकस्य स्थितिहेतव ईरिताः । तेषां च स्वविभूतीनां बहुवीर्योपबृंहणम् ॥ 11॥ 8,८.१४,चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् ।,11,11904,विशुद्धसत्त्वं चैश्वर्यं वर्धयन्भगवान् हरिः । आस्ते सिद्ध्यष्टकोपेतो विष्वक्सेनादिसंवृतः ॥ 12॥ 8,८.१४,चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् ।,12,11905,निजायुधैः परिवृतो भुजदण्डैः समन्ततः । आस्ते सकललोकस्य स्वस्तये परमेश्वरः ॥ 13॥ 8,८.१४,चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् ।,13,11906,आकल्पमेवं वेषं स गतो विष्णुः सनातनः । स्वमायारचितस्यास्य गोपीथायात्मसाधनः ॥ 14॥ 8,८.१४,चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् ।,14,11907,योऽन्तर्विस्तार एतेन ह्यलोकपरिमाणकम् । व्याख्यातं यद्बहिर्लोकालोकाचल इतीरणात् ॥ 15॥ 8,८.१४,चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् ।,15,11908,ततः परस्ताद्योगेशगतिं शुद्धा वदन्ति हि । अण्डमध्यगतः सूर्यो द्यावाभूम्योर्यदन्तरम् ॥ 16॥ 8,८.१४,चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् ।,16,11909,सूर्याण्डगोलयोर्मध्ये कोट्यः स्युः पञ्चविंशतिः । मृतेऽण्ड एष एतस्मिञ्जातो मार्तण्डशब्दभाक् ॥ 17॥ 8,८.१४,चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् ।,17,11910,हिरण्यगर्भ इति यद्धिरण्याण्डसमुद्भवः । सूर्येण हि विभज्यन्ते दिशः खं द्यौर्महीभिदा ॥ 18॥ 8,८.१४,चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् ।,18,11911,स्वर्गापवर्गौ नरका रसौकांसि च सर्वशः । देवतिर्यङ्मनुष्याणां सरीसृपसवीरुधाम् ॥ 19॥ 8,८.१४,चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् ।,19,11912,सर्वजीवनिकायानां सूर्य आत्मा दृगीश्वरः । एतावान्भूमण्डलस्य सन्निवेश उदाहृतः ॥ 20॥ 8,८.१४,चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् ।,20,11913,एतेन हि दिवो मानं वर्णयन्ति च तद्विदः । द्विदलानां च निष्पावादीनां च दलयोर्यथा ॥ 21॥ 8,८.१४,चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् ।,21,11914,अन्तरेण तयोरन्तरिक्षं तदुभयसन्धितम् । यन्मध्यगश्च भगवान् भानुर्वै तपतां वरः ॥ 22॥ 8,८.१४,चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् ।,22,11915,आतपेन त्रिलोकं च प्रतपत्येव भासयन् । उत्तरायणमासाद्य गतिमान्द्यं वितन्वते ॥ 23॥ 8,८.१४,चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् ।,23,11916,आरोहणस्थानमसौ गत्वाहो दैर्ध्यमाचरेत् । दक्षिणायनमासाद्य गतिशैघ्र्यं वितन्वते ॥ 24॥ 8,८.१४,चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् ।,24,11917,अवरोहस्थानमसौ गच्छन्ह्रस्वं दिनं चरेत् । विषुवत्संज्ञमासाद्य गतिसाम्यं वितन्वते ॥ 25॥ 8,८.१४,चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् ।,25,11918,समस्थानमथासाद्य दिनसाम्यं करोति च । यदा च मेषतुलयोः सञ्चरेद्धि दिवाकरः ॥ 26॥ 8,८.१४,चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् ।,26,11919,समानानि त्वहोरात्राण्यातनोति त्रयीमयः । वृषादिपञ्चसु यदा राशिष्वर्को विरोचते ॥ 27॥ 8,८.१४,चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् ।,27,11920,तदाहानि च वर्धन्ते रात्रयोऽपि ह्रसन्ति च । वृश्चिकादिषु सूर्यो हि यदा सञ्चरते रविः ॥ 28॥ 8,८.१४,चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् ।,28,11921,तदापीमान्यहोरात्राणि भवन्ति विपर्ययात् ॥ 29॥ 8,८.१४,चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् ।,29,11922,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे सूर्यगतिवर्णनं नाम चतुर्दशोऽध्यायः ॥ ८.१४॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,0,11923,श्रीनारायण उवाच । अतः परं प्रवक्ष्यामि भानोर्गमनमुत्तमम् । शीघ्रमन्दादिगतिभिस्त्रिविधं गमनं रवेः ॥ 1॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,1,11924,सर्वग्रहाणां त्रीण्येव स्थानानि सुरसत्तम । स्थानं जारद्गवं मध्यं तथैरावतमुत्तरम् ॥ 2॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,2,11925,वैश्वानरं दक्षिणतो निर्दिष्टमिति तत्त्वतः । अश्विनी कृत्तिका याम्या नागवीथीति शब्दिता ॥ 3॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,3,11926,रोहिण्यार्द्रा मृगशिरो गजवीथ्यभिधीयते । पुष्याश्लेषा तथाऽऽदित्या वीथी चैरावती स्मृता ॥ 4॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,4,11927,एतास्तु वीथयस्तिस्र उत्तरो मार्ग उच्यते । तथा द्वे चापि फल्गुन्यौ मघा चैवार्षभी मता ॥ 5॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,5,11928,हस्तश्चित्रा तथा स्वाती गोवीथीति तु शब्दिता । ज्येष्ठा विशाखानुराधा वीथी जारद्गवी मता ॥ 6॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,6,11929,एतास्तु वीथयस्तिस्रो मध्यमो मार्ग उच्यते । मूलाषाढोत्तराषाढा अजवीथ्यभिशब्दिता ॥ 7॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,7,11930,श्रवणं च धनिष्ठा च मार्गी शतभिषक् तथा । वैश्वानरी भाद्रपदे रेवती चैव कीर्तिता ॥ 8॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,8,11931,एतास्तु वीथयस्तिस्रो दक्षिणो मार्ग उच्यते । उत्तरायणमासाद्य युगाक्षान्तर्निबद्धयोः ॥ 9॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,9,11932,कर्षणं पाशयोर्वायुबद्धयो रोहणं स्मृतम् । तदाभ्यन्तरगान्मण्डलाद्रथस्य गतेर्भवेत् ॥ 10॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,10,11933,मान्द्यं दिवसवृद्धिश्च जायते सुरसत्तम । रात्रिह्रासश्च भवति सौम्यायनक्रमो ह्ययम् ॥ 11॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,11,11934,दक्षिणायनके पाशे प्रेरणादवरोहणम् । बहिर्मण्डलवेशेन गतिशैघ्र्यं तदा भवेत् ॥ 12॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,12,11935,तदा दिनाल्पता रात्रिवृद्धिश्च परिकीर्तिता । वैषुवे पाशसाम्यात्तु समावस्थानतो रवेः ॥ 13॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,13,11936,मध्यमण्डलवेशश्च साम्यं रात्रिदिनादिके । आकृष्येते यदा तौ तु ध्रुवेण समधिष्ठितौ ॥ 14॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,14,11937,तदाभ्यन्तरतः सूर्यो भ्रमते मण्डलानि च । ध्रुवेण मुच्यमानेन पुना रश्मियुगेन तु ॥ 15॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,15,11938,तथैव बाह्यतः सूर्यो भ्रमते मण्डलानि च । तस्मिन्मेरौ पूर्वभागे पुर्यैन्द्री देवधानिका ॥ 16॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,16,11939,दक्षिणे वै संयमनी नाम याम्या महापुरी । पश्चान्निम्लोचनी नाम वारुणी वै महापुरी ॥ 17॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,17,11940,तदुत्तरे पुरी सौम्या प्रोक्ता नाम विभावरी । ऐन्द्रपुर्यां रवेः प्रोक्त उदयो ब्रह्मवादिभिः ॥ 18॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,18,11941,संयमन्यां च मध्याह्ने निम्लोचन्यां निमीलनम् । विभावर्यां निशीथः स्यात्तिग्मांशोः सुरपूजितः ॥ 19॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,19,11942,प्रवृत्तेश्च निमित्तानि भूतानां तानि सर्वशः । मेरोश्चतुर्दिशं भानोः कीर्तितानि मया मुने ॥ 20॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,20,11943,मेरुस्थानां सदा मध्यं गत एव विभाति हि । सव्यं गच्छन्दक्षिणेन करोति स्वर्णपर्वतम् ॥ 21॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,21,11944,उदयास्तमये चैव सर्वकालं तु सम्मुखे । दिशास्वशेषासु तथा सुरर्षे विदिशासु च ॥ 22॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,22,11945,यैर्यत्र दृश्यते भास्वान्स तेषामुदयः स्मृतः । तिरोभावं च यत्रैति तत्रैवास्तमनं रवेः ॥ 23॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,23,11946,नैवास्तमनमर्कस्य नोदयः सर्वदा सतः । उदयास्तमनाख्यं हि दर्शनादर्शनं रवेः ॥ 24॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,24,11947,शक्रादीनां पुरे तिष्ठन्स्पृशत्येष पुरत्रयम् । विकर्णौ द्वौ विकर्णस्थस्त्रीन्कोणान्द्वे पुरे तथा ॥ 25॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,25,11948,सर्वेषां द्वीपवर्षाणां मेरुरुत्तरतः स्थितः । यैर्यत्र दृश्यते भानुः सैव प्राचीति चोच्यते ॥ 26॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,26,11949,तद्वामभागतो मेरुर्वर्ततेति विनिर्णयः । यदि चैन्द्र्याः प्रचलते घटिका दशपञ्चभिः ॥ 27॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,27,11950,याम्यां तदा योजनानां सपादं कोटियुग्मकम् । सार्धद्वादशलक्षाणि पञ्चनेत्रसहस्रकम् ॥ 28॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,28,11951,प्रक्रामति सहस्रांशुः कालमार्गप्रदर्शकः । एवं ततो वारुणीं च सौम्यामैन्द्रीं सहस्रदृक् ॥ 29॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,29,11952,पर्येति कालचक्रात्मा द्युमणिः कालबुद्धये । तथा चान्ये ग्रहाः सोमादयो ये दिग्विचारिणः ॥ 30॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,30,11953,नक्षत्रैः सह चोद्यन्ति सह चास्तं व्रजन्ति ते । एवं मुहूर्तेन रथो भानोरष्टशताधिकम् ॥ 31॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,31,11954,योजनानां चतुस्त्रिंशल्लक्षाणि भ्रमति प्रभुः । त्रयीमयश्चतुर्दिक्षु पुरीषु च समीरणात् ॥ 32॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,32,11955,प्रवहाख्यात्सदा कालचक्रं पर्येति भानुमान् । यस्य चक्रं रथस्यैकं द्वादशारं त्रिनाभिकम् ॥ 33॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,33,11956,षण्नेमि कवयस्तं च वत्सरात्मकमूचिरे । मेरुमूर्धनि तस्याक्षो मानसोत्तरपर्वते ॥ 34॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,34,11957,कृतेतरविभागो यः प्रोतं तत्र रथाङ्गकम् । तैलकारकयन्त्रेण चक्रसाम्यं परिभ्रमन् । ३५॥ मानसोत्तरनाम्नीह गिरौ पर्येति चांशुमान् । तस्मिन्नक्षे कृतं मूलं द्वितीयोऽक्षो ध्रुवे कृतः ॥ 36॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,35,11958,तुर्यमानेन तैलस्य यन्त्राक्षवदितीरितः । कृतोपरितनो भागः सूर्यस्य जगतां पतेः ॥ 37॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,36,11959,रथनीडस्तु षट्त्रिंशल्लक्षयोजनमायतः । तत्तुर्यभागतः सोऽयं परिणाहेन कीर्तितः ॥ 38॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,37,11960,तावानर्करथस्यात्र युगस्तस्मिन्हयाः शुभाः । सप्तच्छन्दोऽभिधानाश्च सूरसूतेन योजिताः ॥ 39॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,38,11961,वहन्ति देवमादित्यं लोकानां सुखहेतवे । पुरस्तात्सवितुः सूतोऽरुणः पश्चान्नियोजितः ॥ 40॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,39,11962,सौत्ये कर्मणि संयुक्तो वर्तते गरुडाग्रजः । तथैव बालखिल्याख्या ऋषयोऽङ्गुष्ठपर्वकाः ॥ 41॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,40,11963,प्रमाणेन परिख्याताः षष्टिसाहस्रसङ्ख्यकाः । स्तुवन्ति पुरतः सूर्यं सूक्तवाक्यैः सुशोभनैः ॥ 42॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,41,11964,तथा चान्ये च ऋषयो गन्धर्वा अप्सरोरगाः । ग्रामण्यो यातुधानाश्च देवाः सर्वे परेश्वरम् ॥ 43॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,42,11965,एकैकशः सप्त सप्त मासि मासि विरोचनम् । सार्धलक्षोत्तरं कोटिनवकं भूमिमण्डलम् ॥ 44॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,43,11966,द्विसहस्रं योजनानां स गव्यूत्युत्तरं क्षणात् । पर्येति देवदेवेशो विश्वव्यापी निरन्तरम् ॥ 45॥ 8,८.१५,पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।,44,11967,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णने सूर्यगतिवर्णनं नाम पञ्चदशोऽध्यायः ॥ ८.१५॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,0,11968,श्रीनारायण उवाच । अथातः श्रूयतां चित्रं सोमादीनां गमादिकम् । तद्गत्यनुसृता नॄणां शुभाशुभनिदर्शना ॥ 1॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,1,11969,यथा कुलालचक्रेण भ्रमता भ्रमतां सह । तदाश्रयाणां च गतिरन्या कीटादिनां भवेत् ॥ 2॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,2,11970,एवं हि राशिवृन्देन कालचक्रेण तेन च । मेरुं धुरं च सरतां प्रादक्षिण्येन सर्वदा ॥ 3॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,3,11971,ग्रहाणां भानुमुख्यानां गतिरन्यैव दृश्यते । नक्षत्रान्तरगामित्वाद्भान्तरे गमनं तथा ॥ 4॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,4,11972,गतिद्वयं चाविरुद्धं सर्वत्रैष विनिर्णयः । स एव भगवानादिपुरुषो लोकभावनः ॥ 5॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,5,11973,नारायणोऽखिलाधारो लोकानां स्वस्तये भ्रमन् । कर्मशुद्धिनिमित्तं तु आत्मानं वै त्रयीमयम् ॥ 6॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,6,11974,कविभिश्चैव वेदेन विजिज्ञास्योऽर्कधाभवत् । षट्सु क्रमेण ऋतुषु वसन्तादिषु च स्वयम् ॥ 7॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,7,11975,यथोपजोषमृतुजान् गुणान् वै विदधाति च । तमेनं पुरुषाः सर्वे त्रय्या च विद्यया सदा ॥ 8॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,8,11976,वर्णाश्रमाचारपथा तथाम्नातैश्च कर्मभिः । उच्चावचैः श्रद्धया च योगानां च वितानकैः ॥ 9॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,9,11977,अञ्जसा च यजन्ते ये श्रेयो विन्दन्ति ते मतम् । अथैष आत्मा लोकानां द्यावाभूम्यन्तरेण च ॥ 10॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,10,11978,कालचक्रगतो भुङ्क्ते मासान्द्वादशराशिभिः । संवत्सरस्यावयवान्मासः पक्षद्वयं दिवा ॥ 11॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,11,11979,नक्तं चेति स पादर्क्षद्वयमित्युपदिश्यते । यावता षष्ठमंशं स भुञ्जीत ऋतुरुच्यते ॥ 12॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,12,11980,संवत्सरस्यावयवः कविभिश्चोपवर्णितः । यावतार्धेन चाकाशवीथ्यां प्रचरते रविः ॥ 13॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,13,11981,तं प्राक्तना वर्णयन्ति अयनं मुनिपूजिताः । अथ यावन्नभोमण्डलं सह प्रतिगच्छति ॥ 14॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,14,11982,कार्त्स्न्येन सह भुञ्जीत कालं तं वत्सरं विदुः । संवत्सरं परिवत्सरमिडावत्सरमेव च ॥ 15॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,15,11983,अनुवत्सरमिद्वत्सरमिति पञ्चकमीरितम् । भानोर्मान्द्यशैघ्र्यसमगतिभिः कालवित्तमैः ॥ 16॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,16,11984,एवं भानोर्गतिः प्रोक्ता चन्द्रादीनां निबोधत । एवं चन्द्रोऽर्करश्मिभ्यो लक्षयोजनमूर्ध्वतः ॥ 17॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,17,11985,उपलभ्यमानो मित्रस्य संवत्सरभुजिं च सः । पक्षाभ्यां चौषधीनाथो भुङ्क्ते मासभुजिं च सः ॥ 18॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,18,11986,सपादमाभ्यां दिवसभुक्तिं पक्षभुजिं चरेत् । एवं शीघ्रगतिः सोमो भुङ्क्ते नूनं भचक्रकम् ॥ 19॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,19,11987,पूर्यमाणकलाभिश्चामराणां प्रीतिमावहन् । क्षीयमाणकलाभिश्च पितॄणां चित्तरञ्जकः ॥ 20॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,20,11988,अहोरात्राणि तन्वानः पूर्वापरसुघस्रकैः । सर्वजीवनिकायस्य प्राणो जीवः स एव हि ॥ 21॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,21,11989,भुङ्क्ते चैकैकनक्षत्रं मुहूर्तत्रिंशता विभुः । स एव षोडशकलः पुरुषोऽनादिसत्तमः ॥ 22॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,22,11990,मनोमयोऽप्यन्नमयोऽमृतधामा सुधाकरः । देवपितृमनुष्यादिसरीसृपसवीरुधाम् ॥ 23॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,23,11991,प्राणाप्यायनशीलत्वात्स सर्वमय उच्यते । ततो भचक्रं भ्रमति योजनानां त्रिलक्षतः ॥ 24॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,24,11992,मेरुप्रदक्षिणेनैव योजितं चेश्वरेण तु । अष्टाविंशतिसङ्ख्यानि गणितानि सहाभिजित् ॥ 25॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,25,11993,ततः शुक्रो द्विलक्षेण योजनानामथोपरि । पुरः पश्चात्सहैवासावर्कस्य परिवर्तते ॥ 26॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,26,11994,शीघ्रमन्दसमानाभिर्गतिभिर्विचरन्विभुः । लोकानामनुकूलोऽयं प्रायः प्रोक्तः शुभावहः ॥ 27॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,27,11995,वृष्टिविष्टम्भशमनो भार्गवः सर्वदा मुने । शुक्राद् बुधः समाख्यातो योजनानां द्विलक्षतः ॥ 28॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,28,11996,शीघ्रमन्दसमानाभिर्गतिभिः शुक्रवत्सदा । यदार्काद्व्यतिरिच्येत सौम्यः प्रायेण तत्र तु ॥ 29॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,29,11997,अतिवाताभ्रपातानां वृष्ट्यादिभयसूचकः । उपरिष्ठात्ततो भौमो योजनानां द्विलक्षतः ॥ 30॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,30,11998,पक्षैस्त्रिभिस्त्रिभिः सोऽयं भुङ्क्ते राशीनथैकशः । द्वादशापि च देवर्षे यदि वक्रो न जायते ॥ 31॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,31,11999,प्रायेणाशुभकृत्सोऽयं ग्रहौघानां च सूचकः । नतो द्विलक्षमानेन योजनानां च गीष्पतिः ॥ 32॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,32,12000,एकैकस्मिन्नथो राशौ भुङ्गे संवत्सरं चरन् । यदि वक्रो भवेन्नैवानुकूलो ब्रह्मवादिनाम् ॥ 33॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,33,12001,ततः शनैश्चरो घोरो लक्षद्वयपरो मितः । योजनैः सूर्यपुत्रोऽयं त्रिंशन्मासैः परिभ्रमन् ॥ 34॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,34,12002,एकैकराशौ पर्येति सर्वान् राशीन्महाग्रहः । सर्वेषामशुभो मन्दः प्रोक्तः कालविदां वरैः ॥ 35॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,35,12003,तत उत्तरतः प्रोक्तमेकादशसुलक्षकैः । योजनैः परिसङ्ख्यातं सप्तर्षीणां च मण्डलम् ॥ 36॥ 8,८.१६,षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।,36,12004,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे सोमादिगतिवर्णनं नाम षोडशोऽध्यायः ॥ ८.१६॥ 8,८.१७,सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् ।,0,12005,श्रीनारायण उवाच । अथर्षिमण्डलादूर्ध्वं योजनानां प्रमाणतः । लक्षैस्त्रयोदशमितैः परमं वैष्णवं पदम् ॥ 1॥ 8,८.१७,सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् ।,1,12006,महाभागवतः श्रीमान् वर्तते लोकवन्दितः । औत्तानपादिरिन्द्रेण वह्निना कश्यपेन च ॥ 2॥ 8,८.१७,सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् ।,2,12007,धर्मेण सह चैवास्ते समकालयुजा ध्रुवः । बहुमानं दक्षिणतः कुर्वद्भिः प्रेक्षकैः सदा ॥ 3॥ 8,८.१७,सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् ।,3,12008,आजीव्यः कल्पजीविनामुपास्ते भगवत्पदम् । ज्योतिर्गणानां सर्वेषां ग्रहनक्षत्रभादिनाम् ॥ 4॥ 8,८.१७,सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् ।,4,12009,कालेनानिमिषेणायं भ्राम्यतां व्यक्तरंहसा । अवष्टम्भस्थाणुरिव विहितश्चेश्वरेण सः ॥ 5॥ 8,८.१७,सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् ।,5,12010,भासते भासयन्भासा स्वीयया देवपूजितः । मेढिस्तम्भे यथा युक्ताः पशवः कर्षणार्थकाः ॥ 6॥ 8,८.१७,सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् ।,6,12011,मण्डलानि चरन्तीमे सवनत्रितयेन च । एवं ग्रहादयः सर्वे भगणाद्या यथाक्रमम् ॥ 7॥ 8,८.१७,सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् ।,7,12012,अन्तर्बहिर्विभागेन कालचक्रे नियोजिताः । ध्रुवमेवावलम्ब्याशु वायुनोदीरिताश्च ते ॥ 8॥ 8,८.१७,सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् ।,8,12013,आकल्पान्तं च क्रमन्ति खे श्येनाद्याः खगा इव । कर्मसारथयो वायुवशगाः सर्व एव ते ॥ 9॥ 8,८.१७,सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् ।,9,12014,एवं ज्योतिर्गणाः सर्वे प्रकृतेः पुरुषस्य च । संयोगानुगृहीतास्ते भूमौ न निपतन्ति च ॥ 10॥ 8,८.१७,सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् ।,10,12015,ज्योतिश्चक्रं केचिदेतच्छिशुमारस्वरूपकम् । सोपयोगं भगवतो योगधारणकर्मणि ॥ 11॥ 8,८.१७,सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् ।,11,12016,यस्यार्वाक्शिरसः कुण्डलीभूतवपुषो मुने । पुच्छाग्रे कल्पितो योऽयं ध्रुव उत्तानपादजः ॥ 12॥ 8,८.१७,सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् ।,12,12017,लाङ्गूलेऽस्य च सम्प्रोक्तः प्रजापतिरकल्मषः । अग्निरिन्द्रश्च धर्मश्च तिष्ठन्ते सुरपूजिताः ॥ 13॥ 8,८.१७,सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् ।,13,12018,धाता विधाता पुच्छान्ते कट्यां सप्तर्षयस्ततः । दक्षिणावर्तभोगेन कुण्डलाकारमीयुषः ॥ 14॥ 8,८.१७,सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् ।,14,12019,उत्तरायणभानीह दक्षपार्श्वेऽर्पितानि च । दक्षिणायनभानीह सव्ये पार्श्वेऽर्पितानि च ॥ 15॥ 8,८.१७,सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् ।,15,12020,कुण्डलाभोगवेशस्य पार्श्वयोरुभयोरपि । समसङ्ख्याश्चावयवा भवन्ति कजनन्दन ॥ 16॥ 8,८.१७,सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् ।,16,12021,अजवीथी पृष्ठभागे आकाशसरिदौदरे । पुनर्वसुश्च पुष्यश्च श्रोण्यौ दक्षिणवामयोः ॥ 17॥ 8,८.१७,सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् ।,17,12022,आर्द्राश्लेषे पश्चिमयोः पादयोर्दक्षवामयोः । अभिजिच्चोत्तराषाढा नासयोर्दक्षवामयोः ॥ 18॥ 8,८.१७,सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् ।,18,12023,यथासङ्ख्यं च देवर्षे श्रुतिश्च जलभं तथा । कल्पिते कल्पनाविद्भिर्नेत्रयोर्दक्षवामयोः ॥ 19॥ 8,८.१७,सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् ।,19,12024,धनिष्ठा चैव मूलं च कर्णयोर्दक्षवामयोः । मघादीन्यष्टभानीह दक्षिणायनगानि च ॥ 20॥ 8,८.१७,सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् ।,20,12025,युञ्जीत वामपार्श्वीयवङ्क्रिषु क्रमतो मुने । तथैव मृगशीर्षादीन्युदग्भानि च यानि हि ॥ 21॥ 8,८.१७,सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् ।,21,12026,दक्षपार्श्वे वङ्क्रिकेषु प्रातिलोम्येन योजयेत् । शततारा तथा ज्येष्ठा स्कन्धयोर्दक्षवामयोः ॥ 22॥ 8,८.१७,सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् ।,22,12027,अगस्तिश्चोत्तरहनावधरायां हनौ यमः । मुखेष्वङ्गारकः प्रोक्तो मन्दः प्रोक्त उपस्थके ॥ 23॥ 8,८.१७,सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् ।,23,12028,बृहस्पतिश्च ककुदि वक्षस्यर्को ग्रहाधिपः । नारायणश्च हृदये चन्द्रो मनसि तिष्ठति ॥ 24॥ 8,८.१७,सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् ।,24,12029,स्तनयोरश्विनौ नाभ्यामुशनाः परिकीर्तितः । बुधः प्राणापानयोश्च गले राहुश्च केतवः ॥ 25॥ 8,८.१७,सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् ।,25,12030,सर्वाङ्गेषु तथा रोमकूपे तारागणाः स्मृताः । एतद्भगवतो विष्णोः सर्वदेवमयं वपुः ॥ 26॥ 8,८.१७,सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् ।,26,12031,सन्ध्यायां प्रत्यहं ध्यायेत्प्रयतो वाग्यतो मुनिः । निरीक्षमाणश्चोत्तिष्ठेन्मन्त्रेणानेन धीश्वरः ॥ 27॥ 8,८.१७,सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् ।,27,12032,नमो ज्योतिर्लोकाय कालायानिमिषां पतये महापुरुषायाभिधीमहीति ॥ 28॥ 8,८.१७,सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् ।,28,12033,ग्रहर्क्षतारामयमाधिदैविकं पापापहं मन्त्रकृतां त्रिकालम् । नमस्यतः स्मरतो वा त्रिकालं नश्येत तत्कालजमाशु पापम् ॥ 29॥ 8,८.१७,सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् ।,29,12034,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे ध्रुवमण्डलसंस्थानवर्णनं नाम सप्तदशोऽध्यायः ॥ ८.१७॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,0,12035,श्रीनारायण उवाच । अधस्तात्सवितुः प्रोक्तमयुतं राहुमण्डलम् । नक्षत्रवच्चरति च सैंहिकेयोऽतदर्हणः ॥ 1॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,1,12036,सूर्याचन्द्रमसोरेव मर्दनः सिंहिकासुतः । अमरत्वं च खेटत्वं लेभे यो विष्ण्वनुग्रहात् ॥ 2॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,2,12037,यददस्तरणेर्बिम्बं तपतो योजनायुतम् । तच्छादकोऽसुरो ज्ञेयोऽप्यर्कसाहस्रविस्तरम् ॥ 3॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,3,12038,त्रयोदशसहस्रं तु सोमस्याच्छादको ग्रहः । यः पर्वसमये वैरानुबन्धी छादकोऽभवत् ॥ 4॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,4,12039,सूर्याचन्द्रमसोर्दूराद्भवेच्छादनकारकः । तन्निशम्योभयत्रापि विष्णुना प्रेरितं स्वकम् ॥ 5॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,5,12040,चक्रं सुदर्शनं नाम ज्वालामालातिभीषणम् । तत्तेजसा दुःसहेन समन्तात्परिवारितम् ॥ 6॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,6,12041,मुहूर्तो द्विजमानस्तु दूराच्चकितमानसः । आरान्निवर्तते सोऽयमुपराग इतीव ह ॥ 7॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,7,12042,उच्यते लोकमध्ये तु देवर्षे अवबुध्यताम् । ततोऽधस्तात्समाख्याता लोकाः परमपावनाः ॥ 8॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,8,12043,सिद्धानां चारणानां च विद्याध्राणां च सत्तम । योजनायुतविख्याता लोकाः पुण्यनिषेविताः ॥ 9॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,9,12044,ततोऽप्यधस्ताद्देवर्षे यक्षाणां च सरक्षसाम् । पिशाचप्रेतभूतानां विहाराजिरमुत्तमम् ॥ 10॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,10,12045,अन्तरिक्षं च तत्प्रोक्तं यावद्वायुः प्रवाति हि । यावन्मेघास्ततोद्यन्ति तत्प्रोक्तं ज्ञानकोविदैः ॥ 11॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,11,12046,ततोऽधस्ताद्योजनानां शतं यावद् द्विजोत्तम । पृथिवी परिसङ्ख्याता सुपर्णश्येनसारसाः ॥ 12॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,12,12047,हंसादयः प्रोत्पतन्ति पार्थिवाः पृथिवीभवाः । भूसन्निवेशावस्थानं यथावदुपवर्णितम् ॥ 13॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,13,12048,अधस्तादवनेः सप्त देवर्षे विवराः स्मृताः । एकैकशो योजनानामायामोच्छ्रायतः पुनः ॥ 14॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,14,12049,अयुतान्तरविख्याताः सर्वर्तुसुखदायकाः । अतलं प्रथमं प्रोक्तं द्वितीयं वितलं तथा ॥ 15॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,15,12050,तृतीयं सुतलं प्रोक्तं चतुर्थं वै तलातलम् । महातलं पञ्चमं च षष्ठं प्रोक्तं रसातलम् ॥ 16॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,16,12051,सप्तमं विप्र पातालं सप्तैते विवराः स्मृताः । एतेषु बिलस्वर्गेषु दिवोऽप्यधिकमेव च ॥ 17॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,17,12052,कामभोगैश्वर्यसुखसमृद्धभुवनेषु च । नित्योद्यानविहारेषु सुखास्वादः प्रवर्तते ॥ 18॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,18,12053,दैत्याश्च काद्रवेयाश्च दानवा बलशालिनः । नित्यप्रमुदिता रक्ताः कलत्रापत्यबन्धुभिः ॥ 19॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,19,12054,सुहृद्भिरनुजीवाद्यैः संयुताश्च गृहेश्वराः । ईश्वरादप्रतिहतकामा मायाविनश्च ते ॥ 20॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,20,12055,निवसन्ति सदा हृष्टाः सर्वर्तुसुखसंयुताः । मयेन मायाविभुना येषु येषु च निर्मिताः ॥ 21॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,21,12056,पुरः प्रकामशो भक्ता मणिप्रवरशालिनः । विचित्रभवनाट्टालगोपुराद्याः सहस्रशः ॥ 22॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,22,12057,सभाचत्वरचैत्यादिशोभाढ्याः सुरदुर्लभाः । नागासुराणां मिथुनैः सपारावतसारिकैः ॥ 23॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,23,12058,कीर्णकृत्रिमभूमिश्च विवरेशगृहोत्तमैः । अलङ्कृताश्चकासन्ति उद्यानानि महान्ति च ॥ 24॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,24,12059,मनःप्रसन्नकारीणि फलपुष्पविशालिभिः । ललनानां विलासार्हस्थानैः शोभितभाञ्जि च ॥ 25॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,25,12060,नानाविहङ्गमव्रातसंयुक्तजलराशिभिः । स्वच्छार्णपूरितह्रदैः पाठीनसमलङ्कृतैः ॥ 26॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,26,12061,जलजन्तुक्षुब्धनीरनीरजातैरनेकशः । कुमुदोत्पलकह्लारनीलरक्तोत्पलैस्तथा ॥ 27॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,27,12062,तेषु कृतनिकेतानां विहारैः सङ्कुलानि च । इन्द्रियोत्सवकारैश्च तथैव विविधैः स्वरैः ॥ 28॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,28,12063,अमराणां च परमां श्रियं चातिशयन्ति च । यत्र नैव भयं क्वापि कालाङ्गैर्दिनरात्रिभिः ॥ 29॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,29,12064,यत्राहिप्रवराणां च शिरःस्थैर्मणिरश्मिभिः । नित्यं तमः प्रबाध्येत सदा प्रस्फुटकान्तिभिः ॥ 30॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,30,12065,न वा एतेषु वसतां दिव्यौषधिरसायनैः । रसान्नपानस्नानाद्यैर्नाधयो न च व्याधयः ॥ 31॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,31,12066,वलीपलितजीर्णत्ववैवर्ण्यस्वेदगन्धताः । अनुत्साहवयोऽवस्था न बाधन्ते कदाचन ॥ 32॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,32,12067,कल्याणानां सदा तेषां न च मृत्युभयं कुतः । भगवत्तेजसोऽन्यत्र चक्राच्चैव सुदर्शनात् ॥ 33॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,33,12068,यस्मिन्प्रविष्टे दैतेयवधूनां गर्भराशयः । प्रायो भयात्पतन्त्येव स्रवन्ति ब्रह्मपुत्रक ॥ 34॥ 8,८.१८,अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।,34,12069,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे राहुमण्डलाद्यवस्थानवर्णनं नामाष्टादशोऽध्यायः ॥ ८.१८॥ 8,८.१९,एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।,0,12070,श्रीनारायण उवाच । प्रथमे विवरे विप्र अतलाख्ये मनोरमे । मयपुत्रो बलो नाम वर्ततेऽखर्वगर्वकृत् ॥ 1॥ 8,८.१९,एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।,1,12071,षण्णवत्यो येन सृष्टा मायाः सर्वार्थसाधिकाः । मायाविनो याश्च सद्यो धारयन्ति च काश्चन ॥ 2॥ 8,८.१९,एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।,2,12072,जृम्भमाणस्य यस्यैव बलस्य बलशालिनः । स्त्रीगणा उपपद्यन्ते त्रयोलोकविमोहनाः ॥ 3॥ 8,८.१९,एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।,3,12073,पुंश्चल्यश्चैव स्वैरिण्यः कामिन्यश्चेति विश्रुताः । या वै बिलायनं प्रेष्ठं प्रविष्टं पुरुषं रहः ॥ 4॥ 8,८.१९,एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।,4,12074,रसेन हाटकाख्येन साधयित्वा प्रयत्नतः । स्वविलासावलोकानुरागस्मितविगूहनैः ॥ 5॥ 8,८.१९,एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।,5,12075,संलापविभ्रमाद्यैश्च रमयन्त्यपि ताः स्त्रियः । यस्मिन्नुपयुक्ते जनो मनुते बहुधा स्वयम् ॥ 6॥ 8,८.१९,एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।,6,12076,ईश्वरोऽहमहं सिद्धो नागायुतबलो महान् । आत्मानं मन्यमानः सन्मदान्ध इव कथ्यते ॥ 7॥ 8,८.१९,एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।,7,12077,एवं प्रोक्ता स्थितिश्चात्र अतलस्य च नारद । द्वितीयविवरस्यात्र वितलस्य निबोधत ॥ 8॥ 8,८.१९,एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।,8,12078,भूतलाधस्तले चैव वितले भगवान्भवः । हाटकेश्वरनामायं स्वपार्षदगणैर्वृतः ॥ 9॥ 8,८.१९,एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।,9,12079,प्रजापतिकृतस्यापि सर्गस्य बृंहणाय च । भवान्या मिथुनीभूय आस्ते देवाधिपूजितः ॥ 10॥ 8,८.१९,एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।,10,12080,भवयोर्वीर्यसम्भूता हाटकी सरिदुत्तमा । समिद्धो मरुता वह्निरोजसा पिबतीव हि ॥ 11॥ 8,८.१९,एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।,11,12081,तन्निष्ठ्यूतं हाटकाख्यं सुवर्णं दैत्यवल्लभम् । दैत्याङ्गना भूषणार्हं सदा तं धारयन्ति हि ॥ 12॥ 8,८.१९,एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।,12,12082,तद्बिलाधस्तलात्प्रोक्तं सुतलाख्यं बिलेश्वरम् । पुण्यश्लोको बलिर्नामा आस्ते वैरोचनिर्मुने ॥ 13॥ 8,८.१९,एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।,13,12083,महेन्द्रस्य च देवस्य चिकीर्षुः प्रियमुत्तमम् । त्रिविक्रमोऽपि भगवान् सुतले बलिमानयत् ॥ 14॥ 8,८.१९,एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।,14,12084,त्रैलोक्यलक्ष्मीमाक्षिप्य स्थापितः किल दैत्यराट् । इन्द्रादिष्वप्यलब्धा या सा श्रीस्तमनुवर्तते ॥ 15॥ 8,८.१९,एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।,15,12085,तमेव देवदेवेशमाराधयति भक्तितः । व्यपेतसाध्वसोऽद्यापि वर्तते सुतलाधिपः ॥ 16॥ 8,८.१९,एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।,16,12086,भूमिदानफलं ह्येतत्पात्रभूतेऽखिलेश्वरे । वर्णयन्ति महात्मानो नैतद्युक्तं च नारद ॥ 17॥ 8,८.१९,एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।,17,12087,वासुदेवे भगवति पुरुषार्थप्रदे हरौ । एतद्दानफलं विप्र सर्वथा नहि युज्यते ॥ 18॥ 8,८.१९,एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।,18,12088,यस्यैव देवदेवस्य नामापि विवशो गृणन् । स्वकीयकर्मबन्धीयगुणान्विधुनुतेऽञ्जसा ॥ 19॥ 8,८.१९,एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।,19,12089,यत्क्लेशबन्धहानाय साङ्ख्ययोगादिसाधनम् । कुर्वते यतयो नित्यं भगवत्यखिलेश्वरे ॥ 20॥ 8,८.१९,एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।,20,12090,न चायं भगवानस्माननुजग्राह नारद । मायामयं च भोगानामैश्वर्यं व्यतनोत्परम् ॥ 21॥ 8,८.१९,एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।,21,12091,सर्वक्लेशाधिहेतुं तदात्मानुस्मृतिमोषणम् । यं साक्षाद्भगवान् विष्णुः सर्वोपायविदीश्वरः ॥ 22॥ 8,८.१९,एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।,22,12092,याञ्जाछलेनापहृतं सर्वस्वं देहशेषकम् । अप्राप्तान्योपाय ईशः पाशैर्वारुणसम्भवैः ॥ 23॥ 8,८.१९,एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।,23,12093,बन्धयित्वावमुच्यापि गिरिदर्यामिवाब्रवीत् । असाविन्द्रो महामूढो यस्य मन्त्री बृहस्पतिः ॥ 24॥ 8,८.१९,एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।,24,12094,प्रसन्नमिममत्यर्थमयाचल्लोकसम्पदम् । त्रैलोक्यमिदमैश्वर्यं कियदेवातितुच्छकम् ॥ 25॥ 8,८.१९,एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।,25,12095,आशिषां प्रभवं मुक्त्वा यो मूढो लोकसम्पदि । अस्मत्पितामहः श्रीमान् प्रह्लादो भगवत्प्रियः ॥ 26॥ 8,८.१९,एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।,26,12096,दास्यं वव्रे विभोस्तस्य सर्वलोकोपकारकः । पित्र्यमैश्वर्यमतुलं दीयमानं च विष्णुना ॥ 27॥ 8,८.१९,एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।,27,12097,पितर्युपरते वीरे नैवैच्छद्भगवत्प्रियः । तस्यातुलानुभावस्य सर्वलोकोपधीमतः ॥ 28॥ 8,८.१९,एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।,28,12098,अस्मद्विधो नाल्पपक्वेतरदोषोऽवगच्छति । एवं दैत्यपतिः सोऽयं बलिः परमपूजितः ॥ 29॥ 8,८.१९,एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।,29,12099,सुतले वर्तते यस्य द्वारपालो हरिः स्वयम् । एकदा दिग्विजये राजा रावणो लोकरावणः ॥ 30॥ 8,८.१९,एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।,30,12100,प्रविशन्सुतले येन भक्तानुग्रहकारिणा । पादाङ्गुष्ठेन प्रक्षिप्तो योजनायुतमत्र हि ॥ 31॥ 8,८.१९,एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।,31,12101,एवम्भूतानुभावोऽयं बलिः सर्वसुखैकभुक् । आस्ते सुतलराजस्थो देवदेवप्रसादतः ॥ 32॥ 8,८.१९,एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।,32,12102,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे अतलवितलसुतललोकवर्णनं नामैकोनविंशोऽध्यायः ॥ ८.१९॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,0,12103,श्रीनारायण उवाच । ततोऽधस्ताद्विवरकं तलातलमुदीरितम् । दानवेन्द्रो मयो नाम त्रिपुराधिपतिर्महान् ॥ 1॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,1,12104,त्रिलोक्याः शङ्करेणायं पालितो दग्धपूस्त्रयः । देवदेवप्रसादात्तु लब्धराज्यसुखास्पदः ॥ 2॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,2,12105,आचार्यो मायिनां सोऽयं नानामायाविशारदः । पूज्यते राक्षसैर्घोरैः सर्वकार्यसमृद्धये ॥ 3॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,3,12106,ततोऽधस्तास्तुविख्यातं महातलमिति स्फुटम् । सर्पाणां काद्रवेयाणां गणः क्रोधवशो महान् ॥ 4॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,4,12107,अनेकशिरसां विप्र प्रधानान्कीर्तयामि ते । कुहकस्तक्षकश्चैव सुषेणः कालियस्तथा ॥ 5॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,5,12108,महाभोगा महासत्त्वाः क्रूराः क्रूरस्वजातयः । पतत्रिराजाधिपतेरुद्विग्नाः सर्व एव ते ॥ 6॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,6,12109,स्वकलत्रापत्यसुहृत्कुटुम्बस्य च सङ्गताः । प्रमत्ता विहरन्त्येव नानाक्रीडाविशारदाः ॥ 7॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,7,12110,ततोऽधस्ताच्च विवरे रसातलसमाह्वये । दैतेया निवसन्त्येव पणयो दानवाश्च ये ॥ 8॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,8,12111,निवातकवचा नाम हिरण्यपुरवासिनः । कालेया इति च प्रोक्ताः प्रत्यनीका हविर्भुजाम् ॥ 9॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,9,12112,महौजसश्चोत्पत्त्यैव महासाहसिनस्तथा । सकलेशस्य च हरेस्तेजसा हतविक्रमाः ॥ 10॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,10,12113,बिलेशया इव सदा विवरे निवसन्ति हि । ये वै वाग्भिः सरमया शक्रदूत्या निरन्तरम् ॥ 11॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,11,12114,मन्त्रवर्णाभिरसुरास्ताडिता बिभ्यति स्म ह । ततोऽप्यधस्तात्पाताले नागलोकाधिपालकाः ॥ 12॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,12,12115,वासुकिप्रमुखाः शङ्खः कुलिकः श्वेत एव च । धनञ्जयो महाशङ्खो धृतराष्ट्रस्तथैव च ॥ 13॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,13,12116,शङ्खचूडः कम्बलाश्वतरो देवोपदत्तकः । महामर्षा महाभोगा निवसन्ति विषोल्बणाः ॥ 14॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,14,12117,पञ्चमस्तकवन्तश्च फणासप्तकभूषिताः । केचिद्दशफणाः केचिच्छतशीर्षास्तथापरे ॥ 15॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,15,12118,सहस्रशिरसः केऽपि रोचिष्णुमणिधारकाः । पातालरन्ध्रतिमिरनिकरं स्वमरीचिभिः ॥ 16॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,16,12119,विधमन्ति च देवर्षे सदा सञ्जातमन्यवः । अस्य मूलप्रदेशे हि त्रिंशत्साहस्रकेऽन्तरे ॥ 17॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,17,12120,योजनैः परिसङ्ख्याते तामसी भगवत्कला । अनन्ताख्या समास्ते हि सर्वदेवप्रपूजिता ॥ 18॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,18,12121,अहमित्यभिमानस्य लक्षणं यं प्रचक्षते । सङ्कर्षणं सात्वतीयाः कर्षणं द्रष्ट्टदृश्ययोः ॥ 19॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,19,12122,इदं भूमण्डलं यस्य सहस्रशिरसः प्रभोः । अनन्तमूर्तेः शेषस्य ध्रियमाणं च शीर्षके ॥ 20॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,20,12123,पृध्वीगोलमशेषं हि सिद्धार्थ इव लक्ष्यते । यस्य कालेन देवस्य सञ्जिहीर्षोः समं विभोः ॥ 21॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,21,12124,चराचरं भ्रुवोरन्तर्विवरादुदपद्यत । साङ्कर्षणो नाम रुद्रो व्यूहैकादशशोभितः ॥ 22॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,22,12125,त्रिलोचनश्च त्रिशिखं शूलमुत्तम्भयन्स्वयम् । उदतिष्ठन्महासत्त्वो महाभूतक्षयङ्करः ॥ 23॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,23,12126,यस्याङ्घ्रिकमलद्वन्द्वशोणाच्छनखमण्डले । विराजन्मणिबिम्बेषु महाहिपतयोऽनिशम् ॥ 24॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,24,12127,एकान्तभक्तियोगेन सह सात्त्वतपुङ्गवैः । प्रणमन्तः स्वमूर्ध्ना ते स्वमुखानि समीक्षते ॥ 25॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,25,12128,स्फुरत्कुण्डलमाणिक्यप्रभामण्डलभाञ्ज्यपि । सुकपोलानि चारूणि गण्डस्थलद्युमन्ति च ॥ 26॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,26,12129,नागराजकुमार्योऽपि चार्वङ्गविलसत्त्विषः । विशदैर्विपुलैस्तद्वद्धवलैः सुभगैस्तथा ॥ 27॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,27,12130,रुचिरैर्भुजदण्डैश्च शोभमाना इतस्ततः । चन्दनागुरुकाश्मीरपङ्कलेपेन भूषिताः ॥ 28॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,28,12131,तदभिमर्षसञ्जातकामावेशसमायुताः । ललितस्मितसंयुक्ताः सव्रीडं लोकयन्ति च ॥ 29॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,29,12132,अनुरागमदोन्मत्तविघूर्णारुणलोचनम् । करुणावलोकनेत्रं च आशासानास्तथाशिषः ॥ 30॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,30,12133,सोऽनन्तो भगवान्देवोऽनन्तसत्त्वो महाशयः । अनन्तगुणवार्धिश्च आदिदेवो महाद्युतिः ॥ 31॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,31,12134,संहृतामर्षरोषादिवेगो लोकशुभाय च । आस्ते महासत्त्वनिधिः सर्वदेवप्रपूजितः ॥ 32॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,32,12135,ध्यायमानः सुरैः सिद्धैरसुरैश्चोरगैस्तथा । विद्याधरैश्च गन्धर्वैर्मुनिसङ्घैश्च नित्यशः ॥ 33॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,33,12136,अनारतमदोन्मत्तलोकविह्वललोचनः । वाक्यामृतेन विबुधान्स्वपार्षदगणानपि ॥ 34॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,34,12137,आप्यायमानः स विभुर्वेजयन्तीं स्रजं दधत् । अम्लानाभिनवैः स्वच्छैस्तुलसीदलसञ्चयैः ॥ 35॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,35,12138,माद्यन्मधुकरव्रातघोषश्रीसंयुतां सदा । नीलवासा देवदेव एककुण्डलभूषितः ॥ 36॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,36,12139,हलस्य ककुदि न्यस्तसुपीवरभुजोऽव्ययः । महेन्द्रः काञ्चनीं यद्वद्वरत्रां च मतङ्गमः । उदारलीलो देवेशो वर्णितः सात्त्वतर्षभैः ॥ 37॥ 8,८.२०,विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।,37,12140,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे तलातलादिलोकवर्णनेऽनन्तवर्णनं नाम विंशोऽध्यायः ॥ ८.२०॥ 8,८.२१,एकविंशोऽध्यायः । नरकस्वरूपवर्णनम् ।,0,12141,श्रीनारायण उवाच । तस्यानुभावं भगवान् ब्रह्मपुत्रः सनातनः । सभायां ब्रह्मदेवस्य गायमान उपासते ॥ 1॥ 8,८.२१,एकविंशोऽध्यायः । नरकस्वरूपवर्णनम् ।,1,12142,उत्पत्तिस्थितिलयहेतवोऽस्य कल्पाः सत्त्वाद्याः प्रकृतिगुणा यदीक्षयाऽऽसन् । यद्रूपं ध्रुवमकृतं यदेकमात्मन्- नानाधात्कथमुह वेद तस्य वर्त्म ॥ 2॥ 8,८.२१,एकविंशोऽध्यायः । नरकस्वरूपवर्णनम् ।,2,12143,मूर्तिं नः पुरुकृपया बभार सत्त्वं संशुद्धं सदसदिदं विभाति यत्र । यल्लीलां मृगपतिराददेऽनवद्या- मादातुं स्वजनमनांस्युदारवीर्यः ॥ 3॥ 8,८.२१,एकविंशोऽध्यायः । नरकस्वरूपवर्णनम् ।,3,12144,यन्नाम श्रुतमनुकीर्तयेदकस्मा- दार्तो वा यदि पतितः प्रलम्भनाद्वा । हन्त्यंहः सपदि नृणामशेषमन्यं कं शेषाद्भगवत आश्रयेत्युमुक्षुः ॥ 4॥ 8,८.२१,एकविंशोऽध्यायः । नरकस्वरूपवर्णनम् ।,4,12145,मूर्धन्यर्पितमणुवत्सहस्रमूर्ध्नो भूगोलं सगिरिसरित्समुद्रसत्त्वम् । आनन्त्यादनमितविक्रमस्य भूम्नः को वीर्याण्यधिगणयेत्सहस्रजिह्वः ॥ 5॥ 8,८.२१,एकविंशोऽध्यायः । नरकस्वरूपवर्णनम् ।,5,12146,एवम्प्रभावो भगवाननन्तो दुरन्तवीर्योरुगुणानुभावः । मूले रसायाः स्थित आत्मतन्त्रो यो लीलया क्ष्मां स्थितये बिभर्ति ॥ 6॥ 8,८.२१,एकविंशोऽध्यायः । नरकस्वरूपवर्णनम् ।,6,12147,एता ह्येवेह तु नृभिर्गतयो मुनिसत्तम । गन्तव्या बहुशो यद्वद्यथाकर्मविनिर्मिताः ॥ 7॥ 8,८.२१,एकविंशोऽध्यायः । नरकस्वरूपवर्णनम् ।,7,12148,यथोपदेशं च कामान्सदा कामयमानकैः । एतावतीर्हि राजेन्द्र मनुष्यमृगपक्षिषु ॥ 8॥ 8,८.२१,एकविंशोऽध्यायः । नरकस्वरूपवर्णनम् ।,8,12149,विपाकगतयः प्रोक्ता धर्मस्य वशगास्तथा । उच्चावचा विसदृशा यथाप्रश्नं निबोधत ॥ 9॥ 8,८.२१,एकविंशोऽध्यायः । नरकस्वरूपवर्णनम् ।,9,12150,नारद उवाच । वैचित्र्यमेतल्लोकस्य कथं भगवता कृतम् । समानत्वे कर्मणां च तन्नो ब्रूहि यथातथम् ॥ 10॥ 8,८.२१,एकविंशोऽध्यायः । नरकस्वरूपवर्णनम् ।,10,12151,श्रीनारायण उवाच । कर्तुः श्रद्धावशादेव गतयोऽपि पृथग्विधाः । त्रिगुणत्वात्सदा तासां फलं विसदृशं त्विह ॥ 11॥ 8,८.२१,एकविंशोऽध्यायः । नरकस्वरूपवर्णनम् ।,11,12152,सात्त्विक्या श्रद्धया कर्तुः सुखित्वं जायते सदा । दुःखित्वं च तथा कर्तू राजस्या श्रद्धया भवेत् ॥ 12॥ 8,८.२१,एकविंशोऽध्यायः । नरकस्वरूपवर्णनम् ।,12,12153,दुःखित्वं चैव मूढत्वं तामस्या श्रद्धयोदितम् । तारतम्यात्तु श्रद्धानां फलवैचित्र्यमीरितम् ॥ 13॥ 8,८.२१,एकविंशोऽध्यायः । नरकस्वरूपवर्णनम् ।,13,12154,अनाद्यविद्याविहितकर्मणां परिणामजाः । सहस्रशः प्रवृत्तास्तु गतयो द्विजपुङ्गव ॥ 14॥ 8,८.२१,एकविंशोऽध्यायः । नरकस्वरूपवर्णनम् ।,14,12155,तद्भेदान्वर्णयिष्यामि प्राचुर्येण द्विजोत्तम । त्रिजगत्या अन्तराले दक्षिणस्यां दिशीह वै ॥ 15॥ 8,८.२१,एकविंशोऽध्यायः । नरकस्वरूपवर्णनम् ।,15,12156,भूमेरधस्तादुपरि त्वतलस्य च नारद । अग्निष्वात्ताः पितृगणा वर्तन्ते पितरश्च ह ॥ 16॥ 8,८.२१,एकविंशोऽध्यायः । नरकस्वरूपवर्णनम् ।,16,12157,वसन्ति यस्यां स्वीयानां गोत्राणां परमाशिषः । सत्याः समाधिना शीघ्रं त्वाशासानाः परेण वै ॥ 17॥ 8,८.२१,एकविंशोऽध्यायः । नरकस्वरूपवर्णनम् ।,17,12158,पितृराजोऽपि भगवान् सम्परेतेषु जन्तुषु । विषयं प्रापितेष्वेषु स्वकीयैः पुरुषैरिह ॥ 18॥ 8,८.२१,एकविंशोऽध्यायः । नरकस्वरूपवर्णनम् ।,18,12159,सगणो भगवत्प्रोक्ताज्ञापरो दमधारकः । यथाकर्म यथादोषं विदधाति विचारदृक् ॥ 19॥ 8,८.२१,एकविंशोऽध्यायः । नरकस्वरूपवर्णनम् ।,19,12160,स्वान्गणान्धर्मतत्त्वज्ञान्सर्वानाज्ञाप्रवर्तकान् । सदा प्रेरयति प्राज्ञो यथादेशनियोजितान् ॥ 20॥ 8,८.२१,एकविंशोऽध्यायः । नरकस्वरूपवर्णनम् ।,20,12161,नरकानेकविंशत्या सङ्ख्यया वर्णयन्ति हि । अष्टाविंशमितान्केचित्ताननुक्रमतो ब्रुवे ॥ 21॥ 8,८.२१,एकविंशोऽध्यायः । नरकस्वरूपवर्णनम् ।,21,12162,तामिस्र अन्धतामिस्रो रौरवोऽपि तृतीयकः । महारौरवनामा च कुम्भीपाकोऽपरो मतः ॥ 22॥ 8,८.२१,एकविंशोऽध्यायः । नरकस्वरूपवर्णनम् ।,22,12163,कालसूत्रं तथा चासिपत्रारण्यमुदाहृतम् । सूकरस्य मुखं चान्धकूपोऽथ कृमिभोजनः ॥ 23॥ 8,८.२१,एकविंशोऽध्यायः । नरकस्वरूपवर्णनम् ।,23,12164,सन्दंशस्तप्तमूर्तिश्च वज्रकण्टक एव च । शाल्मली चाथ देवर्षे नाम्ना वैरतणी तथा ॥ 24॥ 8,८.२१,एकविंशोऽध्यायः । नरकस्वरूपवर्णनम् ।,24,12165,पूयोदः प्राणरोधश्च तथा विशसनं मतम् । लालाभक्षः सारमेयादनमुक्तमतः परम् ॥ 25॥ 8,८.२१,एकविंशोऽध्यायः । नरकस्वरूपवर्णनम् ।,25,12166,अवीचिरप्ययः पानं क्षारकर्दम एव च । रक्षोगणाख्यसम्भोजः शूलप्रोतोऽप्यतः परम् ॥ 26॥ 8,८.२१,एकविंशोऽध्यायः । नरकस्वरूपवर्णनम् ।,26,12167,दन्दशूकोऽवटारोधः पर्यावर्तनकः परम् । सूचीमुखमिति प्रोक्ता अष्टाविंशतिनारकाः ॥ 27॥ 8,८.२१,एकविंशोऽध्यायः । नरकस्वरूपवर्णनम् ।,27,12168,इत्येते नारका नाम यातनाभूमयः पराः । कर्मभिश्चापि भूतानां गम्याः पद्मजसम्भव ॥ 28॥ 8,८.२१,एकविंशोऽध्यायः । नरकस्वरूपवर्णनम् ।,28,12169,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे नरकस्वरूपवर्णनं नामैकविंशोऽध्यायः ॥ ८.२१॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,0,12170,नारद उवाच । कर्मभेदाः कतिविधाः सनातनमुने मम । श्रोतव्याः सर्वथैवैते यातनाप्राप्तिभूमयः ॥ 1॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,1,12171,श्रीनारायण उवाच । यो वै परस्य वित्तानि दारापत्यानि चैव हि । हरते स हि दुष्टात्मा यमानुचरगोचरः ॥ 2॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,2,12172,कालपाशेन सम्बद्धो याम्यैरतिभयानकैः । तामिस्रनामनरके पात्यते यातनास्पदे ॥ 3॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,3,12173,ताडनं दण्डनं चैव सन्तर्जनमतः परम् । याम्याः कुर्वन्ति पाशाढ्याः कश्मलं याति चैव हि ॥ 4॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,4,12174,मूर्च्छामायाति विवशो नारकी पद्मभूसुत । यः पतिं वञ्चयित्वा तु दारादीनुपभुज्यति ॥ 5॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,5,12175,अन्धतामिस्रनरके पात्यते यमकिङ्करैः । पात्यमानो यत्र जन्तुर्वेदनापरवान्भवेत् ॥ 6॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,6,12176,नष्टदृष्टिर्नष्टमतिर्भवत्येवाविलम्बतः । वनस्पतिर्भज्यमानमूलो यद्वद्भवेदिह ॥ 7॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,7,12177,तस्मादप्यन्धतामिस्रनाम्ना प्रोक्तः पुरातनैः । एतन्ममाहमिति यो भूतद्रोहेण केवलम् ॥ 8॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,8,12178,पुष्णाति प्रत्यहं स्वीयं कुटुम्बं कार्यलम्पटः । एतद्विहाय चात्रैव स्वाशुभेन पतेदिह ॥ 9॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,9,12179,रौरवे नाम नरके सर्वसत्त्वभयावहे । इह लोकेऽमुना ये तु हिंसिता जन्तवः पुरा ॥ 10॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,10,12180,त एव रुरवो भूत्वा परत्र पीडयन्ति तम् । तस्माद्रौरवमित्याहुः पुराणज्ञा मनीषिणः ॥ 11॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,11,12181,रुरुः सर्पादतिक्रूरो जन्तुरुक्तः पुरातनैः । एवं महारौरवाख्यो नरको यत्र पूरुषः ॥ 12॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,12,12182,यातनां प्राप्यमाणो हि यः परं देहसम्भवः । क्रव्यादा नाम रुरवस्तं क्रव्ये घातयन्ति च ॥ 13॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,13,12183,य उग्रः पुरुषः क्रूरः पशुपक्षिगणानपि । उपरन्धयते मूढो याम्यास्तं रन्धयन्ति च ॥ 14॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,14,12184,कुम्भीपाके तप्ततैले उपर्यपि च नारद । यावन्ति पशुरोमाणि तावद्वर्षसहस्रकम् ॥ 15॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,15,12185,पितृविप्रब्राह्मणध्रुक्कालसूत्रे स नारके । अग्न्यर्काभ्यां तप्यमाने नारकी विनिवेशितः ॥ 16॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,16,12186,क्षुत्पिपासादह्यमानोऽन्तःशरीरस्तथा बहिः । आस्ते शेते चेष्टते चावतिष्ठति च धावति ॥ 17॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,17,12187,निजवेदपथाद्यो वै पाखण्डं चोपयाति च । अनापद्यपि देवर्षे तं पापं पुरुषं भटाः ॥ 18॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,18,12188,असिपत्रवनं नाम नरकं वेशयन्ति च । कशया प्रहरन्त्येव नारकी तद्गतस्तदा ॥ 19॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,19,12189,इतस्ततो धावमान उत्तालमतिवेगतः । असिपत्रैश्छिद्यमान उभयत्र च धारभिः ॥ 20॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,20,12190,सञ्छिद्यमानसर्वाङ्गो हाहतोऽस्मीति मूर्च्छितः । वेदनां परमां प्राप्तः पतत्येव पदे पदे ॥ 21॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,21,12191,स्वधर्मानुगतं भुङ्क्ते पाखण्डफलमल्पधीः । यो राजा राजपुरुषो दण्डयेद्वै त्वधर्मतः ॥ 22॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,22,12192,द्विजे शरीरदण्डं च पापीयान्नारकी च सः । नरके सूकरमुखे पात्यते यमकिङ्करैः ॥ 23॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,23,12193,विनिष्यिष्टावयवको बलवद्भिस्तथेक्षुवत् । आर्तस्वरेण स्वनयन्मूर्च्छितः कश्मलङ्गतः ॥ 24॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,24,12194,स पीड्यमानो बहुधा वेदनां यात्यतीव हि । विविक्तपरपीडो योऽप्यविविक्तपरव्यथाम् ॥ 25॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,25,12195,ईश्वराङ्कितवृत्तीनां व्यथामाचरते स्वयम् । स चान्धकूपे पतति तदभिद्रोहयन्त्रिते ॥ 26॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,26,12196,तत्रासौ जन्तुभिः क्रूरैः पशुभिर्मृगपक्षिभिः । सरीसृपैश्च मशकैर्यूकामत्कुणजातिभिः ॥ 27॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,27,12197,मक्षिकाभिश्च तमसि दन्दशूकैश्च पीड्यते । परिक्रामति चैवात्र कुशरीरे च जन्तुवत् ॥ 28॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,28,12198,यस्तु संविहितैः पञ्चयज्ञैः काकैश्च संस्तुतः । अश्नाति चासंविभज्य यत्किंञ्चिदुपपद्यते ॥ 29॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,29,12199,स पापपुरुषः क्रूरैर्याम्यैश्च कृमिभोजने । नरकाधमके दुष्टकर्मणा परिपात्यते ॥ 30॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,30,12200,लक्षयोजनविस्तीर्णे कृमिकुण्डे भयङ्करे । कृमिरूपं समासाद्य भक्ष्यमाणश्च तैः स्वयम् ॥ 31॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,31,12201,अप्रत्ताप्रहुतादो यः पातमाप्नोति तत्र वै । यस्तु स्तेयेन च बलाद्धिरण्यं रत्नमेव च ॥ 32॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,32,12202,ब्राह्मणस्यापहरति अन्यस्यापि च कस्यचित् । अनापदि च देवर्षे तममुत्र यमानुगाः ॥ 33॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,33,12203,अयस्मयैरग्निपिण्डैः सदृशैर्नित्कुषन्ति च । योऽगम्यां योषितं गच्छेदगम्यं पुरुषं च या ॥ 34॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,34,12204,तावमुत्रापि कशया ताडयन्तो यमानुगाः । तिग्मया लोहमय्या च सूर्म्याप्यालिङ्गयन्ति तम् ॥ 35॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,35,12205,तां चापि योषितं सूर्म्यालिङ्गयन्ति यमानुगाः । यस्तु सर्वाभिगमनः पुरुषः पापसञ्चयी ॥ 36॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,36,12206,निरयेऽमुत्र तं याम्याः शाल्मलीं रोपयन्ति तम् । वज्रकण्टकसंयुक्तां शाल्मलीं तामयस्मयीम् ॥ 37॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,37,12207,राजन्या राजपुरुषा ये वा पाखण्डवर्तिनः । धर्मसेतुं विभिन्दन्ति ते परेत्य गता नराः ॥ 38॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,38,12208,वैतरण्यां पतन्त्येव भिन्नमर्यादपातकाः । नद्यां निरयदुर्गस्य परिखायां च नारद ॥ 39॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,39,12209,यादोगणैः समन्तात्तु भक्ष्यमाणा इतस्ततः । नात्मना वियुजन्त्येव नासुभिश्चापि नारद ॥ 40॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,40,12210,स्वीयेन कर्मपाकेनोपतपन्ति च सर्वतः । विण्मूत्रपूयरक्तैश्च केशास्थिनखमांसकैः ॥ 41॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,41,12211,मेदोवसासंयुतायां नद्यामुपपतन्ति ते । वृषलीपतयो ये च नष्टशौचा गतत्रपाः ॥ 42॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,42,12212,आचारनियमैस्त्यक्ताः पशुचर्यापरायणाः । तेऽत्रानुकष्टगतयो विण्मूत्रश्लेष्मरक्तकैः ॥ 43॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,43,12213,श्लेष्ममलसमापूर्णे निपतन्ति दुराग्रहाः । तदेव खादयन्त्येतान्यमानुचरवर्गकाः ॥ 44॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,44,12214,ये श्वानगर्दभादीनां पतयो वै द्विजातयः । मृगयारसिका नित्यमतीर्थे मृगघातकाः ॥ 45॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,45,12215,परेतांस्तान्यमभटा लक्षीभूतान्नराधमान् । इषुभिश्च विभिन्दन्ति तांस्तान्दुर्नयमागतान् ॥ 46॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,46,12216,ये दम्भा दम्भयज्ञेषु पशून्घ्नन्ति नराधमाः । तानमुष्मिन्यमभटा नरके वैशसे तदा ॥ 47॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,47,12217,निपात्य पीडयन्त्येव कशाघातैर्दुरासदैः । यो भार्यां च सवर्णां वै द्विजो मदनमोहितः ॥ 48॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,48,12218,रेतः पाययति मूढोऽमुत्र तं यमकिङ्कराः । रेतःकुण्डे पातयन्ति रेतः सम्पाययन्ति च ॥ 49॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,49,12219,ये दस्यवोऽग्निदाश्चैव गरदा सार्थघातकाः । ग्रामान्सार्थान्विलुम्पन्ति राजानो राजपूरुषाः ॥ 50॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,50,12220,तान्परेतान्यमभटा नयन्ति श्वानकादनम् । विंशत्यथिकसङ्ख्याताः सारमेया महाद्भुताः ॥ 51॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,51,12221,सप्तशत्या समाख्याता रभसं खादयन्ति ते । सारमेयादनं नाम नरकं दारुणं मुने । अतः परं प्रवक्ष्यामि अवीचिप्रभुखान्मुने ॥ 52॥ 8,८.२२,द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।,52,12222,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे नरकप्रदपातकवर्णनं नाम द्वाविंशोऽध्यायः ॥ ८.२२॥ 8,८.२३,त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् ।,0,12223,श्रीनारायण उवाच । ये नराः सर्वदा साक्ष्ये अनृतं भाषयन्ति च । दाने विनिमयेऽर्थस्य देवर्षे पापबुद्धयः ॥ 1॥ 8,८.२३,त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् ।,1,12224,ते प्रेत्यामुत्र नरके अवीच्याख्येऽतिदारुणे । योजनानां शतोच्छ्रायाद्गिरिमूर्ध्नः पतन्ति हि ॥ 2॥ 8,८.२३,त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् ।,2,12225,अनाकाशेऽधःशिरसस्तदवीचीतिनामके । यत्र स्थलं दृश्यते च जलवद्वीचिसंयुतम् ॥ 3॥ 8,८.२३,त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् ।,3,12226,अवीचिमत्ततस्तत्र तिलशश्छिन्नविग्रहः । म्रियते नैव देवर्षे पुनरेवाऽवरोप्यते ॥ 4॥ 8,८.२३,त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् ।,4,12227,यो वा द्विजो वा राजन्यो वैश्यो वा ब्रह्मसम्भव । सोमपीथस्तत्कलत्रं सुरां वा पिबतीव हि ॥ 5॥ 8,८.२३,त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् ।,5,12228,प्रमादतस्तु तेषां वै निरये परिपातनम् । कुर्वन्ति यमदूतास्ते पानं कार्ष्णायसो मुने ॥ 6॥ 8,८.२३,त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् ।,6,12229,वह्निना द्रवमाणस्य नितरां ब्रह्मसम्भव । सम्भावनेन स्वस्यैव योऽधमोऽपि नराधमः ॥ 7॥ 8,८.२३,त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् ।,7,12230,विद्याजन्मतपोवर्णाश्रमाचारवतो नरान् । वरीयसोऽपि न बहु मन्यते पुरुषाधमः ॥ 8॥ 8,८.२३,त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् ।,8,12231,स नीयते यमभटैः क्षारकर्दमनामके । निरयेऽर्वाक्शिरा घोरा दुरन्तयातनाश्नुते ॥ 9॥ 8,८.२३,त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् ।,9,12232,ये वै नरा यजन्त्यन्यं नरमेधेन मोहिताः । स्त्रियोऽपि वा नरपशुं खादन्त्यत्र महामुने ॥ 10॥ 8,८.२३,त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् ।,10,12233,पशवो निहितास्ते तु यमसद्यनि सङ्गताः । सौनिका इव ते सर्वे विदार्य शितधारया ॥ 11॥ 8,८.२३,त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् ।,11,12234,असृक्पिबन्ति नृत्यन्ति गायन्ति बहुधा मुने । यथेह मांसभोक्तारः पुरुषादा दुरासदाः ॥ 12॥ 8,८.२३,त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् ।,12,12235,अनागसोऽपि येऽरण्ये ग्रामे वा ब्रह्मपुत्रक । वैश्रम्भकैरुपसृतान्विश्रम्भय्यजिजीविषून् ॥ 13॥ 8,८.२३,त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् ।,13,12236,शूलसूत्रादिषु प्रोतान्क्रीडनोत्कारकानिव । पातयन्ति च ते प्रेत्य शूलपाते पतन्ति ह ॥ 14॥ 8,८.२३,त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् ।,14,12237,शूलादिषु प्रोतदेहाः क्षुत्तृड्भ्यां चातिपीडिताः । तिग्मतुण्डैः कङ्कबकैरितश्चेतश्च ताडिताः ॥ 15॥ 8,८.२३,त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् ।,15,12238,पीडिता आत्मशमलं बहुधा संस्मरन्ति हि । ये भूतानुद्वेजयन्ति नरा उल्बणवृत्तयः ॥ 16॥ 8,८.२३,त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् ।,16,12239,यथा सर्पादिकास्तेऽपि नरके निपतन्ति हि । दन्दशूकाभिधाने च यत्रोत्तिष्ठन्ति सर्वतः ॥ 17॥ 8,८.२३,त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् ।,17,12240,पञ्चाननः सप्तमुखा ग्रसन्ति नरकागतान् । यथा बिलेशया विप्र क्रूरबुद्धिसमन्विताः ॥ 18॥ 8,८.२३,त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् ।,18,12241,येऽवटेषु कुसूलादिगुहादिषु निरुन्धते । तानमुत्रोद्यतकराः कीनाशपरिसेवकाः ॥ १९ तेष्वेवोपविशित्वा च सगरेण च वह्निना । धूमेन च निरुन्धन्ति पापकर्मरतान्नरान् ॥ 20॥ 8,८.२३,त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् ।,19,12242,योऽतिथीन्समयप्राप्तान्दिधक्षुरिव चक्षुषा । पापेनेहालोकयेच्च स्वयं गृहपतिर्द्विजः ॥ 21॥ 8,८.२३,त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् ।,20,12243,तस्यापि पापदृष्टेर्हि निरये यमकिङ्कराः । अक्षिणी वज्रतुण्डा ये कङ्काः काकवटादयः ॥ 22॥ 8,८.२३,त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् ।,21,12244,गृध्राः क्रूरतराश्चापि प्रसह्योत्पाटयन्ति हि । य आढ्याभिमतिर्याति अहङ्कृत्यातिगर्वितः ॥ 23॥ 8,८.२३,त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् ।,22,12245,तिर्यक्प्रेक्षण एवात्राभिविशङ्की नराधमः । चिन्तयार्थस्य सर्वत्रायतिव्ययस्वरूपया ॥ 24॥ 8,८.२३,त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् ।,23,12246,शुष्यद्धृदयवक्त्रश्च निर्वृतिं नैव गच्छति । ग्रहवद्रक्षते चार्थं स प्रेतो यमकिङ्करैः ॥ 25॥ 8,८.२३,त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् ।,24,12247,सूचीमुखे च नरके पात्यते निजकर्मणा । वित्तग्रहं च पुरुषं वायका इव याम्यकाः ॥ 26॥ 8,८.२३,त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् ।,25,12248,किङ्कराः सर्वतोऽङ्गेषु सूत्रैः परिवयन्ति हि । एते बहुविधा विप्र नरकाः पापकर्मणाम् ॥ 27॥ 8,८.२३,त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् ।,26,12249,नराणां शतशः सन्ति यातनास्थानभूमयः । सहस्रशोऽपि देवर्षे उक्तानुक्तांस्तथापि हि ॥ 28॥ 8,८.२३,त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् ।,27,12250,विशन्ति नरकानेतान्यातनाबहुलान्मुने । तथा धर्मपराश्चापि लोकान्यान्ति सुखोद्गतान् ॥ 29॥ 8,८.२३,त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् ।,28,12251,स्वधर्मो बहुधा गीतो यथा तव महामुने । देवीपूजनरूपो हि देव्याराधनलक्षणः ॥ 30॥ 8,८.२३,त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् ।,29,12252,येनानुष्ठितमात्रेण नरो न नरकं व्रजेत् । सा देवी भवपाथोधेरुद्धर्त्री पूजिता नृणाम् ॥ 31॥ 8,८.२३,त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् ।,30,12253,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे ऽवशिष्टनरकवर्णनं नाम त्रयोविंशोऽध्यायः ॥ ८.२३॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,0,12254,नारद उवाच । धर्मश्च कीदृशस्तात देव्याराधनलक्षणः । कथमाराधिता देवी सा ददाति परं पदम् ॥ 1॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,1,12255,आराधनविधिः को वा कथमाराधिता कदा । केन सा दुर्गनरकाद्दुर्गा त्राणप्रदा भवेत् ॥ 2॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,2,12256,श्रीनारायण उवाच । देवर्षे श‍ृणु चित्तैकाग्र्येण मे विदुषां वर । यथा प्रसीदते देवी धर्माराधनतः स्वयम् ॥ 3॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,3,12257,स्वधर्मो यादृशः प्रोक्तस्तं च मे श‍ृणु नारद । अनादाविह संसारे देवी सश‍ृजिता स्वयम् ॥ 4॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,4,12258,परिपालयते घोरसङ्कटादिषु सा मुने । सा देवी पूज्यते लोकैर्यथावत्तद्विधिं श‍ृणु ॥ 5॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,5,12259,प्रतिपत्तिथिमासाद्य देवीमाज्येन पूजयेत् । घृतं दद्याद् ब्राह्मणाय रोगहीनो भवेत्सदा ॥ 6॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,6,12260,द्वितीयायां शर्करया पूजयेज्जगदम्बिकाम् । शर्करां प्रददेद्विप्रे दीर्घायुर्जायते नरः ॥ 7॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,7,12261,तृतीयादिवसे देव्यै दुग्धं पूजनकर्मणि । क्षीरं दत्त्वा द्विजाग्र्याय सर्वदुःखातिगो भवेत् ॥ 8॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,8,12262,चतुर्थ्यां पूजनेऽपूपा देया देव्यै द्विजाय च । अपूपा एव दातव्या न विघ्नैरभिभूयते ॥ 9॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,9,12263,पञ्चम्यां कदलीजातं फलं देव्यै निवेदयेत् । तदेव ब्राह्मणे देयं मेधावान्पुरुषो भवेत् ॥ 10॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,10,12264,षष्ठीतिथौ मधु प्रोक्तं देवीपूजनकर्मणि । ब्राह्मणाय च दातव्यं मधु कान्तिर्यतो भवेत् ॥ 11॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,11,12265,सप्तम्यां गुडनैवेद्यं देव्यै दत्त्वा द्विजाय च । गुडं दत्त्वा शोकहीनो जायते द्विजसत्तम ॥ 12॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,12,12266,नारिकेलमथाष्टम्यां देव्यै नैवेद्यमर्पयेत् । ब्राह्मणाय प्रदातव्यं तापहीनो भवेन्नरः ॥ 13॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,13,12267,नवम्यां लाजमम्बायै चार्पयित्वा द्विजाय च । दत्त्वा सुखाधिको भूयादिह लोके परत्र च ॥ 14॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,14,12268,दशम्यामर्पयित्वा तु देव्यै कृष्णतिलान्मुने । ब्राह्मणाय प्रदत्त्वा तु यमलोकाद्भयं न हि ॥ 15॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,15,12269,एकादश्यां दधि तथा देव्यै चार्पयते तु यः । ददाति ब्राह्मणायैतद्देवीप्रियतमो भवेत् ॥ 16॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,16,12270,द्वादश्यां पृथुकान्देव्यै दत्त्वाचार्याय यो ददेत् । तानेव च मुनिश्रेष्ठ स देवीप्रियतां व्रजेत् ॥ 17॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,17,12271,त्रयोदश्यां च दुर्गायै चणकान्प्रददाति च । तानेव दत्त्वा विप्राय प्रजासन्ततिमान्भवेत् ॥ 18॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,18,12272,चतुर्दश्यां च देवर्षे देव्यै सक्तून्प्रयच्छति । तानेव दद्याद्विप्राय शिवस्य दयितो भवेत् ॥ 19॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,19,12273,पायसं पूर्णिमातिथ्यामपर्णायै प्रयच्छति । ददाति च द्विजाग्र्याय पितृनुद्धरतेऽखिलान् ॥ 20॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,20,12274,तत्तिथौ हवनं प्रोक्तं देवीप्रीत्यै महामुने । तत्तत्तिथ्युक्तवस्तूनामशेषारिष्टनाशनम् ॥ 21॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,21,12275,रविवारे पायसं च नैवेद्यं परिकीर्तितम् । सोमवारे पयः प्रोक्तं भौमे च कदलीफलम् ॥ 22॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,22,12276,बुधवारे च सम्प्रोक्तं नवनीतं नवं द्विज । गुरुवारे शर्करां च सितां भार्गववासरे ॥ 23॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,23,12277,शनिवारे घृतं गव्यं नैवेद्यं परिकीर्तितम् । सप्तविंशतिनक्षत्रनैवेद्यं श्रूयतां मुने ॥ 24॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,24,12278,घृतं तिलं शर्करां च दधि दुग्धं किलाटकम् । दथिकूर्ची मोदकं च फेणिकां घृतमण्डकम् ॥ 25॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,25,12279,कंसारं वटपत्रं च घृतपूरमतः परम् । वटकं कोकरसकं पूरणं मधु सूरणम् ॥ 26॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,26,12280,गुडं पृथुकद्राक्षे च खर्जूरं चैव चारकम् । अपूपं नवनीतं च मुद्गं मोदक एव च ॥ 27॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,27,12281,मातुलिङ्गमिति प्रोक्तं भनैवेद्यं च नारद । विष्कम्भादिषु योगेषु प्रवक्ष्यामि निवेदनम् ॥ 28॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,28,12282,पदार्थानां कृतेष्वेषु प्रीणाति जगदम्बिका । गुडं मधु घृतं दुग्धं दधि तक्रं त्वपूपकम् ॥ 29॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,29,12283,नवनीतं कर्कटीं च कूष्माण्डं चापि मोदकम् । पनसं कदलं जम्बुफलमाम्रफलं तिलम् ॥ 30॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,30,12284,नारङ्गं दाडिमं चैव बदरीफलमेव च । धात्रीफलं पायसञ्च पृथुकं चणकं तथा ॥ 31॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,31,12285,नारिकेलं जम्भफलं कसेरुं सूरणं तथा । एतानि क्रमशो विप्र नैवेद्यानि शुभानि च ॥ 32॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,32,12286,विष्कम्भादिषु योगेषु निर्णीतानि मनीषिभिः । अथ नैवेद्यमाख्यास्ये करणानां पृथङ्मुने ॥ 33॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,33,12287,कंसारं मण्डकं फेणी मोदकं वटपत्रकम् । लड्डुकं घृतपूरं च तिलं दधि घृतं मधु ॥ 34॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,34,12288,करणानामिदं प्रोक्तं देवीनैवेद्यमादरात् । अथान्यत्सम्प्रवक्ष्यामि देवीप्रीतिकरं परम् ॥ 35॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,35,12289,विधानं नारदमुने श‍ृणु तत्सर्वमादृतः । चैत्रशुद्धतृतीयायां नरो मधुकवृक्षकम् ॥ 36॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,36,12290,पूजयेत्पञ्च खाद्यं च नैवेद्यमुपकल्पयेत् । एवं द्वादशमासेषु तृतीयातिथिषु क्रमात् ॥ 37॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,37,12291,शुक्लपक्षे विधानेन नैवेद्यमभिदध्महे । वैशाखमासे नैवेद्यं गुडयुक्तं च नारद ॥ 38॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,38,12292,ज्येष्ठमासे मधु प्रोक्तं देवीप्रीत्यर्थमेव तु । आषाढे नवनीतं च मधुकस्य निवेदनम् ॥ 39॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,39,12293,श्रावणे दधि नैवेद्यं भाद्रमासे च शर्करा । आश्विने पायसं प्रोक्तं कार्तिके पय उत्तमम् ॥ 40॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,40,12294,मार्गे फेण्युत्तमा प्रोक्ता पौषे च दधिकूर्चिका । माघे मासि च नैवेद्यं मृतं गव्यं समाहरेत् ॥ 41॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,41,12295,नारिकेलं च नैवेद्यं फाल्गुने परिकीर्तितम् । एवं द्वादशनैवेद्यैर्मासे च क्रमतोऽर्चयेत् ॥ 42॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,42,12296,मङ्गला वैष्णवी माया कालरात्रिर्दुरत्यया । महामाया मतङ्गी च काली कमलवासिनी ॥ 43॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,43,12297,शिवा सहस्रचरणा सर्वमङ्गलरूपिणी । एभिर्नामपदैर्देवीं मधूके परिपूजयेत् ॥ 44॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,44,12298,ततः स्तुवीत देवेशीं मधूकस्थां महेश्वरीम् । सर्वकामसमृद्ध्यर्थं व्रतपूर्णत्वसिद्धये ॥ 45॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,45,12299,नमः पुष्करनेत्रायै जगद्धात्र्यै नमोऽस्तु ते । माहेश्वर्यं महादेव्यै महामङ्गलमूर्तये ॥ 46॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,46,12300,परमा पापहन्त्री च परमार्गप्रदायिनी । परमेश्वरी प्रजोत्पत्तिः परब्रह्मस्वरूपिणी ॥ 47॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,47,12301,मददात्री मदोन्मत्ता मानगम्या महोन्नता । मनस्विनी मुनिध्येया मार्तण्डसहचारिणी ॥ 48॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,48,12302,जय लोकेश्वरि प्राज्ञे प्रलयाम्बुदसन्निभे । महामोहविनाशार्थं पूजितासि सुरासुरैः ॥ 49॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,49,12303,यमलोकाभावकर्त्री यमपूज्या यमाग्रजा । यमनिग्रहरूपा च यजनीये नमो नमः ॥ 50॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,50,12304,समस्वभावा सर्वेशी सर्वसङ्गविवर्जिता । सङ्गनाशकरी काम्यरूपा कारुण्यविग्रहा ॥ 51॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,51,12305,कङ्कालक्रूरा कामाक्षी मीनाक्षी मर्मभेदिनी । माधुर्यरूपशीला च मधुरस्वरपूजिता ॥ 52॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,52,12306,महामन्त्रवती मन्त्रगम्या मन्त्रप्रियङ्करी । मनुष्यमानसगमा मन्मथारिप्रियङ्करी ॥ 53॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,53,12307,अश्वत्थवटनिम्बाम्रकपित्थबदरीगते । पनसार्ककरीरादिक्षीरवृक्षस्वरूपिणी ॥ 54॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,54,12308,दुग्धवल्लीनिवासार्हे दयनीये दयाधिके । दाक्षिण्यकरुणारूपे जय सर्वज्ञवल्लभे ॥ 55॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,55,12309,एवं स्तवेन देवेशीं पूजनान्ते स्तुवीत ताम् । व्रतस्य सकलं पुण्यं लभते सर्वदा नरः ॥ 56॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,56,12310,नित्यं यः पठते स्तोत्रं देवीप्रीतिकरं नरः । आधिव्याधिभयं नास्ति रिपुभीतिर्न तस्य हि ॥ 57॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,57,12311,अर्थार्थी चार्थमाप्नोति धर्मार्थी धर्ममाप्नुयात् । कामानवाप्नुयात्कामी मोक्षार्थी मोक्षमाजप्नुयात् ॥ 58॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,58,12312,ब्राह्मणो वेदसम्पनो विजयी क्षत्रियो भवेत् । वैश्यश्च धनधान्याढ्यो भवेच्छूद्रः सुखाधिकः ॥ 59॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,59,12313,स्तोत्रमेतच्छ्राद्धकाले यः पठेत्प्रयतो नरः । पितॄणामक्षया तृप्तिर्जायते कल्पवर्तिनी ॥ 60॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,60,12314,एवमाराधनं देव्याः समुक्तं सुरपूजितम् । यः करोति नरो भक्त्या स देवीलोकभाग्भवेत् ॥ 61॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,61,12315,देवीपूजनतो विप्र सर्वे कामा भवन्ति हि । सर्वपापहतिः शुद्धा मतिरन्ते प्रजायते ॥ 62॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,62,12316,यत्र तत्र भवेत्पूज्यो मान्यो मानधनेषु च । जायते जगदम्बायाः प्रसादेन विरञ्चिज ॥ 63॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,63,12317,नरकाणां न तस्यास्ति भयं स्वप्नेऽपि कुत्रचित् । महामायाप्रसादेन पुत्रपौत्रादिवर्धनः ॥ 64॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,64,12318,देवीभक्तो भवत्येव नात्र कार्या विचारणा । इत्येवं ते समाख्यातं नरकोद्धारलक्षणम् ॥ 65॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,65,12319,पूजनं हि महादेव्याः सर्वमङ्गलकारकम् । मधूकपूजनं तद्वन्मासानां क्रमतो मुने ॥ 66॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,66,12320,सर्वं समाचरेद्यस्तु पूजनं मधुकाह्वयम् । न तस्य रोगबाधादिभयमुद्भवतेऽनघ ॥ 67॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,67,12321,अथान्यदपि वक्ष्यामि प्रकृतेः पञ्चकं परम् । नाम्ना रूपेण चोत्पत्त्या जगदानन्ददायकम् ॥ 68॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,68,12322,साख्यानं च समाहात्म्यं प्रकृतेः पञ्चकं मुने । कुतूहलकर चैव श‍ृणु मुक्तिविधायकम् ॥ 69॥ 8,८.२४,चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।,69,12323,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे देवीपूजनविधिनिरूपणं नाम चतुर्विंशोऽध्यायः ॥ ८.२४॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,0,12324,श्रीनारायण उवाच । गणेशजननी दुर्गा राधा लक्ष्मीः सरस्वती । सावित्री च सृष्टिविधौ प्रकृतिः पञ्चधा स्मृता ॥ 1॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,1,12325,नारद उवाच । आविर्बभूव सा केन का वा सा ज्ञानिनांवर । किं वा तल्लक्षणं साधो बभूव पञ्चधा कथम् ॥ 2॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,2,12326,सर्वासां चरितं पूजाविधानं गुण ईप्सितः । अवतारः कुत्र कस्यास्तन्मे व्याख्यातुमर्हसि ॥ 3॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,3,12327,श्रीनारायण उवाच । प्रकृतेर्लक्षणं वत्स को वा वक्तुं क्षमो भवेत् । किञ्चित्तथापि वक्ष्यामि यच्छ्रुतं धर्मवक्त्रतः ॥ 4॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,4,12328,प्रकृष्टवाचकः प्रश्न कृतिश्च सृष्टिवाचकः । सृष्टौ प्रकृष्टा या देवी प्रकृतिः सा प्रकीर्तिता ॥ 5॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,5,12329,गुणे सत्त्वे प्रकृष्टे च प्रशब्दो वर्तते श्रुतः । मध्यमे रजसि कृश्च तिशब्दस्तमसि स्मृतः ॥ 6॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,6,12330,त्रिगुणात्मस्वरूपा या सा च शक्तिसमन्विता । प्रधाना सृष्टिकरणे प्रकृतिस्तेन कथ्यते ॥ 7॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,7,12331,प्रथमे वर्तते प्रश्न कृतिश्च सृष्टिवाचकः । सृष्टेरादौ च या देवी प्रकृतिः सा प्रकीर्तिता ॥ 8॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,8,12332,योगेनात्मा सृष्टिविधौ द्विधारूपो बभूव सः । पुमांश्च दक्षिणार्धाङ्गो वामार्धा प्रकृतिः स्मृता ॥ 9॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,9,12333,सा च ब्रह्मस्वरूपा च नित्या सा च सनातनी । यथाऽऽत्मा च तथा शक्तिर्यथाग्नौ दाहिका स्थिता ॥ 10॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,10,12334,अत एव हि योगीन्द्रैः स्त्रीपुम्भेदो न मन्यते । सर्वं ब्रह्ममयं ब्रह्मञ्छश्वत्सदपि नारद ॥ 11॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,11,12335,स्वेच्छामयस्येच्छया च श्रीकृष्णस्य सिसृक्षया । साऽऽविर्बभूव सहसा मूलप्रकृतिरीश्वरी ॥ 12॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,12,12336,तदाज्ञया पञ्चविधा सृष्टिकर्मविभेदिका । अथ भक्तानुरोधाद्वा भक्तानुग्रहविग्रहा ॥ 13॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,13,12337,गणेशमाता दुर्गा या शिवरूपा शिवप्रिया । नारायणी विष्णुमाया पूर्णब्रह्मस्वरूपिणी ॥ 14॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,14,12338,ब्रह्मादिदेवैर्मुनिभिर्मनुभिः पूजिता स्तुता । सर्वाधिष्ठातृदेवी सा शर्वरूपा सनातनी ॥ 15॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,15,12339,धर्मसत्यपुण्यकीर्तिर्यशोमङ्गलदायिनी । सुखमोक्षहर्षदात्री शोकार्तिदुःखनाशिनी ॥ 16॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,16,12340,शरणागतदीनार्तपरित्राणपरायणा । तेजःस्वरूपा परमा तदधिष्ठातृदेवता ॥ 17॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,17,12341,सर्वशक्तिस्वरूपा च शक्तिरीशस्य सन्ततम् । सिद्धेश्वरी सिद्धिरूपा सिद्धिदा सिद्धिरीश्वरी ॥ 18॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,18,12342,बुद्धिर्निद्रा क्षुत्पिपासा छाया तन्द्रा दया स्मृतिः । जातिः क्षान्तिश्च भ्रान्तिश्च शान्तिः कान्तिश्च चेतना ॥ 19॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,19,12343,तुष्टिः पुष्टिस्तथा लक्ष्मीर्धृतिर्माया तथैव च । सर्वशक्तिस्वरूपा सा कृष्णस्य परमात्मनः ॥ 20॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,20,12344,उक्तः श्रुतौ श्रुतगुणश्चातिस्वल्पो यथागमम् । गुणोऽस्त्यनन्तोऽनन्ताया अपरां च निशामय ॥ 21॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,21,12345,शुद्धसत्त्वस्वरूपा या पद्मा सा परमात्मनः । सर्वसम्पत्स्वरूपा सा तदधिष्ठातृदेवता ॥ 22॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,22,12346,कान्तातिदान्ता शान्ता च सुशीला सर्वमङ्गला । लोभमोहकामरोषमदाहङ्कारवर्जिता ॥ 23॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,23,12347,भक्तानुरक्ता पत्युश्च सर्वाभ्यश्च पतिव्रता । प्राणतुल्या भगवतः प्रेमपात्रं प्रियंवदा ॥ 24॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,24,12348,सर्वसस्यात्मिका देवी जीवनोपायरूपिणी । महालक्ष्मीश्च वैकुण्ठे पतिसेवारता सती ॥ 25॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,25,12349,स्वर्गे च स्वर्गलक्ष्मीश्च राजलक्ष्मीश्च राजसु । गृहेषु गृहलक्ष्मीश्च मर्त्यानां गृहिणां तथा ॥ 26॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,26,12350,सर्वप्राणिषु द्रव्येषु शोभारूपा मनोहरा । कीर्तिरूपा पुण्यवतां प्रभारूपा नृपेषु च ॥ 27॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,27,12351,वाणिज्यरूपा वणिजां पापिनां कलहाङ्कुरा । दयारूपा च कथिता वेदोक्ता सर्वसम्मता ॥ 28॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,28,12352,सर्वपूज्या सर्ववन्द्या चान्यां मत्तो निशामय । वाग्बुद्धिविद्याज्ञानाधिष्ठात्री च परमात्मनः ॥ 29॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,29,12353,सर्वविद्यास्वरूपा या सा च देवी सरस्वती । सा बुद्धिः कविता मेधा प्रतिभा स्मृतिदा नृणाम् ॥ 30॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,30,12354,नानाप्रकारसिद्धान्तभेदार्थकलना मता । व्याख्याबोधस्वरूपा च सर्वसन्देहभञ्जिनी ॥ 31॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,31,12355,विचारकारिणी ग्रन्थकारिणी शक्तिरूपिणी । स्वरसङ्गीतसन्धानतालकारणरूपिणी ॥ 32॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,32,12356,विषयज्ञानवाग्रूपा प्रतिविश्वोपजीविनी । व्याख्यावादकरी शान्ता वीणापुस्तकधारिणी ॥ 33॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,33,12357,शुद्धसत्त्वस्वरूपा च सुशीला श्रीहरिप्रिया । हिमचन्दनकुन्देन्दुकुमुदाम्भोजसन्निभा ॥ 34॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,34,12358,यजन्ती परमात्मानं श्रीकृष्णं रत्नमालया । तपःस्वरूपा तपसां फलदात्री तपस्विनाम् ॥ 35॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,35,12359,सिद्धिविद्यास्वरूपा च सर्वसिद्धिप्रदा सदा । यया विना तु विप्रौघो मूको मृतसमः सदा ॥ 36॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,36,12360,देवी तृतीया गदिता श्रुत्युक्ता जगदम्बिका । यथागमं यथाकिञ्चिदपरां त्वं निबोध मे ॥ 37॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,37,12361,माता चतुर्णां वर्णानां वेदाङ्गानां च छन्दसाम् । सन्ध्यावन्दनमन्त्राणां तन्त्राणां च विचक्षणा ॥ 38॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,38,12362,द्विजातिजातिरूपा च जपरूपा तपस्विनी । ब्रह्मण्यतेजोरूपा च सर्वसंस्काररूपिणी ॥ 39॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,39,12363,पवित्ररूपा सावित्री गायत्री ब्रह्मणः प्रिया । तीर्थानि यस्याः संस्पर्शं वाञ्छन्ति ह्यात्मशुद्धये ॥ 40॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,40,12364,शुद्धस्फटिकसङ्काशा शुद्धसत्त्वस्वरूपिणी । परमानन्दरूपा च परमा च सनातनी ॥ 41॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,41,12365,परब्रह्मस्वरूपा च निर्वाणपददायिनी । ब्रह्मतेजोमयी शक्तिस्तदधिष्ठातृदेवता ॥ 42॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,42,12366,यत्पादरजसा पूतं जगत्सर्वं च नारद । देवी चतुर्थी कथिता पञ्चमीं वर्णयामि ते ॥ 43॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,43,12367,पञ्चप्राणाधिदेवी या पञ्चप्राणस्वरूपिणी । प्राणाधिकप्रियतमा सर्वाभ्यः सुन्दरी परा ॥ 44॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,44,12368,सर्वयुक्ता च सौभाग्यमानिनी गौरवान्विता । वामाङ्गार्धस्वरूपा च गुणेन तेजसा समा ॥ 45॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,45,12369,परावरा सारभूता परमाद्या सनातनी । परमानन्दरूपा च धन्या मान्या च पूजिता ॥ 46॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,46,12370,रासक्रीडाधिदेवी श्रीकृष्णस्य परमात्मनः । रासमण्डलसम्भूता रासमण्डलमण्डिता ॥ 47॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,47,12371,रासेश्वरी सुरसिका रासावासनिवासिनी । गोलोकवासिनी देवी गोपीवेषविधायिका ॥ 48॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,48,12372,परमाह्लादरूपा च सन्तोषहर्षरूपिणी । निर्गुणा च निराकारा निर्लिप्ताऽऽत्मस्वरूपिणी ॥ 49॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,49,12373,निरीहा निरहङ्कारा भक्तानुग्रहविग्रहा । वेदानुसारिध्यानेन विज्ञाता मा विचक्षणैः ॥ 50॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,50,12374,दृष्टिदृष्टा न सा चेशैः सुरेन्द्रैर्मुनिपुङ्गवैः । वह्निशुद्धांशुकधरा नानालङ्कारभूषिता ॥ 51॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,51,12375,कोटिचन्द्रप्रभा पुष्टसर्वश्रीयुक्तविग्रहा । श्रीकृष्णभक्तिदास्यैककरा च सर्वसम्पदाम् ॥ 52॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,52,12376,अवतारे च वाराहे वृषभानुसुता च या । यत्पादपद्मसंस्पर्शात्पवित्रा च वसुन्धरा ॥ 53॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,53,12377,ब्रह्मादिभिरदृष्टा या सर्वैर्दृष्टा च भारते । स्त्रीरत्नसारसम्भूता कृष्णवक्षःस्थले स्थिता ॥ 54॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,54,12378,यथाम्बरे नवघने लोला सौदामनी मुने । षष्टिवर्षसहस्राणि प्रतप्तं ब्रह्मणा पुरा ॥ 55॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,55,12379,यत्पादपद्मनखरदृष्टये चात्मशुद्धये । न च दृष्टं च स्वप्नेऽपि प्रत्यक्षस्यापि का कथा ॥ 56॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,56,12380,तेनैव तपसा दृष्टा भुवि वृन्दावने वने । कथिता पञ्चमी देवी सा राधा च प्रकीर्तिता ॥ 57॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,57,12381,अंशरूपाः कलारूपाः कलांशांशांशसम्भवाः । प्रकृतेः प्रतिविश्वेषु देव्यश्च सर्वयोषितः ॥ 58॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,58,12382,परिपूर्णतमाः पञ्च विद्यादेव्यः प्रकीर्तिताः । या याः प्रधानांशरूपा वर्णयामि निशामय ॥ 59॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,59,12383,प्रधानांशस्वरूपा सा गङ्गा भुवनपावनी । विष्णुविग्रहसम्भूता द्रवरूपा सनातनी ॥ 60॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,60,12384,पापिपापेध्मदाहाय ज्वलदग्निस्वरूपिणी । सुखस्पर्शा स्नानपानैर्निर्वाणपददायिनी ॥ 61॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,61,12385,गोलोकस्थानप्रस्थानसुखसोपानरूपिणी । पवित्ररूपा तीर्थानां सरितां च परावरा ॥ 62॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,62,12386,शम्भुमौलिजटामेरुमुक्तापङ्क्तिस्वरूपिणी । तपःसम्पादिनी सद्यो भारतेषु तपस्विनाम् ॥ 63॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,63,12387,चन्द्रपद्मक्षीरनिभा शुद्धसत्त्वस्वरूपिणी । निर्मला निरहङ्कारा साध्वी नारायणप्रिया ॥ 64॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,64,12388,प्रधानांशस्वरूपा च तुलसी विष्णुकामिनी । विष्णुभूषणरूपा च विष्णुपादस्थिता सती ॥ 65॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,65,12389,तपःसङ्कल्पपूजादिसङ्घसम्पादिनी मुने । सारभूता च पुष्पाणां पवित्रा पुण्यदा सदा ॥ 66॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,66,12390,दर्शनस्पर्शनाभ्यां च सद्यो निर्वाणदायिनी । कलौ कलुषशुष्केध्मदहनायाग्निरूपिणी ॥ 67॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,67,12391,यत्पादपद्मसंस्पर्शात्सद्यः पूता वसुन्धरा । यत्स्पर्शदर्शने चैवेच्छन्ति तीर्थानि शुद्धये ॥ 68॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,68,12392,यया विना च विश्वेषु सर्वकर्म च निष्फलम् । मोक्षदा या मुमुक्षूणां कामिनी सर्वकामदा ॥ 69॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,69,12393,कल्पवृक्षस्वरूपा या भारते वृक्षरूपिणी । भारतीनां प्रीणनाय जाता या परदेवता ॥ 70॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,70,12394,प्रधानांशस्वरूपा या मनसा कश्यपात्मजा । शङ्करप्रियशिष्या च महाज्ञानविशारदा ॥ 71॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,71,12395,नागेश्वरस्यानन्तस्य भगिनी नागपूजिता । नागेश्वरी नागमाता सुन्दरी नागवाहिनी ॥ 72॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,72,12396,नागेन्द्रगणसंयुक्ता नागभूषणभूषिता । नागेन्द्रवन्दिता सिद्धा योगिनी नगशायिनी ॥ 73॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,73,12397,विष्णुरूपा विष्णुभक्ता विष्णुपूजापरायणा । तपःस्वरूपा तपसां फलदात्री तपस्विनी ॥ 74॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,74,12398,दिव्यं त्रिलक्षवर्षं च तपस्तप्त्वा च या हरेः । तपस्विनीषु पूज्या च तपस्विषु च भारते ॥ 75॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,75,12399,सर्वमन्त्राधिदेवी च ज्वलन्ती ब्रह्मतेजसा । ब्रह्मस्वरूपा परमा ब्रह्मभावनतत्परा ॥ 76॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,76,12400,जरत्कारुमुनेः पत्नी कृष्णांशस्य पतिव्रता । आस्तीकस्य मुनेर्माता प्रवरस्य तपस्विनाम् ॥ 77॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,77,12401,प्रधानांशस्वरूपा या देवसेना च नारद । मातृकासु पूज्यतमा सा षष्ठी च प्रकीर्तिता ॥ 78॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,78,12402,पुत्रपौत्रादिदात्री च धात्री त्रिजगतां सती । षष्ठांशरूपा प्रकृतेस्तेन षष्ठी प्रकीर्तिता ॥ 79॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,79,12403,स्थाने शिशूनां परमा वृद्धरूपा च योगिनी । पूजा द्वादशमासेषु यस्या विश्वेषु सन्ततम् ॥ 80॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,80,12404,पूजा च सूतिकागारे पुरा षष्ठदिने शिशोः । एकविंशतिमे चैव पूजा कल्याणहेतुकी ॥ 81॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,81,12405,मुनिभिर्नमिता चैषा नित्यकामाप्यतः परा । मातृका च दयारूपा शश्वद्रक्षणकारिणी ॥ 82॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,82,12406,जले स्थले चान्तरिक्षे शिशूनां सद्मगोचरे । प्रधानांशस्वरूपा च देवीमङ्गलचण्डिका ॥ 83॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,83,12407,प्रकृतेर्मुखसम्भूता सर्वमङ्गलदा सदा । सृष्टौ मङ्गलरूपा च संहारे कोपरूपिणी ॥ 84॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,84,12408,तेन मङ्गलचण्डी सा पण्डितैः परिकीर्तिता । प्रतिमङ्गलवारेषु प्रतिविश्वेषु पूजिता ॥ 85॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,85,12409,पुत्रपौत्रधनैश्वर्ययशोमङ्गलदायिनी । परितुष्टा सर्ववाञ्छाप्रदात्री सर्वयोषिताम् ॥ 86॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,86,12410,रुष्टा क्षणेन संहर्तुं शक्ता विश्वं महेश्वरी । प्रधानांशस्वरूपा सा काली कमललोचना ॥ 87॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,87,12411,दुर्गाललाटसम्भूता रणे शुम्भनिशुम्भयोः । दुर्गार्धांशस्वरूपा सा गुणेन तेजसा समा ॥ 88॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,88,12412,कोटिसूर्यसमाजुष्टपुष्टजाज्वलविग्रहा । प्रधाना सर्वशक्तीनां बला बलवती परा ॥ 89॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,89,12413,सर्वसिद्धिप्रदा देवी परमा योगरूपिणी । कृष्णभक्ता कृष्णतुल्या तेजसा विक्रमैर्गुणैः ॥ 90॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,90,12414,कृष्णभावनया शश्वत्कृष्णवर्णा सनातनी । संहर्तुं सर्वब्रह्माण्डं शक्ता निःश्वासमात्रतः ॥ 91॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,91,12415,रणं दैत्यैः समं तस्याः क्रीडया लोकशिक्षया । धर्मार्थकाममोक्षांश्च दातुं शक्ता च पूजिता ॥ 92॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,92,12416,ब्रह्मादिभिः स्तूयमाना मुनिभिर्मनुभिर्नरैः । प्रधानांशस्वरूपा सा प्रकृतेश्च वसुन्धरा ॥ 93॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,93,12417,आधाररूपा सर्वेषां सर्वसस्या प्रकीर्तिता । रत्नाकरा रत्नगर्भा सर्वरत्नाकराश्रया ॥ 94॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,94,12418,प्रजाभिश्च प्रजेशैश्च पूजिता वन्दिता सदा । सर्वोपजीव्यरूपा च सर्वसम्पद्विधायिनी ॥ 95॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,95,12419,यया विना जगत्सर्वं निराधारं चराचरम् । प्रकृतेश्च कला या यास्ता निबोध मुनीश्वर ॥ 96॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,96,12420,यस्य यस्य च या पत्नी तत्सर्वं वर्णयामि ते । स्वाहादेवी वह्निपत्नी प्रतिविश्वेषु पूजिता ॥ 97॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,97,12421,यया विना हविर्दानं न ग्रहीतुं सुराः क्षमाः । दक्षिणा यज्ञपत्नी च दीक्षा सर्वत्र पूजिता ॥ 98॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,98,12422,यया विना हि विश्वेषु सर्वकर्म हि निष्फलम् । स्वधा पितॄणां पत्नी च मुनिभिर्मनुभिर्नरैः ॥ 99॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,99,12423,पूजिता पितृदानं हि निष्कलं च यया विना । स्वस्तिदेवी वायुपत्नी प्रतिविश्वेषु पूजिता ॥ 100॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,100,12424,आदानं च प्रदानं च निष्फलं च यया विना । पुष्टिर्गणपतेः पत्नी पूजिता जगतीतले ॥ 101॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,101,12425,यया विना परिक्षीणाः पुमांसो योषितोऽपि च । अनन्तपत्नी तुष्टिश्च पूजिता वन्दिता भवेत् ॥ 102॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,102,12426,यया विना न सन्तुष्टाः सर्वलोकाश्च सर्वतः । ईशानपत्नी सम्पत्तिः पूजिता च सुरैर्नरैः ॥ 103॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,103,12427,सर्वे लोका दरिद्राश्च विश्वेषु च यया विना । धृतिः कपिलपत्नी च सर्वैः सर्वत्र पूजिता ॥ 104॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,104,12428,सर्वे लोका अधैर्याश्च जगत्सु च यया विना । सत्यपत्नी सती मुक्तैः पूजिता च जगत्प्रिया ॥ 105॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,105,12429,यया विना भवेल्लोको बन्धुतारहितः सदा । मोहपत्नी दया साध्वी पूजिता च जगत्प्रिया ॥ 106॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,106,12430,सर्वे लोकाश्च सर्वत्र निष्फलाश्च यया विना । पुण्यपत्नी प्रतिष्ठा सा पूजिता पुण्यदा सदा ॥ 107॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,107,12431,यया विना जगत्सर्वं जीवन्मृतसमं मुने । सुकर्मपत्नी संसिद्धा कीर्तिर्धन्यैश्च पूजिता ॥ 108॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,108,12432,यया विना जगत्सर्वं यशोहीनं मृतं यथा । क्रिया तूद्योगपत्नी च पूजिता सर्वसम्मता ॥ 109॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,109,12433,यया विना जगत्सर्वं विधिहीनं च नारद । अधर्मपत्नी मिथ्या सा सर्वधूर्तैश्च पूजिता ॥ 110॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,110,12434,यया विना जगत्सर्वमुच्छिन्नं विधिनिर्मितम् । सत्ये अदर्शना या च त्रेतायां सूक्ष्मरूपिणी ॥ 111॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,111,12435,अर्धावयवरूपा च द्वापरे चैव संवृता । कलौ महाप्रगल्भा च सर्वत्र व्यापिका बलात् ॥ 112॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,112,12436,कपटेन समं भ्रात्रा भ्रमते च गृहे गृहे । शान्तिर्लज्जा च भार्ये द्वे सुशीलस्य च पूजिते ॥ 113॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,113,12437,याभ्यां विना जगत्सर्वमुन्मत्तमिव नारद । ज्ञानस्य तिस्रो भार्याश्च बुद्धिर्मेधाधृतिस्तथा ॥ 114॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,114,12438,याभिर्विना जगत्सर्वं मूढं मत्तसमं सदा । मूर्तिश्च धर्मपत्नी सा कान्तिरूपा मनोहरा ॥ 115॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,115,12439,परमात्मा च विश्वौघो निराधारो यया विना । सर्वत्र शोभारूपा च लक्ष्मीर्मूर्तिमती सती ॥ 116॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,116,12440,श्रीरूपा मूर्तिरूपा च मान्या धन्यातिपूजिता । कालाग्नी रुद्रपत्नी च निद्रा सा सिद्धयोगिनी ॥ 117॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,117,12441,सर्वे लोकाः समाच्छन्ना यया योगेन रात्रिषु । कालस्य तिस्रो भार्याश्च सन्ध्या रात्रिर्दिनानि च ॥ 118॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,118,12442,याभिर्विना विधाता च सङ्ख्यां कर्तुं न शक्यते । क्षुत्पिपासे लोभभार्ये धन्ये मान्ये च पूजिते ॥ 119॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,119,12443,याभ्यां व्याप्तं जगत्सर्वं नित्यं चिन्तातुरं भवेत् । प्रभा च दाहिका चैव द्वे भार्ये तेजसस्तथा ॥ 120॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,120,12444,याभ्यां विना जगत्स्रष्टा विधातुं च न हीश्वरः । कालकन्ये मृत्युजरे प्रज्वारस्य प्रियाप्रिये ॥ 121॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,121,12445,याभ्यां जगत्समुच्छिन्नं विधात्रा निर्मितं विधौ । निद्राकन्या च तन्द्रा सा प्रीतिरन्या सुखप्रिये ॥ 122॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,122,12446,याभ्यां व्याप्तं जगत्सर्वं विधिपुत्र विधेर्विधौ । वैराग्यस्य च द्वे भार्ये श्रद्धा भक्तिश्च पूजिते ॥ 123॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,123,12447,याभ्यां शश्वज्जगत्सर्वं यज्जीवन्मुक्तिमन्मुने । अदितिर्देवमाता च सुरभी च गवां प्रसूः ॥ 124॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,124,12448,दितिश्च दैत्यजननी कद्रूश्च विनता दनुः । उपयुक्ताः सृष्टिविधावेतास्तु कीर्तिताः कलाः ॥ 125॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,125,12449,कला अन्याः सन्ति बह्व्यस्तासु काश्चिन्निबोध मे । रोहिणी चन्द्रपत्नी च संज्ञा सूर्यस्य कामिनी ॥ 126॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,126,12450,शतरूपा मनोर्भार्या शचीन्द्रस्य च गेहिनी । तारा बृहस्पतेर्भार्या वसिष्ठस्याप्यरुन्धती ॥ 127॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,127,12451,अहल्या गौतमस्त्री साप्यनसूयात्रिकामिनी । देवहूतिः कर्दमस्य प्रसूतिर्दक्षकामिनी ॥ 128॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,128,12452,पितॄणां मानसी कन्या मेनका साम्बिकाप्रसूः । लोपामुद्रा तथा कुन्ती कुबेरकामिनी तथा ॥ 129॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,129,12453,वरुणानी प्रसिद्धा च बलेर्विन्ध्यावलिस्तथा । कान्ता च दमयन्ती च यशोदा देवकी तथा ॥ 130॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,130,12454,गान्धारी द्रौपदी शैव्या सा च सत्यवती प्रिया । वृषभानुप्रिया साध्वी राधामाता कुलोद्वहा ॥ 131॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,131,12455,मन्दोदरी च कौसल्या सुभद्रा कौरवी तथा । रेवती सत्यभामा च कालिन्दी लक्ष्मणा तथा ॥ 132॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,132,12456,जाम्बवती नाग्नजितिर्मित्रविन्दा तथापरा । लक्ष्मणा रुक्मिणी सीता स्वयं लक्ष्मीः प्रकीर्तिता ॥ 133॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,133,12457,काली योजनगन्धा च व्यासमाता महासती । बाणपुत्री तथोषा च चित्रलेखा च तत्सखी ॥ 134॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,134,12458,प्रभावती भानुमती तथा मायावती सती । रेणुका च भृगोर्माता राममाता च रोहिणी ॥ 135॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,135,12459,एकनन्दा च दुर्गा सा श्रीकृष्णभगिनी सती । बह्व्यः सत्यः कलाश्चैव प्रकृतेरेव भारते ॥ 136॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,136,12460,या याश्च ग्रामदेव्यः स्युस्ताः सर्वाः प्रकृतेः कलाः । कलांशांशसमुद्भूताः प्रतिविश्वेषु योषितः ॥ 137॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,137,12461,योषितामवमानेन प्रकृतेश्च पराभवः । ब्राह्मणी पूजिता येन पतिपुत्रवती सती ॥ 138॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,138,12462,प्रकृतिः पूजिता तेन वस्त्रालङ्कारचन्दनैः । कुमारी चाष्टवर्षीया वस्त्रालङ्कारचन्दनैः ॥ 139॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,139,12463,पूजिता येन विप्रस्य प्रकृतिस्तेन पूजिता । सर्वाः प्रकृतिसम्भूता उत्तमाधममध्यमाः ॥ 140॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,140,12464,सत्त्वांशाश्चोत्तमा ज्ञेयाः सुशीलाश्च पतिव्रताः । मध्यमा रजसश्चांशास्ताश्च भोग्याः प्रकीर्तिताः ॥ 141॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,141,12465,सुखसम्भोगवश्याश्च स्वकार्ये तत्पराः सदा । अधमास्तमसश्चांशा अज्ञातकुलसम्भवाः ॥ 142॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,142,12466,दुर्मुखाः कुलहा धूर्ताः स्वतन्त्राः कलहप्रियाः । पृथिव्यां कुलटा याश्च स्वर्गे चाप्सरसां गणाः ॥ 143॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,143,12467,प्रकृतेस्तमसश्चांशाः पुंश्चल्यः परिकीर्तिताः । एवं निगदितं सर्वं प्रकृते रूपवर्णनम् ॥ 144॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,144,12468,ताः सर्वाः पूजिताः पृथ्व्यां पुण्यक्षेत्रे च भारते । पूजिता सुरथेनादौ दुर्गा दुर्गार्तिनाशिनी ॥ 145॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,145,12469,ततः श्रीरामचन्द्रेण रावणस्य वधार्थिना । तत्पश्चाज्जगतां माता त्रिषु लोकेषु पूजिता ॥ 146॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,146,12470,जाताऽऽदौ दक्षकन्या या निहत्य दैत्यदानवान् । ततो देहं परित्यज्य यज्ञे भर्तुश्च निन्दया ॥ 147॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,147,12471,जज्ञे हिमवतः पत्न्यां लेभे पशुपतिं पतिम् । गणेशश्च स्वयं कृष्णः स्कन्दो विष्णुकलोद्भवः ॥ 148॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,148,12472,बभूवतुस्तौ तनयौ पश्चात्तस्याश्च नारद । लक्ष्मीर्मङ्गलभूपेन प्रथमं परिपूजिता ॥ 149॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,149,12473,त्रिषु लोकेषु तत्पश्चाद्देवतामुनिमानवैः । सावित्री चाश्वपतिना प्रथमं परिपूजिता ॥ 150॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,150,12474,तत्पश्चात्त्रिषु लोकेषु देवतामुनिपुङ्गवैः । आदौ सरस्वती देवी ब्रह्मणा परिपूजिता ॥ 151॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,151,12475,तत्पश्चात्त्रिषु लोकेषु देवतामुनिपुङ्गवैः । प्रथमं पूजिता राधा गोलोके रासमण्डले ॥ 152॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,152,12476,पौर्णमास्यां कार्तिकस्य कृष्णेन परमात्मना । गोपिकाभिश्च गोपैश्च बालिकाभिश्च बालकैः ॥ 153॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,153,12477,गवां गणैः सुरभ्या च तत्पश्चादाज्ञया हरेः । तदा ब्रह्मादिभिर्देवैर्मुनिभिः परया मुदा ॥ 154॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,154,12478,पुष्पधूपादिभिर्भक्त्या पूजिता वन्दिता सदा । पृथिव्यां प्रथमं देवी सुयज्ञेनैव पूजिता ॥ 155॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,155,12479,शङ्करेणोपदिष्टेन पुण्यक्षेत्रे च भारते । त्रिषु लोकेषु तत्पश्चादाज्ञया परमात्मनः ॥ 156॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,156,12480,पुष्पधूपादिभिर्भक्त्या पूजिता मुनिभिः सदा । कला या याः समुद्भूता पूजितास्ताश्च भारते ॥ 157॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,157,12481,पूजिता ग्रामदेव्यश्च ग्रामे च नगरे मुने । एवं ते कथितं सर्वं प्रकृतेश्चरितं शुभम् ॥ 158॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,158,12482,यथागमं लक्षणं च किं भूयः श्रोतुमिच्छसि ॥ 159॥ 9,९.१,प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।,159,12483,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे प्रकृतिचरित्रवर्णनं नाम प्रथमोऽध्यायः ॥ ९.१॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,0,12484,नारद उवाच । समासेन श्रुतं सर्वं देवीनां चरितं प्रभो । विबोधनाय बोधस्य व्यासेन वक्तुमर्हसि ॥ 1॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,1,12485,सृष्टेराद्या सृष्टिविधौ कथमाविर्बभूव ह । कथं वा पञ्चधा भूता वद वेदविदांवर ॥ 2॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,2,12486,भूता ययांशकलया तया त्रिगुणया भवे । व्यासेन तासां चरितं श्रोतुमिच्छामि साम्प्रतम् ॥ 3॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,3,12487,तासां जन्मानुकथनं पूजाध्यानविधिं बुध । स्तोत्रं कवचमैश्वर्यं शौर्यं वर्णय मङ्गलम् ॥ 4॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,4,12488,श्रीनारायण उवाच । नित्य आत्मा नभो नित्यं कालो नित्यो दिशो यथा । विश्वानां गोलकं नित्यं नित्यो गोलोक एव च ॥ 5॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,5,12489,तदेकदेशो वैकुण्ठो नम्रभागानुसारकः । तथैव प्रकृतिर्नित्या ब्रह्मलीला सनातनी ॥ 6॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,6,12490,यथाग्नौ दाहिका चन्द्रे पद्मे शोभा प्रभा रवौ । शश्वद्युक्ता न भिन्ना सा तथा प्रकृतिरात्मनि ॥ 7॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,7,12491,विना स्वर्णं स्वर्णकारः कुण्डलं कर्तुमक्षमः । विना मृदा घटं कर्तुं कुलालो हि नहीश्वरः ॥ 8॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,8,12492,न हि क्षमस्तथात्मा च सृष्टिं स्रष्टुं तया विना । सर्वशक्तिस्वरूपा सा यया च शक्तिमान्सदा ॥ 9॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,9,12493,ऐश्वर्यवचनः शश्च क्तिः पराक्रम एव च । तत्स्वरूपा तयोर्दात्री सा शक्तिः परिकीर्तिता ॥ 10॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,10,12494,ज्ञानं समृद्धिः सम्पत्तिर्यशश्चैव बलं भगः । तेन शक्तिर्भगवती भगरूपा च सा सदा ॥ 11॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,11,12495,तया युक्तः सदात्मा च भगवांस्तेन कथ्यते । स च स्वेच्छामयो देवः साकारश्च निराकृतिः ॥ 12॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,12,12496,तेजोरूपं निराकारं ध्यायन्ते योगिनः सदा । वदन्ति च परं ब्रह्म परमानन्दमीश्वरम् ॥ 13॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,13,12497,अदृश्यं सर्वद्रष्टारं सर्वज्ञं सर्वकारणम् । सर्वदं सर्वरूपं तं वैष्णवास्तन्न मन्वते ॥ 14॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,14,12498,वदन्ति चैव ते कस्य तेजस्तेजस्विना विना । तेजोमण्डलमध्यस्थं ब्रह्म तेजस्विनं परम् ॥ 15॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,15,12499,स्वेच्छामयं सर्वरूपं सर्वकारणकारणम् । अतीव सुन्दरं रूपं बिभ्रतं सुमनोहरम् ॥ 16॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,16,12500,किशोरवयसं शान्तं सर्वकान्तं परात्परम् । नवीननीरदाभासधामैकं श्यामविग्रहम् ॥ 17॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,17,12501,शरन्मध्याह्नपद्मौघशोभामोचनलोचनम् । मुक्ताच्छविविनिन्द्यैकदन्तपङ्क्तिमनोरमम् ॥ 18॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,18,12502,मयूरपिच्छचूडं च मालतीमाल्यमण्डितम् । सुनसं सस्मितं कान्तं भक्तानुग्रहकारणम् ॥ 19॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,19,12503,ज्वलदग्निविशुद्धैकपीतांशुकसुशोभितम् । द्विभुजं मुरलीहस्तं रत्नभूषणभूषितम् ॥ 20॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,20,12504,सर्वाधारं च सर्वेशं सर्वशक्तियुतं विभुम् । सर्वैश्वर्यप्रदं सर्वस्वतन्त्रं सर्वमङ्गलम् ॥ 21॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,21,12505,परिपूर्णतमं सिद्धं सिद्धेशं सिद्धिकारकम् । ध्यायन्ते वैष्णवाः शश्वद्देवदेवं सनातनम् ॥ 22॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,22,12506,जन्ममृत्युजराव्याधिशोकभीतिहरं परम् । ब्रह्मणो वयसा यस्य निमेष उपचर्यते ॥ 23॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,23,12507,स चात्मा स परं ब्रह्म कृष्ण इत्यभिधीयते । कृषिस्तद्भक्तिवचनो नश्च तद्दास्यवाचकः ॥ 24॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,24,12508,भक्तिदास्यप्रदाता यः स च कृष्णः प्रकीर्तितः । कृषिश्च सर्ववचनो नकारो बीजमेव च ॥ 25॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,25,12509,स कृष्णः सर्वस्रष्टाऽऽदौ सिसृक्षन्नेक एव च । सृष्ट्युन्मुखस्तदंशेन कालेन प्रेरितः प्रभुः ॥ 26॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,26,12510,स्वेच्छामयः स्वेच्छया च द्विधारूपो बभूव ह । स्त्रीरूपो वामभागांशो दक्षिणांशः पुमान्स्मृतः ॥ 27॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,27,12511,तां ददर्श महाकामी कामाधारां सनातनः । अतीव कमनीया च चारुपङ्कजसन्निभाम् ॥ 28॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,28,12512,चन्द्रबिम्बविनिन्द्यैकनितम्बयुगलां पराम् । सुचारुकदलीस्तम्भनिन्दितश्रोणिसुन्दरीम् ॥ 29॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,29,12513,श्रीयुक्तश्रीफलाकारस्तनयुग्ममनोरमाम् । पुष्पजुष्टां सुवलितां मध्यक्षीणां मनोहराम् ॥ 30॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,30,12514,अतीव सुन्दरीं शान्तां सस्मितां वक्रलोचनाम् । वह्निशुद्धांशुकाधारां रत्नभूषणभूषिताम् ॥ 31॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,31,12515,शश्वच्चक्षुश्चकोराभ्यां पिबन्तीं सततं मुदा । कृष्णस्य मुखचन्द्रं च चन्द्रकोटिविनिन्दितम् ॥ 32॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,32,12516,कस्तूरीबिन्दुना सार्धमधश्चन्दनबिन्दुना । समं सिन्दूरबिन्दुं च भालमध्ये च बिभ्रतीम् ॥ 33॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,33,12517,वक्रिमं कबरीभारं मालतीमाल्यभूषितम् । रत्नेन्द्रसारहारं च दधतीं कान्तकामुकीम् ॥ 34॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,34,12518,कोटिचन्द्रप्रभामृष्टपुष्टशोभासमन्विताम् । गमनेन राजहंसगजगर्वविनाशिनीम् ॥ 35॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,35,12519,दृष्ट्वा तां तु तया सार्धं रासेशो रासमण्डले । रासोल्लासे सुरसिको रासक्रीडाञ्चकार ह ॥ 36॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,36,12520,नानाप्रकारश‍ृङ्गारं श‍ृङ्गारो मूर्तिमानिव । चकार सुखसम्भोगं यावद्वै ब्रह्मणो दिनम् ॥ 37॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,37,12521,ततः स च परिश्रान्तस्तस्या योनौ जगत्पिता । चकार वीर्याधानं च नित्यानन्दे शुभक्षणे ॥ 38॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,38,12522,गात्रतो योषितस्तस्याः सुरतान्ते च सुव्रत । निःससार श्रमजलं श्रान्तायास्तेजसा हरेः ॥ 39॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,39,12523,महाक्रमणक्लिष्टाया निःश्वासश्च बभूव ह । तदा वव्रे श्रमजलं तत्सर्वं विश्वगोलकम् ॥ 40॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,40,12524,स च निःश्वासवायुश्च सर्वाधारो बभूव ह । निःश्वासवायुः सर्वेषां जीविनां च भवेषु च ॥ 41॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,41,12525,बभूव मूर्तिमद्वायोर्वामाङ्गात्प्राणवल्लभा । तत्पत्नी सा च तत्पुत्राः प्राणाः पञ्च च जीविनाम् ॥ 42॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,42,12526,प्राणोऽपानः समानश्चोदानव्यानौ च वायवः । बभूवुरेव तत्पुत्रा अधः प्राणाश्च पञ्च च ॥ 43॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,43,12527,घर्मतोयाधिदेवश्च बभूव वरुणो महान् । तद्वामाङ्गाच्च तत्पत्नी वरुणानी बभूव सा ॥ 44॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,44,12528,अथ सा कृष्णचिच्छक्तिः कृष्णगर्भं दधार ह । शतमन्वन्तरं यावज्ज्वलन्ती ब्रह्मतेजसा ॥ 45॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,45,12529,कृष्णप्राणाधिदेवी सा कृष्णप्राणाधिकप्रिया । कृष्णस्य सङ्गिनी शश्वत्कृष्णवक्षःस्थलस्थिता ॥ 46॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,46,12530,शतमन्वन्तरान्ते च कालेऽतीते तु सुन्दरी । सुषाव डिम्भं स्वर्णाभं विश्वाधारालयं परम् ॥ 47॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,47,12531,दृष्ट्वा डिम्भं च सा देवी हृदयेन व्यदूयत । उत्ससर्ज च कोपेन ब्रह्माण्डगोलके जले ॥ 48॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,48,12532,दृष्ट्वा कृष्णश्च तत्त्यागं हाहाकारं चकार ह । शशाप देवीं देवेशस्तत्क्षणं च यथोचितम् ॥ 49॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,49,12533,यतोऽपत्यं त्वया त्यक्तं कोपशीले च निष्ठुरे । भव त्वमनपत्यापि चाद्यप्रभृति निश्चितम् ॥ 50॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,50,12534,या यास्त्वदंशरूपाश्च भविष्यन्ति सुरस्त्रियः । अनपत्याश्च ताः सर्वास्त्वत्समा नित्ययौवनाः ॥ 51॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,51,12535,एतस्मिन्नन्तरे देवी जिह्वाग्रात्सहसा ततः । आविर्बभूव कन्यैका शुक्लवर्णा मनोहरा ॥ 52॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,52,12536,श्वेतवस्त्रपरीधाना वीणापुस्तकधारिणी । रत्नभूषणभूषाढ्या सर्वशास्त्राधिदेवता ॥ 53॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,53,12537,अथ कालान्तरे सा च द्विधारूपो बभूव ह । वामार्धाङ्गाच्च कमला दक्षिणार्धाच्च राधिका ॥ 54॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,54,12538,एतस्मिन्नन्तरे कृष्णो द्विधारूपो बभूव सः । दक्षिणार्धश्च द्विभुजो वामार्धश्च चतुर्भुजः ॥ 55॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,55,12539,उवाच वाणीं कृष्णस्तां त्वमस्य कामिनी भव । अत्रैव मानिनी राधा तव भद्रं भविष्यति ॥ 56॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,56,12540,एवं लक्ष्मीं च प्रददौ तुष्टो नारायणाय च । स जगाम च वैकुण्ठं ताभ्यां सार्धं जगत्पतिः ॥ 57॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,57,12541,अनपत्ये च ते द्वे च जाते राधांशसम्भवे । भूता नारायणाङ्गाच्च पार्षदाश्च चतुर्भुजाः ॥ 58॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,58,12542,तेजसा वयसा रूपगुणाभ्यां च समा हरेः । बभूवुः कमलाङ्गाच्च दासीकोट्यश्च तत्समाः ॥ 59॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,59,12543,अथ गोलोकनाथस्य लोम्नां विवरतो मुने । भूताश्चासङ्ख्यगोपाश्च वयसा तेजसा समाः ॥ 60॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,60,12544,रूपेण च गुणेनैव बलेन विक्रमेण च । प्राणतुल्यप्रियाः सर्वे बभूवुः पार्षदा विभोः ॥ 61॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,61,12545,राधाङ्गलोमकूपेभ्यो बभूवुर्गोपकन्यकाः । राधातुल्याश्च ताः सर्वा राधादास्यः प्रियंवदाः ॥ 62॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,62,12546,रत्नभूषणभूषाढ्याः शश्वत्सुस्थिरयौवनाः । अनपत्याश्च ताः सर्वाः पुंसः शापेन सन्ततम् ॥ 63॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,63,12547,एतस्मिन्नन्तरे विप्र सहसा कृष्णदेवता । आविर्बभूव दुर्गा सा विष्णुमाया सनातनी ॥ 64॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,64,12548,देवी नारायणीशाना सर्वशक्तिस्वरूपिणी । बुद्ध्यधिष्ठात्री देवी सा कृष्णस्य परमात्मनः ॥ 65॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,65,12549,देवीनां बीजरूपा च मूलप्रकृतिरीश्वरी । परिपूर्णतमा तेजःस्वरूपा त्रिगुणात्मिका ॥ 66॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,66,12550,तप्तकाञ्चनवर्णाभा कोटिसूर्यसमप्रभा । ईषद्धास्यप्रसन्नास्या सहस्रभुजसंयुता ॥ 67॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,67,12551,नानाशस्त्रास्त्रनिकरं बिभ्रती सा त्रिलोचना । वह्निशुद्धांशुकाधाना रत्नभूषणभूषिता ॥ 68॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,68,12552,यस्याश्चांशांशकलया बभूवुः सर्वयोषितः । सर्वे विश्वस्थिता लोका मोहिताः स्युश्च मायया ॥ 69॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,69,12553,सर्वैश्वर्यप्रदात्री च कामिनां गृहवासिनाम् । कृष्णभक्तिप्रदा या च वैष्णवानां च वैष्णवी ॥ 70॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,70,12554,मुमुक्षूणां मोक्षदात्री सुखिनां सुखदायिनी । स्वर्गेषु स्वर्गलक्ष्मीश्च गृहलक्ष्यीर्गृहेषु च ॥ 71॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,71,12555,तपस्विषु तपस्या च श्रीरूपा तु नृपेषु च । या वह्नौ दाहिकारूपा प्रभारूपा च भास्करे ॥ 72॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,72,12556,शोभारूपा च चन्द्रे च सा पद्मेषु च शोभना । सर्वशक्तिस्वरूपा या श्रीकृष्णे परमात्मनि ॥ 73॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,73,12557,यया च शक्तिमानात्मा यया च शक्तिमज्जगत् । यया विना जगत्सर्वं जीवन्मृतमिव स्थितम् ॥ 74॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,74,12558,या च संसारवृक्षस्य बीजरूपा सनातनी । स्थितिरूपा वृद्धिरूपा फलरूपा च नारद ॥ 75॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,75,12559,क्षुत्पिपासादयारूपा निद्रा तन्द्रा क्षमा मतिः । शान्तिलज्जातुष्टिपुष्टिभ्रान्तिकान्त्यादिरूपिणी ॥ 76॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,76,12560,सा च संस्तूय सर्वेशं तत्पुरः समुवास ह । रत्नसिंहासनं तस्यै प्रददौ राधिकेश्वरः ॥ 77॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,77,12561,एतस्मिन्नन्तरे तत्र सस्त्रीकश्च चतुर्मुखः । पद्मनाभेर्नाभिपद्मान्निःससार महामुने ॥ 78॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,78,12562,कमण्डलुधरः श्रीमांस्तपस्वी ज्ञानिनां वरः । चतुर्मुखैस्तं तुष्टाव प्रज्वलन्ब्रह्मतेजसा ॥ 79॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,79,12563,सा तदा सुन्दरी सृष्टा शतचन्द्रसमप्रभा । वह्निशुद्धांशुकाधाना रत्नभूषणभूषणा ॥ 80॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,80,12564,रत्नसिंहासने रम्ये संस्तूय सर्वकारणम् । उवास स्वामिना सार्धं कृष्णस्य पुरतो मुदा ॥ 81॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,81,12565,एतस्मिन्नन्तरे कृष्णो द्विधारूपो बभूव सः । वामार्धाङ्गो महादेवो दक्षिणे गोपिकापतिः ॥ 82॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,82,12566,शुद्धस्फटिकसङ्काशः शतकोटिरविप्रभः । त्रिशूलपट्टिशधरो व्याघ्रचर्माम्बरो हरः ॥ 83॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,83,12567,तप्तकाञ्चनवर्णाभो जटाभारधरः परः । भस्मभूषितगात्रश्च सस्मितश्चन्द्रशेखरः ॥ 84॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,84,12568,दिगम्बरो नीलकण्ठः सर्पभूषणभूषितः । बिभ्रद्दक्षिणहस्तेन रत्नमालां सुसंस्कृताम् ॥ 85॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,85,12569,प्रजपन्पञ्चवक्त्रेण ब्रह्मज्योतिः सनातनम् । सत्यस्वरूपं श्रीकृष्णं परमात्मानमीश्वरम् ॥ 86॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,86,12570,कारणं कारणानां च सर्वमङ्गलमङ्गलम् । जन्ममृत्युजराव्याधिशोकभीतिहरं परम् ॥ 87॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,87,12571,संस्तूय मृत्योर्मृत्युं तं यतो मृत्युञ्जयाभिधः । रत्नसिंहासने रम्ये समुवास हरेः पुरः ॥ 88॥ 9,९.२,द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।,88,12572,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनं नाम द्वितीयोऽध्यायः ॥ ९.२॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,0,12573,श्रीनारायण उवाच । अथ डिम्भो जले तिष्ठन्यावद्वै ब्रह्मणो वयः । ततः स काले सहसा द्विधाभूतो बभूव ह ॥ 1॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,1,12574,तन्मध्ये शिशुरेकश्च शतकोटिरविप्रभः । क्षणं रोरूयमाणश्च स्तनान्धः पीडितः क्षुधा ॥ 2॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,2,12575,पित्रा मात्रा परित्यक्तो जलमध्ये निराश्रयः । ब्रह्माण्डासङ्ख्यनाथो यो ददर्शोर्ध्वमनाथवत् ॥ 3॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,3,12576,स्थूलास्थूलतमः सोऽपि नाम्ना देवो महाविराट् । परमाणुर्यथा सूक्ष्मात्परः स्थूलात्तथाप्यसौ ॥ 4॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,4,12577,तेजसा षोडशांशोऽयं कृष्णस्य परमात्मनः । आधारः सर्वविश्वानां महाविष्णुश्च प्राकृतः ॥ 5॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,5,12578,प्रत्येकं लोमकूपेषु विश्वानि निखिलानि च । अस्यापि तेषां सङ्ख्यां च कृष्णो वक्तुं न हि क्षमः ॥ 6॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,6,12579,सङ्ख्या चेद्रजसामस्ति विश्वानां न कदाचन । ब्रह्मविष्णुशिवादीनां तथा सङ्ख्या न विद्यते ॥ 7॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,7,12580,प्रतिविश्वेषु सन्त्येवं ब्रह्मविष्णुशिवादयः । पातालाद् ब्रह्मलोकान्तं ब्रह्माण्डं परिकीर्तितम् ॥ 8॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,8,12581,तत ऊर्ध्वं च वैकुण्ठो ब्रह्माण्डाद् बहिरेव सः । तत ऊर्ध्वं च गोलोकः पञ्चाशत्कोटियोजनः ॥ 9॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,9,12582,नित्यः सत्यस्वरूपश्च यथा कृष्णस्तथाप्ययम् । सप्तद्वीपमिता पृध्वी सप्तसागरसंयुता ॥ 10॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,10,12583,ऊनपञ्चाशदुपद्वीपासङ्ख्यशैलवनान्विता । ऊर्ध्वं सप्त स्वर्गलोका ब्रह्यलोकसमन्विताः ॥ 11॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,11,12584,पातालानि च सप्ताधश्चैवं ब्रह्माण्डमेव च । ऊर्ध्वं धराया भूर्लोको भुवर्लोकस्ततः परम् ॥ 12॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,12,12585,ततः परश्च स्वर्लोको जनलोकस्तथा परः । ततः परस्तपोलोकः सत्यलोकस्ततः परः ॥ 13॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,13,12586,ततः परं ब्रह्मलोकस्तप्तकाञ्चनसन्निभः । एवं सर्वं कृत्रिमं च बाह्याभ्यन्तरमेव च ॥ 14॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,14,12587,तद्विनाशे विनाशश्च सर्वेषामेव नारद । जलबुद्बुदवत्सर्वं विश्वसङ्घमनित्यकम् ॥ 15॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,15,12588,नित्यौ गोलोकवैकुण्ठौ प्रोक्तौ शश्वदकृत्रिमौ । प्रत्येकं लोमकूपेषु ब्रह्माण्डं परिनिश्चितम् ॥ 16॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,16,12589,एषां सङ्ख्यां न जानाति कृष्णोऽन्यस्यापि का कथा । प्रत्येकं प्रतिब्रह्माण्डं ब्रह्मविष्णुशिवादयः ॥ 17॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,17,12590,तिस्रः कोट्यः सुराणां च सङ्ख्या सर्वत्र पुत्रक । दिगीशाश्चैव दिक्पाला नक्षत्राणि ग्रहादयः ॥ 18॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,18,12591,भुवि वर्णाश्च चत्वारोऽप्यधो नागाश्चराचराः । अथ कालेऽत्र स विराडूर्ध्वं दृष्ट्वा पुनः पुनः ॥ 19॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,19,12592,डिम्भान्तरे च शून्यं च न द्वितीयं च किञ्चन । चिन्तामवाप क्षुद्युक्तो रुरोद च पुनः पुनः ॥ 20॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,20,12593,ज्ञानं प्राप्य तदा दध्यौ कृष्णं परमपूरुषम् । ततो ददर्श तत्रैव ब्रह्मज्योतिः सनातनम् ॥ 21॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,21,12594,नवीनजलदश्यामं द्विभुजं पीतवाससम् । सस्मितं मुरलीहस्तं भक्तानुग्रहकातरम् ॥ 22॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,22,12595,जहास बालकस्तुष्टो दृष्ट्वा जनकमीश्वरम् । वरं तदा ददौ तस्मै वरेशः समयोचितम् ॥ 23॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,23,12596,मत्समो ज्ञानयुक्तश्च क्षुत्पिपासादिवर्जितः । ब्रह्माण्डासङ्ख्यनिलयो भव वत्स लयावधि ॥ 24॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,24,12597,निष्कामो निर्भयश्चैव सर्वेषां वरदो भव । जरामृत्युरोगशोकपीडादिवर्जितो भव ॥ 25॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,25,12598,इत्युक्त्वा तस्य कर्णे स महामन्त्रं षडक्षरम् । त्रिःकृत्वश्च प्रजजाप वेदाङ्गप्रवरं परम् ॥ 26॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,26,12599,प्रणवादिचतुर्थ्यन्तं कृष्ण इत्यक्षरद्वयम् । वह्निजायान्तमिष्टं च सर्वविघ्नहरं परम् ॥ 27॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,27,12600,मन्त्रं दत्त्वा तदाहारं कल्पयामास वै विभुः । श्रूयतां तद् ब्रह्मपुत्र निबोध कथयामि ते ॥ 28॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,28,12601,प्रतिविश्वं यन्नैवेद्यं ददाति वैष्णवो जनः । तत्षोडशांशो विषयिणो विष्णोः पज्वदशास्य वै ॥ 29॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,29,12602,निर्गुणस्यात्मनश्चैव परिपूर्णतमस्य च । नैवेद्ये चैव कृष्णस्य न हि किञ्चित्प्रयोजनम् ॥ 30॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,30,12603,यद्यद्ददाति नैवेद्यं तस्मै देवाय यो जनः । स च खादति तत्सर्वं लक्ष्मीनाथो विराट् तथा ॥ 31॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,31,12604,तं च मन्त्रवरं दत्त्वा तमुवाच पुनर्विभुः । वरमन्यं किमिष्टं ते तन्मे ब्रूहि ददामि च ॥ 32॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,32,12605,कृष्णस्य वचनं श्रुत्वा तमुवाच विराड् विभुः । कृष्णं तं बालकस्तावद्वचनं समयोचितम् ॥ 33॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,33,12606,बालक उवाच । वरो मे त्वत्पदाम्भोजे भक्तिर्भवतु निश्चला । सततं यावदायुर्मे क्षणं वा सुचिरं च वा ॥ 34॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,34,12607,त्वद्भक्तियुक्तलोकेऽस्मिञ्जीवन्मुक्तश्च सन्ततम् । त्वद्भक्तिहीनो मूर्खश्च जीवन्नपि मृतो हि सः ॥ 35॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,35,12608,किं तज्जपेन तपसा यज्ञेन पूजनेन च । व्रतेन चोपवासेन पुण्येन तीर्थसेवया ॥ 36॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,36,12609,कृष्णभक्तिविहीनस्य मूर्खस्य जीवनं वृथा । येनात्मना जीवितश्च तमेव न हि मन्यते ॥ 37॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,37,12610,यावदात्मा शरीरेऽस्ति तावत्स शक्तिसंयुतः । पश्चाद्यान्ति गते तस्मिन्स्वतन्त्राः सर्वशक्तयः ॥ 38॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,38,12611,स च त्वं च महाभाग सर्वात्मा प्रकृतेः परः । स्वेच्छामयश्च सर्वाद्यो ब्रह्मज्योतिः सनातनः ॥ 39॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,39,12612,इत्युक्त्वा बालकस्तत्र विरराम च नारद । उवाच कृष्णः प्रत्युक्तिं मधुरां श्रुतिसुन्दरीम् ॥ 40॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,40,12613,श्रीकृष्ण उवाच । सुचिरं सुस्थिरं तिष्ठ यथाहं त्वं तथा भव । ब्रह्मणोऽसङ्ख्यपाते च पातस्ते न भविष्यति ॥ 41॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,41,12614,अंशेन प्रतिब्रह्माण्डे त्वं च क्षुद्रविराड् भव । त्वन्नाभिपद्माद् ब्रह्मा च विश्वस्रष्टा भविष्यति ॥ 42॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,42,12615,ललाटे ब्रह्मणश्चैव रुद्राश्चैकादशैव ते । शिवांशेन भविष्यन्ति सृष्टिसंहरणाय वै ॥ 43॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,43,12616,कालाग्निरुद्रस्तेष्वेको विश्वसंहारकारकः । पाता विष्णुश्च विषयी रुद्रांशेन भविष्यति ॥ 44॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,44,12617,मद्भक्तियुक्तः सततं भविष्यसि वरेण मे । ध्यानेन कमनीयं मां नित्यं द्रक्ष्यसि निश्चितम् ॥ 45॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,45,12618,मातरं कमनीयां च मम वक्षःस्थलस्थिताम् । यामि लोकं तिष्ठ वत्सेत्युक्त्वा सोऽन्तरधीयत ॥ 46॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,46,12619,गत्वा स्वलोकं ब्रह्माणं शङ्करं समुवाच ह । स्रष्टारं स्रष्टुमीशं च संहर्तुं चैव तत्क्षणम् ॥ 47॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,47,12620,श्रीभगवानुवाच । सृष्टिं स्रष्टुं गच्छ वत्स नाभिपद्मोद्भवो भव । महाविराड् लोमकूपे क्षुद्रस्य च विधे श‍ृणु ॥ 48॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,48,12621,गच्छ वत्स महादेव ब्रह्मभालोद्भवो भव । अंशेन च महाभाग स्वयं च सुचिरं तप ॥ 49॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,49,12622,इत्युक्त्वा जगतां नाथो विरराम विधेः सुत । जगाम ब्रह्मा तं नत्वा शिवश्च शिवदायकः ॥ 50॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,50,12623,महाविराड् लोमकूपे ब्रह्माण्डगोलके जले । बभूव च विराट् क्षुद्रो विराडंशेन साम्प्रतम् ॥ 51॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,51,12624,श्यामो युवा पीतवासाः शयानो जलतल्पके । ईषद्धास्यः प्रसन्नास्यो विश्वव्यापी जनार्दनः ॥ 52॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,52,12625,तन्नाभिकमले ब्रह्मा बभूव कमलोद्भवः । सम्भूय पद्मदण्डे च बभ्राम युगलक्षकम् ॥ 53॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,53,12626,नान्तं जगाम दण्डस्य पद्मनालस्य पद्मजः । नाभिजस्य च पद्मस्य चिन्तामाप पिता तव ॥ 54॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,54,12627,स्वस्थानं पुनरागम्य दध्यौ कृष्णपदाम्बुजम् । ततो ददर्श क्षुद्रं तं ध्यानेन दिव्यचक्षुषा ॥ 55॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,55,12628,शयानं जलतल्पे च ब्रह्माण्डगोलकाप्लुते । यल्लोमकूपे ब्रह्माण्डं तं च तत्परमीश्वरम् ॥ 56॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,56,12629,श्रीकृष्णं चापि गोलोकं गोपगोपीसमन्वितम् । तं संस्तूय वरं प्राप ततः सृष्टिं चकार सः ॥ 57॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,57,12630,बभूवुर्ब्रह्मणः पुत्रा मानसाः सनकादयः । ततो रुद्रकलाश्चापि शिवस्यैकादश स्मृताः ॥ 58॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,58,12631,बभूव पाता विष्णुश्च क्षुद्रस्य वामपार्श्वतः । चतुर्भुजश्च भगवान् श्वेतद्वीपे स चावसत् ॥ 59॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,59,12632,क्षुद्रस्य नाभिपद्मे च ब्रह्मा विश्वं ससर्ज ह । स्वर्गं मर्त्यं च पातालं त्रिलोकीं सचराचराम् ॥ 60॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,60,12633,एवं सर्वं लोमकूपे विश्वं प्रत्येकमेव च । प्रतिविश्वे क्षुद्रविराड् ब्रह्मविष्णुशिवादयः ॥ 61॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,61,12634,इत्येवं कथितं ब्रह्मन् कृष्णसङ्कीर्तनं शुभम् । सुखदं मोक्षदं ब्रह्मन्किं भूयः श्रोतुमिच्छसि ॥ 62॥ 9,९.३,तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।,62,12635,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे ब्रह्मविष्णुमहेश्वरादि- देवतोत्पत्तिवर्णनं नाम तृतीयोऽध्यायः ॥ ९.३॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,0,12636,नारद उवाच । श्रुतं सर्वं मया पूर्वं त्वत्प्रसादात्सुधोपमम् । अधुना प्रकृतीनां च व्यस्तं वर्णय पूजनम् ॥ 1॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,1,12637,कस्याः पूजा कृता केन कथं मर्त्ये प्रचारिता । केन वा पूजिता का वा केन का वा स्तुता प्रभो ॥ 2॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,2,12638,तासां स्तोत्रं च ध्यानं च प्रभावं चरितं शुभम् । काभिः केभ्यो वरो दत्तस्तन्मे व्याख्यातुमर्हसि ॥ 3॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,3,12639,श्रीनारायण उवाच । गणेशजननी दुर्गा राधा लक्ष्मीः सरस्वती । सावित्री च सृष्टिविधौ प्रकृतिः पञ्चधा स्मृता ॥ 4॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,4,12640,आसां पूजा प्रसिद्धा च प्रभावः परमाद्भुतः । सुधोपमं च चरितं सर्वमङ्गलकारणम् ॥ 5॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,5,12641,प्रकृत्यंशाः कला याश्च तासां च चरितं शुभम् । सर्वं वक्ष्यामि ते ब्रह्मन् सावधानो निशामय ॥ 6॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,6,12642,काली वसुन्धरा गङ्गा षष्ठी मङ्गलचण्डिका । तुलसी मनसा निद्रा स्वधा स्वाहा च दक्षिणा ॥ 7॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,7,12643,सङ्क्षिप्तमासां चरितं पुण्यदं श्रुतिसुन्दरम् । जीवकर्मविपाकं च तच्च वक्ष्यामि सुन्दरम् ॥ 8॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,8,12644,दुर्गायाश्चैव राधाया विस्तीर्णं चरितं महत् । तद्वत्पश्चात्प्रवक्ष्यामि सङ्क्षेपक्रमतः श‍ृणु ॥ 9॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,9,12645,आदौ सरस्वतीपूजा श्रीकृष्णेन विनिर्मिता । यत्प्रसादान्मुनिश्रेष्ठ मूर्खो भवति पण्डितः ॥ 10॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,10,12646,आविर्भूता यथा देवी वक्त्रतः कृष्णयोषितः । इयेष कृष्णं कामेन कामुकी कामरूपिणी ॥ 11॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,11,12647,स च विज्ञाय तद्भावं सर्वज्ञः सर्वमातरम् । तामुवाच हितं सत्यं परिणामे सुखावहम् ॥ 12॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,12,12648,श्रीकृष्ण उवाच । भज नारायणं साध्वि मदंशं च चतुर्भुजम् । युवानं सुन्दरं सर्वगुणयुक्तं च मत्समम् ॥ 13॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,13,12649,कामज्ञं कामिनीनां च तासां च कामपूरकम् । कोटिकन्दर्पलावण्यं लीलालङ्कतमीश्वरम् ॥ 14॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,14,12650,कान्ते कान्तं च मां कृत्वा यदि स्थातुमिहेच्छसि । त्वत्तो बलवती राधा न भद्रं ते भविष्यति ॥ 15॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,15,12651,यो यस्माद् बलवान्वापि ततोऽन्यं रक्षितुं क्षमः । कथं परान्साधयति यदि स्वयमनीश्वरः ॥ 16॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,16,12652,सर्वेशः सर्वशास्ताहं राधां बाधितुमक्षमः । तेजसा मत्समा सा च रूपेण च गुणेन च ॥ 17॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,17,12653,प्राणाधिष्ठातृदेवी सा प्राणांस्त्यक्तुं च कः क्षमः । प्राणतोऽपि प्रियः पुत्रः केषां वास्ति च कश्चन ॥ 18॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,18,12654,त्वं भद्रे गच्छ वैकुण्ठं तव भद्रं भविष्यति । पतिं तमीश्वरं कृत्वा मोदस्व सुचिरं सुखम् ॥ 19॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,19,12655,लोभमोहकामक्रोधमानहिंसाविवर्जिता । तेजसा त्वत्समा लक्ष्मी रूपेण च गुणेन च ॥ 20॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,20,12656,तया सार्धं तव प्रीत्या शश्वत्कालः प्रयास्यति । गौरवं च हरिस्तुल्यं करिष्यति द्वयोरपि ॥ 21॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,21,12657,प्रतिविश्वेषु तां पूजां महतीं गौरवान्विताम् । माघस्य शुक्लपञ्चम्यां विद्यारम्भे च सुन्दरि ॥ 22॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,22,12658,मानवा मनवो देवा मुनीन्द्राश्च मुमुक्षवः । वसवो योगिनः सिद्धा नागा गन्धर्वराक्षसाः ॥ 23॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,23,12659,मद्वरेण करिष्यन्ति कल्पे कल्पे लयावधि । भक्तियुक्ताश्च दत्त्वा वै चोपचाराणि षोडश ॥ 24॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,24,12660,कण्वशाखोक्तविधिना ध्यानेन स्तवनेन च । जितेन्द्रियाः संयताश्च घटे च पुस्तकेऽपि च ॥ 25॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,25,12661,कृत्वा सुवर्णगुटिकां गन्धचन्दनचर्चिताम् । कवचं ते ग्रहीष्यन्ति कण्ठे वा दक्षिणे भुजे ॥ 26॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,26,12662,पठिष्यन्ति च विद्वांसः पूजाकाले च पूजिते । इत्युक्त्वा पूजयामास तां देवीं सर्वपूजिताम् ॥ 27॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,27,12663,ततस्तत्पूजनं चकुर्ब्रह्मविष्णुशिवादयः । अनन्तश्चापि धर्मश्च मुनीन्द्राः सनकादयः ॥ 28॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,28,12664,सर्वे देवाश्च मुनयो नृपाश्च मानवादयः । बभूव पूजिता नित्यं सर्वलोकैः सरस्वती ॥ 29॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,29,12665,नारद उवाच । पूजाविधानं कवचं ध्यानं चापि निरन्तरम् । पूजोपयुक्तं नैवेद्यं पुष्पं च चन्दनादिकम् ॥ 30॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,30,12666,वद वेदविदां श्रेष्ठ श्रोतुं कौतूहलं मम । वर्तते हृदये शश्वत्किमिदं श्रुतिसुन्दरम् ॥ 31॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,31,12667,श्रीनारायण उवाच । श‍ृणु नारद वक्ष्यामि कण्वशाखोक्तपद्धतिम् । जगन्मातुः सरस्वत्याः पूजाविधिसमन्विताम् ॥ 32॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,32,12668,माघस्य शुक्लपञ्चम्यां विद्यारम्भदिनेऽपि च । पूर्वेऽह्नि समयं कृत्वा तत्राह्नि संयतः शुचिः ॥ 33॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,33,12669,स्नात्वा नित्यक्रियाः कृत्वा घटं संस्थाप्य भक्तितः । स्वशाखोक्तविधानेन तान्त्रिकेणाथवा पुनः ॥ 34॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,34,12670,गणेशं पूर्वमभ्यर्च्य ततोऽभीष्टां प्रपूजयेत् । ध्यानेन वक्ष्यमाणेन ध्यात्वा बाह्यघटे ध्रुवम् ॥ 35॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,35,12671,ध्यात्वा पुनः षोडषोपचारेण पूजयेद् व्रती । पूजोपयुक्तं नैवेद्यं यच्च वेदनिरूपितम् ॥ 36॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,36,12672,वक्ष्यामि सौम्य तत्किञ्चिद्यथाधीतं यथागमम् । नवनीतं दधि क्षीरं लाजांश्च तिललड्डुकम् ॥ 37॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,37,12673,इक्षुमिक्षुरसं शुक्लवर्णं पञ्चगुडं मधु । स्वस्तिकं शर्करां शुक्लधान्यस्याक्षतमक्षतम् ॥ 38॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,38,12674,अच्छिन्नशुक्लधान्यस्य पृथुकं शुक्लमोदकम् । घृतसैन्धवसंयुक्तं हविष्यान्नं यथोदितम् ॥ 39॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,39,12675,यवगोधूमचूर्णानां पिष्टकं घृतसंयुतम् । पिष्टकं स्वस्तिकस्यापि पक्वरम्भाफलस्य च ॥ 40॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,40,12676,परमान्नं च सघृतं मिष्टान्नं च सुधोपमम् । नारिकेलं तदुदकं कसेरुं मूलमार्द्रकम् ॥ 41॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,41,12677,पक्वरम्भाफलं चारु श्रीफलं बदरीफलम् । कालदेशोद्भवं चारु फलं शुक्लं च संस्कतम् ॥ 42॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,42,12678,सुगन्धं शुक्लपुष्पं च सुगन्धं शुक्लचन्दनम् । नवीनं शुक्लवस्त्रं च शङ्खं च सुन्दरं मुने ॥ 43॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,43,12679,माल्यं च शुक्लपुष्पाणां शुक्लहारं च भूषणम् । यादृशं च श्रुतौ ध्यानं प्रशस्यं श्रुतिसुन्दरम् ॥ 44॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,44,12680,तन्निबोध महाभाग भ्रमभञ्जनकारणम् । सरस्वतीं शुक्लवर्णां सस्मितां सुमनोहराम् ॥ 45॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,45,12681,कोटिचन्द्रप्रभामुष्टपुष्टश्रीयुक्तविग्रहाम् । वह्निशुद्धांशुकाधानां वीणापुस्तकधारिणीम् ॥ 46॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,46,12682,रत्नसारेन्द्रनिर्माणनवभूषणभूषिताम् । सुपूजितां सुरगणैर्ब्रह्मविष्णुशिवादिभिः ॥ 47॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,47,12683,वन्दे भक्त्या वन्दितां च मुनीन्द्रमनुमानवैः । एवं ध्यात्वा च मूलेन सर्वं दत्त्वा विचक्षणः ॥ 48॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,48,12684,संस्तूय कवचं धृत्वा प्रणमेद्दण्डवद्भुवि । येषां चेयमिष्टदेवी तेषां नित्यक्रिया मुने ॥ 49॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,49,12685,विद्यारम्भे च वर्षान्ते सर्वेषां पञ्चमीदिने । सर्वोपयुक्तं मूलं च वैदिकाष्टाक्षरः परः ॥ 50॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,50,12686,येषां येनोपदेशो वा तेषां स मूल एव च । सरस्वती चतुर्थ्यन्तं वह्निजायान्तमेव च ॥ 51॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,51,12687,लक्ष्मीमायादिकं चैव मन्त्रोऽयं कल्पपादपः । पुरा नारायणश्चेमं वाल्मीकाय कृपानिधिः ॥ 52॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,52,12688,प्रददौ जाह्नवीतीरे पुण्यक्षेत्रे च भारते । भृगुर्ददौ च शुक्राय पुष्करे सूर्यपर्वणि ॥ 53॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,53,12689,चन्द्रपर्वणि मारीचो ददौ वाक्पतये मुदा । भृगोश्चैव ददौ तुष्टो ब्रह्मा बदरिकाश्रमे ॥ 54॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,54,12690,आस्तिकस्य जरत्कारुर्ददौ क्षीरोदसन्निधौ । विभाण्डको ददौ मेरौ ऋष्यश‍ृङ्गाय धीमते ॥ 55॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,55,12691,शिवः कणादमुनये गौतमाय ददौ मुदा । सूर्यश्च याज्ञवल्क्याय तथा कात्यायनाय च ॥ 56॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,56,12692,शेषः पाणिनये चैव भारद्वाजाय धीमते । ददौ शाकटायनाय सुतले बलिसंसदि ॥ 57॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,57,12693,चतुर्लक्षजपेनैव मन्त्रः सिद्धो भवेन्नृणाम् । यदि स्यान्मन्त्रसिद्धो हि बृहस्पतिसमो भवेत् ॥ 58॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,58,12694,कवचं श‍ृणु विप्रेन्द्र यद्दत्तं ब्रह्मणा पुरा । विश्वस्रष्टा विश्वजयं भृगवे गन्धमादने ॥ 59॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,59,12695,भृगुरुवाच । ब्रह्मन्ब्रह्मविदां श्रेष्ठ ब्रह्मज्ञानविशारद । सर्वज्ञ सर्वजनक सर्वेश सर्वपूजित ॥ 60॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,60,12696,सरस्वत्याश्च कवचं ब्रूहि विश्वजयं प्रभो । अयातयामं मन्त्राणां समूहसंयुतं परम् ॥ 61॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,61,12697,ब्रह्मोवाच । श‍ृणु वत्स प्रवक्ष्यामि कवचं सर्वकामदम् । श्रुतिसारं श्रुतिसुखं श्रुत्युक्तं श्रुतिपूजितम् ॥ 62॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,62,12698,उक्तं कृष्णेन गोलोके मह्यं वृन्दावने वने । रासेश्वरेण विभुना रासे वै रासमण्डले ॥ 63॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,63,12699,अतीव गोपनीयं च कल्पवृक्षसमं परम् । अश्रुताद्भुतमन्त्राणां समूहैश्च समन्वितम् ॥ 64॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,64,12700,यद्धृत्वा भगवाञ्छुक्रः सर्वदैत्येषु पूजितः । यद्धृत्वा पठनाद् ब्रह्मन् बुद्धिमांश्च बृहस्पतिः ॥ 65॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,65,12701,पठनाद्धारणाद्वाग्मी कवीन्द्रो वाल्मिको मुनिः । स्वायम्भुवो मनुश्चैव यद्धृत्वा सर्वपूजितः ॥ 66॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,66,12702,कणादो गौतमः कण्वः पाणिनिः शाकटायनः । ग्रन्धं चकार यद्धृत्वा दक्षः कात्यायनः स्वयम् ॥ 67॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,67,12703,धृत्वा वेदविभागं च पुराणान्यखिलानि च । चकार लीलामात्रेण कृष्णद्वैपायनः स्वयम् ॥ 68॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,68,12704,शातातपश्च संवर्तो वसिष्ठश्च पराशरः । यद्धृत्वा पठनाद् ग्रन्थं याज्ञवल्क्यश्चकार सः ॥ 69॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,69,12705,ऋष्यश‍ृङ्गो भरद्वाजश्चास्तिको देवलस्तथा । जैगीषव्यो ययातिश्च धृत्वा सर्वत्र पूजिताः ॥ 70॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,70,12706,कवचस्यास्य विप्रेन्द्र ऋषिरेव प्रजापतिः । स्वयं छन्दश्च बृहती देवता शारदाम्बिका ॥ 71॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,71,12707,सर्वतत्त्वपरिज्ञानसर्वार्थसाधनेषु च । कवितासु च सर्वासु विनियोगः प्रकीर्तितः ॥ 72॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,72,12708,श्रीं ह्रीं सरस्वत्यै स्वाहा शिरो मे पातु सर्वतः । श्रीं वाग्देवतायै स्वाहा भालं मे सर्वदावतु ॥ 73॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,73,12709,ॐ ह्रीं सरस्वत्यै स्वाहेति श्रोत्रे पातु निरन्तरम् । ॐ श्रीं ह्रीं भगवत्यै सरस्वत्यै स्वाहा नेत्रयुग्मं सदावतु ॥ 74॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,74,12710,ऐं ह्रीं वाग्वादिन्यै स्वाहा नासां मे सर्वदावतु । ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा चोष्ठं सदावतु ॥ 75॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,75,12711,ॐ श्रीं ह्रीं ब्राह्म्यै स्वाहेति दन्तपङ्क्तिं सदावतु । ऐमित्येकाक्षरो मन्त्रो मम कण्ठं सदावतु ॥ 76॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,76,12712,ॐ श्रीं ह्रीं पातु मे ग्रीवां स्कन्धौ मे श्रीं सदावतु । ॐ ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा वक्षः सदावतु ॥ 77॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,77,12713,ॐ ह्रीं विद्याधिस्वरूपायै स्वाहा मे पातु नाभिकाम् । ॐ ह्रीं क्लीं वाण्यै स्वाहेति मम हस्तौ सदावतु ॥ 78॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,78,12714,ॐ सर्ववर्णात्मिकायै स्वाहा पादयुग्मं सदावतु । ॐ वागधिष्ठातृदेव्यै स्वाहा सर्वं सदावतु ॥ 79॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,79,12715,ॐ सर्वकण्ठवासिन्यै स्वाहा प्राच्यां सदावतु । ॐ सर्वजिह्वाग्रवासिन्यै स्वाहाग्निदिशि रक्षतु ॥ 80॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,80,12716,ॐ ऐं ह्रीं क्लीं सरस्वत्यै बुधजनन्यै स्वाहा । सततं मन्त्रराजोऽयं दक्षिणे मां सदावतु ॥ 81॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,81,12717,ऐं ह्रीं श्रीं त्र्यक्षरो मन्त्रो नैरृत्यां सर्वदावतु । ॐ ऐं जिह्वाग्रवासिन्यै स्वाहा मां वारुणेऽवतु ॥ 82॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,82,12718,ॐ सर्वाम्बिकायै स्वाहा वायव्ये मां सदावतु । ॐ ऐं श्रीं क्लीं गद्यवासिन्यै स्वाहा मामुत्तरेऽवतु ॥ 83॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,83,12719,ॐ ऐं सर्वशास्त्रवासिन्यै स्वाहैशान्यां सदावतु । ॐ ह्रीं सर्वपूजितायै स्वाहा चोर्ध्वं सदावतु ॥ 84॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,84,12720,ॐ ह्रीं पुस्तकवासिन्यै स्वाहाधो मां सदावतु । ॐ ग्रन्थबीजस्वरूपायै स्वाहा मां सर्वतोऽवतु ॥ 85॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,85,12721,इति ते कथितं विप्र ब्रह्ममन्त्रौघविग्रहम् । इदं विश्वजयं नाम कवचं ब्रह्मरूपकम् ॥ 86॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,86,12722,पुरा श्रुतं धर्मवक्त्रात्पर्वते गन्धमादने । तव स्नेहान्मयाख्यातं प्रवक्तव्यं न कस्यचित् ॥ 87॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,87,12723,गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः । प्रणम्य दण्डवद्भूमौ कवचं धारयेत्सुधीः ॥ 88॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,88,12724,पञ्चलक्षजपेनैव सिद्धं तु कवचं भवेत् । यदि स्यात्सिद्धकवचो बृहस्पतिसमो भवेत् ॥ 89॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,89,12725,महावाग्मी कवीन्द्रश्च त्रैलोक्यविजयी भवेत् । शक्नोति सर्वं जेतुं च कवचस्य प्रसादतः ॥ 90॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,90,12726,इदं च कण्वशाखोक्तं कवचं कथितं मुने । स्तोत्रं पूजाविधानं च ध्यानं च वन्दनं श‍ृणु ॥ 91॥ 9,९.४,चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।,91,12727,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे सरस्वतीस्तोत्र- पूजाकवचादिवर्णनं नाम चतुर्थोऽध्यायः ॥ ९.४॥ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,0,12728,श्रीनारायण उवाच । वाग्देवतायाः स्तवनं श्रूयतां सर्वकामदम् । महामुनिर्याज्ञवल्क्यो येन तुष्टाव तां पुरा ॥ 1॥ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,1,12729,गुरुशापाज्ज स मुनिर्हतविद्यो बभूव ह । तदा जगाम दुःखार्तो रविस्थानं सुपुण्यदम् ॥ 2॥ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,2,12730,सम्प्राप्य तपसा सूर्यं लोलार्के दृष्टिगोचरे । तुष्टाव सूर्यं शोकेन रुरोद च मुहुर्मुहुः ॥ 3॥ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,3,12731,सूर्यस्तं पाठयामास वेदं वेदाङ्गमीश्वरः । उवाच स्तौहि वाग्देवीं भक्त्या च स्मृतिहेतवे ॥ 4॥ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,4,12732,तमित्युक्त्वा दीननाथोऽप्यन्तर्धानं चकार सः । मुनिः स्नात्वा च तुष्टाव भक्तिनम्रात्मकन्धरः ॥ 5॥ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,5,12733,याज्ञवल्क्य उवाच । कृपां कुरु जगन्मातर्मामेवं हततेजसम् । गुरुशापात्स्मृतिभ्रष्टं विद्याहीनं च दुःखितम् ॥ 6॥ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,6,12734,ज्ञानं देहि स्मृतिं विद्यां शक्तिं शिष्यप्रबोधिनीम् । ग्रन्थकर्तृत्वशक्तिं च सुशिष्यं सुप्रतिष्ठितम् ॥ 7॥ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,7,12735,प्रतिभां सत्सभायां च विचारक्षमतां शुभाम् । लुप्तं सर्वं दैवयोगान्नवीभूतं पुनः कुरु ॥ 8॥ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,8,12736,यथाङ्कुरं भस्मनि च करोति देवता पुनः । ब्रह्मस्वरूपा परमा ज्योतीरूपा सनातनी ॥ 9॥ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,9,12737,सर्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः । विसर्गबिन्दुमात्रासु यदधिष्ठानमेव च ॥ 10॥ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,10,12738,तदधिष्ठात्री या देवी तस्यै नित्यै नमो नमः । व्याख्यास्वरूपा सा देवी व्याख्याधिष्ठातृरूपिणी ॥ 11॥ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,11,12739,यया विना प्रसङ्ख्यावान् सङ्ख्यां कर्तुं न शक्यते । कालसङ्ख्यास्वरूपा या तस्यै देव्यै नमो नमः ॥ 12॥ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,12,12740,भ्रमसिद्धान्तरूपा या तस्यै देव्यै नमो नमः । स्मृतिशक्तिज्ञानशक्तिबुद्धिशक्तिस्वरूपिणी ॥ 13॥ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,13,12741,प्रतिभाकल्पनाशक्तिर्या च तस्यै नमो नमः । सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै ॥ 14॥ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,14,12742,बभूव मूकवत्सोऽपि सिद्धान्तं कर्तुमक्षमः । तदाऽऽजगाम भगवानात्मा श्रीकृष्ण ईश्वरः ॥ 15॥ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,15,12743,उवाच स तां स्तौहि वाणीमिष्टां प्रजापते । स च तुष्टाव तां ब्रह्मा चाज्ञया परमात्मनः ॥ 16॥ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,16,12744,चकार तत्प्रसादेन तदा सिद्धान्तमुत्तमम् । यदाप्यनन्तं पप्रच्छ ज्ञानमेकं वसुन्धरा ॥ 17॥ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,17,12745,बभूव मूकवत्सोऽपि सिद्धान्तं कर्तुमक्षमः । तदा तां स च तुष्टाव सन्त्रस्तः कश्यपाज्ञया ॥ 18॥ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,18,12746,ततश्चकार सिद्धान्तं निर्मलं भ्रमभञ्जनम् । व्यासः पुराणसूत्रं च पप्रच्छ वाल्मिकिं यदा ॥ 19॥ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,19,12747,मौनीभूतश्च सस्मार तामेव जगदम्बिकाम् । तदा चकार सिद्धान्तं तद्वरेण मुनीश्वरः ॥ 20॥ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,20,12748,सम्प्राप्य निर्मलं ज्ञानं भ्रमान्धध्वंसदीपकम् । पुराणसूत्रं श्रुत्वा च व्यासः कृष्णकलोद्भवः ॥ 21॥ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,21,12749,तां शिवां वेद दध्यौ च शतवर्षं च पुष्करे । तदा त्वत्तो वरं प्राप्य सत्कवीन्द्रो बभूव ह ॥ 22॥ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,22,12750,तदा वेदविभागं च पुराणं च चकार सः । यदा महेन्द्रः पप्रच्छ तत्त्वज्ञानं सदाशिवम् ॥ 23॥ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,23,12751,क्षणं तामेव सञ्चिन्त्य तस्मै ज्ञानं ददौ विभुः । पप्रच्छ शब्दशास्त्रं च महेन्द्रश्च बृहस्पतिम् ॥ 24॥ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,24,12752,दिव्यं वर्षसहस्रं च स त्वां दध्यौ च पुष्करे । तदा त्वत्तो वरं प्राप्य दिव्यवर्षसहस्रकम् ॥ 25॥ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,25,12753,उवाच शब्दशास्त्रं च तदर्थं च सुरेश्वरम् । अध्यापिताश्च ये शिष्या यैरधीतं मुनीश्वरैः ॥ 26॥ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,26,12754,ते च तां परिसञ्चिन्त्य प्रवर्तन्ते सुरेश्वरीम् । त्वं संस्तुता पूजिता च मुनीन्द्रैर्मनुमानवैः ॥ 27॥ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,27,12755,दैत्येन्द्रैश्च सुरैश्चापि ब्रह्मविष्णुशिवादिभिः । जडीभूतः सहस्रास्यः पञ्चवक्त्रश्चतुर्मुखः ॥ 28॥ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,28,12756,यां स्तोतुं किमहं स्तौमि तामेकास्येन मानवः । इत्युक्त्वा याज्ञवल्क्यश्च भक्तिनम्रात्मकन्धरः ॥ 29॥ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,29,12757,प्रणनाम निराहारो रुरोद च मुहुर्मुहुः । ज्योतीरूपा महामाया तेन दृष्टाप्युवाच तम् ॥ 30॥ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,30,12758,सुकवीन्द्रो भवेत्युक्त्वा वैकुण्ठं च जगाम ह । याज्ञवल्क्यकृतं वाणीस्तोत्रमेतत्तु यः पठेत् ॥ 31॥ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,31,12759,स कवीन्द्रो महावाग्मी बृहस्पतिसमो भवेत् । महामूर्खश्च दुर्बुद्धिर्वर्षमेकं यदा पठेत् ॥ 32॥ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,32,12760,स पण्डितश्च मेधावी सुकवीन्द्रो भवे ध्रुवम् ॥ 33॥ 9,९.५,पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।,33,12761,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनं नाम पञ्चमोऽध्यायः ॥ ९.५॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,0,12762,श्रीनारायण उवाच । सरस्वती तु वैकुण्ठे स्वयं नारायणान्तिके । गङ्गाशापेन कलहात्कलया भारते सरित् ॥ 1॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,1,12763,पुण्यदा पुण्यरूपा च पुण्यतीर्थस्वरूपिणी । पुण्यवद्भिर्निषेव्या च स्थितिः पुण्यवतां मुने ॥ 2॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,2,12764,तपस्विनां तपोरूपा तपसः फलरूपिणी । कृतपापेध्मदाहाय ज्वलदग्निस्वरूपिणी ॥ 3॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,3,12765,ज्ञानात्सरस्वतीतोये मृता ये मानवा भुवि । तेषां स्थितिश्च वैकुण्ठे सुचिरं हरिसंसदि ॥ 4॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,4,12766,भारते कृतपापश्च स्नात्वा तत्र च लीलया । मुच्यते सर्वपापेभ्यो विष्णुलोके वसेच्चिरम् ॥ 5॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,5,12767,चातुर्मास्यां पौर्णमास्यामक्षयायां दिनक्षये । व्यतीपाते च ग्रहणेऽन्यस्मिन्पुण्यदिनेऽपि च ॥ 6॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,6,12768,अनुषङ्गेण यः स्नातो हेतुना श्रद्धयापि वा । सारूप्यं लभते नूनं वैकुण्ठे स हरेरपि ॥ 7॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,7,12769,सरस्वतीमनुं तत्र मासमेकं च यो जपेत् । महामूर्खः कवीन्द्रश्च स भवेन्नात्र संशयः ॥ 8॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,8,12770,नित्यं सरस्वतीतोये यः स्नायान्मुण्डयन्नरः । न गर्भवासं कुरुते पुनरेव स मानवः ॥ 9॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,9,12771,इत्येवं कथितं किञ्चिद्भारतीगुणकीर्तनम् । सुखदं कामदं सारं भूयः किं श्रोतुमिच्छसि ॥ 10॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,10,12772,सूत उवाच । नारायणवचः श्रुत्वा नारदो मुनिसत्तमः । पुनः पप्रच्छ सन्देहमिमं शौनक सत्वरम् ॥ 11॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,11,12773,नारद उवाच । कथं सरस्वती देवी गङ्गाशापेन भारते । कलया कलहेनैव बभूव पुण्यदा सरित् ॥ 12॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,12,12774,श्रवणे श्रुतिसाराणां वर्धते कौतुकं मम । कथामृतेन मे तृप्तिः केन श्रेयसि तृप्यते ॥ 13॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,13,12775,कथं शशाप सा गङ्गा पूजितां तां सरस्वतीम् । सा तु सत्त्वस्वरूपा या पुण्यदा शुभदा सदा ॥ 14॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,14,12776,तेजस्विनोर्द्वयोर्वादकारणं श्रुतिसुन्दरम् । सुदुर्लभं पुराणेषु तन्मे व्याख्यातुमर्हसि ॥ 15॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,15,12777,श्रीनारायण उवाच । श‍ृणु नारद वक्ष्यामि कथामेतां पुरातनीम् । यस्याः श्रवणमात्रेण सर्वपापात्प्रमुच्यते ॥ 16॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,16,12778,लक्ष्मीः सरस्वती गङ्गा तिस्रो भार्या हरेरपि । प्रेम्णा समास्तास्तिष्ठन्ति सततं हरिसन्निधौ ॥ 17॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,17,12779,चकार सैकदा गङ्गा विष्णोर्मुखनिरीक्षणम् । सस्मिता च सकामा च सकटाक्षं पुनः पुनः ॥ 18॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,18,12780,विभुर्जहास तद्वक्त्रं निरीक्ष्य च क्षणं तदा । क्षमां चकार तद् दृष्ट्वा लक्ष्मीर्नैव सरस्वती ॥ 19॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,19,12781,बोधयामास पद्मा तां सत्त्वरूपा च सस्मिता । क्रोधाविष्टा च सा वाणी न च शान्ता बभूव ह ॥ 20॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,20,12782,उवाच वाणी भर्तारं रक्तास्या रक्तलोचना । कुपिता कामवेगेन शश्वत्प्रस्फुरिताधरा ॥ 21॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,21,12783,सरस्वत्युवाच । सर्वत्र समताबुद्धिः सद्भर्तुः कामिनीं प्रति । धर्मिष्ठस्य वरिष्ठस्य विपरीता खलस्य च ॥ 22॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,22,12784,ज्ञातं सौभाग्यमधिकं गङ्गायां ते गदाधर । कमलायां च तत्तुल्यं न च किञ्चिन्मयि प्रभो ॥ 23॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,23,12785,गङ्गायाः पद्मया सार्धं प्रीतिश्चास्ति सुसम्मता । क्षमां चकार तेनेदं विपरीतं हरिप्रिया ॥ 24॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,24,12786,किं जीवनेन मेऽत्रैव दुर्भगायाश्च साम्प्रतम् । निष्कलं जीवनं तस्या या पत्युः प्रेमवञ्चिता ॥ 25॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,25,12787,त्वां सर्वे सत्त्वरूपं च ये वदन्ति मनीषिणः । ते च मूर्खा न वेदज्ञा न जानन्ति मतिं तव ॥ 26॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,26,12788,सरस्वतीवचः श्रुत्वा दृष्ट्वा तां कोपसंयुताम् । मनसा च समालोच्य स जगाम बहिः सभाम् ॥ 27॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,27,12789,गते नारायणे गङ्गामुवाच निर्भयं रुषा । वागधिष्ठातृदेवी सा वाक्यं श्रवणदुष्करम् ॥ 28॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,28,12790,हे निर्लज्जे हे सकामे स्वामिगर्वं करोषि किम् । अधिकं स्वामिसौभाग्यं विज्ञापयितुमिच्छसि ॥ 29॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,29,12791,मानचूर्णं करिष्यामि तवाद्य हरिसन्निधौ । किं करिष्यति ते कान्तो ममैवं कान्तवल्लभे ॥ 30॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,30,12792,इत्येवमुक्त्वा गङ्गायाः केशं ग्रहीतुमुद्यता । वारयामास तां पद्मा मध्यदेशं समाश्रिता ॥ 31॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,31,12793,शशाप वाणी तां पद्मां महाबलवती सती । वृक्षरूपा सरिद्रूपा भविष्यसि न संशयः ॥ 32॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,32,12794,विपरीतं ततो दृष्ट्वा किञ्चिन्नो वक्तुमर्हसि । सन्तिष्ठति सभामध्ये यथा वृक्षो यथा सरित् ॥ 33॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,33,12795,शापं श्रुत्वा तु सा देवी न शशाप चुकोप ह । तत्रैव दुःखिता तस्थौ वाणीं धृत्वा करेण च ॥ 34॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,34,12796,असन्तुष्टां तु तां दृष्ट्वा कोपप्रस्फुरिताधराम् । उवाच गङ्गा तां देवीं पद्मां चारक्तलोचनाम् ॥ 35॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,35,12797,गङ्गोवाच । त्वमुत्सृज महोग्रां च पद्मे किं मे करिष्यति । दुःशीला मुखरा नष्टा नित्यं वाचालरूपिणी ॥ 36॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,36,12798,वागधिष्ठात्री देवीयं सततं कलहप्रिया । यावती योग्यता चास्या यावती शक्तिरेव च ॥ 37॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,37,12799,तथा करोतु वादं च मया सार्धं च दुर्मुखी । स्वबलं यन्मम बलं विज्ञापयितुमिच्छति ॥ 38॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,38,12800,जानन्तु सर्वे ह्युभयोः प्रभावं विक्रमं सति । इत्येवमुक्त्वा सा देवी वाण्यै शापं ददाविति ॥ 39॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,39,12801,सरिक्त्यरूपा भवतु सा या त्वां च शशाप ह । अधोमर्त्यं सा प्रयातु सन्ति यत्रैव पापिनः ॥ 40॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,40,12802,कलौ तेषां च पापानि ग्रहीष्यति न संशयः । इत्येवं वचनं श्रुत्वा तां शशाप सरस्वती ॥ 41॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,41,12803,त्वमेव यास्यसि महीं पापिपापं लभिष्यसि । एतस्मिन्नन्तरे तत्र भगवानाजगाम ह ॥ 42॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,42,12804,चतुर्भुजश्चतुर्भिश्च पार्षदैश्च चतुर्भुजैः । सरस्वतीं करे धृत्वा वासयामास वक्षसि ॥ 43॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,43,12805,बोधयामास सर्वज्ञः सर्वज्ञानं पुरातनम् । श्रुत्वा रहस्यं तासां च शापस्य कलहस्य च ॥ 44॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,44,12806,उवाच दुःखितास्ताश्च वाचं सामयिकीं विभुः । श्रीभगवानुवाच । लक्ष्मि त्वं कलया गच्छ धर्मध्वजगृहं शुभे ॥ 45॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,45,12807,अयोनिसम्भवा भूमौ तस्य कन्या भविष्यसि । तत्रैव दैवदोषेण वृक्षत्वं च लभिष्यसि ॥ 46॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,46,12808,मदंशस्यासुरस्यैव शङ्खचूडस्य कामिनी । भूत्वा पश्चाच्च मत्पत्नी भविष्यसि न संशयः ॥ 47॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,47,12809,त्रैलोक्यपावनी नाम्ना तुलसीति च भारते । कलया च सरिद्भावं शीघ्रं गच्छ वरानने ॥ 48॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,48,12810,भारतं भारतीशापान्नाम्ना पद्मावती भव । गङ्गे यास्यसि पश्चात्त्वमंशेन विश्वपावनी ॥ 49॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,49,12811,भारतं भारतीशापात्पापदाहाय पापिनाम् । भगीरथस्य तपसा तेन नीता सुकल्पिते ॥ 50॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,50,12812,नाम्ना भागीरथी पूता भविष्यसि महीतले । मदंशस्य समुद्रस्य जाया जायेर्ममाज्ञया ॥ 51॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,51,12813,मत्कलांशस्य भूपस्य शन्तनोश्च सुरेश्वरि । गङ्गाशापेन कलया भारतं गच्छ भारति ॥ 52॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,52,12814,कलहस्य फलं भुङ्क्ष्व सपत्नीभ्यां सहाच्युते । स्वयं च ब्रह्मसदने ब्रह्मणः कामिनी भव ॥ 53॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,53,12815,गङ्गा यातु शिवस्थानमत्र पद्मैव तिष्ठतु । शान्ता च क्रोधरहिता मद्भक्ता सत्त्वरूपिणी ॥ 54॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,54,12816,महासाध्वी महाभागा सुशीला धर्मचारिणी । यदंशकलया सर्वा धर्मिष्ठाश्च पतिव्रताः ॥ 55॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,55,12817,शान्तरूपाः सुशीलाश्च प्रतिविश्वेषु पूजिताः । तिस्रो भार्यास्त्रिशीलाश्च त्रयो भृत्याश्च बान्धवाः ॥ 56॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,56,12818,ध्रुवं वेदविरुद्धाश्च न ह्येते मङ्गलप्रदाः । स्त्रीपुंवच्च गृहे येषां गृहिणां स्त्रीवशः पुमान् ॥ 57॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,57,12819,निष्फलं च जन्म तेषामशुभं च पदे पदे । मुखे दुष्टा योनिदुष्टा यस्य स्त्री कलहप्रिया ॥ 58॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,58,12820,अरण्यं तेन गन्तव्यं महारण्यं गृहाद्वरम् । जलानां च स्थलानां च फलानां प्राप्तिरेव च ॥ 59॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,59,12821,सततं सुलभा तत्र न तेषां गृह एव च । वरमग्नौ स्थितिर्हिंस्रजन्तूनां सन्निधौ सुखम् ॥ 60॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,60,12822,ततोऽपि दुःखं पुंसां च दुष्टस्त्रीसन्निधौ ध्रुवम् । व्याधिज्वाला विषज्वाला वरं पुंसां वरानने ॥ 61॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,61,12823,दुष्टस्त्रीणां मुखज्वाला मरणादतिरिच्यते । पुंसां च स्त्रीजितां चैव भस्मान्तं शौचमध्रुवम् ॥ 62॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,62,12824,यदह्नि कुरुते कर्म न तस्य फलभाग्भवेत् । निन्दितोऽत्र परत्रैव सर्वत्र नरकं व्रजेत् ॥ 63॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,63,12825,यशःकीर्तिविहीनो यो जीवन्नपि मृतो हि सः । बह्वीनां च सपत्नीनां नैकत्र श्रेयसे स्थितिः ॥ 64॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,64,12826,एकभार्यः सुखी नैव बहुभार्यः कदाचन । गच्छ गङ्गे शिवस्थानं ब्रह्मस्थानं सरस्वति ॥ 65॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,65,12827,अत्र तिष्ठतु मद्गेहे सुशीला कमलालया । सुसाध्या यस्य पत्नी च सुशीला च पतिव्रता ॥ 66॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,66,12828,इह स्वर्गे सुखं तस्य धर्मो मोक्षः परत्र च । पतिव्रता यस्य पत्नी स च मुक्तः शुचिः सुखी । जीवन्मृतोऽशुचिर्दुःखी दुःशीलापतिरेव च ॥ 67॥ 9,९.६,षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।,67,12829,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनं नाम षष्ठोऽध्यायः ॥ ९.६॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,0,12830,श्रीनारायण उवाच । इत्युक्त्वा जगतां नाथो विरराम च नारद । अतीव रुरुदुर्देव्यः समालिङ्ग्य परस्परम् ॥ 1॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,1,12831,ताश्च सर्वाः समालोक्य क्रमेणोचुस्तदेश्वरम् । कम्पिताः साश्रुनेत्राश्च शोकेन च भयेन च ॥ 2॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,2,12832,सरस्वत्युवाच । विशापं देहि हे नाथ दुष्टमाजन्मशोचनम् । सत्स्वामिना परित्यक्ताः कुतो जीवन्ति ताः स्त्रियः ॥ 3॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,3,12833,देहत्यागं करिष्यामि योगेन भारते ध्रुवम् । अत्युन्नतो हि नियतं पातुमर्हति निश्चितम् ॥ 4॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,4,12834,गङ्गोवाच । अहं केनापराधेन त्वया त्यक्ता जगत्पते । देहत्यागं करिष्यामि निर्दोषाया वधं लभ ॥ 5॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,5,12835,निर्दोषकामिनीत्यागं करोति यो नरो भुवि । स याति नरकं घोरं किन्तु सर्वेश्वरोऽपि वा ॥ 6॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,6,12836,पद्मोवाच । नाथ सत्त्वस्वरूपस्त्वं कोपः कथमहो तव । प्रसादं कुरु भार्ये द्वे सदीशस्य क्षमा वरा ॥ 7॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,7,12837,भारते भारतीशापाद्यास्यामि कलया ह्यहम् । कियत्कालं स्थितिस्तत्र कदा द्रक्ष्यामि ते पदम् ॥ 8॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,8,12838,दास्यन्ति पापिनः पापं सद्यः स्नानावगाहनात् । केन तेन विमुक्ताहमागमिष्यामि ते पदम् ॥ 9॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,9,12839,कलया तुलसीरूपं धर्मध्वजसुता सती । भुक्त्वा कदा लभिष्यामि त्वत्पादाम्बुजमच्युत ॥ 10॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,10,12840,वृक्षरूपा भविष्यामि त्वदधिष्ठातृदेवता । समुद्धरिष्यसि कदा तन्मे ब्रूहि कृपानिधे ॥ 11॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,11,12841,गङ्गा सरस्वतीशापाद्यदि यास्यति भारते । शापेन मुक्ता पापाच्च कदा त्वां च लभिष्यति ॥ 12॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,12,12842,गङ्गाशापेन वा वाणी यदि यास्यति भारतम् । कदा शापाद्विनिर्मुच्य लभिष्यति पदं तव ॥ 13॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,13,12843,तां वाणीं ब्रह्मसदनं गङ्गां वा शिवमन्दिरम् । गन्तुं वदसि हे नाथ तत्क्षमस्व च ते वचः ॥ 14॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,14,12844,इत्युक्त्वा कमला कान्तपादं धृत्वा ननाम सा । स्वकेशैर्वेष्टनं कृत्वा रुरोद च पुनः पुनः ॥ 15॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,15,12845,(उवाच पद्मनाभस्तां पद्मां कृत्वा स्ववक्षसि । ईषद्धास्यप्रसन्नास्यो भक्तानुग्रहकातरः ॥)॥ श्रीभगवानुवाच । त्वद्वाक्यमाचरिष्यामि स्ववाक्यं च सुरेश्वरि । समतां च करिष्यामि श‍ृणु त्वं कमलेक्षणे ॥ 16॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,16,12846,भारती यातु कलया सरिद्रूपा च भारते । अर्धा सा ब्रह्मसदनं स्वयं तिष्ठतु मद्गृहे ॥ 17॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,17,12847,भगीरथेन सा नीता गङ्गा यास्यति भारते । पूतं कर्तुं त्रिभुवनं स्वयं तिष्ठतु मद्गृहे ॥ 18॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,18,12848,तत्रैव चन्द्रमौलेश्च मौलिं प्राप्स्यति दुर्लभम् । ततः स्वभावतः पूताप्यतिपूता भविष्यति ॥ 19॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,19,12849,कलांशांशेन गच्छ त्वं भारते वामलोचने । पद्मावती सरिद्रूपा तुलसीवृक्षरूपिणी ॥ 20॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,20,12850,कलेः पञ्चसहस्रे च गते वर्षे तु मोक्षणम् । युष्माकं सरितां चैव मद्गेहे चागमिष्यथ ॥ 21॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,21,12851,सम्पदा हेतुभूता च विपत्तिः सर्वदेहिनाम् । विना विपत्तेर्महिमा केषां पद्मभवे भवेत् ॥ 22॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,22,12852,मन्मन्त्रोपासकानां च सतां स्नानावगाहनात् । युष्माकं मोक्षणं पापाद्दर्शनात्स्पर्शनात्तथा ॥ 23॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,23,12853,पृथिव्यां यानि तीर्थानि सन्त्यसङ्ख्यानि सुन्दरि । भविष्यन्ति च पूतानि मद्भक्तस्पर्शदर्शनात् ॥ 24॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,24,12854,मन्मन्त्रोपासका भक्ता विभ्रमन्ति च भारते । पूतं कर्तुं तारितुं च सुपवित्रां वसुन्धराम् ॥ 25॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,25,12855,मद्भक्ता यत्र तिष्ठन्ति पादं प्रक्षालयन्ति च । तत्स्थानं च महातीर्थं सुपवित्रं भवेद्ध्रुवम् ॥ 26॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,26,12856,स्त्रीघ्नो गोघ्नः कृतघ्नश्च ब्रह्मघ्नो गुरुतल्पगः । जीवन्मुक्तो भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ॥ 27॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,27,12857,एकादशीविहीनश्च सन्ध्याहीनोऽथ नास्तिकः । नरघाती भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ॥ 28॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,28,12858,असिजीवी मसीजीवी धावको ग्रामयाचकः । वृषवाहो भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ॥ 29॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,29,12859,विश्वासघाती मित्रघ्नो मिथ्यासाक्ष्यस्य दायकः । स्थाप्याहारी भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ॥ 30॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,30,12860,अत्युग्रवान्दूषकश्च जारकः पुंश्चलीपतिः । पूतश्च वृषलीपुत्रो मद्भक्तस्पर्शदर्शनात् ॥ 31॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,31,12861,शूद्राणां सूपकारश्च देवलो ग्रामयाजकः । अदीक्षितो भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ॥ 32॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,32,12862,पितरं मातरं भार्यां भ्रातरं तनयं सुताम् । गुरोः कुलं च भगिनीं चक्षुर्हीनं च बान्धवम् ॥ 33॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,33,12863,श्वश्रूं च श्वशुरं चैव यो न पुष्णाति सुन्दरि । स महापातकी पूतो मद्भक्तस्पर्शदर्शनात् ॥ 34॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,34,12864,अश्वत्थनाशकश्चैव मद्भक्तनिन्दकस्तथा । शूद्रान्नभोजी विप्रश्च पूतो मद्भक्तदर्शनात् ॥ 35॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,35,12865,देवद्रव्यापहारी च विप्रद्रव्यापहारकः । लाक्षालोहरसानां च विक्रेता दुहितुस्तथा ॥ 36॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,36,12866,महापातकिनश्चैव शूद्राणां शवदाहकः । भवेयुरेते पूताश्च मद्भक्तस्पर्शदर्शनात् ॥ 37॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,37,12867,महालक्ष्मीरुवाच । भक्तानां लक्षणं ब्रूहि भक्तानुग्रहकातर । येषां तु दर्शनस्पर्शात्सद्यः पूता नराधमाः ॥ 38॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,38,12868,हरिभक्तिविहीनाश्च महाहङ्कारसंयुतः । स्वप्रशंसारता धूर्ताः शठाश्च साधुनिन्दकाः ॥ 39॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,39,12869,पुनन्ति सर्वतीर्थानि येषां स्नानावगाहनात् । येषां च पादरजसा पूता पादोदकान्मही ॥ 40॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,40,12870,येषां सन्दर्शनं स्पर्शं ये वा वाञ्छन्ति भारते । सर्वेषां परमो लाभो वैष्णवानां समागमः ॥ 41॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,41,12871,न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः । ते पुनन्त्यपि कालेन विष्णुभक्ताः क्षणादहो ॥ 42॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,42,12872,सूत उवाव महालक्ष्मीवचः श्रुत्वा लक्ष्मीकान्तश्च सस्मितः । निगूढतत्त्वं कथितुमपि श्रेष्ठोपचक्रमे ॥ 43॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,43,12873,श्रीभगवानुवाच । भक्तानां लक्षणं लक्ष्मि गूढं श्रुतिपुराणयोः । पुण्यस्वरूपं पापघ्नं सुखदं भुक्तिमुक्तिदम् ॥ 44॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,44,12874,सारभूतं गोपनीयं न वक्तव्यं खलेषु च । त्वां पवित्रां प्राणतुल्यां कथयामि निशामय ॥ 45॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,45,12875,गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे पतिष्यति । वदन्ति वेदास्तं चापि पवित्रं च नरोत्तमम् ॥ 46॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,46,12876,पुरुषाणां शतं पूर्वं तथा तज्जन्ममात्रतः । स्वर्गस्थं नरकस्थं वा मुक्तिमाप्नोति तत्क्षणात् ॥ 47॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,47,12877,यैः कैश्चिद्यत्र वा जन्म लब्धं येषु च जन्तुषु । जीवन्मुक्तास्तु ते पूता यान्ति काले हरेः पदम् ॥ 48॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,48,12878,मद्भक्तियुक्तो मर्त्यश्च स मुक्तो मद्गुणान्वितः । मद्गुणाधीनवृत्तिर्यः कथाविष्टश्च सन्ततम् ॥ 49॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,49,12879,मद्गुणश्रुतिमात्रेण सानन्दः पुलकान्वितः । सगद्गदः साश्रुनेत्रः स्वात्मविस्मृत एव च ॥ 50॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,50,12880,न वाञ्छति सुखं मुक्तिं सालोक्यादिचतुष्टयम् । ब्रह्मत्वममरत्वं वा तद्वाञ्छा मम सेवने ॥ 51॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,51,12881,इन्द्रत्वं च मनुत्वं च ब्रह्मत्वं च सुदुर्लभम् । स्वर्गराज्यादिभोगं च स्वप्नेऽपि च न वाञ्छति ॥ 52॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,52,12882,भ्रमन्ति भारते भक्तास्तादृग्जन्म सुदुर्लभम् । मद्गुणश्रवणाः श्राव्यगानैर्नित्यं मुदान्विताः ॥ 53॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,53,12883,ते यान्ति च महीं पूत्वा नरं तीर्थं ममालयम् । इत्येवं कथितं सर्वं पद्मे कुरु यथोचितम् । तदाज्ञया तास्तच्चक्रुर्हरिस्तस्थौ सुखासने ॥ 54॥ 9,९.७,सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।,54,12884,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे गङ्गादीनां शापोद्धारवर्णनं नाम सप्तमोऽध्यायः ॥ ९.७॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,0,12885,श्रीनारायण उवाच । सरस्वती पुण्यक्षेत्रमाजगाम च भारते । गङ्गाशापेन कलया स्वयं तस्थौ हरेः पदे ॥ 1॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,1,12886,भारती भारतं गत्वा ब्राह्मी च ब्रह्मणः प्रिया । वाण्यधिष्ठातृदेवी सा तेन वाणी प्रकीर्तिता ॥ 2॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,2,12887,सरो वाप्यां च स्रोतस्तु सर्वत्रैव हि दृश्यते । हरिः सरस्वांस्तस्येयं तेन नाम्ना सरस्वती ॥ 3॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,3,12888,सरस्वती नदी सा च तीर्थरूपातिपावनी । पापिनां पापदाहाय ज्वलदग्निस्वरूपिणी ॥ 4॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,4,12889,पश्चाद्भागीरथी नीता महीं भगीरथेन च । सा वै जगाम कलया वाणीशापेन नारद ॥ 5॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,5,12890,तत्रैव समये तां च दधार शिरसा शिवः । वेगं सोढुमयं शक्तो भुवः प्रार्थनया विभुः ॥ 6॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,6,12891,पद्मा जगाम कलया सा च पद्मावती नदी । भारतं भारतीशापात्स्वयं तस्थौ हरेः पदे ॥ 7॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,7,12892,ततोऽन्यया सा कलया लेभे जन्म च भारते । धर्मध्वजसुता लक्ष्मीर्विख्याता तुलसीति च ॥ 8॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,8,12893,पुरा सरस्वतीशापात्पश्चाच्च हरिशापतः । बभूव वृक्षरूपा सा कलया विश्वपावनी ॥ 9॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,9,12894,कलेः पञ्चसहस्रं च वर्षं स्थित्वा तु भारते । जग्मुस्ताश्च सरिद्रूपं विहाय श्रीहरेः पदम् ॥ 10॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,10,12895,यानि सर्वाणि तीर्थानि काशीं वृन्दावनं विना । यास्यन्ति सार्धं ताभिश्च वैकुण्ठमाज्ञया हरेः ॥ 11॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,11,12896,शालग्रामः शक्तिशिवौ जगन्नाथश्च भारतम् । कलेर्दशसहस्रान्ते त्यक्त्वा यान्ति निजं पदम् ॥ 12॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,12,12897,साधवश्च पुराणानि शङ्खानि श्राद्धतर्पणे । वेदोक्तानि च कर्माणि ययुस्तैः सार्धमेव च ॥ 13॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,13,12898,देवपूजा देवनाम तत्कीर्तिगुणकीर्तनम् । वेदाङ्गानि च शास्त्राणि ययुस्तैः सार्धमेव च ॥ 14॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,14,12899,सन्तश्च सत्यधर्मश्च वेदाश्च ग्रामदेवताः । व्रतं तपश्चानशनं ययुस्तैः सार्धमेव च ॥ 15॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,15,12900,वामाचाररताः सर्वे मिथ्याकपटसंयुताः । तुलसीरहिता पूजा भविष्यति ततः परम् ॥ 16॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,16,12901,शठाः क्रूरा दाम्भिकाश्च महाहङ्कारसंयुताः । चोराश्च हिंसकाः सर्वे भविष्यन्ति ततः परम् ॥ 17॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,17,12902,पुंसो भेदः स्त्रीविभेदो विवाहो वापि निर्भयः । स्वस्वामिभेदो वस्तूनां भविष्यति ततः परम् ॥ 18॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,18,12903,सर्वे स्त्रीवशगाः पुंसः पुश्चल्यश्च गृहे गृहे । तर्जनैर्भर्त्सनैः शश्वत्स्वामिनं ताडयन्ति च ॥ 19॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,19,12904,गृहेश्वरी च गृहिणी गृही भृत्याधिकोऽधमः । चेटीदाससमौ वध्वाः श्वश्रूश्च श्वशुरस्तथा ॥ 20॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,20,12905,कर्तारो बलिनो गेहे योनिसम्बन्धिबान्धवाः । विद्यासम्बन्धिभिः सार्धं सम्भाषापि न विद्यते ॥ 21॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,21,12906,यथापरिचिता लोकास्तथा पुंसश्च बान्धवाः । सर्वकर्माक्षमाः पुंसो योषितामाज्ञया विना ॥ 22॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,22,12907,ब्रह्मक्षत्रविशः शूद्रा जात्याचारविवर्जिताः । सन्ध्या च यज्ञसूत्रं च भवेल्लुप्तं न संशयः ॥ 23॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,23,12908,म्लेच्छाचारा भविष्यन्ति वर्णाश्चत्वार एव च । म्लेच्छशास्त्रं पठिष्यन्ति स्वशास्त्राणि विहाय च ॥ 24॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,24,12909,ब्रह्मक्षत्रविशां वंशाः शूद्राणां सेवकाः कलौ । सूपकारा धावकाश्च वृषवाहाश्च सर्वशः ॥ 25॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,25,12910,सत्यहीना जनाः सर्वे सस्यहीना च मेदिनी । फलहीनाश्च तरवोऽपत्यहीनाश्च योषितः ॥ 26॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,26,12911,क्षीरहीनास्तथा गावः क्षीरं सर्पिर्विवर्जितम् । दम्पती प्रीतिहीनौ च गृहिणः सत्यवर्जिताः ॥ 27॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,27,12912,प्रतापहीना भूपाश्च प्रजाश्च करपीडिताः । जलहीना महानद्यो दीर्घिकाकन्दरादयः ॥ 28॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,28,12913,धर्महीना पुण्यहीना वर्णाश्चत्वार एव च । लक्षेषु पुण्यवान्कोऽपि न तिष्ठति ततः परम् ॥ 29॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,29,12914,कुत्सिता विकृताकारा नरा नार्यश्च बालकाः । कुवार्ता कुत्सितः शब्दो भविष्यति ततः परम् ॥ 30॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,30,12915,केचिद्ग्रामाश्च नगरा नरशून्या भयानकाः । केचित्स्वल्पकुटीरेण नरेण च समन्विताः ॥ 31॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,31,12916,अरण्यानि भविष्यन्ति ग्रामेषु नगरेषु च । अरण्यवासिनः सर्वे जनाश्च करपीडिताः ॥ 32॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,32,12917,सस्यानि च भविष्यन्ति तडागेषु नदीषु च । प्रकृष्टवंशजा हीना भविष्यन्ति कलौ युगे ॥ 33॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,33,12918,अलीकवादिनो धूर्ताः शठाश्चासत्यवादिनः । प्रकृष्टानि च क्षेत्राणि सस्यहीनानि नारद ॥ 34॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,34,12919,हीनाः प्रकृष्टा धनिनो देवभक्ताश्च नास्तिकाः । हिंसकाश्च दयाहीना पौराश्च नरघातिनः ॥ 35॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,35,12920,वामना व्याधियुक्ताश्च नरा नार्यश्च सर्वतः । स्वल्पायुषो गदायुक्ता यौवनै रहिताः कलौ ॥ 36॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,36,12921,पलिताः षोडशे वर्षे महावृद्धाश्च विंशतौ । अष्टवर्षा च युवती रजोयुक्ता च गर्भिणी ॥ 37॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,37,12922,वत्सरान्तप्रसूता स्त्री षोडशे च जरान्विता । पतिपुत्रवती काचित्सर्वा वन्ध्याः कलौ युगे ॥ 38॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,38,12923,कन्याविक्रयिणः सर्वे वर्णाश्चत्वार एव च । मातृजायावधूनां च जारोपेतान्नभक्षकाः ॥ 39॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,39,12924,कन्यानां भगिनीनां वा जारोपात्तानजीविनः । हरेर्नाम्नां विक्रयिणो भविष्यन्ति कलौ युगे ॥ 40॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,40,12925,स्वयमुत्सृज्य दानं च कीर्तिवर्धनहेतवे । ततः पश्चात्स्वदानं च स्वयमुल्लङ्घयिष्यति ॥ 41॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,41,12926,देववृत्तिं ब्रह्मवत्तिं वृत्तिं गुरुकुलस्य च । स्वदत्तां परदत्तां वा सर्वमुल्लङ्घयिष्यति ॥ 42॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,42,12927,कन्यकागामिनः केचित्केचिच्च श्वश्रुगामिनः । केचिद्वधूगामिनश्च केचिद्वै सर्वगामिनः ॥ 43॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,43,12928,भगिनीगामिनः केचित्सपत्नीमातृगामिनः । भ्रातृजायागामिनश्च भविष्यन्ति कलौ युगे ॥ 44॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,44,12929,अगम्यागमनं चैव करिष्यन्ति गृहे गृहे । मातृयोनिं परित्यज्य विहरिष्यन्ति सर्वतः ॥ 45॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,45,12930,पत्नीनां निर्णयो नास्ति भर्तॄणां च कलौ युगे । प्रजानां चैव ग्रामाणां वस्तुनां च विशेषतः ॥ 46॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,46,12931,अलीकवादिनः सर्वे सर्वे चौराश्च लम्पटाः । परस्परं हिंसकाश्च सर्वे च नरघातिनः ॥ 47॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,47,12932,ब्रह्मक्षत्रविशां वंशा भविष्यन्ति च पापिनः । लाक्षा लोहरसानां च व्यापारं लवणस्य च ॥ 48॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,48,12933,वृषवाहा विप्रवंशाः शूद्राणां शवदाहिनः । शूद्रान्नभोजिनः सर्वे सर्वे च वृषलीरताः ॥ 49॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,49,12934,पञ्चयज्ञविहीनाश्च कुहूरात्रौ च भोजिनः । यज्ञसूत्रविहीनाश्च सन्ध्याशौचविहीनकाः ॥ 50॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,50,12935,पुंश्चली वार्धुषाजीवा कुट्टनी च रजस्वला । विप्राणां रन्धनागारे भविष्यति च पाचिका ॥ 51॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,51,12936,अन्नानां नियमो नास्ति योनीनां च विशेषतः । आश्रमाणां जनानां च सर्वे म्लेच्छाः कलौ युगे ॥ 52॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,52,12937,एवं कलौ सम्प्रवृत्ते सर्वं म्लेच्छमयं भवेत् । हस्तप्रमाणे वृक्षे च अङ्गुष्ठे चैव मानवे ॥ 53॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,53,12938,विप्रस्य विष्णुयशसः पुत्रः कल्किर्भविष्यति । नारायणकलांशश्च भगवान् बलिनां वरः ॥ 54॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,54,12939,दीर्घेण करवालेन दीर्घघोटकवाहनः । म्लेच्छशून्यां च पृथिवीं त्रिरात्रेण करिष्यति ॥ 55॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,55,12940,निर्म्लेच्छां वसुधां कृत्वा चान्तर्धानं करिष्यति । अराजका च वसुधा दस्युग्रस्ता भविष्यति ॥ 56॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,56,12941,स्थूलाप्रमाणा षड्रात्रं वर्षधाराऽऽप्लुता मही । लोकशून्या वृक्षशून्या गृहशून्या भविष्यति ॥ 57॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,57,12942,ततश्च द्वादशादित्याः करिष्यन्त्युदयं मुने । प्राप्नोति शुष्कतां पृथ्वी समा तेषां च तेजसा ॥ 58॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,58,12943,कलौ गते च दुर्धर्षे प्रवृत्ते च कृते युगे । तपःसत्त्वसमायुक्तो धर्मः पूर्णो भविष्यति ॥ 59॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,59,12944,तपस्विनश्च धर्मिष्ठा वेदज्ञा ब्राह्मणा भुवि । पतिव्रताश्च धर्मिष्ठा योषितश्च गृहे गृहे ॥ 60॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,60,12945,राजानः क्षत्रियाः सर्वे विप्रभक्ता मनस्विनः । प्रतापवन्तो धर्मिष्ठाः पुण्यकर्मरताः सदा ॥ 61॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,61,12946,वैश्या वाणिज्यनिरता विप्रभक्ताश्च धार्मिकाः । शूद्राश्च पुण्यशीलाश्च धर्मिष्ठा विप्रसेविनः ॥ 62॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,62,12947,विप्रक्षत्रविशां वंशा देवीभक्तिपरायणाः । देवीमन्त्ररताः सर्वे देवीध्यानपरायणाः ॥ 63॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,63,12948,श्रुतिस्मृतिपुराणज्ञाः पुमांस ऋतुगामिनः । लेशो नास्ति ह्यधर्मस्य पूर्णो धर्मः कृते युगे ॥ 64॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,64,12949,धर्मस्त्रिपाच्च त्रेतायां द्विपाच्च द्वापरे ततः । कलौ वृत्ते चैकपाच्च सर्वलुप्तिस्ततः परम् ॥ 65॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,65,12950,वाराः सप्त तथा विप्र तिथयः षोडश स्मृताः । तथा द्वादश मासाश्च ऋतवश्च षडेव च ॥ 66॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,66,12951,द्वौ पक्षौ चायने द्वे च चतुर्भिः प्रहरैर्दिनम् । चतुर्भिः प्रहरै रात्रिर्मासस्त्रिंशद्दिनैस्तथा ॥ 67॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,67,12952,वर्षं पञ्चविधं ज्ञेयं कालसङ्ख्याविधिक्रमे । यथा चायान्ति यान्त्येव यथा युगचतुष्टयम् ॥ 68॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,68,12953,वर्षे पूर्णे नराणां च देवानां च दिवानिशम् । शतत्रये षष्ठ्यधिके नराणां च युगे गते ॥ 69॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,69,12954,देवानां च युगं ज्ञेयं कालसङ्ख्याविदां मतम् । मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ॥ 70॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,70,12955,मन्वन्तरसमं ज्ञेयमायुष्यञ्च शचीपतेः । अष्टाविंशतिमे चेन्द्रे गते ब्रह्मदिवानिशम् ॥ 71॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,71,12956,अष्टोत्तरशते वर्षे गते पातश्च ब्रह्मणः । प्रलयः प्राकृतो ज्ञेयस्तत्रादृष्टा वसुन्धरा ॥ 72॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,72,12957,जलप्लुतानि विश्वानि ब्रह्मविष्णुशिवादयः । ऋषयो ज्ञानिनः सर्वे लीनाः सत्ये चिदात्मनि ॥ 73॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,73,12958,तत्रैव प्रकृतिर्लीना तत्र प्राकृतिको लयः । लये प्राकृतिके जाते पाते च ब्रह्मणो मुने ॥ 74॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,74,12959,निमेषमात्रं कालश्च श्रीदेव्याः प्रोच्यते मुने । एवं नश्यन्ति सर्वाणि ब्रह्माण्डान्यखिलानि च ॥ 75॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,75,12960,निमेषान्तरकालेन पुनः सृष्टिक्रमेण च । एवं कतिविधा सृष्टिर्लयः कतिविधोऽपि वा ॥ 76॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,76,12961,कति कल्पा गतायाताः सङ्ख्यां जानाति कः पुमान् । सृष्टीनां च लयानां च ब्रह्माण्डानां च नारद ॥ 77॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,77,12962,ब्रह्मादीनां च ब्रह्माण्डे सङ्ख्यां जानाति कः पुमान् । ब्रह्माण्डानां च सर्वेषामीश्वरश्चैक एव सः ॥ 78॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,78,12963,सर्वेषां परमात्मा च सच्चिदानन्दरूपधृक् । ब्रह्मादयश्च तस्यांशास्तस्यांशश्च महाविराट् ॥ 79॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,79,12964,तस्यांशश्च विराट् क्षुद्रः सैवेयं प्रकृतिः परा । तस्याः सकाशात्सञ्जातोऽप्यर्धनारीश्वरस्ततः ॥ 80॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,80,12965,सैव कृष्णो द्विधाभूतो द्विभुजश्च चतुर्भुजः । चतुर्भुजश्च वैकुण्ठे गोलोके द्विभुजः स्वयम् ॥ 81॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,81,12966,ब्रह्मादितृणपर्यन्तं सर्वं प्राकृतिकं भवेत् । यद्यत्प्राकृतिकं सृष्टं सर्वं नश्वरमेव च ॥ 82॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,82,12967,एवंविधं सृष्टिहेतुं सत्यं नित्यं सनातनम् । स्वेच्छामयं परं ब्रह्म निर्गुणं प्रकृतेः परम् ॥ 83॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,83,12968,निरुपाधि निराकारं भक्तानुग्रहकातरम् । करोति ब्रह्मा ब्रह्माण्डं यज्ज्ञानात्कमलोद्भवः ॥ 84॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,84,12969,शिवो मृत्युज्जयश्चैव संहर्ता सर्वसत्त्ववित् । यज्ज्ञानाद्यस्य तपसा सर्वेशस्तु तपो महान् ॥ 85॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,85,12970,महाविभूतियुक्तश्च सर्वज्ञः सर्वदर्शनः । सर्वव्यापी सर्वपाता प्रदाता सर्वसम्पदाम् ॥ 86॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,86,12971,विष्णुः सर्वेश्वरः श्रीमान् यद्भक्त्या यस्य सेवया । महामाया च प्रकृतिः सर्वशक्तिमयीश्वरी ॥ 87॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,87,12972,सैव प्रोक्ता भगवती सच्चिदानन्दरूपिणी । यज्ज्ञानाद्यस्य तपसा यद्भक्त्या यस्य सेवया ॥ 88॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,88,12973,सावित्री देवमाता च वेदाधिष्ठातृदेवता । पूज्या द्विजानां वेदज्ञा यज्ज्ञानाद्यस्य सेवया ॥ 89॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,89,12974,सर्वविद्याधिदेवी सा पूज्या च विदुषां परा । यत्सेवया यत्तपसा सर्वविश्वेषु पूजिता ॥ 90॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,90,12975,सर्वग्रामाधिदेवी सा सर्वसम्पत्प्रदायिनी । सर्वेश्वरी सर्ववन्द्या सर्वेषां पुत्रदायिनी ॥ 91॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,91,12976,सर्वस्तुता च सर्वज्ञा सर्वदुर्गार्तिनाशिनी । कृष्णवामांशसम्भूता कृष्णप्राणाधिदेवता ॥ 92॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,92,12977,कृष्णप्राणाधिका प्रेम्णा राधिका शक्तिसेवया । सर्वाधिकं च रूपं च सौभाग्यं मानगौरवे ॥ 93॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,93,12978,कृष्णवक्षःस्थलस्थानं पत्नीत्वे प्राप सेवया । तपश्चकार सा पूर्वं शतश‍ृङ्गे च पर्वते ॥ 94॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,94,12979,दिव्यवर्षसहस्रं च पतिं प्राप्त्यर्थमेव च । जाते शक्तिप्रसादे तु दृष्ट्वा चन्द्रकलोपमाम् ॥ 95॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,95,12980,कृष्णो वक्षःस्थले कृत्वा रुरोद कृपया विभुः । वरं तस्यै ददौ सारं सर्वेषामपि दुर्लभम् ॥ 96॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,96,12981,मम वक्षःस्थले तिष्ठ मम भक्ता च शाश्वती । सौभाग्येन च मानेन प्रेम्णाथो गौरवेण च ॥ 97॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,97,12982,त्वं मे श्रेष्ठा च ज्येष्ठा च प्रेयसी सर्वयोषिताम् । वरिष्ठा च गरिष्ठा च संस्तुता पूजिता मया ॥ 98॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,98,12983,सततं तव साध्योऽहं वश्यश्च प्राणवल्लभे । इत्युक्त्वा च जगन्नाथश्चकार ललनां ततः ॥ 99॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,99,12984,सपत्नीरहितां तां च चकार प्राणवल्लभाम् । अन्या या याश्च ता देव्यः पूजिताः शक्तिसेवया ॥ 100॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,100,12985,तपस्तु यादृशं यासां तादृक्तादृक्फलं मुने । दिव्यवर्षसहस्रं च तपस्तप्त्वा हिमाचले ॥ 101॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,101,12986,दुर्गा च तत्पदं ध्यात्वा सर्वपूज्या बभूव ह । सरस्वती तपस्तप्त्वा पर्वते गन्धमादने ॥ 102॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,102,12987,लक्षवर्षं च दिव्यं च सर्ववन्द्या बभूव सा । लक्ष्मीर्युगशतं दिव्यं तपस्तप्त्वा च पुष्करे ॥ 103॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,103,12988,सर्वसम्पत्प्रदात्री च जाता देवीनिषेवणात् । सावित्री मलये तप्त्वा पूज्या वन्द्या बभूव सा ॥ 104॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,104,12989,षष्टिवर्षसहस्रं च दिव्यं ध्यात्वा च तत्पदम् । शतमन्वन्तरं तप्तं शङ्करेण पुरा विभो ॥ 105॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,105,12990,शतमन्वन्तरं चेदं ब्रह्मा शक्तिं जजाप ह । शतमन्वन्तरं विष्णुस्तप्त्वा पाता बभूव ह ॥ 106॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,106,12991,दशमन्वन्तरं तप्त्वा श्रीकृष्णः परमं तपः । गोलोकं प्राप्तवान्दिव्यं मोदतेऽद्यापि यत्र हि ॥ 107॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,107,12992,दशमन्वन्तरं धर्मस्तप्त्वा वै भक्तिसंयुतः । सर्वप्राणः सर्वपूज्यः सर्वाधारो बभूव सः ॥ 108॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,108,12993,एवं देव्याश्च तपसा सर्वे देवाश्च पूजिताः । मुनयो मनवो भूपा ब्राह्मणाश्चैव पूजिताः ॥ 109॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,109,12994,एवं ते कथितं सर्वं पुराणं सयथागमम् । गुरुवक्त्राद्यथा ज्ञातं किं भूयः श्रोतुमिच्छसि ॥ 110॥ 9,९.८,अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।,110,12995,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे कलिमाहात्म्यवर्णनं नामाष्टमोऽध्यायः ॥ ९.८॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,0,12996,नारद उवाच । देव्या निमेषमात्रेण ब्रह्मणः पात एव च । तस्य पातः प्राकृतिकः प्रलयः परिकीर्तितः ॥ 1॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,1,12997,प्रलये प्राकृते चोक्ता तत्रादृष्टा वसुन्धरा । जलप्लुतानि विश्वानि सर्वे लीनाः परात्मनि ॥ 2॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,2,12998,वसुन्धरा तिरोभूता कुत्र वा सा च तिष्ठति । सृष्टेर्विधानसमये साविर्भूता कथं पुनः ॥ 3॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,3,12999,कथं बभूव सा धन्या मान्या सर्वाश्रया जया । तस्याश्च जन्मकथनं वद मङ्गलकारणम् ॥ 4॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,4,13000,श्रीनारायण उवाच । सर्वादिसृष्टौ सर्वेषां जन्म देव्या इति श्रुतिः । आविर्भावस्तिरोभावः सर्वेषु प्रलयेषु च ॥ 5॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,5,13001,श्रूयतां वसुधाजन्म सर्वमङ्गलकारणम् । विघ्ननिघ्नकरं पापनाशनं पुण्यवर्धनम् ॥ 6॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,6,13002,अहो केचिद्वदन्तीति मधुकैटभमेदसा । बभूव वसुधा धन्या तद्विरुद्धमतः श‍ृणु ॥ 7॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,7,13003,ऊचतुस्तौ पुरा विष्णुं तुष्टौ युद्धेन तेजसा । आवां वध्यौ न यत्रोर्वी पाथसा संवृतेति च ॥ 8॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,8,13004,तयोर्जीवनकाले न प्रत्यक्षा साभवत्स्फुटम् । ततो बभूव मेदश्च मरणानन्तरं तयोः ॥ 9॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,9,13005,मेदिनीति च विख्यातेत्युक्तमेतन्मतं श‍ृणु । जलधौता कृता पूर्वं वर्धिता मेदसा यतः ॥ 10॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,10,13006,कथयामि ते तज्जन्म सार्थकं सर्वमङ्गलम् । पुरा श्रुतं यच्छ्रुत्युक्तं धर्मवक्त्राच्च पुष्करे ॥ 11॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,11,13007,महाविराट्शरीरस्य जलस्थस्य चिरं स्फुटम् । मनो बभूव कालेन सर्वाङ्गव्यापकं ध्रुवम् ॥ 12॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,12,13008,तच्च प्रविष्टं सर्वेषां तल्लोम्नां विवरेषु च । कालेन महता पश्चाद् बभूव वसुधा मुने ॥ 13॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,13,13009,प्रत्येकं प्रतिलोम्नां च कूपेषु संस्थिता सदा । आविर्भूता तिरोभूता सजला च पुनः पुनः ॥ 14॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,14,13010,आविर्भूता सृष्टिकाले तज्जलोपर्युपस्थिता । प्रलये च तिरोभूता जलस्याभ्यन्तरे स्थिता ॥ 15॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,15,13011,प्रतिविश्वेषु वसुधा शैलकाननसंयुता । सप्तसागरसंयुक्ता सप्तद्वीपसमन्विता ॥ 16॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,16,13012,हेमाद्रिमेरुसंयुक्ता ग्रहचन्द्रार्कसंयुता । ब्रह्मविष्णुशिवाद्यैश्च सुरैर्लोकैस्तदाज्ञया ॥ 17॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,17,13013,पुण्यतीर्थसमायुक्ता पुण्यभारतसंयुता । काञ्चनीभूमिसंयुक्ता सप्तस्वर्गसमन्विता ॥ 18॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,18,13014,पातालसप्तं तदधस्तदूर्ध्वं ब्रह्मलोकतः । ध्रुवलोकश्च तत्रैव सर्वं विश्वं च तत्र वै ॥ 19॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,19,13015,एवं सर्वाणि विश्वानि पृथिव्यां निर्मितानि च । नश्वराणि च विश्वानि सर्वाणि कृत्रिमाणि वै ॥ 20॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,20,13016,प्रलये प्राकृते चैव ब्रह्मणश्च निपातने । महाविराडादिसृष्टौ सृष्टः कृष्णेन चात्मना ॥ 21॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,21,13017,नित्यौ च स्थितिप्रलयौ काष्ठाकालेश्वरैः सह । नित्याधिष्ठातृदेवी सा वाराहे पूजिता सुरैः ॥ 22॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,22,13018,मुनिभिर्मनुभिर्विप्रैर्गन्धर्वादिभिरेव च । विष्णोर्वराहरूपस्य पत्नी सा श्रुतिसम्मता ॥ 23॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,23,13019,तत्पुत्रो मङ्गलो ज्ञेयो घटेशो मङ्गलात्मजः । नारद उवाच । पूजिता केन रुपेण वाराहे च सुरैर्मही ॥ 24॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,24,13020,वाराहे चैव वाराही सर्वैः सर्वाश्रया सती । मूलप्रकृतिसम्भूता पञ्चीकरणमार्गतः ॥ 25॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,25,13021,तस्याः पूजाविधानं चाप्यधश्चोर्ध्वमनेकशः । मङ्गलं मङ्गलस्यापि जन्म वासं वद प्रभो ॥ 26॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,26,13022,श्रीनारायण उवाच । वाराहे च वराहश्च ब्रह्मणा संस्तुतः पुरा । उद्दधार महीं हत्वा हिरण्याक्षं रसातलम् ॥ 27॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,27,13023,जले तां स्थापयामास पद्मपत्रं यथा हृदे । तत्रैव निर्ममे ब्रह्मा विश्वं सर्वं मनोहरम् ॥ 28॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,28,13024,दृष्ट्वा तदधिदेवीं च सकामां कामुको हरिः । वराहरूपी भगवान् कोटिसूर्यसमप्रभः ॥ 29॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,29,13025,कृत्वा रतिकलां सर्वां मूर्तिं च सुमनोहराम् । क्रीडाञ्चकार रहसि दिव्यवर्षमहर्निशम् ॥ 30॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,30,13026,सुखसम्भोगसंस्पर्शान्मूर्च्छां सम्प्राप सुन्दरी । विदग्धाया विदग्धेन सङ्गमोऽतिसुखप्रदः ॥ 31॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,31,13027,विष्णुस्तदङ्गसंश्लेषाद् बुबुधे न दिवानिशम् । वर्षान्ते चेतनां प्राप्य कामी तत्याज कामुकीम् ॥ 32॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,32,13028,पूर्वरूपं वराहं च दधार स च लीलया । पूजाञ्चकार तां देवीं ध्यात्वा च धरणीं सतीम् ॥ 33॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,33,13029,धूपैर्दीपैश्च नैवेद्यैः सिन्दूरैरनुलेपनैः । वस्त्रैः पुष्पैश्च बलिभिः सम्पूज्योवाच तां हरिः ॥ 34॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,34,13030,श्रीभगवानुवाच । सर्वाधारा भव शुभे सर्वैः सम्पूजिता सुखम् । मुनिभिर्मनुभिर्देवैः सिद्धैश्च दानवादिभिः ॥ 35॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,35,13031,अम्बुवाचीत्यागदिने गृहारम्भे प्रवेशने । वापीतडागारम्भे च गृहे च कृषिकर्मणि ॥ 36॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,36,13032,तव पूजां करिष्यन्ति मद्वरेण सुरादयः । मूढा ये न करिष्यन्ति यास्यन्ति नरकं च ते ॥ 37॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,37,13033,वसुधोवाच । वहामि सर्वं वाराहरूपेणाहं तवाज्ञया । लीलामात्रेण भगवन् विश्वं च सचराचरम् ॥ 38॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,38,13034,मुक्तां शुक्तिं हरेरर्चां शिवलिङ्गं शिवां तथा । शङ्खं प्रदीपं यन्त्रं च माणिक्यं हीरकं तथा ॥ 39॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,39,13035,यज्ञसूत्रं च पुष्पं च पुस्तकं तुलसीदलम् । जपमालां पुष्पमालां कर्पूरं च सुवर्णकम् ॥ 40॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,40,13036,गोरोचनं चन्दनं च शालग्रामजलं तथा । एतान्वोडुमशक्ताहं क्लिष्टा च भगवञ्छृणु ॥ 41॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,41,13037,श्रीभगवानुवाच । द्रव्याण्येतानि ये मूढा अर्पयिष्यन्ति सुन्दरि । यास्यन्ति कालसूत्रं ते दिव्यं वर्षशतं त्वयि ॥ 42॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,42,13038,इत्येवमुक्त्वा भगवान् विरराम च नारद । बभूव तेन गर्भेण तेजस्वी मङ्गलग्रहः ॥ 43॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,43,13039,पूजाञ्चक्रुः पृथिव्याश्च ते सर्वे चाज्ञया हरेः । कण्वशाखोक्तध्यानेन तुष्टुवुश्च स्तवेन ते ॥ 44॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,44,13040,ददुर्मूलेन मन्त्रेण नैवेद्यादिकमेव च । संस्तुता त्रिषु लोकेषु पूजिता सा बभूव ह ॥ 45॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,45,13041,नारद उवाच । किं ध्यानं स्तवनं तस्या मूलमन्त्रं च किं वद । गूढं सर्वपुराणेषु श्रोतुं कौतूहलं मम ॥ 46॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,46,13042,श्रीनारायण उवाच । आदौ च पृथिवी देवी वराहेण च पूजिता । ततो हि ब्रह्मणा पश्चामृजिता पृथिवी तदा ॥ 47॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,47,13043,ततः सर्वैर्मुनीन्द्रैश्च मनुभिर्मानवादिभिः । ध्यानं च स्तवनं मन्त्रं श‍ृणु वक्ष्यामि नारद ॥ 48॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,48,13044,ॐ ह्रीं श्रीं क्लीं वसुधायै स्वाहेत्यनेन मन्त्रेण विष्णुना पूजिता पुरा । श्वेतपङ्कजवर्णाभां शरच्चन्द्रनिभाननाम् ॥ 49॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,49,13045,चन्दनोत्क्षिप्तसर्वाङ्गीं रत्नभूषणभूषिताम् । रत्नाधारां रत्नगर्भां रत्नाकरसमन्विताम् ॥ 50॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,50,13046,वह्निशुद्धांशुकाधानां सस्मितां वन्दितां भजे । ध्यानेनानेन सा देवी सर्वैश्च पूजिताभवत् ॥ 51॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,51,13047,स्तवनं श‍ृणु विप्रेन्द्र कण्वशाखोक्तमेव च । श्रीनारायण उवाच । जये जये जलाधारे जलशीले जलप्रदे ॥ 52॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,52,13048,यज्ञसूकरजाये त्वं जयं देहि जयावहे । मङ्गले मङ्गलाधारे माङ्गल्ये मङ्गलप्रदे ॥ 53॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,53,13049,मङ्गलार्थं मङ्गलेशे मङ्गलं देहि मे भवे । सर्वाधारे च सर्वज्ञे सर्वशक्तिसमन्विते ॥ 54॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,54,13050,सर्वकामप्रदे देवि सर्वेष्टं देहि मे भवे । पुण्यस्वरूपे पुण्यानां बीजरूपे सनातनि ॥ 55॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,55,13051,पुण्याश्रये पुण्यवतामालये पुण्यदे भवे । सर्वसस्यालये सर्वसस्याढ्ये सर्वसस्यदे ॥ 56॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,56,13052,सर्वसस्यहरे काले सर्वसस्यात्मिके भवे । भूमे भूमिपसर्वस्वे भूमिपालपरायणे ॥ 57॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,57,13053,भूमिपानां सुखकरे भूमिं देहि च भूमिदे । इदं स्तोत्रं महापुण्यं प्रातरुत्थाय यः पठेत् ॥ 58॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,58,13054,कोटिजन्मसु स भवेद् बलवान्भूमिपेश्वरः । भूमिदानकृतं पुण्यं लभ्यते पठनाज्जनैः ॥ 59॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,59,13055,भूमिदानहरात्पापान्मुच्यते नात्र संशयः । अम्बुवाचीभूकरणपापात्स मुच्यते ध्रुवम् ॥ 60॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,60,13056,अन्यकूपे कूपखननपापात्स मुच्यते ध्रुवम् । परभूमिहरात्पापान्मुच्यते नात्र संशयः ॥ 61॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,61,13057,भूमौ वीर्यत्यागपापाद्भूमौ दीपादिस्थापनात् । पापेन मुच्यते सोऽपि स्तोत्रस्य पठनान्मुने ॥ 62॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,62,13058,अश्वमेधशतं पुण्यं लभते नात्र संशयः । भूमिदेव्या महास्तोत्रं सर्वकल्याणकारकम् ॥ 63॥ 9,९.९,नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।,63,13059,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे भूमिस्तोत्रवर्णनं नाम नवमोऽध्यायः ॥ ९.९॥ 9,९.१०,दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् ।,0,13060,नारद उवाच । भूमिदानकृतं पुण्यं पापं तद्धरणेन च । परभूहरणात्पापं परकूपे खनने तथा ॥ 1॥ 9,९.१०,दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् ।,1,13061,अम्बुवाच्यां भूखनने वीर्यस्य त्याग एव च । दीपादिस्थापनात्पापं श्रोतुमिच्छामि यत्नतः ॥ 2॥ 9,९.१०,दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् ।,2,13062,अन्यद्वा पृथिवीजन्यं पापं यत्पृच्छते परम् । यदस्ति तत्प्रतीकारं वद वेदविदांवर ॥ 3॥ 9,९.१०,दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् ।,3,13063,श्रीनारायण उवाच । वितस्तिमात्रभूमिं च यो ददाति च भारते । सन्ध्यापूताय विप्राय स याति शिवमन्दिरम् ॥ 4॥ 9,९.१०,दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् ।,4,13064,भूमिं च सर्वसस्याढ्यां ब्राह्मणाय ददाति च । भूमिरेणुप्रमाणाब्दमन्ते विष्णुपदे स्थितिः ॥ 5॥ 9,९.१०,दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् ।,5,13065,ग्रामं भूमिं च धान्यं च ब्राह्मणाय ददाति यः । सर्वपापाद्विनिर्मुक्तौ चोभौ देवीपुरःस्थितौ ॥ 6॥ 9,९.१०,दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् ।,6,13066,भूमिदानं च तत्काले यः साधुश्चानुमोदते । स च प्रयाति वैकुण्ठे मित्रगोत्रसमन्वितः ॥ 7॥ 9,९.१०,दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् ।,7,13067,स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः । स तिष्ठति कालसूत्रे यावच्चन्द्रदिवाकरौ ॥ 8॥ 9,९.१०,दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् ।,8,13068,तत्युत्रपौत्रप्रभृतिर्भूमिहीनः श्रिया हतः । पुत्रहीनो दरिद्रश्च घोरं याति च रौरवम् ॥ 9॥ 9,९.१०,दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् ।,9,13069,गवां मार्गं विनिष्कृष्य यश्च सस्यं ददाति च । दिव्यं वर्षशतं चैव कुम्भीपाके च तिष्ठति ॥ 10॥ 9,९.१०,दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् ।,10,13070,गोष्ठं तडागं निष्कृष्य मार्गे सस्यं ददाति यः । स तिष्ठत्यसिपत्रे च यावदिन्द्राश्चतुर्दश ॥ 11॥ 9,९.१०,दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् ।,11,13071,पञ्चपिण्डाननुद्धृत्य परकूपे च स्नाति यः । प्राप्नोति नरकं चैव स्नानं निष्फलमेव च ॥ 12॥ 9,९.१०,दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् ।,12,13072,कामी भूमौ च रहसि वीर्यत्यागं करोति यः । भूमिरेणुप्रमाणं च वर्षं तिष्ठति रौरवे ॥ 13॥ 9,९.१०,दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् ।,13,13073,अम्बुवाच्यां भूकरणं यः करोति च मानवः । स याति कृमिदंशं च स्थितिस्तत्र चतुर्युगम् ॥ 14॥ 9,९.१०,दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् ।,14,13074,परकीये लुप्तकूपे कूपं मूढः करोति यः । पुष्करिण्यां च लुप्तायां पुष्करिणीं ददाति यः ॥ 15॥ 9,९.१०,दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् ।,15,13075,सर्वं फलं परस्यैव तप्तकुण्डं व्रजेच्च सः । तत्र तिष्ठति सन्तप्तो यावदिन्द्राश्चतुर्दश ॥ 16॥ 9,९.१०,दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् ।,16,13076,परकीये तडागे च पङ्कमुद्धृत्य चोन्मृजेत् । रेणुप्रमाणवर्षं च ब्रह्मलोके वसेन्नरः ॥ 17॥ 9,९.१०,दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् ।,17,13077,पिण्डं पित्रे भूमिभर्तुर्न प्रदाय च मानवः । श्राद्धं करोति यो मूढो नरकं याति निश्चितम् ॥ 18॥ 9,९.१०,दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् ।,18,13078,भूमौ दीपं योऽर्पयति स चान्धः सप्तजन्मसु । भूमौ शङ्खं च संस्थाप्य कुष्ठं जन्मान्तरे लभेत् ॥ 19॥ 9,९.१०,दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् ।,19,13079,मुक्तां माणिक्यहीरौ च सुवर्णं च मणिं तथा । पञ्च संस्थापयेद्भूमौ स चान्धः सप्तजन्मसु ॥ 20॥ 9,९.१०,दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् ।,20,13080,शिवलिङ्गं शिवामर्चां यश्चार्पयति भूतले । शतमन्वन्तरं यावत्कृमिभक्षः स तिष्ठति ॥ 21॥ 9,९.१०,दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् ।,21,13081,शङ्खं यन्त्रं शिलातोयं पुष्पं च तुलसीदलम् । यश्चार्पयति भूमौ च स तिष्ठेन्नरके ध्रुवम् ॥ 22॥ 9,९.१०,दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् ।,22,13082,जपमालां पुष्पमालां कर्पूरं रोचनं तथा । यो मूढश्चार्पयेद्भूमौ स याति नरकं ध्रुवम् ॥ 23॥ 9,९.१०,दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् ।,23,13083,भूमौ चन्दनकाष्ठं च रुद्राक्षं कुशमूलकम् । संस्थाप्य भूमौ नरके वसेन्मन्वन्तरावधि ॥ 24॥ 9,९.१०,दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् ।,24,13084,पुस्तकं यज्ञसूत्रं च भूमौ संस्थापयेन्नरः । न भवेद्विप्रयोनौ च तस्य जन्मान्तरे जनिः ॥ 25॥ 9,९.१०,दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् ।,25,13085,ब्रह्महत्यासमं पापमिह वै लभते ध्रुवम् । ग्रन्धियुक्तं यज्ञसूत्रं पूज्यं च सर्ववर्णकैः ॥ 26॥ 9,९.१०,दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् ।,26,13086,यज्ञं कृत्वा तु यो भूमिं क्षीरेण न हि सिञ्चति । स याति तप्तभूमिं च सन्तप्तः सप्तजन्मसु ॥ 27॥ 9,९.१०,दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् ।,27,13087,भूकम्पे ग्रहणे यो हि करोति खननं भुवः । जन्मान्तरे महापापो ह्यङ्गहीनो भवेद् ध्रुवम् ॥ 28॥ 9,९.१०,दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् ।,28,13088,भवनं यत्र सर्वेषां भूमिस्तेन प्रकीर्तिता । काश्यपी कश्यपस्येयमचला स्थिररूपतः ॥ 29॥ 9,९.१०,दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् ।,29,13089,विश्वम्भरा धारणाच्चानन्तानन्तस्वरूपतः । पृथिवी पृथुकन्यात्वाद्विस्तृतत्वान्महामुने ॥ 30॥ 9,९.१०,दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् ।,30,13090,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनं नाम दशमोऽध्यायः ॥ ९.१०॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,0,13091,नारद उवाच । श्रुतं पृथिव्युपाख्यानमतीव सुमनोहरम् । गङ्गोपाख्यानमधुना वद वेदविदांवर ॥ 1॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,1,13092,भारते भारतीशापात्सा जगाम सुरेश्वरी । विष्णुस्वरूपा परमा स्वयं विष्णुपदीति च ॥ 2॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,2,13093,कथं कुत्र युगे केन प्रार्थिता प्रेरिता पुरा । तत्क्रमं श्रोतुमिच्छामि पापघ्नं पुण्यदं शुभम् ॥ 3॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,3,13094,श्रीनारायण उवाच । राजराजेश्वरः श्रीमान् सगरः सूर्यवंशजः । तस्य भार्या च वैदर्भी शैव्या च द्वे मनोहरे ॥ 4॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,4,13095,तत्पत्न्यामेकपुत्रश्च बभूव सुमनोहरः । असमञ्ज इति ख्यातः शैव्यायां कुलवर्धनः ॥ 5॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,5,13096,अन्या चाराधयामास शङ्करं पुत्रकामुकी । बभूव गर्भस्तस्याश्च हरस्य च वरेण ह ॥ 6॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,6,13097,गते शताब्दे पूर्णे च मांसपिण्डं सुषाव सा । तद् दृष्ट्वा सा शिवं ध्यात्वा रुरोदोच्चैः पुनः पुनः ॥ 7॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,7,13098,शम्भुर्ब्राह्मणरूपेण तत्समीपं जगाम ह । चकार संविभज्यैतत्पिण्डं षष्टिसहस्रधा ॥ 8॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,8,13099,सर्वे बभूवुः पुत्राश्च महाबलपराक्रमाः । ग्रीष्ममध्याह्नमार्तण्डप्रभामुष्टकलेवराः ॥ 9॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,9,13100,कपिलस्य मुनेः शापाद् बभूवुर्भस्मसाच्च ते । राजा रुरोद तच्छ्रुत्वा जगाम गहने वने ॥ 10॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,10,13101,तपश्चकारासमञ्जो गङ्गानयनकारणात् । लक्षवर्षं तपस्तप्त्वा ममार कालयोगतः ॥ 11॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,11,13102,अंशुमांस्तस्य तनयो गङ्गानयनकारणात् । तपः कृत्वा लक्षवर्षं ममार कालयोगतः ॥ 12॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,12,13103,भगीरथस्तस्य पुत्रो महाभागवतः सुधीः । वैष्णवो विष्णुभक्तश्च गुणवानजरामरः ॥ 13॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,13,13104,तपः कृत्वा लक्षवर्षं गङ्गानयनकारणात् । ददर्श कृष्णं ग्रीष्मस्थसूर्यकोटिसमप्रभम् ॥ 14॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,14,13105,द्विभुजं मुरलीहस्तं किशोरं गोपवेषिणम् । गोपालसुन्दरीरूपं भक्तानुग्रहरूपिणम् ॥ 15॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,15,13106,स्वेच्छामयं परं ब्रह्म परिपूर्णतमं प्रभुम् । ब्रह्मविष्णुशिवाद्यैश्च स्तुतं मुनिगणैर्नुतम् ॥ 16॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,16,13107,निर्लिप्तं साक्षिरूपं च निर्गुणं प्रकृतेः परम् । ईषद्धास्यप्रसन्नास्यं भक्तानुग्रहकारणम् ॥ 17॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,17,13108,वह्निशुद्धांशुकाधानं रत्नभूषणभूषितम् । तुष्टाव दृष्ट्वा नृपतिः प्रणम्य च पुनः पुनः ॥ 18॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,18,13109,लीलया च वरं प्राप वाञ्छितं वंशतारणम् । कृत्वा च स्तवनं दिव्यं पुलकाङ्कितविग्रहः ॥ 19॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,19,13110,श्रीभगवानुवाच । भारतं भारतीशापाद् गच्छ शीघ्रं सुरेश्वरि । सगरस्य सुतान्सर्वान्पूतान्कुरु ममाज्ञया ॥ 20॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,20,13111,त्वत्स्पर्शवायुना पूता यास्यन्ति मम मन्दिरम् । बिभ्रतो मम मूर्तीश्च दिव्यस्यन्दनगामिनः ॥ 21॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,21,13112,मत्पार्षदा भविष्यन्ति सर्वकालं निरामयाः । समुच्छिद्य कर्मभोगान् कृताञ्जन्मनि जन्मनि ॥ 22॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,22,13113,कोटिजन्मार्जितं पापं भारते यत्कृतं नृभिः । गङ्गाया वातस्पर्शेन नश्यतीति श्रुतौ श्रुतम् ॥ 23॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,23,13114,स्पर्शनाद्दर्शनाद्देव्याः पुण्यं दशगुणं ततः । मौसलस्नानमात्रेण सामान्यदिवसे नृणाम् ॥ 24॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,24,13115,शतकोटिजन्मपापं नश्यतीति श्रुतौ श्रुतम् । यानि कानि च पापानि ब्रह्महत्यादिकानि च ॥ 25॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,25,13116,जन्मसङ्ख्यार्जितान्येव कामतोऽपि कृतानि च । तानि सर्वाणि नश्यन्ति मौसलस्नानतो नृणाम् ॥ 26॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,26,13117,पुण्याहस्नानतः पुण्यं वेदा नैव वदन्ति च । किञ्चिद्वदन्ति ते विप्र फलमेव यथागमम् ॥ 27॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,27,13118,ब्रह्मविष्णुशिवाद्याश्च सर्वं नैव वदन्ति च । सामान्यदिवसस्नानसङ्कल्पं श‍ृणु सुन्दरि ॥ 28॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,28,13119,पुण्यं दशगुणं चैव मौसलस्नानतः परम् । ततस्त्रिंशद्गुणं पुण्यं रविसङ्क्रमणे दिने ॥ 29॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,29,13120,अमायां चापि तत्तुल्यं द्विगुणं दक्षिणायने । ततो दशगुणं पुण्यं नराणामुत्तरायणे ॥ 30॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,30,13121,चातुर्मास्यां पौर्णमास्यामनन्तं पुण्यमेव च । अक्षयायां च तत्तुल्यं चैतद्वेदे निरूपितम् ॥ 31॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,31,13122,असङ्ख्यपुण्यफलदमेतेषु स्नानदानकम् । सामान्यदिवसस्नानाद्दानाच्छतगुणं फलम् ॥ 32॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,32,13123,मन्वन्तराद्यायां तिथौ युगाद्यायां तथैव च । माघस्य सितसप्तम्यां भीष्माष्टम्यां तथैव च ॥ 33॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,33,13124,अथाप्यशोकाष्टम्यां च नवम्यां च तथा हरेः । ततोऽपि द्विगुणं पुण्यं नन्दायां तव दुर्लभम् ॥ 34॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,34,13125,दशहरादशम्यां तु युगाद्यादिसमं फलम् । नन्दासमं च वारुण्यां महत्पूर्वे चतुर्गुणम् ॥ 35॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,35,13126,ततश्चतुर्गुणं पुण्यं द्विमहत्पूर्वके सति । पुण्यं कोटिगुणं चैव सामान्यस्नानतोऽपि यत् ॥ 36॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,36,13127,चन्द्रोपरागसमये सूर्ये दशगुणं ततः । पुण्यमर्धोदये काले ततः शतगुणं फलम् ॥ 37॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,37,13128,इत्येवमुक्त्वा देवेशो विरराम तयोः पुरः । तमुवाच ततो गङ्गा भक्तिनम्राऽऽत्मकन्धरा ॥ 38॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,38,13129,गङ्गोवाच । यामि चेद्भारतं नाथ भारतीशापतः पुरा । तवाज्ञया च राजेन्द्र तपसा चैव साम्प्रतम् ॥ 39॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,39,13130,दास्यन्ति पापिनो मह्यं पापानि यानि कानि च । तानि मे केन नश्यन्ति तमुपायं वद प्रभो ॥ 40॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,40,13131,कतिकालं परिमितं स्थितिर्मे तत्र भारते । कदा यास्यामि देवेश तद्विष्णोः परमं पदम् ॥ 41॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,41,13132,ममान्यद्वाञ्छितं यद्यत्सर्वं जानासि सर्ववित् । सर्वान्तरात्मन् सर्वज्ञ तदुपायं वद प्रभो ॥ 42॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,42,13133,श्रीभगवानुवाच । जानामि वाञ्छितं गङ्गे तव सर्वं सुरेश्वरि । पतिस्ते द्रवरूपाया लवणोदो भविष्यति ॥ 43॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,43,13134,स ममांशस्वरूपश्च त्वं च लक्ष्मीस्वरूपिणी । विदग्धाया विदग्धेन सङ्गमो गुणवान् भुवि ॥ 44॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,44,13135,यावत्यः सन्ति नद्यश्च भारत्याद्याश्च भारते । सौभाग्या त्वं च तास्वेव लवणोदस्य सौरते ॥ 45॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,45,13136,अद्यप्रभृति देवेशि कलेः पञ्चसहस्रकम् । वर्षं स्थितिस्ते भारत्याः शापेन भारते भुवि ॥ 46॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,46,13137,नित्यं त्वमब्धिना सार्धं करिष्यसि रहो रतिम् । त्वमेव रसिका देवि रसिकेन्द्रेण संयुता ॥ 47॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,47,13138,त्वां स्तोष्यन्ति च स्तोत्रेण भगीरथकृतेन च । भारतस्था जनाः सर्वे पूजयिष्यन्ति भक्तितः ॥ 48॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,48,13139,कण्वशाखोक्तध्यानेन ध्यात्वा त्वां पूजयिष्यति । यः स्तौति प्रणमेन्नित्यं सोऽश्वमेधफलं लभेत् ॥ 49॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,49,13140,गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शतैरपि । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ 50॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,50,13141,सहस्रपापिनां स्नानाद्यत्पापं ते भविष्यति । प्रकृतेर्भक्तसंस्पर्शादेव तद्धि विनङ्क्ष्यति ॥ 51॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,51,13142,पापिनां तु सहस्राणां शवस्पर्शेन यत्त्वयि । तन्मन्त्रोपासकस्नानात्तदघं च विनङ्क्ष्यति ॥ 52॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,52,13143,तत्रैव त्वमधिष्ठानं करिष्यस्यघमोचनम् । सार्धं सरिद्भिः श्रेष्ठाभिः सरस्वत्यादिभिः शुभे ॥ 53॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,53,13144,तत्तु तीर्थं भवेत्सद्यो यत्र त्वद्गुणकीर्तनम् । त्वद्रेणुस्पर्शमात्रेण पूतो भवति पातकी ॥ 54॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,54,13145,रेणुप्रमाणवर्षं च देवीलोके वसेद् ध्रुवम् । ज्ञानेन त्वयि ये भक्त्या मन्नामस्मृतिपूर्वकम् ॥ 55॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,55,13146,समुत्सृजन्ति प्राणांश्च ते गच्छन्ति हरेः पदम् । पार्षदप्रवरास्ते च भविष्यन्ति हरेश्चिरम् ॥ 56॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,56,13147,लयं प्राकृतिकं ते च द्रक्ष्यन्ति चाप्यसङ्ख्यकम् । मृतस्य बहुपुण्येन तच्छवं त्वयि विन्यसेत् ॥ 57॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,57,13148,प्रयाति स च वैकुण्ठं यावदह्नः स्थितिस्त्वयि । कायव्यूहं ततः कृत्वा भोजयित्वा स्वकर्मकम् ॥ 58॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,58,13149,तस्मै ददामि सारूप्यं करोमि तं च पार्षदम् । अज्ञानी त्वज्जलस्पर्शाद्यदि प्राणान्समुत्सृजेत् ॥ 59॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,59,13150,तस्मै ददामि सालोक्यं करोमि तं च पार्षदम् । अन्यत्र वा त्यजेत्प्राणांस्त्वन्नामस्मृतिपूर्वकम् ॥ 60॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,60,13151,तस्मै ददामि सालोक्यं यावद्वै ब्रह्मणो वयः । अन्यत्र वा त्यजेत्प्राणांस्त्वन्नामस्मृतिपूर्वकम् ॥ 61॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,61,13152,तस्मै ददामि सारूप्यमसङ्ख्यं प्राकृतं लयम् । रत्नेन्द्रसारनिर्माणयानेन सह पार्षदैः ॥ 62॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,62,13153,सद्यः प्रयाति गोलोकं मम तुल्यो भवेद् ध्रुवम् । तीर्थेऽप्यतीर्थे मरणे विशेषो नास्ति कश्चन ॥ 63॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,63,13154,मन्मन्त्रोपासकानां तु नित्यं नैवेद्यभोजिनाम् । पूतं कर्तुं सशक्तो हि लीलया भुवनत्रयम् ॥ 64॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,64,13155,रत्नेन्द्रसारयानेन गोलोकं सम्प्रयान्ति च । मद्भक्ता बान्धवा येषां तेऽपि पश्वादयोऽपि हि ॥ 65॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,65,13156,प्रयान्ति रत्नयानेन गोलोकं चातिदुर्लभम् । यत्र यत्र स्मृतास्ते च ज्ञानेन ज्ञानिनः सति ॥ 66॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,66,13157,जीवन्मुक्ताश्च ते पूता मद्भक्तेः संविधानतः । इत्युक्त्वा श्रीहरिस्तांश्च प्रत्युवाच भगीरथम् ॥ 67॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,67,13158,स्तुहि गङ्गामिमां भक्त्या पूजां च कुरु साम्प्रतम् । भगीरथस्तां तुष्टाव पूजयामास भक्तितः ॥ 68॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,68,13159,कौथुमोक्तेन ध्यानेन स्तोत्रेणापि पुनः पुनः । प्रणनाम च श्रीकृष्णं परमात्मानमीश्वरम् ॥ 69॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,69,13160,भगीरथश्च गङ्गा च सोऽन्तर्धानं चकार ह । नारद उवाच । केन ध्यानेन स्तोत्रेण केन पूजाक्रमेण च ॥ 70॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,70,13161,पूजां चकार नृपतिर्वद वेदविदांवर । श्रीनारायण उवाच । स्नात्वा नित्यक्रियां कृत्वा धृत्वा धौते च वाससी ॥ 71॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,71,13162,सम्पूज्य देवषट्कं च संयतो भक्तिपूर्वकम् । गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ॥ 72॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,72,13163,सम्पूज्य देवषट्कं च सोऽधिकारी च पूजने । गणेशं विघ्ननाशाय आरोग्याय दिवाकरम् ॥ 73॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,73,13164,वह्निं शौचाय विष्णुं च लक्ष्यर्थं पूजयेन्नरः । शिवं ज्ञानाय ज्ञानेशं शिवां च मुक्तिसिद्धये ॥ 74॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,74,13165,सम्पूज्यैताँल्लभेत्प्राज्ञो विपरीतमतोऽन्यथा । दध्यावनेन ध्यानेन तद्ध्यानं श‍ृणु नारद ॥ 75॥ 9,९.११,एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,75,13166,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे गङ्गोपाख्यानवर्णनं नामैकादशोऽध्यायः ॥ ९.११॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,0,13167,श्रीनारायण उवाच । ध्यानं च कण्वशाखोक्तं सर्वपापप्रणाशनम् । श्वेतपङ्कजवर्णाभां गङ्गां पापप्रणाशिनीम् ॥ 1॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,1,13168,कृष्णविग्रहसम्भूतां कृष्णतुल्यां परां सतीम् । वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ॥ 2॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,2,13169,शरत्पूर्णेन्दुशतकमृष्टशोभाकरां पराम् । ईषद्धास्यप्रसन्नास्यां शश्वत्सुस्थिरयौवनाम् ॥ 3॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,3,13170,नारायणप्रियां शान्तां तत्सौभाग्यसमन्विताम् । बिभ्रतीं कबरीभारं मालतीमाल्यसंयुतम् ॥ 4॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,4,13171,सिन्दूरबिन्दुललितं सार्धं चन्दनबिन्दुभिः । कस्तूरीपत्रकं गण्डे नानाचित्रसमन्वितम् ॥ 5॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,5,13172,पक्वबिम्बविनिन्द्याच्छचार्वोष्ठपुटमुत्तमम् । मुक्तापङ्क्तिप्रभामुष्टदन्तपङ्क्तिमनोरमम् ॥ 6॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,6,13173,सुचारुवक्त्रनयनं सकटाक्षं मनोहरम् । कठिनं श्रीफलाकारं स्तनयुग्मं च बिभ्रतीम् ॥ 7॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,7,13174,बृहच्छ्रोणि सुकठिनां रम्भास्तम्भविनिन्दिताम् । स्थलपद्मप्रभामुष्टपादपद्मयुगं वरम् ॥ 8॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,8,13175,रत्नपादुकसंयुक्तं कुङ्कुमाक्तं सयावकम् । देवेन्द्रमौलिमन्दारमकरन्दकणारुणम् ॥ 9॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,9,13176,सुरसिद्धमुनीन्द्रैश्च दत्तार्घसंयुतं सदा । तपस्विमौलिनिकरभ्रमरश्रेणिसंयुतम् ॥ 10॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,10,13177,मुक्तिप्रदं मुमुक्षूणां कामिनां सर्वभोगदम् । वरां वरेण्यां वरदां भक्तानुग्रहकारिणीम् ॥ 11॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,11,13178,श्रीविष्णोः पददात्रीं च भजे विष्णुपदीं सतीम् । इत्यनेनैव ध्यानेन ध्यात्वा त्रिपथगां शुभाम् ॥ 12॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,12,13179,दत्त्वा सम्पूजयेद् ब्रह्मन्नुपचाराणि षोडश । आसनं पाद्यमर्ध्यं च स्नानीयं चानुलेपनम् ॥ 13॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,13,13180,धूपं दीपं च नैवेद्यं ताम्बूलं शीतलं जलम् । वसनं भूषणं माल्यं गन्धमाचमनीयकम् ॥ 14॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,14,13181,मनोहरं सुतल्पं च देयान्येतानि षोडश । दत्त्वा भक्त्या च प्रणमेत्संस्तूय सम्पुटाञ्जलिः ॥ 15॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,15,13182,सम्पूज्यैव प्रकारेण सोऽश्वमेधफलं लभेत् । नारद उवाच । श्रोतुमिच्छामि देवेश लक्ष्मीकान्त जगत्पते ॥ 16॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,16,13183,विष्णोर्विष्णुपदीस्तोत्रं पापघ्नं पुण्यकारकम् । श्रीनारायण उवाच । श‍ृणु नारद वक्ष्यामि पापघ्नं पुण्यकारकम् ॥ 17॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,17,13184,शिवसङ्गीतसम्मुग्धश्रीकृष्णाङ्गसमुद्भवाम् । राधाङ्गद्रवसंयुक्तां तां गङ्गां प्रणमाम्यहम् ॥ 18॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,18,13185,यज्जन्म सृष्टेरादौ च गोलोके रासमण्डले । सन्निधाने शङ्करस्य तां गङ्गां प्रणमाम्यहम् ॥ 19॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,19,13186,गोपैर्गोपीभिराकीर्णे शुभे राधामहोत्सवे । कार्तिकीपूर्णिमायां च तां गङ्गां प्रणमाम्यहम् ॥ 20॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,20,13187,कोटियोजनविस्तीर्णा दैर्घ्ये लक्षगुणा ततः । समावृता या गोलोके तां गङ्गां प्रणमाम्यहम् ॥ 21॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,21,13188,षष्टिलक्षयोजना या ततो दैर्घ्ये चतुर्गुणा । समावृता या वैकुण्ठे तां गङ्गां प्रणमाम्यहम् ॥ 22॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,22,13189,त्रिंशल्लक्षयोजना या दैर्घ्ये पञ्चगुणा ततः । आवृता ब्रह्मलोके या तां गङ्गां प्रणमाम्यहम् ॥ 23॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,23,13190,त्रिंशल्लक्षयोजना या दैर्घ्ये चतुर्गुणा ततः । आवृता शिवलोके या तां गङ्गां प्रणमाम्यहम् ॥ 24॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,24,13191,लक्षयोजनविस्तीर्णा दैर्घ्ये सप्तगुणा ततः । आवृता धुवलोके या तां गङ्गां प्रणमाम्यहम् ॥ 25॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,25,13192,लक्षयोजनविस्तीर्णा दैर्घ्ये पञ्चगुणा ततः । आवृता चन्द्रलोके या तां गङ्गां प्रणमाम्यहम् ॥ 26॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,26,13193,षष्टिसहस्रयोजना या दैर्घ्ये दशगुणा ततः । आवृता सूर्यलोके या तां गङ्गां प्रणमाम्यहम् ॥ 27॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,27,13194,लक्षयोजनविस्तीर्णा दैर्घ्ये पञ्चगुणा ततः । आवृता या तपोलोके तां गङ्गां प्रणमाम्यहम् ॥ 28॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,28,13195,सहस्रयोजनायामा दैर्घ्ये दशगुणा ततः । आवृता जनलोके या तां गङ्गां प्रणमाम्यहम् ॥ 29॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,29,13196,दशलक्षयोजना या दैर्घ्ये पञ्चगुणा ततः । आवृता या महर्लोके तां गङ्गां प्रणमाम्यहम् ॥ 30॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,30,13197,सहस्रयोजनायामा दैर्घ्ये शतगुणा ततः । आवृता या च कैलासे तां गङ्गां प्रणमाम्यहम् ॥ 31॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,31,13198,शतयोजनविस्तीर्णा दैर्घ्ये दशगुणा ततः । मन्दाकिनी येन्द्रलोके तां गङ्गां प्रणमाम्यहम् ॥ 32॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,32,13199,पाताले भोगवती च विस्तीर्णा दशयोजना । ततो दशगुणा दैर्घ्ये तां गङ्गां प्रणमाम्यहम् ॥ 33॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,33,13200,क्रोशैकमात्रविस्तीर्णा ततः क्षीणा च कुत्रचित् । क्षितौ चालकनन्दा या तां गङ्गां प्रणमाम्यहम् ॥ 34॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,34,13201,सत्ये या क्षीरवर्णा च त्रेतायामिन्दुसन्निभा । द्वापरे चन्दनाभा या तां गङ्गां प्रणमाम्यहम् ॥ 35॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,35,13202,जलप्रभा कलौ या च नान्यत्र पृथिवीतले । स्वर्गे च नित्यं क्षीराभा तां गङ्गां प्रणमाम्यहम् ॥ 36॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,36,13203,यत्तोयकणिकास्पर्शे पापिनां ज्ञानसम्भवः । ब्रह्महत्यादिकं पापं कोटिजन्मार्जितं दहेत् ॥ 37॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,37,13204,इत्येवं कथिता ब्रह्मन् गङ्गापद्मैकविंशतिः । स्तोत्ररूपं च परमं पापघ्नं पुण्यजीवनम् ॥ 38॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,38,13205,नित्यं यो हि पठेद्भक्त्या सम्पूज्य च सुरेश्वरीम् । सोऽश्वमेधफलं नित्यं लभते नात्र संशयः ॥ 39॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,39,13206,अपुत्रो लभते पुत्रं भार्याहीनो लभेत्स्त्रियम् । रोगात्प्रमुच्यते रोगी बन्धान्मुक्तो भवेद् ध्रुवम् ॥ 40॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,40,13207,अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः । यः पठेत्प्रातरुत्थाय गङ्गास्तोत्रमिदं शुभम् ॥ 41॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,41,13208,शुभं भवेच्च दुःस्वप्ने गङ्गास्नानफलं लभेत् । श्रीनारायण उवाच । स्तोत्रेणानेन गङ्गा च स्तुत्वा चैव भगीरथः ॥ 42॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,42,13209,जगाम तां गृहीत्वा च यत्र नष्टाश्च सागराः । वैकुण्ठं ते ययुस्तूर्णं गङ्गायाः स्पर्शवायुना ॥ 43॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,43,13210,भगीरथेन सा नीता तेन भागीरथी स्मृता । इत्येवं कथितं सर्वं गङ्गोपाख्यानमुत्तमम् ॥ 44॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,44,13211,पुण्यदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि । नारद उवाच । कथं गङ्गा त्रिपथगा जाता भुवनपावनी ॥ 45॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,45,13212,कुत्र वा केन विधिना तत्सर्वं वद मे प्रभो । तत्रस्थाश्च जना ये ये ते च किं चक्रुरुत्तमम् ॥ 46॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,46,13213,एतत्सर्वं तु विस्तीर्णं कृत्वा वक्तुमिहार्हसि । श्रीनारायणाय उवाच । कार्तिक्यां पूर्णिमायां तु राधायाः सुमहोत्सवः ॥ 47॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,47,13214,कृष्णः सम्पूज्य तां राधामुवास रासमण्डले । कृष्णेन पूजितां तां तु सम्पूज्य हृष्टमानसाः ॥ 48॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,48,13215,ऊषुर्ब्रह्मादयः सर्वे ऋषयः शौनकादयः । एतस्मिन्नन्तरे कृष्णसङ्गीता च सरस्वती ॥ 49॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,49,13216,जगौ सुन्दरतालेन वीणया च मनोहरम् । तुष्टो ब्रह्मा ददौ तस्यै रत्नेन्द्रसारहारकम् ॥ 50॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,50,13217,शिवो मणीन्द्रसारं तु सर्वब्रह्माण्डदुर्लभम् । कृष्णः कौस्तुभरत्नं च सर्वरत्नात्परं वरम् ॥ 51॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,51,13218,अमूल्यरत्ननिर्माणं हारसारं च राधिका । नारायणश्च भगवान् ददौ मालां मनोहराम् ॥ 52॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,52,13219,अमूल्यरत्ननिर्माणं लक्ष्मीः कनककुण्डलम् । विष्णुमाया भगवती मूलप्रकृतिरीश्वरी ॥ 53॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,53,13220,दुर्गा नारायणीशाना ब्रह्मभक्तिं सुदुर्लभाम् । धर्मबुद्धिं च धर्मश्च यशश्च विपुलं भवे ॥ 54॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,54,13221,वह्निशुद्धांशुकं वह्निर्वायुश्च मणिनूपुरान् । एतस्मिन्नन्तरे शम्भुर्ब्रह्मणा प्रेरितो मुहुः ॥ 55॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,55,13222,जगौ श्रीकृष्णसङ्गीतं रासोल्लाससमन्वितम् । मूर्च्छां प्रापुः सुराः सर्वे चित्रपुत्तलिका यथा ॥ 56॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,56,13223,कष्टेन चेतनां प्राप्य ददृशू रासमण्डले । स्थलं सर्वं जलाकीर्णं राधाकृष्णविहीनकम् ॥ 57॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,57,13224,अत्युच्चै रुरुदुः सर्वे गोपा गोप्यः सुरा द्विजाः । ध्यानेन ब्रह्मा बुबुधे सर्वं तीर्थमभीप्सितम् ॥ 58॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,58,13225,गतश्च राधया सार्धं श्रीकृष्णो द्रवतामिति । ततो ब्रह्मादयः सर्वे तुष्टुवुः परमेश्वरम् ॥ 59॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,59,13226,स्वमूर्तिं दर्शय विभो वाञ्छितं वरमेव नः । एतस्मिन्नन्तरे तत्र वाग्बभूवाशरीरिणी ॥ 60॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,60,13227,तामेव शुश्रुवुः सर्वे सुव्यक्तां मधुरान्विताम् । सर्वात्माहमियं शक्तिर्भक्तानुग्रहविग्रहा ॥ 61॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,61,13228,ममाप्यस्याश्च देहेन कर्तव्यं च किमावयोः । मनवो मानवाः सर्वे मुनयश्चैव वैष्णवाः ॥ 62॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,62,13229,मन्मन्त्रपूता मां द्रष्टुमागमिष्यन्ति मत्पदम् । मूर्तिं द्रष्टुं च सुव्यक्तां यदीच्छथ सुरेश्वराः ॥ 63॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,63,13230,करोतु शम्भुस्तत्रैवं मदीयं वाक्यपालनम् । स्वयं विधातस्त्वं ब्रह्मन्नाज्ञां कुरु जगद्गुरुम् ॥ 64॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,64,13231,कर्तुं शास्त्रविशेषं च वेदाङ्गं सुमनोहरम् । अपूर्वमन्त्रनिकरैः सर्वाभीष्टफलप्रदैः ॥ 65॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,65,13232,स्तोत्रैश्च निकरैर्ध्यानैर्युतं पूजाविधिक्रमैः । मन्मन्त्रकवचस्तोत्रं कृत्वा यत्नेन गोपनम् ॥ 66॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,66,13233,भवन्ति विमुखा येन जना मां तत्करिष्यति । सहस्रेषु शतेष्वेको मन्मन्त्रोपासको भवेत् ॥ 67॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,67,13234,जना मन्मन्त्रपूताश्च गमिष्यन्ति च मत्पदम् । अन्यथा न भविष्यन्ति सर्वे गोलोकवासिनः ॥ 68॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,68,13235,निष्कलं भविता सर्वं ब्रह्माण्डं चैव ब्रह्मणः । जनाः पञ्चप्रकाराश्च युक्ताः स्रष्टुं भवे भवे ॥ 69॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,69,13236,पृथिवीवासिनः केचित्केचित्स्वर्गनिवासिनः । इदं कर्तुं महादेवः करोति देवसंसदि ॥ 70॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,70,13237,प्रतिज्ञां सुदृढां सद्यस्ततो मूर्तिं च द्रक्ष्यति । इत्येवमुक्त्वा गगने विरराम सनातनः ॥ 71॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,71,13238,तच्छ्रुत्वा जगतां धाता तमुवाच शिवं मुदा । ब्रह्मणो वचनं श्रुत्वा ज्ञानेशो ज्ञानिनां वरः ॥ 72॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,72,13239,गङ्गातोयं करे कृत्वा स्वीकारं च चकार सः । संयुक्तं विष्णुमायाया मन्त्रौघैः शास्त्रमुत्तमम् ॥ 73॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,73,13240,वेदसारं करिष्यामि प्रतिज्ञापालनाय च । गङ्गातोयमुपस्मृश्य मिथ्या यदि वदेज्जनः ॥ 74॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,74,13241,स याति कालसूत्रं च यावद्वै ब्रह्मणो वयः । इत्युक्ते शङ्करे ब्रह्मन् गोलोके सुरसंसदि ॥ 75॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,75,13242,आविर्बभूव श्रीकृष्णो राधया सहितस्ततः । तं सुदृष्ट्वा च संहृष्टास्तुष्टुवुः पुरुषोत्तमम् ॥ 76॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,76,13243,परमानन्दपूर्णाश्च चकुश्च पुनरुत्सवम् । कालेन शम्भुर्भगवान् मुक्तिदीपं चकार सः ॥ 77॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,77,13244,इत्येवं कथितं सर्वं सुगोप्यं च सुदुर्लभम् । स एव द्रवरूपा सा गङ्गा गोलोकसम्भवा ॥ 78॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,78,13245,राधाकृष्णाङ्गसम्भूता भुक्तिमुक्तिफलप्रदा । स्थाने स्थाने स्थापिता सा कृष्णेन च परात्मना । कृष्णस्वरूपा परमा सर्वब्रह्माण्डपूजिता ॥ 79॥ 9,९.१२,द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,79,13246,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे गङ्गोपाख्यानवर्णनं नाम द्वादशोऽध्यायः ॥ ९.१२॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,0,13247,नारद उवाच । कलेः पञ्चसहस्राब्दे समतीते सुरेश्वर । क्व गता सा महाभाग तन्मे व्याख्यातुमर्हसि ॥ 1॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,1,13248,श्रीनारायण उवाच । भारतं भारतीशापात्समागत्येश्वरेच्छया । जगाम तत्र वैकुण्ठे शापान्ते पुनरेव सा ॥ 2॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,2,13249,भारती भारतं त्यक्त्वा तज्जगाम हरेः पदम् । पद्मावती च शापान्ते गङ्गा सा चैव नारद ॥ 3॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,3,13250,गङ्गा सरस्वती लक्ष्यीश्चैतास्तिस्रः प्रिया हरेः । तुलसीसहिता ब्रह्मंश्चतस्रः कीर्तिताः श्रुतौ ॥ 4॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,4,13251,नारद उवाच । केनोपायेन सा देवी विष्णुपादाब्जसम्भवा । ब्रह्मकमण्डलुस्था च श्रुता शिवप्रिया च सा ॥ 5॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,5,13252,बभूव सा मुनिश्रेष्ठ गङ्गा नारायणप्रिया । अहो केन प्रकारेण तन्मे व्याख्यातुमर्हसि ॥ 6॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,6,13253,श्रीनारायण उवाच । पुरा बभूव गोलोके सा गङ्गा द्रवरूपिणी । राधाकृष्णाङ्गसम्भूता तदंशा तत्स्वरूपिणी ॥ 7॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,7,13254,द्रवाधिष्ठातृदेवी या रूपेणाप्रतिमा भुवि । नवयौवनसम्पन्ना सर्वाभरणभूषिता ॥ 8॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,8,13255,शरन्मध्याह्नपद्मास्या सस्मिता सुमनोहरा । तप्तकाञ्चनवर्णाभा शरच्चन्द्रसमप्रभा ॥ 9॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,9,13256,स्निग्धप्रभातिसुस्निग्धा शुद्धसत्त्वस्वरूपिणी । सुपीनकठिनश्रोणिः सुनितम्बयुगन्धरा ॥ 10॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,10,13257,पीनोन्नतं सुकठिनं स्तनयुग्मं सुवर्तुलम् । सुचारुनेत्रयुगलं सुकटाक्षं सुवङ्क्रिमम् ॥ 11॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,11,13258,वङ्क्रिमं कबरीभारं मालतीमाल्यसंयुतम् । सिन्दूरबिन्दुललितं सार्धं चन्दनबिन्दुभिः ॥ 12॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,12,13259,कस्तूरीपत्रिकायुक्तं गण्डयुग्मं मनोरमम् । बन्धूककुसुमाकारमधरोष्ठं च सुन्दरम् ॥ 13॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,13,13260,पक्वदाडिमबीजाभदन्तपङ्क्तिसमुज्ज्वलम् । वाससी वह्निशुद्धे च नीवीयुक्ते च बिभ्रती ॥ 14॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,14,13261,सा सकामा कृष्णपार्श्वे समुवास सुलज्जिता । वाससा मुखमाच्छाद्य लोचनाभ्यां विभोर्मुखम् ॥ 15॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,15,13262,निमेषरहिताभ्यां च पिबन्ती सततं मुदा । प्रफुल्लवदना हर्षान्नवसङ्गमलालसा ॥ 16॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,16,13263,मूर्च्छिता प्रभुरूपेण पुलकाङ्कितविग्रहा । एतस्मिन्नन्तरे तत्र विद्यमाना च राधिका ॥ 17॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,17,13264,गोपीत्रिंशत्कोटियुक्ता चन्द्रकोटिसमप्रभा । कोपेनारक्तपद्मास्या रक्तपङ्कजलोचना ॥ 18॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,18,13265,पीतचम्पकवर्णाभा गजेन्द्रमन्दगामिनी । अमूल्यरत्ननिर्माणनानाभूषणभूषिता ॥ 19॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,19,13266,अमूल्यरत्नखचितममूल्यं वह्निशौचकम् । पीतवस्त्रस्य युगलं नीवीयुक्तं च बिभ्रती ॥ 20॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,20,13267,स्थलपद्मप्रभामुष्टं कोमलं च सुरञ्जितम् । कृष्णदत्तार्घ्यसंयुक्तं विन्यसन्ती पदाम्बुजम् ॥ 21॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,21,13268,रत्नेन्द्रसारनिर्माणविमानादवरुह्य सा । सेव्यमाना च ऋषिभिः श्वेतचामरवायुना ॥ 22॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,22,13269,कस्तूरीबिन्दुभिर्युक्तं चन्दनेन समन्वितम् । दीप्तदीपप्रभाकारं सिन्दूरं बिन्दुशोभितम् ॥ 23॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,23,13270,दधती भालमध्ये च सीमन्ताधःस्थलोज्ज्वले । पारिजातप्रसूनानां मालायुक्तं सुवङ्क्रिमम् ॥ 24॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,24,13271,सुचारुकबरीभारं कम्पयन्ती सुकम्पिता । सुचारुरागसंयुक्तमोष्ठं कम्पयती रुषा ॥ 25॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,25,13272,गत्वोवास कृष्णपार्श्वे रत्नसिंहासने शुभे । सखीनां च समूहैश्च परिपूर्णा विभोः प्रिया ॥ 26॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,26,13273,तां दृष्ट्वा च समुत्तस्थौ कृष्णः सादरपूर्वकम् । सम्भाष्य मधुरालापैः सस्मितश्च ससम्भ्रमः ॥ 27॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,27,13274,प्रणेमुरतिसन्त्रस्ता गोपा नम्रात्मकन्धराः । तुष्टुवुस्ते च भक्त्या च तुष्टाव परमेश्वरः ॥ 28॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,28,13275,उत्थाय गङ्गा सहसा स्तुतिं बहु चकार सा । कुशलं परिपप्रच्छ भीतातिविनयेन च ॥ 29॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,29,13276,नम्रभागस्थिता त्रस्ता शुष्ककण्ठोष्ठतालुका । ध्यानेन शरणायत्ता श्रीकृष्णचरणाम्बुजे ॥ 30॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,30,13277,तां हृत्पद्मस्थितां कृष्णो भीतायै चाभयं ददौ । बभूव स्थिरचित्ता सा सर्वेश्वरवरेण च ॥ 31॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,31,13278,ऊर्ध्वसिंहासनस्थां च राधां गङ्गा ददर्श सा । सुस्निग्धां सुखदृश्यां च ज्वलन्तीं ब्रह्मतेजसा ॥ 32॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,32,13279,असङ्ख्यब्रह्मणः कर्त्रीमादिसृष्टेः सनातनीम् । सदा द्वादशवर्षीयां कन्याभिनवयौवनाम् ॥ 33॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,33,13280,विश्ववृन्दे निरुपमां रूपेण च गुणेन च । शान्तां कान्तामनन्तां तामाद्यन्तरहितां सतीम् ॥ 34॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,34,13281,शुभां सुभद्रां सुभगां स्वामिसौभाग्यसंयुताम् । सौन्दर्यसुन्दरीं श्रेष्ठां सर्वासु सुन्दरीषु च ॥ 35॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,35,13282,कृष्णार्धाङ्गां कृष्णसमां तेजसा वयसा त्विषा । पूजितां च महालक्ष्मीं लक्ष्म्या लक्ष्मीश्वरेण च ॥ 36॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,36,13283,प्रच्छाद्यमानां प्रभया सभामीशस्य सुप्रभाम् । सखीदत्तं च ताम्बूलं भुक्तवन्तीं च दुर्लभम् ॥ 37॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,37,13284,अजन्यां सर्वजननीं धन्यां मान्यां च मानिनीम् । कृष्णप्राणाधिदेवीं च प्राणप्रियतमां रमाम् ॥ 38॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,38,13285,दृष्ट्वा रासेश्वरीं तृप्तिं न जगाम सुरेश्वरी । निमेषरहिताभ्यां च लोचनाभ्यां पपौ च ताम् ॥ 39॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,39,13286,एतस्मिन्नन्तरे राधा जगदीशमुवाच सा । वाचा मधुरया शान्ता विनीता सस्मिता मुने ॥ 40॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,40,13287,राधोवाच । केयं प्राणेश कल्याणी सस्मिता त्वन्मुखाम्बुजम् । पश्यन्ती सस्मितं पार्श्वे सकामा वक्रलोचना ॥ 41॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,41,13288,मूर्च्छां प्राप्नोति रूपेण पुलकाङ्कितविग्रहा । वस्त्रेण मुखमाच्छाद्य निरीक्षन्ती पुनः पुनः ॥ 42॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,42,13289,त्वं चापि तां सन्निरीक्ष्य सकामः सस्मितः सदा । मयि जीवति गोलोके भूता दुर्वृत्तिरीदृशी ॥ 43॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,43,13290,त्वमेव चैव दुर्वृत्तं वारं वारं करोषि च । क्षमां करोमि प्रेम्णा च स्त्रीजातिः स्निग्धमानसा ॥ 44॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,44,13291,सङ्गृह्येमां प्रियामिष्टां गोलोकाद् गच्छ लम्पट । अन्यथा न हि ते भद्रं भविष्यति व्रजेश्वर ॥ 45॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,45,13292,दृष्टस्त्वं विरजायुक्तो मया चन्दनकानने । क्षमा कृता मया पूर्वं सखीनां वचनादहो ॥ 46॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,46,13293,त्वया मच्छब्दमात्रेण तिरोधानं कृतं पुरा । देहं तत्याज विरजा नदीरूपा बभूव सा ॥ 47॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,47,13294,कोटियोजनविस्तीर्णा ततो दैर्घ्ये चतुर्गुणा । अद्यापि विद्यमाना सा तव सत्कीर्तिरूपिणी ॥ 48॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,48,13295,गृहं मयि गतायां च पुनर्गत्वा तदन्तिके । उच्चै रुरोद विरजे विरजे चेति संस्मरन् ॥ 49॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,49,13296,तदा तोयात्समुत्थाय सा योगात्सिद्धयोगिनी । सालङ्कारा मूर्तिमती ददौ तुभ्यं च दर्शनम् ॥ 50॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,50,13297,ततस्तां च समाक्षिप्य वीर्याधानं कृतं त्वया । ततो बभूवुस्तस्यां च समुद्राः सप्त एव च ॥ 51॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,51,13298,दृष्टस्त्वं शोभया गोप्या युक्तश्चम्पककानने । सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया ॥ 52॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,52,13299,शोभा देहं परित्यज्य जगाम चन्द्रमण्डले । ततस्तस्याः शरीरं च स्निग्धं तेजो बभूव ह ॥ 53॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,53,13300,संविभज्य त्वया दत्तं हृदयेन विदूयता । रत्नाय किञ्चित्स्वर्णाय किञ्चिन्मणिवराय च ॥ 54॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,54,13301,किञ्चित्स्त्रीणां मुखाब्जेभ्यः किञ्चिद्राज्ञे च किञ्चन । किञ्चित्किसलयेभ्यश्च पुष्पेभ्यश्चापि किञ्चन ॥ 55॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,55,13302,किञ्चित्कलेभ्यः पक्वेभ्यः सस्येभ्यश्चापि किञ्चन । नृपदेवगृहेभ्यश्च संस्कृतेभ्यश्च किञ्चन ॥ 56॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,56,13303,किञ्चिन्नूतनपत्रेभ्यो दुग्धेभ्यश्चापि किञ्चन । दृष्टस्त्वं प्रभया गोप्या युक्तो वृन्दावने वने ॥ 57॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,57,13304,सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया । प्रभा देहं परित्यज्य जगाम सूर्यमण्डले ॥ 58॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,58,13305,ततस्तस्याः शरीरं च तीव्रं तेजो बभूव ह । संविभज्य त्वया दत्तं प्रेम्णा प्ररुदता पुरा ॥ 59॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,59,13306,विसृष्टं चक्षुषोः कृष्ण लज्जया मद्भयेन च । हुताशनाय किञ्चिच्च यक्षेभ्यश्चापि किञ्चन ॥ 60॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,60,13307,किञ्चित्पुरुषसिंहेभ्यो देवेभ्यश्चापि किञ्चन । किञ्चिद्विष्णुजनेभ्यश्च नागेभ्योऽपि च किञ्चन ॥ 61॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,61,13308,ब्राह्मणेभ्यो मुनिभ्यश्च तपस्विभ्यश्च किञ्चन । स्त्रीभ्यः सौभाग्ययुक्ताभ्यो यशस्विभ्यश्च किञ्चन ॥ 62॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,62,13309,तत्तु दत्त्वा च सर्वेभ्यः पूर्वं प्ररुदितं त्वया । शान्तिगोप्या युतस्त्वं च दृष्टोऽसि रासमण्डले ॥ 63॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,63,13310,वसन्ते पुष्पशय्यायां माल्यवांश्चन्दनोक्षितः । रत्नप्रदीपैर्युक्ते च रत्ननिर्माणमन्दिरे ॥ 64॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,64,13311,रत्नभूषणभूषाढ्यो रत्नभूषितया सह । तया दत्तं च ताम्बूलं भुक्तवांश्च पुरा विभो ॥ 65॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,65,13312,सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया । शान्तिर्देहं परित्यज्य भिया लीना त्वयि प्रभो ॥ 66॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,66,13313,ततस्तस्याः शरीरं च गुणश्रेष्ठं बभूव ह । संविभज्य त्वया दत्तं प्रेम्णा प्ररुदता पुरा ॥ 67॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,67,13314,विश्वे तु विपिने किञ्चिद्ब्रह्मणे च मयि प्रभो । शुद्धसत्त्वस्वरूपायै किञ्चिल्लक्ष्म्यै पुरा विभो ॥ 68॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,68,13315,त्वन्मन्त्रोपासकेभ्यश्च शाक्तेभ्यश्चापि किञ्चन । तपस्विभ्यश्च धर्माय धर्मिष्ठेभ्यश्च किञ्चन ॥ 69॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,69,13316,मया पूर्वं च त्वं दृष्टो गोप्या च क्षमया सह । सुवेषयुक्तो मालावान् गन्धचन्दनचर्चितः ॥ 70॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,70,13317,रत्नभूषितया गन्धचन्दनोक्षितया सह । सुखेन मूर्च्छितस्तल्पे पुष्पचन्दनचर्चिते ॥ 71॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,71,13318,श्लिष्टो निद्रितया सद्यः सुखेन नवसङ्गमात् । मया प्रबोधिता सा च भवांश्च स्मरणं कुरु ॥ 72॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,72,13319,गृहीतं पीतवस्त्रं च मुरली च मनोहरा । वनमालाकौस्तुभश्चाप्यमूल्यं रत्नकुण्डलम् ॥ 73॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,73,13320,पश्चात्प्रदत्तं प्रेम्णा च सखीनां वचनादहो । लज्जया कृष्णवर्णोऽभूद्भवान् पापेन यः प्रभो ॥ 74॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,74,13321,क्षमा देहं परित्यज्य लज्जया पृथिवीं गता । ततस्तस्याः शरीरं च गुणश्रेष्ठं बभूव ह ॥ 75॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,75,13322,संविभज्य त्वया दत्तं प्रेम्णा प्ररुदता पुनः । किञ्चिद्दत्तं विष्णवे च वैष्णवेभ्यश्च किञ्चन ॥ 76॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,76,13323,धार्मिकेभ्यश्च धर्माय दुर्बलेभ्यश्च किञ्चन । तपस्विभ्योऽपि देवेभ्यः पण्डितेभ्यश्च किञ्चन ॥ 77॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,77,13324,एतत्ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि । त्वद्गुणं चैव बहुशो न जानामि परं प्रभो ॥ 78॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,78,13325,इत्येवमुक्त्वा सा राधा रक्तपङ्कजलोचना । गङ्गां वक्तुं समारेभे नम्रास्यां लज्जितां सतीम् ॥ 79॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,79,13326,गङ्गा रहस्यं विज्ञाय योगेन सिद्धयोगिनी । तिरोभूय सभामध्ये स्वजलं प्रविवेश सा ॥ 80॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,80,13327,राधा योगेन विज्ञाय सर्वत्रावस्थितां च ताम् । पानं कर्तुं समारेभे गण्डूषात्सिद्धयोगिनी ॥ 81॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,81,13328,गङ्गा रहस्यं विज्ञाय योगेन सिद्धयोगिनी । श्रीकृष्णचरणाम्भोजे विवेश शरणं ययौ ॥ 82॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,82,13329,गोलोके सा च वैकुण्ठे ब्रह्मलोकादिके तथा । ददर्श राधा सर्वत्र नैव गङ्गां ददर्श सा ॥ 83॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,83,13330,सर्वत्र जलशून्यं च शुष्कपङ्कं च गोलकम् । जलजन्तुसमूहैश्च मृतदेहैः समन्वितम् ॥ 84॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,84,13331,ब्रह्मविष्णुशिवानन्तधर्मेन्द्रेन्दुदिवाकराः । मनवो मुनयः सर्वे देवसिद्धतपस्विनः ॥ 85॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,85,13332,गोलोकं च समाजग्मुः शुष्ककण्ठोष्ठतालुकाः । सर्वे प्रणेमुर्गोविन्दं सर्वेशं प्रकृतेः परम् ॥ 86॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,86,13333,वरं वरेण्यं वरदं वरिष्ठं वरकारणम् । गोपिकागोपवृन्दानां सर्वेषां प्रवरं प्रभुम् ॥ 87॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,87,13334,निरीहं च निराकारं निर्लिप्तं च निराश्रयम् । निर्गुणं च निरुत्साहं निर्विकारं निरञ्जनम् ॥ 88॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,88,13335,स्वेच्छामयं च साकारं भक्तानुग्रहकारकम् । सत्त्वस्वरूपं सत्येशं साक्षिरूपं सनातनम् ॥ 89॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,89,13336,परं परेशं परमं परमात्मानमीश्वरम् । प्रणम्य तुष्टुवुः सर्वे भक्तिनम्रात्मकन्धराः ॥ 90॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,90,13337,सगद्गदाः साश्रुनेत्राः पुलकाङ्कितविग्रहाः । सर्वे संस्तूय सर्वेशं भगवन्तं परात्परम् ॥ 91॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,91,13338,ज्योतिर्मयं परं ब्रह्म सर्वकारणकारणम् । अमूल्यरत्ननिर्माणचित्रसिंहासनस्थितम् ॥ 92॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,92,13339,सेव्यमानं च गोपालैः श्वेतचामरवायुना । गोपालिकानृत्यगीतं पश्यन्तं सस्मितं मुदा ॥ 93॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,93,13340,प्राणाधिकप्रियतमं राधावक्षःस्थलस्थितम् । तया प्रदत्तं ताम्बूलं भुक्तवन्तं सुवासितम् ॥ 94॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,94,13341,परिपूर्णतमं रासे ददृशुश्च सुरेश्वरम् । मुनयो मनवः सिद्धास्तापसाश्च तपस्विनः ॥ 95॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,95,13342,प्रहृष्टमनसः सर्वे जग्मुः परमविस्मयम् । परस्परं समालोक्य प्रोचुस्ते च चतुर्मुखम् ॥ 96॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,96,13343,निवेदितं जगन्नाथं स्वाभिप्रायमभीप्सितम् । ब्रह्मा तद्वचनं श्रुत्वा विष्णुं कृत्वा स्वदक्षिणे ॥ 97॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,97,13344,वामतो वामदेवं च जगाम कृष्णसन्निधिम् । परमानन्दयुक्तं च परमानन्दरूपिणीम् ॥ 98॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,98,13345,सर्वं कृष्णमयं धाता ददर्श रासमण्डले । सर्वं समानवेषं च समानासनसंस्थितम् ॥ 99॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,99,13346,द्विभुजं मुरलीहस्तं वनमालाविभूषितम् । मयूरपिच्छचूडं च कौस्तुभेन विराजितम् ॥ 100॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,100,13347,अतीव कमनीयं च सुन्दरं शान्तविग्रहम् । गुणभूषणरूपेण तेजसा वयसा त्विषा ॥ 101॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,101,13348,परिपूर्णतमं सर्वं सर्वैश्वर्यसमन्वितम् । किं सेव्यं सेवकं किं वा दृष्ट्वा निर्वक्तुमक्षमः ॥ 102॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,102,13349,क्षणं तेजः स्वरूपं च रूपं तत्र स्थितं क्षणम् । निराकारं च साकारं ददर्श द्विविधं क्षणम् ॥ 103॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,103,13350,एकमेव क्षणं कृष्णं राधया रहितं परम् । प्रत्येकासनसंस्थं च तया सार्धं च तत्क्षणम् ॥ 104॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,104,13351,राधारूपधरं कृष्णं कृष्णरूपं कलत्रकम् । किं स्त्रीरूपं च पुरुषं विधाता ध्यातुमक्षमः ॥ 105॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,105,13352,हृत्पद्मस्थं च श्रीकृष्णं ध्यात्वा ध्यानेन चक्षुषा । चकार स्तवनं भक्त्या परिहारमनेकधा ॥ 106॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,106,13353,ततः स्वचक्षुरुन्मील्य पुनश्च तदनुज्ञया । ददर्श कृष्णमेकं च राधावक्षःस्थलस्थितम् ॥ 107॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,107,13354,स्वपार्षदैः परिवृतं गोपीमण्डलमण्डितम् । पुनः प्रणेमुस्तं दृष्ट्वा तुष्टुवुः परमेश्वरम् ॥ 108॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,108,13355,तदभिप्रायमाज्ञाय तानुवाच रमेश्वरः । सर्वात्मा स च सर्वज्ञः सर्वेशः सर्वभावनः ॥ 109॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,109,13356,श्रीभगवानुवाच । आगच्छ कुशलं ब्रह्मन्नागच्छ कमलापते । इहागच्छ महादेव शश्वत्कुशलमस्तु वः ॥ 110॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,110,13357,आगता हि महाभागा गङ्गानयनकारणात् । गङ्गा च चरणाम्भोजे भयेन शरणं गता ॥ 111॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,111,13358,राधेमां पातुमिच्छन्ती दृष्ट्वा मत्सन्निधानतः । दास्यामीमां च भवतां यूयं कुरुत निर्भयाम् ॥ 112॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,112,13359,श्रीकृष्णस्य वचः श्रुत्वा सस्मितः कमलोद्भवः । तुष्टाव राधामाराध्यां श्रीकृष्णपरिपूजिताम् ॥ 113॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,113,13360,वक्त्रैश्चतुर्भिः संस्तूय भक्तिनम्रात्मकन्धरः । धाता चतुर्णां वेदानामुवाच चतुराननः ॥ 114॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,114,13361,चतुरानन उवाच । गङ्गा त्वदङ्गसम्भूता प्रभोश्च रासमण्डले । युवयोर्द्रवरूपा सा मुग्धयोः शङ्करस्वनात् ॥ 115॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,115,13362,कृष्णांशा च त्वदंशा च त्वत्कन्यासदृशी प्रिया । त्वन्मन्त्रग्रहणं कृत्वा करोतु तव पूजनम् ॥ 116॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,116,13363,भविष्यति पतिस्तस्या वैकुण्ठेशश्चतुर्भुजः । भूस्थायाः कलया तस्याः पतिर्लवणवारिधिः ॥ १ रे ७॥ गोलोकस्था च या गङ्गा सर्वत्रस्था तथाम्बिके । तदम्बिका त्वं देवेशी सर्वदा सा त्वदात्मजा ॥ 118॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,117,13364,ब्रह्मणो वचनं श्रुत्वा स्वीचकार च सस्मिता । वहिर्बभूव सा कृष्णपादाङ्गुष्ठनखाग्रतः ॥ 119॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,118,13365,तत्रैव सत्कृता शान्ता तस्थौ तेषां च मध्यतः । उवास तोयादुत्थाय तदधिष्ठातृदेवता ॥ 120॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,119,13366,तत्तोयं ब्रह्मणा किञ्चित्स्थापितं च कमण्डलौ । किञ्चिद्दधार शिरसि चन्द्रार्धकृतशेखरः ॥ 121॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,120,13367,गङ्गायै राधिकामन्त्रं प्रददौ कमलोद्भवः । तत्स्तोत्रं कवचं पूजां विधानं ध्यानमेव च ॥ 122॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,121,13368,सर्वं तत्सामवेदोक्तं पुरश्चर्याक्रमं तथा । गङ्गा तामेव सम्पूज्य वैकुण्ठं प्रययौ सह ॥ 123॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,122,13369,लक्ष्मीः सरस्वती गङ्गा तुलसी विश्वपावनी । एता नारायणस्यैव चतस्रो योषितो मुने ॥ 124॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,123,13370,अथ तं सस्मितः कृष्णो ब्रह्माणं समुवाच सः । सर्वकालस्य वृत्तान्तं दुर्बोधमविपश्चितम् ॥ 125॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,124,13371,श्रीकृष्ण उवाच । गृहाण गङ्गां हे ब्रह्मन् हे विष्णो हे महेश्वर । श‍ृणु कालस्य वृत्तान्तं मत्तो ब्रह्मन्निशामय ॥ 126॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,125,13372,यूयं च येऽन्ये देवाश्च मुनयो मनवस्तथा । सिद्धा यशस्विनश्चैव ये येऽत्रैव समागताः ॥ 127॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,126,13373,एते जीवन्ति गोलोके कालचक्रविवर्जिते । जलाप्लुते सर्वविश्वं जातं कल्पक्षयोऽधुना ॥ 128॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,127,13374,ब्रह्माद्या येऽन्यविश्वस्थास्ते विलीनाधुना मयि । वैकुण्ठं च विना सर्वं जलमग्नं च पद्मज ॥ 129॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,128,13375,गत्वा सृष्टिं कुरु पुनर्ब्रह्मलोकादिकं भवम् । स्वं ब्रह्माण्डं विरचय पश्चाद् गङ्गा प्रयास्यति ॥ 130॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,129,13376,एवमन्येषु विश्वेषु सृष्टौ ब्रह्मादिकं पुनः । करोम्यहं पुनः सृष्टिं गच्छ शीघ्रं सुरैः सह ॥ 131॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,130,13377,गतो बहुतरः कालो युष्माकं च चतुर्मुखाः । गताः कतिविधास्ते च भविष्यन्ति च वेधसः ॥ 132॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,131,13378,इत्युक्त्वा राधिकानाथो जगामान्तःपुरे मुने । देवा गत्वा पुनः सृष्टिं चक्रुरेव प्रयत्नतः ॥ 133॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,132,13379,गोलोके च स्थिता गङ्गा वैकुण्ठे शिवलोकके । ब्रह्मलोके स्थितान्यत्र यत्र यत्र पुरः स्थिता ॥ 134॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,133,13380,तत्रैव सा गता गङ्गा चाज्ञया परमात्मनः । निर्गता विष्णुपादाब्जात्तेन विष्णुपदी स्मृता ॥ 135॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,134,13381,इत्येवं कथितं ब्रह्मन् गङ्गोपाख्यानमुत्तमम् । सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ॥ 136॥ 9,९.१३,त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।,135,13382,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे गङ्गोपाख्यानवर्णनं नाम त्रयोदशोऽध्यायः ॥ ९.१३॥ 9,९.१४,चतुर्दशोऽध्यायः । गङ्गायाः कृष्णपत्नीत्ववर्णनम् ।,0,13383,नारद उवाच । लक्ष्मीः सरस्वती गङ्गा तुलसी विश्वपावनी । एता नारायणस्यैव चतस्रश्च प्रिया इति ॥ 1॥ 9,९.१४,चतुर्दशोऽध्यायः । गङ्गायाः कृष्णपत्नीत्ववर्णनम् ।,1,13384,गङ्गा जगाम वैकुण्ठमिदमेव श्रुतं मया । कथं सा तस्य पत्नी च बभूवेति च न श्रुतम् ॥ 2॥ 9,९.१४,चतुर्दशोऽध्यायः । गङ्गायाः कृष्णपत्नीत्ववर्णनम् ।,2,13385,श्रीनारायण उवाच । गङ्गा जगाम वैकुण्ठं तत्पश्चाज्जगतां विधिः । गत्वोवाच तया सार्धं प्रणम्य जगदीश्वरम् ॥ 3॥ 9,९.१४,चतुर्दशोऽध्यायः । गङ्गायाः कृष्णपत्नीत्ववर्णनम् ।,3,13386,ब्रह्मोवाच । राधाकृष्णाङ्गसम्भूता या देवी द्रवरूपिणी । नवयौवनसम्पन्ना सुशीला सुन्दरी वरा ॥ 4॥ 9,९.१४,चतुर्दशोऽध्यायः । गङ्गायाः कृष्णपत्नीत्ववर्णनम् ।,4,13387,शुद्धसत्त्वस्वरूपा च क्रोधाहङ्कारवर्जिता । तदङ्गसम्भवा नान्यं वृणोतीयं च तं विना ॥ 5॥ 9,९.१४,चतुर्दशोऽध्यायः । गङ्गायाः कृष्णपत्नीत्ववर्णनम् ।,5,13388,तत्रातिमानिनी राधा सा च तेजस्विनी वरा । समुद्युक्ता पातुमिमां भीतेयं बुद्धिपूर्वकम् ॥ 6॥ 9,९.१४,चतुर्दशोऽध्यायः । गङ्गायाः कृष्णपत्नीत्ववर्णनम् ।,6,13389,विवेश चरणाम्भोजे कृष्णस्य परमात्मनः । सर्वत्र गोलकं शुष्कं दृष्ट्वाहमगमं तदा ॥ 7॥ 9,९.१४,चतुर्दशोऽध्यायः । गङ्गायाः कृष्णपत्नीत्ववर्णनम् ।,7,13390,गोलोके यत्र कृष्णश्च सर्ववृत्तान्तप्राप्तये । सर्वान्तरात्मा सर्वेषां ज्ञात्वाभिप्रायमेव च ॥ 8॥ 9,९.१४,चतुर्दशोऽध्यायः । गङ्गायाः कृष्णपत्नीत्ववर्णनम् ।,8,13391,बहिश्चकार गङ्गा च पादाङ्गुष्ठनखाग्रतः । दत्त्वास्यै राधिकामन्त्रं पूरयित्वा च गोलकम् ॥ 9॥ 9,९.१४,चतुर्दशोऽध्यायः । गङ्गायाः कृष्णपत्नीत्ववर्णनम् ।,9,13392,प्रणम्य तां च राधेशं गृहीत्वात्रागमं प्रभो । गान्धर्वेण विवाहेन गृहाणेमां सुरेश्वरीम् ॥ 10॥ 9,९.१४,चतुर्दशोऽध्यायः । गङ्गायाः कृष्णपत्नीत्ववर्णनम् ।,10,13393,सुरेश्वरेषु रसिको रसिकेयं समागता । त्वं रत्नं पुंसु देवेश स्त्रीरत्नं स्त्रीष्वियं सती ॥ 11॥ 9,९.१४,चतुर्दशोऽध्यायः । गङ्गायाः कृष्णपत्नीत्ववर्णनम् ।,11,13394,विदग्धया विदग्धेन सङ्गमो गुणवान् भवेत् । उपस्थितां स्वयं कन्यां न गृह्णातीह यः पुमान् ॥ 12॥ 9,९.१४,चतुर्दशोऽध्यायः । गङ्गायाः कृष्णपत्नीत्ववर्णनम् ।,12,13395,तं विहाय महालक्ष्मी रुष्टा याति न संशयः । यो भवेत्पण्डितः सो ऽपि प्रकृतिं नावमन्यते ॥ 13॥ 9,९.१४,चतुर्दशोऽध्यायः । गङ्गायाः कृष्णपत्नीत्ववर्णनम् ।,13,13396,सर्वे प्राकृतिकाः पुंसः कामिन्यः प्रकृतेः कलाः । त्वमेव भगवान्नाथो निर्गुणः प्रकृतेः परः ॥ 14॥ 9,९.१४,चतुर्दशोऽध्यायः । गङ्गायाः कृष्णपत्नीत्ववर्णनम् ।,14,13397,अर्धाङ्गं द्विभुजः कृष्णो योऽर्धाङ्गेन चतुर्भुजः । कृष्णवामाङ्गसम्भूता बभूव राधिका पुरा ॥ 15॥ 9,९.१४,चतुर्दशोऽध्यायः । गङ्गायाः कृष्णपत्नीत्ववर्णनम् ।,15,13398,दक्षिणांशः स्वयं सा च वामांशः कमला तथा । तेनेयं त्वां वृणोत्येव यतस्त्वद्देहसम्भवा ॥ 16॥ 9,९.१४,चतुर्दशोऽध्यायः । गङ्गायाः कृष्णपत्नीत्ववर्णनम् ।,16,13399,एकाङ्गं चैव स्वीपुंसोर्यथा प्रकृतिपूरुषौ । इत्येवमुक्त्वा धाता तां तं समर्प्य जगाम सः ॥ 17॥ 9,९.१४,चतुर्दशोऽध्यायः । गङ्गायाः कृष्णपत्नीत्ववर्णनम् ।,17,13400,गान्धर्वेण विवाहेन तां जग्राह हरिः स्वयम् । नारायणः करं धृत्वा पुष्पचन्दनचर्चितम् ॥ 18॥ 9,९.१४,चतुर्दशोऽध्यायः । गङ्गायाः कृष्णपत्नीत्ववर्णनम् ।,18,13401,रेमे रमापतिस्तत्र गङ्गया सहितो मुदा । गङ्गा पृथ्वीं गता या सा स्वस्थानं पुनरागता ॥ 19॥ 9,९.१४,चतुर्दशोऽध्यायः । गङ्गायाः कृष्णपत्नीत्ववर्णनम् ।,19,13402,निर्गता विष्णुपादाब्जात्तेन विष्णुपदीति च । मूर्च्छां सम्प्राप सा देवी नवसङ्गमलीलया ॥ 20॥ 9,९.१४,चतुर्दशोऽध्यायः । गङ्गायाः कृष्णपत्नीत्ववर्णनम् ।,20,13403,रसिका सुखसम्भोगाद्रसिकेश्वरसंयुता । तां दृष्ट्वा दुःखिता वाणी पद्मया वर्जितापि च ॥ 21॥ 9,९.१४,चतुर्दशोऽध्यायः । गङ्गायाः कृष्णपत्नीत्ववर्णनम् ।,21,13404,नित्यमीर्ष्यति तां वाणी न च गङ्गा सरस्वतीम् । गङ्गा शशाप कोपेन भारते च हरिप्रिया ॥ 22॥ 9,९.१४,चतुर्दशोऽध्यायः । गङ्गायाः कृष्णपत्नीत्ववर्णनम् ।,22,13405,गङ्गया सह तस्यैव तिस्रो भार्या रमापतेः । सार्धं तुलस्या पश्चाच्च चतस्रश्चाभवन्मुने ॥ 23॥ 9,९.१४,चतुर्दशोऽध्यायः । गङ्गायाः कृष्णपत्नीत्ववर्णनम् ।,23,13406,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे गङ्गायाः कृष्णपत्नीत्ववर्णनं नाम चतुर्दशोऽध्यायः ॥ ९.१४॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,0,13407,नारद उवाच । नारायणप्रिया साध्वी कथं सा च बभूव ह । तुलसी कुत्र सम्भूता का वा सा पूर्वजन्मनि ॥ 1॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,1,13408,कस्य वा सा कुले जाता कस्य कन्या कुले सती । केन वा तपसा सा च सम्प्राप्ता प्रकृतेः परम् ॥ 2॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,2,13409,निर्विकारं निरीहं च सर्वविश्वस्वरूपकम् । नारायणं परं ब्रह्म परमेश्वरमीश्वरम् ॥ 3॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,3,13410,सर्वाराध्यं च सर्वेशं सर्वज्ञं सर्वकारणम् । सर्वाधारं सर्वरूपं सर्वेषां परिपालकम् ॥ 4॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,4,13411,कथमेतादृशी देवी वृक्षत्वं समवाप ह । कथं साप्यसुरग्रस्ता सम्बभूव तपस्विनी ॥ 5॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,5,13412,सुस्निग्धं मे मनो लोलं प्रेरयन्मां मुहुर्मुहुः । छेत्तुमर्हसि सन्देहं सर्वं सन्देहभञ्जन ॥ 6॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,6,13413,श्रीनारायण उवाच । मनुश्च दक्षसावर्णिः पुण्यवान् वैष्णवः शुचिः । यशस्वी कीर्तिमांश्चैव विष्णोरंशसमुद्भवः ॥ 7॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,7,13414,तत्पुत्रो ब्रह्मसावर्णिर्धर्मिष्ठो वैष्णवः शुचिः । तत्पुत्रो धर्मसावर्णिर्वैष्णवश्च जितेन्द्रियः ॥ 8॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,8,13415,तत्पुत्रो रुद्रसावर्णिर्भक्तिमान्विजितेन्द्रियः । तत्पुत्रो देवसावर्णिर्विष्णुव्रतपरायणः ॥ 9॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,9,13416,तत्पुत्र इन्द्रसावर्णिर्महाविष्णुपरायणः । वृषध्वजश्च तत्पुत्रो वृषध्वजपरायणः ॥ 10॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,10,13417,यस्याश्रमे स्वयं शम्भुरासीद्देवयुगत्रयम् । पुत्रादपि परः स्नेहो नृपे तस्मिञ्छिवस्य च ॥ 11॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,11,13418,न च नारायणं मेने न लक्ष्मीं न सरस्वतीम् । पूजां च सर्वदेवानां दूरीभूता चकार सः ॥ 12॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,12,13419,भाद्रे मासि महालक्ष्मीपूजां मत्तो बभञ्ज ह । तथा माघीयपञ्चम्यां विस्मृता सर्वदैवतैः ॥ 13॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,13,13420,पापः सरस्वतीपूजां दूरीभूता चकार सः । यज्ञं च विष्णुपूजां च निन्दन्तं तं दिवाकरः ॥ 14॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,14,13421,चुकोप देवो भूपेन्द्रं शशाप शिवकारणात् । भ्रष्टश्रीस्त्वञ्च भवेति तं शशाप दिवाकरः ॥ 15॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,15,13422,शूलं गृहीत्वा तं सूर्यमधावच्छङ्करः स्वयम् । पित्रा सार्धं दिनेशश्च ब्रह्माणं शरणं ययौ ॥ 16॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,16,13423,शिवस्त्रिशूलहस्तश्च ब्रह्मलोकं ययौ क्रुधा । ब्रह्मा सूर्यं पुरस्कृत्य वैकुण्ठं च ययौ भिया ॥ 17॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,17,13424,ब्रह्मकश्यपमार्तण्डाः सन्त्रस्ताः शुष्कतालुकाः । नारायणं च सर्वेशं ते ययुः शरणं भिया ॥ 18॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,18,13425,मूर्छा प्रणेमुस्ते गत्वा तुष्टुवुश्च पुनः पुनः । सर्वं निवेदनं चक्रुर्भयस्य कारणं हरौ ॥ 19॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,19,13426,नारायणश्च कृपया तेभ्यश्च ह्यभयं ददौ । स्थिरा भवत हे भीता भयं किञ्च मयि स्थिते ॥ 20॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,20,13427,स्मरन्ति ये यत्र तत्र मां विपत्तौ भयान्विताः । तांस्तत्र गत्वा रक्षामि चक्रहस्तस्त्वरान्वितः ॥ 21॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,21,13428,पाताहं जगतां देवाः कर्ता च सततं सदा । स्रष्टा च ब्रह्मरूपेण संहर्ता शिवरूपतः ॥ 22॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,22,13429,शिवोऽहं त्वमहं चापि सूर्योऽहं त्रिगुणात्मकः । विधाय नानारूपं च करोमि सृष्टिपालनम् ॥ 23॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,23,13430,यूयं गच्छत भद्रं वो भविष्यति भयं कुतः । अद्यप्रभृति मद्वरेण भयं वो नास्ति शङ्करात् ॥ 24॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,24,13431,सर्वेशो वै स भगवाच्छङ्करश्च सतां पतिः । भक्ताधीनश्च भक्तानां भक्तात्मा भक्तवत्सलः ॥ 25॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,25,13432,सुदर्शनः शिवश्चैव मम प्राणाधिकः प्रियः । ब्रह्माण्डेषु न तेजस्वी हे ब्रह्मन्ननयोः परः ॥ 26॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,26,13433,शक्तः स्रष्टुं महादेवः सूर्यकोटिं च लीलया । कोटिं च ब्रह्मणामेवं नासाध्यं शूलिनः प्रभोः ॥ 27॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,27,13434,बाह्यज्ञानं नैव किञ्चिद्ध्यायते मां दिवानिशम् । मन्मन्त्रान्मद्गुणान्भक्त्या पञ्चवक्त्रेण गायति ॥ 28॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,28,13435,अहमेवं चिन्तयामि तत्कल्याणं दिवानिशम् । ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ॥ 29॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,29,13436,शिवस्वरूपो भगवाञ्छिवाधिष्ठातृदेवता । शिवं भवति तस्माच्च शिवं तेन विदुर्बुधाः ॥ 30॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,30,13437,एतस्मिन्नन्तरे तत्र जगाम शङ्करः स्थितः । शूलहस्तो वृषारूढो रक्तपङ्कजलोचनः ॥ 31॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,31,13438,अवरुह्य वृषात्तूर्णं भक्तिनम्रात्मकन्धरः । ननाम भक्त्या तं शान्तं लक्ष्मीकान्तं परात्परम् ॥ 32॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,32,13439,रत्नसिंहासनस्थं च रत्नालङ्कारभूषितम् । किरीटिनं कुण्डलिनं चक्रिणं वनमालिनम् ॥ 33॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,33,13440,नवीननीरदश्यामं सुन्दरं च चतुर्भुजम् । चतुर्भुजैः सेवितं च श्वेतचामरवायुना ॥ 34॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,34,13441,चन्दनोक्षितसर्वाङ्गं भूषितं पीतवाससम् । लक्ष्मीप्रदत्तताम्बूलं भुक्तवन्तं च नारद ॥ 35॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,35,13442,विद्याधरीनृत्यगीतं पश्यन्तं सस्मितं सदा । ईश्वरं परमात्मानं भक्तानुग्रहविग्रहम् ॥ 36॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,36,13443,तं ननाम महादेवो ब्रह्मणा नमितश्च सः । ननाम सूर्यो भक्त्या च सन्त्रस्तश्चन्द्रशेखरम् ॥ 37॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,37,13444,कश्यपश्च महाभक्त्या तुष्टाव च ननाम च । शिवः संस्तूय सर्वेशं समुवास सुखासने ॥ 38॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,38,13445,सुखासने सुखासीनं विश्रान्तं चन्द्रशेखरम् । श्वेतचामरवातेन सेवितं विष्णुपार्षदैः ॥ 39॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,39,13446,पीयूषतुल्यमधुरं वचनं सुमनोहरम् । विष्णुरुवाच । आगतोऽसि कथं चात्र वद कोपस्य कारणम् ॥ 40॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,40,13447,महादेव उवाच । वृषध्वजं च मद्भक्तं मम प्राणाधिकं प्रियम् । सूर्यः शशाप इति मे प्रकोपस्य तु कारणम् ॥ 41॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,41,13448,पुत्रवत्सलशोकेन सूर्यं हन्तुं समुद्यतः । स ब्रह्माणं प्रपन्नश्च सूर्यश्च स विधिस्त्वयि ॥ 42॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,42,13449,त्वयि ये शरणापन्ना ध्यानेन वचसापि वा । निरापदो विशङ्कास्ते जरा मृत्युश्च तैर्जितः ॥ 43॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,43,13450,प्रत्यक्षं शरणापन्नास्तत्फलं किं वदामि भोः । हरिस्मृतिश्चाभयदा सर्वमङ्गलदा सदा ॥ 44॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,44,13451,किं मे भक्तस्य भविता तन्मे ब्रूहि जगत्प्रभो । श्रीहतस्यास्य मूढस्य सूर्यशापेन हेतुना ॥ 45॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,45,13452,विष्णुरुवाच । कालोऽतियातो दैवेन युगानामेकविंशतिः । वैकुण्ठं घटिकार्धेन शीघ्रं गच्छ त्वमालयम् ॥ 46॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,46,13453,वृषध्वजो मृतः कालाद्दुर्निवार्यात्सुदारुणात् । रथध्वजश्च तत्पुत्रो मृतः सोऽपि श्रिया हतः ॥ 47॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,47,13454,तत्पुत्रौ च महाभागौ धर्मध्वजकुशध्वजौ । हृतश्रियौ सूर्यशापात्स्मृतौ परमवैष्णवौ ॥ 48॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,48,13455,राज्यभ्रष्टौ श्रिया भ्रष्टौ कमलातपसा रतौ । तयोश्च भार्ययोर्लक्ष्मीः कलया च भविष्यति ॥ 49॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,49,13456,सम्पद्युक्तौ तदा तौ च नृपश्रेष्ठौ भविष्यतः । मृतस्ते सेवकः शम्भो गच्छ यूयं च गच्छत ॥ 50॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,50,13457,इत्युक्त्वा च सलक्ष्मीकः सभातोऽभ्यन्तरङ्गतः । देवा जग्मुः सम्प्रहृष्टाः स्वाश्रमं परया मुदा । शिवश्च तपसे शीघ्रं परिपूर्णतमो ययौ ॥ 51॥ 9,९.१५,पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।,51,13458,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे शक्तिप्रादुर्भावो नाम पञ्चदशोऽध्यायः ॥ ९.१५॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,0,13459,श्रीनारायण उवाच । लक्ष्मीं तौ च समाराध्य चोग्रेण तपसा मुने । वरमिष्टं च प्रत्येकं सम्प्रापतुरभीप्सितम् ॥ 1॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,1,13460,महालक्ष्मीवरेणैव तौ पृथ्वीशौ बभूवतुः । पुण्यवन्तौ पुत्रवन्तौ धर्मध्वजकुशध्वजौ ॥ 2॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,2,13461,कुशध्वजस्य पत्नी च देवी मालावती सती । सा सुषाव च कालेन कमलांशां सुतां सतीम् ॥ 3॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,3,13462,सा च भूयिष्ठकालेन ज्ञानयुक्ता बभूव ह । कृत्वा वेदध्वनिं स्पष्टमुत्तस्थौ सूतिकागृहात् ॥ 4॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,4,13463,वेदध्वनिं सा चकार जातमात्रेण कन्यका । तस्मात्तां च वेदवतीं प्रवदन्ति मनीषिणः ॥ 5॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,5,13464,जातमात्रेण सुस्नाता जगाम तपसे वनम् । सर्वैर्निषिद्धा यत्नेन नारायणपरायणा ॥ 6॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,6,13465,एकमन्वन्तरं चैव पुष्करे च तपस्विनी । अत्युग्रां च तपस्यां च लीलया हि चकार सा ॥ 7॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,7,13466,तथापि पुष्टा न क्लिष्टा नवयौवनसंयुता । सुश्राव सा च सहसा सुवाचमशरीरिणीम् ॥ 8॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,8,13467,जन्मान्तरे च ते भर्ता भविष्यति हरिः स्वयम् । ब्रह्मादिभिर्दुराराध्यं पतिं लप्स्यसि सुन्दरि ॥ 9॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,9,13468,इति श्रुत्वा च सा हृष्टा चकार ह पुनस्तपः । अतीव निर्जनस्थाने पर्वते गन्धमादने ॥ 10॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,10,13469,तत्रैव सुचिरं तप्त्वा विश्वस्य समुवास सा । ददर्श पुरतस्तत्र रावणं दुर्निवारणम् ॥ 11॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,11,13470,दृष्ट्वा सातिथिभक्त्या च पाद्यं तस्मै ददौ किल । सुस्वादुभूतं च फलं जलं चापि सुशीतलम् ॥ 12॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,12,13471,तच्च भुक्त्वा स पापिष्ठश्चोवास तत्समीपतः । चकार प्रश्नमिति तां का त्वं कल्याणि वर्तसे ॥ 13॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,13,13472,तां दृष्ट्वा स वरारोहां पीनश्रोणिपयोधराम् । शरत्पद्मोत्सवास्यां च सस्मितां सुदतीं सतीम् ॥ 14॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,14,13473,मूर्च्छामवाप कृपणः कामबाणप्रपीडितः । स करेण समाकृष्य श‍ृङ्गारं कर्तुमुद्यतः ॥ 15॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,15,13474,सती चुकोप दृष्ट्वा तं स्तम्भितं च चकार ह । स जडो हस्तपादैश्च किञ्चिद्वक्तुं न च क्षमः ॥ 16॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,16,13475,तुष्टाव मनसा देवीं प्रययौ पद्मलोचनाम् । सा तुष्टा तस्य स्तवनं सुकृतं च चकार ह ॥ 17॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,17,13476,सा शशाप मदर्थे त्वं विनङ्क्ष्यसि सबान्धवः । स्पृष्टाहं च त्वया कामाद् बलं चाप्यवलोकय ॥ 18॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,18,13477,इत्युक्त्वा सा च योगेन देहत्यागं चकार ह । गङ्गायां तां च संन्यस्य स्वगृहं रावणो ययौ ॥ 19॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,19,13478,अहो किमद्भुतं दृष्टं किं कृतं वानयाधुना । इति सञ्चिन्त्य सञ्चिन्त्य विललाप पुनः पुनः ॥ 20॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,20,13479,सा च कालान्तरे साध्वी बभूव जनकात्मजा । सीतादेवीति विख्याता यदर्थे रावणो हतः ॥ 21॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,21,13480,महातपस्विनी सा च तपसा पूर्वजन्मतः । लेभे रामं च भर्तारं परिपूर्णतमं हरिम् ॥ 22॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,22,13481,सम्प्राप तपसाऽऽराध्य दुराराध्यं जगत्पतिम् । सा रमा सुचिरं रेमे रामेण सह सुन्दरी ॥ 23॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,23,13482,जातिस्मरा न स्मरति तपसश्च क्लमं पुरा । सुखेन तज्जहौ सर्वं दुःखं चापि सुखं फले ॥ 24॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,24,13483,नानाप्रकारविभवं चकार सुचिरं सती । सम्प्राप्य सुकुमारं तमतीव नवयौवना ॥ 25॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,25,13484,गुणिनं रसिकं शान्तं कान्तं देवमनुत्तमम् । स्त्रीणां मनोज्ञं रुचिरं तथा लेभे यथेप्सितम् ॥ 26॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,26,13485,पितुः सत्यपालनार्थं सत्यसन्धो रघूद्वहः । जगाम काननं पश्चात्कालेन च बलीयसा ॥ 27॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,27,13486,तस्थौ समुद्रनिकटे सीतया लक्ष्मणेन च । ददर्श तत्र वह्निं च विप्ररूपधरं हरिः ॥ 28॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,28,13487,रामं च दुःखितं दृष्ट्वा स च दुःखी बभूव ह । उवाच किञ्चित्सत्येष्टं सत्यं सत्यपरायणः ॥ 29॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,29,13488,द्विज उवाच । भगवच्छ्रूयतां राम कालोऽयं यदुपस्थितः । सीताहरणकालोऽयं तवैव समुपस्थितः ॥ 30॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,30,13489,दैवं च दुर्निवार्यं च न च दैवात्परो बली । जगत्प्रसूं मयि न्यस्य छायां रक्षान्तिकेऽधुना ॥ 31॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,31,13490,दास्यामि सीतां तुभ्यं च परीक्षासमये पुनः । देवैः प्रस्थापितोऽहं च न च विप्रो हुताशनः ॥ 32॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,32,13491,रामस्तद्वचनं श्रुत्वा न प्रकाश्य च लक्ष्मणम् । स्वीकारं वचसश्चक्रे हृदयेन विदूयता ॥ 33॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,33,13492,वह्निर्योगेन सीताया मायासीतां चकार ह । तत्तुल्यगुणसर्वाङ्गां ददौ रामाय नारद ॥ 34॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,34,13493,सीतां गृहीत्वा स ययौ गोप्यं वक्तुं निषिध्य च । लक्ष्मणो नैव बुबुधे गोप्यमन्यस्य का कथा ॥ 35॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,35,13494,एतस्मिन्नन्तरे रामो ददर्श कानकं मृगम् । सीता तं प्रेरयामास तदर्थे यत्नपूर्वकम् ॥ 36॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,36,13495,संन्यस्य लक्ष्मणं रामो जानक्या रक्षणे वने । स्वयं जगाम तूर्णं तं विव्याध सायकेन च ॥ 37॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,37,13496,लक्ष्मणेति च शब्दं स कृत्वा च मायया मृगः । प्राणांस्तत्याज सहसा पुरो दृष्ट्वा हरिं स्मरन् ॥ 38॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,38,13497,मृगदेहं परित्यज्य दिव्यरूपं विधाय च । रत्ननिर्माणयानेन वैकुण्ठं स जगाम ह ॥ 39॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,39,13498,वैकुण्ठलोकद्वार्यासीत्किङ्करो द्वारपालयोः । पुनर्जगाम तद्द्वारमादेशाद् द्वारपालयोः ॥ 40॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,40,13499,अथ शब्दं च सा श्रुत्वा लक्ष्मणेति च विक्लवम् । तं हि सा प्रेरयामास लक्ष्मणं रामसन्निधौ ॥ 41॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,41,13500,गते च लक्ष्मणे रामं रावणो दुर्निवारणः । सीतां गृहीत्वा प्रययौ लङ्कामेव स्वलीलया ॥ 42॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,42,13501,विषसाद च रामश्च वने दृष्ट्वा च लक्ष्मणम् । तूर्णं च स्वाश्रमं गत्वा सीतां नैव ददर्श सः ॥ 43॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,43,13502,मूर्च्छां सम्प्राप सुचिरं विललाप भृशं पुनः । पुनः पुनश्च बभ्राम तदन्वेषणपूर्वकम् ॥ 44॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,44,13503,कालेन प्राप्य तद्वार्तां गोदावरीनदीतटे । सहायान्वानरात्कृत्वा बबन्ध सागरं हरिः ॥ 45॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,45,13504,लङ्कां गत्वा रघुश्रेष्ठो जघान सायकेन च । कालेन प्राप्य तं हत्वा रावणं बान्धवैः सह ॥ 46॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,46,13505,तां च वह्निपरीक्षां च कारयामास सत्वरम् । हुताशस्तत्र काले तु वास्तवीं जानकीं ददौ ॥ 47॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,47,13506,उवाच छाया वह्निं च रामं च विनयान्विता । करिष्यामीति किमहं तदुपायं वदस्व मे ॥ 48॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,48,13507,श्रीरामाग्नी ऊचतुः त्वं गच्छ तपसे देवि पुष्करं च सुपुण्यदम् । कृत्वा तपस्या तत्रैव स्वर्गलक्ष्मीर्भविष्यसि ॥ 49॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,49,13508,सा च तद्वचनं श्रुत्वा प्रतप्य पुष्करे तपः । दिव्यं त्रिलक्षवर्षं च स्वर्गलक्ष्मीर्बभूव ह ॥ 50॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,50,13509,सा च कालेन तपसा यज्ञकुण्डसमुद्भवा । कामिनी पाण्डवानां च द्रौपदी द्रुपदात्मजा ॥ 51॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,51,13510,कृते युगे वेदवती कुशध्वजसुता शुभा । त्रेतायां रामपत्नी च सीतेति जनकात्मजा ॥ 52॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,52,13511,तच्छाया द्रौपदी देवी द्वापरे द्रुपदात्मजा । त्रिहायणी च सा प्रोक्ता विद्यमाना युगत्रये ॥ 53॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,53,13512,नारद उवाच । प्रियाः पञ्च कथं तस्या बभूवुर्मुनिपुङ्गव । इति मच्चित्तसन्देहं भञ्ज सन्देहभञ्जन ॥ 54॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,54,13513,श्रीनारायण उवाच । लङ्कायां वास्तवी सीता रामं सम्प्राप नारद । रूपयौवनसम्पन्ना छाया च बहुचिन्तया ॥ 55॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,55,13514,रामाग्न्योराज्ञया तप्तुमुपास्ते शङ्करं परम् । कामातुरा पतिव्यग्रा प्रार्थयन्ती पुनः पुनः ॥ 56॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,56,13515,पतिं देहि पतिं देहि पतिं देहि त्रिलोचन । पतिं देहि पतिं देहि पञ्चवारं चकार सा ॥ 57॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,57,13516,शिवस्तत्प्रार्थनां श्रुत्वा प्रहस्य रसिकेश्वरः । प्रिये तव प्रियाः पञ्च भविष्यन्ति वरं ददौ ॥ 58॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,58,13517,तेन सा पाण्डवानां च बभूव कामिनी प्रिया । इति ते कथितं सर्वं प्रस्तावं वास्तवं श‍ृणु ॥ 59॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,59,13518,अथ सम्प्राप्य लङ्कायां सीतां रामो मनोहराम् । विभीषणाय तां लङ्कां दत्त्वायोध्यां ययौ पुनः ॥ 60॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,60,13519,एकादशसहस्राब्दं कृत्वा राज्यं च भारते । जगाम सर्वैर्लोकैश्च सार्धं वैकुण्ठमेव च ॥ 61॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,61,13520,कमलांशा वेदवती कमलायां विवेश सा । कथितं पुण्यमाख्यानं पुण्यदं पापनाशनम् ॥ 62॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,62,13521,सततं मूर्तिमन्तश्च वेदाश्चत्वार एव च । सन्ति यस्याश्च जिह्वाग्रे सा च वेदवती श्रुता ॥ 63॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,63,13522,धर्मध्वजसुताख्यानं निबोध कथयामि ते ॥ 64॥ 9,९.१६,षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।,64,13523,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनं नाम षोडशोऽध्यायः ॥ ९.१६॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,0,13524,श्रीनारायण उवाच । धर्मध्वजस्य पत्नी माधवीति च विश्रुता । नृपेण सार्धं सारामे रेमे च गन्धमादने ॥ 1॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,1,13525,शय्यां रतिकरीं कृत्वा पुष्पचन्दनचर्चिताम् । चन्दनालिप्तसर्वाङ्गीं पुष्पचन्दनवायुना ॥ 2॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,2,13526,स्त्रीरत्नमतिचार्वङ्गी रत्नभूषणभूषिता । कामुकी रसिका सृष्टा रसिकेन च संयुता ॥ 3॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,3,13527,सुरते विरतिर्नास्ति तयोः सुरतिविज्ञयोः । गतं देववर्षशतं न ज्ञातं च दिवानिशम् ॥ 4॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,4,13528,ततो राजा मतिं प्राप्य सुरताद्विरराम च । कामुकी सुन्दरी किञ्चिन्न च तृप्तिं जगाम सा ॥ 5॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,5,13529,दधार गर्भं सा सद्यो दैवादब्दशतं सती । श्रीगर्भा श्रीयुता सा च सम्बभूव दिने दिने ॥ 6॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,6,13530,शुभे क्षणे शुभदिने शुभयोगे च संयुते । शुभलग्ने शुभांशे च शुभस्वामिग्रहान्विते ॥ 7॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,7,13531,कार्तिकीपूर्णिमायां तु सितवारे च पाद्मज । सुषाव सा च पद्मांशां पद्मिनीं तां मनोहराम् ॥ 8॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,8,13532,शरत्पार्वणचन्द्रास्यां शरत्पङ्कजलोचनाम् । पक्वबिम्बाधरोष्ठीं च पश्यन्तीं सस्मितां गृहम् ॥ 9॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,9,13533,हस्तपादतलारक्तां निम्ननाभिं मनोरमाम् । तदधस्त्रिवलीयुक्तां नितम्बयुगवर्तुलाम् ॥ 10॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,10,13534,शीते सुखोष्णसर्वाङ्गीं ग्रीष्मे च सुखशीतलाम् । श्यामां सुकेशीं रुचिरां न्यग्रोधपरिमण्डलाम् ॥ 11॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,11,13535,पीतचम्पकवर्णाभां सुन्दरीष्वेव सुन्दरीम् । नरा नार्यश्च तां दृष्ट्वा तुलनां दातुमक्षमाः ॥ 12॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,12,13536,तेन नाम्ना च तुलसीं तां वदन्ति मनीषिणः । सा च भूयिष्ठमानेन योग्या स्त्री प्रकृतिर्यथा ॥ 13॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,13,13537,सर्वैर्निषिद्धा तपसे जगाम बदरीवनम् । तत्र देवाब्दलक्षं च चकार परमं तपः ॥ 14॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,14,13538,मनसा नारायणः स्वामी भवितेति च निश्चिता । ग्रीष्मे पञ्चतपाः शीते तोयवस्त्रा च प्रावृषि ॥ 15॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,15,13539,आसनस्था वृष्टिधाराः सहन्तीति दिवानिशम् । विंशत्सहस्रवर्षं च फलतोयाशना च सा ॥ 16॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,16,13540,त्रिंशत्सहस्रवर्षं च पत्राहारा तपस्विनी । चत्वारिंशत्सहस्राब्दं वाय्वाहारा कृशोदरी ॥ 17॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,17,13541,ततो दशसहस्राब्दं निराहारा बभूव सा । निर्लक्ष्यां चैकपादस्थां दृष्ट्वा तां कमलोद्भवः ॥ 18॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,18,13542,समाययौ वरं दातुं परं बदरिकाश्रमम् । चतुर्मुखं च सा दृष्ट्वा ननाम हंसवाहनम् ॥ 19॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,19,13543,तामुवाच जगत्कर्ता विधाता जगतामपि । ब्रह्मोवाच । वरं वृणीष्व तुलसि यत्ते मनसि वाच्छितम् ॥ 20॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,20,13544,हरिभक्तिं हरेर्दास्यमजरामरतामपि । तुलस्युवाच । श‍ृणु तात प्रवक्ष्यामि यन्मे मनसि वाञ्छितम् ॥ 21॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,21,13545,सर्वज्ञस्यापि पुरतः का लज्जा मम साम्प्रतम् । अहं तु तुलसी गोपी गोलोकेऽहं स्थिता पुरा ॥ 22॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,22,13546,कृष्णप्रिया किङ्करी च तदंशा तत्सखी प्रिया । गोविन्दरतिसम्भुक्तामतृप्तां मां च मूर्च्छिताम् ॥ 23॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,23,13547,रासेश्वरी समागत्य ददर्श रासमण्डले । गोविन्दं भर्त्सयामास मां शशाप रुषान्विता ॥ 24॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,24,13548,याहि त्वं मानवीं योनिमित्येवं च शशाप ह । मामुवाच स गोविन्दो मदंशं च चतुर्भुजम् ॥ 25॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,25,13549,लभिष्यसि तपस्तप्त्वा भारते ब्रह्मणो वरात् । इत्येवमुक्त्वा देवेशोऽप्यन्तर्धानं चकार सः ॥ 26॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,26,13550,देव्या भिया तनुं त्यक्त्वा प्राप्तं जन्म गुरो भुवि । अहं नारायणं कान्तं शान्तं सुन्दरविग्रहम् ॥ 27॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,27,13551,साम्प्रतं तं पतिं लब्धुं वरये त्वं च देहि मे । ब्रह्मदेव उवाच । सुदामा नाम गोपश्च श्रीकृष्णाङ्गसमुद्भवः ॥ 28॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,28,13552,तदंशश्चातितेजस्वी लेभे जन्म च भारते । साम्प्रतं राधिकाशापाद्दनुवंशसमुद्भवः ॥ 29॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,29,13553,शङ्खचूडेति विख्यातस्त्रैलोक्ये न च तत्समः । गोलोके त्वां पुरा दृष्ट्वा कामोन्मथितमानसः ॥ 30॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,30,13554,विलम्भितुं न शशाक राधिकायाः प्रभावतः । स च जातिस्मरस्तस्मात्सदामाभूच्च सागरे ॥ 31॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,31,13555,जातिस्मरा त्वमपि सा सर्वं जानासि सुन्दरि । अधुना तस्य पत्नी त्वं सम्भविष्यसि शोभने ॥ 32॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,32,13556,पश्चान्नारायणं शान्तं कान्तमेव वरिष्यसि । शापान्नारायणस्यैव कलया दैवयोगतः ॥ 33॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,33,13557,भविष्यसि वृक्षरूपा त्वं पूता विश्वपावनी । प्रधाना सर्वपुष्पेषु विष्णुप्राणाधिका भवेः ॥ 34॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,34,13558,त्वया विना च सर्वेषां पूजा च विफला भवेत् । वृन्दावने वृक्षरूपा नाम्ना वृन्दावनीति च ॥ 35॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,35,13559,त्वत्पत्रैर्गोपिगोपाश्च पूजयिष्यन्ति माधवम् । वृक्षाधिदेवीरूपेण सार्धं कृष्णेन सन्ततम् ॥ 36॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,36,13560,विहरिष्यसि गोपेन स्वच्छन्दं मद्वरेण च । इत्येवं वचनं श्रुत्वा सस्मिता हृष्टमानसा ॥ 37॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,37,13561,प्रणनाम च ब्रह्माणं तं च किञ्चिदुवाच सा । तुलस्युवाच । यथा मे द्विभुजे कृष्णे वाञ्छा च श्यामसुन्दरे ॥ 38॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,38,13562,सत्यं ब्रवीमि हे तात न तथा च चतुर्भुजे । अतृप्ताहं च गोविन्दे दैवाच्छृङ्गारभङ्गतः ॥ 39॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,39,13563,गोविन्दस्यैव वचनात्प्रार्थयामि चतुर्भुजम् । त्वत्प्रसादेन गोविन्दं पुनरेव सुदुर्लभम् ॥ 40॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,40,13564,ध्रुवमेव लभिष्यामि राधाभीतिं प्रमोचय । ब्रह्यदेव उवाच । गृहाण राधिकामन्त्रं ददामि षोडशाक्षरम् ॥ 41॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,41,13565,तस्याश्च प्राणतुल्या त्वं मद्वरेण भविष्यसि । श‍ृङ्गारं युवयोर्गोप्यं न ज्ञास्यति च राधिका ॥ 42॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,42,13566,राधासमा त्वं सुभगे गोविन्दस्य भविष्यसि । इत्येवमुक्त्वा दत्त्वा च देव्या वै षोडशाक्षरम् ॥ 43॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,43,13567,मन्त्रं चैव जगद्धाता स्तोत्रं च कवचं परम् । सर्वं पूजाविधानं च पुरश्चर्याविधिक्रमम् ॥ 44॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,44,13568,परां शुभाशिषं चैव पूजां चैव चकार सा । बभूव सिद्धा सा देवी तत्प्रसादाद्रमा यथा ॥ 45॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,45,13569,सिद्धं मन्त्रेण तुलसी वरं प्राप यथोदितम् । बुभुजे च महाभोगं यद्विश्वेषु च दुर्लभम् ॥ 46॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,46,13570,प्रसन्नमनसा देवी तत्याज तपसः क्लमम् । सिद्धे फले नराणां च दुःखं च सुखमुत्तमम् ॥ 47॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,47,13571,भुक्त्या पीत्वा च सन्तुष्टा शयनं च चकार सा । तल्पे मनोरमे तत्र पुष्पचन्दनचर्चिते ॥ 48॥ 9,९.१७,सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।,48,13572,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे धर्मध्वजसुतातुलस्युपाख्यानवर्णनं नाम सप्तदशोऽध्यायः ॥ ९.१७॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,0,13573,नारायण उवाच । तुलसी परितुष्टा च सुष्वाप हृष्टमानसा । नवयौवनसम्पन्ना वृषध्वजवराङ्गना ॥ 1॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,1,13574,चिक्षेप पञ्चबाणश्च पञ्चबाणांश्च तां प्रति । पुष्पायुधेन सा दग्धा पुष्पचन्दनचर्चिता ॥ 2॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,2,13575,पुलकाङ्कितसर्वाङ्गी कम्पितारक्तलोचना । क्षणं सा शुष्कतां प्राप क्षणं मूर्च्छामवाप ह ॥ 3॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,3,13576,क्षणमुद्विग्नतां प्राप क्षणं तन्द्रां सुखावहाम् । क्षणं च दहनं प्राप क्षणं प्राप प्रसन्नताम् ॥ 4॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,4,13577,क्षणं सा चेतनां प्राप क्षणं प्राप विषण्णताम् । उत्तिष्ठन्ती क्षणं तल्पाद् गच्छन्ती निकटे क्षणम् ॥ 5॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,5,13578,भ्रमन्ती क्षणमुद्वेगान्निवसन्ती क्षणं पुनः । क्षणमेव समुद्वेगात्सुष्वाप पुनरेव सा ॥ 6॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,6,13579,पुष्पचन्दनतल्पं च तद् बभूवातिकण्टकम् । विषहारि सुखं दिव्यं सुन्दरं च फलं जलम् ॥ 7॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,7,13580,निलयं च बिलाकारं सूक्ष्मवस्त्रं हुताशनः । सिन्दूरपत्रकं चैव व्रणतुल्यं च दुःखदम् ॥ 8॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,8,13581,क्षणं ददर्श तन्द्रायां सुवेषं पुरुषं सती । सुन्दरं च युवानं च सस्मितं रसिकेश्वरम् ॥ 9॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,9,13582,चन्दनोक्षितसर्वाङ्गं रत्नभूषणभूषितम् । आगच्छन्तं माल्यवन्तं पिबन्तं तन्मुखाम्बुजम् ॥ 10॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,10,13583,कथयन्तं रतिकथां ब्रुवन्तं मधुरं मुहुः । सम्भुक्तवन्तं तल्पे च समाश्लिष्यन्तमीप्सितम् ॥ 11॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,11,13584,पुनरेव तु गच्छन्तमागच्छन्तं च सन्निधौ । यान्तं क्व यासि प्राणेश तिष्ठत्येवमुवाच सा ॥ 12॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,12,13585,पुनश्च चेतनां प्राप्य विललाप पुनः पुनः । एवं सा यौवनं प्राप्य तस्थौ तत्रैव नारद ॥ 13॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,13,13586,शङ्खचूडो महायोगी जैगीषव्यान्मनोहरम् । कृष्णमन्त्रं च सम्प्राप्य कृत्वा सिद्धं तु पुष्करे ॥ 14॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,14,13587,कवचं च गले बद्ध्वा सर्वमङ्गलमङ्गलम् । ब्रह्मणश्च वरं प्राप्य यत्ते मनसि वाञ्छितम् ॥ 15॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,15,13588,आज्ञया ब्रह्मणः सोऽपि बदरीं च समाययौ । आगच्छन्तं शङ्खचूडं ददर्श तुलसी मुने ॥ 16॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,16,13589,नवयौवनसम्पन्नं कामदेवसमप्रभम् । श्वेतचम्पकवर्णाभं रत्नभूषणभूषितम् ॥ 17॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,17,13590,शरत्पार्वणचन्द्रास्यं शरत्पङ्कजलोचनम् । रत्नसारविनिर्माणविमानस्थं मनोहरम् ॥ 18॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,18,13591,रत्नकुण्डलयुग्मेन गण्डस्थलविराजितम् । पारिजातप्रसूनानां मालावन्तं च सुस्मितम् ॥ 19॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,19,13592,कस्तूरीकुङ्कुमायुक्तं सुगन्धिचन्दनान्वितम् । सा दृष्ट्वा सन्निधावेनं मुखमाच्छाद्य वाससा ॥ 20॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,20,13593,सस्मिता तं निरीक्षन्ती सकटाक्षं पुनः पुनः । बभूवातिनम्रमुखी नवसङ्गमलज्जिता ॥ 21॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,21,13594,शरदिन्दुविनिन्द्यैकस्वमुखेन्दुविराजिता । अमूल्यरत्ननिर्माणयावकावलिसंयुता ॥ 22॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,22,13595,मणीन्द्रसारनिर्माणक्वणन्मञ्जीररञ्जिता । दधती कबरीभारं मालतीमाल्यसंयुतम् ॥ 23॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,23,13596,अमूल्यरत्ननिर्माणमकराकृतिकुण्डला । चित्रकुण्डलयुग्मेन गण्डस्थलविराजिता ॥ 24॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,24,13597,रत्नेन्द्रसारहारेण स्तनमध्यस्थलोज्ज्वला । रत्नकङ्कणकेयूरशङ्खभूषणभूषिता ॥ 25॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,25,13598,रत्नाङ्गुलीयकैर्दिव्यैरङ्गुल्यावलिराजिता । दृष्ट्वा तां ललितां रम्यां सुशीलां सुन्दरीं सतीम् ॥ 26॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,26,13599,उवास तत्समीपे तु मधुरं तामुवाच सः । शङ्खचूड उवाच । का त्वं कस्य च कन्या च धन्या मान्या च योषिताम् ॥ 27॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,27,13600,का त्वं मानिनि कल्याणि सर्वकल्याणदायिनि । मौनीभूते किङ्करे मां सम्भाषां कुरु सुन्दरि ॥ 28॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,28,13601,इत्येवं वचनं श्रुत्वा सकामा वामलोचना । सस्मिता नम्रवदना सकामं तमुवाच सा ॥ 29॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,29,13602,तुलस्युवाच । धर्मध्वजसुताहं च तपस्यायां तपोवने । तपस्विन्यहं तिष्ठामि कस्त्वं गच्छ यथासुखम् ॥ 30॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,30,13603,कामिनीं कुलजातां च रहस्येकाकिनीं सतीम् । न पृच्छति कुले जात इत्येवं मे श्रुतौ श्रुतम् ॥ 31॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,31,13604,लम्पटोऽसत्कुले जातो धर्मशास्त्रार्थवर्जितः । येनाश्रुतः श्रुतेरर्थः स कामीच्छति कामिनीम् ॥ 32॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,32,13605,आपातमधुरां मत्तामन्तकां पुरुषस्य ताम् । विषकुम्भाकाररूपाममृतास्यां च सन्ततम् ॥ 33॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,33,13606,हृदये क्षुरधाराभां शश्वन्मधुरभाषिणीम् । स्वकार्यपरिनिष्पत्त्यै तत्परा सततं च ताम् ॥ 34॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,34,13607,कार्यार्थे स्वामिवशगामन्यथैवावशां सदा । स्वान्तर्मलिनरूपां च प्रसन्नवदनेक्षणाम् ॥ 35॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,35,13608,श्रुतौ पुराणे यासां च चरित्रमतिदूषितम् । तासु को विश्वसेत्प्राज्ञः प्रज्ञावांश्च दुराशयः ॥ 36॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,36,13609,तासां को वा रिपुर्मित्रं प्रार्थयन्ति नवं नवम् । दृष्ट्वा सुवेषं पुरुषमिच्छन्ति हृदये सदा ॥ 37॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,37,13610,बाह्ये स्वार्थं सतीत्वं च ज्ञापयन्ती प्रयत्नतः । शश्वत्कामा च रामा च कामाधारा मनोहरा ॥ 38॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,38,13611,बाह्ये छलात्खेदयन्ती स्वान्तर्मैथुनमानसा । कान्तं हसन्ती रहसि बाह्येऽतीव सुलज्जिता ॥ 39॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,39,13612,मानिनी मैथुनाभावे कोपना कलहाङ्कुरा । सुप्रीता भूरिसम्भोगात्स्वल्पमैथुनदुःखिता ॥ 40॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,40,13613,सुमिष्टान्नाच्छीततोयादाकाङ्क्षन्ती च मानसे । सुन्दरं रसिकं कान्तं युवानं गुणिनं सदा ॥ 41॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,41,13614,सुतात्परमभिस्नेहं कुर्वती रसिकोपरि । प्राणाधिकं प्रियतमं सम्भोगकुशलं प्रियम् ॥ 42॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,42,13615,पश्यन्ती रिपुतुल्यं च वृद्धं वा मैथुनाक्षमम् । कलहं कुर्वती शश्वत्तेन सार्धं सुकोपना ॥ 43॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,43,13616,वाचया भक्षयन्ती तं सर्प आखुमिवोल्बणम् । दुःसाहसस्वरूपा च सर्वदोषाश्रया सदा ॥ 44॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,44,13617,ब्रह्मविष्णुशिवादीनां दुःसाध्या मोहरूपिणी । तपोमार्गार्गला शश्वन्मोक्षद्वारकपाटिका ॥ 45॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,45,13618,हरेर्भक्तिव्यवहिता सर्वमायाकरण्डिका । संसारकारागारे च शश्वन्निगडरूपिणी ॥ 46॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,46,13619,इन्द्रजालस्वरूपा च मिथ्या च स्वप्नरूपिणी । बिभ्रती बाह्यसौन्दर्यमधोऽङ्गमतिकुत्सितम् ॥ 47॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,47,13620,नानाविण्मूत्रपूयानामाधारं मलसंयुतम् । दुर्गन्धिदोषसंयुक्तं रक्तारक्तमसंस्कृतम् ॥ 48॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,48,13621,मायारूपा मायिनां च विधिना निर्मिता पुरा । विषरूपा मुमुक्षूणामदृश्याप्यभिवाञ्छताम् ॥ 49॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,49,13622,इत्युक्त्वा तुलसी तं तु विरराम च नारद । सस्मितः शङ्खचूडश्च प्रवक्तुमुपचक्रमे ॥ 50॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,50,13623,शङ्खचूड उवाच । त्वया यत्कथितं देवि न च सर्वमलीककम् । किञ्चित्सत्यमलीकं च किञ्चिन्मत्तो निशामय ॥ 51॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,51,13624,निर्मितं द्विविधं धात्रा स्त्रीरूपं सर्वमोहनम् । कृत्वा रूपं वास्तवं च प्रशस्यं चाप्रशंसितम् ॥ 52॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,52,13625,लक्ष्मीः सरस्वती दुर्गा सावित्री राधिकादिका । सृष्टिसूत्रस्वरूपा च आद्या सृष्टिर्विनिर्मिता ॥ 53॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,53,13626,एतासामंशरूपं च स्त्रीरूपं वास्तवं स्मृतम् । तत्प्रशस्यं यशोरूपं सर्वमङ्गलकारकम् ॥ 54॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,54,13627,शतरूपा देवहूती स्वधा स्वाहा च दक्षिणा । छायावती रोहिणी च वरुणानी शची तथा ॥ 55॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,55,13628,कुबेरस्य च पत्नी याप्यदितिश्च दितिस्तथा । लोपामुद्रानसूया च कोटभी तुलसी तथा ॥ 56॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,56,13629,अहल्यारुन्धती मेना तारा मन्दोदरी तथा । दमयन्ती वेदवती गङ्गा च मनसा तथा ॥ 57॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,57,13630,पुष्टिस्तुष्टिः स्मृतिर्मेधा कालिका च वसुन्धरा । षष्ठी मङ्गलचण्डी च मूर्तिश्च धर्मकामिनी ॥ 58॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,58,13631,स्वस्तिः श्रद्धा च शान्तिश्च कान्तिः क्षान्तिस्तथा परा । निद्रा तन्द्रा क्षुत्पिपासा सन्ध्या रात्रिदिनानि च ॥ 59॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,59,13632,सम्पत्तिर्धृतिकीर्ती च क्रिया शोभा प्रभा शिवा । यत्स्त्रीरूपं च सम्भूतमुत्तमं तु युगे युगे ॥ 60॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,60,13633,कलाकलांशरूपं च स्वर्वेश्यादिकमेव च । तदप्रशस्यं विश्वेषु पुंश्चलीरूपमेव च ॥ 61॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,61,13634,सत्त्वप्रधानं यद्रूपं तद्युक्तं च प्रभावतः । तदुत्तमं च विश्वेषु साध्वीरूपं प्रशंसितम् ॥ 62॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,62,13635,तद्वास्तवं च विज्ञेयं प्रवदन्ति मनीषिणः । रजोरूपं तमोरूपं कलासु विविधं स्मृतम् ॥ 63॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,63,13636,मध्यमा रजसश्चांशास्तास्तु भोगेषु लोलुपाः । सुखसम्भोगवश्याश्च स्वकार्ये निरताः सदा ॥ 64॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,64,13637,कपटा मोहकारिण्यो धर्मार्थविमुखाः सदा । रजोरूपस्य साध्वीत्वमतो नैवोपजायते ॥ 65॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,65,13638,इदं मध्यमरूपं च प्रवदन्ति मनीषिणः । तमोरूपं दुर्निवार्यमधमं तद्विदुर्बुधाः ॥ 66॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,66,13639,न पृच्छति कुले जातः पण्डितश्च परस्त्रियम् । निर्जने निर्जले वापि रहस्यपि परस्त्रियम् ॥ 67॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,67,13640,आगच्छामि त्वत्समीपमाज्ञया ब्रह्मणोऽधुना । गान्धर्वेण विवाहेन त्वां ग्रहीष्यामि शोभने ॥ 68॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,68,13641,अहमेव शङ्खचूडो देवविद्रावकारकः । दनुवंश्यो विशेषेण सुदामाहं हरेः पुरा ॥ 69॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,69,13642,अहमष्टसु गोपेषु गोपोऽपि पार्षदेषु च । अधुना दानवेन्द्रोऽहं राधिकायाश्च शापतः ॥ 70॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,70,13643,जातिस्मरोऽहं जानामि कृष्णमन्त्रप्रभावतः । जातिस्मरा त्वं तुलसी सम्भुक्ता हरिणा पुरा ॥ 71॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,71,13644,त्वमेव राधिकाकोपाज्जातासि भारते भुवि । त्वां सम्भोक्तुमुत्सुकोऽहं नालं राधाभयात्ततः ॥ 72॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,72,13645,इत्येवमुक्त्वा स पुमान्विरराम महामुने । सस्मितं तुलसी तुष्टा प्रवक्तुमुपचक्रमे ॥ 73॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,73,13646,तुलस्युवाच । एवंविधो बुधो नित्यं विश्वेषु च प्रशंसितः । कान्तमेवंविधं कान्ता शश्वदिच्छति कामतः ॥ 74॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,74,13647,त्वयाहमधुना सत्यं विचारेण पराजिता । स निन्दितश्चाप्यशुचिर्यः पुमांश्च स्त्रिया जितः ॥ 75॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,75,13648,निन्दन्ति पितरो देवा बान्धवाः स्त्रीजितं नरम् । स्त्रीजितं मनसा माता पिता भ्राता च निन्दति ॥ 76॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,76,13649,शुद्धो विप्रो दशाहेन जातके मृतके यथा । भूमिपो द्वादशाहेन वैश्यः पञ्चदशाहतः ॥ 77॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,77,13650,शूद्रो मासेन वेदेषु मातृवद्धीनसङ्करः । अशुचिः स्त्रीजितः शुद्ध्येच्चितादहनकालतः ॥ 78॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,78,13651,न गह्णन्तीच्छया तस्य पितरः पिण्डतर्पणम् । न गह्णन्त्येव देवाश्च तस्य पुष्पजलादिकम् ॥ 79॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,79,13652,किं वा ज्ञानेन तपसा जपहोमप्रपूजनैः । किं विद्यया च यशसा स्त्रीभिर्यस्य मनो हृतम् ॥ 80॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,80,13653,विद्याप्रभावज्ञानार्थं मया त्वं च परीक्षितः । कृत्वा परीक्षां कान्तस्य वृणोति कामिनी वरम् ॥ 81॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,81,13654,वराय गुणहीनाय वृद्धायाज्ञानिने तथा । दरिद्राय च मूर्खाय रोगिणे कुत्सिताय च ॥ 82॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,82,13655,अत्यन्तकोपयुक्ताय वात्यन्तदुर्मुखाय च । पङ्गवे चाङ्गहीनाय चान्धाय बधिराय च ॥ 83॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,83,13656,जडाय चैव मूकाय क्लीबतुल्याय पापिने । ब्रह्महत्यां लभेत्सोऽपि स्वकन्यां प्रददाति यः ॥ 84॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,84,13657,शान्ताय गुणिने चैव यूने च विदुषेऽपि च । साधवे च सुतां दत्त्वा दशयज्ञफलं लभेत् ॥ 85॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,85,13658,यः कन्यापालनं कृत्वा करोति यदि विक्रयम् । विक्रेता धनलोभेन कुम्भीपाकं स गच्छति ॥ 86॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,86,13659,कन्यामूत्रं पुरीषं च तत्र भक्षति पातकी । कृमिभिर्दंशितः काकैर्यावदिन्द्राश्चतुर्दश ॥ 87॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,87,13660,तदन्ते व्याधिसंयुक्तः स लभेज्जन्म निश्चितम् । विक्रीणाति मांसभारं वहत्येव दिवानिशम् ॥ 88॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,88,13661,इत्येवमुक्त्वा तुलसी विरराम तपोनिधे । ब्रह्मोवाच । किं करोषि शङ्खचूड संवादमनया सह ॥ 89॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,89,13662,गान्धर्वेण विवाहेन त्वं चास्या ग्रहणं कुरु । पुरुषेष्वसि रत्नं त्वं स्त्रीषु रत्नं त्वियं सती ॥ 90॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,90,13663,विदग्धाया विदग्धेन सङ्गमो गुणवान्भवेत् । निर्विरोधसुखं राजन् को वा त्यजति दुर्लभम् ॥ 91॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,91,13664,योऽविरोधसुखत्यागी स पशुर्नात्र संशयः । किं परीक्षसि त्वं कान्तमीदृशं गुणिनं सति ॥ 92॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,92,13665,देवानामसुराणां च दानवानां विमर्दकम् । यथा लक्ष्मीश्च लक्ष्मीशे यथा कृष्णे च राधिका ॥ 93॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,93,13666,यथा मयि च सावित्री भवानी च भवे यथा । यथा धरा वराहे च दक्षिणा च यथाध्वरे ॥ 94॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,94,13667,द्यथात्रेरनसूया च दमयन्ती यथा नले । रोहिणी च यथा चन्द्रे यथा कामे रतिः सती ॥ 95॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,95,13668,यथादितिः कश्यपे च वसिष्ठेऽरुन्धती सखी । यथाहल्या गौतमे च देवहूतिश्च कर्दमे ॥ 96॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,96,13669,यथा बृहस्पतौ तारा शतरूपा मनौ यथा । यथा च दक्षिणा यज्ञे यथा स्वाहा हुताशने ॥ 97॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,97,13670,यथा शची महेन्द्रे च यथा पुष्टिर्गणेश्वरे । देवसेना यथा स्कन्दे धर्मे भूर्तिर्यथा सती ॥ 98॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,98,13671,सौभाग्या सुप्रिया त्वं च शङ्खचूडे तथा भव । अनेन सार्धं सुचिरं सुन्दरेण च सुन्दरि ॥ 99॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,99,13672,स्थाने स्थाने विहारं च यथेच्छं कुरु सन्ततम् । पश्चात्प्राप्यसि गोलोके श्रीकृष्णं पुनरेव च । चतुर्भुजं च वैकुण्ठे शङ्खचूडे मृते सति ॥ 100॥ 9,९.१८,अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।,100,13673,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनं नामाष्टादशोऽध्यायः ॥ ९.१८॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,0,13674,नारद उवाच । विचित्रमिदमाख्यानं भवता समुदाहृतम् । श्रुतेन येन मे तृप्तिर्न कदापि हि जायते ॥ 1॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,1,13675,ततः परं तु यज्जातं तत्त्वं वद महामते । श्रीनारायण उवाच । इत्येवमाशिषं दत्त्वा स्वालयं च ययौ विधिः ॥ 2॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,2,13676,गान्धर्वेण विवाहेन जगृहे तां च दानवः । स्वर्गे दुन्दुभिवाद्यं च पुष्पवृष्टिर्बभूव ह ॥ 3॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,3,13677,स रेमे रामया सार्धं वासगेहे मनोरमे । मूर्च्छां सा प्राप तुलसी नवसङ्गमसङ्गता ॥ 4॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,4,13678,निमग्ना निर्जले साध्वी सम्भोगसुखसागरे । चतुःषष्टिकलामानं चतुःषष्टिविधं सुखम् ॥ 5॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,5,13679,कामशास्त्रे यन्निरुक्तं रसिकानां यथेप्सितम् । अङ्गप्रत्यङ्गसंश्लेषपूर्वकं स्त्रीमनोहरम् ॥ 6॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,6,13680,तत्सर्वं रसश‍ृङ्गारं चकार रसिकेश्वरः । अतीव रम्यदेशे च सर्वजन्तुविवर्जिते ॥ 7॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,7,13681,पुष्पचन्दनतल्पे च पुष्पचन्दनवायुना । पुष्पोद्याने नदीतीरे पुष्पचन्दनचर्चिते ॥ 8॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,8,13682,गहीत्वा रसिको रासे पुष्पचन्दनचर्चिताम् । भूषितो भूषणेनैव रत्नभूषणभूषिताम् ॥ 9॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,9,13683,सुरते विरतिर्नास्ति तयोः सुरतिविज्ञयोः । जहार मानसं भर्तुर्लोलया लीलया सती ॥ 10॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,10,13684,चेतनां रसिकायाश्च जहार रसभाववित् । वक्षसश्चन्दनं राज्ञस्तिलकं विजहार सा ॥ 11॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,11,13685,स च जहार तस्याश्च सिन्दूरं बिन्दुपत्रकम् । तद्वक्षस्युरोजे च नखरेखां ददौ मुदा ॥ 12॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,12,13686,सा ददौ तद्वामपार्श्वे करभूषणलक्षणम् । राजा तदोष्ठपुटके ददौ रदनदंशनम् ॥ 13॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,13,13687,तद्गण्डयुगले सा च प्रददौ तच्चतुर्गुणम् । आलिङ्गनं चुम्बनं च जङ्घादिमर्दनं तथा ॥ 14॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,14,13688,एवं परस्परं क्रीडां चक्रतुस्तौ विजानतौ । सुरते विरते तौ च समुत्थाय परस्परम् ॥ 15॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,15,13689,सुवेषं चक्रतुस्तत्र यद्यन्मनसि वाञ्छितम् । चन्दनैः कुङ्कुमारक्तैः सा तस्य तिलकं ददौ ॥ 16॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,16,13690,सर्वाङ्गे सुन्दरे रम्ये चकार चानुलेपनम् । सुवासं चैव ताम्बूलं वह्निशुद्धे च वाससी ॥ 17॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,17,13691,पारिजातस्य कुसुमं जरारोगहरं परम् । अमूल्यरत्ननिर्माणमङ्गुलीयकमुत्तमम् ॥ 18॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,18,13692,सुन्दरं च मणिवरं त्रिषु लोकेषु दुर्लभम् । दासी तवाहमित्येवं समुच्चार्य पुनः पुनः ॥ 19॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,19,13693,ननाम परया भक्त्या स्वामिनं गुणशालिनम् । सस्मिता तन्मुखाम्भोजं लोचनाभ्यां पुनः पुनः ॥ 20॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,20,13694,निमेषरहिताभ्यां चाप्यपश्यत्कामसुन्दरम् । स च तां च समाकृष्य चकार वक्षसि प्रियाम् ॥ 21॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,21,13695,सस्मितं वाससाच्छन्नं ददर्श मुखपङ्कजम् । चुचुम्ब कठिने गण्डे बिम्बोष्ठौ पुनरेव च ॥ 22॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,22,13696,ददौ तस्यै वस्त्रयुग्मं वरुणादाहृतं च यत् । तदाहृतां रत्नमालां त्रिषु लोकेषु दुर्लभाम् ॥ 23॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,23,13697,ददौ मञ्जीरयुग्मं च स्वाहाया आहृतं च यत् । केयूरयुग्मं छायाया रोहिण्याश्चैव कुण्डलम् ॥ 24॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,24,13698,अङ्गुलीयकरत्नानि रत्याश्च करभूषणम् । शङ्खं च रुचिरं चित्रं यद्दत्तं विश्वकर्मणा ॥ 25॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,25,13699,विचित्रपद्मकश्रेणीं शय्यां चापि सुदुर्लभाम् । भूषणानि च दत्त्वा स भूपो हासं चकार ह ॥ 26॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,26,13700,निर्ममे कबरीभारे तस्या माङ्गल्यभूषणम् । सुचित्रं पत्रकं गण्डमण्डलेऽस्याः समं तथा ॥ 27॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,27,13701,चन्द्रलेखात्रिभिर्युक्तं चन्दनेन सुगन्धिना । परीतं परितश्चित्रैः सार्धं कुङ्कुमबिन्दुभिः ॥ 28॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,28,13702,ज्वलत्प्रदीपाकारं च सिन्दूरतिलकं ददौ । तत्पादपद्मयुगले स्थलपद्मविनिन्दिते ॥ 29॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,29,13703,चित्रालक्तकरागं च नखरेषु ददौ मुदा । स्ववक्षसि मुहुर्न्यस्य सरागं चरणाम्बुजम् ॥ 30॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,30,13704,हे देवि तव दासोऽहमित्युच्चार्य पुनः पुनः । रत्नभूषितहस्तेन तां च कृत्वा स्ववक्षसि ॥ 31॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,31,13705,तपोवनं परित्यज्य राजा स्थानान्तरं ययौ । मलये देवनिलये शैले शैले तपोवने ॥ 32॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,32,13706,स्थाने स्थानेऽतिरम्ये च पुष्पोद्याने च निर्जने । कन्दरे कन्दरे सिन्धुतीरे चैवातिसुन्दरे ॥ 33॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,33,13707,पुष्पभद्रानदीतीरे नीरवातमनोहरे । पुलिने पुलिने दिव्ये नद्यां नद्यां नदे नदे ॥ 34॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,34,13708,मधौ मधुकराणां च मधुरध्वनिनादिते । विस्पन्दने सुरसने नन्दने गन्धमादने ॥ 35॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,35,13709,देवोद्याने नन्दने च चित्रचन्दनकानने । चम्पकानां केतकीनां माधवीनां च माधवे ॥ 36॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,36,13710,कुन्दानां मालतीनां च कुमुदाम्भोजकानने । कल्पवृक्षे कल्पवृक्षे पारिजातवने वने ॥ 37॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,37,13711,निर्जने काञ्चने स्थाने धन्ये काञ्चनपर्वते । काञ्चीवने किञ्जलके कञ्चुके काञ्चनाकरे ॥ 38॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,38,13712,पुष्पचन्दनतल्पेषु पुंस्कोकिलरुतश्रुते । पुष्पचन्दनसंयुक्तः पुष्पचन्दनवायुना ॥ 39॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,39,13713,कामुक्या कामुकः कामात्स रेमे रामया सह । न हि तृप्तो दानवेन्द्रस्तृप्तिं नैव जगाम सा ॥ 40॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,40,13714,हविषा कृष्णवर्त्मेव ववृधे मदनस्तयोः । तया सह समागत्य स्वाश्रमं दानवस्ततः ॥ 41॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,41,13715,रम्यं क्रीडालयं गत्वा विजहार पुनः पुनः । एवं स बुभुजे राज्यं शङ्खचूडः प्रतापवान् ॥ 42॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,42,13716,एकमन्वन्तरं पूर्णं राजराजेश्वरो महान् । देवानामसुराणां च दानवानां च सन्ततम् ॥ 43॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,43,13717,गन्धर्वाणां किन्नराणां राक्षसानां च शान्तिदः । हृताधिकारा देवाश्च चरन्ति भिक्षुका यथा ॥ 44॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,44,13718,ते सर्वेऽतिविषण्णाश्च प्रजग्मुर्ब्रह्मणः सभाम् । वृत्तान्तं कथयामासू रुरुदुश्च भृशं मुहुः ॥ 45॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,45,13719,तदा ब्रह्मा सुरैः सार्धं जगाम शङ्करालयम् । सर्वेशं कथयामास विधाता चन्द्रशेखरम् ॥ 46॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,46,13720,ब्रह्मा शिवश्च तैः सार्धं वैकुण्ठं च जगाम ह । दुर्लभं परमं धाम जरामृत्युहरं परम् ॥ 47॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,47,13721,सम्प्राप च वरं द्वारमाश्रमाणां हरेरहो । ददर्श द्वारपालांश्च रत्नसिंहासनस्थितान् ॥ 48॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,48,13722,शोभितान्पीतवस्त्रैश्च रत्नभूषणभूषितान् । वनमालान्वितान्सर्वान् श्यामसुन्दरविग्रहान् ॥ 49॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,49,13723,शङ्खचक्रगदापद्मधरांश्चैव चतुर्भुजान् । सस्मितान्स्मेरवक्त्रास्यान्पद्मनेत्रान्मनोहरान् ॥ 50॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,50,13724,ब्रह्मा तान्कथयामास वृत्तान्तं गमनार्थकम् । तेऽनुज्ञां च ददुस्तस्मै प्रविवेश तदाज्ञया ॥ 51॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,51,13725,एवं षोडश द्वाराणि निरीक्ष्य कमलोद्भवः । देवैः सार्धं तानतीत्य प्रविवेश हरेः सभाम् ॥ 52॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,52,13726,देवर्षिभिः परिवृतां पार्षदैश्च चतुर्भुजैः । नारायणस्वरूपैश्च सर्वैः कौस्तुभभूषितैः ॥ 53॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,53,13727,नवेन्दुमण्डलाकारां चतुरस्रां मनोहराम् । मणीन्द्रहारनिर्माणां हीरासारसुशोभिताम् ॥ 54॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,54,13728,अमूल्यरत्नखचितां रचितां स्वेच्छया हरेः । माणिक्यमालाजालाभां मुक्तापङ्क्तिविभूषिताम् ॥ 55॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,55,13729,मण्डितां मण्डलाकारै रत्नदर्पणकोटिभिः । विचित्रैश्चित्ररेखाभिर्नानाचित्रविचित्रिताम् ॥ 56॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,56,13730,पद्मरागेन्द्ररचितां रुचिरां मणिपङ्कजैः । सोपानशतकैर्युक्तां स्यमन्तकविनिर्मितैः ॥ 57॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,57,13731,पट्टसूत्रग्रन्थियुक्तैश्चारुचन्दनपल्लवैः । इन्द्रनीलस्तम्भवर्यैर्वेष्टितां सुमनोहराम् ॥ 58॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,58,13732,सद्रत्नपूर्णकुम्भानां समूहैश्च समन्विताम् । पारिजातप्रसूनानां मालाजालैर्विराजिताम् ॥ 59॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,59,13733,कस्तूरीकुङ्कुमारक्तैः सुगन्धिचन्दनद्रुमैः । सुसंस्कृतां तु सर्वत्र वासितां गन्धवायुना ॥ 60॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,60,13734,विद्याधरीसमूहानां नृत्यजालैर्विराजिताम् । सहस्रयोजनायामां परिपूर्णां च किङ्करैः ॥ 61॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,61,13735,ददर्श श्रीहरिं ब्रह्मा शङ्करश्च सुरैः सह । वसन्तं तन्मध्यदेशे यथेन्दुं तारकावृतम् ॥ 62॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,62,13736,अमूल्यरत्ननिर्माणचित्रसिंहासने स्थितम् । किरीटिनं कुण्डलिनं वनमालाविभूषितम् ॥ 63॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,63,13737,चन्दनोक्षितसर्वाङ्गं बिभ्रतं केलिपङ्कजम् । पुरतो नृत्यगीतं च पश्यन्तं सस्मितं मुदा ॥ 64॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,64,13738,शान्तं सरस्वतीकान्तं लक्ष्मीधृतपदाम्बुजम् । लक्ष्म्या प्रदत्तं ताम्बूलं भुक्तवन्तं सुवासितम् ॥ 65॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,65,13739,गङ्गया परया भक्त्या सेवितं श्वेतचामरैः । सर्वैश्च स्तूयमानं च भक्तिनम्रात्मकन्धरैः ॥ 66॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,66,13740,एवं विशिष्टं तं दृष्ट्वा परिपूर्णतमं प्रभुम् । ब्रह्मादयः सुराः सर्वे प्रणम्य तुष्टुवुस्तदा ॥ 67॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,67,13741,पुलकाञ्चितसर्वाङ्गाः साश्रुनेत्राश्च गद्गदाः । भक्ताश्च परया भक्त्या भीता नम्रात्मकन्धराः ॥ 68॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,68,13742,कृताञ्जलिपुटो भूत्वा विधाता जगतामपि । वृत्तान्तं कथयामास विनयेन हरेः पुरः ॥ 69॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,69,13743,हरिस्तद्वचनं श्रुत्वा सर्वज्ञः सर्वभाववित् । प्रहस्योवाच ब्रह्माणं रहस्यं च मनोहरम् ॥ 70॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,70,13744,श्रीभगवानुवाच । शङ्खचूडस्य वृत्तान्तं सर्वं जानामि पद्मज । मद्भक्तस्य च गोपस्य महातेजस्विनः पुरा ॥ 71॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,71,13745,श‍ृणु तत्सर्ववृत्तान्तमितिहासं पुरातनम् । गोलोकस्यैव चरितं पापघ्नं पुण्यकारकम् ॥ 72॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,72,13746,सुदामा नाम गोपश्च पार्षदप्रवरो मम । स प्राप दानवीं योनिं राधाशापात्सुदारुणात् ॥ 73॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,73,13747,तत्रैकदाहमगमं स्वालयाद्रासमण्डलम् । विरजामपि नीत्वा च मम प्राणाधिका परा ॥ 74॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,74,13748,सा मां विरजया सार्धं विज्ञाय किङ्करीमुखात् । पश्चात्क्रुद्धा साजगाम न ददर्श च तत्र माम् ॥ 75॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,75,13749,विरजां च नदीरूपां मां ज्ञात्वा च तिरोहितम् । पुनर्जगाम सा दृष्ट्वा स्वालयं सखिभिः सह ॥ 76॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,76,13750,मां दृष्ट्वा मन्दिरे देवी सुदाम्ना सहितं पुरा । भृशं सा भर्त्सयामास मौनीभूतं च सुस्थिरम् ॥ 77॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,77,13751,तच्छ्रुत्वासहमानश्च सुदामा तां चुकोप ह । स च तां भर्त्सयामास कोपेन मम सनिधौ ॥ 78॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,78,13752,तच्छ्रुत्वा कोपयुक्ता सा रक्तपङ्कजलोचना । बहिष्कर्तुं चकाराज्ञां सन्त्रस्तं मम संसदि ॥ 79॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,79,13753,सखीलक्षं समुत्तस्थौ दुर्वारं तेजसोल्बणम् । बहिश्चकार तं तूर्णं जल्पन्तं च पुनः पुनः ॥ 80॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,80,13754,सा च तत्ताडनं तासां श्रुत्वा रुष्टा शशाप ह । याहि रे दानवीं योनिमित्येवं दारुणं वचः ॥ 81॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,81,13755,तं गच्छन्तं शपन्तं च रुदन्तं मां प्रणम्य च । वारयामास तुष्टा सा रुदती कृपया पुनः ॥ 82॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,82,13756,हे वत्स तिष्ठ मा गच्छ क्व यासीति पुनः पुनः । समुच्चार्य च तत्पश्चाज्जगाम सा च विक्लवम् ॥ 83॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,83,13757,गोप्यश्च रुरुदुः सर्वा गोपाश्चापि सुदुःखिताः । ते सर्वे राधिका चापि तत्पश्चाद् बोधिता मया ॥ 84॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,84,13758,आयास्यति क्षणार्धेन कृत्वा शापस्य पालनम् । सुदामंस्त्वमिहागच्छेत्युक्त्वा सा च निवारिता ॥ 85॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,85,13759,गोलोकस्य क्षणार्धेन चैकं मन्वन्तरं भवेत् । पृथिव्यां जगतां धातरित्येव वचनं ध्रुवम् ॥ 86॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,86,13760,इत्येवं शङ्खचूडश्च पुनस्तत्रैव यास्यति । महाबलिष्ठो योगेशः सर्वमायाविशारदः ॥ 87॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,87,13761,मम शूलं गृहीत्वा च शीघ्रं गच्छत भारतम् । शिवः करोतु संहारं मम शूलेन रक्षसः ॥ 88॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,88,13762,ममैव कवचं कण्ठे सर्वमङ्गलकारकम् । बिभर्ति दानवः शश्वत्संसारे विजयी ततः ॥ 89॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,89,13763,तस्मिन् ब्रह्मन् स्थिते चैव न कोऽपि हिंसितुं क्षमः । तद्याचनां करिष्यामि विप्ररूपोऽहमेव च ॥ 90॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,90,13764,सतीत्वहानिस्तत्पत्न्या यत्र काले भविष्यति । तत्रैव काले तन्मृत्युरिति दत्तो वरस्त्वया ॥ 91॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,91,13765,तत्पत्न्याश्चोदरे वीर्यमर्पयिष्यामि निश्चितम् । तत्क्षणे चैव तन्मृत्युर्भविष्यति न संशयः ॥ 92॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,92,13766,पश्चात्सा देहमुत्सज्य भविष्यति मम प्रिया । इत्युक्त्वा जगतां नाथो ददौ शूलं हराय च ॥ 93॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,93,13767,शूलं दत्त्वा ययौ शीघ्रं हरिरभ्यन्तरे मुदा । भारतं च ययुर्देवा ब्रह्यरुद्रपुरोगमाः ॥ 94॥ 9,९.१९,एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।,94,13768,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे शङ्खचूडेन सह तुलसीसङ्गमवर्णनं नामैकोनविंशोऽध्यायः ॥ ९.१९॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,0,13769,श्रीनारायण उवाच । ब्रह्मा शिवं सन्नियोज्य संहारे दानवस्य च । जगाम स्वालयं तूर्णं यथास्थानं सुरोत्तमाः ॥ 1॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,1,13770,चन्द्रभागानदीतीरे वटमूले मनोहरे । तत्र तस्थौ महादेवो देवविस्तारहेतवे ॥ 2॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,2,13771,दूतं कृत्वा चित्ररथं गन्धर्वेश्वरमीप्सितम् । शीघ्रं प्रस्थापयामास शङ्खचूडान्तिकं मुदा ॥ 3॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,3,13772,सर्वेश्वराज्ञया शीघ्रं ययौ तन्नगरं परम् । महेन्द्रनगरोत्कृष्टं कुबेरभवनाधिकम् ॥ 4॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,4,13773,पञ्चयोजनविस्तीर्णं दैर्घ्ये तद् द्विगुणं भवेत् । स्फटिकाकारमणिभिर्निर्मितं यानवेष्टितम् ॥ 5॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,5,13774,सप्तभिः परिखाभिश्च दुर्गमाभिः समन्वितम् । ज्वलदग्निनिभैः शश्वत्कल्पितं रत्नकोटिभिः ॥ 6॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,6,13775,युक्तं च वीथीशतकैर्मणिवेदिविचित्रितैः । परितो वणिजां सौधैर्नानावस्तुविराजितैः ॥ 7॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,7,13776,सिन्दूराकारमणिभिर्निर्मितैश्च विचित्रितैः । भूषितं भूषितैर्दिव्यैराश्रमैः शतकोटिभिः ॥ 8॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,8,13777,गत्वा ददर्श तन्मध्ये शङ्खचूडालयं परम् । अतीव वलयाकारं यथा पूर्णेन्दुमण्डलम् ॥ 9॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,9,13778,ज्वलदग्निशिखाक्ताभिः परिखाभिश्चतसृभिः । तद्दुर्गमं च शत्रूणामन्येषां सुगमं सुखम् ॥ 10॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,10,13779,अत्युच्चैर्गगनस्पर्शिमणिश‍ृङ्गविराजितम् । राजितं द्वादशद्वारैर्द्वारपालसमन्वितम् ॥ 11॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,11,13780,मणीन्द्रसारनिर्माणैः शोभितं लक्षमन्दिरैः । शोभितं रत्नसोपानै रत्नस्तम्भविराजितम् ॥ 12॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,12,13781,तद् दृष्ट्वा पुष्पदन्तोऽपि वरं द्वारं ददर्श सः । द्वारे नियुक्तं पुरुषं शूलहस्तं च सस्मितम् ॥ 13॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,13,13782,तिष्ठन्तं पिङ्गलाक्षं च ताम्रवर्णं भयङ्करम् । कथयामास वृत्तान्तं जगाम तदनुज्ञया ॥ 14॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,14,13783,अतिक्रम्य च तद्द्वारं जगामाभ्यन्तरं पुनः । न कोऽपि रक्षति श्रुत्वा दूतरूपं रणस्य च ॥ 15॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,15,13784,गत्वा सोऽभ्यन्तरद्वारं द्वारपालमुवाच ह । रणस्य सर्ववृत्तान्तं विज्ञापयत माचिरम् ॥ 16॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,16,13785,स च तं कथयित्वा च दूतो गन्तुमुवाच ह । स गत्वा शङ्खचूडं तं ददर्श सुमनोहरम् ॥ 17॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,17,13786,राजमण्डलमध्यस्थं स्वर्णसिंहासने स्थितम् । मणीन्द्ररचितं दिव्यं रत्नदण्डसमन्वितम् ॥ 18॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,18,13787,रत्नकृत्रिमपुष्पैश्च प्रशस्तैः शोभितं सदा । भृत्येन मस्तकन्यस्तं स्वर्णच्छत्रं मनोहरम् ॥ 19॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,19,13788,सेवितं पार्षदगणै रुचिरैः श्वेतचामरैः । सुवेषं सुन्दरं रम्यं रत्नभूषणभूषितम् ॥ 20॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,20,13789,माल्येन लेपनं सूक्ष्मं सुवस्त्रं दधतं मुने । दानवेन्द्रैः परिवृतं सुवेषैश्च त्रिकोटिभिः ॥ 21॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,21,13790,शतकोटिभिरन्यैश्च भ्रमद्भिरस्त्रपाणिभिः । एवम्भूतञ्च तं दृष्ट्वा पुष्पदन्तः सविस्मयः ॥ 22॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,22,13791,उवाच स च वृत्तान्तं यदुक्तं शङ्करेण च । पुष्पदन्त उवाच । राजेन्द्र शिवभृत्योऽहं पुष्पदन्ताभिधः प्रभो ॥ 23॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,23,13792,यदुक्तं शङ्करेणैव तद् ब्रवीमि निशामय । राज्यं देहि च देवानामधिकारं च साम्प्रतम् ॥ 24॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,24,13793,देवाश्च शरणापन्ना देवेशं श्रीहरिं परम् । हरिर्दत्त्वास्य शूलं च तेन प्रस्थापितः शिवः ॥ 25॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,25,13794,पुष्पभद्रानदीतीरे वटमूले त्रिलोचनः । विषयं देहि तेषां च युद्धं वा कुरु निश्चितम् ॥ 26॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,26,13795,गत्वा वक्ष्यामि किं शम्भुमथ तद्वद मामपि । दूतस्य वचनं श्रुत्वा शङ्खचूडः प्रहस्य च ॥ 27॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,27,13796,प्रभातेऽहं गमिष्यामि त्वं च गच्छेत्युवाच ह । स गत्वोवाच तं तूर्णं वटमूलस्थमीश्वरम् ॥ 28॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,28,13797,शङ्खचूडस्य वचनं तदीयं तन्मुखोदितम् । एतस्मिन्नन्तरे स्कन्द आजगाम शिवान्तिकम् ॥ 29॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,29,13798,वीरभद्रश्च नन्दी च महाकालः सुभद्रकः । विशालाक्षश्च बाणश्च पिङ्गलाक्षो विकम्पनः ॥ 30॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,30,13799,विरूपो विकृतिश्चैव मणिभद्रश्च बाष्कलः । कपिलाख्यो दीर्घदंष्ट्रो विकटस्ताम्रलोचनः ॥ 31॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,31,13800,कालकण्ठो बलीभद्रः कालजिह्नः कुटीचरः । बलोन्मत्तो रणश्लाघी दुर्जयो दुर्गमस्तथा ॥ 32॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,32,13801,अष्टौ च भैरवा रौद्रा रुद्राश्चैकादश स्मृताः । वसवोऽष्टौ वासवश्च आदित्या द्वादश स्मृताः ॥ 33॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,33,13802,हुताशनश्च चन्द्रश्च विश्वकर्माश्विनौ च तौ । कुबेरश्च यमश्चैव जयन्तो नलकूबरः ॥ 34॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,34,13803,वायुश्च वरुणश्चैव बुधश्च मङ्गलस्तथा । धर्मश्च शनिरीशानः कामदेवश्च वीर्यवान् ॥ 35॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,35,13804,उग्रदंष्ट्रा चोग्रदण्डा कोटरा कैटभी तथा । स्वयं चाष्टभुजा देवी भद्रकाली भयङ्करी ॥ 36॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,36,13805,रत्नेन्द्रसारनिर्माणविमानोपरि संस्थिता । रक्तवस्त्रपरीधाना रक्तमाल्यानुलेपना ॥ 37॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,37,13806,नृत्यन्ती च हसन्ती च गायन्ती सुस्वरं मुदा । अभयं ददाति भक्तेभ्योऽभया सा च भयं रिपुम् ॥ 38॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,38,13807,बिभ्रती विकटां जिह्वां सुलोलां योजनायताम् । शङ्खचक्रगदापद्मखड्गचर्मधनुःशरान् ॥ 39॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,39,13808,खर्परं वर्तुलाकारं गम्भीरं योजनायतम् । त्रिशूलं गगनस्पर्शि शक्तिं च योजनायताम् ॥ 40॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,40,13809,मुद्गरं मुसलं वज्रं खेटं फलकमुज्ज्वलम् । वैष्णवास्त्रं वारुणास्त्रं वाह्नेयं नागपाशकम् ॥ 41॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,41,13810,नारायणास्त्रं गान्धर्वं ब्रह्मास्त्रं गारुडं तथा । पर्जन्यास्त्रं पाशुपतं जृम्भणास्त्रं च पार्वतम् ॥ 42॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,42,13811,माहेश्वरास्त्रं वायव्यं दण्डं सम्मोहनं तथा । अव्यर्थमस्त्रकं दिव्यं दिव्यास्त्रशतकं परम् ॥ 43॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,43,13812,आगत्य तत्र तस्थौ च योगिनीनां त्रिकोटिभिः । सार्धं च डाकिनीनां च विकटानां त्रिकोटिभिः ॥ 44॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,44,13813,भूतप्रेतपिशाचाश्च कूष्माण्डा ब्रह्मराक्षसाः । वेताला राक्षसाश्चैव यक्षाश्चैव तु किन्नराः ॥ 45॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,45,13814,ताभिश्चैव सह स्कन्दः प्रणम्य चन्द्रशेखरम् । पितुः पार्श्वे सहायार्थं समुवास तदाज्ञया ॥ 46॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,46,13815,अथ दूते गते तत्र शङ्खचूडः प्रतापवान् । उवाच तुलसीं वार्तां गत्वाभ्यन्तरमेव च ॥ 47॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,47,13816,रणवार्तां च सा श्रुत्वा शुष्ककण्ठोष्ठतालुका । उवाच मधुरं साध्वी हृदयेन विदूयता ॥ 48॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,48,13817,तुलस्युवाच । हे प्राणबन्धो हे नाथ तिष्ठ मे वक्षसि क्षणम् । हे प्राणाधिष्ठातृदेव रक्ष मे जीवितं क्षणम् ॥ 49॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,49,13818,भुङ्क्ष्व जन्म समासाद्य यन्मे मनसि वाञ्छितम् । पश्यामि त्वां क्षणं किञ्चिल्लोचनाभ्यां च सादरम् ॥ 50॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,50,13819,आन्दोलयन्ते प्राणा मे मनो दग्धं च सन्ततम् । दुःस्वप्नश्च मया दृष्टश्चाद्यैव चरमे निशि ॥ 51॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,51,13820,तुलसीवचनं श्रुत्वा भुक्त्वा पीत्वा नृपेश्वर । उवाच वचनं प्राज्ञो हितं सत्यं यथोचितम् ॥ 52॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,52,13821,शङ्खचूड उवाच । कालेन योजितं सर्वं कर्मभोगनिबन्धनम् । शुभं हर्षः सुखं दुःखं भयं शोकश्च मङ्गलम् ॥ 53॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,53,13822,काले भवन्ति वृक्षाश्च स्कन्धवन्तश्च कालतः । क्रमेण पुष्पवन्तश्च फलवन्तश्च कालतः ॥ 54॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,54,13823,तेषां फलानि पक्वानि प्रभवन्त्येव कालतः । ते सर्वे फलिताः काले पातं यान्ति च कालतः ॥ 55॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,55,13824,काले भवन्ति विश्वानि काले नश्यन्ति सुन्दरि । कालात्स्रष्टा च सृजति पाता पाति च कालतः ॥ 56॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,56,13825,संहर्ता संहरेत्काले क्रमेण सञ्चरन्ति ते । ब्रह्मविष्णुशिवादीनामीश्वरः प्रकृतिः परा ॥ 57॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,57,13826,स्रष्टा पाता च संहर्ता स चात्मा कालनर्तकः । काले स एव प्रकृतिं स्वाभिन्नां स्वेच्छया प्रभुः ॥ 58॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,58,13827,निर्माय कृतवान्सर्वान्विश्वस्थांश्च चराचरान् । सर्वेशः सर्वरूपश्च सर्वात्मा परमेश्वरः ॥ 59॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,59,13828,जनं जनेन जनिता जनं पाति जनेन यः । जनं जनेन हरते तं देवं भज साम्प्रतम् ॥ 60॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,60,13829,यस्याज्ञया वाति वातः शीघ्रगामी च साम्प्रतम् । यस्याज्ञया च तपनस्तपत्येव यथाक्षणम् ॥ 61॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,61,13830,यथाक्षणं वर्षतीन्द्रो मृत्युश्चरति जन्तुषु । यथाक्षणं दहत्यग्निश्चन्द्रो भ्रमति शीतवान् ॥ 62॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,62,13831,मृत्योर्मृत्युं कालकालं यमस्य च यमं परम् । विभुं स्रष्टुश्च स्रष्टारं मातुश्च मातृकं भवे ॥ 63॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,63,13832,संहर्तारं च संहर्तुस्तं देवं शरणं व्रज । को वा बन्धुश्च केषां वा सर्वबन्धुं भज प्रिये ॥ 64॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,64,13833,अहं को वा च त्वं का वा विधिना योजितः पुरा । त्वया सार्धं कर्मणा च पुनस्तेन वियोजितः ॥ 65॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,65,13834,अज्ञानी कातरः शोके विपत्तौ न च पण्डितः । सुखे दुःखे भ्रमत्येव कालनेमिक्रमेण च ॥ 66॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,66,13835,नारायणं तं सर्वेशं कान्तं यास्यसि निश्चितम् । तपः कृतं यदर्थं च पुरा बदरिकाश्रमे ॥ 67॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,67,13836,मया त्वं तपसा लब्धा ब्रह्मणस्तु वरेण च । हर्यर्थे यत्तव तपो हरिं प्राप्स्यसि कामिनि ॥ 68॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,68,13837,वृन्दावने च गोविन्दं गोलोके त्वं लभिष्यसि । अहं यास्यामि तल्लोकं तनुं त्यक्त्वा च दानवीम् ॥ 69॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,69,13838,तत्र द्रक्ष्यसि मां त्वं च द्रक्ष्यामि त्वां च साम्प्रतम् । अगमं राधिकाशापाद्भारतं च सुदुर्लभम् ॥ 70॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,70,13839,पुनर्यास्यामि तत्रैव कः शोको मे श‍ृणु प्रिये । त्वं च देहं परित्यज्य दिव्यरूपं विधाय च ॥ 71॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,71,13840,तत्कालं प्राप्स्यसि हरिं मा कान्ते कातरा भव । इत्युक्त्वा च दिनान्ते च तया सार्धं मनोहरम् ॥ 72॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,72,13841,सुष्वाप शोभने तल्पे पुष्पचन्दनचर्चिते । नानाप्रकारविभवं चकार रत्नमन्दिरे ॥ 73॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,73,13842,रत्नप्रदीपसंयुक्ते स्त्रीरत्नं प्राप्य सुन्दरीम् । निनाय रजनीं राजा क्रीडाकौतुकमङ्गलैः ॥ 74॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,74,13843,कृत्वा वक्षसि तां कान्तां रुदतीमतिदुःखिताम् । कृशोदरीं निराहारां निमग्नां शोकसागरे ॥ 75॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,75,13844,पुनस्तां बोधयामास दिव्यज्ञानेन ज्ञानवित् । पुरा कृष्णेन यद्दत्तं भाण्डीरे तत्त्वमुत्तमम् ॥ 76॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,76,13845,स च तस्यै ददौ सर्वं सर्वशोकहरं परम् । ज्ञानं सम्प्राप्य सा देवी प्रसन्नवदनेक्षणा ॥ 77॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,77,13846,क्रीडां चकार हर्षेण सर्वं मत्वेति नश्वरम् । तौ दम्पती च क्रीडन्तौ निमग्नौ सुखसागरे ॥ 78॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,78,13847,पुलकाञ्चितसर्वाङ्गौ मूर्च्छितौ निर्जने मुने । अङ्गप्रत्यङ्गसंयुक्तौ सुप्रीतौ सुरतोत्सुको ॥ 79॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,79,13848,एकाङ्गौ च तथा तौ द्वौ चार्धनारीश्वरो यथा । प्राणेश्वरं च तुलसी मेने प्राणाधिकं परम् ॥ 80॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,80,13849,प्राणाधिकां च तां मेने राजा प्राणेश्वरीं सतीम् । तौ स्थितौ सुखसुप्तौ च तन्द्रितौ सुन्दरौ समौ ॥ 81॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,81,13850,सुवेषौ सुखसम्भोगादचेष्टौ सुमनोहरौ । क्षणं सुचेतनौ तौ च कथयन्तौ रसाश्रयात् ॥ 82॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,82,13851,कथां मनोरमां दिव्यां हसन्तौ च क्षणं पुनः । क्षणं च केलिसंयुक्तौ रसभावसमन्वितौ ॥ 83॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,83,13852,सुरते विरतिर्नास्ति तौ तद्विषयपण्डितौ । सततं जययुक्तौ द्वौ क्षणं नैव पराजितौ ॥ 84॥ 9,९.२०,विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।,84,13853,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनं नाम विंशोऽध्यायः ॥ ९.२०॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,0,13854,श्रीनारायण उवाच । श्रीकृष्णं मनसा ध्यात्वा रक्षः कृष्णपरायणः । ब्राह्मे मुहूर्ते चोत्थाय पुष्पतल्पान्मनोहरात् ॥ 1॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,1,13855,रात्रिवासः परित्यज्य स्नात्वा मङ्गलवारिणा । धौते च वाससी धृत्वा कृत्वा तिलकमुज्ज्वलम् ॥ 2॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,2,13856,चकाराह्निकमावश्यमभीष्टदेववन्दनम् । दध्याज्यमधुलाजांश्च ददर्श वस्तु मङ्गलम् ॥ 3॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,3,13857,रत्नश्रेष्ठं मणिश्रेष्ठं वस्त्रश्रेष्ठं च काञ्चनम् । ब्राह्मणेभ्यो ददौ भक्त्या यथा नित्यं च नारद ॥ 4॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,4,13858,अमूल्यरत्नं यत्किञ्चिन्मुक्तामाणिक्यहीरकम् । ददौ विप्राय गुरवे यात्रामङ्गलहेतवे ॥ 5॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,5,13859,गजरत्नमश्वरत्नं धनरत्नं मनोहरम् । ददौ सर्वं दरिद्राय विप्राय मङ्गलाय च ॥ 6॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,6,13860,भाण्डाराणां सहस्राणि नगराणां द्विलक्षकम् । ग्रामाणां शतकोटिं च ब्राह्मणाय ददौ मुदा ॥ 7॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,7,13861,पुत्रं कृत्वा तु राजेन्द्रं सर्वेषु दानवेषु च । पुत्रं समर्प्य भार्यां तां राज्यं च सर्वसम्पदम् ॥ 8॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,8,13862,प्रजानुचरसङ्घं च भाण्डारं वाहनादिकम् । स्वयं सन्नाहयुक्तश्च धनुष्पाणिर्बभूव ह ॥ 9॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,9,13863,भृत्यद्वारा क्रमेणैव चकार सैन्यसञ्चयम् । अश्वानां च त्रिलक्षेण लक्षेण वरहस्तिनाम् ॥ 10॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,10,13864,रथानामयुतेनैव धानुष्काणां त्रिकोटिभिः । त्रिकोटिभिर्वर्मिणां च शूलिनां च त्रिकोटिभिः ॥ 11॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,11,13865,कृता सेनापरिमिता दानवेन्द्रेण नारद । तस्यां सेनापतिश्चैव युद्धशास्त्रविशारदः ॥ 12॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,12,13866,महारथः स विज्ञेयो रथिनां प्रवरो रणे । त्रिलक्षाक्षौहिणीसेनापतिं कृत्वा नराधिपः ॥ 13॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,13,13867,त्रिंशदक्षौहिणीबाधं भाण्डौघं च चकार ह । बहिर्बभूव शिविरान्मनसा श्रीहरिं स्मरन् ॥ 14॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,14,13868,रत्नेन्द्रसारनिर्माणविमानमारुरोह सः । गुरुवर्गान्पुरस्कृत्य प्रययौ शङ्करान्तिकम् ॥ 15॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,15,13869,पुष्पभद्रानदीतीरे यत्राक्षयवटः शुभः । सिद्धाश्रमं च सिद्धानां सिद्धिक्षेत्रं च नारद ॥ 16॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,16,13870,कपिलस्य तपःस्थानं पुण्यक्षेत्रे च भारते । पश्चिमोदधिपूर्वे च मलयस्य च पश्चिमे ॥ 17॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,17,13871,श्रीशैलोत्तरभागे च गन्धमादनदक्षिणे । पञ्चयोजनविस्तीर्णा दैर्घ्ये शतगुणा तथा ॥ 18॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,18,13872,शुद्धस्फटिकसङ्काशा भारते च सुपुण्यदा । शाश्वती जलपूर्णा च पुष्पभद्रा नदी शुभा ॥ 19॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,19,13873,लवणाब्धिप्रिया भार्या शश्वत्सौभाग्यसंयुता । शरावतीमिश्रिता च निर्गता सा हिमालयात् ॥ 20॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,20,13874,गोमतीं वामतः कृत्वा प्रविष्टा पश्चिमोदधौ । तत्र गत्वा शङ्खचूडो ददर्श चन्द्रशेखरम् ॥ 21॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,21,13875,वटमूले समासीनं सूर्यकोटिसमप्रभम् । कृत्वा योगासनं दृष्ट्वा मुद्रायुक्तं च सस्मितम् ॥ 22॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,22,13876,शुद्धस्फटिकसङ्काशं ज्वलन्तं ब्रह्मतेजसा । त्रिशलपट्टिशधरं व्याघ्रचर्माम्बरं वरम् ॥ 23॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,23,13877,भक्तमृत्युहरं शान्तं गौरीकान्तं मनोहरम् । तपसां फलदातारं दातारं सर्वसम्पदाम् ॥ 24॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,24,13878,आशुतोषं प्रसन्नास्यं भक्तानुग्रहकातरम् । विश्वनाथं विश्वबीजं विश्वरूपं च विश्वजम् ॥ 25॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,25,13879,विश्वम्भरं विश्ववरं विश्वसंहारकारकम् । कारणं कारणानां च नरकार्णवतारणम् ॥ 26॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,26,13880,ज्ञानप्रदं ज्ञानबीजं ज्ञानानन्दं सनातनम् । अवरुह्य विमानाच्च तं दृष्ट्वा दानवेश्वरः ॥ 27॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,27,13881,सर्वैः सार्धं भक्तियुक्तः शिरसा प्रणनाम सः । वामतो भद्रकालीं च स्कन्दं च तत्पुरः स्थितम् ॥ 28॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,28,13882,आशिषं च ददौ तस्मै काली स्कन्दश्च शङ्करः । उत्तस्थुरागतं दृष्ट्वा सर्वे नन्दीश्वरादयः ॥ 29॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,29,13883,परस्परं च भाषन्ते चक्रुस्तत्र च साम्प्रतम् । राजा कृत्वा च सम्भाषामुवास शिवसन्निधौ ॥ 30॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,30,13884,प्रसन्नात्मा महादेवो भगवांस्तमुवाच ह । महादेव उवाच । विधाता जगतां ब्रह्मा पिता धर्मस्य धर्मवित् ॥ 31॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,31,13885,मरीचिस्तस्य पुत्रश्च वैष्णवाश्चापि धार्मिकः । कश्यपश्चापि तत्पुत्रो धर्मिष्ठश्च प्रजापतिः ॥ 32॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,32,13886,दक्षः प्रीत्या ददौ तस्मै भक्त्या कन्यास्त्रयोदश । तास्वेका च दनुः साध्वी तत्सौभाग्यविवर्धिता ॥ 33॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,33,13887,चत्वारिंशद्दनोः पुत्रा दानवास्तेजसोल्बणाः । तेष्वेको विप्रचित्तिश्च महाबलपराक्रमः ॥ 34॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,34,13888,तत्पुत्रो धार्मिको दम्भो विष्णुभक्तो जितेन्द्रियः । जजाप परमं मन्त्रं पुष्करे लक्षवत्सरम् ॥ 35॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,35,13889,शुक्राचार्यं गुरुं कृत्वा कृष्णस्य परमात्मनः । तदा त्वां तनयं प्राप परं कृष्णपरायणम् ॥ 36॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,36,13890,पुरा त्वं पार्षदो गोपो गोपेष्वपि सुधार्मिकः । अधुना राधिकाशापाद्भारते दानवेश्वरः ॥ 37॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,37,13891,आब्रह्मस्तम्बपर्यन्तं तुच्छं मेने च वैष्णवः । सालोक्यसार्ष्टिसायुज्यसामीप्यं च हरेरपि ॥ 38॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,38,13892,दीयमानं न गृह्णन्ति वैष्णवाः सेवनं विना । ब्रह्मत्वममरत्वं वा तुच्छं मेने च वैष्णवः ॥ 39॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,39,13893,इन्द्रत्वं वा मनुत्वं वा न मेने गणनासु च । कृष्णभक्तस्य ते किं वा देवानां विषये भ्रमे ॥ 40॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,40,13894,देहि राज्यं च देवानां मत्प्रीतिं रक्ष भूमिप । सुखं स्वराज्ये त्वं तिष्ठ देवास्तिष्ठन्तु वै पदे ॥ 41॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,41,13895,अलं भूतविरोधेन सर्वे कश्यपवंशजाः । यानि कानि च पापानि ब्रह्महत्यादिकानि च ॥ 42॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,42,13896,ज्ञातिद्रोहस्य पापानि कलां नार्हन्ति षोडशीम् । स्वसम्पदां च हानिं च यदि राजेन्द्र मन्यसे ॥ 43॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,43,13897,सर्वावस्था च समतां केषां याति च सर्वदा । ब्रह्मणश्च तिरोभावो लये प्राकृतिके सदा ॥ 44॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,44,13898,आविर्भावः पुनस्तस्य प्रभावादीश्वरेच्छया । ज्ञानवृद्धिश्च तपसा स्मृतिलोपश्च निश्चितम् ॥ 45॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,45,13899,करोति सृष्टिं ज्ञानेन स्रष्टा सोऽपि क्रमेण च । परिपूर्णतमो धर्मः सत्ये सत्याश्रये सदा ॥ 46॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,46,13900,त्रिभागः सोऽपि त्रेतायां द्विभागो द्वापरे स्मृतः । एकभागः कलौ पूर्वं तदंशश्च कमेण च ॥ 47॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,47,13901,कलामात्रं कलेः शेषे कुह्वां चन्द्रकला यथा । यादृक् तेजो रवेर्ग्नीष्मे न तादृक् शिशिरे पुनः ॥ 48॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,48,13902,दिनेषु यादृङ्मध्याह्ने सायं प्रातर्न तत्समम् । उदयं याति कालेन बालतां च क्रमेण च ॥ 49॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,49,13903,प्रकाण्डतां च तत्पश्चात्कालेऽस्तं पुनरेति सः । दिने प्रच्छन्नतां याति कालेन दुर्दिने घने ॥ 50॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,50,13904,राहुग्रस्ते कम्पितश्च पुनरेव प्रसन्नताम् । परिपूर्णतमश्चन्द्रः पूर्णिमायां च जायते ॥ 51॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,51,13905,तादृशो न भवेन्नित्यं क्षयं याति दिने दिने । पुनश्च पुष्टिमायाति परं कुह्वा दिने दिने ॥ 52॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,52,13906,सम्पद्युक्तः शुक्लपक्षे कृष्णे म्लानश्च यक्ष्मणा । राहुग्रस्ते दिने म्लानो दुर्दिने न विरोचते ॥ 53॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,53,13907,काले चन्द्रो भवेच्छुक्लो भ्रष्टश्रीः कालभेदतः । भविष्यति बलिश्चेन्द्रो भ्रष्टश्रीः सुतलेऽधुना ॥ 54॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,54,13908,कालेन पृथ्वी सस्याढ्या सर्वाधारा वसुन्धरा । काले जले निमग्ना सा तिरोभूताम्बुविप्लुता ॥ 55॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,55,13909,काले नश्यन्ति विश्वानि प्रभवन्त्येव कालतः । चराचराश्च कालेन नश्यन्ति प्रभवन्ति च ॥ 56॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,56,13910,ईश्वरस्यैव समता ब्रह्मणः परमात्मनः । अहं मृत्युञ्जयो यस्मादसङ्ख्यं प्राकृतं लयम् ॥ 57॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,57,13911,आदर्शं चापि द्रक्ष्यामि वारं वारं पुनः पुनः । स च प्रकृतिरूपश्च स एव पुरुषः स्मृतः ॥ 58॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,58,13912,स चात्मा स च जीवश्च नानारूपधरः परः । करोति सततं यो हि तनामगुणकीर्तनम् ॥ 59॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,59,13913,काले मृत्युं स जयति जन्मरोगभयं जराम् । स्रष्टा कृतो विधिस्तेन पाता विष्णुः कृतो भवेत् ॥ 60॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,60,13914,अहं कृतश्च संहर्ता वयं विषयिणः कृताः । कालाग्निरुद्रं संहारे नियोज्य विषये नृप ॥ 61॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,61,13915,अहं करोमि सततं तन्नामगुणकीर्तनम् । तेन मृत्युञ्जयोऽहं च ज्ञानेनानेन निर्भयः ॥ 62॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,62,13916,मृत्युर्मृत्युभयाद्याति वैनतेयादिवोरगाः । इत्युक्त्वा स च सर्वेशः सर्वभावेन तत्परः ॥ 63॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,63,13917,विरराम च शम्भुश्च सभामध्ये च नारद । राजा तद्वचनं श्रुत्वा प्रशशंस पुनः पुनः ॥ 64॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,64,13918,उवाच मधुरं देवं परं विनयपूर्वकम् । शङ्खचूड उवाच । त्वया यत्कथितं देव नान्यथा वचनं स्मृतम् ॥ 65॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,65,13919,तथापि किञ्चिद्यथार्थं श्रूयतां मन्निवेदनम् । ज्ञातिद्रोहे महत्पापं त्वयोक्तमधुना च यत् ॥ 66॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,66,13920,गृहीत्वा तस्य सर्वस्वं कुतः प्रस्थापितो बलिः । मया समुद्धृतं सर्वमूर्ध्वमैश्वर्यमीश्वर ॥ 67॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,67,13921,सुतलाच्च समुद्धर्तुं नालं तत्र गदाधरः । सभ्रातृको हिरण्याक्षः कथं देवैश्च हिंसितः ॥ 68॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,68,13922,शुम्भादयश्चासुराश्च कथं देवैर्निपातिताः । पुरा समुद्रमथने पीयूषं भक्षितं सुरैः ॥ 69॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,69,13923,क्लेशभाजो वयं तत्र ते सर्वे फलभोगिनः । क्रीडाभाण्डमिदं विश्वं प्रकृतेः परमात्मनः ॥ 70॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,70,13924,यस्मै यत्र स ददाति तस्यैश्वर्यं भवेत्तदा । देवदानवयोर्वादः शश्वन्नैमित्तिकः सदा ॥ 71॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,71,13925,पराजयो जयस्तेषां कालेऽस्माकं क्रमेण च । तदावयोर्विरोधे वाऽऽगमनं निष्कलं परम् ॥ 72॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,72,13926,समसम्बन्धिनो बन्धोरीश्वरस्य महात्मनः । इयं ते महती लज्जा युद्धेऽस्माभिः सहाधुना ॥ 73॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,73,13927,जये ततोऽधिका कीर्तिर्हानिश्चैव पराजये । इत्येतद्वचनं श्रुत्वा प्रहस्य च त्रिलोचनः ॥ 74॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,74,13928,यथोचितमुत्तरं तमुवाच दानवेश्वरम् । महादेव उवाच । युष्माभिः सह युद्धे मे ब्रह्मवंशसमुद्भवैः ॥ 75॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,75,13929,का लज्जा महती राजन्नकीर्तिर्वा पराजये । युद्धमादौ हरेरेव मधुना कैटभेन च ॥ 76॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,76,13930,हिरण्यकशिपोश्चैव सह तेनात्मना नृप । हिरण्याक्षस्य युद्धं च पुनस्तेन गदाभृता ॥ 77॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,77,13931,त्रिपुरैः सह युद्धं च मयापि च पुरा कृतम् । सर्वेश्वर्याः सर्वमातुः प्रकृत्याश्च बभूव ह ॥ 78॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,78,13932,सह शुम्भादिभिः पूर्वं समरः परमाद्भुतः । पार्षदप्रवरस्त्वं च कृष्णस्य परमात्मनः ॥ 79॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,79,13933,ये ये हताश्च दैतेया नहि केऽपि त्वया समाः । का लज्जा महती राजन् मम युद्धे त्वया सह ॥ 80॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,80,13934,सुराणां शरणस्यैव प्रेषितश्च हरेरहो । देहि राज्यं च देवानामिति मे निश्चितं वचः ॥ 81॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,81,13935,युद्धं वा कुरु मत्सार्धं वाग्व्यये किं प्रयोजनम् । इत्युक्त्वा शङ्करस्तत्र विरराम च नारद । उत्तस्थौ शङ्खचूडश्च ह्यमात्यैः सह सत्वरम् ॥ 82॥ 9,९.२१,एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।,82,13936,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे शङ्खचूडकृते प्रबोधवाक्यवर्णनं नामेकविंशोऽध्यायः ॥ ९.२१॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,0,13937,श्रीनारायण उवाच । शिवं प्रणम्य शिरसा दानवेन्द्रः प्रतापवान् । समारुरोह यानं च सहामात्यैः स सत्वरः ॥ 1॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,1,13938,शिवः स्वसैन्यं देवांश्च प्रेरयामास सत्वरम् । दानवेन्द्रः ससैन्यश्च युद्धारम्भे बभूव ह ॥ 2॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,2,13939,स्वयं महेन्द्रो युयुधे सार्धं च वृषपर्वणा । भास्करो युयुधे विप्रचित्तिना सह सत्वरः ॥ 3॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,3,13940,दम्भेन सह चन्द्रश्च चकार परमं रणम् । कालस्वरेण कालश्च गोकर्णेन हुताशनः ॥ 4॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,4,13941,कुबेरः कालकेयेन विश्वकर्मा मयेन च । भयङ्करेण मृत्युश्च संहारेण यमस्तथा ॥ 5॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,5,13942,विकङ्कणेन वरुणश्चञ्चलेन समीरणः । बुधश्च घृतपृष्ठेन रक्ताक्षेण शनैश्चरः ॥ 6॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,6,13943,जयन्तो रत्नसारेण वसवो वर्चसां गणैः । अश्विनौ च दीप्तिमता धूम्रेण नलकूबरः ॥ 7॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,7,13944,धुरन्धरेण धर्मश्च उषाक्षेण च मङ्गलः । शोभाकरेण वै भानुः पिठरेण च मन्मथः ॥ 8॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,8,13945,गोधामुखेन चूर्णेन खड्गेन च ध्वजेन च । काञ्चीमुखेन पिण्डेन धूमेण सह नन्दिना ॥ 9॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,9,13946,विश्वेन च पलाशेनादित्याद्या युयुधुः परे । एकादश च रुद्रा वै एकादशभयङ्करैः ॥ 10॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,10,13947,महामारी च युयुधे चोग्रचण्डादिभिः सह । नन्दीश्वरादयः सर्वे दानवानां गणैः सह ॥ 11॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,11,13948,युयुधुश्च महायुद्धे प्रलयेऽपि भयङ्करे । वटमूले च शम्भुश्च तस्थौ काल्या सुतेन च ॥ 12॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,12,13949,सर्वे च युयुधुः सैन्यसमूहाः सततं मुने । रत्नसिंहासने रम्ये कोटिभिर्दानवैः सह ॥ 13॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,13,13950,उवास शङ्खचूडश्च रत्नभूषणभूषितः । शङ्करस्य च ये योधा दानवैश्च पराजिताः ॥ 14॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,14,13951,देवाश्च दुद्रुवुः सर्वे भीताश्च क्षतविग्रहाः । चकार कोपं स्कन्दश्च देवेभ्यश्चाभयं ददौ ॥ 15॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,15,13952,बलं च स्वर्गणानां च वर्धयामास तेजसा । सोऽयमेकश्च युयुधे दानवानां गणैः सह ॥ 16॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,16,13953,अक्षौहिणीनां शतकं समरे च जघान सः । असुरान्पातयामास काली कमललोचना ॥ 17॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,17,13954,पपौ रक्तं दानवानामतिकुद्धा ततः परम् । दशलक्षगजेन्द्राणां शतलक्षं च कोटिशः ॥ 18॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,18,13955,समादायैकहस्तेन मुखे चिक्षेप लीलया । कबन्धानां सहस्रं च ननर्त समरे मुने ॥ 19॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,19,13956,स्कन्दस्य शरजालेन दानवाः क्षतविग्रहाः । भीताश्च दुद्रुवुः सर्वे महारणपराक्रमाः ॥ 20॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,20,13957,वृषपर्वा विप्रचित्तिर्दम्भश्चापि विकङ्कणः । स्कन्देन सार्धं युयुधुस्ते सर्वे विक्रमेण च ॥ 21॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,21,13958,महामारी च युयुधे न बभूव पराङ्मुखी । बभूवुस्ते च सङ्क्षुब्धाः स्कन्दस्य शक्तिपीडिताः ॥ 22॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,22,13959,न दुद्रुवुर्भयात्स्वर्गे पुष्पवृष्टिर्बभूव ह । स्कन्दस्य समरं दृष्ट्वा महारौद्रं समुल्बणम् ॥ 23॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,23,13960,दानवानां क्षयकरं यथा प्राकृतिको लयः । राजा विमानमारुह्य चकार बाणवर्षणम् ॥ 24॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,24,13961,नृपस्य शरवृष्टिश्च घनस्य वर्षणं यथा । महाघोरान्धकारश्च वह्न्युत्थानं बभूव च ॥ 25॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,25,13962,देवाः प्रदुद्रुवुः सर्वेऽप्यन्ये नन्दीश्वरादयः । एक एव कार्तिकेयस्तस्थौ समरमूर्धनि ॥ 26॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,26,13963,पर्वतानां च सर्पाणां शिलानां शाखिनां तथा । नृपश्चकार वृष्टिं च दुर्वारां च भयङ्करीम् ॥ 27॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,27,13964,नृपस्य शरवृष्ट्या च प्रहितः शिवनन्दनः । नीहारेण च सान्द्रेण प्रहितो भास्करो यथा ॥ 28॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,28,13965,धनुश्चिच्छेद स्कन्दस्य दुर्वहं च भयङ्करः । बभञ्ज च रथं दिव्यं चिच्छेद रथपीठकान् ॥ 29॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,29,13966,मयूरं जर्जरीभूतं दिव्यास्त्रेण चकार सः । शक्तिं चिक्षेप सूर्याभां तस्य वक्षस्य घातिनीम् ॥ 30॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,30,13967,क्षणं मूर्च्छां च सम्प्राप बभूव चेतनः पुनः । गृहीत्वा तद्धनुर्दिव्यं यद्दत्तं विष्णुना पुरा ॥ 31॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,31,13968,रत्नेन्द्रसारनिर्माणयानमारुह्य कार्तिकः । शस्त्रास्त्रं च गृहीत्वा च चकार रणमुल्बणम् ॥ 32॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,32,13969,सर्पांश्च पर्वतांश्चैव वृक्षांश्च प्रस्तरांस्तथा । सर्वांश्चिच्छेद कोपेन दिव्यास्त्रेण शिवात्मजः ॥ 33॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,33,13970,वह्निं निर्वापयामास पार्जन्येन प्रतापवान् । रथं धनुश्च चिच्छेद शङ्खचूडस्य लीलया ॥ 34॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,34,13971,सन्नाहं सारथिं चैव किरीटं मुकुटोज्ज्वलम् । चिक्षेप शक्तिं शुक्लाभां दानवेन्द्रस्य वक्षसि ॥ 35॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,35,13972,मूर्च्छां सम्प्राप्य राजा च चेतनश्च बभूव ह । आरुरोह यानमन्यद्धनुर्जग्राह सत्वरः ॥ 36॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,36,13973,चकार शरजालं च मायया मायिनां वरः । गुहं चच्छाद समरे शरजालेन नारद ॥ 37॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,37,13974,जग्राह शक्तिमव्यग्रां शतसूर्यसमप्रभाम् । प्रलयाग्निशिखारूपां विष्णोश्च तेजसाऽऽवृताम् ॥ 38॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,38,13975,चिक्षेप तां च कोपेन महावेगेन कार्तिके । पपात शक्तिस्तद्गात्रे वह्निराशिरिवोज्ज्वला ॥ 39॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,39,13976,मूर्च्छां सम्प्राप शक्त्या च कार्तिकेयो महाबलः । काली गृहीत्वा तं क्रोडे निनाय शिवसनिधौ ॥ 40॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,40,13977,शिवस्तं चापि ज्ञानेन जीवयामास लीलया । ददौ बलमनन्तं च समुत्तस्थौ प्रतापवान् ॥ 41॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,41,13978,काली जगाम समरं रक्षितुं कार्तिकस्य या । वीरास्तामनुजग्मुश्च ते च नन्दीश्वरादयः ॥ 42॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,42,13979,सर्वे देवाश्च गन्धर्वा यक्षराक्षसकिन्नराः । वाद्यभाण्डाश्च बहुशः शतशो मधुवाहकाः ॥ 43॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,43,13980,सा च गत्वाथ सङ्ग्रामं सिंहनादं चकार च । देव्याश्च सिंहनादेन प्रापुर्मूर्च्छां च दानवाः ॥ 44॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,44,13981,अट्टाट्टहासमशिवं चकार च पुनः पुनः । दृष्ट्वा पपौ च माध्वीकं ननर्त रणमूर्धनि ॥ 45॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,45,13982,उग्रदंष्ट्रा चोग्रदण्डा कोटवी च पपौ मधु । योगिनीडाकिनीनां च गणाः सुरगणादयः ॥ 46॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,46,13983,दृष्ट्वा कालीं शङ्खचूडः शीघ्रमाजौ समाययौ । दानवाश्च भयं प्रापू राजा तेभ्योऽभयं ददौ ॥ 47॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,47,13984,काली चिक्षेप वह्निं च प्रलयाग्निशिखोपमम् । राजा निर्वापयामास पार्जन्येन च लीलया ॥ 48॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,48,13985,चिक्षेप वारुणं सा च तीव्रं च महदद्भुतम् । गान्धर्वेण च चिच्छेद दानवेन्द्रश्च लीलया ॥ 49॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,49,13986,माहेश्वरं प्रचिक्षेप काली वह्निशिखोपमम् । राजा जघान तं शीघ्रं वैष्णवेन च लीलया ॥ 50॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,50,13987,नारायणास्त्रं सा देवी चिक्षेप मन्त्रपूर्वकम् । राजा ननाम तद् दृष्ट्वा चावरुह्य रथादसौ ॥ 51॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,51,13988,ऊर्ध्वं जगाम तच्चास्त्रं प्रलयाग्निशिखोपमम् । पपात शङ्खचूडश्च भक्त्या तं दण्डवद्भुवि ॥ 52॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,52,13989,ब्रह्मास्त्रं सा च चिक्षेप यत्नतो मन्त्रपूर्वकम् । ब्रह्मास्त्रेण महाराजो निर्वापं च चकार सः ॥ 53॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,53,13990,तदा चिक्षेप दिव्यास्त्रं सा देवी मन्त्रपूर्वकम् । राजा दिव्यास्त्रजालेन तन्निर्वाणं चकार च ॥ 54॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,54,13991,तदा चिक्षेप शक्तिं च यत्नतो योजनायताम् । राजा दिव्यास्त्रजालेन शतखण्डां चकार ह ॥ 55॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,55,13992,जग्राह मन्त्रपूतं च देवी पाशुपतं रुषा । निक्षेपणं निरोद्धुं च वाग्बभूवाशरीरिणी ॥ 56॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,56,13993,मृत्युः पाशुपते नास्ति नृपस्य च महात्मनः । यावदस्ति च मन्त्रस्य कवचं च हरेरिति ॥ 57॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,57,13994,यावत्सतीत्वमस्त्येव सत्याश्च नृपयोषितः । तावदस्य जरामृत्युर्नास्तीति ब्रह्मणो वचः ॥ 58॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,58,13995,इत्याकर्ण्य भद्रकाली न तच्चिक्षेप शस्त्रकम् । शतलक्षं दानवानां जग्रास लीलया क्षुधा ॥ 59॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,59,13996,ग्रस्तुं जगाम वेगेन शङ्खचूडं भयङ्करी । दिव्यास्त्रेण सुतीक्ष्णेन वारयामास दानवः ॥ 60॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,60,13997,खड्गं चिक्षेप सा देवी ग्रीष्मसूर्योपमं यथा । दिव्यास्त्रेण दानवेन्द्रः शतखण्डं चकार सः ॥ 61॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,61,13998,पुनर्ग्रस्तुं महादेवी वेगेन च जगाम तम् । सर्वसिद्धेश्वरः श्रीमान्ववृधे दानवेश्वरः ॥ 62॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,62,13999,वेगेन मुष्टिना काली कोपयुक्ता भयङ्करी । बभञ्ज च रथं तस्य जघान सारथिं सती ॥ 63॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,63,14000,सा च शूलं प्रचिक्षेप प्रलयाग्निशिखोपमम् । वामहस्तेन जग्राह शङ्खचूडः स्वलीलया ॥ 64॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,64,14001,मुष्ट्या जघान तं देवी महाकोपेन वेगतः । बभ्राम च तया दैत्यः क्षणं मूर्च्छामवाप च ॥ 65॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,65,14002,क्षणेन चेतनां प्राप्य समुत्तस्थौ प्रतापवान् । न चकार बाहुयुद्धं देव्या सह ननाम ताम् ॥ 66॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,66,14003,देव्याश्चास्त्रं स चिच्छेद जग्राह च स्वतेजसा । नास्त्रं चिक्षेप तां भक्तो मातृभक्त्या तु वैष्णवः ॥ 67॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,67,14004,गृहीत्वा दानवं देवी भ्रामयित्वा पुनः पुनः । ऊर्ध्वं च प्रापयामास महावेगेन कोपिता ॥ 68॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,68,14005,ऊर्ध्वात्पपात वेगेन शङ्खचूडः प्रतापवान् । निपत्य च समुत्तस्थौ प्रणम्य भद्रकालिकाम् ॥ 69॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,69,14006,रत्नेन्द्रसारनिर्माणं विमानं सुमनोहरम् । आरुरोह हर्षयुक्तो न विश्रान्तो महारणे ॥ 70॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,70,14007,दानवानां च क्षतजं सा देवी च पपौ क्षुधा । पीत्वा भुक्त्वा भद्रकाली जगाम शङ्करान्तिकम् ॥ 71॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,71,14008,उवाच रणवृत्तान्तं पौर्वापर्यं यथाक्रमम् । श्रुत्वा जहास शम्भुश्च दानवानां विनाशनम् ॥ 72॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,72,14009,लक्षं च दानवेन्द्राणामवशिष्टं रणेऽधुना । भुञ्जन्त्या निर्गतं वक्त्रात्तदन्यं भुक्तमीश्वर ॥ 73॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,73,14010,सङ्ग्रामे दानवेन्द्रं च हन्तुं पाशुपतेन वै । अवध्यस्तव राजेति वाग्बभूवाशरीरिणी ॥ 74॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,74,14011,राजेन्द्रश्च महाज्ञानी महाबलपराक्रमः । न च चिक्षेप मय्यस्त्रं चिच्छेद मम सायकम् ॥ 75॥ 9,९.२२,द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।,75,14012,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसवादे कालीशङ्खचूडयुद्धवर्णनं नाम द्वाविंशोऽध्यायः ॥ ९.२२॥ 9,९.२३,त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।,0,14013,शिवस्तत्त्वं समाकर्ण्य तत्त्वज्ञानविशारदः । ययौ स्वयं च समरे स्वगणैः सह नारद ॥ 1॥ 9,९.२३,त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।,1,14014,शङ्खचूडः शिवं दृष्ट्वा विमानादवरुह्य च । ननाम परया भक्त्या शिरसा दण्डवद्भुवि ॥ 2॥ 9,९.२३,त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।,2,14015,तं प्रणम्य च वेगेन विमानमारुरोह सः । तूर्णं चकार सन्नाहं धनुर्जग्राह दुर्वहम् ॥ 3॥ 9,९.२३,त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।,3,14016,शिवदानवयोर्युद्धं पूर्णमब्दशतं पुरा । न बभूवतुरन्योन्यं ब्रह्मञ्जयपराजयौ ॥ 4॥ 9,९.२३,त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।,4,14017,न्यस्तशस्त्रश्च भगवान् न्यस्तशस्त्रश्च दानवः । रथस्थः शङ्खचूडश्च वृषस्थो वृषभध्वजः ॥ 5॥ 9,९.२३,त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।,5,14018,दानवानां च शतकमुद्धृतं च बभूव ह । रणे ये ये मृताः शम्भुर्जीवयामास तान्विभुः ॥ 6॥ 9,९.२३,त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।,6,14019,एतस्मिन्नन्तरे वृद्धब्राह्मणः परमातुरः । आगत्य च रणस्थानमुवाच दानवेश्वरम् ॥ 7॥ 9,९.२३,त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।,7,14020,वृद्धब्राह्मण उवाच । देहि भिक्षां च राजेन्द्र मह्यं विप्राय साम्प्रतम् । त्वं सर्वसम्पदां दाता यन्मे मनसि वाञ्छितम् ॥ 8॥ 9,९.२३,त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।,8,14021,निरीहाय च वृद्धाय तृषिताय च साम्प्रतम् । पश्चात्त्वां कथयिष्यामि पुरः सत्यं च कुर्विति ॥ 9॥ 9,९.२३,त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।,9,14022,ओमित्युवाच राजेन्द्रः प्रसन्नवदनेक्षणः । कवचार्थी जनश्चाहमित्युवाचातिमायया ॥ 10॥ 9,९.२३,त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।,10,14023,तच्छ्रुत्वा कवचं दिव्यं जग्राह हरिरेव च । शङ्खचूडस्य रूपेण जगाम तुलसीं प्रति ॥ 11॥ 9,९.२३,त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।,11,14024,गत्वा तस्यां मायया च वीर्याधानं चकार ह । अथ शम्भुर्हरेः शूलं जग्राह दानवं प्रति ॥ 12॥ 9,९.२३,त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।,12,14025,ग्रीष्ममध्याह्नमार्तण्डप्रलयाग्निशिखोपमम् । दुर्निवार्यं च दुर्धर्षमव्यर्थं वैरिघातकम् ॥ 13॥ 9,९.२३,त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।,13,14026,तेजसा चक्रतुल्यं च सर्वशस्त्रास्त्रसारकम् । शिवकेशवयोरन्यैर्दुर्वहं च भयङ्करम् ॥ 14॥ 9,९.२३,त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।,14,14027,धनुःसहस्रं दैर्घ्येण प्रस्थेन शतहस्तकम् । सजीवं ब्रह्मरूपं च नित्यरूपमनिर्दिशम् ॥ 15॥ 9,९.२३,त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।,15,14028,संहर्तुं सर्वब्रह्माण्डमलं यत्स्वीयलीलया । चिक्षेप तोलनं कृत्वा शङ्खचूडे च नारद ॥ 16॥ 9,९.२३,त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।,16,14029,राजा चापं परित्यज्य श्रीकृष्णचरणाम्बुजम् । ध्यानं चकार भक्त्या च कृत्वा योगासनं धिया ॥ 17॥ 9,९.२३,त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।,17,14030,शूलं च भ्रमणं कृत्वा पपात दानवोपरि । चकार भस्मसात्तं च सरथं चाथ लीलया ॥ 18॥ 9,९.२३,त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।,18,14031,राजा धृत्वा दिव्यरूपं किशोरं गोपवेषकम् । द्विभुजं मुरलीहस्तं रत्नभूषणभूषितम् ॥ 19॥ 9,९.२३,त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।,19,14032,रत्नेन्द्रसारनिर्माणं वेष्टितं गोपकोटिभिः । गोलोकादागतं यानमारुरोह पुरं ययौ ॥ 20॥ 9,९.२३,त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।,20,14033,गत्वा ननाम शिरसा स राधाकृष्णयोर्मुने । भक्त्या च चरणाम्भोजं रासे वृन्दावने वने ॥ 21॥ 9,९.२३,त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।,21,14034,सुदामानं च तौ दृष्ट्वा प्रसन्नवदनेक्षणौ । क्रोडे चक्रतुरत्यन्तं प्रेम्णातिपरिसंयुतौ ॥ 22॥ 9,९.२३,त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।,22,14035,अथ शलं च वेगेन प्रययौ तं च सादरम् । अस्थिभिः शङ्खचूडस्य शङ्खजातिर्बभूव ह ॥ 23॥ 9,९.२३,त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।,23,14036,नानाप्रकाररूपेण शश्वत्पूता सुरार्चने । प्रशस्तं शङ्खतोयं च देवानां प्रीतिदं परम् ॥ 24॥ 9,९.२३,त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।,24,14037,तीर्थतोयस्वरूपं च पवित्रं शम्भुना विना । शङ्खशब्दो भवेद्यत्र तत्र लक्ष्मीः सुसंस्थिरा ॥ 25॥ 9,९.२३,त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।,25,14038,स स्नातः सर्वतीर्थेषु यः स्नातः शङ्खवारिणा । शङ्खो हरेरधिष्ठानं यत्र शङ्खस्ततो हरिः ॥ 26॥ 9,९.२३,त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।,26,14039,तत्रैव वसते लक्ष्मीर्दूरीभूतममङ्गलम् । स्त्रीणां च शङ्खध्वनिभिः शूद्राणां च विशेषतः ॥ 27॥ 9,९.२३,त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।,27,14040,भीता रुष्टा याति लक्ष्मीस्तत्स्थलादन्यदेशतः । शिवोऽपि दानवं हत्वा शिवलोकं जगाम ह ॥ 28॥ 9,९.२३,त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।,28,14041,प्रहृष्टो वृषभारूढः स्वगणैश्च समावृतः । सुराः स्वविषयं प्रापुः परमानन्दसंयुताः ॥ 29॥ 9,९.२३,त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।,29,14042,नेदुर्दुन्दुभयः स्वर्गे जगुर्गन्धर्वकिन्नराः । बभूव पुष्पवृष्टिश्च शिवस्योपरि सन्ततम् । प्रशशंसुः सुरास्तं च मुनीन्द्रप्रवरादयः ॥ 30॥ 9,९.२३,त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।,30,14043,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे शङ्खचूडवधवर्णनं नाम त्रयोविशोऽध्यायः ॥ ९.२३॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,0,14044,नारद उवाच । नारायणश्च भगवान्वीर्याधानं चकार ह । तुलस्यां केन रूपेण तन्मे व्याख्यातुमर्हसि ॥ 1॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,1,14045,श्रीनारायण उवाच । नारायणश्च भगवान्देवानां साधनेषु च । शङ्खचूडस्य कवचं गहीत्वा विष्णुमायया ॥ 2॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,2,14046,पुनर्विधाय तद्रूपं जगाम तत्सतीगृहम् । पातिव्रतस्य नाशेन शङ्खचूडजिघांसया ॥ 3॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,3,14047,दुन्दुभिं वादयामास तुलसीद्वारसन्निधौ । जयशब्दं च तद्द्वारे बोधयामास सुन्दरीम् ॥ 4॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,4,14048,तच्छ्रुत्वा च रवं साध्वी परमानन्दसंयुता । राजमार्गे गवाक्षेण ददर्श परमादरात् ॥ 5॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,5,14049,ब्राह्मणेभ्यो धनं दत्त्वा कारयामास मङ्गलम् । वन्दिभ्यो भिक्षुकेभ्यश्च वाचिभ्यश्च धनं ददौ ॥ 6॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,6,14050,अवरुह्य रथाद्देवो देव्याश्च भवनं ययौ । अमूल्यरत्ननिर्माणं सुन्दरं सुमनोहरम् ॥ 7॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,7,14051,दृष्ट्वा च पुरतः कान्तं सा तं कान्तं मुदान्विता । तत्पादं क्षालयामास ननाम च रुरोद च ॥ 8॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,8,14052,रत्नसिंहासने रम्ये वासयामास कामुकी । ताम्बूलं च ददौ तस्मै कर्पूरादिसुवासितम् ॥ 9॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,9,14053,अद्य मे सफलं जन्म जीवनं च बभूव ह । रणे गतं च प्राणेशं पश्यन्त्याश्च पुनर्गृहे ॥ 10॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,10,14054,सस्मिता सकटाक्षं च सकामा पुलकाङ्किता । पप्रच्छ रणवृत्तान्तं कान्तं मधुरया गिरा ॥ 11॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,11,14055,तुलस्युवाच । असङ्ख्यविश्वसंहर्त्रा सार्धमाजौ तव प्रभो । कथं बभूव विजयस्तन्मे ब्रूहि कृपानिधे ॥ 12॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,12,14056,तुलसीवचनं श्रुत्वा प्रहस्य कमलापतिः । शङ्खचूडस्य रूपेण तामुवाचामृतं वचः ॥ 13॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,13,14057,श्रीभगवानुवाच । आवयोः समरः कान्ते पूर्णमब्दं बभूव ह । नाशो बभूव सर्वेषां दानवानां च कामिनि ॥ 14॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,14,14058,प्रीतिञ्च कारयामास ब्रह्मा च स्वयमावयोः । देवानामधिकारश्च प्रदत्तस्तस्य चाज्ञया ॥ 15॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,15,14059,मयागतं स्वभवनं शिवलोकं शिवो गतः । इत्युक्त्वा जगतां नाथः शयनं च चकार ह ॥ 16॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,16,14060,रेमे रमापतिस्तत्र रामया सह नारद । सा साध्वी सुखसम्भोगादाकर्षणव्यतिक्रमात् ॥ 17॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,17,14061,सर्वं वितर्कयामास कस्त्वमेवेत्युवाच सा । तुलस्युवाच । को वा त्वं वद मायेश भुक्ताहं मायया त्वया ॥ 18॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,18,14062,दूरीकृतं मत्सतीत्वं यदतस्त्वां शपामि हे । तुलसीवचनं श्रुत्वा हरिः शापभयेन च ॥ 19॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,19,14063,दधार लीलया ब्रह्मन् सुमूर्तिं सुमनोहराम् । ददर्श पुरतो देवी देवदेवं सनातनम् ॥ 20॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,20,14064,नवीननीरदश्यामं शरत्पङ्कजलोचनम् । कोटिकन्दर्पलीलाभं रत्नभूषणभूषितम् ॥ 21॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,21,14065,ईषद्धास्यं प्रसन्नास्यं शोभितं पीतवाससम् । तं दृष्ट्वा कामिनी कामं मूर्च्छां सम्प्राप लीलया ॥ 22॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,22,14066,पुनश्च चेतनां प्राप्य पुनः सा तमुवाच ह । तुलस्युवाच । हे नाथ ते दया नास्ति पाषाणसदृशस्य च ॥ 23॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,23,14067,छलेन धर्मभङ्गेन मम स्वामी त्वया हतः । पाषाणहृदयस्त्वं हि दयाहीनो यतः प्रभो ॥ 24॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,24,14068,तस्मात्पाषाणरूपस्त्वं भवे देव भवाधुना । ये वदन्ति च साधुं त्वां ते भ्रान्ता हि न संशयः ॥ 25॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,25,14069,भक्तो विनापराधेन परार्थे च कथं हतः । भृशं रुरोद शोकार्ता विललाप मुहुर्मुहुः ॥ 26॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,26,14070,ततश्च करुणां दृष्ट्वा करुणारससागरः । नयेन तां बोधयितुमुवाच कमलापतिः ॥ 27॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,27,14071,श्रीभगवानुवाच । तपस्त्वया कृतं भद्रे मदर्थे भारते चिरम् । त्वदर्थे शङ्खचूडश्च चकार सुचिरं तपः ॥ 28॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,28,14072,कृत्वा त्वां कामिनीं सोऽपि विजहार च तत्क्षणात् । अधुना दातुमुचितं तवैव तपसः फलम् ॥ 29॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,29,14073,इदं शरीरं त्यक्त्वा च दिव्यदेहं विधाय च । रामे रम मया सार्धं त्वं रमासदृशी भव ॥ 30॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,30,14074,इयं तनुर्नदीरूपा गण्डकीति च विश्रुता । पूता सुपुण्यदा नॄणां पुण्ये भवतु भारते ॥ 31॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,31,14075,तव केशसमूहश्च पुण्यवृक्षो भविष्यति । तुलसीकेशसम्भूता तुलसीति च विश्रुता ॥ 32॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,32,14076,त्रिषु लोकेषु पुष्पाणां पत्राणां देवपूजने । प्रधानरूपा तुलसी भविष्यति वरानने ॥ 33॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,33,14077,स्वर्गे मर्त्ये च पाताले गोलोके मम सन्निधौ । भव त्वं तुलसी वृक्षवरा पुष्पेषु सुन्दरी ॥ 34॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,34,14078,गोलोके विरजातीरे रासे वृन्दावने वने । भाण्डीरे चम्पकवने रम्ये चन्दनकानने ॥ 35॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,35,14079,माधवीकेतकीकुन्दमालिकामालतीवने । वासस्तेऽत्रैव भवतु पुण्यस्थानेषु पुण्यदः ॥ 36॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,36,14080,तुलसीतरुमूलेषु पुण्यदेशेषु पुण्यदम् । अधिष्ठानं च तीर्थानां सर्वेषां च भविष्यति ॥ 37॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,37,14081,तत्रैव सर्वदेवानां ममाधिष्ठानमेव च । तुलसीपत्रपतनप्राप्तये च वरानने ॥ 38॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,38,14082,स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः । तुलसीपत्रतोयेन योऽभिषेकं समाचरेत् ॥ 39॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,39,14083,सुधाघटसहस्राणां या तुष्टिस्तु भवेद्धरेः । सा च तुष्टिर्भवेन्नूनं तुलसीपत्रदानतः ॥ 40॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,40,14084,गवामयुतदानेन यत्फलं तत्फलं भवेत् । तुलसीपत्रदानेन तत्फलं कार्तिके सति ॥ 41॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,41,14085,तुलसीपत्रतोयं च मृत्युकाले च यो लभेत् । मुच्यते सर्वपापेभ्यो विष्णुलोके महीयते ॥ 42॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,42,14086,नित्यं यस्तुलसीतोयं भुङ्क्ते भक्त्या च मानवः । लक्षाश्वमेधजं पुण्यं सम्प्राप्नोति स मानवः ॥ 43॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,43,14087,तुलसीं स्वकरे कृत्वा धृत्वा देहे च मानवः । प्राणांस्त्यजति तीर्थेषु विष्णुलोकं स गच्छति ॥ 44॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,44,14088,तुलसीकाष्ठनिर्माणमालां गृह्णाति यो नरः । पदे पदेऽश्वमेधस्य लभते निश्चितं फलम् ॥ 45॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,45,14089,तुलसीं स्वकरे कृत्वा स्वीकारं यो न रक्षति । स याति कालसूत्रं च यावच्चन्द्रदिवाकरौ ॥ 46॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,46,14090,करोति मिथ्याशपथं तुलस्या योऽत्र मानवः । स याति कुम्भीपाकं च यावदिन्द्राश्चतुर्दश ॥ 47॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,47,14091,तुलसीतोयकणिकां मृत्युकाले च यो लभेत् । रत्नयानं समारुह्य वैकुण्ठे प्राप्यते ध्रुवम् ॥ 48॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,48,14092,पूर्णिमायाममायां च द्वादश्यां रविसङ्क्रमे । तैलाभ्यङ्गं च कृत्वा च मध्याह्ने निशि सन्ध्ययोः ॥ 49॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,49,14093,अशौचेऽशुचिकाले ये रात्रिवासोऽन्विता नराः । तुलसीं ये विचिन्वन्ति ते छिन्दन्ति हरेः शिरः ॥ 50॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,50,14094,त्रिरात्रं तुलसीपत्रं शुद्धं पर्युषितं सति । श्राद्धे व्रते च दाने च प्रतिष्ठायां सुरार्चने ॥ 51॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,51,14095,भूगतं तोयपतितं यद्दत्तं विष्णवे सति । शुद्धं च तुलसीपत्रं क्षालनादन्यकर्मणि ॥ 52॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,52,14096,वृक्षाधिष्ठातृदेवी या गोलोके च निरामये । कृष्णेन सार्धं नित्यं च नित्यक्रीडां करिष्यसि ॥ 53॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,53,14097,नद्यधिष्ठातृदेवी या भारते च सुपुण्यदा । लवणोदस्य सा पत्नी मदंशस्य भविष्यति ॥ 54॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,54,14098,त्वं च स्वयं महासाध्वी वैकुण्ठे मम सन्निधौ । रमासमा च रामा च भविष्यसि न संशयः ॥ 55॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,55,14099,अहं च शैलरूपेण गण्डकीतीरसन्निधौ । अधिष्ठानं करिष्यामि भारते तव शापतः ॥ 56॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,56,14100,कोटिसङ्ख्यास्तत्र कीटास्तीक्ष्णदंष्ट्रावरायुधैः । तच्छिलाकुहरे चक्रं करिष्यन्ति मदीयकम् ॥ 57॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,57,14101,एकद्वारं चतुश्चक्रं वनमालाविभूषितम् । नवीननीरदाकारं लक्ष्मीनारायणाभिधम् ॥ 58॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,58,14102,एकद्वारं चतुश्चक्रं नवीननीरदोपमम् । लक्ष्मीजनार्दनो ज्ञेयो रहितो वनमालया ॥ 59॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,59,14103,द्वारद्वये चतुश्चक्रं गोष्पदेन विराजितम् । रघुनाथाभिधं ज्ञेयं रहितं वनमालया ॥ 60॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,60,14104,अतिक्षुद्रं द्विचक्रं च नवीनजलदप्रभम् । तद्वामनाभिधं ज्ञेयं रहितं वनमालया ॥ 61॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,61,14105,अतिक्षुद्रं द्विचक्रं च वनमालाविभूषितम् । विज्ञेयं श्रीधरं रूपं श्रीप्रदं गृहिणा सदा ॥ 62॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,62,14106,स्थूलं च वर्तुलाकारं रहितं वनमालया । द्विचक्रं स्फुटमत्यन्तं ज्ञेयं दामोदराभिधम् ॥ 63॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,63,14107,मध्यमं वर्तुलाकारं द्विचक्रं बाणविक्षतम् । रणरामाभिधं ज्ञेयं शरतूणसमन्वितम् ॥ 64॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,64,14108,मध्यमं सप्तचक्रञ्च छत्रभूषणभूषितम् । राजराजेश्वरं ज्ञेयं राजसम्पत्प्रदं नृणाम् ॥ 65॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,65,14109,द्विसप्तचक्रं स्थूलं च नवनीरदसुप्रभम् । अनन्ताख्यं च विज्ञेयं चतुर्वर्गफलप्रदम् ॥ 66॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,66,14110,चक्राकारं द्विचक्रं च सश्रीकं जलदप्रभम् । सगोष्पदं मध्यमं च विज्ञेयं मधुसूदनम् ॥ 67॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,67,14111,सुदर्शनं चैकचक्रं गुप्तचक्रं गदाधरम् । द्विचक्रं हयवक्त्राभं हयग्रीवं प्रकीर्तितम् ॥ 68॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,68,14112,अतीव विस्तृतास्यं च द्विचक्रं विकटं सति । नरसिंहं सुविज्ञेयं सद्यो वैराग्यदं नृणाम् ॥ 69॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,69,14113,द्विचक्रं विस्तृतास्यं च वनमालासमन्वितम् । लक्ष्मीनृसिंहं विज्ञेयं गृहिणां च सुखप्रदम् ॥ 70॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,70,14114,द्वारदेशे द्विचक्रं च सश्रीकं च समं स्फुटम् । वासुदेवं तु विज्ञेयं सर्वकामफलप्रदम् ॥ 71॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,71,14115,प्रद्युम्नं सूक्ष्मचक्रं च नवीननीरदप्रभम् । सुषिरच्छिद्रबहुलं गृहिणा च सुखप्रदम् ॥ 72॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,72,14116,द्वे चक्रे चैकलग्ने च पृष्ठं यत्र तु पुष्कलम् । सङ्कर्षणं सुविज्ञेयं सुखदं गृहिणां सदा ॥ 73॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,73,14117,अनिरुद्धं तु पीताभं वर्तुलं चातिशोभनम् । सुखप्रदं गृहस्थानां प्रवदन्ति मनीषिणः ॥ 74॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,74,14118,शालग्रामशिला यत्र तत्र सन्निहितो हरिः । तत्रैव लक्ष्मीर्वसति सर्वतीर्थसमन्विता ॥ 75॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,75,14119,यानि कानि च पापानि ब्रह्महत्यादिकानि च । तानि सर्वाणि नश्यन्ति शालग्रामशिलार्चनात् ॥ 76॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,76,14120,छत्राकारे भवेद्राज्यं वर्तुले च महाश्रियः । दुःखञ्च शकटाकारे शूलाग्रे मरणं ध्रुवम् ॥ 77॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,77,14121,विकृतास्ये च दारिद्र्यं पिङ्गले हानिरेव च । भग्नचक्रे भवेद्व्याधिर्विदीर्णे मरणं ध्रुवम् ॥ 78॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,78,14122,व्रतं दानं प्रतिष्ठा च श्राद्धं च देवपूजनम् । शालग्रामस्य सान्निध्यात्प्रशस्तं तद्भवेदिति ॥ 79॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,79,14123,स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः । सर्वयज्ञेषु तीर्थेषु व्रतेषु च तपःसु च ॥ 80॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,80,14124,पाठे चतुर्णां वेदानां तपसां करणे सति । तत्पुण्यं लभते नूनं शालग्रामशिलार्चनात् ॥ 81॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,81,14125,(शालग्रामशिलातोयैर्योऽभिषेकं सदा चरेत् । सर्वदानेषु यत्पुण्यं प्रदक्षिणं भुवो यथा ॥)॥ शालग्रामशिलातोयं नित्यं भुङ्क्ते च यो नरः । सुरेप्सितं प्रसादं च लभते नात्र संशयः ॥ 82॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,82,14126,तस्य स्पर्शं च वाञ्छन्ति तीर्थानि निखिलानि च । जीवन्मुक्तो महापूतोऽप्यन्ते याति हरेः पदम् ॥ 83॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,83,14127,तत्रैव हरिणा सार्धमसङ्ख्यं प्राकृतं लयम् । यास्यत्येव हि दास्ये च नियुक्तो दास्यकर्मणि ॥ 84॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,84,14128,यानि कानि च पापानि ब्रह्महत्यासमानि च । तं दृष्ट्वा च पलायन्ते वैनतेयादिवोरगाः ॥ 85॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,85,14129,तत्पादरजसा देवी सद्यःपूता वसुन्धरा । पुंसां लक्षं तत्पितॄणां निस्तरेत्तस्य जन्मतः ॥ 86॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,86,14130,शालग्रामशिलातोयं मृत्युकाले च यो लभेत् । सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ 87॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,87,14131,निर्वाणमुक्तिं लभते कर्मभोगात्प्रमुच्यते । विष्णोः पदे प्रलीनश्च भविष्यति न संशयः ॥ 88॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,88,14132,शालग्रामशिलां धृत्वा मिथ्यावाक्यं वदेत्तु यः । स याति कुम्भीपाके च यावद्वै ब्रह्मणो वयः ॥ 89॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,89,14133,शालग्रामशिलां धृत्वा स्वीकारं यो न पालयेत् । स प्रयात्यसिपत्रं च लक्षमन्वन्तरावधि ॥ 90॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,90,14134,तुलसीपत्रविच्छेदं शालग्रामे करोति यः । तस्य जन्मान्तरे कान्ते स्त्रीविच्छेदो भविष्यति ॥ 91॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,91,14135,तुलसीपत्रविच्छेदं शङ्खे यो हि करोति च । भार्याहीनो भवेत्सोऽपि रोगी च सप्तजन्मसु ॥ 92॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,92,14136,शालग्रामं च तुलसीं शङ्खं चैकत्र एव च । यो रक्षति महाज्ञानी स भवेच्छ्रीहरेः प्रियः ॥ 93॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,93,14137,सकृदेव हि यो यस्यां वीर्याधानं करोति च । तद्विच्छेदे तस्य दुःखं भवेदेव परस्परम् ॥ 94॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,94,14138,त्वं प्रिया शङ्खचूडस्य चैकमन्वन्तरावधि । शङ्खेन सार्धं त्वद्भेदः केवलं दुःखदस्तथा ॥ 95॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,95,14139,इत्युक्त्वा श्रीहरिस्तां च विरराम च नारद । सा च देहं परित्यज्य दिव्यरूपं विधाय च ॥ 96॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,96,14140,यथा श्रीश्च तथा सा चाप्युवास हरिवक्षसि । स जगाम तया सार्धं वैकुण्ठं कमलापतिः ॥ 97॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,97,14141,लक्ष्मीः सरस्वती गङ्गा तुलसी चापि नारद । हरेः प्रियाश्चतस्रश्च बभूवुरीश्वरस्य च ॥ 98॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,98,14142,सद्यस्तद्देहजाता च बभूव गण्डकी नदी । ईश्वरः सोऽपि शैलश्च तत्तीरे पुण्यदो नृणाम् ॥ 99॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,99,14143,कुर्वन्ति तत्र कीटाश्च शिलां बहुविधां मुने । जले पतन्ति या याश्च फलदास्ताश्च निश्चितम् ॥ 100॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,100,14144,स्थलस्थाः पिङ्गला ज्ञेयाश्चोपतापाद्रवेरिति । इत्येवं कथितं सर्वं किं भूयः श्रोतुमिच्छसि ॥ 101॥ 9,९.२४,चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।,101,14145,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनं नाम चतुर्विंशोऽध्यायः ॥ ९.२४॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,0,14146,नारद उवाच । तुलसी च यदा पूज्या कृता नारायणप्रिया । अस्याः पूजाविधानं च स्तोत्रं च वद साम्प्रतम् ॥ 1॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,1,14147,केन पूजा कृता केन स्तुता प्रथमतो मुने । तत्र पूज्या सा बभूव केन वा वद मामहो ॥ 2॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,2,14148,सूत उवाच । नारदस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः । कथां कथितुमारेभे पुण्यां पापहरां पराम् ॥ 3॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,3,14149,श्रीनारायण उवाच । हरिः सम्पूज्य तुलसीं रेमे च रमया सह । रमासमानसौभाग्यां चकार गौरवेण च ॥ 4॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,4,14150,सेहे च लक्ष्मीर्गङ्गा च तस्याश्च नवसङ्गमम् । सौभाग्यगौरवं कोपात्ते न सेहे सरस्वती ॥ 5॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,5,14151,सा तां जघान कलहे मानिनी हरिसन्निधौ । व्रीडया चापमानेन सान्तर्धानं चकार ह ॥ 6॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,6,14152,सर्वसिद्धेश्वरी देवी ज्ञानिनां सिद्धियोगिनी । जगामादर्शनं कोपात्सर्वत्र च हरेरहो ॥ 7॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,7,14153,हरिर्न दृष्ट्वा तुलसीं बोधयित्वा सरस्वतीम् । तदनुज्ञां गहीत्वा च जगाम तुलसीवनम् ॥ 8॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,8,14154,तत्र गत्वा च सुस्नातो हरिः स तुलसीं सतीम् । पूजयामास तां ध्यात्वा स्तोत्रं भक्त्या चकार ह ॥ 9॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,9,14155,लक्ष्मीमायाकामवाणीबीजपूर्वं दशाक्षरम् । वृन्दावनीति ङेऽन्तं च वह्निजायान्तमेव च ॥ 10॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,10,14156,अनेन कल्पतरुणा मन्त्रराजेन नारद । पूजयेद्यो विधानेन सर्वसिद्धिं लभेद् ध्रुवम् ॥ 11॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,11,14157,घृतदीपेन धूपेन सिन्दूरचन्दनेन च । नैवेद्येन च पुष्पेण चोपचारेण नारद ॥ 12॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,12,14158,हरिस्तोत्रेण तुष्टा सा चाविर्भूता महीरुहात् । प्रसन्ना चरणाम्भोजे जगाम शरणं शुभा ॥ 13॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,13,14159,वरं तस्यै ददौ विष्णुः सर्वपूज्या भवेरिति । अहं त्वां धारयिष्यामि सुरूपां मूर्ध्नि वक्षसि ॥ 14॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,14,14160,सर्वे त्वां धारयिष्यन्ति स्वमूर्ध्नि च सुरादयः । इत्युक्त्वा तां गृहीत्वा च प्रययौ स्वालयं विभुः ॥ 15॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,15,14161,नारद उवाच । किं ध्यानं स्तवनं किं वा किं वा पूजाविधानकम् । तुलस्याश्च महाभाग तन्मे व्याख्यातुमर्हसि ॥ 16॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,16,14162,श्रीनारायण उवाच । अन्तर्हितायां तस्यां च हरिर्वृन्दावने तदा । तस्याश्चक्रे स्तुतिं गत्वा तुलसीं विरहातुरः ॥ 17॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,17,14163,श्रीभगवानुवाच । वृन्दरूपाश्च वृक्षाश्च यदैकत्र भवन्ति च । विदुर्बुधास्तेन वृन्दां मत्प्रियां तां भजाम्यहम् ॥ 18॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,18,14164,पुरा बभूव या देवी त्वादौ वृन्दावने वने । तेन वृन्दावनी ख्याता सौभाग्या तां भजाम्यहम् ॥ 19॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,19,14165,असङ्ख्येषु च विश्वेषु पूजिता या निरन्तरम् । तेन विश्वपूजिताऽऽख्यां पूजितां च भजाम्यहम् ॥ 20॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,20,14166,असङ्ख्यानि च विश्वानि पवित्राणि त्वया सदा । तां विश्वपावनीं देवीं विरहेण स्मराम्यहम् ॥ 21॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,21,14167,देवा न तुष्टाः पुष्पाणां समूहेन यया विना । तां पुष्पसारां शुद्धां च द्रष्टुमिच्छामि शोकतः ॥ 22॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,22,14168,विश्वे यत्प्राप्तिमात्रेण भक्तानन्दो भवेद् ध्रुवम् । नन्दिनी तेन विख्याता सा प्रीता भवतादिह ॥ 23॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,23,14169,यस्या देव्यास्तुला नास्ति विश्वेषु निखिलेषु च । तुलसी तेन विख्याता तां यामि शरणं प्रियाम् ॥ 24॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,24,14170,कृष्णजीवनरूपा सा शश्वत्प्रियतमा सती । तेन कृष्णजीवनी सा सा मे रक्षतु जीवनम् ॥ 25॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,25,14171,इत्येवं स्तवनं कृत्वा तस्थौ तत्र रमापतिः । ददर्श तुलसीं साक्षात्पादपद्मनतां सतीम् ॥ 26॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,26,14172,रुदतीमवमानेन मानिनीं मानपूजिताम् । प्रियां दृष्ट्वा प्रियः शीघ्रं वासयामास वक्षसि ॥ 27॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,27,14173,भारत्याज्ञां गहीत्वा च स्वालयं च ययौ हरिः । भारत्या सह तत्प्रीतिं कारयामास सत्वरम् ॥ 28॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,28,14174,वरं विष्णुर्ददौ तस्यै सर्वपूज्या भवेरिति । शिरोधार्या च सर्वेषां वन्द्या मान्या ममेति च ॥ 29॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,29,14175,विष्णोर्वरेण सा देवी परितुष्टा बभूव च । सरस्वती तामाकृष्य वासयामास सन्निधौ ॥ 30॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,30,14176,लक्ष्मीर्गङ्गा सस्मिता च तां समाकृष्य नारद । गृहं प्रवेशयामास विनयेन सतीं तदा ॥ 31॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,31,14177,वृन्दा वृन्दावनी विश्वपूजिता विश्वपावनी । पुष्पसारा नन्दनी च तुलसी कृष्णजीवनी ॥ 32॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,32,14178,एतन्नामाष्टकञ्चैव स्तोत्रं नामार्थसंयुतम् । यः पठेत्तां च सम्पूज्य सोऽश्वमेधफलं लभेत् ॥ 33॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,33,14179,कार्तिक्यां पूर्णिमायां च तुलस्या जन्म मङ्गलम् । तत्र तस्याश्च पूजा च विहिता हरिणा पुरा ॥ 34॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,34,14180,तस्यां यः पूजयेत्तां च भक्त्या वै विश्वपावनीम् । सर्वपापाद्विनिर्मुक्तो विष्णुलोकं स गच्छति ॥ 35॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,35,14181,कार्तिके तुलसीपत्रं यो ददाति च विष्णुवे । गवामयुतदानस्य फलं प्राप्नोति निश्चितम् ॥ 36॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,36,14182,अपुत्रो लभते पुत्रं प्रियाहीनो लभेत्प्रियाम् । बन्धुहीनो लभेद् बन्धून् स्तोत्रश्रवणमात्रतः ॥ 37॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,37,14183,रोगी प्रमुच्यते रोगाद् बद्धो मुच्येत बन्धनात् । भयान्मुच्येत भीतस्तु पापान्मुच्येत पातकी ॥ 38॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,38,14184,इत्येवं कथितं स्तोत्रं ध्यानं पूजाविधिं श‍ृणु । त्वमेव वेदे जानासि कण्वशाखोक्तमेव च ॥ 39॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,39,14185,तद्वृक्षे पूजयेत्तां च भक्त्या चावाहनं विना । तां ध्यात्वा चोपचारेण ध्यानं पातकनाशनम् ॥ 40॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,40,14186,तुलसीं पुष्पसारां च सतीं पूतां मनोहराम् । कृतपापेध्मदाहाय ज्वलदग्निशिखोपमाम् ॥ 41॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,41,14187,पुष्पेषु तुलना यस्या नास्ति वेदेषु भाषितम् । पवित्ररूपा सर्वासु तुलसी सा च कीर्तिता ॥ 42॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,42,14188,शिरोधार्या च सर्वेषामीप्सिता विश्वपावनी । जीवन्मुक्तां मुक्तिदां च भजे तां हरिभक्तिदाम् ॥ 43॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,43,14189,इति ध्यात्वा च सम्पूज्य स्तुत्वा च प्रणमेत्सुधीः । उक्तं तुलस्युपाख्यानं किं भूयः श्रोतुमिच्छसि ॥ 44॥ 9,९.२५,पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।,44,14190,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे तुलसीपूजाविधिवर्णनं नाम पञ्चविशोऽध्यायः ॥ ९.२५॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,0,14191,नारद उवाच । तुलस्युपाख्यानमिदं श्रुतं चातिसुधोपमम् । ततः सावित्र्युपाख्यानं तन्मे व्याख्यातुमर्हसि ॥ 1॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,1,14192,पुरा केन समुद्भूता सा श्रुता च श्रुतेः प्रसूः । केन वा पूजिता लोके प्रथमे कैश्च वा परे ॥ 2॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,2,14193,श्रीनारायण उवाच । ब्रह्मणा वेदजननी प्रथमे पूजिता मुने । द्वितीये च वेदगणैस्तत्पश्चाद्विदुषां गणैः ॥ 3॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,3,14194,तदा चाश्वपतिर्भूपः पूजयामास भारते । तत्पश्चात्पूजयामासुर्वर्णाश्चत्वार एव च ॥ 4॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,4,14195,नारद उवाच । को वा सोऽश्वपतिर्ब्रह्मन् केन वा तेन पूजिता । सर्वपूज्या च सा देवी प्रथमे कैश्च वा परे ॥ 5॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,5,14196,श्रीनारायण उवाच । मद्रदेशे महाराजो बभूवाश्वपतिर्मुने । वैरिणां बलहर्ता च मित्राणां दुःखनाशनः ॥ 6॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,6,14197,आसीत्तस्य महाराज्ञी महिषी धर्मचारिणी । मालतीति समाख्याता यथा लक्ष्मीर्गदाभृतः ॥ 7॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,7,14198,सा च राज्ञी च वन्ध्या च वसिष्ठस्योपदेशतः । चकाराराधनं भक्त्या सावित्र्याश्चैव नारद ॥ 8॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,8,14199,प्रत्यादेशं न सा प्राप्ता महिषी न ददर्श ताम् । गृहं जगाम दुःखार्ता हृदयेन विदूयता ॥ 9॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,9,14200,राजा तां दुःखितां दृष्ट्वा बोधयित्वा नयेन वै । सावित्र्यास्तपसे भक्त्या जगाम पुष्करं तदा ॥ 10॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,10,14201,तपश्चकार तत्रैव संयतः शतवत्सरम् । न ददर्श च सावित्र्या प्रत्यादेशो बभूव च ॥ 11॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,11,14202,शुश्रावाकाशवाणीं च नृपेन्द्रश्चाशरीरिणीम् । गायत्र्या दशलक्षं च जपं त्वं कुरु नारद ॥ 12॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,12,14203,एतस्मिन्नन्तरे तत्र आजगाम पराशरः । प्रणनाम ततस्तं च मुनिर्नृपमुवाच च ॥ 13॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,13,14204,मुनिरुवाच । सकृज्जपश्च गायत्र्याः पापं दिनभवं हरेत् । दशवारं जपेनैव नश्येत्पापं दिवानिशम् ॥ 14॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,14,14205,शतवारं जपश्चैव पापं मासार्जितं हरेत् । सहस्रधा जपश्चैव कल्मषं वत्सरार्जितम् ॥ 15॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,15,14206,लक्षो जन्मकृतं पापं दशलक्षोऽन्यजन्मजम् । सर्वजन्मकृतं पापं शतलक्षाद्विनश्यति ॥ 16॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,16,14207,करोति मुक्तिं विप्राणां जपो दशगुणस्ततः । करं सर्पफणाकारं कृत्वा तद्रन्धमुद्रितम् ॥ 17॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,17,14208,आनम्रमूर्धमचलं प्रजपेत्प्राङ्मुखो द्विजः । अनामिकामध्यदेशादधोऽवामक्रमेण च ॥ 18॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,18,14209,तर्जनीमूलपर्यन्तं जपस्यैवं क्रमः करे । श्वेतपङ्कजबीजानां स्फटिकानां च संस्कृताम् ॥ 19॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,19,14210,कृत्वा वै मालिकां राजन् जपेत्तीर्थे सुरालये । संस्थाप्य मालामश्वत्थपत्रे पद्मे च संयतः ॥ 20॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,20,14211,कृत्वा गोरोचनाक्तां च गायत्र्या स्नापयेत्सुधीः । गायत्रीशतकं तस्यां जपेच्च विधिपूर्वकम् ॥ 21॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,21,14212,अथवा पञ्चगव्येन स्नात्वा मालां सुसंस्कृताम् । अथ गङ्गोदकेनैव स्नात्वा वातिसुसंस्कृताम् ॥ 22॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,22,14213,एवं क्रमेण राजर्षे दशलक्षं जपं कुरु । साक्षाद्द्रक्ष्यसि सावित्रीं त्रिजन्मपातकक्षयात् ॥ 23॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,23,14214,नित्यं सन्ध्यां च हे राजन् करिष्यसि दिने दिने । मध्याह्ने चापि सायाह्ने प्रातरेव शुचिः सदा ॥ 24॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,24,14215,सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु । यदह्ना कुरुते कर्म न तस्य फलभाग्भवेत् ॥ 25॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,25,14216,नोपतिष्ठति यः पूर्वां नोपास्ते यस्तु पश्चिमाम् । स शूद्रवद्बहिष्कार्यः सर्वस्माद् द्विजकर्मणः ॥ 26॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,26,14217,यावज्जीवनपर्यन्तं त्रिःसन्ध्यां यः करोति च । स च सूर्यसमो विप्रस्तेजसा तपसा सदा ॥ 27॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,27,14218,तत्पादपद्मरजसा सद्यःपूता वसुन्धरा । जीवन्मुक्तः स तेजस्वी सन्ध्यापूतो हि यो द्विजः ॥ 28॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,28,14219,तीर्थानि च पवित्राणि तस्य संस्पर्शमात्रतः । ततः पापानि यान्त्येव वैनतेयादिवोरगाः ॥ 29॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,29,14220,न गृह्णन्ति सुराः पूजां पितरः पिण्डतर्पणम् । स्वेच्छया च द्विजातेश्च त्रिसन्ध्यारहितस्य च ॥ 30॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,30,14221,मूलप्रकृत्यभक्तो यस्तन्मन्त्रस्याप्यनर्चकः । तदुत्सवविहीनश्च विषहीनो यथोरगः ॥ 31॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,31,14222,विष्णुमन्त्रविहीनश्च त्रिसन्ध्यारहितो द्विजः । एकादशीविहीनश्च विषहीनो यथोरगः ॥ 32॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,32,14223,हरेरनैवेद्यभोजी धावको वृषवाहकः । शूद्रान्नभोजी यो विप्रो विषहीनो यथोरगः ॥ 33॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,33,14224,शूद्राणां शवदाही यः स विप्रो वृषलीपतिः । शूद्राणां सूपकारश्च विषहीनो यथोरगः ॥ 34॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,34,14225,शूद्राणां च प्रतिग्राही शूद्रयाजी च यो द्विजः । मसिजीवी असिजीवी विषहीनो यथोरगः ॥ 35॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,35,14226,यः कन्याविक्रयी विप्रो यो हरेर्नामविक्रयी । यो विप्रोऽवीरान्नभोजी ऋतुस्नातान्नभोजकः ॥ 36॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,36,14227,भगजीवी बार्धुषिको विषहीनो यथोरगः । यो विद्याविकयी विप्रो विषहीनो यथोरगः ॥ 37॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,37,14228,सूर्योदये स्वपेद्यो हि मत्स्यभोजी च यो द्विजः । शिवापूजादिरहितो विषहीनो यथोरगः ॥ 38॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,38,14229,इत्युक्त्वा च मुनिश्रेष्ठः सर्वपूजाविधिक्रमम् । तमुवाच च सावित्र्या ध्यानादिकमभीप्सितम् ॥ 39॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,39,14230,दत्त्वा सर्वं नृपेन्द्राय ययौ च स्वाश्रमे मुने । राजा सम्पूज्य सावित्रीं ददर्श वरमाप च ॥ 40॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,40,14231,नारद उवाच । किं वा ध्यानं च सावित्र्याः किं वा पूजाविधानकम् । स्तोत्रं मन्त्रं च किं दत्त्वा प्रययौ स पराशरः ॥ 41॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,41,14232,नृपः केन विधानेन सम्पूज्य श्रुतिमातरम् । वरं च कं वा सम्प्राप सम्पूज्य तु विधानतः ॥ 42॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,42,14233,तत्सर्वं श्रोतुमिच्छामि सावित्र्याः परमं महत् । रहस्यातिरहस्यं च श्रुतिसिद्धं समासतः ॥ 43॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,43,14234,श्रीनारायण उवाच । ज्येष्ठकृष्णत्रयोदश्यां शुद्धकाले च यत्नतः । व्रतमेव चतुर्दश्यां व्रती भक्त्या समाचरेत् ॥ 44॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,44,14235,व्रतं चतुर्दशाब्दं च द्विसप्तफलसंयुतम् । दत्त्वा द्विसप्तनैवेद्यं पुष्पधूपादिकं चरेत् ॥ 45॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,45,14236,वस्त्रं यज्ञोपवीतं च भोजनं विधिपूर्वकम् । संस्थाप्य मङ्गलघटं फलशाखासमन्वितम् ॥ 46॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,46,14237,गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् । सम्पूज्य पूजयेदिष्टं घटे आवाहिते द्विजः ॥ 47॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,47,14238,श‍ृणु ध्यानं च सावित्र्याश्चोक्तं माध्यन्दिने च यत् । स्तोत्रं पूजाविधानं च मन्त्रं च सर्वकामदम् ॥ 48॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,48,14239,तप्तकाञ्चनवर्णाभां ज्वलन्तीं ब्रह्मतेजसा । ग्रीष्ममध्याह्नमार्तण्डसहस्रसम्मितप्रभाम् ॥ 49॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,49,14240,ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम् । वह्निशुद्धांशुकाधानां भक्तानुग्रहविग्रहाम् ॥ 50॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,50,14241,सुखदां मुक्तिदां शान्तां कान्तां च जगतां विधेः । सर्वसम्पत्स्वरूपां च प्रदात्रीं सर्वसम्पदाम् ॥ 51॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,51,14242,वेदाधिष्ठातृदेवीं च वेदशास्त्रस्वरूपिणीम् । वेदबीजस्वरूपां च भजे तां वेदमातरम् ॥ 52॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,52,14243,ध्यात्वा ध्यानेन नैवेद्यं दत्त्वा पाणिं स्वमूर्धनि । पुनर्ध्यात्वा घटे भक्त्या देवीमावाहयेद् व्रती ॥ 53॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,53,14244,दत्त्वा षोडशोपचारं वेदोक्तं मन्त्रपूर्वकम् । सम्पूज्य स्तुत्वा प्रणमेद्देवदेवीं विधानतः ॥ 54॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,54,14245,आसनं पाद्यमर्घ्यं च स्नानीयं चानुलेपनम् । धूपं दीपं च नैवेद्यं ताम्बूलं शीतलं जलम् ॥ 55॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,55,14246,वसनं भूषणं माल्यं गन्धमाचमनीयकम् । मनोहरं सुतल्पं च देयान्येतानि षोडश ॥ 56॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,56,14247,दारुसारविकारं च हेमादिनिर्मितं च वा । देवाधारं पुण्यदं च मया तुभ्यं निवेदितम् ॥ 57॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,57,14248,तीर्थोदकं च पाद्यं च पुण्यदं प्रीतिदं महत् । पूजाङ्गभूतं शुद्धं च मया तुभ्यं निवेदितम् ॥ 58॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,58,14249,पवित्ररूपमर्घ्यं च दूर्वापुष्पदलान्वितम् । पुण्यदं शङ्खतोयाक्तं मया तुभ्यं निवेदितम् ॥ 59॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,59,14250,सुगन्धं गन्धतोयं च स्नेहं सौगन्धकारकम् । मया निवेदितं भक्त्या स्नानीयं प्रतिगृह्यताम् ॥ 60॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,60,14251,गन्धद्रव्योद्भवं पुण्यं प्रीतिदं दिव्यगन्धदम् । मया निवेदितं भक्त्या गन्धतोयं तवाम्बिके ॥ 61॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,61,14252,सर्वमङ्गलरूपं च सर्वं च मङ्गलप्रदम् । पुण्यदं च सुधूपं तं गृहाण परमेश्वरि ॥ 62॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,62,14253,सुगन्धयुक्तं सुखदं मया तुभ्यं निवेदितम् । जगतां दर्शनार्थाय प्रदीपं दीप्तिकारकम् ॥ 63॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,63,14254,अन्धकारध्वंसबीजं मया तुभ्यं निवेदितम् । तुष्टिदं पुष्टिदं चैव प्रीतिदं क्षुद्विनाशनम् ॥ 64॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,64,14255,पुण्यदं स्वादुरूपं च नैवेद्यं प्रतिगृह्यताम् । ताम्बूलप्रवरं रम्यं कर्पूरादिसुवासितम् ॥ 65॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,65,14256,तुष्टिदं पुष्टिदं चैव मया तुभ्यं निवेदितम् । सुशीतलं वारि शीतं पिपासानाशकारणम् ॥ 66॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,66,14257,जगतां जीवनरूपं च जीवनं प्रतिगृह्यताम् । देहशोभास्वरूपं च सभाशोभाविवर्धनम् ॥ 67॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,67,14258,कार्पासजं च कृमिजं वसनं प्रतिगृह्यताम् । काञ्चनादिविनिर्माणं श्रीकरं श्रीयुतं सदा ॥ 68॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,68,14259,सुखदं पुण्यदं रत्नभूषणं प्रतिगृह्यताम् । नानावृक्षसमुद्भूतं नानारूपसमन्वितम् ॥ 69॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,69,14260,फलस्वरूपं फलदं फलं च प्रतिगृह्यताम् । सर्वमङ्गलरूपं च सर्वमङ्गलमङ्गलम् ॥ 70॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,70,14261,नानापुष्पविनिर्माणं बहुशोभासमन्वितम् । प्रीतिदं पुण्यदं चैव माल्यं च प्रतिगृह्यताम् ॥ 71॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,71,14262,पुण्यदं च सुगन्धाढ्यं गन्धं च देवि गृह्यताम् । सिन्दूरं च वरं रम्यं भालशोभाविवर्धनम् ॥ 72॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,72,14263,भूषणानां च प्रवरं सिन्दूरं प्रतिगृह्यताम् । विशुद्धं ग्रन्थिसंयुक्तं पुण्यसूत्रविनिर्मितम् ॥ 73॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,73,14264,पवित्रं वेदमन्त्रेण यज्ञसूत्रं च गृह्यताम् । द्रव्याण्येतानि मूलेन दत्त्वा स्तोत्रं पठेत्सुधीः ॥ 74॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,74,14265,ततो विप्राय भक्त्या च व्रती दद्याच्च दक्षिणाम् । सावित्रीति चतुर्थ्यन्तं वह्निजायान्तमेव च ॥ 75॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,75,14266,लक्ष्मीमायाकामपूर्वं मन्त्रमष्टाक्षरं विदुः । माध्यन्दिनोक्तं स्तोत्रं च सर्वकामफलप्रदम् ॥ 76॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,76,14267,विप्रजीवनरूपं च निबोध कथयामि ते । कृष्णेन दत्तां सावित्रीं गोलोके ब्रह्मणे पुरा ॥ 77॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,77,14268,नायाति सा तेन सार्धं ब्रह्मलोके च नारद । ब्रह्मा कृष्णाज्ञया भक्त्या तुष्टाव वेदमातरम् ॥ 78॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,78,14269,तदा सा परितुष्टा च ब्रह्माणं चकमे पतिम् । ब्रह्मोवाव सच्चिदानन्दरूपे त्वं मूलप्रकृतिरूपिणि ॥ 79॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,79,14270,हिरण्यगर्भरूपे त्वं प्रसन्ना भव सुन्दरि । तेजःस्वरूपे परमे परमानन्दरूपिणि ॥ 80॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,80,14271,द्विजातीनां जातिरूपे प्रसन्ना भव सुन्दरि । नित्ये नित्यप्रिये देवि नित्यानन्दस्वरूपिणि ॥ 81॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,81,14272,सर्वमङ्गलरूपे च प्रसन्ना भव सुन्दरि । सर्वस्वरूपे विप्राणां मन्त्रसारे परात्परे ॥ 82॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,82,14273,सुखदे मोक्षदे देवि प्रसन्ना भव सुन्दरि । विप्रपापेध्मदाहाय ज्वलदग्निशिखोपमे ॥ 83॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,83,14274,बह्मतेजःप्रदे देवि प्रसन्ना भव सुन्दरि । कायेन मनसा वाचा यत्पापं कुरुते नरः ॥ 84॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,84,14275,तत्त्वत्स्मरणमात्रेण भस्मीभूतं भविष्यति । इत्युक्त्वा जगतां धाता तस्थौ तत्रैव संसदि ॥ 85॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,85,14276,सावित्री ब्रह्मणा सार्धं ब्रह्मलोकं जगाम सा । अनेन स्तवराजेन संस्तूयाश्वपतिर्नृपः ॥ 86॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,86,14277,ददर्श तां च सावित्रीं वरं प्राप मनोगतम् । स्तवराजमिमं पुण्यं सन्ध्यां कृत्वा च यः पठेत् । पाठे चतुर्णां वेदानां यत्फलं लभते च तत् ॥ 87॥ 9,९.२६,षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।,87,14278,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे सावित्रीपूजाविधिकथनं नाम षड्विंशोऽध्यायः ॥ ९.२६॥ 9,९.२७,सप्तविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,0,14279,श्रीनारायण उवाव स्तुत्वानेन सोऽश्वपतिः सम्पूज्य विधिपूर्वकम् । ददर्श तत्र तां देवीं सहस्रार्कसमप्रभाम् ॥ 1॥ 9,९.२७,सप्तविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,1,14280,उवाच सा च राजानं प्रसन्ना सस्मिता सती । यथा माता स्वपुत्रं च द्योतयन्ती दिशस्त्विषा ॥ 2॥ 9,९.२७,सप्तविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,2,14281,सावित्र्युवाच । जानाम्यहं महाराज यत्ते मनसि वाञ्छितम् । वाञ्छितं तव पत्न्याश्च सर्वं दास्यामि निश्चितम् ॥ 3॥ 9,९.२७,सप्तविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,3,14282,साध्वी कन्याभिलाषं च करोति तव कामिनी । त्वं प्रार्थयसि पुत्रं च भविष्यति क्रमेण च ॥ 4॥ 9,९.२७,सप्तविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,4,14283,इत्युक्त्वा सा तदा देवी ब्रह्मलोकं जगाम ह । राजा जगाम स्वगृहं तत्कन्याऽऽदौ बभूव ह ॥ 5॥ 9,९.२७,सप्तविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,5,14284,आराधनाच्च सावित्र्या बभूव कमला परा । सावित्रीति च तन्नाम चकाराश्वपतिर्नृपः ॥ 6॥ 9,९.२७,सप्तविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,6,14285,कालेन सा वर्धमाना बभूव च दिने दिने । रूपयौवनसम्पन्ना शुक्ले चन्द्रकला यथा ॥ 7॥ 9,९.२७,सप्तविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,7,14286,सा वरं वरयामास द्युमत्सेनात्मजं तदा । सत्यवन्तं सत्यशीलं नानागुणसमन्वितम् ॥ 8॥ 9,९.२७,सप्तविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,8,14287,राजा तस्मै ददौ तां च रत्नभूषणभूषिताम् । सोऽपि सार्धं कौतुकेन तां गृहीत्वा गृहं ययौ ॥ 9॥ 9,९.२७,सप्तविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,9,14288,स च संवत्सरेऽतीते सत्यवान् सत्यविक्रमः । जगाम फलकाष्ठार्थं प्रहर्षं पितुराज्ञया ॥ 10॥ 9,९.२७,सप्तविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,10,14289,जगाम साध्वी तत्पश्चात्सावित्री दैवयोगतः । निपत्य वृक्षाद्दैवेन प्राणांस्तत्याज सत्यवान् ॥ 11॥ 9,९.२७,सप्तविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,11,14290,यमस्तं पुरुषं दृष्ट्वा बद्ध्वाङ्गुष्ठसमं मुने । गृहीत्वा गमनं चक्रे तत्पश्चात्प्रययौ सती ॥ 12॥ 9,९.२७,सप्तविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,12,14291,पश्चात्तां सुदतीं दृष्ट्वा यमः संयमनीपतिः । उवाच मधुरं साध्वीं साधूनां प्रवरो महान् ॥ 13॥ 9,९.२७,सप्तविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,13,14292,धर्मराज उवाच । अहो क्व यासि सावित्रि गृहीत्वा मानुषीं तनुम् । यदि यास्यसि कान्तेन सार्धं देहं तदा त्यज ॥ 14॥ 9,९.२७,सप्तविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,14,14293,गन्तुं मर्त्यो न शक्नोति गृहीत्वा पाञ्चभौतिकम् । देहं च मम लोकं च नश्वरं नश्वरः सदा ॥ 15॥ 9,९.२७,सप्तविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,15,14294,भर्तुस्ते पूर्णकालो वै बभूव भारते सति । स्वकर्मफलभोगार्थं सत्यवान् याति मद्गृहम् ॥ 16॥ 9,९.२७,सप्तविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,16,14295,कर्मणा जायते जन्तुः कर्मणैव प्रलीयते । सुखं दुःखं भयं शोकः कर्मणैव प्रणीयते ॥ 17॥ 9,९.२७,सप्तविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,17,14296,कर्मणेन्द्रो भवेज्जीवो ब्रह्मपुत्रः स्वकर्मणा । स्वकर्मणा हरेर्दासो जन्मादिरहितो भवेत् ॥ 18॥ 9,९.२७,सप्तविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,18,14297,स्वकर्मणा सर्वसिद्धिममरत्वं लभेद् ध्रुवम् । लभेत्स्वकर्मणा विष्णोः सालोक्यादिचतुष्टयम् ॥ 19॥ 9,९.२७,सप्तविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,19,14298,सुरत्वं च मनुत्वं च राजेन्द्रत्वं लभेन्नरः । कर्मणा च शिवत्वं च गणेशत्वं तथैव च ॥ 20॥ 9,९.२७,सप्तविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,20,14299,कर्मणा च मुनीन्द्रत्वं तपस्वित्वं स्वकर्मणा । स्वकर्मणा क्षत्रियत्वं वैश्यत्वं च स्वकर्मणा ॥ 21॥ 9,९.२७,सप्तविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,21,14300,कर्मणैव च म्लेच्छत्वं लभते नात्र संशयः । स्वकर्मणा जङ्गमत्वं शैलत्वं च स्वकर्मणा ॥ 22॥ 9,९.२७,सप्तविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,22,14301,कर्मणा राक्षसत्वं च किन्नरत्वं स्वकर्मणा । कर्मणैवाधिपत्यं च वृक्षत्वं च स्वकर्मणा ॥ 23॥ 9,९.२७,सप्तविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,23,14302,कर्मणैव पशुत्वं च वनजीवी स्वकर्मणा । कर्मणा क्षुद्रजन्तुत्वं कृमित्वं च स्वकर्मणा ॥ 24॥ 9,९.२७,सप्तविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,24,14303,दैतेयत्वं दानवत्वमसुरत्वं स्वकर्मणा । इत्येतदुक्त्वा सावित्रीं विरराम स वै यमः ॥ 25॥ 9,९.२७,सप्तविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,25,14304,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनं नाम सप्तविंशोऽध्यायः ॥ ९.२७॥ 9,९.२८,अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,0,14305,श्रीनारायण उवाच । यमस्य वचनं श्रुत्वा सावित्री च पतिव्रता । तुष्टाव परया भक्त्या तमुवाच मनस्विनी ॥ 1॥ 9,९.२८,अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,1,14306,सावित्र्युवाच । किं कर्म तद्भवेत्केन को वा तद्धेतुरेव च । को वा देही च देहः कः को वात्र कर्मकारकः ॥ 2॥ 9,९.२८,अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,2,14307,किं वा ज्ञानं च बुद्धिः का को वा प्राणः शरीरिणाम् । कानीन्द्रियाणि किं तेषां लक्षणं देवताश्च काः ॥ 3॥ 9,९.२८,अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,3,14308,भोक्ता भोजयिता को वा को वा भोगश्च निष्कृतिः । को जीवः परमात्मा कस्तन्मे व्याख्यातुमर्हसि ॥ 4॥ 9,९.२८,अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,4,14309,धर्म उवाच । वेदप्रणिहितो धर्मः कर्म यन्मङ्गलं परम् । अवैदिकं तु यत्कर्म तदेवाशुभमेव च ॥ 5॥ 9,९.२८,अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,5,14310,अहैतुकी देवसेवा सङ्कल्परहिता सती । कर्मनिर्मूलरूपा च सा एव परभक्तिदा ॥ 6॥ 9,९.२८,अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,6,14311,को वा कर्मफलं भुङ्क्ते को वा निर्लिप्त एव च । ब्रह्मभक्तो यो नरश्च स च मुक्तः श्रुतः श्रुतौ ॥ 7॥ 9,९.२८,अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,7,14312,जन्ममृत्युजराव्याधिशोकभीतिविवर्जितः । भक्तिश्च द्विविधा साध्वि श्रुत्युक्ता सर्वसम्मता ॥ 8॥ 9,९.२८,अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,8,14313,निर्वाणपददात्री च हरिरूपप्रदा नृणाम् । हरिरूपस्वरूपां च भक्तिं वाञ्छन्ति वैष्णवाः ॥ 9॥ 9,९.२८,अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,9,14314,अन्ये निर्वाणमिच्छन्ति योगिनो ब्रह्मवित्तमाः । कर्मणो बीजरूपश्च सततं तत्फलप्रदः ॥ 10॥ 9,९.२८,अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,10,14315,कर्मरूपश्च भगवान्परात्मा प्रकृतिः परा । सोऽपि तद्धेतुरूपश्च देहो नश्वर एव च ॥ 11॥ 9,९.२८,अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,11,14316,पृथिवी वायुराकाशो जलं तेजस्तथैव च । एतानि सूत्ररूपाणि सृष्टिरूपविधौ सतः ॥ 12॥ 9,९.२८,अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,12,14317,कर्मकर्ता च देही च आत्मा भोजयिता सदा । भोगो विभवभेदश्च नित्कृतिर्मुक्तिरेव च ॥ 13॥ 9,९.२८,अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,13,14318,सदसद्भेदबीजं च ज्ञानं नानाविधं भवेत् । विषयाणां विभागानां भेदि बीजं च कीर्तितम् ॥ 14॥ 9,९.२८,अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,14,14319,बुद्धिर्विवेचना सा च ज्ञानबीजं श्रुतौ श्रुतम् । वायुभेदाश्च प्राणाश्च बलरूपाश्च देहिनाम् ॥ 15॥ 9,९.२८,अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,15,14320,इन्द्रियाणां च प्रवरमीश्वरांशमनूहकम् । प्रेरकं कर्मणां चैव दुर्निवार्यं च देहिनाम् ॥ 16॥ 9,९.२८,अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,16,14321,अनिरूप्यमदृश्यं च ज्ञानभेदो मनः स्मृतम् । लोचनं श्रवणं घ्राणं त्वक्च रसनमिन्द्रियम् ॥ 17॥ 9,९.२८,अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,17,14322,अङ्गिनामङ्गरूपं च प्रेरकं सर्वकर्मणाम् । रिपुरूपं मित्ररूपं सुखरूपं च दुःखदम् ॥ 18॥ 9,९.२८,अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,18,14323,सूर्यो वायुश्च पृथिवी ब्रह्माद्या देवताः स्मृताः । प्राणदेहादिभृद्यो हि स जीवः परिकीर्तितः ॥ 19॥ 9,९.२८,अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,19,14324,परमं व्यापकं ब्रह्म निर्गुणः प्रकृतेः परः । कारणं कारणानां च परमात्मा स उच्यते ॥ 20॥ 9,९.२८,अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,20,14325,इत्येवं कथितं सर्वं त्वया पृष्टं यथागमम् । ज्ञानिनां ज्ञानरूपं च गच्छ वत्से यथासुखम् ॥ 21॥ 9,९.२८,अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,21,14326,सावित्र्युवाच । त्यक्त्वा क्व यामि कान्तं वा त्वां वा ज्ञानार्णवं ध्रुवम् । यद्यत्करोमि प्रश्नं च तद्भवान्वक्तुमर्हति ॥ 22॥ 9,९.२८,अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,22,14327,कां कां योनिं याति जीवः कर्मणा केन वा पुनः । केन वा कर्मणा स्वर्गं केन वा नरकं पितः ॥ 23॥ 9,९.२८,अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,23,14328,केन वा कर्मणा मुक्तिः केन भक्तिर्भवेद् गुरौ । केन वा कर्मणा योगी रोगी वा केन कर्मणा ॥ 24॥ 9,९.२८,अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,24,14329,केन वा दीर्घजीवी च केनाल्पायुश्च कर्मणा । केन वा कर्मणा दुःखी सुखी वा केन कर्मणा ॥ 25॥ 9,९.२८,अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,25,14330,अङ्गहीनश्च काणश्च बधिरः केन कर्मणा । अन्धो वा पङ्गुरपि वा प्रमत्तः केन कर्मणा ॥ 26॥ 9,९.२८,अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,26,14331,क्षिप्तोऽतिलुब्धकश्चौरः केन वा कर्मणा भवेत् । केन सिद्धिमवाप्नोति सालोक्यादिचतुष्टयम् ॥ 27॥ 9,९.२८,अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,27,14332,केन वा ब्राह्मणत्वं च तपस्वित्वं च केन वा । स्वर्गभोगादिकं केन वैकुण्ठं केन कर्मणा ॥ 28॥ 9,९.२८,अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,28,14333,गोलोकं केन वा ब्रह्मन् सर्वोत्कृष्टं निरामयम् । नरको वा कतिविधः किंसङ्ख्यो नाम किं च वा ॥ 29॥ 9,९.२८,अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,29,14334,को वा कं नरकं याति कियन्तं तेषु तिष्ठति । पापिनां कर्मणा केन को वा व्याधिः प्रजायते । यद्यत्प्रियं मया पृष्टं तन्मे व्याख्यातुमर्हसि ॥ 30॥ 9,९.२८,अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।,30,14335,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसवादे सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनं नामाष्टाविंशोऽध्यायः ॥ ९.२८॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,0,14336,श्रीनारायण उवाच । सावित्रीवचनं श्रुत्वा जगाम विस्मयं यमः । प्रहस्य वक्तुमारेभे कर्मपाकं तु जीविनाम् ॥ 1॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,1,14337,धर्म उवाच । कन्या द्वादशवर्षीया वत्से त्वं वयसाधुना । ज्ञानं ते पूर्वविदुषां ज्ञानिनां योगिनां परम् ॥ 2॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,2,14338,सावित्रीवरदानेन त्वं सावित्री कला सती । प्राप्ता पुरा भूभृता च तपसा तत्समा सुते ॥ 3॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,3,14339,यथा श्रीः श्रीपतेः क्रोडे भवानी च भवोरसि । यथादितिः कश्यपे च यथाहल्या च गौतमे ॥ 4॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,4,14340,यथा शची महेन्द्रे च यथा चन्द्रे च रोहिणी । यथा रतिः कामदेवे यथा स्वाहा हुताशने ॥ 5॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,5,14341,यथा स्वधा च पितृषु यथा सन्ध्या दिवाकरे । वरुणानी च वरुणे यज्ञे च दक्षिणा यथा ॥ 6॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,6,14342,यथा वराहे पृथिवी देवसेना च कार्तिके । सौभाग्या सुप्रिया त्वं च तथा सत्यवतः प्रिये ॥ 7॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,7,14343,अयं तुभ्यं वरो दत्तोऽप्यपरं च यथेप्सितम् । श‍ृणु देवि महाभागे ददामि सकलेप्सितम् ॥ 8॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,8,14344,सावित्र्युवाच । सत्यवत औरसानां पुत्राणां शतकं मम । भविष्यति महाभाग वरमेतन्मदीप्सितम् ॥ 9॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,9,14345,मत्पितुः पुत्रशतकं श्वशुरस्य च चक्षुषी । राज्यलाभो भवत्वेवं वरमेतन्मदीप्सितम् ॥ 10॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,10,14346,अन्ते सत्यवता सार्धं यास्यामि हरिमन्दिरम् । समतीते लक्षवर्षे देहीदं मे जगत्प्रभो ॥ 11॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,11,14347,जीवकर्मविपाकं च श्रोतुं कौतूहलं मम । विश्वनिस्तारबीजं च तन्मे व्याख्यातुमर्हसि ॥ 12॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,12,14348,धर्मराज उवाच । भविष्यति महासाध्वि सर्वं मानसिकं तव । जीवकर्मविपाकं च कथयामि निशामय ॥ 13॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,13,14349,शुभानामशुभानां च कर्मणां जन्म भारते । पुण्यक्षेत्रे च नान्यत्र सर्वं च भुञ्जते जनाः ॥ 14॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,14,14350,सुरा दैत्या दानवाश्च गन्धर्वा राक्षसादयः । नराश्च कर्मजनका न सर्वे जीविनः सति ॥ 15॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,15,14351,विशिष्टजीविनः कर्म भुञ्जते सर्वयोनिषु । शुभाशुभं च सर्वत्र स्वर्गेषु नरकेषु च ॥ 16॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,16,14352,विशेषतो जीविनश्च भ्रमन्ते सर्वयोनिषु । शुभाशुभं भुञ्जते च कर्म पूर्वार्जितं परम् ॥ 17॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,17,14353,शुभेन कर्मणा याति स्वर्लोकादिकमेव च । कर्मणा चाशुभेनैव भ्रमन्ति नरकेषु च ॥ 18॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,18,14354,कर्मनिर्मूलने भक्तिः सा चोक्ता द्विविधा सति । निर्वाणरूपा भक्तिश्च ब्रह्मणः प्रकृतेरिह ॥ 19॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,19,14355,रोगी कुकर्मणा जीवश्चारोगी शुभकर्मणा । दीर्घजीवी च क्षीणायुः सुखी दुःखी च कर्मणा ॥ 20॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,20,14356,अन्धादयश्चाङ्गहीनाः कर्मणा कुत्सितेन च । सिद्ध्यादिकमवाप्नोति सर्वोत्कृष्टेन कर्मणा ॥ 21॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,21,14357,सामान्यं कथितं देवि विशेषं श‍ृणु सुन्दरि । सुदुर्लभं सुगोप्यं च पुराणेषु स्मृतिष्वपि ॥ 22॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,22,14358,दुर्लभा मानुषी जातिः सर्वजातिषु भारते । सर्वेभ्यो ब्राह्मणः श्रेष्ठः प्रशस्तः सर्वकर्मसु ॥ 23॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,23,14359,ब्रह्मनिष्ठो द्विजश्चैव गरीयान् भारते सति । निष्कामश्च सकामश्च ब्राह्मणो द्विविधः सति ॥ 24॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,24,14360,सकामाज्ज प्रधानश्च निष्कामो भक्त एव च । कर्मभोगी सकामश्च निष्कामो निरुपद्रवः ॥ 25॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,25,14361,स याति देहं त्यक्त्वा च पदं यत्तन्निरामयम् । पुनरागमनं नास्ति तेषां निष्कामिनां सति ॥ 26॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,26,14362,सेवन्ते द्विभुजं कृष्णं परमात्मानमीश्वरम् । गोलोकं प्रति ते भक्ता दिव्यरूपविधारिणः ॥ 27॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,27,14363,सकामिनो वैष्णवाश्च गत्वा वैकुण्ठमेव च । भारतं पुनरायान्ति तेषां जन्म द्विजातिषु ॥ 28॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,28,14364,काले गते च निष्कामा भवन्त्येव क्रमेण च । भक्तिं च निर्मलां तेभ्यो दास्यामि निश्चितं पुनः ॥ 29॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,29,14365,ब्राह्मणा वैष्णवाश्चैव सकामाः सर्वजन्मसु । न तेषां निर्मला बुद्धिर्विष्णुभक्तिविवर्जिताः ॥ 30॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,30,14366,तीर्थाश्रिता द्विजा ये च तपस्यानिरताः सति । ते यान्ति ब्रह्मलोकं च पुनरायान्ति भारते ॥ 31॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,31,14367,स्वधर्मनिरता ये च तीर्थान्यत्रनिवासिनः । व्रजन्ति ते सत्यलोकं पुनरायान्ति भारते ॥ 32॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,32,14368,स्वधर्मनिरता विप्राः सूर्यभक्ताश्च भारते । व्रजन्ति ते सूर्यलोकं पुनरायान्ति भारते ॥ 33॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,33,14369,मूलप्रकृतिभक्ता ये निष्कामा धर्मचारिणः । मणिद्वीपं प्रयान्त्येव पुनरावृत्तिवर्जितम् ॥ 34॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,34,14370,स्वधर्मे निरता भक्ताः शैवाः शाक्ताश्च गाणपाः । ते यान्ति शिवलोकं च पुनरायान्ति भारते ॥ 35॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,35,14371,ये विप्रा अन्यदेवेज्याः स्वधर्मनिरताः सति । ते यान्ति सर्वलोकं च पुनरायान्ति भारते ॥ 36॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,36,14372,हरिभक्ताश्च निष्कामाः स्वधर्मनिरता द्विजाः । ते च यान्ति हरेर्लोकं क्रमाद्भक्तिबलादहो ॥ 37॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,37,14373,स्वधर्मरहिता विप्रा देवान्यसेवनाः सदा । भ्रष्टाचाराश्च कामाश्च ते यान्ति नरकं ध्रुवम् ॥ 38॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,38,14374,स्वधर्मनिरता एव वर्णाश्चत्वार एव च । भवन्त्येव शुभस्यैव कर्मणः फलभोगिनः ॥ 39॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,39,14375,स्वकर्मरहिता ये च नरकं यान्ति ते ध्रुवम् । भारते न भवन्त्येव कर्मणः फलभोगिनः ॥ 40॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,40,14376,स्वधर्मनिरता एव वर्णाश्चत्वार एव च । स्वधर्मनिरता विप्राः स्वधर्मनिरताय च ॥ 41॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,41,14377,कन्यां ददति विप्राय चन्द्रलोकं प्रयान्ति ते । वसन्ति तत्र ते साध्वि यावदिन्द्राश्चतुर्दश ॥ 42॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,42,14378,सालङ्कृताया दानेन द्विगुणं फलमुच्यते । सकामा यान्ति तल्लोकं न निष्कामाश्च साधवः ॥ 43॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,43,14379,ते प्रयान्ति विष्णुलोकं फलसङ्घातवर्जिताः । गव्यं च रजतं स्वर्णं वस्त्रं सर्पिः फलं जलम् ॥ 44॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,44,14380,ये ददत्येव विप्रेभ्यश्चन्द्रलोकं प्रयान्ति ते । वसन्ति ते च तल्लोके यावन्मन्वन्तरं सति ॥ 45॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,45,14381,सुचिरात्सुचिरं वासं कुर्वन्ति तेन ते जनाः । ये ददति सुवर्णांश्च गाश्च ताम्रादिकं सति ॥ 46॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,46,14382,ते यान्ति सूर्यलोकं च शुचये ब्राह्मणाय च । वसन्ति ते तत्र लोके वर्षाणामयुतं सति ॥ 47॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,47,14383,विपुले सुचिरं वासं कुर्वन्ति च निरामयाः । ददाति भूमिं विप्रेभ्यो धनानि विपुलानि च ॥ 48॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,48,14384,स याति विष्णुलोकं च श्वेतद्वीपं मनोहरम् । तत्रैव निवसत्येव यावच्चन्द्रदिवाकरौ ॥ 49॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,49,14385,विपुले विपुलं वासं करोति पुण्यवान्मुने । गृहं ददति विप्राय ये जना भक्तिपूर्वकम् ॥ 50॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,50,14386,ते यान्ति विष्णुलोकं च सुचिरं सुखदायकम् । गृहरेणुप्रमाणं च विष्णुलोके महत्तमे ॥ 51॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,51,14387,विपुले विपुलं वासं कुर्वन्ति मानवाः सति । यस्मै यस्मै च देवाय यो ददाति गृहं नरः ॥ 52॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,52,14388,स याति तस्य लोकं च रेणुमानाब्दमेव च । सौधे चतुर्गुणं पुण्यं देशे शतगुणं फलम् ॥ 53॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,53,14389,प्रकृष्टे द्विगुणं तस्मादित्याह कमलोद्भवः । यो ददाति तडागं च सर्वपापापनुत्तये ॥ 54॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,54,14390,स याति जनलोकं च रेणुमानाब्दमेव च । वाप्यां फलं दशगुणं प्राप्नोति मानवः सदा ॥ 55॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,55,14391,स तु वापीप्रदानेन तडागस्य फलं लभेत् । धनुश्चतुःसहस्रेण दर्श्यमानेन निश्चितम् ॥ 56॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,56,14392,न्यूना वा तावती प्रस्थे सा वापी परिकीर्तिता । दशवापीसमा कन्या यदि पात्रे प्रदीयते ॥ 57॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,57,14393,फलं ददाति द्विगुणं यदि सालङ्कृता भवेत् । यत्फलं च तडागे च तदुद्धारे च तत्कलम् ॥ 58॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,58,14394,वाप्याश्च पङ्कोद्धरणे वापीतुल्यफलं लभेत् । अश्वत्थवृक्षमारोप्य प्रतिष्ठां यः करोति च ॥ 59॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,59,14395,स प्रयाति तपोलोकं वर्षाणामयुतं सति । पुष्पोद्यानं यो ददाति सावित्रि सर्वभूतये ॥ 60॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,60,14396,स वसेद् ध्रुवलोके च वर्षाणामयुतं धुवम् । यो ददाति विमानं च विष्णवे भारते सति ॥ 61॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,61,14397,विष्णुलोके वसेत्सोऽपि यावन्मन्वन्तरं परम् । चित्रयुक्ते च विपुले फलं तस्य चतुर्गुणम् ॥ 62॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,62,14398,तस्यार्धं शिबिकादाने फलमेव लभेद् ध्रुवम् । यो ददाति भक्तियुक्तो हरये दोलमन्दिरम् ॥ 63॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,63,14399,विष्णुलोके वसेत्सोऽपि यावन्मन्वन्तरं शतम् । राजमार्गं सौधयुक्तं यः करोति पतिव्रते ॥ 64॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,64,14400,वर्षाणामयुतं सोऽपि शक्रलोके महीयते । ब्राह्मणेभ्योऽथ देवेभ्यो दाने समफलं लभेत् ॥ 65॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,65,14401,यद्धि दत्तं च तद्भुङ्क्ते न दत्तं नोपतिष्ठते । भुक्त्वा स्वर्गादिजं सौख्यं पुण्यवाञ्जन्म भारते ॥ 66॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,66,14402,लभेद्विप्रकुलेष्वेव क्रमेणैवोत्तमादिषु । भारते पुण्यवान्विप्रो भुक्त्वा स्वर्गादिकं फलम् ॥ 67॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,67,14403,पुनः सोऽपि भवेद्विप्रश्चैवं च क्षत्रियादयः । क्षत्रियो वाथ वैश्यो वा कल्पकोटिशतेन च ॥ 68॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,68,14404,तपसा ब्राह्मणत्वं च न प्राप्नोति श्रुतौ श्रुतम् । नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ॥ 69॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,69,14405,अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । देवतीर्थसहायेन कायव्यूहेन शुध्यति । एतत्ते कथितं किञ्चित् किं भूयः श्रोतुमिच्छसि ॥ 70॥ 9,९.२९,एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।,70,14406,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे सावित्र्युपाख्याने कर्मविपाकवर्णनं नामैकोनत्रिशोऽध्यायः ॥ ९.२९॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,0,14407,सावित्र्युवाच । प्रयान्ति स्वर्गमन्यं च येनैव कर्मणा यम । मानवाः पुण्यवन्तश्च तन्मे व्याख्यातुमर्हसि ॥ 1॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,1,14408,धर्मराज उवाच । अन्नदानं च विप्राय यः करोति च भारते । अन्नप्रमाणवर्षं च शिवलोके महीयते ॥ 2॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,2,14409,अन्नदानं महादानमन्येभ्योऽपि करोति यः । अन्नदानप्रमाणं च शिवलोके महीयते ॥ 3॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,3,14410,अन्नदानात्परं दानं न भूतं न भविष्यति । नात्र पात्रपरीक्षा स्यान्न कालनियमः क्वचित् ॥ 4॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,4,14411,देवेभ्यो ब्राह्मणेभ्यो वा ददाति चासनं यदि । महीयते विष्णुलोके वर्षाणामयुतं सति ॥ 5॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,5,14412,यो ददाति च विप्राय दिव्यां धेनुं पयस्विनीम् । तल्लोममानवर्षं च विष्णुलोके महीयते ॥ 6॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,6,14413,चतुर्गुणं पुण्यदिने तीर्थे शतगुणं फलम् । दानं नारायणक्षेत्रं फलं कोटिगुणं भवेत् ॥ 7॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,7,14414,गां यो ददाति विप्राय भारते भक्तिपूर्वकम् । वर्षाणामयुतं चैव चन्द्रलोके महीयते ॥ 8॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,8,14415,यश्चोभयमुखीदानं करोति ब्राह्मणाय च । तल्लोममानवर्षं च विष्णुलोके महीयते ॥ 9॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,9,14416,यो ददाति ब्राह्मणाय श्वेतच्छत्रं मनोहरम् । वर्षाणामयुतं सोऽपि मोदते वरुणालये ॥ 10॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,10,14417,विप्राय पीडिताङ्गाय वस्त्रयुग्मं ददाति च । महीयते वायुलोके वर्षाणामयुतं सति ॥ 11॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,11,14418,यो ददाति ब्राह्मणाय शालग्रामं सवस्त्रकम् । महीयते स वैकुण्ठे यावच्चन्द्रदिवाकरौ ॥ 12॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,12,14419,यो ददाति ब्राह्मणाय दिव्यां शय्यां मनोहराम् । महीयते चन्द्रलोके यावच्चन्द्रदिवाकरौ ॥ 13॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,13,14420,यो ददाति प्रदीपं च देवेभ्यो ब्राह्मणाय च । यावन्मन्वन्तरं सोऽपि वह्निलोके महीयते ॥ 14॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,14,14421,करोति गजदानं च यदि विप्राय भारते । यावदिन्द्रो नरस्तावदिन्द्रस्यार्धासने वसेत् ॥ 15॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,15,14422,भारते योऽश्वदानं च करोति ब्राह्मणाय च । मोदते वारुणे लोके यावदिन्द्राश्चतुर्दश ॥ 16॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,16,14423,प्रकृष्टां शिबिकां यो हि ददाति ब्राह्मणाय च । मोदते वारुणे लोके यावदिन्द्राश्चतुर्दश ॥ 17॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,17,14424,प्रकृष्टां वाटिका यो हि ददाति ब्राह्मणाय च । महीयते वायुलोके यावन्मन्वन्तरं सति ॥ 18॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,18,14425,यो ददाति च विप्राय व्यजनं श्वेतचामरम् । महीयते वायुलोके वर्षाणामयुतं ध्रुवम् ॥ 19॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,19,14426,धान्यं रत्नं यो ददाति चिरञ्जीवी भवेत्सुधीः । दाता ग्रहीता तौ द्वौ च ध्रुवं वैकुण्ठगामिनौ ॥ 20॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,20,14427,सततं श्रीहरेर्नाम भारते यो जपेन्नरः । स एव चिरजीवी च ततो मृत्युः पलायते ॥ 21॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,21,14428,यो नरो भारते वर्षे दोलनं कारयेत्सुधीः । पूर्णिमारजनीशेषे जीवन्मुक्तो भवेन्नरः ॥ 22॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,22,14429,इहलोके सुखं भुक्त्वा यात्यन्ते विष्णुमन्दिरम् । निश्चितं निवसेत्तत्र शतमन्वन्तरावधि ॥ 23॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,23,14430,फलमुत्तरफल्गुन्यां ततोऽपि द्विगुणं भवेत् । कल्पान्तजीवी स भवेदित्याह कमलोद्भवः ॥ 24॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,24,14431,तिलदानं ब्राह्मणाय यः करोति च भारते । तिलप्रमाणवर्षं च मोदते शिवमन्दिरे ॥ 25॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,25,14432,ततः सुयोनिं सम्प्राप्य चिरञ्जीवी भवेत्सुखी । ताम्रपात्रस्य दानेन द्विगुणं च फलं लभेत् ॥ 26॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,26,14433,सालङ्कृतां च भोग्यां च सवस्त्रां सुन्दरीं प्रियाम् । यो ददाति ब्राह्मणाय भारते च पतिव्रताम् ॥ 27॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,27,14434,महीयते चन्द्रलोके यावदिन्द्राश्चतुर्दश । तत्र स्वर्वेश्यया सार्धं मोदते च दिवानिशम् ॥ 28॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,28,14435,ततो गन्धर्वलोके च वर्षाणामयुतं ध्रुवम् । दिवानिशं कौतुकेन चोर्वश्या सह मोदते ॥ 29॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,29,14436,ततो जन्मसहस्रं च प्राप्नोति सुन्दरीं प्रियाम् । सतीं सौभाग्ययुक्तां च कोमलां प्रियवादिनीम् ॥ 30॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,30,14437,प्रददाति फलं चारु ब्राह्मणाय च यो नरः । फलप्रमाणवर्षं च शक्रलोके महीयते ॥ 31॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,31,14438,पुनः सुयोनिं सम्प्राप्य लभते सुतमुत्तमम् । सफलानां च वृक्षाणां सहस्रं च प्रशंसितम् ॥ 32॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,32,14439,केवलं फलदानं वा ब्राह्मणाय ददाति च । सुचिरं स्वर्गवासं च कृत्वा याति च भारते ॥ 33॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,33,14440,नानाद्रव्यसमायुक्तं नानासस्यसमन्वितम् । ददाति यश्च विप्राय भारते विपुलं गृहम् ॥ 34॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,34,14441,सुरलोके वसेत्सोऽपि यावन्मन्वन्तरं शतम् । ततः सुयोनिं सम्प्राप्य स महाधनवान्भवेत् ॥ 35॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,35,14442,यो नरः सस्यसंयुक्तां भूमिं च रुचिरां सति । ददाति भक्त्या विप्राय पुण्यक्षेत्रे च भारते ॥ 36॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,36,14443,महीयते च वैकुण्ठे मन्वन्तरशतं ध्रुवम् । पुनः सुयोनिं सम्प्राप्य महांश्च भूमिपो भवेत् ॥ 37॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,37,14444,तं न त्यजति भूमिश्च जन्मनां शतकं परम् । श्रीमांश्च धनवांश्चैव पुत्रवांश्च प्रजेश्वरः ॥ 38॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,38,14445,यो व्रजं च प्रकृष्टं च ग्रामं दद्याद् द्विजाय च । लक्षमन्वन्तरं चैव वैकुण्ठे स महीयते ॥ 39॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,39,14446,पुनः सुयोनिं सम्प्राप्य ग्रामलक्षसमन्वितम् । न जहाति च तं पृथ्वी जन्मनां लक्षमेव च ॥ 40॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,40,14447,सुप्रजं च प्रकृष्टं च पक्वसस्यसमन्वितम् । नानापुष्करिणीवृक्षफलवल्लीसमन्वितम् ॥ 41॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,41,14448,नगरं यश्च विप्राय ददाति भारते भुवि । महीयते स कैलासे दशलक्षेन्द्रकालकम् ॥ 42॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,42,14449,पुनः सुयोनिं सम्प्राप्य राजेन्द्रो भारते भवेत् । नगराणां च नियुतं स लभेन्नात्र संशयः ॥ 43॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,43,14450,धरा तं न जहात्येव जन्मनामयुतं ध्रुवम् । परमैश्वर्यनियुतो भवेदेव महीतले ॥ 44॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,44,14451,नगराणां च शतकं देशं यो हि द्विजातये । सुप्रकृष्टं मध्यकृष्टं प्रजायुक्तं ददाति च ॥ 45॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,45,14452,वापीतडागसंयुक्तं नानावृक्षसमन्वितम् । महीयते स वैकुण्ठे कोटिमन्वन्तरावधि ॥ 46॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,46,14453,पुनः सुयोनिं सम्प्राप्य जम्बुद्वीपपतिर्भवेत् । परमैश्वर्यसंयुक्तो यथा शक्रस्तथा भुवि ॥ 47॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,47,14454,मही तं न जहात्येव जन्मनां कोटिमेव च । कल्पान्तजीवी स भवेद्राजराजेश्वरो महान् ॥ 48॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,48,14455,स्वाधिकारं समग्रं च यो ददाति द्विजातये । चतुर्गुणं फलं चान्ते भवेत्तस्य न संशयः ॥ 49॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,49,14456,जम्बुद्वीपं यो ददाति ब्राह्मणाय तपस्विने । फलं शतगुणं चान्ते भवेत्तस्य न संशयः ॥ 50॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,50,14457,जम्बुद्वीपमहीदातुः सर्वतीर्थानि सेवितुः । सर्वेषां तपसां कर्तुः सर्वेषां वासकारिणः ॥ 51॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,51,14458,सर्वदानप्रदातुश्च सर्वसिद्धेश्वरस्य च । अस्त्येव पुनरावृत्तिर्न भक्तस्य महेशितुः ॥ 52॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,52,14459,असङ्ख्यब्रह्मणां पातं पश्यन्ति भुवनेशितुः । निवसन्ति मणिद्वीपे श्रीदेव्याः परमे पदे ॥ 53॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,53,14460,देवीमन्त्रोपासकाश्च विहाय मानवीं तनुम् । विभूतिं दिव्यरूपं च जन्ममृत्युजराहरम् ॥ 54॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,54,14461,लब्ध्वा देव्याश्च सारूप्यं देवीसेवां च कुर्वते । पश्यन्ति ते मणिद्वीपे सखण्डं लोकसङ्क्षयम् ॥ 55॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,55,14462,नश्यन्ति देवाः सिद्धाश्च विश्वानि निखिलानि च । देवीभक्ता न नश्यन्ति जन्ममृत्युजराहराः ॥ 56॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,56,14463,कार्तिके तुलसीदानं करोति हरये च यः । युगत्रयप्रमाणं च मोदते हरिमन्दिरे ॥ 57॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,57,14464,पुनः सुयोनिं सम्प्राप्य हरिभक्तिं लभेद् ध्रुवम् । जितेन्द्रियाणां प्रवरः स भवेद्भारते भुवि ॥ 58॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,58,14465,मध्ये यः स्नाति गङ्गायामरुणोदयकालतः । युगषष्टिसहस्राणि मोदते हरिमन्दिरे ॥ 59॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,59,14466,पुनः सुयोनिं सम्प्राप्य विष्णुमन्त्रं लभेद् ध्रुवम् । त्यक्त्वा च मानुषं देहं पुनर्याति हरेः पदम् ॥ 60॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,60,14467,नास्ति तत्पुनरावृत्तिर्वैकुण्ठाच्च महीतले । करोति हरिदास्यं च तथा सारूप्यमेव च ॥ 61॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,61,14468,नित्यस्नायी च गङ्गायां स पूतः सूर्यवद्भुवि । पदे पदेऽश्वमेधस्य लभते निश्चितं फलम् ॥ 62॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,62,14469,तस्यैव पादरजसा सद्यःपूता वसुन्धरा । मोदते स च वैकुण्ठे यावच्चन्द्रदिवाकरौ ॥ 63॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,63,14470,पुनः सुयोनिं सम्प्राप्य हरिभक्तिं लभेद् ध्रुवम् । जीवन्मुक्तोऽतितेजस्वी तपस्विप्रवरो भवेत् ॥ 64॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,64,14471,स्वधर्मनिरतः शुद्धो विद्वांश्च स जितेन्द्रियः । मीनकर्कटयोर्मध्ये गाढं तपति भास्करः ॥ 65॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,65,14472,भारते यो ददात्येव जलमेव सुवासितम् । स मोदते च कैलासे यावदिन्द्राश्चतुर्दश ॥ 66॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,66,14473,पुनः सुयोनिं सम्प्राप्य रूपवांश्च सुखी भवेत् । शिवभक्तश्च तेजस्वी वेदवेदाङ्गपारगः ॥ 67॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,67,14474,वैशाखे सक्तुदानं च यः करोति द्विजातये । सक्तुरेणुप्रमाणाब्दं मोदते शिवमन्दिरे ॥ 68॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,68,14475,करोति भारते यो हि कृष्णजन्माष्टमीव्रतम् । शतजन्मकृतं पापं मुच्यते नात्र संशयः ॥ 69॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,69,14476,वैकुण्ठे मोदते सोऽपि यावदिन्द्राश्चतुर्दश । पुनः सुयोनिं सम्प्राप्य कृष्णे भक्तिंलभेद् ध्रुवम् ॥ 70॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,70,14477,इहैव भारते वर्षे शिवरात्रिं करोति यः । मोदते शिवलोके स सप्तमन्वन्तरावधि ॥ 71॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,71,14478,शिवाय शिवरात्रौ च बिल्वपत्रं ददाति यः । पत्रमानयुगं तत्र मोदते शिवमन्दिरे ॥ 72॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,72,14479,पुनः सुयोनिं सम्प्राप्य शिवभक्तिं लभेद्ध्रुवम् । विद्यावान्पुत्रवाञ्छ्रीमान् प्रजावान्भूमिमान्भवेत् ॥ 73॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,73,14480,चैत्रमासेऽथवा माघे शङ्करं योऽर्चयेद्व्रती । करोति नर्तनं भक्त्या वेत्रपाणिर्दिवानिशम् ॥ 74॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,74,14481,मासं वाप्यर्धमासं वा दश सप्त दिनानि च । दिनमानयुगं सोऽपि शिवलोके महीयते ॥ 75॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,75,14482,श्रीरामनवमीं यो हि करोति भारते पुमान् । सप्तमन्वन्तरं यावन्मोदते विष्णुमन्दिरे ॥ 76॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,76,14483,पुनः सुयोनिं सम्प्राप्य रामभक्तिं लभेद्ध्रुवम् । जितेन्द्रियाणां प्रवरो महांश्च धनवान्भवेत् ॥ 77॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,77,14484,शारदीयां महापूजां प्रकृतेर्यः करोति च । महिषैश्छागलैर्मेषैः खड्गैर्भेकादिभिः सति ॥ 78॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,78,14485,नैवेद्यैरुपहारैश्च धूपदीपादिभिस्तथा । नृत्यगीतादिभिर्वाद्यैर्नानाकौतुकमङ्गलम् ॥ 79॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,79,14486,शिवलोके वसेत्सोऽपि सप्तमन्वन्तरावधि । पुनः सुयोनिं सम्प्राप्य नरो बुद्धिं च निर्मलाम् ॥ 80॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,80,14487,अतुलां श्रियमाप्नोति पुत्रपौत्रविवर्धनीम् । महाप्रभावयुक्तश्च गजवाजिसमन्वितः ॥ 81॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,81,14488,राजराजेश्वरः सोऽपि भवेदेव न संशयः । ततः शुक्लाष्टमीं प्राप्य महालक्ष्मीं च योऽर्चयेत् ॥ 82॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,82,14489,नित्यं भक्त्या पक्षमेकं पुण्यक्षेत्रे च भारते । दत्त्वा तस्यै प्रकृष्टानि चोपचाराणि षोडश ॥ 83॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,83,14490,गोलोके च वसेत्सोऽपि यावदिन्द्राश्चतुर्दश । पुनः सुयोनिं सम्प्राप्य राजराजेश्वरो भवेत् ॥ 84॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,84,14491,कार्तिकीपूर्णिमायां च कृत्वा तु रासमण्डलम् । गोपानां शतकं कृत्वा गोपीनां शतकं तथा ॥ 85॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,85,14492,शिलायां प्रतिमायां च श्रीकृष्णं राधया सह । भारते पूजयेद्भक्त्या चोपचाराणि षोडश ॥ 86॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,86,14493,गोलोके वसते सोऽपि यावद्वै ब्रह्मणो वयः । भारतं पुनरागत्य कृष्णे भक्तिं लभेद्दृढाम् ॥ 87॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,87,14494,क्रमेण सुदृढां भक्तिं लब्ध्वा मन्त्रं हरेरहो । देहं त्यक्त्वा च गोलोकं पुनरेव प्रयाति सः ॥ 88॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,88,14495,ततः कृष्णस्य सारूप्यं पार्षदप्रवरो भवेत् । पुनस्तत्पतनं नास्ति जरामृत्युहरो भवेत् ॥ 89॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,89,14496,शुक्लां वाप्यथवा कृष्णां करोत्येकादशीं च यः । वैकुण्ठे मोदते सोऽपि यावद्वै ब्रह्मणो वयः ॥ 90॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,90,14497,भारते पुनरागत्य कृष्णभक्तिं लभेद्ध्रुवम् । क्रमेण भक्तिं सुदृढां करोत्येकां हरेरहो ॥ 91॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,91,14498,देहं त्यक्त्वा च गोलोकं पुनरेव प्रयाति सः । ततः कृष्णस्य सारूप्यं सम्प्राप्य पार्षदो भवेत् ॥ 92॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,92,14499,पुनस्तत्पतनं नास्ति जरामृत्युहरो भवेत् । भाद्रे च शुक्लद्वादश्यां यः शक्रं पूजयेन्नरः ॥ 93॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,93,14500,षष्टिवर्षसहस्राणि शक्रलोके महीयते । रविवारे च सङ्क्रान्त्यां सप्तम्यां शुक्लपक्षके ॥ 94॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,94,14501,सम्पूज्यार्कं हविष्यान्नं यः करोति च भारते । महीयते सोऽर्कलोके यावदिन्द्राश्चतुर्दश ॥ 95॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,95,14502,भारतं पुनरागत्य चारोगी श्रीयुतो भवेत् । ज्येष्ठकृष्णचतुर्दश्यां सावित्रीं यो हि पूजयेत् ॥ 96॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,96,14503,महीयते ब्रह्मलोके सप्तमन्वन्तरावधि । पुनर्महीं समागत्य श्रीमानतुलविक्रमः ॥ 97॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,97,14504,चिरजीवी भवेत्सोऽपि ज्ञानवान्सम्पदा युतः । माघस्य शुक्लपञ्चम्यां पूजयेद्यः सरस्वतीम् ॥ 98॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,98,14505,संयतो भक्तितो दत्त्वा चोपचाराणि षोडश । महीयते मणिद्वीपे यावद्ब्रह्म दिवानिशम् ॥ 99॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,99,14506,सम्प्राप्य च पुनर्जन्म स भवेत्कविपण्डितः । गां सुवर्णादिकं यो हि ब्राह्मणाय ददाति च ॥ 100॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,100,14507,नित्यं जीवनपर्यन्तं भक्तियुक्तश्च भारते । गवां लोमप्रमाणाब्दं द्विगुणं विष्णुमन्दिरे ॥ 101॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,101,14508,मोदते हरिणा सार्धं क्रीडाकौतुकमङ्गलैः । तदन्ते पुनरागत्य राजराजेश्वरो भवेत् ॥ 102॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,102,14509,श्रीमांश्च पुत्रवान्विद्वांज्ञानवान्सर्वतः सुखी । भोजयेद्योऽपि मिष्टान्नं ब्राह्मणेभ्यश्च भारते ॥ 103॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,103,14510,विप्रलोमप्रमाणाब्दं मोदते विष्णुमन्दिरे । ततः पुनरिहागत्य सुखी च धनवान्भवेत् ॥ 104॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,104,14511,विद्वान्सुचिरजीवी च श्रीमानतुलविक्रमः । यो वक्ति वा ददात्येव हरेर्नामानि भारते ॥ 105॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,105,14512,युगं नाम प्रमाणं च विष्णुलोके महीयते । ततः पुनरिहागत्य स सुखी धनवान्भवेत् ॥ 106॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,106,14513,यदि नारायणक्षेत्रे फलं कोटिगुणं भवेत् । नाम्ना कोटिं हरेर्यो हि क्षेत्रे नारायणे जपेत् ॥ 107॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,107,14514,सर्वपापविनिर्मुक्तो जीवन्मुक्तो भवेद्ध्रुवम् । न लभेत्स पुनर्जन्म वैकुण्ठे स महीयते ॥ 108॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,108,14515,लभेद्विष्णोश्च सारूप्यं न तस्य पतनं भवेत् । विष्णुभक्तिं लभेत्सोऽपि विष्णुसारूप्यमाप्नुयात् ॥ 109॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,109,14516,शिवं यः पूजयेन्नित्यं कृत्वा लिङ्गं च पार्थिवम् । यावज्जीवनपर्यन्तं स याति शिवमन्दिरम् ॥ 110॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,110,14517,मृदो रेणुप्रमाणाब्दं शिवलोके महीयते । ततः पुनरिहागत्य राजेन्द्रो भारते भवेत् ॥ 111॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,111,14518,शिलां च पूजयेन्नित्यं शिलातोयं च भक्षति । महीयते च वैकुण्ठे यावद्वै ब्रह्मणः शतम् ॥ 112॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,112,14519,ततो लब्ध्वा पुनर्जन्म हरिभक्तिं च दुर्लभाम् । महीयते विष्णुलोके न तस्य पतनं भवेत् ॥ 113॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,113,14520,तपांसि चैव सर्वाणि व्रतानि निखिलानि च । कृत्वा तिष्ठति वैकुण्ठे यावदिन्द्राश्चतुर्दश ॥ 114॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,114,14521,ततो लब्ध्वा पुनर्जन्म राजेन्द्रो भारते भवेत् । ततो मुक्तो भवेत्पश्चात्पुनर्जन्म न विद्यते ॥ 115॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,115,14522,यः स्नात्वा सर्वतीर्थेषु भुवः कृत्वा प्रदक्षिणाम् । स तु निर्वाणतां याति न च जन्म भवेद्भुवि ॥ 116॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,116,14523,पुण्यक्षेत्रे भारते च योऽश्वमेधं करोति च । अश्वलोममिताब्दं च शक्रस्यार्धासनं भजेत् ॥ 117॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,117,14524,चतुर्गुणं राजसूये फलमाप्नोति मानवः । सर्वेभ्योऽपि मखेभ्यो हि परो देवीमखः स्मृतः ॥ 118॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,118,14525,विष्णुना च कृतः पूर्वं ब्रह्मणा च वरानने । शङ्करेण महेशेन त्रिपुरासुरनाशने ॥ 119॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,119,14526,शक्तियज्ञः प्रधानश्च सर्वयज्ञेषु सुन्दरि । नानेन सदृशो यज्ञस्त्रिषु लोकेषु विद्यते ॥ 120॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,120,14527,दक्षेण च कृतः पूर्वं महान्संवादसंयुतः । बभूव कलहो यत्र दक्षशङ्करयोः सति ॥ 121॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,121,14528,शेपुश्च नन्दिनं विप्रा नन्दी विप्रांश्च कोपतः । यद्धेतोर्दक्षयज्ञं च बभञ्ज चन्द्रशेखरः ॥ 122॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,122,14529,चकार देवीयज्ञं स पुरा दक्षः प्रजापतिः । धर्मश्च कश्यपश्चैव शेषश्चापि च कर्दमः ॥ 123॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,123,14530,स्वायम्भुवो मनुश्चैव तत्पुत्रश्च प्रियव्रतः । शिवः सनत्कुमारश्च कपिलश्च ध्रुवस्तथा ॥ 124॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,124,14531,राजसूयसहस्राणां फलमाप्नोति निश्चितम् । देवीयज्ञात्परो यज्ञो नास्ति वेदे फलप्रदः ॥ 125॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,125,14532,वर्षाणां शतजीवी च जीवन्मुक्तो भवेद्ध्रुवम् । ज्ञानेन तेजसा चैव विष्णुतुल्यो भवेदिह ॥ 126॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,126,14533,देवानां च यथा विष्णुर्वैष्णवानां च नारद । शास्त्राणां च यथा वेदा वर्णानां ब्राह्मणो यथा ॥ 127॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,127,14534,तीर्थानां च यथा गङ्गा पवित्राणां शिवो यथा । एकादशी व्रतानां च पुष्पाणां तुलसी यथा ॥ 128॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,128,14535,नक्षत्राणां यथा चन्द्रः पक्षिणां गरुडो यथा । यथा स्त्रीणां च प्रकृती राधा वाणी वसुन्धरा ॥ 129॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,129,14536,शीघ्राणां चेन्द्रियाणां च चञ्चलानां मनो यथा । प्रजापतीनां ब्रह्मा च प्रजानां च प्रजापतिः ॥ 130॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,130,14537,वृन्दावनं वनानां च वर्षाणां भारतं यथा । श्रीमतां च यथा श्रीश्च विदुषां च सरस्वती ॥ 131॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,131,14538,पतिव्रतानां दुर्गा च सौभाग्यानां च राधिका । देवीयज्ञस्तथा वत्से सर्वयज्ञेषु भामिनि ॥ 132॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,132,14539,अश्वमेधशतेनैव शक्रत्वं च लभेद्ध्रुवम् । सहस्रेण विष्णुपदं सम्प्राप्तः पृथुरेव च ॥ 133॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,133,14540,स्नानं च सर्वतीर्थानां सर्वयज्ञेषु दीक्षणम् । सर्वेषां च व्रतानां च तपसां फलमेव च ॥ 134॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,134,14541,पाठे चतुर्णां वेदानां प्रादक्षिण्यं भुवस्तथा । फलभूतमिदं सर्वं मुक्तिदं शक्तिसेवनम् ॥ 135॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,135,14542,पुराणेषु च वेदेषु चेतिहासेषु सर्वतः । निरूपितं सारभूतं देवीपादाम्बुजार्चनम् ॥ 136॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,136,14543,तद्वर्णनं च तद्ध्यानं तन्नामगुणकीर्तनम् । तत्स्तोत्रस्मरणं चैव वन्दनं जपमेव च ॥ 137॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,137,14544,तत्पादोदकनैवेद्यं भक्षणं नित्यमेव च । सर्वसम्मतमित्येवं सर्वेप्सितमिदं सति ॥ 138॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,138,14545,भज नित्यं परं ब्रह्म निर्गुणं प्रकृतिं पराम् । गृहाण स्वामिनं वत्से सुखं वस च मन्दिरे ॥ 139॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,139,14546,अयं ते कथितः कर्मविपाको मङ्गलो नृणाम् । सर्वेप्सितः सर्वमतस्तत्त्वज्ञानप्रदः परः ॥ 140॥ 9,९.३०,त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।,140,14547,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे यमेन कर्मविपाककथनं नाम त्रिंशोऽध्यायः ॥ ९.३०॥ 9,९.३१,एकत्रिंशोऽध्यायः । यमाष्टकवर्णनम् ।,0,14548,श्रीनारायण उवाच । शक्तेरुत्कीर्तनं श्रुत्वा सावित्री यमवक्त्रतः । साश्रुनेत्रा सपुलका यमं पुनरुवाच सा ॥ 1॥ 9,९.३१,एकत्रिंशोऽध्यायः । यमाष्टकवर्णनम् ।,1,14549,सावित्र्युवाच । शक्तेरुत्कीर्तनं धर्म सकलोद्धारकारणम् । श्रोतॄणां चैव वक्तॄणां जन्ममृत्युजराहरम् ॥ 2॥ 9,९.३१,एकत्रिंशोऽध्यायः । यमाष्टकवर्णनम् ।,2,14550,दानवानां च सिद्धानां तपसां च परं पदम् । योगानां चैव वेदानां कीर्तनं सेवनं विभो ॥ 3॥ 9,९.३१,एकत्रिंशोऽध्यायः । यमाष्टकवर्णनम् ।,3,14551,मुक्तित्वममरत्वं च सर्वसिद्धित्वमेव च । श्रीशक्तिसेवकस्यैव कलां नार्हन्ति षोडशीम् ॥ 4॥ 9,९.३१,एकत्रिंशोऽध्यायः । यमाष्टकवर्णनम् ।,4,14552,भजामि केन विधिना वद वेदविदांवर । शुभकर्मविपाकं च श्रुतं नॄणां मनोहरम् ॥ 5॥ 9,९.३१,एकत्रिंशोऽध्यायः । यमाष्टकवर्णनम् ।,5,14553,कर्माशुभविपाकं च तन्मे व्याख्यातुमर्हसि । इत्युक्त्वा च सती ब्रह्मन् भक्तिनम्रात्मकन्धरा ॥ 6॥ 9,९.३१,एकत्रिंशोऽध्यायः । यमाष्टकवर्णनम् ।,6,14554,तुष्टाव धर्मराजं च वेदोक्तेन स्तवेन च । सावित्र्युवाच । तपसा धर्ममाराध्य पुष्करे भास्करः पुरा ॥ 7॥ 9,९.३१,एकत्रिंशोऽध्यायः । यमाष्टकवर्णनम् ।,7,14555,धर्मं सूर्यः सुतं प्राप धर्मराजं नमाम्यहम् । समता सर्वभूतेषु यस्य सर्वस्य साक्षिणः ॥ 8॥ 9,९.३१,एकत्रिंशोऽध्यायः । यमाष्टकवर्णनम् ।,8,14556,अतो यन्नाम शमनमिति तं प्रणमाम्यहम् । येनान्तश्च कृतो विश्वे सर्वेषां जीविनां परम् ॥ 9॥ 9,९.३१,एकत्रिंशोऽध्यायः । यमाष्टकवर्णनम् ।,9,14557,कामानुरूपं कालेन तं कृतान्तं नमाम्यहम् । बिभर्ति दण्डं दण्डाय पापिनां शुद्धिहेतवे ॥ 10॥ 9,९.३१,एकत्रिंशोऽध्यायः । यमाष्टकवर्णनम् ।,10,14558,नमामि तं दण्डधरं यः शास्ता सर्वजीविनाम् । विश्वं च कलयत्येव यः सर्वेषु च सन्ततम् ॥ 11॥ 9,९.३१,एकत्रिंशोऽध्यायः । यमाष्टकवर्णनम् ।,11,14559,अतीव दुर्निवार्यं च तं कालं प्रणमाम्यहम् । तपस्वी ब्रह्मनिष्ठो यः संयमी सञ्जितेन्द्रियः ॥ 12॥ 9,९.३१,एकत्रिंशोऽध्यायः । यमाष्टकवर्णनम् ।,12,14560,जीवानां कर्मफलदस्तं यमं प्रणमाम्यहम् । स्वात्मारामश्च सर्वज्ञो मित्रं पुण्यकृतां भवेत् ॥ 13॥ 9,९.३१,एकत्रिंशोऽध्यायः । यमाष्टकवर्णनम् ।,13,14561,पापिनां क्लेशदो यस्तं पुण्यमित्रं नमाम्यहम् । यज्जन्म ब्रह्मणोंऽशेन ज्वलन्तं ब्रह्मतेजसा ॥ 14॥ 9,९.३१,एकत्रिंशोऽध्यायः । यमाष्टकवर्णनम् ।,14,14562,यो ध्यायति परं ब्रह्म तमीशं प्रणमाम्यहम् । इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने ॥ 15॥ 9,९.३१,एकत्रिंशोऽध्यायः । यमाष्टकवर्णनम् ।,15,14563,यमस्तां शक्तिभजनं कर्मपाकमुवाच ह । इदं यमाष्टकं नित्यं प्रातरुत्थाय यः पठेत् ॥ 16॥ 9,९.३१,एकत्रिंशोऽध्यायः । यमाष्टकवर्णनम् ।,16,14564,यमात्तस्य भयं नास्ति सर्वपापात्प्रमुच्यते । महापापी यदि पठेन्नित्यं भक्तिसमन्वितः । यमः करोति संशुद्धं कायव्यूहेन निश्चितम् ॥ 17॥ 9,९.३१,एकत्रिंशोऽध्यायः । यमाष्टकवर्णनम् ।,17,14565,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे यमाष्टकवर्णनं नामेकत्रिशोऽध्यायः ॥ ९.३१॥ 9,९.३२,द्वात्रिंशोऽध्यायः । सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् ।,0,14566,श्रीनारायण उवाच । मायाबीजं महामन्त्रं प्रदत्त्वा विधिपूर्वकम् । कर्माशुभविपाकं च तामुवाच रवेः सुतः ॥ 1॥ 9,९.३२,द्वात्रिंशोऽध्यायः । सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् ।,1,14567,धर्मराज उवाच । शुभकर्मविपाकान्न नरकं याति मानवः । कर्माशुभविपाकं च कथयामि निशामय ॥ 2॥ 9,९.३२,द्वात्रिंशोऽध्यायः । सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् ।,2,14568,नानापुराणभेदेन नामभेदेन भामिनि । नानाप्रकारं स्वर्गं च याति जीवः स्वकर्मभिः ॥ 3॥ 9,९.३२,द्वात्रिंशोऽध्यायः । सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् ।,3,14569,शुभकर्मविपाकान्न नरकं याति कर्मभिः । कुकर्मणा च नरकं याति नानाविधं नरः ॥ 4॥ 9,९.३२,द्वात्रिंशोऽध्यायः । सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् ।,4,14570,नरकाणां च कुण्डानि सन्ति नानाविधानि च । नानाशास्त्रप्रमाणेन कर्मभेदेन यानि च ॥ 5॥ 9,९.३२,द्वात्रिंशोऽध्यायः । सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् ।,5,14571,विस्तृतानि च गर्तानि क्लेशदानि च दुःखिनाम् । भयङ्कराणि घोराणि हे वत्से कुत्सितानि च ॥ 6॥ 9,९.३२,द्वात्रिंशोऽध्यायः । सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् ।,6,14572,षडशीति च कुण्डानि एवमन्यानि सन्ति च । निबोध तेषां नामानि प्रसिद्धानि श्रुतौ सति ॥ 7॥ 9,९.३२,द्वात्रिंशोऽध्यायः । सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् ।,7,14573,वह्निकुण्डं तप्तकुण्डं क्षारकुण्डं भयानकम् । विट्कुण्डं मूत्रकुण्डं च श्लेष्मकुण्डं च दुःसहम् ॥ 8॥ 9,९.३२,द्वात्रिंशोऽध्यायः । सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् ।,8,14574,गरकुण्डं दूषिकुण्डं वसाकुण्डं तथैव च । शुक्रकुण्डमसुक्कुण्डमश्रुकुण्डं च कुत्सितम् ॥ 9॥ 9,९.३२,द्वात्रिंशोऽध्यायः । सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् ।,9,14575,कुण्डं गात्रमलानां च कर्णविट्कुण्डमेव च । मज्जाकुण्डं मांसकुण्डं नक्रकुण्डं च दुस्तरम् ॥ 10॥ 9,९.३२,द्वात्रिंशोऽध्यायः । सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् ।,10,14576,लोमकुण्डं केशकुण्डमस्थिकुण्डं च दुस्तरम् । ताम्रकुण्डं लोहकुण्डं प्रतप्तं क्लेशदं महत् ॥ 11॥ 9,९.३२,द्वात्रिंशोऽध्यायः । सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् ।,11,14577,चर्मकुण्डं तप्तसुराकुण्डं च परिकीर्तितम् । तीक्ष्णकण्टककुण्डं च विषोदं विषकुण्डकम् ॥ 12॥ 9,९.३२,द्वात्रिंशोऽध्यायः । सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् ।,12,14578,प्रतप्तकुण्डं तैलस्य कुन्तकुण्डं च दुर्वहम् । कृमिकुण्डं पूयकुण्डं सर्पकुण्डं दुरन्तकम् ॥ 13॥ 9,९.३२,द्वात्रिंशोऽध्यायः । सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् ।,13,14579,मशकुण्डं दंशकुण्डं भीमं गरलकुण्डकम् । कुण्डं च वज्रदंष्ट्राणां वृश्चिकानां च सुव्रते ॥ 14॥ 9,९.३२,द्वात्रिंशोऽध्यायः । सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् ।,14,14580,शरकुण्डं शूलकुण्डं खड्गकुण्डं च भीषणम् । गोलकुण्डं नक्रकुण्डं काककुण्डं शुचास्पदम् ॥ 15॥ 9,९.३२,द्वात्रिंशोऽध्यायः । सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् ।,15,14581,मन्थानकुण्डं बीजकुण्डं वज्रकुण्डं च दुःसहम् । तप्तपाषाणकुण्डं च तीक्ष्णपाषाणकुण्डकम् ॥ 16॥ 9,९.३२,द्वात्रिंशोऽध्यायः । सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् ।,16,14582,लालाकुण्डं मसीकुण्डं चूर्णकुण्डं तथैव च । चक्रकुण्डं वक्रकुण्डं कूर्मकुण्डं महोल्बणम् ॥ 17॥ 9,९.३२,द्वात्रिंशोऽध्यायः । सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् ।,17,14583,ज्वालाकुण्डं भस्मकुण्डं दग्धकुण्डं शुचिस्मिते । तप्तसूचीमसिपत्रं क्षुरधारं सूचीमुखम् ॥ 18॥ 9,९.३२,द्वात्रिंशोऽध्यायः । सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् ।,18,14584,गोकामुख नक्रमुखं गजदंशं च गोमुखम् । कुम्भीपाकं कालसूत्रं मत्स्योदं कृमितन्तुकम् ॥ 19॥ 9,९.३२,द्वात्रिंशोऽध्यायः । सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् ।,19,14585,पांसुभोज्यं पाशवेष्टं शूलप्रोतं प्रकम्पनम् । उल्कामुखमन्धकूपं वेधनं ताडनं तथा ॥ 20॥ 9,९.३२,द्वात्रिंशोऽध्यायः । सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् ।,20,14586,जालरन्ध्रं देहचूर्णं दलनं शोषणं कषम् । शूर्पं ज्वालामुखं चैव धूमान्धं नागवेष्टनम् ॥ 21॥ 9,९.३२,द्वात्रिंशोऽध्यायः । सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् ।,21,14587,कुण्डान्येतानि सावित्रि पापिनां क्लेशदानि च । नियुतैः किङ्करगणै रक्षितानि च सन्ततम् ॥ 22॥ 9,९.३२,द्वात्रिंशोऽध्यायः । सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् ।,22,14588,दण्डहस्तैः पाशहस्तैर्मदमत्तैर्भयङ्करैः । शक्तिहस्तैर्गदाहस्तैरसिहस्तैः सुदारुणैः ॥ 23॥ 9,९.३२,द्वात्रिंशोऽध्यायः । सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् ।,23,14589,तमोयुक्तैर्दयाहीनैर्निवार्यैश्च न सर्वतः । तेजस्विभिश्च निःशङ्कैराताम्रपिङ्गलोचनैः ॥ 24॥ 9,९.३२,द्वात्रिंशोऽध्यायः । सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् ।,24,14590,योगयुक्तैः सिद्धियुक्तैर्नानारूपधरैर्भटैः । आसन्नमृत्युभिर्दृष्टैः पापिभिः सर्वजीविभिः ॥ 25॥ 9,९.३२,द्वात्रिंशोऽध्यायः । सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् ।,25,14591,स्वकर्मनिरतैः सर्वैः शाक्तैः सौरैश्च गाणपैः । अदृश्यैः पुण्यकृद्भिश्च सिद्धैर्योगिभिरेव च ॥ 26॥ 9,९.३२,द्वात्रिंशोऽध्यायः । सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् ।,26,14592,स्वधर्मनिरतैर्वापि विततैर्वा स्वतन्त्रकैः । बलवद्भिश्च निःशङ्कैः स्वप्नदृष्टैश्च वैष्णवैः ॥ 27॥ 9,९.३२,द्वात्रिंशोऽध्यायः । सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् ।,27,14593,एतत्ते कथितं साध्वि कुण्डसङ्ख्यानिरूपणम् । येषां निवासो यत्कुण्डे निबोध कथयामि ते ॥ 28॥ 9,९.३२,द्वात्रिंशोऽध्यायः । सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् ।,28,14594,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणं नाम द्वात्रिंशोऽध्यायः ॥ ९.३२॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,0,14595,धर्मराज उवाच । हरिसेवारतः शुद्धो योगसिद्धो व्रती सति । तपस्वी ब्रह्मचारी च न याति नरकं ध्रुवम् ॥ 1॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,1,14596,कटुवाचा बान्धवांश्च बललेपेन यो नरः । दग्धान्करोति बलवान् वह्निकुण्डं प्रयाति सः ॥ 2॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,2,14597,स्वगात्रलोममानाब्दं तत्र स्थित्वा हुताशने । पशुयोनिमवाप्नोति रौद्रदग्धां त्रिजन्मनि ॥ 3॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,3,14598,ब्राह्मणं तृषितं तप्तं क्षुधितं गृहमागतम् । न भोजयति यो मूढस्तप्तकुण्डं प्रयाति सः ॥ 4॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,4,14599,तत्र तल्लोममानं च वर्षं स्थित्वा च दुःखदे । तप्तस्थले वह्नितल्पे पक्षी च सप्तजन्मसु ॥ 5॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,5,14600,रविवारे च सङ्क्रान्त्याममायां श्राद्धवासरे । वस्त्राणां क्षारसंयोगं करोति केवलं नरः ॥ 6॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,6,14601,स याति क्षारकुण्डं च सूत्रमानाब्दमेव च । स व्रजेद्रजकीं योनिं सप्तजन्मसु भारते ॥ 7॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,7,14602,मूलप्रकृतिनिन्दां यः कुरुते मानवाधमः । वेदनिन्दां शास्त्रनिन्दां पुराणानां तथैव च ॥ 8॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,8,14603,ब्रह्मविष्णुशिवादीनां तथा निन्दापरो जनः । गौरीवाण्यादिदेवीनां तथा निन्दापरो जनः ॥ 9॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,9,14604,ते सर्वे निरये यान्ति तस्मिन्कुण्डे भयानके । नातः परतरं कुण्डं दुःखदं तु भविष्यति ॥ 10॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,10,14605,तत्र स्थित्वानेककल्पं सर्पयोनिं व्रजेत्पुनः । देवीनिन्दापराधस्य प्रायश्चित्तं न विद्यते ॥ 11॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,11,14606,स्वदत्तां परदत्तां वा वृत्तिं च सुरविप्रयोः । षष्टिवर्षसहस्राणि विट्कुण्डं च प्रयाति सः ॥ 12॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,12,14607,तावन्त्येव च वर्षाणि विड्भोजी तत्र तिष्ठति । षष्टिवर्षसहस्राणि विट्कृमिश्च पुनर्भुवि ॥ 13॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,13,14608,परकीयतडागे च तडागं यः करोति च । उत्सजेद्दैवदोषेण मूत्रकुण्डं प्रयाति सः ॥ 14॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,14,14609,तद्रेणुमानवर्षं च तद्भोजी तत्र तिष्ठति । पुनः पूर्णशताब्दं च स वृषो भारते भवेत् ॥ 15॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,15,14610,एकाकी मिष्टमश्नाति श्लेष्मकुण्डं प्रयाति च । पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति ॥ 16॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,16,14611,ततः पूर्णशताब्दं च स प्रेतो भारते भवेत् । श्लेष्ममूत्रपरं चैव पूयं भुङ्क्ते ततः शुचिः ॥ 17॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,17,14612,पितरं मातरं चैव गुरुं भार्यां सुतं सुताम् । यो न पुष्णात्यनाथं च गरकुण्डं प्रयाति सः ॥ 18॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,18,14613,पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति । ततो व्रजेद्भूतयोनिं शतवर्षं ततः शुचिः ॥ 19॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,19,14614,दृष्ट्वातिथिं वक्रचक्षुः करोति यो हि मानवः । पितृदेवास्तस्य जलं न गृह्णन्ति च पापिनः ॥ 20॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,20,14615,यानि कानि च पापानि ब्रह्महत्यादिकानि च । इहैव लभते चान्ते दूषिकाकुण्डमाव्रजेत् ॥ 21॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,21,14616,पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति । ततो व्रजेद्भूतयोनिं शतवर्षं ततः शुचिः ॥ 22॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,22,14617,दत्त्वा द्रव्यं च विप्राय चान्यस्मै दीयते यदि । स तिष्ठति वसाकुण्डे तद्भोजी शतवत्सरम् ॥ 23॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,23,14618,कृकलासो भवेत्सोऽपि भारते सप्तजन्मसु । ततो भवेन्महारौद्रो दरिद्रोऽल्पायुरेव च ॥ 24॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,24,14619,पुमांसं कामिनी वापि कामिनीं वा पुमानथ । यः शुक्रं पाययत्येव शुक्रकुण्डं प्रयाति सः ॥ 25॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,25,14620,पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति । कृमियोनिं शताब्दं च व्रजेद्भूत्वा ततः शुचिः ॥ 26॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,26,14621,सन्ताड्य च गुरुं विप्रं रक्तपातं च कारयेत् । स च तिष्ठत्यसृक्कुण्डे तद्भोजी शतवत्सरम् ॥ 27॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,27,14622,ततो लभेद्व्याघ्रजन्म सप्तजन्मसु भारते । ततः शुद्धिमवाप्नोति मानवश्च क्रमेण ह ॥ 28॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,28,14623,योऽश्रु तत्याज गायन्तं भक्तं दृष्ट्वा सगद्गदम् । श्रीकृष्णगुणसङ्गीते हसत्येव हि यो नरः ॥ 29॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,29,14624,स वसेदश्रुकुण्डे च तद्भोजी शतवर्षकम् । ततो भवेच्च चाण्डालस्त्रिजन्मनि ततः शुचिः ॥ 30॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,30,14625,करोति शठता तद्वन्नित्यं सुहृदि यो नरः । कुण्डं गात्रमलानां च स प्रयाति शताब्दकम् ॥ 31॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,31,14626,ततः स गार्दभीं योनिमवाप्नोति त्रिजन्मनि । त्रिजन्मनि च शार्गालीं ततः शुद्धो भवेद् ध्रुवम् ॥ 32॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,32,14627,बधिरं यो हसत्येव निन्दत्येवाभिमानतः । स वसेत्कर्णविट्कुण्डे तद्भोजी शतवत्सरम् ॥ 33॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,33,14628,ततो भवेत्स बधिरो दरिद्रः सप्तजन्मसु । सप्तजन्मन्यङ्गहीनस्ततः शुद्धिं लभेद् ध्रुवम् ॥ 34॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,34,14629,लोभात्स्वभरणार्थाय जीविनं हन्ति यो नरः । मज्जाकुण्डे वसेत्सोऽपि तद्भोजी लक्षवत्सरम् ॥ 35॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,35,14630,ततो भवेच्च शशको मीनश्च सप्तजन्मसु । त्रिजन्मनि वराहश्च कुक्कुटः सप्तजन्मसु ॥ 36॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,36,14631,एणादयश्च कर्मभ्यस्ततः शुद्धिं लभेद् ध्रुवम् । स्वकन्यापालनं कृत्वा विक्रीणाति च यो नरः ॥ 37॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,37,14632,अर्थलोभान्महामूढो मांसकुण्डं प्रयाति सः । कन्यालोमप्रमाणाब्दं तद्भोजी तत्र तिष्ठति ॥ 38॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,38,14633,तस्य दण्डप्रहारं च कुर्वन्ति यमकिङ्कराः । मांसभारं मूर्ध्नि कृत्वा रक्तभारं लिहेत्क्षुधा ॥ 39॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,39,14634,ततो हि भारते पापी कन्याविट्कृमिगो भवेत् । षष्टिवर्षसहस्राणि व्याधश्च सप्तजन्मसु ॥ 40॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,40,14635,त्रिजन्मनि वराहश्च कुक्कुटः सप्तजन्मसु । मण्डूको हि जलौकाश्च सप्तजन्मसु भारते ॥ 41॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,41,14636,सप्तजन्मसु काकश्च ततः शुद्धिं लभेद् ध्रुवम् । व्रतानामुपवासानां श्राद्धादीनां च सङ्गमे ॥ 42॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,42,14637,करोति यः क्षौरकर्म सोऽशुचिः सर्वकर्मसु । स च तिष्ठति कुण्डे च नखादीनाञ्च सुन्दरि ॥ 43॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,43,14638,तद्दैवदिनमानाब्दं तद्भोजी दण्डताडितः । सकेशं पार्थिवं लिङ्गं यो वार्चयति भारते ॥ 44॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,44,14639,स तिष्ठति केशकुण्डे मृद्रेणुमानवर्षकम् । तदन्ते यावनीं योनिं प्रयाति हरकोपतः ॥ 45॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,45,14640,शताब्दाच्छुद्धिमाप्नोति राक्षसः स भवेद् ध्रुवम् । पितॄणां यो विष्णुपदे पिण्डं नैव ददाति च ॥ 46॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,46,14641,स च तिष्ठत्यस्थिकुण्डे स्वलोमाब्दं महोल्बणे । ततः सुयोनिं सम्प्राप्य कुखञ्जः सप्तजन्मसु ॥ 47॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,47,14642,भवेन्महादरिद्रश्च ततः शुद्धो हि देहतः । यः सेवते महामूढो गुर्विणीं च स्वकामिनीम् ॥ 48॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,48,14643,प्रतप्ते ताम्रकुण्डे च शतवर्षं स तिष्ठति । अवीरान्नं च यो भुङ्क्ते ऋतुस्नातान्नमेव च ॥ 49॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,49,14644,लोहकुण्डे शताब्दं च स च तिष्ठति तप्तके । स व्रजेद्रजकीं योनिं काकानां सप्तजन्मसु ॥ 50॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,50,14645,महाव्रणी दरिद्रश्च ततः शुद्धी भवेन्नरः । यो हि चर्माक्तहस्तेन देवद्रव्यमुपस्मृशेत् ॥ 51॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,51,14646,शतवर्षप्रमाणं च चर्मकुण्डे स तिष्ठति । यः शूद्रेणाभ्यनुज्ञातो भुङ्क्ते शूद्रान्नमेव च ॥ 52॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,52,14647,स च तप्तसुराकुण्डे शताब्दं तिष्ठति द्विजः । ततो भवेच्छूद्रयाजी ब्राह्मणः सप्तजन्मसु ॥ 53॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,53,14648,शूद्रश्राद्धान्नभोजी च ततः शुद्धो भवेद्ध रुवम् । वाग्दुष्टः कटुको वाचा ताडयेत्स्वामिनं सदा ॥ 54॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,54,14649,तीक्ष्णकण्टककुण्डे स तद्भोजी तत्र तिष्ठति । ताडितो यमदूतेन दण्डेन च चतुर्गुणम् ॥ 55॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,55,14650,ततः उच्चैःश्रवाः सप्तजन्मस्वेव ततः शुचि । विषेण जीवनं हन्ति निर्दयो यो हि मानवः ॥ 56॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,56,14651,विषकुण्डे च तद्भोजी सहस्राब्दं च तिष्ठति । ततो भवेन्नृघाती च व्रणी च शतजन्मसु ॥ 57॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,57,14652,सप्तजन्मसु कुष्ठी च ततः शुद्धो भवेद् धुवम् । दण्डेन ताडयेद् गां हि वृषञ्च वृषवाहकः ॥ 58॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,58,14653,भृत्यद्वारा स्वतन्त्रो वा पुण्यक्षेत्रे च भारते । प्रतप्ते तैलकुण्डेऽग्नौ तिष्ठति स्म चतुर्युगम् ॥ 59॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,59,14654,गवां लोमप्रमाणाब्दं वृषो भवति तत्परम् । कुन्तेन हन्ति यो जीवं वह्निलोहेन हेलया ॥ 60॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,60,14655,कुन्तकुण्डे वसेत्सोऽपि वर्षाणामयुतं सति । ततः सुयोनिं सम्प्राप्य चोदरे व्याधिसंयुतः ॥ 61॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,61,14656,जन्मनैकेन क्लेशेन ततः शुद्धो भवेन्नरः । यो भुङ्क्ते च वृथा मांसं मांसलोभी द्विजाधमः ॥ 62॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,62,14657,हरेरनैवेद्यभोजी कृमिकुण्डं प्रयाति सः । स्वलोममानवर्षं च तद्भोजी तत्र तिष्ठति ॥ 63॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,63,14658,ततो भवेन्म्लेच्छजातिस्त्रिजन्मनि ततो द्विजः । ब्राह्मणः शूद्रयाजी च शूद्रश्राद्धान्नभोजकः ॥ 64॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,64,14659,शूद्राणां शवदाही च पूयकुण्डे वसेद् ध्रुवम् । यावल्लोमप्रमाणाब्दं यमदण्डेन सुव्रते ॥ 65॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,65,14660,ताडितो यमदूतेन तद्भोजी तत्र तिष्ठति । ततो भारतमागत्य स शूद्रः सप्तजन्मसु ॥ 66॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,66,14661,महारोगी दरिद्रश्च बधिरो मूक एव च । कृष्णं पद्मं च के यस्य तं सर्पं हन्ति यो नरः ॥ 67॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,67,14662,स्वलोममानवर्षं च सर्पकुण्डं प्रयाति सः । सर्पेण भक्षितः सोऽथ यमदूतेन ताडितः ॥ 68॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,68,14663,वसेच्च सर्पविड्भोजी ततः सर्पो भवेद् ध्रुवम् । ततो भवेन्मानवश्च स्वल्पायुर्दद्रुसंयुतः ॥ 69॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,69,14664,महाक्लेशेन तन्मृत्युः सर्पेण भक्षिताद् ध्रुवम् । विधिप्रदत्तजीव्यांश्च क्षुद्रजन्तूंश्च हन्ति यः ॥ 70॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,70,14665,स दंशमशयोः कुण्डे जन्तुमानाब्दमेव च । दिवानिशं भक्षितस्तैरनाहारश्च शब्दवान् ॥ 71॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,71,14666,हस्तपादादिबद्धश्च यमदूतेन ताडितः । ततो भवेत्क्षुद्रजन्तुर्जातिश्च यावनी भवेत् ॥ 72॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,72,14667,ततो भवेन्मानवश्च सोऽङ्गहीनस्ततः शुचिः । यो मूढो मधुमश्नाति हत्वा च मधुमक्षिकाः ॥ 73॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,73,14668,स एव गारले कुण्डे जीवमानाब्दकं वसेत् । भक्षितो गरलैर्दग्धो यमदूतेन ताडितः ॥ 74॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,74,14669,ततो हि मक्षिकाजातिस्ततः शुद्धो भवेन्नरः । दण्डं करोत्यदण्ड्ये च विप्रे दण्डं करोति च ॥ 75॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,75,14670,स कुण्डं वज्रदंष्ट्राणां कीटानां याति सत्वरम् । स तल्लोमप्रमाणाब्दं तत्र तिष्ठत्यहर्निशम् ॥ 76॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,76,14671,शब्दकृद्भक्षितस्तैस्तु यमदूतेन ताडितः । करोति रोदनं भद्रे हाहाकारं क्षणे क्षणे ॥ 77॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,77,14672,पुनः सूकरयोनौ च जायते सप्तजन्मसु । त्रिजन्मनि काकयोनौ ततः शुद्धो भवेन्नरः ॥ 78॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,78,14673,अर्थलोभेन यो मूढः प्रजादण्डं करोति सः । वृश्चिकानां च कुण्डं च तल्लोमाब्दं वसेद् ध्रुवम् ॥ 79॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,79,14674,ततो वृश्चिकजातिश्च सप्तजन्मसु भारते । ततो नरश्चाङ्गहीनो व्याधिशुद्धो भवेद् ध्रुवम् ॥ 80॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,80,14675,ब्राह्मणः शस्त्रधारी यो ह्यन्येषां धावको भवेत् । सन्ध्याहीनश्च यो विप्रो हरिभक्तिविहीनकः ॥ 81॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,81,14676,स तिष्ठति स्वलोमाब्दं कुण्डेषु च शरादिषु । विद्धः शरादिभिः शश्वत्ततः शुद्धो भवेन्नरः ॥ 82॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,82,14677,कारागारे सान्धकारे प्रणिहन्ति प्रजाश्च यः । प्रमत्तः स्वस्य दोषेण गोलकुण्डं प्रयाति सः ॥ 83॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,83,14678,स पङ्कतप्ततोयाक्तं सान्धकारं भयङ्करम् । तीक्ष्णदंष्ट्रैश्च कीटैश्च संयुक्तं गोलकुण्डकम् ॥ 84॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,84,14679,कीटैर्विद्धो वसेत्तत्र प्रजालोमाब्दमेव च । ततो भवेत्प्रजाभृत्यस्ततः शुद्धो भवेत्क्रमात् ॥ 85॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,85,14680,सरोवरादुत्थितांश्च नक्रादीन्हन्ति यो नरः । नक्रकण्टकमानाब्दं नक्रकुण्डं प्रयाति सः ॥ 86॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,86,14681,ततो नक्रादिजातीयो भवेन्नक्रादिषु ध्रुवम् । ततः सद्यो विशुद्धो हि दण्डेनैव पुनः पुनः ॥ 87॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,87,14682,वक्षः श्रोणीस्तनास्यञ्च यः पश्यति परस्त्रियाः । कामेन कामुको यो हि पुण्यक्षेत्रे च भारते ॥ 88॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,88,14683,स वसेत्काककुण्डे च काकैः सञ्चूर्णलोचनः । ततः स्वलोममानाब्दं भवेद्दग्धस्त्रिजन्मनि ॥ 89॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,89,14684,स्वर्णस्तेयी च यो मूढो भारते सुरविप्रयोः । स च मन्थानकुण्डे वै स्वलोमाब्दं वसेद् ध्रुवम् ॥ 90॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,90,14685,ताडितो यमदूतेन मन्थानैश्छन्नलोचनः । तद्विड्भोजी च तत्रैव ततश्चान्धस्त्रिजन्मनि ॥ 91॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,91,14686,सप्तजन्म दरिद्रश्च महाक्रूरश्च पातकी । भारते स्वर्णकारश्च स च स्वर्णवणिक् ततः ॥ 92॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,92,14687,यो भारते ताम्रचौरो लोहचौरश्च सुन्दरि । स च स्वलोममानाब्दं बीजकुण्डं प्रयाति सः ॥ 93॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,93,14688,तत्रैव बीजविड्भोजी बीजैश्च छन्नलोचनः । ताडितो यमदूतेन ततः शुद्धो भवेन्नरः ॥ 94॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,94,14689,भारते देवचौरश्च देवद्रव्यापहारकः । स दुस्तरे वज्रकुण्डे स्वलोमाब्दं वसेद् ध्रुवम् ॥ 95॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,95,14690,देहदग्धोऽपि तद्वज्रैरनाहारश्च शब्दकृत् । ताडितो यमदूतैश्च ततः शुद्धो भवेन्नरः ॥ 96॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,96,14691,रौप्यगव्यांशुकानां च यश्चौरः सुरविप्रयोः । तप्तपाषाणकुण्डेच स्वलोमाब्दं वसेद् ध्रुवम् ॥ 97॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,97,14692,त्रिजन्मनि च कंसोऽपि श्वेतरूपस्त्रिजन्मनि । जन्मैकं श्वेतचिह्नश्च ततोऽन्ये श्वेतपक्षिणः ॥ 98॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,98,14693,ततो रक्तविकारी च शूली वै मानवो भवेत् । सप्तजन्मसु चाल्पायुस्ततः शुद्धो भवेन्नरः ॥ 99॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,99,14694,रैतं कांस्यमयं पात्रं यो हरेद्देवविप्रयोः । तीक्ष्णपाषाणकुण्डे च स्वलोमाब्दं वसेन्नरः ॥ 100॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,100,14695,स भवेदश्वजातिश्च भारते सप्तजन्मसु । ततोऽधिकाङ्गजातिश्च पादरोगी ततः शुचिः ॥ 101॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,101,14696,पुंश्चल्यन्नं च यो भद्रे पुंश्चलीजीव्यजीविनः । स्वलोममानवर्षं च लालाकुण्डे वसेद् ध्रुवम् ॥ 102॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,102,14697,ताडितो यमदूतेन तद्भोजी तत्र दुःखितः । ततश्चक्षुःशूलरोगी ततः शुद्धः क्रमेण सः ॥ 103॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,103,14698,म्लेच्छसेवी मसीजीवी यो विप्रो भारते भुवि । वसेत्स्वलोममानाब्दं मसीकुण्डे स दुःखभाक् ॥ 104॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,104,14699,ताडितो यमदूतेन तद्भोजी तत्र तिष्ठति । ततस्त्रिजन्मनि भवेत्कृष्णवर्णः पशुः सति ॥ 105॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,105,14700,त्रिजन्मनि भवेच्छागः कृष्णवर्णस्त्रिजन्मनि । ततः स तालवृक्षश्च ततः शुद्धो भवेन्नरः ॥ 106॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,106,14701,धान्यादिसस्यं ताम्बूलं यो हरेत्सुरविप्रयोः । आसनं च तथा तल्पं चूर्णकुण्डे प्रयाति सः ॥ 107॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,107,14702,शताब्दं तत्र निवसेद्यमदूतेन ताडितः । ततो भवेन्मेषजातिः कुक्कुटश्च त्रिजन्मनि ॥ 108॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,108,14703,ततो भवेद्वानरश्च कासव्याधियुतो भुवि । वंशहीनो दरिद्रश्च स्वल्पायुश्च ततः शुचिः ॥ 109॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,109,14704,करोति चक्रं विप्राणां हृत्वा द्रव्यं च यो जनः । स वसेच्चक्रकुण्डे च शताब्दं दण्डताडितः ॥ 110॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,110,14705,ततो भवेन्मानवश्च तैलकारस्त्रिजन्मनि । व्याधियुक्तो भवेद्रोगी वंशहीनस्ततः शुचिः ॥ 111॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,111,14706,गोधनेषु च विप्रेषु करोति वक्रतां पुमान् । प्रयाति वक्रकुण्डं स तिष्ठेद्युगशतं सति ॥ 112॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,112,14707,ततो भवेत्स वक्राङ्गो हीनाङ्गः सप्तजन्मनि । दरिद्रो वंशहीनश्च भार्याहीनस्ततः शुचिः ॥ 113॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,113,14708,ततो भवेद् गृध्रजन्मा त्रिजन्मनि च सूकरः । त्रिजन्मनि बिडालश्च मयूरश्च त्रिजन्मनि ॥ 114॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,114,14709,निषिद्धं कूर्ममांसं च ब्राह्मणो यो हि भक्षति । कूर्मकुण्डे वसेत्सोऽपि शताब्दं कूर्मभक्षितः ॥ 115॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,115,14710,ततो भवेत्कूर्मजन्मा त्रिजन्मनि च सूकरः । त्रिजन्मनि बिडालश्च मयूरश्च ततः शुचिः ॥ 116॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,116,14711,घृतं तैलादिकं चैव यो हरेत्सुरविप्रयोः । स याति ज्वालाकुण्डं च भस्मकुण्डं च पातकी ॥ 117॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,117,14712,तत्र स्थित्वा शताब्दं च स भवेत्तैलपाचितः । सप्तजन्मनि मत्स्यश्च मूषकश्च ततः शुचिः ॥ 118॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,118,14713,सुगन्धितैलं धात्रीं वा गन्धद्रव्यान्यदेव वा । भारते पुण्यवर्षे च यो हरेत्सुरविप्रयोः ॥ 119॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,119,14714,स वसेद्दग्धकुण्डे च भवेद्दग्धो दिवानिशम् । स्वलोममानवर्षं च ततो दुर्गन्धिको भवेत् ॥ 120॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,120,14715,दुर्गन्धिकः सप्तजन्म मृगनाभिस्त्रिजन्मनि । सप्तजन्मसु मन्थानस्ततो हि मानवो भवेत् ॥ 121॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,121,14716,बलेनैव छलेनैव हिंसारूपेण वा सति । बलिष्ठश्च हरेद्भूमिं भारते परपैतृकीम् ॥ 122॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,122,14717,स वसेत्तप्तसूचिं च भवेत्तापी दिवानिशम् । तप्ततैले यथा जीवो दग्धो भवति सन्ततम् ॥ 123॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,123,14718,भस्मसान्न भवत्येव भोगे देही न नश्यति । सप्तमन्वन्तरं पापी सन्तप्तस्तत्र तिष्ठति ॥ 124॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,124,14719,शब्दं करोत्यनाहारो यमदूतेन ताडितः । षष्टिवर्षसहस्राणि विट्कृमिश्च भवेत्ततः ॥ 125॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,125,14720,ततो भवेद्भूमिहीनो दरिद्रश्च ततः शुचिः । ततः स्वयोनिं सम्प्राप्य शुभं कर्माचरेत्पुनः ॥ 126॥ 9,९.३३,त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,126,14721,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नानाकर्म- विपाकफलकथनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ९.३३॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,0,14722,यम उवाच । छिनत्ति जीवं खड्गेन दयाहीनः सुदारुणः । नरघाती हन्ति नरमर्थलोभेन भारते ॥ 1॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,1,14723,असिपत्रे वसेत्सोऽपि यावदिन्द्राश्चतुर्दश । तेषु यो ब्राह्मणान् हन्ति शतमन्वन्तरं वसेत् ॥ 2॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,2,14724,छिन्नाङ्गः संवसेत् सोऽपि खड्गधारेण सन्ततम् । अनाहारः शब्दमुच्चैर्यमदूतेन ताडितः ॥ 3॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,3,14725,मन्थानः शतजन्मानि शतजन्मानि सूकरः । कुक्कुटः सप्त जन्मानि श‍ृगालः सप्तजन्मसु ॥ 4॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,4,14726,व्याघ्रश्च सप्त जन्मानि वृकश्चैव त्रिजन्मसु । सप्तजन्मसु मण्डूको यमदूतेन ताडितः ॥ 5॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,5,14727,स भवेद्भारते वर्षे महिषश्च ततः शुचिः । ग्रामाणां नगराणां वा दहनं यः करोति च ॥ 6॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,6,14728,क्षुरधारे वसेत्सोऽपि छिन्नाङ्गस्त्रियुगं सति । ततः प्रेतो भवेत्सद्यो वह्निवक्त्रो भ्रमन्महीम् ॥ 7॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,7,14729,सप्तजन्मामेध्यभोजी कपोतः सप्तजन्मसु । ततो भवेन्महाशूली मानवः सप्तजन्मनि ॥ 8॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,8,14730,सप्तजन्म गलत्कुष्ठी ततः शुद्धो भवेन्नरः । परकर्णे मुखं दत्त्वा परनिन्दां करोति यः ॥ 9॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,9,14731,परदोषे महाश्लाघी देवब्राह्मणनिन्दकः । सूचीमुखे वसेत्सोऽपि सूचीविद्धो युगत्रयम् ॥ 10॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,10,14732,ततो भवेद् वृश्चिकश्च सर्पश्च सप्तजन्मसु । वज्रकीटः सप्तजन्म भस्मकीटस्ततः परम् ॥ 11॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,11,14733,ततो भवेन्मानवश्च महाव्याधिस्ततः शुचिः । गृहिणां हि गृहं भित्त्वा वस्तुस्तेयं करोति यः ॥ 12॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,12,14734,गाश्च छागांश्च मेषांश्च याति गोकामुखे च सः । ताडितो यमदूतेन वसेत्तत्र युगत्रयम् ॥ 13॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,13,14735,ततो भवेत्सप्तजन्म गोजातिर्व्याधिसंयुतः । त्रिजन्मनि मेषजातिश्छागजातिस्त्रिजन्मनि ॥ 14॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,14,14736,ततो भवेन्मानवश्च नित्यरोगी दरिद्रकः । भार्याहीनो बन्धुहीनः सन्तापी च ततः शुचिः ॥ 15॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,15,14737,सामान्यद्रव्यचौरश्च याति नक्रमुखं च सः । ताडितो यमदूतेन वसेत्तत्राब्दकत्रयम् ॥ 16॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,16,14738,ततो भवेत्सप्तजन्म गोपतिर्व्याधिसंयुतः । ततो भवेन्मानवश्च महारोगी ततः शुचिः ॥ 17॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,17,14739,हन्ति गाश्च गजांश्चैव तुरगांश्च नगांस्तथा । स याति गजदंशं च महापापी युगत्रयम् ॥ 18॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,18,14740,ताडितो यमदूतेन नागदन्तेन सन्ततम् । स भवेद्गजजातिश्च तुरगश्च त्रिजन्मनि ॥ 19॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,19,14741,गोजातिर्म्लेच्छजातिश्च ततः शुद्धो भवेन्नरः । जलं पिबन्तीं तृषितां गां वारयति यः पुमान् ॥ 20॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,20,14742,नरकं गोमुखाकारं कृमितप्तोदकान्वितम् । तत्र तिष्ठति सन्तप्तो यावन्मन्वन्तरावधि ॥ 21॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,21,14743,ततो नरोऽपि गोहीनो महारोगी दरिद्रकः । सप्तजन्मान्त्यजातिश्च ततः शुद्धो भवेन्नरः ॥ 22॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,22,14744,गोहत्यां ब्रह्महत्यां च करोति ह्यतिदेशिकीम् । यो हि गच्छत्यगम्यां च यः स्त्रीहत्यां करोति च ॥ 23॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,23,14745,भिक्षुहत्यां महापापी भ्रूणहत्यां च भारते । कुम्भीपाके वसेत्सोऽपि यावदिन्द्राश्चतुर्दश ॥ 24॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,24,14746,ताडितो यमदूतेन चूर्ण्यमानश्च सन्ततम् । क्षणं पतति वह्नौ च क्षणं पतति कण्टके ॥ 25॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,25,14747,क्षणं पतेत्तप्ततैले तप्तो येन क्षणं क्षणम् । क्षणं च तप्तलोहे च क्षणं च तप्तताम्रके ॥ 26॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,26,14748,गृध्रो जन्मसहस्राणि शतजन्मानि सूकरः । काकश्च सप्त जन्मानि सर्पश्च सप्तजन्मसु ॥ 27॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,27,14749,षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः । नानाजन्मसु स वृषस्ततः कुष्ठी दरिद्रकः ॥ 28॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,28,14750,सावित्र्युवाच । विप्रहत्या च गोहत्या किंविधा चातिदैशिकी । का वा नृणामगम्या च को वा सन्ध्याविहीनकः ॥ 29॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,29,14751,अदीक्षितः पुमान्को वा को वा तीर्थप्रतिग्रही । द्विजः को वा ग्रामयाजी को वा विप्रोऽथ देवलः ॥ 30॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,30,14752,शूद्राणां सूपकारश्च प्रमत्तो वृषलीपतिः । एतेषां लक्षणं सर्वं वद वेदविदां वर ॥ 31॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,31,14753,धर्मराज उवाच । श्रीकृष्णे च तदर्चायामन्येषां प्रकृतौ सति । शिवे च शिवलिङ्गे च सूर्ये सूर्यमणौ तथा ॥ 32॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,32,14754,गणेशे वाथ दुर्गायामेवं सर्वत्र सुन्दरि । यः करोति भेदबुद्धिं ब्रह्महत्यां लभेत्तु सः ॥ 33॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,33,14755,स्वगुरौ स्वेष्टदेवे च जन्मदातरि मातरि । करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः ॥ 34॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,34,14756,वैष्णवेषु च भक्तेषु ब्राह्मणेष्वितरेषु च । करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः ॥ 35॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,35,14757,विप्रपादोदके चैव शालग्रामोदके तथा । करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः ॥ 36॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,36,14758,शिवनैवेद्यके चैव हरिनैवेद्यके तथा । करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः ॥ 37॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,37,14759,सर्वेश्वरेश्वरे कृष्णे सर्वकारणकारणे । सर्वाद्ये सर्वदेवानां सेव्ये सर्वान्तरात्मनि ॥ 38॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,38,14760,माययानेकरूपे वाप्येक एव हि निर्गुणे । करोतीशेन भेदं यो ब्रह्महत्यां लभेत्तु सः ॥ 39॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,39,14761,शक्तिभक्ते द्वेषबुद्धिं शक्तिशास्त्रे तथैव च । द्वेषं यः कुरुते मर्त्यो ब्रह्महत्यां लभेत्तु सः ॥ 40॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,40,14762,पितृदेवार्चनं यो वा त्यजेद्वेदनिरूपितम् । यः करोति निषिद्धं च ब्रह्महत्यां लभेत्तु सः ॥ 41॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,41,14763,यो निन्दति हृषीकेशं तन्मन्त्रोपासकं तथा । पवित्राणां पवित्रं च ज्ञानानन्दं सनातनम् ॥ 42॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,42,14764,प्रधानं वैष्णवानां च देवानां सेव्यमीश्वरम् । ये नार्चयन्ति निन्दन्ति ब्रह्महत्यां लभन्ति ते ॥ 43॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,43,14765,ये निन्दन्ति महादेवीं कारणब्रह्मरूपिणीम् । सर्वशक्तिस्वरूपां च प्रकृतिं सर्वमातरम् ॥ 44॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,44,14766,सर्वदेवस्वरूपां च सर्वेषां वन्दितां सदा । सर्वकारणरूपां च ब्रह्महत्यां लभन्ति ते ॥ 45॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,45,14767,कृष्णजन्माष्टमीं रामनवमीं च सुपुण्यदाम् । शिवरात्रिं तथा चैकादशीं वारे रवेस्तथा ॥ 46॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,46,14768,पञ्च पर्वाणि पुण्यानि ये न कुर्वन्ति मानवाः । लभन्ति ब्रह्महत्यां ते चाण्डालाधिकपापिनः ॥ 47॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,47,14769,अम्बुवाच्यां भूखननं जलशौचादिकं च ये । कुर्वन्ति भारते वर्षे ब्रह्महत्यां लभन्ति ते ॥ 48॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,48,14770,गुरुञ्च मातरं तातं साध्वीं भार्यां सुतं सुताम् । अनिन्द्यां यो न पुष्णाति ब्रह्महत्यां लभेत्तु सः ॥ 49॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,49,14771,विवाहो यस्य न भवेन्न पश्यति सुतं तु यः । हरिभक्तिविहीनो यो ब्रह्महत्यां लभेत्तु सः ॥ 50॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,50,14772,हरेरनैवेद्यभोजी नित्यं विष्णुं न पूजयेत् । पुण्यं पार्थिवलिङ्गं च ब्रह्महासौ प्रकीर्तितः ॥ 51॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,51,14773,गोप्रहारं प्रकुर्वन्तं दृष्ट्वा यो न निवारयेत् । याति गोविप्रयोर्मध्ये गोहत्या तु लभेत्तु सः ॥ 52॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,52,14774,दण्डैर्गोस्ताडयेन्मूढो यो विप्रो वृषवाहनः । दिने दिने गोवधं च लभते नात्र संशयः ॥ 53॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,53,14775,ददाति गोभ्य उच्छिष्टं भोजयेद् वृषवाहकम् । भुनक्ति वृषवाहान्नं स गोहत्यां लभेद् ध्रुवम् ॥ 54॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,54,14776,वृषलीपतिं याजयेद्यो भुङ्क्तेऽन्नं तस्य यो नरः । गोहत्याशतकं सोऽपि लभते नात्र संशयः ॥ 55॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,55,14777,पादं ददाति वह्नौ यो गाश्च पादेन ताडयेत् । गेहं विशेदधौताङ्घ्रिः स्नात्वा गोवधमाप्नुयात् ॥ 56॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,56,14778,यो भुङ्क्ते स्निग्धपादेन शेते स्निग्धाङ्घ्रिरेव च । सूर्योदये च यो भुङ्क्ते स गोहत्यां लभेद् ध्रुवम् ॥ 57॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,57,14779,अवीरान्नं च यो भुङ्क्ते योनिजीव्यस्य च द्विजः । यस्त्रिसन्ध्याविहीनश्च गोहत्या लभते च सः ॥ 58॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,58,14780,स्वभर्तरि च देवे वा भेदबुद्धिं करोति या । कटूक्त्या ताडयेत् कान्तं सा गोहत्यां लभेद् ध्रुवम् ॥ 59॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,59,14781,गोमार्गवर्जनं कृत्वा ददाति सस्यमेव वा । तडागे वा तु दुर्गे वा स गोहत्यां लभेद् ध्रुवम् ॥ 60॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,60,14782,प्रायश्चित्ते गोवधस्य यः करोति व्यतिक्रमम् । पुत्रलोभादथाज्ञानात्स गोहत्या लभेद् ध्रुवम् ॥ 61॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,61,14783,राजके दैवके यत्नाद् गोस्वामी गां न रक्षति । दुःखं ददाति यो मूढो गोहत्यां स लभेद् ध्रुवम् ॥ 62॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,62,14784,प्राणिनो लङ्घयेद्यो हि देवार्चामनलं जलम् । नैवेद्यं पुष्पमन्नं च स गोहत्यां लभेद् ध्रुवम् ॥ 63॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,63,14785,शश्वन्नास्तीति यो वादी मिथ्यावादी प्रतारकः । देवद्वेषी गुरुद्वेषी स गोहत्यां लभेद् ध्रुवम् ॥ 64॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,64,14786,देवताप्रतिमां दृष्ट्वा गुरुं वा ब्राह्मणं सति । सम्भ्रमान्न नमेद्यो हि स गोहत्या लभेद् ध्रुवम् ॥ 65॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,65,14787,न ददात्याशिषं कोपात्प्रणताय च यो द्विजः । विद्यार्थिने च विद्यां च स गोहत्यां लभेद् ध्रुवम् ॥ 66॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,66,14788,गोहत्या विप्रहत्या च कथिता चातिदेशिकी । गम्यां स्त्रियं नृणामेव निबोध कथयामि ते ॥ 67॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,67,14789,स्वस्त्री गम्या च सर्वेषामिति वेदानुशासनम् । अगम्या च तदन्या या चेति वेदविदो विदुः ॥ 68॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,68,14790,सामान्यं कथितं सर्वं विशेषं श‍ृणु सुन्दरि । अत्यगम्या हि या याश्च निबोध कथयामि ताः ॥ 69॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,69,14791,शूद्राणां विप्रपत्नी च विप्राणां शूद्रकामिनी । अत्यगम्या च निन्द्या च लोके वेदे पतिव्रते ॥ 70॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,70,14792,शूद्रश्च ब्राह्मणीं गत्वा ब्रह्महत्याशतं लभेत् । तत्समं ब्राह्मणी चापि कुम्भीपाकं लभेद् ध्रुवम् ॥ 71॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,71,14793,शूद्राणां विप्रपत्नी च विप्राणां शूद्रकामिनी । यदि शूद्रा व्रजेद्विप्रो वृषलीपतिरेव सः ॥ 72॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,72,14794,स भ्रष्टो विप्रजातेश्च चाण्डालात्सोऽधमः स्मृतः । विष्ठासमश्च तत्पिण्डो मूत्रं तस्य च तर्पणम् ॥ 73॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,73,14795,न पितॄणां सुराणां च तद्दत्तमुपतिष्ठति । कोटिजन्मार्जितं पुण्यं तस्यार्चात्तपसार्जितम् ॥ 74॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,74,14796,द्विजस्य वृषलीलोभान्नश्यत्येव न संशयः । ब्राह्मणश्च सुरापीतिर्विड्भोजी वृषलीपतिः ॥ 75॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,75,14797,तप्तमुद्रादग्धदेहस्तप्तशूलाङ्कितस्तथा । हरिवासरभोजी च कुम्भीपाकं व्रजेद् द्विजः ॥ 76॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,76,14798,गुरुपत्नीं राजपत्नीं सपत्नीं मातरं ध्रुवम् । सुतां पुत्रवधूं श्वश्रूं सगर्भां भगिनीं सतीम् ॥ 77॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,77,14799,सहोदरभ्रातृजायां मातुलानीं पितुः प्रसूम् । मातुः प्रसूं तत्स्वसारं भगिनीं भ्रातृकन्यकाम् ॥ 78॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,78,14800,शिष्यां शिष्यस्य पत्नीं च भागिनेयस्य कामिनीम् । भ्रातुः पुत्रप्रियां चैवात्यगम्या आह पद्मजः ॥ 79॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,79,14801,एताः कामेन कान्ता यो व्रजेद्वै मानवाधमः । स मातृगामी वेदेषु ब्रह्महत्याशतं व्रजेत् ॥ 80॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,80,14802,अकर्मार्होऽप्यसंस्पृश्यो लोके वेदे च निन्दितः । स याति कुम्भीपाके च महापापी सुदुष्करे ॥ 81॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,81,14803,करोत्यशुद्धां सन्ध्यां वा न सन्ध्यां वा करोति च । त्रिसन्ध्यं वर्जयेद्यो वा सन्ध्याहीनश्च स द्विजः ॥ 82॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,82,14804,वैष्णवं च तथा शैवं शाक्तं सौरं च गाणपम् । योऽहङ्कारान्न गृह्णाति मन्त्रं सोऽदीक्षितः स्मृतः ॥ 83॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,83,14805,प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम् । तत्र नारायणः स्वामी गङ्गागर्भान्तरे वसेत् ॥ 84॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,84,14806,तत्र नारायणक्षेत्रे मृतो याति हरेः पदम् । वाराणस्यां बदर्यां च गङ्गासागरसङ्गमे ॥ 85॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,85,14807,पुष्करे हरिहरक्षेत्रे प्रभासे कामरूस्थले । हरिद्वारे च केदारे तथा मातृपुरेऽपि च ॥ 86॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,86,14808,सरस्वतीनदीतीरे पुण्ये वृन्दावने वने । गोदावर्यां च कौशिक्यां त्रिवेण्यां च हिमाचले ॥ 87॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,87,14809,एषु तीर्थेषु यो दानं प्रतिगृह्णाति कामतः । स च तीर्थप्रतिग्राही कुम्भीपाके प्रयाति सः ॥ 88॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,88,14810,शूद्रसेवी शूद्रयाजी ग्रामयाजीति कीर्तितः । तथा देवोपजीवी च देवलः परिकीर्तितः ॥ 89॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,89,14811,शूद्रपाकोपजीवी यः सूपकार इति स्मृतः । सन्ध्यापूजनहीनश्च प्रमत्तः पतितः स्मृतः ॥ 90॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,90,14812,उक्तं सर्वं मया भद्रे लक्षणं वृषलीपतेः । एते महापातकिनः कुम्भीपाकं प्रयान्ति ते । कुण्डान्यन्यानि ये यान्ति निबोध कथयामि ते ॥ 91॥ 9,९.३४,चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।,91,14813,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे सावित्र्युपाख्याने नानाकर्मविपाकफलवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ९.३४॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,0,14814,धर्मराज उवाच । देवसेवां विना साध्वि न भवेत्कर्मकृन्तनम् । शुद्धकर्म शुद्धबीजं नरकश्च कुकर्मणा ॥ 1॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,1,14815,पुंश्चल्यन्नं च यो भुङ्क्ते योऽस्यां गच्छेत्पतिव्रते । स द्विजः कालसूत्रं च मृतो याति सुदुर्गमम् ॥ 2॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,2,14816,शतवर्षं कालसूत्रे स्थिरीभूतो भवेद् ध्रुवम् । तत्र जन्मनि रोगी च ततः शुद्धो भवेद् द्विजः ॥ 3॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,3,14817,पतिव्रता चैकपतौ द्वितीये कुलटा स्मृता । तृतीये धर्षिणी ज्ञेया चतुर्थे पुंश्चलीत्यपि ॥ 4॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,4,14818,वेश्या च पञ्चमे षष्ठे पुङ्गी च सप्तमेऽष्टमे । तत ऊर्ध्वं महावेश्या सास्पृश्या सर्वजातिषु ॥ 5॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,5,14819,यो द्विजः कुलटां गच्छेद्धर्षिणीं पुंश्चलीमपि । पुङ्गीं वेश्यां महावेश्यां मत्स्योदे याति निश्चितम् ॥ 6॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,6,14820,शताब्दं कुलटागामी धृष्टागामी चतुर्गुणम् । षड्गुणं पुंश्चलीगामी वेश्यागामी गुणाष्टकम् ॥ 7॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,7,14821,पुङ्गीगामी दशगुणं वसेत्तत्र न संशयः । महावेश्याकामुकश्च ततो दशगुणं वसेत् ॥ 8॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,8,14822,तत्रैव यातनां भुङ्क्ते यमदूतेन ताडितः । तित्तिरिः कुलटागामी धृष्टागामी च वायसः ॥ 9॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,9,14823,कोकिलः पुंश्चलीगामी वेश्यागामी वृकः स्मृतः । पुङ्गीगामी सूकरश्च सप्तजन्मनि भारते ॥ 10॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,10,14824,महावेश्याप्रगामी च जायते शाल्मलीतरुः । यो भुङ्क्ते ज्ञानहीनश्च ग्रहणे चन्द्रसूर्ययोः ॥ 11॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,11,14825,अरुन्तुदं स यात्येवाप्यन्नमानाब्दमेव च । ततो भवेन्मानवश्चाप्युदरे रोगपीडितः ॥ 12॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,12,14826,गुल्मयुक्तश्च काणश्च दन्तहीनस्ततः शुचिः । वाक्प्रदत्तां स्वकन्यां च योऽन्यस्मै प्रददाति च ॥ 13॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,13,14827,स वसेत्पांसुकुण्डे च तद्भोजी शतवत्सरम् । तद्द्रव्यहारी यः साध्वि पांसुवेष्टे शताब्दकम् ॥ 14॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,14,14828,निवसेच्छरशय्यायां मम दूतेन ताडितः । भक्त्या न पूजयेद्विप्रः शिवलिङ्गं च पार्थिवम् ॥ 15॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,15,14829,स याति शूलिनः पापाच्छूलप्रोतं सुदारुणम् । स्थित्वा शताब्दं तत्रैव श्वापदः सप्तजन्मसु ॥ 16॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,16,14830,ततो भवेद्देवलश्च सप्तजन्म ततः शुचिः । करोति कुण्ठितं विप्रं यद्भिया कम्पते द्विजः ॥ 17॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,17,14831,प्रकम्पने वसेत्सोऽपि विप्रलोमाब्दमेव च । प्रकोपवदना कोपात् स्वामिनं या च पश्यति ॥ 18॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,18,14832,कटूक्तिं तं प्रवदति सोल्मुकं सम्प्रयाति हि । उल्कां ददाति तद्वक्त्रे सततं मम किङ्करः ॥ 19॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,19,14833,दण्डेन ताडयेन्मूर्ध्नि तल्लोमाब्दप्रमाणकम् । ततो भवेन्मानवी च विधवा सप्तजन्मसु ॥ 20॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,20,14834,सा भुक्त्वा चैव वैधव्यं व्याधियुक्ता ततः शुचिः । या ब्राह्मणी शूद्रभोग्या चान्धकूपे प्रयाति सा ॥ 21॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,21,14835,तप्तशौचोदके ध्वान्ते तदाहारी दिवानिशम् । निवसेदतिसन्तप्ता मम दूतेन ताडिता ॥ 22॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,22,14836,शौचोदके निमग्ना सा यावदिन्द्राश्चतुर्दश । काकी जन्मसहस्राणि शतजन्मानि सूकरी ॥ 23॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,23,14837,श‍ृगाली शतजन्मानि शतजन्मानि कुक्कुटी । पारावती सप्तजन्म वानरी सप्तजन्मसु ॥ 24॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,24,14838,ततो भवेत्सा चाण्डाली सर्वभोग्या च भारते । ततो भवेच्च रजकी यक्ष्मग्रस्ता च पुंश्चली ॥ 25॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,25,14839,ततः कुष्ठयुता तैलकारी शुद्धा भवेत्ततः । निवसेद्वेधने वेश्या पुङ्गी च दण्डताडने ॥ 26॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,26,14840,जलरन्ध्रे वसेद्वेश्या कुलटा देहचूर्णके । स्वैरिणी दलने चैव धृष्टा च शोषणे तथा ॥ 27॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,27,14841,निवसेद्यातनायुक्ता मम दूतेन ताडिता । विण्मूत्रभक्षा सततं यावन्मन्वन्तरं सति ॥ 28॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,28,14842,ततो भवेद्विट्कृमिश्च लक्षवर्षं ततः शुचिः । ब्राह्मणो ब्राह्मणीं गच्छेत्क्षत्रियां वापि क्षत्रियः ॥ 29॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,29,14843,वैश्यो वैश्यां च शूद्रा वा शूद्रश्चापि व्रजेद्यदि । सवर्णपरदारैश्च कषायं यान्ति ते जनाः ॥ 30॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,30,14844,भुक्त्वा कषायतप्तोदं निवसेद्वा शताब्दकम् । ततो विप्रो भवेच्छुद्धस्ततो वै क्षत्रियादयः ॥ 31॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,31,14845,योषितश्चापि शुद्ध्यन्तीत्येवमाह पितामहः । क्षत्रियो ब्राह्मणीं गच्छेद्वैश्यो वापि पतिव्रते ॥ 32॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,32,14846,मातृगामी भवेत्सोऽपि शूर्पे च नरके वसेत् । शूर्पाकारैश्च कृमिभिर्ब्राह्मण्या सह भक्षितः ॥ 33॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,33,14847,प्रतप्तमूत्रभोजी च मम दूतेन ताडितः । तत्रैव यातनां भुङ्क्ते यावदिन्द्राश्चतुर्दश ॥ 34॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,34,14848,सप्तजन्म वराहश्च छागलश्च ततः शुचिः । करे धृत्वा तु तुलसीं प्रतिज्ञां यो न पालयेत् ॥ 35॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,35,14849,मिथ्या वा शपथं कुर्यात्स च ज्वालामुखं व्रजेत् । गङ्गातोयं करे कृत्वा प्रतिज्ञां यो न पालयेत् ॥ 36॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,36,14850,शिलां वा देवप्रतिमां स च ज्वालामुखं व्रजेत् । दत्त्वा दक्षिणहस्तं च प्रतिज्ञां यो न पालयेत् ॥ 37॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,37,14851,स्थित्वा देवगृहे वापि स च ज्वालामुखं व्रजेत् । आस्पृश्य ब्राह्मणं गां च ज्वालावह्निं व्रजेद् द्विजः ॥ 38॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,38,14852,न पालयेत्प्रतिज्ञां च स च ज्वालामुखं व्रजेत् । मित्रद्रोही कृतघ्नश्च यश्च विश्वासघातकः ॥ 39॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,39,14853,मिथ्यासाक्ष्यप्रदश्चैव स च ज्वालामुखं व्रजेत् । एते तत्र वसन्त्येव यावदिन्द्राश्चतुर्दश ॥ 40॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,40,14854,तथाङ्गारप्रदग्धाश्च मम दूतेन ताडिताः । चाण्डालस्तुलसीं स्पृष्ट्वा सप्तजन्म ततः शुचिः ॥ 41॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,41,14855,म्लेच्छो गङ्गाजलस्पर्शी पञ्चजन्म ततः शुचिः । शिलास्पर्शी विट्कृमिश्च सप्तजन्मसु सुन्दरि ॥ 42॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,42,14856,अर्चास्पर्शी ब्रह्मकृमिः सप्तजन्म ततः शुचि । दक्षहस्तप्रदाता च सर्पश्च सप्तजन्मसु ॥ 43॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,43,14857,ततो भवेद् ब्रह्महीनो मानवश्च ततः शुचिः । मिथ्यावादी देवगृहे देवलः सप्तजन्मसु ॥ 44॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,44,14858,विप्रादिस्पर्शकारी च व्याघ्रजातिर्भवेद् ध्रुवम् । ततो भवेच्च मूकः स बधिरश्च त्रिजन्मनि ॥ 45॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,45,14859,भार्याहीनो बन्धुहीनो वंशहीनस्ततः शुचिः । मित्रद्रोही च नकुलः कृतघ्नश्चापि गण्डकः ॥ 46॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,46,14860,विश्वासघाती व्याघ्रश्च सप्तजन्मसु भारते । मिथ्यासाक्षी च वक्तव्ये मण्डूकः सप्तजन्मसु ॥ 47॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,47,14861,पूर्वान्सप्तापरान्सप्त पुरुषान्हन्ति चात्मनः । नित्यक्रियाविहीनश्च जडत्वेन युतो द्विजः ॥ 48॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,48,14862,यस्यानास्था वेदवाक्ये मन्दं हसति सन्ततम् । व्रतोपवासहीनश्च सद्वाक्यपरनिन्दकः ॥ 49॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,49,14863,धूम्रान्धे च वसेत्सोऽपि शताब्दं धूम्रभक्षकः । जलजन्तुर्भवेत्सोऽपि शतजन्मक्रमेण च ॥ 50॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,50,14864,ततो नानाप्रकारश्च मत्स्यजातिस्ततः शुचिः । यः करोत्युपहासं च देवब्राह्मणयोर्धने ॥ 51॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,51,14865,पातयित्वा स पुरुषान्दशपूर्वान्दशापरान् । सोऽयं याति च धूम्रान्धं धूम्रध्वान्तसमन्वितम् ॥ 52॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,52,14866,धूम्रक्लिष्टो धूम्रभोजी वसेत्तत्र चतुर्गुणम् । ततो मूषकजातिश्च सप्तजन्मसु भारते ॥ 53॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,53,14867,ततो नानाविधाः पक्षिजातयः कृमिजातिभिः । ततो नानाविधा वृक्षा पशवश्च ततो नरः ॥ 54॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,54,14868,विप्रो दैवज्ञजीवी च वैद्यजीवी चिकित्सकः । लाक्षालोहादिव्यापारी रसादिविक्रयी च यः ॥ 55॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,55,14869,स याति नागवेष्टं च नागैर्वेष्टितमेव च । वसेत्स लोममानाब्दं तत्रैव नागपाशितः ॥ 56॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,56,14870,ततो नानाविधाः पक्षिजातयश्च ततो नरः । ततो भवेत्स गणको वैद्यश्च सप्तजन्मसु ॥ 57॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,57,14871,गोपश्च कर्मकारश्च रङ्गकारस्ततः शुचिः । प्रसिद्धानि च कुण्डानि कथितानि पतिव्रते ॥ 58॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,58,14872,अन्यानि चाप्रसिद्धानि क्षुद्राणि सन्ति तत्र वै । सन्ति पातकिनस्तेषु स्वकर्मफलभोगिनः । भ्रमन्ति नानायोनिं च किं भूयः श्रोतुमिच्छसि ॥ 59॥ 9,९.३५,पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।,59,14873,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नानाकर्मविपाकफलकथनं नाम पञ्चत्रिंशोऽध्यायः ॥ ९.३५॥ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,0,14874,सावित्र्युवाच । धर्मराज महाभाग वेदवेदाङ्गपारग । नानापुराणेतिहासे यत्सारं तत्प्रदर्शय ॥ 1॥ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,1,14875,सर्वेषु सारभूतं यत्सर्वेष्टं सर्वसम्मतम् । कर्मच्छेदबीजरूपं प्रशस्तं सुखदं नृणाम् ॥ 2॥ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,2,14876,सर्वप्रदं च सर्वेषां सर्वमङ्गलकारणम् । भयं दुःखं न पश्यन्ति येन वै सर्वमानवाः ॥ 3॥ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,3,14877,कुण्डानि ते न पश्यन्ति तेषु नैव पतन्ति च । न भवेद्येन जन्मादि तत्कर्म वद साम्प्रतम् ॥ 4॥ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,4,14878,किमाकाराणि कुण्डानि तानि वा निर्मितानि च । के च केनैव रूपेण तत्र तिष्ठन्ति पापिनः ॥ 5॥ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,5,14879,स्वदेहे भस्मसाद्भूते याति लोकान्तरं नरः । केन देहेन वा भोगं करोति च शुभाशुभम् ॥ 6॥ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,6,14880,सुचिरं क्लेशभोगेन कथं देहो न नश्यति । देहो वा किंविधो ब्रह्मंस्तन्मे व्याख्यातुमर्हसि ॥ 7॥ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,7,14881,श्रीनारायण उवाच । सावित्रीवचनं श्रुत्वा धर्मराजो हरिं स्मरन् । कथां कथितुमारेभे कर्मबन्धनिकृन्तनीम् ॥ 8॥ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,8,14882,धर्मराज उवाच । वत्से चतुर्षु वेदेषु धर्मेषु संहितासु च । पुराणेष्वितिहासेषु पाञ्चरात्रादिकेषु च ॥ 9॥ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,9,14883,अन्येषु धर्मशास्त्रेषु वेदाङ्गेषु च सुव्रते । सर्वेष्टं सारभूतं च पञ्चदेवानुसेवनम् ॥ 10॥ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,10,14884,जन्ममृत्युजराव्याधिशोकसन्तापनाशनम् । सर्वमङ्गलरूपं च परमानन्दकारणम् ॥ 11॥ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,11,14885,कारणं सर्वसिद्धीनां नरकार्णवतारणम् । भक्तिवृक्षाङ्कुरकरं कर्मवृक्षनिकृन्तनम् ॥ 12॥ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,12,14886,विमोक्षसोपानमिदमविनाशपदं स्मृतम् । सालोक्यसार्ष्टिसारूप्यसामीप्यादिप्रदं शुभम् ॥ 13॥ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,13,14887,कुण्डानि यमदूतैश्च रक्षितानि सदा शुभे । न हि पश्यन्ति स्वप्ने च पञ्चदेवार्चका नराः ॥ 14॥ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,14,14888,देवीभक्तिविहीना ये ते पश्यन्ति ममालयम् । यान्ति ये हरितीर्थं वा श्रयन्ति हरिवासरम् ॥ 15॥ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,15,14889,प्रणमन्ति हरिं नित्यं हर्यर्चां कल्पयन्ति च । न यान्ति तेऽपि घोरां च मम संयमिनीं पुरीम् ॥ 16॥ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,16,14890,त्रिसन्धिपूता विप्राश्च शुद्धाचारसमन्विताः । निवृत्तिं नैव लप्स्यन्ति देवीसेवां विना नराः ॥ 17॥ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,17,14891,स्वधर्मनिरताचाराः स्वधर्मनिरतास्तथा । गच्छन्तो मृत्युलोकं च दुर्दृशा मम किङ्कराः ॥ 18॥ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,18,14892,भीताः शिवोपासकेभ्यो वैनतेयादिवोरगाः । स्वदूतं पाशहस्तं च गच्छन्तं वारयाम्यहम् ॥ 19॥ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,19,14893,यास्यन्ति ते च सर्वत्र हरिदासाश्रमं विना । कृष्णमन्त्रोपासकाच्च वैनतेयादिवोरगाः ॥ 20॥ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,20,14894,देवीमन्त्रोपासकानां नाम्नाञ्चैव निकृन्तनम् । करोति नखलेखन्या चित्रगुप्तश्च भीतवत् ॥ 21॥ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,21,14895,मधुपर्कादिकं तेषां कुरुते च पुनः पुनः । विलङ्घ्य ब्रह्मलोकं च लोकं गच्छन्ति ते सति ॥ 22॥ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,22,14896,दुरितानि च नश्यन्ति येषां संस्पर्शमात्रतः । ते महाभाग्यवन्तो हि सहस्रकुलपावनाः ॥ 23॥ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,23,14897,यथा च प्रज्वलद्वह्नौ शुष्कानि च तृणानि च । प्राप्नोति मोहः सम्मोहं तांश्च दृष्ट्वा च भीतवत् ॥ 24॥ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,24,14898,कामश्च कामिनं याति लोभक्रोधौ ततः सति । मृत्युः प्रलीयते रोगो जरा शोको भयं तथा ॥ 25॥ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,25,14899,कालः शुभाशुभं कर्म हर्षो भोगस्तथैव च । ये ये न यान्ति तां पीडां कथितास्ते मया सति ॥ 26॥ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,26,14900,श‍ृणु देहविवरणं कथयामि यथागमम् । पृथिवी वायुराकाशस्तेजस्तोयमिति स्फुटम् ॥ 27॥ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,27,14901,देहिनां देहबीजं च स्रष्टृसृष्टिविधौ परम् । पृथिव्यादिपञ्जभूतैर्यो देहो निर्मितो भवेत् ॥ 28॥ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,28,14902,स कृत्रिमो नश्वरश्च भस्मसाच्च भवेदिह । बद्धोऽङ्गुष्ठप्रमाणश्च यो जीवः पुरुषः कृतः ॥ 29॥ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,29,14903,बिभर्ति सूक्ष्मं देहं तं तद्रूपं भोगहेतवे । स देहो न भवेद्भस्म ज्वलदग्नौ ममालये ॥ 30॥ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,30,14904,जलेन नष्टो देही वा प्रहारे सुचिरं कृते । न शस्त्रेण न वास्त्रेण सुतीक्ष्णकण्टके तथा ॥ 31॥ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,31,14905,तप्तद्रवे तप्तलोहे तप्तपाषाण एव च । प्रतप्तप्रतिमाश्लेषे यत्पूर्वपतनेऽपि च ॥ 32॥ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,32,14906,न दग्धो न च भग्नः स भुङ्क्ते सन्तापमेव च । कथितो देहवृत्तान्तः कारणं च यथागमम् । कुण्डानां लक्षणं सर्वं बोधाय कथयामि ते ॥ 33॥ 9,९.३६,षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।,33,14907,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनं नाम षट्त्रिंशोऽध्यायः ॥ ९.३६॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,0,14908,धर्मराज उवाच । पूर्णेन्दुमण्डलाकारं सर्वं कुण्डं च वर्तुलम् । निम्नं पाषाणभेदैश्च पाचितं बहुभिः सति ॥ 1॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,1,14909,न नश्वरं चाप्रलयं निर्मितं चेश्वरेच्छया । क्लेशदं पातकानां च नानारूपं तदालयम् ॥ 2॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,2,14910,ज्वलदङ्गाररूपं च शतहस्तशिखान्वितम् । परितः क्रोशमानं च वह्निकुण्डं प्रकीर्तितम् ॥ 3॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,3,14911,महाशब्दं प्रकुर्वद्भिः पापिभिः परिपूरितम् । रक्षितं मम दूतैश्च ताडितैश्चापि सन्ततम् ॥ 4॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,4,14912,प्रतप्तोदकपूर्णं च हिंस्रजन्तुसमन्वितम् । महाघोरं काकुशब्दं प्रहारेण दृढेन च ॥ 5॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,5,14913,क्रोशार्धमानं तद्दूतैस्ताडितैर्मम पार्षदैः । तप्तक्षारोदकैः पूर्णं पुनः काकैश्च सङ्कुलम् ॥ 6॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,6,14914,सङ्कुलं पापिभिश्चैव क्रोशमानं भयानकम् । त्राहीति शब्दं कुर्वद्भिर्मम दूतैश्च ताडितैः ॥ 7॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,7,14915,प्रचलद्भिरनाहारैः शुष्ककण्ठोष्ठतालुकैः । विड्भिरेव कृतं पूर्णं क्रोशमानं च कुत्सितम् ॥ 8॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,8,14916,अतिदुर्गन्धिसंसक्तं व्याप्तं पापिभिरन्वहम् । ताडितैर्मम दूतैश्च तदाहारैः सुदारुणैः ॥ 9॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,9,14917,रक्षेति शब्दं कुर्वद्भिस्तत्कीटैरेव भक्षितैः । तप्तमूत्रद्रवैः पूर्णं मूत्रकीटैश्च सङ्कुलम् ॥ 10॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,10,14918,युक्तं महापातकिभिस्तत्कीटैर्भक्षितैः सदा । गव्यूतिमानं ध्वान्ताक्तं शब्दकृद्भिश्च सन्ततम् ॥ 11॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,11,14919,मद्दूतैस्ताडितैर्घोरैः शुष्ककण्ठोष्ठतालुकैः । श्लेष्मपूर्णं प्रशमितं तत्कीटैः पूरितं सदा ॥ 12॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,12,14920,तद्भोजिभिः पापिभिश्च वेष्टितं वेष्टितैः सदा । क्रोशार्धं गरकुण्डं च गरभोजिभिरन्वितम् ॥ 13॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,13,14921,गरकीटैर्भक्षितैश्च पापिभिः पूर्णमेव च । ताडितैर्मम दूतैश्च शब्दकृद्भिश्च कम्पितैः ॥ 14॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,14,14922,सर्पाकारेर्वज्रदंष्ट्रै शुष्ककण्ठैः सुदारुणैः । नेत्रयोर्मलपूर्णं च क्रोशार्धं कीटसंयुतम् ॥ 15॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,15,14923,पापिभिः सङ्कुलं शश्वद्भ्रमद्भिः कीटभक्षितैः । वसारसेन सम्पूर्णं क्रोशतुर्यं सुदुःसहम् ॥ 16॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,16,14924,तद्भोजिभिः पातकिभिर्मम दूतैश्च ताडितैः । शुक्रकुण्डं क्रोशमितं शुक्रकीटैश्च संयुतम् ॥ 17॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,17,14925,पापिभिः सङ्कुलं शश्वद् द्रवद्भिः कीटभक्षितैः । दुर्गन्धिरक्तपूर्णं च वापीमानं गभीरकम् ॥ 18॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,18,14926,तद्भोजिभिः पापिभिश्च सङ्कुलं कीटभक्षितम् । पूर्णं नेत्राश्रुभिस्तप्तं बहुपापिभिरन्वितम् ॥ 19॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,19,14927,वापीतुर्यप्रमाणं च रुदद्भिः कीटभक्षितैः । नृणां गात्रमलैर्युक्तं तद्भक्षैः पापिभिर्युतम् ॥ 20॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,20,14928,ताडितैर्मम दूतैश्च व्यग्रैश्च कीटभक्षितैः । कर्णविट्परिपूर्णं च तद्भक्षैः पापिभिर्वृतम् ॥ 21॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,21,14929,वापीतुर्यप्रमाणं च ब्रुवद्भिः कीटभक्षितैः । मज्जापूर्णं नराणां च महादुर्गन्धिसंयुतम् ॥ 22॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,22,14930,महापातकिभिर्युक्तं वापीतुर्यप्रमाणकम् । परिपूर्णं सिग्धमांसैर्मम दूतैश्च ताडितैः ॥ 23॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,23,14931,पापिभिः सङ्कुलं चैव वापीमानं भयानकम् । कन्याविक्रयिभिश्चैव तद्भक्ष्यैः कीटभक्षितैः ॥ 24॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,24,14932,पाहीति शब्दं कुर्वद्भिस्त्रासितैश्च भयानकैः । वापीतुर्यप्रमाणं च नखादिकचतुष्टयम् ॥ 25॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,25,14933,पापिभिः संयुतं शश्वन्मम दूतैश्च ताडितैः । प्रतप्तताम्रकुण्डं च ताम्रोपर्युल्मुकान्वितम् ॥ 26॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,26,14934,ताम्राणां प्रतिमालक्षैः प्रतप्तैर्व्यापृतं सदा । प्रत्येकं प्रतिमाश्लिष्टैः रुदद्भिः पापिभिर्युतम् ॥ 27॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,27,14935,गव्यूतिमानं विस्तीर्णं मम दूतैश्च ताडितैः । प्रतप्तलोहधारं च ज्ववलदङ्गारसंयुतम् ॥ 28॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,28,14936,लोहानां प्रतिमाश्लिष्टैः रुदद्भिः पापिभिर्युतम् । प्रत्येकं प्रतिमाश्लिष्टैः शश्वत्प्रज्वलितैर्भिया ॥ 29॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,29,14937,रक्ष रक्षेति शब्दं च कुर्वद्भिर्दूतताडितैः । महापातकिभिर्युक्तं द्विगव्यूतिप्रमाणकम् ॥ 30॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,30,14938,भयानकं ध्वान्तयुक्तं लोहकुण्डं प्रकीर्तितम् । चर्मकुण्डं तप्तसुराकुण्डं वाप्यर्धमेव च ॥ 31॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,31,14939,तद्भोजिपापिभिर्व्याप्तं मम दूतैश्च ताडितैः । अतः शाल्मलिकुण्डं च वृक्षकण्टकशोभितम् ॥ 32॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,32,14940,लक्षपौरुषमानं च क्रोशमानं च दुःखदम् । धनुर्मानैः कण्टकैश्च सुतीक्ष्णैः परिवेष्टितम् ॥ 33॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,33,14941,प्रत्येकं विद्धगात्रैश्च महापातकिभिर्युतम् । वृक्षाग्रान्निपतद्भिश्च मम दूतैश्च पातितैः ॥ 34॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,34,14942,जलं देहीति शब्दं च कुर्वद्भिः शुष्कतालुकैः । महाभियातिव्यग्रैश्च दण्डैः सम्भग्नमस्तकैः ॥ 35॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,35,14943,प्रचलद्भिर्यथा तप्ततैलजीविभिरेव च । विषोदैस्तक्षकाणां च पूर्वं च क्रोशमानकम् ॥ 36॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,36,14944,तद्भक्षैः पापिभिर्युक्तं मम दूतैश्च ताडिते । प्रतप्ततैलपूर्णं च कीटादिपरिवर्जितम् ॥ 37॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,37,14945,महापातकिभिर्युक्तं दग्धाङ्गारैश्च वेष्टितम् । काकुशब्दं प्रकुर्वद्भिश्चलद्भिर्दूतपीडितैः ॥ 38॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,38,14946,ध्वान्तयुक्तं क्रोशमानं क्लेशदं च भयानकम् । शूलाकारैः सुतीक्ष्णाग्रैर्लोहशस्त्रैश्च वेष्टितम् ॥ 39॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,39,14947,शस्त्रतल्पस्वरूपञ्च कोशतुर्यप्रमाणकम् । वेष्टितं तत्पातकिभिः कुन्तविद्धैश्च वेष्टितैः ॥ 40॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,40,14948,ताडितैर्मम दूतैश्च शुष्ककण्ठोष्ठतालुकैः । कीटैश्च शङ्कुप्रमितैः सर्पमानैर्भयङ्करैः ॥ 41॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,41,14949,तीक्ष्णदन्तैश्च विकृतैर्व्याप्तं ध्वान्तयुतं सति । महापातकिभिर्युक्तं मम दूतैश्च ताडिते ॥ 42॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,42,14950,द्विगव्यूतिप्रमाणं च पूयकुण्डं प्रचक्षते । तद्भक्ष्यैः प्राणिभिर्युक्तं मम दूतैश्च ताडितैः ॥ 43॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,43,14951,तालवृक्षप्रमाणैश्च सर्पकोटिभिरावृतम् । सर्पवेष्टितगात्रैश्च पापिभिः सर्पभक्षितैः ॥ 44॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,44,14952,सङ्कुलं शब्दकृद्भिश्च मम दूतैश्च ताडितैः । कुण्डत्रयं मशादीनां पूर्णं च मशकादिभिः ॥ 45॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,45,14953,सर्वं कोशार्धमानं च महापातकिभिर्युतम् । हस्तपादादिबद्धैश्च क्षतजौघेन लोहितैः ॥ 46॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,46,14954,हाहेति शब्दं कुर्वद्भिस्ताडितैर्मम पार्षदैः । वज्रवृश्चिकयोः कुण्डं ताभ्यां च परिपूरितम् ॥ 47॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,47,14955,वाप्यर्धं पापिभिर्युक्तं वज्रवृश्चिकदंशितैः । कुण्डत्रयं शरादीनां तैरेव परिपूरितम् ॥ 48॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,48,14956,तैर्विद्धैः पापिभिर्युक्तं वाप्यर्धं रक्तलोहितैः । तप्ततोयोदकैः पूर्णं सध्वान्तं गोलकुण्डकम् ॥ 49॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,49,14957,कीटैः शङ्कुसमानैश्च भक्षितैः पापिभिर्युतम् । वाप्यर्थमानं भीतैश्च पापिभिः कीटभक्षितैः ॥ 50॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,50,14958,रुदद्भिः क्रोशमानैश्च मम दूतैश्च ताडितैः । अतिदुर्गन्धिसंयुक्तं दुःखदं पापिनां सदा ॥ 51॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,51,14959,दारुणैर्विकृताकारैर्भक्षितं पापिभिर्युतम् । वाप्यर्धं परिपूर्णं च जलस्थैर्नक्रकोटिभिः ॥ 52॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,52,14960,विण्मूत्रश्लेष्मभक्षैश्च संयुतं शतकोटिभिः । काकैश्च विकृताकारैर्भक्षितैः पापिभिर्युतम् ॥ 53॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,53,14961,मन्थानकुण्डं बीजकुण्डं ताभ्यां पूर्णं धनुःशतम् । भक्षितैः पापिभिर्युक्तं शब्दकृद्भिश्च सन्ततम् ॥ 54॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,54,14962,धनुःशतं जीवयुक्तं पापिभिः सङ्कुलं सदा । शब्दकृद्भिर्वज्रदंष्ट्रैः सान्द्रध्वान्तमयं परम् ॥ 55॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,55,14963,वापीद्विगुणमानं च तप्तप्रस्तरनिर्मितम् । ज्वलदङ्गारसदृशं चलद्भिः पापिभिर्युतम् ॥ 56॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,56,14964,क्षुरधारोपमैस्तीक्ष्णैः पाषाणैर्निर्मितं परम् । महापातकिभिर्युक्तं लालाकुण्डं च लोहितैः ॥ 57॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,57,14965,क्रोशमात्रं च गम्भीरं मम दूतैश्च ताडितैः । तप्ताञ्जनाचलाकारैः परिपूर्णं धनुःशतम् ॥ 58॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,58,14966,चलद्भिः पापिभिर्युक्तं मम दूतैश्च ताडितैः । पूर्णं चूर्णद्रवैः क्रोशमानं पापिभिरन्वितम् ॥ 59॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,59,14967,तद्भोजिभिः प्रदग्धैश्च मम दूतैश्च ताडितैः । कुण्डं कुलालचक्रं च घूर्णमानञ्च सन्ततम् ॥ 60॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,60,14968,सुतीक्ष्णं षोडशारं च चूर्णितैः पापिभिर्युतम् । अतीव वक्रं निम्नं च द्विगव्यूतिप्रमाणकम् ॥ 61॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,61,14969,कन्दराकारनिर्माणं तप्तोदैश्च समन्वितम् । महापातकिभिर्युक्तं भक्षितैर्जलजन्तुभिः ॥ 62॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,62,14970,ज्वलद्भिः शब्दकृद्भिश्च ध्वान्तयुक्तं भयानकम् । कोटिभिर्विकृताकारैः कच्छपैश्च सुदारुणैः ॥ 63॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,63,14971,जलस्थैः संयुतं तैश्च भक्षितैः पापिभिर्युतम् । ज्वालाकलापैस्तेजोभिर्निर्मितैः क्रोशमानकम् ॥ 64॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,64,14972,शब्दकृद्भिः पातकिभिः संयुतं क्लेशदं सदा । क्रोशमानञ्च गम्भीरं तप्तभस्मभिरन्वितम् ॥ 65॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,65,14973,शश्वज्ज्वलद्भिः संयुक्तं पापिभिर्भस्मभक्षितैः । तप्तपाषाणलोहानां समूहैः परिपूरितैः ॥ 66॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,66,14974,पापिभिर्दग्धगात्रैश्च युक्तञ्च शुष्कतालुकैः । क्रोशमानं ध्वान्तयुक्तं गम्भीरमतिदारुणम् ॥ 67॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,67,14975,ताडितैश्च प्रदग्धैश्च दग्धकुण्डं प्रकीर्तितम् । अतीवोर्मियुतं तोयं प्रतप्तक्षारसंयुतम् ॥ 68॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,68,14976,नानाप्रकारैर्विरुतैर्जलजन्तुभिरन्वितम् । द्विगव्यूतिप्रमाणं च गम्भीरं ध्वान्तसंयुतम् ॥ 69॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,69,14977,तद्भक्ष्यैः पापिभिर्युक्तं दंशितैर्जलजन्तुभिः । ज्वलद्भिः शब्दकृद्भिश्च न पश्यद्भिः परस्परम् ॥ 70॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,70,14978,प्रतप्तसूचीकुण्डञ्च कीर्तितं च भयानकम् । असीव धारापत्रस्याऽप्युच्चैस्तालतरोरधः ॥ 71॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,71,14979,क्रोशार्धमानं कुण्डं च पतत्पत्रसमन्वितम् । पापिनां रक्तपूर्णं च वृक्षाग्रात्पततां ध्रुवं । ७२ परित्राहीति शब्दं च कुर्वतामसतामपि । गम्भीरं ध्वान्तयुक्तं च रक्तकीटसमन्वितम् ॥ 73॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,72,14980,तदसीपत्रकुण्डं च कीर्तितं च भयानकम् । धनुःशतप्रमाणं च क्षुरधारास्त्रसंयुतम् ॥ 74॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,73,14981,पापिनां रक्तपूर्णं च क्षुरधारं भयानकम् । सूचीमुखास्त्रसंयुक्तं पापिरक्तौघपूरतम् ॥ 75॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,74,14982,पञ्चाशद्धनुरायामं क्लेशदं सूचिकामुखम् । कस्यचिज्जन्तुभेदस्य गोकाख्यस्य मुखाकृति ॥ 76॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,75,14983,कूपरूपं गभीरं च धनुर्विंशत्प्रमाणकम् । महापातकिनां चैव महत्क्लेशप्रदं परम् ॥ 77॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,76,14984,तत्कीटभक्षितानां च नम्रास्यानां च सन्ततम् । कुण्डं नक्रमुखाकारं धनुःषोडशमानकम् ॥ 78॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,77,14985,गम्भीरं कूपरूपं च पापिनां सङ्कुलं सदा । धनुःशतप्रमाणं च कीर्तितं गजदंशनम् ॥ 79॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,78,14986,धनुस्त्रिंशत्प्रमाणं च कुण्डं च गोमुखाकृति । पापिनां क्लेशदं शश्वद् गोमुखं परिकीर्तितम् ॥ 80॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,79,14987,कालचक्रेण संयुक्तं भ्रममाणं भयानकम् । कुम्भाकारं ध्वान्तयुक्तं द्विगव्यूतिप्रमाणकम् ॥ 81॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,80,14988,लक्षपौरुषमानं च गम्भीरं विस्मृतं सति । कुत्रचित्तप्ततैलं च ताम्रादिकुण्डमेव च ॥ 82॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,81,14989,पापिनां च प्रधानैश्च मूर्च्छितैः कृमिभिर्युतम् । परस्परं च नश्यद्भिः शब्दकृद्भिश्च सन्ततम् ॥ 83॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,82,14990,ताडितैर्यमदूतैश्च मुसलैर्मुद्गरैस्तथा । घूर्णमानैः पतद्भिश्च मूर्च्छितैश्च क्षणं क्षणम् ॥ 84॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,83,14991,पातितैर्यमदूतैश्च रुदन्त्यस्मात्क्षणं पुनः । यावन्तः पापिनः सन्ति सर्वकुण्डेषु सुन्दरि ॥ 85॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,84,14992,ततश्चतुर्गुणाः सन्ति कुम्भीपाके च दुःखदे । सुचिरं वध्यमानास्ते भोगदेहा न नश्वराः ॥ 86॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,85,14993,सर्वकुण्डप्रधानं च कुम्भीपाकं प्रकीर्तितम् । कालनिर्मितसूत्रेण निबद्धा यत्र पापिनः ॥ 87॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,86,14994,उत्थापिताश्च दूतैश्च क्षणमेव निमज्जिताः । निःश्वासबद्धाः सुचिरं तथा मोहं गताः पुनः ॥ 88॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,87,14995,अतीव क्लेशसंयुक्ता देहभोगेन सुन्दरि । प्रतप्ततोययुक्तं च कालसूत्रं प्रकीर्तितम् ॥ 89॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,88,14996,अवटः कूपभेदश्च मत्स्योदः स उदाहृतः । प्रतप्ततोयपूर्णं च चतुर्विंशत्प्रमाणकम् ॥ 90॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,89,14997,व्याप्तं महापातकिभिर्व्यादग्धाङ्गैश्च सन्ततम् । मद्दूतैस्ताडितैः शश्वदवटोदं प्रकीर्तितम् ॥ 91॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,90,14998,यत्रोदस्पर्शमात्रेण सर्वव्याधिश्च पापिनाम् । भवेदकस्मात्पततां यस्मिन्कुण्डे धनुःशते ॥ 92॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,91,14999,अरुन्तुदैर्भक्षितैस्तु प्राणिभिर्यच्च सङ्कुलम् । हाहेति शब्दं कुर्वद्भिस्तदेवारुन्तुदं विदुः ॥ 93॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,92,15000,तप्तपांसुभिराकीर्णं ज्वलद्भिस्तुषदग्धकैः । तद्भक्षैः पापिभिर्युक्तं पांसुभोजैर्धनुःशतम् ॥ 94॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,93,15001,पातमात्रेण पापी च पाशेन वेष्टितो भवेत् । क्रोशमात्रेण कुण्डं च तत्पाशवेष्टनं विदुः ॥ 95॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,94,15002,पातमात्रेण पापी च शूलेन वेष्टितो भवेत् । धनुर्विंशत्प्रमाणं च शूलप्रोतं प्रकीर्तितम् ॥ 96॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,95,15003,पततां पापिनां यत्र भवेदेव प्रकम्पनम् । अतीव हिमतोयाक्तं क्रोशार्धं च प्रकम्पनम् ॥ 97॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,96,15004,ददत्येव हि मे दूता यत्रोल्काः पापिनां मुखे । धनुर्विंशत्प्रमाणं तदुल्काभिश्च सुसङ्कुलम् ॥ 98॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,97,15005,लक्षपौरुषमानं च गम्भीरं च धनुःशतम् । नानाप्रकारकृमिभिः संयुक्तं च भयानकम् ॥ 99॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,98,15006,अत्यन्धकारव्याप्तं च कूपाकारं च वर्तुलम् । तद्भक्ष्यैः पापिभिर्युक्तं प्रणश्यद्भिः परस्परम् ॥ 100॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,99,15007,तप्ततोयप्रदग्धैश्च ज्वलद्भिः कीटभक्षितैः । ध्वान्तेन चक्षुषा चान्धैरन्धकूपः प्रकीर्तितः ॥ 101॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,100,15008,नानाप्रकारशस्त्रौघैर्यत्र विद्धाश्च पापिनः । धनुर्विंशत्प्रमाणं च वेधनं तत्प्रकीर्तितम् ॥ 102॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,101,15009,दण्डेन ताडिता यत्र मम दूतैश्च पापिनः । धनुःषोडशमानं च तत्कुण्डं दण्डताडनम् ॥ 103॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,102,15010,निरुद्धाश्च महाजालैर्यथा मीनाश्च पापिनः । धनुर्विंशत्प्रमाणं च जालरन्ध्रं प्रकीर्तितम् ॥ 104॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,103,15011,पततां पापिनां कुण्डे देहश्चूर्णो भवेदिह । लोहबन्दीनिबद्धानां कोटिपौरुषमानकम् ॥ 105॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,104,15012,गम्भीरं ध्वान्तसंयुक्तं धनुर्विंशत्प्रमाणकम् । मूर्च्छितानां जडानां च देहचूर्णं प्रकीर्तितम् ॥ 106॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,105,15013,दलिताः पापिनो यत्र मम दूतैश्च ताडिताः । धनुःषोडशमानं च तत्कुण्डं दलनं स्मृतम् ॥ 107॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,106,15014,पतनेनैव पापी च शुष्ककण्ठोष्ठतालुकः । बालुकासु च तप्तासु धनुस्त्रिंशत्प्रमाणकम् ॥ 108॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,107,15015,शतपौरुषमानं च गम्भीरं ध्वान्तसंयुतम् । शोषणं कुण्डमेतद्धि पापिनां परदुःखदम् ॥ 109॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,108,15016,नानाचर्मकषायोदपरिपूर्णं धनुःशतम् । दुर्गन्धियुक्ततद्भक्ष्यैः प्राणिभिः सङ्कुलं कषम् ॥ 110॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,109,15017,शूर्पाकारमुखं कुण्डं धनुर्द्वादशमानकम् । तप्तलोहबालुकाभिः पूर्णं पातकिसंयुतम् ॥ 111॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,110,15018,दुर्गन्धियुक्तं तद्भक्ष्यैः पापिभिः सङ्कुलं सति । शूर्पाकारमुखं कुण्डं धनुर्द्वादशमात्रकम् ॥ 112॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,111,15019,प्रतप्तबालुकापूर्णं महापातकिभिर्युतम् । अन्तरग्निशिखानां च ज्वालाव्याप्तमुखं सदा ॥ 113॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,112,15020,धनुर्विंशतिमात्रं च प्रमाणं यस्य सुन्दरि । ज्वालाभिर्दग्धगात्रैश्च पापिभिर्व्याप्तमेव च ॥ 114॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,113,15021,तन्महाक्लेशदं शश्वत्कुण्डं ज्वालामुखं स्मृतम् । पातमात्राद्यत्र पापी मूर्च्छितो वै नरो भवेत् ॥ 115॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,114,15022,तप्तेष्टकाभ्यन्तरितं वाप्यर्धं जिह्मकुण्डकम् । धूमान्धकारसंयुक्तं धूम्रान्धैः पापिभिर्युतम् ॥ 116॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,115,15023,धनुःशतं श्वासरन्ध्रैर्धूम्रान्धं परिकीर्तितम् । पातमात्राद्यत्र पापी नागैश्च वेष्टितो भवेत् ॥ 117॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,116,15024,धनुःशतं नागपूर्णं तन्नागैर्वेष्टितं भवेत् । षडशीति च कुण्डानि मयोक्तानि निशामय । लक्षणं चापि तेषां च किं भूयः श्रोतुमिच्छसि ॥ 118॥ 9,९.३७,सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।,117,15025,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे नानानरककुण्डवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ९.३७॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,0,15026,सावित्र्युवाच । देवीभक्तिं देहि मह्यं साराणां चैव सारकम् । पुंसां मुक्तिद्वारबीजं नरकार्णवतारकम् ॥ 1॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,1,15027,कारणं मुक्तिसाराणां सर्वाशुभविनाशनम् । दारकं कर्मवृक्षाणां कृतपापौघहारणम् ॥ 2॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,2,15028,मुक्तिश्च कतिथाप्यस्ति किं वा तासां च लक्षणम् । देवीभक्तिं भक्तिभेदं निषेकस्यापि खण्डनम् ॥ 3॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,3,15029,तत्त्वज्ञानविहीना च स्त्रीजातिर्विधिनिर्मिता । किञ्चिंज्ञानं सारभूतं वद वेदविदां वर ॥ 4॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,4,15030,सर्वं दानं च यज्ञश्च तीर्थस्नानं व्रतं तपः । अज्ञानिज्ञानदानस्य कलां नार्हन्ति षोडशीम् ॥ 5॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,5,15031,पितुः शतगुणा माता गौरवे चेति निश्चितम् । मातुः शतगुणः पूज्यो ज्ञानदाता गुरुः प्रभो ॥ 6॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,6,15032,धर्मराज उवाच । पूर्वं सर्वो वरो दत्तो यस्ते मनसि वाञ्छितः । अधुना शक्तिभक्तिस्ते वत्से भवतु मद्वरात् ॥ 7॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,7,15033,श्रोतुमिच्छसि कल्याणि श्रीदेवीगुणकीर्तनम् । वक्तॄणां पृच्छकानां च श्रोतॄणां कुलतारणम् ॥ 8॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,8,15034,शेषो वक्त्रसहस्रेण नहि यद्वक्तुमीश्वरः । मृत्युञ्जयो न क्षमश्च वक्तुं पञ्चमुखेन च ॥ 9॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,9,15035,धाता चतुर्णां वेदानां विधाता जगतामपि । ब्रह्मा चतुर्मुखेनैव नालं विष्णुश्च सर्ववित् ॥ 10॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,10,15036,कार्तिकेयः षण्मुखेन नापि वक्तुमलं ध्रुवम् । न गणेशः समर्थश्च योगीन्द्राणां गुरोर्गुरुः ॥ 11॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,11,15037,सारभूताश्च शास्त्राणां वेदाश्चत्वार एव च । कलामात्रं यद्गुणानां न विदन्ति बुधाश्च ये ॥ 12॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,12,15038,सरस्वती जडीभूता नालं तद्गुणवर्णने । सनत्कुमारो धर्मश्च सनन्दनः सनातनः ॥ 13॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,13,15039,सनकः कपिलः सूर्यो येऽन्ये च ब्रह्मणः सुताः । विचक्षणा न यद्वक्तुं किञ्चान्ये जडबुद्धयः ॥ 14॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,14,15040,न यद्वक्तुं क्षमाः सिद्धा मुनीन्द्रा योगिनस्तथा । के चान्ये च वयं के वा श्रीदेव्या गुणवर्णने ॥ 15॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,15,15041,ध्यायन्ते यत्पदाम्भोजं ब्रह्मविष्णुशिवादयः । अतिसाध्यं स्वभक्तानां तदन्येषां सुदुर्लभम् ॥ 16॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,16,15042,कश्चित्किञ्चिद्विजानाति तद्गुणोत्कीर्तनं शुभम् । अतिरिक्तं विजानाति ब्रह्मा ब्रह्मविशारदः ॥ 17॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,17,15043,ततोऽतिरिक्तं जानाति गणेशो ज्ञानिनां गुरुः । सर्वातिरिक्तं जानाति सर्वज्ञः शम्भुरेव सः ॥ 18॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,18,15044,तस्मै दत्तं पुरा ज्ञानं कृष्णेन परमात्मना । अतीव निर्जनेऽरण्ये गोलोके रासमण्डले ॥ 19॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,19,15045,तत्रैव कथितं किञ्चित्तद्गुणोत्कीर्तनं शुभम् । धर्मं च कथयामास शिवलोके शिवः स्वयम् ॥ 20॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,20,15046,धर्मस्तु कथयामास भास्वते पृच्छते तथा । यामाराध्य मत्पितापि सम्प्राप तपसा सति ॥ 21॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,21,15047,पूर्वं स्वं विषयं चाहं न गृह्णामि प्रयत्नतः । वैराग्ययुक्तस्तपसे गन्तुमिच्छामि सुव्रते ॥ 22॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,22,15048,तदा मां कथयामास पिता तद्गुणकीर्तनम् । यथागमं तद्वदामि निबोधातीव दुर्गमम् ॥ 23॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,23,15049,तद्गुणं सा न जानाति तदन्यस्य च का कथा । यथाकाशो न जानाति स्वान्तमेव वरानने ॥ 24॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,24,15050,सर्वात्मा सर्वभगवान् सर्वकारणकारणः । सर्वेश्वरश्च सर्वाद्यः सर्ववित्परिपालकः । २५ नित्यरूपी नित्यदेही नित्यानन्दो निराकृतिः । निरङ्कुशो निराशङ्को निर्गुणश्च निरामयः ॥ 26॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,25,15051,निर्लिप्तः सर्वसाक्षी च सर्वाधारः परात्परः । मायाविशिष्टः प्रकृतिस्तद्विकाराश्च प्राकृताः ॥ 27॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,26,15052,स्वयं पुमांश्च प्रकृतिस्तावभिन्नौ परस्परम् । यथा वह्नेस्तस्य शक्तिर्न भिन्नास्त्येव कुत्रचित् ॥ 28॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,27,15053,सेयं शक्तिर्महामाया सच्चिदानन्दरूपिणी । रूपं बिभर्त्यरूपा च भक्तानुग्रहहेतवे ॥ 29॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,28,15054,गोपालसुन्दरीरूपं प्रथमं सा ससर्ज ह । अतीव कमनीयं च सुन्दरं सुमनोहरम् ॥ 30॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,29,15055,नवीननीरदश्यामं किशोरं गोपवेषकम् । कन्दर्पकोटिलावण्यं लीलाधाममनोहरम् ॥ 31॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,30,15056,शरन्मध्याह्नपद्मानां शोभामोचनलोचनम् । शरत्पार्वणकोटीन्दुशोभाप्रच्छादनाननम् ॥ 32॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,31,15057,अमूल्यरत्ननिर्माणनानाभूषणभूषितम् । सस्मितं शोभितं शश्वदमूल्यपीतवाससा ॥ 33॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,32,15058,परब्रह्मस्वरूपं च ज्वलन्तं ब्रह्मतेजसा । सुखदृश्यं च शान्तं च राधाकान्तमनन्तकम् ॥ 34॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,33,15059,गोपीभिर्वीक्ष्यमाणं च सस्मिताभिश्च सन्ततम् । रासमण्डलमध्यस्थं रत्नसिंहासनस्थितम् ॥ 35॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,34,15060,वंशीं क्वणन्तं द्विभुजं वनमालाविभूषितम् । कौस्तुभेन्द्रमणीन्द्रेण शश्वद्वक्षःस्थलोज्ज्वलम् ॥ 36॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,35,15061,कुङ्कुमागुरुकस्तुरीचन्दनार्चितविग्रहम् । चारुचम्पकमालाक्तं मालतीमाल्यमण्डितम् ॥ 37॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,36,15062,चारुचन्द्रकशोभाढ्यं चूडावङ्क्रिमराजितम् । एवम्भूतं च ध्यायन्ति भक्ता भक्तिपरिप्लुताः ॥ 38॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,37,15063,यद्भयाज्जगता धाता विधत्ते सृष्टिमेव च । कर्मानुसाराल्लिखितं करोति सर्वकर्मणाम् ॥ 39॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,38,15064,तपसां फलदाता च कर्मणां च यदाज्ञया । विष्णुः पाता च सर्वेषां यद्भयात्पाति सन्ततम् ॥ 40॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,39,15065,कालाग्निरुद्रः संहर्ता सर्वविश्वेषु यद्भयात् । शिवो मृत्युञ्जयश्चैव ज्ञानिनां च गुरोर्गुरुः ॥ 41॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,40,15066,यज्ज्ञानाज्ज्ञानवानस्ति योगीशो ज्ञानवित्प्रभुः । परमानन्दयुक्तश्च भक्तिवैराग्यसंयुतः ॥ 42॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,41,15067,यद्भयाद्वाति पवनः प्रवरः शीघ्रगामिनाम् । तपनश्च प्रतपति यद्भयात्सन्ततं सति ॥ 43॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,42,15068,यदाज्ञया वर्षतीन्द्रो मृत्युश्चरति जन्तुषु । यदाज्ञया दहेद्वह्निर्जलमेवं सुशीतलम् ॥ 44॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,43,15069,दिशो रक्षन्ति दिक्पाला महाभीता यदाज्ञया । भ्रमन्ति राशिचक्राणि ग्रहाश्च यद्भयेन च ॥ 45॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,44,15070,भयात्फलन्ति वृक्षाश्च पुष्यन्त्यपि च यद्भयात् । यदाज्ञां तु पुरस्कृत्य कालः काले हरेद्भयात् ॥ 46॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,45,15071,तथा जलस्थलस्थाश्च न जीवन्ति यदाज्ञया । अकाले नाहरेद्विद्धं रणेषु विषमेषु च ॥ 47॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,46,15072,धत्ते वायुस्तोयराशिं तोयं कूर्मं तदाज्ञया । कूर्मोऽनन्तं स च क्षोणीं समुद्रान् सा च पर्वतान् ॥ 48॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,47,15073,सर्वा चैव क्षमारूपा नानारत्नं बिभर्ति या । यतः सर्वाणि भूतानि स्थीयन्ते हन्ति तत्र हि ॥ 49॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,48,15074,इन्द्रायुश्चैव दिव्यानां युगानामेकसप्ततिः । अष्टाविंशे शक्रपाते ब्रह्मणश्च दिवानिशम् ॥ 50॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,49,15075,एवं त्रिंशद्दिनैर्मासो द्वाभ्यामाभ्यामृतुः स्मृतः । ऋतुभिः षड्भिरेवाब्दं ब्रह्मणो वै वयः स्मृतम् ॥ 51॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,50,15076,ब्रह्मणश्च निपाते च चक्षुरुन्मीलनं हरेः । चक्षुरुन्मीलने तस्य लयं प्राकृतिकं विदुः ॥ 52॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,51,15077,प्रलये प्राकृते सर्वे देवाद्याश्च चराचराः । लीना धाता विधाता च श्रीकृष्णनाभिपङ्कजे ॥ 53॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,52,15078,विष्णुः क्षीरोदशायी च वैकुण्ठे यश्चतुर्भुजः । विलीना वामपार्श्वे च कृष्णस्य परमात्मनः ॥ 54॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,53,15079,यस्य ज्ञाने शिवो लीनो ज्ञानाधीशः सनातनः । दुर्गायां विष्णुमायायां विलीनाः सर्वशक्तयः ॥ 55॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,54,15080,सा च कृष्णस्य बुद्धौ च बुद्ध्यधिष्ठातृदेवता । नारायणांशः स्कन्दश्च लीनो वक्षसि तस्य च ॥ 56॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,55,15081,श्रीकृष्णांशश्च तद्बाहौ देवाधीशो गणेश्वरः । पद्मांशाश्चैव पद्मायां सा राधायां च सुव्रते ॥ 57॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,56,15082,गोप्यश्चापि च तस्यां च सर्वाश्च देवयोषितः । कृष्णप्राणाधिदेवी सा तस्य प्राणेषु संस्थिता ॥ 58॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,57,15083,सावित्री च सरस्वत्यां वेदाः शास्त्राणि यानि च । स्थिता वाणी च जिह्वायां यस्य च परमात्मनः ॥ 59॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,58,15084,गोलोकस्य च गोपाश्च विलीनास्तस्य लोमसु । तत्प्राणेषु च सर्वेषां प्राणा वाता हुताशनाः ॥ 60॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,59,15085,जठराग्नौ विलीनाश्च जलं तद्रसनाग्रतः । वैष्णवाश्चरणाम्भोजे परमानन्दसंयुताः ॥ 61॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,60,15086,सारात्सारतरा भक्तिरसपीयूषपायिनः । विराडंशाश्च महति लीनाः कृष्णे महाविराट् ॥ 62॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,61,15087,यस्यैव लोमकूपेषु विश्वानि निखिलानि च । यस्य चक्षुष उन्मेषे प्राकृतः प्रलयो भवेत् ॥ 63॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,62,15088,चक्षुरुन्मीलने सृष्टिर्यस्यैव पुनरेव सः । यावत्कालो निमेषेण तावदुन्मीलनेन च ॥ 64॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,63,15089,ब्रह्मणश्च शताब्दे च सृष्टेः सूत्रलयः पुनः । ब्रह्मसृष्टिलयानां च सङ्ख्या नास्त्येव सुव्रते ॥ 65॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,64,15090,यथा भूरजसां चैव सङ्ख्यानं नैव विद्यते । चक्षुर्निमेषे प्रलयो यस्य सर्वान्तरात्मनः ॥ 66॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,65,15091,उन्मीलने पुनः सृष्टिर्भवेदेवेश्वरेच्छया । स कृष्णः प्रलये तस्यां प्रकृतौ लीन एव हि ॥ 67॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,66,15092,एकैव च परा शक्तिर्निर्गुणः परमः पुमान् । सदेवेदमग्र आसीदिति वेदविदो विदुः ॥ 68॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,67,15093,मूलप्रकृतिरव्यक्ताप्यव्याकृतपदाभिधा । चिदभिन्नत्वमापन्ना प्रलये सैव तिष्ठति ॥ 69॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,68,15094,तद्गुणोत्कीर्तनं वक्तुं ब्रह्माण्डेषु च कः क्षमः । मुक्तयश्च चतुर्वेदैर्निरुक्ताश्च चतुर्विधाः ॥ 70॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,69,15095,तत्प्रधाना देवभक्तिर्मुक्तेरपि गरीयसी । सालोक्यदा भवेदेका तथा सारूप्यदा परा ॥ 71॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,70,15096,सामीप्यदाथ निर्वाणप्रदा मुक्तिश्चतुर्विधा । भक्तास्ता न हि वाञ्छन्ति विना तत्सेवनं विभोः ॥ 72॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,71,15097,शिवत्वममरत्वं च ब्रह्मत्वं चावहेलया । जन्ममृत्युजराव्याधिभयशोकादिकं धनम् ॥ 73॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,72,15098,दिव्यरूपधारणं च निर्वाणं मोक्षणं विदुः । मुक्तिश्च सेवारहिता भक्तिः सेवाविवर्धिनी ॥ 74॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,73,15099,भक्तिमुक्त्योरयं भेदो निषेकखण्डनं श‍ृणु । विदुर्बुधा निषेकं च भोगं च कृतकर्मणाम् ॥ 75॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,74,15100,तत्खण्डनं च शुभदं श्रीविभोः सेवनं परम् । तत्त्वज्ञानमिदं साध्वि स्थिरं च लोकवेदयोः ॥ 76॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,75,15101,निर्विघ्नं शुभदं चोक्तं गच्छ वत्से यथासुखम् । इत्युक्त्वा सूर्यपुत्रश्च जीवयित्वा च तत्पतिम् ॥ 77॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,76,15102,तस्यै शुभाशिषं दत्त्वा गमनं कर्तुमुद्यतः । दृष्ट्वा यमं च गच्छन्तं सा सावित्री प्रणम्य च ॥ 78॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,77,15103,रुरोद चरणौ धृत्वा साधुच्छेदेन दुःखिता । सावित्रीरोदनं श्रुत्वा यमश्चैव कृपानिधिः ॥ 79॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,78,15104,तामित्युवाच सन्तुष्टः स्वयं चैव रुरोद ह । धर्मराज उवाव लक्षवर्षं सुखं भुक्त्वा पुण्यक्षेत्रे च भारते ॥ 80॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,79,15105,अन्ते यास्यसि तल्लोकं यत्र देवी विराजते । गत्वा च स्वगृहं भद्रे सावित्र्याश्च व्रतं कुरु ॥ 81॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,80,15106,द्विसप्तवर्षपर्यन्तं नारीणां मोक्षकारणम् । ज्येष्ठशुक्लचतुर्दश्यां सावित्र्याश्च व्रतं शुभम् ॥ 82॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,81,15107,शुक्लाष्टम्यां भाद्रपदे महालक्ष्या यथा व्रतम् । द्व्यष्टवर्षं व्रतं चैव प्रत्यादेयं शुचिस्मिते ॥ 83॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,82,15108,करोति भक्त्या या नारी सा याति च विभोः पदम् । प्रतिमङ्गलवारे च देवीं मङ्गलदायिनीम् ॥ 84॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,83,15109,प्रतिमासं शुक्लषष्ठ्यां षष्ठीं मङ्गलदायिनीम् । तथा चाषाढसङ्क्रान्त्यां मनसां सर्वसिद्धिदाम् ॥ 85॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,84,15110,राधां रासे च कार्तिक्यां कृष्णप्राणाधिकप्रियाम् । उपोष्य शुक्लाष्टम्यां च प्रतिमासं वरप्रदाम् ॥ 86॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,85,15111,विष्णुमायां भगवतीं दुर्गां दुर्गतिनाशिनीम् । प्रकृतिं जगदम्बां च पतिपुत्रवतीषु च ॥ 87॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,86,15112,पतिव्रतासु शुद्धासु यन्त्रेषु प्रतिमासु च । या नारी पूजयेद्भक्त्या धनसन्तानहेतवे ॥ 88॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,87,15113,इहलोके सुखं भुक्त्वा यात्यन्ते श्रीविभोः पदम् । एवं देव्या विभूतीश्च पूजयेत्साधकोऽनिशम् ॥ 89॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,88,15114,सर्वकालं सर्वरूपा संसेव्या परमेश्वरी । नातः परतरं किञ्चित्कृतकृत्यत्वदायकम् ॥ 90॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,89,15115,इत्युक्त्वा तां धर्मराजो जगाम निजमन्दिरम् । गृहीत्वा स्वामिनं सा च सावित्री च निजालयम् ॥ 91॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,90,15116,सावित्री सत्यवांश्चैव प्रययौ च यथागमम् । अन्यांश्च कथयामास स्ववृत्तान्तं हि नारद ॥ 92॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,91,15117,सावित्रीजनकः पुत्रान् सम्प्राप्तः प्रक्रमेण च । श्वशुरश्चक्षुषी राज्यं सा च पुत्रान् वरेण च ॥ 93॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,92,15118,लक्षवर्षं सुखं भुक्त्वा पुण्यक्षेत्रे च भारते । जगाम स्वामिना सार्धं देवीलोकं पतिव्रता ॥ 94॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,93,15119,सवितुश्चाधिदेवी या मन्त्राधिष्ठातृदेवता । सावित्री ह्यपि वेदानां सावित्री तेन कीर्तिता ॥ 95॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,94,15120,इत्येवं कथितं वत्स सावित्र्याख्यानमुत्तमम् । जीवकर्मविपाकं च किं पुनः श्रोतुमिच्छसि ॥ 96॥ 9,९.३८,अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।,95,15121,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे सावित्र्युपाख्यानवर्णनं नामाष्टत्रिलोऽध्यायः ॥ ९.३८॥ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,0,15122,नारद उवाच । श्रीमूलप्रकृतेर्देव्या गायत्र्यास्तु निराकृतेः । सावित्रीयमसंवादे श्रुतं वै निर्मलं यशः ॥ 1॥ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,1,15123,तद्गुणोत्कीर्तनं सत्यं मङ्गलानां च मङ्गलम् । अधुना श्रोतुमिच्छामि लक्ष्म्युपाख्यानमीश्वर ॥ 2॥ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,2,15124,केनादौ पूजिता सापि किम्भूता केन वा पुरा । तद्गुणोत्कीर्तनं मह्यं वद वेदविदांवर ॥ 3॥ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,3,15125,श्रीनारायण उवाच । सृष्टेरादौ पुरा ब्रह्मन् कृष्णस्य परमात्मनः । देवी वामांससम्भूता बभूव रासमण्डले ॥ 4॥ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,4,15126,अतीव सुन्दरी श्यामा न्यग्रोधपरिमण्डिता । यथा द्वादशवर्षीया शश्वत्सुस्थिरयौवना ॥ 5॥ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,5,15127,श्वेतचम्पकवर्णाभा सुखदृश्या मनोहरा । शरत्पार्वणकोटीन्दुप्रभाप्रच्छादनानना ॥ 6॥ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,6,15128,शरन्मध्याह्नपद्मानां शोभामोचनलोचना । सा देवी द्विविधा भूता सह सर्वेश्वरेच्छया ॥ 7॥ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,7,15129,स्वीयरूपेण वर्णेन तेजसा वयसा त्विषा । यशसा वाससा कृत्या भूषणेन गुणेन च ॥ 8॥ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,8,15130,स्मितेन वीक्षणेनैव प्रेम्णा वानुनयेन च । तद्वामांसान्महालक्ष्मीर्दक्षिणासाञ्च्च राधिका ॥ 9॥ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,9,15131,राधाऽऽदौ वरयामास द्विभुजञ्च परात्परम् । महालक्ष्मीश्च तत्पश्चाच्चकमे कमनीयकम् ॥ 10॥ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,10,15132,कृष्णस्तद्गौरवेणैव द्विधारूपो बभूव ह । दक्षिणांसश्च द्विभुजो वामांसश्च चतुर्भुजः ॥ 11॥ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,11,15133,चतुर्भुजाय द्विभुजो महालक्ष्मीं ददौ पुरा । लक्ष्यते दृश्यते विश्वं स्निग्धदृष्ट्या ययानिशम् ॥ 12॥ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,12,15134,देवीभूता च महती महालक्ष्मीश्च सा स्मृता । राधाकान्तश्च द्विभुजो लक्ष्मीकान्तश्चतुर्भुजः ॥ 13॥ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,13,15135,शुद्धसत्त्वस्वरूपा च गोपैर्गोपीभिरावृता । चतुर्भुजश्च वैकुण्ठं प्रययौ पद्मया सह ॥ 14॥ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,14,15136,सर्वांशेन समौ तौ द्वौ कृष्णनारायणौ परौ । महालक्ष्मीश्च योगेन नानारूपा बभूव सा ॥ 15॥ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,15,15137,वैकुण्ठे च महालक्ष्मीः परिपूर्णतमा रमा । शुद्धसत्त्वस्वरूपा च सर्वसौभाग्यसंयुता ॥ 16॥ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,16,15138,प्रेम्णा सा च प्रधाना च सर्वासु रमणीषु च । स्वर्गेषु स्वर्गलक्ष्मीश्च शक्रसम्पत्स्वरूपिणी ॥ 17॥ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,17,15139,पाताले नागलक्ष्मीश्च राजलक्ष्मीश्च राजसु । गृहलक्ष्मीर्गृहेष्वेव गृहिणां च कलांशतः ॥ 18॥ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,18,15140,सम्पत्स्वरूपा गृहिणां सर्वमङ्गलमङ्गला । गवां प्रसूतिः सुरभिर्दक्षिणा यज्ञकामिनी ॥ 19॥ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,19,15141,क्षीरोदसिन्धुकन्या सा श्रीरूपा पद्मिनीषु च । शोभास्वरूपा चन्द्रे च सूर्यमण्डलमण्डिता ॥ 20॥ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,20,15142,विभूषणेषु रत्नेषु फलेषु च जलेषु च । नृपेषु नृपपत्नीषु दिव्यस्त्रीषु गृहेषु च ॥ 21॥ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,21,15143,सर्वसस्येषु वस्त्रेषु स्थानेषु संस्कृतेषु च । प्रतिमासु च देवानां मङ्गलेषु घटेषु च ॥ 22॥ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,22,15144,माणिक्येषु च मुक्तासु माल्येषु च मनोहरा । मणीन्द्रेषु च हीरेषु क्षीरेषु चन्दनेषु च ॥ 23॥ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,23,15145,वृक्षशाखासु रम्यासु नवमेघेषु वस्तुषु । वैकुण्ठे पूजिता साऽऽदौ देवी नारायणेन च ॥ 24॥ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,24,15146,द्वितीये ब्रह्मणा भक्त्या तृतीये शङ्करेण च । विष्णुना पूजिता सा च क्षीरोदे भारते मुने ॥ 25॥ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,25,15147,स्वायम्भुवेन मनुना मानवेन्द्रेश्च सर्वतः । ऋषीन्द्रैश्च मुनीन्द्रैश्च सद्भिश्च गृहिभिर्भवे ॥ 26॥ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,26,15148,गन्धर्वैश्चैव नागाद्यैः पातालेषु च पूजिता । शुक्लाष्टम्यां भाद्रपदे कृता पूजा च ब्रह्मणा ॥ 27॥ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,27,15149,भक्त्या च पक्षपर्यन्तं त्रिषु लोकेषु नारद । चैत्रे पौषे च भाद्रे च पुण्ये मङ्गलवासरे ॥ 28॥ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,28,15150,विष्णुना पूजिता सा च त्रिषु लोकेषु भक्तितः । वर्षान्ते पौषसङ्क्रान्त्यां माध्यामावाह्य मङ्गले ॥ 29॥ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,29,15151,मनुस्तां पूजयामास सा भूता भुवनत्रये । पूजिता सा महेन्द्रेण मङ्गलेनैव मङ्गला ॥ 30॥ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,30,15152,केदारेणैव नीलेन सुबलेन नलेन च । ध्रुवेणोत्तानपादेन शक्रेण बलिना तथा ॥ 31॥ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,31,15153,कश्यपेन च दक्षेण कर्दमेन विवस्वता । प्रियव्रतेन चन्द्रेण कुबेरेणैव वायुना ॥ 32॥ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,32,15154,यमेन वह्निना चैव वरुणेनैव पूजिता । एवं सर्वत्र सर्वेषु पूजिता वन्दिता सदा । सर्वेश्वर्याधिदेवी सा सर्वसम्पत्स्वरूपिणी ॥ 33॥ 9,९.३९,एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।,33,15155,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे लक्ष्म्युपाख्यानवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ ९.३९॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,0,15156,नारद उवाच । नारायणप्रिया सा च परा वैकुण्ठवासिनी । वैकुण्ठाधिष्ठातृदेवी महालक्ष्मीः सनातनी ॥ 1॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,1,15157,कथं बभूव सा देवी पृथिव्यां सिन्धुकन्यका । पुरा केन स्तुताऽऽदौ सा तन्मे व्याख्यातुमर्हसि ॥ 2॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,2,15158,श्रीनारायण उवाच । पुरा दुर्वाससः शापाद् भ्रष्टश्रीश्च पुरन्दरः । बभूव देवसङ्घश्च मर्त्यलोके हि नारद ॥ 3॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,3,15159,लक्ष्मीः स्वर्गादिकं त्यक्त्वा रुष्टा परमदुःखिता । गत्वा लीना तु वैकुण्ठे महालक्ष्मीश्च नारद ॥ 4॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,4,15160,तदा शोकाद्ययुः सर्वे दुःखिता ब्रह्मणः सभाम् । ब्रह्माणं च पुरस्कृत्य ययुर्वैकुण्ठमेव च ॥ 5॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,5,15161,वैकुण्ठे शरणापन्ना देवा नारायणे परे । अतीव दैन्ययुक्ताश्च शुष्ककण्ठोष्ठतालुकाः ॥ 6॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,6,15162,तदा लक्ष्मीश्च कलया पुराणपुरुषाज्ञया । बभूव सिन्धुकन्या सा सर्वसम्पत्स्वरूपिणी ॥ 7॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,7,15163,तथा मथित्वा क्षीरोदं देवा दैत्यगणैः सह । सम्प्राप्ताश्च महालक्ष्मीं विष्णुस्तां च ददर्श ह ॥ 8॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,8,15164,सुरादिभ्यो वरं दत्त्वा वनमालां च विष्णवे । ददौ प्रसन्नवदना तुष्टा क्षीरोदशायिने ॥ 9॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,9,15165,देवाश्चाप्यसुरग्रस्तं राज्यं प्रापुश्च नारद । तां सम्पूज्य च सम्भूय सर्वत्र च निरापदः ॥ 10॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,10,15166,नारद उवाच । कथं शशाप दुर्वासा मुनिश्रेष्ठः कदाचन । केन दोषेण वा ब्रह्मन् ब्रह्मिष्ठस्तत्त्ववित्पुरा ॥ 11॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,11,15167,ममन्थुः केनरूपेण जलधिं ते सुरादयः । केन स्तोत्रेण वा देवी शक्रं साक्षाद्बभूव सा ॥ 12॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,12,15168,को वा तयोश्च संवादो बभूव तद्वद प्रभो । श्रीनारायण उवाच । मधुपानप्रमत्तश्च त्रैलोक्याधिपतिः पुरा ॥ 13॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,13,15169,क्रीडां चकार रहसि रम्भया सह कामुकः । कृत्वा क्रीडां तया सार्धं कामुक्या हृतमानसः ॥ 14॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,14,15170,तस्थौ तत्र महारण्ये कामोन्मथितमानसः । कैलासशिखरे यान्तं वैकुण्ठादृषिसत्तमम् ॥ 15॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,15,15171,दुर्वाससं ददर्शेन्द्रो ज्वलन्तं ब्रह्मतेजसा । ग्रीष्ममध्याह्नमार्तण्डसहस्रप्रभमीश्वरम् ॥ 16॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,16,15172,प्रतप्तकाञ्चनाकारं जटाभारमहोज्ज्वलम् । शुक्लयज्ञोपवीतं च चीरदण्डौ कमण्डलुम् ॥ 17॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,17,15173,महोज्ज्वलं च तिलकं बिभ्रन्तं चेन्दुसन्निभम् । समन्वितं शिष्यलक्षैर्वेदवेदाङ्गपारगैः ॥ 18॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,18,15174,दृष्ट्वा ननाम शिरसा सम्प्रमत्तः पुरन्दरः । शिष्यवर्गं तदा भक्त्या तुष्टाव च मुदान्वितम् ॥ 19॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,19,15175,मुनिना च सशिष्येण दत्तास्तस्मै शुभाशिषः । विष्णुदत्तं पारिजातपुष्पं च सुमनोहरम् ॥ 20॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,20,15176,तज्जरारोगमृत्युघ्नं शोकजं मोक्षकारकम् । शक्रः पुष्पं गहीत्वा च प्रमत्तो राज्यसम्पदा ॥ 21॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,21,15177,पुष्पं स न्यस्तयामास तदैव करिमस्तके । हस्ती तत्स्पर्शमात्रेण रूपेण च गुणेन च ॥ 22॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,22,15178,तेजसा वयसाकस्माद्विष्णुतुल्यो बभूव ह । त्यक्त्वा शक्रं गजेन्द्रश्च जगाम घोरकाननम् ॥ 23॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,23,15179,न शशाक महेन्द्रस्तं रक्षितुं तेजसा मुने । तत्पुण्यं त्यक्तवन्तं च दृष्ट्वा शक्रं मुनीश्वरः ॥ 24॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,24,15180,तमुवाच महारुष्टः शशाप च रुषान्वितः । मुनिरुवाच । अरे श्रिया प्रमत्तस्त्वं कथं मामवमन्यसे ॥ 25॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,25,15181,मद्दत्तपुष्पं दत्तं च गर्वेण करिमस्तके । विष्णोर्निवेदितं चैव नैवेद्यं वा फलं जलम् ॥ 26॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,26,15182,प्राप्तिमात्रेण भोक्तव्यं त्यागेन ब्रह्महा भवेत् । भ्रष्टश्रीर्भ्रष्टबुद्धिश्च पुरभ्रष्टो भवेत्तु सः ॥ 27॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,27,15183,यस्त्यजेद्विष्णुनैवेद्यं भाग्येनोपस्थितं शुभम् । प्राप्तिमात्रेण यो भुङ्क्ते भक्तो विष्णुनिवेदितम् ॥ 28॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,28,15184,पुंसां शतं समुद्धृत्य जीवन्मुक्तः स्वयं भवेत् । नैवेद्यं भोजनं कृत्वा नित्यं यः प्रणमेद्धरिम् ॥ 29॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,29,15185,पूजयेत्स्तौति वा भक्त्या स विष्णुसदृशो भवेत् । तत्स्पर्शवायुना सद्यस्तीर्थौघश्च विशुध्यति ॥ 30॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,30,15186,तत्पादरजसा मूढ सद्यः पूता वसुन्धरा । पुंश्चल्यन्नमवीरान्नं शूद्रश्राद्धान्तमेव च ॥ 31॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,31,15187,यद्धरेरनिवेद्यं च वृथा मांसस्य भक्षणम् । शिवलिङ्गप्रदानं च यद्दत्तं शूद्रयाजिना ॥ 32॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,32,15188,चिकित्सकद्विजान्नं च देवलान्नं तथैव च । कन्याविक्रयिणामन्नं यदन्नं योनिजीविनाम् ॥ 33॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,33,15189,उच्छिष्टान्नं पर्युषितं सर्वभक्षावशेषितम् । शूद्रापतिद्विजानां च भूषवाहद्विजान्नकम् ॥ 34॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,34,15190,अदीक्षितद्विजानां च यदन्नं शवदाहिनाम् । अगम्यागामिनां चैव द्विजानामन्नमेव च ॥ 35॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,35,15191,मित्रद्रुहां कृतज्जानामन्नं विश्वासघातिनाम् । मिथ्यासाक्ष्यप्रदान्नं च ब्राह्मणान्नं तथैव च ॥ 36॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,36,15192,एते सर्वे विशुध्यन्ति विष्णोनैवेद्यभक्षणात् । श्वपचश्चेद्विष्णुसेवी वंशानां कोटिमुद्धरेत् ॥ 37॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,37,15193,हरेरभक्तो मनुजः स्वं च रक्षितुमक्षमः । अज्ञानाद्यदि गृह्णाति विष्णोर्निर्माल्यमेव च ॥ 38॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,38,15194,सप्तजन्मार्जितात्पापान्मुच्यते नात्र संशयः । ज्ञात्वा भक्त्या च गृह्णाति विष्णोनैवेद्यमेव च ॥ 39॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,39,15195,कोटिजन्मार्जितात्पापान्मुच्यते निश्चितं हरे । यस्मात्संस्थापितं पुष्पं गर्वेण करिमस्तके ॥ 40॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,40,15196,तस्माद्युष्मान्परित्यज्य यातु लक्ष्मीर्हरेः पदम् । नारायणस्य भक्तोऽहं न बिभेमि सुराद्विधेः ॥ 41॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,41,15197,कालान्मृत्योर्जरातश्च कानन्यान् गणयामि च । किं करिष्यति ते तातः कश्यपश्च प्रजापतिः ॥ 42॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,42,15198,बृहस्पतिर्गुरुश्चैव निःशङ्कस्य च मे हरे । इदं पुष्पं यस्य मूर्ध्नि तस्यैव पूजनं परम् ॥ 43॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,43,15199,इति श्रुत्वा महेन्द्रश्च धृत्वा स चरणं मुनेः । उच्चै रुरोद शोकार्तस्तमुवाच भयाकुलः ॥ 44॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,44,15200,महेन्द्र उवाच । दत्तः समुचितः शापो मह्यं मायापहः प्रभो । हृतां न याचे सम्पत्तिं किञ्चिज्ज्ञानं च देहि मे ॥ 45॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,45,15201,ऐश्वर्यं विपदां बीजं ज्ञानप्रच्छन्नकारणम् । मुक्तिमार्गकुठारश्च भक्तेश्च व्यवधायकम् ॥ 46॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,46,15202,मुनिरुवाच । जन्ममृत्युजराशोकरोगबीजाङ्कुरं परम् । सम्पत्तितिमिरान्धश्च मुक्तिमार्गं न पश्यति ॥ 47॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,47,15203,सम्पन्मत्तो विमूढश्च सुरामत्तः स एव च । बान्धवैर्वेष्टितः सोऽपि बन्धुत्वेनैव हे हरे ॥ 48॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,48,15204,सम्पत्तिमदमत्तश्च विषयान्धश्च विह्वलः । महाकामी राजसिकः सत्त्वमार्गं न पश्यति ॥ 49॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,49,15205,द्विविधो विषयान्धश्च राजसस्तामसः स्मृतः । अशास्त्रज्ञस्तामसश्च शास्त्रज्ञो राजसः स्मृतः ॥ 50॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,50,15206,शास्त्रं च द्विविधं मार्गं दर्शयेत्सुरपुङ्गव । प्रवृत्तिबीजमेकं च निवृत्तेः कारणं परम् ॥ 51॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,51,15207,चरन्ति जीविनश्चादौ प्रवृत्तेर्दुःखवर्त्मनि । स्वच्छन्दं च प्रसन्नं च निर्विरोधं च सन्ततम् ॥ 52॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,52,15208,आयाति मधुनो लोभात्क्लेशेन सुखमानितः । परिणामे नाशबीजे जन्ममृत्युजराकरे ॥ 53॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,53,15209,अनेकजन्मपर्यन्तं कृत्वा च भ्रमणं मुदा । स्वकर्मविहितायां च नानायोन्यां क्रमेण च ॥ 54॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,54,15210,ततश्चेशानुगहाग्रच्च सत्सङ्गं लभते च सः । सहस्रेषु शतेष्वेको भवाब्धिपारकारणम् ॥ 55॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,55,15211,साधुस्तत्त्वप्रदीपेन मुक्तिमार्गं प्रदर्शयेत् । तदा करोति यत्नं च जीवो बन्धनखण्डने ॥ 56॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,56,15212,अनेकजन्मयोगेन तपसानशनेन च । तदा लभेन्मुक्तिमार्गं निर्विघ्नं सुखदं परम् ॥ 57॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,57,15213,इदं श्रुतं गुरोर्वक्याद्यत् पृच्छसि पुरन्दर । मुनेस्तद्वचनं श्रुत्वा वीतरागो बभूव सः ॥ 58॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,58,15214,वैराग्यं वर्धयामास तस्य ब्रह्मन् दिने दिने । मुनेः स्थानाद् गृहं गत्वा स ददर्शामरावतीम् ॥ 59॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,59,15215,दैत्यैरसुरसङ्घैश्च समाकीर्णां भयाकुलाम् । विषमोपप्लवां पुत्रबन्धुहीनां च कुत्रचित् ॥ 60॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,60,15216,पितृमातृकलत्रादिविहीनामतिचञ्चलाम् । शत्रुग्रस्तां च तां दृष्ट्वा जगाम वाक्पतिं प्रति ॥ 61॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,61,15217,शक्रो मन्दाकिनीतीरे ददर्श गुरुमीश्वरम् । ध्यायमानं परं ब्रह्म गङ्गातोये स्थितं परम् ॥ 62॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,62,15218,सूर्याभिसम्मुखं पूर्वमुखं च विश्वतोमुखम् । साश्रुनेत्रं पुलकिनं परमानन्दसंयुतम् ॥ 63॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,63,15219,वरिष्ठं च गरिष्ठं च धर्मिष्ठं श्रेष्ठसेवितम् । प्रेष्ठं च बन्धुवर्गाणामतिश्रेष्ठं च ज्ञानिनाम् ॥ 64॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,64,15220,ज्येष्ठं च भ्रातृवर्गाणामनिष्टं सुरवैरिणाम् । दृष्ट्वा गुरुं जपन्तं च तत्र तस्थौ सुरेश्वरः ॥ 65॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,65,15221,प्रहरान्ते गुरुं दृष्ट्वा चोत्थितं प्रणनाम सः । प्रणम्य चरणाम्भोजे रुरोदोच्चैर्मुहुर्मुहुः ॥ 66॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,66,15222,वृत्तान्तं कथयामास ब्रह्मशापादिकं तथा । पुनर्वरोपलब्धिं च ज्ञानप्राप्तिं सुदुर्लभाम् ॥ 67॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,67,15223,वैरिग्रस्तां च स्वपुरीं क्रमेणैव सुरेश्वरः । शिष्यस्य वचनं श्रुत्वा सुबुद्धिर्वदतां वरः ॥ 68॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,68,15224,बृहस्पतिरुवाचेदं कोपसंरक्तलोचनः । गुरुरुवाच । श्रुतं सर्वं सुरश्रेष्ठ मा रोदीर्वचनं श‍ृणु ॥ 69॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,69,15225,न कातरो हि नीतिज्ञो विपत्तौ च कदाचन । सम्पत्तिर्वा विपत्तिर्वा नश्वरा श्रमरूपिणी ॥ 70॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,70,15226,पूर्वस्य कर्मायत्ता च स्वयं कर्ता तयोरपि । सर्वेषां च भवत्येव शश्वज्जन्मनि जन्मनि ॥ 71॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,71,15227,चक्रनेमिक्रमेणैव तत्र का परिदेवना । उक्तं हि स्वकृतं कर्म भुज्यतेऽखिलभारते ॥ 72॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,72,15228,शुभाशुभं च यत्किञ्चित्स्वकर्मफलभुक् पुमान् । नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ॥ 73॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,73,15229,अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । इत्येवमुक्तं वेदे च कृष्णेन परमात्मना ॥ 74॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,74,15230,सामवेदोक्तशाखायां सम्बोध्य कमलोद्भवम् । जन्मभोगावशेषे च सर्वेषां कृतकर्मणाम् ॥ 75॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,75,15231,अनुरूपं हि तेषां च भारतेऽन्यत्र चैव हि । कर्मणा ब्रह्मशापं च कर्मणा च शुभाशिषम् ॥ 76॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,76,15232,कर्मणा च महालक्ष्मीं लभेद्दैन्यं च कर्मणा । कोटिजन्मार्जितं कर्म जीविनामनुगच्छति ॥ 77॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,77,15233,न हि त्यजेद्विना भोगं तच्छायेव पुरन्दर । कालभेदे देशभेदे पात्रभेदे च कर्मणाम् ॥ 78॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,78,15234,न्यूनताधिकभावोऽपि भवेदेव हि कर्मणा । वस्तुदानेन वस्तूनां समं पुण्यं दिने दिने ॥ 79॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,79,15235,दिनभेदे कोटिगुणमसङ्ख्यं वा ततोऽधिकम् । समे देशे च वस्तूनां दाने पुण्यं समं सुर ॥ 80॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,80,15236,देशभेदे कोटिगुणमसङ्ख्यं वा ततोऽधिकम् । समे पात्रे समं पुण्यं वस्तूनां कर्तुरेव च ॥ 81॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,81,15237,पात्रभेदे शतगुणमसङ्ख्यं वा ततोऽधिकम् । यथा फलन्ति सस्यानि न्यूनान्यप्यधिकानि च ॥ 82॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,82,15238,कर्षकाणां क्षेत्रभेदे पात्रभेदे फलं तथा । सामान्यदिवसे विप्रदानं समफलं भवेत् ॥ 83॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,83,15239,अमायां रविसङ्क्रान्त्यां फलं शतगुणं भवेत् । चातुर्मास्यां पौर्णमास्यामनन्तं फलमेव च ॥ 84॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,84,15240,ग्रहणे शशिनः कोटिगुणं च फलमेव च । सूर्यस्य ग्रहणे वापि ततो दशगुणं भवेत् ॥ 85॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,85,15241,अक्षयायामक्षयं तदसङ्ख्यं फलमुच्यते । एवमन्यत्र पुण्याहे फलाधिक्यं भवेदिति ॥ 86॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,86,15242,यथा दाने तथा स्नाने जपेऽन्यपुण्यकर्मसु । एवं सर्वत्र बोद्धव्यं नराणां कर्मणां फलम् ॥ 87॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,87,15243,यथा दण्डेन चक्रेण शरावेण भ्रमेण च । कुम्भं निर्माति निर्माता कुम्भकारो मृदा भुवि ॥ 88॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,88,15244,तथैव कर्मसूत्रेण फलं धाता ददाति च । यस्याज्ञया सृष्टमिदं तं च नारायणं भज ॥ 89॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,89,15245,स विधाता विधातुश्च पातुः पाता जगत्त्रये । स्रष्टुः स्रष्टा च संहर्तुः संहर्ता कालकालकः ॥ 90॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,90,15246,महाविपत्तौ संसारे यः स्मरेन्मधुसूदनम् । विपत्तौ तस्य सम्पत्तिर्भवेदित्याह शङ्करः ॥ 91॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,91,15247,इत्येवमुक्त्वा तत्त्वज्ञः समालिङ्ग्य सुरेश्वरम् । दत्त्वा शुभाशिषं चेष्टं बोधयामास नारद ॥ 92॥ 9,९.४०,चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।,92,15248,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे लक्ष्म्युत्पत्तिवर्णनं नाम चत्वारिंशोऽध्यायः ॥ ९.४०॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,0,15249,श्रीनारायण उवाच । हरिं ध्यात्वा हरिर्ब्रह्मन् जगाम ब्रह्मणः सभाम् । बृहस्पतिं पुरस्कृत्य सर्वैः सुरगणैः सह ॥ 1॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,1,15250,शीघ्रं गत्वा ब्रह्मलोकं दृष्ट्वा च कमलोद्भवम् । प्रणेमुर्देवताः सर्वाः सहेन्द्रा गुरुणा सह ॥ 2॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,2,15251,वृत्तान्तं कथयामास सुराचार्यो विधिं प्रति । प्रहस्योवाच तच्छ्रुत्वा महेन्द्रं कमलासनः ॥ 3॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,3,15252,ब्रह्मोवाच । वत्स मद्वंशजातोऽसि प्रपौत्रो मे विचक्षणः । बृहस्पतेश्च शिष्यस्त्वं सुराणामधिपः स्वयम् ॥ 4॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,4,15253,मातामहश्च दक्षस्ते विष्णुभक्तः प्रतापवान् । कुलत्रयं यस्य शुद्धं कथं सोऽहङ्कृतो भवेत् ॥ 5॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,5,15254,माता पतिव्रता यस्य पिता शुद्धो जितेन्द्रियः । मातामहो मातुलश्च कथं सोऽहङ्कृतो भवेत् ॥ 6॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,6,15255,जनः पैतृकदोषेण दोषान्मातामहस्य च । गुरुदोषात्त्रिभिर्दोषैर्हरिदोषी भवेद् ध्रुवम् ॥ 7॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,7,15256,सर्वान्तरात्मा भगवान् सर्वदेहेष्ववस्थितः । यस्य देहात्स प्रयाति स शवस्तत्क्षणं भवेत् ॥ 8॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,8,15257,मनोऽहमिन्द्रियेशं च ज्ञानरूपो हि शङ्करः । विष्णुप्राणा च प्रकृतिर्बुद्धिर्भगवती सती ॥ 9॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,9,15258,निद्रादयः शक्तयश्च ताः सर्वाः प्रकृतेः कलाः । आत्मनः प्रतिबिम्बश्च जीवो भोगशरीरभृत् ॥ 10॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,10,15259,आत्मनीशे गते देहात्सर्वे यान्ति ससम्भ्रमाः । यथा वर्त्मनि गच्छन्तं नरदेवमिवानुगाः ॥ 11॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,11,15260,अहं शिवश्च शेषश्च विष्णुर्धर्मो महाविराट् । यूयं यदंशा भक्ताश्च तत्पुष्पं न्यक्कृतं त्वया ॥ 12॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,12,15261,शिवेन पूजितं पादपद्मं पुष्पेण येन च । तत्र दुर्वाससा दत्तं दैवेन न्यक्कृतं त्वया ॥ 13॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,13,15262,तत्पुण्यं मस्तके यस्य कृष्णपादाब्जप्रच्युतम् । सर्वेषां च सुराणां च तत्पूजापुरतो भवेत् ॥ 14॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,14,15263,दैवेन वञ्चितस्त्वं हि दैवं च बलवत्तरम् । भाग्यहीनं जनं मूढं को वा रक्षितुमीश्वरः ॥ 15॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,15,15264,सा श्रीर्गताधुना कोपात्कृष्णनिर्माल्यवर्जनात् । अधुना गच्छ वैकुण्ठं मया च गुरुणा सह ॥ 16॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,16,15265,निषेव्य तत्र श्रीनाथं श्रियं प्राप्स्यति मद्वरात् । एवमुक्त्वा च स ब्रह्मा सर्वैः सुरगणैः सह ॥ 17॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,17,15266,तत्र गत्वा परब्रह्म भगवन्तं सनातनम् । दृष्ट्वा तेजःस्वरूपं तं प्रज्वलन्तं स्वतेजसा ॥ 18॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,18,15267,ग्रीष्ममध्याह्नमार्तण्डशतकोटिसमप्रभम् । शान्तमनादिमध्यान्तं लक्ष्यीकान्तमनन्तकम् ॥ 19॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,19,15268,चतुर्भुजैः पार्षदैश्च सरस्वत्या युतं प्रभुम् । भक्त्या चतुर्भिर्वेदैश्च गङ्गया परिवेष्टितम् ॥ 20॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,20,15269,तं प्रणेमुः सुराः सर्वे मूर्ध्ना ब्रह्मपुरोगमाः । भक्तिनम्राः साश्रुनेत्रास्तुष्टुवुः परमेश्वरम् ॥ 21॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,21,15270,वृत्तान्तं कथयामास स्वयं ब्रह्मा कृताञ्जलिः । रुरुदुर्देवताः सर्वाः स्वाधिकाराच्चुताश्च ताः ॥ 22॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,22,15271,स ददर्श सुरगणं विपद्ग्रस्तं भयाकुलम् । रत्नभूषणशून्यं च वाहनादिविवर्जितम् ॥ 23॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,23,15272,शोभाशून्यं हतश्रीकं निष्प्रभं सभयं परम् । उवाच कातरं दृष्ट्वा भयभीतिविभञ्जनः ॥ 24॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,24,15273,श्रीभगवानुवाच । मा भैर्ब्रह्मन् हे सुराश्च भयं किं वो मयि स्थिते । दास्यामि लक्ष्मीमचलां परमैश्वर्यवर्धिनीम् ॥ 25॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,25,15274,किञ्च मद्वचनं किञ्चिच्छ्रूयतां समयोचितम् । हितं सत्यं सारभूतं परिणामसुखावहम् ॥ 26॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,26,15275,जनाश्चासङ्ख्यविश्वस्था मदधीनाश्च सन्ततम् । यथा तथाहं मद्भक्तपराधीनोऽस्वतन्त्रकः ॥ 27॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,27,15276,यं यं रुष्टो हि मद्भक्तो मत्परो हि निरङ्कुशः । तद्गृहेऽहं न तिष्ठामि पद्मया सह निश्चितम् ॥ 28॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,28,15277,दुर्वासाः शङ्करांशश्च वैष्णवो मत्परायणः । तच्छापादागतोऽहं च सलक्ष्मीको हि वो गृहात् ॥ 29॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,29,15278,यत्र शङ्खध्वनिर्नास्ति तुलसी न शिवार्चनम् । न भोजनं च विप्राणां न पद्मा तत्र तिष्ठति ॥ 30॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,30,15279,मद्भक्तानां च मे निन्दा यत्र ब्रह्मन् भवेत्सुराः । महारुष्टा महालक्ष्मीस्ततो याति पराभवम् ॥ 31॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,31,15280,मद्भक्तिहीनो यो मूढो भुङ्क्ते यो हरिवासरे । मम जन्मदिने वापि याति श्रीस्तद्गृहादपि ॥ 32॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,32,15281,मन्नामविक्रयी यश्च विक्रीणाति स्वकन्यकाम् । यत्रातिथिर्न भुङ्क्ते च मत्प्रिया याति तद्गृहात् ॥ 33॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,33,15282,यो विप्रः पुंश्चलीपुत्रो महापापी च तत्पतिः । पापिनो यो गृहं याति शूद्रश्राद्धान्नभोजकः ॥ 34॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,34,15283,महारुष्टा ततो याति मन्दिरात्कमलालया । शूद्राणां शवदाही च भाग्यहीनो द्विजाधमः ॥ 35॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,35,15284,याति रुष्टा तद्गृहाच्च देवाः कमलवासिनी । शूद्राणां सूपकारी यो ब्राह्मणो वृषवाहकः ॥ 36॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,36,15285,तत्तोयपानभीता च कमला याति तद्गृहात् । अशुद्धहृदयः क्रूरो हिंसको निन्दको द्विजः ॥ 37॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,37,15286,ब्राह्मणः शूद्रयाजी च याति देवी च तद्गृहात् । अवीरान्नं च यो भुङ्क्ते तस्माद्याति जगत्प्रसूः ॥ 38॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,38,15287,तृणं छिनत्ति नखरैस्तैर्वा यो विलिखेन्महीम् । निराशो ब्राह्मणो यत्र तद्गृहाद्याति मत्प्रिया ॥ 39॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,39,15288,सूर्योदये द्विजो भुङ्क्ते दिवास्वापी च ब्राह्मणः । दिवा मैथुनकारी च यस्तस्माद्याति मत्प्रिया ॥ 40॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,40,15289,आचारहीनो विप्रो यो यश्च शूद्रप्रतिग्रही । अदीक्षितो हि यो मूढस्तस्माद्वै याति मत्प्रिया ॥ 41॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,41,15290,स्निग्धपादश्च नग्नो हि यः शेते ज्ञानदुर्बलः । शश्वद्वदति वाचालो याति सा तद्गृहात्सती ॥ 42॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,42,15291,शिरस्नातस्तु तैलेन योऽन्याङ्गं समुपस्पृशेत् । स्वाङ्गं च वादयेद्वाद्यं रुष्टा सा याति तद्गृहात् ॥ 43॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,43,15292,व्रतोपवासहीनो यः सन्ध्याहीनोऽशुचिर्द्विजः । विष्णुभक्तिविहीनस्तु तस्माद्याति च मत्प्रिया ॥ 44॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,44,15293,ब्राह्मणं निन्दयेद्यो हि तं च यो द्वेष्टि सन्ततम् । जीवहिंस्रो दयाहीनो याति सर्वप्रसूस्ततः ॥ 45॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,45,15294,यत्र यत्र हरेरर्चा हरेरुत्कीर्तनं तथा । तत्र तिष्ठति सा देवी सर्वमङ्गलमङ्गला ॥ 46॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,46,15295,यत्र प्रशंसा कृष्णस्य तद्भक्तस्य पितामह । सा च कृष्णप्रिया देवी तत्र तिष्ठति सन्ततम् ॥ 47॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,47,15296,यत्र शङ्खध्वनिः शङ्खः शिला च तुलसीदलम् । तत्सेवा वन्दनं ध्यानं तत्र सा परितिष्ठति ॥ 48॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,48,15297,शिवलिङ्गार्चनं यत्र तस्य चोत्कीर्तनं शुभम् । दुर्गार्चनं तद्गुणाश्च तत्र पद्मनिवासिनी ॥ 49॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,49,15298,विप्राणां सेवनं यत्र तेषां च भोजनं शुभम् । अर्चनं सर्वदेवानां तत्र पद्ममुखी सती ॥ 50॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,50,15299,इत्युक्त्वा च सुरान्सर्वान् रमामाह रमापतिः । क्षीरोदसागरे जन्म कलयाकलयेति च ॥ 51॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,51,15300,इत्युक्त्वा तां जगन्नाथो ब्रह्माणं पुनराह च । मथित्वा सागरं लक्ष्मीं देवेभ्यो देहि पद्मज ॥ 52॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,52,15301,इत्युक्त्वा कमलाकान्तो जगामान्तःपुरं मुने । देवाश्चिरेण कालेन ययुः क्षीरोदसागरम् ॥ 53॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,53,15302,मन्थानं मन्दरं कृत्वा कूर्मं कृत्वा च भाजनम् । कृत्वा शेषं मन्थपाशं ममन्थुरसुराः सुराः ॥ 54॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,54,15303,धन्वन्तरिं च पीयूषमुच्चैःश्रवसमीप्सितम् । नानारत्नं हस्तिरत्नं प्रापुर्लक्ष्मीं सुदर्शनम् ॥ 55॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,55,15304,वनमालां ददौ सा च क्षीरोदशायिने मुने । सर्वेश्वराय रम्याय विष्णवे वैष्णवी सती ॥ 56॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,56,15305,देवैः स्तुता पूजिता च ब्रह्मणा शङ्करेण च । ददौ दृष्टिं सुरगृहे ब्रह्मशापविमोचनात् ॥ 57॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,57,15306,प्रापुर्देवाः स्वविषयं दैत्यग्रस्तं भयङ्करम् । महालक्ष्मीप्रसादेन वरदानेन नारद ॥ 58॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,58,15307,इत्येवं कथितं सर्वं लक्ष्म्युपाख्यानमुत्तमम् । सुखदं सारभूतं च किं भूयः श्रोतुमिच्छसि ॥ 59॥ 9,९.४१,एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।,59,15308,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे श्रीलक्ष्म्युपाख्यानवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ ९.४१॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,0,15309,नारद उवाच । हरेरुत्कीर्तनं भद्रं श्रुतं तज्ज्ञानमुत्तमम् । ईप्सितं लक्ष्म्युपाख्यानं ध्यानं स्तोत्रं वद प्रभो ॥ 1॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,1,15310,श्रीनारायण उवाच । स्नात्वा तीर्थे पुरा शक्रो धृत्वा धौते च वाससी । घटं संस्थाप्य क्षीरोदे षड्देवान् पर्यपूजयत् ॥ 2॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,2,15311,गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् । एतान् भक्त्या समभ्यर्च्य पुष्पगन्धादिभिस्तदा ॥ 3॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,3,15312,आवाह्य च महालक्ष्मीं परमैश्वर्यरूपिणीम् । पूजाञ्चकार देवेशो ब्रह्मणा च पुरोधसा ॥ 4॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,4,15313,पुरःस्थितेषु मुनिषु ब्राह्मणेषु गुरौ हरौ । देवादिषु सुदेशे च ज्ञानानन्दं शिवे मुने ॥ 5॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,5,15314,पारिजातस्य पुष्पं च गृहीत्वा चन्दनोक्षितम् । ध्यात्वा देवीं महालक्ष्मीं पूजयामास नारद ॥ 6॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,6,15315,ध्यानं च सामवेदोक्तं यद्दत्तं ब्रह्मणे पुरा । हरिणा तेन ध्यानेन तन्निबोध वदामि ते ॥ 7॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,7,15316,सहस्रदलपद्मस्थकर्णिकावासिनीं पराम् । शरत्पार्वणकोटीन्दुप्रभामुष्टिकरां पराम् ॥ 8॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,8,15317,स्वतेजसा प्रज्वलन्तीं सुखदृश्यां मनोहराम् । प्रतप्तकाञ्चननिभशोभां मूर्तिमतीं सतीम् ॥ 9॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,9,15318,रत्नभूषणभूषाढ्यां शोभितां पीतवाससा । ईषद्धास्यप्रसन्नास्यां शश्वत्सुस्थिरयौवनाम् ॥ 10॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,10,15319,सर्वसम्पत्प्रदात्रीं च महालक्ष्मीं भजे शुभाम् । ध्यानेनानेन तां ध्यात्वा नानागुणसमन्विताम् ॥ 11॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,11,15320,सम्पूज्य ब्रह्मवाक्येन चोपचाराणि षोडश । ददौ भक्त्या विधानेन प्रत्येकं मन्त्रपूर्वकम् ॥ 12॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,12,15321,प्रशस्तानि प्रकृष्टानि वराणि विविधानि च । अमूल्यरत्नसारं च निर्मितं विश्वकर्मणा ॥ 13॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,13,15322,आसनं च विचित्रं च महालक्ष्मि प्रगृह्यताम् । शुद्धं गङ्गोदकमिदं सर्ववन्दितमीप्सितम् ॥ 14॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,14,15323,पापेध्मवह्निरूपं च गृह्यतां कमलालये । पुष्पचन्दनदूर्वादिसंयुतं जाह्नवीजलम् ॥ 15॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,15,15324,शङ्खगर्भस्थितं स्वर्घ्यं गृह्यतां पद्मवासिनि । सुगन्धिपुष्पतैलं च सुगन्धामलकीफलम् ॥ 16॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,16,15325,देहसौन्दर्यबीजं च गृह्यतां श्रीहरेः प्रिये । कार्पासजं च कृमिजं वसनं देवि गृह्यताम् ॥ 17॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,17,15326,रत्नस्वर्णविकारं च देहभूषाविवर्धनम् । शोभायै श्रीकरं रत्नं भूषणं देवि गृह्यताम् ॥ 18॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,18,15327,सर्वसौन्दर्यबीजं च सद्यः शोभाकरं परम् । वृक्षनिर्यासरूपं च गन्धद्रव्यादिसंयुतम् ॥ 19॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,19,15328,श्रीकृष्णकान्ते धूपं च पवित्रं प्रतिगृह्यताम् । सुगन्धियुक्तं सुखदं चन्दनं देवि गृह्यताम् ॥ 20॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,20,15329,जगच्चक्षुःस्वरूपं च पवित्रं तिमिरापहम् । प्रदीपं सुखरूपं च गृह्यतां च सुरेश्वरि ॥ 21॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,21,15330,नानोपहाररूपं च नानारससमन्वितम् । अतिस्वादुकरं चैव नैवेद्यं प्रतिगृह्यताम् ॥ 22॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,22,15331,अन्नं ब्रह्मस्वरूपं च प्राणरक्षणकारणम् । तुष्टिदं पुष्टिदं चैव देव्यन्नं प्रतिगृह्यताम् ॥ 23॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,23,15332,शाल्यन्नजं सुपक्वं च शर्करागव्यसंयुतम् । स्वादुयुक्तं महालक्ष्मि परमान्नं प्रगृह्यताम् ॥ 24॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,24,15333,शर्करागव्यपक्वं च सुस्वादु सुमनोहरम् । स्वस्तिकं नाम नैवेद्यं गृहाण परमेश्वरि ॥ 25॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,25,15334,नानाविधानि रम्याणि पक्वान्नानि फलानि च । सुरभिस्तनसन्त्यक्तं सुस्वादु सुमनोहरम् ॥ 26॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,26,15335,मर्त्यामृतं सुगव्यं च गृह्यतामच्युतप्रिये । सुस्वादु रससंयुक्तमिक्षुवृक्षसमुद्भवम् ॥ 27॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,27,15336,अग्निपक्वमतिस्वादु गुडं च प्रतिगृह्यताम् । यवगोधूमसस्यानां चूर्णरेणुसमुद्भवम् ॥ 28॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,28,15337,सुपक्वं गुडगव्याक्तं मिष्टान्नं देवि गृह्यताम् । सस्यचूर्णोद्भवं पक्वं स्वस्तिकादिसमन्वितम् ॥ 29॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,29,15338,मया निवेदितं भक्त्या नैवेद्यं प्रतिगृह्यताम् । शीतवायुप्रदं चैव दाहे च सुखदं परम् ॥ 30॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,30,15339,कमले गृह्यतां चेदं व्यजनं श्वेतचामरम् । ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ॥ 31॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,31,15340,जिह्वाजाड्यच्छेदकरं ताम्बूलं प्रतिगृह्यताम् । सुवासितं सुशीतं च पिपासानाशकारणम् ॥ 32॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,32,15341,जगज्जीवनरूपं च जीवनं देवि गृह्यताम् । देहसौन्दर्यबीजं च सदा शोभाविवर्धनम् ॥ 33॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,33,15342,कार्पासजं च कृमिजं वसनं देवि गृह्यताम् । रक्तस्वर्णविकारं च देहभूषादिवर्धनम् ॥ 34॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,34,15343,शोभाधारं श्रीकरं च भूषणं देवि गृह्यताम् । नानाऋतुषु निर्माणं बहुशोभाश्रयं परम् ॥ 35॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,35,15344,सुरभूपप्रियं शुद्धं माल्यं देवि प्रगृह्यताम् । शुद्धिदं शुद्धरूपं च सर्वमङ्गलमङ्गलम् ॥ 36॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,36,15345,गन्धवस्तूद्भवं रम्यं गन्धं देवि प्रगृह्यताम् । पुण्यतीर्थोदकं चैव विशुद्धं शुद्धिदं सदा ॥ 37॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,37,15346,गृह्यतां कृष्णकान्ते त्वं रम्यमाचमनीयकम् । रत्नसारादिनिर्माणं पुष्पचन्दनचर्चितम् ॥ 38॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,38,15347,रत्नभूषणभूषाढ्यं सुतल्पं देवि गृह्यताम् । यद्यद् द्रव्यमपूर्वं च पृथिव्यामपि दुर्लभम् ॥ 39॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,39,15348,देवभूषार्हभोग्यं च तद् द्रव्यं देवि गृह्यताम् । द्रव्याण्येतानि दत्त्वा च मूलेन देवपुङ्गवः ॥ 40॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,40,15349,मूलं जजाप भक्त्या च दशलक्षं विधानतः । जपेन दशलक्षेण मन्त्रसिद्धिर्बभूव ह ॥ 41॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,41,15350,मन्त्रश्च ब्रह्मणा दत्तः कल्पवृक्षश्च सर्वतः । लक्ष्मीर्माया कामवाणी ङेऽन्ता कमलवासिनी ॥ 42॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,42,15351,वैदिको मन्त्रराजोऽयं प्रसिद्धः स्वाहयान्वितः । कुबेरोऽनेन मन्त्रेण परमैश्वर्यमाप्तवान् ॥ 43॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,43,15352,राजराजेश्वरो दक्षः सावर्णिर्मनुरेव च । मङ्गलोऽनेन मन्त्रेण सप्तद्वीपेऽवनीपतिः ॥ 44॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,44,15353,प्रियव्रतोत्तानपादौ केदारो नृप एव च । एते सिद्धाश्च राजेन्द्रा मन्त्रेणानेन नारद ॥ 45॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,45,15354,सिद्धे मन्त्रे महालक्ष्मीः शक्राय दर्शनं ददौ । रत्नेन्द्रसारनिर्माणविमानस्था वरप्रदा ॥ 46॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,46,15355,सप्तद्वीपवतीं पृथ्वीं छादयन्ती त्विषा च सा । श्वेतचम्पकवर्णाभा रत्नभूषणभूषिता ॥ 47॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,47,15356,ईषद्धास्यप्रसन्नास्या भक्तानुग्रहकातरा । बिभ्रती रत्नमालां च कोटिचन्द्रसमप्रभाम् ॥ 48॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,48,15357,दृष्ट्वा जगत्प्रसूं शान्तां तुष्टावैतां पुरन्दरः । पुलकाञ्चितसर्वाङ्गः साश्रुनेत्रः कृताञ्जलिः ॥ 49॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,49,15358,ब्रह्मणा च प्रदत्तेन स्तोत्रराजेन संयुतः । सर्वाभीष्टप्रदेनैव वैदिकेनैव तत्र च ॥ 50॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,50,15359,पुरन्दर उवाच । नमः कमलवासिन्यै नारायण्यै नमो नमः । कृष्णप्रियायै सततं महालक्ष्यै नमो नमः ॥ 51॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,51,15360,पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः । पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः ॥ 52॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,52,15361,सर्वसम्पत्स्वरूपिण्यै सर्वाराध्यै नमो नमः । हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः ॥ 53॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,53,15362,कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः । चन्द्रशोभास्वरूपायै रत्नपद्मे च शोभने ॥ 54॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,54,15363,सम्पत्त्यधिष्ठातृदेव्यै महादेव्यै नमो नमः । नमो वृद्धिस्वरूपायै वृद्धिदायै नमो नमः ॥ 55॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,55,15364,वैकुण्ठे या महालक्ष्मीर्या लक्ष्मीः क्षीरसागरे । स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीर्नृपालये ॥ 56॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,56,15365,गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता । सुरभिः सागरे जाता दक्षिणा यज्ञकामिनी ॥ 57॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,57,15366,अदितिर्देवमाता त्वं कमला कमलालया । स्वाहा त्वं च हविर्दाने कव्यदाने स्वधा स्मृता ॥ 58॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,58,15367,त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा । शुद्धसत्त्वस्वरूपा त्वं नारायणपरायणा ॥ 59॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,59,15368,क्रोधहिंसावर्जिता च वरदा शारदा शुभा । परमार्थप्रदा त्वं च हरिदास्यप्रदा परा ॥ 60॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,60,15369,यया विना जगत्सर्वं भस्मीभूतमसारकम् । जीवन्मृतं च विश्वं च शश्वत्सर्वं यया विना ॥ 61॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,61,15370,सर्वेषां च परा माता सर्वबान्धवरूपिणी । धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी ॥ 62॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,62,15371,यथा माता स्तनान्धानां शिशूनां शैशवे सदा । तथा त्वं सर्वदा माता सर्वेषां सर्वरूपतः ॥ 63॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,63,15372,मातृहीनः स्तनान्धस्तु स च जीवति दैवतः । त्वया हीनो जनः कोऽपि न जीवत्येव निश्चितम् ॥ 64॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,64,15373,सुप्रसन्नस्वरूपा त्वं मां प्रसन्ना भवाम्बिके । वैरिग्रस्तं च विषयं देहि मह्यं सनातनि ॥ 65॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,65,15374,अहं यावत्त्वया हीनो बन्धुहीनश्च भिक्षुकः । सर्वसम्पद्विहीनश्च तावदेव हरिप्रिये ॥ 66॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,66,15375,ज्ञानं देहि च धर्मं च सर्वसौभाग्यमीप्सितम् । प्रभावञ्च प्रतापं च सर्वाधिकारमेव च ॥ 67॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,67,15376,जयं पराक्रमं युद्धे परमैश्वर्यमेव च । इत्युक्त्वा च महेन्द्रश्च सर्वैः सुरगणैः सह ॥ 68॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,68,15377,प्रणनाम साश्रुनेत्रो मूर्ध्ना चैव पुनः पुनः । ब्रह्मा च शङ्करश्चैव शेषो धर्मश्च केशवः ॥ 69॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,69,15378,सर्वे चक्रुः परीहारं सुरार्थे च पुनः पुनः । देवेभ्यश्च वरं दत्त्वा पुष्पमालां मनोहराम् ॥ 70॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,70,15379,केशवाय ददौ लक्ष्मीः सन्तुष्टा सुरसंसदि । ययुर्देवाश्च सन्तुष्टाः स्वं स्वं स्थानं च नारद ॥ 71॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,71,15380,देवी ययौ हरेः स्थानं हृष्टा क्षीरोदशायिनः । ययतुश्चैव स्वगृहं ब्रह्मेशानौ च नारद ॥ 72॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,72,15381,दत्त्वा शुभाशिषं तौ च देवेभ्यः प्रीतिपूर्वकम् । इदं स्तोत्रं महापुण्यं त्रिसन्ध्यं यः पठेन्नरः ॥ 73॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,73,15382,कुबेरतुल्यः स भवेद्राजराजेश्वरो महान् । पञ्चलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ॥ 74॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,74,15383,सिद्धस्तोत्रं यदि पठेन्मासमेकं तु सन्ततम् । महासुखी च राजेन्द्रो भविष्यति न संशयः ॥ 75॥ 9,९.४२,द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।,75,15384,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे महालक्ष्म्याः ध्यानस्तोत्रवर्णनं नाम द्विचत्वारिम्प्तोऽध्यायः ॥ ९.४२॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,0,15385,नारद उवाच । नारायण महाभाग नारायण महाप्रभो । रूपेणैव गुणेनैव यशसा तेजसा त्विषा ॥ 1॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,1,15386,त्वमेव ज्ञानिनां श्रेष्ठः सिद्धानां योगिनां मुने । तपस्विनां मुनीनां च परो वेदविदांवर ॥ 2॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,2,15387,महालक्ष्म्या उपाख्यानं विज्ञातं महदद्भुतम् । अन्यत्किञ्चिदुपाख्यानं निगूढं वद साम्प्रतम् ॥ 3॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,3,15388,अतीव गोपनीयं यदुपयुक्तं च सर्वतः । अप्रकाश्यं पुराणेषु वेदोक्तं धर्मसंयुतम् ॥ 4॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,4,15389,श्रीनारायण उवाच । नानाप्रकारमाख्यानमप्रकाश्यं पुराणतः । श्रुतं कतिविधं गूढमास्ते ब्रह्मन् सुदुर्लभम् ॥ 5॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,5,15390,तेषु यत्सारभूतं च श्रोतुं किं वा त्वमिच्छसि । तन्मे ब्रूहि महाभाग पश्चाद्वक्ष्यामि तत्पुनः ॥ 6॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,6,15391,नारद उवाच । स्वाहा देवी हविर्दाने प्रशस्ता सर्वकर्मसु । पितृदाने स्वधा शस्ता दक्षिणा सर्वतो वरा ॥ 7॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,7,15392,एतासां चरितं जन्मफलं प्राधान्यमेव च । श्रोतुमिच्छामि त्वद्वक्त्राद्वद वेदविदांवर ॥ 8॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,8,15393,सूत उवाच । नारदस्य वचः श्रुत्वा प्रहस्य मुनिसत्तमः । कथां कथितुमारेभे पुराणोक्तां पुरातनीम् ॥ 9॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,9,15394,श्रीनारायण उवाच । सृष्टेः प्रथमतो देवाः स्वाहारार्थं ययुः पुरा । ब्रह्मलोकं ब्रह्मसभामाजग्मुः सुमनोहराम् ॥ 10॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,10,15395,गत्वा निवेदनं चक्रुराहारहेतुकं मुने । ब्रह्मा श्रुत्वा प्रतिज्ञाय निषेवे श्रीहरिं परम् ॥ 11॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,11,15396,नारद उवाच । यज्ञरूपो हि भगवान् कलया च बभूव ह । यज्ञे यद्यद्धविर्दानं दत्तं तेभ्यश्च ब्राह्मणैः ॥ 12॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,12,15397,श्रीनारायण उवाच । हविर्ददति विप्राश्च भक्त्या च क्षत्रियादयः । सुरा नैव प्राप्नुवन्ति तद्दानं मुनिपुङ्गव ॥ 13॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,13,15398,देवा विषण्णास्ते सर्वे तत्सभां च ययुः पुनः । गत्वा निवेदनं चक्रुराहाराभावहेतुकम् ॥ 14॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,14,15399,ब्रह्मा श्रुत्वा तु ध्यानेन श्रीकृष्णं शरणं ययौ । पूजाञ्चकार प्रकृतेध्यानेनैव तदाज्ञया ॥ 15॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,15,15400,प्रकृतेः कलया चैव सर्वशक्तिस्वरूपिणी । अतीव सुन्दरी श्यामा रमणीया मनोहरा ॥ 16॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,16,15401,ईषद्धास्यप्रसन्नास्या भक्तानुग्रहकातरा । उवाचेति विधेरग्रे पद्मयोने वरं वृणु ॥ 17॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,17,15402,विधिस्तद्वचनं श्रुत्वा सम्भ्रमात्समुवाच ताम् । प्रजापतिरुवाच । त्वमग्नेर्दाहिका शक्तिर्भव यातीव सुन्दरी ॥ 18॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,18,15403,दग्धुं न शक्तः प्रकृतीर्हुताशश्च त्वया विना । त्वन्नामोच्चार्य मन्त्रान्ते यो दास्यति हविर्नरः ॥ 19॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,19,15404,सुरेभ्यस्तत्प्राप्नुवन्ति सुराः सानन्दपूर्वकम् । अग्नेः सम्पत्स्वरूपा च श्रीरूपा सा गृहेश्वरी ॥ 20॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,20,15405,देवानां पूजिता शश्वन्नरादीनां भवाम्बिके । ब्रह्मणश्च वचः श्रुत्वा सा विषण्णा बभूव ह ॥ 21॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,21,15406,तमुवाच ततो देवी स्वाभिप्रायं स्वयम्भुवम् । स्वाहोवाच । अहं कृष्णं भजिष्यामि तपसा सुचिरेण च ॥ 22॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,22,15407,ब्रह्मंस्तदन्यं यत्किञ्चित्स्वप्नवद् भ्रममेव च । विधाता जगतस्त्वं च शम्भुर्मृत्युञ्जयो विभुः ॥ 23॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,23,15408,बिभर्ति शेषो विश्वं च धर्मः साक्षी च धर्मिणाम् । सर्वाद्यपूज्यो देवानां गणेषु च गणेश्वरः ॥ 24॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,24,15409,प्रकृतिः सर्वसम्पूज्या यत्प्रसादात्पुराभवत् । ऋषयो मुनयश्चैव पूजिता यन्निषेवया ॥ 25॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,25,15410,तत्पादपद्मं नियतं भावेन चिन्तयाम्यहम् । पद्मास्या पाद्यमित्युक्त्वा पद्मनाभानुसारतः ॥ 26॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,26,15411,जगाम तपसे देवी ध्यात्वा कृष्णं निरामयम् । तपस्तेपे वर्षलक्षमेकपादेन पद्मजा ॥ 27॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,27,15412,तदा ददर्श श्रीकृष्णं निर्गुणं प्रकृतेः परम् । अतीव कमनीयं च रूपं दृष्ट्वा च रूपिणी ॥ 28॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,28,15413,मूर्च्छां सम्प्राप कालेन कामेशस्य च कामुकी । विज्ञाय तदभिप्रायं सर्वज्ञस्तामुवाच ह ॥ 29॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,29,15414,समुत्थाप्य च तां क्रोडे क्षीणाङ्गीं तपसा चिरम् । श्रीभगवानुवाच । वाराहे वै त्वमंशेन मम पत्नी भविष्यसि ॥ 30॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,30,15415,नाम्ना नाग्नजिती कन्या कान्ते नग्नजितस्य च । अधुनाग्नेर्दाहिका त्वं भव पत्नी च भामिनी ॥ 31॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,31,15416,मन्त्राङ्गरूपा पूज्या च मत्प्रसादाद् भविष्यसि । वह्निस्त्वां भक्तिभावेन सम्पूज्य च गृहेश्वरीम् ॥ 32॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,32,15417,रमिष्यति त्वया सार्धं रामया रमणीयया । इत्युक्त्वान्तर्दधे देवो देवीं सम्भाष्य नारद ॥ 33॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,33,15418,तत्राजगाम सन्त्रस्तो वह्निर्ब्रह्मनिदेशतः । सामवेदोक्तध्यानेन ध्यात्वा तां जगदम्बिकाम् ॥ 34॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,34,15419,सम्पूज्य परितुष्टाव पाणिं जग्राह मन्त्रतः । तदा दिव्यं वर्षशतं स रेमे रामया सह ॥ 35॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,35,15420,अतीव निर्जने देशे सम्भोगसुखदे सदा । बभूव गर्भस्तस्यां च हुताशस्य च तेजसा ॥ 36॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,36,15421,तं दधार च सा देवी दिव्यं द्वादशवत्सरम् । ततः सुषाव पुत्रांश्च रमणीयान्मनोहरान् ॥ 37॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,37,15422,दक्षिणाग्निगार्हपत्याहवनीयान् क्रमेण च । ऋषयो मुनयश्चैव ब्राह्मणाः क्षत्रियादयः ॥ 38॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,38,15423,स्वाहान्तं मन्त्रमुच्चार्य हविर्दानं च चक्रिरे । स्वाहायुक्तं च मन्त्रं च यो गृह्णाति प्रशस्तकम् ॥ 39॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,39,15424,सर्वसिद्धिर्भवेत्तस्य मन्त्रग्रहणमात्रतः । विषहीनो यथा सर्पो वेदहीनो यथा द्विजः ॥ 40॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,40,15425,पतिसेवाविहीना स्त्री विद्याहीनो यथा पुमान् । फलशाखाविहीनश्च यथा वृक्षो हि निन्दितः ॥ 41॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,41,15426,स्वाहाहीनस्तथा मन्त्रो न हुतः फलदायकः । परितुष्टा द्विजाः सर्वे देवाः सम्प्रापुराहुतीः ॥ 42॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,42,15427,स्वाहान्तेनैव मन्त्रेण सफलं सर्वमेव च । इत्येवं कथितं सर्वं स्वाहोपाख्यानमुत्तमम् ॥ 43॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,43,15428,सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि । नारद उवाच । स्वाहापूजाविधानं च ध्यानं स्तोत्रं मुनीश्वर ॥ 44॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,44,15429,सम्पूज्य वह्निस्तुष्टाव येन तद्वद मे प्रभो । श्रीनारायण उवाच । ध्यानं च सामवेदोक्तं स्तोत्रपूजाविधानकम् ॥ 45॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,45,15430,वदामि श्रूयतां ब्रह्मन् सावधानो मुनीश्वर । सर्वयज्ञारम्भकाले शालग्रामे घटेऽथवा ॥ 46॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,46,15431,स्वाहां सम्पूज्य यत्नेन यज्ञं कुर्यात्कलाप्तये । स्वाहां मन्त्राङ्गयुक्तां च मन्त्रसिद्धिस्वरूपिणीम् ॥ 47॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,47,15432,सिद्धां च सिद्धिदां नॄणां कर्मणां फलदां शुभाम् । इति ध्यात्वा च मूलेन दत्त्वा पाद्यादिकं नरः ॥ 48॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,48,15433,सर्वसिद्धिं लभेत्स्तुत्वा मूलमन्त्रं मुने श‍ृणु । ॐ ह्रीं श्रीं वह्निजायायै देव्यै स्वाहेत्यनेन च ॥ 49॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,49,15434,यः पूजयेच्च तां भक्त्या सर्वेष्टं सम्भवेद् ध्रुवम् । वह्निरुवाच । स्वाहा वह्निप्रिया वह्निजाया सन्तोषकारिणी ॥ 50॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,50,15435,शक्तिः क्रिया कालदात्री परिपाककरी ध्रुवा । गतिः सदा नराणां च दाहिका दहनक्षमा ॥ 51॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,51,15436,संसारसाररूपा च घोरसंसारतारिणी । देवजीवनरूपा च देवपोषणकारिणी ॥ 52॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,52,15437,षोडशैतानि नामानि यः पठेद्भक्तिसंयुतः । सर्वसिद्धिर्भवेत्तस्य इह लोके परत्र च ॥ 53॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,53,15438,नाङ्गहीनं भवेत्तस्य सर्वं कर्म सुशोभनम् । अपुत्रो लभते पुत्रं भार्याहीनो लभेत्प्रियाम् ॥ 54॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,54,15439,रम्भोपमां स्वकान्तां च सम्प्राप्य सुखमाप्नुयात् ॥ 55॥ 9,९.४३,त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।,55,15440,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे स्वाहोपाख्यानवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ ९.४३॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,0,15441,श्रीनारायण उवाच । श‍ृणु नारद वक्ष्यामि स्वधोपाख्यानमुत्तमम् । पितॄणां च तृप्तिकरं श्राद्धान्तफलवर्धनम् ॥ 1॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,1,15442,सृष्टेरादौ पितृगणान्ससर्ज जगतां विधिः । चतुरश्च मूर्तिमतस्त्रींश्च तेजःस्वरूपिणः ॥ 2॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,2,15443,दृष्ट्वा सप्तपितृगणान् सुखरूपान्मनोहरान् । आहारं ससृजे तेषां श्राद्धं तर्पणपूर्वकम् ॥ 3॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,3,15444,स्नानं तर्पणपर्यन्तं श्राद्धं तु देवपूजनम् । आह्निकं च त्रिसन्ध्यान्तं विप्राणां च श्रुतौ श्रुतम् ॥ 4॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,4,15445,नित्यं न कुर्याद्यो विप्रस्त्रिसन्ध्यं श्राद्धतर्पणम् । बलिं वेदध्वनिं सोऽपि विषहीनो यथोरगः ॥ 5॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,5,15446,देवीसेवाविहीनश्च श्रीहरेरनिवेद्यभुक् । भस्मान्तं सूतकं तस्य न कर्मार्हश्च नारद ॥ 6॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,6,15447,ब्रह्मा श्राद्धादिकं सृष्ट्वा जगाम पितृहेतवे । न प्राप्नुवन्ति पितरो ददति ब्राह्मणादयः ॥ 7॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,7,15448,सर्वे च जग्मुः क्षुधिताः खिन्नास्तु ब्रह्मणः सभाम् । सर्वं निवेदनं चक्रुस्तमेव जगतां विधिम् ॥ 8॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,8,15449,ब्रह्मा च मानसीं कन्यां ससृजे च मनोहराम् । रूपयौवनसम्पन्नां शतचन्द्रनिभाननाम् ॥ 9॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,9,15450,विद्यावतीं गुणवतीमतिरूपवतीं सतीम् । श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् ॥ 10॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,10,15451,विशुद्धां प्रकृतेरंशां सस्मितां वरदां शुभाम् । स्वधाभिधां च सुदतीं लक्ष्मीलक्षणसंयुताम् ॥ 11॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,11,15452,शतपद्मपदन्यस्तपादपद्मं च बिभ्रतीम् । पत्नीं पितॄणां पद्मास्यां पद्मजां पद्मलोचनाम् ॥ 12॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,12,15453,पितृभ्यश्च ददौ ब्रह्मा तुष्टेभ्यस्तुष्टिरूपिणीम् । ब्राह्मणानां चोपदेशं चकार गोपनीयकम् ॥ 13॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,13,15454,स्वधान्तं मन्त्रमुच्चार्य पितृभ्यो देयमित्यपि । क्रमेण तेन विप्राश्च पित्रे दानं ददुः पुरा ॥ 14॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,14,15455,स्वाहा शस्ता देवदाने पितृदाने स्वधा स्मृता । सर्वत्र दक्षिणा शस्ता हतं यज्ञमदक्षिणम् ॥ 15॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,15,15456,पितरो देवता विप्रा मुनयो मनवस्तथा । पूजां चक्रुः स्वधां शान्तां तुष्टुवुः परमादरात् ॥ 16॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,16,15457,देवादयश्च सन्तुष्टाः परिपूर्णमनोरथाः । विप्रादयश्च पितरः स्वधादेवीवरेण च ॥ 17॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,17,15458,इत्येवं कथितं सर्वं स्वधोपाख्यानमेव च । सर्वेषां च तुष्टिकरं किं भूयः श्रोतुमिच्छसि ॥ 18॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,18,15459,नारद उवाच । स्वधापूजाविधानं च ध्यानं स्तोत्रं महामुने । श्रोतुमिच्छामि यत्नेन वद वेदविदांवर ॥ 19॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,19,15460,श्रीनारायण उवाच । ध्यानं च स्तवनं ब्रह्मन् वेदोक्तं सर्वमङ्गलम् । सर्वं जानासि च कथं ज्ञातुमिच्छसि वृद्धये ॥ 20॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,20,15461,शरत्कृष्णत्रयोदश्यां मघायां श्राद्धवासरे । स्वधां सम्पूज्य यत्नेन ततः श्राद्धं समाचरेत् ॥ 21॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,21,15462,स्वधां नाभ्यर्च्य यो विप्रः श्राद्धं कुर्यादहम्मतिः । न भवेत्फलभाक्सत्यं श्राद्धस्य तर्पणस्य च ॥ 22॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,22,15463,ब्रह्मणो मानसीं कन्यां शश्वत्सुस्थिरयौवनाम् । पूज्यां वै पितृदेवानां श्राद्धानां फलदां भजे ॥ 23॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,23,15464,इति ध्यात्वा शिलायां वा ह्यथवा मङ्गले घटे । दद्यात्पाद्यादिकं तस्यै मूलेनेति श्रुतौ श्रुतम् ॥ 24॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,24,15465,ॐ ह्रीं श्रीं क्लीं स्वधादेव्यै स्वाहेति च महामुने । समुच्चार्य तु सम्पूज्य स्तुत्वा तां प्रणमेद् द्विजः ॥ 25॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,25,15466,स्तोत्रं श‍ृणु मुनिश्रेष्ठ ब्रह्मपुत्र विशारद । सर्ववाञ्छाप्रदं नॄणां ब्रह्मणा यत्कृतं पुरा ॥ 26॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,26,15467,श्रीनारायण उवाच । स्वधोच्चारणमात्रेण तीर्थस्नायी भवेन्नरः । मुच्यते सर्वपापेभ्यो वाजपेयफलं लभेत् ॥ 27॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,27,15468,स्वधा स्वधा स्वधेत्येवं यदि वारत्रयं स्मरेत् । श्राद्धस्य फलमाप्नोति बलेश्च तर्पणस्य च ॥ 28॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,28,15469,श्राद्धकाले स्वधास्तोत्रं यः श‍ृणोति समाहितः । स लभेच्छ्राद्धसम्भूतं फलमेव न संशयः ॥ 29॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,29,15470,स्वधा स्वधा स्वधेत्येवं त्रिसन्ध्यं यः पठेन्नरः । प्रियां विनीतां स लभेत्साध्वीं पुत्रगुणान्विताम् ॥ 30॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,30,15471,पितॄणां प्राणतुल्या त्वं द्विजजीवनरूपिणी । श्राद्धाधिष्ठातृदेवी च श्राद्धादीनां फलप्रदा ॥ 31॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,31,15472,नित्या त्वं सत्यरूपासि पुण्यरूपासि सुव्रते । आविर्भावतिरोभावौ सृष्टौ च प्रलये तव ॥ 32॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,32,15473,ॐ स्वस्तिश्च नमः स्वाहा स्वधा त्वं दक्षिणा तथा । निरूपिताश्चतुर्वेदैः प्रशस्ताः कर्मिणां पुनः ॥ 33॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,33,15474,कर्मपूर्त्यर्थमेवैता ईश्वरेण विनिर्मिताः । इत्येवमुक्त्वा स ब्रह्मा ब्रह्मलोके स्वसंसदि ॥ 34॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,34,15475,तस्थौ च सहसा सद्यः स्वधा साऽऽविर्बभूव ह । तदा पितृभ्यः प्रददौ तामेव कमलाननाम् ॥ 35॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,35,15476,तां सम्प्राप्य ययुस्ते च पितरश्च प्रहर्षिताः । स्वधास्तोत्रमिदं पुण्यं यः श‍ृणोति समाहितः । स स्नातः सर्वतीर्थेषु वाञ्छितं फलमाप्नुयात् ॥ 36॥ 9,९.४४,चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।,36,15477,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे स्वधोपाख्यानवर्णनं नाम चतुश्चत्वारिशोऽध्यायः ॥ ९.४४॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,0,15478,श्रीनारायण उवाच । उक्तं स्वाहास्वधाख्यानं प्रशस्तं मधुरं परम् । वक्ष्यामि दक्षिणाख्यानं सावधानो निशामय ॥ 1॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,1,15479,गोपी सुशीला गोलोके पुराऽऽसीत्प्रेयसी हरेः । राधा प्रधाना सध्रीची धन्या मान्या मनोहरा ॥ 2॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,2,15480,अतीव सुन्दरी रामा सुभगा सुदती सती । विद्यावती गुणवती चातिरूपवती सती ॥ 3॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,3,15481,कलावती कोमलाङ्गी कान्ता कमललोचना । सुश्रोणी सुस्तनी श्यामा न्यग्रोधपरिमण्डिता ॥ 4॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,4,15482,ईषद्धास्यप्रसन्नास्या रत्नालङ्कारभूषिता । श्वेतचम्पकवर्णाभा बिम्बोष्ठी मृगलोचना ॥ 5॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,5,15483,कामशास्त्रेषु निपुणा कामिनी हंसगामिनी । भावानुरक्ता भावज्ञा कृष्णस्य प्रियभामिनी ॥ 6॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,6,15484,रसज्ञा रसिका रासे रासेशस्य रसोत्सुका । उवासादक्षिणे क्रोडे राधायाः पुरतः पुरा ॥ 7॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,7,15485,सम्बभूवानम्रमुखो भयेन मधुसूदनः । दृष्ट्वा राधां च पुरतो गोपीनां प्रवरोत्तमाम् ॥ 8॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,8,15486,कामिनीं रक्तवदनां रक्तपङ्कजलोचनाम् । कोपेन कम्पिताङ्गीं च कोपेन स्फुरिताधराम् ॥ 9॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,9,15487,वेगेन तां तु गच्छन्तीं विज्ञाय तदनन्तरम् । विरोधभीतो भगवानन्तर्धानं चकार सः ॥ 10॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,10,15488,पलायन्तं च कान्तं च शान्तं सत्त्वं सुविग्रहम् । विलोक्य कम्पिता गोप्यः सुशीलाद्यास्ततो भिया ॥ 11॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,11,15489,विलोक्य लम्पटं तत्र गोपीनां लक्षकोटयः । पुटाञ्जलियुता भीता भक्तिनम्रात्मकन्धराः ॥ 12॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,12,15490,रक्ष रक्षेत्युक्तवन्त्यो देवीमिति पुनः पुनः । ययुर्भयेन शरणं यस्याश्चरणपङ्कजे ॥ 13॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,13,15491,त्रिलक्षकोटयो गोपाः सुदामादय एव च । ययुर्भयेन शरणं तत्पादाब्जे च नारद ॥ 14॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,14,15492,पलायन्तं च कान्तं च विज्ञाय परमेश्वरी । पलायन्तीं सहचरीं सुशीलां च शशाप सा ॥ 15॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,15,15493,अद्यप्रभृति गोलोकं सा चेदायाति गोपिका । सद्यो गमनमात्रेण भस्मसाच्च भविष्यति ॥ 16॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,16,15494,इत्येवमुक्त्वा तत्रैव देवदेवेश्वरी रुषा । रासेश्वरी रासमध्ये रासेशमाजुहाव ह ॥ 17॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,17,15495,नालोक्य पुरतः कृष्णं राधा विरहकातरा । युगकोटिसमं मेने क्षणभेदेन सुव्रता ॥ 18॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,18,15496,हे कृष्ण प्राणनाथेशागच्छ प्राणाधिकप्रिय । प्राणाधिष्ठातृदेवेश प्राणा यान्ति त्वया विना ॥ 19॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,19,15497,स्त्रीगर्वः पतिसौभाग्याद्वर्धते च दिने दिने । सुखं च विपुलं यस्मात्तं सेवेद्धर्मतः सदा ॥ 20॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,20,15498,पतिर्बन्धुः कुलस्त्रीणामधिदेवः सदागतिः । परसम्पत्स्वरूपश्च मूर्तिमान् भोगदः सदा ॥ 21॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,21,15499,धर्मदः सुखदः शश्वत्प्रीतिदः शान्तिदः सदा । सम्मानैर्दीप्यमानश्च मानदो मानखण्डनः ॥ 22॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,22,15500,सारात्सारतरः स्वामी बन्धूनां बन्धुवर्धनः । न च भर्तुः समो बन्धुर्बन्धोर्बन्धुषु दृश्यते ॥ 23॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,23,15501,भरणादेव भर्ता च पालनात्पतिरुच्यते । शरीरेशाच्च स स्वामी कामदः कान्त उच्यते ॥ 24॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,24,15502,बन्धुश्च सुखवृद्ध्या च प्रीतिदानात्प्रियः स्मृतः । ऐश्वर्यदानादीशश्च प्राणेशात्प्राणनायकः ॥ 25॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,25,15503,रतिदानाच्च रमणः प्रियो नास्ति प्रियात्परः । पुत्रस्तु स्वामिनः शुक्राज्जायते तेन स प्रियः ॥ 26॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,26,15504,शतपुत्रात्परः स्वामी कुलजानां प्रियः सदा । असत्कुलप्रसूता या कान्तं विज्ञातुमक्षमा ॥ 27॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,27,15505,स्नानं च सर्वतीर्थेषु सर्वयज्ञेषु दक्षिणा । प्रादक्षिण्यं पृथिव्याश्च सर्वाणि च तपांसि च ॥ 28॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,28,15506,सर्वाण्येव व्रतादीनि महादानानि यानि च । उपोषणानि पुण्यानि यानि यानि श्रुतानि च ॥ 29॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,29,15507,गुरुसेवा विप्रसेवा देवसेवादिकं च यत् । स्वामिनः पादसेवायाः कलां नार्हन्ति षोडशीम् ॥ 30॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,30,15508,गुरुविप्रेन्द्रदेवेषु सर्वेभ्यश्च पतिर्गुरुः । विद्यादाता यथा पुंसां कुलजानां तथा प्रियः ॥ 31॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,31,15509,गोपीनां लक्षकोटीनां गोपानां च तथैव च । ब्रह्माण्डानामसङ्ख्यानां तत्रस्थानां तथैव च ॥ 32॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,32,15510,विश्वादिगोलकान्तानामीश्वरी यत्प्रसादतः । अहं न जाने तं कान्तं स्त्रीस्वभावो दुरत्ययः ॥ 33॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,33,15511,इत्युक्त्वा राधिका कृष्णं तत्र दध्यौ स्वभक्तितः । रुरोद प्रेम्णा सा राधा नाथ नाथेति चाब्रवीत् ॥ 34॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,34,15512,दर्शनं देहि रमण दीना विरहदुःखिता । अथ सा दक्षिणा देवी ध्वस्ता गोलोकतो मुने ॥ 35॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,35,15513,सुचिरं च तपस्तप्त्वा विवेश कमलातनौ । अथ देवादयः सर्वे यज्ञं कृत्वा सुदुष्करम् ॥ 36॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,36,15514,नालभंस्ते फलं तेषां विषण्णाः प्रययुर्विधिम् । विधिर्निवेदनं श्रुत्वा देवादीनां जगत्पतिम् ॥ 37॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,37,15515,दध्यौ च सुचिरं भक्त्या प्रत्यादेशमवाप सः । नारायणश्च भगवान् महालक्ष्याश्च देहतः ॥ 38॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,38,15516,विनिष्कृष्य मर्त्यलक्ष्मीं ब्रह्मणे दक्षिणां ददौ । ब्रह्मा ददौ तां यज्ञाय पूरणार्थं च कर्मणाम् ॥ 39॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,39,15517,यज्ञः सम्पूज्य विधिवत्तां तुष्टाव तदा मुदा । तप्तकाञ्चनवर्णाभां चन्द्रकोटिसमप्रभाम् ॥ 40॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,40,15518,अतीव कमनीयां च सुन्दरीं सुमनोहराम् । कमलास्यां कोमलाङ्गीं कमलायतलोचनाम् ॥ 41॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,41,15519,कमलासनपूज्यां च कमलाङ्गसमुद्भवाम् । वह्निशुद्धांशुकाधानां बिम्बोष्ठीं सुदतीं सतीम् ॥ 42॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,42,15520,बिभ्रतीं कबरीभारं मालतीमाल्यसंयुतम् । ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम् ॥ 43॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,43,15521,सुवेषाढ्यां च सुस्नातां मुनिमानसमोहिनीम् । कस्तूरीबिन्दुभिः सार्धं सुगन्धिचन्दनेन्दुभिः ॥ 44॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,44,15522,सिन्दूरबिन्दुनाल्पेनाप्यलकाधःस्थलोज्ज्वलाम् । सुप्रशस्तनितम्बाढ्यां बृहच्छ्रोणिपयोधराम् ॥ 45॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,45,15523,कामदेवाधाररूपां कामबाणप्रपीडिताम् । तां दृष्ट्वा रमणीयां च यज्ञो मूर्च्छामवाप ह ॥ 46॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,46,15524,पत्नीं तामेव जग्राह विधिबोधितपूर्वकम् । दिव्यं वर्षशतं चैव तां गृहीत्वा तु निर्जने ॥ 47॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,47,15525,यज्ञो रेमे मुदा युक्तो रामेशो रमया सह । गर्भं दधार सा देवी दिव्यं द्वादशवर्षकम् ॥ 48॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,48,15526,ततः सुषाव पुत्रं च फलं वै सर्वकर्मणाम् । परिपूर्णे कर्मणि च तत्पुत्रः फलदायकः ॥ 49॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,49,15527,यज्ञो दक्षिणया सार्धं पुत्रेण च फलेन च । कर्मिणां फलदाता चेत्येवं वेदविदो विदुः ॥ 50॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,50,15528,यज्ञश्च दक्षिणां प्राप्य पुत्रं च फलदायकम् । फलं ददौ च सर्वेभ्यः कर्मणां चैव नारद ॥ 51॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,51,15529,तदा देवादयस्तुष्टाः परिपूर्णमनोरथाः । स्वस्थाने ते ययुः सर्वे धर्मवक्त्रादिदं श्रुतम् ॥ 52॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,52,15530,कृत्वा कर्म च कर्ता च तूर्णं दद्याच्च दक्षिणाम् । तत्क्षणं फलमाप्नोति वेदैरुक्तमिदं मुने ॥ 53॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,53,15531,कर्मी कर्मणि पूर्णे च तत्क्षणे यदि दक्षिणाम् । न दद्याद् ब्राह्मणेभ्यश्च दैवेनाज्ञानतोऽथवा ॥ 54॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,54,15532,मुहूर्ते समतीते तु द्विगुणा सा भवेद् ध्रुवम् । एकरात्रे व्यतीते तु भवेच्छतगुणा च सा ॥ 55॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,55,15533,त्रिरात्रे तच्छतगुणा सप्ताहे द्विगुणा ततः । मासे लक्षगुणा प्रोक्ता ब्राह्मणानां च वर्धते ॥ 56॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,56,15534,संवत्सरे व्यतीते तु सा त्रिकोटिगुणा भवेत् । कर्म तद्यजमानानां सर्वं वै निष्फलं भवेत् ॥ 57॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,57,15535,स च ब्रह्मस्वहारी च न कर्मार्होऽशुचिर्नरः । दरिद्रो व्याधियुक्तश्च तेन पापेन पातकी ॥ 58॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,58,15536,तद्गृहाद्याति लक्ष्मीश्च शापं दत्त्वा सुदारुणम् । पितरो नैव गृह्णन्ति तद्दत्तं श्राद्धतर्पणम् ॥ 59॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,59,15537,एवं सुराश्च तत्पूजां तद्दत्तामग्निराहुतिम् । दत्तं न दीयते दानं ग्रहीता नैव याचते ॥ 60॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,60,15538,उभौ तौ नरके यातश्छिन्नरज्जौ यथा घटः । नार्पयेद्यजमानश्चेद्याचितश्चापि दक्षिणाम् ॥ 61॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,61,15539,भवेद्ब्रह्मस्वापहारी कुम्भीपाकं व्रजेद् ध्रुवम् । वर्षलक्षं वसेत्तत्र यमदूतेन ताडितः ॥ 62॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,62,15540,ततो भवेत्स चाण्डालो व्याधियुक्तो दरिद्रकः । पातयेत्पुरुषान्सप्त पूर्वांश्च सप्त जन्मतः ॥ 63॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,63,15541,इत्येवं कथितं विप्र किं भूयः श्रोतुमिच्छसि । नारद उवाच । यत्कर्म दक्षिणाहीनं को भुङ्क्ते तत्फलं मुने ॥ 64॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,64,15542,पूजाविधिं दक्षिणायाः पुरा यज्ञकृतं वद । श्रीनारायण उवाच । कर्मणोऽदक्षिणस्यैव कुत एव फलं मुने ॥ 65॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,65,15543,सदक्षिणे कर्मणि च फलमेव प्रवर्तते । अदक्षिणं च यत्कर्म तद्भुङ्क्ते च बलिर्मुने ॥ 66॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,66,15544,बलये तत्प्रदत्तं च वामनेन पुरा मुने । अश्रोत्रियः श्राद्धद्रव्यमश्रद्धादानमेव च ॥ 67॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,67,15545,वृषलीपतिविप्राणां पूजाद्रव्यादिकं च यत् । असद्द्विजैः कृतं यज्ञमशुचेः पूजनं च यत् ॥ 68॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,68,15546,गुरावभक्तस्य कर्म बलिर्भुङ्क्ते न संशयः । दक्षिणायाश्च यद्ध्यानं स्तोत्रं पूजाविधिक्रमम् ॥ 69॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,69,15547,तत्सर्वं कण्वशाखोक्तं प्रवक्ष्यामि निशामय । पुरा सम्प्राप्य तां यज्ञः कर्मदक्षां च दक्षिणाम् ॥ 70॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,70,15548,मुमोहास्याः स्वरूपेण तुष्टाव कामकातरः । यज्ञ उवाच । पुरा गोलोकगोपी त्वं गोपीनां प्रवरा वरा ॥ 71॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,71,15549,राधासमा तत्सखी च श्रीकृष्णप्रेयसी प्रिया । कार्तिकीपूर्णिमायां तु रासे राधामहोत्सवे ॥ 72॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,72,15550,आविर्भूता दक्षिणांसाल्लक्ष्म्याश्च तेन दक्षिणा । पुरा त्वं च सुशीलाख्या ख्याता शीलेन शोभने ॥ 73॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,73,15551,लक्ष्मीदक्षांसभागात्त्वं राधाशापाच्च दक्षिणा । गोलोकात्त्वं परिभ्रष्टा मम भाग्यादुपस्थिता ॥ 74॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,74,15552,कृपां कुरु महाभागे मामेव स्वामिनं कुरु । कर्मिणां कर्मणां देवी त्वमेव फलदा सदा ॥ 75॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,75,15553,त्वया विना च सर्वेषां सर्वं कर्म च निष्फलम् । त्वया विना तथा कर्म कर्मिणां च न शोभते ॥ 76॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,76,15554,ब्रह्मविष्णुमहेशाश्च दिक्पालादय एव च । कर्मणश्च फलं दातुं न शक्ताश्च त्वया विना ॥ 77॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,77,15555,कर्मरूपी स्वयं ब्रह्मा फलरूपी महेश्वरः । यज्ञरूपी विष्णुरहं त्वमेषां साररूपिणी ॥ 78॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,78,15556,फलदातृपरं ब्रह्म निर्गुणा प्रकृतिः परा । स्वयं कृष्णश्च भगवान् स च शक्तस्त्वया सह ॥ 79॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,79,15557,त्वमेव शक्तिः कान्ते मे शश्वज्जन्मनि जन्मनि । सर्वकर्मणि शक्तोऽहं त्वया सह वरानने ॥ 80॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,80,15558,इत्युक्त्वा च पुरस्तस्थौ यज्ञाधिष्ठातृदेवता । तुष्टा बभूव सा देवी भेजे तं कमलाकला ॥ 81॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,81,15559,इदं च दक्षिणास्तोत्रं यज्ञकाले च यः पठेत् । फलं च सर्वयज्ञानां प्राप्नोति नात्र संशयः ॥ 82॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,82,15560,राजसूये वाजपेये गोमेधे नरमेधके । अश्वमेधे लाङ्गले च विष्णुयज्ञे यशस्करे ॥ 83॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,83,15561,धनदे भूमिदे पूर्ते फलदे गजमेधके । लोहयज्ञे स्वर्णयज्ञे रत्नयज्ञेऽथ ताम्रके ॥ 84॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,84,15562,शिवयज्ञे रुद्रयज्ञे शक्रयज्ञे च बन्धुके । वृष्टौ वरुणयागे च कण्डके वैरिमर्दने ॥ 85॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,85,15563,शुचियज्ञे धर्मयज्ञेऽध्वरे च पापमोचने । ब्रह्माणीकर्मयागे च योनियागे च भद्रके ॥ 86॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,86,15564,एतेषां च समारम्भे इदं स्तोत्रं च यः पठेत् । निर्विघ्नेन च तत्कर्म सर्वं भवति निश्चितम् ॥ 87॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,87,15565,इदं स्तोत्रं च कथितं ध्यानं पूजाविधिं श‍ृणु । शालग्रामे घटे वापि दक्षिणां पूजयेत्सुधीः ॥ 88॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,88,15566,लक्ष्मीदक्षांससम्भूतां दक्षिणां कमलाकलाम् । सर्वकर्मसुदक्षां च फलदां सर्वकर्मणाम् ॥ 89॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,89,15567,विष्णोः शक्तिस्वरूपां च पूजितां वन्दितां शुभाम् । शुद्धिदां शुद्धिरूपां च सुशीलां शुभदां भजे ॥ 90॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,90,15568,ध्यात्वानेनैव वरदां मूलेन पूजयेत्सुधीः । दत्त्वा पाद्यादिकं देव्यै वेदोक्तेनैव नारद ॥ 91॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,91,15569,ॐ श्रीं क्लीं ह्रीं दक्षिणायै स्वाहेति च विचक्षणः । पूजयेद्विधिवद् भक्त्या दक्षिणां सर्वपूजिताम् ॥ 92॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,92,15570,इत्येवं कथितं ब्रह्मन् दक्षिणाख्यानमेव च । सुखदं प्रीतिदं चैव फलदं सर्वकर्मणाम् ॥ 93॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,93,15571,इदं च दक्षिणाख्यानं यः श‍ृणोति समाहितः । अङ्गहीनं च तत्कर्म न भवेद्भारते भुवि ॥ 94॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,94,15572,अपुत्रो लभते पुत्रं निश्चितं च गुणान्वितम् । भार्याहीनो लभेद्भार्यां सुशीलां सुन्दरीं पराम् ॥ 95॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,95,15573,वरारोहां पुत्रवतीं विनीतां प्रियवादिनीम् । पतिव्रतां च शुद्धां च कुलजां च वधूं वराम् ॥ 96॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,96,15574,विद्याहीनो लभेद्विद्यां धनहीनो लभेद्धनम् । भूमिहीनो लभेद्भूमिं प्रजाहीनो लभेत्प्रजाम् ॥ 97॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,97,15575,सङ्कटे बन्धुविच्छेदे विपत्तौ बन्धने तथा । मासमेकमिदं श्रुत्वा मुच्यते नात्र संशयः ॥ 98॥ 9,९.४५,पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।,98,15576,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे दक्षिणोपाख्यानवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ॥ ९.४५॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,0,15577,नारद उवाच । अनेकानां च देवीनां श्रुतमाख्यानमुत्तमम् । अन्यासां चरितं ब्रह्मन् वद वेदविदांवर ॥ 1॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,1,15578,श्रीनारायण उवाच । सर्वासां चरितं विप्र वेदेषु च पृथक्पृथक् । पूर्वोक्तानां च देवीनां कासां श्रोतुमिहेच्छसि ॥ 2॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,2,15579,नारद उवाच । षष्ठी मङ्गलचण्डी च मनसा प्रकृतेः कला । उत्पत्तिमासां चरितं श्रोतुमिच्छामि तत्त्वतः ॥ 3॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,3,15580,श्रीनारायण उवाच । षष्ठांशा प्रकृतेर्या च सा च षष्ठी प्रकीर्तिता । बालकानामधिष्ठात्री विष्णुमाया च बालदा ॥ 4॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,4,15581,मातृकासु च विख्याता देवसेनाभिधा च या । प्राणाधिकप्रिया साध्वी स्कन्दभार्या च सुव्रता ॥ 5॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,5,15582,आयुःप्रदा च बालानां धात्री रक्षणकारिणी । सततं शिशुपार्श्वस्था योगेन सिद्धियोगिनी ॥ 6॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,6,15583,तस्याः पूजाविधिं ब्रह्मनितिहासमिदं श‍ृणु । यच्छ्रुतं धर्मवक्येण सुखदं पुत्रदं परम् ॥ 7॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,7,15584,राजा प्रियव्रतश्चासीत्स्वायम्भुवमनोः सुतः । योगीन्द्रो नोद्वहद्भार्यां तपस्यासु रतः सदा ॥ 8॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,8,15585,ब्रह्माज्ञया च यत्नेन कृतदारो बभूव ह । सुचिरं कृतदारश्च न लेभे तनयं मुने ॥ 9॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,9,15586,पुत्रेष्टियज्ञं तं चापि कारयामास कश्यपः । मालिन्यं तस्य कान्तायै मुनिर्यज्ञचरुं ददौ ॥ 10॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,10,15587,भुक्त्वा च तं चरुं तस्याः सद्यो गर्भो बभूव ह । दधार तं च सा देवी दैवं द्वादशवत्सरम् ॥ 11॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,11,15588,ततः सुषाव सा ब्रह्मन् कुमारं कनकप्रभम् । सर्वावयवसम्पन्नं मृतमुत्तारलोचनम् ॥ 12॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,12,15589,तं दृष्ट्वा रुरुदुः सर्वा नार्यश्च बान्धवस्त्रियः । मूर्च्छामवाप तन्माता पुत्रशोकेन भूयसा ॥ 13॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,13,15590,श्मशानं च ययौ राजा गहीत्वा बालकं मुने । रुरोद तत्र कान्तारे पुत्रं कृत्वा स्ववक्षसि ॥ 14॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,14,15591,नोत्सृजद् बालकं राजा प्राणांस्त्यक्तुं समुद्यतः । ज्ञानयोगं विसस्मार पुत्रशोकात्सुदारुणात् ॥ 15॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,15,15592,एतस्मिन्नन्तरे तत्र विमानं च ददर्श सः । शुद्धस्फटिकसङ्काशं मणिराजविनिर्मितम् ॥ 16॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,16,15593,तेजसा ज्वलितं शश्वच्छोभितं क्षौमवाससा । नानाचित्रविचित्राढ्यं पुष्पमालाविराजितम् ॥ 17॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,17,15594,ददर्श तत्र देवीं च कमनीयां मनोहराम् । श्वेतचम्पकवर्णाभां शश्वत्सुस्थिरयौवनाम् ॥ 18॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,18,15595,ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम् । कृपामयीं योगसिद्धां भक्तानुग्रहकातराम् ॥ 19॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,19,15596,दृष्ट्वा तां पुरतो राजा तुष्टाव परमादरात् । चकार पूजनं तस्या विहाय बालकं भुवि ॥ 20॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,20,15597,पप्रच्छ राजा तां तुष्टां ग्रीष्मसूर्यसमप्रभाम् । तेजसा ज्वलितां शान्तां कान्तां स्कन्दस्य नारद ॥ 21॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,21,15598,राजोवाच । का त्वं सुशोभने कान्ते कस्य कान्तासि सुव्रते । कस्य कन्या वरारोहे धन्या मान्या च योषिताम् ॥ 22॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,22,15599,नृपेन्द्रस्य वचः श्रुत्वा जगन्मङ्गलचण्डिका । उवाच देवसेना सा देवानां रणकारिणी ॥ 23॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,23,15600,देवानां दैत्यग्रस्तानां पुरा सेना बभूव सा । जयं ददौ सा तेभ्यश्च देवसेना च तेन सा ॥ 24॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,24,15601,श्रीदेवसेनोवाच । ब्रह्मणो मानसी कन्या देवसेनाहमीश्वरी । सृष्ट्वा तां मनसा धाता ददौ स्कन्दाय भूमिप ॥ 25॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,25,15602,मातृकासु च विख्याता स्कन्दभार्या च सुव्रता । विश्वे षष्ठीति विख्याता षष्ठांशा प्रकृतेः परा ॥ 26॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,26,15603,अपुत्राय पुत्रदाहं प्रियादात्री प्रियाय च । धनदाहं दरिद्रेभ्यः कर्मिभ्यश्च स्वकर्मदा ॥ 27॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,27,15604,सुखं दुःखं भयं शोको हर्षो मङ्गलमेव च । सम्पत्तिश्च विपत्तिश्च सर्वं भवति कर्मणा ॥ 28॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,28,15605,कर्मणा बहुपुत्रश्च वंशहीनः स्वकर्मणा । कर्मणा मृतपुत्रश्च कर्मणा चिरजीवनः ॥ 29॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,29,15606,कर्मणा गुणवांश्चैव कर्मणा चाङ्गहीनकः । कर्मणा बहुभार्यश्च भार्याहीनश्च कर्मणा ॥ 30॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,30,15607,कर्मणा रूपवान्धर्मी रोगी शश्वत्स्वकर्मणा । कर्मणा च भवेद्व्याधिः कर्मणाऽऽरोग्यमेव च ॥ 31॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,31,15608,तस्मात्कर्म परं राजन् सर्वेभ्यश्च श्रुतौ श्रुतम् । इत्येवमुक्त्वा सा देवी गृहीत्वा बालकं मुने ॥ 32॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,32,15609,महाज्ञानेन सा देवी जीवयामास लीलया । राजा ददर्श तं बालं सस्मितं कनकप्रभम् ॥ 33॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,33,15610,देवसेना च पश्यन्तं नृपमापृच्छ्य सा तदा । गृहीत्वा बालकं देवी गगनं गन्तुमुद्यता ॥ 34॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,34,15611,पुनस्तुष्टाव तां राजा शुष्ककण्ठोष्ठतालुकः । नृपस्तोत्रेण सा देवी परितुष्टा बभूव ह ॥ 35॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,35,15612,उवाच तं नृपं ब्रह्मन् वेदोक्तं कर्मनिर्मितम् । देव्युवाच । त्रिषु लोकेषु त्वं राजा स्वायम्भुवमनोः सुतः ॥ 36॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,36,15613,मम पूजां च सर्वत्र कारयित्वा स्वयं कुरु । तदा दास्यामि पुत्रं ते कुलपद्मं मनोहरम् ॥ 37॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,37,15614,सुव्रतं नाम विख्यातं गुणवन्तं सुपण्डितम् । जातिस्मरं च योगीन्द्रं नारायणकलात्मकम् ॥ 38॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,38,15615,शतक्रतुकरं श्रेष्ठं क्षत्रियाणां च वन्दितम् । मत्तमातङ्गलक्षाणां धृतवन्तं बलं शुभम् ॥ 39॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,39,15616,धनिनं गुणिनं शुद्धं विदुषां प्रियमेव च । योगिनां ज्ञानिनां चैव सिद्धिरूपं तपस्विनाम् ॥ 40॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,40,15617,यशस्विनं च लोकेषु दातारं सर्वसम्पदाम् । इत्येवमुक्त्वा सा देवी तस्मै तद्बालकं ददौ ॥ 41॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,41,15618,राजा चकार स्वीकारं पूजार्थं च प्रियव्रतः । जगाम देवी स्वर्गं च दत्त्वा तस्मै शुभं वरम् ॥ 42॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,42,15619,आजगाम सहामात्यः स्वगृहं हृष्टमानसः । आगत्य कथयामास वृत्तान्तं पुत्रहेतुकम् ॥ 43॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,43,15620,श्रुत्वा बभूवुः सन्तुष्टा नरा नार्यश्च नारद । मङ्गलं कारयामास सर्वत्र पुत्रहेतुकम् ॥ 44॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,44,15621,देवीं च पूजयामास ब्राह्मणेभ्यो धनं ददौ । राजा च प्रतिमासेषु शुक्लषष्ठ्यां महोत्सवम् ॥ 45॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,45,15622,षष्ट्या देव्याश्च यत्नेन कारयामास सर्वतः । बालानां सूतिकागारे षष्ठाहे यत्नपूर्वकम् ॥ 46॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,46,15623,तत्पूजां कारयामास चैकविंशतिवासरे । बालानां शुभकार्ये च शुभान्नप्राशने तथा ॥ 47॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,47,15624,सर्वत्र वर्धयामास स्वयमेव चकार ह । ध्यानं पूजाविधानं च स्तोत्रं मत्तो निशामय ॥ 48॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,48,15625,यच्छ्रुतं धर्मवक्त्रेण कौथुमोक्तं च सुव्रत । शालग्रामे घटे वाथ वटमूलेऽथवा मुने ॥ 49॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,49,15626,भित्त्यां पुत्तलिकां कृत्वा पूजयेद्वा विचक्षणः । षष्ठांशां प्रकृतेः शुद्धां प्रतिष्ठाप्य च सुप्रभाम् ॥ 50॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,50,15627,सुपुत्रदां च शुभदा दयारूपां जगत्प्रसूम् । श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् ॥ 51॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,51,15628,पवित्ररूपां परमां देवसेनां परां भजे । इति ध्यात्वा स्वशिरसि पुष्पं दत्त्वा विचक्षणः ॥ 52॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,52,15629,पुनर्ध्यात्वा च मूलेन पूजयेत्सुव्रतां सतीम् । पाद्यार्घ्याचमनीयैश्च गन्धपुष्पप्रदीपकैः ॥ 53॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,53,15630,नैवेद्यैर्विविधैश्चापि फलेन शोभनेन च । ॐ ह्रीं षष्ठीदेव्यै स्वाहेति विधिपूर्वकम् ॥ 54॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,54,15631,अष्टाक्षरं महामन्त्रं यथाशक्ति जपेन्नरः । ततः स्तुत्वा च प्रणमेद्भक्तियुक्तः समाहितः ॥ 55॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,55,15632,स्तोत्रं च सामवेदोक्तं वरं पुत्रफलप्रदम् । अष्टाक्षरं महामन्त्रं लक्षधा यो जपेत्ततः ॥ 56॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,56,15633,सुपुत्रं स लभेन्नूनमित्याह कमलोद्भवः । स्तोत्रं श‍ृणु मुनिश्रेष्ठ सर्वकामशुभावहम् ॥ 57॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,57,15634,वाञ्छाप्रदं च सर्वेषां गूढं वेदेषु नारद । नमो देव्यै महादेव्यै सिद्ध्यै शान्त्यै नमो नमः ॥ 58॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,58,15635,शुभायै देवसेनायै षष्ठ्यै देव्यै नमो नमः । वरदायै पुत्रदायै धनदायै नमो नमः ॥ 59॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,59,15636,सुखदायै मोक्षदायै षष्ठ्यै देव्यै नमो नमः । सृष्ट्यै षष्ठांशरूपायै सिद्धायै च नमो नमः ॥ 60॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,60,15637,मायायै सिद्धयोगिन्यै षष्ठीदेव्यै नमो नमः । सारायै शारदायै च परादेव्यै नमो नमः ॥ 61॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,61,15638,बालाधिष्ठातृदेव्यै च षष्ठीदेव्यै नमो नमः । कल्याणदायै कल्याण्यै फलदायै च कर्मणाम् ॥ 62॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,62,15639,प्रत्यक्षायै स्वभक्तानां षष्ठ्यै देव्यै नमो नमः । पूज्यायै स्कन्दकान्तायै सर्वेषां सर्वकर्मसु ॥ 63॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,63,15640,देवरक्षणकारिण्यै षष्ठीदेव्यै नमो नमः । शुद्धसत्त्वस्वरूपायै वन्दितायै नृणां सदा ॥ 64॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,64,15641,हिंसाक्रोधवर्जितायै षष्ठीदेव्यै नमो नमः । धनं देहि प्रियां देहि पुत्रं देहि सुरेश्वरि ॥ 65॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,65,15642,मानं देहि जयं देहि द्विषो जहि महेश्वरि । धर्मं देहि यशो देहि षष्ठीदेव्यै नमो नमः ॥ 66॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,66,15643,देहि भूमिं प्रजां देहि विद्यां देहि सुपूजिते । कल्याणं च जयं देहि षष्ठीदेव्यै नमो नमः ॥ 67॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,67,15644,इति देवीं च संस्तूय लेभे पुत्रं प्रियव्रतः । यशस्विनं च राजेन्द्रः षष्ठीदेव्याः प्रसादतः ॥ 68॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,68,15645,षष्ठीस्तोत्रमिदं ब्रह्मन् यः श‍ृणोति तु वत्सरम् । अपुत्रो लभते पुत्रं वरं सुचिरजीविनम् ॥ 69॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,69,15646,वर्षमेकं च यो भक्त्या सम्पूज्येदं श‍ृणोति च । सर्वपापाद्विनिर्मुक्तो महावन्ध्या प्रसूयते ॥ 70॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,70,15647,वीरं पुत्रं च गुणिनं विद्यावन्तं यशस्विनम् । सुचिरायुष्यवन्तं च सूते देवीप्रसादतः ॥ 71॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,71,15648,काकवन्ध्या च या नारी मृतवत्सा च या भवेत् । वर्षं श्रुत्वा लभेत्पुत्रं षष्ठीदेवीप्रसादतः ॥ 72॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,72,15649,रोगयुक्ते च बाले च पिता माता श‍ृणोति चेत् । मासेन मुच्यते बालः षष्ठीदेवीप्रसादतः ॥ 73॥ 9,९.४६,षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।,73,15650,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे षष्ठ्युपाख्यानवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥ ९.४६॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,0,15651,श्रीनारायण उवाच । कथितं षष्ठ्युपाख्यानं ब्रह्मपुत्र यथाऽऽगमम् । देवी मङ्गलचण्डी च तदाख्यानं निशामय ॥ 1॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,1,15652,तस्याः पूजादिकं सर्वं धर्मवक्त्रेण यच्छ्रुतम् । श्रुतिसम्मतमेवेष्टं सर्वेषां विदुषामपि ॥ 2॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,2,15653,दक्षा या वर्तते चण्डी कल्याणेषु च मङ्गला । मङ्गलेषु च या दक्षा सा च मङ्गलचण्डिका ॥ 3॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,3,15654,पूज्या या वर्तते चण्डी मङ्गलोऽपि महीसुतः । मङ्गलाभीष्टदेवी या सा वा मङ्गलचण्डिका ॥ 4॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,4,15655,मङ्गलो मनुवंश्यश्च सप्तद्वीपधरापतिः । तस्य पूज्याभीष्टदेवी तेन मङ्गलचण्डिका ॥ 5॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,5,15656,मूर्तिभेदेन सा दुर्गा मूलप्रकृतिरीश्वरी । कृपारूपातिप्रत्यक्षा योषितामिष्टदेवता ॥ 6॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,6,15657,प्रथमे पूजिता सा च शङ्करेण परात्परा । त्रिपुरस्य वधे घोरे विष्णुना प्रेरितेन च ॥ 7॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,7,15658,ब्रह्मन् ब्रह्मोपदेशेन दुर्गतेन च सङ्कटे । आकाशात्पतिते याने दैत्येन पातिते रुषा ॥ 8॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,8,15659,ब्रह्मविष्णूपदिष्टश्च दुर्गां तुष्टाव शङ्करः । सा च मङ्गलचण्डी या बभूव रूपभेदतः ॥ 9॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,9,15660,उवाच पुरतः शम्भोर्भयं नास्तीति ते प्रभो । भगवान्वृषरूपश्च सर्वेशस्ते भविष्यति ॥ 10॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,10,15661,युद्धशक्तिस्वरूपाहं भविष्यामि न संशयः । मायात्मना च हरिणा सहायेन वृषध्वज ॥ 11॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,11,15662,जहि दैत्यं स्वशत्रुं च सुराणां पदघातकम् । इत्युक्त्वान्तर्हिता देवी शम्भोः शक्तिर्बभूव सा ॥ 12॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,12,15663,विष्णुदत्तेन शस्त्रेण जघान तमुमापतिः । मुनीन्द्र पतिते दैत्ये सर्वे देवा महर्षयः ॥ 13॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,13,15664,तुष्टुवुः शङ्करं देवं भक्तिनम्रात्मकन्धराः । सद्यः शिरसि शम्भोश्च पुष्पवृष्टिर्बभूव ह ॥ 14॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,14,15665,ब्रह्मा विष्णुश्च सन्तुष्टो ददौ तस्मै शुभाशिषम् । ब्रह्मविष्णूपदिष्टश्च सुस्नातः शङ्करस्तथा ॥ 15॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,15,15666,पूजयामास तां भक्त्या देवीं मङ्गलचण्डिकाम् । पाद्यार्घ्याचमनीयैश्च वस्त्रैश्च विविधैरपि ॥ 16॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,16,15667,पुष्पचन्दननैवेद्यैर्भक्त्या नानाविधैर्मुने । छागैर्मेषैश्च महिषैर्गवयैः पक्षिभिस्तथा ॥ 17॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,17,15668,वस्त्रालङ्कारमाल्यैश्च पायसैः पिष्टकैरपि । मधुभिश्च सुधाभिश्च फलैर्नानाविधैरपि ॥ 18॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,18,15669,सङ्गीतैर्नर्तकैर्वाद्यैरुत्सवैर्नामकीर्तनैः । ध्यात्वा माध्यन्दिनोक्तेन ध्यानेन भक्तिपूर्वकम् ॥ 19॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,19,15670,ददौ द्रव्याणि मूलेन मन्त्रेणैव च नारद । ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवि मङ्गलचण्डिके ॥ 20॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,20,15671,हूँ हूँ फट् स्वाहाप्येकविंशाक्षरो मनुः । पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः ॥ 21॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,21,15672,दशलक्षजपेनैव मन्त्रसिद्धिर्भवेद् ध्रुवम् । ध्यानं च श्रूयतां ब्रह्मन् वेदोक्तं सर्वसम्मतम् ॥ 22॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,22,15673,देवीं षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम् । बिम्बोष्ठीं सुदतीं शुद्धां शरत्पद्मनिभाननाम् ॥ 23॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,23,15674,श्वेतचम्पकवर्णाभां सुनीलोत्पललोचनाम् । जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसम्पदाम् ॥ 24॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,24,15675,संसारसागरे घोरे ज्योतीरूपां सदा भजे । देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने ॥ 25॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,25,15676,महादेव उवाच । रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके । हारिके विपदां राशेर्हर्षमङ्गलकारिके ॥ 26॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,26,15677,हर्षमङ्गलदक्षे च हर्षमङ्गलदायिके । शुभे मङ्गलदक्षे च शुभे मङ्गलचण्डिके ॥ 27॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,27,15678,मङ्गले मङ्गलार्हे च सर्वमङ्गलमङ्गले । सतां मङ्गदे देवि सर्वेषां मङ्गलालये ॥ 28॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,28,15679,पूज्ये मङ्गलवारे च मङ्गलाभीष्टदेवते । पूज्ये मङ्गलभूपस्य मनुवंशस्य सन्ततम् ॥ 29॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,29,15680,मङ्गलाधिष्ठातृदेवि मङ्गलानां च मङ्गले । संसारमङ्गलाधारे मोक्षमङ्गलदायिनि ॥ 30॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,30,15681,सारे च मङ्गलाधारे पारे च सर्वकर्मणाम् । प्रतिमङ्गलवारे च पूज्ये मङ्गसुखप्रदे ॥ 31॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,31,15682,स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्गलचण्डिकाम् । प्रतिमङ्गलवारे च पूजां दत्त्वा गतः शिवः ॥ 32॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,32,15683,प्रथमे पूजिता देवी शिवेन सर्वमङ्गला । द्वितीये पूजिता सा च मङ्गलेन ग्रहेण च ॥ 33॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,33,15684,तृतीते पूजिता भद्रा मङ्गलेन नृपेण च । चतुर्थे मङ्गले वारे सुन्दरीभिः प्रपूजिता ॥ 34॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,34,15685,पञ्चमे मङ्गलाकाङ्क्षिनरैर्मङ्गलचण्डिका । पूजिता प्रतिविश्वेषु विश्वेशपूजिता सदा ॥ 35॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,35,15686,ततः सर्वत्र सम्पूज्या बभूव परमेश्वरी । देवैश्च मुनिभिश्चैव मानवैर्मनुभिर्मुने ॥ 36॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,36,15687,देव्याश्च मङ्गस्तोत्रं यः श‍ृणोति समाहितः । तन्मङ्गलं भवेत्तस्य न भवेत्तदमङ्गलम् । वर्धते पुत्रपौत्रैश्च मङ्गलं च दिने दिने ॥ 37॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,37,15688,श्रीनारायण उवाच । उक्तं द्वयोरुपाख्यानं ब्रह्मपुत्र यथागमम् । श्रूयतां मनसाऽऽख्यानं यच्छ्रुतं धर्मवक्त्रतः ॥ 38॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,38,15689,सा च कन्या भगवती कश्यपस्य च मानसी । तेनैव मनसा देवी मनसा या च दीव्यति ॥ 39॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,39,15690,मनसा ध्यायते या च परमात्मानमीश्वरम् । तेन सा मनसा देवी तेन योगेन दीव्यति ॥ 40॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,40,15691,आत्मारामा च सा देवी वैष्णवी सिद्धयोगिनी । त्रियुगं च तपस्तप्त्वा कृष्णस्य परमात्मनः ॥ 41॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,41,15692,जरत्कारुशरीरं च दृष्ट्वा यत्क्षीणमीश्वरः । गोपीपतिर्नाम चक्रे जरत्कारुरिति प्रभुः ॥ 42॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,42,15693,वाञ्छितं च ददौ तस्यै कृपया च कृपानिधिः । पूजां च कारयामास चकार च स्वयं प्रभुः ॥ 43॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,43,15694,स्वर्गे च नागलोके च पृथिव्यां ब्रह्मलोकतः । भृशं जगत्सु गौरी सा सुन्दरी च मनोहरा । ४४ जगद्गौरीति विख्याता तेन सा पूजिता सती । शिवशिष्या च सा देवी तेन शैवी प्रकीर्तिता ॥ 45॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,44,15695,विष्णुभक्तातीव शश्वद्वैष्णवी तेन कीर्तिता । नागानां प्राणरक्षित्री यज्ञे पारीक्षितस्य च ॥ 46॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,45,15696,नागेश्वरीति विख्याता सा नागभगिनीति च । विषं संहर्तुमीशा या तेन विषहरी स्मृता ॥ 47॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,46,15697,सिद्धयोगं हरात्प्राप तेन सा सिद्धयोगिनी । महाज्ञानं च योगं च मृतसज्जीवनीं पराम् ॥ 48॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,47,15698,महाज्ञानयुतां तां च प्रवदन्ति मनीषिणः । आस्तीकस्य मुनीन्द्रस्य माता सापि तपस्विनी ॥ 49॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,48,15699,आस्तीकमाता विज्ञाता जगत्यां सुप्रतिष्ठिता । प्रिया मुनेर्जरत्कारोर्मुनीन्द्रस्य महात्मनः ॥ 50॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,49,15700,योगिनो विश्वपूज्यस्य जरत्कारुप्रिया ततः । जरत्कारुर्जगद्गौरी मनसा सिद्धयोगिनी ॥ 51॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,50,15701,वैष्णवी नागभगिनी शैवी नागेश्वरी तथा । जरत्कारुप्रियास्तीकमाता विषहरेति च ॥ 52॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,51,15702,महाज्ञानयुता चैव सा देवी विश्वपूजिता । द्वादशैतानि नामानि पूजाकाले तु यः पठेत् ॥ 53॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,52,15703,तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च । नागभीते च शयने नागग्रस्ते च मन्दिरे ॥ 54॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,53,15704,नागशोभे महादुर्गे नागवेष्टितविग्रहे । इदं स्तोत्रं पठित्वा तु मुच्यते नात्र संशयः ॥ 55॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,54,15705,नित्यं पठेद्यस्तं दृष्ट्वा नागवर्गः पलायते । दशलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ॥ 56॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,55,15706,स्तोत्रसिद्धिर्भवेद्यस्य स विषं भोक्तुमीश्वरः । नागैश्च भूषणं कृत्वा स भवेन्नागवाहनः ॥ 57॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,56,15707,नागासनो नागतल्पो महासिद्धो भवेन्नरः । अन्ते च विष्णुना सार्धं क्रीडत्येव दिवानिशम् ॥ 58॥ 9,९.४७,सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।,57,15708,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे मङ्गलचण्डीमनसयोरुपाख्यानवर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥ ९.४७॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,0,15709,श्रीनारायण उवाच । मत्तः पूजाविधानं च श्रूयतां मुनिपुङ्गव । ध्यानं च सामवेदोक्तं प्रोक्तं देवीविधानकम् ॥ 1॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,1,15710,श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् । वह्निशुद्धांशुकाधानां नागयज्ञोपवीतिनीम् ॥ 2॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,2,15711,महाज्ञानयुतां तां च प्रवरज्ञानिनां वराम् । सिद्धाधिष्ठातृदेवीं च सिद्धां सिद्धिप्रदां भजे ॥ 3॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,3,15712,इति ध्यात्वा च तां देवीं मूलेनैव प्रपूजयेत् । नैवेद्यैर्विविधैर्धूपैः पुष्पगन्धानुलेपनैः ॥ 4॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,4,15713,मूलमन्त्रैश्च वेदोक्तैर्भक्तानां वाच्छितप्रदः । मुने कल्पतरुर्नाम सुसिद्धो द्वादशाक्षरः ॥ 5॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,5,15714,ॐ ह्रीं श्रीं क्लीं ऐं मनसादेव्यै स्वाहेति कीर्तितः । पञ्चलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ॥ 6॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,6,15715,मन्त्रसिद्धिर्भवेद्यस्य स सिद्धो जगतीतले । सुधासमं विषं तस्य धन्वन्तरिसमो भवेत् ॥ 7॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,7,15716,ब्रह्मन्स्नात्वा तु सङ्क्रान्त्यां गूढशालासु यत्नतः । आवाह्य देवीमीशानां पूजयेद्योऽतिभक्तितः ॥ 8॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,8,15717,पञ्चम्यां मनसा ध्यायन् देव्यै दद्याच्च यो बलिम् । धनवान्पुत्रवांश्चैव कीर्तिमान्स भवेद् ध्रुवम् ॥ 9॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,9,15718,पूजाविधानं कथितं तदाख्यानं निशामय । कथयामि महाभाग यच्छ्रुतं धर्मवक्त्रतः ॥ 10॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,10,15719,पुरा नागभयाक्रान्ता बभूवुर्मानवा भुवि । गतास्ते शरणं सर्वे कश्यपं मुनिपुङ्गवम् ॥ 11॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,11,15720,मन्त्रांश्च ससृजे भीतः कश्यपो ब्रह्मणान्वितः । वेदबीजानुसारेण चोपदेशेन ब्रह्मणः ॥ 12॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,12,15721,मन्त्राधिष्ठातृदेवीं तां मनसा ससृजे तथा । तपसा मनसा तेन बभूव मनसा च सा ॥ 13॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,13,15722,कुमारी सा च सम्भूता जगाम शङ्करालयम् । भक्त्या सम्पूज्य कैलासे तुष्टाव चन्द्रशेखरम् ॥ 14॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,14,15723,दिव्यवर्षसहस्रं तं सिषेवे च मुनेः सुता । आशुतोषो महेशश्च तां च तुष्टो बभूव ह ॥ 15॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,15,15724,महाज्ञानं ददौ तस्यै पाठयामास साम च । कृष्णमन्त्रं कल्पतरुं ददावष्टाक्षरं मुने ॥ 16॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,16,15725,लक्ष्मीमायाकामबीजं ङेऽन्तं कृष्णपदं ततः । त्रैलोक्यमङ्गलं नाम कवचं पूजनक्रमम् ॥ 17॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,17,15726,पुरश्चर्याक्रमं चापि वेदोक्तं सर्वसम्मतम् । प्राप्य मृत्युञ्जयान्मन्त्रं सा सती च मुनेः सुता ॥ 18॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,18,15727,जगाम तपसे साध्वी पुष्करं शङ्कराज्ञया । त्रियुगं च तपस्तप्त्वा कृष्णस्य परमात्मनः ॥ 19॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,19,15728,सिद्धा बभूव सा देवी ददर्श पुरतः प्रभुम् । दृष्ट्वा कृशाङ्गीं बालां च कृपया च कृपानिधिः ॥ 20॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,20,15729,पूजां च कारयामास चकार च स्वयं हरिः । वरं च प्रददौ तस्यै पूजिता त्वं भवे भव ॥ 21॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,21,15730,वरं दत्त्वा तु कल्याण्यै ततश्चान्तर्दधे हरिः । प्रथमे पूजिता सा च कृष्णेन परमात्मना ॥ 22॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,22,15731,द्वितीये शङ्करेणैव कश्यपेन सुरेण च । मुनिना मनुना चैव नागेन मानवादिभिः ॥ 23॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,23,15732,बभूव पूजिता सा च त्रिषु लोकेषु सुव्रता । जरत्कारुमुनीन्द्राय कश्यपस्तां ददौ पुरा ॥ 24॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,24,15733,अयाचितो मुनिश्रेष्ठो जग्राह ब्राह्मणाज्ञया । कृत्वोद्वाहं महायोगी विश्रान्तस्तपसा चिरम् ॥ 25॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,25,15734,सुष्वाप देव्या जघने वटमूले च पुष्करे । निद्रां जगाम स मुनिः स्मृत्वा निद्रेशमीश्वरम् ॥ 26॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,26,15735,जगामास्तं दिनकरः सायङ्काल उपस्थिते । सञ्चिन्त्य मनसा साध्वी मनसा सा पतिव्रता ॥ 27॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,27,15736,धर्मलोपभयेनैव चकारालोचनं सती । अकृत्वा पश्चिमां सन्ध्यां नित्यां चैव द्विजन्मनाम् ॥ 28॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,28,15737,ब्रह्महत्यादिकं पापं लभिष्यति पतिर्मम । नोपतिष्ठति यः पूर्वां नोपास्ते यस्तु पश्चिमाम् ॥ 29॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,29,15738,स सर्वत्राशुचिर्नित्यं ब्रह्महत्यादिकं लभेत् । वेदोक्तमिति सञ्चिन्त्य बोधयामास सुन्दरी ॥ 30॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,30,15739,स च बुद्धो मुनिश्रेष्ठस्तां चुकोप भृशं मुने । मुनिरुवाच । कथं मे सुखिनः साध्वि निद्राभङ्गः कृतस्त्वया ॥ 31॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,31,15740,व्यर्थं व्रतादिकं तस्या या भर्तुश्चापकारिणी । तपश्चानशनं चैव व्रतं दानादिकं च यत् ॥ 32॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,32,15741,भर्तुरप्रियकारिण्याः सर्वं भवति निष्कलम् । यया प्रियः पूजितश्च श्रीकृष्णः पूजितस्तया ॥ 33॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,33,15742,पतिव्रताव्रतार्थञ्च पतिरूपो हरिः स्वयम् । सर्वदानं सर्वयज्ञः सर्वतीर्थनिषेवणम् ॥ 34॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,34,15743,सर्वं व्रतं तपः सर्वमुपवासादिकं च यत् । सर्वधर्मश्च सत्यं च सर्वदेवप्रपूजनम् ॥ 35॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,35,15744,तत्सर्वं स्वामिसेवायाः कलां नार्हति षोडशीम् । पुण्ये च भारते वर्षे पतिसेवा करोति या ॥ 36॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,36,15745,वैकुण्ठे स्वामिना सार्धं सा याति ब्रह्मणः पदम् । विप्रियं कुरुते भर्तुर्विप्रियं वदति प्रियम् ॥ 37॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,37,15746,असत्कुले प्रसूता हि तत्फलं श्रूयतां सति । कुम्भीपाकं व्रजेत्सा च यावच्चन्द्रदिवाकरौ ॥ 38॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,38,15747,ततो भवति चाण्डाली पतिपुत्रविवर्जिता । इत्युक्त्वा च मुनिश्रेष्ठो बभूव स्फुरिताधरः ॥ 39॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,39,15748,चकम्पे तेन सा साध्वी भयेनोवाच तं पतिम् । साध्व्युवाच । सन्ध्यालोपभयेनैव निद्राभङ्गः कृतस्तव ॥ 40॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,40,15749,कुरु शान्तिं महाभाग दुष्टाया मम सुव्रत । श‍ृङ्गाराहारनिद्राणां यश्च भङ्गं करोति वै ॥ 41॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,41,15750,स व्रजेत्कालसूत्रं वै यावच्चन्द्रदिवाकरौ । इत्युक्त्वा मनसा देवी स्वामिनश्चरणाम्बुजे ॥ 42॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,42,15751,पपात भक्त्या भीता च रुरोद च पुनः पुनः । कुपितं च मुनिं दृष्ट्वा श्रीसूर्यं शप्तुमुद्यतम् ॥ 43॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,43,15752,तत्राजगाम भगवान्सन्ध्यया सह नारद । तत्रागत्य मुनिं सम्यगुवाच भास्करः स्वयम् ॥ 44॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,44,15753,विनयेन च भीतश्च तया सह यथोचितम् । भास्कर उवाच । सूर्यास्तसमयं दृष्ट्वा साध्वी धर्मभयेन च ॥ 45॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,45,15754,बोधयामास त्वां विप्र शरणं त्वामहं गतः । क्षमस्व भगवन्ब्रह्मन् मां शप्तुं नोचितं मुने ॥ 46॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,46,15755,ब्राह्मणानां च हृदयं नवनीतसमं सदा । तेषां क्षणार्धं क्रोधश्च ततो भस्म भवेज्जगत् ॥ 47॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,47,15756,पुनः स्रष्टुं द्विजः शक्तो न तेजस्वी द्विजात्परः । ब्राह्मणो ब्रह्मणो वंशः प्रज्वलन्ब्रह्मतेजसा ॥ 48॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,48,15757,श्रीकृष्णं भावयेन्नित्यं ब्रह्मज्योतिः सनातनम् । सूर्यस्य वचनं श्रुत्वा द्विजस्तुष्टो बभूव ह ॥ 49॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,49,15758,सूर्यो जगाम स्वस्थानं गृहीत्वा ब्राह्मणाशिषम् । तत्याज मनसां विप्रः प्रतिज्ञापालनाय च ॥ 50॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,50,15759,रुदतीं शोकसंयुक्तां हृदयेन विदूयता । सा सस्मार गुरुं शम्भुमिष्टदेवं विधिं हरिम् ॥ 51॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,51,15760,कश्यपं जन्मदातारं विपत्तौ भयकर्शिता । तत्राजगाम गोपीशो भगवाच्छम्भुरेव च ॥ 52॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,52,15761,विधिश्च कश्यपश्चैव मनसा परिचिन्तितः । दृष्ट्वा विप्रोऽभीष्टदेवं निर्गुणं प्रकृतेः परम् ॥ 53॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,53,15762,तुष्टाव परया भक्त्या प्रणनाम मुहुर्मुहुः । नमश्चकार शम्भुं च ब्रह्माणं कश्यपं तथा ॥ 54॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,54,15763,कथमागमनं देवा इति प्रश्नं चकार सः । ब्रह्मा तद्वचनं श्रुत्वा सहसा समयोचितम् ॥ 55॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,55,15764,प्रत्युवाच नमस्कृत्य हृषीकेशपदाम्बुजम् । यदि त्यक्ता धर्मपत्नी धर्मिष्ठा मनसा सती ॥ 56॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,56,15765,कुरुष्वास्यां सुतोत्पत्तिं स्वधर्मपालनाय वै । जायायां च सुतोत्पत्तिं कृत्वा पश्चात्त्यजेन्मुने ॥ 57॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,57,15766,अकृत्वा तु सुतोत्पत्तिं विरागी यस्त्यजेत्प्रियाम् । स्रवते तस्य पुण्यं च चालन्यां च यथा जलम् ॥ 58॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,58,15767,ब्रह्मणो वचनं श्रुत्वा जरत्कारुर्मुनीश्वरः । चकार नाभिसंस्पर्शं योगेन मन्त्रपूर्वकम् ॥ 59॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,59,15768,मनसाया मुनिश्रेष्ठ मुनिश्रेष्ठ उवाच ताम् । जरत्कारुरुवाच । गर्भेणानेन मनसे तव पुत्रो भविष्यति ॥ 60॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,60,15769,जितेन्द्रियाणां प्रवरो धार्मिको ब्राह्मणाग्रणीः । तेजस्वी च तपस्वी च यशस्वी च गुणान्वितः ॥ 61॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,61,15770,वरो वेदविदां चैव ज्ञानिनां योगिनां तथा । स च पुत्रो विष्णुभक्तो धार्मिकः कुलमुद्धरेत् ॥ 62॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,62,15771,नृत्यन्ति पितरः सर्वे जन्ममात्रेण वै मुदा । पतिव्रता सुशीला या सा प्रिया प्रियवादिनी ॥ 63॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,63,15772,धर्मिष्ठा पुत्रमाता च कुलस्त्री कुलपालिका । हरिभक्तिप्रदो बन्धुर्न चाभीष्टसुखप्रदः ॥ 64॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,64,15773,यो बन्धुश्चेत्स च पिता हरिवर्त्मप्रदर्शकः । सा गर्भधारिणी या च गर्भावासविमोचनी ॥ 65॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,65,15774,दयारूपा च भगिनी यमभीतिविमोचनी । विष्णुमन्त्रप्रदाता च स गुरुर्विष्णुभक्तिदः ॥ 66॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,66,15775,गुरुश्च ज्ञानदो यो हि यज्ज्ञानं कृष्णभावनम् । आब्रह्मस्तम्बपर्यन्तं ततो विश्वं चराचरम् ॥ 67॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,67,15776,आविर्भूतं तिरोभूतं किं वा ज्ञानं तदन्यतः । वेदजं यज्ञजं यद्यत्तत्सारं हरिसेवनम् ॥ 68॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,68,15777,तत्त्वानां सारभूतं च हरेरन्यद्विडम्बनम् । दत्तं ज्ञानं मया तुभ्यं स स्वामी ज्ञानदो हि यः ॥ 69॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,69,15778,ज्ञानात्प्रमुच्यते बन्धात्स रिपुर्यो हि बन्धदः । विष्णुभक्तियुतं ज्ञानं नो ददाति च यो गुरुः ॥ 70॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,70,15779,स रिपुः शिष्यघाती च यतो बन्धान्न मोचयेत् । जननीं गर्भजक्लेशाद्यमयातनया तथा ॥ 71॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,71,15780,न मोचयेद्यः स कथं गुरुस्तातो हि बान्धवः । परमानन्दरूपं च कृष्णमार्गमनश्वरम् ॥ 72॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,72,15781,न दर्शयेद्यः सततं कीदृशो बान्धवो नृणाम् । भज साध्वि परं ब्रह्माच्युतं कृष्णं च निर्गुणम् ॥ 73॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,73,15782,निर्मूलं च भवेत्पुंसां कर्म वै तस्य सेवया । मया छलेन त्वं त्यक्ता क्षमस्वैतन्मम प्रिये ॥ 74॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,74,15783,क्षमायुतानां साध्वीनां सत्त्वात्क्रोधो न विद्यते । पुष्करे तपसे यामि गच्छ देवि यथासुखम् ॥ 75॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,75,15784,श्रीकृष्णचरणाम्भोजे निःस्पृहाणां मनोरथाः । जरत्कारुवचः श्रुत्वा मनसा शोककातरा ॥ 76॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,76,15785,साश्रुनेत्रा च विनयादुवाच प्राणवल्लभम् । मनसोवाच । दोषो नास्त्येव मे त्यक्तुं निद्राभङ्गेन ते प्रभो ॥ 77॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,77,15786,यत्र स्मरामि त्वां नित्यं तत्र मामागमिष्यसि । बन्धुभेदः क्लेशतमः पुत्रभेदस्ततः परम् ॥ 78॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,78,15787,प्राणेशभेदः प्राणानां विच्छेदात्सर्वतः परः । पतिः पतिव्रतानां तु शतपुत्राधिकं प्रियः ॥ 79॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,79,15788,सर्वस्मात्तु प्रियः स्त्रीणां प्रियस्तेनोच्यते बुधैः । पुत्रे यथैकपुत्राणां वैष्णवानां यथा हरौ ॥ 80॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,80,15789,नेत्रे यथैकनेत्राणां तृषितानां यथा जले । क्षुधितानां यथान्ने च कामुकानां च मैथुने ॥ 81॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,81,15790,यथा परस्वे चौराणां यथा जारे कुयोषिताम् । विदुषां च यथा शास्त्रे वाणिज्ये वणिजां यथा ॥ 82॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,82,15791,तथा शश्वन्मनः कान्ते साध्वीनां योषितां प्रभो । इत्युक्त्वा मनसा देवी पपात स्वामिनः पदे ॥ 83॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,83,15792,क्षणं चकार क्रोडे तां कृपया च कृपानिधिः । नेत्रोदकेन मनसां स्नापयामास तां मुनिः ॥ 84॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,84,15793,साश्रु नेत्रा मुनेः क्रोडं सिषेच भेदकातरा । तदा ज्ञानेन तौ द्वौ च विशोकौ सम्बभूवतुः ॥ 85॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,85,15794,स्मारं स्मारं पदाम्भोजं कृष्णस्य परमात्मनः । जगाम तपसे विप्रः स्वकान्तां सम्प्रबोध्य च ॥ 86॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,86,15795,जगाम मनसा शम्भोः कैलासं मन्दिरं गुरोः । पार्वती बोधयामास मनसां शोककर्शिताम् ॥ 87॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,87,15796,शिवश्चातीव ज्ञानेन शिवेन च शिवालयः । सुप्रशस्ते दिने साध्वी सुषुवे मङ्गलक्षणे ॥ 88॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,88,15797,नारायणांशं पुत्रं तं योगिनां ज्ञानिनां गुरुम् । गर्भस्थितो महाज्ञानं श्रुत्वा शङ्करवक्त्रतः ॥ 89॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,89,15798,सम्बभूव च योगीन्द्रो योगिनां ज्ञानिनां गुरुः । जातकं कारयामास वाचयामास मङ्गलम् ॥ 90॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,90,15799,वेदांश्च पाठयामास शिवाय च शिवः शिशोः । मणिरत्नकिरीटांश्च ब्राह्मणेभ्यो ददौ शिवः ॥ 91॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,91,15800,पार्वती च गवां लक्षं रत्नानि विविधानि च । शम्भुश्च चतुरो वेदान्वेदाङ्गानितरांस्तथा ॥ 92॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,92,15801,बालकं पाठयामास ज्ञानं मृत्युञ्जयं परम् । भक्तिरस्त्यधिका कान्तेऽभीष्टदेवे गुरौ तथा ॥ 93॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,93,15802,यस्यास्तेन च तत्पुत्रो बभूवास्तीक एव च । जगाम तपसे विष्णोः पुष्करं शङ्कराज्ञया ॥ 94॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,94,15803,सम्प्राप्य च महामन्त्रं ततश्च परमात्मनः । दिव्यं वर्षत्रिलक्षं च तपस्तप्त्वा तपोधनः ॥ 95॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,95,15804,आजगाम महायोगी नमस्कर्तुं शिवं प्रभुम् । शङ्करं च नमस्कृत्य स्थित्वा तत्रैव बालकः ॥ 96॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,96,15805,सा चाजगाम मनसा कश्यपस्याश्रमं पितुः । तां सपुत्रां सुतां दृष्ट्वा मुदं प्राप प्रजापतिः ॥ 97॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,97,15806,शतलक्षं च रत्नानां बाह्मणेभ्यो ददौ मुने । ब्राह्मणान्भोजयामास सोऽसङ्ख्यान् श्रेयसे शिशोः ॥ 98॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,98,15807,अदितिश्च दितिश्चान्या मुदं प्राप परन्तप । सा सपुत्रा च सुचिरं तस्थौ तातालये सदा ॥ 99॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,99,15808,तदीयं पुनराख्यानं वक्ष्यामि तन्निशामय । अथाभिमन्युतनये ब्रह्मशापः परीक्षिते ॥ 100॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,100,15809,बभूव सहसा ब्रह्मन् दैवदोषेण कर्मणा । सप्ताहे समतीते तु तक्षकस्त्वां च धक्ष्यति ॥ 101॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,101,15810,शशाप श‍ृङ्गी तत्रैव कौशिक्याश्च जलेन वै । राजा श्रुत्वा तत्प्रवृत्तिं निर्वातस्थानमागतः ॥ 102॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,102,15811,तत्र तस्थौ च सप्ताहं देहरक्षणतत्परः । सप्ताहे समतीते तु गच्छन्तं तक्षकं पथि ॥ 103॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,103,15812,धन्वन्तरिर्नृपं भोक्तुं ददर्श गामुकः पथि । तयोर्बभूव संवादः सुप्रीतिश्च परस्परम् ॥ 104॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,104,15813,धन्वन्तरिर्मणिं प्राप तक्षकः स्वेच्छया ददौ । स ययौ तं गृहीत्वा तु सन्तुष्टो हृष्टमानसः ॥ 105॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,105,15814,तक्षको भक्षयामास नृपं तं मञ्चके स्थितम् । राजा जगाम तरसा देहं त्यक्त्वा परत्र च ॥ 106॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,106,15815,संस्कारं कारयामास पितुर्वै जनमेजयः । राजा चकार यज्ञं च सर्पसत्रं ततो मुने ॥ 107॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,107,15816,प्राणांस्तत्याज सर्पाणां समूहो ब्रह्मतेजसा । स तक्षको वै भीतस्तु महेन्द्रं शरणं ययौ ॥ 108॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,108,15817,सेन्द्रं च तक्षकं हन्तुं विप्रवर्गः समुद्यतः । अथ देवाश्च सेन्द्राश्च सञ्जग्मुर्मनसान्तिकम् ॥ 109॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,109,15818,तां तुष्टाव महेन्द्रश्च भयकातरविह्वलः । तत आस्तीक आगत्य यज्ञं च मातुराज्ञया ॥ 110॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,110,15819,महेन्द्रतक्षकप्राणान्ययाचे भूमिपं परम् । ददौ वरं नृपश्रेष्ठः कृपया ब्राह्मणाज्ञया ॥ 111॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,111,15820,यज्ञं समाप्य विप्रेभ्यो दक्षिणां च ददौ मुदा । विप्राश्च मुनयो देवा गत्वा च मनसान्तिकम् ॥ 112॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,112,15821,मनसां पूजयामासुस्तुष्टुवुश्च पृथक् पृथक् । शक्रः सम्भृतसम्भारो भक्तियुक्तः सदा शुचिः ॥ 113॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,113,15822,मनसां पूजयामास तुष्टाव परमादरात् । नत्वा षोडशोपचारं बलिं च तत्प्रियं तदा ॥ 114॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,114,15823,प्रददौ परितुष्टश्च ब्रह्मविष्णुशिवाज्ञया । सम्पूज्य मनसां देवीं प्रययुः स्वालयं च ते ॥ 115॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,115,15824,इत्येवं कथितं सर्वं किं भूयः श्रोतुमिच्छसि । नारद उवाच । केन स्तोत्रेण तुष्टाव महेन्द्रो मनसां सतीम् ॥ 116॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,116,15825,पूजाविधिक्रमं तस्याः श्रोतुमिच्छामि तत्त्वतः । श्रीनारायण उवाच । सुस्नातः शुचिराचान्तो धृत्वा धौते च वाससी ॥ 117॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,117,15826,रत्नसिंहासने देवीं वासयामास भक्तितः । स्वर्गङ्गाया जलेनैव रत्नकुम्भस्थितेन च ॥ 118॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,118,15827,स्नापयामास मनसां महेन्द्रो वेदमन्त्रतः । वाससी वासयामास वह्मिशुद्धे मनोहरे ॥ 119॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,119,15828,सर्वाङ्गे चन्दनं कृत्वा पादार्घ्यं भक्तिसंयुतः । गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ॥ 120॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,120,15829,सम्पूज्यादौ देवषट्कं पूजयामास तां सतीम् । ॐ ह्रीं श्रीं मनसादेव्यै स्वाहेत्येवं च मन्त्रतः ॥ 121॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,121,15830,दशाक्षरेण मूलेन ददौ सर्वं यथोचितम् । दत्त्वा षोडशोपचारान्दुर्लभान्देवनायकः ॥ 122॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,122,15831,पूजयामास भक्त्या च विष्णुना प्रेरितो मुदा । वाद्यं नानाप्रकारं च वादयामास तत्र वै ॥ 123॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,123,15832,बभूव पुष्पवृष्टिश्च नभसो मनसोपरि । देवप्रियाज्ञया तत्र बह्मविष्णुशिवाज्ञया ॥ 124॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,124,15833,तुष्टाव साश्रुनेत्रश्च पुलकाङ्कितविग्रहः । पुरन्दर उवाच । देवि त्वां स्तोतुमिच्छामि साध्वीनां प्रवरां वराम् ॥ 125॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,125,15834,परात्परां च परमां न हि स्तोतुं क्षमोऽधुना । स्तोत्राणां लक्षणं वेदे स्वभावाख्यानतत्परम् ॥ 126॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,126,15835,न क्षमः प्रकृते वक्तुं गुणानां गणनां तव । शुद्धसत्त्वस्वरूपा त्वं कोपहिंसादिवर्जिता ॥ 127॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,127,15836,न च शक्तो मुनिस्तेन त्यक्तुं याञ्चा कृता यतः । त्वं मया पूजिता साध्वी जननी मे यथादितिः ॥ 128॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,128,15837,दयारूपा च भगिनी क्षमारूपा यथा प्रसूः । त्वया मे रक्षिताः प्राणाः पुत्रदाराः सुरेश्वरि ॥ 129॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,129,15838,अहं करोमि त्वत्पूजां प्रीतिश्च वर्धतां सदा । नित्या यद्यपि पूज्या त्वं सर्वत्र जगदम्बिके ॥ 130॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,130,15839,तथापि तव पूजां च वर्धयामि सुरेश्वरि । ये त्वामाषाढसङ्क्रान्त्यां पूजयिष्यन्ति भक्तितः ॥ 131॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,131,15840,पञ्चम्यां मनसाख्यायां मासान्ते वा दिने दिने । पुत्रपौत्रादयस्तेषां वर्धन्ते च धनानि वै ॥ 132॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,132,15841,यशस्विनः कीर्तिमन्तो विद्यावन्तो गुणान्विताः । ये त्वां न पूजयिष्यन्ति निन्दन्त्यज्ञानतो जनाः ॥ 133॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,133,15842,लक्ष्मीहीना भविष्यन्ति तेषां नागभयं सदा । त्वं स्वयं सर्वलक्ष्मीश्च वैकुण्ठे कमलालया ॥ 134॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,134,15843,नारायणांशो भगवाञ्जरत्कारुर्मुनीश्वरः । तपसा तेजसा त्वां च मनसा ससृजे पिता ॥ 135॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,135,15844,अस्माकं रक्षणायैव तेन त्वं मनसाभिधा । मनसादेवि शक्त्या त्वं स्वात्मना सिद्धयोगिनी ॥ 136॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,136,15845,तेन त्वं मनसादेवी पूजिता वन्दिता भव । ये भक्त्या मनसां देवाः पूजयन्त्यनिशं भृशम् ॥ 137॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,137,15846,तेन त्वां मनसां देवीं प्रवदन्ति मनीषिणः । सत्यस्वरूपा देवि त्वं शश्वत्सत्यनिषेवणात् ॥ 138॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,138,15847,यो हि त्वां भावयेन्नित्यं स त्वां प्राप्नोति तत्परः । इन्द्रश्च मनसां स्तुत्वा गृहीत्वा भगिनीवरम् ॥ 139॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,139,15848,प्रजगाम स्वभवनं भूषया सपरिच्छदम् । पुत्रेण सार्धं सा देवी चिरं तस्थौ पितुर्गृहे ॥ 140॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,140,15849,भ्रातृभिः पूजिता शश्वन्मान्या वन्द्या च सर्वतः । गोलोकात्सुरभिर्ब्रह्मन् तत्रागत्य सुपूजिताम् ॥ 141॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,141,15850,तां स्नापयित्वा क्षीरेण पूजयामास सादरम् । ज्ञानं च कथयामास गोप्यं सर्वं सुदुर्लभम् ॥ 142॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,142,15851,तया देवैः पूजिता सा स्वर्लोकं च पुनर्ययौ । इन्द्रस्तोत्रं पुण्यबीजं मनसां पूजयेत्पठेत् ॥ 143॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,143,15852,तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च । विषं भवेत्सुधातुल्यं सिद्धस्तोत्रो यदा भवेत् ॥ 144॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,144,15853,पञ्चलक्षजपेनैव सिद्धस्तोत्रो भवेन्नरः । सर्पशायी भवेत्सोऽपि निश्चितं सर्पवाहनः ॥ 145॥ 9,९.४८,अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।,145,15854,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे मनसोपाख्यानवर्णनं नामाष्टचत्वारिंशोऽध्यायः ॥ ९.४८॥ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,0,15855,नारद उवाच । का वा सा सुरभिर्देवी गोलोकादागता च या । तज्जन्मचरितं ब्रह्मञ्छ्रोतुमिच्छामि यत्नतः ॥ 1॥ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,1,15856,श्रीनारायणाय उवाच । गवामधिष्ठातृदेवी गवामाद्या गवां प्रसूः । गवां प्रधाना सुरभिर्गोलोके सा समुद्भवा ॥ 2॥ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,2,15857,सर्वादिसृष्टेश्चरितं कथयामि निशामय । बभूव तेन तज्जन्म पुरा वृन्दावने वने ॥ 3॥ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,3,15858,एकदा राधिकानाथो राधया सह कौतुकी । गोपाङ्गनापरिवृतः पुण्यं वृन्दावनं ययौ ॥ 4॥ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,4,15859,सहसा तत्र रहसि विजहार स कौतुकात् । बभूव क्षीरपानेच्छा तस्य स्वेच्छामयस्य च ॥ 5॥ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,5,15860,ससृजे सुरभिं देवीं लीलया वामपार्श्वतः । वत्सयुक्तां दुग्धवतीं वत्सो नाम मनोरथः ॥ 6॥ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,6,15861,दृष्ट्वा सवत्सां श्रीदामा नवभाण्डे दुदोह च । क्षीरं सुधातिरिक्तं च जन्ममृत्युजराहरम् ॥ 7॥ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,7,15862,तदुत्थं च पयः स्वादु पपौ गोपीपतिः स्वयम् । सरो बभूव पयसां भाण्डविस्रंसनेन च ॥ 8॥ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,8,15863,दीर्घं च विस्तृतं चैव परितः शतयोजनम् । गोलोकेऽयं प्रसिद्धश्च सोऽपि क्षीरसरोवरः ॥ 9॥ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,9,15864,गोपिकानां च राधायाः क्रीडावापी बभूव सा । रत्नेन्द्ररचिता पूर्णं भूता चापीश्वरेच्छया ॥ 10॥ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,10,15865,बभूव कामधेनूनां सहसा लक्षकोटयः । यावन्तस्तत्र गोपाश्च सुरभ्या लोमकूपतः ॥ 11॥ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,11,15866,तासां पुत्राश्च बहवः सम्बभूवुरसङ्ख्यकाः । कथिता च गवां सृष्टिस्तया च पूरितं जगत् ॥ 12॥ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,12,15867,पूजां चकार भगवान् सुरभ्याश्च पुरा मुने । ततो बभूव तत्पूजा त्रिषु लोकेषु दुर्लभा ॥ 13॥ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,13,15868,दीपान्वितापरदिने श्रीकृष्णस्याज्ञया हरेः । बभूव सुरभिः पूज्या धर्मवक्त्रादिदं श्रुतम् ॥ 14॥ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,14,15869,ध्यानं स्तोत्रं मूलमन्त्रं यद्यत्यूजाविधिक्रमम् । वेदोक्तं च महाभाग निबोध कथयामि ते ॥ 15॥ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,15,15870,ॐ सुरभ्यै नम इति मन्त्रस्तस्याः षडक्षरः । सिद्धो लक्षजपेनैव भक्तानां कल्पपादपः ॥ 16॥ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,16,15871,ध्यानं यजुर्वेदगीतं तस्याः पूजा च सर्वतः । ऋद्धिदा वृद्धिदा चैव मुक्तिदा सर्वकामदा ॥ 17॥ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,17,15872,लक्ष्मीस्वरूपां परमां राधासहचरीं पराम् । गवामधिष्ठातृदेवीं गवामाद्यां गवां प्रसूम् ॥ 18॥ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,18,15873,पवित्ररूपां पूतां च भक्तानां सर्वकामदाम् । यया पूतं सर्वविश्वं तां देवीं सुरभिं भजे ॥ 19॥ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,19,15874,घटे वा धेनुशिरसि बन्धस्तम्भे गवामपि । शालग्रामे जलाग्नौ वा सुरभिं पूजयेद् द्विजः ॥ 20॥ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,20,15875,दीपान्वितापरदिने पूर्वाह्ने भक्तिसंयुतः । यः पूजयेच्च सुरभिं स च पूज्यो भवेद्भुवि ॥ 21॥ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,21,15876,एकदा त्रिषु लोकेषु वाराहे विष्णुमायया । क्षीरं जहार सुरभिश्चिन्तिताश्च सुरादयः ॥ 22॥ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,22,15877,ते गत्वा ब्रह्मलोके च ब्रह्माणं तुष्टुवुस्तदा । तदाज्ञया च सुरभिं तुष्टाव पाकशासनः ॥ 23॥ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,23,15878,पुरन्दर उवाच । नमो देव्यै महादेव्यै सुरभ्यै च नमो नमः । गवां बीजस्वरूपायै नमस्ते जगदम्बिके ॥ 24॥ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,24,15879,नमो राधाप्रियायै च पद्मांशायै नमो नमः । नमः कृष्णप्रियायै च गवां मात्रे नमो नमः ॥ 25॥ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,25,15880,कल्पवृक्षस्वरूपायै सर्वेषां सततं परे । क्षीरदायै धनदायै बुद्धिदायै नमो नमः ॥ 26॥ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,26,15881,शुभायै च सुभद्रायै गोप्रदायै नमो नमः । यशोदायै कीर्तिदायै धर्मदायै नमो नमः ॥ 27॥ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,27,15882,स्तोत्रश्रवणमात्रेण तुष्टा हृष्टा जगत्प्रसूः । आविर्बभूव तत्रैव ब्रह्मलोके सनातनी ॥ 28॥ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,28,15883,महेन्द्राय वरं दत्त्वा वाञ्छितं चापि दुर्लभम् । जगाम सा च गोलोकं ययुर्देवादयो गृहम् ॥ 29॥ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,29,15884,बभूव विश्वं सहसा दुग्धपूर्णं च नारद । दुग्धं घृतं ततो यज्ञस्ततः प्रीतिः सुरस्य च ॥ 30॥ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,30,15885,इदं स्तोत्रं महापुण्यं भक्तियुक्तश्च यः पठेत् । स गोमान् धनवांश्चैव कीर्तिमान्पुत्रवांस्तथा ॥ 31॥ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,31,15886,स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः । इह लोके सुखं भुक्त्वा यात्यन्ते कृष्णमन्दिरे ॥ 32॥ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,32,15887,सुचिरं निवसेत्तत्र करोति कृष्णसेवनम् । न पुनर्भवनं तत्र ब्रह्मपुत्रो भवेत्ततः ॥ 33॥ 9,९.४९,एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।,33,15888,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे सुरभ्युपाख्यानवर्णनं नामेकोनपञ्चाशत्तमोऽध्यायः ॥ ९.४९॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,0,15889,नारद उवाच । श्रुतं सर्वमुपाख्यानं प्रकृतीनां यथातथम् । यच्छ्रुत्वा मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ 1॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,1,15890,अधुना श्रोतुमिच्छामि रहस्यं वेदगोपितम् । राधायाश्चैव दुर्गाया विधानं श्रुतिचोदितम् ॥ 2॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,2,15891,महिमा वर्णितोऽतीव भवता परयोर्द्वयोः । श्रुत्वा तं तद्गतं चेतो न कस्य स्यान्मुनीश्वर ॥ 3॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,3,15892,ययोरंशो जगत्सर्वं यन्नियम्यं चराचरम् । ययोर्भक्त्या भवेन्मुक्तिस्तद्विधानं वदाधुना ॥ 4॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,4,15893,श्रीनारायण उवाच । श‍ृणु नारद वक्ष्यामि रहस्यं श्रुतिचोदितम् । यन्न कस्यापि चाख्यातं सारात्सारं परात्परम् ॥ 5॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,5,15894,श्रुत्वा परस्मै नो वाच्यं यतोऽतीव रहस्यकम् । मूलप्रकृतिरूपिण्याः संविदो जगदुद्भवे ॥ 6॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,6,15895,प्रादुर्भूतं शक्तियुग्मं प्राणबुद्ध्यधिदैवतम् । जीवानां चैव सर्वेषां नियन्तृप्रेरकं सदा ॥ 7॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,7,15896,तदधीनं जगत्सर्वं विराडादिचराचरम् । यावत्तयोः प्रसादो न तावन्मोक्षो हि दुर्लभः ॥ 8॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,8,15897,ततस्तयोः प्रसादार्थं नित्यं सेवेत तद्द्वयम् । तत्रादौ राधिकामन्त्रं श‍ृणु नारद भक्तितः ॥ 9॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,9,15898,ब्रह्मविष्ण्वादिभिर्नित्यं सेवितो यः परात्परः । श्रीराधेति चतुर्थ्यन्तं वह्नेर्जाया ततः परम् ॥ 10॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,10,15899,षडक्षरो महामन्त्रो धर्माद्यर्थप्रकाशकः । मायाबीजादिकश्चायं वाञ्छाचिन्तामणिः स्मृतः ॥ 11॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,11,15900,वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि । एतन्मन्त्रस्य माहात्म्यं वर्णितुं नैव शक्यते ॥ 12॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,12,15901,जग्राह प्रथमं मन्त्रं श्रीकृष्णो भक्तितत्परः । उपदेशान्मूलदेव्या गोलोके रासमण्डले ॥ 13॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,13,15902,विष्णुस्तेनोपदिष्टस्तु तेन ब्रह्मा विराट् तथा । तेन धर्मस्तेन चाहमित्येषा हि परम्परा ॥ 14॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,14,15903,अहं जपामि तं मन्त्रं तेनाहमृषिरीडितः । ब्रह्माद्याः सकला देवा नित्यं ध्यायन्ति तां मुदा ॥ 15॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,15,15904,कृष्णार्चायां नाधिकारो यतो राधार्चनं विना । वैष्णवैः सकलैस्तस्मात्कर्तव्यं राधिकार्चनम् ॥ 16॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,16,15905,कृष्णप्राणाधिदेवी सा तदधीनो विभुर्यतः । रासेश्वरी तस्य नित्यं तया हीनो न तिष्ठति ॥ 17॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,17,15906,राध्नोति सकलान्कामांस्तस्माद्राधेति कीर्तिता । अत्रोक्तानां मनूनां च ऋषिरस्म्यहमेव च ॥ 18॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,18,15907,छन्दश्च देवी गायत्री देवतात्र च राधिका । तारो बीजं शक्तिबीजं शक्तिस्तु परिकीर्तिता ॥ 19॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,19,15908,मूलावृत्त्या षडङ्गानि कर्तव्यानीतरत्र च । अथ ध्यायेन्महादेवीं राधिकां रासनायिकाम् ॥ 20॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,20,15909,पूर्वोक्तरीत्या तु मुने सामवेदे विगीतया । श्वेतचम्पकवर्णाभां शरदिन्दुसमाननाम् ॥ 21॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,21,15910,कोटिचन्द्रप्रतीकाशां शरदम्भोजलोचनाम् । बिम्बाधरां पृथुश्रोणीं काञ्चीयुतनितम्बिनीम् ॥ 22॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,22,15911,कुन्दपङ्क्तिसमानाभदन्तपङ्क्तिविराजिताम् । क्षौमाम्बरपरीधानां वह्निशुद्धांशुकान्विताम् ॥ 23॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,23,15912,ईषद्धास्यप्रसन्नास्यां करिकुम्भयुगस्तनीम् । सदा द्वादशवर्षीयां रत्नभूषणभूषिताम् ॥ 24॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,24,15913,श‍ृङ्गारसिन्धुलहरीं भक्तानुग्रहकातराम् । मल्लिकामालतीमालाकेशपाशविराजिताम् ॥ 25॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,25,15914,सुकुमाराङ्गलतिकां रासमण्डलमध्यगाम् । वराभयकरां शान्तां शश्वत्सुस्थिरयौवनाम् ॥ 26॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,26,15915,रत्नसिंहासनासीनां गोपीमण्डलनायिकाम् । कृष्णप्राणाधिकां वेदबोधितां परमेश्वरीम् ॥ 27॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,27,15916,एवं ध्यात्वा ततो बाह्ये शालग्रामे घटेऽथवा । यन्त्रे वाष्टदले देवीं पूजयेत्तु विधानतः ॥ 28॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,28,15917,आवाह्य देवीं तत्पश्चादासनादि प्रदीयताम् । मूलमन्त्रं समुच्चार्य चासनादीनि कल्पयेत् ॥ 29॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,29,15918,पाद्यं तु पादयोर्दद्यान्मस्तकेऽर्घ्यं समीरितम् । मुखे त्वाचमनीयं स्यात्त्रिवारं मूलविद्यया ॥ 30॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,30,15919,मधुपर्कं ततो दद्यादेकां गां च पयस्विनीम् । ततो नयेत्स्नानशालां तां च तत्रैव भावयेत् ॥ 31॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,31,15920,अभ्यङ्गादिस्नानविधिं कल्पयित्वाथ वाससी । ततश्च चन्दनं दद्यान्नानालङ्कारपूर्वकम् ॥ 32॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,32,15921,पुष्पमाला बहुविधास्तुलसीमञ्जरीयुताः । पारिजातप्रसूनानि शतपत्रादिकानि च ॥ 33॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,33,15922,ततः कुर्यात्पवित्रं तत्परिवारार्चनं विभोः । अग्नीशासुरवायव्यमध्ये दिक्ष्वङ्गपूजनम् ॥ 34॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,34,15923,कृत्वा पश्चादष्टदले दक्षिणावर्ततोऽग्रतः । मालावतीमग्रदले वह्निकोणे च माधवीम् ॥ 35॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,35,15924,रत्नमालां दक्षिणे च नैरृत्ये तु सुशीलकाम् । पश्चाद्दले शशिकलां पूजयेन्मतिमान्नरः ॥ 36॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,36,15925,मारुते पारिजातां चाप्युत्तरे च परावतीम् । ईशानकोणे सम्पूज्या सुन्दरी प्रियकारिणी ॥ 37॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,37,15926,ब्राह्म्यादयस्तु तद्बाह्येऽप्याशापालांस्तु भूपुरे । वज्रादिकान्यायुधानि देवीमित्थं प्रपूजयेत् ॥ 38॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,38,15927,ततो देवीं सावरणां गन्धाद्यैरुपचारकैः । राजोपचारसहितैः पूजयेन्मतिमान्नरः ॥ 39॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,39,15928,ततः स्तुवीत देवेशीं स्तोत्रैर्नामसहस्रकैः । सहस्रसङ्ख्यं च जपं नित्यं कुर्यात्प्रयत्नतः ॥ 40॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,40,15929,य एवं पूजयेद्देवीं राधां रासेश्वरीं पराम् । स भवेद्विष्णुतुल्यस्तु गोलोकं याति सन्ततम् ॥ 41॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,41,15930,यः कार्तिक्यां पौर्णमास्यां राधाजन्मोत्सव बुधः । कुरुते तस्य सान्निध्यं दद्याद्रासेश्वरी परा ॥ 42॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,42,15931,केनचित्कारणेनैव राधा वृन्दावने वने । वृषभानुसुता जाता गोलोकस्थायिनी सदा ॥ 43॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,43,15932,अत्रोक्तानां तु मन्त्राणां वर्णसङ्ख्याविधानतः । पुरश्चरणकर्मोक्तं दशांशं होममाचरेत् ॥ 44॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,44,15933,तिलैस्त्रिस्वादुसंयुक्तैर्जुहुयाद्भक्तिभावतः । नारद उवाच । स्तोत्रं वद मुने सम्यग्येन देवी प्रसीदति ॥ 45॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,45,15934,श्रीनारायण उवाच । नमस्ते परमेशानि रासमण्डलवासिनि । रासेश्वरि नमस्तेऽस्तु कृष्णप्राणाधिकप्रिये ॥ 46॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,46,15935,नमस्त्रैलोक्यजननि प्रसीद करुणार्णवे । ब्रह्मविष्ण्वादिभिर्देवैर्वन्द्यमानपदाम्बुजे ॥ 47॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,47,15936,नमः सरस्वतीरूपे नमः सावित्रि शङ्करि । गङ्गापद्मावतीरूपे षष्ठि मङ्गलचण्डिके ॥ 48॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,48,15937,नमस्ते तुलसीरूपे नमो लक्ष्मीस्वरूपिणि । नमो दुर्गे भगवति नमस्ते सर्वरूपिणि ॥ 49॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,49,15938,मूलप्रकृतिरूपां त्वां भजामः करुणार्णवाम् । संसारसागरादस्मानुद्धराम्ब दयां कुरु ॥ 50॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,50,15939,इदं स्तोत्रं त्रिसन्ध्यं यः पठेद्राधां स्मरन्नरः । न तस्य दुर्लभं किञ्चित्कदाचिच्च भविष्यति ॥ 51॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,51,15940,देहान्ते च वसेन्नित्यं गोलोके रासमण्डले । इदं रहस्यं परमं न चाख्येयं तु कस्यचित् ॥ 52॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,52,15941,अधुना श‍ृणु विप्रेन्द्र दुर्गादेव्या विधानकम् । यस्याः स्मरणमात्रेण पलायन्ते महापदः ॥ 53॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,53,15942,एनां न भजते यो हि तादृङ्नास्त्येव कुत्रचित् । सर्वोपास्या सर्वमाता शैवी शक्तिर्महाद्भुता ॥ 54॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,54,15943,सर्वबुद्ध्याधिदेवीयमन्तर्यामिस्वरूपिणी । दुर्गसङ्कटहन्त्रीति दुर्गेति प्रथिता भुवि ॥ 55॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,55,15944,वैष्णवानां च शैवानामुपास्येयं च नित्यशः । मूलप्रकृतिरूपा सा सृष्टिस्थित्यन्तकारिणी ॥ 56॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,56,15945,तस्या नवाक्षरं मन्त्रं वक्ष्ये मन्त्रोत्तमोत्तमम् । वाग्भवं शम्भुवनिता कामबीजं ततः परम् ॥ 57॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,57,15946,चामुण्डायै पदं पश्चाद्विच्चे इत्यक्षरद्वयम् । नवाक्षरो मनुः प्रोक्तो भजतां कल्पपादपः ॥ 58॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,58,15947,ब्रह्मविष्णुमहेशाना ऋषयोऽस्य प्रकीर्तिताः । छन्दांस्युक्तानि सततं गायत्र्युष्णिगनुष्टुभः ॥ 59॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,59,15948,महाकाली महालक्ष्मीः सरस्वत्यपि देवताः । स्याद्रक्तदन्तिकाबीजं दुर्गा च भ्रामरी तथा ॥ 60॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,60,15949,नन्दाशाकम्भरीदेव्यौ भीमा च शक्तयः स्मृताः । धर्मार्थकाममोक्षेषु विनियोग उदाहृतः ॥ 61॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,61,15950,ऋषिच्छन्दो दैवतानि मौलौ वक्त्रे हृदि न्यसेत् । स्तनयोः शक्तिबीजानि न्यसेत्सर्वार्थसिद्धये ॥ 62॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,62,15951,बीजत्रयैश्चतुर्भिश्च द्वाभ्यां सर्वेण चैव हि । षडङ्गानि मनोः कुर्याज्जातियुक्तानि देशिकः ॥ 63॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,63,15952,शिखायां लोचनद्वन्द्वे श्रुतिनासाननेषु च । गुदे न्यसेन्मन्त्रवर्णान्सर्वेण व्यापकं चरेत् ॥ 64॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,64,15953,खड्गचक्रगदाबाणचापानि परिघं तथा । शूलं भुशुण्डीं च शिरः शङ्खं सन्दधतीं करैः ॥ 65॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,65,15954,महाकालीं त्रिनयनां नानाभूषणभूषिताम् । नीलाञ्जनसमप्रख्यां दशपादाननां भजे ॥ 66॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,66,15955,मधुकैटभनाशार्थं यां तुष्टावाम्बुजासनः । एवं ध्यायेन्महाकालीं कामबीजस्वरूपिणीम् ॥ 67॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,67,15956,अक्षमालां च परशुं गदेषुकुलिशानि च । पद्मं धनुष्कुण्डिकां च दण्डं शक्तिमसिं तथा ॥ 68॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,68,15957,चर्माम्बुजं तथा घण्टां सुरापात्रं च शूलकम् । पाशं सुदर्शनं चैव दधतीमरुणप्रभाम् ॥ 69॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,69,15958,रक्ताम्बुजासनगतां मायाबीजस्वरूपिणीम् । महालक्ष्मीं भजेदेवं महिषासुरमर्दिनीम् ॥ 70॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,70,15959,घण्टाशूले हलं शङ्खं मुसलं च सुदर्शनम् । धनुर्बाणान् हस्तपद्मैर्दधानां कुन्दसन्निभाम् ॥ 71॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,71,15960,शुम्भादिदैत्यसंहर्त्रीं वाणीबीजस्वरूपिणीम् । महासरस्वतीं ध्यायेत्सच्चिदानन्दविग्रहाम् ॥ 72॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,72,15961,यन्त्रमस्याः श‍ृणु प्राज्ञ त्र्यस्रं षट्कोणसंयुतम् । ततोऽष्टदलपद्मं च चतुर्विंशतिपत्रकम् ॥ 73॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,73,15962,भूगृहेण समायुक्तं यन्त्रमेवं विचिन्तयेत् । शालग्रामे घटे वापि यन्त्रे वा प्रतिमासु वा ॥ 74॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,74,15963,बाणलिङ्गेऽथवा सूर्ये यजेद्देवीमनन्यधीः । जयादिशक्तिसंयुक्ते पीठे देवीं प्रपूजयेत् ॥ 75॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,75,15964,पूर्वकोणे सरस्वत्या सहितं पद्मजं यजेत् । श्रिया सह हरिं तत्र नैरृते कोणके यजेत् ॥ 76॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,76,15965,पार्वत्या सहितं शम्भुं वायुकोणे समर्चयेत् । देव्या उत्तरतः पूज्यः सिंहो वामे महासुरम् ॥ 77॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,77,15966,महिषं पूजयेदन्ते षट्कोणेषु यजेत्क्रमात् । नन्दजां रक्तदन्तां च तथा शाकम्भरीं शिवाम् ॥ 78॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,78,15967,दुर्गां भीमां भ्रामरीं च ततो वसुदलेषु च । ब्राह्मीं माहेश्वरीं चैव कौमारीं वैष्णवीं तथा ॥ 79॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,79,15968,वाराहीं नारसिंहीं च ऐन्द्रीं चामुण्डकां तथा । पूजयेच्च ततः पश्चात्तत्त्वपत्रेषु पूर्वतः ॥ 80॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,80,15969,विष्णुमायां चेतनां च बुद्धिं निद्रां क्षुधां तथा । छायां शक्तिं परां तृष्णां शान्तिं जातिं च लज्जया ॥ 81॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,81,15970,क्षान्तिं श्रद्धां कीर्तिलक्ष्म्यौ धृतिं वृत्तिं श्रुतिं स्मृतिम् । दयां तुष्टिं ततः पुष्टिं मातृभ्रान्ती इति क्रमात् ॥ 82॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,82,15971,ततो भूपुरकोणेषु गणेशं क्षेत्रपालकम् । वटुकं योगिनीश्चापि पूजयेन्मतिमान्नरः ॥ 83॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,83,15972,इन्द्राद्यानपि तद्बाह्ये वज्राद्यायुधसंयुतान् । पूजयेदनया रीत्या देवीं सावरणां ततः ॥ 84॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,84,15973,राजोपचारान्विविधान्दद्यादम्बाप्रतुष्टये । ततो जपेन्नवार्णं च मन्त्रं मन्त्रार्थपूर्वकम् ॥ 85॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,85,15974,ततः सप्तशतीस्तोत्रं देव्या अग्रे तु सम्पठेत् । नानेन सदृशं स्तोत्रं विद्यते भुवनत्रये ॥ 86॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,86,15975,ततश्चानेन देवेशीं तोषयेत् प्रत्यहं नरः । धर्मार्थकाममोक्षाणामालयं जायते नरः ॥ 87॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,87,15976,इति ते कथितं विप्र श्रीदुर्गाया विधानकम् । कृतार्थता येन भवेत्तदेतत्कथितं तव ॥ 88॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,88,15977,सर्वे देवा हरिब्रह्मप्रमुखा मनवस्तथा । मुनयो ज्ञाननिष्ठाश्च योगिनश्चाश्रमास्तथा ॥ 89॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,89,15978,लक्ष्म्यादयस्तथा देव्यः सर्वे ध्यायन्ति तां शिवाम् । तदैव जन्मसाफल्यं दुर्गास्मरणमस्ति चेत् ॥ 90॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,90,15979,चतुर्दशापि मनवो ध्यात्वा चरणपङ्कजम् । मनुत्वं प्राप्तवन्तश्च देवाः स्वं स्वं पदं तथा ॥ 91॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,91,15980,तदेतत्सर्वमाख्यातं रहस्यातिरहस्यकम् । प्रकृतीनां पञ्चकस्य तदंशानां च वर्णनम् ॥ 92॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,92,15981,श्रुत्वैतन्मनुजो नित्यं पुरुषार्थचतुष्टयम् । लभते नात्र सन्देहः सत्यं सत्यं मयोदितम् ॥ 93॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,93,15982,अपुत्रो लभते पुत्रं विद्यार्थी प्राप्नुयाच्च ताम् । यं यं कामं स्मरेद्वापि तं तं श्रुत्वा समाप्नुयात् ॥ 94॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,94,15983,नवरात्रे पठेदेतद्देव्यग्रे तु समाहितः । परितुष्टा जगद्धात्री भवत्येव हि निश्चितम् ॥ 95॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,95,15984,नित्यमेकैकमध्यायं पठेद्यः प्रत्यहं नरः । तस्य वश्या भवेद्देवी देवीप्रियकरो हि सः ॥ 96॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,96,15985,शकुनांश्च परीक्षेत नित्यमस्मिन्यथाविधि । कुमारीदिव्यहस्तेन यद्वा बटुकराम्बुजात् ॥ 97॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,97,15986,मनोरथं तु सङ्कल्प्य पुस्तकं पूजयेत्ततः । देवीं च जगदीशानीं प्रणमेच्च पुनः पुनः ॥ 98॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,98,15987,सुस्नातां कन्यकां तत्रानीयाभ्यर्च्य यथाविधि । शलाकां रोपयेन्मध्ये तथा स्वर्णेन निर्मिताम् ॥ 99॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,99,15988,शुभं वाप्यशुभं तत्र यदायाति च तद्भवेत् । उदासीनेऽप्युदासीनं कार्यं भवति निश्चितम् ॥ 100॥ 9,९.५०,पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।,100,15989,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे देव्या आवरणपूजाविधिवर्णनं नाम पञ्चाशत्तमोऽध्यायः ॥ ९.५०॥ 10,१०.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,0,15990,नारद उवाच । नारायण धराधार सर्वपालनकारण । भवतोदीरितं देवीचरितं पापनाशनम् ॥ 1॥ 10,१०.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,1,15991,मन्वन्तरेषु सर्वेषु सा देवी यत्स्वरूपिणी । यदाकारेण कुरुते प्रादुर्भावं महेश्वरी ॥ 2॥ 10,१०.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,2,15992,तान्नः सर्वान्समाख्याहि देवीमाहात्म्यमिश्रितान् । यथा च येन येनेह पूजिता संस्तुतापि हि ॥ 3॥ 10,१०.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,3,15993,मनोरथान्पूरयति भक्तानां भक्तवत्सला । तन्नः शुभूषमाणानां देवीचरितमुत्तमम् ॥ 4॥ 10,१०.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,4,15994,वर्णयस्व कृपासिन्धो येनाप्नोति सुखं महत् । श्रीनारायण उवाच । आकर्णय महर्षे त्वं चरितं पापनाशनम् ॥ 5॥ 10,१०.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,5,15995,भक्तानां भक्तिजननं महासम्पत्तिकारकम् । जगद्योनिर्महातेजा ब्रह्मा लोकपितामहः ॥ 6॥ 10,१०.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,6,15996,आविरासीन्नाभिपद्माद्देवदेवस्य चक्रिणः । स चतुर्मुख आसाद्य प्रादुर्भावं महामते ॥ 7॥ 10,१०.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,7,15997,मनुं स्वायम्भुवं नाम जनयामास मानसात् । स मानसो मनुः पुत्रो ब्रह्मणः परमेष्ठिनः ॥ 8॥ 10,१०.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,8,15998,शतरूपां च तत्पत्नीं जज्ञे धर्मस्वरूपिणीम् । स मनुः क्षीरसिन्धोश्च तीरे परमपावने ॥ 9॥ 10,१०.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,9,15999,देवीमाराधयामास महाभाग्यफलप्रदाम् । मूर्तिं च मृण्मयीं तस्या विधाय पृथिवीपतिः ॥ 10॥ 10,१०.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,10,16000,उपासते स्म तां देवीं वाग्भवं स जपन् रहः । निराहारो जितश्वासो नियमव्रतकर्शितः ॥ 11॥ 10,१०.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,11,16001,एकपादेन सन्तिष्ठन् धरायामनिशं स्थिरः । शतवर्षं जितः कामः क्रोधस्तेन महात्मना ॥ 12॥ 10,१०.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,12,16002,भेजे स्थावरतां देव्याश्चरणौ चिन्तयन् हृदि । तस्य तत्तपसा देवी प्रादुर्भूता जगन्मयी ॥ 13॥ 10,१०.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,13,16003,उवाच वचनं दिव्यं वरं वरय भूमिप । तत आनन्दजनकं श्रुत्वा वाक्यं महीपतिः ॥ 14॥ 10,१०.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,14,16004,वरयामास तान् हृत्स्थान् वरानमरदुर्लभान् । मनुरुवाच । जय देवि विशालाक्षि जय सर्वान्तरस्थिते ॥ 15॥ 10,१०.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,15,16005,मान्ये पूज्ये जगद्धात्रि सर्वमङ्गलमङ्गले । त्वत्कटाक्षावलोकेन पद्मभूः सृजते जगत् ॥ 16॥ 10,१०.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,16,16006,वैकुण्ठः पालयत्येव हरः संहरते क्षणात् । शचीपतिस्त्रिलोक्याश्च शासको भवदाज्ञया ॥ 17॥ 10,१०.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,17,16007,प्राणिनः शिक्षयत्येव दण्डेन च परेतराट् । यादसामधिपः पाशी पालनं मादृशामपि ॥ 18॥ 10,१०.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,18,16008,कुरुते स कुबेरोऽपि निधीनां पतिरव्ययः । हुतभुङ्नैरृतो वायुरीशानः शेष एव च ॥ 19॥ 10,१०.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,19,16009,त्वदंशसम्भवा एव त्वच्छक्तिपरिबृंहिताः । अथापि यदि मे देवि वरो देयोऽस्ति साम्प्रतम् ॥ 20॥ 10,१०.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,20,16010,तदा प्रह्वाः सर्गकार्ये विघ्ना नश्यन्तु मे शिवे । वाग्भवस्यापि मन्त्रस्य ये केचिदुपसेविनः ॥ 21॥ 10,१०.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,21,16011,तेषां सिद्धिः सत्वरापि कार्याणां जायतामपि । ये संवादमिमं देवि पठन्ति श्रावयन्ति च ॥ 22॥ 10,१०.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,22,16012,तेषां लोके भुक्तिमुक्ती सुलभे भवतां शिवे । जातिस्मरत्वं भवतु वक्तृत्वं सौष्ठवं तथा ॥ 23॥ 10,१०.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,23,16013,ज्ञानसिद्धिः कर्ममार्गसंसिद्धिरपि चास्तु हि । पुत्रपौत्रसमृद्धिश्च जायेदित्येव मे वचः ॥ 24॥ 10,१०.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,24,16014,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे मनुकृतं देवीस्तवनं नाम प्रथमोऽध्यायः ॥ १०.१॥ 10,१०.२,द्वितीयोऽध्यायः । विन्ध्योपाख्यानवर्णनम् ।,0,16015,श्रीदेव्युवाच । भूमिपाल महाबाहो सर्वमेतद्भविष्यति । यत्त्वया प्रार्थितं तत्ते ददामि मनुजाधिप ॥ 1॥ 10,१०.२,द्वितीयोऽध्यायः । विन्ध्योपाख्यानवर्णनम् ।,1,16016,अहं प्रसन्ना दैत्येन्द्रनाशनामोघविक्रमा । वाग्भवस्य जपेनैव तपसा ते सुनिश्चितम् ॥ 2॥ 10,१०.२,द्वितीयोऽध्यायः । विन्ध्योपाख्यानवर्णनम् ।,2,16017,राज्यं निष्कण्टकं तेऽस्तु पुत्रा वंशकरा अपि । मयि भक्तिर्दृढा वत्स मोक्षान्ते सत्पदे भवेत् ॥ 3॥ 10,१०.२,द्वितीयोऽध्यायः । विन्ध्योपाख्यानवर्णनम् ।,3,16018,एवं वरान्महादेवी तस्मै दत्त्वा महात्मने । पश्यतस्तु मनोरेव जगाम विन्ध्यपर्वतम् ॥ 4॥ 10,१०.२,द्वितीयोऽध्यायः । विन्ध्योपाख्यानवर्णनम् ।,4,16019,योऽसौ विन्ध्याचलो रुद्धः कुम्भोद्भवमहर्षिणा । भानुमार्गावरोधार्थं प्रवृत्तो गगनं स्पृशन् ॥ 5॥ 10,१०.२,द्वितीयोऽध्यायः । विन्ध्योपाख्यानवर्णनम् ।,5,16020,सा विन्ध्यवासिनी विष्णोरनुजा वरदेश्वरी । बभूव पूज्या लोकानां सर्वेषां मुनिसत्तम ॥ 6॥ 10,१०.२,द्वितीयोऽध्यायः । विन्ध्योपाख्यानवर्णनम् ।,6,16021,ऋषय ऊचुः । कोऽसौ विन्ध्याचलः सूत किमर्थं गगनं स्पृशन् । भानुमार्गावरोधं च किमर्थं कृतवानसौ ॥ 7॥ 10,१०.२,द्वितीयोऽध्यायः । विन्ध्योपाख्यानवर्णनम् ।,7,16022,कथं च मैत्रावरुणिः पर्वतं तं महोन्नतम् । प्रकृतिस्थं चकारेति सर्वं विस्तरतो वद ॥ 8॥ 10,१०.२,द्वितीयोऽध्यायः । विन्ध्योपाख्यानवर्णनम् ।,8,16023,न हि तृप्यामहे साधो त्वदास्यगलितामृतम् । देव्याश्चरित्ररूपाख्यं पीत्वा तृष्णा प्रवर्धते ॥ 9॥ 10,१०.२,द्वितीयोऽध्यायः । विन्ध्योपाख्यानवर्णनम् ।,9,16024,सूत उवाच । आसीद्विन्ध्याचलो नाम मान्यः सर्वधराभृताम् । महावनसमूहाढ्यो महापादपसंवृतः ॥ 10॥ 10,१०.२,द्वितीयोऽध्यायः । विन्ध्योपाख्यानवर्णनम् ।,10,16025,सुपुष्पितैरनेकैश्च लतागुल्मैस्तु संवृतः । मृगा वराहा महिषा व्याघ्राः शार्दूलका अपि ॥ 11॥ 10,१०.२,द्वितीयोऽध्यायः । विन्ध्योपाख्यानवर्णनम् ।,11,16026,वानराः शशका ऋक्षाः श‍ृगालाश्च समन्ततः । विचरन्ति सदा हृष्टा पुष्टा एव महोद्यमाः ॥ 12॥ 10,१०.२,द्वितीयोऽध्यायः । विन्ध्योपाख्यानवर्णनम् ।,12,16027,नदीनदजलाक्रान्तो देवगन्धर्वकिन्नरैः । अप्सरोभिः किम्पुरुषैः सर्वकामफलद्रुमैः ॥ 13॥ 10,१०.२,द्वितीयोऽध्यायः । विन्ध्योपाख्यानवर्णनम् ।,13,16028,एतादृशे विन्ध्यनगे कदाचित्पर्यटन् महीम् । देवर्षिः परमप्रीतो जगाम स्वेच्छया मुनिः ॥ 14॥ 10,१०.२,द्वितीयोऽध्यायः । विन्ध्योपाख्यानवर्णनम् ।,14,16029,तं दृष्ट्वा स नगो मङ्क्षु तूर्णमुत्थाय सम्भ्रमात् । पाद्यमर्घ्यं तथा दत्त्वा वरासनमथार्पयत् ॥ 15॥ 10,१०.२,द्वितीयोऽध्यायः । विन्ध्योपाख्यानवर्णनम् ।,15,16030,सुखोपविष्टं देवर्षिं प्रसन्नं नग ऊचिवान् । विन्ध्य उवाच । देवर्षे कथ्यतां जात आगमः कुत उत्तमः ॥ 16॥ 10,१०.२,द्वितीयोऽध्यायः । विन्ध्योपाख्यानवर्णनम् ।,16,16031,तवागमनतो जातमनर्घ्यं मम मन्दिरम् । तव चङ्क्रमणं देवाभयार्थं हि यथा रवेः ॥ 17॥ 10,१०.२,द्वितीयोऽध्यायः । विन्ध्योपाख्यानवर्णनम् ।,17,16032,अपूर्वं यन्मनोवृत्तं तद् ब्रूहि मम नारद । नारद उवाच । ममागमनमिन्द्रारे जातं स्वर्णगिरेरथ ॥ 18॥ 10,१०.२,द्वितीयोऽध्यायः । विन्ध्योपाख्यानवर्णनम् ।,18,16033,तत्र दृष्टा मया लोकाः शक्राग्नियमपाशिनाम् । सर्वेषां लोकपालानां भवनानि समन्ततः ॥ 19॥ 10,१०.२,द्वितीयोऽध्यायः । विन्ध्योपाख्यानवर्णनम् ।,19,16034,मया दृष्टानि विन्ध्याग नानाभोगप्रदानि च । इति चोक्त्वा ब्रह्मयोनिः पुनरुच्छ्वासमाविशत् ॥ 20॥ 10,१०.२,द्वितीयोऽध्यायः । विन्ध्योपाख्यानवर्णनम् ।,20,16035,उच्छ्वसन्तं मुनिं दृष्ट्वा पुनः पप्रच्छ शैलराट् । उच्छ्वासकारणं किं तद् ब्रूहि देवऋषे मम ॥ 21॥ 10,१०.२,द्वितीयोऽध्यायः । विन्ध्योपाख्यानवर्णनम् ।,21,16036,इत्याकर्ण्य नगस्योक्तं देवर्षिरमितद्युतिः । अब्रवीच्छ्रूयतां वत्स ममोच्छ्वासस्य कारणम् ॥ 22॥ 10,१०.२,द्वितीयोऽध्यायः । विन्ध्योपाख्यानवर्णनम् ।,22,16037,गौरीगुरुस्तु हिमवाञ्छिवस्य श्वशुरः किल । सम्बन्धित्वात्पशुपतेः पूज्य आसीत्क्षमाभृताम् ॥ 23॥ 10,१०.२,द्वितीयोऽध्यायः । विन्ध्योपाख्यानवर्णनम् ।,23,16038,एवमेव च कैलासः शिवस्यावसथः प्रभुः । पूज्यः पृथ्वीभृतां जातो लोके पापौघदारणः ॥ 24॥ 10,१०.२,द्वितीयोऽध्यायः । विन्ध्योपाख्यानवर्णनम् ।,24,16039,निषधः पर्वतो नीलो गन्धमादन एव च । पूज्याः स्वस्थानमासाद्य सर्व एव क्षमाभृतः ॥ 25॥ 10,१०.२,द्वितीयोऽध्यायः । विन्ध्योपाख्यानवर्णनम् ।,25,16040,यं पर्येति च विश्वात्मा सहस्रकिरणः स्वराट् । सग्रहर्क्षगणोपेतः सोऽयं कनकपर्वतः ॥ 26॥ 10,१०.२,द्वितीयोऽध्यायः । विन्ध्योपाख्यानवर्णनम् ।,26,16041,आत्मानं मनुते श्रेष्ठं वरिष्ठं च धराभृताम् । सर्वेषामहमेवाग्र्यो नास्ति लोकेषु मत्समः ॥ 27॥ 10,१०.२,द्वितीयोऽध्यायः । विन्ध्योपाख्यानवर्णनम् ।,27,16042,एवम्मानाभिमानं तं स्मृत्वोच्छ्वासो मयोज्झितः । अस्तु नैतावता कृत्यं तपोबलवतां नग । प्रसङ्गतो मयोक्तं ते गमिष्यामि निजं गृहम् ॥ 28॥ 10,१०.२,द्वितीयोऽध्यायः । विन्ध्योपाख्यानवर्णनम् ।,28,16043,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे विन्ध्योपाख्यानवर्णनं नाम द्वितीयोऽध्यायः ॥ १०.२॥ 10,१०.३,तृतीयोऽध्यायः । देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम् ।,0,16044,सूत उवाच । एवं समुपदिश्यायं देवर्षिः परमः स्वराट् । जगाम ब्रह्मणो लोकं स्वैरचारी महामुनिः ॥ 1॥ 10,१०.३,तृतीयोऽध्यायः । देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम् ।,1,16045,गते मुनिवरे विन्ध्यश्चिन्तां लेभेऽनपायिनीम् । नैव शान्तिं स लेभे च सदान्तःकृतशोचनः ॥ 2॥ 10,१०.३,तृतीयोऽध्यायः । देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम् ।,2,16046,कथं किं त्वत्र मे कार्यं कथं मेरुं जयाम्यहम् । नैव शान्तिं लभे नापि स्वास्थ्यं मे मानसे भवेत् ॥ 3॥ 10,१०.३,तृतीयोऽध्यायः । देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम् ।,3,16047,(धिगुत्साहं च मानं च धिङ्मे कीर्तिं च धिक्कुलम्) धिग्बलं मे पौरुषं धिक् स्मृतं पूर्वैर्महात्मभिः । एवं चिन्तयमानस्य विन्ध्यस्य मनसि स्फुटम् ॥ 4॥ 10,१०.३,तृतीयोऽध्यायः । देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम् ।,4,16048,प्रादुर्भूता मतिः कार्ये कर्तव्ये दोषकारिणी । मेरुप्रदक्षिणां कुर्वन्नित्यमेव दिवाकरः ॥ 5॥ 10,१०.३,तृतीयोऽध्यायः । देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम् ।,5,16049,सग्रहर्क्षगणोपेतः सदा दृप्यत्ययं नगः । तस्य मार्गस्य संरोधं करिष्यामि निजैः करैः ॥ 6॥ 10,१०.३,तृतीयोऽध्यायः । देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम् ।,6,16050,तदा निरुद्धो द्युमणिः परिक्रामेत्कथं नगम् । एवं मार्गे निरुद्धे तु मया दिनकरस्य च ॥ 7॥ 10,१०.३,तृतीयोऽध्यायः । देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम् ।,7,16051,भग्नदर्पो दिव्यनगो भविष्यति विनिश्चयम् । एवं निश्चित्य विन्ध्याद्रिः खं स्पृशन् ववृधे भुजैः ॥ 8॥ 10,१०.३,तृतीयोऽध्यायः । देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम् ।,8,16052,महोन्नतैः श‍ृङ्गवरैः सर्वं व्याप्य व्यवस्थितः । कदोदेष्यति भास्वांस्तं रोधयिष्याम्यहं कदा ॥ 9॥ 10,१०.३,तृतीयोऽध्यायः । देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम् ।,9,16053,एवं सञ्चिन्तयानस्य सा व्यतीयाय शर्वरी । प्रभातं विमलं जज्ञे दिशो वितिमिराः करैः ॥ 10॥ 10,१०.३,तृतीयोऽध्यायः । देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम् ।,10,16054,कुर्वन्स निर्गतो भानुरुदयायोदये गिरौ । प्रकाशते स्म विमलं नभो भानुकरैः शुभैः ॥ 11॥ 10,१०.३,तृतीयोऽध्यायः । देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम् ।,11,16055,विकासं नलिनी भेजे मीलनं च कुमुद्वती । स्वानि कार्याणि सर्वे च लोकाः समुपतस्थिरे ॥ 12॥ 10,१०.३,तृतीयोऽध्यायः । देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम् ।,12,16056,हव्यं कव्यं भूतबलिं देवानां च प्रवर्धयन् । प्राह्णापराह्णमध्याह्नविभागेन त्विषां पतिः ॥ 13॥ 10,१०.३,तृतीयोऽध्यायः । देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम् ।,13,16057,एवं प्राचीं तथाग्नेयीं समाश्वास्य वियोगिनीम् । ज्वलन्तीं चिरकालीनविरहादिव कामिनीम् ॥ 14॥ 10,१०.३,तृतीयोऽध्यायः । देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम् ।,14,16058,भास्करोऽथ कृशानोश्च दिशं नूनं विहाय च । याम्यां गन्तुं ततस्तूर्णं प्रतस्थे कमलाकरः ॥ 15॥ 10,१०.३,तृतीयोऽध्यायः । देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम् ।,15,16059,न शशाकाग्रतो गन्तुं ततोऽनूरुर्व्यजिज्ञपत् । अनूरुरुवाच । भानो मानोन्नतो विन्ध्यो निरुध्य गगनं स्थितः ॥ 16॥ 10,१०.३,तृतीयोऽध्यायः । देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम् ।,16,16060,स्पर्धते मेरुणा प्रेप्सुस्त्वद्दत्तां च प्रदक्षिणाम् । सूत उवाच । अनूरुवाक्यमाकर्ण्य सविता ह्यास चिन्तयन् ॥ 17॥ 10,१०.३,तृतीयोऽध्यायः । देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम् ।,17,16061,अहो गगनमार्गोऽपि रुध्यते चातिविस्मयः । प्रायः शूरो न किं कुर्यादुत्पथे वर्त्मनि स्थितः ॥ 18॥ 10,१०.३,तृतीयोऽध्यायः । देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम् ।,18,16062,निरुद्धो नो वाजिमार्गो दैवं हि बलवत्तरम् । राहुबाहुग्रहव्यग्रो यः क्षणं नावतिष्ठते ॥ 19॥ 10,१०.३,तृतीयोऽध्यायः । देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम् ।,19,16063,स चिरं रुद्धमार्गोऽपि किं करोति विधिर्बली । एवं च मार्गे संरुद्धे लोकाः सर्वे च सेश्वराः ॥ 20॥ 10,१०.३,तृतीयोऽध्यायः । देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम् ।,20,16064,नान्वविन्दन्त शरणं कर्तव्यं नान्वपद्यत । चित्रगुप्तादयः सर्वे कालं जानन्ति सूर्यतः ॥ 21॥ 10,१०.३,तृतीयोऽध्यायः । देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम् ।,21,16065,संरुद्धो विन्ध्यगिरिणा अहो दैवविपर्ययः । यदा निरुद्धः सविता गिरिणा स्पर्धया तदा ॥ 22॥ 10,१०.३,तृतीयोऽध्यायः । देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम् ।,22,16066,नष्टः स्वाहास्वधाकारो नष्टप्रायमभूज्जगत् । एवं च पाश्चिमा लोका दाक्षिणात्यास्तथैव च ॥ 23॥ 10,१०.३,तृतीयोऽध्यायः । देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम् ।,23,16067,निद्रामीलितचक्षुष्का निशामेव प्रपेदिरे । प्राञ्चस्तथोत्तराहाश्च तीक्ष्णतापप्रतापिताः ॥ 24॥ 10,१०.३,तृतीयोऽध्यायः । देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम् ।,24,16068,मृता नष्टाश्च भग्नाश्च विनाशमभजन् प्रजाः । हाहाभूतं जगत्सर्वं स्वधाकव्यविवर्जितम् । देवाः सेन्द्राः समुद्विग्नाः किं कुर्म इतिवादिनः ॥ 25॥ 10,१०.३,तृतीयोऽध्यायः । देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम् ।,25,16069,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनं नाम तृतीयोऽध्यायः ॥ १०.३॥ 10,१०.४,चतुर्थोऽध्यायः । रुद्रप्रार्थनम् ।,0,16070,सूत उवाच । ततः सर्वे सुरगणा महेन्द्रप्रमुखास्तदा । पद्मयोनिं पुरस्कृत्य रुद्रं शरणमन्वयुः ॥ 1॥ 10,१०.४,चतुर्थोऽध्यायः । रुद्रप्रार्थनम् ।,1,16071,उपतस्थुः प्रणतिभिः स्तोत्रैश्चारुविभूतिभिः । देवदेवं गिरिशयं शशिलोलितशेखरम् ॥ 2॥ 10,१०.४,चतुर्थोऽध्यायः । रुद्रप्रार्थनम् ।,2,16072,देववा ऊचुः । जय देव गणाध्यक्ष उमालालितपङ्कज । अष्टसिद्धिविभूतीनां दात्रे भक्तजनाय ते ॥ 3॥ 10,१०.४,चतुर्थोऽध्यायः । रुद्रप्रार्थनम् ।,3,16073,महामायाविलसितस्थानाय परमात्मने । वृषाङ्कायामरेशाय कैलासस्थितिशालिने ॥ 4॥ 10,१०.४,चतुर्थोऽध्यायः । रुद्रप्रार्थनम् ।,4,16074,अहिर्बुध्न्याय मान्याय मनवे मानदायिने । अजाय बहुरूपाय स्वात्मारामाय शम्भवे ॥ 5॥ 10,१०.४,चतुर्थोऽध्यायः । रुद्रप्रार्थनम् ।,5,16075,गणनाथाय देवाय गिरिशाय नमोऽस्तु ते । महाविभूतिदात्रे ते महाविष्णुस्तुताय च ॥ 6॥ 10,१०.४,चतुर्थोऽध्यायः । रुद्रप्रार्थनम् ।,6,16076,विष्णुहृत्कञ्जवासाय महायोगरताय च । योगगम्याय योगाय योगिनां पतये नमः ॥ 7॥ 10,१०.४,चतुर्थोऽध्यायः । रुद्रप्रार्थनम् ।,7,16077,योगीशाय नमस्तुभ्यं योगानां फलदायिने । दीनदानपरायापि दयासागरमूर्तये ॥ 8॥ 10,१०.४,चतुर्थोऽध्यायः । रुद्रप्रार्थनम् ।,8,16078,आर्तिप्रशमनायोग्रवीर्याय गुणमूर्तये । वृषध्वजाय कालाय कालकालाय ते नमः ॥ 9॥ 10,१०.४,चतुर्थोऽध्यायः । रुद्रप्रार्थनम् ।,9,16079,सूत उवाच । एवं स्तुतः स देवेशो यज्ञभुग्भिर्वृषध्वजः । प्राह गम्भीरया वाचा प्रहसन्विबुधर्षभान् ॥ 10॥ 10,१०.४,चतुर्थोऽध्यायः । रुद्रप्रार्थनम् ।,10,16080,श्रीभगवानुवाच । प्रसन्नोऽहं दिविषदः स्तोत्रेणोत्तमपूरुषाः । मनोरथं पूरयामि सर्वेषां देवतर्षभाः ॥ 11॥ 10,१०.४,चतुर्थोऽध्यायः । रुद्रप्रार्थनम् ।,11,16081,देवा ऊचुः । सर्वदेवेश गिरिश शशिमौलिविराजित । आर्तानां शङ्करस्त्वं च शं विधेहि महाबल ॥ 12॥ 10,१०.४,चतुर्थोऽध्यायः । रुद्रप्रार्थनम् ।,12,16082,पर्वतो विन्ध्यनामास्ति मेरुद्वेष्टा महोन्नतः । भानुमार्गनिरोद्धा हि सर्वेषां दुःखदोऽनघ ॥ 13॥ 10,१०.४,चतुर्थोऽध्यायः । रुद्रप्रार्थनम् ।,13,16083,तदवृद्धिं स्तम्भयेशान सर्वकल्याणकृद्भव । भानुसञ्चाररोधेन कालज्ञानं कथं भवेत् ॥ 14॥ 10,१०.४,चतुर्थोऽध्यायः । रुद्रप्रार्थनम् ।,14,16084,नष्टे स्वाहास्वधाकारे लोके कः शरणं भवेत् । अस्माकं च भयार्तानां भवानेव हि दृश्यते ॥ 15॥ 10,१०.४,चतुर्थोऽध्यायः । रुद्रप्रार्थनम् ।,15,16085,दुःखनाशकरो देव प्रसीद गिरिजापते । श्रीशिव उवाच । नास्माकं शक्तिरस्तीह तद्वृद्धिस्तम्भने सुराः ॥ 16॥ 10,१०.४,चतुर्थोऽध्यायः । रुद्रप्रार्थनम् ।,16,16086,इममेवं वदिष्यामो भगवन्तं रमाधवम् । सोऽस्माकं प्रभुरात्मा च पूज्यः कारणरूपधृक् ॥ 17॥ 10,१०.४,चतुर्थोऽध्यायः । रुद्रप्रार्थनम् ।,17,16087,गोविन्दो भगवान्विष्णुः सर्वकारणकारणः । तं गत्वा कथयिष्यामः स दुःखान्तो भविष्यति ॥ 18॥ 10,१०.४,चतुर्थोऽध्यायः । रुद्रप्रार्थनम् ।,18,16088,इत्येवमाकर्ण्य गिरीशभाषितं देवाश्च सेन्द्राः सपयोजसम्भवाः । रुद्रं पुरस्कृत्य च वेपमाना वैकुण्ठलोकं प्रतिजग्मुरञ्जसा ॥ 19॥ 10,१०.४,चतुर्थोऽध्यायः । रुद्रप्रार्थनम् ।,19,16089,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे रुद्रप्रार्थनं नाम चतुर्थोऽध्यायः ॥ १०.४॥ 10,१०.५,पञ्चमोऽध्यायः । श्रीविष्णुना देवेभ्यो वरप्रदानम् ।,0,16090,सूत उवाच । ते गत्वा देवदेवेशं रमानाथं जगद्गुरुम् । विष्णुं कमलपत्राक्षं ददृशुः प्रभयान्वितम् ॥ 1॥ 10,१०.५,पञ्चमोऽध्यायः । श्रीविष्णुना देवेभ्यो वरप्रदानम् ।,1,16091,स्तोत्रेण तुष्टुवुर्भक्त्या गद्गदस्वरसत्कृताः । देवा ऊचुः । जय विष्णो रमेशाद्य महापुरुष पूर्वज ॥ 2॥ 10,१०.५,पञ्चमोऽध्यायः । श्रीविष्णुना देवेभ्यो वरप्रदानम् ।,2,16092,दैत्यारे कामजनक सर्वकामफलप्रद । महावराह गोविन्द महायज्ञस्वरूपक ॥ 3॥ 10,१०.५,पञ्चमोऽध्यायः । श्रीविष्णुना देवेभ्यो वरप्रदानम् ।,3,16093,महाविष्णो ध्रुवेशाद्य जगदुत्पत्तिकारण । मत्स्यावतारे वेदानामुद्धाराधाररूपक ॥ 4॥ 10,१०.५,पञ्चमोऽध्यायः । श्रीविष्णुना देवेभ्यो वरप्रदानम् ।,4,16094,सत्यव्रत धराधीश मत्स्यरूपाय ते नमः । जयाकूपार दैत्यारे सुरकार्यसमर्पक ॥ 5॥ 10,१०.५,पञ्चमोऽध्यायः । श्रीविष्णुना देवेभ्यो वरप्रदानम् ।,5,16095,अमृताप्तिकरेशान कूर्मरूपाय ते नमः । जयादिदैत्यनाशार्थमादिसूकररूपधृक् ॥ 6॥ 10,१०.५,पञ्चमोऽध्यायः । श्रीविष्णुना देवेभ्यो वरप्रदानम् ।,6,16096,मह्युद्धारकृतोद्योगकोलरूपाय ते नमः । नारसिंहं वपुः कृत्वा महादैत्यं ददार यः ॥ 7॥ 10,१०.५,पञ्चमोऽध्यायः । श्रीविष्णुना देवेभ्यो वरप्रदानम् ।,7,16097,करजैर्वरदृप्ताङ्गं तस्मै नृहरये नमः । वामनं रूपमास्थाय त्रैलोक्यैश्वर्यमोहितम् ॥ 8॥ 10,१०.५,पञ्चमोऽध्यायः । श्रीविष्णुना देवेभ्यो वरप्रदानम् ।,8,16098,बलिं सञ्छलयामास तस्मै वामनरूपिणे । दुष्टक्षत्रविनाशाय सहस्रकरशत्रवे ॥ 9॥ 10,१०.५,पञ्चमोऽध्यायः । श्रीविष्णुना देवेभ्यो वरप्रदानम् ।,9,16099,रेणुकागर्भजाताय जामदग्न्याय ते नमः । दुष्टराक्षसपौलस्त्यशिरश्छेदपटीयसे ॥ 10॥ 10,१०.५,पञ्चमोऽध्यायः । श्रीविष्णुना देवेभ्यो वरप्रदानम् ।,10,16100,श्रीमद्दाशरथे तुभ्यं नमोऽनन्तक्रमाय च । कंसदुर्योधनाद्यैश्च दैत्यैः पृथ्वीशलाञ्छनैः ॥ 11॥ 10,१०.५,पञ्चमोऽध्यायः । श्रीविष्णुना देवेभ्यो वरप्रदानम् ।,11,16101,भाराक्रान्तां महीं योऽसावुज्जहार महाविभुः । धर्मं संस्थापयामास पापं कृत्वा सुदूरतः ॥ 12॥ 10,१०.५,पञ्चमोऽध्यायः । श्रीविष्णुना देवेभ्यो वरप्रदानम् ।,12,16102,तस्मै कृष्णाय देवाय नमोऽस्तु बहुधा विभो । दुष्टयज्ञविघाताय पशुहिंसानिवृत्तये ॥ 13॥ 10,१०.५,पञ्चमोऽध्यायः । श्रीविष्णुना देवेभ्यो वरप्रदानम् ।,13,16103,बौद्धरूपं दधौ योऽसौ तस्मै देवाय ते नमः । म्लेच्छप्रायेऽखिले लोके दुष्टराजन्यपीडिते ॥ 14॥ 10,१०.५,पञ्चमोऽध्यायः । श्रीविष्णुना देवेभ्यो वरप्रदानम् ।,14,16104,कल्किरूपं समादध्यौ देवदेवाय ते नमः । दशावतारास्ते देव भक्तानां रक्षणाय वै ॥ 15॥ 10,१०.५,पञ्चमोऽध्यायः । श्रीविष्णुना देवेभ्यो वरप्रदानम् ।,15,16105,दुष्टदैत्यविघाताय तस्मात्त्वं सर्वदुःखहृत् । जय भक्तार्तिनाशाय धृतं नारीजलात्मसु ॥ 16॥ 10,१०.५,पञ्चमोऽध्यायः । श्रीविष्णुना देवेभ्यो वरप्रदानम् ।,16,16106,रूपं येन त्वया देव कोऽन्यस्त्वत्तो दयानिधिः । इत्येवं देवदेवेशं स्तुत्वा श्रीपीतवाससम् ॥ 17॥ 10,१०.५,पञ्चमोऽध्यायः । श्रीविष्णुना देवेभ्यो वरप्रदानम् ।,17,16107,प्रणेमुर्भक्तिसहिताः साष्टाङ्गं विबुधर्षभाः । तेषां स्तवं समाकर्ण्य देवः श्रीपुरुषोत्तमः ॥ 18॥ 10,१०.५,पञ्चमोऽध्यायः । श्रीविष्णुना देवेभ्यो वरप्रदानम् ।,18,16108,उवाच विबुधान्सर्वान् हर्षयच्छ्रीगदाधरः । श्रीभगवानुवाच - प्रसन्नोऽस्मि स्तवेनाहं देवास्तापं विमुञ्चथ ॥ 19॥ 10,१०.५,पञ्चमोऽध्यायः । श्रीविष्णुना देवेभ्यो वरप्रदानम् ।,19,16109,भवतां नाशयिष्यामि दुःखं परमदुःसहम् । वृणुध्वं च वरं मत्तो देवाः परमदुर्लभम् ॥ 20॥ 10,१०.५,पञ्चमोऽध्यायः । श्रीविष्णुना देवेभ्यो वरप्रदानम् ।,20,16110,ददामि परमप्रीतः स्तवस्यास्य प्रसादतः । य एतत्पठते स्तोत्रं कल्य उत्थाय मानवः ॥ 21॥ 10,१०.५,पञ्चमोऽध्यायः । श्रीविष्णुना देवेभ्यो वरप्रदानम् ।,21,16111,मयि भक्तिं परां कृत्वा न तं शोकः स्पृशेत्कदा । अलक्ष्मीः कालकर्णी च नाक्रामेत्तद्गृहं सुराः ॥ 22॥ 10,१०.५,पञ्चमोऽध्यायः । श्रीविष्णुना देवेभ्यो वरप्रदानम् ।,22,16112,नोपसर्गा न वेताला न ग्रहा ब्रह्मराक्षसाः । न रोगा वातिकाः पैत्ताः श्लेष्मसम्भविनस्तथा ॥ 23॥ 10,१०.५,पञ्चमोऽध्यायः । श्रीविष्णुना देवेभ्यो वरप्रदानम् ।,23,16113,नाकालमरणं तस्य कदापि च भविष्यति । सन्ततिश्चिरकालस्था भोगाः सर्वे सुखादयः ॥ 24॥ 10,१०.५,पञ्चमोऽध्यायः । श्रीविष्णुना देवेभ्यो वरप्रदानम् ।,24,16114,सम्भविष्यन्ति तन्मर्त्यगृहे यः स्तोत्रपाठकः । किं पुनर्बहुनोक्तेन स्तोत्रं सर्वार्थसाधकम् ॥ 25॥ 10,१०.५,पञ्चमोऽध्यायः । श्रीविष्णुना देवेभ्यो वरप्रदानम् ।,25,16115,एतस्य पठनानॄणां भुक्तिमुक्ती न दूरतः । देवा भवत्सु यद्दुःखं कथ्यतां तदसंशयम् ॥ 26॥ 10,१०.५,पञ्चमोऽध्यायः । श्रीविष्णुना देवेभ्यो वरप्रदानम् ।,26,16116,नाशयामि न सन्देहश्चात्र कार्योऽणुरेव च । एवं श्रीभगवद्वाक्यं श्रुत्वा सर्वे दिवौकसः । प्रसन्नमनसः सर्वे पुनरूचुर्वृषाकपिम् ॥ 27॥ 10,१०.५,पञ्चमोऽध्यायः । श्रीविष्णुना देवेभ्यो वरप्रदानम् ।,27,16117,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे श्रीविष्णुना देवेभ्यो वरप्रदानं नाम पञ्चमोऽध्यायः ॥ १०.५॥ 10,१०.६,षष्ठोऽध्यायः । अगस्त्याश्वासनवर्णनम् ।,0,16118,सूत उवाच । श्रीशस्य वचनाद्देवाः सन्तुष्टाः सर्व एव हि । प्रसन्नमनसो भूत्वा पुनरेनं समूचिरे ॥ 1॥ 10,१०.६,षष्ठोऽध्यायः । अगस्त्याश्वासनवर्णनम् ।,1,16119,देवा ऊचुः । देवदेव महाविष्णो सृष्टिस्थित्यन्तकारण । विष्णो विन्ध्यनगोऽर्कस्य मार्गरोधं करोति हि ॥ 2॥ 10,१०.६,षष्ठोऽध्यायः । अगस्त्याश्वासनवर्णनम् ।,2,16120,तेन भानुविरोधेन सर्व एव महाविभो । अलब्धभोगभागा हि किं कुर्मः कुत्र याम हि ॥ 3॥ 10,१०.६,षष्ठोऽध्यायः । अगस्त्याश्वासनवर्णनम् ।,3,16121,श्रीभगवानुवाच । या कर्त्री सर्वजगतामाद्या च कुलवर्धनी । देवी भगवती तस्याः पूजकः परमद्युतिः ॥ 4॥ 10,१०.६,षष्ठोऽध्यायः । अगस्त्याश्वासनवर्णनम् ।,4,16122,अगस्त्यो मुनिवर्योऽसौ वाराणस्यां समासते । तत्तेजोवञ्चकोऽगस्त्यो भविष्यति सुरोत्तमाः ॥ 5॥ 10,१०.६,षष्ठोऽध्यायः । अगस्त्याश्वासनवर्णनम् ।,5,16123,तं प्रसाद्य द्विजवरमगस्त्यं परमौजसम् । याचध्वं विबुधाः काशीं गत्वा निःश्रेयसः पदीम् ॥ 6॥ 10,१०.६,षष्ठोऽध्यायः । अगस्त्याश्वासनवर्णनम् ।,6,16124,सूत उवाच । एवं समुपदिष्टास्ते विष्णुना विबुधोत्तमाः । प्रतीताः प्रणताः सर्वे जग्मुर्वाराणसीं पुरीम् ॥ 7॥ 10,१०.६,षष्ठोऽध्यायः । अगस्त्याश्वासनवर्णनम् ।,7,16125,क्षणेन विबुधश्रेष्ठा गत्वा काशीपुरीं शुभाम् । मणिकर्णीं समाप्लुत्य सचैलं भक्तिसंयुताः ॥ 8॥ 10,१०.६,षष्ठोऽध्यायः । अगस्त्याश्वासनवर्णनम् ।,8,16126,सन्तर्प्य देवांश्च पितॄन्दत्त्वा दानं विधानतः । आगत्य मुनिवर्यस्य चाश्रमं परमं महत् ॥ 9॥ 10,१०.६,षष्ठोऽध्यायः । अगस्त्याश्वासनवर्णनम् ।,9,16127,प्रशान्तश्वापदाकीर्णं नानापादपसङ्कुलम् । मयूरैः सारसैर्हंसैश्चक्रवाकैरुपाश्रितम् ॥ 10॥ 10,१०.६,षष्ठोऽध्यायः । अगस्त्याश्वासनवर्णनम् ।,10,16128,महावराहैः कोलैश्च व्याघ्रैः शार्दूलकैरपि । मृगै रुरुभिरत्यर्थं खड्गैः शरभकैरपि ॥ 11॥ 10,१०.६,षष्ठोऽध्यायः । अगस्त्याश्वासनवर्णनम् ।,11,16129,समाश्रितं परमया लक्ष्म्या मुनिवरं तदा । दण्डवत्पतिताः सर्वे प्रणेमुश्च पुनः पुनः ॥ 12॥ 10,१०.६,षष्ठोऽध्यायः । अगस्त्याश्वासनवर्णनम् ।,12,16130,देवा ऊचुः । जय द्विजगणाधीश मान्य पूज्य धरासुर । वातापीबलनाशाय नमस्ते कुम्भयोनये ॥ 13॥ 10,१०.६,षष्ठोऽध्यायः । अगस्त्याश्वासनवर्णनम् ।,13,16131,लोपामुद्रापते श्रीमन्मित्रावरुणसम्भव । सर्वविद्यानिधेऽगस्त्य शास्त्रयोने नमोऽस्तु ते ॥ 14॥ 10,१०.६,षष्ठोऽध्यायः । अगस्त्याश्वासनवर्णनम् ।,14,16132,यस्योदये प्रसन्नानि भवन्त्युज्ज्वलभाञ्ज्यपि । तोयानि तोयराशीनां तस्मै तुभ्यं नमोऽस्तु ते ॥ 15॥ 10,१०.६,षष्ठोऽध्यायः । अगस्त्याश्वासनवर्णनम् ।,15,16133,काशपुष्पविकासाय लङ्कावासप्रियाय च । जटामण्डलयुक्ताय सशिष्याय नमोऽस्तु ते ॥ 16॥ 10,१०.६,षष्ठोऽध्यायः । अगस्त्याश्वासनवर्णनम् ।,16,16134,जय सर्वामरस्तव्य गुणराशे महामुने । वरिष्ठाय च पूज्याय सस्त्रीकाय नमोऽस्तु ते ॥ 17॥ 10,१०.६,षष्ठोऽध्यायः । अगस्त्याश्वासनवर्णनम् ।,17,16135,प्रसादः क्रियतां स्वामिन् वयं त्वां शरणं गताः । दुस्तराच्छैलजाद्दुःखात्पीडिताः परमद्युते ॥ 18॥ 10,१०.६,षष्ठोऽध्यायः । अगस्त्याश्वासनवर्णनम् ।,18,16136,इत्येवं संस्तुतोऽगस्त्यो मुनिः परमधार्मिकः । प्राह प्रसन्नया वाचा विहसन् द्विजसत्तमः ॥ 19॥ 10,१०.६,षष्ठोऽध्यायः । अगस्त्याश्वासनवर्णनम् ।,19,16137,मुनिरुवाच । भवन्तः परमश्रेष्ठा देवास्त्रिभुवनेश्वराः । लोकपाला महात्मानो निग्रहानुग्रहक्षमाः ॥ 20॥ 10,१०.६,षष्ठोऽध्यायः । अगस्त्याश्वासनवर्णनम् ।,20,16138,योऽमरावत्यधीशानः कुलिशं यस्य चायुधम् । सिद्ध्यष्टकं च यद्द्वारि स शक्रो मरुतां पतिः ॥ 21॥ 10,१०.६,षष्ठोऽध्यायः । अगस्त्याश्वासनवर्णनम् ।,21,16139,वैश्वानरः कृशानुर्हि हव्यकव्यवहोऽनिशम् । मुखं सर्वामराणां हि सोऽग्निः किं तस्य दुष्करम् ॥ 22॥ 10,१०.६,षष्ठोऽध्यायः । अगस्त्याश्वासनवर्णनम् ।,22,16140,रक्षोगणाधिपो भीमः सर्वेषां कर्मसाक्षिकः । दण्डव्यग्रकरो देवः किं तस्यासुकरं सुराः ॥ 23॥ 10,१०.६,षष्ठोऽध्यायः । अगस्त्याश्वासनवर्णनम् ।,23,16141,तथापि यदि देवेशाः कार्यं मच्छक्तिसिद्धिभृत् । अस्ति चेदुच्यतां देवाः करिष्यामि न संशयः ॥ 24॥ 10,१०.६,षष्ठोऽध्यायः । अगस्त्याश्वासनवर्णनम् ।,24,16142,एवं मुनिवरेणोक्तं निशम्य विबुधर्षभाः । प्रतीताः प्रणयोद्विग्नाः कार्यं निजगदुर्निजम् ॥ 25॥ 10,१०.६,षष्ठोऽध्यायः । अगस्त्याश्वासनवर्णनम् ।,25,16143,महर्षे विन्ध्यगिरिणा निरुद्धोऽर्कविनिर्गमः । त्रैलोक्यं तेन संविष्टं हाहाभूतमचेतनम् ॥ 26॥ 10,१०.६,षष्ठोऽध्यायः । अगस्त्याश्वासनवर्णनम् ।,26,16144,तद्वृद्धिं स्तम्भय मुने निजया तपसः श्रिया । भवतस्तेजसागस्त्य नूनं नम्रो भविष्यति । एतदेवास्मदीयं च कार्यं कर्तव्यमस्ति हि ॥ 27॥ 10,१०.६,षष्ठोऽध्यायः । अगस्त्याश्वासनवर्णनम् ।,27,16145,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे अगस्त्याश्वासनवर्णनं नाम षष्ठोऽध्यायः ॥ १०.६॥ 10,१०.७,सप्तमोऽध्यायः । विन्ध्यवृद्ध्यवरोधवर्णनम् ।,0,16146,सूत उवाच । इति वाक्यं समाकर्ण्य विबुधानां द्विजोत्तमः । करिष्ये कार्यमेतद्वः प्रत्युवाच ततो मुनिः ॥ 1॥ 10,१०.७,सप्तमोऽध्यायः । विन्ध्यवृद्ध्यवरोधवर्णनम् ।,1,16147,अङ्गीकृते तदा कार्ये मुनिना कुम्भजन्मना । देवाः प्रमुदिताः सर्वे बभूबुर्द्विजसत्तमाः ॥ 2॥ 10,१०.७,सप्तमोऽध्यायः । विन्ध्यवृद्ध्यवरोधवर्णनम् ।,2,16148,ते देवाः स्वानि धिष्ण्यानि भेजिरे मुनिवाक्यतः । पत्नीं मुनिवरः श्रीमानुवाच नृपकन्यकाम् ॥ 3॥ 10,१०.७,सप्तमोऽध्यायः । विन्ध्यवृद्ध्यवरोधवर्णनम् ।,3,16149,अये नृपसुते प्राप्तो विघ्नोऽनर्थस्य कारकः । भानुमार्गनिरोधेन कृतो विन्ध्यमहीभृता ॥ 4॥ 10,१०.७,सप्तमोऽध्यायः । विन्ध्यवृद्ध्यवरोधवर्णनम् ।,4,16150,आज्ञातं कारणं तच्च स्मृतं वाक्यं पुरातनम् । काशीमुद्दिश्य यद्गीतं मुनिभिस्तत्त्वदर्शिभिः ॥ 5॥ 10,१०.७,सप्तमोऽध्यायः । विन्ध्यवृद्ध्यवरोधवर्णनम् ।,5,16151,अविमुक्तं न मोक्तव्यं सर्वथैव मुमुक्षुभिः । किन्तु विघ्ना भविष्यन्ति काश्यां निवसतां सताम् ॥ 6॥ 10,१०.७,सप्तमोऽध्यायः । विन्ध्यवृद्ध्यवरोधवर्णनम् ।,6,16152,सोऽन्तरायो मया प्राप्तः काश्यां निवसता प्रिये । इत्येवमुक्त्वा भार्यां तां मुनिः परमतापनः ॥ 7॥ 10,१०.७,सप्तमोऽध्यायः । विन्ध्यवृद्ध्यवरोधवर्णनम् ।,7,16153,मणिकर्ण्यां समाप्लुत्य दृष्ट्वा विश्वेश्वरं विभुम् । दण्डपाणिं समभ्यर्च्य कालराजं समागतः ॥ 8॥ 10,१०.७,सप्तमोऽध्यायः । विन्ध्यवृद्ध्यवरोधवर्णनम् ।,8,16154,कालराज महाबाहो भक्तानां भयहारक । कथं दूरयसे पुर्याः काशीपुर्यास्त्वमीश्वरः ॥ 9॥ 10,१०.७,सप्तमोऽध्यायः । विन्ध्यवृद्ध्यवरोधवर्णनम् ।,9,16155,त्वं काशीवासविघ्नानां नाशको भक्तरक्षकः । मां किं दूरयसे स्वामिन् भक्तार्तिविनिवारक ॥ 10॥ 10,१०.७,सप्तमोऽध्यायः । विन्ध्यवृद्ध्यवरोधवर्णनम् ।,10,16156,परापवादो नोक्तो मे न पैशुन्यं न चानृतम् । केन कर्मविपाकेन काश्या दूरं करोषि माम् ॥ 11॥ 10,१०.७,सप्तमोऽध्यायः । विन्ध्यवृद्ध्यवरोधवर्णनम् ।,11,16157,एवं प्रार्थ्य च तं कालनाथं कुम्भोद्भवो मुनिः । जगाम साक्षिविघ्नेशं सर्वविघ्ननिवारणम् ॥ 12॥ 10,१०.७,सप्तमोऽध्यायः । विन्ध्यवृद्ध्यवरोधवर्णनम् ।,12,16158,तं दृष्ट्वाभ्यर्च्य सम्प्रार्थ्य ततः पुर्या विनिर्गतः । लोपामुद्रापतिः श्रीमानगस्त्यो दक्षिणां दिशम् ॥ 13॥ 10,१०.७,सप्तमोऽध्यायः । विन्ध्यवृद्ध्यवरोधवर्णनम् ।,13,16159,काशीविरहसन्तप्तो महाभाग्यनिधिर्मुनिः । संस्मृत्यानुक्षणं काशीं जगाम सह भार्यया ॥ 14॥ 10,१०.७,सप्तमोऽध्यायः । विन्ध्यवृद्ध्यवरोधवर्णनम् ।,14,16160,तपोयानमिवारुह्य निमिषार्धेन वै मुनिः । अग्रे ददर्श तं विन्ध्यं रुद्धाम्बरमथोन्नतम् ॥ 15॥ 10,१०.७,सप्तमोऽध्यायः । विन्ध्यवृद्ध्यवरोधवर्णनम् ।,15,16161,चकम्पे चाचलस्तूर्णं दृष्ट्वैवाग्रे स्थितं मुनिम् । गिरिः खर्वतरो भूत्वा विवक्षुरवनीमिव ॥ 16॥ 10,१०.७,सप्तमोऽध्यायः । विन्ध्यवृद्ध्यवरोधवर्णनम् ।,16,16162,दण्डवत्पतितो भूमौ साष्टाङ्गं भक्तिभावितः । तं दृष्ट्वा नम्रशिखरं विन्ध्यं नाम महागिरिम् ॥ 17॥ 10,१०.७,सप्तमोऽध्यायः । विन्ध्यवृद्ध्यवरोधवर्णनम् ।,17,16163,प्रसन्नवदनोऽगस्त्यो मुनिर्विन्ध्यमथाब्रवीत् । वत्सैवं तिष्ठ तावत्त्वं यावदागम्यते मया ॥ 18॥ 10,१०.७,सप्तमोऽध्यायः । विन्ध्यवृद्ध्यवरोधवर्णनम् ।,18,16164,अशक्तोऽहं गण्डशैलारोहणे तव पुत्रक । एवमुक्त्वा मुनिर्याम्यदिशं प्रति गमोत्सुकः ॥ 19॥ 10,१०.७,सप्तमोऽध्यायः । विन्ध्यवृद्ध्यवरोधवर्णनम् ।,19,16165,आरुह्य तस्य शिखराण्यवारुहदनुक्रमात् । गतो याम्यदिशं चापि श्रीशैलं प्रेक्ष्य वर्त्मनि ॥ 20॥ 10,१०.७,सप्तमोऽध्यायः । विन्ध्यवृद्ध्यवरोधवर्णनम् ।,20,16166,मलयाचलमासाद्य तत्राश्रमपरोऽभवत् । सापि देवी तत्र विन्ध्यमागता मनुपूजिता ॥ 21॥ 10,१०.७,सप्तमोऽध्यायः । विन्ध्यवृद्ध्यवरोधवर्णनम् ।,21,16167,लोकेषु प्रथिता विन्ध्यवासिनीति च शौनक । सूत उवाच । एतच्चरित्रं परमं शत्रुनाशनमुत्तमम् ॥ 22॥ 10,१०.७,सप्तमोऽध्यायः । विन्ध्यवृद्ध्यवरोधवर्णनम् ।,22,16168,अगस्त्यविन्ध्यनगयोराख्यानं पापनाशनम् । राज्ञां विजयदं तच्च द्विजानां ज्ञानवर्धनम् ॥ 23॥ 10,१०.७,सप्तमोऽध्यायः । विन्ध्यवृद्ध्यवरोधवर्णनम् ।,23,16169,वैश्यानां धान्यधनदं शूद्राणां सुखदं तथा । धर्मार्थी धर्ममाप्नोति धनार्थी धनमाप्नुयात् ॥ 24॥ 10,१०.७,सप्तमोऽध्यायः । विन्ध्यवृद्ध्यवरोधवर्णनम् ।,24,16170,कामानवाप्नुयात्कामी भक्त्या चास्य सकृच्छ्रवात् । एवं स्वायम्भुवमनुर्देवीमाराध्य भक्तितः ॥ 25॥ 10,१०.७,सप्तमोऽध्यायः । विन्ध्यवृद्ध्यवरोधवर्णनम् ।,25,16171,लेभे राज्यं धरायाश्च निजमन्वन्तराश्रयम् । इत्येतद्वर्णितं सौम्य मया मन्वन्तराश्रितम् । आद्यं चरित्रं श्रीदेव्याः किं पुनः कथयामि ते ॥ 26॥ 10,१०.७,सप्तमोऽध्यायः । विन्ध्यवृद्ध्यवरोधवर्णनम् ।,26,16172,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे विन्ध्यवृद्ध्यवरोधवर्णनं नाम सप्तमोऽध्यायः ॥ १०.७॥ 10,१०.८,अष्टमोऽध्यायः । मनूत्पत्तिवर्णनम् ।,0,16173,शौनक उवाच । आद्यो मन्वन्तरः प्रोक्तो भवता चायमुत्तमः । अन्येषामुद्भवं ब्रूहि मनूनां दिव्यतेजसाम् ॥ 1॥ 10,१०.८,अष्टमोऽध्यायः । मनूत्पत्तिवर्णनम् ।,1,16174,सूत उवाच । एवमाद्यस्य चोत्पत्तिं श्रुत्वा स्वायम्भुवस्य हि । अन्येषां क्रमशस्तेषां सम्भूतिं परिपृच्छति ॥ 2॥ 10,१०.८,अष्टमोऽध्यायः । मनूत्पत्तिवर्णनम् ।,2,16175,नारदः परमो ज्ञानी देवीतत्त्वार्थकोविदः । नारद उवाच । मनूनां मे समाख्याहि सूत्पत्तिं च सनातन ॥ 3॥ 10,१०.८,अष्टमोऽध्यायः । मनूत्पत्तिवर्णनम् ।,3,16176,श्रीनारायण उवाच । प्रथमोऽयं मनुः स्वायम्भुव उक्तो महामुने । देव्याराधनतो येन प्राप्तं राज्यमकण्टकम् ॥ 4॥ 10,१०.८,अष्टमोऽध्यायः । मनूत्पत्तिवर्णनम् ।,4,16177,प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ । राज्यपालनकर्तारौ विख्यातौ वसुधातले ॥ 5॥ 10,१०.८,अष्टमोऽध्यायः । मनूत्पत्तिवर्णनम् ।,5,16178,द्वितीयश्च मनुः स्वारोचिष उक्तो मनीषिभिः । प्रियव्रतसुतः श्रीमानप्रमेयपराक्रमः ॥ 6॥ 10,१०.८,अष्टमोऽध्यायः । मनूत्पत्तिवर्णनम् ।,6,16179,स स्वारोचिषनामापि कालिन्दीकूलतो मनुः । निवासं कल्पयामास सर्वसत्त्वप्रियङ्करः ॥ 7॥ 10,१०.८,अष्टमोऽध्यायः । मनूत्पत्तिवर्णनम् ।,7,16180,जीर्णपत्राशनो भूत्वा तपः कर्तुमनुव्रतः । देव्या मूर्तिं मृण्मयीं च पूजयामास भक्तितः ॥ 8॥ 10,१०.८,अष्टमोऽध्यायः । मनूत्पत्तिवर्णनम् ।,8,16181,एवं द्वादश वर्षाणि वनस्थस्य तपस्यतः । देवी प्रादुरभूत्तात सहस्रार्कसमद्युतिः ॥ 9॥ 10,१०.८,अष्टमोऽध्यायः । मनूत्पत्तिवर्णनम् ।,9,16182,ततः प्रसन्ना देवेशी स्तवराजेन सुव्रता । ददौ स्वारोचिषायैव सर्वमन्वन्तराश्रयम् ॥ 10॥ 10,१०.८,अष्टमोऽध्यायः । मनूत्पत्तिवर्णनम् ।,10,16183,आधिपत्यं जगद्धात्री तारिणीति प्रथामगात् । एवं स्वारोचिषमनुस्तारिण्याराधनात्ततः ॥ 11॥ 10,१०.८,अष्टमोऽध्यायः । मनूत्पत्तिवर्णनम् ।,11,16184,आधिपत्यं च लेभे स सर्वारातिविवर्जितम् । धर्मं संस्थाप्य विधिवद्राज्यं पुत्रैः समं विभुः ॥ 12॥ 10,१०.८,अष्टमोऽध्यायः । मनूत्पत्तिवर्णनम् ।,12,16185,भुक्त्वा जगाम स्वर्लोकं निजमन्वन्तराश्रयात् । तृतीय उत्तमो नाम प्रियव्रतसुतो मनुः ॥ 13॥ 10,१०.८,अष्टमोऽध्यायः । मनूत्पत्तिवर्णनम् ।,13,16186,गङ्गाकूले तपस्तप्त्वा वाग्भवं सञ्जपन् रहः । वर्षाणि त्रीण्युपवसन् देव्यनुग्रहमाविशत् ॥ 14॥ 10,१०.८,अष्टमोऽध्यायः । मनूत्पत्तिवर्णनम् ।,14,16187,स्तुत्वा देवीं स्तोत्रवरैर्भक्तिभावितमानसः । राज्यं निष्कण्टकं लेभे सन्ततिं चिरकालिकीम् ॥ 15॥ 10,१०.८,अष्टमोऽध्यायः । मनूत्पत्तिवर्णनम् ।,15,16188,राज्योत्थान्यानि सौख्यानि भुक्त्वा धर्मान्युगस्य च । सोऽप्याजगाम पदवीं राजर्षिवरभाविताम् ॥ 16॥ 10,१०.८,अष्टमोऽध्यायः । मनूत्पत्तिवर्णनम् ।,16,16189,चतुर्थस्तामसो नाम प्रियव्रतसुतो मनुः । नर्मदादक्षिणे कूले समाराध्य जगन्मयीम् ॥ 17॥ 10,१०.८,अष्टमोऽध्यायः । मनूत्पत्तिवर्णनम् ।,17,16190,महेश्वरीं कामराजकूटजापपरायणः । वासन्ते शारदे काले नवरात्रसपर्यया ॥ 18॥ 10,१०.८,अष्टमोऽध्यायः । मनूत्पत्तिवर्णनम् ।,18,16191,तोषयामास देवेशीं जलजाक्षीमनूपमाम् । तस्याः प्रसादमासाद्य नत्वा स्तोत्रैरनुत्तमैः ॥ 19॥ 10,१०.८,अष्टमोऽध्यायः । मनूत्पत्तिवर्णनम् ।,19,16192,अकण्टकं महद्राज्यं बुभुजे गतसाध्वसः । पुत्रान्वलोद्धताञ्छूरान्दश वीर्यनिकेतनान् ॥ 20॥ 10,१०.८,अष्टमोऽध्यायः । मनूत्पत्तिवर्णनम् ।,20,16193,उत्पाद्य निजभार्यायां जगामाम्बरमुत्तमम् । पञ्चमो मनुराख्यातो रैवतस्तामसानुजः ॥ 21॥ 10,१०.८,अष्टमोऽध्यायः । मनूत्पत्तिवर्णनम् ।,21,16194,कालिन्दीकूलमाश्रित्य जजाप कामसंज्ञकम् । बीजं परमवाग्दर्पदायकं साधकाश्रयम् ॥ 22॥ 10,१०.८,अष्टमोऽध्यायः । मनूत्पत्तिवर्णनम् ।,22,16195,एतदाराधनादाप स्वाराज्यर्द्धिमनुत्तमाम् । बलमप्रहतं लोके सर्वसिद्धिविधायकम् ॥ 23॥ 10,१०.८,अष्टमोऽध्यायः । मनूत्पत्तिवर्णनम् ।,23,16196,सन्ततिं चिरकालीनां पुत्रपौत्रमयीं शुभाम् । धर्मान्व्यस्य व्यवस्थाप्य विषयानुपभुज्य च । जगामाप्रतिमः शूरो महेन्द्रालयमुत्तमम् ॥ 24॥ 10,१०.८,अष्टमोऽध्यायः । मनूत्पत्तिवर्णनम् ।,24,16197,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे मनूत्पत्तिवर्णनं नाम अष्टमोऽध्यायः ॥ १०.८॥ 10,१०.९,नवमोऽध्यायः । चाक्षुषमनुवृत्तवर्णनम् ।,0,16198,श्रीनारायण उवाच । अथातः श्रूयतां चित्रं देवीमाहाक्त्यमुत्तमम् । अङ्गपुत्रेण मनुना यथाऽऽप्तं राज्यमुत्तमम् ॥ 1॥ 10,१०.९,नवमोऽध्यायः । चाक्षुषमनुवृत्तवर्णनम् ।,1,16199,अङ्गस्य राज्ञः पुत्रोऽभूच्चाक्षुषो मनुरुत्तमः । षष्ठः सुपुलहं नाम ब्रह्मर्षिं शरणं गतः ॥ 2॥ 10,१०.९,नवमोऽध्यायः । चाक्षुषमनुवृत्तवर्णनम् ।,2,16200,ब्रह्मर्षे त्वामहं प्राप्तः शरणं प्रणतार्तिहन् । शाधि मां किङ्करंस्वामिन् येनाहं प्राप्नुयां श्रियम् ॥ 3॥ 10,१०.९,नवमोऽध्यायः । चाक्षुषमनुवृत्तवर्णनम् ।,3,16201,मेदिन्याश्चाधिपत्यं मे स्याद्यथावदखण्डितम् । अव्याहतं भुजबलं शस्त्रास्त्रनिपुणं क्षमम् ॥ 4॥ 10,१०.९,नवमोऽध्यायः । चाक्षुषमनुवृत्तवर्णनम् ।,4,16202,सन्ततिश्चिरकालीनाप्यखण्डं वय उत्तमम् । अन्तेऽपवर्गलाभश्च स्यात्तथोपदिशाद्य मे ॥ 5॥ 10,१०.९,नवमोऽध्यायः । चाक्षुषमनुवृत्तवर्णनम् ।,5,16203,इत्येवं वचनं तस्य मनोः कर्णपथेऽभवत् । प्रत्युवाच मुनिः श्रीमान् देव्याः संराधनं परम् ॥ 6॥ 10,१०.९,नवमोऽध्यायः । चाक्षुषमनुवृत्तवर्णनम् ।,6,16204,राजन्नाकर्णय वचो मम श्रोत्रसुखं महत् । शिवामाराधयाद्य त्वं तत्प्रसादादिदं भवेत् ॥ 7॥ 10,१०.९,नवमोऽध्यायः । चाक्षुषमनुवृत्तवर्णनम् ।,7,16205,चाक्षुष उवाच । कीदृगाराधनं देव्यास्तस्याः परमपावनम् । केनाकारेण कर्तव्यं कारुण्याद्वक्तुमर्हसि ॥ 8॥ 10,१०.९,नवमोऽध्यायः । चाक्षुषमनुवृत्तवर्णनम् ।,8,16206,मुनिरुवाच । राजन्नाकर्ण्यतां देव्याः पूजनं परमव्ययम् । वाग्भवं बीजमव्यक्तं सञ्जप्यमनिशं तथा ॥ 9॥ 10,१०.९,नवमोऽध्यायः । चाक्षुषमनुवृत्तवर्णनम् ।,9,16207,त्रिकालं सञ्जपन्मर्त्यो भुक्तिमुक्ती लभेत्तु हि । न बीजं वाग्भवादन्यदस्ति राजन्यनन्दन ॥ 10॥ 10,१०.९,नवमोऽध्यायः । चाक्षुषमनुवृत्तवर्णनम् ।,10,16208,जपात्सिद्धिकरं वीर्यबलवृद्धिकरं परम् । एतस्य जापात्पाद्मोऽपि सृष्टिकर्ता महाबलः ॥ 11॥ 10,१०.९,नवमोऽध्यायः । चाक्षुषमनुवृत्तवर्णनम् ।,11,16209,विष्णुर्यज्जपतः सृष्टिपालकः परिकीर्तितः । महेश्वरोऽपि संहर्ता यज्जपादभवन्नृप ॥ 12॥ 10,१०.९,नवमोऽध्यायः । चाक्षुषमनुवृत्तवर्णनम् ।,12,16210,लोकपालास्तथान्येऽपि निग्रहानुग्रहक्षमाः । यदाश्रयादभूवंस्ते बलवीर्यमदोद्धताः ॥ 13॥ 10,१०.९,नवमोऽध्यायः । चाक्षुषमनुवृत्तवर्णनम् ।,13,16211,एवं त्वमपि राजन्य महेशीं जगदम्बिकाम् । समाराध्य महर्द्धिं च लप्स्यसेऽचिरकालतः ॥ 14॥ 10,१०.९,नवमोऽध्यायः । चाक्षुषमनुवृत्तवर्णनम् ।,14,16212,एवं स मुनिवर्येण पुलहेन प्रबोधितः । अङ्गपुत्रस्तपस्तप्तुं जगाम विरजां नदीम् ॥ 15॥ 10,१०.९,नवमोऽध्यायः । चाक्षुषमनुवृत्तवर्णनम् ।,15,16213,स च तेपे तपस्तीव्रं वाग्भवस्य जपे रतः । बीजस्य पृथिवीपालः शीर्णपर्णाशनो विभुः ॥ 16॥ 10,१०.९,नवमोऽध्यायः । चाक्षुषमनुवृत्तवर्णनम् ।,16,16214,प्रथमेऽब्दे पल्लवाशो द्वितीये तोयभक्षणः । तृतीयेऽब्दे पवनभुक् तस्थौ स्थाणुरिवाचलः ॥ 17॥ 10,१०.९,नवमोऽध्यायः । चाक्षुषमनुवृत्तवर्णनम् ।,17,16215,एवं द्वादश वर्षाणि त्यक्ताहारस्य भूभुजः । वाग्भवं जपतो नित्यं मतिरासीच्छुभान्विता ॥ 18॥ 10,१०.९,नवमोऽध्यायः । चाक्षुषमनुवृत्तवर्णनम् ।,18,16216,तथा च देव्याः परमं मन्त्रं सज्जपतो रहः । प्रादुरासीज्जगन्माता साक्षाच्छ्रीपरमेश्वरी ॥ 19॥ 10,१०.९,नवमोऽध्यायः । चाक्षुषमनुवृत्तवर्णनम् ।,19,16217,तेजोमयी दुराधर्षा सर्वदेवमयीश्वरी । उवाचाङ्गतनूजं तं प्रसन्ना ललिताक्षरम् ॥ 20॥ 10,१०.९,नवमोऽध्यायः । चाक्षुषमनुवृत्तवर्णनम् ।,20,16218,देव्युवाच । पृथिवीपाल ते यत्स्याच्चिन्तितं परमं वरम् । तद् ब्रूहि सम्प्रदास्यामि तपसा ते सुतोषिता ॥ 21॥ 10,१०.९,नवमोऽध्यायः । चाक्षुषमनुवृत्तवर्णनम् ।,21,16219,चाक्षुष उवाच । जानासि देवदेवेशि यत्प्रार्थ्यं मनसेप्सितम् । अन्तर्यामिस्वरूपेण तत्सर्वं देवपूजिते ॥ 22॥ 10,१०.९,नवमोऽध्यायः । चाक्षुषमनुवृत्तवर्णनम् ।,22,16220,तथापि मम भाग्येन जातं यत्तव दर्शनम् । ब्रवीमि देवि मे देहि राज्यं मन्वन्तराश्रितम् ॥ 23॥ 10,१०.९,नवमोऽध्यायः । चाक्षुषमनुवृत्तवर्णनम् ।,23,16221,देव्युवाच । दत्तं मन्वन्तरस्यास्य राज्यं राजन्यसत्तम । पुत्रा महाबलास्ते च भविष्यन्ति गुणाधिकाः ॥ 24॥ 10,१०.९,नवमोऽध्यायः । चाक्षुषमनुवृत्तवर्णनम् ।,24,16222,राज्यं निष्कण्टकं भावि मोक्षोऽन्ते चापि निश्चितः । एवं दत्त्वा परं देवी मनवे वरमुत्तमम् ॥ 25॥ 10,१०.९,नवमोऽध्यायः । चाक्षुषमनुवृत्तवर्णनम् ।,25,16223,जगामादर्शनं सद्यस्तेन भक्त्या च संस्तुता । सोऽपि राजा मनुः षष्ठः प्रसादात्तु तदाश्रयात् ॥ 26॥ 10,१०.९,नवमोऽध्यायः । चाक्षुषमनुवृत्तवर्णनम् ।,26,16224,बभूव मनुमान्योऽसौ सार्वभौमसुखैर्वृतः । पुत्रास्तस्य बलोद्युक्ताः कार्यभारसहादृताः ॥ 27॥ 10,१०.९,नवमोऽध्यायः । चाक्षुषमनुवृत्तवर्णनम् ।,27,16225,देवीभक्ताश्च शूराश्च महाबलपराक्रमाः । अन्यत्र माननीयाश्च महाराज्यसुखास्पदाः ॥ 28॥ 10,१०.९,नवमोऽध्यायः । चाक्षुषमनुवृत्तवर्णनम् ।,28,16226,एवं च चाक्षुषमनुर्देव्याराधनतः प्रभुः । बभूव मनुवर्योऽसौ जगामान्ते शिवापदम् ॥ 29॥ 10,१०.९,नवमोऽध्यायः । चाक्षुषमनुवृत्तवर्णनम् ।,29,16227,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे चाक्षुषमनुवृत्तवर्णनं नाम नवमोऽध्यायः ॥ १०.९॥ 10,१०.१०,दशमोऽध्यायः । सुरथनृपतिवृमत्तवर्णनम् ।,0,16228,श्रीनारायण उवाच । सप्तमो मनुराख्यातो मनुर्वैवस्वतः प्रभुः । श्राद्धदेवः परानन्दभोक्ता मान्यस्तु भूभुजाम् ॥ 1॥ 10,१०.१०,दशमोऽध्यायः । सुरथनृपतिवृमत्तवर्णनम् ।,1,16229,स च वैवस्वतमनुः परदेव्याः प्रसादतः । तथा तत्तपसा चैव जातो मन्वन्तराधिपः ॥ 2॥ 10,१०.१०,दशमोऽध्यायः । सुरथनृपतिवृमत्तवर्णनम् ।,2,16230,अष्टमो मनुराख्यातः सावर्णिः प्रथितः क्षितौ । स जन्मान्तर आराध्य देवीं तद्वरलाभतः ॥ 3॥ 10,१०.१०,दशमोऽध्यायः । सुरथनृपतिवृमत्तवर्णनम् ।,3,16231,जातो मन्वन्तरपतिः सर्वराजन्यपूजितः । महापराक्रमी धीरो देवीभक्तिपरायणः ॥ 4॥ 10,१०.१०,दशमोऽध्यायः । सुरथनृपतिवृमत्तवर्णनम् ।,4,16232,नारद उवाव कथं जन्मान्तरे तेन मनुनाराधनं कृतम् । देव्याः पृथिव्युद्भवायास्तन्ममाख्यातुमर्हसि ॥ 5॥ 10,१०.१०,दशमोऽध्यायः । सुरथनृपतिवृमत्तवर्णनम् ।,5,16233,श्रीनारायण उवाच । चैत्रवंशसमुद्भूतो राजा स्वारोचिषेऽन्तरे । सुरथो नाम विख्यातो महाबलपराक्रमः ॥ 6॥ 10,१०.१०,दशमोऽध्यायः । सुरथनृपतिवृमत्तवर्णनम् ।,6,16234,गुणग्राही धनुर्धारी मान्यः श्रेष्ठः कविः कृती । धनसङ्ग्रहकर्ता च दाता याचकमण्डले ॥ 7॥ 10,१०.१०,दशमोऽध्यायः । सुरथनृपतिवृमत्तवर्णनम् ।,7,16235,अरीणां मर्दनो मानी सर्वास्त्रकुशलो बली । तस्यैकदा बभूवुस्ते कोलाविध्वंसिनो नृपाः ॥ 8॥ 10,१०.१०,दशमोऽध्यायः । सुरथनृपतिवृमत्तवर्णनम् ।,8,16236,शत्रवः सैन्यसहिताः परिवार्येनमूर्जिताः । रुरुधुर्नगरीं तस्य राज्ञो मानधनस्य हि ॥ 9॥ 10,१०.१०,दशमोऽध्यायः । सुरथनृपतिवृमत्तवर्णनम् ।,9,16237,तदा स सुरथो नाम राजा सैन्यसमावृतः । निर्ययौ नगरात्स्वीयात्सर्वशत्रुनिबर्हणः ॥ 10॥ 10,१०.१०,दशमोऽध्यायः । सुरथनृपतिवृमत्तवर्णनम् ।,10,16238,तदा स समरे राजा सुरथः शत्रुभिर्जितः । अमात्यैर्मन्त्रिभिश्चैव तस्य कोशगतं धनम् ॥ 11॥ 10,१०.१०,दशमोऽध्यायः । सुरथनृपतिवृमत्तवर्णनम् ।,11,16239,हृतं सर्वमशेषेण तदातप्यत भूमिपः । निष्कासितश्च नगरात्स राजा परमद्युतिः ॥ 12॥ 10,१०.१०,दशमोऽध्यायः । सुरथनृपतिवृमत्तवर्णनम् ।,12,16240,जगामाश्वमथारुह्य मृगयामिषतो वनम् । एकाकी विजनेऽरण्ये बभ्रामोद्भ्रान्तमानसः ॥ 13॥ 10,१०.१०,दशमोऽध्यायः । सुरथनृपतिवृमत्तवर्णनम् ।,13,16241,मुनेः कस्यचिदागत्य स्वाश्रमं शान्तमानसः । प्रशान्तजन्तुसंयुक्तं मुनिशिष्यगणैर्युतम् ॥ 14॥ 10,१०.१०,दशमोऽध्यायः । सुरथनृपतिवृमत्तवर्णनम् ।,14,16242,उवास कञ्चित्कालं स राजा परमशोभने । आश्रमे मुनिवर्यस्य दीर्घदृष्टेः सुमेधसः ॥ 15॥ 10,१०.१०,दशमोऽध्यायः । सुरथनृपतिवृमत्तवर्णनम् ।,15,16243,एकदा स महीपालो मुनिं पूजावसानके । काले गत्वा प्रणम्याशु पप्रच्छ विनयान्वितः ॥ 16॥ 10,१०.१०,दशमोऽध्यायः । सुरथनृपतिवृमत्तवर्णनम् ।,16,16244,मुने मम मनोदुःखं बाधते चाधिसम्भवम् । ज्ञाततत्त्वस्य भूदेव निष्प्रज्ञस्य च सन्ततम् ॥ 17॥ 10,१०.१०,दशमोऽध्यायः । सुरथनृपतिवृमत्तवर्णनम् ।,17,16245,शत्रुभिर्निर्जितस्यापि हृतराज्यस्य सर्वशः । तथापि तेषु मनसि ममत्वं जायते स्फुटम् ॥ 18॥ 10,१०.१०,दशमोऽध्यायः । सुरथनृपतिवृमत्तवर्णनम् ।,18,16246,किं करोमि क्व गच्छामि कथं शर्म लभे मुने । त्वदनुग्रहमाशासे वद वेदविदां वर ॥ 19॥ 10,१०.१०,दशमोऽध्यायः । सुरथनृपतिवृमत्तवर्णनम् ।,19,16247,मुनिरुवाच । आकर्णय महीपाल महाश्चर्यकरं परम् । देवीमाहात्म्यमतुलं सर्वकामप्रदं परम् ॥ 20॥ 10,१०.१०,दशमोऽध्यायः । सुरथनृपतिवृमत्तवर्णनम् ।,20,16248,जगन्मयी महामाया विष्णुब्रह्महरोद्भवा । सा बलादपहृत्यैव जन्तूनां मानसानि हि ॥ 21॥ 10,१०.१०,दशमोऽध्यायः । सुरथनृपतिवृमत्तवर्णनम् ।,21,16249,मोहाय प्रतिसंयच्छेदिति जानीहि भूमिप । सा सृजत्यखिलं विश्वं सा पालयति सर्वदा ॥ 22॥ 10,१०.१०,दशमोऽध्यायः । सुरथनृपतिवृमत्तवर्णनम् ।,22,16250,संहारे हररूपेण संहरत्येव भूमिप । कामदात्री महामाया कालरात्रिर्दुरत्यया ॥ 23॥ 10,१०.१०,दशमोऽध्यायः । सुरथनृपतिवृमत्तवर्णनम् ।,23,16251,विश्वसंहारिणी काली कमला कमलालया । तस्यां सर्वं जगज्जातं तस्यां विश्वं प्रतिष्ठितम् ॥ 24॥ 10,१०.१०,दशमोऽध्यायः । सुरथनृपतिवृमत्तवर्णनम् ।,24,16252,लयमेष्यति तस्यां च तस्मात्सैव परात्परा । तस्या देव्याः प्रसादश्च यस्योपरि भवेन्नृप । स एव मोहमत्येति नान्यथा धरणीपते ॥ 25॥ 10,१०.१०,दशमोऽध्यायः । सुरथनृपतिवृमत्तवर्णनम् ।,25,16253,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे सुरथनृपतिवृमत्तवर्णनं नाम दशमोऽध्यायः ॥ १०.१०॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,0,16254,राजोवाच । का सा देवी त्वया प्रोक्ता ब्रूहि कालविदां वर । का मोहयति सत्त्वानि कारणं किं भवेद् द्विज ॥ 1॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,1,16255,कस्मादुत्पद्यते देवी किंरूपा सा किमात्मिका । सर्वमाख्याहि भूदेव कृपया मम सर्वतः ॥ 2॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,2,16256,मुनिरुवाच । राजन् देव्याः स्वरूपं ते वर्णयामि निशामय । यथा चोत्पतिता देवी येन वा सा जगन्मयी ॥ 3॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,3,16257,यदा नारायणो देवो विश्वं संहृत्य योगराट् । आस्तीर्य शेषं भगवान् समुद्रे निद्रितोऽभवत् ॥ 4॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,4,16258,तदा प्रस्वापवशगो देवदेवो जनार्दनः । तत्कर्णमलसञ्जातौ दानवौ मधुकैटभौ ॥ 5॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,5,16259,ब्रह्माणं हन्तुमुद्युक्तौ दानवौ घोररूपिणौ । तदा कमलजो देवो दृष्ट्वा तौ मधुकैटभौ ॥ 6॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,6,16260,निद्रितं देवदेवेशं चिन्तामाप दुरत्ययाम् । निद्रितो भगवानीशो दानवौ च दुरासदौ ॥ 7॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,7,16261,किं करोमि क्व गच्छामि कथं शर्म लभे ह्यहम् । एवं चिन्तयतस्तस्य पद्ययोनेर्महात्मनः ॥ 8॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,8,16262,बुद्धिः प्रादूरभूत्तात तदा कार्यप्रसाधिनी । यस्या वशं गतो देवो निद्रितो भगवान् हरिः ॥ 9॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,9,16263,तां देवीं शरणं यामि निद्रां सर्वप्रसूतिकाम् । ब्रह्मोवाच । देवि देवि जगद्धात्रि भक्ताभीष्टफलप्रदे ॥ 10॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,10,16264,जगन्माये महामाये समुद्रशयने शिवे । त्वदाज्ञावशगाः सर्वे स्वस्वकार्यविधायिनः ॥ 11॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,11,16265,कालरात्रिर्महारात्रिर्मोहरात्रिर्मदोत्कटा । व्यापिनी वशगा मान्या महानन्दैकशेवधिः ॥ 12॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,12,16266,महनीया महाराध्या माया मधुमती मही । परापराणां सर्वेषां परमा त्वं प्रकीर्तिता ॥ 13॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,13,16267,लज्जा पुष्टिः क्षमा कीर्तिः कान्तिः कारुण्यविग्रहा । कमनीया जगद्वन्द्या जाग्रदादिस्वरूपिणी ॥ 14॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,14,16268,परमा परमेशानी परानन्दपरायणा । एकाप्येकस्वरूपा च सद्वितीया द्वयात्मिका ॥ 15॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,15,16269,त्रयी त्रिवर्गनिलया तुर्या तुर्यपदात्मिका । पञ्चमी पञ्चभूतेशी षष्ठी षष्ठेश्वरीति च ॥ 16॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,16,16270,सप्तमी सप्तवारेशी सप्तसप्तवरप्रदा । अष्टमी वसुनाथा च नवग्रहमयीश्वरी ॥ 17॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,17,16271,नवरागकला रम्या नवसङ्ख्या नवेश्वरी । दशमी दशदिक्पूज्या दशाशाव्यापिनी रमा ॥ 18॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,18,16272,एकादशात्मिका चैकादशरुद्रनिषेविता । एकादशीतिथिप्रीता एकादशगणाधिपा ॥ 19॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,19,16273,द्वादशी द्वादशभुजा द्वादशादित्यजन्मभूः । त्रयोदशात्मिका देवी त्रयोदशगणप्रिया ॥ 20॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,20,16274,त्रयोदशाभिधा भिन्ना विश्वेदेवाधिदेवता । चतुर्दशेन्द्रवरदा चतुर्दशमनुप्रसूः ॥ 21॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,21,16275,पञ्चाधिकदशी वेद्या पञ्चाधिकदशी तिथिः । षोडशी षोडशभुजा षोडशेन्दुकलामयी ॥ 22॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,22,16276,षोडशात्मकचन्द्रांशुव्याप्तदिव्यकलेवरा । एवंरूपासि देवेशि निर्गुणे तामसोदये ॥ 23॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,23,16277,त्वया गृहीतो भगवान्देवदेवो रमापतिः । एतौ दुरासदौ दैत्यौ विक्रान्तौ मधुकैटभौ ॥ 24॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,24,16278,एतयोश्च वधार्थाय देवेशं प्रतिबोधय । मुनिरुवाच । एवं स्तुता भगवती तामसी भगवत्प्रिया ॥ 25॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,25,16279,देवदेवं तदा त्यक्त्वा मोहयामास दानवौ । तदैव भगवान्विष्णुः परमात्मा जगत्पतिः ॥ 26॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,26,16280,प्रबोधमाप देवेशो ददृशे दानवोत्तमौ । तदा तौ दानवौ घोरौ दृष्ट्वा तं मधुसूदनम् ॥ 27॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,27,16281,युद्धाय कृतसङ्कल्पौ जग्मतुः सन्निधिं हरेः । युयुधे च ततस्ताभ्यां भगवान्मधुसूदनः ॥ 28॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,28,16282,पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः । तौ तदातिबलोन्मत्तौ जगन्मायाविमोहितौ ॥ 29॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,29,16283,व्रियतां वर इत्येवमूचतुः परमेश्वरम् । एवं तयोर्वचः श्रुत्वा भगवानादिपूरुषः ॥ 30॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,30,16284,वव्रे वध्याबुभौ मेऽद्य भवेतामिति निश्चितम् । तौ तदातिबलौ देवं पुनरेवोचतुर्हरिम् ॥ 31॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,31,16285,आवां जहि न यत्रोर्वी पयसा च परिप्लुता । तथेत्युक्त्वा भगवता गदाशङ्खभृता नृप ॥ 32॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,32,16286,कृत्वा चक्रेण वै छिन्ने जघने शिरसी तयोः । एवं देवी समुत्पन्ना ब्रह्मणा संस्तुता नृप ॥ 33॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,33,16287,महाकाली महाराज सर्वयोगेश्वरेश्वरी । महालक्ष्म्यास्तथोत्पत्तिं निशामय महीपते ॥ 34॥ 10,१०.११,एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।,34,16288,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे देवीमाहात्म्ये मधुकैटभवधवर्णनं नाम एकादशोऽध्यायः ॥ १०.११॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,0,16289,मुनिरुवाच । महिषीगर्भसम्भूतो महाबलपराक्रमः । देवान्सर्वान्पराजित्य महिषोऽभूज्जगत्प्रभुः ॥ १ सर्वेषां लोकपालानामधिकारान्महासुरः । बलानिर्जित्य बुभुजे त्रैलोक्यैश्वर्यमद्भुतम् ॥ 2॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,1,16290,ततः पराजिताः सर्वे देवाः स्वर्गपरिच्युताः । ब्रह्माणं च पुरस्कृत्य ते जग्मुर्लोकमुत्तमम् ॥ 3॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,2,16291,यत्रोत्तमौ देवदेवौ संस्थितौ शङ्कराच्युतौ । वृत्तान्तं कथयामासुर्महिषस्य दुरात्मनः ॥ 4॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,3,16292,देवानां चैव सर्वेषां स्थानानि तरसासुरः । विनिर्जित्य स्वयं भुङ्क्ते बलवीर्यमदोद्धतः ॥ 5॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,4,16293,महिषासुरनामासौ दुष्टदैत्योऽमरेश्वरौ । वधोपायश्च तस्याशु चिन्त्यतामसुरार्दनौ ॥ 6॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,5,16294,एवं श्रुत्वा स भगवान्देवानामार्तियुग्वचः । चकार कोपं सुबहुं तथा शङ्करपद्मजौ ॥ 7॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,6,16295,एवं कोपयुतस्यास्य हरेरास्यान्महीपते । तेजः प्रादुरभूद्दिव्यं सहस्रार्कसमद्युति ॥ 8॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,7,16296,अथानुक्रमतस्तेजः सर्वेषां त्रिदिवौकसाम् । शरीरादुद्भवं प्राप हर्षयद्विबुधाधिपान् ॥ 9॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,8,16297,यदभूच्छम्भुजं तेजो मुखमस्योदपद्यत । केशा बभूवुर्याम्येन वैष्णवेन च बाहवः ॥ 10॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,9,16298,सौम्येन च स्तनौ जातौ माहेन्द्रेण च मध्यमः । वारुणेन ततो भूप जङ्घोरू सम्बभूवतुः ॥ 11॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,10,16299,नितम्बौ तेजसा भूमेः पादौ ब्राह्मेण तेजसा । पादाङ्गुल्यो भानवेन वासवेन कराङ्गुली ॥ 12॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,11,16300,कौबेरेण तथा नासा दन्ताः सञ्जज्ञिरे तदा । प्राजापत्येनोत्तमेन तेजसा वसुधाधिप ॥ 13॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,12,16301,पावकेन च सञ्जातं लोचनत्रितयं शुभम् । सान्ध्येन तेजसा जाते भृकुट्यौ तेजसां निधी ॥ 14॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,13,16302,कर्णौ वायव्यतो जातौ तेजसो मनुजाधिप । सर्वेषां तेजसा देवी जाता महिषमर्दिनी ॥ 15॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,14,16303,शूलं ददौ शिवो विष्णुश्चक्रं शङ्खं च पाशभृत् । हुताशनो ददौ शक्तिं मारुतश्चापसायकौ ॥ 16॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,15,16304,वज्रं महेन्द्रः प्रददौ घण्टां चैरावताद् गजात् । कालदण्डं यमो ब्रह्मा चाक्षमालाकमण्डलू ॥ 17॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,16,16305,दिवाकरो रश्मिमालां रोमकूपेषु सन्ददौ । कालः खड्गं तथा चर्म निर्मलं वसुधाधिप ॥ 18॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,17,16306,समुद्रो निर्मलं हारमजरे चाम्बरे नृप । चूडामणिं कुण्डले च कटकानि तथाङ्गदे ॥ 19॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,18,16307,अर्धचन्द्रं निर्मलं च नूपुराणि तथा ददौ । ग्रैवेयकं भूषणं च तस्यै देव्यै मुदान्वितः ॥ 20॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,19,16308,विश्वकर्मा चोर्मिकाश्च ददौ तस्यै धरापते । हिमवान्वाहनं सिंहं रत्नानि विविधानि च ॥ 21॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,20,16309,पानपात्रं सुरापूर्णं ददौ तस्यै धनाधिपः । शेषश्च भगवान्देवो नागहारं ददौ विभुः ॥ 22॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,21,16310,अन्यैरशेषविबुधैर्मानिता सा जगन्मयी । तां तुष्टुवुर्महादेवीं देवा महिषपीडिताः ॥ 23॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,22,16311,नानास्तोत्रैर्महेशानीं जगदुद्भवकारिणीम् । तेषां निशम्य देवेशी स्तोत्रं विबुधपूजिता ॥ 24॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,23,16312,महिषस्य वधार्थाय महानादं चकार ह । तेन नादेन महिषश्चकितोऽभूद्धरापते ॥ 25॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,24,16313,आससाद जगद्धात्रीं सर्वसैन्यसमावृतः । ततः स युयुधे देव्या महिषाख्यो महासुरः ॥ 26॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,25,16314,शस्त्रास्त्रैर्बहुधा क्षिप्तैः पूरयन्नम्बरान्तरम् । चिक्षुरो ग्रामणीः सेनापतिर्दुर्धरदुर्मुखौ ॥ 27॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,26,16315,बाष्कलस्ताम्रकश्चैव बिडालवदनोऽपरः । एतैश्चान्यैरसङ्ख्यातैः सङ्ग्रामान्तकसन्निभैः ॥ 28॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,27,16316,योधैः परिवृतो वीरो महिषो दानवोत्तमः । ततः सा कोपताम्राक्षी देवी लोकविमोहिनी ॥ 29॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,28,16317,जघान योधान्समरे देवी महिषमाश्रितान् । ततस्तेषु हतेष्वेव स दैत्यो रोषमूर्च्छितः ॥ 30॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,29,16318,आससाद तदा देवीं तूर्णं मायाविशारदः । रूपान्तराणि सम्भेजे मायया दानवेश्वरः ॥ 31॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,30,16319,तानि तान्यस्य रूपाणि नाशयामास सा तदा । ततोऽन्ते माहिषं रूपं बिभ्राणममरार्दनम् ॥ 32॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,31,16320,पाशेन बद्ध्वा सुदृढं छित्त्वा खड्गेन तच्छिरः । पातयामास महिषं देवी देवगणान्तकम् ॥ 33॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,32,16321,हाहाकृतं ततः शेषं सैन्यं भग्नं दिशो दश । तुष्टुवुर्देवदेवेशीं सर्वे देवाः प्रमोदिताः ॥ 34॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,33,16322,एवं लक्ष्मीः समुत्पन्ना महिषासुरमर्दिनी । राजञ्छृणु सरस्वत्याः प्रादुर्भावो यथाभवत् ॥ 35॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,34,16323,एकदा शुम्भनामासीद्दैत्यो मदबलोत्कटः । निशुम्भश्चापि तद्भ्राता महाबलपराक्रमः ॥ 36॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,35,16324,तेन सम्पीडिता देवाः सर्वे भ्रष्टश्रियो नृप । हिमवन्तमथासाद्य देवीं तुष्टुवुरादरात् ॥ 37॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,36,16325,देवा ऊचुः । जय देवेशि भक्तानामार्तिनाशनकोविदे । दानवान्तकरूपे त्वमजरामरणेऽनघे ॥ 38॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,37,16326,देवेशि भक्तिसुलभे महाबलपराक्रमे । विष्णुशङ्करब्रह्मादिस्वरूपेऽनन्तविक्रमे ॥ 39॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,38,16327,सृष्टिस्थितिकरे नाशकारिके कान्तिदायिनि । महाताण्डवसुप्रीते मोददायिनि माधवि ॥ 40॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,39,16328,प्रसीद देवदेवेशि प्रसीद करुणानिधे । निशुम्भशुम्भसम्भूतभयापाराम्बुवारिधे ॥ 41॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,40,16329,उद्धरास्मान् प्रपन्नार्तिनाशिके शरणागतान् । एवं संस्तुवतां तेषां त्रिदशानां धरापते ॥ 42॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,41,16330,प्रसन्ना गिरिजा प्राह ब्रूत स्तवनकारणम् । एतस्मिन्नन्तरे यस्याः कोशरूपात्समुत्थिता ॥ 43॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,42,16331,कौशिकी सा जगत्पूज्या देवान्प्रीत्येदमब्रवीत् । प्रसन्नाहं सुरश्रेष्ठाः स्तवेनोत्तमरूपिणी ॥ 44॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,43,16332,व्रियतां वर इत्युक्ते देवाः संवव्रिरे वरम् । शुम्भनामावरो भ्राता निशुम्भस्तस्य विश्रुतः ॥ 45॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,44,16333,त्रैलोक्यमोजसाक्रान्तं दैत्येन बलशालिना । तद्वधश्चिन्त्यतां देवि दुरात्मा दानवेश्वरः ॥ 46॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,45,16334,बाधते सततं देवि तिरस्कृत्य निजौजसा । देव्युवाच । देवशत्रुं पातयिष्ये निशुम्भं शुम्भमेव च ॥ 47॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,46,16335,स्वस्थास्तिष्ठत भद्रं वः कण्टकं नाशयामि वः । इत्युक्त्वा देवदेवेशी देवान्सेन्द्रान्दयामयी ॥ 48॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,47,16336,जगामादर्शनं सद्यो मिषतां त्रिदिवौकसाम् । देवाः समागता हृष्टाः सुवर्णाद्रिगुहां शुभाम् ॥ 49॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,48,16337,चण्डमुण्डौ पश्यतःस्म भृत्यौ शुम्भनिशुम्भयोः । दृष्ट्वा तां चारुसर्वाङ्गीं देवीं लोकविमोहिनीम् ॥ 50॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,49,16338,कथयामासतू राज्ञे भृत्यौ तौ चण्डमुण्डकौ । देव सर्वासुरश्रेष्ठ रत्नभोगार्ह मानद ॥ 51॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,50,16339,अपूर्वा कामिनी दृष्टा चावाभ्यां रिपुमर्दन । तस्याः सम्भोगयोग्यत्वमस्त्येव तव साम्प्रतम् ॥ 52॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,51,16340,तां समानय चार्वङ्गीं भुङ्क्ष्व सौख्यसमन्वितः । तादृशी नासुरी नारी न गन्धर्वी न दानवी ॥ 53॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,52,16341,न मानवी नापि देवी यादृशी सा मनोहरा । एवं भृत्यवचः श्रुत्वा शुम्भः परबलार्दनः ॥ 54॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,53,16342,दूतं सम्मेषयामास सुग्रीवं नाम दानवम् । स दूतस्त्वरितं गत्वा देव्याः सविधमादरात् ॥ 55॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,54,16343,वृत्तान्तं कथयामास देव्यै शुम्भस्य यद्वचः । देवि शुम्भासुरो नाम त्रैलोक्यविजयी प्रभुः ॥ 56॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,55,16344,सर्वेषां रत्नवस्तूनां भोक्ता मान्यो दिवौकसाम् । तदुक्तं श‍ृणु मे देवि रत्नभोक्ताहमव्ययः ॥ 57॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,56,16345,त्वं चापि रत्नभूतासि भज मां चारुलोचने । सर्वेषु यानि रत्नानि देवासुरनरेषु च ॥ 58॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,57,16346,तानि मय्येव सुभगे भज मां कामजै रसैः । देव्युवाच । सत्यं वदसि हे दूत दैत्यराजप्रियङ्करम् ॥ 59॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,58,16347,प्रतिज्ञा या मया पूर्वं कृता साप्यनृता कथम् । भवेत्तां श‍ृणु मे दूत या प्रतिज्ञा मया कृता ॥ 60॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,59,16348,यो मे दर्पं विधुनुते यो मे बलमपोहति । यो मे प्रतिबलो भूयात्स एव मम भोगभाक् ॥ 61॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,60,16349,तत एनां प्रतिज्ञां मे सत्यां कृत्वासुरेश्वरः । गृह्णातु पाणिं तरसा तस्याशक्यं किमत्र हि ॥ 62॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,61,16350,तस्माद् गच्छ महादूत स्वामिनं ब्रूहि चादृतः । प्रतिज्ञां चापि मे सत्यां विधास्यति बलाधिकः ॥ 63॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,62,16351,एवं वाक्यं महादेव्याः समाकर्ण्य स दानवः । कथयामास शुम्भाय देव्या वृत्तान्तमादितः ॥ 64॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,63,16352,तदाप्रियं दूतवाक्यं शुम्भः श्रुत्वा महाबलः । कोपमाहारयामास महान्तं दनुजाधिपः ॥ 65॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,64,16353,ततो धूम्राक्षनामानं दैत्यं दैत्यपतिः प्रभुः । आदिदेश श‍ृणु वचो धूम्राक्ष मम चादृतः ॥ 66॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,65,16354,तां दुष्टां केशपाशेषु हत्वाप्यानीयतां मम । समीपमविलम्बेन शीघ्रं गच्छस्व मे पुरः ॥ 67॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,66,16355,इत्यादेशं समासाद्य दैत्येशो धूम्रलोचनः । षष्ट्यासुराणां सहितः सहस्राणां महाबलः ॥ 68॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,67,16356,तुहिनाचलमासाद्य देव्याः सविधमेव सः । उच्चैर्देवीं जगादाशु भज दैत्यपतिं शुभे ॥ 69॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,68,16357,शुम्भं नाम महावीर्यं सर्वभोगानवाप्नुहि । नोचेत्केशान्गृहीत्वा त्वां नेष्ये दैत्यपतिं प्रति ॥ 70॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,69,16358,इत्युक्ता सा ततो देवी दैत्येन त्रिदशारिणा । उवाच दैत्य यद् ब्रूषे तत्सत्यं ते महाबल ॥ 71॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,70,16359,राजा शुम्भासुरस्त्वं च किं करिष्यसि तद्वद । इत्युक्तो दैत्यपोऽधावत्तूर्णं शस्त्रसमन्वितः ॥ 72॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,71,16360,भस्मसात्तं चकाराशु हुङ्कारेण महेश्वरी । ततः सैन्यं वाहनेन देव्या भग्नं महीपते ॥ 73॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,72,16361,दिशो दशाभजच्छीघ्रं हाहाभूतमचेतनम् । तद्वृत्तान्तं समाश्रुत्य स शुम्भो दैत्यराड् विभुः ॥ 74॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,73,16362,चुकोप च महाकोपाद् भ्रुकुटीकुटिलाननः । ततः कोपपरीतात्मा दैत्यराजः प्रतापवान् ॥ 75॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,74,16363,चण्डं मुण्डं रक्तबीजं क्रमतः प्रैषयद्विभुः । ते च गत्वा त्रयो दैत्या विक्रान्ता बहुविक्रमाः ॥ 76॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,75,16364,देवीं ग्रहीतुमारब्धयत्नास्ते ह्यभवन्बलात् । तानापतत एवासौ जगद्धात्री मदोत्कटा ॥ 77॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,76,16365,शूलं गहीत्वा वेगेन पातयामास भूतले । ससैन्यान्निहताञ्छ्रुत्वा दैत्यांस्त्रीन्दानवेश्वरौ ॥ 78॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,77,16366,शुम्भश्चैव निशुम्भश्च समाजग्मतुरोजसा । निशुम्भश्चैव शुम्भश्च कृत्वा युद्धं महोत्कटम् ॥ 79॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,78,16367,देव्याश्च वशगौ जातौ निहतौ च तयासुरौ । इति दैत्यवरं शुम्भं घातयित्वा जगन्मयी ॥ 80॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,79,16368,विबुधैः संस्तुता तद्वत्साक्षाद्वागीश्वरी परा । एवं ते वर्णितो राजन् प्रादुर्भावोऽतिरम्यकः ॥ 81॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,80,16369,काल्याश्चैव महालक्ष्याः सरस्वत्याः क्रमेण च । परा परेश्वरी देवी जगत्सर्गं करोति च ॥ 82॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,81,16370,पालनं चैव संहारं सैव देवी दधाति हि । तां समाश्रय देवेशीं जगन्मोहनिवारिणीम् ॥ 83॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,82,16371,महामायां पूज्यतमां सा कार्यं ते विधास्यति । श्रीनारायण उवाच । इति राजा वचः श्रुत्वा मुनेः परमशोभनम् ॥ 84॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,83,16372,देवीं जगाम शरणं सर्वकामफलप्रदाम् । निराहारो यतात्मा च तन्मनाश्च समाहितः ॥ 85॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,84,16373,देवीमूर्तिं मृण्मयीं च पूजयामास भक्तितः । पूजनान्ते बलिं तस्यै निजगात्रासृजं ददत् ॥ 86॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,85,16374,तदा प्रसन्ना देवेशी जगद्योनिः कृपावती । प्रादुर्बभूव पुरतो वरं ब्रूहीति भाषिणी ॥ 87॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,86,16375,स राजा निजमोहस्य नाशनं ज्ञानमुत्तमम् । राज्यं निष्कण्टकं चैव याचति स्म महेश्वरीम् ॥ 88॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,87,16376,देव्युवाच । राजन्निष्कण्टकं राज्यं ज्ञानं वै मोहनाशनम् । भविष्यति मया दत्तमस्मिन्नेव भवे तव ॥ 89॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,88,16377,अन्यच्च श‍ृणु भूपाल जन्मान्तरविचेष्टितम् । भानोर्जन्म समासाद्य सावर्णिर्भविता भवान् ॥ 90॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,89,16378,तत्र मन्वन्तरस्यापि पतित्वं बहुविक्रमम् । सन्ततिं बहुलां चापि प्राप्स्यते मद्वराद्भवान् ॥ 91॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,90,16379,एवं दत्त्वा वरं देवी जगामादर्शनं तदा । सोऽपि देव्याः प्रसादेन जातो मन्वन्तराधिपः ॥ 92॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,91,16380,एवं ते वर्णितं साधो सावर्णेर्जन्म कर्म च । एतत्पठंस्तथा श‍ृण्वन्देव्यनुग्रहमाप्नुयात् ॥ 93॥ 10,१०.१२,द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।,92,16381,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनं नाम द्वादशोऽध्यायः ॥ १०.१२॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,0,16382,श्रीनारायण उवाच । अथातः श्रूयतां शेषमनूनां चित्रमुद्भवम् । यस्य स्मरणमात्रेण देवीभक्तिः प्रजायते ॥ 1॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,1,16383,आसन्वैवस्वतमनोः पुत्राः षड् विमलोदयाः । करूषश्च पृषध्रश्च नाभागो दिष्ट एव च ॥ 2॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,2,16384,शर्यातिश्च त्रिशङ्कुश्च सर्व एव महाबलाः । ततः षडेव ते गत्वा कालिन्द्यास्तीरमुत्तमम् ॥ 3॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,3,16385,निराहारा जितश्वासाः पूजां चक्रुस्ततः स्थिताः । देव्या महीमयीं मूर्तिं विनिर्माय पृथक्पृथक् ॥ 4॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,4,16386,विविधैरुपचारैस्तां पूजयामासुरादृताः । ततश्च सर्व एवैते तपःसारा महाबलाः ॥ 5॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,5,16387,जीर्णपर्णाशना वायुभक्षणास्तोयजीवनाः । धूम्रपाना रश्मिपानाः क्रमशश्च बहुश्रमाः ॥ 6॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,6,16388,ततस्तेषामादरेणाराधनं कुर्वतां सदा । विमला मतिरुत्पन्ना सर्वमोहविनाशिनी ॥ 7॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,7,16389,बभूवुर्मनुपुत्रास्ते देवीपादैकचिन्तनाः । मत्या विमलया तेषामात्मन्येवाखिलं जगत् ॥ 8॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,8,16390,दर्शनं सञ्जगामाशु तदद्भुतमिवाभवत् । एवं द्वादशवर्षान्ते तपसा जगदीश्वरी ॥ 9॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,9,16391,प्रादुर्बभूव देवेशी सहस्रार्कसमद्युतिः । तां दृष्ट्वा विमलात्मानो राजपुत्राः षडेव ते ॥ 10॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,10,16392,तुष्टुवुर्भक्तिनम्रान्तःकरणा भावसंयुताः । राजपुत्रा ऊचुः । महेश्वरि जयेशानि परमे करुणालये ॥ 11॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,11,16393,वाग्भवाराधनप्रीते वाग्भवप्रतिपादिते । क्लीङ्कारविग्रहे देवि क्लीङ्कारप्रीतिदायिनि ॥ 12॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,12,16394,कामराजमनोमोददायिनीश्वरतोषिणि । महामाये मोदपरे महासाम्राज्यदायिनि ॥ 13॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,13,16395,विष्ण्वर्कहरशक्रादिस्वरूपे भोगवर्धिनि । एवं स्तुता भगवती राजपुत्रैर्महात्मभिः ॥ 14॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,14,16396,प्रसादसुमुखी देवी प्रोवाच वचनं शुभम् । देव्युवाच । राजपुत्रा महात्मानो भवन्तस्तपसा युताः ॥ 15॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,15,16397,निष्कल्मषाः शुद्धधियो जाता वै मदुपासनात् । वरं मनोगतं सर्वं याचध्वमविलम्बितम् ॥ 16॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,16,16398,प्रसन्नाहं प्रदास्यामि युष्माकं मनसि स्थितम् । राजपुत्रा ऊचुः । देवि निष्कण्टकं राज्यं सन्ततिश्चिरजीविनी ॥ 17॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,17,16399,भोगा अव्याहता कामं यशस्तेजो मतिश्च ह । अकुण्ठितत्वं सर्वेषामेष एव वरो हितः ॥ 18॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,18,16400,देव्युवाच । एवमस्तु च सर्वेषां भवतां यन्मनोगतम् । अथान्यदपि मे वाक्यं भूयतामादरादिदम् ॥ 19॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,19,16401,भवन्तः सर्व एवैते मन्वन्तरपतीश्वराः । सन्तत्या दीर्घया भोगैरनेकैरपि सङ्गमः ॥ 20॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,20,16402,अखण्डितबलैश्वर्यं यशस्तेजोविभूतयः । भवितारो मत्प्रसादाद्राजपुत्राः क्रमेण तु ॥ 21॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,21,16403,श्रीनारायण उवाच । एवं तेभ्यो वरान्दत्त्वा भ्रामरी जगदम्बिका । अन्तर्धानं जगामाशु भक्त्या तैः संस्तुता सती ॥ 22॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,22,16404,ते राजपुत्राः सर्वेऽपि तस्मिञ्जन्मन्यनुत्तमम् । राज्यं महीगतान्भोगान्बुभुजुश्च महौजसः ॥ 23॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,23,16405,सन्ततिं चाखण्डितां ते समुत्पाद्य महीतले । वंशं संस्थाप्य सर्वेऽपि मनूनां पतयोऽभवन् ॥ 24॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,24,16406,भवान्तरे क्रमेणैव सावर्णिपदभागिनः । प्रथमो दक्षसावर्णिर्नवमो मनुरीरितः ॥ 25॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,25,16407,अव्याहतबलो देव्याः प्रसादादभवद्विभुः । द्वितीयो मेरुसावर्णिर्दशमो मनुरेव च ॥ 26॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,26,16408,बभूव मन्वन्तरपो महादेवीप्रसादतः । तृतीयो मनुराख्यातः सूर्यसावर्णिनामकः ॥ 27॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,27,16409,एकादशो महोत्साहस्तपसा स्वेन भावितः । चतुर्थश्चन्द्रसावर्णिर्द्वादशो मनुराड् विभुः ॥ 28॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,28,16410,देवीसमाराधनेन जातो मन्वन्तरेश्वरः । पञ्चमो रुद्रसावर्णिस्त्रयोदशमनुः स्मृतः ॥ 29॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,29,16411,महाबलो महासत्त्वो बभूव जगदीश्वरः । षष्ठश्च विष्णुसावर्णिश्चतुर्दशमनुः कृती ॥ 30॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,30,16412,बभूव देवीवरतो जगतां प्रथितः प्रभुः । चतुर्दशैते मनवो महातेजोबलैर्युताः ॥ 31॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,31,16413,देव्याराधनतः पूज्या वन्द्या लोकेषु नित्यशः । महाप्रतापिनः सर्वे भ्रामर्यास्तु प्रसादतः ॥ 32॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,32,16414,नारद उवाच । केयं सा भ्रामरी देवी कथं जाता किमात्मिका । तदाख्यानं वद प्राज्ञ विचित्रं शोकनाशकम् ॥ 33॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,33,16415,न तृप्तिमधिगच्छामि पिबन्देवीकथामृतम् । अमृतं पिबतां मृत्युर्नास्य श्रवणतो यतः ॥ 34॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,34,16416,श्रीनारायण उवाच । श‍ृणु नारद वक्ष्यामि जगन्मातुर्विचेष्टितम् । अचिन्त्याव्यक्तरूपाया विचित्रं मोक्षदायकम् ॥ 35॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,35,16417,यद्यच्चरित्रं श्रीदेव्यास्तत्सर्वं लोकहेतवे । निर्व्याजया करुणया पुत्रे मातुर्यथा तथा ॥ 36॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,36,16418,पूर्वं दैत्यो महानासीदरुणाख्यो महाबलः । पाताले दैत्यसंस्थाने देवद्वेषी महाखलः ॥ 37॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,37,16419,स देवाञ्जेतुकामश्च चकार परमं तपः । पद्मसम्भवमुद्दिश्य स नस्त्राता भविष्यति ॥ 38॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,38,16420,गत्वा हिमवतः पार्श्वे गङ्गाजलसुशीतले । पक्वपर्णाशनो योगी सन्निरुध्य मरुद्गणम् ॥ 39॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,39,16421,गायत्रीजपसंसक्तः सकामस्तमसा युतः । दशवर्षसहस्राणि ततो वारिकणाशनः ॥ 40॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,40,16422,दशवर्षसहस्राणि ततः पवनभोजनः । दशवर्षसहस्राणि निराहारोऽभवत्ततः ॥ 41॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,41,16423,एवं तपस्यतस्तस्य शरीरादुत्थितोऽनलः । ददाह जगतीं सर्वां तदद्भुतमिवाभवत् ॥ 42॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,42,16424,किमिदं किमिदं चेति देवाः सर्वे चकम्पिरे । सन्त्रस्ताः सकला लोका ब्रह्माणं शरणं ययुः ॥ 43॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,43,16425,विज्ञापितं देववरैः श्रुत्वा तत्र चतुर्मुखः । गायत्रीसहितो हंससमारूढो ययौ मुदा ॥ 44॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,44,16426,प्राणमात्रावशिष्टं तं धमनीशतसङ्कुलम् । शुष्कोदरं क्षामगात्रं ध्यानमीलितलोचनम् ॥ 45॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,45,16427,ददर्श तेजसा दीप्तं द्वितीयमिव पावकम् । वरं वरय भद्रं ते वत्स यन्मनसि स्थितम् ॥ 46॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,46,16428,श्रुतिमात्रेण सन्तोषकारकं वाक्यमूचिवान् । श्रुत्वा ब्रह्ममुखाद्वाणीं सुधाधारामिवारुणः ॥ 47॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,47,16429,उन्मीलिताक्षः पुरतो ददर्श जलजोद्भवम् । गायत्रीसहितं देवं चतुर्वेदसमन्वितम् ॥ 48॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,48,16430,अक्षस्रक्कुण्डिकाहस्तं जपन्तं ब्रह्म शाश्वतम् । दृष्ट्वोत्थाय ननामाथ स्तुत्वा च विविधैः स्तवैः ॥ 49॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,49,16431,वरं वव्रे स्वबुद्धिस्थं मा भवेन्मृत्युरित्यपि । श्रुत्वारुणवचो ब्रह्मा बोधयामास सादरम् ॥ 50॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,50,16432,ब्रह्मविष्णुमहेशाद्या मृत्युना कवलीकृताः । तदान्येषां तु का वार्ता मरणे दानवोत्तम ॥ 51॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,51,16433,वरं योग्यं ततो ब्रूहि दातुं यः शक्यते मया । नात्राग्रहं प्रकुर्वन्ति बुद्धिमन्तो जनाः क्वचित् ॥ 52॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,52,16434,इति ब्रह्मवचः श्रुत्वा पुनः प्रोवाच सादरम् । न युद्धे न च शस्त्रास्त्रान्न पुम्भ्यो नापि योषितः ॥ 53॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,53,16435,द्विपाद्भ्यो वा चतुष्पाद्भ्यो नोभयाकारतस्तथा । भवेन्मे मृत्युरित्येवं देव देहि वरं प्रभो ॥ 54॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,54,16436,बलं च विपुलं देहि येन देवजयो भवेत् । इति तस्य वचः श्रुत्वा तथास्त्विति वचोऽब्रवीत् ॥ 55॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,55,16437,दत्त्वा वरं जगामाशु पद्मजः स्वं निकेतनम् । ततोऽरुणाख्यो दैत्यस्तु पातालात्स्वाश्रयस्थितान् ॥ 56॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,56,16438,दैत्यानाकारयामास ब्रह्मणो वरदर्पितः । आगत्य तेऽसुराः सर्वे दैत्येशं तं प्रचक्रिरे ॥ 57॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,57,16439,दूतं च प्रेषयामासुर्युद्धार्थममरावतीम् । दूतवाक्यं तदा श्रुत्वा देवराड् भयकम्पितः ॥ 58॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,58,16440,देवैः सार्धं जगामाशु ब्रह्मणः सदनं प्रति । ब्रह्मविष्णू पुरस्कृत्य जग्मुस्ते शङ्करालयम् ॥ 59॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,59,16441,विचारं चक्रिरे तत्र वधार्थं ते सुरद्रुहाम् । एतस्मिन्समये तत्र दैत्यसेनासमावृतः ॥ 60॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,60,16442,अरुणाख्यो दैत्यराजो जगामाशु त्रिविष्टपम् । सूर्येन्दुयमवह्नीनामधिकारान्पृथक्पृथक् ॥ 61॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,61,16443,स्वयं चकार तपसा नानारूपधरो मुने । स्वस्वस्थानच्युताः सर्वे जग्मुः कैलासमण्डलम् ॥ 62॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,62,16444,शशंसुः शङ्करं देवाः स्वस्वदुःखं पृथक्पृथक् । महान् विचारस्तत्रासीत्किं कर्तव्यमतः परम् ॥ 63॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,63,16445,न युद्धेन च शस्त्रास्त्रैर्न पुम्भ्यो नापि योषितः । द्विपाद्भ्यो वा चतुष्पाद्भ्यो नोभयाकारतोऽपि वा ॥ 64॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,64,16446,मृत्युर्भवेदिति ब्रह्मा प्रोवाच वचनं यतः । इति चिन्तातुराः सर्वे कर्तुं किञ्चिन्न च क्षमाः ॥ 65॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,65,16447,एतस्मिन्समये तत्र वागभूदशरीरिणी । भजध्वं भुवनेशानीं सा वः कार्यं विधास्यति ॥ 66॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,66,16448,गायत्रीजपसंसक्तो दैत्यराड् यदि तां त्यजेत् । मृत्युयोग्यस्तदा भूयादित्युच्चैस्तोषकारिणी ॥ 67॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,67,16449,श्रुत्वा दैवीं तथा वाणीं मन्त्रयामासुरादृताः । बृहस्पतिं समाहूय वचनं प्राह देवराट् ॥ 68॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,68,16450,गुरो गच्छ सुराणां तु कार्यार्थमसुरं प्रति । यथा भवेच्च गायत्रीत्यागस्तस्य तथा कुरु ॥ 69॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,69,16451,अस्माभिः परमेशानी सेव्यते ध्यानयोगतः । प्रसन्ना सा भगवती साहाय्यं ते करिष्यति ॥ 70॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,70,16452,इत्यादिश्य गुरुं सर्वे जग्मुर्जाम्बूनदेश्वरीम् । सास्मान्दैत्यभयत्रस्तान् पालयिष्यति शोभना ॥ 71॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,71,16453,तत्र गत्वा तपश्चर्यां चक्रुः सर्वे सुनिष्ठिताः । मायाबीजजपासक्ता देवीमखपरायणाः ॥ 72॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,72,16454,बृहस्पतिस्तदा शीघ्रं जगामासुरसन्निधौ । आगतं मुनिवर्यं तं पप्रच्छाथ स दैत्यराट् ॥ 73॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,73,16455,मुने कुत्रागमः कस्मात्किमर्थमिति मे वद । नाहं युष्मत्पक्षपाती प्रत्युतारातिरेव च ॥ 74॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,74,16456,इति तस्य वचः श्रुत्वा प्रोवाच मुनिनायकः । अस्मत्सेव्या च या देवी सा त्वया पूज्यतेऽनिशम् ॥ 75॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,75,16457,तस्मादस्मत्पक्षपाती न भवेस्त्वं कथं वद । इति तस्य वचः श्रुत्वा मोहितो देवमायया ॥ 76॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,76,16458,तत्याज परमं मन्त्रमभिमानेन सत्तम । गायत्रीत्यागतो दैत्यो निस्तेजस्को बभूव ह ॥ 77॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,77,16459,कृतकार्यो गुरुस्तस्मात्स्थानान्निर्गतवान्पुनः । ततो वृत्तान्तमखिलं कथयामास वज्रिणे ॥ 78॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,78,16460,सन्तुष्टास्ते सुराः सर्वे भेजिरे परमेश्वरीम् । एवं बहुगते काले कस्मिंश्चित्समये मुने ॥ 79॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,79,16461,प्रादुरासीज्जगन्माता जगन्मङ्गलकारिणी । कोटिसूर्यप्रतीकाशा कोटिकन्दर्पसुन्दरी ॥ 80॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,80,16462,चित्रानुलेपना देवी चित्रवासोयुगान्विता । विचित्रमाल्याभरणा चित्रभ्रमरमुष्टिका ॥ 81॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,81,16463,वराभयकरा शान्ता करुणामृतसागरा । नानाभ्रमरसंयुक्तपुष्पमालाविराजिता ॥ 82॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,82,16464,भ्रामरीभिर्विचित्राभिरसङ्ख्याभिः समावृता । भ्रमरैर्गायमानैश्च ह्रीङ्कारमनुमन्वहम् ॥ 83॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,83,16465,समन्ततः परिवृता कोटिकोटिभिरम्बिका । सर्वश‍ृङ्गारवेषाढ्या सर्ववेदप्रशंसिता ॥ 84॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,84,16466,सर्वात्मिका सर्वमयी सर्वमङ्गलरूपिणी । सर्वज्ञा सर्वजननी सर्वा सर्वेश्वरी शिवा ॥ 85॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,85,16467,दृष्ट्वा तां तरलात्मानो देवा ब्रह्मपुरोगमाः । तुष्टुवुर्हृष्टमनसो विष्टरश्रवसां शिवाम् ॥ 86॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,86,16468,देवा ऊचुः । नमो देवि महाविद्ये सृष्टिस्थित्यन्तकारिणि । नमः कमलपत्राक्षि सर्वाधारे नमोऽस्तु ते ॥ 87॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,87,16469,सविश्वतैजसप्राज्ञविराट्सूत्रात्मिके नमः । नमो व्याकृतरूपायै कूटस्थायै नमो नमः ॥ 88॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,88,16470,दुर्गे सर्गादिरहिते दुष्टसंरोधनार्गले । निरर्गलप्रेमगम्ये भर्गे देवि नमोऽस्तु ते ॥ 89॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,89,16471,नमः श्रीकालिके मातर्नमो नीलसरस्वति । उग्रतारे महोग्रे ते नित्यमेव नमो नमः ॥ 90॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,90,16472,नमः पीताम्बरे देवि नमस्त्रिपुरसुन्दरि । नमो भैरवि मातङ्गि धूमावति नमो नमः ॥ 91॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,91,16473,छिन्नमस्ते नमस्तेऽस्तु क्षीरसागरकन्यके । नमः शाकम्भरि शिवे नमस्ते रक्तदन्तिके ॥ 92॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,92,16474,निशुम्भशुम्भदलनि रक्तबीजविनाशिनि । धूम्रलोचननिर्णाशे वृत्रासुरनिबर्हिणि ॥ 93॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,93,16475,चण्डमुण्डप्रमथिनि दानवान्तकरे शिवे । नमस्ते विजये गङ्गे शारदे विकचानने ॥ 94॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,94,16476,पृथ्वीरूपे दयारूपे तेजोरूपे नमो नमः । प्राणरूपे महारूपे भूतरूपे नमोऽस्तु ते ॥ 95॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,95,16477,विश्वमूर्ते दयामूर्ते धर्ममूर्ते नमो नमः । देवमूर्ते ज्योतिमूर्ते ज्ञानमूर्ते नमोऽस्तु ते ॥ 96॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,96,16478,गायत्रि वरदे देवि सावित्रि च सरस्वति । नमः स्वाहे स्वधे मातर्दक्षिणे ते नमो नमः ॥ 97॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,97,16479,नेति नेतीति वाक्यैर्या बोध्यते सकलागमैः । सर्वप्रत्यक्स्वरूपां तां भजामः परदेवताम् ॥ 98॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,98,16480,भ्रमरैर्वेष्टिता यस्माद् भ्रामरी या ततः स्मृता । तस्यै देव्यै नमो नित्यं नित्यमेव नमो नमः ॥ 99॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,99,16481,नमस्ते पार्श्वयोः पृष्ठे नमस्ते पुरतोऽम्बिके । नम ऊर्ध्वं नमश्चाधः सर्वत्रैव नमो नमः ॥ 100॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,100,16482,कृपां कुरु महादेवि मणिद्वीपाधिवासिनि । अनन्तकोटिब्रह्माण्डनायिके जगदम्बिके ॥ 101॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,101,16483,जय देवि जगन्मातर्जय देवि परात्परे । जय श्रीभुवनेशानि जय सर्वोत्तमोत्तमे ॥ 102॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,102,16484,कल्याणगुणरत्नानामाकरे भुवनेश्वरि । प्रसीद परमेशानि प्रसीद जगतोरणे ॥ 103॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,103,16485,श्रीनारायण उवाच । इति देववचः श्रुत्वा प्रगल्भं मधुरं वचः । उवाच जगदम्बा सा मत्तकोकिलभाषिणी ॥ 104॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,104,16486,देव्युवाच । प्रसन्नाहं सदा देवा वरदेशशिखामणिः । ब्रुवन्तु विबुधाः सर्वे यदेव स्याच्चिकीर्षितम् ॥ 105॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,105,16487,देवीवाक्यं सुराः श्रुत्वा प्रोचुर्दुःखस्य कारणम् । दुष्टदैत्यस्य चरितं जगद्बाधाकरं परम् ॥ 106॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,106,16488,देवब्राह्मणवेदानां हेलनं नाशनं तथा । स्थानभ्रंशं सुराणां च कथयामासुरादृताः ॥ 107॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,107,16489,ब्रह्मणो वरदानं च यथावत्ते समूचिरे । श्रुत्वा देवमुखाद्वाणीं महाभगवती तदा ॥ 108॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,108,16490,प्रेरयामास हस्तस्थान्भ्रमरान्भ्रामरी तदा । पार्श्वस्थानग्नभागस्थान्नानारूपधरांस्तथा ॥ 110॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,109,16491,जनयामास बहुशो यैर्व्याप्तं भुवनत्रयम् । मटचीयूथवत्तेषां समुदायस्तु निर्गतः ॥ 110॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,110,16492,तदान्तरिक्षं तैर्व्याप्तमन्धकारः क्षितावभूत् । दिवि पर्वतश‍ृङ्गेषु द्रुमेषु विपिनेष्वपि ॥ 111॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,111,16493,भ्रमरा एव सञ्जातास्तदद्भुतमिवाभवत् । ते सर्वे दैत्यवक्षांसि दारयामासुरुद्गताः ॥ 112॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,112,16494,नरं मधुहरं यद्वन्मक्षिकाः कोपसंयुताः । उपायो न च शस्त्राणां तथास्त्राणां तदाभवत् ॥ 113॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,113,16495,न युद्धं न च सम्भाषा केवलं मरणं खलु । यस्मिन्यस्मिन्स्थले ये ये स्थिता दैत्या यथा यथा ॥ 114॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,114,16496,तत्रैव च तथा सर्वे मरणं प्रापुरुत्स्मयाः । परस्परं समाचारो न कस्याप्यभवत्तदा ॥ 115॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,115,16497,क्षणमात्रेण ते सर्वे विनष्टा दैत्यपुङ्गवाः । कृत्वेत्थं भ्रमराः कार्यं देवीनिकटमाययुः ॥ 116॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,116,16498,आश्चर्यमेतदाश्चर्यमिति लोकाः समूचिरे । किं चित्रं जगदम्बाया यस्या मायेयमीदृशी ॥ 117॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,117,16499,ततो देवगणाः सर्वे ब्रह्मविष्णुपुरोगमाः । निमग्ना हर्षजलधौ पूजयामासुरम्बिकाम् ॥ 118॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,118,16500,नानोपचारैर्विविधैर्नानोपायनपाणयः । जयशब्दं प्रकुर्वाणा मुमुचुः सुमनांसि च ॥ 119॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,119,16501,दिवि दुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः । पेठुर्वेदान्मुनिश्रेष्ठा गन्धर्वाद्या जगुस्तथा ॥ 120॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,120,16502,मृदङ्गमुरजावीणाढक्काडमरुनिःस्वनैः । घण्टाशङ्खनिनादैश्च व्याप्तमासीज्जगत्त्रयम् ॥ 121॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,121,16503,नानास्तोत्रैस्तदा स्तुत्वा मूर्ध्न्याधायाज्जलींस्तथा । जय मातर्जयेशानीत्येवं सर्वे समूचिरे ॥ 122॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,122,16504,ततस्तुष्टा महादेवी वरान्दत्त्वा पृथक्पृथक् । स्वस्मिंश्च विपुलां भक्तिं प्रार्थिता तैर्ददौ च ताम् ॥ 123॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,123,16505,पश्यतामेव देवानामन्तर्धानं गता ततः । इति ते सर्वमाख्यातं भ्रामर्याश्चरितं महत् ॥ 124॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,124,16506,पठतां श‍ृण्वतां चैव सर्वपापप्रणाशनम् । श्रुतमाश्चर्यजनकं संसारार्णवतारकम् ॥ 125॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,125,16507,एवं मनूनां सर्वेषां चरितं पापनाशनम् । देवीमाहात्म्यसंयुक्तं पठञ्श‍ृण्वञ्शुभप्रदम् ॥ 126॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,126,16508,यश्चैतत्पठते नित्यं श‍ृणुयाद्योऽनिशं नरः । सर्वपापविनिर्मुक्तो देवीसायुज्यमाप्नुयात् ॥ 127॥ 10,१०.१३,त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।,127,16509,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे भ्रामरीचरित्रवर्णनं नाम त्रयोदशोऽध्यायः ॥ १०.१३॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,0,16510,नारद उवाच । भगवन् भूतभव्येश नारायण सनातन । आख्यातं परमाश्चर्यं देवीचारित्रमुत्तमम् ॥ 1॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,1,16511,प्रादुर्भावः परो मातुः कार्यार्थमसुरद्रुहाम् । अधिकाराप्तिरुक्तात्र देवीपूर्णकृपावशात् ॥ 2॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,2,16512,अधुना श्रोतुमिच्छामि येन प्रीणाति सर्वदा । स्वभक्तान्परिपुष्णाति तमाचारं वद प्रभो ॥ 3॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,3,16513,श्रीनारायण उवाच । श‍ृणु नारद तत्त्वज्ञ सदाचारविधिक्रमम् । यदनुष्ठानमात्रेण देवी प्रीणाति सर्वदा ॥ 4॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,4,16514,प्रातरुत्थाय कर्तव्यं यद् द्विजेन दिने दिने । तदहं सम्प्रवक्ष्यामि द्विजानामुपकारकम् ॥ 5॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,5,16515,उदयास्तमयं यावद् द्विजः सत्कर्मकृद्भवेत् । नित्यनैमित्तिकैर्युक्तः काम्यैश्चान्यैरगर्हितैः ॥ 6॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,6,16516,आत्मनश्च सहायार्थं पिता माता न तिष्ठति । न पुत्रदारा न ज्ञातिर्धर्मस्तिष्ठति केवलम् ॥ 7॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,7,16517,तस्माद्धर्मं सहायार्थं नित्यं सञ्चिनु साधनैः । धर्मेणैव सहायात्तु तमस्तरति दुस्तरम् ॥ 8॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,8,16518,आचारः प्रथमो धर्मः श्रुत्युक्तः स्मार्त एव च । तस्मादस्मिन्समायुक्तो नित्यं स्यादात्मनो द्विजः ॥ 9॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,9,16519,आचाराल्लभते चायुराचाराल्लभते प्रजाः । आचारादन्नमक्षय्यमाचारो हन्ति पातकम् ॥ 10॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,10,16520,आचारः परमो धर्मो नृणां कल्याणकारकः । इह लोके सुखी भूत्वा परत्र लभते सुखम् ॥ 11॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,11,16521,अज्ञानान्धजनानां तु मोहितैर्भ्रामितात्मनाम् । धर्मरूपो महादीपो मुक्तिमार्गप्रदर्शकः ॥ 12॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,12,16522,आचारात्प्राप्यते श्रैष्ठ्यमाचारात्कर्म लभ्यते । कर्मणो जायते ज्ञानमिति वाक्यं मनोः स्मृतम् ॥ 13॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,13,16523,सर्वधर्मवरिष्ठोऽयमाचारः परमं तपः । तदेव ज्ञानमुद्दिष्टं तेन सर्वं प्रसाध्यते ॥ 14॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,14,16524,यस्त्वाचारविहीनोऽत्र वर्तते द्विजसत्तमः । स शूद्रवद् बहिष्कार्यो यथा शूद्रस्तथैव सः ॥ 15॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,15,16525,आचारो द्विविधः प्रोक्तः शास्त्रीयो लौकिकस्तथा । उभावपि प्रकर्तव्यौ न त्याज्यौ शुभमिच्छता ॥ 16॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,16,16526,ग्रामधर्मा जातिधर्मा देशधर्माः कुलोद्भवाः । परिग्राह्या नृभिः सर्वैर्नैव ताँल्लङ्घयेन्मुने ॥ 17॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,17,16527,दुराचारो हि पुरुषो लोके भवति निन्दितः । दुःखभागी च सततं व्याधिना व्याप्त एव च ॥ 18॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,18,16528,परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ । धर्ममप्यसुखोदर्कं लोकविद्विष्टमेव च ॥ 19॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,19,16529,नारद उवाच । बहुत्वादिह शास्त्राणां निश्चयः स्यात्कथं मुने । कियत्प्रमाणं तद् ब्रूहि धर्ममार्गविनिर्णये ॥ 20॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,20,16530,श्रीनारायण उवाच । श्रुतिस्मृती उभे नेत्रे पुराणं हृदयं स्मृतम् । एतत्त्रयोक्त एव स्याद्धर्मो नान्यत्र कुत्रचित् ॥ 21॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,21,16531,विरोधो यत्र तु भवेत्त्रयाणां च परस्परम् । श्रुतिस्तत्र प्रमाणं स्याद् द्वयोर्द्वैधे स्मृतिर्वरा ॥ 22॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,22,16532,श्रुतिद्वैधं भवेद्यत्र तत्र धर्मावुभौ स्मृतौ । स्मृतिद्वैधं तु यत्र स्याद्विषयः कल्प्यतां पृथक् ॥ 23॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,23,16533,पुराणेषु क्वचिच्चैव तन्त्रदृष्टं यथातथम् । धर्मं वदन्ति तं धर्मं गृह्णीयान्न कथञ्चन ॥ 24॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,24,16534,वेदाविरोधि चेत्तन्त्रं तत्प्रमाणं न संशयः । प्रत्यक्षश्रुतिरुद्धं यत्तत्प्रमाणं भवेन्न च ॥ 25॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,25,16535,सर्वथा वेद एवासौ धर्ममार्गप्रमाणकः । तेनाविरुद्धं यत्किञ्चित्तत्प्रमाणं न चान्यथा ॥ 26॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,26,16536,यो वेदधर्ममुज्झित्य वर्ततेऽन्यप्रमाणतः । कुण्डानि तस्य शिक्षार्थं यमलोके वसन्ति हि ॥ 27॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,27,16537,तस्मात्सर्वप्रयत्नेन वेदोक्तं धर्ममाश्रयेत् । स्मृतिः पुराणमन्यद्वा तन्त्रं वा शास्त्रमेव च ॥ 28॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,28,16538,तन्मूलत्वे प्रमाणं स्यान्नान्यथा तु कदाचन । ये कुशास्त्राभियोगेन वर्तयन्तीह मानवान् ॥ 29॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,29,16539,अधोमुखोर्ध्वपादास्ते यास्यन्ति नरकार्णवम् । कामाचाराः पाशुपतास्तथा वै लिङ्गधारिणः ॥ 30॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,30,16540,तप्तमुद्राङ्किता ये च वैखानसमतानुगाः । ते सर्वे निरयं यान्ति वेदमार्गबहिष्कृताः ॥ 31॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,31,16541,वेदोक्तमेव सद्धर्मं तस्मात्कुर्यान्नरः सदा । उत्थायोत्थाय बोद्धव्यं किं मयाद्य कृतं कृतम् ॥ 32॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,32,16542,दत्तं वा दापितं वापि वाक्येनापि च भाषितम् । उपपापेषु सर्वेषु पातकेषु महत्स्वपि ॥ 33॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,33,16543,अवाप्य रजनीयामं ब्रह्मध्यानं समाचरेत् । ऊरुस्थोत्तानचरणः सव्ये चोरौ तथोत्तरम् ॥ 34॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,34,16544,उत्तानं किञ्चिदुत्तानं मुखमवष्टभ्य चोरसा । निमीलिताक्षः सत्त्वस्थो दन्तैर्दन्तान्न संस्पृशेत् ॥ 35॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,35,16545,तालुस्थाचलजिह्वश्च संवृतास्यः सुनिश्चलः । सन्निरुद्धेन्द्रियग्रामो नातिनिम्नस्थितासनः ॥ 36॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,36,16546,द्विगुणं त्रिगुणं वापि प्राणायाममुपक्रमेत् । ततो ध्येयः स्थितो योऽसौ हृदये दीपवत्प्रभुः ॥ 37॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,37,16547,धारयेत्तत्र चात्मानं धारणां धारयेद्बुधः । सधूमश्च विधूमश्च सगर्भश्चाप्यगर्भकः ॥ 38॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,38,16548,सलक्ष्यश्चाप्यलक्ष्यश्च प्राणायामस्तु षड्विधः । प्राणायामसमो योगः प्राणायाम इतीरितः ॥ 39॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,39,16549,प्राणायाम इति प्रोक्तो रेचपूरककुम्भकैः । वर्णत्रयात्मका ह्येते रेचपूरककुम्भकाः ॥ 40॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,40,16550,स एव प्रणवः प्रोक्तः प्राणायामश्च तन्मयः । इडया वायुमारोप्य पूरयित्वोदरे स्थितम् ॥ 41॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,41,16551,शनैः षोडशमात्राभिरन्यया तं विरेचयेत् । एवं सधूमः प्राणानामायामः कथितो मुने ॥ 42॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,42,16552,आधारेलिङ्गनाभिप्रकटितहृदये तालुमूले ललाटे द्वे पत्रे षोडशारे द्विदशदशदलद्वादशार्धे चतुष्के । वासान्ते बालमध्ये डफकतसहिते कण्ठदेशे स्वराणां हङ्क्षन्तत्त्वार्थयुक्तं सकलदलगतं वर्णरूपं नमामि ॥ 43॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,43,16553,अरुणकमलसंस्था तद्रजःपुञ्जवर्णा हरनियमितचिह्ना पद्मतन्तुस्वरूपा । रविहुतवहराकानायकास्यस्तनाढ्या सकृदपि यदि चित्ते संवसेत्स्यात्स भुक्तः ॥ 44॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,44,16554,स्थितिः सैव गतिर्यात्रा मतिश्चिन्ता स्तुतिर्वचः । अहं सर्वात्मको देवः स्तुतिः सर्वं त्वदर्चनम् ॥ 45॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,45,16555,अहं देवी न चान्योऽस्मि ब्रह्मैवाहं न शोकभाक् । सच्चिदानन्दरूपोऽहं स्वात्मानमिति चिन्तयेत् ॥ 46॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,46,16556,प्रकाशमानां प्रथमे प्रयाणे प्रतिप्रयाणेऽप्यमृतायमानाम् । अन्तःपदव्यामनुसञ्चरन्ती- मानन्दरूपामबलां प्रपद्ये ॥ 47॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,47,16557,ततो निजब्रह्मरन्ध्रे ध्यायेत्तं गुरुमीश्वरम् । उपचारैर्मानसैश्च पूजयेत्तु यथाविधि ॥ 48॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,48,16558,स्तुवीतानेन मन्त्रेण साधको नियतात्मवान् । गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ 49॥ 11,११.१,प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।,49,16559,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे मनुकृतंदेवीस्तवनं नाम प्रथमोऽध्यायः ॥ ११.१॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,0,16560,श्रीनारायण उवाच । आचारहीनं न पुनन्ति वेदा यदप्यधीताः सह षड्भिरङ्गैः । छन्दांस्येनं मृत्युकाले त्यजन्ति नीडं शकुन्ता इव जातपक्षाः ॥ 1॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,1,16561,ब्राह्मे मुहूर्त्ते चोत्थाय तत्सर्वं सम्यगाचरेत् । रात्रेरन्तिमयामे तु वेदाभ्यासं चरेद् बुधः ॥ 2॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,2,16562,किञ्चित्कालं ततः कुर्यादिष्टदेवानुचिन्तनम् । योगी तु पूर्वमार्गेण ब्रह्मध्यानं समाचरेत् ॥ 3॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,3,16563,जीवब्रह्मैक्यता येन जायते तु निरन्तरम् । जीवन्मुक्तश्च भवति तत्क्षणादेव नारद ॥ 4॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,4,16564,पञ्चपञ्च उषःकालः सप्तपञ्चारुणोदयः । अष्टपञ्चभवेत्प्रातः शेषः सूर्योदयः स्मृतः ॥ 5॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,5,16565,प्रातरुत्थाय यः कुर्याद्विण्मूत्रं द्विजसत्तमः । नैरृत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः ॥ 6॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,6,16566,विण्मूत्रेऽपि च कर्णस्थ आश्रमे प्रथमे द्विजः । निवीतं पृष्ठतः कुर्याद्वानप्रस्थगृहस्थयोः ॥ 7॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,7,16567,कृत्वा यज्ञोपवीतं तु पृष्ठतः कण्ठलम्बितम् । विण्मूत्रं तु गृही कुर्यात्कर्णस्थं प्रथमाश्रमी ॥ 8॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,8,16568,अन्तर्धाय तृणैर्भूमिं शिरः प्रावृत्य वाससा । वाचं नियम्य यत्नेन ष्ठीवनश्वासवर्जितः ॥ 9॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,9,16569,न फालकृष्टे न जले न चितायां न पर्वते । जीर्णदेवालये कुर्यान्न वल्मीके न शाद्वले ॥ 10॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,10,16570,न ससत्त्वेषु गर्तेषु न गच्छन्न पथि स्थितः । सन्ध्ययोरुभयोर्जप्ये भोजने दन्तधावने ॥ 11॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,11,16571,पितृकार्ये च दैवे च तथा मूत्रपुरीषयोः । उत्साहे मैथुने वापि तथा वै गुरुसन्निधौ ॥ 12॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,12,16572,यागे दाने ब्रह्मयज्ञे द्विजो मौनं समाचरेत् । देवता ऋषयः सर्वे पिशाचोरगराक्षसाः ॥ 13॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,13,16573,इतो गच्छन्तु भूतानि बहिर्भूमिं करोम्यहम् । इति सम्प्रार्थ्य पश्चात्तु कुर्याच्छौचं यथाविधि ॥ 14॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,14,16574,वाय्वग्नी विप्रमादित्यमापः पश्यंस्तथैव गाः । न कदाचन कुर्वीत विण्मूत्रस्य विसर्जनम् ॥ 15॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,15,16575,उदङ्मुखो दिवा कुर्याद्रात्रौ चेद्दक्षिणामुखः । तत आच्छाद्य विण्मूत्रं लोष्ठपर्णतृणादिभिः ॥ 16॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,16,16576,गृहीतलिङ्ग उत्थाय स गच्छेद्वारिसन्निधौ । पात्रे जलं गहीत्वा तु गच्छेदन्यत्र चैव हि ॥ 17॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,17,16577,गृहीत्वा मृत्तिकां कूलाच्छ्वेतां ब्राह्मणसत्तमः । रक्तां पीतां तथा कृष्णां गृह्णीयुश्चान्यवर्णकाः ॥ 18॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,18,16578,अथवा या यत्र देशे सैव ग्राह्या द्विजोत्तमैः । अन्तर्जलाद्देवगृहाद्वल्मीकान्मूषकोत्करात् ॥ 19॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,19,16579,कृतशौचावशिष्टाच्च न ग्राह्याः पञ्चमृत्तिकाः । मूत्रात्तु द्विगुणं शौचे मैथुने त्रिगुणं स्मृतम् ॥ 20॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,20,16580,एका लिङ्गे करे तिस्र उभयोर्मृद्द्वयं स्मृतम् । मूत्रशौचं समाख्यातं शौचे तद् द्विगुणं स्मृतम् ॥ 21॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,21,16581,विट्शौचे लिङ्गदेशे तु प्रदद्यान्मृत्तिकाद्वयम् । पञ्चापाने दशैकस्मिन्नुभयोः सप्त मृत्तिकाः ॥ 22॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,22,16582,वामपादं पुरस्कृत्य पश्चाद्दक्षिणमेव च । प्रत्येकं च चतुर्वारं मृत्तिकां लेपयेत्सुधीः ॥ 23॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,23,16583,एवं शौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणः । त्रिगुणं वानप्रस्थस्य यतीनां च चतुर्गुणम् ॥ 24॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,24,16584,आर्द्रामलकमाना तु मृत्तिका शौचकर्मणि । प्रत्येकं तु सदा ग्राह्या नातो न्यूना कदाचन ॥ 25॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,25,16585,एतद्दिवा स्याद्विट्शौचं तदर्धं निशि कीर्तितम् । आतुरस्य तदर्धं तु मार्गस्थस्य तदर्धकम् ॥ 26॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,26,16586,स्त्रीशूद्राणामशक्तानां बालानां शौचकर्मणि । यथा गन्धक्षयः स्यात्तु तथा कुर्यादसङ्ख्यकम् ॥ 27॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,27,16587,गन्धलेपक्षयो यावत्तावच्छौचं विधीयते । सर्वेषामेव वर्णानामित्याह भगवान्मनुः ॥ 28॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,28,16588,वामहस्तेन शौचं तु कुर्याद्वै दक्षिणेन न । नाभेरधो वामहस्तो नाभेरूर्ध्वं तु दक्षिणः ॥ 29॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,29,16589,शौचकर्मणि विज्ञेयो नान्यथा द्विजपुङ्गवैः । जलपात्रं न गृह्णीयाद्विण्मूत्रोत्सर्जने बुधः ॥ 30॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,30,16590,गृह्णीयाद्यदि मोहेन प्रायश्चित्तं चरेत्ततः । मोहाद्वाप्यथवाऽऽलस्यान्न कुर्याच्छौचमात्मनः ॥ 31॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,31,16591,जलाहारस्त्रिरात्रः स्यात्ततो जापाच्च शुध्यति । देशकालद्रव्यशक्तिस्वोपपत्तीश्च सर्वशः ॥ 32॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,32,16592,ज्ञात्वा शौचं प्रकर्तव्यमालस्यं नात्र धारयेत् । पुरीषोत्सर्जने कुर्याद् गण्डूषान्द्वादशैव तु ॥ 33॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,33,16593,चतुरो मूत्रविक्षेपे नातो न्यूनान्कदाचन । अधोमुखं नरः कृत्वा त्यजेत्तं वामतः शनैः ॥ 34॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,34,16594,आचम्य च ततः कुर्याद्दन्तधावनमादरात् । कण्टकिक्षीरवृक्षोत्थं द्वादशाङ्गुलमव्रणम् ॥ 35॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,35,16595,कनिष्ठिकाग्रवत्स्थूलं पूर्वार्धे कृतकूर्चकम् । करञ्जोदुम्बरौ चूतः कदम्बो लोध्रचम्पकौ । बदरीति द्रुमाश्चेति प्रोक्ता दन्तप्रधावने ॥ 36॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,36,16596,अन्नाद्याय व्यूहध्वंसे सोमो राजायमागमत् । स मे मुखं प्रक्षाल्य तेजसा च भगेन च ॥ 37॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,37,16597,आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च । ब्रह्मप्रज्ञां च मेधां च त्वन्नो देहि वनस्पते ॥ 38॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,38,16598,अभावे दन्तकाष्ठस्य प्रतिषिद्धदिनेषु च । अपां द्वादशगण्डूषैर्विदध्याद्दन्तधावनम् ॥ 39॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,39,16599,रवेर्दिने यः कुरुते प्राणी दन्तस्य धावनम् । सविता भक्षितस्तेन स्वकुलं तेन घातितम् ॥ 40॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,40,16600,प्रतिपद्दर्शषष्ठीषु नवम्येकादशीरवौ । दन्तानां काष्ठसंयोगाद्दहत्यासप्तमं कुलम् ॥ 41॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,41,16601,कृत्वालं पादशौचं ह्यमलमथ जलं त्रिःपिबेद् द्विर्विमृज्य तर्जन्याङ्गुष्ठवत्या सजलमभिमृशे- न्नासिकारन्ध्रयुग्मम् । अङ्गुष्ठानामिकाभ्यां नयनयुगयुतं कर्णयुग्मं कनिष्ठा- ङ्गुष्ठाभ्यां नाभिदेशे हृदयमथ तले- नाङ्गुलीभिः शिरांसि ॥ 42॥ 11,११.२,द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।,42,16602,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे शौचविधिवर्णनं नाम द्वितीयोऽध्यायः ॥ ११.२॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,0,16603,श्रीनारायण उवाच । (शुद्धं स्मार्तं चाचमनं पौराणं वैदिकं तथा । तान्त्रिकं श्रौतमित्याहुः षड्विधं श्रुतिचोदितम् ॥ विण्मूत्रादिकशौचं च शुद्धं च परिकीर्तितम् । स्मार्तं पौराणिकं कर्म आचान्ते विधिपूर्वकम् ॥ वैदिकं श्रौत्रमित्यादि ब्रह्मयज्ञादिपूर्वकम् । अस्त्रविद्यादिकं कर्म तान्त्रिको विधिरुच्यते ॥) स्मृत्वा चोङ्कारगायत्रीं निबध्नीयाच्छिखां तथा । पुनराचम्य हृदयं बाहू स्कन्धौ च संस्पृशेत् ॥ 1॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,1,16604,क्षुते निष्ठीवने चैव दन्तोच्छिष्टे तथानृते । पतितानां च सम्भाषे दक्षिणं श्रवणं स्पृशेत् ॥ 2॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,2,16605,अग्निरापश्च वेदाश्च सोमः सूर्योऽनिलस्तथा । सर्वे नारद विप्रस्य कर्णे तिष्ठन्ति दक्षिणे ॥ 3॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,3,16606,ततस्तु गत्वा नद्यादौ प्रातःस्नानं विशोधनम् । समाचरेन्मुनिश्रेष्ठ देहसंशुद्धिहेतवे ॥ 4॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,4,16607,अत्यन्तमलिनो देहो नवद्वारैर्मलं वहन् । सदाऽऽस्ते तच्छोधनाय प्रातःस्नानं विधीयते ॥ 5॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,5,16608,अगम्यागमनात्पापं यच्च पापं प्रतिग्रहात् । रहस्याचरितं पापं मुच्यते स्नानकर्मणा ॥ 6॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,6,16609,अस्नातस्य क्रियाः सर्वा भवन्ति विफला यतः । तस्मात्प्रातश्चरेत्स्नानं नित्यमेव दिने दिने ॥ 7॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,7,16610,दर्भयुक्तश्चरेत्स्नानं तथा सन्ध्याभिवन्दनम् । सप्ताहं प्रातरस्नायी सन्ध्याहीनस्त्रिभिर्दिनैः ॥ 8॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,8,16611,द्वादशाहमनग्निः सन्द्विजः शूद्रत्वमाप्नुयात् । अल्पत्वाद्धोमकालस्य बहुत्वात्स्नानकर्मणः ॥ 9॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,9,16612,प्रातर्न तु तथा स्नायाद्धोमकाले विगर्हितः । गायत्र्यास्तु परं नास्ति इह लोके परत्र च ॥ 10॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,10,16613,गायन्तं त्रायते यस्माद्गायत्रीत्यभिधीयते । प्रणवेन तु संयुक्तां व्याहृतित्रयसंयुताम् ॥ 11॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,11,16614,वायुं वायौ जयेद्विप्रः प्राणसंयमनत्रयात् । ब्राह्मणः श्रुतिसम्पन्नः स्वधर्मनिरतः सदा ॥ 12॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,12,16615,स वैदिकं जपेन्मन्त्रं लौकिकं न कदाचन । गौश‍ृङ्गे सर्षपो यावत् तावद्येषां न स स्थिरः ॥ 13॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,13,16616,न तारयन्त्युभौ पक्षौ पितॄनेकोत्तरं शतम् । सगर्भो जपसंयुक्तस्त्वगर्भो ध्यानमात्रकः ॥ 14॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,14,16617,स्नानाङ्गतर्पणं कृत्वा देवर्षिपितृतोषकम् । शुद्धे वस्त्रे परीधाय जलाद्बहिरुपागतः ॥ 15॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,15,16618,विभूतिधारणं कार्यं रुद्राक्षाणां च धारणम् । क्रमयोगेन कर्तव्यं सर्वदा जपसाधकैः ॥ 16॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,16,16619,रुद्राक्षान्कण्ठदेशे दशनपरिमिता- न्मस्तके विंशती द्वे षट् षट् कर्णप्रदेशे करयुगलकृते द्वादश द्वादशैव । बाह्वोरिन्दोः कलाभिर्नयनयुगकृते त्वेकमेकं शिखायां वक्षस्यष्टाधिकं यः कलयति शतकं स स्वयं नीलकण्ठः ॥ 17॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,17,16620,बद्ध्वा स्वर्णेन रुद्राक्षं रजतेनाथवा मुने । शिखायां धारयेन्नित्यं कर्णयोर्वा समाहितः ॥ 18॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,18,16621,यज्ञोपवीते हस्ते वा कण्ठे तुन्देऽथवा नरः । श्रीमत्पञ्चाक्षरेणैव प्रणवेन तथापि वा ॥ 19॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,19,16622,निर्व्याजभक्त्या मेधावी रुद्राक्षं धारयेन्मुदा । रुद्राक्षधारणं साक्षाच्छिवज्ञानस्य साधनम् ॥ 20॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,20,16623,रुद्राक्षं यच्छिखायां तत्तारतत्त्वमिति स्मरेत् । कर्णयोरुभयोर्ब्रह्मन् देवं देवीं च भावयेत् ॥ 21॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,21,16624,यज्ञोपवीते वेदांश्च तथा हस्ते दिशः स्मरेत् । कण्ठे सरस्वतीं देवीं पावकं चापि भावयेत् ॥ 22॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,22,16625,सर्वाश्रमाणां वर्णानां रुद्राक्षाणां च धारणम् । कर्तव्यं मन्त्रतः प्रोक्तं द्विजानां नान्यवर्णिनाम् ॥ 23॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,23,16626,रुद्राक्षधारणाद्रुद्रो भवत्येव न संशयः । पश्यन्नपि निषिद्धांश्च तथा श‍ृण्वन्नपि स्मरन् ॥ 24॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,24,16627,जिघ्रन्नपि तथा चाश्नन् प्रलपन्नपि सन्ततम् । कुर्वन्नपि सदा गच्छन्विसृजन्नपि मानवः ॥ 25॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,25,16628,रुद्राक्षधारणादेव सर्वपापैर्न लिप्यते । अनेन भुक्तं देवेन भुक्तं यत्तु तथा भवेत् ॥ 26॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,26,16629,पीतं रुद्रेण तत्पीतं घ्रातं घ्रातं शिवेन तत् । रुद्राक्षधारणे लज्जा येषामस्ति महामुने ॥ 27॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,27,16630,तेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः । रुद्राक्षधारिणं दृष्ट्वा परिवादं करोति यः ॥ 28॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,28,16631,उत्पत्तौ तस्य साङ्कर्यमस्त्वेवेति विनिश्चयः । रुद्राक्षधारणादेव रुद्रो रुद्रत्वमाप्नुयात् ॥ 29॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,29,16632,मुनयः सत्यसङ्कल्पा ब्रह्मा ब्रह्मत्वमागतः । रुद्राक्षधारणाच्छ्रेष्ठं न किञ्चिदपि विद्यते ॥ 30॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,30,16633,रुद्राक्षधारिणे भक्त्या वस्त्रं धान्यं ददाति यः । सर्वपापविनिर्मुक्तः शिवलोकं स गच्छति ॥ 31॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,31,16634,रुद्राक्षधारिणं श्राद्धे भोजयेत विमोदतः । पितृलोकमवाप्नोति नात्र कार्या विचारणा ॥ 32॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,32,16635,रुद्राक्षधारिणः पादौ प्रक्षाल्याद्भिः पिबेन्नरः । सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ 33॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,33,16636,हारं वा कटकं वापि सुवर्णं वा द्विजोत्तमः । रुद्राक्षसहितं भक्त्या धारयन् रुद्रतामियात् ॥ 34॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,34,16637,रुद्राक्षं केवलं वापि यत्र कुत्र महामते । समन्त्रकं वा मन्त्रेण रहितं भाववर्जितम् ॥ 35॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,35,16638,यो वा को वा नरो भक्त्या धारयेल्लज्जयापि वा । सर्वपापविनिर्मुक्तः सम्यग्ज्ञानमवाप्नुयात् ॥ 36॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,36,16639,अहो रुद्राक्षमाहात्म्यं मया वक्तुं न शक्यते । तस्मात्सर्वप्रयत्नेन कुर्याद्रुद्राक्षधारणम् ॥ 37॥ 11,११.३,तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,37,16640,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे सदाचारनिरूपणे रुद्राक्षमाहात्म्यवर्णनं नाम तृतीयोऽध्यायः ॥ ११.३॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,0,16641,नारद उवाच । एवम्भूतानुभावोऽयं रुद्राक्षो भवतानघ । वर्णितो महतां पूज्यः कारणं तत्र किं वद ॥ 1॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,1,16642,श्रीनारायण उवाच । एवमेव पुरा पृष्टो भगवान् गिरिशः प्रभुः । षण्मुखेन च रुद्रस्तं यदुवाच श‍ृणुष्व तत् ॥ 2॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,2,16643,ईश्वर उवाच । श‍ृणु षण्मुख तत्त्वेन कथयामि समासतः । त्रिपुरो नाम दैत्यस्तु पुराऽऽसीत्सर्वदुर्जयः ॥ 3॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,3,16644,जितास्तेन सुराः सर्वे बह्मविष्ण्वादिदेवताः । सर्वैस्तु कथिते तस्मिंस्तदाहं त्रिपुरं प्रति ॥ 4॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,4,16645,अचिन्तयं महाशस्त्रमघोराख्यं मनोहरम् । सर्वदेवमयं दिव्यं ज्वलन्तं घोररूपि यत् ॥ 5॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,5,16646,त्रिपुरस्य वधार्थाय देवानां तारणाय च । सर्वविघ्नोपशमनमघोरास्त्रमचिन्तयम् ॥ 6॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,6,16647,दिव्यवर्षसहस्रं तु चक्षुरुन्मीलितं मया । पश्चान्ममाकुलाक्षिभ्यः पतिता जलबिन्दवः ॥ 7॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,7,16648,तत्राश्रुबिन्दुतो जाता महारुद्राक्षवृक्षकाः । ममाज्ञया महासेन सर्वेषां हितकाम्यया ॥ 8॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,8,16649,बभूवुस्ते च रुद्राक्षा अष्टत्रिंशत्प्रभेदतः । सूर्यनेत्रसमुद्भूताः कपिला द्वादश स्मृताः ॥ 9॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,9,16650,सोमनेत्रोत्थिताः श्वेतास्ते षोडशविधाः क्रमात् । वह्निनेत्रोद्भवाः कृष्णा दश भेदा भवन्ति हि ॥ 10॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,10,16651,श्वेतवर्णश्च रुद्राक्षो जातितो ब्राह्म उच्यते । क्षात्रो रक्तस्तथा मिश्रो वैश्यः कृष्णस्तु शूद्रकः ॥ 11॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,11,16652,एकवक्त्रः शिवः साक्षाद्ब्रह्महत्यां व्यपोहति । द्विवक्त्रो देवदेव्यो स्याद्विविधं नाशयेदघम् ॥ 12॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,12,16653,त्रिवक्त्रस्त्वनलः साक्षात्स्त्रीहत्यां दहति क्षणात् । चतुर्वक्त्रः स्वयं ब्रह्मा नरहत्यां व्यपोहति ॥ 13॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,13,16654,पञ्चवक्त्रः स्वयं रुद्रः कालाग्निर्नाम नामतः । अभक्ष्यभक्षणोद्भूतैरगम्यागमनोद्भवैः ॥ 14॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,14,16655,मुच्यते सर्वपापैस्तु पञ्चवक्त्रस्य धारणात् । षड्वक्त्रः कार्तिकेयस्तु स धार्यो दक्षिणे करे ॥ 15॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,15,16656,ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः । सप्तवक्त्रो महाभागो ह्यनङ्गो नाम नामतः ॥ 16॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,16,16657,तद्धारणान्मुच्यते हि स्वर्णस्तेयादिपातकैः । अष्टवक्त्रो महासेन साक्षाद्देवो विनायकः ॥ 17॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,17,16658,अन्तकूटं तूलकूटं स्वर्णकूटं तथैव च । दुष्टान्वयस्त्रियं वाथ संस्पृशंश्च गुरुस्त्रियम् ॥ 18॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,18,16659,एवमादीनि पापानि हन्ति सर्वाणि धारणात् । विघ्नास्तस्य प्रणश्यन्ति याति चान्ते परं पदम् ॥ 19॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,19,16660,भवन्त्येते गुणाः सर्वे ह्यष्टवक्त्रस्य धारणात् । नववक्त्रो भैरवस्तु धारयेद्वामबाहुके ॥ 20॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,20,16661,भुक्तिमुक्तिप्रदः प्रोक्तो मम तुल्यबलो भवेत् । भ्रूणहत्यासहस्राणि ब्रह्महत्याशतानि च ॥ 21॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,21,16662,सद्यः प्रलयमायान्ति नववक्त्रस्य धारणात् । दशवक्त्रस्तु देवेशः साक्षाद्देवो जनार्दनः ॥ 22॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,22,16663,ग्रहाश्चैव पिशाचाश्च वेताला ब्रह्मराक्षसाः । पन्नगाश्चोपशाम्यन्ति दशवक्त्रस्य धारणात् ॥ 23॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,23,16664,वक्त्रैकादशरुद्राक्षो रुद्रैकादशकं स्मृतम् । शिखायां धारयेद्यो वै तस्य पुण्यफलं श‍ृणु ॥ 24॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,24,16665,अश्वमेधसहस्रस्य वाजपेयशतस्य च । गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् ॥ 25॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,25,16666,तत्फलं लभते शीघ्रं वक्त्रैकादशधारणात् । द्वादशास्यस्य रुद्राक्षस्यैव कर्णे तु धारणात् ॥ 26॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,26,16667,आदित्यास्तोषिता नित्यं द्वादशास्ये व्यवस्थिताः । गोभेधे चाश्वमेधे च यत्फलं तदवाप्नुयात् ॥ 27॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,27,16668,श‍ृङ्गिणां शस्त्रिणां चैव व्याघ्रादीनां भयं न हि । न च व्याधिभयं तस्य नैव चाधिः प्रकीर्तितः ॥ 28॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,28,16669,न च किञ्चिद्भयं तस्य न च व्याधिः प्रवर्तते । न कुतश्चिद्भयं तस्य सुखी चैवेश्वरो भवेत् ॥ 29॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,29,16670,हस्त्यश्वमृगमार्जारसर्पमूषकदर्दुरान् । खरांश्च श्वश‍ृगालांश्च हत्वा बहुविधानपि ॥ 30॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,30,16671,मुच्यते नात्र सन्देहो वक्त्रद्वादशधारणात् । वक्त्रत्रयोदशो वत्स रुद्राक्षो यदि लभ्यते ॥ 31॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,31,16672,कार्तिकेयसमो ज्ञेयः सर्वकामार्थसिद्धिदः । रसो रसायनं चैव तस्य सर्वं प्रसिद्ध्यति ॥ 32॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,32,16673,तस्यैव सर्वभोग्यानि नात्र कार्या विचारणा । मातरं पितरं चैव भ्रातरं वा निहन्ति यः ॥ 33॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,33,16674,मुच्यते सर्वपापेभ्यो धारणात्तस्य षण्मुख । चतुर्दशास्यो रुद्राक्षो यदि लभ्येत पुत्रक ॥ 34॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,34,16675,धारयेत्सततं मूर्ध्नि तस्य पिण्डः शिवस्य तु । किं मुने बहुनोक्तेन वर्णनेन पुनः पुनः ॥ 35॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,35,16676,पूज्यते सन्ततं देवैः प्राप्यते च परा गतिः । रुद्राक्ष एकः शिरसा धार्यो भक्त्या द्विजोत्तमैः ॥ 36॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,36,16677,षड्विंशद्भिः शिरोमाला पञ्चाशद्धृदयेन तु । कलाक्षैर्बाहुवलये अर्काक्षैर्मणिबन्धनम् ॥ 37॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,37,16678,अष्टोत्तरशतैर्माला पञ्चाशद्भिः षडानन । अथवा सप्तविंशत्या कृत्वा रुद्राक्षमालिकाम् ॥ 38॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,38,16679,धारणाद्वा जपाद्वापि ह्यनन्तं फलमश्नुते । अष्टोत्तरशतैर्माला रुद्राक्षैर्धार्यते यदि ॥ 39॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,39,16680,क्षणे क्षणेऽश्वमेधस्य फलं प्राप्नोति षण्मुख । त्रिःसप्तकुलमुद्धृत्य शिवलोके महीयते ॥ 40॥ 11,११.४,चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,40,16681,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे रुद्राक्षमाहाम्यवर्णनं नाम चतुर्थोऽध्यायः ॥ ११.४॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,0,16682,ईश्वर उवाच । लक्षणं जपमालायाः श‍ृणु वक्ष्यामि षण्मुख । रुद्राक्षस्य मुखं ब्रह्मा बिन्दू रुद्र इतीरितः ॥ 1॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,1,16683,विष्णुः पुच्छं भवेच्चैव भोगमोक्षफलप्रदम् । पञ्चविंशतिभिश्चाक्षैः पञ्चवक्त्रैः सकण्टकैः ॥ 2॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,2,16684,रक्तवर्णैः सितैर्मिश्रैः कृतरन्ध्रविदर्भितैः । अक्षसूत्रं प्रकर्तव्यं गोपुच्छवलयाकृति ॥ 3॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,3,16685,वक्त्रं वक्त्रेण संयोज्य पुच्छं पुच्छेन योजयेत् । मेरुमूर्ध्वमुखं कुर्यात्तदूर्ध्वं नागपाशकम् ॥ 4॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,4,16686,एवं सङ्ग्रथितां मालां मन्त्रसिद्धिप्रदायिनीम् । प्रक्षाल्य गन्धतोयेन पञ्चगव्येन चोपरि ॥ 5॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,5,16687,ततः शिवाम्भसाऽऽक्षाल्य ततो मन्त्रगणान्न्यसेत् । स्पृष्ट्वा शिवास्त्रमन्त्रेण कवचेनावगुण्ठयेत् ॥ 6॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,6,16688,मूलमन्त्रं न्यसेत्पश्चात्पूर्ववत्कारयेत्तथा । सद्योजातादिभिः प्रोक्ष्य यावदष्टोत्तरं शतम् ॥ 7॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,7,16689,मूलमन्त्रं समुच्चार्य शुद्धभूमौ निधाय च । तस्योपरि न्यसेत्साम्बं शिवं परमकारणम् ॥ 8॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,8,16690,प्रतिष्ठिता भवेन्माला सर्वकामफलप्रदा । यस्य देवस्य यो मन्त्रस्तां तेनैवाभिपूजयेत् ॥ 9॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,9,16691,मूर्ध्नि कण्ठेऽथवा कर्णे न्यसेद्वा जपमालिकाम् । रुद्राक्षमालया चैवं जप्तव्यं नियतात्मना ॥ 10॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,10,16692,कण्ठे मूर्ध्नि हृदि प्रान्ते कर्णे बाहुयुगेऽथवा । रुद्राक्षधारणं नित्यं भक्त्या परमया युतः । ११॥ किमत्र बहुनोक्तेन वर्णनेन पुनः पुनः । रुद्राक्षधारणं नित्यं तस्मादेतत्प्रशस्यते ॥ 12॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,11,16693,स्नाने दाने जपे होमे वैश्वदेवे सुरार्चने । प्रायश्चित्ते तथा श्राद्धे दीक्षाकाले विशेषतः ॥ 13॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,12,16694,अरुद्राक्षधरो भूत्वा यत्किञ्चित्कर्म वैदिकम् । कुर्वन्विप्रस्तु मोहेन नरके पतति ध्रुवम् ॥ 14॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,13,16695,रुद्राक्षं धारयेन्मूर्ध्नि कण्ठे सूत्रे करेऽथवा । सुवर्णमणिसम्भिन्नं शुद्धं नान्यैर्धृतं शिवम् ॥ 15॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,14,16696,नाशुचिर्धारयेदक्षं सदा भक्त्यैव धारयेत् । रुद्राक्षतरुसम्भूतवातोद्भूततृणान्यपि ॥ 16॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,15,16697,पुण्यलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् । रुद्राक्षं धारयन्पापं कुर्वन्नपि च मानवः ॥ 17॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,16,16698,सर्वं तरति पाप्मानं जाबालश्रुतिराह हि । पशवो हि च रुद्राक्षधारणाद्यान्ति रुद्रताम् ॥ 18॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,17,16699,किमु ये धारयन्ति स्म नरा रुद्राक्षमालिकाम् । रुद्राक्षः शिरसा ह्येको धार्यो रुद्रपरैः सदा ॥ 19॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,18,16700,ध्वंसनं सर्वदुःखानां सर्वपापविमोचनम् । व्याहरन्ति च नामानि ये शम्भोः परमात्मनः ॥ 20॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,19,16701,रुद्राक्षालङ्कृता ये च ते वै भागवतोत्तमाः । रुद्राक्षधारणं कार्यं सर्वश्रेयोऽर्थिभिर्नृभिः ॥ 21॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,20,16702,कर्णपाशे शिखायां च कण्ठे हस्ते तथोदरे । महादेवश्च विष्णुश्च ब्रह्मा तेषां विभूतयः ॥ 22॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,21,16703,देवाश्चान्ये तथा भक्त्या खलु रुद्राक्षधारिणः । गोत्रर्षयश्च सर्वेषां कूटस्था मूलरूपिणः ॥ 23॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,22,16704,तेषां वंशप्रसूताश्च मुनयः सकला अपि । श्रौतधर्मपराः शुद्धाः खलु रुद्राक्षधारिणः ॥ 24॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,23,16705,श्रद्धा न जायते साक्षाद्वेदसिद्धे विमुक्तिदे । बहूनां जन्मनामन्ते महादेवप्रसादतः ॥ 25॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,24,16706,रुद्राक्षधारणे वाञ्छा स्वभावादेव जायते । रुद्राक्षस्य तु माहात्म्यं जाबालैरादरेण तु ॥ 26॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,25,16707,पठ्यते मुनिभिः सर्वैर्मया पुत्र तथैव च । रुद्राक्षस्य फलं चैव त्रिषु लोकेषु विश्रुतम् ॥ 27॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,26,16708,फलस्य दर्शने पुण्यं स्पर्शात्कोटिगुणं भवेत् । शतकोटिगुणं पुण्यं धारणाल्लभते नरः ॥ 28॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,27,16709,लक्षकोटिसहस्राणि लक्षकोटिशतानि च । जपाच्च लभते नित्यं नात्र कार्या विचारणा ॥ 29॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,28,16710,हस्ते चोरसि कण्ठे च कर्णयोर्मस्तके तथा । रुद्राक्षं धारयेद्यस्तु स रुद्रो नात्र संशयः ॥ 30॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,29,16711,अवध्यः सर्वभूतानां रुद्रवद्धि चरेद्भुवि । सुराणामसुराणां च वन्दनीयो यथा शिवः ॥ 31॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,30,16712,रुद्राक्षधारी सततं वन्दनीयस्तथा नरैः । उच्छिष्टो वा विकर्मस्थो युक्तो वा सर्वपातकैः ॥ 32॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,31,16713,मुच्यते सर्वपापेभ्यो रुद्राक्षस्य तु धारणात् । कण्ठे रुद्राक्षमाबध्य श्वापि वा म्रियते यदि ॥ 33॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,32,16714,सोऽपि मुक्तिमवाप्नोति किं पुनर्मानुषोऽपि सः । जपध्यानविहीनोऽपि रुद्राक्षं यदि धारयेत् ॥ 34॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,33,16715,सर्वपापविनिर्मुक्तः स याति परमां गतिम् । एकं वापि हि रुद्राक्षं कृत्वा यत्नेन धारयेत् ॥ 35॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,34,16716,एकविंशतिमुद्धृत्य रुद्रलोके महीयते । अतः परं प्रवक्ष्यामि रुद्राक्षस्य पुनर्विधिम् ॥ 36॥ 11,११.५,पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।,35,16717,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे रुद्राक्षजपमालाविधानवर्णनं नाम पञ्चमोऽध्यायः ॥ ११.५॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,0,16718,ईश्वर उवाच । महासेन कुशग्रन्थिपुत्राजीवादयः परे । रुद्राक्षस्य तु नैकोऽपि कलामर्हति षोडशीम् ॥ 1॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,1,16719,पुरुषाणां यथा विष्णुर्ग्रहाणां च यथा रविः । नदीनां तु यथा गङ्गा मुनीनां कश्यपो यथा ॥ 2॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,2,16720,उच्चैःश्रवा यथाश्वानां देवानामीश्वरो यथा । देवीनां तु यथा गौरी तद्वच्छ्रेष्ठमिदं भवेत् ॥ 3॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,3,16721,नातः परतरं स्तोत्रं नातः परतरं व्रतम् । अक्षय्येषु च दानेषु रुद्राक्षस्तु विशिष्यते ॥ 4॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,4,16722,शिवभक्ताय शान्ताय दद्याद्रुद्राक्षमुत्तमम् । तस्य पुण्यफलस्यान्तं न चाहं वक्तुमुत्सहे ॥ 5॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,5,16723,धृतरुद्राक्षकण्ठाय यस्त्वन्नं सम्प्रयच्छति । त्रिसप्तकुलमुद्धृत्य रुद्रलोकं स गच्छति ॥ 6॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,6,16724,यस्य भाले विभूतिर्न नाङ्गे रुद्राक्षधारणम् । न शम्भोर्भवने पूजा स विप्रः श्वपचाधमः ॥ 7॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,7,16725,खादन्मांसं पिबन्मद्यं सङ्गच्छन्नन्त्यजानपि । पातकेभ्यो विमुच्येत रुद्राक्षं शिरसि स्थिते ॥ 8॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,8,16726,सर्वयज्ञतपोदानवेदाभ्यासैश्च यत्फलम् । तत्फलं लभते सद्यो रुद्राक्षस्य तु धारणात् ॥ 9॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,9,16727,वेदैश्चतुर्भिर्यत्पुण्यं पुराणपठनेन च । यत्तीर्थसेवनेनैव सर्वविद्यादिभिस्तथा ॥ 10॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,10,16728,तत्पुण्यं लभते सद्यो रुद्राक्षस्य तु धारणात् । प्रयाणकाले रुद्राक्षं बन्धयित्वा म्रियेद्यदि ॥ 11॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,11,16729,स रुद्रत्वमवाप्नोति पुनर्जन्म न विद्यते । रुद्राक्षं धारयेत्कण्ठे बाह्वोर्वा म्रियते यदि ॥ 12॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,12,16730,कुलैकविंशमुत्तार्य रुद्रलोके वसेन्नरः । ब्राह्मणो वापि चाण्डालो निर्गुणः सगुणोऽपि च ॥ 13॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,13,16731,भस्मरुद्राक्षधारी यः स देवत्वं शिवं व्रजेत् । शुचिर्वाप्यशुचिर्वापि तथाभक्ष्यस्य भक्षकः ॥ 14॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,14,16732,म्लेच्छो वाप्यथ चाण्डालो युतो वा सर्वपातकैः । रुद्राक्षधारणादेव स रुद्रो नात्र संशयः ॥ 15॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,15,16733,शिरसा धारिते कोटिः कर्णयोर्दशकोटयः । शतकोटिर्गले बद्धो मूर्ध्नि कोटिसहस्रकम् ॥ 16॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,16,16734,अयुतं चोपवीते तु लक्षकोटिर्भुजे स्थिते । मणिबन्धे तु रुद्राक्षो मोक्षसाधनकः परः ॥ 17॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,17,16735,रुद्राक्षधारको भूत्वा यत्किञ्चित्कर्म वैदिकम् । कुर्वन्विप्रः सदा भक्त्या महदाप्नोति तत्फलम् ॥ 18॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,18,16736,रुद्राक्षमालिकां कण्ठे धारयेद्भक्तिवर्जितः । पापकर्मा तु यो नित्यं स मुक्तः सर्वबन्धनात् ॥ 19॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,19,16737,रुद्राक्षार्पितचेता यो रुद्राक्षस्तु न वै धृतः । असौ माहेश्वरो लोके नमस्यः स तु लिङ्गवत् ॥ 20॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,20,16738,अविद्यो वा सविद्यो वा रुद्राक्षस्य तु धारणात् । शिवलोकं प्रपद्येत कीकटे गर्दभो यथा ॥ 21॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,21,16739,स्कन्द उवाच । रुद्राक्षान्सन्दधे देव गर्दभः केन हेतुना । कीकटे केन वा दत्तस्तद्ब्रूहि परमेश्वर ॥ 22॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,22,16740,श्रीभगवानुवाच । श‍ृणु पुत्र पुरावृत्तं गर्दभो विन्ध्यपर्वते । धत्ते रुद्राक्षभारं तु वाहितः पथिकेन तु ॥ 23॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,23,16741,श्रान्तोऽसमर्थस्तद्भारं वोढुं पतितवान्भुवि । प्राणैस्त्वक्तस्त्रिनेत्रस्तु शूलपाणिर्महेश्वरः ॥ 24॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,24,16742,मत्प्रसादान्महासेन मदन्तिकमुपागतः । यावद्वक्त्रस्य सङ्ख्यानं रुद्राक्षाणां सुदुर्लभम् ॥ 25॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,25,16743,तावद्युगसहस्राणि शिवलोके महीयते । स्वशिष्येभ्यस्तु वक्तव्यं नाशिष्येभ्यः कदाचन ॥ 26॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,26,16744,अभक्तेभ्योऽपि मूर्खेभ्यः कदाचिन्न प्रकाशयेत् । अभक्तो वास्तु भक्तो वा नीचो नीचतरोऽपि वा ॥ 27॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,27,16745,रुद्राक्षान्धारयेद्यस्तु मुच्यते सर्वपातकैः । रुद्राक्षधारणं पुण्यं केन वा सदृशं भवेत् ॥ 28॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,28,16746,महाव्रतमिदं प्राहुर्मुनयस्तत्त्वदर्शिनः । सहस्रं धारयेद्यस्तु रुद्राक्षाणां धृतव्रतः ॥ 29॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,29,16747,तं नमन्ति सुराः सर्वे यथा रुद्रस्तथैव सः । अभावे तु सहस्रस्य बाह्वोः षोडश षोडश ॥ 30॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,30,16748,एकं शिखायां करयोर्द्वादश द्वादशैव तु । द्वात्रिंशत्कण्ठदेशे तु चत्वारिंशच्च मस्तके ॥ 31॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,31,16749,एकैकं कर्णयोः षट् षट् वक्षस्यष्टोत्तरं शतम् । यो धारयति रुद्राक्षान् रुद्रवत्स तु पूज्यते ॥ 32॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,32,16750,मुक्ताप्रवालस्कटिकरौप्यवैदूर्यकाञ्चनैः । समेतान्धारयेद्यस्तु रुद्राक्षान्स शिवो भवेत् ॥ 33॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,33,16751,केवलानपि रुद्राक्षान्यद्यालस्याद्बिभर्ति यः । तं न स्पृशन्ति पापानि तमांसीव विभावसुम् ॥ 34॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,34,16752,रुद्राक्षमालया मन्त्रो जप्तोऽनन्तफलप्रदः । यस्याङ्गे नास्ति रुद्राक्ष एकोऽपि बहुपुण्यदः ॥ 35॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,35,16753,तस्य जन्म निरर्थं स्यात्त्रिपुण्ड्ररहितं यथा । रुद्राक्षं मस्तके धृत्वा शिरःस्नानं करोति यः ॥ 36॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,36,16754,गङ्गास्नानफलं तस्य जायते नात्र संशयः । एकवक्त्रः पञ्चवक्त्र एकादशमुखाः परे ॥ 37॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,37,16755,चतुर्दशमुखाः केचिद्रुद्राक्षा लोकपूजिताः । भक्त्या सम्पूज्यते नित्यं रुद्राक्षः शङ्करात्मकः ॥ 38॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,38,16756,दरिद्रं वापि पुरुषं राजानं कुरुते भुवि । अत्र ते कथयिष्यामि पुराणं मतमुत्तमम् ॥ 39॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,39,16757,कोसलेषु द्विजः कश्चिद्गिरिनाथ इति श्रुतः । महाधनी च धर्मात्मा वेदवेदाङ्गपारगः ॥ 40॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,40,16758,यज्ञकृद्दीक्षितस्तस्य तनयः सुन्दराकृतिः । नाम्ना गुणनिधिः ख्यातस्तरुणः कामसुन्दरः ॥ 41॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,41,16759,गुरोः सुधिषणस्याथ पत्नीं मुक्तावलीमथ । मोहयामास रूपेण यौवनेन मदेन च ॥ 42॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,42,16760,सङ्गतस्तु तया सार्धं कञ्चित्कालं ततो भिया । विषं ददौ च गुरवे येभे पश्चात्तु निर्भयः ॥ 43॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,43,16761,यदा माता पिता कर्म किञ्चिज्जानाति यत्क्षणे । मातरं पितरं चापि मारयामास तद्विषात् ॥ 44॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,44,16762,नानाविलासभोगैश्च जाते द्रव्यव्यये ततः । ब्राह्मणानां गृहे चौर्यं चकार स तदा खलः ॥ 45॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,45,16763,सुरापानमदोन्मत्तस्तदा ज्ञातिबहिष्कृतः । ग्रामान्निष्कासितः सर्वैस्तदा सोऽभूद्वनेचरः ॥ 46॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,46,16764,मुक्तावल्या तया सार्धं जगाम गहनं वनम् । मार्गे स्थितो द्रव्यलोभाज्जघान ब्राह्मणान्बहून् ॥ 47॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,47,16765,एवं बहुगते काले ममार स तदाधमः । नेतुं तं यमदूताश्च समाजग्मुः सहस्रशः ॥ 48॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,48,16766,शिवलोकाच्छिवगणास्तथैव च समागताः । तयोः परस्परं वादो बभूव गिरिजासुत ॥ 49॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,49,16767,यमदूतास्तदा प्रोचुः पुण्यमस्य किमस्ति हि । ब्रुवन्तु सेवकाः शम्भोर्यद्येनं नेतुमिच्छथ ॥ 50॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,50,16768,शिवदूतास्तदा प्रोचुरयं यस्मिन्स्थले मृतः । दशहस्तादधो भूमे रुद्राक्षस्तत्र चास्ति हि ॥ 51॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,51,16769,तत्प्रभावेण हे दूता नेष्यामः शिवसन्निधिम् । ततो विमानमारुह्य दिव्यरूपधरो द्विजः ॥ 52॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,52,16770,गतो गुणनिधिर्दूतैः सहितः शङ्करालयम् । इति रुद्राक्षमाहात्म्यं कथितं तव सुव्रत ॥ 53॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,53,16771,एवं रुद्राक्षमहिमा समासात्कथितो मया । सर्वपापक्षयकरो महापुण्यफलप्रदः ॥ 54॥ 11,११.६,षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।,54,16772,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनं नाम षष्ठोऽध्यायः ॥ ११.६॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,0,16773,श्रीनारायण उवाच । एवं नारद षड्वक्त्रो गिरिशेन विबोधितः । रुद्राक्षमहिमानं च ज्ञात्वासीत्स कृतार्थकः ॥ 1॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,1,16774,इत्थं भूतानुभावोऽयं रुद्राक्षो वर्णितो मया । सदाचारप्रसङ्गेन श‍ृणु चान्यत्समाहितः ॥ 2॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,2,16775,यथा रुद्राक्षमहिमा वर्णितोऽनन्तपुण्यदः । लक्षणं मन्त्रविन्यासं तथाहं वर्णयामि ते ॥ 3॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,3,16776,लक्षं तु दर्शनात्युण्यं कोटिस्तत्स्पर्शनाद्भवेत् । तस्य कोटिगुणं पुण्यं लभते धारणान्नरः ॥ 4॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,4,16777,लक्षकोटिसहस्राणि लक्षकोटिशतानि च । तज्जपाल्लभते पुण्यं नरो रुद्राक्षधारणात् ॥ 5॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,5,16778,रुद्राक्षाणां तु भद्राक्षधारणात्स्यान्महाफलम् । धात्रीफलप्रमाणं यच्छ्रेष्ठमेतदुदाहृतम् ॥ 6॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,6,16779,बदरीफलमात्रं तु प्रोच्यते मध्यमं बुधैः । अधमं चणमात्रं स्यात्प्रतिज्ञैषा मयोदिता ॥ 7॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,7,16780,ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति शिवाज्ञया । वृक्षा जाताः पृथिव्यां तु तज्जातीयाः शुभाक्षकाः ॥ 8॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,8,16781,श्वेतास्तु ब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकाः । पीता वैश्यास्तु विज्ञेयाः कृष्णाः शूद्राः प्रकीर्तिताः ॥ 9॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,9,16782,ब्राह्मणो बिभृयाच्छ्वेतान् रक्तान् राजा तु धारयेत् । पीतान्वैश्यस्तु बिभृयात्कृष्णान् शूद्रस्तु धारयेत् ॥ 10॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,10,16783,समाः स्निग्धा दृढास्तद्वत्कण्टकैः संयुताः शुभाः । कृमिदष्टाञ्छिन्नभिन्नान्कण्टकैरहितांस्तथा ॥ 11॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,11,16784,व्रणयुक्तानावृतांश्च षड्रुद्राक्षांस्तु वर्जयेत् । स्वयमेव कृतद्वारो रुद्राक्षः स्यादिहोत्तमः ॥ 12॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,12,16785,यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् । समान्स्निग्धान्दृढान्वृत्तान्क्षौमसूत्रेण धारयेत् ॥ 13॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,13,16786,सर्वगात्रेषु साम्येन समानातिविलक्षणा । निर्घर्षे हेमलेखाभा यत्र लेखा प्रदृश्यते ॥ 14॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,14,16787,तदक्षमुत्तमं विद्यात्स धार्यः शिवपूजकैः । शिखायामेकरुद्राक्षं त्रिंशद्वै शिरसा वहेत् ॥ 15॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,15,16788,षट्त्रिंशच्च गले धार्या बाह्वोः षोडश षोडश । मणिबन्धे द्वादशाक्षान्स्कन्धे पञ्चाशतं भवेत् ॥ 16॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,16,16789,अष्टोत्तरशतैर्मालोपवीतं च प्रकल्पयेत् । द्विसरं त्रिसरं वापि बिभृयात्कण्ठदेशतः ॥ 17॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,17,16790,कुण्डले मुकुटे चैव कर्णिकाहारकेषु च । केयूरे कटके चैव कुक्षिवंशे तथैव च ॥ 18॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,18,16791,सुप्ते पीते सर्वकालं रुद्राक्षं धारयेन्नरः । त्रिशतं त्वधमं पञ्चशतं मध्यममुच्यते ॥ 19॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,19,16792,सहस्रमुत्तमं प्रोक्तं चैवं भेदेन धारयेत् । शिरसीशानमन्त्रेण कर्णे तत्पुरुषेण च ॥ 20॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,20,16793,अघोरेण ललाटे तु तेनैव हृदयेऽपि च । अघोरबीजमन्त्रेण करयोर्धारयेत्पुनः ॥ 21॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,21,16794,पञ्चाशदक्षग्रथितां वामदेवेन चोदरे । पञ्चब्रह्मभिरङ्गैश्चाप्येवं रुद्राक्षधारणम् ॥ 22॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,22,16795,ग्रथितान्मूलमन्त्रेण सर्वानक्षांस्तु धारयेत् । एकवक्त्रस्तु रुद्राक्षः परतत्त्वप्रकाशकः ॥ 23॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,23,16796,परतत्त्वधारणाच्च जायते तत्प्रकाशनम् । द्विवक्त्रस्तु मुनिश्रेष्ठ अर्धनारीश्वरो भवेत् ॥ 24॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,24,16797,धारणादर्धनारीशः प्रीयते तस्य नित्यशः । त्रिवक्त्रस्त्वनलः साक्षात्स्त्रीहत्यां दहति क्षणात् ॥ 25॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,25,16798,त्रिमुखश्चैव रुद्राक्षोऽप्यग्नित्रयस्वरूपकः । तद्धारणाच्च हुतभुक् तस्य तुष्यति नित्यशः ॥ 26॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,26,16799,चतुर्मुखस्तु रुद्राक्षः पितामहस्वरूपकः । तद्धारणान्महाश्रीमान्महदारोग्यमुत्तमम् ॥ 27॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,27,16800,महती ज्ञानसम्पत्तिः शुद्धये धारयेन्नरः । पञ्चमुखस्तु रुद्राक्षः पञ्चब्रह्मस्वरूपकः ॥ 28॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,28,16801,तस्य धारणमात्रेण सन्तुष्यति महेश्वरः । षड्वक्त्रश्चैव रुद्राक्षः कार्तिकेयाधिदैवतः ॥ 29॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,29,16802,विनायकं चापि देवं प्रवदन्ति मनीषिणः । सप्तवक्त्रस्तु रुद्राक्षः सप्तमात्राधिदैवतः ॥ 30॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,30,16803,सप्ताश्वदैवतश्चैव मुनिसप्तकदैवतः । तद्धारणान्महाश्रीः स्यान्महदारोग्यमुत्तमम् ॥ 31॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,31,16804,महती ज्ञानसम्पत्तिः शुचिर्वै धारयेन्नरः । अष्टवक्त्रस्तु रुद्राक्षोऽप्यष्टमात्राधिदैवतः ॥ 32॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,32,16805,वस्वष्टकप्रीतिकरो गङ्गाप्रीतिकरः शुभः । तद्धारणादिमे प्रीता भवेयुः सत्यवादिनः ॥ 33॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,33,16806,नववक्त्रस्तु रुद्राक्षो यमदेव उदाहृतः । तद्धारणाद्यमभयं न भवत्येव सर्वथा ॥ 34॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,34,16807,दशवक्त्रस्तु रुद्राक्षो दशाशादैवतः स्मृतः । दशाशाप्रीतिजनको धारणे नात्र संशयः ॥ 35॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,35,16808,एकादशमुखस्त्वक्षो रुद्रैकादशदैवतः । तमिन्द्रदैवतं चाहुः सदा सौख्यविवर्धनम् ॥ 36॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,36,16809,रुद्राक्षो द्वादशमुखो महाविष्णुस्वरूपकः । द्वादशादित्यदैवश्च बिभर्त्येव हि तत्परः ॥ 37॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,37,16810,त्रयोदशमुखश्चाक्षः कामदः सिद्धिदः शुभः । तस्य धारणमात्रेण कामदेवः प्रसीदति ॥ 38॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,38,16811,चतुर्दशमुखश्चाक्षो रुद्रनेत्रसमुद्भवः । सर्वव्याधिहरश्चैव सर्वारोग्यप्रदायकः ॥ 39॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,39,16812,मद्यं मांसं च लशुनं पलाण्डुं शिग्रुमेव च । श्लेष्मातकं विड्वराहं भक्षणे वर्जयेत्ततः ॥ 40॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,40,16813,ग्रहणे विषुवे चैव सङ्क्रमे त्वयने तथा । दर्शे च पौर्णमासे च पुण्येषु दिवसेष्वपि । रुद्राक्षधारणात्सद्यः सर्वपापैः प्रमुच्यते ॥ 41॥ 11,११.७,सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।,41,16814,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे रुद्राक्षमाहात्म्यवर्णनं नाम सप्तमोऽध्यायः ॥ ११.७॥ 11,११.८,अष्टमोऽध्यायः । भूतशुद्धिवर्णनम् ।,0,16815,श्रीनारायण उवाच । भूतशुद्धिप्रकारं च कथयामि महामुने । मूलाधारात्समुत्थाय कुण्डलीं परदेवताम् ॥ 1॥ 11,११.८,अष्टमोऽध्यायः । भूतशुद्धिवर्णनम् ।,1,16816,सुषुम्णामार्गमाश्रित्य ब्रह्मरन्ध्रगतां स्मरेत् । जीवं ब्रह्मणि संयोज्य हंसमन्त्रेण साधकः ॥ 2॥ 11,११.८,अष्टमोऽध्यायः । भूतशुद्धिवर्णनम् ।,2,16817,पादादिजानुपर्यन्तं चतुष्कोणं सवज्रकम् । लं बीजाख्यं स्वर्णवर्णं स्मरेदवनिमण्डलम् ॥ 3॥ 11,११.८,अष्टमोऽध्यायः । भूतशुद्धिवर्णनम् ।,3,16818,जान्वाद्यानाभिचन्द्रार्धनिभं पद्मद्वयाङ्कितम् । वं बीजयुक्तं श्वेताभमम्भसो मण्डलं स्मरेत् ॥ 4॥ 11,११.८,अष्टमोऽध्यायः । भूतशुद्धिवर्णनम् ।,4,16819,नाभेर्हृदयपर्यन्तं त्रिकोणं स्वस्तिकान्वितम् । रं बीजेन युतं रक्तं स्मरेत्पावकमण्डलम् ॥ 5॥ 11,११.८,अष्टमोऽध्यायः । भूतशुद्धिवर्णनम् ।,5,16820,हृदो भूमध्यपर्यन्तं वृत्तं षड्बिन्दुलाञ्छितम् । यं बीजयुक्तं धूम्राभं नभस्वन्मण्डलं स्मरेत् ॥ 6॥ 11,११.८,अष्टमोऽध्यायः । भूतशुद्धिवर्णनम् ।,6,16821,आब्रह्मरन्ध्रं भ्रूमध्याद्वृत्तं स्वच्छं मनोहरम् । हं बीजयुक्तमाकाशमण्डलं च विचिन्तयेत् ॥ 7॥ 11,११.८,अष्टमोऽध्यायः । भूतशुद्धिवर्णनम् ।,7,16822,एवं भूतानि सञ्चिन्त्य प्रत्येकं संविलापयेत् । भुवं जले जलं वह्नौ वह्निं वायौ नभस्यमुम् ॥ 8॥ 11,११.८,अष्टमोऽध्यायः । भूतशुद्धिवर्णनम् ।,8,16823,विलाप्य खमहङ्कारे महत्तत्त्वेऽप्यहङ्कृतिम् । महान्तं प्रकृतौ मायामात्मनि प्रविलापयेत् ॥ 9॥ 11,११.८,अष्टमोऽध्यायः । भूतशुद्धिवर्णनम् ।,9,16824,शुद्धसंविन्मयो भूत्वा चिन्तयेत्पापपूरुषम् । वामकुक्षिस्थितं कृष्णमङ्गुष्ठपरिमाणकम् ॥ 10॥ 11,११.८,अष्टमोऽध्यायः । भूतशुद्धिवर्णनम् ।,10,16825,ब्रह्महत्याशिरोयुक्तं कनकस्तेयबाहुकम् । मदिरापानहृदयं गुरुतल्पकटीयुतम् ॥ 11॥ 11,११.८,अष्टमोऽध्यायः । भूतशुद्धिवर्णनम् ।,11,16826,तत्संसर्गिपदद्वन्द्वमुपपातकमस्तकम् । खड्गचर्मधरं कृष्णमधोवक्त्रं सुदुःसहम् ॥ 12॥ 11,११.८,अष्टमोऽध्यायः । भूतशुद्धिवर्णनम् ।,12,16827,वायुबीजं स्मरन्वायुं सम्पूर्यैनं विशोषयेत् । स्वशरीरयुतं मन्त्रो वह्निबीजेन निर्दहेत् ॥ 13॥ 11,११.८,अष्टमोऽध्यायः । भूतशुद्धिवर्णनम् ।,13,16828,कुम्भके परिजप्तेन ततः पापनरोद्भवम् । बहिर्भस्म समुत्सार्य वायुबीजेन रेचयेत् ॥ 14॥ 11,११.८,अष्टमोऽध्यायः । भूतशुद्धिवर्णनम् ।,14,16829,सुधाबीजेन देहोत्थं भस्म सम्प्लावयेत्सुधीः । भूबीजेन घनीकृत्य भस्म तत्कनकाण्डवत् ॥ 15॥ 11,११.८,अष्टमोऽध्यायः । भूतशुद्धिवर्णनम् ।,15,16830,विशुद्धमुकुराकारं जपन्बीजं विहायसः । मूर्धादिपादपर्यन्तान्यङ्गानि रचयेत्सुधीः ॥ 16॥ 11,११.८,अष्टमोऽध्यायः । भूतशुद्धिवर्णनम् ।,16,16831,आकाशादीनि भूतानि पुनरुत्पादयेच्चितः । सोऽहं मन्त्रेण चात्मानमानयेद्धृदयाम्बुजे ॥ 17॥ 11,११.८,अष्टमोऽध्यायः । भूतशुद्धिवर्णनम् ।,17,16832,कुण्डलीजीवमादाय परसङ्गात्सुधामयम् । संस्थाप्य हृदयाम्भोजे मूलाधारगतां स्मरेत् ॥ 18॥ 11,११.८,अष्टमोऽध्यायः । भूतशुद्धिवर्णनम् ।,18,16833,रक्ताम्भोधिस्थपोतोल्लसदरुण- सरोजाधिरूढा कराब्जैः शूलं कोदण्डमिक्षूद्भवमणिगुण- मप्यङ्कुशं पञ्चबाणान् । बिभ्राणासृक्कपालं त्रिनयन- लसिता पीनवक्षोरुहाढ्या देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः ॥ 19॥ 11,११.८,अष्टमोऽध्यायः । भूतशुद्धिवर्णनम् ।,19,16834,एवं ध्यात्वा प्राणशक्तिं परमात्मस्वरूपिणीम् । विभूतिधारणं कार्यं सर्वाधिकृतिसिद्धये ॥ 20॥ 11,११.८,अष्टमोऽध्यायः । भूतशुद्धिवर्णनम् ।,20,16835,विभूतेर्विस्तरं वक्ष्ये धारणे च महाफलम् । श्रुतिस्मृतिप्रमाणोक्तं भस्मधारणमुत्तमम् ॥ 21॥ 11,११.८,अष्टमोऽध्यायः । भूतशुद्धिवर्णनम् ।,21,16836,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे भूतशुद्धिवर्णनं नामाष्टमोऽध्यायः ॥ ११.८॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,0,16837,श्रीनारायण उवाच । इदं शिरोव्रतं चीर्णं विधिवद्यैर्द्विजातिभिः । तेषामेव परां विद्यां वदेदज्ञानबाधिकाम् ॥ 1॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,1,16838,विधिवच्छ्रद्धया सार्धं न चीर्णं यैः शिरोव्रतम् । श्रौतस्मार्तसमाचारस्तेषामनुपकारकः ॥ 2॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,2,16839,शिरोव्रतसमाचारादेव ब्रह्मादिदेवताः । देवता अभवन्विद्वन् खलु नान्येन हेतुना ॥ 3॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,3,16840,शिरोव्रतस्य माहात्म्यं पूर्वैः पूर्वतरं कृतम् । ब्रह्मा विष्णुश्च रुद्रश्च देवताः सकला अपि ॥ 4॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,4,16841,सर्वपातकयुक्तोऽपि मुच्यते सर्वपातकैः । शिरोव्रतमिदं येन चरितं विधिवद्बुधैः ॥ 5॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,5,16842,शिरोव्रतमिदं नाम शिरस्याथर्वणश्रुतेः । यदुक्तं तद्धि नैवान्यत्तत्तु पुण्येन लभ्यते ॥ 6॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,6,16843,शाखाभेदेषु नामानि व्रतस्यास्य विभेदतः । पठ्यन्ते मुनिशार्दूल शाखास्वेकव्रतं हि तत् ॥ 7॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,7,16844,सर्वशाखासु वस्त्वेकं शिवाख्यं सत्यचिद्घनम् । तथा तद्विषयं ज्ञानं तथैव च शिरोतव्रतम् ॥ 8॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,8,16845,शिरोव्रतविहीनस्तु सर्वधर्मविवर्जितः । अपि सर्वासु विद्यासु सोऽधिकारी न संशयः ॥ 9॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,9,16846,शिरोव्रतमिदं कार्यं पापकान्तारदाहकम् । साधनं सर्वविद्यानां यतस्तत्सम्यगाचरेत् ॥ 10॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,10,16847,श्रुतिराथर्वणी सूक्ष्मा सूक्ष्मार्थस्य प्रकाशिनी । यदुवाच व्रतं प्रीत्या तन्नित्यं सम्यगाचरेत् ॥ 11॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,11,16848,अग्निरित्यादिभिर्मन्त्रैः षड्भिः शुद्धेन भस्मना । सर्वाङ्गोद्धूलनं कुर्याच्छिरोव्रतसमाह्वयम् ॥ 12॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,12,16849,एतच्छिरोव्रतं कुर्यात्सन्ध्याकालेषु सादरम् । यावद्विद्योदयस्तावत्तस्य विद्या खलूत्तमा ॥ 13॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,13,16850,द्वादशाब्दमथाब्दं वा तदर्धं च तदर्धकम् । प्रकुर्याद्द्वादशाहं वा सङ्कल्पेन शिरोव्रतम् ॥ 14॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,14,16851,शिरोव्रतेन यः स्नातस्तं तु नोपदिशेत्तु यः । तस्य विद्या विनष्टा स्यान्निर्घृणः स गुरुः खलु ॥ 15॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,15,16852,ब्रह्मविद्यागुरुः साक्षान्मुनिः कारुणिकः खलु । यथा सर्वेश्वरः श्रीमान्मृदुः कारुणिकः खलु ॥ 16॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,16,16853,जन्मान्तरसहस्रेषु नरा ये धर्मचारिणः । तेषामेव खलु श्रद्धा जायते न कदाचन ॥ 17॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,17,16854,प्रत्युताज्ञानबाहुल्याद्द्वेष एव विजायते । अतः प्रद्वेषयुक्तस्य न भवेदात्मवेदनम् ॥ 18॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,18,16855,ब्रह्मविद्योपदेशस्य साक्षादेवाधिकारिणः । त एव नेतरे विद्वन् ये तु स्नाताः शिरोव्रतैः ॥ 19॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,19,16856,व्रतं पाशुपतं चीर्णं यैर्द्विजैरादरेण तु । तेषामेवोपदेष्टव्यमिति वेदानुशासनम् ॥ 20॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,20,16857,यः पशुस्तत्पशुत्वं च व्रतेनानेन सन्त्यजेत् । तान्हत्वा न स पापीयान्भवेद्वेदान्तनिश्चयः ॥ 21॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,21,16858,त्रिपुण्ड्रधारणं प्रोक्तं जाबालैरादरेण तु । त्रियम्बकेन मन्त्रेण सतारेण शिवेन च ॥ 22॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,22,16859,त्रिपुण्ड्रं धारयेन्नित्यं गहस्थाश्रममाश्रितः । ओङ्कारेण त्रिरुक्तेन सहंसेन त्रिपुण्ड्रकम् ॥ 23॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,23,16860,धारयेद्भिक्षुको नित्यमिति जाबालिकी श्रुतिः । त्रियम्बकेन मन्त्रेण प्रणवेन शिवेन च ॥ 24॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,24,16861,गृहस्थश्च वानप्रस्थो धारयेच्च त्रिपुण्ड्रकम् । मेधावीत्यादिना वापि ब्रह्मचारी दिने दिने ॥ 25॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,25,16862,भस्मना सजलेनापि धारयेच्च त्रिपुण्ड्रकम् । ब्राह्मणो विधिनोत्पन्नस्त्रिपुण्ड्रभस्मनैव तु ॥ 26॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,26,16863,ललाटे धारयेन्नित्यं तिर्यग्भस्मावगुण्ठनम् । (महादेवस्य सम्बन्धात्तद्धर्मेऽप्यस्ति सङ्गतिः ।) सम्यक् त्रिपुण्ड्रधर्मं च ब्राह्मणो नित्यमाचरेत् ॥ 27॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,27,16864,आदिब्राह्मणभूतेन त्रिपुण्ड्रं भस्मना धृतम् । यतोऽत एव विप्रस्तु त्रिपुण्ड्रं धारयेत्सदा ॥ 28॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,28,16865,भस्मना वेदसिद्धेन त्रिपुण्ड्रं देहगुण्ठनम् । रुद्रलिङ्गार्चनं वापि मोहतोऽपि च न त्यजेत् ॥ 29॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,29,16866,त्रियम्बकेन मन्त्रेण सतारेण तथैव च । पञ्चाक्षरेण मन्त्रेण प्रणवेन तथैव च ॥ 30॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,30,16867,ललाटे हृदये चैव दोर्द्वन्द्वे च महामुने । त्रिपुण्ड्रं धारयेन्नित्यं संन्यासाश्रममाश्रितः ॥ 31॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,31,16868,त्रियायुषेण मन्त्रेण मेधावीत्यादिनाथवा । गौणेन भस्मना धार्यं त्रिपुण्ड्रं ब्रह्मचारिणा ॥ 32॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,32,16869,नमोऽन्तेन शिवेनैव शूद्रः शुश्रूषणे रतः । उद्धूलनं त्रिपुण्ड्रं च नित्यं भक्त्या समाचरेत् ॥ 33॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,33,16870,अन्येषामपि सर्वेषां विना मन्त्रेण सुव्रत । उद्धूलनं त्रिपुण्ड्रं च कर्तव्यं भक्तितो मुने ॥ 34॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,34,16871,भूत्यैवोद्धूलनं तिर्यक् त्रिपुण्ड्रस्य च धारणम् । वरेण्यं सर्वधर्मेभ्यस्तस्मान्नित्यं समाचरेत् ॥ 35॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,35,16872,भस्माग्निहोत्रजं वाथ विरजाग्निसमुद्भवम् । आदरेण समादाय शुद्धे पात्रे निधाय तत् ॥ 36॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,36,16873,प्रक्षाल्य पादौ हस्तौ च द्विराचम्य समाहितः । गृहीत्वा भस्म तत्पञ्चब्रह्ममन्त्रैः शनैः शनैः ॥ 37॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,37,16874,प्राणायामत्रयं कृत्वा अग्निरित्यादिमन्त्रितम् । तैरेव सप्तभिर्मन्त्रैस्त्रिवारमभिमन्त्रयेत् ॥ 38॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,38,16875,ओमापोज्योतिरित्युक्त्वा ध्यात्वा मन्त्रानुदीरयेत् । सितेन भस्मना पूर्वं समुद्धूल्य शरीरकम् ॥ 39॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,39,16876,विपापो विरजो मर्त्यो जायते नात्र संशयः । ततो ध्यात्वा महाविष्णुं जगन्नाथं जलाधिपम् ॥ 40॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,40,16877,संयोज्य भस्मना तोयमग्निरित्यादिभिः पुनः । विमृज्य साम्बं ध्यात्वा च समुद्धूल्योर्ध्वमस्तकम् ॥ 41॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,41,16878,तेन भावनया ब्राह्मभूतेन सितभस्मना । ललाटवक्षःस्कन्धेषु स्वाश्रमोचितमन्त्रतः ॥ 42॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,42,16879,मध्यमानामिकाङ्गुष्ठैरनुलोमविलोमतः । त्रिपुण्ड्रं धारयेन्नित्यं त्रिकालेष्वपि भक्तितः ॥ 43॥ 11,११.९,नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।,43,16880,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे सशिरोव्रतं त्रिपुण्डधारणवर्णनं नाम नवमोऽध्यायः ॥ ११.९॥ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,0,16881,श्रीनारायण उवाच । आग्नेयं गौणमज्ञानध्वंसकं ज्ञानसाधकम् । गौणं नानाविधं विद्धि ब्रह्मन्ब्रह्मविदांवर ॥ 1॥ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,1,16882,अग्निहोत्राग्निजं तद्वद्विरजानलजं मुने । औपासनसमुत्पन्नं समिदग्निसमुद्भवम् ॥ 2॥ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,2,16883,पचनाग्निसमुत्पन्नं दावानलसमुद्भवम् । त्रैवर्णिकानां सर्वेषामग्निहोत्रसमुद्भवम् ॥ 3॥ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,3,16884,विरजानलजं चैव धार्यं भस्म महामुने । औपासनसमुत्पन्नं गृहस्थानां विशेषतः ॥ 4॥ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,4,16885,समिदग्निसमुत्पन्नं धार्यं वै ब्रह्मचारिणा । शूद्राणां श्रोत्रियागारपचनाग्निसमुद्भवम् ॥ 5॥ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,5,16886,अन्येषामपि सर्वेषां धार्यं दावानलोद्भवम् । कालश्चित्रा पौर्णमासी देशः स्वीयः परिग्रहः ॥ 6॥ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,6,16887,क्षेत्रारामाद्यरण्यं वा प्रशस्तः शुभलक्षणः । तत्र पूर्वत्रयोदश्यां सुस्नातः सुकृताह्निकः ॥ 7॥ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,7,16888,अनुज्ञाप्य स्वमाचार्यं सम्पूज्य प्रणिपत्य च । पूजां वैशेषिकीं कृत्वा शुक्लाम्बरधरः स्वयम् ॥ 8॥ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,8,16889,शुद्धयज्ञोपवीती च शुक्लमाल्यानुलेपनः । दर्भासने समासीनो दर्भमुष्टिं प्रगृह्य च ॥ 9॥ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,9,16890,प्राणायामत्रयं कृत्वा प्राङ्मुखो वाप्युदङ्मुखः । ध्यात्वा देवं च देवीं च तद्विज्ञापनवर्त्मना ॥ 10॥ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,10,16891,व्रतमेतत्करोमीति भवेत्सङ्कल्पदीक्षितः । यावच्छरीरपातं वा द्वादशाब्दमथापि वा ॥ 11॥ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,11,16892,तदर्धं वा तदर्धं वा मासद्वादशकं तु वा । तदर्धं वा तदर्धं वा मासमेकमथापि वा ॥ 12॥ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,12,16893,दिनद्वादशकं वापि दिनषट्कमथापि वा । तदर्धं दिनमेकं वा व्रतसङ्कल्पनावधि ॥ 13॥ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,13,16894,अग्निमाधाय विधिवद्विरजाहोमकारणात् । हुत्वाऽऽज्येन समिद्भिश्च चरुणा च यथाविधि ॥ 14॥ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,14,16895,पूताहात्पुरतो भूयस्तत्त्वानां शुद्धिमुद्दिशन् । जुहुयान्मूलमन्त्रेण तैरेव समिदादिभिः ॥ 15॥ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,15,16896,तत्त्वान्येतानि मे देहे शुध्यन्तामित्यनुस्मरन् । पश्चाद्भूतादितन्मात्राः पञ्चकर्मेन्द्रियाणि च ॥ 16॥ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,16,16897,ज्ञानकर्मविभेदेन पञ्च पञ्च विभागशः । त्वगादिधातवः सप्त पञ्च प्राणादिवायवः ॥ 17॥ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,17,16898,मनो बुद्धिरहङ्कारो गुणाः प्रकृतिपूरुषौ । रागो विद्या कला चैव नियतिः काल एव च ॥ 18॥ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,18,16899,माया च शुद्धविद्या च महेश्वरसदाशिवौ । शक्तिश्च शिवतत्त्वं च तत्त्वानि क्रमशो विदुः ॥ 19॥ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,19,16900,मन्त्रैस्तु विरजैर्हुत्वा होतासौ विरजो भवेत् । अथ गोमयमादाय पिण्डीकृत्याभिमन्त्र्य च ॥ 20॥ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,20,16901,न्यस्याग्नौ तं च संरक्ष्य दिने तस्मिन् हविष्यभुक् । प्रभाते च चतुर्दश्यां कृत्वा सर्वं पुरोदितम् ॥ 21॥ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,21,16902,तस्मिन्दिने निराहारः कालशेषं समापयेत् । प्रातः पर्वणि चाप्येवं कृत्वा होमावसानतः ॥ 22॥ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,22,16903,उपसंहृत्य रुद्राग्निं गृहीत्वा भस्म यत्नतः । ततश्च जटिलो मुण्डः शिखैकजट एव च ॥ 23॥ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,23,16904,भूत्वा स्नात्वा पुनर्वीतलज्जश्चेत्स्याद्दिगम्बरः । अन्यः काषायवसनश्चर्मचीराम्बरोऽथवा ॥ 24॥ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,24,16905,एकाम्बरो वल्कलवान्भवेद्दण्डी च मेखली । प्रक्षाल्य चरणौ पश्चाद्द्विराचम्यात्मनस्तनुम् ॥ 25॥ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,25,16906,सङ्कलीकृत्य तद्भस्म विरजानलसम्भवम् । अग्निरित्यादिभिर्मन्त्रैः षड्भिराथर्वणैः क्रमात् ॥ 26॥ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,26,16907,विमृज्याङ्गानि मूर्धादिचरणान्तं च तैः स्पृशेत् । ततस्तेन क्रमेणैव समुद्धूल्य च भस्मना ॥ 27॥ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,27,16908,सर्वाङ्गोद्धूलनं कुर्यात्प्रणवेन शिवेन वा । ततश्च पुण्ड्रं रचयेत्त्रियायुषसमाह्वयम् ॥ 28॥ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,28,16909,शिवभावं समागम्य शिवभावमथाचरेत् । कुर्यात्त्रिसन्ध्यमप्येवमेतत्पाशुपतं व्रतम् ॥ 29॥ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,29,16910,भुक्तिमुक्तिप्रदं चैव पशुत्वं विनिवर्तयेत् । तत्पशुत्वं परित्यज्य कृत्वा पाशुपतं व्रतम् ॥ 30॥ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,30,16911,पूजनीयो महादेवो लिङ्गमूर्तिः सदाशिवः । भस्मस्नानं महापुण्यं सर्वसौख्यकरं परम् ॥ 31॥ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,31,16912,आयुष्यं बलमारोग्यं श्रीपुष्टिवर्धनं यतः । रक्षार्थं मङ्गलार्थं च सर्वसम्पत्समृद्धये ॥ 32॥ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,32,16913,भस्मस्निग्धमनुष्याणां महामारीभयं न च । शान्तिकं पौष्टिकं भस्म कामदं च त्रिधा भवेत् ॥ 33॥ 11,११.१०,दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।,33,16914,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे भस्ममाहात्म्ये पाशुपतव्रतवर्णनं नाम दशमोऽध्यायः ॥ ११.१०॥ 11,११.११,एकादशोऽध्यायः । त्रिविधभस्ममाहात्म्यवर्णनम् ।,0,16915,नारद उवाच । त्रिविधत्वं कथं चास्य भस्मनः परिकीर्तितम् । एतत्कथय मे देव महत्कौतूहलं मम ॥ 1॥ 11,११.११,एकादशोऽध्यायः । त्रिविधभस्ममाहात्म्यवर्णनम् ।,1,16916,श्रीनारायण उवाच । त्रिविधत्वं प्रवक्ष्यामि देवर्षे भस्मनः श‍ृणु । महापापक्षयकरं महाकीर्तिकरं परम् ॥ 2॥ 11,११.११,एकादशोऽध्यायः । त्रिविधभस्ममाहात्म्यवर्णनम् ।,2,16917,गोमयं योनिसम्बद्धं तद्धस्तेनैव गृह्यते । ब्राह्मैर्मन्त्रैस्तु सन्दग्धं तच्छान्तिकृदिहोच्यते ॥ 3॥ 11,११.११,एकादशोऽध्यायः । त्रिविधभस्ममाहात्म्यवर्णनम् ।,3,16918,सावधानस्तु गृह्णीयान्नरो वै गोमयं तु यत् । अन्तरिक्षे गृहीत्वा तत्षडङ्गेन दहेदतः ॥ 4॥ 11,११.११,एकादशोऽध्यायः । त्रिविधभस्ममाहात्म्यवर्णनम् ।,4,16919,पौष्टिकं तत्समाख्यातं कामदं च ततः श‍ृणु । प्रासादेन दहेदेतत्कामदं भस्म कीर्तितम् ॥ 5॥ 11,११.११,एकादशोऽध्यायः । त्रिविधभस्ममाहात्म्यवर्णनम् ।,5,16920,प्रातरुत्थाय देवर्षे भस्मव्रतपरः शुचिः । गवां गोष्ठेषु गत्वा तु नमस्कृत्य तु गोकुलम् ॥ 6॥ 11,११.११,एकादशोऽध्यायः । त्रिविधभस्ममाहात्म्यवर्णनम् ।,6,16921,गवां वर्णानुरूपाणां गृह्णीयाद्गोमयं शुभम् । ब्राह्मणस्य च गौः श्वेता रक्ता गौः क्षत्रियस्य च ॥ 7॥ 11,११.११,एकादशोऽध्यायः । त्रिविधभस्ममाहात्म्यवर्णनम् ।,7,16922,पीतवर्णा तु वैश्यस्य कृष्णा शूद्रस्य कथ्यते । पौर्णमास्याममावास्यामष्टम्यां वा विशुद्धधीः ॥ 8॥ 11,११.११,एकादशोऽध्यायः । त्रिविधभस्ममाहात्म्यवर्णनम् ।,8,16923,प्रासादेन तु मन्त्रेण गृहीत्वा गोमयं शुभम् । हृदयेन तु मन्त्रेण पिण्डीकृत्य तु गोमयम् ॥ 9॥ 11,११.११,एकादशोऽध्यायः । त्रिविधभस्ममाहात्म्यवर्णनम् ।,9,16924,रविरश्मिसुसन्तप्तं शुचौ देशे मनोहरे । तुषेण वा बुसैर्वापि प्रासादेन तु निक्षिपेत् ॥ 10॥ 11,११.११,एकादशोऽध्यायः । त्रिविधभस्ममाहात्म्यवर्णनम् ।,10,16925,अरण्युद्भवमग्निं वा श्रोत्रियागारजं तु वा । तदग्नौ विन्यसेत्तं च शिवबीजेन मन्त्रतः ॥ 11॥ 11,११.११,एकादशोऽध्यायः । त्रिविधभस्ममाहात्म्यवर्णनम् ।,11,16926,गृह्णीयादथ तत्राग्निकुण्डाद्भस्म विचक्षणः । नवपात्रं समादाय प्रासादेन तु निक्षिपेत् ॥ 12॥ 11,११.११,एकादशोऽध्यायः । त्रिविधभस्ममाहात्म्यवर्णनम् ।,12,16927,केतकी पाटली तद्वदुशीरं चन्दनं तथा । नानासुगन्धिद्रव्याणि काश्मीरप्रभृतीनि च ॥ 13॥ 11,११.११,एकादशोऽध्यायः । त्रिविधभस्ममाहात्म्यवर्णनम् ।,13,16928,निक्षिपेत्तत्र पात्रे तु सद्योमन्त्रेण शुद्धधीः । जलस्नानं पुरा कृत्वा भस्मस्नानमतः परम् ॥ 14॥ 11,११.११,एकादशोऽध्यायः । त्रिविधभस्ममाहात्म्यवर्णनम् ।,14,16929,जलस्नाने त्वशक्तश्च भस्मस्नानं समाचरेत् । प्रक्षाल्य पादौ हस्तौ च शिरश्चेशानमन्त्रतः ॥ 15॥ 11,११.११,एकादशोऽध्यायः । त्रिविधभस्ममाहात्म्यवर्णनम् ।,15,16930,समुद्धूल्य ततः पश्चादाननं तत्पुरुषेण तु । अघोरेण तु हृदयं नाभिं वामेन तत्परम् ॥ 16॥ 11,११.११,एकादशोऽध्यायः । त्रिविधभस्ममाहात्म्यवर्णनम् ।,16,16931,सद्योमन्त्रेण सर्वाङ्गं समूद्धूल्य विचक्षणः । पूर्ववस्त्रं परित्यज्य शुद्धवस्त्रं परिग्रहेत् ॥ 17॥ 11,११.११,एकादशोऽध्यायः । त्रिविधभस्ममाहात्म्यवर्णनम् ।,17,16932,प्रक्षाल्य पादौ हस्तौ च पश्चादाचमनं चरेत् । भस्मनोद्धूलनाभावे त्रिपुण्ड्रं तु विधीयते ॥ 18॥ 11,११.११,एकादशोऽध्यायः । त्रिविधभस्ममाहात्म्यवर्णनम् ।,18,16933,मध्याह्नात्प्राग्जलैर्युक्तं परतो जलवर्जितम् । तर्जन्यनामिकामध्यैस्त्रिपुण्ड्रं च समाचरेत् ॥ 19॥ 11,११.११,एकादशोऽध्यायः । त्रिविधभस्ममाहात्म्यवर्णनम् ।,19,16934,मूर्ध्नि चैव ललाटे च कर्णे कण्ठे तथैव च । हृदये चैव बाह्वोश्च न्यासस्थानं हि चोच्यते ॥ 20॥ 11,११.११,एकादशोऽध्यायः । त्रिविधभस्ममाहात्म्यवर्णनम् ।,20,16935,पञ्चाङ्गुलैर्न्यसेन्मूर्ध्नि प्रासादेन तु मन्त्रतः । त्र्यङ्गुलैर्विन्यसेद्भाले शिरोमन्त्रेण देशिकः ॥ 21॥ 11,११.११,एकादशोऽध्यायः । त्रिविधभस्ममाहात्म्यवर्णनम् ।,21,16936,सद्येन दक्षिणे कर्णे वामदेवेन वामतः । अघोरेण तु कण्ठे च मध्याङ्गुल्या स्पृशेद्बुधः ॥ 22॥ 11,११.११,एकादशोऽध्यायः । त्रिविधभस्ममाहात्म्यवर्णनम् ।,22,16937,हृदयं हृदयेनैव त्रिभिरङ्गुलिभिः स्पृशेत् । विन्यसेद्दक्षिणे बाहौ शिखामन्त्रेण देशिकः ॥ 23॥ 11,११.११,एकादशोऽध्यायः । त्रिविधभस्ममाहात्म्यवर्णनम् ।,23,16938,वामबाहौ न्यसेद्धीमान्कवचेन त्रियङ्गुलैः । मध्येन संस्पृशेन्नाभ्यामीशान इति मन्त्रतः ॥ 24॥ 11,११.११,एकादशोऽध्यायः । त्रिविधभस्ममाहात्म्यवर्णनम् ।,24,16939,ब्रह्मविष्णुमहेशानास्तिस्रो रेखा इति स्मृताः । आद्यो ब्रह्मा ततो विष्णुस्तदूर्ध्वं तु महेश्वरः ॥ 25॥ 11,११.११,एकादशोऽध्यायः । त्रिविधभस्ममाहात्म्यवर्णनम् ।,25,16940,एकाङ्गुलेन न्यस्तं यदीश्वरस्तत्र देवता । शिरोमध्ये त्वयं ब्रह्मा ईश्वरस्तु ललाटके ॥ 26॥ 11,११.११,एकादशोऽध्यायः । त्रिविधभस्ममाहात्म्यवर्णनम् ।,26,16941,कर्णयोरश्विनौ देवौ गणेशस्तु गले तथा । क्षत्रियश्च तथा वैश्यः शूद्रश्चोद्धूलनं त्यजेत् ॥ 27॥ 11,११.११,एकादशोऽध्यायः । त्रिविधभस्ममाहात्म्यवर्णनम् ।,27,16942,सर्वेषामन्त्यजातीनां मन्त्रेण रहितं भवेत् । (अदीक्षितं मनुष्याणामपि मन्त्रं विना भवेत्) ॥ 28॥ 11,११.११,एकादशोऽध्यायः । त्रिविधभस्ममाहात्म्यवर्णनम् ।,28,16943,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे त्रिविधभस्ममाहात्म्यवर्णनं नामकादशोऽध्यायः ॥ ११.११॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,0,16944,श्रीनारायण उवाच । देवर्षे श‍ृणु तत्सर्वं भस्मोद्धूलनजं फलम् । सरहस्यविधानं च सर्वकामफलप्रदम् ॥ 1॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,1,16945,कपिलायाः शकृत्स्वच्छं गृहीत्वा गगनेऽपतत् । न क्लिन्नं नापि कठिनं न दुर्गन्धं न चोषितम् ॥ 2॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,2,16946,उपर्यधः परित्यज्य गह्णीयात्पतितं यदि । पिण्डीकृत्य शिवाग्न्यादौ तत्क्षिपेन्मूलमन्त्रितम् ॥ 3॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,3,16947,आदाय वाससाऽऽच्छाद्य भस्माधाने विनिक्षिपेत् । सुकृते सुदृढे शुद्धे क्षालिते प्रोक्षिते शुभे ॥ 4॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,4,16948,विन्यस्य मन्त्री मन्त्रेण पात्रे भस्म विनिक्षिपेत् । तैजसं दारवं चाथ मृण्मयं चैलमेव च ॥ 5॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,5,16949,अन्यद्वा शोभनं शुद्धं भस्माधारं प्रकल्पयेत् । क्षौमे चैवातिशुद्धे वा धनवद्भस्म निक्षिपेत् ॥ 6॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,6,16950,प्रस्थितो भस्म गृह्णीयात्स्वयं चानुचरोऽपि वा । न चायुक्तकरे दद्यान्न चाशुचितले क्षिपेत् ॥ 7॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,7,16951,न संस्पृशेत्तु नीचाङ्गैर्न क्षिपेन्न च लङ्घयेत् । तस्माद्भसितमादाय विनियुञ्जीत मन्त्रितम् ॥ 8॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,8,16952,विभूतिधारणविधिः स्मृतिप्रोक्तो मयेरितः । यदीयाचरणेनैव शिवतुल्यो न संशयः ॥ 9॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,9,16953,शैवैः सम्पादितं भस्म वैदिकैः शिवसन्निधौ । भक्त्या परमया ग्राह्यं प्रार्थयित्वा तु पूजयेत् ॥ 10॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,10,16954,तन्त्रोक्तवर्त्मना सिद्धं भस्म तान्त्रिकपूजकैः । यत्रकुत्रापि दत्तं चेत्तद्ग्राह्यं नैव वैदिकैः ॥ 11॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,11,16955,शूद्रैः कापालिकैर्वाथ पाखण्डैरपरैस्तु तत् । त्रिपुण्ड्रं धारयेद्भक्त्या मनसापि न लङ्घयेत् ॥ 12॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,12,16956,श्रुत्या विधीयते यस्मात्तत्त्यागी पतितो भवेत् । त्रिपुण्ड्रधारणं भक्त्या तथा देहावगुण्ठनम् ॥ 13॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,13,16957,द्विजः कुर्याद्धि मन्त्रेण तत्त्यागी पतितो भवेत् । उद्धूलनं त्रिपुण्ड्रं च भक्त्या नैवाचरन्ति ये ॥ 14॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,14,16958,तेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः । येन भस्मोक्तमार्गेण धृतं न मुनिपुङ्गव ॥ 15॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,15,16959,तस्य विद्धि मुने जन्म निष्कलं सौकरं यथा । येषां वपुर्मनुष्याणां त्रिपुण्ड्रेण विना स्थितम् ॥ 16॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,16,16960,श्मशानसदृशं तत्स्यान्न प्रेक्ष्यं पुण्यकृज्जनैः । धिग्भस्मरहितं भालं धिग्ग्राममशिवालयम् ॥ 17॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,17,16961,धिगनीशार्चनं जन्म धिग्विद्यामशिवाश्रयाम् । त्रिपुण्ड्रं ये विनिन्दन्ति निन्दन्ति शिवमेव ते ॥ 18॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,18,16962,धारयन्ति च ये भक्त्या धारयन्ति तमेव ते । यथा कृशानुरहितो भूधरो न विराजते ॥ 19॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,19,16963,अशेषसाधनेऽप्येवं भस्महीनं शिवार्चनम् । उद्धूलनं त्रिपुण्ड्रं च श्रद्धया नाचरन्ति ये ॥ 20॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,20,16964,तैः पूर्वाचरितं सर्वं विपरीतं भवेदपि । भस्मना वेदमन्त्रेण त्रिपुण्ड्रस्य च धारणम् ॥ 21॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,21,16965,विना वेदोचिताचारं स्मार्तस्यानर्थकारणम् । कृतं स्यादकृतं तेन श्रुतमप्यश्रुतं भवेत् ॥ 22॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,22,16966,अधीतमनधीतं च त्रिपुण्ड्रं यो न धारयेत् । वृथा वेदा वृथा यज्ञा वृथा दानं वृथा तपः ॥ 23॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,23,16967,वृथा व्रतोपवासेन त्रिपुण्ड्रं यो न धारयेत् । भस्मधारणकं त्यक्त्वा मुक्तिमिच्छति यः पुमान् ॥ 24॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,24,16968,विषपानेन नित्यत्वं कुरुते ह्यात्मनो हि सः । स्रष्टा सृष्टिच्छलेनाह त्रिपुण्ड्रस्य च धारणम् ॥ 25॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,25,16969,ससर्ज स ललाटं हि तिर्यगूर्ध्वं न वर्तुलम् । तिर्यग्रेखाः प्रदृश्यन्ते ललाटे सर्वदेहिनाम् ॥ 26॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,26,16970,तथापि मानवा मूर्खा न कुर्वन्ति त्रिपुण्ड्रकम् । न तद्ध्यानं न तन्मोक्षं न तज्ज्ञानं न तत्तपः ॥ 27॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,27,16971,विना तिर्यक्त्रिपुण्ड्रं च विप्रेण यदनुष्ठितम् । वेदस्याध्ययने शूद्रो नाधिकारी यथा भवेत् ॥ 28॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,28,16972,त्रिपुण्ड्रेण विना विप्रो नाधिकारी शिवार्चने । प्राङ्मुखश्चरणौ हस्तौ प्रक्षाल्याचम्य पूर्ववत् ॥ 29॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,29,16973,प्राणानायम्य सङ्कल्प्य भस्मस्नानं समाचरेत् । आदाय भसितं शुद्धमग्निहोत्रसमुद्भवम् ॥ 30॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,30,16974,ईशानेन तु मन्त्रेण स्वमूर्धनि विनिक्षिपेत् । तत आदाय तद्भस्म मुखे च पुरुषेण तु ॥ 31॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,31,16975,अघोराख्येण हृदये गुह्ये वामाह्वयेन च । सद्योजाताभिधानेन भस्म पादद्वये क्षिपेत् ॥ 32॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,32,16976,सर्वाङ्गं प्रणवेनैव मन्त्रेणोद्धूलनं ततः । एतदाग्नेयकं स्नानमुदितं परमर्षिभिः ॥ 33॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,33,16977,सर्वकर्मसमृद्ध्यर्थं कुर्यादादाविदं बुधः । ततः प्रक्षाल्य हस्तादीनुपस्पृश्य यथाविधि ॥ 34॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,34,16978,तिर्यक्त्रिपुण्ड्रं विधिना ललाटे हृदये गले । पञ्चभिर्ब्रह्मभिर्वापि कृतेन भसितेन च ॥ 35॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,35,16979,घृतमेतत्त्रिपुण्ड्रं स्यात्सर्वकर्मसु पावनम् । शूद्रैरन्त्यजहस्तस्थं न धार्यं भस्म च क्वचित् ॥ 36॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,36,16980,भस्मना साग्निहोत्रेण लिप्तः कर्म समाचरेत् । अन्यथा सर्वकर्माणि न फलन्ति कदाचन ॥ 37॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,37,16981,सत्यं शौचं जपो होमस्तीर्थं देवादिपूजनम् । तस्य व्यर्थमिदं सर्वं यस्त्रिपुण्ड्रं न धारयेत् ॥ 38॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,38,16982,त्रिपुण्ड्रधृग्विप्रवरो यो रुद्राक्षधरः शुचिः । स हन्ति रोगदुरितव्याधिदुर्भिक्षतस्करान् ॥ 39॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,39,16983,समाप्नोति परं ब्रह्म यतो नावर्तते पुनः । स पङ्क्तिपावनः श्राद्धे पूज्यो विप्रैः सुरैरपि ॥ 40॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,40,16984,श्राद्धे यज्ञे जपे होमे वैश्वदेवे सुरार्चने । धृतत्रिपुण्ड्रः पूतात्मा मृत्युं जयति मानवः । भस्मधारणमाहात्म्यं भूयोऽपि कथयामि ते ॥ 41॥ 11,११.१२,द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।,41,16985,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे भस्मधारणमाहाम्यवर्णनं नाम द्वादशोऽध्यायः ॥ ११.१२॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,0,16986,श्रीनारायण उवाच । महापातकसङ्घाश्च पातकान्यपराण्यपि । नश्यन्ति मुनिशार्दूल सत्यं सत्यं न चान्यथा ॥ 1॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,1,16987,एकं भस्म धृतं येन तस्य पुण्यफलं श‍ृणु । यतीनां ज्ञानदं प्रोक्तं वानस्थानां विरक्तिदम् ॥ 2॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,2,16988,गृहस्थानां मुने तद्वद्धर्मवृद्धिकरं तथा । ब्रह्मचर्याश्रमस्थानां स्वाध्यायप्रदमेव च ॥ 3॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,3,16989,शूद्राणां पुण्यदं नित्यमन्येषां पापनाशनम् । भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ 4॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,4,16990,रक्षार्थं सर्वभूतानां विधत्ते वैदिकी श्रुतिः । भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ 5॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,5,16991,यज्ञत्वेनैव सर्वेषां विधत्ते वैदिकी श्रुतिः । भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ 6॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,6,16992,सर्वधर्मतया तेषां विधत्ते वैदिकी श्रुतिः । भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ 7॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,7,16993,माहेश्वराणां लिङ्गार्थं विधत्ते वैदिकी श्रुतिः । भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ 8॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,8,16994,विज्ञानार्थं च सर्वेषां विधत्ते वैदिकी श्रुतिः । शिवेन विष्णुना चैव ब्रह्मणा वज्रिणा तथा ॥ 9॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,9,16995,हिरण्यगर्भेण तदवतारैर्वरुणादिभिः । देवताभिर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मकम् ॥ 10॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,10,16996,उमादेव्या च लक्ष्या च वाचा चान्याभिरास्तिकैः । सर्वस्त्रीभिर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना ॥ 11॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,11,16997,यक्षराक्षसगन्धर्वसिद्धविद्याधरादिभिः । मुनिभिश्च धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना ॥ 12॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,12,16998,ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रेरपि च सङ्करैः । अपभ्रंशैर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना ॥ 13॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,13,16999,उद्धूलनं त्रिपुण्ड्रं च यैः समाचरितं मुदा । त एव शिष्टा विद्वांसो नेतरे मुनिपुङ्गव ॥ 14॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,14,17000,शिवलिङ्गं मणिः सख्यं मन्त्रः पञ्चाक्षरस्तथा । विभूतिरौषधं पुंसां मुक्तिस्त्रीवश्यकर्मणि ॥ 15॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,15,17001,भुनक्ति यत्र भस्माङ्गो मूर्खो वा पण्डितोऽपि वा । तत्र भुङ्क्ते महादेवः सपत्नीको वृषध्वजः ॥ 16॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,16,17002,भस्मसञ्छन्नसर्वाङ्गमनुगच्छति यः पुमान् । सर्वपातकयुक्तोऽपि पूजितो मानवोऽचिरात् ॥ 17॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,17,17003,भस्मसञ्छन्नसर्वाङ्गं यः स्तौति श्रद्धया सह । सर्वपातकयुक्तोऽपि पूज्यते मानवोऽचिरात् ॥ 18॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,18,17004,त्रिपुण्ड्रधारिणे भिक्षाप्रदानेन हि केवलम् । तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ॥ 19॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,19,17005,येन विप्रेण शिरसि त्रिपुण्ड्रं भस्मना कृतम् । कीकटेष्वपि देशेषु यत्र भूतिविभूषणः ॥ 20॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,20,17006,मानवस्तु वसेन्नित्यं काशीक्षेत्रसमं हि तत् । दुःशीलः शीलयुक्तो वा योगयुक्तोऽप्यलक्षणः ॥ 21॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,21,17007,भूतिशासनयुक्तो वा स पूज्यो मम पुत्रवत् । छद्मनापि चरेद्यो हि भूतिशासनमैश्वरम् ॥ 22॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,22,17008,सोऽपि यां गतिमाप्नोति न तां यज्ञशतैरपि । सम्पर्काल्लीलया वापि भयाद्वा धारयेत्तु यः ॥ 23॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,23,17009,विधियुक्तो विभूतिं तु स च पूज्यो यथा ह्यहम् । शिवस्य विष्णोर्देवानां ब्रह्मणस्तृप्तिकारणम् ॥ 24॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,24,17010,पार्वत्याश्च महालक्ष्या भारत्यास्तृप्तिकारणम् । न दानेन न यज्ञेन न तपोभिः सुदुर्लभैः ॥ 25॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,25,17011,न तीर्थयात्रया पुण्यं त्रिपुण्ड्रेण च लभ्यते । दानं यज्ञाश्च धर्माश्च तीर्थयात्राश्च नारद ॥ 26॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,26,17012,ध्यानं तपस्त्रिपुण्ड्रस्य कलां नार्हन्ति षोडशीम् । यथा राजा स्वचिह्नाङ्कं स्वजनं मन्यते सदा ॥ 27॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,27,17013,तथा शिवस्त्रिपुण्ड्राङ्कं स्वकीयमिव मन्यते । द्विजातिर्वान्यजातिर्वा शुद्धचित्तेन भस्मना ॥ 28॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,28,17014,धारयेद्यस्त्रिपुण्ड्राङ्कं रुद्रस्तेन वशीकृतः । त्यक्तसर्वाश्रमाचारो लुप्तसर्वक्रियोऽपि सः ॥ 29॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,29,17015,सकृत्तिर्यक्त्रिपुण्ड्राङ्कं धारयेत्सोऽपि मुच्यते । नास्य ज्ञानं परीक्षेत न कुलं न व्रतं तथा ॥ 30॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,30,17016,त्रिपुण्ड्राङ्कितभालेन पूज्य एव हि नारद । शिवमन्त्रात्परो मन्त्रो नास्ति तुल्यं शिवात्परम् ॥ 31॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,31,17017,शिवार्चनात्परं पुण्यं न हि तीर्थं च भस्मना । रुद्राग्नेर्यत्परं तीर्थं तद्भस्म परिकीर्तितम् ॥ 32॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,32,17018,ध्वंसनं सर्वदुःखानां सर्वपापविशोधनम् । अन्त्यजो वाधमो वापि मूर्खो वा पण्डितोऽपि वा ॥ 33॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,33,17019,यस्मिन्देशे वसेन्नित्यं भूतिशासनसंयुतः । तस्मिन्सदाशिवः सोमः सर्वभूतगणैर्वृतः । सर्वतीर्थेश्च संयुक्तः सान्निध्यं कुरुते सदा ॥ 34॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,34,17020,एतानि पञ्चशिवमन्त्रपवित्रितानि भस्मानि कामदहनाङ्गविभूषितानि । त्रैपुण्ड्रकाणि रचितानि ललाटपट्टे लुम्पन्ति दैवलिखितानि दुरक्षराणि ॥ 35॥ 11,११.१३,त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।,35,17021,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे त्रिपुण्डधारणमाहात्म्यवर्णनं नाम त्रयोदशोऽध्यायः ॥ ११.१३॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,0,17022,श्रीनारायण उवाच । भस्मदिग्धशरीराय यो ददाति धनं मुदा । तस्य सर्वाणि पापानि विनश्यन्ति न संशयः ॥ 1॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,1,17023,श्रुतयः स्मृतयः सर्वाः पुराणान्यखिलान्यपि । वदन्ति भूतिमाहाम्यं तत्तस्माद्धारयेद्द्विजः ॥ 2॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,2,17024,सितेन भस्मना कुर्यात्त्रिसन्ध्यं यस्त्रिपुण्ड्रकम् । सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ 3॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,3,17025,योगी सर्वाङ्गकं स्तानमापादतलमस्तकम् । त्रिसन्ध्यमाचरेन्नित्यमाशु योगमवाप्नुयात् ॥ 4॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,4,17026,भस्मस्नानेन पुरुषः कुलस्योद्धारको भवेत् । भस्मस्नानं जलस्नानादसङ्ख्येयगुणान्वितम् ॥ 5॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,5,17027,सर्वतीर्थेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् । तत्फलं लभते सर्वं भस्मस्नानान्न संशयः ॥ 6॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,6,17028,महापातकयुक्तो वा युक्तो वाप्युपपातकैः । भस्मस्नानेन तत्सर्वं दहत्यग्निरिवेन्धनम् ॥ 7॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,7,17029,भस्मस्नानात्परं स्नानं पवित्रं नैव विद्यते । एवमुक्तं शिवेनादौ तदा स्नातः स्वयं शिवः ॥ 8॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,8,17030,तदाप्रभृति ब्रह्माद्या मुनयश्च शिवार्थिनः । सर्वकर्मसु यत्नेन भस्मस्नानं प्रचक्रिरे ॥ 9॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,9,17031,तस्मादेतच्छिरःस्नानमाग्नेयं यः समाचरेत् । अनेनैव शरीरेण स हि रुद्रो न संशयः ॥ 10॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,10,17032,ये भस्मधारिणं दृष्ट्वा परितृप्ता भवन्ति ते । देवासुरमुनीन्द्रैश्च पूज्या नित्यं न संशयः ॥ 11॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,11,17033,भस्मसञ्छन्नसर्वाङ्गं दृष्ट्वोत्तिष्ठति यः पुमान् । तं दृष्ट्वा देवराजोऽपि दण्डवत्प्रणमिष्यति ॥ 12॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,12,17034,अभक्ष्यभक्षणं येषां भस्मधारणपूर्वकम् । तेषां तद्भक्ष्यमेव स्यान्मुने नात्र विचारणा ॥ 13॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,13,17035,यः स्नाति भस्मना नित्यं जले स्नात्वा ततः परम् । ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽऽथवादरात् ॥ 14॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,14,17036,सर्वपापविनिर्मुक्तः स याति परमां गतिम् । आग्नेयं भस्मना स्नानं यतीनां च विशिष्यते ॥ 15॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,15,17037,आर्द्रस्नानाद्वरं भस्मस्नानमार्द्रवधो ध्रुवः । आर्द्रं तु प्रकृतिं विद्यात्प्रकृतिं बन्धनं विदुः ॥ 16॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,16,17038,प्रकृतेस्तु प्रहाणाय भस्मना स्नानमिष्यते । भस्मना सदृशं ब्रह्यन्नास्ति लोकत्रयेष्वपि ॥ 17॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,17,17039,रक्षार्थं मङ्गलार्थं च पवित्रार्थं पुरा सुरैः । भस्म दृष्ट्वा मुने पूर्वं दत्तं देव्यै प्रियेण तु ॥ 18॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,18,17040,तस्मादेतच्छिरःस्नानमाग्नेयं यः समाचरेत् । भवपाशैर्विनिर्मुक्तः शिवलोके महीयते ॥ 19॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,19,17041,ज्वररक्षःपिशाचाश्च पूतनाकुष्ठगुल्मकाः । भगन्दराणि सर्वाणि चाशीतिर्वातरोगकाः ॥ 20॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,20,17042,चतुःषष्टिः पित्तरोगाः श्लेष्मा सप्तत्रिपञ्चकाः । व्याघ्रचौरभयं चैवाप्यन्ये दुष्टग्रहा अपि ॥ 21॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,21,17043,भस्मस्नानेन नश्यन्ति सिंहेनैव यथा गजाः । शुद्धशीतजलेनैव भस्मना च त्रिपुण्ड्रकम् ॥ 22॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,22,17044,यो धारयेत्परं ब्रह्म स प्राप्नोति न संशयः । (भस्मना च त्रिपुण्ड्रं च यः कोऽपि धारयेत्परम् । स ब्रह्मलोकमाप्नोति मुक्तपापो न संशयः ॥) यथाविधि ललाटे वै वह्निवीर्यप्रधारणात् ॥ 23॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,23,17045,नाशयेल्लिखितां यामीं ललाटस्थां लिपिं ध्रुवम् । कण्ठोपरिकृतं पापं नाशयेत्तत्प्रधारणात् ॥ 24॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,24,17046,कण्ठे च धारणात्कण्ठभोगादिकृतपातकम् । बाह्वोर्बाहुकृतं पापं वक्षसा मनसा कृतम् ॥ 25॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,25,17047,नाभ्यां शिश्नकृतं पापं गुदे गुदकृतं हरेत् । पार्श्वयोर्धारणाद्ब्रह्मन् परस्त्र्यालिङ्गनादिकम् ॥ 26॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,26,17048,तद्भस्मधारणं शस्तं सर्वत्रैव त्रिलिङ्गकम् । ब्रह्मविष्णुमहेशानां त्रय्यग्नीनां च धारणम् ॥ 27॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,27,17049,गुणलोकत्रयाणां च धारणं तेन वै कृतम् । भस्मच्छन्नो द्विजो विद्वान्महापातकसम्भवैः ॥ 28॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,28,17050,दोषैर्वियुज्यते सद्यो मुच्यते च न संशयः । भस्मनिष्ठस्य दह्यन्ते दोषा भस्माग्निसङ्गमात् ॥ 29॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,29,17051,भस्मस्नानविशुद्धात्मा आत्मनिष्ठ इति स्मृतः । भस्मना दिग्धसर्वाङ्गो भस्मदीप्तत्रिपुण्ड्रकः ॥ 30॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,30,17052,भस्मशायी च पुरुषो भस्मनिष्ठ इति स्मृतः । भूतप्रेतपिशाचाद्या रोगाश्चातीव दुःसहाः ॥ 31॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,31,17053,भस्मनिष्ठस्य सान्निध्याद्विद्रवन्ति न संशयः । भासनाद्भसितं प्रोक्तं भस्म कल्मषभक्षणात् ॥ 32॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,32,17054,भूतिर्भूतिकरी पुंसां रक्षा रक्षाकरी पुरा । त्रिपुण्ड्रधारिणं दृष्ट्वा भूतप्रेतपुरःसराः ॥ 33॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,33,17055,भीताः प्रकम्पिताः शीघ्रं नश्यन्त्येव न संशयः । स्मरणादेव रुद्रस्य यथा पापं प्रणश्यति ॥ 34॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,34,17056,अप्यकार्यसहस्राणि कृत्वा यः स्नाति भस्मना । तत्सर्वं दहते भस्म यथाग्निस्तेजसा वनम् ॥ 35॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,35,17057,कृत्वापि चातुलं पापं मृत्युकालेऽपि यो द्विजः । भस्मस्नायी भवेत्कश्चित्क्षिप्रं पापैः प्रमुच्यते ॥ 36॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,36,17058,भस्मस्नानाद्धि शुद्धात्मा जितक्रोधो जितेन्द्रियः । मत्समीपं समागम्य न स भूयोऽभिवर्तते ॥ 37॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,37,17059,वनस्पतिगते सोमे भस्मोद्धूलितविग्रहः । अर्चितं शङ्करं दृष्ट्वा सर्वपापैः प्रमुच्यते ॥ 38॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,38,17060,आयुष्कामोऽथवा विद्वान्भूतिकामोऽथवा नरः । नित्यं वै धारयेद्भस्म मोक्षकामी च वै द्विजः ॥ 39॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,39,17061,त्रिपुण्ड्रं परमं पुण्यं ब्रह्मविष्णुशिवात्मकम् । ये घोरा राक्षसाः प्रेता ये चान्ये क्षुद्रजन्तवः ॥ 40॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,40,17062,त्रिपुण्ड्रधारणं दृष्ट्वा पलायन्ते न संशयः । कृत्वा शौचादिकं कर्म स्नात्वा तु विमले जले ॥ 41॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,41,17063,भस्मनोद्धूलनं कार्यमापादतलमस्तकम् । केवलं वारुणं स्नानं देहे बाह्यमलापहम् ॥ 42॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,42,17064,विभूतिस्तानमनघं बाह्यान्तरमलापहम् । त्यक्त्वापि वारुणं स्नानं तत्परः स्यान्न संशयः ॥ 43॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,43,17065,कृतमप्यकृतं सत्यं भस्मस्नानं विना मुने । भस्मस्नानं श्रुतिप्रोक्तमाग्नेयं स्नानमुच्यते ॥ 44॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,44,17066,अन्तर्बहिश्च संशुद्धं शिवपूजाफलं लभेत् । यद्बाह्यमलमात्रस्य नाशकं स्तानमस्ति तत् ॥ 45॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,45,17067,तन्नाशयति तीव्रेण प्राणिबाह्यान्तरं मलम् । कृत्वापि कोटिशो नित्यं वारुणं स्नानमादरात् ॥ 46॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,46,17068,न भवत्येव पूतात्मा भस्मस्नानं विना मुने । यद्भस्मस्नानमाहाम्यं तद्वेदो वेद तत्त्वतः ॥ 47॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,47,17069,यद्वा वेद महादेवः सर्वदेवशिखामणिः । भस्मस्नानमकृत्वैव यः कुर्यात्कर्म वैदिकम् ॥ 48॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,48,17070,स तत्कर्मकलार्धार्धमपि नाप्नोति वस्तुतः । यः करिष्यति यत्नेन भस्मस्नानं यथाविधि ॥ 49॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,49,17071,स एवैकः सर्वकर्मस्वधिकारी श्रुतिश्रुतः । पावनं पावनानां च भस्मस्नानं श्रुतिश्रुतम् ॥ 50॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,50,17072,न करिष्यति यो मोहात्स महापातकी भवेत् । अनन्तैर्वारुणैः स्नानैर्यत्पुण्यं प्राप्यते द्विजैः ॥ 51॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,51,17073,ततोऽनन्तगुणं पुण्यं भस्मस्नानादवाप्यते । कालत्रयेऽपि कर्तव्यं भस्मस्नानं प्रयत्नतः ॥ 52॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,52,17074,भस्मस्नानं स्मृतं श्रौतं तत्त्यागी पतितो भवेत् । मूत्राद्युत्सर्जनान्ते तु भस्मस्नानं प्रयत्नतः ॥ 53॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,53,17075,कर्तव्यमन्यथा पूता न भविष्यन्ति मानवाः । विधिवत्कृतशौचोऽपि भस्मस्नानं विना द्विजः ॥ 54॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,54,17076,न भविष्यति पूतात्मा नाधिकार्यपि कर्मणि । अपानवायुनिर्याते जृम्भणे स्कन्दने क्षुते ॥ 55॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,55,17077,श्लेष्मोद्गारेऽपि कर्तव्यं भस्मस्नानं प्रयत्नतः । श्रीभस्मस्नानमाहात्म्यस्यैकदेशोऽत्र वर्णितः ॥ 56॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,56,17078,पुनश्च सम्प्रवक्ष्यामि भस्मस्नानोत्थितं फलम् । सावधानेन मनसा श्रोतव्यं मुनिपुङ्गव ॥ 57॥ 11,११.१४,चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।,57,17079,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे विभूतिधारणमाहात्म्यवर्णनं नाम चतुर्दशोऽध्यायः ॥ ११.१४॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,0,17080,श्रीनारायण उवाच । अग्निरित्यादिभिर्मन्त्रैर्भस्म संशोध्य सादरम् । धारणीयं ललाटादौ त्रिपुण्ड्रं केवलं द्विजैः ॥ 1॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,1,17081,ब्रह्मक्षत्रियवैश्याश्च एते सर्वे द्विजाः स्मृताः । तस्माद्द्विजैः प्रयत्नेन त्रिपुण्ड्रं धार्यमन्वहम् ॥ 2॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,2,17082,यस्योपनयनं ब्रह्मन् स एव द्विज उच्यते । तस्माच्छ्रौतं द्विजैः कार्यं त्रिपुण्ड्रस्य च धारणम् ॥ 3॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,3,17083,विभूतिधारणं त्यक्त्वा यः सत्कर्म समाचरेत् । तत्कृतं चाकृतप्रायं भवत्येव न संशयः ॥ 4॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,4,17084,न गायत्र्युपदेशोऽपि भस्मनो धारणं विना । ततो धृत्वैव भस्माङ्गे गायत्रीजपमाचरेत् ॥ 5॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,5,17085,गायत्रीं मूलमेवाहुर्ब्राह्मण्ये मुनिपुङ्गव । सा भस्मधारणाभावे न केनाप्युपदिश्यते ॥ 6॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,6,17086,न तावदधिकारोऽस्ति गायत्रीग्रहणे मुने । यावन्न भस्म भालादौ धृतमग्निसमुद्भवम् ॥ 7॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,7,17087,भस्महीनललाटत्वं न ब्रह्मण्यानुमापकम् । एवमेव मया ब्रह्मन् हेतुरुक्तः सुपुण्यदः ॥ 8॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,8,17088,मन्त्रपूतं सितं भस्म ललाटे परिवर्तते । स एव ब्राह्मणो विद्वान्सत्यं सत्यं मयोच्यते ॥ 9॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,9,17089,यस्यास्ति सहजा प्रीतिर्मणिवद्भस्मसङ्ग्रहे । स एव ब्राह्मणो ब्रह्मन् सत्यं सत्यं मयोच्यते ॥ 10॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,10,17090,न यस्य सहजा प्रीतिर्मणिवद्भस्मसङ्ग्रहे । स चाण्डाल इति ज्ञेयो जन्मजन्मान्तरे ध्रुवम् ॥ 11॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,11,17091,न यस्य सहजा प्रीतिस्त्रिपुण्ड्रोद्धूलनादिषु । स चाण्डाल इति ज्ञेयः सत्यं सत्यं मयोच्यते ॥ 12॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,12,17092,ये भस्मधारणं त्यक्त्वा भुञ्जन्ते च फलादिकम् । ते सर्वे नरकं घोरं प्राप्नुवन्ति न संशयः ॥ 13॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,13,17093,(विभूतिधारणं त्यक्त्वा यः शिवं पूजयिष्यति । स दुर्भगः शिवद्वेष्टा स द्वेषो नरकप्रदः । सर्वकर्मबहिर्भूतो भस्मधारणवर्जितः ॥) विभूतिधारणं त्यक्त्वा कुर्वन् हेमतुलामपि । न तत्फलमवाप्नोति पतितो हि भवेद्धि सः ॥ 14॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,14,17094,यथोपवीतरहितैः सन्ध्या न क्रियते द्विजैः । तथा सन्ध्या न कर्तव्या विभूतिरहितैरपि ॥ 15॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,15,17095,गतोपवीतैः सन्ध्यायां कार्यः प्रतिनिधिः क्वचित् । जपादिकं तु सावित्र्यास्तथैवोपोषणादिकम् ॥ 16॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,16,17096,विभूतिधारणे त्वन्यो नास्ति प्रतिनिधिः क्वचित् । विभूतिधारणं त्यक्त्वा यदि सन्ध्यां करोति यः ॥ 17॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,17,17097,प्रत्यवैत्येव येनासौ नाधिकारी तदा द्विजः । यथा श्रुत्वान्त्यजो वेदान्प्रत्यवैति तथा द्विजः ॥ 18॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,18,17098,प्रत्यवैति न सन्देहः सन्ध्याकृद्भस्मवर्जितः । सम्पादनीय यत्नेन श्रौतं भस्म सदा द्विजैः ॥ 19॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,19,17099,स्मार्तं वा तदभावे तु लौकिकं वा समाहितैः । यादृशं तादृशं वास्तु पवित्रं भस्म सन्ततम् ॥ 20॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,20,17100,धारणीयं प्रयत्नेन द्विजैः सन्ध्यादिकर्मसु । न संविशन्ति पापानि भस्मनिष्ठे ततः सदा ॥ 21॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,21,17101,कर्तव्यमपि यत्नेन ब्राह्मणैर्भस्मधारणम् । मध्याङ्गुलित्रयेणैव स्वदक्षिणकरस्य तु ॥ 22॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,22,17102,षडङ्गुलायतं मानमपि चाधिकमानकम् । नेत्रयुग्मप्रमाणेन भाले दीप्तं त्रिपुण्ड्रकम् ॥ 23॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,23,17103,कदाचिद्भस्मना कुर्यात्स रुद्रो नात्र संशयः । अकारोऽनामिका प्रोक्त उकारो मध्यमाङ्गुलिः ॥ 24॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,24,17104,मकारस्तर्जनी तस्मात् त्रिपुण्ड्रं त्रिगुणात्मकम् । त्रिपुण्ड्रं मध्यमातर्जन्यनामाभिरनुलोमतः ॥ 25॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,25,17105,अत्र ते कथयाम्येनमितिहासं पुरातनम् । कदाचिदथ दुर्वासाः पितृलोकं गतोऽभवत् ॥ 26॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,26,17106,भस्मसन्दिग्धसर्वाङ्गो रुद्राक्षाभरणान्वितः । शिव शङ्कर सर्वात्मञ्छ्रीमातर्जगदम्बिके ॥ 27॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,27,17107,नामानीति गृणन्नुच्चैस्तापसानां शिखामणिः । कव्यवाडादयस्ते तु प्रत्युत्थानाभिवादनैः ॥ 28॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,28,17108,आसनाद्युपचारैश्च सम्मानं बहु चक्रिरे । नानाकथाभिरन्योन्यं सम्भाषाञ्चक्रिरे तदा ॥ 29॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,29,17109,तस्मिंस्तु समये कुम्भीपाकस्थानां तु पापिनाम् । घोरः समभवच्छब्दो हा हताः स्मेतिवादिनाम् ॥ 30॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,30,17110,मृताः स्मेति वदन्त्येके दग्धाः स्मेति परे जगुः । छिन्नाः स्मेति विभिन्नाः स्मेत्येवं रोदनकारिणः ॥ 31॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,31,17111,श्रुत्वा तं करुण शब्दं दुःखितो मुनिराड् हृदि । पप्रच्छ पितृनाथांस्तान्केषां शब्दोऽयमित्यपि ॥ 32॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,32,17112,ते समूचुर्मुनेऽत्रैव पुरी संयमनी परा । वर्तते यमराडत्र पापिनां भोगदायकः ॥ 33॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,33,17113,नानादूतैः कालरूपैः कृष्णवर्णेर्भयङ्करैः । सहितोऽत्रैव तत्पुर्यां नायको विद्यतेऽनघ ॥ 34॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,34,17114,तत्र कुण्डान्यनेकानि पापिनां भोगदानि च । षडशीतिर्घोररूपैर्दूतैः परिवृतानि च ॥ 35॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,35,17115,तत्र मुख्यतमं कुण्डं कुम्भीपाकाभिधं महत् । वर्तते तद्गतानां च यातनानां तु वर्णनम् ॥ 36॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,36,17116,कर्तुं न शक्यते कैश्चिदपि वर्षशतैरपि । ये शिवद्रोहिणः सन्ति तथा देवीविनिन्दकाः ॥ 37॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,37,17117,ये विष्णुद्रोहिणः सन्ति पतन्त्यत्रैव ते मुने । ये वेदनिन्दकाः सन्ति सूर्यस्य च गणेशितुः ॥ 38॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,38,17118,ब्राह्मणानां द्रोहिणो ये पतन्त्यत्रैव ते मुने । कामाचाराश्च ये सन्ति तप्तमुद्राङ्किताश्च ये ॥ 39॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,39,17119,त्रिशूलधारिणो ये च पतन्त्यत्रैव ते मुने । मातृपितृगुरुज्येष्ठपुराणस्मृतिनिन्दकाः ॥ 40॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,40,17120,ये धर्मदूषकाः सन्ति पतन्त्यत्रैव ते मुने । तेषामयं महाघोरः शब्दः श्रवणदारुणः ॥ 41॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,41,17121,श्रूयतेऽस्माभिरनिशं वैराग्यं यच्छ्रुतेर्भवेत् । इति तेषां वचः श्रुत्वा मुनिराट् तद्दिदृक्षया ॥ 42॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,42,17122,उत्थाय चलितस्तूर्णं ययौ कुण्डसमीपतः । अवाङ्मुखो ददर्शाधस्तस्मिन्नेव क्षणे मुने ॥ 43॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,43,17123,तत्रत्यानां पापिनां तु स्वर्गाधिकमभूत्सुखम् । हसन्ति केचिद्गायन्ति नृत्यन्ति च तथापरे ॥ 44॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,44,17124,परस्परं रमन्ते तेऽत्युन्मत्ताः सुखवर्धनात् । मृदङ्गमुरजावीणाढक्कादुन्दुभिनिस्वनाः ॥ 45॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,45,17125,समुद्भूतास्तु मधुराः पञ्चमस्वरभूषिताः । वसन्तवल्लीपुष्पाणां सुगन्धमरुतो ववुः ॥ 46॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,46,17126,मुनिस्तु चकितो दृष्ट्वा यमदूताश्च विस्मिताः । शीघ्रं ते कथयामासुर्धर्मराजाय वेदिने ॥ 47॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,47,17127,महाराज महाश्चर्यमधुनैवाभवद्विभो । स्वर्गादप्यधिकं सौख्यं कुम्भीपाकस्थपापिनाम् ॥ 48॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,48,17128,निमित्तं नैव जानीमः कस्मादिदमभूद्विभो । चकिताः स्म वयं सर्वे प्राप्ता देव त्वदन्तिकम् ॥ 49॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,49,17129,निशम्य दूतवाणीं तां धर्मराट् शीघ्रमुत्थितः । महामहिषमारूढो ययौ ते यत्र पापिनः ॥ 50॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,50,17130,तां वार्तां प्रेषयामास दूतद्वारामरावतीम् । श्रुत्वा तां देवराजोऽपि प्राप्तो देवगणैः सह ॥ 51॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,51,17131,ब्रह्मलोकात्पद्मजोऽपि वैकुण्ठाद्विष्टरश्रवाः । तत्तल्लोकाच्च दिक्पालाः समाजग्मुर्गणैः सह ॥ 52॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,52,17132,परिवार्य स्थिताः सर्वे कुम्भीपाकमितस्ततः । अपश्यंस्तद्गताञ्जीवान्स्वर्गाधिकसुखान्त्वितान् ॥ 53॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,53,17133,चकिता एव ते सर्वे न विदुस्तस्य कारणम् । अहो पापस्य भोगार्थं कुण्डमेतद्विनिर्मितम् ॥ 54॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,54,17134,तत्र सौख्यं यदा जातं तदा पापात्तु किं भयम् । उच्छिन्ना वेदमर्यादा परमेशकृता कथम् ॥ 55॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,55,17135,भगवान् स्वस्य सङ्कल्पं वितथं कृतवान्कथम् । आश्चर्यमेतदाश्चर्यमेतदित्येव भाषिणः ॥ 56॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,56,17136,तटस्था अभवन्सर्वे न विदुस्तत्र कारणम् । एतस्मिन्नन्तरे शौरिः सम्मन्त्र्य विबुधादिभिः ॥ 57॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,57,17137,ययौ कैश्चित्सुरगणैः सहितः शङ्करालयम् । पार्वत्या सहितं देवं कोटिकन्दर्पसुन्दरम् ॥ 58॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,58,17138,रमणीयतमाङ्गं तं लावण्यखनिमद्भुतम् । सदा षोडशवर्षीयं नानालङ्कारभूषितम् ॥ 59॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,59,17139,नानागणैः परिवृतं लालयन्तं परां शिवाम् । ददर्श चन्द्रमौलिं स चतुर्वेदं ननाम ह ॥ 60॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,60,17140,वृत्तान्तं कथयामास चमत्कृतमतिस्फुटम् । एतस्य कारणं देव न जानीमः कथञ्चन ॥ 61॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,61,17141,वद तत्कारणं देव सर्वज्ञोऽसि यतः प्रभो । विष्णुवाक्यं तदा श्रुत्वा प्रसन्नमुखपङ्कजः ॥ 62॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,62,17142,उवाच मधुरं वाक्यं मेघगम्भीरया गिरा । श‍ृणु विष्णो तन्निमित्तं नाश्चर्यं त्वत्र विद्यते ॥ 63॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,63,17143,भस्मनो महिमैवायं भस्मना किं भवेन्न हि । कुम्भीपाकं गतो द्रष्टुं दुर्वासाः शैवसम्मतः ॥ 64॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,64,17144,अवाङ्मुखो ददर्शाधस्तदा वायुवशाद्धरे । भालभस्मकणास्तत्र पतिता दैवयोगतः ॥ 65॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,65,17145,तेन जातमिदं सर्वं भस्मनो महिमा त्वयम् । इतः परं तु तत्तीर्थं पितृलोकनिवासिनाम् ॥ 66॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,66,17146,भविष्यति न सन्देहो यत्र स्नात्वा सुखी भवेत् । पितृतीर्थं तु तन्नाम्नाप्यत ऊर्ध्वं भविष्यति ॥ 67॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,67,17147,मल्लिङ्गस्थापनं तत्र कार्यं देव्याश्च सत्तम । पूजयिष्यन्ति ते तत्र पितृलोकनिवासिनः ॥ 68॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,68,17148,त्रैलोक्ये यानि तीर्थानि तत्र श्रेष्ठमिदं भवेत् । पित्रीश्वरीपूजया तु त्रैलोक्यं पूजितं भवेत् ॥ 69॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,69,17149,श्रीनारायण उवाच । इति देववचः श्रुत्वा देवं मूर्ध्ना प्रणम्य च । तदनुज्ञां समादाय ययौ देवान्तिकं हरिः ॥ 70॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,70,17150,तत्सर्वं कथयामास कारणं शङ्करोदितम् । साधु साध्विति ते प्रोचुरमरा मौलिचालनैः ॥ 71॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,71,17151,शशंसुर्भस्ममाहात्म्यं हरिब्रह्मादयः सुराः । पितरश्चैव सन्तुष्टास्तीर्थलाभात्परन्तप ॥ 72॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,72,17152,तत्तीर्थतीरे लिङ्गं च देव्या मूर्तिं यथाविधि । स्थापयामासुरमराः पूजयामासुरन्वहम् ॥ 73॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,73,17153,तत्र ये प्राणिनोऽभूवन्पापभोगार्थमास्थिताः । ते विमानं समारुह्य गताः कैलासमण्डलम् ॥ 74॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,74,17154,नाम्ना भद्रगणास्ते तु वसन्त्यद्यापि तत्र हि । पुनश्च दूरदेशे तु कुम्भीपाको विनिर्मितः ॥ 75॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,75,17155,निरुद्धं शैवगमनं देवैस्तत्र तु तद्दिनात् । इति ते सर्वमाख्यातं भस्ममाहात्म्यमुत्तमम् ॥ 76॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,76,17156,नातः परतरं किञ्चिदधिकं विद्यते मुने । ऊर्ध्वपुण्ड्रविधिं चैवाप्यधिकारिविभेदतः ॥ 77॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,77,17157,प्रवक्ष्ये मुनिशार्दूल वैष्णवागमलोकनात् । ऊर्ध्वपुण्ड्रप्रमाणानि दिव्यान्यङ्गुलिभेदतः ॥ 78॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,78,17158,वर्णाभिमन्त्रदेवांश्च प्रवक्ष्यामि फलानि च । पर्वताग्रे नदीतीरे शिवक्षेत्रे विशेषतः ॥ 79॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,79,17159,सिन्धुतीरे च वल्मीके तुलसीमूलमाश्रिते । मृद एतास्तु सङ्ग्राह्या वर्जयेदन्यमृत्तिकाः ॥ 80॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,80,17160,श्यामं शान्तिकरं प्रोक्तं रक्तं वश्यकरं भवेत् । श्रीकरं पीतमित्याहुर्धर्मदं श्वेतमुच्यते ॥ 81॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,81,17161,अङ्गुष्ठः पुष्टिदः प्रोक्तो मध्यमायुष्करी भवेत् । अनामिकान्नदा नित्यं मुक्तिदा च प्रदेशिनी ॥ 82॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,82,17162,एतैरङ्गुलिभेदैस्तु कारयेन्न नखैः स्पृशेत् । वर्तिदीपावलिकृतिं वेणपत्राकृतिं तथा ॥ 83॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,83,17163,पद्मस्य मुकुलाकारं तथा कुर्यात्प्रयत्नतः । मत्स्यकूर्माकृतिं वापि शङ्खाकारं ततः परम् ॥ 84॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,84,17164,दशाङ्गुलिप्रमाणं तु उत्तमोत्तममुच्यते । नवाङ्गुलं मध्यमं स्यादष्टाङ्गुलमतः परम् ॥ 85॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,85,17165,सप्तषट्पञ्चभिः पुण्ड्रं मध्यमं त्रिविधं स्मृतम् । चतुस्त्रिद्व्यङ्गुलैः पुण्ड्रं कनिष्ठं त्रिविधं भवेत् ॥ 86॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,86,17166,ललाटे केशवं विद्यान्नारायणमथोदरे । माधवं हृदि विन्यस्य गोविन्दं कण्ठकूपके ॥ 87॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,87,17167,उदरे दक्षिणे पार्श्वे विष्णुरित्यभिधीयते । तत्पार्श्वबाहुमध्ये च मधुसूदनमेव च ॥ 88॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,88,17168,त्रिविक्रमं कर्णदेशे वामकुक्षौ तु वामनम् । श्रीधरं बाहुके वामे हृषीकेशं तु कर्णके ॥ 89॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,89,17169,पृष्ठे च पद्मनाभं तु ककुद्दामोदरं स्मरेत् । द्वादशैतानि नामानि वासुदेवेति मूर्धनि ॥ 90॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,90,17170,पूजाकाले च होमे च सायं प्रातः समाहितः । नामान्युच्चार्य विधिना धारयेदूर्ध्वपुण्ड्रकम् ॥ 91॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,91,17171,अशुचिर्वाप्यनाचारो मनसा पापमाचरेत् । शुचिरेव भवेन्नित्यं मूर्ध्नि पुण्ड्राङ्कितो नरः ॥ 92॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,92,17172,ऊर्ध्वपुण्ड्रधरो मर्त्यो म्रियते यत्र कुत्रचित् । श्वपाकोऽपि विमानस्थो मम लोके महीयते ॥ 93॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,93,17173,एकान्तिनो महाभागा मत्स्वरूपविदोऽमलाः । सान्तरालान्प्रकुर्वन्ति पुण्ड्रान्विष्णुपदाकृतीन् ॥ 94॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,94,17174,परमैकान्तिनोऽप्येवं मत्पादैकपरायणाः । हरिद्राचूर्णसंयुक्ताञ्छूलाकारांस्तु वामलान् ॥ 95॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,95,17175,अन्ये तु वैष्णवाः पुण्ड्रानच्छिद्रानपि भक्तितः । प्रकुर्वीरन्दीपपद्मवेणुपत्रोपमाकृतीन् ॥ 96॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,96,17176,अच्छिद्रानपि सच्छिद्रान् कुर्युः केवलवैष्णवाः । अच्छिद्रकरणे तेषां प्रत्यवायो न विद्यते ॥ 97॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,97,17177,एकान्तिनां प्रपन्नानां परमैकान्तिनामपि । अच्छिद्रपुण्ड्राकरणे प्रत्यवायो महान्भवेत् ॥ 98॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,98,17178,ऊर्ध्वपुण्ड्रं तु यः कुर्याद्दण्डाकारं तु शोभनम् । मध्ये छिद्रं वैष्णवाश्च नमोऽन्तैः केशवादिभिः ॥ 99॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,99,17179,विमलान्यूर्ध्वपुण्ड्राणि सान्तरालानि यो नरः । करोति विपुलं तत्र मन्दिरं मे करोति सः ॥ 100॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,100,17180,ऊर्ध्वपुण्ड्रस्य मध्ये तु विशाले सुमनोहरे । लक्ष्म्या साकं सहासीनो रमते विष्णुरव्ययः ॥ 101॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,101,17181,निरन्तरालं यः कुर्यादूर्ध्वपुण्ड्रं द्विजाधमः । स हि तत्र स्थितं विष्णुं श्रियं चैव व्यपोहति ॥ 102॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,102,17182,अच्छिद्रमूर्ध्वपुण्ड्रं तु यः करोति विमूढधीः । स पर्यायेण तानेति नरकानेकविंशतिम् ॥ 103॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,103,17183,ऋजूनि स्फुटपार्श्वानि सान्तरालानि विन्यसेत् । ऊर्ध्वपुण्ड्राणि दण्डाब्जदीपमत्स्यनिभानि च ॥ 104॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,104,17184,शिखोपवीतवद्धार्यमूर्ध्वपुण्ड्रं द्विजेन च । विना कृताश्चेद्विफलाः क्रियाः सर्वा महामुने ॥ 105॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,105,17185,तस्मात्सर्वेषु कार्येषु कार्यं विप्रस्य धीमतः । ऊर्ध्वपुण्ड्रं त्रिशूलं च वर्तुलं चतुरस्रकम् ॥ 106॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,106,17186,अर्धचन्द्रादिकं लिङ्गं वेदनिष्ठो न धारयेत् । जन्मना लब्धजातिस्तु वेदपन्थानमाश्रितः ॥ 107॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,107,17187,पुण्ड्रान्तरं भ्रमाद्वापि ललाटे नैव धारयेत् । ख्यातिकान्त्यादिसिद्ध्यर्थं चापि विष्ण्वागमादिषु ॥ 108॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,108,17188,स्थितं पुण्ड्रान्तरं नैव धारयेद्वैदिको जनः । तिर्यक्त्रिपुण्ड्रं सन्त्यज्य श्रौतं कथमपि भ्रमात् ॥ 111॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,109,17189,ललाटे भस्मना तिर्यक्त्रिपुण्ड्रस्य च धारणम् । विना पुण्ड्रान्तरं मोहाद्धारयन्नारकी भवेत् ॥ 110॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,110,17190,वेदमार्गैकनिष्ठस्तु मोहेनाप्यङ्कितो यदि । पतत्येव न सन्देहस्तथा पुण्ड्रान्तरादपि ॥ 111॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,111,17191,नाङ्कनं विग्रहे कुर्याद्वेदमार्गं समाश्रितः । श्रौतधर्मैकनिष्ठानां लिङ्गं तु श्रौतमेव हि ॥ 112॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,112,17192,अश्रौतधर्मनिष्ठानामश्रौत लिङ्गमीरितम् । देवता वेदसिद्धा यास्तासां लिङ्गं तु वैदिकम् ॥ 113॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,113,17193,अश्रौततन्त्रनिष्ठा यास्तासामश्रौतमेव हि । वेदसिद्धो महादेवः साक्षात्संसारमोचकः ॥ 114॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,114,17194,भक्तानामुपकाराय श्रौतं लिङ्गं दधाति च । वेदसिद्धस्य विष्णोश्च श्रौतं लिङ्गं न चेतरत् ॥ 115॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,115,17195,प्रादुर्भावविशेषाणामपि तस्य तदेव हि । श्रौतं लिङ्गं तु विज्ञेयं त्रिपुण्ड्रोद्धूलनादिकम् ॥ 116॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,116,17196,अश्रौतमूर्ध्वपुण्ड्रादि नैव तिर्यक्त्रिपुण्ड्रकम् । वेदमार्गैकनिष्ठानां वेदोक्तेनैव वर्त्मना ॥ 117॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,117,17197,ललाटे भस्मना तिर्यक्त्रिपुण्ड्रं धार्यमेव हि । यस्तु नारायणं देवं प्रपन्नः परमं पदम् । धारयेत्सर्वदा शूलं ललाटे गन्धवारिणा ॥ 118॥ 11,११.१५,पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।,118,17198,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनं नाम पञ्चदशोऽध्यायः ॥ ११.१५॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,0,17199,श्रीनारायण उवाच । अथातः श्रूयतां पुण्यं सन्ध्योपासनमुत्तमम् । भस्मधारणमाहात्म्यं कथितं चैव विस्तरात् ॥ 1॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,1,17200,प्रातःसन्ध्याविधानं च कथयिष्यामि तेऽनघ । प्रातःसन्ध्यां सनक्षत्रां मध्याह्ने मध्यभास्कराम् ॥ 2॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,2,17201,ससूर्यां पश्चिमां सन्ध्यां तिस्रः सन्ध्या उपासते । तद्भेदानपि वक्ष्यामि श‍ृणु देवर्षिसत्तम ॥ 3॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,3,17202,उत्तमा तारकोपेता मध्यमा लुप्ततारका । अधमा सूर्यसहिता प्रातःसन्ध्या त्रिधा मता ॥ 4॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,4,17203,उत्तमा सूर्यसहिता मध्यमास्तमिते रवौ । अधमा तारकोपेता सायंसन्ध्या त्रिधा मता ॥ 5॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,5,17204,विप्रो वृक्षो मूलकान्यत्र सन्ध्या वेदः शाखा धर्मकर्माणि पत्रम् । तस्मान्मूलं यत्नतो रक्षणीयं छिन्ने मूले नैव वृक्षो न शाखा ॥ 6॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,6,17205,सन्ध्या येन न विज्ञाता सन्ध्या येनानुपासिता । जीवमानो भवेच्छूद्रो मृतः श्वा चैव जायते ॥ 7॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,7,17206,तस्मान्नित्यं प्रकर्तव्यं सन्ध्योपासनमुत्तमम् । तदभावेऽन्यकर्मादावधिकारी भवेन्न हि ॥ 8॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,8,17207,उदयास्तमयादूर्ध्वं यावत्स्याद्घटिकात्रयम् । तावत्सन्ध्यामुपासीत प्रायश्चित्तं ततः परम् ॥ 9॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,9,17208,कालातिक्रमणे जाते चतुर्थार्घ्यं प्रदापयेत् । अथवाष्टशतं देवीं जप्त्वादौ तां समाचरेत् ॥ 10॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,10,17209,यस्मिन्काले तु यत्कर्म तत्कालाधीश्वरीं च ताम् । सन्ध्यामुपास्य पश्चात्तु तत्कालीनं समाचरेत् ॥ 11॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,11,17210,गृहे साधारणा प्रोक्ता गोष्ठे वै मध्यमा भवेत् । नदीतीरे चोत्तमा स्याद्देवीगेहे तदुत्तमा ॥ 12॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,12,17211,यतो देव्या उपासेयं ततो देव्यास्तु सन्निधौ । सन्ध्यात्रयं प्रकर्तव्यं तदानन्त्याय कल्पते ॥ 13॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,13,17212,एतस्या अपरं दैवं ब्राह्मणानां च विद्यते । न विष्णूपासना नित्या न शिवोपासना तथा ॥ 14॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,14,17213,यथा भवेन्महादेव्या गायत्र्याः श्रुतिचोदिता । सर्ववेदसारभूता गायत्र्यास्तु समर्चना ॥ 15॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,15,17214,ब्रह्मादयोऽपि सन्ध्यायां तां ध्यायन्ति जपन्ति च । वेदा जपन्ति तां नित्यं वेदोपास्या ततः स्मृता ॥ 16॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,16,17215,तस्मात्सर्वे द्विजाः शाक्ता न शैवा न च वैष्णवाः । आदिशक्तिमुपासन्ते गायत्रीं वेदमातरम् ॥ 17॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,17,17216,आचान्तः प्राणमायम्य केशवादिकनामभिः । केशवश्च तथा नारायणो माधव एव च ॥ 18॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,18,17217,गोविन्दो विष्णुरेवाथ मधुसूदन एव च । त्रिविक्रमो वामनश्च श्रीधरोऽपि ततः परम् ॥ 19॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,19,17218,हृषीकेशः पद्मनाभो दामोदर अतः परम् । सङ्कर्षणो वासुदेवः प्रद्युम्नोऽप्यनिरुद्धकः ॥ 20॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,20,17219,पुरुषोत्तमाधोक्षजौ च नारसिंहोऽप्युतस्तथा । जनार्दन उपेन्द्रश्च हरिः कृष्णोऽन्तिमस्तथा ॥ 21॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,21,17220,ओङ्कारपूर्वकं नाम चतुर्विंशतिसङ्ख्यया । स्वाहान्तैः प्राशयेद्वारि नमोऽन्तैः स्पर्शयेत्तथा ॥ 22॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,22,17221,केशवादित्रिभिः पीत्वा द्वाभ्यां प्रक्षालयेत्करौ । मुखं प्रक्षालयेद्द्वाभ्यां द्वाभ्यामुन्मार्जनं तथा ॥ 23॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,23,17222,एकेन पाणिं सम्प्रोक्ष्य पादावपि शिरोऽपि च । सङ्कर्षणादिदेवानां द्वादशाङ्गानि संस्पृशेत् ॥ 24॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,24,17223,दक्षिणेनोदकं पीत्वा वामेन संस्पृशेद्बुधः । तावन्न शुध्यते तोयं यावद्वामेन न स्पृशेत् ॥ 25॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,25,17224,गोकर्णाकृतिहस्तेन माषमात्रं जलं पिबेत् । ततो न्यूनाधिकं पीत्वा सुरापायी भवेद्द्विजः ॥ 26॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,26,17225,संहताङ्गुलिना तोयं पाणिना दक्षिणेन तु । मुक्ताङ्गुष्ठकनिष्ठाभ्यां शेषेणाचमनं विदुः ॥ 27॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,27,17226,प्राणायामं ततः कृत्वा प्रणवस्मृतिपूर्वकम् । गायत्रीं शिरसा सार्धं तुरीयपदसंयुताम् ॥ 28॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,28,17227,दक्षिणे रेचयेद्वायुं वामेन पूरितोदरम् । कुम्भेन धारयेन्नित्यं प्राणायामं विदुर्बुधाः ॥ 29॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,29,17228,पीडयेद्दक्षिणां नाडीमङ्गुष्ठेन तथोत्तराम् । कनिष्ठानामिकाभ्यां तु मध्यमां तर्जनीं त्यजेत् ॥ 30॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,30,17229,रेचकः पूरकश्चैव प्राणायामोऽथ कुम्भकः । प्रोच्यते सर्वशास्त्रेषु योगिभिर्यतमानसैः ॥ 31॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,31,17230,रेचकः सृजते वायुं पूरकः पूरयेत्तु तम् । साम्येन संस्थितिर्यत्तत्कुम्भकः परिकीर्तितः ॥ 32॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,32,17231,नीलोत्पलदलश्यामं नाभिमध्ये प्रतिष्ठितम् । चतुर्भुजं महात्मानं पूरके चिन्तयेद्धरिम् ॥ 33॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,33,17232,कुम्भके तु हृदि स्थाने ध्यायेत्तु कमलासनम् । प्रजापतिं जगन्नाथं चतुर्वक्त्रं पितामहम् ॥ 34॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,34,17233,रेचके शङ्करं ध्यायेल्ललाटस्थं महेश्वरम् । शुद्धस्फटिकसङ्काशं निर्मलं पापनाशनम् ॥ 35॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,35,17234,पूरके विष्णुसायुज्यं कुम्भके ब्रह्मणो गतिम् । रेचकेन तृतीयं तु प्राप्नुयादीश्वरं परम् ॥ 36॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,36,17235,पौराणाचमनाद्यं च प्रोक्तं देवर्षिसत्तम । श्रौतमाचमनाद्यं च श‍ृणु पापापहं मुने ॥ 37॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,37,17236,प्रणवं पूर्वमुच्चार्य गायत्रीं तु तदित्यृचम् । पादादौ व्याहृतीस्तिस्रः श्रौताचमनमुच्यते ॥ 38॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,38,17237,गायत्रीं शिरसा सार्धं जपेद्व्याहृतिपूर्विकाम् । प्रतिप्रणवसंयुक्तां त्रितयं प्राणसंयमः ॥ 39॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,39,17238,(सलक्षणं तु प्राणानामायामं कीर्त्यतेऽधुना । नानापापैकशमनं महापुण्यफलप्रदम् ॥) पञ्चाङ्गुलीभिर्नासाग्रं पीडयेत्प्रणवेन तु । सर्वपापहरा मुद्रा वानप्रस्थगृहस्थयोः ॥ 40॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,40,17239,कनिष्ठानामिकाङ्गुष्ठैर्यतेश्च ब्रह्मचारिणः । आपो हि ष्ठेति तिसृभिः प्रोक्षणं स्यात्कुशोदकैः ॥ 41॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,41,17240,ऋगन्ते मार्जनं कुर्यात्पादान्ते वा समाहितः । नवप्रणवयुक्तेन आपो हि ष्ठेत्यनेन तु ॥ 42॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,42,17241,नश्येदघं मार्जनेन संवत्सरसमुद्भवम् । तत आचमनं कृत्वा सूर्यश्चेति पिबेदपः ॥ 43॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,43,17242,अन्तःकरणसम्भिन्नं पापं तस्य विनश्यति । प्रणवेन व्याहृतिभिर्गायत्र्या प्रणवाद्यया ॥ 44॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,44,17243,आपो हि ष्ठेति सूक्तेन मार्जनं चैव कारयेत् । उद्धृत्य दक्षिणे हस्ते जलं गोकर्णवत्कृते ॥ 45॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,45,17244,नीत्वा तं नासिकाग्रं तु वामकुक्षौ स्मरेदघम् । पुरुषं कृष्णवर्णं च ऋतं चेति पठेत्ततः ॥ 46॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,46,17245,द्रुपदां वा ऋचं पश्चाद्दक्षनासापुटेन च । श्वासमार्गेण तं पापमानयेत्करवारिणि ॥ 47॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,47,17246,नावलोक्यैव तद्वारि वामभागेऽश्मनि क्षिपेत् । निष्पापं तु शरीरं मे सञ्जातमिति भावयेत् ॥ 48॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,48,17247,उत्थाय तु ततः पादौ द्वौ समौ सन्नियोजयेत् । जलाञ्जलिं गृहीत्वा तु तर्जन्यङ्गुष्ठवर्जितम् ॥ 49॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,49,17248,वीक्ष्य भानुं क्षिपेद्वारि गायत्र्या चाभिमन्त्रितम् । त्रिवारं मुनिशार्दूल विधिरेषोऽर्घ्यमोचने ॥ 50॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,50,17249,ततः प्रदक्षिणां कुर्यादसावादित्यमन्त्रतः । मध्याह्ने सकृदेव स्यात्सन्ध्ययोस्तु त्रिवारतः ॥ 51॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,51,17250,ईषन्नग्रः प्रभाते तु मध्याह्ने दण्डवत्स्थितः । आसने चोपविष्टस्तु द्विजः सायं क्षिपेदपः ॥ 52॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,52,17251,उदकं प्रक्षिपेद्यस्मात्तत्कारणमतः श‍ृणु । त्रिंशत्कोट्यो महावीरा मन्देहा नाम राक्षसाः ॥ 53॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,53,17252,कृतघ्ना दारुणा घोराः सूर्यमिच्छन्ति खादितुम् । ततो देवगणाः सर्वे ऋषयश्च तपोधनाः ॥ 54॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,54,17253,उपासते महासन्ध्यां प्रक्षिपन्त्युदकाञ्जलिम् । दह्यन्ते तेन दैत्यास्ते वज्रीभूतेन वारिणा ॥ 55॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,55,17254,एतस्मात्कारणाद्विप्राः सन्ध्यां नित्यमुपासते । महापुण्यस्य जननं सन्ध्योपासनमीरितम् ॥ 56॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,56,17255,अर्घ्याङ्गभूतमन्त्रोऽयं प्रोच्यते श‍ृणु नारद । यदुच्चारणमात्रेण साङ्गं सन्ध्याफलं भवेत् ॥ 57॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,57,17256,सोऽहमर्कोऽस्म्यहं ज्योतिरात्मा ज्योतिरहं शिवः । आत्मज्योतिरहं शुक्लः सर्वज्योती रसोऽस्म्यहम् ॥ 58॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,58,17257,आगच्छ वरदे देवि गायत्रि ब्रह्मरूपिणि । जपानुष्ठानसिद्ध्यर्थं प्रविश्य हृदयं मम ॥ 59॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,59,17258,उत्तिष्ठ देवि गन्तव्यं पुनरागमनाय च । अर्घ्येषु देवि गन्तव्यं प्रविश्य हृदयं मम ॥ 60॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,60,17259,ततः शुद्धस्थले नैजमासनं स्थापयेद्बुधः । तत्रारुह्य जपेत्पश्चाद्गायत्रीं वेदमातरम् ॥ 61॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,61,17260,अत्रैव खेचरी मुद्रा प्राणायामोत्तरं मुने । प्रातःसन्ध्याविधाने च कीर्तिता मुनिपुङ्गव ॥ 62॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,62,17261,तन्नामार्थं प्रवक्ष्यामि सादरं श‍ृणु नारद । चित्तं चरति खे यस्माज्जिह्वा चरति खे गता ॥ 63॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,63,17262,भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी । न चासनं सिद्धसमं न कुम्भसदृशोऽनिलः ॥ 64॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,64,17263,न खेचरीसमा मुद्रा सत्यं सत्यं च नारद । घण्टावत्पणवोच्चाराद्वायुं निर्जित्य यत्नतः ॥ 65॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,65,17264,स्थिरासने स्थिरो भूत्वा निरहङ्कारनिर्ममः । लक्षणं नारद मुने श‍ृणु सिद्धासनस्य च ॥ 66॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,66,17265,योनिस्थानकमङ्घ्रिमूलघटितं कृत्वा दृढं विन्यसे- न्मेढ्रे पादमथैकमेव हृदयं कृत्वा समं विग्रहम् । स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्यन्भ्रुवोरन्तरं तिष्ठत्येतदतीव योगिसुखदं सिद्धासनं प्रोच्यते ॥ 67॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,67,17266,आयातु वरदा देवी अक्षरं ब्रह्मसम्मितम् । गायत्री छन्दसां मातरिदं ब्रह्म जुषस्व मे ॥ 68॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,68,17267,यदह्ना कुरुते पापं तदह्ना प्रतिमुच्यते । यद्रात्र्या कुरुते पापं तद्रात्र्या प्रतिमुच्यते ॥ 69॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,69,17268,सर्ववर्णे महादेवि सन्ध्याविद्ये सरस्वति । अजरे अमरे देवि सर्वदेवि नमोऽस्तु ते ॥ 70॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,70,17269,तेजोऽसीत्यादिमन्त्रेण देवीमावाहयेत्ततः । यत्कृतं त्वदनुष्ठानं तत्सर्वं पूर्णमस्तु मे ॥ 71॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,71,17270,ततः शापविमोक्षाय विधानं सम्यगाचरेत् । ब्रह्मशापस्ततो विश्वामित्रस्य च तथैव च ॥ 72॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,72,17271,वसिष्ठशाप इत्येतत्त्रिविधं शापलक्षणम् । ब्रह्मणः स्मरणेनैव ब्रह्मशापो निवर्तते ॥ 73॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,73,17272,विश्वामित्रस्मरणतो विश्वामित्रस्य शापतः । वसिष्ठस्मरणादेव तस्य शापो विनश्यति ॥ 74॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,74,17273,हृत्पद्ममध्ये पुरुषं प्रमाणं सत्यात्मकं सर्वजगत्स्वरूपम् । ध्यायामि नित्यं परमात्मसंज्ञं चिद्रूपमेकं वचसामगम्यम् ॥ 75॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,75,17274,अथ न्यासविधिं वक्ष्ये सन्ध्याया अङ्गसम्भवम् । ओङ्कारं पूर्ववद्योज्यं ततो मन्त्रानुदीरयेत् ॥ 76॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,76,17275,भूरित्युक्त्वा च पादाभ्यां नम इत्येव चोच्चरेत् । भुवः पूर्वं तु जानुभ्यां स्वः कटिभ्यां नमो वदेत् ॥ 77॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,77,17276,महर्नाभ्यै जनश्चैव हदयाय ततस्तपः । कण्ठाय च ततः सत्यं ललाटे परिकीर्तयेत् ॥ 78॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,78,17277,अङ्गुष्ठाभ्यां तत्सवितुस्तर्जनीभ्यां वरेण्यकम् । भर्गो देवस्य मध्याध्यां धीमहीत्येव कीर्तयेत् ॥ 79॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,79,17278,अनामाभ्यां कनिष्ठाभ्यां धियो यो नः पदं वदेत् । प्रचोदयात्करपृष्ठतलयोर्विन्यसेत्सुधीः ॥ 80॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,80,17279,ब्रह्मात्मने तत्सवितुर्हृदयाय नमस्तथा । विष्ण्वात्मने वरेण्यं च शिरसे नम इत्यपि ॥ 81॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,81,17280,भर्गो देवस्थ रुद्रात्मने शिखायै प्रकीर्तितम् । शक्त्यात्मने धीमहीति कवचाय ततः परम् ॥ 82॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,82,17281,कालात्मने धियो यो नो नेत्रत्रय उदीरितम् । प्रचोदयाच्च सर्वात्मनेऽस्त्राय परिकीर्तितम् ॥ 83॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,83,17282,अक्षरन्यासमेवाग्रे कथयामि महामुने । गायत्रीवर्णसम्भूतन्यासः पापहरः परः ॥ 84॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,84,17283,प्रणवं पूर्वमुच्चार्य वर्णन्यासः प्रकीर्तितः । तत्कारमादावुच्चार्य पादाङ्गुष्ठद्वये न्यसेत् ॥ 85॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,85,17284,सकारं गुल्फयोस्तद्वद्विकारं जङ्घयोर्न्यसेत् । जान्वोस्तुकारं विन्यस्य ऊर्वोश्चैव वकारकम् ॥ 86॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,86,17285,रेकारं च गुदे न्यस्य णिकारं लिङ्ग एव च । कट्यां यकारमेवात्र भकारं नाभिमण्डले ॥ 87॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,87,17286,गोकारं हृदये न्यस्य देकारं स्तनयोर्द्वयोः । वकारं हृदि विन्यस्य स्यकारं कण्ठकूपके ॥ 88॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,88,17287,धीकारं मुखदेशे तु मकारं तालुदेशके । हिकारं नासिकाग्रे तु धिकारं नेत्रमण्डले ॥ 89॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,89,17288,भ्रूमध्ये चैव योकारं योकारं च ललाटके । नकारं वै पूर्वमुखे प्रकारं दक्षिणे मुखे ॥ 90॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,90,17289,चोकारं पश्चिममुखे दकारं चोत्तरे मुखे । याकारं मूर्ध्नि विन्यस्य तकारं व्यापकं न्यसेत् ॥ 91॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,91,17290,एतन्न्यासविधिं केचिन्नेच्छन्ति जपतत्पराः । ततो ध्यायेन्महादेवीं जगन्मातरमम्बिकाम् ॥ 92॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,92,17291,भास्वज्जपाप्रसूनाभां कुमारीं परमेश्वरीम् । रक्ताम्बुजासनारूढां रक्तगन्धानुलेपनाम् ॥ 93॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,93,17292,रक्तमाल्याम्बरधरां चतुरास्यां चतुर्भुजाम् । द्विनेत्रां स्रुक्स्रुवो मालां कुण्डिकां चैव बिभ्रतीम् ॥ 94॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,94,17293,सर्वाभरणसन्दीप्तामृग्वेदाध्यायिनीं पराम् । हंसपत्रामाहवनीयमध्यस्थां ब्रह्मदेवताम् ॥ 95॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,95,17294,चतुष्पदामष्टकुक्षिं सप्तशीर्षां महेश्वरीम् । अग्निवक्त्रां रुद्रशिखां विष्णुचित्तां तु भावयेत् ॥ 96॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,96,17295,ब्रह्मा तु कवचं यस्या गोत्रं साङ्ख्यायनं स्मृतम् । आदित्यमण्डलान्तःस्थां ध्यायेद्देवीं महेश्वरीम् ॥ 97॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,97,17296,एवं ध्यात्वा विधानेन गायत्रीं वेदमातरम् । ततो मुद्राः प्रकुर्वीत देव्याः प्रीतिकराः शुभाः ॥ 98॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,98,17297,सुमुखं सपुटं चैव विततं विस्तृतं तथा । द्विमुखं त्रिमुखं चैव चतुष्कं पञ्चकं तथा ॥ 99॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,99,17298,षण्मुखाधोमुखं चैव व्यापकाञ्जलिकं तथा । शकटं यमपाशं च ग्रथितं सन्मुखोन्मुखम् ॥ 100॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,100,17299,विलम्बं मुष्टिकं चैव मत्स्यं कूर्मं वराहकम् । सिंहाक्रान्तं महाक्रान्तं मुद्गरं पल्लवं तथा ॥ 101॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,101,17300,चतुर्विंशतिमुद्राश्च गायत्र्याः सम्प्रदर्शयेत् । शताक्षरां च गायत्रीं सकृदावर्तयेत्सुधीः ॥ 102॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,102,17301,चतुर्विंशत्यक्षराणि गायत्र्या कीर्तितानि हि । जातवेदसनाम्नीं च ऋचमुच्चारयेत्ततः ॥ 103॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,103,17302,त्र्यम्बकस्यर्चमावृत्य गायत्री शतवर्णका । भवतीयं महापुण्या सकृज्जप्या बुधैरियम् ॥ 104॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,104,17303,ओङ्कारं पूर्वमुच्चार्य भूर्भुवः स्वस्तथैव च । चतुर्विंशत्यक्षरां च गायत्रीं प्रोच्चरेत्ततः ॥ 105॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,105,17304,एवं नित्यं जपं कुर्याद्ब्राह्मणो विप्रपुङ्गवः । स समग्रं फलं प्राप्य सन्ध्यायाः सुखमेधते ॥ 106॥ 11,११.१६,षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।,106,17305,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे सन्ध्योपासननिरूपणं नाम षोडशोऽध्यायः ॥ ११.१६॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,0,17306,श्रीनारायण उवाच । भिन्नपादा तु गायत्री ब्रह्महत्याप्रणाशिनी । अभिन्नपादा गायत्री ब्रह्महत्यां प्रयच्छति ॥ 1॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,1,17307,अच्छिन्नपादागायत्रीजपं कुर्वन्ति ये द्विजाः । अथोमुखाश्च तिष्ठन्ति कल्पकोटिशतानि च ॥ 2॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,2,17308,सम्पुटैका षडोङ्कारा गायत्री विविधा मता । धर्मशास्त्रपुराणेषु इतिहासेषु सुव्रत ॥ 3॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,3,17309,पञ्चप्रणवसंयुक्तां जपेदित्यनुशासनम् । जपसङ्ख्याष्टभागान्ते पादो जप्यस्तुरीयकः ॥ 4॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,4,17310,स द्विजः परमो ज्ञेयः परं सायुज्यमाप्नुयात् । अन्यथा प्रजपेद्यस्तु स जपो विफलो भवेत् ॥ 5॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,5,17311,सम्पुटैका षडोङ्कारा भवेत्सा ऊर्ध्वरेतसाम् । गृहस्थो ब्रह्मचारी वा मोक्षार्थी तुरीयां जपेत् ॥ 6॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,6,17312,तुरीयपादो गायत्र्याः परोरजसे सावदोम् । ध्यानमस्य प्रवक्ष्यामि जपसाङ्गफलप्रदम् ॥ 7॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,7,17313,हृदि विकसितपद्मं सार्कसोमाग्निबिम्बं प्रणवमयमचिन्त्यं यस्य पीतं प्रकल्प्यम् । अचलपरमसूक्ष्मं ज्योतिराकाशसारं भवतु मम मुदेऽसौ सच्चिदानन्दरूपः ॥ 8॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,8,17314,त्रिशूलयोनी सुरभिमक्षमालां च लिङ्गकम् । अम्बुजं च महामुद्रामिति सप्त प्रदर्शयेत् ॥ 9॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,9,17315,या सन्ध्या सैव गायत्री सच्चिदानन्दरूपिणी । भक्त्या तां ब्राह्मणो नित्यं पूजयेच्च नमेत्ततः ॥ 10॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,10,17316,ध्यातस्य पूजां कुर्वीत पञ्चभिश्चोपचारकैः । लं पृथिव्यात्मने गन्धमर्पयामि नमो नमः ॥ 11॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,11,17317,हमाकाशात्मने पुष्पं चार्पयामि नमो नमः । यं च वाय्वात्मने धूपं चार्पयामि ततो वदेत् ॥ 12॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,12,17318,रं च वह्न्यात्मने दीपमर्पयामि ततो वदेत् । वममृतात्मने तस्मै नैवेद्यमपि चार्पयेत् ॥ 13॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,13,17319,यं रं लं वं हमिति च पुष्पाञ्जलिमथार्पयेत् । एवं पूजां विधायाथ चान्ते मुद्राः प्रदर्शयेत् ॥ 14॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,14,17320,ध्यायेत्तु मनसा देवीं मन्त्रमुच्चारयेच्छनैः । न कम्पयेच्छिरो ग्रीवा दन्तान्नैव प्रकाशयेत् ॥ 15॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,15,17321,विधिनाष्टोत्तरशतमष्टाविंशतिरेव वा । दशवारमशक्तो वा नातो न्यूनं कदाचन ॥ 16॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,16,17322,तत उद्वासयेद्देवीमुत्तमेत्यनुवाकतः । न गायत्रीं जपेद्विद्वाञ्जलमध्ये कथञ्चन ॥ 17॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,17,17323,यतः साग्निमुखी प्रोक्तेत्याहुः केचिन्महर्षयः । सुरभिर्ज्ञानशूर्पं च कूर्मो योनिश्च पङ्कजम् ॥ 18॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,18,17324,लिङ्गं निर्वाणकं चैव जपान्तेऽष्टौ प्रदर्शयेत् । यदक्षरपदभ्रष्टं स्वरव्यञ्जनवर्जितम् ॥ 19॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,19,17325,तत्सर्वं क्षम्यतां देवि कश्यपप्रियवादिनि । गायत्रीतर्पणं चातः करणीयं महामुने ॥ 20॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,20,17326,गायत्री छन्द आख्यातं विश्वामित्रऋषिः स्मृतः । सविता देवता प्रोक्ता विनियोगश्च तर्पणे ॥ 21॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,21,17327,भूरित्युक्त्वा च ऋग्वेदपुरुषं तर्पयामि च । भुव इत्येतदुक्त्वा च यजुर्वेदमथो वदेत् ॥ 22॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,22,17328,स्वर्व्याहृतिं समुक्त्वा च सामवेदं समुच्चरेत् । मह इत्येतदुक्त्वान्तेऽथर्ववेदं च तर्पयेत् ॥ 23॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,23,17329,जनः पदान्त इतिहासपुराणमितीरयेत् । तपः सर्वागमं चैव पुरुषं तर्पयामि च ॥ 24॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,24,17330,सत्यं च सत्यलोकाख्यपुरुषं तर्पयामि च । ॐ भूर्भूर्लोकपुरुषं तर्पयामि ततो वदेत् ॥ 25॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,25,17331,भुवश्चेति भुवर्लोकपुरुषं तर्पयामि च । स्वः स्वर्गलोकपुरुषं तर्पयामि ततः परम् ॥ 26॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,26,17332,ओम्भूरेकपदा नाम गायत्रीं तर्पयामि च । भुवो द्विपदां गायत्रीं तर्पयामीति कीर्तयेत् ॥ 27॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,27,17333,स्वश्च त्रिपदां गायत्रीं तर्पयामि ततो वदेत् । ओम्भूर्भुवः स्वश्चेति तथा गायत्रीं च चतुष्पदाम् ॥ 28॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,28,17334,उषसीं चैव गायत्रीं सावित्रीं च सरस्वतीम् । वेदानां मातरं पृथ्वीमजां चैव तु कौशिकीम् ॥ 29॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,29,17335,साङ्कृतिं वै सार्वजितिं गायत्रीं तर्पणे वदेत् । तर्पणान्ते च शान्त्यर्थं जातवेदसमीरयेत् ॥ 30॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,30,17336,मानस्तोकेति मन्त्रं च शान्त्यर्थं प्रजपेत्सुधीः । ततोऽपि त्र्यम्बको मन्त्रः शान्त्यर्थः परिकीर्तितः ॥ 31॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,31,17337,तच्छंयोरिति मन्त्रं च जपेच्छान्त्यर्थमेव तु । अतो देवा इति द्वाभ्यां सर्वाङ्गस्पर्शनं चरेत् ॥ 32॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,32,17338,स्योनापृथिविमन्त्रेण भूम्यै कुर्यात्प्रणामकम् । यथाविधि च गोत्रादीनुच्चरेद्द्विजसत्तमः ॥ 33॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,33,17339,एवं विधानं सन्ध्यायाः प्रातःकाले प्रकीर्तितम् । सन्ध्याकर्म समाप्यान्तेऽप्यग्निहोत्रं स्वयं हुनेत् ॥ 34॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,34,17340,पञ्चायतनपूजां च ततः कुर्यात्समाहितः । शिवां शिवं गणपतिं सूर्यं विष्णुं तथार्चयेत् ॥ 35॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,35,17341,पौरुषेण तु सूक्तेन व्याहृत्या वा समाहितः । मूलमन्त्रेण वा कुर्याद्ध्रीश्च ते इति मन्त्रतः ॥ 36॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,36,17342,भवानीं तु यजेन्मध्ये तथैशान्यां तु माधवम् । आग्नेय्यां गिरिजानाथं गणेशं रक्षसां दिशि ॥ 37॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,37,17343,वायव्यामर्चयेत्सूर्यमिति देवस्थितिक्रमः । षोडशानुपचारांश्च षोडशर्ग्भिर्हरेन्नरः ॥ 38॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,38,17344,देवीमभ्यर्च्य पुरतो यजेदन्याननुक्रमात् । न देवीपूजनात्पुण्यमधिकं क्वचिदीक्ष्यते ॥ 39॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,39,17345,अत एव तु सन्ध्यासु सन्ध्योपास्तिः श्रुतीरिता । नाक्षतैरर्चयेर्द्विष्णुं न तुलस्या गणेश्वरम् ॥ 40॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,40,17346,दूर्वाभिर्नार्चयेद्दुर्गां केतकैर्न महेश्वरम् । मल्लिकाजातिकुसुमं कुटजं पनसं तथा ॥ 41॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,41,17347,किंशुकं बकुलं कुन्दं लोध्रं तु करवीरकम् । शिंशपाऽपराजितापुष्पं बब्धूकागस्त्यपुष्पके ॥ 42॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,42,17348,मदन्तं सिन्दुवारं च पालाशकुसुमं तथा । दूर्वाङ्कुरं बिल्वदलं कुशमञ्जरिकां तथा ॥ 43॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,43,17349,शल्लकीमाधवीपुष्पमर्कमन्दारपुष्पकम् । केतकीं कर्णिकारं च कदम्बकुसुमं तथा ॥ 44॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,44,17350,पुन्नागश्चम्पकस्तद्वद्यूथिकातगरौ तथा । एवमादीनि पुष्पाणि देवीप्रियकराणि च ॥ 45॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,45,17351,गुग्गुलस्य भवेद्धूपो दीपः स्यात्तिलतैलतः । कृत्वेत्थं देवतापूजां ततो मूलमनुं जपेत् ॥ 46॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,46,17352,एवं पूजां समाप्यैव वेदाभ्यासं चरेद्बुधः । ततः स्ववृत्त्या कुर्वीत पोष्यवर्गार्थसाधनम् । तृतीयदिनभागे तु नियमेन विचक्षणः ॥ 47॥ 11,११.१७,सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।,47,17353,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे सन्ध्यादिकृत्यवर्णनं नाम सप्तदशोऽध्यायः ॥ ११.१७॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,0,17354,नारद उवाच । पूजाविशेषं श्रीदेव्याः श्रोतुमिच्छामि मानद । येनाश्रितेन मनुजः कृतकृत्यत्वमावहेत् ॥ 1॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,1,17355,श्रीनारायण उवाच । देवर्षे श‍ृणु वक्ष्यामि श्रीमत्सु पूजनक्रमम् । भुक्तिमुक्तिप्रदं साक्षात्समस्तापन्निवारणम् ॥ 2॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,2,17356,आचम्य मौनी सङ्कल्प्य भूतशुद्ध्यादिकं चरेत् । मातृकान्यासपूर्वं तु षडङ्गन्यासमाचरेत् ॥ 3॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,3,17357,शङ्खस्य स्थापनं कृत्वा सामान्यार्घ्यं विधाय च । पूजाद्रव्याणि चास्त्रेण प्रोक्षयेन्मतिमान्नरः ॥ 4॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,4,17358,गुरोरनुज्ञामादाय ततः पूजां समारभेत् । पीठपूजां पुरा कृत्वा देवीं ध्यायेत्ततः परम् ॥ 5॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,5,17359,आसनाद्युपचारैश्च भक्तिप्रेमयुतः सदा । स्नापयेत्परदेवीं तां पञ्चामृतरसादिभिः ॥ 6॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,6,17360,पौण्ड्रेक्षुरसपूर्णैस्तु कलशैः शतसङ्ख्यकैः । स्तापयेद्यो महेशानीं न स भूयोऽभिजायते ॥ 7॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,7,17361,यश्च चूतरसैरेवं स्नापयेज्जगदम्बिकाम् । वेदपारायणं कृत्वा रसेनेक्षूद्भवेन वा ॥ 8॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,8,17362,तद्गेहं न त्यजेन्नित्यं रमा चैव सरस्वती । यस्तु द्राक्षारसेनैव वेदपारायणं चरन् ॥ 9॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,9,17363,अभिषिञ्चेन्महेशानीं सकुटुम्बो नरोत्तमः । रसरेणुप्रमाणं च देवीलोके महीयते ॥ 10॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,10,17364,कर्पूरागुरुकाश्मीरकस्तूरीपङ्कपङ्किलैः । सलिलैः स्नापयेद्देवीं वेदपारायणं चरन् ॥ 11॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,11,17365,भस्मीभवन्ति पापानि शतजन्मार्जितानि च । यो दुग्धकलशैर्देवीं स्तापयेद्वेदपाठतः ॥ 12॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,12,17366,आकल्पं स वसेन्नित्यं तस्मिन् वै क्षीरसागरे । यस्तु दध्नाभिषिञ्चेत्तां दधिकुल्यापतिर्भवेत् ॥ 13॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,13,17367,मधुना च धृतेनैव तथा शर्करयापि च । स्नापयेन्मधुकुल्यादिनदीनां स पतिर्भवेत् ॥ 14॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,14,17368,सहस्रकलशैर्देवीं स्नापयन्भक्तितत्परः । इह लोके सुखी भूत्वाप्यन्यलोके सुखी भवेत् ॥ 15॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,15,17369,क्षौमं वस्त्रद्वयं दत्त्वा वायुलोकं स गच्छति । रत्ननिर्मितभूषाणां दाता निधिपतिर्भवेत् ॥ 16॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,16,17370,काश्मीरचन्दनं दत्त्वा कस्तूरीबिन्दुभूषितम् । तथा सीमन्तसिन्दूरं चरणेऽलक्तपत्रकम् ॥ 17॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,17,17371,इन्द्रासने समारूढो भवेद्देवपतिः परः । पुष्पाणि विविधान्याहुः पूजाकर्मणि साधवः ॥ 18॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,18,17372,तानि दत्त्वा यथालाभं कैलासं लभते स्वयम् । बिल्वपत्राण्यमोघानि यो दद्यात्परशक्तये ॥ 19॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,19,17373,तस्य दुःखं कदाचिच्च क्वचिच्च न भविष्यति । बिल्वपत्रत्रये रक्तचन्दनेन तु संल्लिखेत् ॥ 20॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,20,17374,मायाबीजत्रयं यत्नात्सुस्फुटं चातिसुन्दरम् । मायाबीजादिकं नाम चतुर्थ्यन्तं समुच्चरेत् ॥ 21॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,21,17375,नमोऽन्तं परया भक्त्या देवीचरणपङ्कजे । समर्पयेन्महादेव्यै कोमलं तच्च पत्रकम् ॥ 22॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,22,17376,य एवं कुरुते भक्त्या मनुत्वं लभते हि सः । यस्तु कोटिदलैरेवं कोमलैरतिनिर्मलैः ॥ 23॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,23,17377,पूजयेद्भुवनेशानीं ब्रह्माण्डाधिपतिर्भवेत् । कुन्दपुष्पैर्नवीनैस्तु लुलितैरष्टगन्धतः ॥ 24॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,24,17378,कोटिसङ्ख्यैः पूजयेत्तु प्राजापत्यं लभेद्ध्रुवम् । मल्लिकामालतीपुष्पैरष्टगन्धेन लोलितैः ॥ 25॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,25,17379,कोटिसङ्ख्यैः पूजया तु जायते स चतुर्मुखः । दशकोटिभिरप्येवं तैरेव कुसुमैर्मुने ॥ 26॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,26,17380,विष्णुत्वं लभते मर्त्यो यत्सुरेष्वपि दुर्लभम् । विष्णुनैतद्व्रतं पूर्वं कृतं स्वपदलब्धये ॥ 27॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,27,17381,शतकोटिभिरप्येवं सूत्रात्मत्वं व्रजेद्ध्रुवम् । व्रतमेतत्पुरा सम्यक्कृतं भक्त्या प्रयत्नतः ॥ 28॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,28,17382,तेन व्रतप्रभावेण हिरण्योदरतां व्रजेत् । जपाकुसुमपुष्पस्य बन्धूककुसुमस्य च ॥ 29॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,29,17383,दाडिमीकुसुमस्यापि विधिरेष उदीरितः । एवमन्यानि पुष्पाणि श्रीदेव्यै विधिनार्पयेत् ॥ 30॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,30,17384,तस्य पुण्यफलस्यान्तं न जानातीश्वरोऽपि सः । तत्तदृतूद्भवैः पुष्पैर्नामसाहस्रसङ्ख्यया ॥ 31॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,31,17385,समर्पयेन्महादेव्यै प्रतिवर्षमतन्द्रितः । य एवं कुरुते भक्त्या महापातकसंयुतः ॥ 32॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,32,17386,उपपातकयुक्तोऽपि मुच्यते सर्वपातकैः । देहान्ते श्रीपदाम्भोजं दुर्लभं देवसत्तमैः ॥ 33॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,33,17387,प्राप्नोति साधकवरो मुने नास्त्यत्र संशयः । कृष्णागुरुं सकर्पूरं चन्दनेन समन्वितम् ॥ 34॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,34,17388,सिल्हकं चाज्यसंयुक्तं गुग्गुलेन समन्वितम् । धूपं दद्यान्महादेव्यै येन स्याद्धूपितं गृहम् ॥ 35॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,35,17389,तेन प्रसन्ना देवेशी ददाति भुवनत्रयम् । दीपं कर्पूरखण्डैश्च दद्याद्देव्यै निरन्तरम् ॥ 36॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,36,17390,सूर्यलोकमवाप्नोति नात्र कार्या विचारणा । शतदीपांस्तथा दद्यात्सहस्रान्वा समाहितः ॥ 37॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,37,17391,नैवेद्यं पुरतो देव्याः स्थापयेत्पर्वताकृतिम् । लेह्यैश्चोष्यैस्तथा पेयैः षड्रसैस्तु समाहितैः ॥ 38॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,38,17392,नानाफलानि दिव्यानि स्वादूनि रसवन्ति च । स्वर्णपात्रस्थितान्नानि दद्याद्देव्यै निरन्तरम् ॥ 39॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,39,17393,तृप्तायां श्रीमहादेव्यां भवेत्तृप्तं जगत्त्रयम् । यतस्तदात्मकं सर्वं रज्जौ सर्पो यथा तथा ॥ 40॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,40,17394,ततः पानीयकं दद्याच्छुभं गङ्गाजलं महत् । कर्पूरवालासंयुक्तं शीतलं कलशस्थितम् ॥ 41॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,41,17395,ताम्बूलं च ततो देव्यै कर्पूरशकलान्वितम् । एलालवङ्गसंयुक्तं मुखसौगन्ध्यदायकम् ॥ 42॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,42,17396,दद्याद्देव्यै महाभक्त्या येन देवी प्रसीदति । मृदङ्गवीणामुरजढक्कादुन्दुभिनिःस्वनैः ॥ 43॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,43,17397,तोषयेज्जगतां धात्रीं गायनैरतिमोहनैः । वेदपारायणैः स्तोत्रैः पुराणादिभिरप्युत ॥ 44॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,44,17398,छत्रं च चामरे द्वे च दद्याद्देव्यै समाहितः । राजोपचारान् श्रीदेव्यै नित्यमेव समर्पयेत् ॥ 45॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,45,17399,प्रदक्षिणां नमस्कारं कुर्याद्देव्या अनेकधा । क्षमापयेज्जगद्धात्रीं जगदम्बां मुहुर्मुहुः ॥ 46॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,46,17400,सकृत्स्मरणमात्रेण यत्र देवी प्रसीदति । एतादृशोपचारैश्च प्रसीदेदत्र कः स्मयः ॥ 47॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,47,17401,स्वभावतो भवेन्माता पुत्रेऽतिकरुणावती । तेन भक्तौ कृतायां तु वक्तव्यं किं ततः परम् ॥ 48॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,48,17402,अत्र ते कथयिष्यामि पुरावृत्तं सनातनम् । बृहद्रथस्य राजर्षेः प्रियं भक्तिप्रदायकम् ॥ 49॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,49,17403,चक्रवाकोऽभवत्पक्षी क्वचिद्देशे हिमालये । भ्रमन्नानाविधान्देशान्ययौ काशीपुरं प्रति ॥ 50॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,50,17404,अन्नपूर्णामहास्थाने प्रारब्धवशतो द्विजः । जगाम लीलया तत्र कणलोभादनाथवत् ॥ 51॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,51,17405,कृत्वा प्रदक्षिणामेकां जगाम स विहायसा । देशान्तरं विहायैव पुरीं मुक्तिप्रदायिनीम् ॥ 52॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,52,17406,कालान्तरे ममारासौ गतः स्वर्गपुरीं प्रति । बुभुजे विषयान्सर्वान् दिव्यरूपधरो युवा ॥ 53॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,53,17407,कल्पद्वयं तथा भुक्त्वा पुनः प्राप भुवं प्रति । क्षत्रियाणां कुले जन्म प्राप सर्वोत्तमोत्तमम् ॥ 54॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,54,17408,बृहद्रथेति नाम्नाभूत्प्रसिद्धः क्षितिमण्डले । महायज्वा धार्मिकश्च सत्यवादी जितेन्द्रियः ॥ 55॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,55,17409,त्रिकालज्ञः सार्वभौमो यमी परपुरञ्जयः । पूर्वजन्मस्मृतिस्तस्य वर्तते दुर्लभा भुवि ॥ 56॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,56,17410,इति श्रुत्वा किंवदन्तीं मुनयः समुपागताः । कृतातिथ्या नृपेन्द्रेण विष्टरेषूषुरेव ते ॥ 57॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,57,17411,पप्रच्छुर्मुनयः सर्वे संशयोऽस्ति महान्नृप । केन पुण्यप्रभावेण पूर्वजन्मस्मृतिस्तव ॥ 58॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,58,17412,त्रिकालज्ञानमेवापि केन पुण्यप्रभावतः । ज्ञानं तवेति तज्ज्ञातुमागताः स्म तवान्तिकम् ॥ 59॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,59,17413,वद निर्व्याजया वृत्त्या तदस्माकं यथातथम् । श्रीनारायण उवाच । इति तेषां वचः श्रुत्वा राजा परमधार्मिकः ॥ 60॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,60,17414,उवाच सकलं ब्रह्मन् त्रिकालज्ञानकारणम् । श्रूयतां मुनयः सर्वे मम ज्ञानस्य कारणम् ॥ 61॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,61,17415,चक्रवाकः स्थितः पूर्वं नीचयोनिगतोऽपि वा । अज्ञानतोऽपि कृतवानन्नपूर्णाप्रदक्षिणाम् ॥ 62॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,62,17416,तेन पुण्यप्रभावेण स्वर्गे कल्पद्वयस्थितिः । त्रिकालज्ञानताप्यस्मिन्नभूज्जन्मनि सुव्रताः ॥ 63॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,63,17417,को वेद जगदम्बायाः पदस्मृतिफलं कियत् । स्मृत्वा तन्महिमानं तु पतन्त्यश्रूणि मेऽनिशम् ॥ 64॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,64,17418,धिगस्तु जन्म तेषां वै कृतघ्नानां तु पापिनाम् । ये सर्वमातरं देवीं स्वोपास्यां न भजन्ति हि ॥ 65॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,65,17419,न शिवोपासना नित्या न विष्णूपासना तथा । नित्योपास्तिः परा देव्या नित्या श्रुत्यैव चोदिता ॥ 66॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,66,17420,किं मया बहु वक्तव्यं स्थाने संशयवर्जिते । सेवनीयं पदाम्भोजं भगवत्या निरन्तरम् ॥ 67॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,67,17421,नातः परतरं किञ्चिदधिकं जगतीतले । सेवनीया परा देवी निर्गुणा सगुणाथवा ॥ 68॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,68,17422,श्रीनारायण उवाच । इति तस्य वचः श्रुत्वा राजर्षेर्धार्मिकस्य च । प्रसन्नहृदयाः सर्वे गताः स्वस्वनिकेतनम् ॥ 69॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,69,17423,एवम्प्रभावा सा देवी तत्पूजायाः फलं कियत् । अस्तीति केन प्रष्टव्यं वक्तव्यं वा न केनचित् ॥ 70॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,70,17424,येषां तु जन्मसाफल्यं तेषां श्रद्धा तु जायते । येषां तु जन्मसाङ्कर्यं तेषां श्रद्धा न जायते ॥ 71॥ 11,११.१८,अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।,71,17425,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे देवीमाहात्म्ये बृहद्रथकथानकं नामाष्टादशोऽध्यायः ॥ ११.१८॥ 11,११.१९,एकोनविंशोऽध्यायः । मध्याह्नसन्ध्यावर्णनम् ।,0,17426,श्रीनारायण उवाच । अथातः श्रूयतां ब्रह्मन् सन्ध्यां माध्याह्निकीं शुभाम् । यदनुष्ठानतोऽपूर्वं जायतेऽत्युत्तमं फलम् ॥ 1॥ 11,११.१९,एकोनविंशोऽध्यायः । मध्याह्नसन्ध्यावर्णनम् ।,1,17427,सावित्रीं युवतीं श्वेतवर्णां चैव त्रिलोचनाम् । वरदां चाक्षमालाढ्यां त्रिशूलाभयहस्तकाम् ॥ 2॥ 11,११.१९,एकोनविंशोऽध्यायः । मध्याह्नसन्ध्यावर्णनम् ।,2,17428,वृषारूढां यजुर्वेदसंहितां रुद्रदेवताम् । तमोगुणयुतां चैव भुवर्लोकव्यवस्थिताम् ॥ 3॥ 11,११.१९,एकोनविंशोऽध्यायः । मध्याह्नसन्ध्यावर्णनम् ।,3,17429,आदित्यमार्गसञ्चारकर्त्रीं मायां नमाम्यहम् । आदिदेवीमथ ध्यात्वाऽऽचमनादि च पूर्ववत् ॥ 4॥ 11,११.१९,एकोनविंशोऽध्यायः । मध्याह्नसन्ध्यावर्णनम् ।,4,17430,अथ चार्घ्यप्रकरणं पुष्पाणि चिनुयात्ततः । तदलाभे बिल्वपत्रं तोयेन मिश्रयेत्ततः ॥ 5॥ 11,११.१९,एकोनविंशोऽध्यायः । मध्याह्नसन्ध्यावर्णनम् ।,5,17431,ऊर्ध्वं च सूर्याभिमुखं क्षिप्त्वार्घ्यं प्रतिपादयेत् । प्रातःसन्ध्यादिवत्सर्वमुपसंहारपूर्वकम् ॥ 6॥ 11,११.१९,एकोनविंशोऽध्यायः । मध्याह्नसन्ध्यावर्णनम् ।,6,17432,मध्याह्ने केचिदिच्छन्ति सावित्रीं तु तदित्यृचम् । असम्प्रदायं तत्कर्म कार्यहानिस्तु जायते ॥ 7॥ 11,११.१९,एकोनविंशोऽध्यायः । मध्याह्नसन्ध्यावर्णनम् ।,7,17433,कारणं सन्ध्ययोश्चात्र मन्देहा नाम राक्षसाः । भक्षितुं सूर्यमिच्छन्ति कारणं श्रुतिचोदितम् ॥ 8॥ 11,११.१९,एकोनविंशोऽध्यायः । मध्याह्नसन्ध्यावर्णनम् ।,8,17434,अतस्तु कारणाद्विप्रः सन्ध्यां कुर्यात्प्रयत्नतः । सन्ध्ययोरुभयोर्नित्यं गायत्र्या प्रणवेन च ॥ 9॥ 11,११.१९,एकोनविंशोऽध्यायः । मध्याह्नसन्ध्यावर्णनम् ।,9,17435,अम्भस्तु प्रक्षिपेत्तेन नान्यथा श्रुतिघातकः । आकृष्णेनेति मन्त्रेण पुष्पैर्वाम्बुविमिश्रितम् ॥ 10॥ 11,११.१९,एकोनविंशोऽध्यायः । मध्याह्नसन्ध्यावर्णनम् ।,10,17436,अलाभे बिल्वदूर्वादिपत्रेणोक्तेन पूर्वकम् । अर्ध्यं दद्यात्प्रयत्नेन साङ्गं सन्ध्याफलं लभेत् ॥ 11॥ 11,११.१९,एकोनविंशोऽध्यायः । मध्याह्नसन्ध्यावर्णनम् ।,11,17437,अत्रैव तर्पणं वक्ष्ये श‍ृणु देवर्षिसत्तम । भुवः पुनः पूरुषं तु तर्पयामि नमो नमः ॥ 12॥ 11,११.१९,एकोनविंशोऽध्यायः । मध्याह्नसन्ध्यावर्णनम् ।,12,17438,यजुर्वेदं तर्पयामि मण्डलं तर्पयामि च । हिरण्यगर्भं च तथान्तरात्मानं तथैव च ॥ 13॥ 11,११.१९,एकोनविंशोऽध्यायः । मध्याह्नसन्ध्यावर्णनम् ।,13,17439,सावित्रीं च ततो देवमातरं साङ्कृतिं तथा । सन्ध्यां तथैव युवतीं रुद्राणीं नीमृजां तथा ॥ 14॥ 11,११.१९,एकोनविंशोऽध्यायः । मध्याह्नसन्ध्यावर्णनम् ।,14,17440,सर्वार्थानां सिद्धिकरीं सर्वमन्त्रार्थसिद्धिदाम् । भूर्भुवः स्वः पूरुषं तु इति मध्याह्नतर्पणम् ॥ 15॥ 11,११.१९,एकोनविंशोऽध्यायः । मध्याह्नसन्ध्यावर्णनम् ।,15,17441,उदुत्यमिति सूक्तेन सूर्योपस्थानमेव च । चित्रं देवानामिति च सूर्योपस्थानमाचरेत् ॥ 16॥ 11,११.१९,एकोनविंशोऽध्यायः । मध्याह्नसन्ध्यावर्णनम् ।,16,17442,ततो जपं प्रकुर्वीत मन्त्रसाधनतत्परः । जपस्यापि प्रकारं तु वक्ष्यामि श‍ृणु नारद ॥ 17॥ 11,११.१९,एकोनविंशोऽध्यायः । मध्याह्नसन्ध्यावर्णनम् ।,17,17443,कृत्वोत्तानौ करौ प्रातः सायं चाधः करौ तथा । मध्याह्ने हृदयस्थौ तु कृत्वा जपमुदीरयेत् ॥ 18॥ 11,११.१९,एकोनविंशोऽध्यायः । मध्याह्नसन्ध्यावर्णनम् ।,18,17444,पर्वद्वयमनामिक्याः कनिष्ठादिक्रमेण तु । तर्जनीमूलपर्यन्तं करमाला प्रकीर्तिता ॥ 19॥ 11,११.१९,एकोनविंशोऽध्यायः । मध्याह्नसन्ध्यावर्णनम् ।,19,17445,गोघ्नः पितृघ्नो मातृघ्नो भ्रूणहा गुरुतल्पगः । ब्रह्मस्वक्षेत्रहारी च यश्च विप्रः सुरां पिबेत् ॥ 20॥ 11,११.१९,एकोनविंशोऽध्यायः । मध्याह्नसन्ध्यावर्णनम् ।,20,17446,स गायत्र्या सहस्रेण पूतो भवति मानवः । मानसं वाचिकं पापं विषयेन्द्रियसङ्गजम् ॥ 21॥ 11,११.१९,एकोनविंशोऽध्यायः । मध्याह्नसन्ध्यावर्णनम् ।,21,17447,तत्किल्बिषं नाशयति त्रीणि जन्मानि मानवः । गायत्रीं यो न जानाति वृथा तस्य परिश्रमः ॥ 22॥ 11,११.१९,एकोनविंशोऽध्यायः । मध्याह्नसन्ध्यावर्णनम् ।,22,17448,पठेच्च चतुरो वेदान् गायत्रीं चैकतो जपेत् । वेदानां चावृतेस्तद्वद्गायत्रीजप उत्तमः ॥ 23॥ 11,११.१९,एकोनविंशोऽध्यायः । मध्याह्नसन्ध्यावर्णनम् ।,23,17449,इति मध्याह्नसन्ध्यायाः प्रकारः कीर्तितो मया । अतः परं प्रवक्ष्यामि ब्रह्मयज्ञविधिक्रमम् ॥ 24॥ 11,११.१९,एकोनविंशोऽध्यायः । मध्याह्नसन्ध्यावर्णनम् ।,24,17450,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे मध्याह्नसन्ध्यावर्णनं नामैकोनविंशोऽध्यायः ॥ ११.१९॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,0,17451,श्रीनारायण उवाच । त्रिराचम्य द्विजः पूर्वं द्विर्मार्जनमथाचरेत् । उपस्पृशेत्सव्यपाणिं पादौ च प्रोक्षयेत्ततः ॥ 1॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,1,17452,शिरसि चक्षुषि तथा नासायां श्रोत्रदेशके । हृदये च तथा मौलौ प्रोक्षणं सम्यगाचरेत् ॥ 2॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,2,17453,देशकालौ समुच्चार्य ब्रह्मयज्ञमथाचरेत् । द्वौ दर्भौ दक्षिणे हस्ते वामे त्रीनासने सकृत् ॥ 3॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,3,17454,उपवीते शिखायां च पादमूले सकृत्सकृत् । विमुक्तये सर्वपापक्षयार्थं चैवमेव हि ॥ 4॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,4,17455,सूत्रोक्तदेवताप्रीत्यै ब्रह्मयज्ञं करोम्यहम् । गायत्रीं त्रिर्जपेत्पूर्वं चाग्निमीळे ततः परम् ॥ 5॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,5,17456,यदङ्गेति ततः प्रोच्य अग्निर्वै इति कीर्तयेत् । अथ महाव्रतं चैव पन्था एतच्च कीर्तयेत् ॥ 6॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,6,17457,अथातः संहितायाश्च विदा मघवदित्यपि । महाव्रतस्येति तथा इषे त्वोर्जे इतीव हि ॥ 7॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,7,17458,अग्न आयाहि चेत्येवं शन्तो देवीरितीति च । अथ तस्य समाम्नायो वृद्धिरादैजितीव हि ॥ 8॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,8,17459,अथ शिक्षां प्रवक्ष्यामि पञ्चसंवत्सरेति च । मयरसतजभनेत्येव गौर्ग्मा इत्येव कीर्तयेत् ॥ 9॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,9,17460,अथातो धर्मजिज्ञासा अथातो ब्रह्म इत्यपि । तच्छंयोरिति च प्रोच्य ब्रह्मणे नम इत्यपि ॥ 10॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,10,17461,तर्पणं चैव देवानां ततः कुर्यात्प्रदक्षिणम् । प्रजापतिश्च ब्रह्मा च वेदा देवास्तथर्षयः ॥ 11॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,11,17462,सर्वाणि चैव छन्दांसि तथोङ्कारस्तथैव च । वषट्कारो व्याहृतयः सावित्री च ततः परम् ॥ 12॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,12,17463,गायत्री चैव यज्ञाश्च द्यावापृथिवी इत्यपि । अन्तरिक्षं त्वहोरात्राणि च साङ्ख्या अतः परम् ॥ 13॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,13,17464,सिद्धाः समुद्रा नद्यश्च गिरयश्च ततः परम् । क्षेत्रौषधिवनस्पत्यो गन्धर्वाप्सरसस्तथा ॥ 14॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,14,17465,नागा वयांसि गावश्च साध्या विप्रास्तथैव च । यक्षा रक्षांसि भूतानीत्येवमन्तानि कीर्तयेत् ॥ 15॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,15,17466,अथो निवीती भूत्वा च ऋषीन्सन्तर्पयेदपि । शतर्चिनो माध्यमाश्च गृत्समदस्तथैव च ॥ 16॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,16,17467,विश्वामित्रो वामदेवोऽत्रिर्भरद्वाज एव च । वसिष्ठश्च प्रगाथश्च पावमान्यस्ततः परम् ॥ 17॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,17,17468,क्षुद्रसूक्ता महासूक्ताः सनकश्च सनन्दनः । सनातनस्तथैवात्र सनत्कुमार एव च ॥ 18॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,18,17469,कपिलासुरिनामानौ वोहलिः पञ्चशीर्षकः । प्राचीनावीतिना तच्च कर्तव्यमथ तर्पणम् ॥ 19॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,19,17470,सुमन्तुर्जैमिनिर्वैशम्पायनः पैलसूत्रयुक् । भाष्यभारतपूर्वं च महाभारत इत्यपि ॥ 20॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,20,17471,धर्माचार्या इमे सर्वे तृप्यन्त्विति च कीर्तयेत् । जानन्ति बाहविगार्ग्यगौतमाश्चैव शाकलः ॥ 21॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,21,17472,बाभ्रव्यमाण्डव्ययुतोमाण्डूकेयस्ततः परम् । गार्गी वाचक्नवी चैव वडवा प्रातिथेयिका ॥ 22॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,22,17473,सुलभायुक्तमैत्रेयी कहोलश्च ततः परम् । कौषीतकं महाकौषीतकं वै तर्पयेत्ततः ॥ 23॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,23,17474,भारद्वाजं च पैङ्ग्यं च महापैङ्ग्यं सुयज्ञकम् । साङ्ख्यायनमैतरेयं महैतरेयमेव च ॥ 24॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,24,17475,बाष्कलं शाकलं चैव सुजातवक्त्रमेव च । औदवाहिं च सौजामिं शौनकं चाश्वलायनम् ॥ 25॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,25,17476,ये चान्ये सर्व आचार्यास्ते सर्वे तृप्तिमाप्नुयुः । ये के चास्मत्कुले जाता अपुत्रा गोत्रिणो मृताः ॥ 26॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,26,17477,ते गृह्णन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् । एवं ते ब्रह्मयज्ञस्य विधिरुक्तो महामुने ॥ 27॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,27,17478,यश्चायं कुरुते ब्रह्मयज्ञस्य विधिमुत्तमम् । सर्ववेदाङ्गपाठस्य फलमाप्नोति साधकः ॥ 28॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,28,17479,वैश्वदेवं ततः कुर्यान्नित्यश्राद्धं तथैव च । अतिथिभ्योऽन्नदानं च नित्यमेव समाचरेत् ॥ 29॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,29,17480,गोग्रासं च ततो दत्त्वा भुञ्जीत ब्राह्मणैः सह । अह्नस्तु पञ्चमे भागे प्रकुर्यादेतदुत्तमम् ॥ 30॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,30,17481,इतिहासपुराणाद्यैः षष्ठसप्तमकौ नयेत् । अष्टमे लोकयात्रा तु बहिः सन्ध्यां ततः पुनः ॥ 31॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,31,17482,अथ सायन्तनीं सन्ध्यां प्रवक्ष्यामि महामुने । यदनुष्ठानमात्रेण महामाया प्रसीदति ॥ 32॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,32,17483,आचम्य प्राणानायम्य साधकः स्थिरमानसः । बद्धपद्मासनो योगी सायङ्काले स्थिरो भवेत् ॥ 33॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,33,17484,श्रुतिस्मृत्यादिकर्मादौ सगर्भः प्राणसंयमः । अगर्भो ध्यानमात्रं तु स चामन्त्रः प्रकीर्तितः ॥ 34॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,34,17485,भूतशुद्ध्यादिकं कृत्वा नान्यथा कर्म कीर्तितम् । सलक्षो देवतां ध्यात्वा पूरकुम्भकरेचकैः ॥ 35॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,35,17486,ध्यानं प्रकुर्यात्सन्ध्यायां सायङ्काले विचक्षणः । वृद्धां सरस्वतीं देवीं कृष्णाङ्गीं कृष्णवाससम् ॥ 36॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,36,17487,शङ्खचक्रगदापद्महस्तां गरुडवाहनाम् । नानारत्नलसद्भूषां क्वणन्मञ्जीरमेखलाम् ॥ 37॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,37,17488,अनर्घ्यरत्नमुकुटां तारहारावलीयुताम् । ताटङ्कबद्धमाणिक्यकान्तिशोभिकपोलकाम् ॥ 38॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,38,17489,पीताम्बरधरां देवीं सच्चिदानन्दरूपिणीम् । सामवेदेन सहितां संयुतां सत्त्ववर्त्मना ॥ 39॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,39,17490,व्यवस्थितां च स्वर्लोके आदित्यपय्हगामिनीम् । आवाहयाम्यहं देवीमायान्तीं सूर्यमण्डलात् ॥ 40॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,40,17491,एवं ध्यात्वा च तां देवीं सन्ध्यासङ्कल्पमाचरेत् । आपो हि ष्ठेति मन्त्रेण अग्निश्चेति तथैव च ॥ 41॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,41,17492,विदध्यादाचमनकं शेषं पूर्ववदीरितम् । गायत्रीमन्त्रमुक्च्चार्य श्रीनारायणप्रीतये ॥ 42॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,42,17493,अर्घ्यं दद्याच्च सूर्याय साधकः शुद्धमानसः । उभौ पादौ समौ कृत्वा हस्ते धूत्वा जलाञ्जलिम् ॥ 43॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,43,17494,देवं ध्यात्वा मण्डलस्थं क्षिपेदर्घ्यं ततः क्रमात् । अर्घ्यं दद्यात्तु यो नीरे मूढात्मा ज्ञानवर्जितः ॥ 44॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,44,17495,उल्लङ्घ्य स्मृतिमन्त्रांश्च प्रायश्चित्ती भवेद्द्विजः । ततः सूर्यमुपस्थायाप्यसावादित्यमन्त्रतः ॥ 45॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,45,17496,गायत्र्याश्च जपं कुर्यादुपविश्य ततो बृसीम् । सहस्रं वा तदर्धं वा श्रीदेवीध्यानपूर्वकम् ॥ 46॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,46,17497,यथा प्रातः पुनस्तद्वदुपस्थानादिकं चरेत् । सायं सन्ध्यातर्पणे च क्रमेण परिकीर्तयेत् ॥ 47॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,47,17498,वसिष्ठो ऋषिरेवात्र सरस्वत्याः प्रकीर्तितः । देवता विष्णुरूपा सा छन्दश्चैव सरस्वती ॥ 48॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,48,17499,सायङ्कालीनसन्ध्यायास्तर्पणे विनियोगकः । स्वरित्युक्त्वा च पुरुषं सामवेदं तथैव च ॥ 49॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,49,17500,मण्डलं चेति सम्प्रोच्य हिरण्यगर्भकं तथा । तथैव परमात्मानं ततोऽपि च सरस्वतीम् ॥ 50॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,50,17501,वेदमातरमेवात्र सङ्कृतिं तद्वदेव च । सन्ध्यां वृद्धां तथा विष्णुरूपिणीमुषसीं तथा ॥ 51॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,51,17502,निर्मृजीं च तथा सर्वसिद्धीनां कारिणीं तथा । सर्वमन्त्राधिपतिकां भूर्भुवः स्वश्च पूरुषम् ॥ 52॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,52,17503,इत्येवं तर्पणं कार्यं सन्ध्यायाः श्रुतिसम्मतम् । सायं सन्ध्याविधानं च कथितं पापनाशनम् ॥ 53॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,53,17504,सर्वदुःखहरं व्याधिनाशकं मोक्षदं तथा । सदाचारेषु सन्ध्यायाः प्राधान्यं मुनिपुङ्गव । सन्ध्याचरणतो देवी भक्ताभीष्टं प्रयच्छति ॥ 54॥ 11,११.२०,विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।,54,17505,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे ब्रह्मयज्ञादिकीर्तनं नाम विंशोऽध्यायः ॥ ११.२०॥ 11,११.२१,एकविंशोऽध्यायः । गायत्रीपुरश्चरणविधिकथनम् ।,0,17506,श्रीनारायण उवाच । अथातः श्रूयतां ब्रह्मन् गायत्र्या पापनाशनम् । पुरश्चरणकं पुण्यं यथैष्टफलदायकम् ॥ 1॥ 11,११.२१,एकविंशोऽध्यायः । गायत्रीपुरश्चरणविधिकथनम् ।,1,17507,पर्वताग्रे नदीतीरे बिल्वमूले जलाशये । गोष्ठे देवालयेऽश्वत्थे उद्याने तुलसीवने ॥ 2॥ 11,११.२१,एकविंशोऽध्यायः । गायत्रीपुरश्चरणविधिकथनम् ।,2,17508,पुण्यक्षेत्रे गुरोः पार्श्वे चित्तैकाग्र्यस्थलेऽपि च । पुरश्चरणकृन्मन्त्री सिध्यत्येव न संशयः ॥ 3॥ 11,११.२१,एकविंशोऽध्यायः । गायत्रीपुरश्चरणविधिकथनम् ।,3,17509,यस्य कस्यापि मन्त्रस्य पुरश्चरणमारभेत् । व्याहृतित्रयसंयुक्तां गायत्रीं चायुतं जपेत् ॥ 4॥ 11,११.२१,एकविंशोऽध्यायः । गायत्रीपुरश्चरणविधिकथनम् ।,4,17510,नृसिंहार्कवराहाणां तान्त्रिकं वैदिकं तथा । विना जप्त्वा तु गायत्रीं तत्सर्वं निष्कलं भवेत् ॥ 5॥ 11,११.२१,एकविंशोऽध्यायः । गायत्रीपुरश्चरणविधिकथनम् ।,5,17511,सर्वे शाक्ता द्विजाः प्रोक्ता न शैवा न च वैष्णवाः । आदिशक्तिमुपासन्ते गायत्रीं वेदमातरम् ॥ 6॥ 11,११.२१,एकविंशोऽध्यायः । गायत्रीपुरश्चरणविधिकथनम् ।,6,17512,मन्त्रं संशोध्य यत्नेन पुरश्चरणतत्परः । मन्त्रशोधनपूर्वाङ्गमात्मशोधनमुत्तमम् ॥ 7॥ 11,११.२१,एकविंशोऽध्यायः । गायत्रीपुरश्चरणविधिकथनम् ।,7,17513,आत्मतत्त्वशोधनाय त्रिलक्षं प्रजपेद्बुधः । अथवा चैकलक्षं तु श्रुतिप्रोक्तेन वर्त्मना ॥ 8॥ 11,११.२१,एकविंशोऽध्यायः । गायत्रीपुरश्चरणविधिकथनम् ।,8,17514,आत्मशुद्धिं विना कर्तुर्जपहोमादिकाः क्रियाः । निष्फलास्तास्तु विज्ञेयाः कारणं श्रुतिचोदितम् ॥ 9॥ 11,११.२१,एकविंशोऽध्यायः । गायत्रीपुरश्चरणविधिकथनम् ।,9,17515,तपसा तापयेद्देहं पितृदेवांश्च तर्पयेत् । तपसा स्वर्गमाप्नोति तपसा विन्दते महत् ॥ 10॥ 11,११.२१,एकविंशोऽध्यायः । गायत्रीपुरश्चरणविधिकथनम् ।,10,17516,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे गायत्रीपुरश्चरणविधिकथनं नामैएकविंशोऽध्यायः ॥ ११.२१॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,0,17517,श्रीनारायण उवाच । अथातः श्रूयतां ब्रह्मन् वैश्वदेवविधानकम् । पुरश्चर्याप्रसङ्गेन ममापि स्मृतिमागतम् ॥ 1॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,1,17518,देवयज्ञो ब्रह्मयज्ञो भूतयज्ञस्तथैव च । पितृयज्ञो मनुष्यस्य यज्ञश्चैव तु पञ्चमः ॥ 2॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,2,17519,पञ्चसूना गृहस्थस्य चुल्ली पेषण्युपस्करः । कण्डणी चोदकुम्भश्च तेषां पापस्य शान्तये ॥ 3॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,3,17520,न चुल्ल्यां नायसे पात्रे न भूमौ न च खर्परे । वैश्वदेवं प्रकुर्वीत कुण्डे वा स्थण्डिलेऽपि वा ॥ 4॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,4,17521,न पाणिना न शूर्पेण न च मेध्याजिनादिभिः । मुखेनोपधमेदग्निं मुखादेव व्यजायत ॥ 5॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,5,17522,पटकेन भवेद्व्याधिः शूर्पेण धननाशनम् । पाणिना मृत्युमाप्नोति कर्मसिद्धिर्मुखेन तु ॥ 6॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,6,17523,फलैर्दधिघृतैः कुर्यान्मूलशाकोदकादिभिः । अलाभे येन केनापि काष्ठमूलतृणादिभिः ॥ 7॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,7,17524,जुहुयात्सर्पिषाभ्यक्तं तैलक्षारविवर्जितम् । दध्यक्तं वा पायसाक्तं तदभावेऽम्भसापि वा ॥ 8॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,8,17525,शुष्कैः पर्युषितैः कुष्ठी उच्छिष्टेन द्विषां वशी । रुक्षैर्द्ररिद्रतां याति क्षारं हुत्वा व्रजत्यधः ॥ 9॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,9,17526,अङ्गारान्भस्ममिश्रांस्तु निर्हृत्योत्तरतोऽनलात् । जुहुयाद्वैश्वदेवं तु न क्षारादिविमिश्रितम् ॥ 10॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,10,17527,अकृत्वा वैश्वदेवं तु यो भुङ्क्ते मूढधीर्द्विजः । स मूढो नरकं याति कालसूत्रमवाक्शिराः ॥ 11॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,11,17528,शाकं वा यदि वा पत्रं मूलं वा यदि वा फलम् । सङ्कल्पयेद्यदाहारं तेनाग्नौ जुहुयादपि ॥ 12॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,12,17529,अकृते वैश्वदेवे तु भिक्षौ भिक्षार्थमागते । उद्धृत्य वैश्वदेवार्थं भिक्षां दत्त्वा विसर्जयेत् ॥ 13॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,13,17530,वैश्वदेवकृतं दोषं शक्तो भिक्षुर्व्यपोहितुम् । न तु भिक्षुकृतं दोषं वैश्वदेवो व्यपोहति ॥ 14॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,14,17531,यतिश्च ब्रह्मचारी च पक्वान्नस्वामिनावुभौ । तयोरन्नमदत्त्वा तु भुक्त्वा चान्द्रायणं चरेत् ॥ 15॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,15,17532,वैश्वदेवानन्तरं च गोग्रासं प्रतिपादयेत् । तद्विधानं प्रवक्ष्यामि श‍ृणु देवर्षिपूजित ॥ 16॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,16,17533,सुरभिर्वैष्णवी माता नित्यं विष्णुपदे स्थिता । गोग्रासं च मया दत्तं सुरभे प्रतिगृह्यताम् ॥ 17॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,17,17534,गोभ्यश्च नम इत्येव पूजां कृत्वा गवेऽर्पयेत् । गोग्रासेन तु गोमाता सुरभिः सम्प्रसीदति ॥ 18॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,18,17535,ततो गोदोहनं कालं तिष्ठेच्चैव गृहाङ्गणे । अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ॥ 19॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,19,17536,स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति । माता पिता गुरुर्भ्राता प्रजा दासः समाश्रितः ॥ 20॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,20,17537,अभ्यागतोऽतिथिश्चाग्निरेते पोष्या उदाहृताः । एवं ज्ञात्वा तु यो मोहान्न करोति गृहाश्रमम् ॥ 21॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,21,17538,तस्य नायं तु न परो लोको भवति धर्मतः । यत्फलं सोमयागेन प्राप्नोति धनवान्द्विजः ॥ 22॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,22,17539,सम्यक् पञ्चमहायज्ञैर्दरिद्रस्तेन चाप्नुयात् । अथ प्राणाग्निहोत्रं तु वक्ष्यामि मुनिपुङ्गव ॥ 23॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,23,17540,यज्ज्ञात्वा मुच्यते जन्तुर्जन्ममृत्युजरादिभिः । परिज्ञानेन मुच्यन्ते नराः पातककिल्बिषैः ॥ 24॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,24,17541,विधिना भुज्यते येन मुच्येत स ऋणत्रयात् । कुलान्युद्धरते विप्रो नरकानेकविंशतिम् ॥ 25॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,25,17542,सर्वयज्ञफलप्राप्तिः सर्वलोकेषु गच्छति । हृत्पुण्डरीकमरणिर्मनो मन्धानसंज्ञकम् ॥ 26॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,26,17543,वायुरज्ज्वा मथेदग्निं चक्षुरध्वर्युरेव च । तर्जनीमध्यमाङ्गुष्ठैः प्राणस्यैवाहुतिं क्षिपेत् ॥ 27॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,27,17544,मध्यमानामिकाङ्गुष्ठैरपानस्याहुतिं क्षिपेत् । कनिष्ठानामिकाङ्गुष्ठैर्व्यानस्य तदनन्तरम् ॥ 28॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,28,17545,कनिष्ठातर्जन्यङ्गुष्ठैरुदानस्याहुतिं क्षिपेत् । सर्वाङ्गुलैर्गृहीत्वान्नं समानस्याहुतिं क्षिपेत् ॥ 29॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,29,17546,स्वाहान्तान्प्रणवाद्यांश्च नाममन्त्रांश्च वै पठेत् । मुखे चाहवनीयस्तु हृदये गार्हपत्यकः ॥ 30॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,30,17547,नाभौ च दक्षिणाग्निः स्यादधः सभ्यावसथ्यकौ । वाग्घोता प्राण उद्गाता चक्षुरध्वर्युरेव च ॥ 31॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,31,17548,मनो ब्रह्मा भवेच्छ्रोत्रमाग्नीध्रस्थान एव च । अहङ्कारः पशुश्चात्र प्रणवः पय ईरितम् ॥ 32॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,32,17549,बुद्धिश्च पत्नी सम्प्रोक्ता यदधीनो गृहाश्रमी । उरो वेदिस्तु रोमाणि दर्भाः स्युः स्रुक्स्रुवौ करौ ॥ 33॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,33,17550,प्राणमन्त्रस्य च ऋषी रुक्मवर्णः क्षुधाग्निकः । देवतादित्य एवात्र गायत्रीच्छन्द उच्यते ॥ 34॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,34,17551,प्राणाय च तथा स्वाहा मन्त्रान्ते कीर्तयेदपि । इदमादित्यदेवाय न ममेति वदेदपि ॥ 35॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,35,17552,अपानमन्त्रस्य तथा गोक्षीरधवलाकृतिः । श्रद्धाग्निऋषिरेवात्र सोमो वै देवता स्मृता ॥ 36॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,36,17553,उष्णिक्छन्दस्तथापानाय स्वाहेत्यपि कीर्तयेत् । सोमायेदं च न ममेत्यत्रोहः परिकीर्तितः ॥ 37॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,37,17554,व्यानमन्त्रस्य चाख्यातोऽम्बुजवर्णहुताशनः । ऋषिरुक्तो देवताग्निरनुष्टुप् छन्द ईरितम् ॥ 38॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,38,17555,व्यानाय च तथा स्वाहाग्नयेदं न ममेत्यपि । उदानमन्त्रस्य तथा शक्रगोपसवर्णकः ॥ 39॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,39,17556,ऋषिरग्निः समाख्यातो वायुर्वै देवता स्मृता । बृहतीच्छन्द आख्यातमुदानाय च पूर्ववत् ॥ 40॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,40,17557,वायवे चेदं न मम एवं चैवोच्चरेद् द्विजः । समानवायुमन्त्रस्य विद्युद्वर्णो विरूपकः ॥ 41॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,41,17558,ऋषिरग्निः समाख्यातः पर्जन्यो देवता मता । पङ्क्तिश्छन्दः समाख्यातं समानाय च पूर्ववत् ॥ 42॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,42,17559,पर्जन्यायेदमित्युक्त्वा षष्ठीं चैवाहुतिं क्षिपेत् । वैश्वानरो महानग्निरृषिर्वै परिकीर्तितः ॥ 43॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,43,17560,गायत्रीच्छन्द आख्यातं देवस्त्वात्मा भवेदपि । स्वाहान्तो मन्त्र आख्यातः परमात्मन उच्चरेत् ॥ 44॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,44,17561,इदं न मम चेत्येवं जातं प्राणाग्निहोत्रकम् । एतज्ज्ञात्वा विधिं कृत्वा ब्रह्मभूयाय कल्पते । प्राणाग्निहोत्रविद्येयं सङ्क्षेपात्कथिता हि ते ॥ 45॥ 11,११.२२,द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।,45,17562,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे वैश्वदेवादिविधिनिरूपणं नाम द्वाविंशोऽध्यायः ॥ ११.२२॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,0,17563,श्रीनारायण उवाच । अमृतापिधानमित्येवमुच्चार्य साधकोत्तमः । उच्छिष्टभाग्भ्यः पात्रान्नं दद्यादन्ते विचक्षणः ॥ 1॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,1,17564,ये के चास्मत्कुले जाता दासदास्योऽनकाङ्क्षिणः । ते सर्वे तृप्तिमायान्तु मया दत्तेन भूतले ॥ 2॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,2,17565,रौरवेऽपुण्यनिलये पद्मार्बुदनिवासिनाम् । अर्थिनामुदकं दत्तमक्षय्यमुपतिष्ठतु ॥ 3॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,3,17566,पवित्रग्रन्थिमुत्सृज्य मण्डले भुवि निक्षिपेत् । पात्रे तु निक्षिपेद्यस्तु स विप्रः पङ्क्तिदूषकः ॥ 4॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,4,17567,उच्छिष्टस्तेन संस्पृष्टः शुना शूद्रेण च द्विजः । उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ॥ 5॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,5,17568,अनुच्छिष्टेन संस्पृष्टैः स्नानमेव विधीयते । एकाहुतिप्रदानेन कोटियज्ञफलं लभेत् ॥ 6॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,6,17569,पञ्चभिः पञ्चकोटीनां तदनन्तफलं स्मृतम् । प्राणाग्निहोत्रवेत्रे यो ह्यन्नदानं करोति च ॥ 7॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,7,17570,दातुश्चैव तु यत्पुण्यं भोक्तुश्चैव तु यत्फलम् । प्राप्नुतस्तौ तदेव द्वावुभौ तौ स्वर्गगामिनौ ॥ 8॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,8,17571,सपवित्रकरो भुङ्क्ते यस्तु विप्रो विधानतः । ग्रासे ग्रासे फलं तस्य पञ्चगव्यसमं भवेत् ॥ 9॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,9,17572,पूजाकालत्रये नित्यं जपस्तर्पणमेव च । होमो ब्राह्मणभुक्तिश्च पुरश्चरणमुच्यते ॥ 10॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,10,17573,अधःशयानो धर्मात्मा जितक्रोधो जितेन्द्रियः । लघुमिष्टहिताशी च विनीतः शान्तचेतसा ॥ 11॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,11,17574,नित्यं त्रिषवणस्नायी नित्यं स शुभभाषणः । स्त्रीशूद्रपतितत्व्रात्यनास्तिकोच्छिष्टभाषणम् ॥ 12॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,12,17575,चाण्डालभाषणं चैव न कुर्यान्मुनिसत्तम । नत्वा नैव च भाषेत जपहोमार्चनादिषु ॥ 13॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,13,17576,मैथुनस्य तथालापं तद्गोष्ठीमपि वर्जयेत् । कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ॥ 14॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,14,17577,सर्वत्र मैथुनत्यागो ब्रह्मचर्यं प्रचक्षते । राज्ञश्चैव गृहस्थस्य ब्रह्मचर्यमुदाहृतम् ॥ 15॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,15,17578,ऋतुस्तातेषु दारेषु सङ्गतिर्या विधानतः । संस्कृतायां सवर्णायामृतुं दृष्ट्वा प्रयत्नतः ॥ 16॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,16,17579,रात्रौ तु गमनं कार्यं ब्रह्मचर्यं हरेन्न तत् । ऋणत्रयमसंशोध्य त्वनुत्पाद्य सुतानपि ॥ 17॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,17,17580,तथा यज्ञाननिष्ट्वा च मोक्षमिच्छन्व्रजत्यधः । अजागलस्य यज्जन्म तज्जन्म श्रुतिचोदितम् ॥ 18॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,18,17581,अतः कार्यं तु विप्रेन्द्र ऋणत्रयविशोधनम् । ते देवानामृषीणां च पितॄणामृणिनस्तथा ॥ 19॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,19,17582,ऋषिभ्यो ब्रह्मचर्येण पितृभ्यस्तु तिलोदकैः । मुच्येद्यज्ञेन देवेभ्यः स्वाश्रमं धर्ममाचरेत् ॥ 20॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,20,17583,क्षीराहारी फलाशी वा शाकाशी वा हविष्यभुक् । भिक्षाशी वा जपेद्विद्वान्कृच्छ्रचान्द्रायणादिकृत् ॥ 21॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,21,17584,लवणं क्षारमम्लं च गृञ्जनं कांस्यभोजनम् । ताम्बूलं च द्विभुक्तं च दुष्टवासः प्रमत्तनम् ॥ 22॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,22,17585,श्रुतिस्मृतिविरोधं च जपं रात्रौ विवर्जयेत् । वृथा न कालं गमयेद्द्यूतस्त्रीस्वापवादतः ॥ 23॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,23,17586,गमयेद्देवतापूजास्तोत्रागमविलोकनैः । भूशय्या ब्रह्मचारित्वं मौनचर्या तथैव च ॥ 24॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,24,17587,नित्यं त्रिषवणस्नानं शूद्रकर्मविवर्जनम् । नित्यपूजा नित्यदानमानन्दस्तुतिकीर्तनम् ॥ 25॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,25,17588,नैमित्तिकार्चनं चैव विश्वासो गुरुदेवयोः । जपनिष्ठस्य धर्मा ये द्वादशैते सुसिद्धिदाः ॥ 26॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,26,17589,नित्यं सूर्यमुपस्थाय तस्य चाभिमुखो जपेत् । देवताप्रतिमादौ वा वह्नौ वाभ्यर्च्य तन्मुखः ॥ 27॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,27,17590,स्नानपूजाजपध्यानहोमतर्पणतत्परः । निष्कामो देवतायां च सर्वकर्मनिवेदकः ॥ 28॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,28,17591,एवमादींश्च नियमान्पुरश्चरणकृच्चरेत् । तस्माद्द्विजः प्रसन्नात्मा जपहोमपरायणः ॥ 29॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,29,17592,तपस्यध्ययने युक्तो भवेद्भूतानुकम्पकः । तपसा स्वर्गमाप्नोति तपसा विन्दते महत् ॥ 30॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,30,17593,तपोयुक्तस्य सिध्यन्ति कर्माणि नियतात्मनः । विद्वेषणं संहरणं मारणं रोगनाशनम् ॥ 31॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,31,17594,येन येनाथ ऋषिणा यदर्थं देवताः स्तुताः । स स कामः समृद्ध्येत तेषां तेषां तथा तथा ॥ 32॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,32,17595,तानि कर्माणि वक्ष्यामि विधानानि च कर्मणाम् । पुरश्चरणमादौ च कर्मणां सिद्धिकारकम् ॥ 33॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,33,17596,स्वाध्यायाभ्यसनस्यादौ प्राजापत्यं चरेद्द्विजः । केशश्मश्रुलोमनखान् वापयित्वा ततः शुचिः ॥ 34॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,34,17597,तिष्ठेदहनि रात्रौ तु शुचिरासीत वाग्यतः । सत्यवादी पवित्राणि जपेद्व्याहृतयस्तथा ॥ 35॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,35,17598,ज्येकाराद्यास्तु ता जप्त्वा सावित्रीं च तदित्यृचम् । आपो हि ष्ठेति सूक्तं च पवित्रं पापनाशनम् ॥ 36॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,36,17599,पुनन्त्यः स्वस्तिमत्यश्च पावमान्यस्तथैव च । सर्वत्रैतत्प्रयोक्तव्यमादावन्ते च कर्मणाम् ॥ 37॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,37,17600,आसहस्रादाशताद्वाप्यादशादथवा जपेत् । अकारं व्याहृतीस्तिस्रः सावित्रीमथवायुतम् ॥ 38॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,38,17601,तर्पयित्वाद्भिराचार्यानृषींश्छन्दांसि देवताः । अनार्येण न भाषेत शूद्रेणापि न गर्हितैः ॥ 39॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,39,17602,नापि चोदक्यया वध्वा पतितैर्नान्त्यजैर्नृभिः । न देवब्राह्मणद्विष्टैर्नाचार्यगुरुनिन्दकैः ॥ 40॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,40,17603,न मातृपितृविद्विष्टैर्नावमन्येत कञ्चन । कृच्छ्राणामेष सर्वेषां विधिरुक्तोऽनुपूर्वशः ॥ 41॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,41,17604,प्राजापत्यस्य कृच्छ्रस्य तथा सान्तपनस्य च । पराकस्य च कृच्छ्रस्य विधिश्चान्द्रायणस्य च ॥ 42॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,42,17605,पञ्चभिः पातकैः सर्वैर्दुष्कृतैश्च प्रमुच्यते । तप्तकृच्छ्रेण सर्वाणि पापानि दहति क्षणात् ॥ 43॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,43,17606,त्रिभिश्चान्द्रायणैः पूतो ब्रह्मलोकं समश्नुते । अष्टभिर्देवताः साक्षात्पश्येत वरदास्तदा ॥ 44॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,44,17607,छन्दांसि दशभिर्ज्ञात्वा सर्वान्कामान्समश्नुते । त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् ॥ 45॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,45,17608,त्र्यहं परं च नाश्नीयात्प्राजापत्यं चरेद्द्विजः । गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥ 46॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,46,17609,एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् । एकैकं ग्रासमश्नीयादहानि त्रीणि पूर्ववत् ॥ 47॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,47,17610,त्र्यहं चोपवसेदित्थमतिकृच्छ्रं चरेद्द्विजः । एवमेव त्रिभिर्युक्तं महासान्तपनं स्मृतम् ॥ 48॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,48,17611,तप्तकृच्छ्रं चरन्विप्रो जलक्षीरघृतानिलान् । प्रतित्र्यहं पिबेदुष्णान्सकृत्स्नायी समाहितः ॥ 49॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,49,17612,नियतस्तु पिबेदापः प्राजापत्यविधिः स्मृतः । यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् ॥ 50॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,50,17613,पराको नाम कृच्छ्रोऽयं सर्वपापप्रणोदनः । एकैकं तु ग्रसेत्पिण्डं कृष्णे शुक्ले च वर्धयेत् ॥ 51॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,51,17614,अमावास्यां न भुञ्जीत एवं चान्द्रायणे विधिः । उपस्पृश्य त्रिषवणमेतच्चान्द्रायणं स्मृतम् ॥ 52॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,52,17615,चतुरः प्रातरश्नीयाद्विप्रः पिण्डात्कृताह्निकः । चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं स्मृतम् ॥ 53॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,53,17616,अष्टावष्टौ समश्नीयात्पिण्डान्मध्यन्दिने स्थिते । नियतात्मा हविष्यस्य यतिचान्द्रायणं व्रतम् ॥ 54॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,54,17617,एतद्रुद्रास्तथादित्या वसवश्च चरन्ति हि । सर्वे कुशलिनो देवा मरुतश्च भुवा सह ॥ 55॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,55,17618,एकैकं सप्तरात्रेण पुनाति विधिवत्कृतम् । त्वगसृक्पिशितास्थीनि मेदोमज्जावसास्तथा ॥ 56॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,56,17619,एकैकं सप्तरात्रेण शुध्यत्येव न संशयः । एभिर्व्रतैर्विपूतात्मा कर्म कुर्वीत नित्यशः ॥ 57॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,57,17620,एवं शुद्धस्य कर्माणि सिध्यन्त्येव न संशयः । शुद्धात्मा कर्म कुर्वीत सत्यवादी जितेन्द्रियः ॥ 58॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,58,17621,इष्टान्कामांस्ततः सर्वान्सम्प्राप्नोति न संशयः । त्रिरात्रमेवोपवसेद्रहितः सर्वकर्मणा ॥ 59॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,59,17622,त्रीणि नक्तानि वा कुर्यात्ततः कर्म समारभेत् । एवं विधानं कथितं पुरश्चर्याफलप्रदम् ॥ 60॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,60,17623,गायत्र्याश्च पुरश्चर्यां सर्वकामप्रदायिनी । कथिता तव देवर्षे महापापविनाशिनी ॥ 61॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,61,17624,आदौ कुर्याद्व्रतं मन्त्री देहशोधनकारकम् । पुरश्चर्यां ततः कुर्यात्समस्तफलभाग्भवेत् ॥ 62॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,62,17625,इति ते कथितं गुह्यं पुरश्चर्याविधानकम् । एतत्परस्मै नो वाच्यं श्रुतिसारं यतः स्मृतम् ॥ 63॥ 11,११.२३,त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।,63,17626,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे तप्तकृच्छ्रादिलक्षणवर्णनं नाम त्रयोविंशोऽध्यायः ॥ ११.२३॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,0,17627,नारद उवाच । नारायण महाभाग गायत्र्यास्तु समासतः । शान्त्यादिकान्प्रयोगांस्तु वदस्व करुणानिधे ॥ 1॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,1,17628,श्रीनारायण उवाच । अतिगुह्यमिदं पृष्टं त्वया ब्रह्यतनूद्भव । न कस्यापि च वक्तव्यं दुष्टाय पिशुनाय च ॥ 2॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,2,17629,अथ शान्तिः पयोऽक्ताभिः समिद्भिर्जुहुयाद् द्विजः । शमीसमिद्भिः शाम्यन्ति भूतरोगग्रहादयः ॥ 3॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,3,17630,आर्द्राभिः क्षीरवृक्षस्य समिद्भिर्जुहुयाद् द्विजः । जुहुयाच्छकलैर्वापि भूतरोगादिशान्तये ॥ 4॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,4,17631,जलेन तर्पयेत्सूर्यं पाणिभ्यां शान्तिमाप्नुयात् । जानुदघ्ने जले जप्त्वा सर्वान्दोषाञ्छमं नयेत् ॥ 5॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,5,17632,कण्ठदघ्ने जले जप्त्वा मुच्येत्प्राणान्तिकाद्भयात् । सर्वेभ्यः शान्तिकर्मभ्यो निमज्याप्सु जपः स्मृतः ॥ 6॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,6,17633,सौवर्णे राजते वापि पात्रे ताम्रमयेऽपि वा । क्षीरवृक्षमये वापि निर्व्रणे मृण्मयेऽपि वा ॥ 7॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,7,17634,सहस्रं पञ्चगव्येन हुत्वा सुज्वलितेऽनले । क्षीरवृक्षमयैः काष्ठैः शेषं सम्पादयेच्छनैः ॥ 8॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,8,17635,प्रत्याहुतिं स्पृशञ्जप्त्वा सहस्रं पात्रसंस्थितम् । तेन तं प्रोक्षयेद्देशं कुशैर्मन्त्रमनुस्मरन् ॥ 9॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,9,17636,बलिं किरंस्ततस्तस्मिन्ध्यायेत्तु परदेवताम् । अभिचारसमुत्पन्ना कृत्या पापं च नश्यति ॥ 10॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,10,17637,देवभूतपिशाचाद्यान् यद्येवं कुरुते वशे । गृहं ग्रामं पुरं राष्ट्रं सर्वं तेभ्यो विमुच्यते ॥ 11॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,11,17638,निखने मुच्यते तेभ्यो लिखने मध्यतोऽपि च । मण्डले शूलमालिख्य पूर्वोक्ते च क्रमेऽपि वा ॥ 12॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,12,17639,अभिमन्त्र्य सहस्रं तन्निखनेत्सर्वशान्तये । सौवर्णं राजतं वापि कुम्भं ताम्रमयं च वा ॥ 13॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,13,17640,मृण्मयं वा नवं दिव्यं सूत्रवेष्टितमव्रणम् । स्थण्डिले सैकते स्थाप्य पूरयेन्मन्त्रविज्जलैः ॥ 14॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,14,17641,दिग्भ्य आहृत्य तीर्थानि चतसृभ्यो द्विजोत्तमैः । एलाचन्दनकर्पूरजातीपाटलमल्लिकाः ॥ 15॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,15,17642,बिल्वपत्रं तथा क्रान्तां देवीं व्रीहियवांस्तिलान् । सर्षपान्क्षीरवृक्षाणां प्रवालानि च निक्षिपेत् ॥ 16॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,16,17643,सर्वाण्यभिविधायैव कुशकूर्चसमन्वितम् । स्नातः समाहितो विप्रः सहस्रं मन्त्रयेद् बुधः ॥ 17॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,17,17644,दिक्षु सौरानधीयीरन्मन्त्रान्विप्रास्त्रयीविदः । प्रोक्षयेत्पाययेदेनं नीरं तेनाभिषिञ्चयेत् ॥ 18॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,18,17645,भूतरोगाभिचारेभ्यः स निर्मुक्तः सुखी भवेत् । अभिषेकेण मुच्येत मृत्योरास्यगतो नरः ॥ 19॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,19,17646,अवश्यं कारयेद्विद्वान्राजा दीर्घं जिजीविषुः । गावो देयाश्च ऋत्विग्भ्य अभिषेके शतं मुने ॥ 20॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,20,17647,दक्षिणा येन वा तुष्टिर्यथाशक्त्याथवा भवेत् । जपेदश्वत्थमालभ्य मन्दवारे शतं द्विजः ॥ 21॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,21,17648,भूतरोगाभिचारेभ्यो मुच्यते महतो भयात् । गुडूच्याः पर्वविच्छिन्नाः पयोऽक्ता जुहुयाद् द्विजः ॥ 22॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,22,17649,एवं मृत्युञ्जयो होमः सर्वव्याधिविनाशनः । आम्रस्य जुहुयात्पत्रैः पयोऽक्तैर्ज्वरशान्तये ॥ 23॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,23,17650,वचाभिः पयसाक्ताभिः क्षयं हुत्वा विनाशयेत् । मधुत्रितयहोमेन राजयक्ष्मा विनश्यति ॥ 24॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,24,17651,निवेद्य भास्करायान्नं पायसं होमपूर्वकम् । राजयक्ष्माभिभूतं च प्राशयेच्छान्तिमाप्नुयात् ॥ 25॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,25,17652,लताः पर्वसु विच्छिद्य सोमस्य जुहुयाद् द्विजः । सोमे सूर्येण संयुक्ते पयोऽक्ताः क्षयशान्तये ॥ 26॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,26,17653,कुसुमैः शङ्खवृक्षस्य हुत्वा कुष्ठं विनाशयेत् । अपस्मारविनाशः स्यादपामार्गस्य तण्डुलैः ॥ 27॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,27,17654,क्षीरवृक्षसमिद्धोमादुन्मादोऽपि विनश्यति । औदुम्बरसमिद्धोमादतिमेहः क्षयं व्रजेत् ॥ 28॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,28,17655,प्रमेहं शमयेद्धुत्वा मधुनेक्षुरसेन वा । मधुत्रितयहोमेन नयेच्छान्तिं मसूरिकाम् ॥ 29॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,29,17656,कपिलासर्पिषा हुत्वा नयेच्छान्तिं मसूरिकाम् । उदुम्बरवटाश्वत्थैर्गोगजाश्वामयं हरेत् ॥ 30॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,30,17657,पिपीलिमधुवल्मीके गृहे जाते शतं शतम् । शमीसमिद्भिरन्नेन सर्पिषा जुहुयाद् द्विजः ॥ 31॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,31,17658,तदुत्थं शान्तिमायाति शेषैस्तत्र बलिं हरेत् । अभ्रस्तनितभूकम्पालक्ष्यादौ वनवेतसः ॥ 32॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,32,17659,सप्ताहं जुहुयादेवं राष्ट्रे राज्यं सुखी भवेत् । यां दिशं शतजप्तेन लोष्ठेनाभिप्रताडयेत् ॥ 33॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,33,17660,ततोऽग्निमारुतारिभ्यो भयं तस्य विनश्यति । मनसैव जपेदेनां बद्धो मुच्येत बन्धनात् ॥ 34॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,34,17661,भूतरोगविषादिभ्यः स्पृशञ्जप्त्वा विमोचयेत् । भूतादिभ्यो विमुच्येत जलं पीत्वाभिमन्त्रितम् ॥ 35॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,35,17662,अभिमन्त्र्य शतं भस्म न्यसेद्भूतादिशान्तये । शिरसा धारयेद्भस्म मन्त्रयित्वा तदित्यृचा ॥ 36॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,36,17663,सर्वव्याधिविनिर्मुक्तः सुखी जीवेच्छतं समाः । अशक्तः कारयेच्छान्तिं विप्रं दत्त्वा तु दक्षिणाम् ॥ 37॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,37,17664,अथ पुष्टिं श्रियं लक्ष्मीं पुष्पैर्हुत्वाप्नुयाद् द्विजः । श्रीकामो जुहुयात्पद्मै रक्तैः श्रियमवाप्नुयात् ॥ 38॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,38,17665,हुत्वा श्रियमवाप्नोति जातीपुष्पैर्नवैः शुभैः । शालितण्डुलहोमेन श्रियमाप्नोति पुष्कलाम् ॥ 39॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,39,17666,समिद्भिर्बिल्ववृक्षस्य हुत्वा श्रियमवाप्नुयात् । बिल्वस्य शकलैर्हुत्वा पत्रैः पुष्पैः फलैरपि ॥ 40॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,40,17667,श्रियमाप्नोति परमां मूलस्य शकलैरपि । समिद्भिर्बिल्ववृक्षस्य पायसेन च सर्पिषा ॥ 41॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,41,17668,शतं शतं च सप्ताहं हुत्वा श्रियमवाप्नुयात् । लाजैस्त्रिमधुरोपेतैर्होमे कन्यामवाप्नुयात् ॥ 42॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,42,17669,अनेन विधिना कन्या वरमाप्नोति वाञ्छितम् । रक्तोत्पलशतं हुत्वा सप्ताहं हेम चाप्नुयात् ॥ 43॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,43,17670,सूर्यबिम्बे जलं हुत्वा जलस्थं हेम चाप्नुयात् । अन्नं हुत्वाप्नुयादन्नं व्रीहीन्व्रीहिपतिर्भवेत् ॥ 44॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,44,17671,करीषचूर्णैर्वत्सस्य हुत्वा पशुमवाप्नुयात् । प्रियङ्गुपायसाज्यैश्च भवेद्धोमादिभिः प्रजा ॥ 45॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,45,17672,निवेद्य भास्करायान्नं पायसं होमपूर्वकम् । भोजयेत्तदृतुस्नातां पुत्रं परमवाप्नुयात् ॥ 46॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,46,17673,सप्ररोहाभिरार्द्राभिरायुर्हुत्वा समाप्नुयात् । समिद्भिः क्षीरवृक्षस्य हुत्वायुषमवाप्नुयात् ॥ 47॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,47,17674,सप्ररोहाभिरार्द्राभी रक्ताभिर्मधुरत्रयैः । व्रीहीणां च शतं हुत्वा हेम चायुरवाप्नुयात् ॥ 48॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,48,17675,सुवर्णकुड्मलं हुत्वा शतमायुरवाप्नुयात् । दूर्वाभिः पयसा वापि मधुना सर्पिषापि वा ॥ 49॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,49,17676,शतं शतं च सप्ताहमपमृत्युं व्यपोहति । शमीसमिद्भिरन्नेन पयसा वा च सर्पिषा ॥ 50॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,50,17677,शतं शतं च सप्ताहमपमृत्युं व्यपोहति । न्यग्रोधसमिधो हुत्वा पायसं होमयेत्ततः ॥ 51॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,51,17678,शतं शतं च सप्ताहमपमृत्युं व्यपोहति । क्षीराहारो जपेन्मृत्योः सप्ताहाद्विजयी भवेत् ॥ 52॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,52,17679,अनश्नन्वाग्यतो जप्त्वा त्रिरात्रं मुच्यते यमात् । निमज्ज्याप्सु जपेदेवं सद्यो मृत्योर्विमुच्यते ॥ 53॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,53,17680,जपेद् बिल्वं समाश्रित्य मासं राज्यमवाप्नुयात् । बिल्वं हुत्वाप्नुयाद्राज्यं समूलफलपल्लवम् ॥ 54॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,54,17681,हुत्वा पद्मशतं मासं राज्यमाप्नोत्यकण्टकम् । यवागूं ग्राममाप्नोति हुत्वा शालिसमन्वितम् ॥ 55॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,55,17682,अश्वत्थसमिधो हुत्वा युद्धादौ जयमाप्नुयात् । अर्कस्य समिधो हुत्वा सर्वत्र विजयी भवेत् ॥ 56॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,56,17683,संयुक्तैः पयसा पत्रैः पुष्पैर्वा वेतसस्य च । पायसेन शतं हुत्वा सप्ताहं वृष्टिमाप्नुयात् ॥ 57॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,57,17684,नाभिदघ्ने जले जप्त्वा सप्ताहं वृष्टिमाप्नुयात् । जले भस्मशतं हुत्वा महावृष्टिं निवारयेत् ॥ 58॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,58,17685,पालाशाभिरवाप्नोति समिद्भिर्ब्रह्मवर्चसम् । पलाशकुसुमैर्हुत्वा सर्वमिष्टमवाप्नुयात् ॥ 59॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,59,17686,पयो हुत्वाऽऽप्नुयान्मेधामाज्यं बुद्धिमवाप्नुयात् । अभिमन्त्र्य पिबेद् ब्राह्मं रसं मेधामवाप्नुयात् ॥ 60॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,60,17687,पुष्पहोमे भवेद्वासस्तन्तुभिस्तद्विधं पटम् । लवणं मधुसम्मिश्रं हुत्वेष्टं वशमानयेत् ॥ 61॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,61,17688,नयेदिष्टं वशं हुत्वा लक्ष्मीपुष्पैर्मधुप्लुतैः । नित्यमञ्जलिनाऽऽत्मानमभिषिञ्चेज्जले स्थितः ॥ 62॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,62,17689,मतिमारोग्यमायुष्यमग्र्यं स्वास्थ्यमवाप्नुयात् । कुर्याद्विप्रोऽन्यमुद्दिश्य सोऽपि पुष्टिमवाप्नुयात् ॥ 63॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,63,17690,अथ चारुविधिर्मासं सहस्रं प्रत्यहं जपेत् । आयुष्कामः शुचौ देशे प्राप्नुयादायुरूत्तमम् ॥ 64॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,64,17691,आयुरारोग्यकामस्तु जपेन्मासद्वयं द्विजः । भवेदायुष्यमारोग्यं श्रियै मासत्रयं जपेत् ॥ 65॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,65,17692,आयुः श्रीपुत्रदाराद्याश्चतुर्भिश्च यशो जपात् । पुत्रदारायुरारोग्यं श्रियं विद्यां च पञ्चभिः ॥ 66॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,66,17693,एवमेवोत्तरान्कामान् मासैरेवोत्तरैर्व्रजेत् । एकपादो जपेदूर्ध्वबाहुः स्थित्वा निराश्रयः ॥ 67॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,67,17694,मासं शतत्रयं विप्रः सर्वान्कामानवाप्नुयात् । एवं शतोत्तरं जप्त्वा सहस्रं सर्वमाप्नुयात् ॥ 68॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,68,17695,रुद्ध्वा प्राणमपानं च जपेन्मासं शतत्रयम् । यदिच्छेत्तदवाप्नोति सहस्रात्परमाप्नुयात् ॥ 69॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,69,17696,एकपादो जपेदूर्ध्वबाहू रुद्ध्वानिलं वशः । मासं शतमवाप्नोति यदिच्छेदिति कौशिकः ॥ 70॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,70,17697,एवं शतत्रयं जप्त्वा सहस्रं सर्वमाप्नुयात् । निमज्ज्याप्सु जपेन्मासं शतमिष्टमवाप्नुयात् ॥ 71॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,71,17698,एवं शतत्रयं जप्त्वा सहस्रं सर्वमाप्नुयात् । एकपादो जपेदूर्ध्वबाहू रुद्ध्वा निराश्रयः ॥ 72॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,72,17699,नक्तमश्नन् हविष्यान्नं वत्सरादृषितामियात् । गीरमोघा भवेदेवं जप्त्वा संवत्सरद्वयम् ॥ 73॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,73,17700,त्रिवत्सरं जपेदेवं भवेत्त्रैकालदर्शनम् । आयाति भगवान्देवश्चतुःसंवत्सरं जपेत् ॥ 74॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,74,17701,पञ्चभिर्वत्सरैरेवमणिमादिगुणो भवेत् । एवं षड्वत्सरं जप्त्वा कामरूपित्वमाप्नुयात् ॥ 75॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,75,17702,सप्तिभिर्वत्सरैरेवममरत्वमवाप्नुयात् । मनुत्वं नवभिः सिद्धमिन्द्रत्वं दशभिर्भवेत् ॥ 76॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,76,17703,एकादशभिराप्नोति प्राजापत्यं सुवत्सरैः । बह्मत्वं प्राप्नुयादेवं जप्त्वा द्वादशवत्सरान् ॥ 77॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,77,17704,एतेनैव जिता लोकास्तपसा नारदादिभिः । शाकमन्ये परे मूलं फलमन्ये पयः परे ॥ 78॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,78,17705,घृतमन्ये परे सोममपरे चरुवृत्तयः । ऋषयः पक्षमश्नन्ति केचिद्भैक्ष्याशिनोऽहनि ॥ 79॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,79,17706,हविष्यमपरेऽश्नन्तः कुर्वन्त्येव परं तपः । अथ शुद्ध्यै रहस्यानां त्रिसहस्रं जपेद् द्विजः ॥ 80॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,80,17707,मासं शुद्धो भवेत्स्तेयात्सुवर्णस्य द्विजोत्तमः । जपेन्मासं त्रिसाहस्रं सुरापः शुद्धिमाप्नुयात् ॥ 81॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,81,17708,मासं जपेत् त्रिसाहस्रं शुचिः स्याद् गुरुतल्पगः । त्रिसहस्रं जपेन्मासं कुटीं कृत्वा वने वसन् ॥ 82॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,82,17709,ब्रह्महा मुच्यते पापादिति कौशिकभाषितम् । द्वादशाहं निमज्ज्याप्सु सहस्रं प्रत्यहं जपेत् ॥ 83॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,83,17710,मुच्येरन्नंहसः सर्वे महापातकिनो द्विजाः । त्रिसाहस्रं जपेन्मासं प्राणानायम्य वाग्यतः ॥ 84॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,84,17711,महापातकयुक्तो वा मुच्यते महतो भयात् । प्राणायामसहस्रेण ब्रह्महापि विशुध्यति ॥ 85॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,85,17712,षट्कृत्वस्त्वभ्यसेदूर्ध्वं प्राणापानौ समाहितः । प्राणायामो भवेदेष सर्वपापप्रणाशनः ॥ 86॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,86,17713,सहस्रमभ्यसेन्मासं क्षितिपः शुचितामियात् । द्वादशाहं त्रिसाहस्रं जपेद्धि गोवधे द्विजः ॥ 87॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,87,17714,अगम्यागमनस्तेयहननाभक्ष्यभक्षणे । दशसाहस्रमभ्यस्ता गायत्री शोधयेद् द्विजम् ॥ 88॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,88,17715,प्राणायामशतं कृत्वा मुच्यते सर्वकिल्विषात् । सर्वेषामेव पापानां सङ्करे सति शुद्धये ॥ 89॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,89,17716,सहस्रमभ्यसेन्मासं नित्यजापी वने वसन् । उपवाससमं जप्यं त्रिसहस्रं तदित्यृचम् ॥ 90॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,90,17717,चतुर्विंशतिसाहस्रमभ्यस्तात्कृच्छ्रसंज्ञिता । चतुःषष्टिसहस्राणि चान्द्रायणसमानि तु ॥ 91॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,91,17718,शतकृत्वोऽभ्यसेन्नित्यं प्राणानायम्य सन्ध्ययोः । तदित्यृचमवाप्नोति सर्वपापक्षयं परम् ॥ 92॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,92,17719,निमज्ज्याप्सु जपेन्नित्यं शतकृत्वस्तदित्यृचम् । ध्यायन्देवीं सूर्यरूपां सर्वपापैः प्रमुच्यते ॥ 93॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,93,17720,इति ते सम्यगाख्याताः शान्तिशुद्ध्यादिकल्पनाः । रहस्यातिरहस्याश्च गोपनीयास्त्वया सदा ॥ 94॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,94,17721,इति सङ्क्षेपतः प्रोक्तः सदाचारस्य सङ्ग्रहः । विधिनाऽऽचरणादस्य माया दुर्गा प्रसीदति ॥ 95॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,95,17722,नैमित्तिकं च नित्यं च काम्यं कर्म यथाविधि । आचरेन्मनुजः सोऽयं भुक्तिमुक्तिफलाप्तिभाक् ॥ 96॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,96,17723,आचारः प्रथमो धर्मो धर्मस्य प्रभुरीश्वरी । इत्युक्तं सर्वशास्त्रेषु सदाचारफलं महत् ॥ 97॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,97,17724,आचारवान्सदा पूतः सदैवाचारवान्मसुखी । आचारवान्सदा धन्यः सत्यं सत्यं च नारद ॥ 98॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,98,17725,देवीप्रसादजनकं सदाचारविधानकम् । यदपि श‍ृणुयान्मर्त्यो महासम्पत्तिसौख्यभाक् ॥ 99॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,99,17726,सदाचारेण सिद्धेच्च ऐहिकामुष्मिकं सुखम् । तदेव ते मया प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥ 100॥ 11,११.२४,चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।,100,17727,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे सदाचारनिरूपणं नाम चतुर्विंशोऽध्यायः ॥ ११.२४॥ 12,१२.१,प्रथमोऽध्यायः । गायत्रीविचारः ।,0,17728,नारद उवाच । सदाचारविधिर्देव भवता वर्णितः प्रभो । तस्याप्यतुलमाहात्म्यं सर्वपापविनाशनम् ॥ 1॥ 12,१२.१,प्रथमोऽध्यायः । गायत्रीविचारः ।,1,17729,श्रुतं भवन्मुखाम्भोजच्युतं देवीकथामृतम् । व्रतानि यानि चोक्तानि चान्द्रायणमुखानि ते ॥ 2॥ 12,१२.१,प्रथमोऽध्यायः । गायत्रीविचारः ।,2,17730,दुःखसाध्यानि जानीमः कर्तृसाध्यानि तानि च । तदस्मात्साम्प्रतं यत्तु सुखसाध्यं शरीरिणाम् ॥ 3॥ 12,१२.१,प्रथमोऽध्यायः । गायत्रीविचारः ।,3,17731,देवीप्रसादजनकं शुभानुष्ठानसिद्धिदम् । तत्कर्म वद मे स्वामिन् कृपापूर्वं सुरेश्वर ॥ 4॥ 12,१२.१,प्रथमोऽध्यायः । गायत्रीविचारः ।,4,17732,सदाचारविधौ यश्च गायत्रीविधिरीरितः । तस्मिन्मुख्यतमं किं स्यात्किं वा पुण्याधिकप्रदम् ॥ 5॥ 12,१२.१,प्रथमोऽध्यायः । गायत्रीविचारः ।,5,17733,ये गायत्रीगता वर्णास्तत्त्वसङ्ख्यास्त्वयेरिताः । तेषां के ऋषयः प्रोक्ताः कानि छन्दांसि वै मुने ॥ 6॥ 12,१२.१,प्रथमोऽध्यायः । गायत्रीविचारः ।,6,17734,तेषां का देवताः प्रोक्ताः सर्वं कथय मे प्रभो । महत्कौतूहलं मे च मानसे परिवर्तते ॥ 7॥ 12,१२.१,प्रथमोऽध्यायः । गायत्रीविचारः ।,7,17735,श्रीनारायणाय उवाच । कुर्यादन्यन्न वा कुर्यादनुष्ठानादिकं तथा । गायत्रीमात्रनिष्ठस्तु कृतकृत्यो भवेद्द्विजः ॥ 8॥ 12,१२.१,प्रथमोऽध्यायः । गायत्रीविचारः ।,8,17736,सन्ध्यासु चार्घ्यदानं च गायत्रीजपमेव च । सहस्रत्रितयं कुर्वन्सुरैः पूज्यो भवेन्मुने ॥ 9॥ 12,१२.१,प्रथमोऽध्यायः । गायत्रीविचारः ।,9,17737,न्यासान्करोतु वा मा वा गायत्रीमेव चाभ्यसेत् । ध्यात्वा निर्व्याजया वृत्त्या सच्चिदानन्दरूपिणीम् ॥ 10॥ 12,१२.१,प्रथमोऽध्यायः । गायत्रीविचारः ।,10,17738,यदक्षरैकसंसिद्धेः स्पर्धते ब्राह्मणोत्तमः । हरिशङ्करकञ्जोत्थसूर्यचन्द्रहुताशनैः ॥ 11॥ 12,१२.१,प्रथमोऽध्यायः । गायत्रीविचारः ।,11,17739,अथातः श्रूयतां ब्रह्मन् वर्णऋष्यादिकांस्तथा । छन्दांसि देवतास्तद्वत्क्रमात्तत्त्वानि चैव हि ॥ 12॥ 12,१२.१,प्रथमोऽध्यायः । गायत्रीविचारः ।,12,17740,वामदेवोऽत्रिर्वसिष्ठः शुक्रः कण्वः पराशरः । विश्वामित्रो महातेजाः कपिलः शौनको महान् ॥ 13॥ 12,१२.१,प्रथमोऽध्यायः । गायत्रीविचारः ।,13,17741,याज्ञवल्क्यो भरद्वाजो जमदग्निस्तपोनिधिः । गौतमो मुद्गलश्चैव वेदव्यासश्च लोमशः ॥ 14॥ 12,१२.१,प्रथमोऽध्यायः । गायत्रीविचारः ।,14,17742,अगस्त्यः कौशिको वत्सः पुलस्त्यो माण्डुकस्तथा । दुर्वासास्तपसां श्रेष्ठो नारदः कश्यपस्तथा ॥ 15॥ 12,१२.१,प्रथमोऽध्यायः । गायत्रीविचारः ।,15,17743,इत्येते ऋषयः प्रोक्ता वर्णानां क्रमशो मुने । गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ॥ 16॥ 12,१२.१,प्रथमोऽध्यायः । गायत्रीविचारः ।,16,17744,त्रिष्टुभं जगती चैव तथातिजगती मता । शक्वर्यतिशक्वरी च धृतिश्चातिधृतिस्तथा ॥ 17॥ 12,१२.१,प्रथमोऽध्यायः । गायत्रीविचारः ।,17,17745,विराट्प्रस्तारपङ्क्तिश्च कृतिः प्रकृतिराकृतिः । विकृतिः सकृतिश्चैवाक्षरपङ्क्तिस्तथैव च ॥ 18॥ 12,१२.१,प्रथमोऽध्यायः । गायत्रीविचारः ।,18,17746,भूर्भुवः स्वरितिच्छन्दस्तथा ज्योतिष्मती स्मृतम् । इत्येतानि च छन्दांसि कीर्तितानि महामुने ॥ 19॥ 12,१२.१,प्रथमोऽध्यायः । गायत्रीविचारः ।,19,17747,दैवतानि श‍ृणु प्राज्ञ तेषामेवानुपूर्वशः । आग्नेयं प्रथमं प्रोक्तं प्राजापत्यं द्वितीयकम् ॥ 20॥ 12,१२.१,प्रथमोऽध्यायः । गायत्रीविचारः ।,20,17748,तृतीयं च तथा सौम्यमीशानं च चतुर्थकम् । सावित्रं पञ्चमं प्रोक्तं षष्ठमादित्यदैवतम् ॥ 21॥ 12,१२.१,प्रथमोऽध्यायः । गायत्रीविचारः ।,21,17749,बार्हस्पत्यं सप्तमं तु मैत्रावरुणमष्टमम् । नवमं भगदैवत्यं दशमं चार्यमेश्वरम् ॥ 22॥ 12,१२.१,प्रथमोऽध्यायः । गायत्रीविचारः ।,22,17750,गणेशमेकादशकं त्वाष्ट्रं द्वादशकं स्मृतम् । पौष्णं त्रयोदशं प्रोक्तमैन्द्राग्नं च चतुर्दशम् ॥ 23॥ 12,१२.१,प्रथमोऽध्यायः । गायत्रीविचारः ।,23,17751,वायव्यं पञ्चदशकं वामदैव्यं च षोडशम् । मैत्रावरुणिदैवत्यं प्रोक्तं सप्तदशाक्षरम् ॥ 24॥ 12,१२.१,प्रथमोऽध्यायः । गायत्रीविचारः ।,24,17752,अष्टादशं वैश्वदेवमूनविंशं तु मातृकम् । वैष्णवं विंशतितमं वसुदैवतमीरितम् ॥ 25॥ 12,१२.१,प्रथमोऽध्यायः । गायत्रीविचारः ।,25,17753,एकविंशतिसङ्ख्याकं द्वाविंशं रुद्रदैवतम् । त्रयोविंशं च कौबेरमाश्विनं तत्त्वसङ्ख्यकम् ॥ 26॥ 12,१२.१,प्रथमोऽध्यायः । गायत्रीविचारः ।,26,17754,चतुर्विंशतिवर्णानां देवतानां च सङ्ग्रहः । कथितः परमश्रेष्ठो महापापैकशोधनः । यदाकर्णनमात्रेण साङ्गं जाप्यफलं मुने ॥ 27॥ 12,१२.१,प्रथमोऽध्यायः । गायत्रीविचारः ।,27,17755,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे गायत्रीविचारो नाम प्रथमोऽध्यायः ॥ १२.१॥ 12,१२.२,द्वितीयोऽध्यायः । गायत्रिशक्त्यादिप्रतिपादनम् ।,0,17756,श्रीनारायण उवाच । वर्णानां शक्तयः काश्च ताः श‍ृणुष्व महामुने । वामदेवी प्रिया सत्या विश्वा भद्रविलासिनी ॥ 1॥ 12,१२.२,द्वितीयोऽध्यायः । गायत्रिशक्त्यादिप्रतिपादनम् ।,1,17757,प्रभावती जया शान्ता कान्ता दुर्गा सरस्वती । विद्रुमा च विशालेशा व्यापिनी विमला तथा ॥ 2॥ 12,१२.२,द्वितीयोऽध्यायः । गायत्रिशक्त्यादिप्रतिपादनम् ।,2,17758,तमोऽपहारिणी सूक्ष्मा विश्वयोनिर्जया वशा । पद्मालया परा शोभा भद्रा च त्रिपदा स्मृता ॥ 3॥ 12,१२.२,द्वितीयोऽध्यायः । गायत्रिशक्त्यादिप्रतिपादनम् ।,3,17759,चतुर्विंशतिवर्णानां शक्तयः समुदाहृताः । अतः परं वर्णवर्णान्व्याहरामि यथातथम् ॥ 4॥ 12,१२.२,द्वितीयोऽध्यायः । गायत्रिशक्त्यादिप्रतिपादनम् ।,4,17760,चम्पका अतसीपुष्पसन्निभं विद्रुमं तथा । स्फटिकाकारकं चैव पद्मपुष्पसमप्रभम् ॥ 5॥ 12,१२.२,द्वितीयोऽध्यायः । गायत्रिशक्त्यादिप्रतिपादनम् ।,5,17761,तरुणादित्यसङ्काशं शङ्खकुन्देन्दुसन्निभम् । प्रवालपद्यपत्राभं पद्मरागसमप्रभम् ॥ 6॥ 12,१२.२,द्वितीयोऽध्यायः । गायत्रिशक्त्यादिप्रतिपादनम् ।,6,17762,इन्द्रनीलमणिप्रख्यं मौक्तिकं कुङ्कुमप्रभम् । अञ्जनाभं च रक्तं च वैदूर्यं क्षौद्रसन्निभम् ॥ 7॥ 12,१२.२,द्वितीयोऽध्यायः । गायत्रिशक्त्यादिप्रतिपादनम् ।,7,17763,हारिद्रं कुन्ददुग्धाभं रविकान्तिसमप्रभम् । शुकपुच्छनिभं तद्वच्छतपत्रनिभं तथा ॥ 8॥ 12,१२.२,द्वितीयोऽध्यायः । गायत्रिशक्त्यादिप्रतिपादनम् ।,8,17764,केतकीपुष्पसङ्काशं मल्लिकाकुसुमप्रभम् । करवीरश्च इत्येते क्रमेण परिकीर्तिताः ॥ 9॥ 12,१२.२,द्वितीयोऽध्यायः । गायत्रिशक्त्यादिप्रतिपादनम् ।,9,17765,वर्णाः प्रोक्ताश्च वर्णानां महापापविशोधनाः । पृथिव्यापस्तथा तेजो वायुराकाश एव च ॥ 10॥ 12,१२.२,द्वितीयोऽध्यायः । गायत्रिशक्त्यादिप्रतिपादनम् ।,10,17766,गन्धो रसश्च रूपं च शब्दः स्पर्शस्तथैव च । उपस्थं पायुपादं च पाणी वागपि च क्रमात् ॥ 11॥ 12,१२.२,द्वितीयोऽध्यायः । गायत्रिशक्त्यादिप्रतिपादनम् ।,11,17767,प्राणं जिह्वा च चक्षुश्च त्वक्श्रोत्रं च ततः परम् । प्राणोऽपानस्तथा व्यानः समानश्च ततः परम् ॥ 12॥ 12,१२.२,द्वितीयोऽध्यायः । गायत्रिशक्त्यादिप्रतिपादनम् ।,12,17768,तत्त्वान्येतानि वर्णानां क्रमशः कीर्तितानि तु । अतः परं प्रवक्ष्यामि वर्णमुद्राः कमेण तु ॥ 13॥ 12,१२.२,द्वितीयोऽध्यायः । गायत्रिशक्त्यादिप्रतिपादनम् ।,13,17769,सुमुखं सम्पुटं चैव विततं विस्मृतं तथा । द्विमुखं त्रिमुखं चैव चतुःपञ्चमुखं तथा ॥ 14॥ 12,१२.२,द्वितीयोऽध्यायः । गायत्रिशक्त्यादिप्रतिपादनम् ।,14,17770,षण्मुखाधोमुखं चैव व्यापकाज्जलिकं तथा । शकटं यमपाशं च ग्रथितं सन्मुखोन्मुखम् ॥ 15॥ 12,१२.२,द्वितीयोऽध्यायः । गायत्रिशक्त्यादिप्रतिपादनम् ।,15,17771,विलम्बं मुष्टिकं चैव मत्स्यं कूर्मं वराहकम् । सिंहाक्रान्तं महाक्रान्तं मुद्गरं पल्लवं तथा ॥ 16॥ 12,१२.२,द्वितीयोऽध्यायः । गायत्रिशक्त्यादिप्रतिपादनम् ।,16,17772,त्रिशूलयोनी सुरभिश्चाक्षमाला च लिङ्गकम् । अम्बुजं च महामुद्रास्तुर्यरूपाः प्रकीर्तिताः ॥ 17॥ 12,१२.२,द्वितीयोऽध्यायः । गायत्रिशक्त्यादिप्रतिपादनम् ।,17,17773,इत्येताः कीर्तिता मुद्रा वर्णानां ते महामुने । महापापक्षयकराः कीर्तिदाः कान्तिदा मुने ॥ 18॥ 12,१२.२,द्वितीयोऽध्यायः । गायत्रिशक्त्यादिप्रतिपादनम् ।,18,17774,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादस्कन्धे गायत्रिशक्त्यादिप्रतिपादनं नाम द्वितीयोऽध्यायः ॥ १२.२॥ 12,१२.३,तृतीयोऽध्यायः । गायत्रीमन्त्रकवचवर्णनम् ।,0,17775,नारद उवाच । स्वामिन्सर्वजगन्नाथ संशयोऽस्ति मम प्रभो । चतुःषष्टिकलाभिज्ञ पातकाद्योगविद्वर ॥ 1॥ 12,१२.३,तृतीयोऽध्यायः । गायत्रीमन्त्रकवचवर्णनम् ।,1,17776,मुच्यते केन पुण्येन ब्रह्मरूपः कथं भवेत् । देहश्च देवतारूपो मन्त्ररूपो विशेषतः ॥ 2॥ 12,१२.३,तृतीयोऽध्यायः । गायत्रीमन्त्रकवचवर्णनम् ।,2,17777,कर्म तच्छ्रोतुमिच्छामि न्यासं च विधिपूर्वकम् । ऋषिश्छन्दोऽधिदैवं च ध्यानं च विधिवद्विभो ॥ 3॥ 12,१२.३,तृतीयोऽध्यायः । गायत्रीमन्त्रकवचवर्णनम् ।,3,17778,श्रीनारायण उवाच । अस्त्येकं परमं गुह्यं गायत्रीकवचं तथा । पठनाद्धारणान्मर्त्यः सर्वपापैः प्रमुच्यते ॥ 4॥ 12,१२.३,तृतीयोऽध्यायः । गायत्रीमन्त्रकवचवर्णनम् ।,4,17779,सर्वान्कामानवाप्नोति देवीरूपश्च जायते । गायत्रीकवचस्यास्य ब्रह्मविष्णुमहेश्वराः ॥ 5॥ 12,१२.३,तृतीयोऽध्यायः । गायत्रीमन्त्रकवचवर्णनम् ।,5,17780,ऋषयो ऋग्यजुःसामाथर्वश्छन्दांसि नारद । ब्रह्मरूपा देवतोक्ता गायत्री परमा कला ॥ 6॥ 12,१२.३,तृतीयोऽध्यायः । गायत्रीमन्त्रकवचवर्णनम् ।,6,17781,तद्बीजं भर्ग इत्येषा शक्तिरुक्ता मनीषिभिः । कीलकं च धियः प्रोक्तं मोक्षार्थे विनियोजनम् ॥ 7॥ 12,१२.३,तृतीयोऽध्यायः । गायत्रीमन्त्रकवचवर्णनम् ।,7,17782,चतुर्भिर्हृदयं प्रोक्तं त्रिभिर्वर्णेः शिरः स्मृतम् । चतुर्भिः स्याच्छिखा पश्चात् त्रिभिस्तु कवचं स्मृतम् ॥ 8॥ 12,१२.३,तृतीयोऽध्यायः । गायत्रीमन्त्रकवचवर्णनम् ।,8,17783,चतुर्भिर्नेत्रमुद्दिष्टं चतुर्भिः स्यात्तदस्त्रकम् । अथ ध्यानं प्रवक्ष्यामि साधकाभीष्टदायकम् ॥ 9॥ 12,१२.३,तृतीयोऽध्यायः । गायत्रीमन्त्रकवचवर्णनम् ।,9,17784,मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणै- र्युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वार्थवर्णात्मिकाम् । गायत्रीं वरदाभयाङ्कुशकशाः शुभ्रं कपालं गुणं शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥ 10॥ 12,१२.३,तृतीयोऽध्यायः । गायत्रीमन्त्रकवचवर्णनम् ।,10,17785,गायत्री पूर्वतः पातु सावित्री पातु दक्षिणे । ब्रह्मसन्ध्या तु मे पश्चादुत्तरायां सरस्वती ॥ 11॥ 12,१२.३,तृतीयोऽध्यायः । गायत्रीमन्त्रकवचवर्णनम् ।,11,17786,पार्वती मे दिशं रक्षेत्पावकीं जलशायिनी । यातुधानी दिशं रक्षेद्यातुधानभयङ्करी ॥ 12॥ 12,१२.३,तृतीयोऽध्यायः । गायत्रीमन्त्रकवचवर्णनम् ।,12,17787,पावमानी दिशं रक्षेत्पवमानविलासिनी । दिशं रौद्री च मे पातु रुद्राणी रुद्ररूपिणी ॥ 13॥ 12,१२.३,तृतीयोऽध्यायः । गायत्रीमन्त्रकवचवर्णनम् ।,13,17788,ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा । एवं दश दिशो रक्षेत्सर्वाङ्गं भुवनेश्वरी ॥ 14॥ 12,१२.३,तृतीयोऽध्यायः । गायत्रीमन्त्रकवचवर्णनम् ।,14,17789,तत्पदं पातु मे पादौ जङ्घे मे सवितुः पदम् । वरेण्यं कटिदेशे तु नाभिं भर्गस्तथैव च ॥ 15॥ 12,१२.३,तृतीयोऽध्यायः । गायत्रीमन्त्रकवचवर्णनम् ।,15,17790,देवस्य मे तद्धृदयं धीमहीति च गल्लयोः । धियः पदं च मे नेत्रे यः पदं मे ललाटकम् ॥ 16॥ 12,१२.३,तृतीयोऽध्यायः । गायत्रीमन्त्रकवचवर्णनम् ।,16,17791,नः पातु मे पदं मूर्ध्नि शिखायां मे प्रचोदयात् । तत्पदं पातु मूर्धानं सकारः पातु भालकम् ॥ 17॥ 12,१२.३,तृतीयोऽध्यायः । गायत्रीमन्त्रकवचवर्णनम् ।,17,17792,चक्षुषी तु विकारार्णस्तुकारस्तु कपोलयोः । नासापुटं वकारार्णो रेकारस्तु मुखे तथा ॥ 18॥ 12,१२.३,तृतीयोऽध्यायः । गायत्रीमन्त्रकवचवर्णनम् ।,18,17793,णिकार ऊर्ध्वमोष्ठं तु यकारस्त्वधरोष्ठकम् । आस्यमध्ये भकारार्णो र्गोकारश्चिबुके तथा ॥ 19॥ 12,१२.३,तृतीयोऽध्यायः । गायत्रीमन्त्रकवचवर्णनम् ।,19,17794,देकारः कण्ठदेशे तु वकारः स्कन्धदेशकम् । स्यकारो दक्षिणं हस्तं धीकारो वामहस्तकम् ॥ 20॥ 12,१२.३,तृतीयोऽध्यायः । गायत्रीमन्त्रकवचवर्णनम् ।,20,17795,मकारो हृदयं रक्षेद्धिकार उदरे तथा । धिकारो नाभिदेशे तु योकारस्तु कटिं तथा ॥ 21॥ 12,१२.३,तृतीयोऽध्यायः । गायत्रीमन्त्रकवचवर्णनम् ।,21,17796,गुह्यं रक्षतु योकार ऊरू द्वौ नः पदाक्षरम् । प्रकारो जानुनी रक्षेच्चोकारो जङ्घदेशकम् ॥ 22॥ 12,१२.३,तृतीयोऽध्यायः । गायत्रीमन्त्रकवचवर्णनम् ।,22,17797,दकारं गुल्फदेशे तु यकारः पदयुग्मकम् । तकारव्यञ्जनं चैव सर्वाङ्गं मे सदावतु ॥ 23॥ 12,१२.३,तृतीयोऽध्यायः । गायत्रीमन्त्रकवचवर्णनम् ।,23,17798,इदं तु कवचं दिव्यं बाधाशतविनाशनम् । चतुःषष्टिकलाविद्यादायकं मोक्षकारकम् ॥ 24॥ 12,१२.३,तृतीयोऽध्यायः । गायत्रीमन्त्रकवचवर्णनम् ।,24,17799,मुच्यते सर्वपापेभ्यः परं ब्रह्माधिगच्छति । पठनाच्छ्रवणाद्वापि गोसहस्रफलं लभेत् ॥ 25॥ 12,१२.३,तृतीयोऽध्यायः । गायत्रीमन्त्रकवचवर्णनम् ।,25,17800,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे गायत्रीमन्त्रकवचवर्णनं नाम तृतीयोऽध्यायः ॥ १२.३॥ 12,१२.४,चतुर्थोऽध्यायः । गायत्रीहृदयम् ।,0,17801,नारद उवाच । भगवन् देवदेवेश भूतभव्यजगत्प्रभो । कवचं च श्रुतं दिव्यं गायत्रीमन्त्रविग्रहम् ॥ 1॥ 12,१२.४,चतुर्थोऽध्यायः । गायत्रीहृदयम् ।,1,17802,अधुना श्रोतुमिच्छामि गायत्रीहृदयं परम् । यद्धारणाद्भवेत्युण्यं गायत्रीजपतोऽखिलम् ॥ 2॥ 12,१२.४,चतुर्थोऽध्यायः । गायत्रीहृदयम् ।,2,17803,श्रीनारायण उवाच । देव्याश्च हृदयं प्रोक्तं नारदाथर्वणे स्फुटम् । तदेवाहं प्रवक्ष्यामि रहस्यातिरहस्यकम् ॥ 3॥ 12,१२.४,चतुर्थोऽध्यायः । गायत्रीहृदयम् ।,3,17804,विराड्रूपां महादेवीं गायत्रीं वेदमातरम् । ध्यात्वा तस्यास्त्वथाङ्गेषु ध्यायेदेताश्च देवताः ॥ 4॥ 12,१२.४,चतुर्थोऽध्यायः । गायत्रीहृदयम् ।,4,17805,पिण्डब्रह्माण्डयोरैक्याद्भावयेत्स्वतनौ तथा । देवीरूपे निजे देहे तन्मयत्वाय साधकः ॥ 5॥ 12,१२.४,चतुर्थोऽध्यायः । गायत्रीहृदयम् ।,5,17806,नादेवोऽभ्यर्चयेद्देवमिति वेदविदो विदुः । ततोऽभेदाय काये स्वे भावयेद्देवता इमाः ॥ 6॥ 12,१२.४,चतुर्थोऽध्यायः । गायत्रीहृदयम् ।,6,17807,अथ तत्सम्प्रवक्ष्यामि तन्मयत्वमथो भवेत् । गायत्रीहृदयस्यास्याप्यहमेव ऋषिः स्मृतः ॥ 7॥ 12,१२.४,चतुर्थोऽध्यायः । गायत्रीहृदयम् ।,7,17808,गायत्रीच्छन्द उद्दिष्टं देवता परमेश्वरी । पूर्वोक्तेन प्रकारेण कुर्यादङ्गानि षट्क्रमात् । आसने विजने देशे ध्यायेदेकाग्रमानसः ॥ 8॥ 12,१२.४,चतुर्थोऽध्यायः । गायत्रीहृदयम् ।,8,17809,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे गायत्रीहृदयं नाम चतुर्थोऽध्यायः ॥ १२.४॥ 12,१२.५,पञ्चमोऽध्यायः । श्रीगायत्रीस्तोत्रवर्णनम् ।,0,17810,नारद उवाव भक्तानुकम्पिन् सर्वज्ञ हृदयं पापनाशनम् । गायत्र्याः कथितं तस्माद्गायत्र्याः स्तोत्रमीरय ॥ 1॥ 12,१२.५,पञ्चमोऽध्यायः । श्रीगायत्रीस्तोत्रवर्णनम् ।,1,17811,श्रीनारायण उवाच । आदिशक्ते जगन्मातर्भक्तानुग्रहकारिणि । सर्वत्र व्यापिकेऽनन्ते श्रीसन्ध्ये ते नमोऽस्तु ते ॥ 2॥ 12,१२.५,पञ्चमोऽध्यायः । श्रीगायत्रीस्तोत्रवर्णनम् ।,2,17812,त्वमेव सन्ध्या गायत्री सावित्री च सरस्वती । बाह्मी च वैष्णवी रौद्री रक्ता श्वेता सितेतरा ॥ 3॥ 12,१२.५,पञ्चमोऽध्यायः । श्रीगायत्रीस्तोत्रवर्णनम् ।,3,17813,प्रातर्बाला च मध्याह्ने यौवनस्था भवेत्पुनः । वृद्धा सायं भगवती चिन्त्यते मुनिभिः सदा ॥ 4॥ 12,१२.५,पञ्चमोऽध्यायः । श्रीगायत्रीस्तोत्रवर्णनम् ।,4,17814,हंसस्था गरुडारूढा तथा वृषभवाहिनी । ऋग्वेदाध्यायिनी भूमौ दृश्यते या तपस्विभिः ॥ 5॥ 12,१२.५,पञ्चमोऽध्यायः । श्रीगायत्रीस्तोत्रवर्णनम् ।,5,17815,यजुर्वेदं पठन्ती च अन्तरिक्षे विराजते । सा सामगापि सर्वेषु भ्राम्यमाणा तथा भुवि ॥ 6॥ 12,१२.५,पञ्चमोऽध्यायः । श्रीगायत्रीस्तोत्रवर्णनम् ।,6,17816,रुद्रलोकं गता त्वं हि विष्णुलोकनिवासिनी । त्वमेव ब्रह्मणो लोकेऽमर्त्यानुग्रहकारिणी ॥ 7॥ 12,१२.५,पञ्चमोऽध्यायः । श्रीगायत्रीस्तोत्रवर्णनम् ।,7,17817,सप्तर्षिप्रीतिजननी माया बहुवरप्रदा । शिवयोः करनेत्रोत्था ह्यश्रुस्वेदसमुद्भवा ॥ 8॥ 12,१२.५,पञ्चमोऽध्यायः । श्रीगायत्रीस्तोत्रवर्णनम् ।,8,17818,आनन्दजननी दुर्गा दशधा परिपढ्यते । वरेण्या वरदा चैव वरिष्ठा वरवर्णिनी ॥ 9॥ 12,१२.५,पञ्चमोऽध्यायः । श्रीगायत्रीस्तोत्रवर्णनम् ।,9,17819,गरिष्ठा च वरार्हा च वरारोहा च सप्तमी । नीलगङ्गा तथा सन्ध्या सर्वदा भोगमोक्षदा ॥ 10॥ 12,१२.५,पञ्चमोऽध्यायः । श्रीगायत्रीस्तोत्रवर्णनम् ।,10,17820,भागीरथी मर्त्यलोके पाताले भोगवत्यपि । त्रिलोकवाहिनी देवी स्थानत्रयनिवासिनी ॥ 11॥ 12,१२.५,पञ्चमोऽध्यायः । श्रीगायत्रीस्तोत्रवर्णनम् ।,11,17821,भूर्लोकस्था त्वमेवासि धरित्री लोकधारिणी । भुवो लोके वायुशक्तिः स्वर्लोके तेजसां निधिः ॥ 12॥ 12,१२.५,पञ्चमोऽध्यायः । श्रीगायत्रीस्तोत्रवर्णनम् ।,12,17822,महर्लोके महासिद्धिर्जनलोके जनेत्यपि । तपस्विनी तपोलोके सत्यलोके तु सत्यवाक् ॥ 13॥ 12,१२.५,पञ्चमोऽध्यायः । श्रीगायत्रीस्तोत्रवर्णनम् ।,13,17823,कमला विष्णुलोके च गायत्री ब्रह्मलोकदा । रुद्रलोके स्थिता गौरी हरार्धाङ्गनिवासिनी । १४॥ अहमो महतश्चैव प्रकृतिस्त्वं हि गीयसे । साम्यावस्थात्मिका त्वं हि शबलब्रह्मरूपिणी ॥ 15॥ 12,१२.५,पञ्चमोऽध्यायः । श्रीगायत्रीस्तोत्रवर्णनम् ।,14,17824,ततः परा परा शक्तिः परमा त्वं हि गीयसे । इच्छाशक्तिः क्रियाशक्तिर्ज्ञानशक्तिस्त्रिशक्तिदा ॥ 16॥ 12,१२.५,पञ्चमोऽध्यायः । श्रीगायत्रीस्तोत्रवर्णनम् ।,15,17825,गङ्गा च यमुना चैव विपाशा च सरस्वती । सरयूर्देविका सिन्धुर्नर्मदैरावती तथा ॥ 17॥ 12,१२.५,पञ्चमोऽध्यायः । श्रीगायत्रीस्तोत्रवर्णनम् ।,16,17826,गोदावरी शतद्रूश्च कावेरी देवलोकगा । कौशिकी चन्द्रभागा च वितस्ता च सरस्वती ॥ 18॥ 12,१२.५,पञ्चमोऽध्यायः । श्रीगायत्रीस्तोत्रवर्णनम् ।,17,17827,गण्डकी तापिनी तोया गोमती वेत्रवत्यपि । इडा च पिङ्गला चैव सुषुम्णा च तृतीयका ॥ 19॥ 12,१२.५,पञ्चमोऽध्यायः । श्रीगायत्रीस्तोत्रवर्णनम् ।,18,17828,गान्धारी हस्तिजिह्वा च पूषापूषा तथैव च । अलम्बुषा कुहूश्चैव शङ्खिनी प्राणवाहिनी ॥ 20॥ 12,१२.५,पञ्चमोऽध्यायः । श्रीगायत्रीस्तोत्रवर्णनम् ।,19,17829,नाडी च त्वं शरीरस्था गीयसे प्राक्तनैर्बुधैः । हृत्पद्मस्था प्राणशक्तिः कण्ठस्था स्वप्ननायिका ॥ 21॥ 12,१२.५,पञ्चमोऽध्यायः । श्रीगायत्रीस्तोत्रवर्णनम् ।,20,17830,तालुस्था त्वं सदाधारा बिन्दुस्था बिन्दुमालिनी । मूले तु कुण्डलीशक्तिर्व्यापिनी केशमूलगा ॥ 22॥ 12,१२.५,पञ्चमोऽध्यायः । श्रीगायत्रीस्तोत्रवर्णनम् ।,21,17831,शिखामध्यासना त्वं हि शिखाग्रे तु मनोन्मनी । किमन्यद्बहुनोक्तेन यत्किञ्चिज्जगतीत्रये ॥ 23॥ 12,१२.५,पञ्चमोऽध्यायः । श्रीगायत्रीस्तोत्रवर्णनम् ।,22,17832,तत्सर्वं त्वं महादेवि श्रिये सन्ध्ये नमोऽस्तु ते । इतीदं कीर्तितं स्तोत्रं सन्ध्यायां बहुपुण्यदम् ॥ 24॥ 12,१२.५,पञ्चमोऽध्यायः । श्रीगायत्रीस्तोत्रवर्णनम् ।,23,17833,महापापप्रशमनं महासिद्धिविधायकम् । य इदं कीर्तयेत्स्तोत्रं सन्ध्याकाले समाहितः ॥ 25॥ 12,१२.५,पञ्चमोऽध्यायः । श्रीगायत्रीस्तोत्रवर्णनम् ।,24,17834,अपुत्रः प्राप्नुयात्युत्रं धनार्थी धनमाप्नुयात् । सर्वतीर्थतपोदानयज्ञयोगफलं लभेत् ॥ 26॥ 12,१२.५,पञ्चमोऽध्यायः । श्रीगायत्रीस्तोत्रवर्णनम् ।,25,17835,भोगान्भुक्त्वा चिरं कालमन्ते मोक्षमवाप्नुयात् । तपस्विभिः कृतं स्तोत्रं स्नानकाले तु यः पठेत् ॥ 27॥ 12,१२.५,पञ्चमोऽध्यायः । श्रीगायत्रीस्तोत्रवर्णनम् ।,26,17836,यत्र कुत्र जले मग्नः सन्ध्यामज्जनजं फलम् । लभते नात्र सन्देहः सत्यं सत्यं च नारद ॥ 28॥ 12,१२.५,पञ्चमोऽध्यायः । श्रीगायत्रीस्तोत्रवर्णनम् ।,27,17837,श‍ृणुयाद्योऽपि तद्भक्त्या स तु पापात्प्रमुच्यते । पीयूषसदृशं वाक्यं सन्ध्योक्तं नारदेरितम् ॥ 29॥ 12,१२.५,पञ्चमोऽध्यायः । श्रीगायत्रीस्तोत्रवर्णनम् ।,28,17838,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे श्रीगायत्रीस्तोत्रवर्णनं नाम पञ्चमोऽध्यायः ॥ १२.५॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,0,17839,नारद उवाच । भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद । श्रुतिस्मृतिपुराणानां रहस्यं त्वन्मुखाच्छ्रुतम् ॥ 1॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,1,17840,सर्वपापहरं देव येन विद्या प्रवर्तते । केन वा ब्रह्मविज्ञानं किं नु वा मोक्षसाधनम् ॥ 2॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,2,17841,ब्राह्मणानां गतिः केन केन वा मृत्युनाशनम् । ऐहिकामुष्मिकफलं केन वा पद्मलोचन ॥ 3॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,3,17842,वक्तुमर्हस्यशेषेण सर्वं निखिलमादितः । श्रीनारायण उवाच । साधु साधु महाप्राज्ञ सम्यक् पृष्टं त्वयानघ ॥ 4॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,4,17843,श‍ृणु वक्ष्यामि यत्नेन गायत्र्यष्टसहस्रकम् । नाम्नां शुभानां दिव्यानां सर्वपापविनाशनम् ॥ 5॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,5,17844,सृष्ट्यादौ यद्भगवता पूर्वं प्रोक्तं ब्रवीमि ते । अष्टोत्तरसहस्रस्य ऋषिर्ब्रह्मा प्रकीर्तितः ॥ 6॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,6,17845,छन्दोऽनुष्टुप् तथा देवी गायत्री देवता स्मृता । हलो बीजानि तस्यैव स्वराः शक्तय ईरिताः ॥ 7॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,7,17846,अङ्गन्यासकरन्यासावुच्येते मातृकाक्षरैः । अथ ध्यानं प्रवक्ष्यामि साधकानां हिताय वै ॥ 8॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,8,17847,रक्तश्वेतहिरण्यनीलधवलैर्युक्तां त्रिनेत्रोज्ज्वलां रक्तां रक्तनवस्रजं मणिगणैर्युक्तां कुमारीमिमाम् । गायत्रीं कमलासनां करतलव्यानद्धकुण्डाम्बुजां पद्माक्षीं च वरस्रजं च दधतीं हंसाधिरूढां भजे ॥ 9॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,9,17848,अचिन्त्यलक्षणाव्यक्ताप्यर्थमातृमहेश्वरी । अमृतार्णवमध्यस्थाप्यजिता चापराजिता ॥ 10॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,10,17849,अणिमादिगुणाधाराप्यर्कमण्डलसंस्थिता । अजराजापराधर्मा अक्षसूत्रधराधरा ॥ 11॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,11,17850,अकारादिक्षकारान्ताप्यरिषड्वर्गभेदिनी । अञ्जनाद्रिप्रतीकाशाप्यञ्जनाद्रिनिवासिनी ॥ 12॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,12,17851,अदितिश्चाजपाविद्याप्यरविन्दनिभेक्षणा । अन्तर्बहिःस्थिताविद्याध्वंसिनी चान्तरात्मिका ॥ 13॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,13,17852,अजा चाजमुखावासाप्यरविन्दनिभानना । अर्धमात्रार्थदानज्ञाप्यरिमण्डलमर्दिनी ॥ 14॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,14,17853,असुरघ्नीह्यमावास्याप्यलक्ष्मीघ्न्यन्त्यजार्चिता । आदिलक्ष्मीश्चादिशक्तिराकृतिश्चायतानना ॥ 15॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,15,17854,आदित्यपदवीचाराप्यादित्यपरिसेविता । आचार्यावर्तनाचाराप्यादिमूर्तिनिवासिनी ॥ 16॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,16,17855,आग्नेयी चामरी चाद्या चाराध्या चासनस्थिता । आधारनिलयाधारा चाकाशान्तनिवासिनी ॥ 17॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,17,17856,आद्याक्षरसमायुक्ता चान्तराकाशरूपिणी । आदित्यमण्डलगता चान्तरध्वान्तनाशिनी ॥ 18॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,18,17857,इन्दिरा चेष्टदा चेष्टा चेन्दीवरनिभेक्षणा । इरावती चेन्द्रपदा चेन्द्राणी चेन्दुरूपिणी ॥ 19॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,19,17858,इक्षुकोदण्डसंयुक्ता चेषुसन्धानकारिणी । इन्द्रनीलसमाकारा चेडापिङ्गलरूपिणी ॥ 20॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,20,17859,इन्द्राक्षी चेश्वरी देवी चेहात्रयविवर्जिता । उमा चोषा ह्युडुनिभा उर्वारुकफलानना ॥ 21॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,21,17860,उडुप्रभा चोडुमती ह्युडुपा ह्युडुमध्यगा । ऊर्ध्वं चाप्यूर्ध्वकेशी चाप्यूर्ध्वाधोगतिभेदिनी ॥ 22॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,22,17861,ऊर्ध्वबाहुप्रिया चोर्मिमालावाग्ग्रन्थदायिनी । ऋतं चर्षिरृतुमती ऋषिदेवनमस्कृता ॥ 23॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,23,17862,ऋग्वेदा ऋणहर्त्री च ऋषिमण्डलचारिणी । ऋद्धिदा ऋजुमार्गस्था ऋजुधर्मा ऋतुप्रदा ॥ 24॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,24,17863,ऋग्वेदनिलया ऋज्वी लुप्तधर्मप्रवर्तिनी । लूतारिवरसम्भूता लूतादिविषहारिणी ॥ 25॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,25,17864,एकाक्षरा चैकमात्रा चैका चैकैकनिष्ठिता । ऐन्द्री ह्यैरावतारूढा चैहिकामुष्मिकप्रदा ॥ 26॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,26,17865,ओङ्कारा ह्योषधी चोता चोतप्रोतनिवासिनी । और्वा ह्यौषधसम्पन्ना औपासनफलप्रदा ॥ 27॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,27,17866,अण्डमध्यस्थिता देवी चाःकारमनुरूपिणी । कात्यायनी कालरात्रिः कामाक्षी कामसुन्दरी ॥ 28॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,28,17867,कमला कामिनी कान्ता कामदा कालकण्ठिनी । करिकुम्भस्तनभरा करवीरसुवासिनी ॥ 29॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,29,17868,कल्याणी कुण्डलवती कुरुक्षेत्रनिवासिनी । कुरुविन्ददलाकारा कुण्डली कुमुदालया ॥ 30॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,30,17869,कालजिह्वा करालास्या कालिका कालरूपिणी । कमनीयगुणा कान्तिः कलाधारा कुमुद्वती ॥ 31॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,31,17870,कौशिकी कमलाकारा कामचारप्रभञ्जिनी । कौमारी करुणापाङ्गी ककुबन्ता करिप्रिया ॥ 32॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,32,17871,केसरी केशवनुता कदम्बकुसुमप्रिया । कालिन्दी कालिका काञ्ची कलशोद्भवसंस्तुता ॥ 33॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,33,17872,काममाता क्रतुमती कामरूपा कृपावती । कुमारी कुण्डनिलया किराती कीरवाहना । ३४॥ कैकेयी कोकिलालापा केतकी कुसुमप्रिया । कमण्डलुधरा काली कर्मनिर्मूलकारिणी ॥ 35॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,34,17873,कलहंसगतिः कक्षा कृतकौतुकमङ्गला । कस्तूरीतिलका कम्रा करीन्द्रगमना कुहूः ॥ 36॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,35,17874,कर्पूरलेपना कृष्णा कपिला कुहराश्रया । कूटस्था कुधरा कम्रा कुक्षिस्थाखिलविष्टपा ॥ 37॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,36,17875,खड्गखेटकरा खर्वा खेचरी खगवाहना । खट्वाङ्गधारिणी ख्याता खगराजोपरिस्थिता ॥ 38॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,37,17876,खलघ्नी खण्डितजरा खण्डाख्यानप्रदायिनी । खण्डेन्दुतिलका गङ्गा गणेशगुहपूजिता ॥ 39॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,38,17877,गायत्री गोमती गीता गान्धारी गानलोलुपा । गौतमी गामिनी गाथा गन्धर्वाप्सरसेविता ॥ 40॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,39,17878,गोविन्दचरणाक्रान्ता गुणत्रयविभाविता । गन्धर्वी गह्वरी गोत्रा गिरीशा गहना गमी ॥ 41॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,40,17879,गुहावासा गुणवती गुरुपापप्रणाशिनी । गुर्वी गुणवती गुह्या गोप्तव्या गुणदायिनी ॥ 42॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,41,17880,गिरिजा गुह्यमातङ्गी गरुडध्वजवल्लभा । गर्वापहारिणी गोदा गोकुलस्था गदाधरा ॥ 43॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,42,17881,गोकर्णनिलयासक्ता गुह्यमण्डलवर्तिनी । घर्मदा घनदा घण्टा घोरदानवमर्दिनी ॥ 44॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,43,17882,घृणिमन्त्रमयी घोषा घनसम्पातदायिनी । घण्टारवप्रिया घ्राणा घृणिसन्तुष्टकारिणी ॥ 45॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,44,17883,घनारिमण्डला घूर्णा घृताची घनवेगिनी । ज्ञानधातुमयी चर्चा चर्चिता चारुहासिनी ॥ 46॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,45,17884,चटुला चण्डिका चित्रा चित्रमाल्यविभूषिता । चतुर्भुजा चारुदन्ता चातुरी चरितप्रदा ॥ 47॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,46,17885,चूलिका चित्रवस्त्रान्ता चन्द्रमःकर्णकुण्डला । चन्द्रहासा चारुदात्री चकोरी चन्द्रहासिनी ॥ 48॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,47,17886,चन्द्रिका चन्द्रधात्री च चौरी चौरा च चण्डिका । चञ्चद्वाग्वादिनी चन्द्रचूडा चोरविनाशिनी ॥ 49॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,48,17887,चारुचन्दनलिप्ताङ्गी चञ्चच्चामरवीजिता । चारुमध्या चारुगतिश्चन्दिला चन्द्ररूपिणी ॥ 50॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,49,17888,चारुहोमप्रिया चार्वाचरिता चक्रबाहुका । चन्द्रमण्डलमध्यस्था चन्द्रमण्डलदर्पणा ॥ 51॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,50,17889,चक्रवाकस्तनी चेष्टा चित्रा चारुविलासिनी । चित्स्वरूपा चन्द्रवती चन्द्रमाश्चन्दनप्रिया ॥ 52॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,51,17890,चोदयित्री चिरप्रज्ञा चातका चारुहेतुकी । छत्रयाता छत्रधरा छाया छन्दःपरिच्छदा ॥ 53॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,52,17891,छायादेवीच्छिद्रनखा छन्नेन्द्रियविसर्पिणी । छन्दोऽनुष्टुप्प्रतिष्ठान्ता छिद्रोपद्रवभेदिनी ॥ 54॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,53,17892,छेदा छत्रेश्वरी छिन्ना छुरिका छेदनप्रिया । जननी जन्मरहिता जातवेदा जगन्मयी ॥ 55॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,54,17893,जाह्नवी जटिला जेत्री जरामरणवर्जिता । जम्बूद्वीपवती ज्वाला जयन्ती जलशालिनी ॥ 56॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,55,17894,जितेन्द्रिया जितक्रोधा जितामित्रा जगत्प्रिया । जातरूपमयी जिह्वा जानकी जगती जरा ॥ 57॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,56,17895,जनित्री जह्नुतनया जगत्त्रयहितैषिणी । ज्वालामुखी जपवती ज्वरघ्नी जितविष्टपा ॥ 58॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,57,17896,जिताक्रान्तमयी ज्वाला जाग्रती ज्वरदेवता । ज्वलन्ती जलदा ज्येष्ठा ज्याघोषास्फोटदिङ्मुखी ॥ 59॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,58,17897,जम्भिनी जृम्भणा जृम्भा ज्वलन्माणिक्यकुण्डला । झिञ्झिका झणनिर्घोषा झञ्झामारुतवेगिनी ॥ 60॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,59,17898,झल्लरीवाद्यकुशला ञरूपा ञभुजा स्मृता । टङ्कबाणसमायुक्ता टङ्किनी टङ्कभेदिनी ॥ 61॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,60,17899,टङ्कीगणकृताघोषा टङ्कनीयमहोरसा । टङ्कारकारिणी देवी ठठशब्दनिनादिनी ॥ 62॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,61,17900,डामरी डाकिनी डिम्भा डुण्डुमारैकनिर्जिता । डामरीतन्त्रमार्गस्था डमड्डमरुनादिनी ॥ 63॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,62,17901,डिण्डीरवसहा डिम्भलसत्क्रीडापरायणा । ढुण्ढिविघ्नेशजननी ढक्काहस्ता ढिलिव्रजा ॥ 64॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,63,17902,नित्यज्ञाना निरुपमा निर्गुणा नर्मदा नदी । त्रिगुणा त्रिपदा तन्त्री तुलसीतरुणातरुः ॥ 65॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,64,17903,त्रिविक्रमपदाक्रान्ता तुरीयपदगामिनी । तरुणादित्यसङ्काशा तामसी तुहिना तुरा ॥ 66॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,65,17904,त्रिकालज्ञानसम्पन्ना त्रिवेणी च त्रिलोचना । त्रिशक्तिस्त्रिपुरा तुङ्गा तुरङ्गवदना तथा ॥ 67॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,66,17905,तिमिङ्गिलगिला तीव्रा त्रिस्रोता तामसादिनी । तन्त्रमन्त्रविशेषज्ञा तनुमध्या त्रिविष्टपा ॥ 68॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,67,17906,त्रिसन्ध्या त्रिस्तनी तोषासंस्था तालप्रतापिनी । ताटङ्किनी तुषाराभा तुहिनाचलवासिनी ॥ 69॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,68,17907,तन्तुजालसमायुक्ता तारहारावलिप्रिया । तिलहोमप्रिया तीर्था तमालकुसुमाकृतिः ॥ 70॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,69,17908,तारका त्रियुता तन्वी त्रिशङ्कुपरिवारिता । तलोदरी तिलाभूषा ताटङ्कप्रियवाहिनी ॥ 71॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,70,17909,त्रिजटा तित्तिरी तृष्णा त्रिविधा तरुणाकृतिः । तप्तकाञ्चनसङ्काशा तप्तकाञ्चनभूषणा ॥ 72॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,71,17910,त्रैयम्बका त्रिवर्गा च त्रिकालज्ञानदायिनी । तर्पणा तृप्तिदा तृप्ता तामसी तुम्बुरुस्तुता ॥ 73॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,72,17911,तार्क्ष्यस्था त्रिगुणाकारा त्रिभङ्गी तनुवल्लरिः । थात्कारी थारवा थान्ता दोहिनी दीनवत्सला ॥ 74॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,73,17912,दानवान्तकरी दुर्गा दुर्गासुरनिबर्हिणी । देवरीतिर्दिवारात्रिर्द्रौपदी दुन्दुभिस्वना ॥ 75॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,74,17913,देवयानी दुरावासा दारिद्र्योद्भेदिनी दिवा । दामोदरप्रिया दीप्ता दिग्वासा दिग्विमोहिनी ॥ 76॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,75,17914,दण्डकारण्यनिलया दण्डिनी देवपूजिता । देववन्द्या दिविषदा द्वेषिणी दानवाकृतिः ॥ 77॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,76,17915,दीनानाथस्तुता दीक्षा दैवतादिस्वरूपिणी । धात्री धनुर्धरा धेनुर्धारिणी धर्मचारिणी ॥ 78॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,77,17916,धरन्धरा धराधारा धनदा धान्यदोहिनी । धर्मशीला धनाध्यक्षा धनुर्वेदविशारदा ॥ 79॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,78,17917,धृतिर्धन्या धृतपदा धर्मराजप्रिया ध्रुवा । धूमावती धूमकेशी धर्मशास्त्रप्रकाशिनी ॥ 80॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,79,17918,नन्दा नन्दप्रिया निद्रा नृनुता नन्दनात्मिका । नर्मदा नलिनी नीला नीलकण्ठसमाश्रया ॥ 81॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,80,17919,नारायणप्रिया नित्या निर्मला निर्गुणा निधिः । निराधारा निरुपमा नित्यशुद्धा निरञ्जना ॥ 82॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,81,17920,नादबिन्दुकलातीता नादबिन्दुकलात्मिका । नृसिंहिनी नगधरा नृपनागविभूषिता ॥ 83॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,82,17921,नरकक्लेशशमनी नारायणपदोद्भवा । निरवद्या निराकारा नारदप्रियकारिणी ॥ 84॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,83,17922,नानाज्योतिःसमाख्याता निधिदा निर्मलात्मिका । नवसूत्रधरा नीतिर्निरुपद्रवकारिणी ॥ 85॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,84,17923,नन्दजा नवरत्नाढ्या नैमिषारण्यवासिनी । नवनीतप्रिया नारी नीलजीमूतनिःस्वना ॥ 86॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,85,17924,निमेषिणी नदीरूपा नीलग्रीवा निशीश्वरी । नामावलिर्निशुम्भघ्नी नागलोकनिवासिनी ॥ 87॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,86,17925,नवजाम्बूनदप्रख्या नागलोकाधिदेवता । नूपुराक्रान्तचरणा नरचित्तप्रमोदिनी ॥ 88॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,87,17926,निमग्नारक्तनयना निर्घातसमनिःस्वना । नन्दनोद्याननिलया निर्व्यूहोपरिचारिणी ॥ 89॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,88,17927,पार्वती परमोदारा परब्रह्मात्मिका परा । पञ्चकोशविनिर्मुक्ता पञ्चपातकनाशिनी ॥ 90॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,89,17928,परचित्तविधानज्ञा पञ्चिका पञ्चरूपिणी । पूर्णिमा परमा प्रीतिः परतेजः प्रकाशिनी ॥ 91॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,90,17929,पुराणी पौरुषी पुण्या पुण्डरीकनिभेक्षणा । पातालतलनिर्मग्ना प्रीता प्रीतिविवर्धिनी ॥ 92॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,91,17930,पावनी पादसहिता पेशला पवनाशिनी । प्रजापतिः परिश्रान्ता पर्वतस्तनमण्डला ॥ 93॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,92,17931,पद्मप्रिया पद्मसंस्था पद्माक्षी पद्मसम्भवा । पद्मपत्रा पद्मपदा पद्मिनी प्रियभाषिणी ॥ 94॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,93,17932,पशुपाशविनिर्मुक्ता पुरन्ध्री पुरवासिनी । पुष्कला पुरुषा पर्वा पारिजातसुमप्रिया ॥ 95॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,94,17933,पतिव्रता पवित्राङ्गी पुष्पहासपरायणा । प्रज्ञावतीसुता पौत्री पुत्रपूज्या पयस्विनी ॥ 96॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,95,17934,पट्टिपाशधरा पङ्क्तिः पितृलोकप्रदायिनी । पुराणी पुण्यशीला च प्रणतार्तिविनाशिनी ॥ 97॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,96,17935,प्रद्युम्नजननी पुष्टा पितामहपरिग्रहा । पुण्डरीकपुरावासा पुण्डरीकसमानना ॥ 98॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,97,17936,पृथुजङ्घा पृथुभुजा पृथुपादा पृथूदरी । प्रवालशोभा पिङ्गाक्षी पीतवासाः प्रचापला ॥ 99॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,98,17937,प्रसवा पुष्टिदा पुण्या प्रतिष्ठा प्रणवागतिः । पञ्चवर्णा पञ्चवाणी पञ्चिका पञ्जरस्थिता ॥ 100॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,99,17938,परमाया परज्योतिः परप्रीतिः परागतिः । पराकाष्ठा परेशानी पावनी पावकद्युतिः ॥ 101॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,100,17939,पुण्यभद्रा परिच्छेद्या पुष्पहासा पृथूदरी । पीताङ्गी पीतवसना पीतशय्या पिशाचिनी ॥ 102॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,101,17940,पीतक्रिया पिशाचघ्नी पाटलाक्षी पटुक्रिया । पञ्चभक्षप्रियाचारा पूतनाप्राणघातिनी ॥ 103॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,102,17941,पुन्नागवनमध्यस्था पुण्यतीर्थनिषेविता । पञ्चाङ्गी च पराशक्तिः परमाह्लादकारिणी ॥ 104॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,103,17942,पुष्पकाण्डस्थिता पूषा पोषिताखिलविष्टपा । पानप्रिया पञ्चशिखा पन्नगोपरिशायिनी ॥ 105॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,104,17943,पञ्चमात्रात्मिका पृध्वी पथिका पृथुदोहिनी । पुराणन्यायमीमांसा पाटली पुष्पगन्धिनी ॥ 106॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,105,17944,पुण्यप्रजा पारदात्री परमार्गैकगोचरा । प्रवालशोभा पूर्णाशा प्रणवा पल्लवोदरी ॥ 107॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,106,17945,फलिनी फलदा फल्गुः फूत्कारी फलकाकृतिः । फणीन्द्रभोगशयना फणिमण्डलमण्डिता ॥ 108॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,107,17946,बालबाला बहुमता बालातपनिभांशुका । बलभद्रप्रिया वन्द्या वडवा बुद्धिसंस्तुता ॥ 112॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,108,17947,बन्दीदेवी बिलवती बडिशघ्नी बलिप्रिया । बान्धवी बोधिता बुद्धिर्बन्धूककुसुमप्रिया ॥ 110॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,109,17948,बालभानुप्रभाकारा ब्राह्मी ब्राह्मणदेवता । बृहस्पतिस्तुता वृन्दा वृन्दावनविहारिणी ॥ 111॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,110,17949,बालाकिनी बिलाहारा बिलवासा बहूदका । बहुनेत्रा बहुपदा बहुकर्णावतंसिका ॥ 112॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,111,17950,बहुबाहुयुता बीजरूपिणी बहुरूपिणी । बिन्दुनादकलातीता बिन्दुनादस्वरूपिणी ॥ 113॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,112,17951,बद्धगोधाङ्गुलित्राणा बदर्याश्रमवासिनी । बृन्दारका बृहत्स्कन्धा बृहती बाणपातिनी ॥ 114॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,113,17952,वृन्दाध्यक्षा बहुनुता वनिता बहुविक्रमा । बद्धपद्मासनासीना बिल्वपत्रतलस्थिता ॥ 115॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,114,17953,बोधिद्रुमनिजावासा बडिस्था बिन्दुदर्पणा । बाला बाणासनवती वडवानलवेगिनी ॥ 116॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,115,17954,ब्रह्माण्डबहिरन्तःस्था ब्रह्मकङ्कणसूत्रिणी । भवानी भीषणवती भाविनी भयहारिणी ॥ 117॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,116,17955,भद्रकाली भुजङ्गाक्षी भारती भारताशया । भैरवी भीषणाकारा भूतिदा भूतिमालिनी ॥ 118॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,117,17956,भामिनी भोगनिरता भद्रदा भूरिविक्रमा । भूतवासा भृगुलता भार्गवी भूसुरार्चिता ॥ 119॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,118,17957,भागीरथी भोगवती भवनस्था भिषग्वरा । भामिनी भोगिनी भाषा भवानी भूरिदक्षिणा ॥ 120॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,119,17958,भर्गात्मिका भीमवती भवबन्धविमोचिनी । भजनीया भूतधात्रीरञ्जिता भुवनेश्वरी ॥ 121॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,120,17959,भुजङ्गवलया भीमा भेरुण्डा भागधेयिनी । माता माया मधुमती मधुजिह्वा मधुप्रिया ॥ 122॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,121,17960,महादेवी महाभागा मालिनी मीनलोचना । मायातीता मधुमती मधुमांसा मधुद्रवा ॥ 123॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,122,17961,मानवी मधुसम्भूता मिथिलापुरवासिनी । मधुकैटभसंहर्त्री मेदिनी मेघमालिनी ॥ 124॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,123,17962,मन्दोदरी महामाया मैथिली मसृणप्रिया । महालक्ष्मीर्महाकाली महाकन्या महेश्वरी ॥ 125॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,124,17963,माहेन्द्री मेरुतनया मन्दारकुसुमार्चिता । मञ्जुमञ्जीरचरणा मोक्षदा मञ्जुभाषिणी ॥ 126॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,125,17964,मधुरद्राविणी मुद्रा मलया मलयान्विता । मेधा मरकतश्यामा मागधी मेनकात्मजा ॥ 127॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,126,17965,महामारी महावीरा महाश्यामा मनुस्तुता । मातृका मिहिराभासा मुकुन्दपदविक्रमा ॥ 128॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,127,17966,मूलाधारस्थिता मुग्धा मणिपूरकवासिनी । मृगाक्षी महिषारूढा महिषासुरमर्दिनी ॥ 129॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,128,17967,योगासना योगगम्या योगा यौवनकाश्रया । यौवनी युद्धमध्यस्था यमुना युगधारिणी ॥ 130॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,129,17968,यक्षिणी योगयुक्ता च यक्षराजप्रसूतिनी । यात्रा यानविधानज्ञा यदुवंशसमुद्भवा ॥ 131॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,130,17969,यकारादिहकारान्ता याजुषी यज्ञरूपिणी । यामिनी योगनिरता यातुधानभयङ्करी ॥ 132॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,131,17970,रुक्मिणी रमणी रामा रेवती रेणुका रतिः । रौद्री रौद्रप्रियाकारा राममाता रतिप्रिया ॥ 133॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,132,17971,रोहिणी राज्यदा रेवा रमा राजीवलोचना । राकेशी रूपसम्पन्ना रत्नसिंहासनस्थिता ॥ 134॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,133,17972,रक्तमाल्याम्बरधरा रक्तगन्धानुलेपना । राजहंससमारूढा रम्भा रक्तबलिप्रिया ॥ 135॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,134,17973,रमणीययुगाधारा राजिताखिलभूतला । रुरुचर्मपरीधाना रथिनी रत्नमालिका ॥ 136॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,135,17974,रोगेशी रोगशमनी राविणी रोमहर्षिणी । रामचन्द्रपदाक्रान्ता रावणच्छेदकारिणी ॥ 137॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,136,17975,रत्नवस्त्रपरिच्छन्ना रथस्था रुक्मभूषणा । लज्जाधिदेवता लोला ललिता लिङ्गधारिणी ॥ 138॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,137,17976,लक्ष्मीर्लोला लुप्तविषा लोकिनी लोकविश्रुता । लज्जा लम्बोदरी देवी ललना लोकधारिणी ॥ 139॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,138,17977,वरदा वन्दिता विद्या वैष्णवी विमलाकृतिः । वाराही विरजा वर्षा वरलक्ष्मीर्विलासिनी ॥ 140॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,139,17978,विनता व्योममध्यस्था वारिजासनसंस्थिता । वारुणी वेणुसम्भूता वीतिहोत्रा विरूपिणी ॥ 141॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,140,17979,वायुमण्डलमध्यस्था विष्णुरूपा विधिप्रिया । विष्णुपत्नी विष्णुमती विशालाक्षी वसुन्धरा ॥ 142॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,141,17980,वामदेवप्रिया वेला वज्रिणी वसुदोहिनी । वेदाक्षरपरीताङ्गी वाजपेयफलप्रदा ॥ 143॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,142,17981,वासवी वामजननी वैकुण्ठनिलया वरा । व्यासप्रिया वर्मधरा वाल्मीकिपरिसेविता ॥ 144॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,143,17982,शाकम्भरी शिवा शान्ता शारदा शरणागतिः । शातोदरी शुभाचारा शुम्भासुरविमर्दिनी ॥ 145॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,144,17983,शोभावती शिवाकारा शङ्करार्धशरीरिणी । शोणा शुभाशया शुभ्रा शिरःसन्धानकारिणी ॥ 146॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,145,17984,शरावती शरानन्दा शरज्ज्योत्स्ना शुभानना । शरभा शूलिनी शुद्धा शबरी शुकवाहना ॥ 147॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,146,17985,श्रीमती श्रीधरानन्दा श्रवणानन्ददायिनी । शर्वाणी शर्वरीवन्द्या षड्भाषा षडृतुप्रिया ॥ 148॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,147,17986,षडाधारस्थिता देवी षण्मुखप्रियकारिणी । षडङ्गरूपसुमतिसुरासुरनमस्कृता ॥ 149॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,148,17987,सरस्वती सदाधारा सर्वमङ्गलकारिणी । सामगानप्रिया सूक्ष्मा सावित्री सामसम्भवा ॥ 150॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,149,17988,सर्वावासा सदानन्दा सुस्तनी सागराम्बरा । सर्वैश्वर्यप्रिया सिद्धिः साधुबन्धुपराक्रमा ॥ 151॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,150,17989,सप्तर्षिमण्डलगता सोममण्डलवासिनी । सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता ॥ 152॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,151,17990,सर्वोत्तुङ्गा सङ्गहीना सद्गुणा सकलेष्टदा । सरघा सूर्यतनया सुकेशी सोमसंहतिः ॥ 153॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,152,17991,हिरण्यवर्णा हरिणी ह्रीङ्कारी हंसवाहिनी । क्षौमवस्त्रपरीताङ्गी क्षीराब्धितनया क्षमा ॥ 154॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,153,17992,गायत्री चैव सावित्री पार्वती च सरस्वती । वेदगर्भा वरारोहा श्रीगायत्री पराम्बिका ॥ 155॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,154,17993,इति साहस्रकं नाम्नां गायत्र्याश्चैव नारद । पुण्यदं सर्वपापघ्नं महासम्पत्तिदायकम् ॥ 156॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,155,17994,एवं नामानि गायत्र्यास्तोषोत्पत्तिकराणि हि । अष्टम्यां च विशेषेण पठितव्यं द्विजैः सह ॥ 157॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,156,17995,जपं कृत्वा होमपूजाध्यानं कृत्वा विशेषतः । यस्मै कस्मै न दातव्यं गायत्र्यास्तु विशेषतः ॥ 158॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,157,17996,सुभक्ताय सुशिष्याय वक्तव्यं भूसुराय वै । भ्रष्टेभ्यः साधकेभ्यश्च बान्धवेभ्यो न दर्शयेत् ॥ 159॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,158,17997,यद्गृहे लिखितं शास्त्रं भयं तस्य न कस्यचित् । चञ्चलापि स्थिरा भूत्वा कमला तत्र तिष्ठति ॥ 160॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,159,17998,इदं रहस्यं परमं गुह्याद्गुह्यतरं महत् । पुण्यप्रदं मनुष्याणां दरिद्राणां निधिप्रदम् ॥ 161॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,160,17999,मोक्षप्रदं मुमुक्षूणां कामिनां सर्वकामदम् । रोगाद्वै मुच्यते रोगी बद्धो मुच्येत बन्धनात् ॥ 162॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,161,18000,बह्महत्यासुरापानसुवर्णस्तेयिनो नराः । गुरुतल्पगतो वापि पातकान्मुच्यते सकृत् ॥ 163॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,162,18001,असत्प्रतिग्रहाच्चैवाभक्ष्यभक्षाद्विशेषतः । पाखण्डानृतमुख्येभ्यः पठनादेव मुच्यते ॥ 164॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,163,18002,इदं रहस्यममलं मयोक्तं पद्मजोद्भव । ब्रह्मसायुज्यदं नॄणां सत्यं सत्यं न संशयः ॥ 165॥ 12,१२.६,षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।,164,18003,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे गायत्रीसहस्रनामस्तोत्रवर्णनं नाम षष्ठोऽध्यायः ॥ १२.६॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,0,18004,नारद उवाच । श्रुतं सहस्रनामाख्यं श्रीगायत्र्याः फलप्रदम् । स्तोत्रं महोन्नतिकरं महाभाग्यकरं परम् ॥ 1॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,1,18005,अधुना श्रोतुमिच्छामि दीक्षालक्षणमुत्तमम् । विना येन न सिध्येत देवीमन्त्रेऽधिकारिता ॥ 2॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,2,18006,ब्राह्मणानां क्षत्रियाणां विशां स्त्रीणां तथैव च । सामान्यविधिना सर्वं विस्तरेण वद प्रभो ॥ 3॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,3,18007,श्रीनारायण उवाच । श‍ृणु दीक्षां प्रवक्ष्यामि शिष्याणां भावितात्मनाम् । देवाग्निगुरुपूजादावधिकारो यया भवेत् ॥ 4॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,4,18008,दिव्यं ज्ञानं हि या दद्यात्कुर्यात्पापक्षयं तु या । सैव दीक्षेति सम्प्रोक्ता वेदतन्त्रविशारदैः ॥ 5॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,5,18009,अवश्यं सा तु कर्तव्या यतो बहुफला मता । गुरुशिष्यावुभावत्राप्यतिशुद्धावपेक्षितौ ॥ 6॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,6,18010,गुरुस्तु विधिवत्प्रातः कृत्यं सर्वं विधाय च । स्नानसन्ध्यादिकं सर्वं यथाविधि विधाय च ॥ 7॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,7,18011,कमण्डलुकरो मौनी गृहं यायात्सरित्तटात् । यागमण्डपमासाद्य विशेत्तत्रासने वरे ॥ 8॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,8,18012,आचम्य प्राणानायम्य गन्धपुष्पविमिश्रितम् । सप्तवारास्त्रमन्त्रेण जप्तं वारि सुसाधयेत् ॥ 9॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,9,18013,वारिणा तेन मतिमानस्त्रमन्त्रं समुच्चरन् । प्रोक्षयेद्द्वारमखिलं ततः पूजां समाचरेत् ॥ 10॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,10,18014,ऊर्ध्वोदुम्बरके देवं गणनाथं तथा श्रियम् । सरस्वतीं नाममन्त्रैः पूजयेद्गन्धपुष्पकैः ॥ 11॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,11,18015,द्वारदक्षिणशाखायां गङ्गां विघ्नेशमर्चयेत् । द्वारस्य वामशाखायां क्षेत्रपालं च सूर्यजाम् ॥ 12॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,12,18016,देहल्यां पूजयेदस्त्रदेवतामस्त्रमन्त्रतः । सर्वं देवीमयं दृश्यमिति सञ्चिन्त्य सर्वतः ॥ 13॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,13,18017,दिव्यानुत्सारयेद्विघ्नानस्त्रमन्त्रजपेन तु । अन्तरिक्षगतान्विघ्नान्पादघातैस्तु भूमिगान् ॥ १४ वामशाखां स्मृशन्पश्चात्प्रविशेद्दक्षिणाङ्घ्रिणा । प्रविश्य कुम्भं संस्थाप्य सामान्यार्घ्यं विधाय च ॥ 15॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,14,18018,तेन चार्घ्यजलेनापि नैरृत्यां दिशि पूजयेत् । वास्तुनाथं पद्मयोनिं गन्धपुष्पाक्षतादिभिः ॥ 16॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,15,18019,ततः कुर्यात्पञ्चगव्यं तेन चार्घ्योदकेन च । तोरणस्तम्भपर्यन्तं प्रोक्षयेन्मण्डपं गुरुः ॥ 17॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,16,18020,सर्वं देवीमयं चेदं भावयेन्मनसा किल । मूलमन्त्रं जपन्भक्त्या प्रोक्षणं स्याच्छरणुना ॥ 18॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,17,18021,शरमन्त्रं समुच्चार्य ताडयेन्मण्डपक्षमाम् । हुम्मन्त्रं तु समुच्चार्य कुर्यादभ्युक्षणं ततः ॥ 19॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,18,18022,धूपयेदन्तरं धूपैर्विकिरान् विकिरेत्ततः । मार्जयेत्तांस्तु मार्जन्या कुशनिर्मितया पुनः ॥ 20॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,19,18023,ईशानदिशि तत्पुञ्जं कृत्वा संस्थापयेन्मुने । पुण्याहवाचनं कृत्वा दीनानाथांश्च तोषयेत् ॥ 21॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,20,18024,विशेन्मृद्वासने पश्चान्नमस्कृत्य गुरुं निजम् । प्राङ्मुखो विधिवद्ध्यात्वा देयमन्त्रस्य देवताम् ॥ 22॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,21,18025,भूतशुद्ध्यादिकं कृत्वा पूर्वोक्तेनैव वर्त्मना । ऋष्यादिन्यासकं कुर्याद्देयमन्त्रस्य वै मुने ॥ 23॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,22,18026,न्यसेन्मुनिं तु शिरसि मुखे छन्दः समीरितम् । देवतां हृदयाम्भोजे गुह्ये बीजं तु पादयोः ॥ 24॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,23,18027,शक्तिं विन्यस्य पश्चात्तु तालत्रयरवात्ततः । दिग्बन्धं कारयेत्पश्चाच्छोटिकाभिस्त्रिभिर्नरः ॥ 25॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,24,18028,प्राणायामं ततः कृत्वा मूलमन्त्रमनुस्मरन् । मातृकां विन्यसेद्देहे तत्प्रकारस्तथोच्यते ॥ 26॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,25,18029,ॐ अं नम इति प्रोच्य न्यसेच्छिरसि मन्त्रवित् । एवमेव तु सर्वेषु न्यसेक्त्यानेषु वै मुने ॥ 27॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,26,18030,मूलमन्त्रं षडङ्गं च न्यसेदङ्गेषु सत्तमः । अङ्गुष्ठादिष्वङ्गुलीषु हृदयादिषु च क्रमात् ॥ 28॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,27,18031,नमः स्वाहावषड्युक्तैर्हुंवौषट्फट्पदान्वितैः । प्रणवादियुतैर्मन्त्रैः षड्भिरेव षडङ्गकम् ॥ 29॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,28,18032,वर्णन्यासादिकं पश्चान्मूलमन्त्रस्य योजयेत् । स्थानेषु तत्तत्कल्पोक्तेष्विति न्यासविधिः स्मृतः ॥ 30॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,29,18033,ततो निजे शरीरेऽस्मिंश्चिन्तयेदासनं शुभम् । दक्षांसे च न्यसेद्धर्मं वामांसे ज्ञानमेव च ॥ 31॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,30,18034,वामोरौ चापि वैराग्यं दक्षोरावथ विन्यसेत् । ऐश्वर्यं मुखदेशे तु मुने ध्यायेदधर्मकम् ॥ 32॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,31,18035,वामपार्श्वे नाभिदेशे दक्षपार्श्वे तथा पुनः । नञादीश्चापि ज्ञानादीन्पूर्वोक्तानेव विन्यसेत् ॥ 33॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,32,18036,पादा धर्मादयः प्रोक्ताः पीठस्य मुनिसत्तम । अधर्माद्यास्तु गात्राणि स्मृतानि मुनिपुङ्गवैः ॥ 34॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,33,18037,मध्येऽनन्तं हृदि स्थाने न्यसेन्मृद्वासने स्थले । प्रपञ्चपद्मं विमलं तस्मिन्सूर्येन्दुपावकान् ॥ 35॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,34,18038,न्यसेत्कलायुतान्मन्त्री सङ्क्षेपात्ता वदाम्यहम् । सूर्यस्य द्वादश कलास्ता इन्दोः षोडश स्मृताः ॥ 36॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,35,18039,दश वह्नेः कलाः प्रोक्तास्ताभिर्युक्तांस्तु तान्स्मरेत् । सत्त्वं रजस्तमश्चैव न्यसेत्तेषामथोपरि ॥ 37॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,36,18040,आत्मानमन्तरात्मानं परमात्मानमेव च । ज्ञानात्मानं न्यसेद्विद्वानित्थं पीठस्य कल्पना ॥ 38॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,37,18041,अमुकासनाय नम इति मन्त्रेण साधकः । आसनं पूजयित्वा तु तस्मिन्ध्यायेत्पराम्बिकाम् ॥ 39॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,38,18042,कल्पोक्तविधिना मन्त्री देयमन्त्रस्य देवताम् । मानसैरुपचारैश्च पूजयेत्तां यथाविधि ॥ 40॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,39,18043,मुद्राः प्रदर्शयेद्विद्वान्कल्पोक्ता मोदकारिकाः । याभिर्विरचिताभिस्तु मोदो देव्यास्तु जायते ॥ 41॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,40,18044,श्रीनारायण उवाच । ततः स्ववामभागाग्रे षट्कोणोपरि वर्तुलम् । चतुरस्रयुतं सम्यङ्मध्ये मण्डलमालिखेत् ॥ 42॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,41,18045,मध्ये त्रिकोणं संलिख्य शङ्खमुद्रां प्रदर्शयेत् । षडङ्गानि च षट्कोणेष्वर्चयेत्कुसुमादिभिः ॥ 43॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,42,18046,अग्न्यादिषु तु कोणेषु षडङ्गार्चनमाचरेत् । आधारपात्रमादाय शङ्खस्य मुनिसत्तम ॥ 44॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,43,18047,अस्त्रमन्त्रेण सम्प्रोक्ष्य स्थापयेत्तत्र मण्डले । मं वह्निमण्डलायोक्त्वा ततो दशकलात्मने ॥ 45॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,44,18048,अमुकदेव्या अर्घ्यपात्रस्थानाय नम इत्यपि । मन्त्रोऽयमुक्तः शङ्खस्याप्याधारस्थापने बुधैः ॥ 46॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,45,18049,आधारे पूर्वमारभ्य प्रदक्षिणक्रमेण तु । दश वह्निकलाः पूज्या वह्निमण्डलसंस्थिताः ॥ 47॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,46,18050,ततो वै मूलमन्त्रेण प्रोक्षितं शङ्खमुत्तमम् । स्थापयेत्तत्र चाधारे मूलमन्त्रमनुस्मरन् ॥ 48॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,47,18051,अं सूर्यमण्डलायोक्त्वा द्वादशान्ते कलात्मने । अमुकदेव्यर्घ्यपात्राय नम इत्युच्चरेत्ततः ॥ 49॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,48,18052,शं शङ्खाय पदं प्रोच्य नम इत्येतदुच्चरेत् । प्रोक्षयेत्तेन तं शङ्खं तस्मिन्द्वादश पूजयेत् ॥ 50॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,49,18053,सूर्यस्य द्वादश कलास्तपन्याद्या यथाक्रमम् । विलोममातृकां प्रोच्य मूलमन्त्रं विलोमकम् ॥ 51॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,50,18054,जलैरापूरयेच्छङ्खं तत्र चेन्दोः कलां न्यसेत् । ॐ सोममण्डलायोक्त्वान्ते षोडशकलात्मने ॥ 52॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,51,18055,अमुकार्घ्यामृतायेति हृन्मन्त्रान्तो मनुः स्मृतः । पूजयेन्मनुना तेन जलं तु सृणिमुद्रया ॥ 53॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,52,18056,तीर्थान्यावाह्य तत्रैवाप्यष्टकृत्वो जपेन्मनुम् । षडङ्गानि जले न्यस्य हृदा सम्पूजयेदपः ॥ 54॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,53,18057,अष्टकृत्वो जपेन्मूलं छादयेन्मत्स्यमुद्रया । ततो दक्षिणदिग्भागे शङ्खस्य प्रोक्षणीं न्यसेत् ॥ 55॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,54,18058,शङ्खाम्बु किञ्चिन्निक्षिप्य प्रोक्षयेत्तेन सर्वतः । पूजाद्रव्यं निजात्मानं विशुद्धं भावयेत्ततः ॥ 56॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,55,18059,श्रीनारायणाय उवाच । ततः स्वपुरतो वेद्यां सर्वतोभद्रमण्डलम् । संलिख्य कर्णिकामध्यं पूरयेच्छालितण्डुलैः ॥ 57॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,56,18060,आस्तीर्य दर्भांस्तत्रैव न्यसेत्कूर्चं सलक्षणम् । आधारशक्तिमारभ्य पीठमन्वन्तमर्चयेत् ॥ 58॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,57,18061,निर्व्रणं कुम्भमादायाप्यस्त्राद्भिः क्षालितान्तरम् । तन्तुना वेष्टयेत्तं तु त्रिगुणेनारुणेन च ॥ 59॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,58,18062,नवरत्नोदरं कूर्चयुतं गन्धादिपूजितम् । स्थापयेत्तत्र पीठे तु तारमन्त्रेण देशिकः ॥ 60॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,59,18063,ऐक्यं कुम्भस्य पीठस्य भावयेत्पूरयेत्ततः । मातृकां प्रतिलोमेन जपंस्तीर्थोदकैर्मुने ॥ 61॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,60,18064,मूलमन्त्रं च सञ्जप्य पूरयेद्देवताधिया । अश्वत्थपनसाम्राणां कोमलैर्नवपल्लवैः ॥ 62॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,61,18065,छादयेत्कुम्भवदनं चषकं सफलाक्षतम् । संस्थापयेत मतिमान् वस्त्रयुग्मेन वेष्टयेत् ॥ 63॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,62,18066,प्राणस्थापनमन्त्रेण प्राणस्थापनमाचरेत् । आवाहनादिमुद्राभिर्मोदयेद्देवतां पराम् ॥ 64॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,63,18067,ध्यायेत्तां परमेशानीं कल्पोक्तेन प्रकारतः । स्वागतं कुशलप्रश्नं देव्या अग्रे समुच्चरेत् ॥ 65॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,64,18068,पाद्यं दद्यात्ततोऽप्यर्घ्यं ततश्चाचमनीयकम् । मधुपर्कं च साभ्यङ्गं देव्यै स्नानं निवेदयेत् ॥ 66॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,65,18069,वाससी च ततो दद्याद्रक्ते क्षौमे सुनिर्मले । नानामणिगणाकीर्णानाकल्पान्कल्पयेत्ततः ॥ 67॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,66,18070,मनुना पुटितैर्वर्णैर्मातृकाया विधानतः । देव्या अङ्गेषु विन्यस्य चन्दनाद्यैः समर्चयेत् ॥ 68॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,67,18071,गन्धः कालागुरुभवः कर्पूरेण समन्वितः । काश्मीरं चन्दनं चापि कस्तूरीसहितं मुने ॥ 69॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,68,18072,कुन्दपुष्पादिपुष्पाणि परदेव्यै समर्पयेत् । धूपोऽगुरुपुरुव्रातोशीरचन्दनशर्कराः ॥ 70॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,69,18073,मधुमिश्राः स्मृता देव्याः प्रिया धूपात्मना सदा । दीपाननेकान्दत्त्वाथ नैवेद्यं दर्शयेत्सुधीः ॥ 71॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,70,18074,प्रतिद्रव्यं जलं दद्यात्प्रोक्षणीस्थं न चान्यथा । ततः कुर्यादङ्गपूजां कल्पोक्तावरणानि च ॥ 72॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,71,18075,साङ्गां देवीमथाभ्यर्च्य वैश्वदेवं ततश्चरेत् । दक्षिणे स्थण्डिलं कृत्वा तत्राधाय हुताशनम् ॥ 73॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,72,18076,मूर्तिस्थां देवतां तत्रावाह्य सम्पूज्य च क्रमात् । तारव्याहृतिभिर्हुत्वा मूलमन्त्रेण वै ततः ॥ 74॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,73,18077,पञ्चविंशतिवारं तु पायसेन ससर्पिषा । हुनेत्पश्चाद्व्याहृतिभिः पुनश्च जुहुयान्मुने ॥ 75॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,74,18078,गन्धाद्यैरर्चयित्वा च देवीं पीठे तु योजयेत् । वह्निं विसृज्य हविषा परितो विकिरेद्बलिम् ॥ 76॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,75,18079,देवतायाः पार्षदेभ्यो गन्धपुष्पादिसंयुतान् । पञ्चोपचारान्दत्त्वाथ ताम्बूलं छत्रचामरे ॥ 77॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,76,18080,दद्याद्देव्यै ततो मन्त्रं सहस्रावृत्तितो जपेत् । जपं समर्प्य चैशान्यां विकिरे दिशि संस्थिते ॥ 78॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,77,18081,कर्करीं स्थापयेत्तस्यां दुर्गामावाह्य पूजयेत् । रक्ष रक्षेति चोच्चार्य नालमुक्तेन वारिणा ॥ 79॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,78,18082,अस्त्रमन्त्रं जपन्देशं सेचयेत्तु प्रदक्षिणम् । कर्करीं स्थापयेत्स्थाने पूजयेच्चास्त्रदेवताम् ॥ 80॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,79,18083,पश्चाद्गुरुस्तु शिष्येण सह भुञ्जीत वाग्यतः । तस्यां रात्रौ तु तद्वेद्यां निद्रां कुर्यात्प्रयत्नतः ॥ 81॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,80,18084,श्रीनारायण उवाच । ततः कुण्डस्य संस्कारं स्थण्डिलस्य च वा मुने । प्रवक्ष्यामि समासेन यथाविधि विधानतः ॥ 82॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,81,18085,मूलमन्त्रं समुच्चार्य वीक्षयेदस्त्रमन्त्रतः । प्रोक्षयेत्ताडनं कुर्यात्तेनैव कवचेन तु ॥ 83॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,82,18086,अभ्युक्षणं समुद्दिष्टं तिस्रस्तिस्रस्ततः परम् । प्रागग्रा उदगग्राश्च लिखेल्लेखाः समन्ततः ॥ 84॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,83,18087,प्रणवेन समभ्युक्ष्य पीठं देव्याः समर्चयेत् । आधारशक्तिमारभ्य पीठमन्त्रावसानकम् ॥ 85॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,84,18088,तस्मिन्पीठे समावाह्य शिवौ परमकारणौ । गन्धाद्यैरुपचारैश्च पूजयेत्तौ समाहितः ॥ 86॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,85,18089,देवीं ध्यायेदृतुस्नातां संसक्तां शङ्करेण तु । कामातुरां तयोः क्रीडां किञ्चित्कालं विभावयेत् ॥ 87॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,86,18090,अथ वह्निं समादाय पात्रेण पुरतो न्यसेत् । क्रव्यादांशं परित्यज्य पूर्वोक्तैर्वीक्षणादिभिः ॥ 88॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,87,18091,संस्कृत्य वह्निं रं बीजमुच्चार्य तदनन्तरम् । चैतन्यं योजयेत्तस्मिन्प्रणवेनाभिमन्त्रयेत् ॥ 89॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,88,18092,सप्तवारं ततो धेनुमुद्रां सन्दर्शयेद्गुरुः । शरेण रक्षितं कृत्वा तनुत्रेणावगुण्ठयेत् ॥ 90॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,89,18093,अर्चितं त्रिः परिभ्राम्य प्रादक्षिण्येन सत्तमः । कुण्डोपरि जपंस्तारं जानुस्पृष्टमहीतलः ॥ 91॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,90,18094,शिवबीजधिया देव्या योनौ वह्निं विनिक्षिपेत् । आचामयेत्ततो देवं देवीं च जगदम्बिकाम् ॥ 92॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,91,18095,चित्पिङ्गल हनदहपचयुग्मं ततः परम् । सर्वज्ञाज्ञापय स्वाहा मन्त्रोऽयं वह्निदीपने ॥ 93॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,92,18096,अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् । सुवर्णवर्णममलं समिद्धं विश्वतोमुखम् ॥ 94॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,93,18097,मन्त्रेणानेन तं वह्निं स्तुवीत परमादरात् । ततो न्यसेद्वह्निमन्त्रं षडङ्गं देशिकोत्तमः ॥ 95॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,94,18098,सहस्रार्चिः स्वस्तिपूर्ण उत्तिष्ठपुरुषः स्मृतः । धूमव्यापी सप्तजिह्वो धनुर्धर इति क्रमात् ॥ 96॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,95,18099,जातियुक्ताः षडङ्गाः स्युः पूर्वस्थानेषु विन्यसेत् । ध्यायेद्वह्निं हेमवर्णं त्रिनेत्रं पद्मसंस्थितम् ॥ 97॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,96,18100,इष्टशक्तिस्वस्तिकाभीर्धारकं मङ्गलं परम् । परिषिञ्चेत्ततः कुण्डं मेखलोपरि मन्त्रवित् ॥ 98॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,97,18101,दर्भैः परिस्तरेत्पश्चात्परिधीन्विन्यसेदथ । त्रिकोणवृत्तषट्कोणं साष्टपत्रं सभूपुरम् ॥ 99॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,98,18102,यन्त्रं विभावयेद्वह्नेः पूर्वं वा संलिखेदथ । तन्मध्ये पूजयेद्वह्निं मन्त्रेणानेन वै मुने ॥ 100॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,99,18103,वैश्वानर ततो जातवेदः पश्चादिहावह । लोहिताक्षपदं प्रोक्त्वा सर्वकर्माणि साधय ॥ 101॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,100,18104,वह्निजायान्तको मन्त्रस्तेन वह्निं तु पूजयेत् । मध्ये षट्स्वपि कोणेषु हिरण्या गगना तथा ॥ 102॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,101,18105,रक्ता कृष्णा सुप्रभा च बहुरूपातिरक्तिका । पूजयेत्सप्तजिह्वास्ताः केसरेष्वङ्गपूजनम् ॥ 103॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,102,18106,दलेषु पूजयेन्मूर्तीः शक्तिस्वस्तिकधारिणी । जातवेदाः सप्तजिह्वो हव्यवाहन एव च ॥ 104॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,103,18107,अश्वोदरजसंज्ञोऽन्यः पुनर्वैश्वानराह्वयः । कौमारतेजाः स्याद्विश्वमुखो देवमुखः स्मृतः ॥ 105॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,104,18108,ताराग्नये पदाद्याः स्युर्नत्यन्ता वह्निमूर्तयः । लोकपालांश्चतुर्दिक्षु वज्राद्यायुधसंयुतान् ॥ 106॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,105,18109,श्रीनारायण उवाच । ततः स्रुक्स्रुवसंस्कारावाज्यसंस्कार एव च । कृत्वा होमं ततः कुर्यात्स्रुवेणादाय वै घृतम् ॥ 107॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,106,18110,दक्षिणाद्घृतभागात्तु वह्नेर्दक्षिणलोचने । जुहुयादग्नये स्वाहेत्येवं वै वामतोऽन्यतः ॥ 108॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,107,18111,सोमाय स्वाहेति मध्याद्घृतमादाय सत्तम । अग्नीषोमाभ्यां स्वाहेति मध्यनेत्रे हुनेत्ततः ॥ 112॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,108,18112,पुनर्दक्षिणभागात्तु घृतमादाय वै मुखे । अग्नये स्विष्टकृत्स्वाहेत्यनेनैव हुनेत्ततः ॥ 110॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,109,18113,सताराभिर्व्याहृतिभिर्जुहुयादथ साधकः । जुहुयादग्निमन्त्रेण त्रिवारं तु ततः परम् ॥ 111॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,110,18114,ततस्तु प्रणवेनैवाप्यष्टावष्टौ घृताहुतीः । गर्भाधानादिसंस्कारकृते तु जुहुयान्मुने ॥ 112॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,111,18115,गर्भाधानं पुंसवनं सीमन्तोन्नयनं ततः । जातकर्म नामकर्माप्युपनिष्क्रमणं तथा ॥ 113॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,112,18116,अन्नाशनं तथा चूडा व्रतबन्धस्तथैव च । महानाम्न्यं व्रतं पश्चात्तथौपनिषदं व्रतम् ॥ 114॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,113,18117,गोदानोद्वाहकौ प्रोक्ताः संस्काराः श्रुतिचोदिताः । ततः शिवं पार्वतीं च पूजयित्वा विसर्जयेत् ॥ 115॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,114,18118,जुहुयात्पञ्च समिधो वह्निमुद्दिश्य साधकः । पश्चादावरणानां चाप्येकैकामाहुतिं हुनेत् ॥ 116॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,115,18119,घृतं स्रुचि समादाय चतुर्वारं स्रुवेण च । पिधाय तां तु तेनैव मुने तिष्ठन्निजासने ॥ 117॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,116,18120,वौषडन्तेन मनुना वह्नेस्तु जुहुयात्ततः । महागणेशमन्त्रेण जुहुयादाहुतीर्दश ॥ 118॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,117,18121,वह्नौ पीठं समभ्यर्च्य देयमन्त्रस्य देवताम् । वह्नौ ध्यात्वा तु तद्वक्त्रे पञ्चविंशतिसङ्ख्यया ॥ 119॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,118,18122,मूलमन्त्रेण जुहुयाद्वक्त्रैकीकरणाय च । वह्निदेवतयोरैक्यं भावयन्नात्मना सह ॥ 120॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,119,18123,एकीभूतं भावयेत्तु ततस्तु साधकोत्तमः । षडङ्गं देवतानां च जुहुयादाहुतीः पृथक् ॥ 121॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,120,18124,एकादशैव जुहुयादाहुतीर्मुनिसत्तम । एतेन नाडीसन्धानं वह्निदेवतयोर्मुने ॥ 122॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,121,18125,एकैकक्रमयोगेनाप्यावृत्तीनां तथैव च । एकैकक्रमयोगेन घृतेन जुहुयान्मुने ॥ 123॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,122,18126,ततः कल्पोक्तद्रव्यैस्तु जुहुयादथवा तिलैः । देवतामूलमन्त्रेण गजान्तकसहस्रकम् ॥ 124॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,123,18127,एवं हुत्वा ततो देवीं सन्तुष्टां भावयेन्मुने । तथैवावृतिदेवीश्च वह्न्याद्या देवता अपि ॥ 125॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,124,18128,ततः शिष्यं च सुस्नातं कृतसम्यादिकक्रियम् । वस्त्रद्वययुतं स्वर्णाभरणेन समन्वितम् ॥ 126॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,125,18129,कमण्डलुकरं शुद्धं कुण्डस्यान्तिकमानयेत् । नमस्कृत्य ततः शिष्यो गुरूनथ सभासदः ॥ 127॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,126,18130,कुलदेवं नमस्कृत्य विशेत्तत्राथ विष्टरे । गुरुस्ततस्तु तं शिष्यं कृपादृष्ट्या विलोकयेत् ॥ 128॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,127,18131,तच्चैतन्यं निजे देहे भावयेत्सङ्गतं त्विति । ततः शिष्यतनुस्थानामध्वनां परिशोधनम् ॥ 129॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,128,18132,कुर्यात्तु होमतो विद्वान्दिव्यदृष्ट्यवलोकनात् । येन जायेत शुद्धात्मा योग्यो देवाद्यनुग्रहे ॥ 130॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,129,18133,श्रीनारायण उवाच । तनौ ध्यायेत्तु शिष्यस्य षडध्वनः कमेण तु । पादयोस्तु कलाध्वानमन्धौ तत्त्वाध्वकं पुनः ॥ 131॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,130,18134,नाभौ तु भुवनाध्वानं वर्णाध्वानं तथा हृदि । पदाध्वानं तथा भाले मन्त्राध्वानं तु मूर्धनि ॥ 132॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,131,18135,शिष्यं स्पृशंस्तु कूर्चेन तिलैराज्यपरिप्लुतैः । शोधयाम्यमुमध्वानं स्वाहेति मनुमुच्चरन् ॥ 133॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,132,18136,ताराढ्यं जुहुयादष्टवारं प्रत्यध्वमेव हि । षडध्वनस्ततस्तांस्तु लीनान् ब्रह्मणि भावयेत् ॥ 134॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,133,18137,पुनरुत्पादयेत्तस्मात्सृष्टिमार्गेण वै गुरुः । आत्मस्थितं तच्चैतन्यं पुनः शिष्ये तु योजयेत् ॥ 135॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,134,18138,पूर्णाहुतिं ततो हुत्वा देवतां कलशे नयेत् । पुनर्व्याहृतिभिर्हुत्वा वह्नेरङ्गाहुतीस्तथा ॥ 136॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,135,18139,एकैकशो गुरुर्दत्त्वा विसृजेद्वह्निमात्मनि । ततः शिष्यस्य नेत्रे तु बध्नीयाद्वाससा गुरुः ॥ 137॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,136,18140,नेत्रमन्त्रेण तं शिष्यं कुण्डतो मण्डलं नयेत् । पुष्पाञ्जलिं मुख्यदेव्यां कारयेच्छिष्यहस्ततः ॥ 138॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,137,18141,नेत्रबन्धं निराकृत्य वेशयेत्कुशविष्टरे । भूतशुद्धिं शिष्यदेहे कुर्यात्प्रोक्तेन वर्त्मना ॥ 139॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,138,18142,मन्त्रोदितांस्तथा न्यासान्कृत्वा शिष्यतनौ ततः । मण्डले वेशयेच्छिष्यमन्यस्मिन्कुम्भसंस्थितान् ॥ 140॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,139,18143,पल्लवाञ्छिष्यशिरसि विन्यसेन्मातृकां जपेत् । कलशस्थजलैः शिष्यं स्नापयेद्देवतात्मकैः ॥ 141॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,140,18144,वर्धनीजलसेकं च कुर्याद्रक्षार्थमञ्जसा । ततः शिष्यः समुत्थाय वाससी परिधाय च ॥ 142॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,141,18145,कृतभस्मावलेपश्च संविशेद्गुरुसन्निधौ । ततो गुरुः स्वकीयात्तु हृदयान्निर्गतां शिवाम् ॥ 143॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,142,18146,प्रविष्टां शिष्यहृदये भावयेत्करुणानिधिः । पूजयेद्गन्धपुष्पाद्यैरैक्यं वै भावयंस्तयोः ॥ 144॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,143,18147,ततस्त्रिंशो दक्षकर्णे शिष्यस्योपदिशेद्गुरुः । महामन्त्रं महादेव्याः स्वहस्तं शिरसि न्यसन् ॥ 145॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,144,18148,अष्टोत्तरशतं मन्त्रं शिष्योऽपि प्रजपेन्मुने । दण्डवत्प्रणमेद्भूमौ तं गुरुं देवतात्मकम् ॥ 146॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,145,18149,सर्वस्वमर्पयेत्तस्मै यावज्जीवमनन्यधीः । ऋत्विग्भ्यो दक्षिणां दत्त्वा ब्राह्मणांश्चापि भोजयेत् ॥ 147॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,146,18150,सुवासिनीः कुमारीश्च बटुकांश्चैव सर्वशः । दीनानाथान्दरिद्रांश्च वित्तशाठ्यविवर्जितः ॥ 148॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,147,18151,कृतार्थतां स्वस्य बुद्ध्वा नित्यमाराधयेन्मनुम् । इति ते कथितः सम्यग्दीक्षाविधिरनुत्तमः ॥ 149॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,148,18152,विमृश्यैतदशेषेण भज देवीपदाम्बुजम् । नान्यस्तु परमो धर्मो ब्राह्मणस्यात्र विद्यते ॥ 150॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,149,18153,वैदिकः स्वस्वगृह्योक्तक्रमेणोपदिशेन्मनुम् । तान्त्रिकस्तन्त्ररीत्या तु स्थितिरेषा सनातनी ॥ 151॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,150,18154,तत्तदुक्तप्रयोगांस्ते ते ते कुर्युर्न चान्यथा । श्रीनारायण उवाच । इति सर्वं मयाख्यातं यत्पृष्टं नारद त्वया ॥ 152॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,151,18155,अतः परं पराम्बाया भज नित्यं पदाम्बुजम् । नित्यमाराध्य तच्चाहं निर्वृतिं परमां गतः ॥ 153॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,152,18156,व्यास उवाच । इति राजन्नारदाय प्रोक्त्वा सर्वमनुत्तमम् । समाधिमीलिताक्षस्तु दध्यौ देवीपदाम्बुजम् ॥ 154॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,153,18157,नारायणस्तु भगवान् मुनिवर्यशिखामणिः । नारदोऽपि ततो नत्वा गुरुं नारायणं परम् । जगाम सद्यस्तपसे देवीदर्शनलालसः ॥ 155॥ 12,१२.७,सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।,154,18158,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे मन्त्रदीक्षाविधिवर्णनं नाम सप्तमोऽध्यायः ॥ १२.७॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,0,18159,जनमेजय उवाच । भगवन्सर्वधर्मज्ञ सर्वशास्त्रवतांवर । द्विजातीनां तु सर्वेषां शक्त्युपास्तिः श्रुतीरिता ॥ 1॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,1,18160,सन्ध्याकालत्रयेऽन्यस्मिन् काले नित्यतया विभो । तां विहाय द्विजाः कस्माद्गृह्णीयुश्चान्यदेवताः ॥ 2॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,2,18161,दृश्यन्ते वैष्णवाः केचिद्गाणपत्यास्तथापरे । कापालिकाश्चीनमार्गरता वल्कलधारिणः ॥ 3॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,3,18162,दिगम्बरास्तथा बौद्धाश्चार्वार्का एवमादयः । दृश्यन्ते बहवो लोके वेदश्रद्धाविवर्जिताः ॥ 4॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,4,18163,किमत्र कारणं ब्रह्मंस्तद्भवान् वक्तुमर्हति । बुद्धिमन्तः पण्डिताश्च नानातर्कविचक्षणाः ॥ 5॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,5,18164,अपि सन्त्येव वेदेषु श्रद्धया तु विवर्जिताः । न हि कश्चित्स्वकल्याणं बुद्ध्या हातुमिहेच्छति ॥ 6॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,6,18165,किमत्र कारणं तस्माद्वद वेदविदांवर । मणिद्वीपस्य महिमा वर्णितो भवता पुरा ॥ 7॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,7,18166,कीदृक् तदस्ति यद्देव्याः परं स्थानं महत्तरम् । तच्चापि वद भक्ताय श्रद्दधानाय मेऽनघ ॥ 8॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,8,18167,प्रसन्नास्तु वदन्त्येव गुरवो गुह्यमप्युत । सूत उवाच । इति राज्ञो वचः श्रुत्वा भगवान् बादरायणः ॥ 9॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,9,18168,निजगाद ततः सर्वं क्रमेणैव मुनीश्वराः । यच्छ्रुत्वा तु द्विजातीनां वेदश्रद्धा विवर्धते ॥ 10॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,10,18169,व्यास उवाच । सम्यक्पृष्टं त्वया राजन् समये समयोचितम् । वुद्धिमानसि वेदेषु श्रद्धावांश्चैव लक्ष्यसे ॥ 11॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,11,18170,पूर्वं मदोद्धता दैत्या देवैर्युद्धं तु चक्रिरे । शतवर्षं महाराज महाविस्मयकारकम् ॥ 12॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,12,18171,नानाशस्त्रप्रहरणं नानामायाविचित्रितम् । जगत्क्षयकरं नूनं तेषां युद्धमभून्नृप ॥ 13॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,13,18172,पराशक्तिकृपावेशाद्देवैर्दैत्या जिता युधि । भुवं स्वर्गं परित्यज्य गताः पातालवेश्मनि ॥ 14॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,14,18173,ततः प्रहर्षिता देवाः स्वपराक्रमवर्णनम् । चक्रुः परस्परं मोहात्साभिमानाः समन्ततः ॥ 15॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,15,18174,जयोऽस्माकं कुतो न स्यादस्माकं महिमा यतः । सर्वोत्तरः कुत्र दैत्याः पामरा निष्पराक्रमाः ॥ 16॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,16,18175,सृष्टिस्थितिक्षयकरा वयं सर्वे यशस्विनः । अस्मदग्रे पामराणां दैत्यानां चैव का कथा ॥ 17॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,17,18176,पराशक्तिप्रभावं ते न ज्ञात्वा मोहमागताः । तेषामनुग्रहं कर्तुं तदैव जगदम्बिका ॥ 18॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,18,18177,प्रादुरासीत्कृपापूर्णा यक्षरूपेण भूमिप । कोटिसूर्यप्रतीकाशं चन्द्रकोटिसुशीतलम् ॥ 19॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,19,18178,विद्युत्कोटिसमानाभं हस्तपादादिवर्जितम् । अदृष्टपूर्वं तद्दृष्ट्वा तेजः परमसुन्दरम् ॥ 20॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,20,18179,सविस्मयास्तदा प्रोचुः किमिदं किमिदं त्विति । दैत्यानां चेष्टितं किं वा माया कापि महीयसी ॥ 21॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,21,18180,केनचिन्निर्मिता वाथ देवानां स्मयकारिणी । सम्भूय ते तदा सर्वे विचारं चक्रुरुत्तमम् ॥ 22॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,22,18181,यक्षस्य निकटे गत्वा प्रष्टव्यं कस्त्वमित्यपि । बलाबलं ततो ज्ञात्वा कर्तव्या तु प्रतिक्रिया ॥ 23॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,23,18182,ततो वह्निं समाहूय प्रोवाचेन्द्रः सुराधिपः । गच्छ वह्ने त्वमस्माकं यतोऽसि मुखमुत्तमम् ॥ 24॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,24,18183,ततो गत्वा तु जानीहि किमिदं यक्षमित्यपि । सहस्राक्षवचः श्रुत्वा स्वपराक्रमगर्भितम् ॥ 25॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,25,18184,वेगात्स निर्गतो वह्निर्ययौ यक्षस्य सन्निधौ । तदा प्रोवाच यक्षस्तं त्वं कोऽसीति हुताशनम् ॥ 26॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,26,18185,वीर्यं च त्वयि किं यत्तद्वद सर्वं ममाग्रतः । अग्निरस्मि तथा जातवेदा अस्मीति सोऽब्रवीत् ॥ 27॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,27,18186,सर्वस्य दहने शक्तिर्मयि विश्वस्य तिष्ठति । तदा यक्षं परं तेजस्तदग्रे निदधौ तृणम् ॥ 28॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,28,18187,दहैनं यदि ते शक्तिर्विश्वस्य दहनेऽस्ति हि । तदा सर्वबलेनैवाकरोद्यत्नं हुताशनः ॥ 29॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,29,18188,न शशाक तृणं दग्धुं लज्जितोऽगात्सुरान्प्रति । पृष्टे देवैस्तु वृत्तान्ते सर्वं प्रोवाच हव्यभुक् ॥ 30॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,30,18189,वृथाभिमानो ह्यस्माकं सर्वेशत्वादिके सुराः । ततस्तु वृत्रहा वायुं समाहूयेदमब्रवीत् ॥ 31॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,31,18190,त्वयि प्रोतं जगत्सर्वं त्वच्चेष्टाभिस्तु चेष्टितम् । त्वं प्राणरूपः सर्वेषां सर्वशक्तिविधारकः ॥ 32॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,32,18191,त्वमेव गत्वा जानीहि किमिदं यक्षमित्यपि । नान्यः कोऽपि समर्थोऽस्ति ज्ञातुं यक्षं परं महः ॥ 33॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,33,18192,सहस्राक्षवचः श्रुत्वा गुणगौरवगुम्फितम् । साभिमानो जगामाशु यत्र यक्षं विराजते ॥ 34॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,34,18193,यक्षं दृष्ट्वा ततो वायुं प्रोवाच मृदुभाषया । कोऽसि त्वं त्वयि का शक्तिर्वद सर्वं ममाग्रतः ॥ 35॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,35,18194,ततो यक्षवचः श्रुत्वा गर्वेण मरुदब्रवीत् । मातरिश्वाहमस्मीति वायुरस्मीति चाब्रवीत् ॥ 36॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,36,18195,वीर्यं तु मयि सर्वस्य चालने ग्रहणेऽस्ति हि । मच्चेष्टया जगत्सर्वं सर्वव्यापारवद्भवेत् ॥ 37॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,37,18196,इति श्रुत्वा वायुवाणीं निजगाद परं महः । तृणमेतत्तवाग्रे यत्तच्चालय यथेप्सितम् ॥ 38॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,38,18197,नोचेद्गर्वं विहायैनं लज्जितो गच्छ वासवम् । श्रुत्वा यक्षवचो वायुः सर्वशक्तिसमन्वितः ॥ 39॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,39,18198,उद्योगमकरोत्तच्च स्वस्थानान्न चचाल ह । लज्जितोऽगाद्देवपार्श्वे हित्वा गर्वं स चानिलः ॥ 40॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,40,18199,वृत्तान्तमवदत्सर्वं गर्वनिर्वापकारणम् । नैतंज्ञातुं समर्थाः स्म मिथ्यागर्वाभिमानिनः ॥ 41॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,41,18200,अलौकिकं भाति यक्षं तेजः परमदारुणम् । ततः सर्वे सुरगणाः सहस्राक्षं समूचिरे ॥ 42॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,42,18201,देवराडसि यस्मात्त्वं यक्षं जानीहि तत्त्वतः । तत इन्द्रो महागर्वात्तद्यक्षं समुपाद्रवत् ॥ 43॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,43,18202,प्राद्रवच्च परं तेजो यक्षरूपं परात्परम् । अन्तर्धानं ततः प्राप तद्यक्षं वासवाग्रतः ॥ 44॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,44,18203,अतीव लज्जितो जातो वासवो देवराडपि । यक्षसम्भाषणाभावाल्लघुत्वं प्राप चेतसि ॥ 45॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,45,18204,अतः परं न गन्तव्यं मया तु सुरसंसदि । किं मया तत्र वक्तव्यं स्वलघुत्वं सुरान्प्रति ॥ 46॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,46,18205,देहत्यागो वरस्तस्मान्मानो हि महतां धनम् । माने नष्टे जीवितं तु मृतितुल्यं न संशयः ॥ 47॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,47,18206,इति निश्चित्य तत्रैव गर्वं हित्वा सुरेश्वरः । चरित्रमीदृशं यस्य तमेव शरणं गतः ॥ 48॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,48,18207,तस्मिन्नेव क्षणे जाता व्योमवाणी नभस्तले । मायाबीजं सहस्राक्ष जप तेन सुखी भव ॥ 49॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,49,18208,ततो जजाप परमं मायाबीजं परात्परम् । लक्षवर्षं निराहारो ध्यानमीलितलोचनः ॥ 50॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,50,18209,अकस्माच्चैत्रमासीयनवम्यां मध्यगे रवौ । तदेवाविरभूत्तेजस्तस्मिन्नेव स्थले पुनः ॥ 51॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,51,18210,तेजोमण्डलमध्ये तु कुमारीं नवयौवनाम् । भास्वज्जपाप्रसूनाभां बालकोटिरविप्रभाम् ॥ 52॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,52,18211,बालशीतांशमुकुटां वस्त्रान्तर्व्यञ्जितस्तनीम् । चतुर्भिर्वरहस्तैस्तु वरपाशाङ्कुशाभयान् ॥ 53॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,53,18212,दधानां रमणीयाङ्गीं कोमलाङ्गलतां शिवाम् । भक्तकल्पद्रुमामम्बां नानाभूषणभूषिताम् ॥ 54॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,54,18213,त्रिनेत्रां मल्लिकामालाकबरीजूटशोभिताम् । चतुर्दिक्षु चतुर्वेदैर्मूर्तिमद्भिरभिष्टुताम् ॥ 55॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,55,18214,दन्तच्छटाभिरभितः पद्मरागीकृतक्षमाम् । प्रसन्तस्मेरवदनां कोटिकन्दर्पसुन्दराम् ॥ 56॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,56,18215,रक्ताम्बरपरीधानां रक्तचन्दनचर्चिताम् । उमाभिधानां पुरतो देवीं हैमवतीं शिवाम् ॥ 57॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,57,18216,निर्व्याजकरुणामूर्तिं सर्वकारणकारणाम् । ददर्श वासवस्तत्र प्रेमगद्गदितान्तरः ॥ 58॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,58,18217,प्रेमाश्रुपूर्णनयनो रोमाञ्चिततनुस्ततः । दण्डवत्प्रणनामाथ पादयोर्जगदीशितुः ॥ 59॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,59,18218,तुष्टाव विविधैः स्तोत्रैर्भक्तिसन्नतकन्धरः । उवाच परमप्रीतः किमिदं यक्षमित्यपि ॥ 60॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,60,18219,प्रादुर्भूतं च कस्मात्तद्वद सर्वं सुशोभने । इति तस्य वचः श्रुत्वा प्रोवाच करुणार्णवा ॥ 61॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,61,18220,रूपं मदीयं ब्रह्मैतत्सर्वकारणकारणम् । मायाधिष्ठानभूतं तु सर्वसाक्षि निरामयम् ॥ 62॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,62,18221,सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीमि ॥ 63॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,63,18222,ओमित्येकाक्षरं ब्रह्म तदेवाहुश्च ह्रींमयम् । द्वे बीजे मम मन्त्रौ स्तो मुख्यत्वेन सुरोत्तम ॥ 64॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,64,18223,भागद्वयवती यस्मात्सृजामि सकलं जगत् । तत्रैकभागः सम्प्रोक्तः सच्चिदानन्दनामकः ॥ 65॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,65,18224,मायाप्रकृतिसंज्ञस्तु द्वितीयो भाग ईरितः । सा च माया परा शक्तिः शक्तिमत्यहमीश्वरी ॥ 66॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,66,18225,चन्द्रस्य चन्द्रिकेवेयं ममाभिन्नत्वमागता । साम्यावस्थात्मिका चैषा माया मम सुरोत्तम ॥ 67॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,67,18226,प्रलये सर्वजगतो मदभिन्नैव तिष्ठति । प्राणिकर्मपरीपाकवशतः पुनरेव हि ॥ 68॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,68,18227,रूपं तदेवमव्यक्तं व्यक्तीभावमुपैति च । अन्तर्मुखा तु यावस्था सा मायेत्यभिधीयते ॥ 69॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,69,18228,बहिर्मुखा तु या माया तमःशब्देन सोच्यते । बहिर्मुखात्तमोरूपाज्जायते सत्त्वसम्भवः ॥ 70॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,70,18229,रजोगुणस्तदैव स्यात्सर्गादौ सुरसत्तम । गुणत्रयात्मकाः प्रोक्ता ब्रह्मविष्णुमहेश्वराः ॥ 71॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,71,18230,रजोगुणाधिको ब्रह्मा विष्णुः सत्त्वाधिको भवेत् । तमोगुणाधिको रुद्रः सर्वकारणरूपधृक् ॥ 72॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,72,18231,स्थूलदेहो भवेद्ब्रह्मा लिङ्गदेहो हरिः स्मृतः । रुद्रस्तु कारणो देहस्तुरीया त्वहमेव हि ॥ 73॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,73,18232,साम्यावस्था तु या प्रोक्ता सर्वान्तर्यामिरूपिणी । अत ऊर्ध्वं परं ब्रह्म मद्रूपं रूपवर्जितम् ॥ 74॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,74,18233,निर्गुणं सगुणं चेति द्विधा मद्रूपमुच्यते । निर्गुणं मायया हीनं सगुणं मायया युतम् ॥ 75॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,75,18234,साहं सर्वं जगत्सृष्ट्वा तदन्तः सम्प्रविश्य च । प्रेरयाम्यनिशं जीवं यथाकर्म यथाश्रुतम् ॥ 76॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,76,18235,सृष्टिस्थितितिरोधाने प्रेरयाम्यहमेव हि । ब्रह्माणं च तथा विष्णुं रुद्रं वै कारणात्मकम् ॥ 77॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,77,18236,मद्भयाद्वाति पवनो भीत्या सूर्यश्च गच्छति । इन्द्राग्निमृत्यवस्तद्वत्साहं सर्वोत्तमा स्मृता ॥ 78॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,78,18237,मत्प्रसादाद्भवद्भिस्तु जयो लब्धोऽस्ति सर्वथा । युष्मानहं नर्तयामि काष्ठपुत्तलिकोपमान् ॥ 79॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,79,18238,कदाचिद्देवविजयं दैत्यानां विजयं क्वचित् । स्वतन्त्रा स्वेच्छया सर्वं कुर्वे कर्मानुरोधतः ॥ 80॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,80,18239,तां मां सर्वात्मिकां यूयं विस्मृत्य निजगर्वतः । अहङ्कारावृतात्मानो मोहमाप्ता दुरन्तकम् ॥ 81॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,81,18240,अनुग्रहं ततः कर्तुं युष्मद्देहादनुत्तमम् । निःसृतं सहसा तेजो मदीयं यक्षमित्यपि ॥ 82॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,82,18241,अतः परं सर्वभावैर्हित्वा गर्वं तु देहजम् । मामेव शरणं यात सच्चिदानन्दरूपिणीम् ॥ 83॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,83,18242,व्यास उवाच । इत्युक्त्या च महादेवी मूलप्रकृतिरीश्वरी । अन्तर्धानं गता सद्यो भक्त्या देवैरभिष्टुता ॥ 84॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,84,18243,ततः सर्वे स्वगर्वं तु विहाय पदपङ्कजम् । सम्यगाराधयामासुर्भगवत्याः परात्परम् ॥ 85॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,85,18244,त्रिसन्ध्यं सर्वदा सर्वे गायत्रीजपतत्पराः । यज्ञभागादिभिः सर्वे देवीं नित्यं सिषेविरे ॥ 86॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,86,18245,एवं सत्ययुगे सर्वे गायत्रीजपतत्पराः । तारहृल्लेखयोश्चापि जपे निष्णातमानसाः ॥ 87॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,87,18246,न विष्णूपासना नित्या वेदेनोक्ता तु कुत्रचित् । न विष्णुदीक्षा नित्यास्ति शिवस्यापि तथैव च ॥ 88॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,88,18247,गायत्र्युपासना नित्या सर्ववेदैः समीरिता । यया विना त्वधःपातो ब्राह्मणस्यास्ति सर्वथा ॥ 89॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,89,18248,तावता कृतकृत्यत्वं नान्यापेक्षा द्विजस्य हि । गायत्रीमात्रनिष्णातो द्विजो मोक्षमवाप्नुयात् ॥ 90॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,90,18249,कुर्यादन्यन्न वा कुर्यादिति प्राह मनुः स्वयम् । विहाय तां तु गायत्रीं विष्णूपास्तिपरायणः ॥ 91॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,91,18250,शिवोपास्तिरतो विप्रो नरकं याति सर्वथा । तस्मादाद्ययुगे राजन् गायत्रीजपतत्पराः । देवीपदाम्बुजरता आसन्सर्वे द्विजोत्तमाः ॥ 92॥ 12,१२.८,अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।,92,18251,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे पराशक्तेराविर्भाववर्णनं नामाष्टमोऽध्यायः ॥ १२.८॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,0,18252,व्यास उवाच । कदाचिदथ काले तु दशपञ्चसमा विभो । प्राणिनां कर्मवशतो न ववर्ष शतक्रतुः ॥ 1॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,1,18253,अनावृष्ट्यातिदुर्भिक्षमभवत्क्षयकारकम् । गहे गृहे शवानां तु सङ्ख्या कर्तुं न शक्यते ॥ 2॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,2,18254,केचिदश्वान्वराहान्वा भक्षयन्ति क्षुधार्दिताः । शवानि च मनुष्याणां भक्षयन्त्यपरे जनाः ॥ 3॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,3,18255,बालकं बालजननी स्त्रियं पुरुष एव च । भक्षितुं चलिताः सर्वे क्षुधया पीडिता नराः ॥ 4॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,4,18256,ब्राह्मणा बहवस्तत्र विचारं चक्रुरुत्तमम् । तपोधनो गौतमोऽस्ति स नः खेदं हरिष्यति ॥ 5॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,5,18257,सर्वैर्मिलित्वा गन्तव्यं गौतमस्याश्रमेऽधुना । गायत्रीजपसंसक्तगौतमस्याश्रमेऽधुना ॥ 6॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,6,18258,सुभिक्षं श्रूयते तत्र प्राणिनो बहवो गताः । एवं विमृश्य भूदेवाः साग्निहोत्राः कुटुम्बिनः ॥ 7॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,7,18259,सगोधनाः सदासाश्च गौतमस्याश्रमं ययुः । पूर्वदेशाद्ययुः केचित्केचिद्दक्षिणदेशतः ॥ 8॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,8,18260,पाश्चात्या औत्तराहाश्च नानादिग्भ्यः समाययुः । दृष्ट्वा समाजं विप्राणां प्रणनाम स गौतमः ॥ 9॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,9,18261,आसनाद्युपचारैश्च पूजयामास वाडवान् । चकार कुशलप्रश्नं ततश्चागमकारणम् ॥ 10॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,10,18262,ते सर्वे स्वस्ववृत्तान्तं कथयामासुरुत्स्मयाः । दृष्ट्वा तान्दुःखितान्विप्रानभयं दत्तवान्मुनिः ॥ 11॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,11,18263,युष्माकमेतत्सदनं भवद्दासोऽस्मि सर्वथा । का चिन्ता भवतां विप्रा मयि दासे विराजति ॥ 12॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,12,18264,धन्योऽहमस्मिन्समये यूयं सर्वे तपोधनाः । येषां दर्शनमात्रेण दुष्कृतं सुकृतायते ॥ 13॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,13,18265,ते सर्वे पादरजसा पावयन्ति गृहं मम । को मदन्यो भवेद्धन्यो भवतां समनुग्रहात् ॥ 14॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,14,18266,स्थेयं सर्वैः सुखेनैव सन्ध्याजपपरायणैः । व्यास उवाच । इति सर्वान्ममाश्वास्य गौतमो मुनिराट् ततः ॥ 15॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,15,18267,गायत्रीं प्रार्थयामास भक्तिसन्नतकन्धरः । नमो देवि महाविद्ये वेदमातः परात्परे ॥ 16॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,16,18268,व्याहृत्यादिमहामन्त्ररूपे प्रणवरूपिणि । साम्यावस्थात्मिके मातर्नमो ह्रीङ्काररूपिणि ॥ 17॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,17,18269,स्वाहास्वधास्वरूपे त्वां नमामि सकलार्थदाम् । भक्तकल्पलतां देवीमवस्थात्रयसाक्षिणीम् ॥ 18॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,18,18270,तुर्यातीतस्वरूपां च सच्चिदानन्दरूपिणीम् । सर्ववेदान्तसंवेद्यां सूर्यमण्डलवासिनीम् ॥ 19॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,19,18271,प्रातर्बालां रक्तवर्णां मध्याह्ने युवतीं पराम् । सायाह्ने कृष्णवर्णां तां वृद्धां नित्यं नमाम्यहम् ॥ 20॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,20,18272,सर्वभूतारणे देवि क्षमस्व परमेश्वरि । इति स्तुता जगन्माता प्रत्यक्षं दर्शनं ददौ ॥ 21॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,21,18273,पूर्णपात्रं ददौ तस्मै येन स्यात्सर्वपोषणम् । उवाच मुनिमम्बा सा यं यं कामं त्वमिच्छसि ॥ 22॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,22,18274,तस्य पूर्तिकरं पात्रं मया दत्तं भविष्यति । इत्युक्त्वान्तर्दधे देवी गायत्री परमा कला ॥ 23॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,23,18275,अन्नानां राशयस्तस्मानिर्गताः पर्वतोपमाः । षड्रसा विविधा राजंस्तृणानि विविधानि च ॥ 24॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,24,18276,भूषणानि च दिव्यानि क्षौमानि वसनानि च । यज्ञानां च समारम्भाः पात्राणि विविधानि च ॥ 25॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,25,18277,यद्यदिष्टमभूद्राजन् मुनेस्तस्य महात्मनः । तत्सर्वं निर्गतं तस्माद्गायत्रीपूर्णपात्रतः ॥ 26॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,26,18278,अथाहूय मुनीन्सर्वान्मुनिराड् गौतमस्तदा । धनं धान्यं भूषणानि वसनानि ददौ मुदा ॥ 27॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,27,18279,गोमहिष्यादिपशवो निर्गताः पूर्णपात्रतः । निर्गतान्यज्ञसम्भारान्स्रुक्स्रुवप्रभृतीन्ददौ ॥ 28॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,28,18280,ते सर्वे मिलिता यज्ञांश्चक्रिरे मुनिवाक्यतः । स्थानं तदेव भूयिष्ठमभवत्स्वर्गसन्निभम् ॥ 29॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,29,18281,यत्किञ्चित् त्रिषु लोकेषु सुन्दरं वस्तु दृश्यते । तत्सर्वं तत्र निष्पन्नं गायत्रीदत्तपात्रतः ॥ 30॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,30,18282,देवाङ्गनासमा दाराः शोभन्ते भूषणादिभिः । मुनयो देवसदृशा वस्त्रचन्दनभूषणैः ॥ 31॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,31,18283,नित्योत्सवः प्रववृते मुनेराश्रममण्डले । न रोगादिभयं किञ्चिन्न च दैत्यभयं क्वचित् ॥ 32॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,32,18284,स मुनेराश्रमो जातः समन्ताच्छतयोजनः । अन्ये च प्राणिनो येऽपि तेऽपि तत्र समागताः ॥ 33॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,33,18285,तांश्च सर्वान्पुपोषायं दत्त्वाभयमथात्मवान् । नानाविधैर्महायज्ञैर्विधिवत्कल्पितैः सुराः ॥ 34॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,34,18286,सन्तोषं परमं प्रापुर्मुनेश्चैव जगुर्यशः । सभायां वृत्रहा भूयो जगौ श्लोकं महायशाः ॥ 35॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,35,18287,अहो अयं नः किल कल्पपादपो मनोरथान्पूरयति प्रतिष्ठितः । नोचेदकाण्डे क्व हविर्वपा वा सुदुर्लभा यत्र तु जीवनाशा ॥ 36॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,36,18288,इत्थं द्वादशवर्षाणि पुपोष मुनिपुङ्गवान् । पुत्रवन्मुनिराड् गर्वगन्धेन परिवर्जितः ॥ 37॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,37,18289,गायत्र्याः परमं स्थानं चकार मुनिसत्तमः । यत्र सर्वैर्मुनिवरैः पूज्यते जगदम्बिका ॥ 38॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,38,18290,त्रिकालं परया भक्त्या पुरश्चरणकर्मभिः । अद्यापि यत्र देवी सा प्रातर्बाला तु दृश्यते ॥ 39॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,39,18291,मध्याह्ने युवती वृद्धा सायङ्काले तु दृश्यते । तत्रैकदा समायातो नारदो मुनिसत्तमः ॥ 40॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,40,18292,रणयन्महतीं गायन्गायत्र्याः परमान्गुणान् । निषसाद सभामध्ये मुनीनां भावितात्मनाम् ॥ 41॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,41,18293,गौतमादिभिरत्युच्चैः पूजितः शान्तमानसः । कथाश्चकार विविधा यशसो गौतमस्य च ॥ 42॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,42,18294,ब्रह्मर्षे देवसदसि देवराट् तव यद्यशः । जगौ बहुविधं स्वच्छं मुनिपोषणजं परम् ॥ 43॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,43,18295,श्रुत्वा शचीपतेर्वाणीं त्वां द्रष्टुमहमागतः । धन्योऽसि त्वं मुनिश्रेष्ठ जगदम्बाप्रसादतः ॥ 44॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,44,18296,इत्युक्त्वा मुनिवर्यं तं गायत्रीसदनं ययौ । ददर्श जगदम्बां तां प्रेमोत्फुल्लविलोचनः ॥ 45॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,45,18297,तुष्टाव विधिवद्देवीं जगाम त्रिदिवं पुनः । अथ तत्र स्थिता ये ते ब्राह्मणा मुनिपोषिताः ॥ 46॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,46,18298,उत्कर्षं तु मुनेः श्रुत्वासूयया खेदमागताः । यथास्य न यशो भूयात्कर्तव्यं सर्वथैव हि ॥ 47॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,47,18299,काले समागते पश्चादिति सर्वैस्तु निश्चितम् । ततः कालेन कियताप्यभूद्वृष्टिर्धरातले ॥ 48॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,48,18300,सुभिक्षमभवत्सर्वदेशेषु नृपसत्तम । श्रुत्वा वार्तां सुभिक्षस्य मिलिताः सर्ववाडवाः ॥ 49॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,49,18301,गौतमं शप्तुमुद्योगं हा हा राजन् प्रचक्रिरे । धन्यौ तेषां च पितरौ ययोरुत्पत्तिरीदृशी ॥ 50॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,50,18302,कालस्य महिमा राजन् वक्तुं केन हि शक्यते । गौर्निर्मिता माययैका मुमूर्षुर्जरती नृप ॥ 51॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,51,18303,जगाम सा च शालायां होमकाले मुनेस्तदा । हुंहुंशब्दैर्वारिता सा प्राणांस्तत्याज तत्क्षणे ॥ 52॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,52,18304,गौर्हतानेन दुष्टेनेत्येवं ते चुक्रुशुर्द्विजाः । होमं समाप्य मुनिराङ् विस्मयं परमं गतः ॥ 53॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,53,18305,समाधिमीलिताक्षः संश्चिन्तयामास कारणम् । कृतं सर्वं द्विजैरेतदिति ज्ञात्वा तदैव सः ॥ 54॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,54,18306,दधार कोपं परमं प्रलये रुद्रकोपवत् । शशाप च ऋषीन्सर्वान्कोपसंरक्तलोचनः ॥ 55॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,55,18307,वेदमातरि गायत्र्यां तद्ध्याने तन्मनोर्जपे । भवतानुन्मुखा यूयं सर्वथा ब्राह्मणाधमाः ॥ 56॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,56,18308,वेदे वेदोक्तयज्ञेषु तद्वार्तासु तथैव च । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ 57॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,57,18309,शिवे शिवस्य मन्त्रे च शिवशास्त्रे तथैव च । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ 58॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,58,18310,मूलप्रकृत्याः श्रीदेव्यास्तद्ध्याने तत्कथासु च । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ 59॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,59,18311,देवीमन्त्रे तथा देव्याः स्थानेऽनुष्ठानकर्मणि । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ 60॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,60,18312,देव्युत्सवदिदृक्षायां देवीनामानुकीर्तने । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ 61॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,61,18313,देवीभक्तस्य सान्निध्ये देवीभक्तार्चने तथा । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ 62॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,62,18314,शिवोत्सवदिदृक्षायां शिवभक्तस्य पूजने । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ 63॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,63,18315,रुद्राक्षं बिल्वपत्रे च तथा शुद्धे च भस्मनि । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ 64॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,64,18316,श्रौतस्मार्तसदाचारे ज्ञानमार्गे तथैव च । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ 65॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,65,18317,अद्वैतज्ञाननिष्ठायां शान्तिदान्त्यादिसाधने । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ 66॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,66,18318,नित्यकर्माद्यनुष्ठानेऽप्यग्निहोत्रादिसाधने । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ 67॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,67,18319,स्वाध्यायाध्ययने चैव तथा प्रवचनेऽपि च । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ 68॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,68,18320,गोदानादिषु दानेषु पितृश्राद्धेषु चैव हि । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ 69॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,69,18321,कृच्छ्रचान्द्रायणे चैव प्रायश्चित्ते तथैव च । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ 70॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,70,18322,श्रीदेवीभिन्नदेवेषु श्रद्धाभक्तिसमन्विताः । शङ्खचक्राद्यङ्किताश्च भवत ब्राह्मणाधमाः ॥ 71॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,71,18323,कापालिकमतासक्ता बौद्धशास्त्ररताः सदा । पाखण्डाचारनिरता भवत ब्राह्मणाधमाः ॥ 72॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,72,18324,पितृमातृसुताभ्रातृकन्याविक्रयिणस्तथा । भार्याविकयिणस्तद्वद्भवत ब्राह्मणाधमाः ॥ 73॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,73,18325,वेदविक्रयिणस्तद्वत्तीर्थविक्रयिणस्तथा । धर्मविक्रयिणस्तद्वद्भवत ब्राह्मणाधमाः ॥ 74॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,74,18326,पाञ्चरात्रे कामशास्त्रे तथा कापालिके मते । बौद्धे श्रद्धायुता यूयं भवत ब्राह्मणाधमाः ॥ 75॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,75,18327,मातृकन्यागामिनश्च भगिनीगामिनस्तथा । परस्त्रीलम्पटाः सर्वे भवत ब्राह्मणाधमाः ॥ 76॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,76,18328,युष्माकं वंशजाताश्च स्त्रियश्च पुरुषास्तथा । मद्दत्तशापदग्धास्ते भविष्यन्ति भवत्समाः ॥ 77॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,77,18329,किं मया बहुनोक्तेन मूलप्रकृतिरीश्वरी । गायत्री परमा भूयाद्युष्मासु खलु कोपिता ॥ 78॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,78,18330,अन्धकूपादिकुण्डेषु युष्माकं स्यात्सदा स्थितिः । व्यास उवाच । वाग्दण्डमीदृशं कृत्वाप्युपस्पृश्य जलं ततः ॥ 79॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,79,18331,जगाम दर्शनार्थं च गायत्र्याः परमोस्तुकः । प्रणनाम महादेवीं सापि देवी परात्परा ॥ 80॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,80,18332,ब्राह्मणानां कृतिं दृष्ट्वा स्मयं चित्ते चकार ह । अद्यापि तस्या वदनं स्मययुक्तं च दृश्यते ॥ 81॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,81,18333,उवाच मुनिवर्यं तं स्मयमानमुखाम्बुजा । भुजङ्गायार्पितं दुग्धं विषायैवोपजायते ॥ 82॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,82,18334,शान्तिं कुरु महाभाग कर्मणो गतिरीदृशी । इति देवीं प्रणम्याथ ततोऽगात्स्वाश्रमं प्रति ॥ 83॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,83,18335,ततो विप्रैः शापदग्धैर्विस्मृता वेदराशयः । गायत्री विस्मृता सर्वैस्तदद्भुतमिवाभवत् ॥ 84॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,84,18336,ते सर्वेऽथ मिलित्वा तु पश्चात्तापयुतास्तथा । प्रणेमुर्मुनिवर्यं तं दण्डवत्पतिता भुवि ॥ 85॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,85,18337,नोचुः किञ्चन वाक्यं तु लज्जयाधोमुखाः स्थिताः । प्रसीदेति प्रसीदेति प्रसीदेति पुनः पुनः ॥ 86॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,86,18338,प्रार्थयामासुरभितः परिवार्य मुनीश्वरम् । करुणापूर्णहृदयो मुनिस्तान्समुवाच ह ॥ 87॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,87,18339,कृष्णावतारपर्यन्तं कुम्भीपाके भवेत्स्थितिः । न मे वाक्यं मृषा भूयादिति जानीथ सर्वथा ॥ 88॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,88,18340,ततः परं कलियुगे भुवि जन्म भवेद्धि वाम् । मदुक्तं सर्वमेतत्तु भवेदेव न चान्यथा ॥ 89॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,89,18341,मच्छापस्य विमोक्षार्थं युष्माकं स्याद्यदीषणा । तर्हि सेव्यं सदा सर्वैर्गायत्रीपदपङ्कजम् ॥ 90॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,90,18342,व्यास उवाच । इति सर्वान्विसृज्याथ गौतमो मुनिसत्तमः । प्रारब्धामिति मत्वा तु चित्ते शान्तिं जगाम ह ॥ 91॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,91,18343,एतस्मात्कारणाद्राजन् गते कृष्णे तु धीमति । कलौ युगे प्रवृत्ते तु कुम्भीपाकात्तु निर्गताः ॥ 92॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,92,18344,भुवि जाता ब्राह्मणाश्च शापदग्धाः पुरा तु ये । सन्ध्यात्रयविहीनाश्च गायत्रीभक्तिवर्जिताः ॥ 93॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,93,18345,वेदभक्तिविहीनाश्च पाखण्डमतगामिनः । अग्निहोत्रादिसत्कर्मस्वधास्वाहाविवर्जिताः ॥ 94॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,94,18346,मूलप्रकृतिमव्यक्तां नैव जानन्ति कर्हिचित् । तप्तमुद्राङ्किताः केचित्कामाचाररताः परे ॥ 95॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,95,18347,कापालिकाः कौलिकाश्च बौद्धा जैनास्तथापरे । पण्डिता अपि ते सर्वे दुराचारप्रवर्तकाः ॥ 96॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,96,18348,लम्पटाः परदारेषु दुराचारपरायणाः । कुम्भीपाकं पुनः सर्वे यास्यन्ति निजकर्मभिः ॥ 97॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,97,18349,तस्मात्सर्वात्मना राजन् संसेव्या परमेश्वरी । न विष्णूपासना नित्या न शिवोपासना तथा ॥ 98॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,98,18350,नित्या चोपासना शक्तेर्यां विना तु पतत्यधः । सर्वमुक्तं समासेन यत्पृष्टं तत्त्वयानघ ॥ 99॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,99,18351,अतः परं मणिद्वीपवर्णनं श‍ृणु सुन्दरम् । यत्परं स्थानमाद्याया भुवनेश्या भवारणेः ॥ 100॥ 12,१२.९,नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।,100,18352,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणं नाम नवमोऽध्यायः ॥ १२.९॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,0,18353,व्यास उवाच । ब्रह्मलोकादूर्ध्वभागे सर्वलोकोऽस्ति यः श्रुतः । मणिद्वीपः स एवास्ति यत्र देवी विराजते ॥ 1॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,1,18354,सर्वस्मादधिको यस्मात्सर्वलोकस्ततः स्मृतः । पुरा पराम्बयैवायं कल्पितो मनसेच्छया ॥ 2॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,2,18355,सर्वादौ निजवासार्थं प्रकृत्या मूलभूतया । कैलासादधिको लोको वैकुण्ठादपि चोत्तमः ॥ 3॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,3,18356,गोलोकादपि सर्वस्मात्सर्वलोकोऽधिकः स्मृतः । न तत्समं त्रिलोक्यां तु सुन्दरं विद्यते क्वचित् ॥ 4॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,4,18357,छत्रीभूतं त्रिजगतो भवसन्तापनाशकम् । छायाभूतं तदेवास्ति ब्रह्माण्डानां तु सत्तम ॥ 5॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,5,18358,बहुयोजनविस्तीर्णो गम्भीरस्तावदेव हि । मणिद्वीपस्य परितो वर्तते तु सुधोदधिः ॥ 6॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,6,18359,मरुत्सङ्घट्टनोत्कीर्णतरङ्ग शतसङ्कुलः । रत्नाच्छवालुकायुक्तो झषशङ्खसमाकुलः ॥ 7॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,7,18360,वीचिसङ्घर्षसञ्जातलहरीकणशीतलः । नानाध्वजसमायुक्तनानापोतगतागतैः ॥ 8॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,8,18361,विराजमानः परितस्तीररत्नद्रुमो महान् । तदुत्तरमयोधातुनिर्मितो गगने ततः ॥ 9॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,9,18362,सप्तयोजनविस्तीर्णः प्राकारो वर्तते महान् । नानाशस्त्रप्रहरणा नानायुद्धविशारदाः ॥ 10॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,10,18363,रक्षका निवसन्त्यत्र मोदमानाः समन्ततः । चतुर्द्वारसमायुक्तो द्वारपालशतान्वितः ॥ 11॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,11,18364,नानागणैः परिवृतो देवीभक्तियुतैर्नृप । दर्शनार्थं समायान्ति ये देवा जगदीशितुः ॥ 12॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,12,18365,तेषां गणा वसन्त्यत्र वाहनानि च तत्र हि । विमानशतसङ्घर्षघण्टास्वनसमाकुलः ॥ 13॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,13,18366,हयहेषाखराघातबधिरीकृतदिङ्मुखः । गणैः किलकिलारावैर्वेत्रहस्तैश्च ताडिताः ॥ 14॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,14,18367,सेवका देवसङ्घानां भ्राजन्ते तत्र भूमिप । तस्मिन्कोलाहले राजन्न शब्दः केनचित्क्वचित् ॥ 15॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,15,18368,कस्यचिच्छ्रूयतेऽत्यन्तं नानाध्वनिसमाकुले । पदे पदे मिष्टवारिपरिपूर्णसरांसि च ॥ 16॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,16,18369,वाटिका विविधा राजन् रत्नद्रुमविराजिताः । तदुत्तरं महासारधातुनिर्मितमण्डलः ॥ 17॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,17,18370,सालोऽपरो महानस्ति गगनस्पर्शि यच्छिरः । तेजसा स्याच्छतगुणः पूर्वसालादयं परः ॥ 18॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,18,18371,गोपुरद्वारसहितो बहुवृक्षसमन्वितः । या वृक्षजातयः सन्ति सर्वास्तास्तत्र सन्ति च ॥ 19॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,19,18372,निरन्तरं पुष्पयुताः सदा फलसमन्विताः । नवपल्लवसंयुक्ताः परसौरभसङ्कुलाः ॥ 20॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,20,18373,पनसा बकुला लोध्राः कर्णिकाराश्च शिंशपाः । देवदारुकाञ्चनारा आम्राश्चैव सुमेरवः ॥ 21॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,21,18374,लिकुचा हिङ्गुलाश्चैला लवङ्गाः कट्फलास्तथा । पाटला मुचुकुन्दाश्च फलिन्यो जघनेफलाः ॥ 22॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,22,18375,तालास्तमालाः सालाश्च कङ्कोला नागभद्रकाः । पुन्नागाः पीलवः साल्वका वै कर्पूरशाखिनः ॥ 23॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,23,18376,अश्वकर्णा हस्तिकर्णास्तालपर्णाश्च दाडिमाः । गणिका बन्धुजीवाश्च जम्बीराश्च कुरण्डकाः ॥ 24॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,24,18377,चाम्पेया बन्धुजीवाश्च तथा वै कनकद्रुमाः । कालागुरुद्रुमाश्चैव तथा चन्दनपादपाः ॥ 25॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,25,18378,खर्जूरा यूथिकास्तालपर्ण्यश्चैव तथेक्षवः । क्षीरवृक्षाश्च खदिराश्चिञ्जाभल्लातकास्तथा ॥ 26॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,26,18379,रुचकाः कुटजा वृक्षा बिल्ववृक्षास्तथैव च । तुलसीनां वनान्येवं मल्लिकानां तथैव च ॥ 27॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,27,18380,इत्यादितरुजातीनां वनान्युपवनानि च । नानावापीशतैर्युक्तान्येवं सन्ति धराधिप ॥ 28॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,28,18381,कोकिलारावसंयुक्ता गुञ्जद्भ्रमरभूषिताः । निर्यासस्राविणः सर्वे स्निग्धच्छायास्तरूत्तमाः ॥ 29॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,29,18382,नानाऋतुभवा वृक्षा नानापक्षिसमाकुलाः । नानारसस्राविणीभिर्नदीभिरतिशोभिताः ॥ 30॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,30,18383,पारावतशुकव्रातसारिकापक्षमारुतैः । हंसपक्षसमुद्भूतावातव्रातैश्चलद्द्रुमम् ॥ 31॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,31,18384,सुगन्धग्राहिपवनपूरितं तद्वनोत्तमम् । सहितं हरिणीयूथैर्धावमानैरितस्ततः ॥ 32॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,32,18385,नृत्यद्बर्हिकदम्बस्य केकारावैः सुखप्रदैः । नादितं तद्वनं दिव्यं मधुस्रावि समन्ततः ॥ 33॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,33,18386,कांस्यसालादुत्तरे तु ताम्रसालः प्रकीर्तितः । चतुरस्रसमाकार उन्नत्या सप्तयोजनः ॥ 34॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,34,18387,द्वयोस्तु सालयोर्मध्ये सम्प्रोक्ता कल्पवाटिका । येषां तरूणां पुष्पाणि काञ्चनाभानि भूमिप ॥ 35॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,35,18388,पत्राणि काञ्चनाभानि रत्नबीजफलानि च । दशयोजनगन्धो हि प्रसर्पति समन्ततः ॥ 36॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,36,18389,तद्वनं रक्षितं राजन् वसन्तेनर्तुनानिशम् । पुष्पसिंहासनासीनः पुष्पच्छत्रविराजितः ॥ 37॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,37,18390,पुष्पभूषाभूषितश्च पुष्पासवविघूर्णितः । मधुश्रीर्माधवश्रीश्च द्वे भार्ये तस्य सम्मते ॥ 38॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,38,18391,क्रीडतः स्मेरवदने सुमस्तबककन्दुकैः । अतीव रम्यं विपिनं मधुस्रावि समन्ततः ॥ 39॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,39,18392,दशयोजनपर्यन्तं कुसुमामोदवायुना । पूरितं दिव्यगन्धर्वैः साङ्गनैर्गानलोलुपैः ॥ 40॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,40,18393,शोभितं तद्वनं दिव्यं मत्तकोकिलनादितम् । वसन्तलक्ष्मीसंयुक्तं कामिकामप्रवर्धनम् ॥ 41॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,41,18394,ताम्रसालादुत्तरत्र सीससालः प्रकीर्तितः । समुच्छ्रायः स्मृतोऽप्यस्य सप्तयोजनसङ्ख्यया ॥ 42॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,42,18395,सन्तानवाटिकामध्ये सालयोस्तु द्वयोर्नृप । दशयोजनगन्धस्तु प्रसूनानां समन्ततः ॥ 43॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,43,18396,हिरण्याभानि कुसुमान्युत्फुल्लानि निरन्तरम् । अमृतद्रवसंयुक्तफलानि मधुराणि च ॥ 44॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,44,18397,ग्रीष्मर्तुर्नायकस्तस्या वाटिकाया नृपोत्तम । शुक्रश्रीश्च शुचिश्रीश्च द्वे भार्ये तस्य सम्मते ॥ 45॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,45,18398,सन्तापत्रस्तलोकास्तु वृक्षमूलेषु संस्थिताः । नानासिद्धैः परिवृतो नानादेवैः समन्वितः ॥ 46॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,46,18399,विलासिनीनां वृन्दैस्तु चन्दनद्रवपङ्किलैः । पुष्पमालाभूषितैस्तु तालवृन्तकराम्बुजैः ॥ 47॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,47,18400,प्राकारः शोभितो राजञ्छीतलाम्बुनिषेविभिः । सीससालादुत्तरत्राप्यारकूटमयः शुभः ॥ 48॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,48,18401,प्राकारो वर्तते राजन् मुनियोजनदैर्घ्यवान् । हरिचन्दनवृक्षाणां वाटी मध्ये तयोः स्मृता ॥ 49॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,49,18402,सालयोरधिनाथस्तु वर्षर्तुर्मेघवाहनः । विद्युत्पिङ्गलनेत्रश्च जीमूतकवचः स्मृतः ॥ 50॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,50,18403,वज्रनिर्घोषमुखरश्चेन्द्रधन्वा समन्ततः । सहस्रशो वारिधारा मुञ्चन्नास्ते गणावृतः ॥ 51॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,51,18404,नभःश्रीश्च नभस्यश्रीः स्वरस्या रस्यमालिनी । अम्बा दुला निरत्निश्चाभ्रमन्ती मेघयन्तिका ॥ 52॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,52,18405,वर्षयन्ती चिपुणिका वारिधारा च सम्मताः । वर्षर्तोर्द्वादश प्रोक्ताः शक्तयो मदविह्वलाः ॥ 53॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,53,18406,नवपल्लववृक्षाश्च नवीनलतिकान्विताः । हरितानि तृणान्येव वेष्टिता यैर्धराखिला ॥ 54॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,54,18407,नदीनदप्रवाहाश्च प्रवहन्ति च वेगतः । सरांसि कलुषाम्बूनि रागिचित्तसमानि च ॥ 55॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,55,18408,वसन्ति देवाः सिद्धाश्च ये देवीकर्मकारिणः । वापीकूपतडागाश्च ये देव्यर्थं समर्पिताः ॥ 56॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,56,18409,ते गणा निवसन्त्यत्र सविलासाश्च साङ्गनाः । आरकूटमयादग्रे सप्तयोजनदैर्घ्यवान् ॥ 57॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,57,18410,पञ्चलोहात्मकः सालो मध्ये मन्दारवाटिका । नानापुष्पलताकीर्णा नानापल्लवशोभिता ॥ 58॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,58,18411,अधिष्ठातात्र सम्प्रोक्तः शरदृतुरनामयः । इषुलक्ष्मीरूर्जलक्ष्मीर्द्वे भार्ये तस्य सम्मते ॥ 59॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,59,18412,नानासिद्धा वसन्त्यत्र साङ्गनाः सपरिच्छदाः । पञ्चलोहमयादग्रे सप्तयोजनदैर्घ्यवान् ॥ 60॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,60,18413,दीप्यमानो महाश‍ृङ्गैर्वर्तते रौप्यसालकः । पारिजाताटवीमध्ये प्रसूनस्तबकान्विता ॥ 61॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,61,18414,दशयोजनगन्धीनि कुसुमानि समन्ततः । मोदयन्ति गणान्सर्वान्ये देवीकर्मकारिणः ॥ 62॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,62,18415,तत्राधिनाथः सम्प्रोक्तो हेमन्तर्तुर्महोज्ज्वलः । सगणः सायुधः सर्वान् रागिणो रञ्जयन्नृप ॥ 63॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,63,18416,सहश्रीश्च सहस्यश्रीर्द्वे भार्ये तस्य सम्मते । वसन्ति तत्र सिद्धाश्च ये देवीव्रतकारिणः ॥ 64॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,64,18417,रौप्यसालमयादग्रे सप्तयोजनदैर्घ्यवान् । सौवर्णसालः सम्प्रोक्तस्तप्तहाटककल्पितः ॥ 65॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,65,18418,मध्ये कदम्बवाटी तु पुष्पपल्लवशोभिता । कदम्बमदिराधाराः प्रवर्तन्ते सहस्रशः ॥ 66॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,66,18419,याभिर्निपीतपीताभिर्निजानन्दोऽनुभूयते । तत्राधिनाथः सम्प्रोक्तः शैशिरर्तुर्महोदयः ॥ 67॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,67,18420,तपःश्रीश्च तपस्यश्रीर्द्वे भार्ये तस्य सम्मते । मोदमानः सहैताभ्यां वर्तते शिशिराकृतिः ॥ 68॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,68,18421,नानाविलाससंयुक्तो नानागणसमावृतः । निवसन्ति महासिद्धा ये देवीदानकारिणः ॥ 69॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,69,18422,नानाभोगसमुत्पन्नमहानन्दसमन्विताः । साङ्गनाः परिवारैस्तु सङ्घशः परिवारिताः ॥ 70॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,70,18423,स्वर्णसालमयादग्रे मुनियोजनदैर्घ्यवान् । पुष्परागमयः सालः कुङ्कुमारुणविग्रहः ॥ 71॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,71,18424,पुष्परागमयी भूमिर्वनान्युपवनानि च । रत्नवृक्षालवालाश्च पुष्परागमयाः स्मृताः ॥ 72॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,72,18425,प्राकारो यस्य रत्नस्य तद्रत्नरचिता द्रुमाः । वनभूः पक्षिणश्चैव रत्नवर्णजलानि च ॥ 73॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,73,18426,मण्डपा मण्डपस्तम्भाः सरांसि कमलानि च । प्राकारे तत्र यद्यत्स्यात्तत्सर्वं तत्समं भवेत् ॥ 74॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,74,18427,परिभाषेयमुद्दिष्टा रत्नसालादिषु प्रभो । तेजसा स्याल्लक्षगुणः पूर्वसालात्परो नृप ॥ 75॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,75,18428,दिक्पाला निवसन्त्यत्र प्रतिब्रह्माण्डवर्तिनाम् । दिक्पालानां समष्ट्यात्मरूपाः स्फूर्जद्वरायुधाः ॥ 76॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,76,18429,पूर्वाशायां समुत्तुङ्गश‍ृङ्गा पूरमरावती । नानोपवनसंयुक्तो महेन्द्रस्तत्र राजते ॥ 77॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,77,18430,स्वर्गशोभा च या स्वर्गे यावती स्यात्ततोऽधिका । समष्टिशतनेत्रस्य सहस्रगुणतः स्मृता ॥ 78॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,78,18431,ऐरावतसमारूढो वज्रहस्तः प्रतापवान् । देवसेनापरिवृतो राजतेऽत्र शतक्रतुः ॥ 79॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,79,18432,देवाङ्गनागणयुता शची तत्र विराजते । वह्निकोणे वह्निपुरी वह्निपूःसदृशी नृप ॥ 80॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,80,18433,स्वाहास्वधासमायुक्तो वह्निस्तत्र विराजते । निजवाहनभूषाढ्यो निजदेवगणैर्वृतः ॥ 81॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,81,18434,याम्याशायां यमपुरी तत्र दण्डधरो महान् । स्वभटैर्वेष्टितो राजन् चित्रगुप्तपुरोगमैः ॥ 82॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,82,18435,निजशक्तियुतो भास्वत्तनयोऽस्ति यमो महान् । नैरृत्यां दिशि राक्षस्यां राक्षसैः परिवारितः ॥ 83॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,83,18436,खड्गधारी स्फुरन्नास्ते निरृतिर्निजशक्तियुक् । वारुण्यां वरुणो राजा पाशधारी प्रतापवान् ॥ 84॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,84,18437,महाझषसमारूढो वारुणीमधुविह्वलः । निजशक्तिसमायुक्तो निजयादोगणान्वितः ॥ 85॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,85,18438,समास्ते वारुणे लोके वरुणानीरताकुलः । वायुकोणे वायुलोको वायुस्तत्राधितिष्ठति ॥ 86॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,86,18439,वायुसाधनसंसिद्धयोगिभिः परिवारितः । ध्वजहस्तो विशालाक्षो मृगवाहनसंस्थितः ॥ 87॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,87,18440,मरुद्गणैः परिवृतो निजशक्तिसमन्वितः । उत्तरस्यां दिशि महान् यक्षलोकोऽस्ति भूमिप ॥ 88॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,88,18441,यक्षाधिराजस्तत्रास्ते वृद्धिऋद्ध्यादिशक्तिभिः । नवभिर्निधिभिर्युक्तस्तुन्दिलो धननायकः ॥ 89॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,89,18442,मणिभद्रः पूर्णभद्रो मणिमान्मणिकन्धरः । मणिभूषो मणिस्रग्वी मणिकार्मुकधारकः ॥ 90॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,90,18443,इत्यादियक्षसेनानीसहितो निजशक्तियुक् । ईशानकोणे सम्प्रोक्तो रुद्रलोको महत्तरः ॥ 91॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,91,18444,अनर्घ्यरत्नखचितो यत्र रुद्रोऽधिदैवतम् । मन्युमान्दीप्तनयनो बद्धपृष्ठमहेषुधिः ॥ 92॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,92,18445,स्फूर्जद्धनुर्वामहस्तोऽधिज्यधन्वभिराधृतः । स्वसमानैरसङ्ख्यातरुद्रैः शूलवरायुधैः ॥ 93॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,93,18446,विकृतास्यैः करालास्यैर्वमद्वह्निभिरास्यतः । दशहस्तैः शतकरैः सहस्रभुजसंयुतैः ॥ 94॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,94,18447,दशपादैर्दशग्रीवैस्त्रिनेत्रैरुग्रमूर्तिभिः । अन्तरिक्षचरा ये च ये च भूमिचरा स्मृताः ॥ 95॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,95,18448,रुद्राध्याये स्मृता रुद्रास्तैः सर्वैश्च समावृतः । रुद्राणीकोटिसहितो भद्रकाल्यादिमातृभिः ॥ 96॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,96,18449,नानाशक्तिसमाविष्टडामर्यादिगणावृतः । वीरभद्रादिसहितो रुद्रो राजन् विराजते ॥ 97॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,97,18450,मुण्डमालाधरो नागवलयो नागकन्धरः । व्याघ्रचर्मपरीधानो गजचर्मोत्तरीयकः ॥ 98॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,98,18451,चिताभस्माङ्ग लिप्ताङ्गः प्रमथादिगणावृतः । निनदड्डमरुध्वानैर्बधिरीकृतदिङ्मुखः ॥ 99॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,99,18452,अट्टहासास्फोटशब्दैः सन्त्रासितनभस्तलः । भूतसङ्घसमाविष्टो भूतावासो महेश्वरः । ईशानदिक्पतिः सोऽयं नाम्ना चेशान एव च ॥ 100॥ 12,१२.१०,दशमोऽध्यायः । मणिद्वीपवर्णनम् ।,100,18453,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे मणिद्वीपवर्णनं नाम दशमोऽध्यायः ॥ १२.१०॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,0,18454,व्यास उवाच । पुष्परागमयादग्रे कुङ्कुमारुणविग्रहः । पद्मरागमयः सालो मध्ये भूश्चैव तादृशी ॥ 1॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,1,18455,दशयोजनवान्दैर्घ्ये गोपुरद्वारसंयुतः । तन्मणिस्तम्भसंयुक्ता मण्डपाः शतशो नृप ॥ 2॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,2,18456,मध्ये भुवि समासीनाश्चतुःषष्टिमिताः कलाः । नानायुधधरा वीरा रत्नभूषणभूषिताः ॥ 3॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,3,18457,प्रत्येकलोकस्तासां तु तत्तल्लोकस्य नायकाः । समन्तात्पद्मरागस्य परिवार्य स्थिताः सदा ॥ 4॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,4,18458,स्वस्वलोकजनैर्जुष्टाः स्वस्ववाहनहेतिभिः । तासां नामानि वक्ष्यामि श‍ृणु त्वं जनमेजय ॥ 5॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,5,18459,पिङ्गलाक्षी विशालाक्षी समृद्धिर्वृद्धिरेव च । श्रद्धा स्वाहा स्वधाभिख्या माया संज्ञा वसुन्धरा ॥ 6॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,6,18460,त्रिलोकधात्री सावित्री गायत्री त्रिदशेश्वरी । सुरूपा बहुरूपा च स्कन्दमाताच्युतप्रिया ॥ 7॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,7,18461,विमला चामला तद्वदरुणी पुनरारुणी । प्रकृतिर्विकृतिः सृष्टिः स्थितिः संहृतिरेव च ॥ 8॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,8,18462,सन्ध्या माता सती हंसी मर्दिका वज्रिका परा । देवमाता भगवती देवकी कमलासना ॥ 9॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,9,18463,त्रिमुखी सप्तमुख्यन्या सुरासुरविमर्दिनी । लम्बोष्ठी चोर्ध्वकेशी च बहुशीर्षा वृकोदरी ॥ 10॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,10,18464,रथरेखाह्वया पश्चाच्छशिरेखा तथापरा । गगनवेगा पवनवेगा वेगा चैव ततः परम् ॥ 11॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,11,18465,अग्रे भुवनपाला स्यात्तत्पश्चान्मदनातुरा । अनङ्गानङ्गमथना तथैवानङ्गमेखला ॥ 12॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,12,18466,अनङ्गकुसुमा पश्चाद्विश्वरूपा सुरादिका । क्षयङ्करी भवेच्छक्तिरक्षोभ्या च ततः परम् ॥ 13॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,13,18467,सत्यवादिन्यथ प्रोक्ता बहुरूपा शुचितव्रता । उदाराख्या च वागीशी चतुःषष्टिमिताः स्मृताः ॥ 14॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,14,18468,ज्वलज्जिह्नाननाः सर्वा वमन्त्यो वह्निमुल्बणम् । जलं पिबामः सकलं संहरामो विभावसुम् ॥ 15॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,15,18469,पवनं स्तम्भयामोऽद्य भक्षयामोऽखिलं जगत् । इति वाचं सङ्गिरन्ते क्रोधसंरक्तलोचनाः ॥ 16॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,16,18470,चापबाणधराः सर्वा युद्धायैवोत्सुकाः सदा । दंष्ट्राकटकटारावैर्बधिरीकृतदिङ्मुखाः ॥ 17॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,17,18471,पिङ्गोर्ध्वकेश्यः सम्प्रोक्ताश्चापबाणकराः सदा । शताक्षौहिणिका सेनाप्येकैकस्याः प्रकीर्तिता ॥ 18॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,18,18472,एकैकशक्तेः सामर्थ्यं लक्षब्रह्माण्डनाशने । शताक्षौहिणिका सेना तादृशी नृपसत्तम ॥ 19॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,19,18473,किं न कुर्याज्जगत्यस्मिन्नशक्यं वक्तुमेव तत् । सर्वापि युद्धसामग्री तस्मिन्साले स्थिता मुने ॥ 20॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,20,18474,रथानां गणना नास्ति हयानां करिणां तथा । शस्त्राणां गणना तद्वद्गणानां गणना तथा ॥ 21॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,21,18475,पद्मरागमयादग्रे गोमेदमणिनिर्मितः । दशयोजनदैर्घ्येण प्राकारो वर्तते महान् ॥ 22॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,22,18476,भास्वज्जपाप्रसूनाभो मध्यभूस्तस्य तादृशी । गोमेदकल्पितान्येव तद्वासिसदनानि च ॥ 23॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,23,18477,पक्षिणः स्तम्भवर्याश्च वृक्षा वाप्यः सरांसि च । गोमेदकल्पिता एव कुङ्कुमारुणविग्रहाः ॥ 24॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,24,18478,तन्मध्यस्था महादेव्यो द्वात्रिंशच्छक्तयः स्मृताः । नानाशस्त्रप्रहरणा गोमेदमणिभूषिताः ॥ 25॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,25,18479,प्रत्येकलोकवासिन्यः परिवार्य समन्ततः । गोमेदसाले सन्नद्धाः पिशाचवदना नृप ॥ 26॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,26,18480,स्वर्लोकवासिभिर्नित्यं पूजिताश्चक्रबाहवः । क्रोधरक्तेक्षणा भिन्धि पचच्छिन्धि दहेति च ॥ 27॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,27,18481,वदन्ति सततं वाचं युद्धोत्सुकहृदन्तराः । एकैकस्या महाशक्तेर्दशाक्षौहिणिका मता ॥ 28॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,28,18482,सेना तत्राप्येकशक्तिर्लक्षब्रह्माण्डनाशिनी । तादृशीनां महासेना वर्णनीया कथं नृप ॥ 29॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,29,18483,रथानां नैव गणना वाहनानां तथैव च । सर्वयुद्धसमारम्भस्तत्र देव्या विराजते ॥ 30॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,30,18484,तासां नामानि वक्ष्यामि पापनाशकराणि च । विद्याह्रीपुष्टयः प्रज्ञा सिनीवाली कुहूस्तथा ॥ 31॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,31,18485,रुद्रा वीर्या प्रभा नन्दा पोषिणी ऋद्धिदा शुभा । कालरात्रिर्महारात्रिर्भद्रकाली कपर्दिनी ॥ 32॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,32,18486,विकृतिर्दण्डिमुण्डिन्यौ सेन्दुखण्डा शिखण्डिनी । निशुम्भशुम्भमथिनी महिषासुरमर्दिनी ॥ 33॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,33,18487,इन्द्राणी चैव रुद्राणी शङ्करार्धशरीरिणी । नारी नारायणी चैव त्रिशूलिन्यपि पालिनी ॥ 34॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,34,18488,अम्बिका ह्लादिनी पश्चादित्येवं शक्तयः स्मृताः । यद्येताः कुपिता देव्यस्तदा ब्रह्माण्डनाशनम् ॥ 35॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,35,18489,पराजयो न चैतासां कदाचित्क्वचिदस्ति हि । गोमेदकमयादग्रे सद्वज्रमणिनिर्मितः ॥ 36॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,36,18490,दशयोजनतुङ्गोऽसौ गोपुरद्वारसंयुतः । कपाटश‍ृङ्खलाबद्धो नववृक्षसमुज्ज्वलः ॥ 37॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,37,18491,सालस्तन्मध्यभूम्यादि सर्वं हीरमयं स्मृतम् । गृहाणि वीथयो रथ्या महामार्गाङ्गणानि च ॥ 38॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,38,18492,वृक्षालवालतरवः सारङ्गा अपि तादृशाः । दीर्घिकाश्रेणयो वाप्यस्तडागाः कूपसंयुताः ॥ 39॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,39,18493,तत्र श्रीभुवनेश्वर्या वसन्ति परिचारिकाः । एकैका लक्षदासीभिः सेविता मदगर्विताः ॥ 40॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,40,18494,तालवृन्तधराः काश्चिच्चषकाढ्यकराम्बुजाः । काश्चित्ताम्बूलपात्राणि धारयन्त्योऽतिगर्विताः ॥ 41॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,41,18495,काश्चित्तच्छत्रधारिण्यश्चामराणां विधारिकाः । नानावस्त्रधराः काश्चित्काश्चित्पुष्पकराम्बुजाः ॥ 42॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,42,18496,नानादर्शकराः काश्चित्काश्चित्कुङ्कुमलेपनम् । धारयन्त्यः कज्जलं च सिन्दूरचषकं पराः ॥ 43॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,43,18497,काश्चिच्चित्रकनिर्मात्र्यः पादसंवाहने रताः । काश्चित्तु भूषाकारिण्यो नानाभूषाधराः पराः ॥ 44॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,44,18498,पुष्पभूषणनिर्मात्र्यः पुष्पश‍ृङ्गारकारिकाः । नानाविलासचतुरा बह्व्य एवंविधाः पराः ॥ 45॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,45,18499,निबद्धपरिधानीया युवत्यः सकला अपि । देवीकृपालेशवशात्तुच्छीकृतजगत्त्रयाः ॥ 46॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,46,18500,एता दूत्यः स्मृता देव्यः श‍ृङ्गारमदगर्विताः । तासां नामानि वक्ष्यामि श‍ृणु मे नृपसत्तम ॥ 47॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,47,18501,अनङ्गरूपा प्रथमाप्यनङ्गमदना परा । तृतीया तु ततः प्रोक्ता सुन्दरी मदनातुरा ॥ 48॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,48,18502,ततो भुवनवेगा स्यात्तथा भुवनपालिका । स्यात्सर्वशिशिरानङ्गवदनानङ्गमेखला ॥ 49॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,49,18503,विद्युद्दामसमानाङ्ग्यः क्वणत्काञ्चीगुणान्विताः । रणन्मञ्जीरचरणा बहिरन्तरितस्ततः ॥ 50॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,50,18504,धावमानास्तु शोभन्ते सर्वा विद्युल्लतोपमाः । कुशलाः सर्वकार्येषु वेत्रहस्ताः समन्ततः ॥ 51॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,51,18505,अष्टदिक्षु तथैतासां प्राकाराद्बहिरेव च । सदनानि विराजन्ते नानावाहनहेतिभिः ॥ 52॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,52,18506,वज्रसालादग्रभागे सालो वैदूर्यनिर्मितः । दशयोजनतुङ्गोऽसौ गोपुरद्वारभूषितः ॥ 53॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,53,18507,वैदूर्यभूमिः सर्वापि गृहाणि विविधानि च । वीथ्यो रथ्या महामार्गाः सर्वे वैदूर्यनिर्मिताः ॥ 54॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,54,18508,वापीकूपतडागाश्च स्रवन्तीनां तटानि च । बालुका चैव सर्वापि वैदूर्यमणिनिर्मिता ॥ 55॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,55,18509,तत्राष्टदिक्षु परितो ब्राह्म्यादीनां च मण्डलम् । निजैर्गणैः परिवृतं भ्राजते नृपसत्तम ॥ 56॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,56,18510,प्रतिब्रह्माण्डमातॄणां ताः समष्टय ईरिताः । ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥ 57॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,57,18511,वाराही च तथेन्द्राणी चामुण्डा सप्त मातरः । अष्टमी तु महालक्ष्मीर्नाम्ना प्रोक्तास्तु मातरः ॥ 58॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,58,18512,ब्रह्मरुद्रादिदेवानां समाकारास्तु ताः स्मृताः । जगत्कल्याणकारिण्यः स्वस्वसेनासमावृताः ॥ 59॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,59,18513,तत्सालस्य चतुर्द्वार्षु वाहनानि महेशितुः । सज्जानि नृपते सन्ति सालङ्काराणि नित्यशः ॥ 60॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,60,18514,दन्तिनः कोटिशो वाहाः कोटिशः शिबिकास्तथा । हंसाः सिंहाश्च गरुडा मयूरा वृषभास्तथा ॥ 61॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,61,18515,तैर्युक्ताः स्यन्दनास्तद्वत्कोटिशो नृपनन्दन । पार्ष्णिग्राहसमायुक्ता ध्वजैराकाशचुम्बिनः ॥ 62॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,62,18516,कोटिशस्तु विमानानि नानाचिह्नान्वितानि च । नानावादित्रयुक्तानि महाध्वजयुतानि च ॥ 63॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,63,18517,वैदूर्यमणिसालस्याप्यग्रे सालः परः स्मृतः । दशयोजनतुङ्गोऽसाविन्द्रनीलाश्मनिर्मितः ॥ 64॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,64,18518,तन्मध्यभूस्तथा वीथ्यो महामार्गा गृहाणि च । वापीकूपतडागाश्च सर्वे तन्मणिनिर्मिताः ॥ 65॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,65,18519,तत्र पद्मं तु सम्प्रोक्तं बहुयोजनविस्तृतम् । षोडशारं दीप्यमानं सुदर्शनमिवापरम् ॥ 66॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,66,18520,तत्र षोडशशक्तीनां स्थानानि विविधानि च । सर्वोपस्करयुक्तानि समृद्धानि वसन्ति हि ॥ 67॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,67,18521,तासां नामानि वक्ष्यामि श‍ृणु मे नृपसत्तम । कराली विकराली च तथोमा च सरस्वती ॥ 68॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,68,18522,श्रीदुर्गोषा तथा लक्ष्मीः श्रुतिश्चैव स्मृतिर्धृतिः । श्रद्धा मेधा मतिः कान्तिरार्या षोडश शक्तयः ॥ 69॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,69,18523,नीलजीमूतसङ्काशाः करवालकराम्बुजाः । समाः खेटकधारिण्यो युद्धोपक्रान्तमानसाः ॥ 70॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,70,18524,सेनान्यः सकला एताः श्रीदेव्या जगदीशितुः । प्रतिब्रह्माण्डसंस्थानां शक्तीनां नायिकाः स्मृताः ॥ 71॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,71,18525,ब्रह्माण्डक्षोभकारिण्यो देवीशक्त्युपबृंहिताः । नानारथसमारूढा नानाशक्तिभिरन्विताः ॥ 72॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,72,18526,एतत्पराक्रमं वक्तुं सहस्रास्योऽपि न क्षमः । इन्द्रनीलमहासालादग्रे तु बहुविस्तृतः ॥ 73॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,73,18527,मुक्ताप्राकार उदितो दशयोजनदैर्घ्यवान् । मध्यभूः पूर्ववत्प्रोक्ता तन्मध्येऽष्टदलाम्बुजम् ॥ 74॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,74,18528,मुक्तामणिगणाकीर्णं विस्तृतं तु सकेसरम् । तत्र देवीसमाकारा देव्यायुधधराः सदा ॥ 75॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,75,18529,सम्प्रोक्ता अष्टमन्त्रिण्यो जगद्वार्ताप्रबोधिकाः । देवीसमानभोगास्ता इङ्गितज्ञास्तु पण्डिताः ॥ 76॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,76,18530,कुशलाः सर्वकार्येषु स्वामिकार्यपरायणाः । देव्यभिप्रायबोध्यस्ताश्चतुरा अतिसुन्दराः ॥ 77॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,77,18531,नानाशक्तिसमायुक्ताः प्रतिब्रह्माण्डवर्तिनाम् । प्राणिनां ताः समाचारं ज्ञानशक्त्या विदन्ति च ॥ 78॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,78,18532,तासां नामानि वक्ष्यामि मत्तः श‍ृणु नृपोत्तम । अनङ्गकुसुमा प्रोक्ताप्यनङ्गकुसुमातुरा ॥ 79॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,79,18533,अनङ्गमदना तद्वदनङ्गमदनातुरा । भुवनपाला गगनवेगा चैव ततः परम् ॥ 80॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,80,18534,शशिरेखा च गगनरेखा चैव ततः परम् । पाशाङ्कुशवराभीतिधरा अरुणविग्रहाः ॥ 81॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,81,18535,विश्वसम्बन्धिनीं वार्तां बोधयन्ति प्रतिक्षणम् । मुक्तासालादग्रभागे महामारकतोऽपरः ॥ 82॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,82,18536,सालोत्तमः समुद्दिष्टो दशयोजनदैर्घ्यवान् । नानासौभाग्यसंयुक्तो नानाभोगसमन्वितः ॥ 83॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,83,18537,मध्यभूस्तादृशी प्रोक्ता सदनानि तथैव च । षट्कोणमत्र विस्तीर्णं कोणस्था देवताः श‍ृणु ॥ 84॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,84,18538,पूर्वकोणे चतुर्वक्त्रो गायत्रीसहितो विधिः । कुण्डिकाक्षगुणाभीतिदण्डायुधधरः परः ॥ 85॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,85,18539,तदायुधधरा देवी गायत्री परदेवता । वेदाः सर्वे मूर्तिमन्तः शास्त्राणि विविधानि च ॥ 86॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,86,18540,स्मृतयश्च पुराणानि मूर्तिमन्ति वसन्ति हि । ये ब्रह्मविग्रहाः सन्ति गायत्रीविग्रहाश्च ये ॥ 87॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,87,18541,व्याहृतीनां विग्रहाश्च ते नित्यं तत्र सन्ति हि । रक्षःकोणे शङ्खचक्रगदाम्बुजकराम्बुजा ॥ 88॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,88,18542,सावित्री वर्तते तत्र महाविष्णुश्च तादृशः । ये विष्णुविग्रहाः सन्ति मत्स्यकूर्मादयोऽखिलाः ॥ 89॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,89,18543,सावित्रीविग्रहा ये च ते सर्वे तत्र सन्ति हि । वायुकोणे परश्वक्षमालाभयवरान्वितः ॥ 90॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,90,18544,महारुद्रो वर्ततेऽत्र सरस्वत्यपि तादृशी । ये ये तु रुद्रभेदाः स्युर्दक्षिणास्यादयो नृप ॥ 91॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,91,18545,गौरीभेदाश्च ये सर्वे ते तत्र निवसन्ति हि । चतुःषष्ट्यागमा ये च ये चान्येऽप्यागमाः स्मृताः ॥ 92॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,92,18546,ते सर्वे मूर्तिमन्तश्च तत्रैव निवसन्ति हि । अग्निकोणे रत्नकुम्भं तथा मणिकरण्डकम् ॥ 93॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,93,18547,दधानो निजहस्ताभ्यां कुबेरो धनदायकः । नानावीथीसमायुक्तो महालक्ष्मीसमन्वितः ॥ 94॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,94,18548,देव्या निधिपतिस्त्वास्ते स्वगुणैः परिवेष्टितः । वारुणे तु महाकोणे मदनो रतिसंयुतः ॥ 95॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,95,18549,पाशाङ्कुशधनुर्बाणधरो नित्यं विराजते । श‍ृङ्गारा मूर्तिमन्तस्तु तत्र सन्निहिताः सदा ॥ 96॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,96,18550,ईशानकोणे विघ्नेशो नित्यं पुष्टिसमन्वितः । पाशाङ्कुशधरो वीरो विघ्नहर्ता विराजते ॥ 97॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,97,18551,विभूतयो गणेशस्य या याः सन्ति नृपोत्तम । ताः सर्वा निवसन्त्यत्र महैश्वर्यसमन्विताः ॥ 98॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,98,18552,प्रतिब्रह्माण्डसंस्थानां ब्रह्मादीनां समष्टयः । एते ब्रह्मादयः प्रोक्ताः सेवन्ते जगदीश्वरीम् ॥ 99॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,99,18553,महामारकतस्याग्रे शतयोजनदैर्घ्यवान् । प्रवालसालोऽस्त्यपरः कुङ्कुमारुणविग्रहः ॥ 100॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,100,18554,मध्यभूस्तादृशी प्रोक्ता सदनानि च पूर्ववत् । तन्मध्ये पञ्चभूतानां स्वामिन्यः पञ्च सन्ति च ॥ 101॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,101,18555,हृल्लेखा गगना रक्ता चतुर्थी तु करालिका । महोच्छुष्मा पञ्चमी च पञ्चभूतसमप्रभाः ॥ 102॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,102,18556,पाशाङ्कुशवराभीतिधारिण्योऽमितभूषणाः । देवीसमानवेषाढ्या नवयौवनगर्विताः ॥ 103॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,103,18557,प्रवालसालादग्रे तु नवरत्नविनिर्मितः । बहुयोजनविस्तीर्णो महासालोऽस्ति भूमिप ॥ 104॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,104,18558,तत्र चाम्नायदेवीनां सदनानि बहून्यपि । नवरत्नमयान्येव तडागाश्च सरांसि च ॥ 105॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,105,18559,श्रीदेव्या येऽवताराः स्युस्ते तत्र निवसन्ति हि । महाविद्या महाभेदाः सन्ति तत्रैव भूमिप ॥ 106॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,106,18560,निजावरणदेवीभिर्निजभूषणवाहनैः । सर्वदेव्यो विराजन्ते कोटिसूर्यसमप्रभाः ॥ 107॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,107,18561,सप्तकोटिमहामन्त्रदेवताः सन्ति तत्र हि । नवरत्नमयादग्रे चिन्तामणिगृहं महत् ॥ 108॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,108,18562,तत्रत्यं वस्तुमात्रं तु चिन्तामणिविनिर्मितम् । सूर्योद्गारोपलैस्तद्वच्चन्द्रोद्गारोपलैस्तथा ॥ 112॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,109,18563,विद्युत्प्रभोपलैः स्तम्भाः कल्पितास्तु सहस्रशः । येषां प्रभाभिरन्तःस्थं वस्तु किञ्चिन्न दृश्यते ॥ 110॥ 12,१२.११,एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।,110,18564,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे पद्मरागादि- मणिविनिर्मितप्राकारवर्णनं नामैकादशोऽध्यायः ॥ १२.११॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,0,18565,व्यास उवाच । तदेव देवीसदनं मध्यभागे विराजते । सहस्रस्तम्भसंयुक्ताश्चत्वारस्तेषु मण्डपाः ॥ 1॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,1,18566,श‍ृङ्गारमण्डपश्चैको मुक्तिमण्डप एव च । ज्ञानमण्डपसंज्ञस्तु तृतीयः परिकीर्तितः ॥ 2॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,2,18567,एकान्तमण्डपश्चैव चतुर्थः परिकीर्तितः । नानावितानसंयुक्ता नानाधूपैस्तु धूपिताः ॥ 3॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,3,18568,कोटिसूर्यसमाः कान्त्या भ्राजन्ते मण्डपाः शुभाः । तन्मण्डपानां परितः काश्मीरवनिका स्मृता ॥ 4॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,4,18569,मल्लिकाकुन्दवनिका यत्र पुष्कलकाः स्थिताः । असङ्ख्याता मृगमदैः पूरितास्तत्स्रवा नृप ॥ 5॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,5,18570,महापद्माटवी तद्वद्रत्नसोपाननिर्मिता । सुधारसेन सम्पूर्णा गुञ्जन्मत्तमधुव्रता ॥ 6॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,6,18571,हंसकारण्डवाकीर्णा गन्धपूरितदिक्तटा । वनिकानां सुगन्धैस्तु मणिद्वीपं सुवासितम् ॥ 7॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,7,18572,श‍ृङ्गारमण्डपे देव्यो गायन्ति विविधैः स्वरैः । सभासदो देववरा मध्ये श्रीजगदम्बिका ॥ 8॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,8,18573,मुक्तिमण्डपमध्ये तु मोचयत्यनिशं शिवा । ज्ञानोपदेशं कुरुते तृतीये नृप मण्डपे ॥ 9॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,9,18574,चतुर्थमण्डपे चैव जगद्रक्षाविचिन्तनम् । मन्त्रिणीसहिता नित्यं करोति जगदम्बिका ॥ 10॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,10,18575,चिन्तामणिगृहे राजञ्छक्तितत्त्वात्मकैः परैः । सोपानैर्दशभिर्युक्तो मञ्चकोऽप्यधिराजते ॥ 11॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,11,18576,ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः । एते मञ्चखुराः प्रोक्ताः फलकस्तु सदाशिवः ॥ 12॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,12,18577,तस्योपरि महादेवो भुवनेशो विराजते । या देवी निजलीलार्थं द्विधाभूता बभूव ह ॥ 13॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,13,18578,सृष्ट्यादौ तु स एवायं तदर्धाङ्गो महेश्वरः । कन्दर्पदर्पनाशोद्यत्कोटिकन्दर्पसुन्दरः ॥ 14॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,14,18579,पञ्चवक्त्रस्त्रिनेत्रश्च मणिभूषणभूषितः । हरिणाभीतिपरशून् वरं च निजबाहुभिः ॥ 15॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,15,18580,दधानः षोडशाब्दोऽसौ देवः सर्वेश्वरो महान् । कोटिसूर्यप्रतीकाशश्चन्द्रकोटिसुशीतलः ॥ 16॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,16,18581,शुद्धस्फटिकसङ्काशस्त्रिनेत्रः शीतलद्युतिः । वामाङ्गे सन्निषण्णास्य देवी श्रीभुवनेश्वरी ॥ 17॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,17,18582,नवरत्नगणाकीर्णकाञ्चीदामविराजिता । तप्तकाञ्चनसन्नद्धवैदूर्याङ्गदभूषणा ॥ 18॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,18,18583,कनच्छ्रीचक्रताटङ्कविटङ्कवदनाम्बुजा । ललाटकान्तिविभवविजितार्थसुधाकरा ॥ 19॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,19,18584,बिम्बकान्तितिरस्कारिरदच्छदविराजिता । लसत्कुङ्कुमकस्तुरीतिलकोद्भासितानना ॥ 20॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,20,18585,दिव्यचूडामणिस्फारचञ्चच्चन्द्रकसूर्यका । उद्यत्कविसमस्वच्छनासाभरणभासुरा ॥ 21॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,21,18586,चिन्ताकलम्बितस्वच्छमुक्तागुच्छविराजिता । पाटीरपङ्ककर्पूरकुङ्कुमालङ्कृतस्तनी ॥ 22॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,22,18587,विचित्रविविधाकल्पा कम्बुसङ्काशकन्धरा । दाडिमीफलबीजाभदन्तपङ्क्तिविराजिता ॥ 23॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,23,18588,अनर्घ्यरत्नघटितमुकुटाञ्चितमस्तका । मत्तालिमालाविलसदलकाढ्यमुखाम्बुजा ॥ 24॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,24,18589,कलङ्ककार्श्यनिर्मुक्तशरच्चन्द्रनिभानना । जाह्नवीसलिलावर्तशोभिनाभिविभूषिता ॥ 25॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,25,18590,माणिक्यशकलाबद्धमुद्रिकाङ्गुलिभूषिता । पुण्डरीकदलाकारनयनत्रयसुन्दरी ॥ 26॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,26,18591,कल्पिताच्छमहारागपद्मरागोज्ज्वलप्रभा । रत्नकिङ्किणिकायुक्तरत्नकङ्कणशोभिता ॥ 27॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,27,18592,मणिमुक्तासरापारलसत्पदकसन्ततिः । रत्नाङ्गुलिप्रविततप्रभाजाललसत्करा ॥ 28॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,28,18593,कञ्चुकीगुम्फितापारनानारत्नततिद्युतिः । मल्लिकामोदिधम्मिल्लमल्लिकालिसरावृता ॥ 29॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,29,18594,सुवृत्तनिबिडोत्तुङ्गकुचभारालसा शिवा । वरपाशाङ्कुशाभीतिलसद्बाहुचतुष्टया ॥ 30॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,30,18595,सर्वश‍ृङ्गारवेषाढ्या सुकुमाराङ्गवल्लरी । सौन्दर्यधारासर्वस्वा निर्व्याजकरुणामयी ॥ 31॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,31,18596,निजसंलापमाधुर्यविनिर्भर्त्सितकच्छपी । कोटिकोटिरवीन्दूनां कान्तिं या बिभ्रती परा ॥ 32॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,32,18597,नानासखीभिर्दासीभिस्तथा देवाङ्गनादिभिः । सर्वाभिर्देवताभिस्तु समन्तात्परिवेष्टिता ॥ 33॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,33,18598,इच्छाशक्त्या ज्ञानशक्त्या क्रियाशक्त्या समन्विता । लज्जा तुष्टिस्तथा पुष्टिः कीर्तिः कान्तिः क्षमा दया ॥ 34॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,34,18599,बुद्धिर्मेधा स्मृतिर्लक्ष्मीर्मूर्तिमत्योऽङ्गनाः स्मृताः । जया च विजया चैवाप्यजिता चापराजिता ॥ 35॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,35,18600,नित्या विलासिनी दोग्ध्री त्वघोरा मङ्गला नव । पीठशक्तय एतास्तु सेवन्ते यां पराम्बिकाम् ॥ 36॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,36,18601,यस्यास्तु पार्श्वभागे स्तो निधी तौ शङ्खपद्मकौ । नवरत्नवहा नद्यस्तथा वै काञ्चनस्रवाः ॥ 37॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,37,18602,सप्तधातुवहा नद्यो निधिभ्यां तु विनिर्गताः । सुधासिन्ध्वन्तगामिन्यस्ताः सर्वा नृपसत्तम ॥ 38॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,38,18603,सा देवी भुवनेशानी तद्वामाङ्के विराजते । सर्वेशत्वं महेशस्य यत्सङ्गादेव नान्यथा ॥ 39॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,39,18604,चिन्तामणिगृहस्यास्य प्रमाणं श‍ृणु भूमिप । सहस्रयोजनायामं महान्तस्तत्प्रचक्षते ॥ 40॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,40,18605,तदुत्तरे महाशालाः पूर्वस्माद्द्विगुणाः स्मृताः । अन्तरिक्षगतं त्वेतन्निराधारं विराजते ॥ 41॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,41,18606,सङ्कोचश्च विकासश्च जायतेऽस्य निरन्तरम् । पटवत्कार्यवशतः प्रलये सर्जने तथा ॥ 42॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,42,18607,शालानां चैव सर्वेषां सर्वकान्तिपरावधि । चिन्तामणिगृहं प्रोक्तं यत्र देवी महोमयी ॥ 43॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,43,18608,ये ये उपासकाः सन्ति प्रतिब्रह्माण्डवर्तिनः । देवेषु नागलोकेषु मनुष्येष्वितरेषु च ॥ 44॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,44,18609,श्रीदेव्यास्ते च सर्वेऽपि व्रजन्त्यत्रैव भूमिप । देवीक्षेत्रे ये त्यजन्ति प्राणान्देव्यर्चने रताः ॥ 45॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,45,18610,ते सर्वे यान्ति तत्रैव यत्र देवी महोत्सवा । घृतकुल्या दुग्धकुल्या दधिकुल्या मधुस्रवाः ॥ 46॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,46,18611,स्यन्दन्ति सरितः सर्वास्तथामृतवहाः पराः । द्राक्षारसवहाः काश्चिज्जम्बूरसवहाः पराः ॥ 47॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,47,18612,आम्रेक्षुरसवाहिन्यो नद्यस्तास्तु सहस्रशः । मनोरथफला वृक्षा वाप्यः कूपास्तथैव च ॥ 48॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,48,18613,यथेष्टपानफलदा न न्यूनं किञ्चिदस्ति हि । न रोगपलितं वापि जरा वापि कदाचन ॥ 49॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,49,18614,न चिन्ता न च मात्सर्यं कामक्रोधादिकं तथा । सर्वे युवानः सस्त्रीका सहस्रादित्यवर्चसः ॥ 50॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,50,18615,भजन्ति सततं देवीं तत्र श्रीभुवनेश्वरीम् । केचित्सलोकतापन्नाः केचित्सामीप्यतां गताः ॥ 51॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,51,18616,सरूपतां गताः केचित्सार्ष्टितां च परे गताः । या यास्तु देवतास्तत्र प्रतिब्रह्माण्डवर्तिनाम् ॥ 52॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,52,18617,समष्टयः स्थितास्तास्तु सेवन्ते जगदीश्वरीम् । सप्तकोटिमहामन्त्रा मूर्तिमन्त उपासते ॥ 53॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,53,18618,महाविद्याश्च सकलाः साम्यावस्थात्मिकां शिवाम् । कारणब्रह्मरूपां तां मायाशबलविग्रहाम् ॥ 54॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,54,18619,इत्थं राजन् मया प्रोक्तं मणिद्वीपं महत्तरम् । न सूर्यचन्द्रौ नो विद्युत्कोटयोऽग्निस्तथैव च ॥ 55॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,55,18620,एतस्य भासा कोट्यंशकोट्यंशेनापि ते समाः । क्यचिद्विद्रुमसकाशं क्वचिन्मरकतच्छवि ॥ 56॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,56,18621,विद्युद्भानुसमच्छायं मध्यसूर्यसमं क्वचित् । विद्युत्कोटिमहाधारा सारकान्तिततं क्वचित् ॥ 57॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,57,18622,क्वचित्सिन्दूरनीलेन्द्रमाणिक्यसदृशच्छवि । हीरसारमहागर्भधगद्धगितदिक्तटम् ॥ 58॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,58,18623,कान्त्या दावानलसमं तप्तकाञ्चनसन्निभम् । क्वचिच्चन्द्रोपलोद्गारं सूर्योद्गारं च कुत्रचित् ॥ 59॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,59,18624,रत्नश‍ृङ्गिसमायुक्तं रत्नप्राकारगोपुरम् । रत्नपत्रै रत्नफलैर्वक्षैश्च परिमण्डितम् ॥ 60॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,60,18625,नृत्यन्मयूरसङ्घैश्च कपोतरणितोज्ज्वलम् । कोकिलाकाकलीलापैः शुकलापैश्च शोभितम् ॥ 61॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,61,18626,सुरम्यरमणीयाम्बुलक्षावधिसरोवृतम् । तन्मध्यभागविलसद्विकचद्रत्नपङ्कजैः ॥ 62॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,62,18627,सुगन्धिभिः समन्तात्तु वासितं शतयोजनम् । मन्दमारुतसम्भिन्नचलद्द्रुमसमाकुलम् ॥ 63॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,63,18628,चिन्तामणिसमूहानां ज्योतिषा वितताम्बरम् । रत्नप्रभाभिरभितो धगद्धगितदिक्तटम् ॥ 64॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,64,18629,वृक्षवातमहागन्धवातवातसुपूरितम् । धूपधूपायितं राजन् मणिदीपायुतोज्ज्वलम् ॥ 65॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,65,18630,मणिजालकसच्छिद्रतरलोदरकान्तिभिः । दिङ्मोहजनकं चैतद्दर्पणोदरसंयुतम् ॥ 66॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,66,18631,ऐश्वर्यस्य समग्रस्य श‍ृङ्गारस्याखिलस्य च । सर्वज्ञतायाः सर्वायास्तेजसश्चाखिलस्य वै ॥ 67॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,67,18632,पराक्रमस्य सर्वस्य सर्वोत्तमगुणस्य च । सकलाया दयायाश्च समाप्तिरिह भूपते ॥ 68॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,68,18633,राज्ञ आनन्दमारभ्य ब्रह्मलोकान्तभूमिषु । आनन्दा ये स्थिताः सर्वे तेऽत्रैवान्तर्भवन्ति हि ॥ 69॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,69,18634,इति ते वर्णितं राजन् मणिद्वीपं महत्तरम् । महादेव्याः परं स्थानं सर्वलोकोत्तमोत्तमम् ॥ 70॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,70,18635,एतस्य स्मरणात्सद्यः सर्वं पापं विनश्यति । प्राणोत्क्रमणसन्धौ तु स्मृत्वा तत्रैव गच्छति ॥ 71॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,71,18636,अध्यायपञ्चकं त्वेतत्पठेन्नित्यं समाहितः । भूतप्रेतपिशाचादिबाधा तत्र भवेन्न हि ॥ 72॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,72,18637,नवीनगृहनिर्माणे वास्तुयागे तथैव च । पठितव्यं प्रयत्नेन कल्याणं तेन जायते ॥ 73॥ 12,१२.१२,द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।,73,18638,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे मणिद्वीपवर्णनं नाम द्वादशोऽध्यायः ॥ १२.१२॥ 12,१२.१३,त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।,0,18639,व्यास उवाच । इति ते कथितं भूप यद्यत्पृष्टं त्वयानघ । नारायणेन यत्प्रोक्तं नारदाय महात्मने ॥ 1॥ 12,१२.१३,त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।,1,18640,श्रुत्वैतत्तु महादेव्याः पुराणं परमाद्भुतम् । कृतकृत्यो भवेन्मर्त्यो देव्याः प्रियतमो हि सः ॥ 2॥ 12,१२.१३,त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।,2,18641,कुरु चाम्बामखं राजन् स्वपित्रुद्धरणाय वै । खिन्नोऽसि येन राजेन्द्र पितुर्ज्ञात्वा तु दुर्गतिम् ॥ 3॥ 12,१२.१३,त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।,3,18642,गृहाण त्वं महादेव्या मन्त्रं सर्वोत्तमोत्तमम् । यथाविधिविधानेन जन्मसाफल्यदायकम् ॥ 4॥ 12,१२.१३,त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।,4,18643,सूत उवाच । तच्छ्रुत्वा नृपशार्दूलः प्रार्थयित्वा मुनीश्वरम् । तस्मादेव महामन्त्रं देवीप्रणवसंज्ञकम् ॥ 5॥ 12,१२.१३,त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।,5,18644,दीक्षाविधिं विधानेन जग्राह नृपसत्तमः । तत आहूय धौम्यादीन्नवरात्रसमागमे ॥ 6॥ 12,१२.१३,त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।,6,18645,अम्बायज्ञं चकाराशु वित्तशाढ्यविवर्जितः । ब्राह्मणैः पाठयामास पुराणं त्वेतदुत्तमम् ॥ 7॥ 12,१२.१३,त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।,7,18646,श्रीदेव्यग्रेऽम्बिकाप्रीत्यै देवीभागवतं परम् । ब्राह्मणान्भोजयामासाप्यसङ्ख्यातान्सुवासिनीः ॥ 8॥ 12,१२.१३,त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।,8,18647,कुमारीर्वटुकादींश्च दीनानाथांस्तथैव च । द्रव्यप्रदानैस्तान्सर्वान् सन्तोष्य वसुधाधिपः ॥ 9॥ 12,१२.१३,त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।,9,18648,समाप्य यज्ञं संस्थाने संस्थितो यावदेव हि । तावदेव हि चाकाशान्नारदः समवातरत् ॥ 10॥ 12,१२.१३,त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।,10,18649,रणयन्महतीं वीणां ज्वलदग्निशिखोपमः । ससम्भमः समुत्थाय दृष्ट्वा तं नारदं मुनिम् ॥ 11॥ 12,१२.१३,त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।,11,18650,आसनाद्युपचारैश्च पूजयामास भूमिपः । कृत्वा तु कुशलप्रश्नं पप्रच्छागमकारणम् ॥ 12॥ 12,१२.१३,त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।,12,18651,राजोवाच । कुत आगमनं साधो ब्रूहि किं करवाणि ते । सनाथोऽहं कृतार्थोऽहं त्वदागमनकारणात् ॥ 13॥ 12,१२.१३,त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।,13,18652,इति राज्ञो वचः श्रुत्वा प्रोवाच मुनिसत्तमः । अद्याश्चर्यं मया दृष्टं देवलोके नृपोत्तम ॥ 14॥ 12,१२.१३,त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।,14,18653,तन्निवेदयितुं प्राप्तस्त्वत्सकाशे सुविस्मितः । पिता ते दुर्गतिं प्राप्तो निजकर्मविपर्ययात् ॥ 15॥ 12,१२.१३,त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।,15,18654,स एवायं दिव्यरूपवपुर्भूत्वाधुनैव हि । देवदेवैः स्तुतः सम्यगप्सरोभिः समन्ततः ॥ 16॥ 12,१२.१३,त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।,16,18655,विमानवरमारुह्य मणिद्वीपं गतोऽभवत् । देवीभागवतस्यास्य श्रवणोत्थफलेन च ॥ 17॥ 12,१२.१३,त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।,17,18656,अम्बामखफलेनापि पिता ते सुगतिं गतः । धन्योऽसि कृतकृत्योऽसि जीवितं सफलं तव ॥ 18॥ 12,१२.१३,त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।,18,18657,नरकादुद्धृतस्तातस्त्वया तु कुलभूषण । देवलोके स्फीतकीर्तिस्तवाद्य विपुलाभवत् ॥ 19॥ 12,१२.१३,त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।,19,18658,सूत उवाच । नारदोक्तं समाकर्ण्य प्रेमगद्गदितान्तरः । पपात पादाम्बुजयोर्व्यासस्याद्भुतकर्मणः ॥ 20॥ 12,१२.१३,त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।,20,18659,तवानुग्रहतो देव कृतार्थोऽहं महामुने । किं मया प्रतिकर्तव्यं नमस्कारादृते तव ॥ 21॥ 12,१२.१३,त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।,21,18660,अनुग्राह्यः सदैवाहमेवमेव त्वया मुने । इति राज्ञो वचः श्रुत्वाप्याशीर्भिरभिनन्द्य च ॥ 22॥ 12,१२.१३,त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।,22,18661,उवाच वचनं श्लक्ष्णं भगवान् बादरायणः । राजन्सर्वं परित्यज्य भज देवीपदाम्बुजम् ॥ 23॥ 12,१२.१३,त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।,23,18662,देवीभागवतं चैव पठ नित्यं समाहितः । अम्बामखं सदा भक्त्या कुरु नित्यमतन्द्रितः ॥ 24॥ 12,१२.१३,त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।,24,18663,अनायासेन तेन त्वं मोक्ष्यसे भवबन्धनात् । सन्त्यन्यानि पुराणानि हरिरुद्रमुखानि च ॥ 25॥ 12,१२.१३,त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।,25,18664,देवीभागवतस्यास्य कलां नार्हन्ति षोडशीम् । सारमेतत्पुराणानां वेदानां चैव सर्वशः ॥ 26॥ 12,१२.१३,त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।,26,18665,मूलप्रकृतिरेवैषा यत्र तु प्रतिपाद्यते । समं तेन पुराणं स्यात्कथमन्यन्नृपोत्तम ॥ 27॥ 12,१२.१३,त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।,27,18666,पाठे वेदसमं पुण्यं यस्य स्याज्जनमेजय । पठितव्यं प्रयत्नेन तदेव विबुधोत्तमैः ॥ 28॥ 12,१२.१३,त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।,28,18667,इत्युक्त्वा नृपवर्यं तं जगाम मुनिराट् ततः । जग्मुश्चैव यथास्थानं धौम्यादिमुनयोऽमलाः ॥ 29॥ 12,१२.१३,त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।,29,18668,देवीभागवतस्यैव प्रशंसां चक्रुरुत्तमाम् । राजा शशास धरणीं ततः सन्तुष्टमानसः । देवीभागवतं चैव पठच्छृण्वन्तिरन्तरम् ॥ 30॥ 12,१२.१३,त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।,30,18669,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनं नाम त्रयोदशोऽध्यायः ॥ १२.१३॥ 12,१२.१४,चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।,0,18670,सूत उवाच । अर्धश्लोकात्मकं यत्तु देवीवक्त्राब्जनिर्गतम् । श्रीमद्भागवतं नाम वेदसिद्धान्तबोधकम् ॥ 1॥ 12,१२.१४,चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।,1,18671,उपदिष्टं विष्णुवे यद्वटपत्रनिवासिने । शतकोटिप्रविस्तीर्णं तत्कृतं ब्रह्मणा पुरा ॥ 2॥ 12,१२.१४,चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।,2,18672,तत्सारमेकतः कृत्वा व्यासेन शुकहेतवे । अष्टादशसहस्रं तु द्वादशस्कन्धसंयुतम् ॥ 3॥ 12,१२.१४,चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।,3,18673,देवीभागवतं नाम पुराणं ग्रथितं पुरा । अद्यापि देवलोके तद्बहुविस्तीर्णमस्ति हि ॥ 4॥ 12,१२.१४,चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।,4,18674,नानेन सदृशं पुण्यं पवित्रं पापनाशनम् । पदे पदेऽश्वमेधस्य फलमाप्नोति मानवः ॥ 5॥ 12,१२.१४,चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।,5,18675,पौराणिकं पूजयित्वा वस्त्राद्याभरणादिभिः । व्यासबुद्ध्या तन्मुखात्तु श्रुत्वैतत्समुपोषितः ॥ 6॥ 12,१२.१४,चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।,6,18676,लिखित्वा निजहस्तेन लेखकेनाथवा मुने । प्रौष्ठपद्यां पौर्णमास्यां हेमसिंहसमन्वितम् ॥ 7॥ 12,१२.१४,चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।,7,18677,दद्यात्पौराणिकायाथ दक्षिणां च पयस्विनीम् । सालङ्कृतां सवत्सां च कपिलां हेममालिनीम् ॥ 8॥ 12,१२.१४,चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।,8,18678,भोजयेद्ब्राह्मणानन्तेऽप्यध्यायपरिसम्मितान् । सुवासिनीस्तावतीश्च कुमारीर्बटुकैः सह ॥ 9॥ 12,१२.१४,चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।,9,18679,देवीबुद्ध्या पूजयेत्तान्वसनाभरणादिभिः । पायसान्नवरेणापि गन्धस्रक्कुसुमादिभिः ॥ 10॥ 12,१२.१४,चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।,10,18680,पुराणदानेनैतेन भूदानस्य फलं लभेत् । इहलोके सुखी भूत्वाप्यन्ते देवीपुरं व्रजेत् ॥ 11॥ 12,१२.१४,चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।,11,18681,नित्यं यः श‍ृणुयाद्भक्त्या देवीभागवतं परम् । न तस्य दुर्लभं किञ्चित्कदाचित्क्वचिदस्ति हि ॥ 12॥ 12,१२.१४,चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।,12,18682,अपुत्रो लभते पुत्रान्धनार्थी धनमाप्नुयात् । विद्यार्थी प्राप्नुयाद्विद्यां कीर्तिमण्डितभूतलः ॥ 13॥ 12,१२.१४,चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।,13,18683,वन्ध्या वा काकवन्ध्या वा मृतवन्ध्या च याङ्गना । श्रवणादस्य तद्दोषान्निवर्तेत न संशयः ॥ 14॥ 12,१२.१४,चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।,14,18684,यद्गेहे पुस्तकं चैतत्पूजितं यदि तिष्ठति । तद्गेहं न त्यजेन्नित्यं रमा चैव सरस्वती ॥ 15॥ 12,१२.१४,चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।,15,18685,नेक्षन्ते तत्र वेतालडाकिनीराक्षसादयः । ज्वरितं तु नरं स्पृष्ट्वा पठेदेतत्समाहितः ॥ 16॥ 12,१२.१४,चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।,16,18686,मण्डलान्नाशमाप्नोति ज्वरो दाहसमन्वितः । शतावृत्त्यास्य पठनात्क्षयरोगो विनश्यति ॥ 17॥ 12,१२.१४,चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।,17,18687,प्रतिसन्ध्यं पठेद्यस्तु सन्ध्यां कृत्वा समाहितः । एकैकमस्य चाध्यायं स नरो ज्ञानवान्भवेत् ॥ 18॥ 12,१२.१४,चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।,18,18688,शकुनांश्चैव वीक्षेत कार्याकार्येषु चैव हि । तत्प्रकारः पुरस्तात्तु कथितोऽस्ति मया मुने ॥ 19॥ 12,१२.१४,चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।,19,18689,नवरात्रे पठेन्नित्यं शारदीयेऽतिभक्तितः । तस्याम्बिका तु सन्तुष्टा ददातीच्छाधिकं फलम् ॥ 20॥ 12,१२.१४,चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।,20,18690,वैष्णवैश्चैव शैवैश्च रमोमा प्रीयते सदा । सौरैश्च गाणपत्यैश्च स्वेष्टशक्तेश्च तुष्टये ॥ 21॥ 12,१२.१४,चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।,21,18691,पठितव्यं प्रयत्नेन नवरात्रचतुष्टये । वैदिकैर्निजगायत्रीप्रीतये नित्यशो मुने ॥ 22॥ 12,१२.१४,चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।,22,18692,पठितव्यं प्रयत्नेन विरोधो नात्र कस्यचित् । उपासना तु सर्वेषां शक्तियुक्तास्ति सर्वदा ॥ 23॥ 12,१२.१४,चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।,23,18693,तच्छक्तेरेव तोषार्थं पठितव्यं सदा द्विजैः । स्त्रीशूद्रो न पठेदेतत्कदापि च विमोहितः ॥ 24॥ 12,१२.१४,चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।,24,18694,श‍ृणुयाद्द्विजवक्त्रात्तु नित्यमेवेति च स्थितिः । किं पुनर्बहुनोक्तेन सारं वक्ष्यामि तत्त्वतः ॥ 25॥ 12,१२.१४,चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।,25,18695,वेदसारमिदं पुण्यं पुराणं द्विजसत्तमाः । वेदपाठसमं पाठे श्रवणे च तथैव हि ॥ 26॥ 12,१२.१४,चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।,26,18696,सच्चिदानन्दरूपां तां गायत्रीप्रतिपादिताम् । नमामि ह्रींमयीं देवीं धियो यो नः प्रचोदयात् ॥ 27॥ 12,१२.१४,चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।,27,18697,इति सूतवचः श्रुत्वा नैमिषीयास्तपोधनाः । पूजयामासुरत्युच्चैः सूतं पौराणिकोत्तमम् ॥ 28॥ 12,१२.१४,चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।,28,18698,प्रसन्नहृदयाः सर्वे देवीपादाम्बुजार्चकाः । निर्वृतिं परमां प्राप्ताः पुराणस्य प्रभावतः ॥ 29॥ 12,१२.१४,चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।,29,18699,नमश्चक्रुः पुनः सूतं क्षमाप्य च मुहुर्मुहुः । संसारवारिधेस्तात प्लवोऽस्माकं त्वमेव हि ॥ 30॥ 12,१२.१४,चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।,30,18700,इति स मुनिवराणामग्रतः श्रावयित्वा सकलनिगमगुह्यं दौर्गमेतत्पुराणम् । नतमथ मुनिसङ्घं वर्धयित्वाऽऽशिषाम्बा- चरणकमलभृङ्गो निर्जगामाथ सूतः ॥ 31॥ 12,१२.१४,चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।,31,18701,इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे श्रीमद्देवीभागवतमहापुराण- श्रवणफलवर्णनं नाम चतुर्दशोऽध्यायः ॥ १२.१४॥