Kanda,Sarga,shlok_no,shlok Bala Kanda,1,1,तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् । नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ।।1.1.1।। Bala Kanda,1,2,कोन्वस्मिन्साम्प्रतं लोके गुणवान्कश्च वीर्यवान् । धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रत:।।1.1.2।। Bala Kanda,1,3,चारित्रेण च को युक्तस्सर्वभूतेषु को हित: । विद्वान्क: कस्समर्थश्च कश्चैकप्रियदर्शन: ।।1.1.3।। Bala Kanda,1,4,आत्मवान्को जितक्रोधो द्युतिमान्कोऽनसूयक: । कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ।।1.1.4।। Bala Kanda,1,5,एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे । महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ।।1.1.5।। Bala Kanda,1,6,श्रुत्वा चैतत्ित्रलोकज्ञो वाल्मीकेर्नारदो वच: । श्रूयतामिति चामन्त्त्र्य प्रहृष्टो वाक्यमब्रवीत् ।।1.1.6।। Bala Kanda,1,7,बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणा: । मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तश्श्रूयतान्नर: ।।1.1.7।। Bala Kanda,1,8,इक्ष्वाकुवंशप्रभवो रामो नाम जनैश्श्रुत: । नियतात्मा महावीर्यो द्युतिमान्धृतिमान् वशी ।।1.1.8।। Bala Kanda,1,9,बुद्धिमान्नीतिमान्वाग्मी श्रीमान् शत्रुनिबर्हण: । विपुलांसो महाबाहु: कम्बुग्रीवो महाहनु: ।।1.1.9।। Bala Kanda,1,10,महोरस्को महेष्वासो गूढजत्रुररिन्दमः । आजानुबाहुस्सुशिरास्सुललाटस्सुविक्रमः ।।1.1.10।। Bala Kanda,1,11,समस्समविभक्ताङ्गस्स्निग्धवर्ण: प्रतापवान् । पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः ।। 1.1.11।। Bala Kanda,1,12,धर्मज्ञस्सत्यसन्धश्च प्रजानां च हिते रतः । यशस्वी ज्ञानसम्पन्नश्शुचिर्वश्यस्समाधिमान् ।।1.1.12।। Bala Kanda,1,13,प्रजापतिसमश्श्रीमान् धाता रिपुनिषूदनः । रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता ।।1.1.13।। Bala Kanda,1,14,रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता । वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः ।।1.1.14।। Bala Kanda,1,15,सर्वशास्त्रार्थतत्त्वज्ञस्स्मृतिमान्प्रतिभानवान् । सर्वलोकप्रियस्साधुरदीनात्मा विचक्षणः ।।1.1.15।। Bala Kanda,1,16,सर्वदाभिगतस्सद्भिस्समुद्र इव सिन्धुभिः । आर्यस्सर्वसमश्चैव सदैकप्रियदर्शनः ।।1.1.16।। Bala Kanda,1,17,स च सर्वगुणोपेत: कौसल्यानन्दवर्धन: । समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ।।1.1.17।। Bala Kanda,1,18,विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः । कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ।।1.1.18।। धनदेन समस्त्यागे सत्ये धर्म इवापरः । Bala Kanda,1,19,तमेवं गुणसम्पन्नं रामं सत्यपराक्रमम् ।।1.1.19।। Bala Kanda,1,20,ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथस्सुतम् । प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया ।।1.1.20।। यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपति: । Bala Kanda,1,21,तस्याभिषेकसम्भारान्दृष्ट्वा भार्याऽथ कैकयी ।।1.1.21।। Bala Kanda,1,22,पूर्वं दत्तवरा देवी वरमेनमयाचत । विवासनं च रामस्य भरतस्याभिषेचनम् ।।1.1.22।। Bala Kanda,1,23,स सत्यवचनाद्राजा धर्मपाशेन संयत: । विवासयामास सुतं रामं दशरथ: प्रियम् ।।1.1.23।। Bala Kanda,1,24,स जगाम वनं वीर: प्रतिज्ञामनुपालयन्। पितुर्वचननिर्देशात्कैकेय्या: प्रियकारणात् ।।1.1.24।। Bala Kanda,1,25,तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह । स्नेहाद्विनयसम्पन्नस्सुमित्रानन्दवर्धन: ।।1.1.25।। भ्रातरं दयितो भ्रातुस्सौभ्रात्रमनुदर्शयन् । Bala Kanda,1,26,रामस्य दयिता भार्या नित्यं प्राणसमा हिता ।।1.1.26।। Bala Kanda,1,27,जनकस्य कुले जाता देवमायेव निर्मिता । सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधू: ।।1.1.27।। सीताप्यनुगता रामं शशिनं रोहिणी यथा । Bala Kanda,1,28,पौरैरनुगतो दूरं पित्रा दशरथेन च ।।1.1.28।। Bala Kanda,1,29,शृङ्गिबेरपुरे सूतं गङ्गाकूले व्यसर्जयत् । गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ।।1.1.29।। गुहेन सहितो रामो लक्ष्मणेन च सीतया । Bala Kanda,1,30,ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदका: ।।1.1.30।। Bala Kanda,1,31,चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् । रम्यमावसथं कृत्वा रममाणा वने त्रय: ।।1.1.31।। देवगन्धर्वसङ्काशास्तत्र ते न्यवसन् सुखम् । Bala Kanda,1,32,चित्रकूटं गते रामे पुत्रशोकातुरस्तथा ।।1.1.32।। राजा दशरथस्स्वर्गं जगाम विलपन्सुतम् । Bala Kanda,1,33,मृते तु तस्मिन्भरतो वसिष्ठप्रमुखैर्द्विजै: ।। 1.1.33।। नियुज्यमानो राज्याय नैच्छद्राज्यं महाबल:। Bala Kanda,1,34,स जगाम वनं वीरो रामपादप्रसादक: ।। 1.1.34 ।। Bala Kanda,1,35,गत्वा तु सुमहात्मानं रामं सत्यपराक्रमम् । अयाचद्भ्रातरं राममार्यभावपुरस्कृत: ।।1.1.35।। त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत् । Bala Kanda,1,36,रामोऽपि परमोदारस्सुमुखस्सुमहायशा: । न चैच्छत्पितुरादेशाद्राज्यं रामो महाबल: ।।1.1.36।। Bala Kanda,1,37,पादुके चास्य राज्याय न्यासं दत्वा पुन:पुन: । निवर्तयामास ततो भरतं भरताग्रज: ।।1.1.37।। Bala Kanda,1,38,स काममनवाप्यैव रामपादावुपस्पृशन् ।।1.1.38।। नन्दिग्रामेऽकरोद्राज्यं रामागमनकाङ्क्षया । Bala Kanda,1,39,गते तु भरते श्रीमान् सत्यसन्धो जितेन्द्रिय: ।।1.1.39।। Bala Kanda,1,40,रामस्तु पुनरालक्ष्य नागरस्य जनस्य च । तत्रागमनमेकाग्रो दण्डकान्प्रविवेश ह ।।1.1.40।। Bala Kanda,1,41,प्रविश्य तु महारण्यं रामो राजीवलोचनः । विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह ।।1.1.41।। सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा । Bala Kanda,1,42,अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् ।।1.1.42।। खड्गं च परमप्रीतस्तूणी चाक्षयसायकौ । Bala Kanda,1,43,वसतस्तस्य रामस्य वने वनचरैस्सह । ऋषयोऽभ्यागमन्सर्वे वधायासुररक्षसाम् ।।1.1.43।। Bala Kanda,1,44,स तेषां प्रतिशुश्राव राक्षसानां तथा वने ।।1.1.44।। Bala Kanda,1,45,प्रतिज्ञातश्च रामेण वधस्संयति रक्षसाम् । ऋषीणामग्निकल्पानां दण्डकारण्यवासिनाम् ।।1.1.45।। Bala Kanda,1,46,तेन तत्रैव वसता जनस्थाननिवासिनी । विरूपिता शूर्पणखा राक्षसी कामरूपिणी ।।1.1.46।। Bala Kanda,1,47,ततश्शूर्पणखावाक्यादुद्युक्तान्सर्वराक्षसान् । खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् ।।1.1.47।। निजघान वने रामस्तेषां चैव पदानुगान् । Bala Kanda,1,48,वने तस्मिन्निवसता जनस्थाननिवासिनाम् ।।1.1.48।। रक्षसां निहतान्यासन्सहस्राणि चतुर्दश । Bala Kanda,1,49,ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः ।।1.1.49।। सहायं वरयामास मारीचं नाम राक्षसम् । Bala Kanda,1,50,वार्यमाणस्सुबहुशो मारीचेन स रावणः ।।1.1.50।। न विरोधो बलवता क्षमो रावण तेन ते । Bala Kanda,1,51,अनादृत्य तु तद्वाक्यं रावण: कालचोदित: ।।1.1.51।। जगाम सह मारीचस्तस्याश्रमपदं तदा । Bala Kanda,1,52,तेन मायाविना दूरमपवाह्य नृपात्मजौ ।।1.1.52।। जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् । Bala Kanda,1,53,गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ।।1.1.53।। राघवश्शोकसन्तप्तो विललापाकुलेन्द्रिय: । Bala Kanda,1,54,ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् ।।1.1.54।। Bala Kanda,1,55,मार्गमाणो वने सीतां राक्षसं सन्ददर्श ह । कबन्धन्नाम रूपेण विकृतं घोरदर्शनम् ।।1.1.55।। Bala Kanda,1,56,तं निहत्य महाबाहुर्ददाह स्वर्गतश्च स: । स चास्य कथयामास शबरीं धर्मचारिणीम् ।।1.1.56।। श्रमणीं धर्मनिपुणामभिगच्छेति राघव । 1151 Bala Kanda,1,57,सोऽभ्यगच्छन्महातेजाश्शबरीं शत्रुसूदन: ।।1.1.57।। शबर्या पूजितस्सम्यग्रामो दशरथात्मज: । Bala Kanda,1,58,पम्पातीरे हनुमता सङ्गतो वानरेण ह ।।1.1.58।। हनुमद्वचनाच्चैव सुग्रीवेण समागत: । Bala Kanda,1,59,सुग्रीवाय च तत्सर्वं शंसद्रामो महाबल: ।।1.1.59।। आदितस्तद्यथावृत्तं सीतायाश्च विशेषत: । Bala Kanda,1,60,सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानर: ।।1.1.60।। चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम् । Bala Kanda,1,61,ततो वानरराजेन वैरानुकथनं प्रति ।।1.1.61।। रामायावेदितं सर्वं प्रणयाद्दु:खितेन च । Bala Kanda,1,62,प्रतिज्ञातं च रामेण तदा वालिवधं प्रति ।।1.1.62।। वालिनश्च बलं तत्र कथयामास वानर: । Bala Kanda,1,63,सुग्रीवश्शङ्कितश्चासीन्नित्यं वीर्येण राघवे ।।1.1.63।। Bala Kanda,1,64,राघवप्रत्ययार्थं तु दुन्दुभे: कायमुत्तमम् । दर्शयामास सुग्रीवो महापर्वतसन्निभम् ।।1.1.64।। Bala Kanda,1,65,उत्स्मयित्वा महाबाहु: प्रेक्ष्य चास्थि महाबल: । पादाङ्गुष्ठेन चिक्षेप सम्पूर्णं दशयोजनम् ।।1.1.65।। Bala Kanda,1,66,बिभेद च पुनस्सालान्सप्तैकेन महेषुणा । गिरिं रसातलं चैव जनयन्प्रत्ययं तथा ।।1.1.66।। Bala Kanda,1,67,तत: प्रीतमनास्तेन विश्वस्तस्स महाकपि: । किष्किन्धां रामसहितो जगाम च गुहां तदा ।।1.1.67।। Bala Kanda,1,68,ततोऽगर्जद्धरिवर: सुग्रीवो हेमपिङ्गल: । तेन नादेन महता निर्जगाम हरीश्वर: ।।1.1.68।। Bala Kanda,1,69,अनुमान्य तदा तारां सुग्रीवेण समागत: । निजघान च तत्रैनं शरेणैकेन राघव: ।।1.1.69।। Bala Kanda,1,70,ततस्सुग्रीववचनाद्धत्वा वालिनमाहवे । सुग्रीवमेव तद्राज्ये राघव: प्रत्यपादयत् ।।1.1.70।। Bala Kanda,1,71,स च सर्वान्समानीय वानरान्वानरर्षभ: । दिश: प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ।।1.1.71।। Bala Kanda,1,72,ततो गृध्रस्य वचनात्सम्पातेर्हनुमान्बली। शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम्।।1.1.72।। Bala Kanda,1,73,तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् । ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम् ।।1.1.73।। Bala Kanda,1,74,निवेदयित्वाऽऽभिज्ञानं प्रवृत्तिं च निवेद्य च । समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ।।1.1.74।। Bala Kanda,1,75,पञ्च सेनाग्रगान्हत्वा सप्तमन्त्रिसुतानपि । शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् ।।1.1.75।। Bala Kanda,1,76,अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद्वरात् । मर्षयन्राक्षसान्वीरो यन्त्रिणस्तान्यदृच्छया ।।1.1.76।। Bala Kanda,1,77,ततो दग्ध्वा पुरीं लङ्कामृते सीतां च मैथिलीम् । रामाय प्रियमाख्यातुं पुनरायान्महाकपि: ।।1.1.77।। Bala Kanda,1,78,सोऽधिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् । न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वत: ।।1.1.78।। Bala Kanda,1,79,ततस्सुग्रीवसहितो गत्वा तीरं महोदधे: । समुद्रं क्षोभयामास शरैरादित्यसन्निभै: ।।1.1.79।। Bala Kanda,1,80,दर्शयामास चात्मानं समुद्रस्सरितां पति: । समुद्रवचनाच्चैव नलं सेतुमकारयत् ।।1.1.80।। Bala Kanda,1,81,तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे । राम: सीतामनुप्राप्य परां व्रीडामुपागमत् ।।1.1.81।। Bala Kanda,1,82,तामुवाच ततो राम: परुषं जनसंसदि । अमृष्यमाणा सा सीता विवेश ज्वलनं सती ।।1.1.82।। Bala Kanda,1,83,ततोऽग्निवचनात्सीतां ज्ञात्वा विगतकल्मषाम् । बभौ रामस्सम्प्रहृष्ट: पूजितस्सर्वदैवतै: ।।1.1.83।। Bala Kanda,1,84,कर्मणा तेन महता त्रैलोक्यं सचराचरम् । सदेवर्षिगणं तुष्टं राघवस्य महात्मन: ।।1.1.84।। Bala Kanda,1,85,अभिषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम् । कृतकृत्यस्तदा रामो विज्वर: प्रमुमोद ह ।।1.1.85।। Bala Kanda,1,86,देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान् । अयोध्यां प्रस्थितो राम: पुष्पकेण सुहृद्वृत: ।।1.1.86।। Bala Kanda,1,87,भरद्वाजाश्रमं गत्वा रामस्सत्यपराक्रम: । भरतस्यान्तिकं रामो हनूमन्तं व्यसर्जयत् ।।1.1.87।। Bala Kanda,1,88,पुनराख्यायिकां जल्पन्सुग्रीवसहितश्च स: । पुष्पकं तत्समारुह्य नन्दिग्रामं ययौ तदा ।।1.1.88।। Bala Kanda,1,89,नन्दिग्रामे जटां हित्वा भ्रातृभिस्सहितोऽनघ: । रामस्सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ।।1.1.89।। Bala Kanda,1,90,प्रहृष्टमुदितो लोकस्तुष्ट: पुष्टस्सुधार्मिक: । निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जित: ।।1.1.90।। Bala Kanda,1,91,न पुत्रमरणं किञ्चिद्द्रक्ष्यन्ति पुरुषा: क्वचित् । नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रता: ।।1.1.91।। Bala Kanda,1,92,न चाग्निजं भयं किञ्चिन्नाप्सु मज्जन्ति जन्तव: । न वातजं भयं किञ्चिन्नापि ज्वरकृतं तथा ।।1.1.92।। न चापि क्षुद्भयं तत्र न तस्करभयं तथा । Bala Kanda,1,93,नगराणि च राष्ट्राणि धनधान्ययुतानि च ।।1.1.93।। नित्यं प्रमुदितास्सर्वे यथा कृतयुगे तथा । Bala Kanda,1,94,अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकै: ।।1.1.94।। Bala Kanda,1,95,गवां कोट्ययुतं दत्वा ब्रह्मलोकं प्रयास्यति । असंख्येयं धनं दत्वा ब्राह्मणेभ्यो महायशा: ।।1.1.95।। Bala Kanda,1,96,राजवंशान्शतगुणान्स्थापयिष्यति राघव: । चातुर्वर्ण्यं च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ।।1.1.96।। Bala Kanda,1,97,दशवर्षसहस्राणि दशवर्षशतानि च । रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति ।। 1.1.97।। Bala Kanda,1,98,इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम् । य: पठेद्रामचरितं सर्वपापै: प्रमुच्यते ।।1.1.98।। Bala Kanda,1,99,एतदाख्यानमायुष्यं पठन्रामायणं नर: । सपुत्रपौत्रस्सगण: प्रेत्य स्वर्गे महीयते ।। 1.1.99।। Bala Kanda,1,100,पठन्द्विजो वागृषभत्वमीयात् स्यात्क्षत्रियो भूमिपतित्वमीयात् । वणिग्जन: पण्यफलत्वमीयात् जनश्च शूद्रोऽपि महत्वमीयात् ।।1.1.100।। Bala Kanda,2,1,नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारद:। पूजयामास धर्मात्मा सहशिष्यो महामुनि: ।।1.2.1।। Bala Kanda,2,2,यथावत्पूजितस्तेन देवर्षिर्नारदस्तदा । आपृष्ट्वैवाभ्यनुज्ञातस्स जगाम विहायसम् ।।1.2.2।। Bala Kanda,2,3,स मुहूर्तं गते तस्मिन्देवलोकं मुनिस्तदा । जगाम तमसातीरं जाह्नव्यास्त्वविदूरत: ।।1.2.3।। Bala Kanda,2,4,स तु तीरं समासाद्य तमसाया महामुनि: । शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम् ।।1.2.4।। Bala Kanda,2,5,अकर्दममिदं तीर्थं भरद्वाज निशामय । रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा ।।1.2.5।। Bala Kanda,2,6,न्यस्यतां कलशस्तात दीयतां वल्कलं मम । इदमेवावगाहिष्ये तमसातीर्थमुत्तमम् ।।1.2.6।। Bala Kanda,2,7,एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना । प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरो: ।।1.2.7।। Bala Kanda,2,8,स शिष्यहस्तादादाय वल्कलं नियतेन्द्रिय: । विचचार ह पश्यंस्तत्सर्वतो विपुलं वनम् ।।1.2.8।। Bala Kanda,2,9,तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम् । ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिस्वनम् ।।1.2.9।। Bala Kanda,2,10,तस्मात्तु मिथुनादेकं पुमांसं पापनिश्चय: । जघान वैरनिलयो निषादस्तस्य पश्यत: ।।1.2.10।। Bala Kanda,2,11,तं शोणितपरीताङ्गं वेष्टमानं महीतले । भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम् ।।1.2.11।। Bala Kanda,2,12,वियुक्ता पतिना तेन द्विजेन सहचारिणा । ताम्रशीर्षेण मत्तेन पत्रिणा सहितेन वै ।।1.2.12।। Bala Kanda,2,13,तदा तु तं द्विजं दृष्ट्वा निषादेन निपातितम् । ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत ।।1.2.13।। Bala Kanda,2,14,तत: करुणवेदित्वादधर्मोऽयमिति द्विज: । निशाम्य रुदतीं क्रौञ्चीमिदं वचनमब्रवीत् ।।1.2.14।। Bala Kanda,2,15,मा निषाद प्रतिष्ठां त्वमगमश्शाश्वतीस्समा: । यत्क्रौञ्चमिथुनादेकमवधी: काममोहितम् ।।1.2.15।। 15 Bala Kanda,2,16,तस्यैवं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः । शोकार्तेनास्य शकुने: किमिदं व्याहृतं मया ।।1.2.16।। Bala Kanda,2,17,चिन्तयन्स महाप्राज्ञश्चकार मतिमान्मतिम् । शिष्यं चैवाऽब्रवीद्वाक्यमिदं स मुनिपुङ्गव: ।।1.2.17।। Bala Kanda,2,18,पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वित: । शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ।।1.2.18।। Bala Kanda,2,19,शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम् । प्रतिजग्राह संहृष्टस्तस्य तुष्टोऽभवद्गुरु: ।।1.2.19।। Bala Kanda,2,20,सोऽभिषेकं तत: कृत्वा तीर्थे तस्मिन्यथाविधि । तमेव चिन्तयन्नर्थमुपावर्तत वै मुनि: ।।1.2.20।। Bala Kanda,2,21,भरद्वाजस्ततश्शिष्यो विनीतश्श्रुतवान्मुनेः । कलशं पूर्णमादाय पृष्ठतोऽनुजगाम ह ।।1.2.21।। Bala Kanda,2,22,स प्रविश्याश्रमपदं शिष्येण सह धर्मवित् । उपविष्ट: कथाश्चान्याश्चकार ध्यानमास्थित: ।।1.2.22।। Bala Kanda,2,23,आजगाम ततो ब्रह्मा लोककर्ता स्वयं प्रभु: । चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुङ्गवम् ।।1.2.23।। Bala Kanda,2,24,वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यत: । प्राञ्जलि: प्रयतो भूत्वा तस्थौ परमविस्मित: ।।1.2.24।। Bala Kanda,2,25,पूजयामास तं देवं पाद्यार्घ्यासनवन्दनै: । प्रणम्य विधिवच्चैनं पृष्ट्वाऽनामयमव्ययम् ।।1.2.25।। Bala Kanda,2,26,अथोपविश्य भगवानासने परमार्चिते । वाल्मीकये महर्षये सन्दिदेशासनं तत: ।।1.2.26।। Bala Kanda,2,27,ब्रह्मणा समनुज्ञातस्सोऽप्युपाविशदासने । उपविष्टे तदा तस्मिन्सर्वलोकपितामहे। तद्गतेनैव मनसा वाल्मीकिर्ध्यानमास्थित: ।।1.2.27।। Bala Kanda,2,28,पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना । यस्तादृशं चारुरवं क्रौञ्चं हन्यादकारणात् ।।1.2.28।। Bala Kanda,2,29,शोचन्नेव मुहु: क्रौञ्चीमुपश्लोकमिमं पुन: । जगावन्तर्गतमना भूत्वा शोकपरायण: ।।1.2.29।। Bala Kanda,2,30,तमुवाच ततो ब्रह्मा प्रहसन्मुनिपुङ्गवम् । श्लोक एव त्वया बद्धो नात्र कार्या विचारणा ।।1.2.30।। Bala Kanda,2,31,मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती । रामस्य चरितं सर्वं कुरु त्वमृषिसत्तम ।।1.2.31।। Bala Kanda,2,32,धर्मात्मनो गुणवतो लोके रामस्य धीमत: । वृत्तं कथय धीरस्य यथा ते नारदाच्छ्रुतम् ।।1.2.32।। Bala Kanda,2,33,रहस्यं च प्रकाशं च यद्वृत्तं तस्य धीमत: । रामस्य सहसौमित्रेः राक्षसानां च सर्वश: ।।1.2.33।। Bala Kanda,2,34,वैदेह्याश्चैव यद्वृत्तं प्रकाशं यदि वा रह: । तच्चाप्यविदितं सर्वं विदितं ते भविष्यति ।।1.2.34।। Bala Kanda,2,35,न ते वागनृता काव्ये काचिदत्र भविष्यति । कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम् ।।1.2.35।। Bala Kanda,2,36,यावत् स्थास्यन्ति गिरयस्सरितश्च महीतले । तावद्रामायणकथा लोकेषु प्रचरिष्यति ।।1.2.36।। Bala Kanda,2,37,यावद्रामायणकथा त्वत्कृता प्रचरिष्यति । तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि ।।1.2.37।। Bala Kanda,2,38,इत्युक्त्वा भगवान्ब्रह्मा तत्रैवान्तरधीयत । ततस्सशिष्यो भगवान्मुनिर्विस्मयमाययौ ।।1.2.38।। Bala Kanda,2,39,तस्य शिष्यास्ततस्सर्वे जगुश्श्लोकमिमं पुन: । मुहुर्मुहु: प्रीयमाणा: प्राहुश्च भृशविस्मिता: ।।1.2.39।। Bala Kanda,2,40,समाक्षरैश्चतुर्भिर्य: पादैर्गीतो महर्षिणा । सोऽनुव्याहरणाद्भूयश्श्लोकश्श्लोकत्वमागत: ।।1.2.40।। Bala Kanda,2,41,तस्य बुद्धिरियं जाता वाल्मीकेर्भावितात्मन: । कृत्स्नं रामायणं काव्यमीदृशै: करवाण्यहम् ।।1.2.41।। Bala Kanda,2,42,उदारवृत्तार्थपदैर्मनोरमैः तदास्य रामस्य चकारकीर्तिमान् । समाक्षरैश्श्लोकशतैर्यशस्विनो यशस्करं काव्यमुदारधीर्मुनि: ।।1.2.42।। Bala Kanda,2,43,तदुपगतसमाससन्धियोगं सममधुरोपनतार्थवाक्यबद्धम् । रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम् ।।1.2.43।। Bala Kanda,3,1,श्रुत्वा वस्तु समग्रं तद्धर्मात्मा धर्मसंहितम् । व्यक्तमन्वेषते भूयो यद्वृत्तं तस्य धीमत: ।।1.3.1।। Bala Kanda,3,2,उपस्पृश्योदकं सम्यग्मुनिस्स्थित्वा कृताञ्जलि: । प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम् ।।1.3.2।। Bala Kanda,3,3,रामलक्ष्मणसीताभी राज्ञा दशरथेन च । सभार्येण सराष्ट्रेण यत्प्राप्तं तत्र तत्त्वत: ।।1.3.3।। Bala Kanda,3,4,हसितं भाषितं चैव गतिर्या यच्च चेष्टितम् । तत्सर्वं धर्मवीर्येण यथावत्सम्प्रपश्यति ।।1.3.4।। Bala Kanda,3,5,स्त्रीतृतीयेन च तदा यत्प्राप्तं चरता वने । सत्यसन्धेन रामेण तत्सर्वं चान्ववेक्षितम् ।।1.3.5।। Bala Kanda,3,6,तत: पश्यति धर्मात्मा तत्सर्वं योगमास्थित: । पुरा यत्तत्र निर्वृत्तं पाणावामलकं यथा ।।1.3.6।। Bala Kanda,3,7,तत्सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महाद्युति: । अभिरामस्य रामस्य चरितं कर्तुमुद्यत: ।।1.3.7।। Bala Kanda,3,8,कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरम् । समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम् ।।1.3.8।। Bala Kanda,3,9,स यथा कथितं पूर्वं नारदेन महर्षिणा । रघुवंशस्य चरितं चकार भगवानृषिः ।।1.3.9।। Bala Kanda,3,10,जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम् । लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम् ।।1.3.10।। Bala Kanda,3,11,नानाचित्रकथाश्चान्या विश्वामित्रसमागमे । जानक्याश्च विवाहं च धनुषश्च विभेदनम् ।।1.3.11।। Bala Kanda,3,12,रामरामविवादं च गुणान्दाशरथेस्तथा । तथाऽभिषेकं रामस्य कैकेय्या दुष्टभावताम् ।।1.3.12।। Bala Kanda,3,13,विघातं चाभिषेकस्य राघवस्य विवासनम् । राज्ञश्शोकविलापं च परलोकस्य चाश्रयम् ।।1.3.13।। Bala Kanda,3,14,प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् । निषादाधिपसंवादं सूतोपावर्तनं तथा ।।1.3.14।। Bala Kanda,3,15,गङ्गायाश्चापि सन्तारं भरद्वाजस्य दर्शनम् । भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम् ।।1.3.15।। Bala Kanda,3,16,वास्तुकर्म निवेशं च भरतागमनं तथा । प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् ।।1.3.16।। Bala Kanda,3,17,पादुकाग्र्याभिषेकं च नन्दिग्रामनिवासनम् । दण्डकारण्यगमनं विराधस्य वधं तथा ।।1.3.17।। Bala Kanda,3,18,दर्शनं शरभङ्गस्य सुतीक्ष्णेन समागमम् । अनसूयासहास्यामप्यङ्गरागस्य चार्पणम् ।।1.3.18।। Bala Kanda,3,19,अगस्त्यदर्शनं चैव जटायोरभिसङ्गमम् । पञ्चवट्याश्च गमनं शूर्पणख्याश्च दर्शनम् ।।1.3.19।। Bala Kanda,3,20,शूर्पणख्याश्च संवादं विरूपकरणं तथा । वधं खरत्रिशिरसोरुत्थानं रावणस्य च ।।1.3.20।। Bala Kanda,3,21,मारीचस्य वधं चैव वैदेह्या हरणं तथा । राघवस्य विलापं च गृध्रराजनिबर्हणम् ।।1.3.21।। Bala Kanda,3,22,कबन्धदर्शनं चापि पम्पायाश्चापि दर्शनम् । शबर्या: दर्शनं चैव हनूमद्दर्शनं तथा ।।1.3.22।। Bala Kanda,3,23,ऋश्यमूकस्य गमनं सुग्रीवेण समागमम् । प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् ।।1.3.23।। Bala Kanda,3,24,वालिप्रमथनं चैव सुग्रीवप्रतिपादनम् । ताराविलापं समयं वर्षरात्रनिवासनम् ।।1.3.24।। Bala Kanda,3,25,कोपं राघवसिंहस्य बलानामुपसङ्ग्रहम् । दिश: प्रस्थापनं चैव पृथिव्याश्च निवेदनम् ।।1.3.25।। Bala Kanda,3,26,अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम् । प्रायोपवेशनं चापि सम्पातेश्चापि दर्शनम् ।।1.3.26।। Bala Kanda,3,27,पर्वतारोहणं चापि सागरस्यापि लङ्घनम् । समुद्रवचनाच्चैव मैनाकस्य च दर्शनम् ।।1.3.27।। Bala Kanda,3,28,सिंहिकायाश्च निधनं लङ्कामलयदर्शनम् । रात्रौ लङ्काप्रवेशं च एकस्याथ विचिन्तनम् ।।1.3.28।। Bala Kanda,3,29,दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम् । आपानभूमिगमनमवरोधस्य दर्शनम्।।1.3.29।। Bala Kanda,3,30,अशोकवनिकायानं सीतायाश्चपि दर्शनम् । अभिज्ञानप्रदानं च रावणस्य च दर्शनम् ।।1.3.30।। Bala Kanda,3,31,राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् । मणिप्रदानं सीताया वृक्षभङ्गं तथैव च ।।1.3.31।। Bala Kanda,3,32,राक्षसीविद्रवं चैव किङ्कराणां निबर्हणम् । ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम् ।।1.3.32।। Bala Kanda,3,33,प्रतिप्लवनमेवाथ मधूनां हरणं तथा । राघवाश्वासनं चापि मणिनिर्यातनं तथा ।।1.3.33।। Bala Kanda,3,34,सङ्गमं च समुद्रेण नलसेतोश्च बन्धनम् । प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम् ।।1.3.34।। Bala Kanda,3,35,विभीषणेन संसर्गं वधोपायनिवेदनम् । कुम्भकर्णस्य निधनं मेघनादनिबर्हणम् ।।1.3.35।। Bala Kanda,3,36,रावणस्य विनाशं च सीतावाप्तिमरे: पुरे । विभीषणाभिषेकं च पुष्पकस्य च दर्शनम् ।।1.3.36।। Bala Kanda,3,37,अयोध्यायाश्च गमनं भरतेन समागमम् । रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम्। स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम्।।1.3.37।। Bala Kanda,3,38,अनागतं च यत्किञ्चिद्रामस्य वसुधातले । तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषि: ।।1.3.38।। Bala Kanda,4,1,प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषि:। चकार चरितं कृत्स्नं विचित्रपदमात्मवान्।।1.4.1।। Bala Kanda,4,2,चतुर्विंशत्सहस्राणि श्लोकानामुक्तवानृषि:। तथा सर्गशतान्पञ्च षट्काण्डानि तथोत्तरम् ।।1.4.2।। Bala Kanda,4,3,कृत्वापि तन्महाप्राज्ञस्सभविष्यं सहोत्तरम्। चिन्तयामास कोन्वेतत्प्रयुञ्जीयादिति प्रभु:।।1.4.3।। Bala Kanda,4,4,तस्य चिन्तयमानस्य महर्षेर्भावितात्मन:। अगृह्णीतां तत: पादौ मुनिवेषौ कुशीलवौ ।।1.4.4।। Bala Kanda,4,5,कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ। भ्रातरौ स्वरसम्पन्नौ ददर्शाश्रमवासिनौ ।।1.4.5।। Bala Kanda,4,6,स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ। वेदोपबृंहणार्थाय तावग्राहयत प्रभु:।।1.4.6।। Bala Kanda,4,7,काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत्। पौलस्त्यवधमित्येव चकार चरितव्रत:।।1.4.7।। Bala Kanda,4,8,पाठ्ये गेये च मधुरं प्रमाणैस्त्रिभिरन्वितम्। जातिभिस्सप्तभिर्बद्धं तन्त्रीलयसमन्वितम्।।1.4.8।। Bala Kanda,4,9,रसैश्शृङ्गारकारुण्यहास्यवीरभयानकै:। रौद्रादिभिश्च संयुक्तं काव्यमेतदगायताम्।।1.4.9।। Bala Kanda,4,10,तौ तु गान्धर्वतत्त्वज्ञौ मूर्छनास्थानकोविदौ। भ्रातरौ स्वरसम्पन्नौ गन्धर्वाविव रूपिणौ।।1.4.10।। Bala Kanda,4,11,रूपलक्षणसम्पन्नौ मधुरस्वरभाषिणौ। बिम्बादिवोद्धृतौ बिम्बौ रामदेहात्तथाऽपरौ।।1.4.11।। Bala Kanda,4,12,तौ राजपुत्रौ कार्त्स्न्येन धर्म्यमाख्यानमुत्तमम्। वाचोविधेयं तत्सर्वं कृत्वा काव्यमनिन्दितौ।।1.4.12।। Bala Kanda,4,13,ऋषीणां च द्विजातीनां साधूनां च समागमे। यथोपदेशं तत्त्वज्ञौ जगतुस्सुसमाहितौ।।1.4.13।। Bala Kanda,4,14,महात्मानौ महाभागौ सर्वलक्षणलक्षितौ। तौ कदाचित्समेतानामृषीणां भावितात्मनाम्। आसीनानां समीपस्थाविदं काव्यमगायताम्।।1.4.14।। Bala Kanda,4,15,तच्छ्रुत्वा मुनयस्सर्वे बाष्पपर्याकुलेक्षणा:। साधुसाध्विति तावूचु: परं विस्मयमागता:।।1.4.15।। Bala Kanda,4,16,ते प्रीतमनसस्सर्वे मुनयो धर्मवत्सला:। प्रशशंसु: प्रशस्तव्यौ गायमानौ कुशीलवौ।।1.4.16।। Bala Kanda,4,17,अहो गीतस्य माधुर्यं श्लोकानां च विशेषत:। चिरनिर्वृत्तमप्येतत्प्रत्यक्षमिव दर्शितम्।।1.4.17।। Bala Kanda,4,18,प्रविश्य तावुभौ सुष्ठु भावं सम्यगगायताम्। सहितौ मधुरं रक्तं सम्पन्नं स्वरसम्पदा।।1.4.18।। Bala Kanda,4,19,एवं प्रशस्यमानौ तौ तपश्श्लाघ्यैर्महात्मभि:। संरक्ततरमत्यर्थं मधुरं तावगायताम्।।1.4.19।। Bala Kanda,4,20,प्रीत: कश्चिन्मुनिस्ताभ्यां संस्थित: कलशं ददौ। प्रसन्नो वल्कलं कश्चिद्ददौ ताभ्यां महायशा:।।1.4.20।। Bala Kanda,4,21,आश्चर्यमिदमाख्यानं मुनिना सम्प्रकीर्तितम्। परं कवीनामाधारं समाप्तं च यथाक्रमम्।।1.4.21।। Bala Kanda,4,22,अभिगीतमिदं गीतं सर्वगीतेषु कोविदौ। आयुष्यं पुष्टिजनकं सर्वश्रुतिमनोहरम्।।1.4.22।। Bala Kanda,4,23,प्रशस्यमानौ सर्वत्र कदाचित्तत्र गायकौ । रथ्यासु राजमार्गेषु ददर्श भरताग्रज:।।1.4.23।। Bala Kanda,4,24,स्ववेश्म चानीय तदा भ्रातरौ स कुशीलवौ। पूजयामास पूजार्हौ रामश्शत्रुनिबर्हण:।।1.4.24।। Bala Kanda,4,25,आसीन: काञ्चने दिव्ये स च सिंहासने प्रभु:। उपोपविष्टस्सचिवैर्भ्रातृभिश्च परन्तप:।।1.4.25।। Bala Kanda,4,26,दृष्ट्वा तु रूपसम्पन्नौ तावुभौ नियतस्तथा। उवाच लक्ष्मणं रामश्शत्रुघ्नं भरतं तदा।।1.4.26।। Bala Kanda,4,27,श्रूयतामिदमाख्यानमनयोर्देववर्चसो:। विचित्रार्थपदं सम्यग्गायकौ तावचोदयत्।।1.4.27।। Bala Kanda,4,28,तौ चापि मधुरं रक्तं स्वञ्चितायतनिस्वनम् । तन्त्रीलयवदत्यर्थं विश्रुतार्थमगायताम् ।।1.4.28।। Bala Kanda,4,29,ह्लादयत्सर्वगात्राणि मनांसि हृदयानि च। श्रोत्राश्रयसुखं गेयं तद्बभौ जनसंसदि।।1.4.29।। Bala Kanda,4,30,इमौ मुनी पार्थिवलक्षणान्वितौ कुशीलवौ चैव महातपस्विनौ। ममापि तद्भूतिकरं प्रवक्ष्यते महानुभावं चरितं निबोधत।।1.4.30।। Bala Kanda,4,31,ततस्तु तौ रामवच:प्रचोदितावगायतां मार्गविधानसम्पदा। स चापि राम: परिषद्गतः शनैर्बुभूषयासक्तमना बभूव।।1.4.31।। Bala Kanda,5,1,. सर्वा पूर्वमियं येषामासीत्कृत्स्ना वसुन्धरा । प्रजापतिमुपादाय नृपाणां जयशालिनाम् ।।1.5.1।। Bala Kanda,5,2,येषां स सगरो नाम सागरो येन खानित: । षष्टि: पुत्रसहस्राणि यं यान्तं पर्यवारयन् ।।1.5.2।। Bala Kanda,5,3,इक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम् । महदुत्पन्नमाख्यानं रामायणमिति श्रुतम् ।।1.5.3।। Bala Kanda,5,4,तदिदं वर्तयिष्यामि सर्वं निखिलमादित: । धर्मकामार्थसहितं श्रोतव्यमनसूयया ।।1.5.4।। Bala Kanda,5,5,कोसलो नाम मुदितस्स्फीतो जनपदो महान् । निविष्टस्सरयूतीरे प्रभूतधनधान्यवान् ।।1.5.5।। Bala Kanda,5,6,अयोध्या नाम नगरी तत्रासील्लोकविश्रुता । मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ।।1.5.6।। Bala Kanda,5,7,आयता दश च द्वे च योजनानि महापुरी । श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा ।।1.5.7।। Bala Kanda,5,8,राजमार्गेण महता सुविभक्तेन शोभिता । मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यश: ।।1.5.8।। Bala Kanda,5,9,तां तु राजा दशरथो महाराष्ट्रविवर्धन: । पुरीमावासयामास दिवं देवपतिर्यथा ।।1.5.9।। Bala Kanda,5,10,कवाटतोरणवतीं सुविभक्तान्तरापणाम् । सर्वयन्त्रायुधवतीमुपेतां सर्वशिल्पिभि: ।।1.5.10।। Bala Kanda,5,11,सूतमागधसम्बाधां श्रीमतीमतुलप्रभाम् । उच्चाट्टालध्वजवतीं शतघ्नीशतसङ्कुलाम् ।।1.5.11।। Bala Kanda,5,12,वधूनाटकसङ्घैश्च संयुक्तां सर्वत: पुरीम् । उद्यानाम्रवणोपेतां महतीं सालमेखलाम् ।।1.5.12।। Bala Kanda,5,13,दुर्गगम्भीरपरिघां दुर्गामन्यैर्दुरासदाम् । वाजिवारणसम्पूर्णां गोभिरुष्ट्रै: खरैस्तथा ।।1.5.13।। Bala Kanda,5,14,सामन्तराजसङ्घैश्च बलिकर्मभिरावृताम् । नानादेशनिवासैश्च वणिग्भिरुपशोभिताम् ।।1.5.14।। Bala Kanda,5,15,प्रासादै रत्नविकृतै: पर्वतैरुपशोभिताम् । कूटागारैश्च सम्पूर्णामिन्द्रस्येवामरावतीम् ।।1.5.15।। Bala Kanda,5,16,चित्रामष्टापदाकारां नरनारीगणैर्युताम् । सर्वरत्नसमाकीर्णां विमानगृहशोभिताम् ।।1.5.16।। Bala Kanda,5,17,गृहगाढामविच्छिद्रां समभूमौ निवेशिताम् । शालितण्डुलसम्पूर्णामिक्षुकाण्डरसोदकाम् ।।1.5.17।। Bala Kanda,5,18,दुन्दुभीभिर्मृदङ्गैश्च वीणाभि: पणवैस्तथा । नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम् ।।1.5.18।। Bala Kanda,5,19,विमानमिव सिद्धानां तपसाधिगतं दिवि । सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम् ।।1.5.19।। Bala Kanda,5,20,ये च बाणैर्न विध्यन्ति विविक्तमपरापरम् । शब्दवेध्यं च विततं लघुहस्ता विशारदा: ।।1.5.20।। Bala Kanda,5,21,सिंहव्याघ्रवराहाणां मत्तानां नर्दतां वने । हन्तारो निशितैश्शस्त्रैर्बलाद्बाहुबलैरपि ।।1.5.21।। Bala Kanda,5,22,तादृशानां सहस्रैस्तामभिपूर्णां महारथै: । पुरीमावासयामास राजा दशरथस्तदा ।।1.5.22।। Bala Kanda,5,20,ये च बाणैर्न विध्यन्ति विविक्तमपरापरम् । शब्दवेध्यं च विततं लघुहस्ता विशारदा: ।।1.5.20।। Bala Kanda,5,23,तामग्निमद्भिर्गुणवद्भिरावृतां द्विजोत्तमैर्वेदषडङ्गपारगै: । सहस्रदैस्सत्यरतैर्महात्मभि र्महर्षिकल्पै ऋषिभिश्च केवलै: ।।1.5.23।। Bala Kanda,6,1,. तस्यां पुर्यामयोध्यायां वेदवित्सर्वसङ्ग्रह: । दीर्घदर्शी महातेजा: पौरजानपदप्रिय: ।।1.6.1।। Bala Kanda,6,2,इक्ष्वाकूणामतिरथो यज्वा धर्मरतो वशी । महर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुत: ।।1.6.2।। Bala Kanda,6,3,बलवान्निहतामित्रो मित्रवान्विजितेन्द्रिय: । धनैश्च सङ्ग्रहैश्चान्यैश्शक्रवैश्रवणोपम: ।।1.6.3।। यथा मनुर्महातेजा लोकस्य परिरक्षिता । तथा दशरथो राजा वसञ्जगदपालयत् ।। 1.6.4।। Bala Kanda,6,5,तेन सत्याभिसन्धेन त्रिवर्गमनुतिष्ठता । पालिता सा पुरी श्रेष्ठा इन्द्रेणेवामरावती ।।1.6.5।। Bala Kanda,6,6,तस्मिन्पुरवरे हृष्टा धर्मात्मानो बहुश्रुता: । नरास्तुष्टा धनैस्स्वैस्स्वैरलुब्धास्सत्यवादिन: ।।1.6.6।। Bala Kanda,6,7,नाल्पसन्निचय: कश्चिदासीत्तस्मिन् पुरोत्तमे । कुटुम्बी यो ह्यसिद्धार्थोऽगवाश्वधनधान्यवान् ।।1.6.7।। Bala Kanda,6,8,कामी वा न कदर्यो वा नृशंस: पुरुष: क्वचित् । द्रष्टुं शक्यमयोध्यायान्नाविद्वान्न च नास्तिक: ।।1.6.8।। Bala Kanda,6,9,सर्वे नराश्च नार्यश्च धर्मशीलास्सुसंयता: । उदिताश्शीलवृत्ताभ्यां महर्षय इवामला: ।।1.6.9।। Bala Kanda,6,10,नाकुण्डली नामकुटी नास्रग्वी नाल्पभोगवान् । नामृष्टो नानुलिप्ताङ्गो नासुगन्धश्च विद्यते ।।1.6.10।। Bala Kanda,6,11,नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक् । नाहस्ताभरणो वाऽपि दृश्यते नाप्यनात्मवान् ।।1.6.11।। Bala Kanda,6,12,नानाहिताग्निर्नायज्वा न क्षुद्रो वा न तस्कर: । कश्चिदासीदयोध्यायान्न च निर्वृत्तसङ्कर: ।।1.6.12।। Bala Kanda,6,13,स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रिया: । दानाध्ययनशीलाश्च संयताश्च परिग्रहे ।।1.6.13।। Bala Kanda,6,14,न नास्तिको नानृतको न कश्चिदबहुश्रुत: । नासूयको न चाऽशक्तो नाविद्वान्विद्यते तदा ।।1.6.14।। Bala Kanda,6,15,नाषडङ्गविदत्रासीन्नाव्रतो नासहस्रद: । न दीन: क्षिप्तचित्तो वा व्यथितो वाऽपि कश्चन ।।1.6.15।। Bala Kanda,6,16,कश्चिन्नरो वा नारी वा नाश्रीमान्नाप्यरूपवान् । द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान् ।।1.6.16।। Bala Kanda,6,17,वर्णेष्वग्र्यचतुर्थेषु देवतातिथिपूजका:। कृतज्ञाश्च वदान्याश्च शूरा विक्रमसंयुता: ।।1.6.17।। Bala Kanda,6,18,दीर्घायुषो नरास्सर्वे धर्मं सत्यं च संश्रिता: । सहिता: पुत्रपौत्रैश्च नित्यं स्त्रीभि: पुरोत्तमे ।।1.6.18।। Bala Kanda,6,19,क्षत्रं ब्रह्ममुखं चासीद्वैश्या: क्षत्रमनुव्रता: । शूद्रास्स्वधर्मनिरतास्त्रीन्वर्णानुपचारिण: ।।1.6.19।। Bala Kanda,6,20,सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता । यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता ।।1.6.20।। Bala Kanda,6,21,योधानामग्निकल्पानां पेशलानाममर्षिणाम् । सम्पूर्णा कृतविद्यानां गुहा केसरिणामिव ।।1.6.21।। Bala Kanda,6,22,काम्भोजविषये जातैर्बाह्लीकैश्च हयोत्तमै: । वनायुजैर्नदीजैश्च पूर्णा हरिहयोत्तमै:।।1.6.22।। Bala Kanda,6,23,विन्ध्यपर्वतजैर्मत्तै: पूर्णा हैमवतैरपि । मदान्वितैरतिबलैर्मातङ्गै: पर्वतोपमै: ।।1.6.23।। Bala Kanda,6,24,ऐरावतकुलीनैश्च महापद्मकुलैस्तथा । अञ्जनादपि निष्पन्नैर्वामनादपि च द्विपैः ।।1.6.24।। Bala Kanda,6,25,भद्रैर्मन्द्रैर्मृगैश्चैव भद्रमन्द्रमृगैस्तथा। भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी। नित्यमत्तैस्सदा पूर्णा नागैरचलसन्निभै:।।1.6.25।। Bala Kanda,6,26,सा योजने च द्वे भूय: सत्यनामा प्रकाशते । यस्यां दशरथो राजा वसन् जगदपालयत् ।।1.6.26।। Bala Kanda,6,27,तां पुरीं स महातेजा राजा दशरथो महान् । शशास शमितामित्रो नक्षत्राणीव चन्द्रमा: ।।1.6.27।। Bala Kanda,6,28,तां सत्यनामां दृढतोरणार्गलां गृहैर्विचित्रैरुपशोभितां शिवाम् । पुरीमयोध्यां नृसहस्रसङ्कुलां शशास वै शक्रसमो महीपति: ।।1.6.28।। Bala Kanda,7,1,. तस्यामात्या गुणैरासन्निक्ष्वाकोस्तु महात्मन: । मन्त्रज्ञाश्चेङ्गितज्ञाश्च नित्यं प्रियहिते रता: ।।1.7.1।। Bala Kanda,7,2,अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विन: । शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यश: ।।1.7.2।। Bala Kanda,7,3,धृष्टिर्जयन्तो विजयस्सिद्धार्थो ह्यर्थसाधक: । अशोको मन्त्रपालश्च सुमन्त्रश्चाष्टमोऽभवत् ।।1.7.3।। Bala Kanda,7,4,ऋत्विजौ द्वावभिमतौ तस्याऽऽस्तामृषिसत्तमौ । वसिष्ठो वामदेवश्च मन्त्रिणश्च तथापरे ।।1.7.4।। Bala Kanda,7,5,विद्याविनीता ह्रीमन्त: कुशला नियतेन्द्रिया: । श्रीमन्तश्च महात्मानश्शास्त्रज्ञा दृढविक्रमा: ।।1.7.5।। Bala Kanda,7,6,कीर्तिमन्त: प्रणिहिता: यथावचनकारिण: । तेज: क्षमायश:प्राप्ता स्मितपूर्वाभिभाषिण: ।।1.7.6।। Bala Kanda,7,7,क्रोधात्कामार्थहेतोर्वा न ब्रूयुरनृतं वच: । तेषामविदितं किञ्चित्स्वेषु नास्ति परेषु वा । क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् ।।1.7.7।। Bala Kanda,7,8,कुशला व्यवहारेषु सौहृदेषु परीक्षिता: । प्राप्तकालं तु ते दण्डं धारयेयुस्सुतेष्वपि ।।1.7.8।। Bala Kanda,7,9,कोशसङ्ग्रहणे युक्ता बलस्य च परिग्रहे । अहितं चापि पुरुषं न विहिंस्युरदूषकम् ।।1.7.9।। Bala Kanda,7,10,वीराश्च नियतोत्साहा राजशास्त्रमनुष्ठिता: । शुचीनां रक्षितारश्च नित्यं विषयवासिनाम् ।।1.7.10।। Bala Kanda,7,11,ब्रह्म क्षत्रमहिंसन्तस्ते कोशं समपूरयन् । सुतीक्ष्णदण्डास्संप्रेक्ष्य पुरुषस्य बलाबलम् ।।1.7.11।। Bala Kanda,7,12,शुचीनामेकबुद्धीनां सर्वेषां सम्प्रजानताम् । नासीत्पुरे वा राष्ट्रे वा मृषावादी नर: क्वचित् ।।1.7.12।। Bala Kanda,7,13,कश्चिन्न दुष्टस्तत्रासीत्परदाररतो नर: । प्रशान्तं सर्वमेवासीद्राष्ट्रं पुरवरं च तत् ।।1.7.13।। Bala Kanda,7,14,सुवाससस्सुवेषाश्च ते च सर्वे सुशीलिन: । हितार्थं च नरेन्द्रस्य जाग्रतो नयचक्षुषा ।।1.7.14।। Bala Kanda,7,15,गुरोर्गुणगृहीताश्च प्रख्याताश्च पराक्रमे । विदेशेष्वपि विज्ञातास्सर्वतो बुद्धिनिश्चयात् ।।1.7.15।। Bala Kanda,7,16,सन्धिविग्रहतत्त्वज्ञा: प्रकृत्या सम्पदान्विता: ।।1.7.16।। Bala Kanda,7,17,मन्त्रसंवरणे शक्ताश्श्लक्ष्णास्सूक्ष्मासु बुद्धिषु । नीतिशास्त्रविशेषज्ञास्सततं प्रियवादिन: ।।1.7.17।। Bala Kanda,7,18,ईदृशैस्तैरमात्यैस्तु राजा दशरथोऽनघ: । उपपन्नो गुणोपेतैरन्वशासद्वसुन्धराम् ।।1.7.18।। Bala Kanda,7,19,अवेक्षमाणश्चारेण प्रजा धर्मेण रञ्जयन् । प्रजानां पालनं कुर्वन्नधर्मान्परिवर्जयन् ।।1.7.19।। Bala Kanda,7,20,विश्रुतस्त्रिषु लोकेषु वदान्यस्सत्यसङ्गर: । स तत्र पुरुषव्याघ्रश्शशास पृथिवीमिमाम् ।।1.7.20।। Bala Kanda,7,21,नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मन: । मित्रवान्नतसामन्त: प्रतापहतकण्टक: ।।1.7.21।। स शशास जगद्राजा दिवं देवपतिर्यथा । Bala Kanda,7,22,तैर्मन्त्रिभिर्मन्त्रहिते नियुक्तै र्वृतोऽनुरक्तै: कुशलैस्समर्थै: । स पार्थिवो दीप्तिमवाप युक्त स्तेजोमयैर्गोभिरिवोदितोऽर्क: ।।1.7.22।। Bala Kanda,8,1,तस्य त्वेवं प्रभावस्य धर्मज्ञस्य महात्मन:। सुतार्थं तप्यमानस्य नासीद्वंशकरस्सुत:।।1.8.1।। Bala Kanda,8,2,चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मन: । सुतार्थं हयमेधेन किमर्थं न यजाम्यहम्।।1.8.2।। Bala Kanda,8,3,स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान्। मन्त्रिभिस्सह धर्मात्मा सर्वैरेव कृतात्मभि:।।1.8.3।। Bala Kanda,8,4,ततोऽब्रवीदिदं राजा सुमन्त्रं मन्त्रिसत्तमम्। शीघ्रमानय मे सर्वान्गुरूंस्तान् सपुरोहितान्।।1.8.4।। Bala Kanda,8,5,ततस्सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रम:। समानयत्स तान् सर्वान् समस्तान्वेदपारगान् ।।1.8.5।। सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् । परोहितं वसिष्ठं च ये चान्ये व्दिजसत्तमा: ।। 1.8.6 ।। Bala Kanda,8,7,तान्पूजयित्वा धर्मात्मा राजा दशरथस्तदा। इदं धर्मार्थसहितं श्लक्ष्णंवचनमब्रवीत्।।1.8.7।। Bala Kanda,8,8,मम लालप्यमानस्य पुत्रार्थन्नास्ति वै सुखम्। तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम।।1.8.8।। Bala Kanda,8,9,तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा। कथं प्राप्स्याम्यहं कामं बुद्धिरत्रविचार्यताम्।।1.8.9।। Bala Kanda,8,10,ततस्साध्विति तद्वाक्यं ब्राह्मणा: प्रत्यपूजयन्। वसिष्ठप्रमुखास्सर्वे पार्थिवस्य मुखाच्च्युतम्।।1.8.10।। Bala Kanda,8,11,ऊचुश्च परमप्रीतास्सर्वे दशरथं वच:। सम्भारास्सम्भ्रियन्तां ते तुरगश्च विमुच्यताम्।।1.8.11।। Bala Kanda,8,12,सर्वथा प्राप्स्यसे पुत्रानभिप्रेतांश्च पार्थिव। यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता।।1.8.12।। Bala Kanda,8,13,तत: प्रीतोऽभवद्राजा श्रुत्वा तद्विजभाषितम्। अमात्यांश्चाब्रवीद्राजा हर्षपर्याकुलेक्षण:।।1.8.13।। Bala Kanda,8,14,सम्भारास्सम्भ्रियन्तां मे गुरूणां वचनादिह। समर्थाधिष्ठितश्चाश्वस्सोपाध्यायो विमुच्यताम्।।1.8.14।। Bala Kanda,8,15,सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम्। शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि।।1.8.15।। Bala Kanda,8,16,शक्य: प्राप्तुमयं यज्ञस्सर्वेणापि महीक्षिता। नापराधो भवेत्कष्टो यद्यस्मिन्क्रतुसत्तमे।।1.8.16।। Bala Kanda,8,17,छिद्रं हि मृगयन्तेऽत्र विद्वांसो ब्रह्मराक्षसा: । निहतस्य च यज्ञस्य सद्य: कर्ता विनश्यति ।।1.8.17।। Bala Kanda,8,18,तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते । तथा विधानं क्रियतां समर्था: करणेष्विह।।1.8.18।। Bala Kanda,8,19,तथेति चाब्रुवन्सर्वे मन्त्रिण:प्रत्यपूजयन्। पार्थिवेन्द्रस्य तद्वाक्यं यथाज्ञप्तं निशम्य ते।।1.8.19।। Bala Kanda,8,20,तथा द्विजास्ते धर्मज्ञा वर्धयन्तो नृपोत्तमम्। अनुज्ञातास्ततस्सर्वे पुनर्जग्मुर्यथागतम्।।1.8.20।। Bala Kanda,8,21,विसर्जयित्वा तान्विप्रान्सचिवानिदमब्रवीत्। ऋत्विग्भिरुपदिष्टोऽयं यथावत्क्रतुराप्यताम्।।1.8.21।। Bala Kanda,8,22,इत्युक्त्वा नृपशार्दूलस्सचिवान्समुपस्थितान्। विसर्जयित्वा स्वं वेश्म प्रविवेश महाद्युति:।।1.8.22।। Bala Kanda,8,23,ततस्स गत्वा ता:पत्नीर्नरेन्द्रो हृदयप्रिया:। उवाच दीक्षां विशत यक्ष्येऽहं सुतकारणात्।।1.8.23।। Bala Kanda,8,24,तासां तेनातिकान्तेन वचनेन सुवर्चसाम्। मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये।।1.8.24।। Bala Kanda,9,1,एतच्छ्रुत्वा रहस्सूतो राजानमिदमब्रवीत्। ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुत:।।1.9.1।। Bala Kanda,9,2,सनत्कुमारो भगवान्पूर्वं कथितवान्कथाम्। ऋषीणां सन्निधौ राजन् तव पुत्रागमं प्रति।।1.9.2।। Bala Kanda,9,3,काश्यपस्यतु पुत्रोऽस्ति विभण्डक इति श्रुत:। ऋष्यशृङ्ग इति ख्यातस्तस्य पुत्रो भविष्यति।।1.9.3।। Bala Kanda,9,4,स वने नित्यसंवृद्धो मुनिर्वनचरस्सदा । नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात् ।।1.9.4।। Bala Kanda,9,5,द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मन:। लोकेषु प्रथितं राजन्विप्रैश्च कथितं सदा।।1.9.5।। Bala Kanda,9,6,तस्यैवं वर्तमानस्य कालस्समभिवर्तत । अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम्।।1.9.6।। Bala Kanda,9,7,एतस्मिन्नेव काले तु रोमपाद: प्रतापवान्। अङ्गेषु प्रथितो राजा भविष्यति महाबल:।। 1.9.7।। Bala Kanda,9,8,तस्य व्यतिक्रमाद्राज्ञो भविष्यति सुदारुणा । अनावृष्टिस्सुघोरा वै सर्वभूतभयावहा ।।1.9.8।। Bala Kanda,9,9,अनावृष्ट्यां तु वृत्तायां राजा दु:खसमन्वित:। ब्राह्मणान्श्रुतवृद्धांश्च समानीय प्रवक्ष्यति।। 1.9.9।। Bala Kanda,9,10,भवन्तश्श्रुतधर्माणो लोकचारित्रवेदिन: । समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत् ।।1.9.10।। Bala Kanda,9,11,वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगा:। विभण्डकसुतं राजन्सर्वोपायैरिहानय।।1.9.11।। Bala Kanda,9,12,आनाय्य च महीपाल ऋश्यशृङ्गं सुसत्कृतम्। प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहित: ।।1.9.12।। Bala Kanda,9,13,तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते । केनोपायेन वै शक्य इहानेतुं स वीर्यवान् ।।1.9.13।। Bala Kanda,9,14,ततो राजा विनिश्चित्य सह मन्त्रिभिरात्मवान्। पुरोहितममात्यांश्च तत: प्रेष्यति सत्कृतान्।।1.9.14।। Bala Kanda,9,15,ते तु राज्ञो वचश्श्रुशृत्वा व्यथिता विनतानना:। न गच्छेम ऋषेर्भीता अनुनेष्यन्ति तं नृपम् ।। 1.9.15।। Bala Kanda,9,16,वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तत्क्षमान्। आनेष्यामो वयं विप्रं न च दोषो भविष्यति।। 1.9.16।। Bala Kanda,9,17,एवमङ्गाधिपेनैव गणिकाभि: ऋषेस्सुत:। आनीतोऽवर्षयद्देवश्शान्ता चास्मै प्रदीयते।।1.9.17।। Bala Kanda,9,18,ऋश्यशृङ्गस्तु जामाता पुत्रांस्तव विधास्यति। सनत्कुमारकथितमेतावद्व्याहृतं मया।।1.9.18।। Bala Kanda,9,19,अथ हृष्टो दशरथस्सुमन्त्रं प्रत्यभाषत। यथर्श्यशृङ्गस्त्वानीतो विस्तरेण त्वयोच्यताम्।।1.9.19।। Bala Kanda,10,1,सुमन्त्रश्चोदितो राज्ञा प्रोवाचेदं वचस्तदा। यथर्श्यशृङ्गस्त्वानीत श्श्रुणु मे मन्त्रिभिस्सह।।1.10.1।। Bala Kanda,10,2,रोमपादमुवाचेदं सहामात्य: पुरोहित:। उपायो निरपायोऽयमस्माभिरभिचिन्तित:।। 1.10.2।। Bala Kanda,10,3,ऋश्यशृङ्गो वनचरस्तपस्स्वाध्ययने रत:। अनभिज्ञस्स नारीणां विषयाणां सुखस्य च।1.10.3।। Bala Kanda,10,4,इन्द्रियार्थैरभिमतैर्नरचित्तप्रमाथिभि: । पुरमानाययिष्याम: क्षिप्रं चाध्यवसीयताम्।। 1.10.4।। Bala Kanda,10,5,गणिकास्तत्र गच्छन्तु रूपवत्यस्स्वलङ्कृता:। प्रलोभ्य विविधोपायैरानेष्यन्तीह सत्कृता:।।1.10.5।। Bala Kanda,10,6,श्रुत्वा तथेति राजा च प्रत्युवाच पुरोहितम्। पुरोहितो मन्त्रिणश्च तथा चक्रुश्च ते तदा।।1.10.6।। Bala Kanda,10,7,वारमुख्याश्च तच्छ्रुत्वा वनं प्रविविशुर्महत्। आश्रमस्याविदूरेऽस्मिन् यत्नं कुर्वन्ति दर्शने।।1.10.7।। ऋषिपुत्रस्य धीरस्य नित्यमाश्रमवासिन:। Bala Kanda,10,8,पितुस्सनित्यसन्तुष्टो नातिचक्राम चाश्रमात्।।1.10.8।। न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना। स्त्री वा पुमान्वा यच्चान्यत्सर्वं नगरराष्ट्रजम्।। 1.10.9।। Bala Kanda,10,10,तत: कदाचित्तं देशमाजगाम यदृच्छया। विभण्डकसुतस्तत्र ताश्चापश्यद्वराङ्गना:।।1.10.10।। Bala Kanda,10,11,ताश्चित्रवेषा: प्रमदा गायन्त्यो मधुरस्वरा:। ऋषिपुत्रमुपागम्य सर्वा वचनमब्रुवन्।। 1.10.11।। Bala Kanda,10,12,कस्त्वं किं वर्तसे ब्रह्मन् ज्ञातुमिच्छामहे वयम्। एकस्त्वं विजने घोरे वने चरसि शंस न:।। 1.10.12।। Bala Kanda,10,13,अदृष्टरूपास्तास्तेन काम्यरूपा वने स्त्रिय:। हार्दात्तस्य मतिर्जाता व्याख्यातुं पितरं स्वकम्।।1.10.13।। Bala Kanda,10,14,पिता विभण्डकोऽस्माकं तस्याहं सुत औरस:। ऋश्यशृङ्ग इति ख्यातं नाम कर्म च मे भुवि।।1.10.14।। Bala Kanda,10,15,इहाश्रमपदोऽस्माकं समीपे शुभदर्शना:। करिष्ये वोऽत्र पूजां वै सर्वेषां विधिपूर्वकम्।।1.10.15।। Bala Kanda,10,16,ऋषिपुत्रवचश्श्रुत्वा सर्वासां मतिरास वै। तदाश्रमपदं द्रष्टुं जग्मुस्सर्वाश्च तेन ता:।। 1.10.16।। Bala Kanda,10,17,आगतानां तत: पूजामृषिपुत्रश्चकार ह। इदमर्घ्यमिदं पाद्यमिदं मूलमिदं फलं च न:।।1.10.17।। Bala Kanda,10,18,प्रतिगृह्य च तां पूजां सर्वा एव समुत्सुका:। ऋषेर्भीताश्च शीघ्रं ता गमनाय मतिं दधु:।।1.10.18।। Bala Kanda,10,19,अस्माकमपि मुख्यानि फलानीमानि वै द्विज । गृहाण प्रति भद्रं ते भक्षयस्व च मा चिरम्।।1.10.19।। Bala Kanda,10,20,ततस्तास्तं समालिङ्ग्य सर्वा हर्षसमन्विता:। मोदकान्प्रददुस्तस्मै भक्ष्यांश्च विविधान् बहून्।।1.10.20।। Bala Kanda,10,21,तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते। अनास्वादितपूर्वाणि वने नित्यनिवासिनाम्।।1.10.21।। Bala Kanda,10,22,आपृच्छ्य च तदा विप्रं व्रतचर्यां निवेद्य च। गच्छन्ति स्मापदेशात्ता भीतास्तस्य पितुस्स्त्रिय:।।1.10.22।। Bala Kanda,10,23,गतासु तासु सर्वासु काश्यपस्यात्मजो द्विज:। अस्वस्थहृदयश्चासीद्दु:खं स्म परिवर्तते।।1.10.23।। Bala Kanda,10,24,ततोऽपरेद्युस्तं देशमाजगाम स वीर्यवान्। मनोज्ञा यत्र ता दृष्टा वारमुख्यास्स्वलङ्कृताः।।1.10.24।। Bala Kanda,10,25,दृष्ट्वैव च तास्तदा विप्रमायान्तं हृष्टमानसा:। उपसृत्य ततस्सर्वास्तास्तमूचुरिदं वच:।।1.10.25।। Bala Kanda,10,26,एह्याश्रमपदं सौम्य ह्यस्माकमिति चाब्रुवन्। तत्राप्येष विधिश्श्रीमान् विशेषेण भविष्यति।।1.10.26।। Bala Kanda,10,27,श्रुत्वा तु वचनं तासां सर्वासां हृदयङ्गमम्। गमनाय मतिं चक्रे तं च निन्युस्तदा स्त्रिय:।।1.10.27।। Bala Kanda,10,28,तत्र चानीयमाने तु विप्रे तस्मिन्महात्मनि। ववर्ष सहसा देवो जगत्प्रह्लादयंस्तदा।।1.10.28।। Bala Kanda,10,29,वर्षेणैवागतं विप्रं विषयं स्वं नराधिप:। प्रत्युद्गम्य मुनिं प्रह्वश्शिरसा च महीं गत:।।1.10.29।। Bala Kanda,10,30,अर्घ्यं च प्रददौ तस्मै न्यायतस्सुसमाहित:। वव्रे प्रसादं विप्रेन्द्रान्मा विप्रं मन्युराविशेत्।।1.10.30।। Bala Kanda,10,31,अन्त:पुरं प्रविश्यास्मै कन्यां दत्त्वा यथाविधि। शान्तां शान्तेन मनसा राजा हर्षमवाप स:।।1.10.31।। एवं स न्यवसत्तत्र सर्वकामैस्सुपूजित:। Bala Kanda,11,1,भूय एव हि राजेन्द्र शृणु मे वचनं हितम्। यथा स देवप्रवर: कथायामेवमब्रवीत्।।1.11.1।। Bala Kanda,11,2,इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिक:। राजा दशरथो नाम्ना श्रीमान्सत्यप्रतिश्रव:।।1.11.2।। Bala Kanda,11,3,अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति। कन्या चास्य महाभागा शान्ता नाम भविष्यति।।1.11.3।। Bala Kanda,11,4,पुत्रस्तु सोऽङ्गराजस्य रोमपाद इति श्रुत:। तं स राजा दशरथो गमिष्यति महायशा:।।1.11.4।। Bala Kanda,11,5,अनपत्योऽस्मि धर्मात्मन् शान्ताभर्ता मम क्रतुम्। आहरेत त्वयाज्ञप्तस्सन्तानार्थं कुलस्य च।।1.11.5।। Bala Kanda,11,6,श्रुत्वा राज्ञोऽथ तद्वाक्यं मनसा स विचिन्त्य च। प्रदास्यते पुत्रवन्तं शान्ताभर्तारमात्मवान्।।1.11.6।। Bala Kanda,11,7,प्रतिगृह्य च तं विप्रं स राजा विगतज्वर:। आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना।।1.11.7।। Bala Kanda,11,9,तं च राजा दशरथो यष्टुकाम: कृताञ्जलि:। ऋश्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित्।। 1.11.8।। यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वर:। लभते च स तं कामं द्विजमुख्याद्विशांपति:।।1.11.9।। Bala Kanda,11,10,पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमा:। वंशप्रतिष्ठानकरास्सर्वलोकेषु विश्रुता:।।1.11.10।। Bala Kanda,11,11,एवं स देवप्रवर: पूर्वं कथितवान्कथाम्। सनत्कुमारो भगवान्पुरा देवयुगे प्रभु:।।1.11.11।। Bala Kanda,11,12,स त्वं पुरुषशार्दूल तमानय सुसत्कृतम्। स्वयमेव महाराज गत्वा सबलवाहन:।।1.11.12।। Bala Kanda,11,13,अनुमान्य वसिष्ठं च सूतवाक्यं निशम्य च। सान्त:पुरस्सहामात्य: प्रययौ यत्र स द्विज:।।1.11.13।। Bala Kanda,11,14,वनानि सरितश्चैव व्यतिक्रम्य शनैश्शनै:। अभिचक्राम तं देशं यत्र वै मुनिपुङ्गव:।।1.11.14।। Bala Kanda,11,15,आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम्। ऋषिपुत्रं ददर्शादौ दीप्यमानमिवानलम्।।1.11.15।। Bala Kanda,11,16,ततो राजा यथान्यायं पूजां चक्रे विशेषत:। सखित्वात्तस्य वै राज्ञ: प्रहृष्टेनान्तरात्मना।।1.11.16।। Bala Kanda,11,17,रोमपादेन चाख्यातमृषिपुत्राय धीमते। सख्यं सम्बन्धकं चैव तदा तं प्रत्यपूजयत्।।1.11.17।। Bala Kanda,11,18,एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभ:। सप्ताष्टदिवसान्राजा राजानमिदमब्रवीत्।।1.11.18।। Bala Kanda,11,19,शान्ता तव सुता राजन् सह भर्त्रा विशांपते। मदीयनगरं यातु कार्यं हि महदुद्यतम्।।1.11.19।। Bala Kanda,11,20,तथेति राजा संश्रुत्य गमनं तस्य धीमत:। उवाच वचनं विप्रं गच्छ त्वं सह भार्यया।।1.11.20।। Bala Kanda,11,21,ऋषिपुत्र: प्रतिश्रुत्य तथेत्याह नृपं तदा। स नृपेणाभ्यनुज्ञात: प्रययौ सह भार्यया।।1.11.21।। Bala Kanda,11,22,तावन्योन्याञ्जलिं कृत्वा स्नेहात्संश्लिष्य चोरसा। ननन्दतुर्दशरथो रोमपादश्च वीर्यवान्।।1.11.22।। Bala Kanda,11,23,ततस्सुहृदमापृच्छ्य प्रस्थितो रघुनन्दन:। पौरेभ्य: प्रेषयामास दूतान्वै शीघ्रगामिन:।।1.11.23।। Bala Kanda,11,24,क्रियतां नगरं सर्वं क्षिप्रमेव स्वलङ्कृतम्। धूपितं सिक्तसम्मृष्टं पताकाभिरलङ्कृतम्।।1.11.24।। Bala Kanda,11,25,तत: प्रहृष्टा: पौरास्ते श्रुत्वा राजानमागतम्। तथा प्रचक्रुस्तत्सर्वं राज्ञा यत्प्रेषितं तदा ।।1.11.25।। Bala Kanda,11,26,ततस्स्वलङ्कृतं राजा नगरं प्रविवेश ह। शङ्खदुन्दुभिनिर्घोषै: पुरस्कृत्य द्विजर्षभम्।।1.11.26।। Bala Kanda,11,27,तत: प्रमुदितास्सर्वे दृष्ट्वा तं नागरा द्विजम्। प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा।।1.11.27।। Bala Kanda,11,28,अन्त:पुरं प्रवेश्यैनं पूजां कृत्वा च शास्त्रत:। कृतकृत्यं तदात्मानं मेने तस्योपवाहनात्।।1.11.28।। Bala Kanda,11,29,अन्त:पुरस्त्रियस्सर्वाश्शान्तां दृष्ट्वा तथागताम्। सह भर्त्रा विशालाक्षीं प्रीत्यानन्दमुपागमन्।।1.11.29।। Bala Kanda,11,30,पूज्यमाना च ताभिस्सा राज्ञा चैव विशेषत:। उवास तत्र सुखिता कञ्चित्कालं सहर्त्विजा।।1.11.30।। Bala Kanda,12,1,तत: काले बहुतिथे कस्मिंश्चित्सुमनोहरे। वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनोऽभवत्।।1.12.1।। Bala Kanda,12,2,तत: प्रसाद्य शिरसा तं विप्रं देववर्णिनम्। यज्ञाय वरयामास सन्तानार्थं कुलस्य वै।।1.12.2।। Bala Kanda,12,3,तथेति च स राजानमुवाच च सुसत्कृत:। सम्भारा सम्भ्रियन्तां ते तुरगश्च विमुच्यताम्।।1.12.3।। Bala Kanda,12,4,ततो राजाऽब्रवीद्वाक्यं सुमन्त्रं मन्त्रिसत्तमम्। सुमन्त्रावाहय क्षिप्रं ऋत्विजो ब्रह्मवादिन:।।1.12.4।। Bala Kanda,12,5,सुयज्ञं वामदेवं च जाबालिमथ काश्यपम्। पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमा:।।1.12.5।। Bala Kanda,12,6,ततस्सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रम:। समानयत्स तान्विप्रान् समस्तान्वेदपारगान्।।1.12.6।। Bala Kanda,12,7,तान्पूजयित्वा धर्मात्मा राजा दशरथस्तदा। धर्मार्थसहितं युक्तं श्लक्ष्णं वचनमब्रवीत्।।1.12.7।। Bala Kanda,12,8,मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम्। तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम।।1.12.8।। Bala Kanda,12,9,तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा। ऋषिपुत्रप्रभावेन कामान्प्राप्स्यामि चाप्यहम्।।1.12.9।। Bala Kanda,12,10,ततस्साध्विति तद्वाक्यं ब्राह्मणा: प्रत्यपूजयन्। वसिष्ठप्रमुखास्सर्वे पार्थिवस्य मुखाच्च्युतम्।।1.12.10।। Bala Kanda,12,11,ऋष्यशृङ्गपुरोगाश्च प्रत्यूचुर्नृपतिं तदा। सम्भारास्सम्भ्रियन्तां ते तुरगश्च विमुच्यताम्।।1.12.11।। Bala Kanda,12,12,सर्वथा प्राप्स्यसे पुत्रांश्चत्वारोऽमितविक्रमान्। यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ।।1.12.12।। Bala Kanda,12,13,तत: प्रीतोऽभवद्राजा श्रुत्वा तद्विजभाषितम्। अमात्यांश्चाब्रवीद्राजा हर्षेणेदं शुभाक्षरम्।।1.12.13।। Bala Kanda,12,14,गुरूणां वचनाच्छीघ्रं सम्भारास्सम्भ्रियन्तु मे। समर्थाधिष्ठितश्चाश्वस्सोपाध्यायो विमुच्यताम्।।1.12.14।। Bala Kanda,12,15,सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम्। शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि।।1.12.15।। Bala Kanda,12,16,शक्य: प्राप्तुमयं यज्ञस्सर्वेणापि महीक्षिता। नापराधो भवेत्कष्टो यद्यस्मिन्क्रतुसत्तमे।।1.12.16।। Bala Kanda,12,17,छिद्रं हि मृगयन्तेऽत्र विद्वांसो ब्रह्मराक्षसा:। निहतस्य च यज्ञस्य सद्य: कर्ता विनश्यति।।1.12.17।। Bala Kanda,12,18,तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते। तथा विधानं क्रियतां समर्था: करणेष्विह।।1.12.18।। Bala Kanda,12,19,तथेति च ततस्सर्वे मन्त्रिण: प्रत्यपूजयन्। पार्थिवेन्द्रस्य तद्वाक्यं यथाज्ञप्तमकुर्वत।।1.12.19।। Bala Kanda,12,20,ततो द्विजास्ते धर्मज्ञमस्तुवन्पार्थिवर्षभम्। अनुज्ञातास्ततस्सर्वे पुनर्जग्मुर्यथागतम्।।1.12.20।। Bala Kanda,12,21,गतेष्वथ द्विजाग्य्रेषु मन्त्रिणस्तान्नराधिप:। विसर्जयित्वा स्वं वेश्म प्रविवेश महाद्युति:।।1.12.21।। Bala Kanda,13,1,पुन: प्राप्ते वसन्ते तु पूर्णस्संवत्सरोऽभवत्। प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान्।।1.13.1।। Bala Kanda,13,2,अभिवाद्य वसिष्ठं च न्यायत: परिपूज्य च। अब्रवीत्प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम्।।1.13.2।। Bala Kanda,13,3,यज्ञो मे क्रियतां ब्रह्मन्यथोक्तं मुनिपुङ्गव। यथा न विघ्न: क्रियते यज्ञाङ्गेषु विधीयताम्।।1.13.3।। Bala Kanda,13,4,भवान् स्निग्धस्सुहृन्मह्यं गुरुश्च परमो महान्। ओढव्यो भवता चैव भारो यज्ञस्य चोद्यत:।।1.13.4।। Bala Kanda,13,5,तथेति च स राजानमब्रवीद्द्विजसत्तमः। करिष्ये सर्वमेवैतद्भवता यत्समर्थितम्।।1.13.5।। Bala Kanda,13,6,ततोऽब्रवीद्विजान्वृद्धान्यज्ञकर्मसु निष्ठितान्। स्थापत्ये निष्ठितांश्चैव वृद्धान्परमधार्मिकान्।।1.13.6।। Bala Kanda,13,7,कर्मान्तिकान् शिल्पकरान्वर्धकीन् खनकानपि। गणकान्शिल्पिनश्चैव तथैव नटनर्तकान्।।1.13.7।। Bala Kanda,13,8,तथा शुचीन्शास्त्रविद: पुरुषान् सुबहुश्रुतान्। यज्ञकर्म समीहन्तां भवन्तो राजशासनात्।।1.13.8।। Bala Kanda,13,9,इष्टका बहु साहस्राश्शीघ्रमानीयतामिति। 0 उपकार्या: क्रियन्तां च राज्ञां बहुगुणान्विता:।।1.13.9।। Bala Kanda,13,10,ब्राह्मणावसथाश्चैव कर्तव्याश्शतशश्शुभा:। भक्ष्यान्नपानैर्बहुभिस्समुपेतास्सुनिष्ठिता:।।1.13.10।। Bala Kanda,13,11,तथा पौरजनस्यापि कर्तव्या बहुविस्तरा:। आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिता:।।1.13.11।। Bala Kanda,13,12,तथा जानपदस्यापि जनस्य बहुशोभनम्। दातव्यमन्नं विधिवत्सत्कृत्य न तु लीलया।।1.13.12।। Bala Kanda,13,13,सर्वे वर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृता:। न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि।।1.13.13।। Bala Kanda,13,14,यज्ञकर्मसु ये व्यग्रा: पुरुषाश्शिल्पिनस्तथा। तेषामपि विशेषेण पूजा कार्या यथाक्रमम्।।1.13.14।। ते च स्युस्सम्भृतास्सर्वे वसुभिर्भोजनेन च। Bala Kanda,13,15,यथा सर्वं सुविहितं न किञ्चित्परिहीयते।।1.13.15।। तथा भवन्त: कुर्वन्तु प्रीतिस्निग्धेन चेतसा। Bala Kanda,13,16,ततस्सर्वे समागम्य वसिष्ठमिदमब्रुवन्।।1.13.16।। Bala Kanda,13,17,यथोक्तं तत्सुविहितं न किञ्चित्परिहीयते। यथोक्तं तत्करिष्यामो न किञ्चित्परिहास्यते।।1.13.17।। Bala Kanda,13,18,ततस्सुमन्त्रमानीय वसिष्ठो वाक्यमब्रवीत्। निमन्त्रयस्व नृपतीन्पृथिव्यां ये च धार्मिका:।।1.13.18।। Bala Kanda,13,19,ब्राह्मणान्क्षत्रियान्वैश्याञ्छूद्रांश्चैव सहस्रश:। समानयस्व सत्कृत्य सर्वदेशेषु मानवान्।।1.13.19।। Bala Kanda,13,20,मिथिलाधिपतिं शूरं जनकं सत्यविक्रमम्। निष्ठितं सर्वशास्त्रेषु तथा वेदेषु निष्ठितम्।।1.13.20।। Bala Kanda,13,21,तमानय महाभागं स्वयमेव सुसत्कृतम्। पूर्वसम्बन्धिनं ज्ञात्वा तत: पूर्वं ब्रवीमि ते।।1.13.21।। Bala Kanda,13,22,तथा काशीपतिं स्निग्धं सततं प्रियवादिनम्। वयस्यं राजसिंहस्य स्वयमेवानयस्व ह।।1.13.22।। Bala Kanda,13,23,तथा केकयराजानं वृद्धं परमधार्मिकम्। श्वशुरं राजसिंहस्य सपुत्रं त्वमिहानय।।1.13.23।। Bala Kanda,13,24,अङ्गेश्वरम् महाभागं रोमपादं सुसत्कृतम्। वयस्यं राजसिंहस्य समानय यशस्विनम्।।1.13.24।। Bala Kanda,13,25,प्राचीनान्सिन्धु सौवीरान्सौराष्ट्रेयांश्च पार्थिवान्। दाक्षिणात्यान्नरेन्द्रांश्च समस्तानानयस्व ह।।1.13.25।। Bala Kanda,13,26,सन्ति स्निग्धाश्च ये चान्ये राजान: पृथिवीतले। तानानय यथाक्षिप्रं सानुगान्सह बान्धवान्।।1.13.26।। Bala Kanda,13,27,वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितस्तदा। व्यादिशत्पुरुषांस्तत्र राज्ञामानयने शुभान्।।1.13.27।। Bala Kanda,13,28,स्वयमेव हि धर्मात्मा प्रययौ मुनिशासनात्। सुमन्त्रस्त्वरितो भूत्वा समानेतुं महीक्षित:।।1.13.28।। Bala Kanda,13,29,ते च कर्मान्तिकास्सर्वे वसिष्ठाय च धीमते। सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम्।।1.13.29।। Bala Kanda,13,30,तत:प्रीतो द्विजश्रेष्ठस्तान् सर्वानिदमब्रवीत् । अवज्ञया न दातव्यं कस्यचिल्लीलयाऽपि वा।।1.13.30।। अवज्ञया कृतं हन्याद्दातारं नात्र संशय:। 28 Bala Kanda,13,31,तत: कैश्चिदहोरात्रैरुपयाता महीक्षित:।।1.13.31।। बहूनि रत्नान्यादाय राज्ञो दशरथस्य वै। Bala Kanda,13,32,ततो वसिष्ठस्सुप्रीतो राजानमिदमब्रवीत्।।1.13.32।। Bala Kanda,13,33,उपयाता नरव्याघ्र राजानस्तव शासनात्। मयापि सत्कृता: सर्वे यथार्हं राजसत्तमा:।।1.13.33।। Bala Kanda,13,34,यज्ञीयं च कृतं राजन् पुरुषैस्सुसमाहितै:। निर्यातु च भवान्यष्टुं यज्ञायतनमन्तिकात्।।1.13.34।। Bala Kanda,13,35,सर्वकामैरुपहृतैरुपेतं च समन्तत:। द्रष्टुमर्हसि राजेन्द्र मनसेव विनिर्मितम्।।1.13.35।। Bala Kanda,13,36,तथा वसिष्ठवचनादृश्यशृङ्गस्य चोभयो:। शुभे दिवसनक्षत्रे निर्यातो जगतीपति:।।1.13.36।। Bala Kanda,13,37,ततो वसिष्ठप्रमुखास्सर्व एव द्विजोत्तमा:। ऋश्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभन् तदा।।1.13.37।। यज्ञवाटगतास्सर्वे यथाशास्त्रं यथाविधि। 3 Bala Kanda,14,1,अथ संवत्सरे पूर्णे तस्मिन्प्राप्ते तुरङ्गमे। सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत।।1.14.1।। Bala Kanda,14,2,ऋश्यशृङ्गं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभा:। अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मन:।।1.14.2।। Bala Kanda,14,3,कर्म कुर्वन्ति विधिवद्याजका वेदपारगा:। यथाविधि यथान्यायं परिक्रामन्ति शास्त्रत:।।1.14.3।। Bala Kanda,14,4,प्रवर्ग्यं शास्त्रत: कृत्वा तथैवोपसदं द्विजा: चक्रुश्च विधिवत्सर्वमधिकं कर्म शास्त्रत:।।1.14.4।। Bala Kanda,14,5,अभिपूज्य ततो हृष्टास्सर्वे चक्रुर्यथाविधि। प्रातस्सवनपूर्वाणि कर्माणि मुनिपुङ्गवा:।।1.14.5।। Bala Kanda,14,6,ऐन्द्रश्च विधिवद्दत्तो राजा चाभिषुतोऽनघ:। माध्यन्दिनं च सवनं प्रावर्तत यथाक्रमम्।।1.14.6।। Bala Kanda,14,7,तृतीयसवनं चैव राज्ञोऽस्य सुमहात्मन:। चक्रुस्तेशास्त्रतो दृष्ट्वा तथा ब्राह्मणपुङ्गवा:।।1.14.7।। Bala Kanda,14,8,न चाहुतमभूत्तत्र स्खलितं वापि किञ्चन । दृश्यते ब्रह्मवत्सर्वं क्षेमयुक्तं हि चक्रिरे।।1.14.8।। Bala Kanda,14,9,न तेष्वहस्सु श्रान्तो वा क्षुधितो वापि दृश्यते। नाविद्वान्ब्राह्मणस्तत्र नाशतानुचरस्तथा।।1.14.9।। Bala Kanda,14,10,ब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते। तापसा भुञ्जते चापि श्रमणा भुञ्जतेतथा।।1.14.10।। Bala Kanda,14,11,वृद्धाश्च व्याधिताश्चैव स्त्रियो बालास्तथैव च । अनिशं भुञ्जमानानां न तृप्तिरुपलभ्यते।।1.14.11।। Bala Kanda,14,12,दीयतां दीयतामन्नं वासांसि विविधानि च। इति सञ्चोदितास्तत्र तथा चक्रुरनेकश:।।1.14.12।। Bala Kanda,14,13,अन्नकूटाश्च बहवो दृश्यन्ते पर्वतोपमा:। दिवसे दिवसे तत्र सिद्धस्य विधिवत्तदा।।1.14.13।। Bala Kanda,14,14,नानादेशादनुप्राप्ता: पुरुषास्स्त्रीगणास्तथा। अन्नपानैस्सुविहितास्तस्मिन्यज्ञे महात्मन:।।1.14.14।। Bala Kanda,14,15,अन्नं हि विधिवत्साधु प्रशंसन्ति द्विजर्षभा:। अहो तृप्ता: स्म भद्रं ते इति शुश्राव राघव:।।1.14.15।। Bala Kanda,14,16,स्वलङ्कृताश्च पुरुषा ब्राह्मणान्पर्यवेषयन्। उपासते च तानन्ये सुमृष्टमणिकुण्डला:।।1.14.16।। Bala Kanda,14,17,कर्मान्तरे तदा विप्रा हेतुवादान्बहूनपि। प्राहुश्च वाग्मिनो धीरा: परस्परजिगीषया।।1.14.17।। Bala Kanda,14,18,दिवसे दिवसे तत्र संस्तरे कुशला द्विजा:। सर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिता:।।1.14.18।। Bala Kanda,14,19,नाषडङ्गविदत्रासीन्नाव्रतो नाबहुश्रुत:। सदस्यास्तस्य वै राज्ञो नावादकुशला द्विजा:।।1.14.19।। Bala Kanda,14,20,प्राप्ते यूपोच्छ्रये तस्मिन्षड्बैल्वा: खादिरास्तथा। तावन्तो बिल्वसहिता: पर्णिनश्च तथापरे।।1.14.20।। Bala Kanda,14,21,श्लेष्मातकमयस्त्वेको देवदारुमयस्तथा। द्वावेव विहितौ तत्र बाहुव्यस्तपरिग्रहौ।।1.14.21।। Bala Kanda,14,22,कारितास्सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदै:। शोभार्थं तस्य यज्ञस्य काञ्चनालङ्कृताऽभवन्।।1.14.22।। Bala Kanda,14,23,एकविंशतियूपास्ते एकविंशत्यरत्नय:। वासोभिरेकविंशद्भिरेकैकं समलङ्कृता:।।1.14.23।। Bala Kanda,14,24,विन्यस्ता विधिवत्सर्वे शिल्पिभिस्सुकृता दृढा:। अष्टाश्रयस्सर्व एव श्लक्ष्णरूपसमन्विता:।।1.14.24।। Bala Kanda,14,25,आच्छादितास्ते वासोभि: पुष्पैर्गन्धैश्च भूषिता:। सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि।।1.14.25।। Bala Kanda,14,26,इष्टकाश्च यथान्यायं कारिताश्च प्रमाणत:। चितोऽग्निर्ब्राह्मणैस्तत्र कुशलैश्शुल्बकर्मणि ।।1.14.26।। Bala Kanda,14,27,सचित्यो राजसिंहस्य सञ्चित: कुशलैर्द्विजै:। गरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मक:।।1.14.27।। Bala Kanda,14,28,नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम्। उरगा: पक्षिणश्चैव यथाशास्त्रं प्रचोदिता:।।1.14.28।। Bala Kanda,14,29,शामित्रे तु हयस्तत्र तथा जलचराश्च ये। ऋत्विग्भिस्सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा।।1.14.29।। Bala Kanda,14,30,पशूनां त्रिशतं तत्र यूपेषु नियतं तदा। अश्वरत्नोत्तमं तस्य राज्ञो दशरथस्य च ।।1.14.30।। Bala Kanda,14,31,कौसल्या तं हयं तत्र परिचर्य समन्तत:। कृपाणैर्विशशासैनं त्रिभि: परमया मुदा ।।1.14.31।। Bala Kanda,14,32,पतत्रिणा तदा सार्धं सुस्थितेन च चेतसा। अवसद्रजनीमेकां कौशल्या धर्मकाम्यया।।1.14.32।। Bala Kanda,14,33,होताऽध्वर्युस्तथोद्गाता हस्तेन समयोजयन्। महिष्या परिवृत्त्या च वावातां च तथापराम्।।1.14.33।। Bala Kanda,14,34,पतत्रिणस्तस्य वपा मुद्धृत्य नियतेन्द्रिय:। ऋत्विक्परमसम्पन्न: श्रपयामास शास्त्रत:।।1.14.34।। Bala Kanda,14,35,धूमगन्धं वपायास्तु जिघ्रति स्म नराधिप:। यथाकालं यथान्यायं निर्णुदन्पापमात्मन:।।1.14.35।। Bala Kanda,14,36,हयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणा:। अग्नौ प्रास्यन्ति विधिवत्समन्त्राष्षोडशर्त्विज:।।1.14.36।। Bala Kanda,14,37,प्लक्षशाखासु यज्ञानामन्येषां क्रियते हवि:। अश्वमेधस्य यज्ञस्य वैतसो भाग इष्यते।।1.14.37।। Bala Kanda,14,38,त्र्यहोऽश्वमेधस्सङ्ख्यात: कल्पसूत्रेण ब्राह्मणै:। 37 चतुष्टोममहस्तस्य प्रथमं परिकल्पितम्।।1.14.38।। Bala Kanda,14,39,उक्थ्यं द्वितीयं संख्यातमतिरात्रं तथोत्तरम्। कारितास्तत्र बहवो विहिताश्शास्त्रदर्शनात्।।1.14.39।। Bala Kanda,14,40,ज्योतिष्टोमायुषी चैवमतिरात्रौ विनिर्मितौ। अभिजिद्विश्वजिच्चैवमप्तोर्यामो महाक्रतु:।।1.14.40।। Bala Kanda,14,41,प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धन:। अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम्।।1.14.41।। Bala Kanda,14,42,उद्गात्रे च तथोदीचीं दक्षिणैषा विनिर्मिता। हयमेधे महायज्ञे स्वयंभूविहिते पुरा।।1.14.42।। Bala Kanda,14,43,क्रतुं समाप्य तु तदा न्यायत: पुरुषर्षभ: । ऋत्विग्भ्यो हि ददौ राजा तां धरां कुलवर्धन:।।1.14.43।। Bala Kanda,14,44,ऋत्विजस्त्वब्रुवन्सर्वे राजानं गतकल्मषम्। भवानेव महीं कृत्स्नामेको रक्षितुमर्हति।।1.14.44।। Bala Kanda,14,45,न भूम्या कार्यमस्माकं न हि शक्तास्स्म पालने। रतास्स्वाध्यायकरणे वयं नित्यं हि भूमिप।।1.14.45।। निष्क्रयं किञ्चिदेवेह प्रयच्छतु भवानिति। 4 Bala Kanda,14,46,मणिरत्नं सुवर्णं वा गावो यद्वा समुद्यतम्। तत्प्रयच्छ नरश्रेष्ठ धरण्या न प्रयोजनम्।।1.14.46।। Bala Kanda,14,47,एवमुक्तो नरपतिर्ब्राह्मणैर्वेदपारगै:।।1.14.47।। Bala Kanda,14,48,गवां शतसहस्राणि दश तेभ्यो ददौ नृप:। 4 शतकोटीस्सुवर्णस्य रजतस्य चतुर्गुणम् ।।1.14.48।। Bala Kanda,14,49,ऋत्विजश्च ततस्सर्वे प्रददुस्सहिता वसु। ऋश्यशृङ्गाय मुनये वसिष्ठाय च धीमते।।1.14.49।। Bala Kanda,14,50,ततस्ते न्यायत: कृत्वा प्रविभागं द्विजोत्तमा:। सुप्रीतमनसस्सर्वे प्रत्यूचुर्मुदिता भृशम्।।1.14.50।। Bala Kanda,14,51,तत: प्रसर्पकैभ्यस्तु हिरण्यं सुसमाहित:। जाम्बूनदं कोटिसंख्यं ब्राह्मणेभ्यो ददौ तदा।।1.14.51।। Bala Kanda,14,52,दरिद्राय द्विजायाथ हस्ताभरणमुत्तमम्। कस्मैचिद्याचमानाय ददौ राघवनन्दन:।।1.14.52।। Bala Kanda,14,53,तत: प्रीतेषु नृपतिर्द्विजेषु द्विजवत्सल:। प्रणाममकरोत्तेषां हर्षपर्याकुलेक्षण:।।1.14.53।। Bala Kanda,14,54,तस्याशिषोऽथ विधिवद्ब्राह्मणैस्समुदीरिता:। उदारस्य नृवीरस्य धरण्यां प्रणतस्य च ।।1.14.54।। Bala Kanda,14,55,तत: प्रीतमना राजा प्राप्य यज्ञमनुत्तमम्। पापापहं स्वर्नयनं दुष्करं पार्थिवर्षभै:।।1.14.55।। Bala Kanda,14,56,ततोऽब्रवीदृश्यशृङ्गं राजा दशरथस्तदा। कुलस्य वर्धनं त्वं तु कर्तुमर्हसि सुव्रत।।1.14.56।। Bala Kanda,14,57,तथेति च स राजानमुवाच द्विजसत्तम:। भविष्यन्ति सुता राजंश्चत्वारस्ते कुलोद्वहा:।।1.14.57।। Bala Kanda,15,1,मेथावी तु ततो ध्यात्वा स किञ्चिदिदमुत्तरम्। लब्धसंज्ञस्ततस्तं तु वेदज्ञो नृपमब्रवीत्।।1.15.1।। Bala Kanda,15,2,इष्टिं तेऽहं करिष्यामि पुत्रीयां पुत्रकारणात्। अथर्वशिरसि प्रोक्तैर्मन्त्रैस्सिद्धां विधानत:।।1.15.2।। Bala Kanda,15,3,तत: प्राक्रमदिष्टिं तां पुत्रीयां पुत्रकारणात्। जुहाव चाग्नौ तेजस्वी मन्त्रदृष्टेन कर्मणा।।1.15.3।। Bala Kanda,15,4,ततो देवास्सगन्धर्वास्सिद्धाश्च परमर्षय: । भागप्रतिग्रहार्थं वै समवेता यथाविधि।।1.15.4।। Bala Kanda,15,5,तास्समेत्य यथान्यायं तस्मिन्सदसि देवता:। अब्रुवन् लोककर्तारं ब्रह्माणं वचनं महत्।।1.15.5।। Bala Kanda,15,6,भगवन्त्वत्प्रसादेन रावणो नाम राक्षस:। सर्वान्नो बाधते वीर्याच्छासितुं तं न शक्नुम:।।1.15.6।। Bala Kanda,15,7,त्वया तस्मै वरो दत्त: प्रीतेन भगवन्पुरा। मानयन्तश्च तं नित्यं सर्वं तस्य क्षमामहे।।1.15.7।। Bala Kanda,15,8,उद्वेजयति लोकान्स्तीनुच्छ्रितान्द्वेष्टि दुर्मति:। शक्रं त्रिदशराजानं प्रधर्षयितुमिच्छति।।1.15.8।। Bala Kanda,15,9,ऋषीन्यक्षान्सगन्धर्वानसुरान्ब्राह्मणांस्तथा। अतिक्रामति दुर्धर्षो वरदानेन मोहित:।।1.15.9।। Bala Kanda,15,10,नैनं सूर्य: प्रतपति पार्श्वे वाति न मारुत:। चलोर्मिमाली तं दृष्ट्वा समुद्रोऽपि न कम्पते।।1.15.10।। Bala Kanda,15,11,तन्महन्नो भयं तस्माद्राक्षसाद्घोरदर्शनात्। वधार्थं तस्य भगवन्नुपायं कर्तुमर्हसि।।1.15.11।। Bala Kanda,15,12,एवमुक्तस्सुरैस्सर्वैश्चिन्तयित्वा ततोऽब्रवीत्। हन्तायं विदितस्तस्य वधोपायो दुरात्मन:।।1.15.12।। Bala Kanda,15,13,तेन गन्धर्वयक्षाणां देवदानवरक्षसाम्। अवध्योऽस्मीति वागुक्ता तथेत्युक्तं च तन्मया।।1.15.13।। Bala Kanda,15,14,नाकीर्तयदवज्ञानात्तद्रक्षो मानुषान् प्रति। तस्मात्स मानुषाद्वध्यो मृत्युर्नान्योऽस्य विद्यते।।1.15.14।। Bala Kanda,15,15,एतच्छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम्। सर्वे महर्षयो देवाः प्रहृष्टास्तेऽभवंस्तदा।।1.15.15।। Bala Kanda,15,16,एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युति:। शङ्खचक्रगदापाणि: पीतवासा जगत्पति:।।1.15.16।। Bala Kanda,15,17,ब्रह्मणा च समागम्य तत्र तस्थौ समाहित:। 1 तमब्रुवन्सुरास्सर्वे समभिष्टूय सन्नता:।।1.15.17।। Bala Kanda,15,19,त्वान्नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया। 1 राज्ञो दशरथस्य त्वमयोध्याधिपते: प्रभो:।।1.15.18। धर्मज्ञस्य वदान्यस्य महर्षिसमतेजस: । 18 तस्य भार्यासु तिसृषु ह्रीश्रीकीर्त्युपमासु च।।1.15.19।। विष्णो पुत्रत्वमागच्छ कृत्वाऽऽत्मानं चतुर्विधम्। 1 Bala Kanda,15,20,तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम्। अवध्यं दैवतैर्विष्णो समरे जहि रावणम्।।1.15.20।। Bala Kanda,15,21,स हि देवांश्च गन्धर्वान्सिद्धांश्च मुनिसत्तमान्। राक्षसो रावणो मूर्खो वीर्योत्सेकेन बाधते।।1.15.21।। Bala Kanda,15,22,ऋषयश्च ततस्तेन गन्धर्वाप्सरसस्तथा। क्रीडन्तो नन्दनवने क्रूरेण किल हिंसिता:।।1.15.22।। Bala Kanda,15,23,वधार्थं वयमायातास्तस्य वै मुनिभिस्सह। सिद्धगन्धर्वयक्षाश्च ततस्त्वां शरणं गता:।।1.15.23।। Bala Kanda,15,24,त्वं गति: परमा देव सर्वेषां न: परन्तप:। वधाय देवशत्रूणां नृणां लोके मन: कुरु।।1.15.24।। Bala Kanda,15,25,एवमुक्तस्तु देवेशो विष्णुस्त्रिदशपुङ्गव:। पितामहपुरोगांस्तान्सर्वलोकनमस्कृत:।।1.15.25।। Bala Kanda,15,26,अब्रवीत्त्रिदशान्सर्वान्समेतान्धर्मसंहितान् ।।1.15.26।। Bala Kanda,15,27,भयं त्यजत भद्रं वो हितार्थं युधि रावणम्। सपुत्रपौत्रं सामात्यं समित्रज्ञातिबान्धवम्।।1.15.27।। Bala Kanda,15,28,हत्वा क्रूरं दुरात्मानं देवर्षीणां भयावहम्। दशवर्षसहस्राणि दशवर्षशतानि च। वत्स्यामि मानुषे लोके पालयन्पृथिवीमिमाम्।।1.15.28।। Bala Kanda,15,29,एवं दत्वा वरं देवो देवानां विष्णुरात्मवान्। मानुषे चिन्तयामास जन्मभूमिमथात्मन:।।1.15.29।। Bala Kanda,15,30,तत: पद्मपलाशाक्ष: कृत्वाऽऽत्मानं चतुर्विधम्। पितरं रोचयामास तथा दशरथन्नृपम्।।1.15.30।। Bala Kanda,15,31,तदा देवर्षि गन्धर्वास्सरुद्रास्साप्सरोगणा:। स्तुतिभिर्दिव्यरूपाभिस्तुष्टुवुर्मधुसूदनम्।।1.15.31।। Bala Kanda,15,32,तमुद्धतं रावणमुग्रतेजसं प्रवृद्धदर्पं त्रिदशेश्वरद्विषम्। विरावणं साधुतपस्विकण्टकं तपस्विनामुद्धर तं भयावहम्।।1.15.32।। Bala Kanda,15,33,तमेव हत्वा सबलं सबान्धवं विरावणं रावणमग्य्रपौरुषम्। स्वर्लोकमागच्छ गतज्वरश्चिरं सुरेन्द्रगुप्तं गतदोषकल्मषम्।।1.15.33।। Bala Kanda,16,1,ततो नारायणो देवो नियुक्तस्सुरसत्तमै:। जानन्नपि सुरानेवं श्लक्ष्णं वचनमब्रवीत्।।1.16.1।। Bala Kanda,16,2,उपाय: को वधे तस्य रावणस्य दुरात्मन:। यमहं तं समास्थाय निहन्यामृषिकण्टकम्।।1.16.2।। Bala Kanda,16,3,एवमुक्तास्सुरास्सर्वे प्रत्यूचुर्विष्णुमव्ययम्। मानुषीं तनुमास्थाय रावणं जहि संयुगे।।1.16.3।। Bala Kanda,16,4,स हि तेपे तपस्तीव्रं दीर्घकालमरिन्दम । येन तुष्टोऽभवद्ब्रह्मा लोककृल्लोकपूर्वज:।।1.16.4।। Bala Kanda,16,5,सन्तुष्ट: प्रददौ तस्मै राक्षसाय वरं प्रभु:। 04 नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात्।।1.16.5।। अवज्ञाता: पुरा तेन वरदाने हि मानवा:। 105 Bala Kanda,16,6,एवं पितामहात्तस्माद्वरं प्राप्य स दर्पित:।।1.16.6।। Bala Kanda,16,7,उत्सादयति लोकान्त्रीन् स्त्रियश्चाप्यपकर्षति । तस्मात्तस्य वधो दृष्टो मानुषेभ्य: परन्तप।।1.16.7।। Bala Kanda,16,8,इत्येतद्वचनं श्रुत्वा सुराणां विष्णुरात्मवान्। पितरं रोचयामास तदा दशरथं नृपम्।।1.16.8।। Bala Kanda,16,9,स चाप्यपुत्रो नृपतिस्तस्मिन्काले महाद्युति:। अयजत्पुत्रियामिष्टिं पुत्रेप्सुररिसूदन:।।1.16.9।। Bala Kanda,16,10,स कृत्वा निश्चयं विष्णुरामन्त्र्य च पितामहम्। अन्तर्धानं गतो देवै: पूज्यमानो महर्षिभि:।।1.16.10।। Bala Kanda,16,11,तो वै यजमानस्य पावकादतुलप्रभम्। प्रादुर्भूतं महद्भूतं महावीर्यं महाबलम्।।1.16.11।। Bala Kanda,16,12,कृष्णं रक्ताम्बरधरं रक्तास्यं दुन्दुभिस्वनम्। स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम्।।1.16.12।। Bala Kanda,16,13,शुभलक्षणसम्पन्नं दिव्याभरणभूषितम्। शैलशृङ्गसमुत्सेथं दृप्तशार्दूलविक्रमम्।।1.16.13।। Bala Kanda,16,14,दिवाकरसमाकारं दीप्तानलशिखोपमम्। तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम्।।1.16.14।। Bala Kanda,16,15,दिव्यपायससम्पूर्णां पात्रीं पत्नीमिव प्रियाम्। प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीमिव।।1.16.15।। Bala Kanda,16,16,समवेक्ष्याब्रवीद्वाक्यमिदं दशरथं नृपम्। प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप।।1.16.16।। Bala Kanda,16,17,तत: परं तदा राजा प्रत्युवाच कृताञ्जलि:। भगवन् स्वागतं तेऽस्तु किमहं करवाणि ते।।1.16.17।। Bala Kanda,16,18,अथो पुनरिदं वाक्यं प्राजापत्यो नरोऽब्रवीत्। राजन्नर्चयता देवानद्य प्राप्तमिदं त्वया।।1.16.18।। Bala Kanda,16,19,इदं तु नृपशार्दूल पायसं देवनिर्मितम्। प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्धनम्।।1.16.19।। Bala Kanda,16,20,भार्याणामनुरूपाणामश्नीतेति प्रयच्छ वै। तासु त्वं प्राप्स्यसे पुत्रान्यदर्थं यजसे नृप।।1.16.20।। Bala Kanda,16,21,तथेति नृपति: प्रीतश्शिरसा प्रतिगृह्यताम्। पात्रीं देवान्नसम्पूर्णां देवदत्तां हिरण्मयीम्।।1.16.21।। Bala Kanda,16,22,अभिवाद्य च तद्भूतमद्भुतं प्रियदर्शनम्। मुदा परमया युक्तश्चकाराभिप्रदक्षिणम्।।1.16.22।। Bala Kanda,16,23,ततो दशरथ: प्राप्य पायसं देवनिर्मितम्। बभूव परमप्रीत: प्राप्य वित्तमिवाधन:।।1.16.23।। Bala Kanda,16,24,ततस्तदद्भुतप्रख्यं भूतं परमभास्वरम्। संवर्तयित्वा तत्कर्म तत्रैवान्तरधीयत।।1.16.24।। Bala Kanda,16,25,हर्षरश्मिभिरुद्योतं तस्यान्त:पुरमाबभौ। शारदस्याभिरामस्य चन्द्रस्येव नभोंऽशुभि:।।1.16.25।। Bala Kanda,16,26,सोऽन्त:पुरं प्रविश्यैव कौसल्यामिदमब्रवीत्। पायसं प्रतिगृह्णीष्व पुत्रीयं त्विदमात्मन:।।1.16.26।। Bala Kanda,16,27,कौसल्यायै नरपति: पायसार्धं ददौ तदा। अर्धादर्धं ददौ चापि सुमित्रायै नराधिप:।।1.16.27।। Bala Kanda,16,28,कैकेय्यै चावशिष्टार्धं ददौ पुत्रार्थकारणात्। प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम्।।1.16.28।। Bala Kanda,16,29,अनुचिन्त्य सुमित्रायै पुनरेव महीपति:। एवं तासां ददौ राजा भार्याणां पायसं पृथक् ।।1.16.29।। Bala Kanda,16,30,तास्त्वेतत्पायसं प्राप्य नरेन्द्रस्योत्तमास्स्त्रय:। सम्मानं मेनिरे सर्वां: प्रहर्षोदितचेतस:।।1.16.30।। Bala Kanda,16,31,ततस्तु ता: प्राश्य तदुत्तमास्त्रियो महीपतेरुत्तमपायसं पृथक्। हुताशनादित्यसमानतेजसो ऽचिरेण गर्भान्प्रतिपेदिरे तदा।।1.16.31।। Bala Kanda,16,32,ततस्तु राजा प्रसमीक्ष्य ता: स्त्रिय: प्ररूढगर्भा: प्रतिलब्धमानस:। बभूव हृष्टस्त्रिदिवे यथा हरि: सुरेन्द्रसिद्धर्षिगणाभिपूजित:।।1.16.32।। Bala Kanda,17,1,पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य सुमहात्मन:। उवाच देवतास्सर्वास्स्वयम्भूर्भगवानिदम्।।1.17.1।। Bala Kanda,17,2,सत्यसन्धस्य वीरस्य सर्वेषान्नो हितैषिण:। विष्णोस्सहायान्बलिनस्सृजध्वं कामरूपिण:।।1.17.2।। Bala Kanda,17,3,मायाविदश्च शूरांश्च वायुवेगसमाञ्जवे। नयज्ञान्बुद्धिसम्पन्नान्विष्णुतुल्यपराक्रमान्।।1.17.3।। Bala Kanda,17,4,असंहार्यानुपायज्ञान् दिव्यसंहननान्वितान्। सर्वास्त्रगुणसम्पन्नानमृतप्राशनानिव।।1.17.4।। Bala Kanda,17,5,अप्सरस्सु च मुख्यासु गन्धर्वाणां तनूषु च । सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान्।।1.17.5।। Bala Kanda,17,6,पूर्वमेव मया सृष्टो जाम्बवानृक्षपुङ्गव:। जृम्भमाणस्य सहसा मम वक्त्रादजायत।।1.17.6।। Bala Kanda,17,7,ते तथोक्ता भगवता तत्प्रतिश्रुत्य शासनम्। जनयामासुरेवं ते पुत्रान्वानररूपिण:।।1.17.7।। Bala Kanda,17,8,ऋषयश्च महात्मानस्सिद्धविद्याधरोरगा:। चारणाश्च सुतान्वीरान्ससृजुर्वनचारिण:।।1.17.8।। Bala Kanda,17,9,वानरेन्द्रं महेन्द्राभमिन्द्रो वालिनमूर्जितम्। सुग्रीवं जनयामास तपनस्तपतां वर:।।1.17.9।। Bala Kanda,17,10,बृहस्पतिस्त्वजनयत्तारं नाम महाहरिम्। सर्ववानरमुख्यानां बुद्धिमन्तमनुत्तमम्।।1.17.10।। Bala Kanda,17,11,धनदस्य सुतश्श्रीमान् वानरो गन्धमादन:। विश्वकर्मात्वजनयन्नलं नाम महाहरिम्।।1.17.11।। Bala Kanda,17,12,पावकस्य सुतश्श्रीमान् नीलोऽग्निसदृशप्रभ:। तेजसा यशसा वीर्यादत्यरिच्यत वानरान्।।1.17.12।। Bala Kanda,17,13,रूपद्रविणसम्पन्नावश्विनौ रूपसम्मतौ। मैन्दं च द्विविदं चैव जनयामासतुस्स्वयम्।।1.17.13।। Bala Kanda,17,14,वरुणो जनयामास सुषेणं वानरर्षभम्। शरभं जनयामास पर्जन्यस्तु महाबलम्।।1.17.14।। Bala Kanda,17,15,मारुतस्यात्मजश्श्रीमान्हनुमान्नाम वीर्यवान् । वज्रसंहननोपेतो वैनतेयसमो जवे।।1.17.15।। Bala Kanda,17,16,ते सृष्टा बहुसाहस्रा दशग्रीववधे रता:। अप्रमेयबला वीरा विक्रान्ता: कामरूपिण:।।1.17.16।। Bala Kanda,17,17,मेरुमन्दरसङ्काशा वपुष्मन्तो महाबला:। ऋक्षवानरगोपुच्छा: क्षिप्रमेवाभिजज्ञिरे।।1.17.17।। Bala Kanda,17,18,यस्य देवस्य यद्रूपं वेषो यश्च पराक्रम:। अजायत समस्तेन तस्य तस्य सुत: पृथक्।।1.17.18।। Bala Kanda,17,19,गोलाङ्गूलीषु चोत्पन्ना: केचित्सम्मतविक्रमा:। ऋक्षीषु च तथा जाता वानरा: किन्नरीषु च।।1.17.19।। Bala Kanda,17,20,देवा महर्षिगन्धर्वास्तार्क्ष्या यक्षा यशस्विन:। नागा: किम्पुरुषाश्चैव सिद्धविद्याधरोरगा:।।1.17.20।। Bala Kanda,17,21,बहवो जनयामासुर्हृष्टास्तत्र सहस्रश:। वानरान्सुमहाकायान्सर्वान्वै वनचारिण:।।1.17.21।। Bala Kanda,17,22,अप्सरस्सु च मुख्यासु तथा विद्याधरीषु च। नागकन्यासु च तथा गन्धर्वीणां तनूषु च ।।1.17.22।। Bala Kanda,17,23,कामरूपबलोपेता यथाकामं विचारिण:। सिंहशार्दूलसदृशा दर्पेण च बलेन च।।1.17.23।। Bala Kanda,17,24,शिलाप्रहरणास्सर्वे सर्वे पादपयोधिन:।।1.17.24।। नखदंष्ट्रायुधास्सर्वे सर्वे सर्वास्त्रकोविदा:। Bala Kanda,17,25,विचालयेयुश्शैलेन्द्रान्भेदयेयुस्स्थिरान्द्रुमान्। क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम्।।1.17.25।। Bala Kanda,17,26,दारयेयु: क्षितिं पद्भ्यामाप्लवेयुर्महार्णवम्। नभ:स्थलम् विशेयुश्च गृह्णीयुरपि तोयदान्।।1.17.26।। Bala Kanda,17,27,गृह्णीयुरपि मातङ्गान्मत्तान्प्रव्रजतो वने। नर्दमानाश्च नादेन पातयेयुर्विहङ्गमान्।।1.17.27।। Bala Kanda,17,28,ईदृशानां प्रसूतानि हरीणां कामरूपिणाम्। शतं शतसहस्राणि यूथपानां महात्मनाम्।।1.17.28।। Bala Kanda,17,29,ते प्रधानेषु यूथेषु हरीणां हरियूथपा:। बभूवुर्यूथपश्रेष्ठा वीरांश्चाजनयन् हरीन्।।1.17.29।। Bala Kanda,17,30,अन्ये ऋक्षवत: प्रस्थानवतस्थु स्सहस्रश:। अन्ये नानाविधान्शैलान्भेजिरे काननानि च।।1.17.30।। Bala Kanda,17,31,सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम्। भ्रातरावुपतस्थुस्ते सर्व एव हरीश्वरा:।।1.17.31।। नलं नीलं हनूमन्तमन्यांश्च हरियूथपान्। 3 Bala Kanda,17,32,ते तार्क्ष्यबलसम्पन्नास्सर्वे युद्धविशारदा:। विचरन्तोऽर्दयन्दर्पात्सिंहव्याघ्रमहोरगान्।।1.17.32।। Bala Kanda,17,33,तांश्च सर्वान्महाबाहुर्वाली विपुलविक्रम:। जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान्।।1.17.33।। Bala Kanda,17,34,तैरियं पृथिवी शूरैस्सपर्वतवनार्णवा। कीर्णा विविधसंस्थानैर्नानाव्यञ्जनलक्षणै:।।1.17.34।। Bala Kanda,17,35,तैर्मेघबृन्दाचलकूटकल्पै: महाबलैर्वानरयूथपालै:। बभूव भूर्भीमशरीररूपै स्समावृता रामसहायहेतो:।।1.17.35।। Bala Kanda,18,1,निर्वृत्ते तु क्रतौ तस्मिन्हयमेधे महात्मन:। प्रतिगृह्य सुरा भागान्प्रतिजग्मुर्यथागतम्।।1.18.1।। Bala Kanda,18,2,समाप्तदीक्षानियम: पत्नीगणसमन्वित:। प्रविवेश पुरीं राजा सभृत्यबलवाहन:।।1.18.2।। Bala Kanda,18,3,यथार्हं पूजितास्तेन राज्ञा वै पृथिवीश्वरा:। मुदिता: प्रययुर्देशान्प्रणम्य मुनिपुङ्गवम्।।1.18.3।। Bala Kanda,18,4,श्रीमतां गच्छतां तेषां स्वपुराणि पुरात्तत:। बलानि राज्ञां शुभ्राणि प्रहृष्टानि चकाशिरे।।1.18.4।। Bala Kanda,18,5,गतेषु पृथिवीशेषु राजा दशरथस्तदा। प्रविवेश पुरीं श्रीमान् पुरस्कृत्य द्विजोत्तमान्।।1.18.5।। Bala Kanda,18,6,शान्तया प्रययौ सार्धमृश्यशृङ्गस्सुपूजित:। अन्वीयमानो राज्ञाऽथ सानुयात्रेण धीमता।।1.18.6।। Bala Kanda,18,7,एवं विसृज्य तान्सर्वान्राजा सम्पूर्णमानस:। उवास सुखितस्तत्र पुत्रोत्पत्तिं विचिन्तयन्।।1.18.7।। Bala Kanda,18,8,ततो यज्ञे समाप्ते तु ऋतूनां षट्समत्ययु:। ततश्च द्वादशे मासे चैत्रे नावमिके तिथौ।।1.18.8।। Bala Kanda,18,9,नक्षत्रेऽदितिदैवत्ये स्वोच्चसंस्थेषु पञ्चसु। ग्रहेषु कर्कटे लग्ने वाक्पताविन्दुना सह।।1.18.9।। Bala Kanda,18,10,प्रोद्यमाने जगन्नाथं सर्वलोकनमस्कृतम्। कौसल्याऽजनयद्रामं सर्वलक्षणसंयुतम्।।1.18.10।। विष्णोरर्धं महाभागं पुत्रमैक्ष्वाकुवर्धनम्। Bala Kanda,18,11,कौसल्या शुशुभे तेन पुत्रेणामिततेजसा।।1.18.11।। यथा वरेण देवानामदितिर्वज्रपाणिना। Bala Kanda,18,12,भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रम:।।1.18.12।। साक्षाद्विष्णोश्चतुर्भागस्सर्वैस्समुदितो गुणै:। Bala Kanda,18,13,अथ लक्ष्मणशत्रुघ्नौ सुमित्राऽजनयत्सुतौ।।1.18.13।। वीरौ सर्वास्त्रकुशलौ विष्णोरर्धसमन्वितौ। Bala Kanda,18,14,पुष्ये जातस्तु भरतो मीनलग्ने प्रसन्नधी:।।1.18.14।। सार्पे जातौ च सौमित्री कुलीरेऽभ्युदिते रवौ। Bala Kanda,18,15,राज्ञ: पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक्।।1.18.15।। गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमा:। Bala Kanda,18,16,जगु: कलं च गन्धर्वा ननृतुश्चाप्सरोगणा:।।1.18.16।। Bala Kanda,18,17,देवदुन्दुभयो नेदु: पुष्पवृष्टिश्च खाच्च्युता। उत्सवश्च महानासीदयोध्यायां जनाकुल:।।1.18.17।। Bala Kanda,18,18,रथ्याश्च जनसम्बाधा नटनर्तकसङ्कुला: । गायनैश्च विराविण्यो वादनैश्च तथाऽपरै:।।1.18.18।। Bala Kanda,18,19,प्रदेयांश्च ददौ राजा सूतमागधवन्दिनाम्। ब्राह्मणेभ्यो ददौ वित्तं गोधनानि सहस्रश:।।1.18.19।। Bala Kanda,18,20,अतीत्यैकादशाहं तु नामकर्म तथाऽकरोत्। ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम्।।1.18.20।। Bala Kanda,18,21,सौमित्रिं लक्ष्मणमिति शत्रुघ्नमपरं तथा। वसिष्ठ: परमप्रीतो नामानि कृतवान् तदा ।।1.18.21।। Bala Kanda,18,22,ब्राह्मणान्भोजयामास पौराञ्जानपदानपि। अददाद्ब्रह्मणानां च रत्नौघममितं बहु।।1.18.22।। तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत्। Bala Kanda,18,23,तेषां केतुरिव ज्येष्ठो रामो रतिकर: पितु:।।1.18.23।। बभूव भूयो भूतानां स्वयम्भूरिव सम्मत:। Bala Kanda,18,24,सर्वे वेदविदश्शूरास्सर्वे लोकहिते रता:।।1.18.24।। सर्वे ज्ञानोपसम्पन्नास्सर्वे समुदिता गुणै:। Bala Kanda,18,25,तेषामपि महातेजा रामस्सत्यपराक्रम:।।1.18.25।। इष्टस्सर्वस्य लोकस्य शशाङ्क इव निर्मल:। Bala Kanda,18,26,गजस्कन्धेऽश्वपृष्ठे च रथचर्यासु सम्मत:।।1.18.26।। धनुर्वेदे च निरत: पितृशुश्रूषणे रत:। Bala Kanda,18,27,बाल्यात्प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्धन:।।1.18.27।। रामस्य लोकरामस्य भ्रातुर्ज्येष्ठस्य नित्यश:। Bala Kanda,18,28,सर्वप्रियकरस्तस्य रामस्यापि शरीरत:।।1.18.28।। लक्ष्मणो लक्ष्मिसम्पन्नो बहि:प्राण इवापर:। Bala Kanda,18,29,न च तेन विना निद्रां लभते पुरुषोत्तम:।।1.18.29।। मृष्टमन्नमुपानीतमश्नाति न हि तं विना। Bala Kanda,18,30,यदा हि हयमारूढो मृगयां याति राघव:।।1.18.30।। तदैनं पृष्ठतोऽन्वेति सधनु: परिपालयन्। Bala Kanda,18,31,भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि स:।।1.18.31।। प्राणै: प्रियतरो नित्यं तस्य चासीत्तथा प्रिय:। Bala Kanda,18,32,स चतुर्भिर्महाभागै:पुत्रैर्दशरथ: प्रियै:।।1.18.32।। बभूव परमप्रीतो देवैरिव पितामह:। Bala Kanda,18,33,ते यदा ज्ञानसम्पन्नास्सर्वैस्समुदिता गुणै:।।1.18.33।। Bala Kanda,18,34,ह्रीमन्त: कीर्तिमन्तश्च सर्वज्ञा दीर्घदर्शिन:। तेषामेवं प्रभावानां सर्वेषां दीप्ततेजसाम्।।1.18.34।। पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा। Bala Kanda,18,35,ते चापि मनुजव्याघ्रा वैदिकाध्ययने रता:।।1.18.35।। पितृशुश्रूषणरता धनुर्वेदे च निष्ठिता:। Bala Kanda,18,36,अथ राजा दशरथस्तेषां दारक्रियां प्रति।।1.18.36।। चिन्तयामास धर्मात्मा सोपाध्यायस्सबान्धव:। Bala Kanda,18,37,तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मन:।।1.18.37।। अभ्यगच्छन्महातेजा विश्वामित्रो महामुनि:। Bala Kanda,18,38,स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह।।1.18.38।। शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनस्सुतम्। Bala Kanda,18,39,तच्छ्रुत्वा वचनं त्रासाद्राज्ञो वेश्म प्रदुद्रुवु:।।1.18.39।। सम्भ्रान्तमनसस्सर्वे तेन वाक्येन चोदिता:। Bala Kanda,18,40,ते गत्वा राजभवनं विश्वामित्रमृषिं तदा।।1.18.40।। प्राप्तमावेदयामासुर्नृपायैक्ष्वाकवे तदा। Bala Kanda,18,41,तेषां तद्वचनं श्रुत्वा सपुरोधास्समाहित:।।1.18.41।। प्रत्युज्जगाम तं हृष्टो ब्रह्माणमिव वासव:। Bala Kanda,18,42,तं दृष्ट्वा ज्वलितं दीप्त्या तापसं संशितव्रतम्।।1.18.42।। प्रहृष्टवदनो राजा ततोऽर्घ्यमुपहारयत्। Bala Kanda,18,43,स राज्ञ: प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा।।1.18.43।। कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम्।2 Bala Kanda,18,44,पुरे कोशे जनपदे बान्धवेषु सुहृत्सु च ।।1.18.44।। कुशलं कौशिको राज्ञ: पर्यपृच्छत्सुधार्मिक:। Bala Kanda,18,45,अपि ते सन्नतास्सर्वे सामन्ता रिपवो जिता:।।1.18.45।। दैवं च मानुषं चापि कर्म ते साध्वनुष्ठितम्। Bala Kanda,18,46,वसिष्ठं च समागम्य कुशलं मुनिपुङ्गव:।।1.18.46।। ऋषींश्च तान्यथान्यायं महाभागानुवाच ह। Bala Kanda,18,47,ते सर्वे हृष्टमनसस्तस्य राज्ञो निवेशनम्।।1.18.47।। विविशु: पूजितास्तत्र निषेदुश्च यथार्हत:। Bala Kanda,18,48,अथ हृष्टमना राजा विश्वामित्रं महामुनिम्।।1.18.48।। उवाच परमोदारो हृष्टस्तमभिपूजयन्। Bala Kanda,18,49,यथाऽमृतस्य सम्प्राप्तिर्यथावर्षमनूदके। यथा सदृशदारेषु पुत्रजन्माऽप्रजस्य च ।।1.18.49।। Bala Kanda,18,50,प्रणष्टस्य यथालाभो यथा हर्षो महोदये। तथैवागमनं मन्ये स्वागतं ते महामुने।।1.18.50।। Bala Kanda,18,51,कं च ते परमं कामं करोमि किमु हर्षित: ।।1.18.51।। Bala Kanda,18,52,पात्रभूतोऽसि मे ब्रह्मन्दिष्टया प्राप्ताऽसि कौशिक । अद्य मे सफलं जन्म जीवितं च सुजीवितम्।।1.18.52।। Bala Kanda,18,53,पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः। ब्रह्मर्षित्वमनुप्राप्त: पूज्योऽसि बहुधा मया।।1.18.53।। Bala Kanda,18,54,तदद्भुतमिदं ब्रह्मन्पवित्रं परमं मम। शुभक्षेत्रगतश्चाहं तव सन्दर्शनात्प्रभो।।1.18.54।। Bala Kanda,18,55,ब्रूहि यत्प्रार्थितं तुभ्यं कार्यमागमनं प्रति। इच्छाम्यनुगृहीतोऽहं त्वदर्थपरिवृद्धये।।1.18.55।। Bala Kanda,18,56,कार्यस्य न विमर्शं च गन्तुमर्हसि कौशिक। कर्ता चाहमशेषेण दैवतं हि भवान्मम।।1.18.56।। Bala Kanda,18,57,मम चायमनुप्राप्तो महानभ्युदयो द्विज। तवागमनज: कृत्स्नो धर्मश्चानुत्तमो मम।।1.18.57।। Bala Kanda,18,58,इति हृदयसुखं निशम्य वाक्यं श्रुतिसुखमात्मवता विनीतमुक्तम्। प्रथितगुणयशा गुणैर्विशिष्ट: परमऋषि: परमं जगाम हर्षम्।।1.18.58।। Bala Kanda,19,1,तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम्। हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत।।1.19.1।। Bala Kanda,19,2,सदृशं राजशार्दूल तवैतद्भुवि नान्यथा। महावंशप्रसूतस्य वसिष्ठव्यपदेशिन:।।1.19.2।। Bala Kanda,19,3,यत्तु मे हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम्। कुरूष्व राजशार्दूल भव सत्यप्रतिश्रव:।।1.19.3।। Bala Kanda,19,4,अहंनियममातिष्ठे सिध्यर्थं पुरुषर्षभ। तस्य विघ्नकरौ द्वौ तु राक्षसौ कामरूपिणौ।।1.19.4।। Bala Kanda,19,5,व्रते मे बहुशश्चीर्णे समाप्त्यां राक्षसाविमौ। मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ।।1.19.5।। समांसरुधिरौघेण वेदिं तामभ्यवर्षताम्। Bala Kanda,19,6,अवधूते तथाभूते तस्मिन्नियमनिश्चये।।1.19.6।। कृतश्रमो निरुत्साहस्तस्माद्देशादपाक्रमे। Bala Kanda,19,7,न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव।।1.19.7।। तथा भूता हि सा चर्या न शापस्तत्र मुच्यते। Bala Kanda,19,8,स्वपुत्रं राजशार्दूल रामं सत्यपराक्रमम्।।1.19.8।। काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि। Bala Kanda,19,9,शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा।।1.19.9।। राक्षसा ये विकर्तारस्तेषामपि विनाशने। Bala Kanda,19,10,श्रेयश्चास्मै प्रदास्यामि बहुरूपं न संशय:।।1.19.10।। त्रयाणामपि लोकानां येन ख्यातिं गमिष्यति। Bala Kanda,19,11,न च तौ राममासाद्य शक्तौ स्थातुं कथञ्चन।।1.19.11।। न च तौ राघवादन्यो हन्तुमुत्सहते पुमान्। Bala Kanda,19,12,वीर्योत्सिक्तौ हि तौ पापौ कालपाशवशं गतौ।।1.19.12।। रामस्य राजशार्दूल न पर्याप्तौ महात्मन:। Bala Kanda,19,13,न च पुत्रकृतस्नेहं कर्तुमर्हसि पार्थिव।।1.19.13।। अहं ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ। Bala Kanda,19,14,अहं वेद्मि महात्मानं रामं सत्यपराक्रमम्।।1.19.14।। वसिष्ठोऽपि महातेजा ये चेमे तपसि स्थिता:। Bala Kanda,19,15,यदि ते धर्मलाभं च यशश्च परमं भुवि।।1.19.15।। स्थितमिच्छसि राजेन्द्र रामं मे दातुमर्हसि। Bala Kanda,19,16,यदिह्यनुज्ञां काकुत्स्थ ददते तव मन्त्रिण:।।1.19.16।। वसिष्ठप्रमुखा: सर्वे ततो रामं विसर्जय। Bala Kanda,19,17,अभिप्रेतमसंसक्तमात्मजं दातुमर्हसि।।1.19.17।। दशरात्रं हि यज्ञस्य रामं राजीवलोचनम्। Bala Kanda,19,18,नात्येति कालो यज्ञस्य यथाऽयं मम राघव।।1.19.18।। तथा कुरुष्व भद्रं ते मा च शोके मन: कृथा:। Bala Kanda,19,19,इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वच:।।1.19.19।। विरराम महातेजा विश्वामित्रो महामुनि:। Bala Kanda,19,20,स तन्निशम्य राजेन्द्रो विश्वामित्रवचश्शुभम्।।1.19.20।। शोकमभ्यगमत्तीव्रं व्यषीदत भयान्वित:। Bala Kanda,19,21,इति हृदयमनोविदारणं मुनिवचनं तदतीव शुश्रुवान्। नरपतिरभवन्महांस्तदा व्यथितमना: प्रचचाल चासनात्।।1.19.21।। Bala Kanda,20,1,तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम्। मुहूर्तमिव निस्संज्ञस्संज्ञावानिदमब्रवीत्।।1.20.1।। Bala Kanda,20,2,ऊनषोडशवर्षो मे रामो राजीवलोचन:। न युद्धयोग्यतामस्य पश्यामि सह राक्षसै:।।1.20.2।। Bala Kanda,20,3,इयमक्षौहिणी पूर्णा यस्याहं पतिरीश्वर:। अनया संवृतो गत्वा योद्धाऽहं तैर्निशाचरै:।।1.20.3।। Bala Kanda,20,4,इमे शूराश्च विक्रान्ता भृत्या मेऽस्त्रविशारदा:। योग्या रक्षोगणैर्योद्धुं न रामं नेतुमर्हसि।।1.20.4।। Bala Kanda,20,5,अहमेव धनुष्पाणिर्गोप्ता समरमूर्धनि। यावत्प्राणान्धरिष्यामि तावद्योत्स्ये निशाचरै:।।1.20.5।। Bala Kanda,20,6,निर्विघ्ना व्रतचर्या सा भविष्यति सुरक्षिता। अहं तत्रागमिष्यामि न रामं नेतुमर्हसि।।1.20.6।। Bala Kanda,20,7,बालो ह्यकृतविद्यश्च न च वेत्ति बलाबलम्। न चास्त्रबलसंयुक्तो न च युद्धविशारद:।।1.20.7।। न चासौ रक्षसां योग्य: कूटयुद्धा हि ते ध्रुवम् । Bala Kanda,20,8,विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे।।1.20.8।। जीवितुं मुनिशार्दूल न रामं नेतुमर्हसि। Bala Kanda,20,9,यदि वा राघवं ब्रह्मन्नेतुमिच्छसि सुव्रत।।1.20.9।। चतुरङ्गसमायुक्तं मया च सहितं नय। Bala Kanda,20,10,षष्टिर्वर्षसहस्राणि जातस्य मम कौशिक।।1.20.10।। दु:खेनोत्पादितश्चायं न रामं नेतुमर्हसि। Bala Kanda,20,11,चतुर्णामात्मजानां हि प्रीति:परमिका मम।।1.20.11।। ज्येष्ठं धर्मप्रधानं च न रामं नेतुमर्हसि। Bala Kanda,20,12,किंवीर्या राक्षसास्ते च कस्य पुत्राश्च ते च के।।1.20.12।। कथं प्रमाणा: के चैतान्रक्षन्ति मुनिपुङ्गव। Bala Kanda,20,13,कथं च प्रतिकर्तव्यं तेषां रामेण रक्षसाम्।।1.20.13।। मामकैर्वा बलैर्ब्रह्मन्मया वा कूटयोधिनाम्।3 Bala Kanda,20,14,सर्वं मे शंस भगवन्कथं तेषां मया रणे।।1.20.14।। Bala Kanda,20,15,स्थातव्यं दुष्टभावानां वीर्योत्सिक्ता हि राक्षसा:।4 तस्य तद्वचनं श्रुत्वा विश्वामित्रोऽभ्यभाषत।।1.20.15।। Bala Kanda,20,16,पौलस्त्यवंशप्रभवो रावणो नाम राक्षस:। स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम्।।1.20.16।। महाबलो महावीर्यो राक्षसैर्बहुभिर्वृत:। Bala Kanda,20,17,श्रूयते हि महावीर्यो रावणो राक्षसाधिप:।।1.20.17।। साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुने:। Bala Kanda,20,18,यदा स्वयं न यज्ञस्य विघ्नकर्ता महाबल:।।1.20.18।। Bala Kanda,20,19,तेन सञ्चोदितौ द्वौ तु राक्षसौ वै महाबलौ। मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यत:।।1.20.19।। Bala Kanda,20,20,इत्युक्तो मुनिना तेन राजोवाच मुनिं तदा। न हि शक्तोऽस्मि सङ्ग्रामे स्थातुं तस्य दुरात्मन:।।1.20.20।। Bala Kanda,20,21,स त्वं प्रसादं धर्मज्ञ कुरुष्व मम पुत्रके। मम चैवाल्पभाग्यस्य दैवतं हि भवान्गुरु:।।1.20.21।। Bala Kanda,20,22,देवदानवगन्धर्वा यक्षा:पतगपन्नगा:। न शक्ता रावणं सोढुं किं पुनर्मानवा युधि।।1.20.22।। Bala Kanda,20,23,स हि वीर्यवतां वीर्यमादत्ते युधि राक्षस:। तेन चाहं न शक्तोऽस्मि संयोद्धुं तस्य वा बलै:।।1.20.23।। सबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजै:। Bala Kanda,20,24,कथमप्यमरप्रख्यं सङ्ग्रामाणामकोविदम्। बालं मे तनयं ब्रह्मन् नैव दास्यामि पुत्रकम्।।1.20.24।। Bala Kanda,20,25,अथ कालोपमौ युध्दे सुतौ सुन्दोपसुन्दयो:।।1.20.25।। यज्ञविघ्नकरौ तौ ते नैव दास्यामि पुत्रकम्। Bala Kanda,20,26,मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ। तयोरन्यतरेणाहं योध्दा स्यां ससुहृद्गण:।।1.20.26।। Bala Kanda,20,27,इति नरपतिजल्पनाद्द्विजेन्द्रं कुशिकसुतं सुमहान्विवेश मन्यु:। सुहुत इव मखेऽग्निराज्यसिक्त स्समभवदुज्ज्वलितो महर्षिवह्नि:।।1.20.27।। Bala Kanda,21,1,तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम्। समन्यु: कौशिको वाक्यं प्रत्युवाच महीपतिम्।।1.21.1।। Bala Kanda,21,2,पूर्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि। राघवाणामयुक्तोऽयं कुलस्यास्य विपर्यय:।।1.21.2।। Bala Kanda,21,3,यदीदं ते क्षमं राजन् गमिष्यामि यथाऽगतम्। मिथ्याप्रतिज्ञ: काकुत्स्थ सुखीभव सबान्धव:।।1.21.3।। Bala Kanda,21,4,तस्य रोषपरीतस्य विश्वामित्रस्य धीमत:। चचाल वसुधा कृत्स्ना विवेश च भयं सुरान्।।1.21.4।। Bala Kanda,21,5,त्रस्तरूपं तु विज्ञाय जगत्सर्वं महानृषि:। नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत्।।1.21.5।। Bala Kanda,21,6,इक्ष्वाकूणां कुले जातस्साक्षाद्धर्म इवापर:। धृतिमान् सुव्रत: श्रीमान्नधर्मं हातुमर्हसि।।1.21.6।। Bala Kanda,21,7,त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघव। स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि।।1.21.7।। Bala Kanda,21,8,संश्रुत्यैवं करिष्यामीत्यकुर्वाणस्य राघव। इष्टापूर्तवधो भूयात्तस्माद्रामं विसर्जय।।1.21.8।। Bala Kanda,21,9,कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसा:। गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा।।1.21.9।। Bala Kanda,21,10,एष विग्रहवान् धर्म एष वीर्यवतां वर:। एष बुध्याऽधिको लोके तपसश्च परायणम्।।1.21.10।। Bala Kanda,21,11,एषोऽस्त्रान् विविधान्वेत्ति त्रैलोक्ये सचराचरे। नैनमन्य: पुमान्वेत्ति न च वेत्स्यन्ति केचन।।1.21.11।। Bala Kanda,21,12,न देवा नर्षय: केचिन्नासुरा न च राक्षसा:। गन्धर्वयक्षप्रवरास्सकिन्नरमहोरगा:।।1.21.12।। Bala Kanda,21,13,सर्वास्त्राणि भृशाश्वस्य पुत्रा: परमधार्मिका:। कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति।।1.21.13।। Bala Kanda,21,14,तेऽपि पुत्रा भृशाश्वस्य प्रजापतिसुतासुता:। नैकरूपा महावीर्या दीप्तिमन्तो जयावहा:।।1.21.14।। Bala Kanda,21,15,जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे। ते सुवातेऽस्त्रशस्त्राणि शतं परमभास्वरम्।।1.21.15।। Bala Kanda,21,16,पञ्चाशतं सुतान् लेभे जया नाम परान् पुरा। वधायासुरसैन्यानाममेयान् कामरूपिण:।।1.21.16।। Bala Kanda,21,17,सुप्रभाऽजनयच्चापि पुत्रान्पञ्चाशतं पुन:। संहारान्नामदुर्धर्षान् दुराक्रामान् बलीयस:।।1.21.17।। Bala Kanda,21,18,तानि चास्त्राणि वेत्त्येष यथावत्कुशिकात्मज:। अपूर्वाणां च जनने शक्तो भूयस्स धर्मवित्।।1.21.18।। Bala Kanda,21,19,एवं वीर्यो महातेजा विश्वामित्रो महायशाः। न रामगमने राजन् संशयं कर्तुमर्हसि।।1.21.19।। Bala Kanda,21,20,तेषां निग्रहणे शक्तस्स्वयं च कुशिकात्मज:। तव पुत्रहितार्थाय त्वामुपेत्याभियाचते।।1.21.20।। Bala Kanda,21,21,इति मुनिवचनात्प्रसन्नचित्तो रघुवृषभस्तु मुमोद भास्वराङ्ग:। गमनमभिरुरोच राघवस्य प्रथितयशा: कुशिकात्मजाय बुध्या।।1.21.21।। Bala Kanda,22,1,तथा वसिष्ठे ब्रुवति राजा दशरथस्सुतम प्रहृष्टवदनो राममाजुहाव सलक्ष्मणम्।।1.22.1।। Bala Kanda,22,2,कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च। पुरोधसा वसिष्ठेन मङ्गलैरभिमन्त्रितम्।।1.22.2।। Bala Kanda,22,3,स पुत्रं मूर्ध्न्युपाघ्राय राजा दशरथ: प्रियम्। ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना।।1.22.3।। Bala Kanda,22,4,ततो वायुस्सुखस्पर्शो नीरजस्को ववौ तदा। विश्वामित्रगतं दृष्ट्वा रामं राजीवलोचनम्।।1.22.4।। Bala Kanda,22,5,पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभिनिस्वनै:। शङ्खदुन्दुभिनिर्घोष: प्रयाते तु महात्मनि।।1.22.5।। Bala Kanda,22,6,विश्वामित्रो ययावग्रे ततो रामो धनुर्धर:। काकपक्षधरो धन्वी तं च सौमित्रिरन्वगात्।।1.22.6।। Bala Kanda,22,7,कलापिनौ धनुष्पाणी शोभमानौ दिशो दश । विश्वामित्रं महात्मानं त्रिशीर्षाविव पन्नगौ।।1.22.7।। अनुजग्मतुरक्षुद्रौ पितामहमिवाश्विनौ। Bala Kanda,22,8,तदा कुशिकपुत्रं तु धनुष्पाणी स्वलङ्कृतौ।।1.22.8।। Bala Kanda,22,9,बद्धगोधाङ्गुलित्राणौ खड्गवन्तौ महाद्युती । कुमारौ चारुवपुषौ भ्रातरौ रामलक्ष्मणौ ।।1.22.9।। Bala Kanda,22,10,अनुयातौ श्रिया दीप्तौ शोभयेतामनिन्दितौ। स्थाणुं देवमिवाचिन्त्यं कुमाराविव पावकी ।।1.22.10।। Bala Kanda,22,11,अध्यर्धयोजनं गत्वा सरय्वा दक्षिणे तटे। रामेति मधुरां वाणीं विश्वामित्रोऽभ्यभाषत।।1.22.11।। Bala Kanda,22,12,गृहाण वत्स सलिलं मा भूत्कालस्य पर्यय:। मन्त्रग्रामं गृहाण त्वं बलामतिबलां तथा।।1.22.12।। Bala Kanda,22,13,न श्रमो न ज्वरो वा ते न रूपस्य विपर्यय:। न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैऱृता:।।1.22.13।। Bala Kanda,22,14,न बाह्वोस्सदृशो वीर्ये पृथिव्यामस्ति कश्चन। त्रिषु लोकेषु वै राम न भवेत्सदृशस्तव ।।1.22.14।। Bala Kanda,22,15,न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्चये। नोत्तरे प्रतिवक्तव्ये समो लोके तवाऽनघ।।1.22.15।। Bala Kanda,22,16,एतद्विद्याद्वये लब्धे भविता नास्ति ते सम:। बलात्वतिबला चैव सर्वज्ञानस्य मातरौ।।1.22.16।। Bala Kanda,22,17,क्षुत्पिपासे न ते राम भविष्येते नरोत्तम । बलामतिबलां चैव पठत: पथि राघव।।1.22.17।। Bala Kanda,22,18,विद्याद्वयमधीयाने यशश्चाप्यतुलं त्वयि। पितामहसुते ह्येते विद्ये तेजस्समन्विते।।1.22.18।। प्रदातुं तव काकुत्स्थ सदृशस्त्वं हि धार्मिक। Bala Kanda,22,19,कामं बहुगुणास्सर्वे त्वय्येते नात्र संशय:। तपसा सम्भृते चैते बहुरूपे भविष्यत:।।1.22.19।। Bala Kanda,22,20,ततो रामो जलं स्पृष्ट्वा प्रहृष्टवदनश्शुचि:। प्रतिजग्राह ते विद्ये महर्षेर्भावितात्मन:।।1.22.20।। Bala Kanda,22,21,विद्यासमुदितो रामश्शुशुभे भूरिविक्रम:। सहस्ररश्मिर्भगवान् शरदीव दिवाकर:।।1.22.21।। Bala Kanda,22,22,गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे। ऊषुस्तां रजनीं तत्र सरय्वां सुसुखं त्रय:।।1.22.22।। Bala Kanda,22,23,दशरथनृपसूनुसत्तमाभ्यां तृणशयनेऽनुचिते सहोषिताभ्याम्। कुशिकसुतवचोऽनुलालिताभ्यां सुखमिव सा विबभौ विभावरी च।।1.22.23।। Bala Kanda,23,1,प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनि:। अभ्यभाषत काकुत्स्थौ शयानौ पर्णसंस्तरे।।1.23.1।। Bala Kanda,23,2,कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते। उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम्।।1.23.2।। Bala Kanda,23,3,तस्यर्षे: परमोदारं वचश्श्रुत्वा नृपात्मजौ । स्नात्वा कृतोदकौ वीरौ जेपतु: परमं जपम्।।1.23.3।। Bala Kanda,23,4,कृताह्निकौ महावीर्यौ विश्वामित्रं तपोधनम्। अभिवाद्याभिसंहृष्टौ गमनायाभितस्थतु:।।1.23.4।। Bala Kanda,23,5,तौ प्रयातौ महावीर्यौ दिव्यां त्रिपथगां नदीम्। ददृशाते ततस्तत्र सरय्वास्सङ्गमे शुभे।।1.23.5।। Bala Kanda,23,6,तत्राश्रमपदं पुण्यमृषीणामग्य्रतेजसाम् । बहुवर्षसहस्राणि तप्यतां परमं तप:।।1.23.6।। Bala Kanda,23,7,तं दृष्ट्वा परमप्रीतौ राघवौ पुण्यमाश्रमम्। ऊचतुस्तं महात्मानं विश्वामित्रमिदं वच:।।1.23.7।। Bala Kanda,23,8,कस्यायमाश्रम: पुण्य: कोन्वस्मिन्वसते पुमान्। भगवन् श्रोतुमिच्छाव: परं कौतूहलं हि नौ।।1.23.8।। Bala Kanda,23,9,तयोस्तद्वचनं श्रुत्वा प्रहस्य मुनिपुङ्गव:। अब्रवीच्छ्रूयतां राम यस्यायं पूर्व आश्रम:।।1.23.9 ।। Bala Kanda,23,10,कन्दर्पो मूर्तिमानासीत्काम इत्युच्यते बुधै:। तपस्यन्तमिह स्थाणुं नियमेन समाहितम्।।1.23.10।। Bala Kanda,23,11,कृतोद्वाहं तु देवेशं गच्छन्तं समरुद्गगणम्। धर्षयामास दुर्मेधा हुङ्कृतश्च महात्मना।।1.23.11।। Bala Kanda,23,12,अवदग्धस्य रौद्रेण चक्षुषा रघुनन्दन। व्यशीर्यन्त शरीरात्स्वात्सर्वगात्राणि दुर्मते:।।1.23.12।। Bala Kanda,23,13,तस्य गात्रं हतं तत्र निर्दग्थस्य महात्मना। अशरीर: कृत: काम: क्रोधाद्देवेश्वरेण हि।।1.23.13।। Bala Kanda,23,14,अनङ्ग इति विख्यातस्तदाप्रभृति राघव। स चाङ्गविषयश्श्रीमान्यत्राङ्गं प्रमुमोच ह।।1.23.14।। Bala Kanda,23,15,तस्यायमाश्रम: पुण्यस्तस्येमे मुनय: पुरा। शिष्या धर्मपरा नित्यं तेषां पापं न विद्यते।।1.23.15।। Bala Kanda,23,16,इहाद्य रजनीं राम वसेम शुभदर्शन। पुण्ययोस्सरितोर्मध्ये श्वस्तरिष्यामहे वयम्।।1.23.16।। Bala Kanda,23,17,अभिगच्छामहे सर्वे शुचय: पुण्यमाश्रमम्। स्नाताश्च कृतजप्याश्च हुतहव्या नरोत्तम।।1.23.17।। Bala Kanda,23,18,तेषां संवदतां तत्र तपोदीर्घेण चक्षुषा। विज्ञाय परमप्रीता मुनयो हर्षमागमन्।।1.23.18।। Bala Kanda,23,19,अर्घ्यं पाद्यं तथाऽतिथ्यं निवेद्य कुशिकात्मजे। रामलक्ष्मणयो: पश्चादकुर्वन्नतिथिक्रियाम्।।1.23.19।। Bala Kanda,23,20,सत्कारं समनुप्राप्य कथाभिरभिरञ्जयन्। यथार्हमजपन् सन्ध्यामृषयस्ते समाहिता:।।1.23.20।। Bala Kanda,23,21,तत्र वासिभिरानीता मुनिभिस्सुव्रतै: सह। न्यवसन् सुसुखं तत्र कामाश्रमपदे तदा।।1.23.21।। Bala Kanda,23,22,कथाभिरभिरामाभिरभिरामौ नृपात्मजौ। रमयामास धर्मात्मा कौशिको मुनिपुङ्गव:।।1.23.22।। Bala Kanda,24,1,तत: प्रभाते विमले कृताह्निकमरिन्दमौ। विश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ।।1.24.1।। Bala Kanda,24,2,ते च सर्वे महात्मानो मुनयस्संश्रितव्रता:। उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रुवन्।।1.24.2।। Bala Kanda,24,3,आरोहतु भवान्नावं राजपुत्रपुरस्कृत:। अरिष्टं गच्छ पन्थानं मा भूत्कालविपर्यय:।।1.24.3।। Bala Kanda,24,4,विश्वामित्रस्तथेत्युक्तवा तानृषीनभिपूज्य च। ततार सहितस्ताभ्यां सरितं सागरङ्गमाम्।।1.24.4।। Bala Kanda,24,5,ततश्शुश्राव वै शब्दमतिसंरम्भवर्धितम्। मध्यमागम्य तोयस्य सह राम:कनीयसा।।1.24.5।। Bala Kanda,24,6,अथ रामस्सरिन्मध्ये पप्रच्छ मुनिपुङ्गवम्। वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनि:।।1.24.6।। Bala Kanda,24,7,राघवस्य वचश्श्रुत्वा कौतूहलसमन्वित:। कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम्।।1.24.7।। Bala Kanda,24,8,कैलासपर्वते राम मनसा निर्मितं सर:। ब्रह्मणा नरशार्दूल तेनेदं मानसं सर:।।1.24.8।। Bala Kanda,24,9,तस्मात्सुस्राव सरसस्सायोध्यामुपगूहते । सर प्रवृत्ता सरयू: पुण्या ब्रह्मसरश्च्युता।।1.24.9।। Bala Kanda,24,10,तस्यायमतुलश्शब्दो जाह्नवीमभिवर्तते। वारिसङ्क्षोभजो राम प्रणामं नियत:कुरु।।1.24.10।। Bala Kanda,24,11,ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिकौ। तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ।।1.24.11।। Bala Kanda,24,12,स वनं घोरसङ्काशं दृष्ट्वा नृपवरात्मज:। अविप्रहतमैक्ष्वाक: पप्रच्छ मुनिपुङ्गवम्।।1.24.12।। Bala Kanda,24,13,अहो वनमिदं दुर्गं झिल्लिकागणनादितम्। भैरवैश्शपदै: पूर्णं शकुन्तैर्दारुणारुतै:।।1.24.13।। Bala Kanda,24,14,नानाप्रकारैश्शकुनै र्वाश्यद्भिर्भैरवस्वनै:। सिंहव्याघ्रवराहैश्च वारणैश्चोपशोभितम्।।1.24.14।। Bala Kanda,24,15,धवाश्वकर्णककुभैर्बिल्वतिन्दुकपाटलै:। सङ्कीर्णं बदरीभिश्च किन्न्वेतद्दारुणं वनम्।।1.24.15।। Bala Kanda,24,16,तमुवाच महातेजा विश्वामित्रो महामुनि:। श्रूयतां वत्स काकुत्स्थ यस्यैतद्दारुणं वनम्।।1.24.16।। Bala Kanda,24,17,एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तम। मलदाश्च करूशाश्च देवनिर्माणनिर्मितौ।।1.24.17।। Bala Kanda,24,18,पुरा वृत्रवधे राम मलेन समभिप्लुतम्। क्षुधा चैव सहस्राक्षं ब्रह्महत्या समाविशत्।।1.24.18।। Bala Kanda,24,19,तमिन्द्रं स्नापयन् देवा ऋषयश्च तपोधना:। कलशैस्स्नापयामासुर्मलं चास्य प्रमोचयन्।।1.24.19।। Bala Kanda,24,20,इह भूम्यां मलं दत्वा दत्वा कारूशमेव च। शरीरजं महेन्द्रस्य ततो हर्षं प्रपेदिरे।।1.24.20।। Bala Kanda,24,21,निर्मलो निष्करूशश्च शुचिरिंन्द्रो यदाभवत्। ददौ देशस्य सुप्रीतो वरं प्रभुरनुत्तमम्।।1.24.21।। Bala Kanda,24,22,इमौ जनपदौ स्फीतौ ख्यातिं लोके गमिष्यत:। मलदाश्च करूशाश्च ममाङ्गमलधारिणौ।।1.24.22।। Bala Kanda,24,23,साधु साध्विति तं देवा: पाकशासनमब्रुवन्। देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता।।1.24.23।। Bala Kanda,24,24,एतौ जनपदौ स्फीतौ दीर्घकालमरिन्दम। मलदाश्च करूशाश्च मुदितौ धनधान्यत:।।1.24.24।। Bala Kanda,24,25,कस्यचित्त्वथ कालस्य यक्षी वै कामरूपिणी। बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत्।।1.24.25।। Bala Kanda,24,26,ताटका नाम भद्रं ते भार्या सुन्दस्य धीमत:। 2 मारीचो राक्षस: पुत्रो यस्याश्शक्रपराक्रम:।।1.24.26।। Bala Kanda,24,27,वृत्तबाहुर्महावीर्यो विपुलास्य तनुर्महान्। राक्षसो भैरवाकारो नित्यं त्रासयते प्रजा:।।1.24.27।। Bala Kanda,24,28,इमौ जनपदौ नित्यं विनाशयति राघव। मलदांश्च करूशांश्च ताटका दुष्टचारिणी।।1.24.28।। Bala Kanda,24,29,सेयं पन्थानमावृत्य वसत्यध्यर्धयोजने। अत एव न गन्तव्यं ताटकाया वनं यत:।।1.24.29।। Bala Kanda,24,30,स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम्। मन्नियोगादिमं देशं कुरु निष्कण्टकं पुन:।।1.24.30।। Bala Kanda,24,31,न हि कश्चिदिमं देशं शक्नोत्यागन्तुमीदृशम्। यक्षिण्या घोरया राम उत्सादितमसह्यया।।1.24.31।। Bala Kanda,24,32,एतत्ते सर्वमाख्यातं यथैतद्दारुणं वनम्। यक्ष्या चोत्सादितं सर्वमद्यापि न निवर्तते।।1.24.32।। Bala Kanda,25,1,अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम्। श्रुत्वा पुरुषशार्दूल: प्रत्युवाच शुभां गिरम्।।1.25.1।। Bala Kanda,25,2,अल्पवीर्या यदा यक्षा श्श्रूयन्ते मुनिपुङ्गव। कथन्नागसहस्रस्य धारयत्यबला बलम्।।1.25.2।। Bala Kanda,25,3,विश्वामित्रोऽब्रवीद्वाक्यं शृण येन बलोत्तरा। वरदानकृतं वीर्यं धारयत्यबला बलम्।।1.25.3।। Bala Kanda,25,4,पूर्वमासीन्महायक्षस्सुकेतुर्नाम वीर्यवान्। अनपत्यश्शुभाचारस्स च तेपे महत्तप:।।1.25.4।। Bala Kanda,25,5,पितामहस्तु सुप्रीतस्तस्य यक्षपते स्तदा। कन्यारत्नं ददौ राम ताटकां नाम नामत:।।1.25.5।। Bala Kanda,25,6,ददौ नागसहस्रस्य बलं चास्या: पितामह:। नत्वेव पुत्रं यक्षाय ददौ ब्रह्मा महायशा:।।1.25.6।। Bala Kanda,25,7,तां तु जातां विवर्धन्तीं रूपयौवनशालिनीम्। झर्झपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम्।।1.25.7।। Bala Kanda,25,8,कस्यचित्त्वथ कालस्य यक्षी पुत्रमजायत। मारीचं नाम दुर्धर्षं यश्शापाद्राक्षसोऽभवत्।।1.25.8।। Bala Kanda,25,9,सुन्दे तु निहते राम सागस्त्यमृषिसत्तमम्। ताटका सह पुत्रेण प्रधर्षयितुमिच्छति।।1.25.9।। Bala Kanda,25,10,भक्षार्थं जातसंरम्भा गर्जन्ती साभ्यधावत।0 आपतन्तीं तु तां दृष्ट्वा अगस्त्यो भगवानृषि:।।1.25.10।। राक्षसत्वं भजस्वेति मारीचं व्याजहार स:। 1 Bala Kanda,25,11,अगस्त्य: परमक्रुद्धस्ताटकामपि शप्तवान्।।1.25.11।। Bala Kanda,25,12,पुरुषादी महायक्षी विरूपा विकृतानना। इदं रूपं विहायाथ दारुणं रूपमस्तु ते।।1.25.12।। Bala Kanda,25,13,सैषा शापकृतामर्षा ताटका क्रोधमूर्छिता। देशमुत्सादयत्येनमगस्त्यचरितं शुभम्।।1.25.13।। Bala Kanda,25,14,एनां राघव दुर्वृत्तां यक्षीं परमदारुणाम्। गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम्।।1.25.14।। Bala Kanda,25,15,न ह्येनां शापसम्स्पृष्टां कश्चिदुत्सहते पुमान्। निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन।।1.25.15।। Bala Kanda,25,16,न हि ते स्त्रीवधकृते घृणा कार्या नरोत्तम। चातुर्वण्यहितार्थाय कर्तव्यं राजसूनुना।।1.25.16।। Bala Kanda,25,17,नृशंसमनृशंसं वा प्रजारक्षणकारणात्। पातकं वा सदोषं वा कर्तव्यं रक्षता सता।।1.25.17।। Bala Kanda,25,18,राज्यभारनियुक्तानामेष धर्मस्सनातन:। अधर्म्यां जहि काकुत्स्थ धर्मोह्यस्या न विद्यते।।1.25.18।। Bala Kanda,25,19,श्रूयते हि पुरा शक्रो विरोचनसुतां नृप। पृथिवीं हन्तुमिच्छन्तीं मन्थरामभ्यसूदयत्।।1.25.19।। Bala Kanda,25,20,विष्णुनापि पुरा राम भृगुपत्नी दृढव्रता। अनिन्द्रं लोकमिच्छन्ती काव्यमाता निषूदिता।।1.25.20।। Bala Kanda,25,21,एतैश्चान्यैश्च बहुभी राजपुत्र महात्मभि:। अधर्मसहिता नार्यो हता: पुरुषसत्तमै:।।1.25.21।। Bala Kanda,26,1,मुनेर्वचनमक्लीबं श्रुत्वा नरवरात्मज:। राघव: प्राञ्जलिर्भूत्वा प्रत्युवाच दृढव्रत:।।1.26.1।। Bala Kanda,26,2,पितुर्वचननिर्देशात्पितुर्वचनगौरवात्। वचनं कौशिकस्येति कर्तव्यमविशङ्कया।।1.26.2।। Bala Kanda,26,3,अनुशिष्टोऽस्म्ययोध्यायां गुरुमध्ये महात्मना। पित्रा दशरथेनाहं नावज्ञेयं हि तद्वच:।।1.26.3।। Bala Kanda,26,4,सोऽहं पितुर्वचश्श्रुत्वा शासनाद्ब्रह्मवादिन:। करिष्यामि न सन्देहस्ताटकावधमुत्तमम्।।1.26.4।। Bala Kanda,26,5,गोब्राह्मणहितार्थाय देशस्यास्य सुखाय च। तव चैवाप्रमेयस्य वचनं कर्तुमुद्यत:।।1.26.5।। Bala Kanda,26,6,एवमुक्त्वा धनुर्मध्ये बध्वा मुष्टिमरिन्दम:। ज्याशब्दमकरोत्तीव्रं दिशश्शब्देन नादयन्।।1.26.6।। Bala Kanda,26,7,तेन शब्देन वित्रस्तास्ताटकावनवासिन:। ताटका च सुसंक्रुद्धा तेन शब्देन मोहिता।।1.26.7।। Bala Kanda,26,8,तं शब्दमभिनिध्याय राक्षसी क्रोधमूर्छिता। श्रुत्वा चाभ्यद्रवद्वेगाद्यतश्शब्दो विनिस्सृत:।।1.26.8।। Bala Kanda,26,9,तां दृष्ट्वा राघव: क्रुद्धां विकृतां विकृताननाम्। प्रमाणेनातिवृद्धां च लक्ष्मणं सोऽभ्यभाषत।।1.26.9।। Bala Kanda,26,10,पश्य लक्ष्मण यक्षिण्या भैरवं दारुणं वपु:। भिद्येरन् दर्शनादस्या भीरूणां हृदयानि च।।1.26.10।। Bala Kanda,26,11,एनां पश्य दुराधर्षां मायाबलसमन्विताम्। विनिवृत्तां करोम्यद्य हृतकर्णाग्रनासिकाम्।।1.26.11।। Bala Kanda,26,12,न ह्येनामुत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम्। वीर्यं चास्यां गतिं चापि हनिष्यामीति मे मति:।।1.26.12।। Bala Kanda,26,13,एवं ब्रुवाणे रामे तु ताटका क्रोधमूर्छिता। उद्यम्य बाहू गर्जन्ती राममेवाभ्यधावत।।1.26.13।। Bala Kanda,26,14,विश्वामित्रस्तु ब्रह्मर्षिर्हुङ्कारेणाभिभर्त्स्यताम्। स्वस्ति राघवयोरस्तु जयं चैवाभ्यभाषत।।1.26.14।। Bala Kanda,26,15,उद्धून्वाना रजो घोरं ताटका राघवावुभौ। रजोमोहेन महता मुहूर्तं सा व्यमोहयत्।।1.26.15।। Bala Kanda,26,16,ततो मायां समास्थाय शिलावर्षेण राघवौ। अवाकिरत्सुमहता ततश्चुक्रोध राघव:।।1.26.16।। Bala Kanda,26,17,शिलावर्षं महत्तस्याश्शरवर्षेण राघव:। प्रतिहत्योपधावन्त्या: करौ चिच्छेद पत्रिभि: ।।1.26.17।। Bala Kanda,26,18,ततश्छिन्नभुजां श्रान्तामभ्याशे परिगर्जतीम्। सौमित्रिरकरोत्क्रोधाद्धृतकर्णाग्रनासिकाम्।।1.26.18।। Bala Kanda,26,19,कामरूपधरा सद्य: कृत्वा रूपाण्यनेकश: । अन्तर्धानं गता यक्षी मोहयन्तीव मायया ।।1.26.19।। अश्मवर्षं विमुञ्चन्ती भैरवं विचचार ह । Bala Kanda,26,20,ततस्तावश्मवर्षेण कीर्यमाणौ समन्तत:।।1.26.20।। दृष्ट्वा गाधिसुतश्श्रीमानिदं वचनमब्रवीत्। Bala Kanda,26,21,अलं ते घृणया राम पापैषा दुष्टचारिणी।।1.26.21।। यज्ञविघ्नकरी यक्षी पुरावर्धति मायया। Bala Kanda,26,22,वध्यतां तावदेवैषा पुरा सन्ध्या प्रवर्तते।।1.26.22।। रक्षांसि सन्ध्याकालेषु दुर्धर्षाणि भवन्ति वै। Bala Kanda,26,23,इत्युक्तस्तु तदा यक्षी अश्मवृष्ट्याभिवर्षतीम्।।1.26.23।। दर्शयन् शब्दवेधित्वं तां रुरोध स सायकै:। Bala Kanda,26,24,सा रुद्धा शरजालेन मायाबलसमन्विता।।1.26.24।। अभिदुद्राव काकुत्स्थं लक्ष्मणं च विनेदुषी। Bala Kanda,26,25,तामापतन्तीं वेगेन विक्रान्तामशनीमिव।।1.26.25।। शरेणोरसि विव्याथ सा पपात ममार च। Bala Kanda,26,26,तां हतां भीमसङ्काशां दृष्ट्वा सुरपतिस्तदा।।1.26.26।। साधु साध्विति काकुत्स्थं सुराश्च समपूजयन्। Bala Kanda,26,27,उवाच परमप्रीत स्सहस्राक्ष: पुरन्दर:।।1.26.27।। सुराश्च सर्वे संहृष्टा विश्वामित्रमथाब्रुवन्। Bala Kanda,26,28,मुने कौशिक भद्रं ते सेन्द्रास्सर्वे मरुद्गणा:।।1.26.28।। तोषिता: कर्मणाऽनेन स्नेहं दर्शय राघवे। Bala Kanda,26,29,प्रजापतेर्भृशाश्वस्य पुत्रान् सत्यपराक्रमान्।।1.26.29।। तपोबलभृतो ब्रह्मन् राघवाय निवेदय। Bala Kanda,26,30,पात्रभूतश्च ते ब्रह्मंस्तवानुगमने धृत:।।1.26.30।। कर्तव्यं च महत्कर्म सुराणां राजसूनुना। Bala Kanda,26,31,एवमुक्त्वा सुरास्सर्वे हृष्टा जग्मुर्यथागतम्।।1.26.31।। विश्वामित्रं पुरस्कृत्य ततस्सन्ध्या प्रवर्तते। Bala Kanda,26,32,ततो मुनिवर: प्रीतस्ताटकावधतोषित:।।1.26.32।। मूर्ध्नि राममुपाघ्राय इदं वचनमब्रवीत्। Bala Kanda,26,33,इहाद्य रजनीं राम वसेम शुभदर्शन।।1.26.33।। श्व: प्रभाते गमिष्यामस्तदाश्रमपदं मम। Bala Kanda,26,34,विश्वामित्रवच: श्रुत्वा हृष्टो दशरथात्मज:।।1.26.34।। उवास रजनीं तत्र ताटकाया वने सुखम्। Bala Kanda,26,35,मुक्तशापं वनं तच्च तस्मिन्नेव तदाहनि।।1.26.35।। रमणीयं विबभ्राज यथा चैत्ररथं वनम्। Bala Kanda,26,36,निहत्य तां यक्षसुतां स राम: प्रशस्यमानस्सुरसिद्धसङ्घै:। उवास तस्मिन्मुनिना सहैव प्रभातवेलां प्रतिबोध्यमान:।।1.26.36।। Bala Kanda,27,1,अथ तां रजनीमुष्य विश्वामित्रो महायशाः। प्रहस्य राघवं वाक्यमुवाच मधुराक्षरम्।।1.27.1।। Bala Kanda,27,2,परितुष्टोऽस्मि भद्रं ते राजपुत्र महायशः। प्रीत्या परमया युक्तो ददाम्यस्त्राणि सर्वशः।।1.27.2।। Bala Kanda,27,3,देवासुरगणान्वापि सगन्धर्वोरगानपि। यैरमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि।।1.27.3।। तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः । Bala Kanda,27,4,दण्डचक्रं महद्दिव्यं तव दास्यामि राघव।।1.27.4।। Bala Kanda,27,5,धर्मचक्रं ततो वीर कालचक्रं तथैव च। विष्णुचक्रं तथात्युग्रमैन्द्रमस्त्रं तथैव च।।1.27.5।। Bala Kanda,27,6,वज्रमस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा। अस्त्रं ब्रह्मशिरश्चैव ऐषीकमपि राघव।।1.27.6।। ददामि ते महाबाहो ब्राह्ममस्त्रमनुत्तमम्। Bala Kanda,27,7,गदे द्वे चैव काकुत्स्थ मोदकी शिखरी उभे।।1.27.7।। प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज। Bala Kanda,27,8,धर्मपाशमहं राम कालपाशं तथैव च।।1.27.8।। पाशं वारुणमस्त्रं च ददाम्यहमनुत्तमम्। Bala Kanda,27,9,अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनन्दन।।1.27.9।। ददामि चास्त्रं पैनाकमस्त्रं नारायणं तथा। Bala Kanda,27,10,आग्नेयमस्त्रं दयितं शिखरं नाम नामतः।।1.27.10।। वायव्यं प्रथनं नाम ददामि च तवानघ । Bala Kanda,27,11,अस्त्रं हयशिरो नाम क्रौञ्चमस्त्रं तथैव च। शक्तिद्वयं च काकुत्स्थ ददामि तव राघव।।1.27.11।। Bala Kanda,27,12,कङ्कालं मुसलं घोरं कापालमथ कङ्कणम्। धारयन्त्यसुरा यानि ददाम्येतानि सर्वशः।।1.27.12।। Bala Kanda,27,13,वैद्याधरं महास्त्रं च नन्दनं नाम नामतः। असिरत्नं महाबाहो ददामि च नृपात्मज।।1.27.13।। Bala Kanda,27,14,गान्धर्वमस्त्रं दयितं मानवं नाम नामतः। प्रस्वापनप्रशमने दद्मि सौरं च राघव।।1.27.14।। Bala Kanda,27,15,दर्पणं शोषणं चैव सन्तापनविलापने। मदनं चैव दुर्धर्षं कन्दर्पदयितं तथा।।1.27.15।। Bala Kanda,27,16,पैशाचमस्त्रं दयितं मोहनं नाम नामतः। प्रतीच्छ नरशार्दूल राजपुत्र महायशः।।1.27.16।। Bala Kanda,27,17,तामसं नरशार्दूल सौमनं च महाबल। संवर्धं चैव दुर्धर्षं मौसलं च नृपात्मज।।1.27.17।। Bala Kanda,27,18,सत्यमस्त्रं महाबाहो तथा मायाधरं परम्। घोरं तेजः प्रभं नाम परतेजोऽपकर्षणम्।।1.27.18।। Bala Kanda,27,19,सौम्यास्त्रं शिशिरं नाम त्वष्टुरस्त्रं सुदामनम्। दारुणं च भगस्यापि शितेषु मथ मानवम्।।1.27.19।। Bala Kanda,27,20,एतान् राम महाबाहो कामरूपान् महाबलान् । गृहाण परमोदारान् क्षिप्रमेव नृपात्मज।।1.27.20।। Bala Kanda,27,21,स्थितस्तु प्राङ्मुखो भूत्वा शुचिर्मुनिवरस्तदा। ददौ रामाय सुप्रीतो मन्त्रग्राममनुत्तमम्।।1.27.21।। Bala Kanda,27,22,सर्वसङ्ग्रहणं येषां दैवतैरपि दुर्लभम्। तान्यस्त्राणि तदा विप्रो राघवाय न्यवेदयत्।।1.27.22।। Bala Kanda,27,23,जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः। उपतस्थुर्महार्हाणि सर्वाण्यस्त्राणि राघवम्।।1.27.23।। Bala Kanda,27,24,ऊचुश्च मुदितास्सर्वे रामं प्राञ्जलयस्तदा। इमे स्म परमोदाराः किङ्करास्तव राघव।।1.27.24।। Bala Kanda,27,25,प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना। मानसा मे भविष्यध्वमिति तानभ्यचोदयत्।।1.27.25।। Bala Kanda,27,26,ततः प्रीतमना रामो विश्वामित्रं महामुनिम्। अभिवाद्य महातेजा गमनायोपचक्रमे।।1.27.26।। Bala Kanda,28,1,प्रतिगृह्य ततोऽस्त्राणि प्रहृष्टवदनश्शुचि:। गच्छन्नेव च काकुत्स्थो विश्वामित्रमथाब्रवीत्।।1.28.1।। Bala Kanda,28,2,गृहीतास्त्रोऽस्मि भगवन् दुराधर्षस्सुरैरपि। अस्त्राणां त्वहमिच्छामि संहारं मुनिपुङ्गव।।1.28.2।। Bala Kanda,28,3,एवं ब्रुवति काकुत्स्थे विश्वामित्रो महामुनि:। संहारं व्याजहाराथ धृतिमान् सुव्रतश्शुचि:।।1.28.3।। Bala Kanda,28,4,सत्यवन्तं सत्यकीर्तिं धृष्टं रभसमेव च। प्रतिहारतरं नाम पराङ्मुखमवाङ्मुखम्।।1.28.4।। Bala Kanda,28,5,लक्षाक्षविषमौ चैव दृढनाभसुनाभकौ। दशाक्षशतवक्त्रौ च दशशीर्षशतोदरौ।।1.28.5।। Bala Kanda,28,6,पद्मनाभमहानाभौ दुन्दुनाभसुनाभकौ। ज्योतिषं कृशनं चैव नैराश्यविमलावुभौ।।1.28.6।। Bala Kanda,28,7,योगन्धरहरिद्रौ च दैत्यप्रशमनौतथा। सार्चिर्माली धृतिर्माली वृत्तिमान् रुचिरस्तथा।।1.28.7।। Bala Kanda,28,8,पितृसौमनसं चैव विधूतमकरावुभौ। करवीरकरं चैव धनधान्यौ च राघव।।1.28.8।। Bala Kanda,28,9,कामरूपं कामरुचिं मोहमावरणं तथा। जृम्भकं सर्वनाभं च सन्तानवरणौ तथा।।1.28.9।। Bala Kanda,28,10,भृशाश्वतनयान् राम भास्वरान्कामरूपिण:। प्रतीच्छ मम भद्रं ते पात्रभूतोऽसि राघव।।1.28.10।। Bala Kanda,28,12,बाढमित्येव काकुत्स्थ: प्रहृष्टेनान्तारात्मना। दिव्यभास्वरदेहाश्च मूर्तिमन्तस्सुखप्रदा:।।1.28.11 केचिदङ्गारसदृशा: केचिद्धूमोपमास्तथा। चन्द्रार्कसदृशा: केचित्प्रह्वाञ्जलिपुटास्तथा।।1.28.12।। Bala Kanda,28,13,रामं प्राञ्जलयो भूत्वाऽब्रुवन् मधुरभाषिण:। इमे स्म नरशार्दूल शाधि किं करवाम ते।।1.28.13।। Bala Kanda,28,14,मानसा: कार्यकालेषु साहाय्यं मे करिष्यथ। गम्यतामिति तानाह यथेष्टं रघुनन्दन:।।1.28.14।। Bala Kanda,28,15,अथ ते राममामन्त्ऱ्य कृत्वा चापि प्रदक्षिणम्। एवमस्त्विति काकुत्स्थमुक्त्वाजग्मुर्यथाऽगतम्।।1.28.15।। Bala Kanda,28,16,स च तान् राघवो ज्ञात्वा विश्वामित्रं महामुनिम्। गच्छन्नेवाथ मधुरं श्लक्ष्णं वचनमब्रवीत्।।1.28.16।। Bala Kanda,28,17,किन्न्वेतन्मेघसङ्काशं पर्वतस्याविदूरत:। वृक्षषण्डमितो भाति परं कौतूहलं हि मे।।1.28.17।। Bala Kanda,28,18,दर्शनीयं मृगाकीर्णं मनोरममतीव च। नानाप्रकारैश्शकुनैर्वल्गुनादैरलङ्कृतम्।।1.28.18।। Bala Kanda,28,19,निस्सृता: स्म मुनिश्रेष्ठ कान्ताराद्रोमहर्षणात्। अनया त्ववगच्छामि देशस्य सुखवत्तया।।1.28.19।। सर्वं मे शंस भगवन् कस्याश्रमपदं त्विदम्। Bala Kanda,28,20,सम्प्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टचारिण:।।1.28.20।। Bala Kanda,28,21,तव यज्ञस्य विघ्नाय दुरात्मानो महामुने। भगवन् तस्य को देशस्सा यत्र तव याज्ञिकी।।1.28.21।। Bala Kanda,28,22,रक्षितव्या क्रिया ब्रह्मन्मया वध्याश्च राक्षसा:। एतत्सर्वं मुनिश्रेष्ठ श्रोतुमिच्छाम्यहं प्रभो।।1.28.22।। Bala Kanda,29,1,अथ तस्याप्रमेयस्य तद्वनं परिपृच्छत:। विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे।।1.29.1।। Bala Kanda,29,2,इह राम महाबाहो विष्णुर्देववर: प्रभु:। वर्षाणि सुबहूनीह तथा युगशतानि च।।1.29.2।। तपश्चरणयोगार्थमुवास सुमहातपा:। Bala Kanda,29,3,एष पूर्वाश्रमो राम वामनस्य महात्मन:।।1.29.3।। सिद्धाश्रम इति ख्यातस्सिद्धो ह्यत्र महातपा:। Bala Kanda,29,4,एतस्मिन्नेव काले तु राजा वैरोचनिर्बलि:।।1.29.4।। Bala Kanda,29,5,निर्जित्य दैवतगणान् सेन्द्रांश्च समरुद्गणान्। कारयामास तद्राज्यं त्रिषु लोकेषु विश्रुत:।।1.29.5।। Bala Kanda,29,6,बलेस्तु यजमानस्य देवास्साग्निपुरोगमा:। समागम्य स्वयं चैव विष्णुमूचुरिहाश्रमे।।1.29.6।। Bala Kanda,29,7,बलिर्वैरोचनिर्विष्णो यजते यज्ञमुत्तमम्। असमाप्ते क्रतौ तस्मिन् स्वकार्यमभिपद्यताम्।।1.29.7।। Bala Kanda,29,8,ये चैनमभिवर्तन्ते याचितार इतस्तत:। यच्च यत्र यथावच्च सर्वं तेभ्य: प्रयच्छति।।1.29.8।। Bala Kanda,29,9,स त्वं सुरहितार्थाय मायायोगमुपागत:। वामनत्वं गतो विष्णो कुरु कल्याणमुत्तमम्।।1.29.9।। Bala Kanda,29,10,एतस्मिन्नन्तरे राम कश्यपोऽग्निसमप्रभ:। अदित्या सहितो राम दीप्यमान इवौजसा।।1.29.10।। Bala Kanda,29,11,देवीसहायो भगवान् दिव्यं वर्षसहस्रकम् । व्रतं समाप्य वरदं तुष्टाव मधुसूदनम्।।1.29.11।। Bala Kanda,29,12,तपोमयं तपोराशिं तपोमूर्तिं तपात्मकम्। तपसा त्वां सुतप्तेन पश्यामि पुरुषोत्तमम्।।1.29.12।। Bala Kanda,29,13,शरीरे तव पश्यामि जगत्सर्वमिदं प्रभो। त्वमनादिरनिर्देश्यस्त्वामहं शरणं गत:।।1.29.13।। Bala Kanda,29,14,तमुवाच हरि: प्रीत: कश्यपं धूतकल्मषम्। वरं वरय भद्रं ते वरार्होऽसि मतो मम ।।1.29.14।। Bala Kanda,29,15,तच्छ्रुत्वा वचनं तस्य मारीच: कश्यपोऽब्रवीत्। अदित्या देवतानां च मम चैवानुयाचत:।।1.29.15।। वरं वरद सुप्रीतो दातुमर्हसि सुव्रत। Bala Kanda,29,16,पुत्रत्वं गच्छ भगवन्नदित्या मम चानघ।।1.29.16।। Bala Kanda,29,17,भ्राता भव यवीयांस्त्वं शक्रस्यासुरसूदन । शोकार्तानां तु देवानां साहाय्यं कर्तुमर्हसि।।1.29.17।। Bala Kanda,29,18,अयं सिद्धाश्रमो नाम प्रसादा त्ते भविष्यति। सिद्धे कर्मणि देवेश उत्तिष्ठ भगवन्नित:।।1.29.18।। Bala Kanda,29,19,अथ विष्णुर्महातेजा अदित्यां समजायत। वामनं रूपमास्थाय वैरोचनिमुपागमत्।।1.29.19।। Bala Kanda,29,20,त्रीन् क्रमानथ भिक्षित्वा प्रतिगृह्य च मानद:। आक्रम्य लोकान् लोकात्मा सर्वभूतहिते रत:।।1.29.20।। Bala Kanda,29,21,महेन्द्राय पुन: प्रादान्नियम्य बलिमोजसा। त्रैलोक्यं स महातेजाश्चक्रे शक्रवशं पुन:।।1.29.21।। Bala Kanda,29,22,तेनैष पूर्वमाक्रान्त आश्रमश्श्रमनाशन:। मयापि भक्तय तस्यैष वामनस्योपभुज्यते।।1.29.22।। Bala Kanda,29,23,एतमाश्रममायान्ति राक्षसा विघ्नकारिण:। अत्रैव पुरुषव्याघ्र हन्तव्या दुष्टचारिण:।।1.29.23।। Bala Kanda,29,24,अद्य गच्छामहे राम सिद्धाश्रममनुत्तमम्। तदाश्रमपदं तात तवाप्येतद्यथा मम।।1.29.24।। Bala Kanda,29,25,प्रविशन्नाश्रमपदं व्यरोचत महामुनि:। शशीव गतनीहार: पुनर्वसुसमन्वित:।।1.29.25।। Bala Kanda,29,26,तं दृष्ट्वा मुनयस्सर्वे सिद्धाश्रमनिवासिन:। उत्पत्त्योत्पत्त्य सहसा विश्वामित्रमपूजयन्।।1.29.26।। Bala Kanda,29,27,यथार्हं चक्रिरे पूजां विश्वामित्राय धीमते। तथैव राजपुत्राभ्यामकुर्वन्नतिथिक्रियाम्।।1.29.27।। Bala Kanda,29,28,मुहूर्तमथ विश्रान्तौ राजपुत्रावरिन्दमौ। प्राञ्जली मुनिशार्दूलमूचतू रघुनन्दनौ।।1.29.28।। Bala Kanda,29,29,अद्यैव दीक्षां प्रविश भद्रं ते मुनिपुङ्गव। सिद्धाश्रमोऽयं सिद्धस्स्यात् सत्यमस्तु वचस्तव।।1.29.29।। Bala Kanda,29,30,एवमुक्तो महातेजा विश्वामित्रो महान् ऋषि: । प्रविवेश तदा दीक्षां नियतो नियतेन्द्रिय:।।1.29.30।। Bala Kanda,29,31,कुमारावपि तां रात्रिमुषित्वा सुसमाहितौ। प्रभातकाले चोत्थाय पूर्वां सन्ध्यामुपास्य च।।1.29.31।। Bala Kanda,29,32,स्पृष्टोदकौ शुची जप्यं समाप्य नियमेन च । हुताग्निहोत्रमासीनं विश्वामित्रमवन्दताम् ।।1.29.32।। Bala Kanda,30,1,अथ तौ देशकालज्ञौ राजापुत्रावरिन्दमौ। देशे काले च वाक्यज्ञावब्रूतां कौशिकं वच:।।1.30.1।। Bala Kanda,30,2,भगवन् श्रोतुमिच्छावो यस्मिन् काले निशाचरौ। संरक्षणीयौ तौ ब्रह्मन्नातिवर्तेत तत्क्षणम्।।1.30.2।। Bala Kanda,30,3,एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया। सर्वे ते मुनय: प्रीता: प्रशशंसुर्नृपात्मजौ।।1.30.3।। Bala Kanda,30,4,अद्यप्रभृति षड्रात्रं रक्षतं राघवौ युवाम्। दीक्षां गतो ह्येष मुनिर्मौनित्वं च गमिष्यति।।1.30.4।। Bala Kanda,30,5,तौ तु तद्वचनं श्रुत्वा राजपुत्रौ यशस्विनौ। अनिद्रौ षडहोरात्रं तपोवनमरक्षताम्।।1.30.5।। Bala Kanda,30,6,उपासाञ्चक्रतुर्वीरौ यत्तौ परमधन्विनौ। ररक्षतुर्मुनिवरं विश्वामित्रमरिन्दमौ।।1.30.6।। Bala Kanda,30,7,अथ काले गते तस्मिन् षष्ठेऽहनि समागते। सौमित्रिमब्रवीद्रामो यत्तो भव समाहित:।।1.30.7।। Bala Kanda,30,8,रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सया। प्रजज्वाल ततो वेदिस्सोपाध्यायपुरोहिता।।1.30.8।। Bala Kanda,30,9,सदर्भचमसस्रुक्का ससमित्कुसुमोच्चया। विश्वामित्रेण सहिता वेदिर्जज्वाल सर्त्विजा।।1.30.9।। Bala Kanda,30,10,मन्त्रवच्च यथान्यायं यज्ञोऽसौ सम्प्रवर्तते। आकाशे च महान् शब्द: प्रादुरासीद्भयानक:।।1.30.10।। Bala Kanda,30,11,आवार्य गगनं मेघो यथा प्रावृषि निर्गत:। तथामायां विकुर्वाणौ राक्षसावभ्यधावताम्।।1.30.11।। Bala Kanda,30,12,मारीचश्च सुबाहुश्च तयोरनुचराश्च ये। आगम्य भीमसङ्काशा रुधिरौघमवासृजन्।।1.30.12।। Bala Kanda,30,13,सा तेन रुधिरौघेण वेदिर्जज्वाल मण्डिता। सहसाऽभिद्रुतो रामस्तानपश्य त्ततो दिवि।।1.30.13।। Bala Kanda,30,14,तावापतन्तौ सहसा दृष्ट्वा राजीवलोचन:। लक्ष्मणं त्वभिसम्प्रेक्ष्य रामो वचनमब्रवीत्।।1.30.14।। Bala Kanda,30,15,पश्य लक्ष्मण दुर्वृत्तान् राक्षसान् पिशिताशनान्। मानवास्त्रसमाधूताननिलेन यथा घनान्।।1.30.15।। Bala Kanda,30,16,मानवं परमोदारमस्त्रं परमभास्वरम्। चिक्षेप परमक्रुद्धो मारीचोरसि राघव:।।1.30.16।। Bala Kanda,30,17,स तेन परमास्त्रेण मानवेन समाहित:। संपूर्णं योजनशतं क्षिप्तस्सागरसम्प्लवे।।1.30.17।। Bala Kanda,30,18,विचेतनं विघूर्णन्तं शीतेषु बलताडितम्। निरस्तं दृश्य मारीचं रामो लक्ष्मणमब्रवीत्।।1.30.18।। Bala Kanda,30,19,पश्य लक्ष्मण शीतेषुं मानवं धर्मसंहितम्। मोहयित्वा नयत्येनं न च प्राणैर्व्ययुज्यत।।1.30.19।। Bala Kanda,30,20,इमानपि वधिष्यामि निर्घृणान् दुष्टचारिण:। राक्षसान् पापकर्मस्थान् यज्ञघ्नान् रुधिराशनान्।।1.30.20।। Bala Kanda,30,21,सङ्गृह्यास्त्रं ततो रामो दिव्यमाग्नेयमद्भुतम्। सुबाहूरसि चिक्षेप सविद्ध: प्रापतद्भुवि।।1.30.21।। Bala Kanda,30,22,शेषान् वायव्यमादाय निजघान महायशा:। राघव: परमोदारो मुनीनां मुदमावहन्।।1.30.22।। Bala Kanda,30,23,स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दन:। ऋषिभि: पूजितस्तत्र यथेन्द्रो विजये पुरा।।1.30.23।। Bala Kanda,30,24,अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनि:। निरीतिका दिशो दृष्टवा काकुत्स्थमिदमब्रवीत्।।1.30.24।। Bala Kanda,31,1,अथ तां रजनीं तत्र कृतार्थौ रामलक्ष्मणौ। ऊषतुर्मुदितौ वीरौ प्रहृष्टेनान्तरात्मना।।1.31.1।। Bala Kanda,31,2,प्रभातायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियौ। विश्वामित्रमृषींश्चान्यान् सहितावभिजग्मतु:।।1.31.2।। Bala Kanda,31,3,अभिवाद्य मुनिश्रेष्ठं ज्वलन्तमिव पावकम्। ऊचतुर्मधुरोदारं वाक्यं मधुरभाषिणौ।।1.31.3।। Bala Kanda,31,4,इमौ स्म मुनिशार्दूल किङ्करौ समुपस्थितौ। आज्ञापय यथेष्टं वै शासनं करवाव किम्।।1.31.4।। Bala Kanda,31,5,एवमुक्ता स्ततस्ताभ्यां सर्व एव महर्षय:। विश्वामित्रं पुरस्कृत्य रामं वचनमब्रुवन्।।1.31.5।। Bala Kanda,31,6,मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति। यज्ञ: परमधर्मिष्ठस्तस्य यास्यामहे वयम्।।1.31.6।। Bala Kanda,31,7,त्वं चैव नरशार्दूल सहास्माभिर्गमिष्यसि। अद्भुतं धनुरत्नं च तत्र तद्रष्टुमर्हसि।।1.31.7।। Bala Kanda,31,8,तद्धि पूर्वं नरश्रेष्ठ दत्तं सदसि दैवतै:। अप्रमेयबलं घोरं मखे परमभास्वरम्।।1.31.8।। Bala Kanda,31,9,नास्य देवा न गन्धर्वा नासुरा न च राक्षसा:। कर्तुमारोपणं शक्ता न कथञ्चन मानुषा:।।1.31.9।। Bala Kanda,31,10,धनुषस्तस्य वीर्यं तु जिज्ञासन्तो महीक्षित:। न शेकुरारोपयितुं राजपुत्रा महाबला:।।1.31.10।। Bala Kanda,31,11,तद्धनुर्नरशार्दूल मैथिलस्य महात्मन:। तत्र द्रक्ष्यसि काकुत्स्थ यज्ञं चाद्भुतदर्शनम्।।1.31.11।। Bala Kanda,31,12,तद्धि यज्ञफलं तेन मैथिलेनोत्तमं धनु:। याचितं नरशार्दूल सुनाभं सर्वदैवतै:।।1.31.12।। Bala Kanda,31,13,आयागभूतं नृपतेस्तस्य वेश्मनि राघव। अर्चितं विविधैर्गन्धैर्धूपैश्चागरुगन्धिभि:।।1.31.13।। Bala Kanda,31,14,एवमुक्त्वा मुनिवर: प्रस्थानमकरोत्तदा। सर्षिसङ्घ स्सकाकुत्स्थ: आमन्त्र्य वनदेवता:।।1.31.14।। Bala Kanda,31,15,स्वस्ति वोऽस्तु गमिष्यामि सिद्वस्सिद्धाश्रमादहम्। उत्तरे जाह्नवीतीरे हिमवन्तं शिलोच्चयम्।।1.31.15।। Bala Kanda,31,16,प्रदक्षिणं तत: कृत्वा सिद्धाश्रममनुत्तमम्। उत्तरां दिशमुद्दिश्य प्रस्थातुमुपचक्रमे।।1.31.16।। Bala Kanda,31,17,तं प्रयान्तं मुनिवरमन्वयादनुसारिणम्। शकटीशतमात्रं तु प्रायेण ब्रह्मवादिनाम्।।1.31.17।। Bala Kanda,31,18,मृगपक्षिगणाश्चैव सिद्धाश्रमनिवासिन:। अनुजग्मुर्महात्मानं विश्वामित्रं महामुनिम्।।1.31.18।। निवर्तयामास तत: पक्षिसङ्घान् मृगानपि। Bala Kanda,31,19,ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे। वासं चक्रुर्मुनिगणाः शोणाकूले समाहिता:।।1.31.19।। Bala Kanda,31,20,तेऽस्तं गते दिनकरे स्नात्वा हुतहुताशना:। विश्वामित्रं पुरस्कृत्य निषेदुरमितौजस:।।1.31.20।। Bala Kanda,31,21,रामोऽपि सहसौमित्रिर्मुनीं स्तानभिपूज्य च। अग्रतो निषसादाथ विश्वामित्रस्य धीमत:।।1.31.21।। Bala Kanda,31,22,अथ रामो महातेजाः विश्वामित्रं महामुनिम्। पप्रच्छ नरशार्दूल: कौतूहलसमन्वित:।।1.31.22।। Bala Kanda,31,23,भगवन् कोऽन्वयं देशस्समृद्धवनशोभित:। श्रोतुमिच्छामि भद्रं ते वक्तुमर्हसि तत्त्वत:।।1.31.23।। Bala Kanda,31,24,चोदितो रामवाक्येन कथयामास सुव्रत:। तस्य देशस्य निखिलमृषिमध्ये महातपा:।।1.31.24।। Bala Kanda,32,1,[Description of the four sons of Brahma and the dynasty of Kusanabha-- enraged Windgod turns the daughters of Kusanabha into humpedback ones. ब्रह्मयोनिर्महानासीत्कुशो नाम महातपा:। अक्लिष्टव्रतधर्मज्ञः सज्जनप्रतिपूजक:।।1.32.1।। Bala Kanda,32,2,स महात्मा कुलीनायां युक्तायां सुगुणोल्बणान्। वैदर्भ्यां जनयामास चतुरस्सदृशान् सुतान्।।1.32.2।। कुशाम्बं कुशनाभं च अधूर्तरजसं वसुम्। Bala Kanda,32,3,दीप्तियुक्तान् महोत्साहान् क्षत्रधर्मचिकीर्षया।।1.32.3।। तानुवाच कुश: पुत्रान् धर्मिष्ठान् सत्यवादिन:। Bala Kanda,32,4,क्रियतां पालनं पुत्रा: धर्मं प्राप्स्यथ पुष्कलम्।।1.32.4।। Bala Kanda,32,5,ऋषेस्तु वचनं श्रुत्वा चत्वारो लोकसम्मता:। निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा।।1.32.5।। Bala Kanda,32,6,कुशाम्बस्तु महातेजा: कौशाम्बीमकरोत्पुरीम् । कुशनाभस्तु धर्मात्मा पुरं चक्रे महोदयम्।।1.32.6।। Bala Kanda,32,7,अधूर्तरजसो राम धर्मारण्यं महीपति:। चक्रे पुरवरं राजा वसुश्चक्रे गिरिव्रजम्।।1.32.7।। Bala Kanda,32,8,एषा वसुमती राम वसोस्तस्य महात्मन:। एते शैलवरा: पञ्च प्रकाशन्ते समन्तत:।।1.32.8। Bala Kanda,32,9,सुमागधी नदी रम्या मगधान् विश्रुताययौ। पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते।।1.32.9।। Bala Kanda,32,10,सैषा हि मागधी राम वसोस्तस्य महात्मन:। पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी।।1.32.10।। Bala Kanda,32,11,कुशनाभस्तु राजर्षि: कन्याशतमनुत्तमम्। जनयामास धर्मात्मा घृताच्यां रघुनन्दन।।1.32.11।। Bala Kanda,32,12,तास्तु यौवनशालिन्यो रूपवत्य स्स्वलङ्कृता:। उद्यानभूमिमागम्य प्रावृषीव शतह्रदा:।।1.32.12।। Bala Kanda,32,13,गायन्त्यो नृत्यमानाश्च वादयन्त्यश्च सर्वश:। आमोदं परमं जग्मुर्वराभरणभूषिता:।।1.32.13।। Bala Kanda,32,14,अथ ताश्चारुसर्वाङ्ग्यो रूपेणाप्रतिमा भुवि। उद्यानभूमिमागम्य तारा इव घनान्तरे।।1.32.14।। Bala Kanda,32,15,तास्सर्वगुणसम्पन्ना रूपयौवनसंयुता:। दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत्।।1.32.15।। Bala Kanda,32,16,अहं व: कामये सर्वा भार्या मम भविष्यथ। मानुषस्त्यज्यतां भावः दीर्घमायुरवाप्स्यथ।।1.32.16।। Bala Kanda,32,17,चलं हि यौवनं नित्यं मानुषेषु विशेषत:। अक्षय्यं यौवनं प्राप्ताः अमर्यश्च भविष्यथ।।1.32.17।। Bala Kanda,32,18,तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्मण:। अपहास्य ततो वाक्यं कन्याशतमथाब्रवीत् ।।1.32.18।। Bala Kanda,32,19,अन्तश्चरसि भूतानां सर्वेषां त्वं सुरोत्तम । प्रभावज्ञा: स्म ते सर्वा: किमस्मानवमन्यसे।।1.32.19।। Bala Kanda,32,20,कुशनाभसुतास्सर्वा: समर्थास्त्वां सुरोत्तम। स्थानाच्च्यावयितुं देवं रक्षामस्तु तपो वयम्।।1.32.20।। Bala Kanda,32,21,माभूत्स कालो दुर्मेध: पितरं सत्यवादिनम्। नावमन्यस्व धर्मेण स्वयं वरमुपास्महे।।1.32.21।। Bala Kanda,32,22,पिता हि प्रभुरस्माकं दैवतं परमं हि न:। यस्य नो दास्यति पिता स नो भर्ता भविष्यति।।1.32.22।। Bala Kanda,32,23,तासां तद्वचनं श्रुत्वा वायु: परमकोपन:। प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभु:।।1.32.23।। Bala Kanda,32,24,ता: कन्या वायुना भग्ना विविशुर्नृपतेर्गृहम्। प्रापतन् भुवि सम्भ्रान्तास्सलज्जा स्सास्रलोचना:।।1.32.24।। Bala Kanda,32,25,स च ता दयिता दीना: कन्या: परमशोभना:। दृष्ट्वा भग्नास्तदा राजा सम्भ्रान्त इदमब्रवीत्।।1.32.25।। Bala Kanda,32,26,किमिदं कथ्यतां पुत्र्य: को धर्ममवमन्यते। कुब्जा: केन कृता: सर्वा वेष्टन्त्यो नाभिभाषथ। एवं राजा विनिश्श्वस्य समाधिं सन्दधे तत:।।1.32.26।। Bala Kanda,33,1,तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमत:। शिरोभिश्चरणौ स्पृष्ट्वा कन्याशतमभाषत।।1.33.1।। Bala Kanda,33,2,वायुस्सर्वात्मको राजन् प्रधर्षयितुमिच्छति। अशुभं मार्गमास्थाय न धर्मं प्रत्यवेक्षते।।1.33.2।। Bala Kanda,33,3,पितृमत्यस्स्म भद्रं ते स्वच्छन्दे न वयं स्थिता:। पितरं नो वृणीष्व त्वं यदि नो दास्यते तव।।1.33.3।। Bala Kanda,33,4,तेन पापानुबन्धेन वचनं न प्रतीच्छता। एवं ब्रुवन्त्यस्सर्वास्स्म वायुना निहता भृशम्।।1.33.4।। Bala Kanda,33,5,तासां तद्वचनं श्रुत्वा राजा परमधार्मिक:। प्रत्युवाच महातेजा: कन्याशतमनुत्तमम्।।1.33.5।। Bala Kanda,33,6,क्षान्तं क्षमावतां पुत्र्य: कर्तव्यं सुमहत्कृतम्। ऐकमत्यमुपागम्य कुलं चावेक्षितं मम।।1.33.6।। Bala Kanda,33,7,अलङ्कारो हि नारीणां क्षमा तु पुरुषस्य वा। दुष्करं तच्च यत् क्षान्तं त्रिदशेषु विशेषत:।।1.33.7।। यादृशी व: क्षमा पुत्र्यस्सर्वासामविशेषत:। Bala Kanda,33,8,क्षमा दानं क्षमा यज्ञः क्षमा सत्यं हि पुत्रिका:।।1.33.8।। क्षमा यश: क्षमा धर्म: क्षमया निष्ठितं जगत्। Bala Kanda,33,9,विसृज्य कन्या: काकुत्स्थ राजा त्रिदशविक्रम:।।1.33.9।। Bala Kanda,33,10,मन्त्रज्ञो मन्त्रयामास प्रदानं सह मन्त्रिभि:। देशकालौ प्रदानस्य सदृशे प्रतिपादनम्।।1.33.10।। Bala Kanda,33,11,एतस्मिन्नेव काले तु चूली नाम महातपा:। ऊर्ध्वरेताश्शुभाचारो ब्राह्मं तप उपागमत्।।1.33.11।। Bala Kanda,33,12,तप्यन्तं तमृषिं तत्र गन्धर्वी पर्युपासते। सोमदा नाम भद्रं ते ऊर्मिला तनया तदा।।1.33.12।। Bala Kanda,33,13,सा च तं प्रणता भूत्वा शुश्रूषणपरायणा। उवास काले धर्मिष्ठा तस्यास्तुष्टोऽभवद्गुरु:।।1.33.13।। Bala Kanda,33,14,स च तां कालयोगेन प्रोवाच रघुनन्दन। परितुष्टोऽस्मि भद्रं ते किं करोमि तव प्रियम्।।1.33.14।। Bala Kanda,33,15,परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरा। उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम्।।1.33.15।। Bala Kanda,33,16,लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपा:। ब्राह्मेण तपसा युक्तं पुत्रमिच्छामि धार्मिक।।1.33.16।। Bala Kanda,33,17,अपतिश्चास्मि भद्रं ते भार्या चास्मि न कस्यचित्। ब्राह्मेणोपगतायाश्च दातुमर्हसि मे सुतम्।।1.33.17।। Bala Kanda,33,18,तस्या: प्रसन्नो ब्रह्मर्षिर्ददौ पुत्रमनुत्तमम्। ब्रह्मदत्त इति ख्यातं मानसं चूलिनस्सुतम्।।1.33.18।। Bala Kanda,33,19,स राजा सौमदेयस्तु पुरीमध्यवसत्तदा। कांपिल्यां परया लक्ष्म्या देवराजो यथा दिवम्।।1.33.19।। Bala Kanda,33,20,स बुद्धिं कृतवान् राजा कुशनाभस्सुधार्मिक:। ब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा।।1.33.20।। Bala Kanda,33,21,तमाहूय महातेजा ब्रह्मदत्तं महीपति:। ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना।।1.33.21।। Bala Kanda,33,22,यथाक्रमं तत: पाणीन् जग्राह रघुनन्दन। ब्रह्मदत्तो महीपालस्तासां देवपतिर्यथा।।1.33.22।। Bala Kanda,33,23,स्पृष्टमात्रे तत: पाणौ विकुब्जा विगतज्वरा:। युक्ता: परमया लक्ष्म्या बभु: कन्याशतं तदा।।1.33.23।।ृ32 Bala Kanda,33,24,स दृष्ट्वा वायुना मुक्ता: कुशनाभो महीपति:। बभूव परमप्रीतो हर्षं लेभे पुन:पुन:।।1.33.24।। Bala Kanda,33,25,कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपति:। सदारं प्रेषयामास सोपाध्यायगणं तदा।।1.33.25।। Bala Kanda,33,26,सोमदाऽपि सुसंहृष्टा पुत्रस्य सदृशीं क्रियाम्। यथान्यायं च गन्धर्वी स्नुषास्ता: प्रत्यनन्दत।।1.33.26।। Bala Kanda,34,1,कृतोद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव। अपुत्र: पुत्रलाभाय पौत्रीमिष्टिमकल्पयत्।।1.34.1।। Bala Kanda,34,2,इष्ट्यां तु वर्तमानायां कुशनाभं महीपतिम्। उवाच परमोदार: कुशो ब्रह्मसुतस्तदा।।1.34.2।। Bala Kanda,34,3,पुत्रस्ते सदृश: पुत्र भविष्यति सुधार्मिक:। गाधिं प्राप्स्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम्।।1.34.3।। Bala Kanda,34,4,एवमुक्त्वा कुशो राम कुशनाभं महीपतिम्। जगामाकाशमाविश्य ब्रह्मलोकं सनातनाम्।।1.34.4।। Bala Kanda,34,5,कस्य चित्त्वथ कालस्य कुशनाभस्य धीमत:। जज्ञे परमधर्मिष्ठो गाधिरित्येव नामत:।।1.34.5।। Bala Kanda,34,6,स पिता मम काकुत्स्थ गाधि: परमधार्मिक:। कुशवंशप्रसूतोऽस्मि कौशिको रघुनन्दन ।।1.34.6।। Bala Kanda,34,7,पूर्वजा भगिनी चापि मम राघव सुव्रता। नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता।।1.34.7।। Bala Kanda,34,8,सशरीरा गता स्वर्गं भर्तारमनुवर्तिनी। कौशिकी परमोदारा प्रवृत्ता च महानदी।।1.34.8।। Bala Kanda,34,9,दिव्या पुण्योदका रम्या हिमवन्तमुपाश्रिता। लोकस्य हितकामार्थं प्रवृत्ता भगिनी मम।।1.34.9।। Bala Kanda,34,10,ततोऽहं हिमवत्पार्श्वे वसामि निरतस्सुखम्। भगिन्यां स्नेहसंयुक्त: कौशिक्यां रघुनन्दन।।1.34.10।। Bala Kanda,34,11,सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता। पतिव्रता महाभागा कौशिकी सरितां वरा।।1.34.11।। Bala Kanda,34,12,अहं हि नियमाद्राम हित्वा तां समुपागत:। सिद्धाश्रममनुप्राप्य सिद्धोऽस्मि तव तेजसा।।1.34.12।। Bala Kanda,34,13,एषा राम ममोत्पत्तिस्स्वस्य वंशस्य कीर्तिता। देशस्य च महाबाहो यन्मां त्वं परिपृच्छसि।।1.34.13।। Bala Kanda,34,14,गतोऽर्धरात्र: काकुत्स्थ कथा: कथयतो मम। निद्रामभ्येहि भद्रं ते मा भूद्विघ्नोऽध्वनीह न:।।1.34.14।। Bala Kanda,34,15,निष्पन्दास्तरवस्सर्वे निलीनमृगपक्षिण:। नैशेन तमसा व्याप्ता दिशश्च रघुनन्दन।।1.34.15।। Bala Kanda,34,16,शनैर्वियुज्यते सन्ध्या नभो नेत्रैरिवावृतम् । नक्षत्रतारागहनं ज्योतिर्भिरिव भासते।।1.34.16।। Bala Kanda,34,17,उत्तिष्ठति च शीतांशुश्शशी लोकतमोनुद:। ह्लादयन् प्राणिनां लोके मनांसि प्रभया विभो।।1.34.17।। Bala Kanda,34,18,नैशानि सर्वभूतानि प्रचरन्ति ततस्तत:। यक्षराक्षससङ्घाश्च रौद्राश्च पिशिताशना:।।1.34.18।। Bala Kanda,34,19,एवमुक्त्वा महातेजा विरराम महामुनि:। साधु साध्विति तं सर्वे ऋषयो ह्यभ्यपूजयन्।।1.34.19।। Bala Kanda,34,20,कुशिकानामयं वंशो महान् धर्मपरस्सदा। ब्रह्मोपमा महात्मान: कुशवंश्या नरोत्तमा:।।1.34.20।। Bala Kanda,34,21,विशेषेण भवानेव विश्वामित्रो महायशा:। कौशिकी सरितां श्रेष्ठा कुलोद्योतकरी तव।।1.34.21।। Bala Kanda,34,22,इति तैर्मुनिशार्दूलै: प्रशस्त: कुशिकात्मज: । निद्रामुपागमच्छ्रीमान् अस्तंगत इवांशुमान्।।1.34.22।। Bala Kanda,34,23,रामोऽपि सहसौमित्रि: किञ्चिदागतविस्मय:। प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते।।1.34.23।। Bala Kanda,35,1,उपास्य रात्रिशेषं तु शोणाकूले महर्षिभि:। निशायां सुप्रभातायां विश्वामित्रोऽभ्यभाषत।।1.35.1।। Bala Kanda,35,2,सुप्रभाता निशा राम पूर्वा सन्ध्या प्रवर्तते। उत्तिष्ठोत्तिष्ठ भद्रं ते गमनायाभिरोचय ।।1.35.2।। Bala Kanda,35,3,तच्छ्रुत्वा वचनं तस्य कृत्वा पौर्वाह्णिकीं क्रियाम् । गमनं रोचयामास वाक्यं चेदमुवाच ह।।1.35.3।। Bala Kanda,35,4,अयं शोणश्शुभजलोऽगाध: पुलिनमण्डित:। कतरेण पथा ब्रह्मन् सन्तरिष्यामहे वयम्।।1.35.4।। Bala Kanda,35,5,एवमुक्तस्तु रामेण विश्वामित्रोऽब्रवीदिदम् । एष पन्था मयोद्दिष्टो येन यान्ति महर्षय:।।1.35.5।। Bala Kanda,35,6,एवमुक्ता महर्षयो विश्वामित्रेण धीमता। पश्यन्तस्ते प्रयाता वै वनानि विविधानि च।।1.35.6।। Bala Kanda,35,7,ते गत्वा दूरमध्वानं गतेऽर्धदिवसे तदा। जाह्नवीं सरितां श्रेष्ठां ददृशुर्मुनिसेविताम्।।1.35.7।। Bala Kanda,35,8,तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम्। बभूवुर्मुदिता स्सर्वे मुनयस्सह राघवा:।।1.35.8।। Bala Kanda,35,9,तस्यास्तीरे ततश्चक्रुस्त आवासपरिग्रहम्। ततस्स्नात्वा यथान्यायं सन्तर्प्य पितृदेवता:।।1.35.9।। Bala Kanda,35,10,हुत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद्धवि: । विविशुर्जाह्नवीतीरे शुचौ मुदितमानसा:।।1.35.10।। विश्वामित्रं महात्मानं परिवार्य समन्तत:। Bala Kanda,35,11,अथ तत्र तदा रामो विश्वामित्रमथाब्रवीत्।।1.35.11।। Bala Kanda,35,12,भगवन् श्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम्। त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम्।।1.35.12।। Bala Kanda,35,13,चोदितो रामवाक्येन विश्वामित्रो महामुनि:। वृद्धिं जन्म च गङ्गाया वक्तुमेवोपचक्रमे।।1.35.13।। Bala Kanda,35,14,शैलेन्द्रो हिमवान्नाम धातूनामाकरो महान्। तस्य कन्याद्वयं राम रूपेणाप्रतिमं भुवि।।1.35.14।। Bala Kanda,35,15,या मेरुदुहिता राम तयोर्माता सुमध्यमा। नाम्ना मनोरमा नाम पत्नी हिमवत: प्रिया।।1.35.15।। Bala Kanda,35,16,तस्यां गङ्गेयमभवज्ज्येष्ठा हिमवतस्सुता। उमा नाम द्वितीयाभून्नाम्ना तस्यैव राघव।।1.35.16।। Bala Kanda,35,17,अथ ज्येष्ठां सुरास्सर्वे देवतार्थचिकीर्षया। शैलेन्द्रं वरयामासुर्गङ्गां त्रिपथगां नदीम्।।1.35.17।। Bala Kanda,35,18,ददौ धर्मेण हिमवान् तनयां लोकपावनीम्। स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया।।1.35.18।। Bala Kanda,35,19,प्रतिगृह्य ततो देवास्त्रिलोकहितकारिण:। गङ्गामादाय तेऽगच्छन् कृतार्थेनान्तरात्मना।।1.35.19।। Bala Kanda,35,20,या चान्या शैलदुहिता कन्यासीद्रघुनन्दन। उग्रं सा व्रतमास्थाय तपस्तेपे तपोधना।।1.35.20।। Bala Kanda,35,21,उग्रेण तपसा युक्तां ददौ शैलवरस्सुताम्। रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम्।।1.35.21।। Bala Kanda,35,22,एते ते शैलराजस्य सुते लोकनमस्कृते। गङ्गा च सरितां श्रेष्ठा उमादेवी च राघव।।1.35.22।। Bala Kanda,35,23,एतत्ते सर्वमाख्यातं यथा त्रिपथगा नदी। खं गता प्रथमं तात गतिं गतिमतां वर ।।1.35.23।। Bala Kanda,35,24,सैषा सुरनदी रम्या शैलेन्द्रस्य सुता तदा। सुरलोकं समारूढा विपापा जलवाहिनी।।1.35.24।। Bala Kanda,36,1,उक्तवाक्ये मुनौ तस्मिन्नुभौ राघवलक्ष्मणौ। प्रतिनन्द्य कथां वीरावूचतुर्मुनिपुङ्गवम्।।1.36.1।। Bala Kanda,36,2,धर्मयुक्तमिदं ब्रह्मन् कथितं परमं त्वया । दुहितुश्शैलराजस्य ज्येष्ठाया वक्तुमर्हसि।।1.36.2।। विस्तरं विस्तरज्ञोऽसि दिव्यमानुषसम्भवम्। Bala Kanda,36,3,त्रीन् पथो हेतुना केन प्लावयेल्लोकपावनी।।1.36.3।। Bala Kanda,36,4,कथं गङ्गा त्रिपथगा विश्रुता सरिदुत्तमा। त्रिषु लोकेषु धर्मज्ञ कर्मभि: कैस्समन्विता।।1.36.4।। Bala Kanda,36,5,तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधन:। निखिलेन कथां सर्वामृषिमध्ये न्यवेदयत्।।1.36.5।। Bala Kanda,36,6,पुरा राम कृतोद्वाहो नीलकण्ठो महातपा:। दृष्ट्वा च स्पृहया देवीं मैथुनायोपचक्रमे।।1.36.6।। Bala Kanda,36,7,शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम्। न चापि तनयो राम तस्यामासीत् परन्तप।।1.36.7।। Bala Kanda,36,8,ततो देवास्समुद्विग्ना: पितामहपुरोगमा:। यदिहोत्पद्यते भूतं कस्तत्प्रतिसहिष्यते।।1.36.8।। Bala Kanda,36,9,अभिगम्य सुरास्सर्वे प्रणिपत्येदमब्रुवन्। देव देव महादेव लोकस्यास्य हिते रत ।।1.36.9।। सुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि। Bala Kanda,36,10,न लोका धारयिष्यन्ति तव तेजस्सुरोत्तम ।।1.36.10।। Bala Kanda,36,11,ब्राह्मेण तपसा युक्तो देव्या सह तपश्चर। त्रैलोक्यहितकामार्थं तेजस्तेजसि धारय ।।1.36.11।। Bala Kanda,36,12,देवतानां वचश्श्रुत्वा सर्वलोकमहेश्वर:। बाढमित्यब्रवीत्सर्वान्पुनश्चैवमुवाच ह ।।1.36.12।। Bala Kanda,36,13,धारयिष्याम्यहं तेजस्तेजस्येव सहोमया। त्रिदशा: पृथिवी चैव निर्वाणमधिगच्छतु।।1.36.13।। Bala Kanda,36,14,यदिदं क्षुभितं स्थानान्मम तेजो ह्यनुत्तमम्। धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमा:।।1.36.14।। Bala Kanda,36,15,एवमुक्तास्सुरास्सर्वे प्रत्यूचुर्वृषभध्वजम्। यत्तेज: क्षुभितं ह्येतत्तद्धरा धारयिष्यति।।1.36.15।। Bala Kanda,36,16,एवमुक्तस्सुरपति: प्रमुमोच महीतले। तेजसा पृथिवी येन व्याप्ता सगिरिकानना।।1.36.16।। Bala Kanda,36,17,ततो देवा: पुनरिदमूचुश्चाथ हुताशनम्। प्रविश त्वं महातेजो रौद्रं वायुसमन्वित:।।1.36.17।। Bala Kanda,36,18,तदग्निना पुनर्व्याप्तं सञ्जातश्श्वेतपर्वत:। दिव्यं शरवणं चैव पावकादित्यसन्निभम्।।1.36.18।। यत्र जातो महातेजा: कार्तिकेयोऽग्निसम्भव:। Bala Kanda,36,19,अथोमां च शिवं चैव देवास्सर्षिगणास्तदा। पूजयामासुरत्यर्थं सुप्रीतमनसस्तत:।।1.36.19।। Bala Kanda,36,20,अथ शैलसुता राम त्रिदशानिदमब्रवीत्। समन्युरशपत्सर्वान् क्रोधसंरक्तलोचना।।1.36.20।। Bala Kanda,36,21,यस्मान्निवारिता चैव सङ्गति: पुत्रकाम्यया। अपत्यं स्वेषु दारेषु तस्मान्नोत्पादयिष्यथ।।1.36.21।। Bala Kanda,36,22,अद्यप्रभृति युष्माकमप्रजास्सन्तु पत्नय:।।1.36.22।। एवमुक्त्वासुरान् सर्वान् शशाप पृथिवीमपि। Bala Kanda,36,23,अवने नैकरूपा त्वं बहुभार्या भविष्यसि।।1.36.23।। Bala Kanda,36,24,न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषीकृता । प्राप्स्यसि त्वं सुदुर्मेधे मम पुत्रमनिच्छती।।1.36.24।। Bala Kanda,36,25,तान् सर्वान् व्रीडितान् दृष्ट्वा सुरान्सुरपतिस्तदा। गमनायोपचक्राम दिशं वरुणपालिताम्।।1.36.25।। Bala Kanda,36,26,स गत्वा तप आतिष्ठत्पार्श्वे तस्योत्तरे गिरौ। हिमवत्प्रभवे शृङ्गे सह देव्या महेश्वर:।।1.36.26।। Bala Kanda,36,27,एष ते विस्तरो राम शैलपुत्र्या निवेदित:। गङ्गाया: प्रभवं चैव शृणु मे सहलक्ष्मण:।।1.36.27।। Bala Kanda,37,1,तप्यमाने तपो देवे देवा: सर्षिगणा: पुरा। सेनापतिमभीप्सन्त: पितामहमुपागमन्।।1.37.1।। Bala Kanda,37,2,ततोऽब्रुवन् सुरास्सर्वे भगवन्तं पितामहम्। प्रणिपत्य सुरास्सर्वे सेन्द्रास्साग्निपुरोगमा:।।1.37.2।। Bala Kanda,37,3,यो न स्सेनापतिर्देव दत्तो भगवता पुरा। तप: परममास्थाय तप्यते स्म सहोमया।।1.37.3।। Bala Kanda,37,4,यदत्रानन्तरं कार्यं लोकानां हितकाम्यया। संविधत्स्व विधानज्ञ त्वं हि न: परमा गति:।।1.37.4।। Bala Kanda,37,5,देवतानां वचश्श्रुत्वा सर्वलोकपितामह:। सान्त्वयन्मधुरैर्वाक्यैस्त्रिदशानिदमब्रवीत्।।1.37.5।। Bala Kanda,37,6,शैल पुत्र्या यदुक्तं तन्न प्रजास्यथ पत्निषु । तस्या वचनमक्लिष्टं सत्यमेतन्न संशय:।।1.37.6।। Bala Kanda,37,7,इयमाकाशगा गङ्गा यस्यां पुत्रं हुताशन:। जनयिष्यति देवानां सेनापतिमरिन्दमम्।।1.37.7।। Bala Kanda,37,8,ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तत्सुतम्। उमायास्तद्बहुमतं भविष्यति न संशय:।।1.37.8।। Bala Kanda,37,9,तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन। प्रणिपत्य सुरास्सर्वे पितामहमपूजयन्।।1.37.9।। Bala Kanda,37,10,ते गत्वा पर्वतं राम कैलासं धातुमण्डितम्। अग्निं नियोजयामासु: पुत्रार्थं सर्वदेवता:।।1.37.10।। Bala Kanda,37,11,देवकार्यमिदं देव संविधत्स्व हुताशन। शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज।।1.37.11।। Bala Kanda,37,12,देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावक:। गर्भं धारय वै देवि देवतानामिदं प्रियम्।।1.37.12।। Bala Kanda,37,13,तस्य तद्वचनं श्रुत्वा दिव्यं रूपमधारयत्। दृष्ट्वा तन्महिमानं स समन्तादवकीर्यत।।1.37.13।। Bala Kanda,37,14,समन्ततस्तदा देवीमभ्यषिञ्चत पावक:। सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन।।1.37.14।। Bala Kanda,37,15,तमुवाच ततो गङ्गा सर्वदेवपुरोहितम्। अशक्ता धारणे देव तव तेज स्समुद्धतम्। दह्यमानाग्निना तेन सम्प्रव्यथितचेतना।।1.37.15।। Bala Kanda,37,16,अथाब्रवीदिदं गङ्गां सर्वदेवहुताशन:। इह हैमवती पादे गर्भोऽयं सन्निवेश्यताम्।।1.37.16।। Bala Kanda,37,17,श्रुत्वा त्वग्निवचो गङगा तं गर्भमतिभास्वरम्। उत्ससर्ज महातेज स्स्रोतोभ्यो हि तदानघ ।।1.37.17।। Bala Kanda,37,18,यदस्या निर्गतं तस्मात्तप्तजाम्बूनदप्रभम् । काञ्चनं धरणीं प्राप्तं हिरण्यममलं शुभम्।।1.37.18।। Bala Kanda,37,19,ताम्रं कार्ष्णायसं चैव तैक्ष्ण्यादेवाभ्यजायत।।1.37.19।। Bala Kanda,37,20,मलं तस्याभवत्तत्र त्रपु सीसकमेव च। तदेतद्धरणीं प्राप्य नानाधातुरवर्धत।।1.37.20।। Bala Kanda,37,21,निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम्। सर्वं पर्वतसन्नद्धं सौवर्णमभवद्वनम्।।1.37.21।। Bala Kanda,37,22,जातरूपमिति ख्यातं तदा प्रभृति राघव। सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम्।।1.37.22।। तृणवृक्षलतागुल्मं सर्वं भवति काञ्चनम्। Bala Kanda,37,23,तं कुमारं ततो जातं सेन्द्रास्सह मरुद्गणा:।।1.37.23।। क्षीरसंभावनार्थाय कृत्तिकास्समयोजन्। Bala Kanda,37,24,ता: क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम्।।1.37.24।। ददु: पुत्रोऽयमस्माकं सर्वासामिति निश्चिता:। Bala Kanda,37,25,ततस्तु देवता स्सर्वा: कार्तिकेय इति ब्रुवन्।।1.37.25।। पुत्रस्त्रैलोक्यविख्यातो भविष्यति न संशय:।4 Bala Kanda,37,26,तेषां तद्वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे।।1.37.26।। स्नापयन् परया लक्ष्म्या दीप्यमानं यथानलम्। Bala Kanda,37,27,स्कन्द इत्यब्रुवन् देवा: स्कन्नं गर्भपरिस्रवात्।।1.37.27।। कार्तिकेयं महाभागं काकुत्स्थ ज्वलनोपमम्। Bala Kanda,37,28,प्रादुर्भूतं तत: क्षीरं कृत्तिकानामनुत्तमम् ।।1.37.28।। षण्णां षडाननो भूत्वा जग्राह स्तनजं पय:। Bala Kanda,37,29,गृहीत्वा क्षीरमेकाह्ना सुकुमारवपुस्तदा।।1.37.29।। अजयत्स्वेन वीर्येण दैत्यसेनागणान् विभु:। Bala Kanda,37,30,सुरसेनागणपतिं ततस्तमतुलद्युतिम्।।1.37.30।। अभ्यषिञ्चन् सुरगणा स्समेत्याग्निपुरोगमा:। Bala Kanda,37,31,एष ते राम गङ्गाया विस्तरोऽभिहितो मया।।1.37.31।। कुमारसम्भवश्चैव धन्य: पुण्यस्तथैव च। Bala Kanda,37,32,भक्तश्च य: कार्तिकेये काकुत्स्थ भुवि मानवः। आयुष्मान् पुत्रपौत्रैश्च स्कन्दसालोक्यतां व्रजेत्।।1.37.32।। Bala Kanda,38,1,तां कथां कौशिको रामे निवेद्य कुशिकात्मज:। पुनरेवापरं वाक्यं काकुत्स्थ मिदमब्रवीत्।।1.38.1।। Bala Kanda,38,2,अयोध्याधिपति श्शूर: पूर्वमासीन्नराधिप:। सगरो नाम धर्मात्मा प्रजाकामस्स चाप्रज:।।1.38.2।। Bala Kanda,38,3,वैदर्भदुहिता राम केशिनी नाम नामत:। ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी।।1.38.3।। Bala Kanda,38,4,अरिष्टनेमेर्दुहिता रूपेणाप्रतिमा भुवि। द्वितीया सगरस्यासीत्पत्नी सुमतिसंज्ञिता ।।1.38.4।। Bala Kanda,38,5,ताभ्यां सह महाराज: पत्नीभ्यां तप्तवांस्तप:। हिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ।।1.38.5।। Bala Kanda,38,6,अथ वर्षशते पूर्णे तपसाऽराधितो मुनि:। सगराय वरं प्रादाद्भृगुस्सत्यवतां वर:।।1.38.6।। Bala Kanda,38,7,अपत्यलाभस्सुमहान् भविष्यति तवानघ। कीर्तिं चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ।।1.38.7।। Bala Kanda,38,8,एका जनयिता तात पुत्रं वंशकरं तव। षष्ठिं पुत्रसहस्राणि अपरा जनयिष्यति।।1.38.8।। Bala Kanda,38,9,भाषमाणं महात्मानं राजपुत्र्यौ प्रसाद्य तम्। ऊचतु: परमप्रीते कृताञ्जलिपुटे तदा।।1.38.9।। Bala Kanda,38,10,एक: कस्यास्सुतो ब्रह्मन् का बहून् जनयिष्यति। श्रोतुमिच्छावहे ब्रह्मन् सत्यमस्तु वचस्तव।।1.38.10।। Bala Kanda,38,11,तयोस्तद्वचनं श्रुत्वा भृगु: परमधार्मिक:। उवाच परमां वाणीं स्वच्छन्दोऽत्र विधीयताम्।।1.38.11।। Bala Kanda,38,12,एको वंशकरो वाऽस्तु बहवो वा महाबला:। कीर्तिमन्तो महोत्साहा: का वा कं वरमिच्छति।।1.38.12।। Bala Kanda,38,13,मुनेस्तु वचनं श्रुत्वा केशिनी रघुनन्दन। पुत्रं वंशकरं राम जग्राह नृपसन्निधौ।।1.38.13।। Bala Kanda,38,14,षष्ठिं पुत्रसहस्राणि सुपर्णभगिनी तदा। महोत्साहान् कीर्तिमतो जग्राह सुमति: सुतान्।।1.38.14।। Bala Kanda,38,15,प्रदक्षिणमृषिं कृत्वा शिरसाऽभिप्रणम्य च। जगाम स्वपुरं राजा सभार्यो रघुनन्दन ।।1.38.15।। Bala Kanda,38,16,अथ काले गते तस्मिन् ज्येष्ठा पुत्रं व्यजायत। असमञ्ज इति ख्यातं केशिनी सगरात्मजम्।।1.38.16।। Bala Kanda,38,17,सुमतिस्तु नरव्याघ्र गर्भतुम्बं व्यजायत। षष्ठि: पुत्रसहस्राणि तुम्बभेदाद्विनि:सृता:।।1.38.17।। Bala Kanda,38,18,घृतपूर्णेषु कुम्भेषु धात्र्यस्तान् समवर्धयन्। कालेन महता सर्वे यौवनं प्रतिपेदिरे।।1.38.18।। Bala Kanda,38,19,अथ दीर्घेण कालेन रूपयौवनशालिन:। षष्टि: पुत्रसहस्राणि सगरस्याभवंस्तदा।।1.38.19।। Bala Kanda,38,20,स च ज्येष्ठो नरश्रेष्ठ सगरस्यात्मसम्भव:। बालान् गृहीत्वा तु जले सरय्वा रघुनन्दन।।1.38.20।। प्रक्षिप्य प्रहसन्नित्यं मज्जतस्तान् समीक्ष्य वै। Bala Kanda,38,21,एवं पापसमाचारस्सज्जनप्रतिबाधक:।।1.38.21।। पौराणामहिते युक्त: पुत्रो निर्वासित: पुरात्। Bala Kanda,38,22,तस्य पुत्रोंऽशुमान्नाम असमञ्जस्य वीर्यवान्।।1.38.22।। सम्मत स्सर्वलोकस्य सर्वस्यापि प्रियंवद:। Bala Kanda,38,23,तत: कालेन महता मतिस्समभिजायत।।1.38.23।। सगरस्य नरश्रेष्ठ यजेयमिति निश्चिता। Bala Kanda,38,24,स कृत्वा निश्चयं राम सोपाध्यायगणस्तदा।।1.38.24।। यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे। Bala Kanda,39,1,विश्वामित्रवचश्श्रुत्वा कथाऽन्ते रघुनन्दन:। उवाच परमप्रीतो मुनिं दीप्तमिवानलम्।।1.39.1।। Bala Kanda,39,2,श्रोतुमिच्छामि भद्रं ते विस्तरेण कथामिमाम्। पूर्वको मे कथं ब्रह्मन् यज्ञं वै समुपाहरत्।।1.39.2।। Bala Kanda,39,3,विश्वामित्रस्तु काकुत्स्थमुवाच प्रहसन्निव। श्रूयतां विस्तरो राम सगरस्य महात्मन:।।1.39.3।। Bala Kanda,39,4,शङ्करश्वशुरो नाम हिमवानचलोत्तम:। विंध्यपर्वतमासाद्य निरीक्षेते परस्परम्।।1.39.4।। Bala Kanda,39,5,तयोर्मध्ये प्रवृत्तोऽभूद्यज्ञ स्सपुरुषोत्तम। स हि देशो नरव्याघ्र प्रशस्तो यज्ञकर्मणि।।1.39.5।। Bala Kanda,39,6,तस्याश्वचर्यां काकुत्स्थ दृढधन्वा महारथ:। अंशुमानकरोत्तात सगरस्य मते स्थित:।।1.39.6।। Bala Kanda,39,7,तस्य पर्वणि तं यज्ञं यजमानस्य वासव:। राक्षसीं तनुमास्थाय यज्ञीयाश्वमपाहरत्।।1.39.7।। Bala Kanda,39,8,ह्रियमाणे तु काकुत्स्थ तस्मिन्नश्वे महात्मन:। उपाध्यायगणास्सर्वे यजमानमथाब्रुवन्।।1.39.8।। Bala Kanda,39,9,अयं पर्वणि वेगेन यज्ञियाश्वोऽपनीयते। हर्तारं जहि काकुत्स्थ हयश्चैवोपनीयताम्।।1.39.9।। Bala Kanda,39,10,यज्ञच्छिद्रं भवत्येतत्सर्वेषामशिवाय न:। तत्तथा क्रियतां राजन् यथाऽच्छिद्र: क्रतुर्भवेत्।।1.39.10।। Bala Kanda,39,11,उपाध्यायवच श्श्रुत्वा तस्मिन् सदसि पार्थिव:। षष्टिं पुत्रसहस्राणि वाक्यमेतदुवाच ह।।1.39.11।। Bala Kanda,39,12,गतिं पुत्रा: न पश्यामि रक्षसां परुषर्षभा:। मन्त्रपूतैर्महाभागैरास्थितो हि महाक्रतु:।।1.39.12।। Bala Kanda,39,13,तद्गच्छत विचिन्वध्वं पुत्रका: भद्रमस्तु व:। समुद्रमालिनीं सर्वां पृथिवीमनुगच्छत।।1.39.13।। Bala Kanda,39,14,एकैकयोजनं पुत्रा विस्तारमधिगच्छत। यावत्तुरगसन्दर्श: तावत् खनत मेदिनीम्। तं चैव हयहर्तारं मार्गमाणा ममाज्ञया।।1.39.14।। Bala Kanda,39,15,दीक्षित: पौत्रसहितस्सोपाध्यायगणो ह्यहम्। इह स्थास्यामि भद्रं वो यावत्तुरगदर्शनम्।।1.39.15।। Bala Kanda,39,16,इत्युक्ता हृष्टमनसो राजपुत्रा महाबला:। जग्मुर्महीतलं राम पितुर्वचनयन्त्रिता:।।1.39.16।। Bala Kanda,39,17,योजनायामविस्तारमेकैको धरणीतलम्। बिभिदु: परुषव्याघ्र वज्रस्पर्शसमैर्नखै:।।1.39.17।। Bala Kanda,39,18,शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणै:। भिद्यमाना वसुमती ननाद रघुनन्दन।।1.39.18।। Bala Kanda,39,19,नागानां मथ्यमानानामसुराणां च राघव । राक्षसानां च दुर्धर्षस्सत्त्वानां निनदोऽभवत्।।1.39.19।। Bala Kanda,39,20,योजनानां सहस्राणि षष्टिं तु रघुनन्दन । बिभिदुर्धरणीं वीरा: रसातलमनुत्तमम्।।1.39.20।। Bala Kanda,39,21,एवं पर्वतसम्बाधं जम्बूद्वीपं नृपात्मजा:। खनन्तो नरशार्दूल सर्वत: परिचक्रमु:।।1.39.21।। Bala Kanda,39,22,ततो देवास्सगन्धर्वास्सासुरास्सहपन्नगा:। सम्भ्रान्तमनसस्सर्वे पितामहमुपागमन्।।1.39.22।। Bala Kanda,39,23,ते प्रसाद्य महात्मानं विषण्णवदनास्तदा। ऊचु: परमसन्त्रस्ता पितामहमिदं वच:।।1.39.23।। Bala Kanda,39,24,भगवन् पृथिवी सर्वा खन्यते सगरात्मजै:। बहवश्च महात्मानो हन्यन्ते तलवासिन:।।1.39.24।। Bala Kanda,39,25,अयं यज्ञहरोऽस्माकमनेनाश्वोऽपनीयते। इति ते सर्वभूतानि निघ्नन्ति सगरात्मजा:।।1.39.25।। Bala Kanda,40,1,. देवतानां वचश्श्रुत्वा भगवान्वै पितामह:। प्रत्युवाच सुसन्त्रस्तान्कृतान्तबलमोहितान्।।1.40.1।। Bala Kanda,40,2,यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमत:। कापिलं रूपमास्थाय धारयत्यनिशं धराम्।।1.40.2।। तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजा:। Bala Kanda,40,3,पृथिव्याश्चापि निर्भेदोऽदृष्ट एव सनातन:।।1.40.3।। सगरस्य च पुत्राणां विनाशोऽदीर्घजीविनाम्। Bala Kanda,40,4,पितामहवचश्श्रुत्वा त्रयस्त्रिंशदरिन्दम।।1.40.4।। देवा: परमसंहृष्टा: पुनर्जग्मुर्यथागतम्। Bala Kanda,40,5,सगरस्य च पुत्राणां प्रादुरासीन्महात्मनाम्।।1.40.5।। पृथिव्यां भिद्यमानायां निर्घातसमनिस्वन:। Bala Kanda,40,6,ततो भित्वा महीं सर्वे कृत्वा चाभिप्रदक्षिणम्।।1.40.6।। सहिता स्सगरास्सर्वे पितरं वाक्यमब्रुवन्।0 Bala Kanda,40,7,परिक्रान्ता मही सर्वा सत्त्ववन्तश्च सूदिता:।।1.40.7।। Bala Kanda,40,8,देवदानवरक्षांसि पिशाचोरगकिन्नरा:। न च पश्यामहेऽश्वं तमश्वहर्तारमेव च।।1.40.8।। किं करिष्याम भद्रं ते बुद्धिरत्र विचार्यताम्। Bala Kanda,40,9,तेषां तद्वचनं श्रुत्वा पुत्राणां राजसत्तम:।।1.40.9।। समन्युरब्रवीद्वाक्यं सगरो रघुनन्दन। Bala Kanda,40,10,भूय: खनत भद्रं वो निर्भिद्य वसुधातलम्।।1.40.10।। अश्वहर्तारमासाद्य कृतार्थाश्च निवर्तथ। Bala Kanda,40,11,पितुर्वचनमासाद्य सगरस्य महात्मन:।।1.40.11।। षष्टि: पुत्रसहस्राणि रसातलमभिद्रवन्। Bala Kanda,40,12,खन्यमाने ततस्तस्मिन् ददृशु: पर्वतोपमम्।।1.40.12।। दिशागजं विरूपाक्षं धारयन्तं महीतलम्। Bala Kanda,40,13,सपर्वतवनां कृत्स्नां पृथिवीं रघुनन्दन।।1.40.13।। शिरसा धारयामास विरूपाक्षो महागज:। Bala Kanda,40,14,यदा पर्वणि काकुत्स्थ विश्रमार्थं महागज:।।1.40.14।। खेदाच्चालयते शीर्षं भूमिकम्पस्तदाभवेत्। Bala Kanda,40,15,तं ते प्रदक्षिणं कृत्वा दिशापालं महागजम्।।1.40.15।। मानयन्तो हि ते राम जग्मुर्भित्त्वा रसातलम्। Bala Kanda,40,16,तत: पूर्वां दिशं भित्त्वा दक्षिणां बिभिदु: पुन:।।1.40.16।। Bala Kanda,40,17,दक्षिणस्यामपि दिशि ददृशुस्ते महागजम्। महापद्मं महात्मानं सुमहत्पर्वतोपमम्।।1.40.17।। शिरसा धारयन्तं ते विस्मयं जग्मुरुत्तमम्। Bala Kanda,40,18,तत: प्रदक्षिणं कृत्वा सगरस्य महात्मन:।।1.40.18।। षष्टि: पुत्रसहस्राणि पश्चिमां बिभिदुर्दिशम्। Bala Kanda,40,19,पश्चिमायामपि दिशि महान्तमचलोपमम्।।1.40.19।। दिशागजं सौमनसं ददृशुस्ते महाबला:। Bala Kanda,40,20,तं ते प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम्। खनन्त स्समुपक्रान्ता दिशं हैमवतीं तत:।।1.40.20।। Bala Kanda,40,21,उत्तरस्यां रघुश्रेष्ठ ददृशुर्हिमपाण्डुरम्।।1.40.21।। भद्रं भद्रेण वपुषा धारयन्तं महीमिमाम्। Bala Kanda,40,22,समालभ्य तत स्सर्वे कृत्वा चैनं प्रदक्षिणम्।।1.40.22।। षष्टि: पुत्रसहस्राणि बिभिदुर्वसुधातलम्। Bala Kanda,40,23,तत: प्रागुत्तरां गत्वा सागरा: प्रथितां दिशम्।।1.40.23।। रोषादभ्यखनन् सर्वे पृथिवीं सगरात्मजा:। Bala Kanda,40,24,ते तु सर्वे महात्मानो भीमवेगा महाबला:।।1.40.24।। Bala Kanda,40,25,ददृशु: कपिलं तत्र वासुदेवं सनातनम्। हयं च तस्य देवस्य चरन्तमविदूरत:।।1.40.25।। प्रहर्षमतुलं प्राप्तास्सर्वे ते रघुनन्दन। Bala Kanda,40,26,ते तं हयवरं ज्ञात्वा क्रोधपर्याकुलेक्षणा:।।1.40.26।। Bala Kanda,40,27,खनित्रलाङ्गलधरा नानावृक्षशिलाधरा:। अभ्यधावन्त सङ्क्रुद्धास्तिष्ठ तिष्ठेति चाब्रुवन्।।1.40.27।। Bala Kanda,40,28,अस्माकं त्वं हि तुरगं यज्ञीयं हृतवानसि। दुर्मेधस्त्वं हि सम्प्राप्तान् विद्धि नस्सगरात्मजान् ।।1.40.28।। Bala Kanda,40,29,श्रुत्वा तु वचनं तेषां कपिलो रघुनन्दन। रोषेण महताऽऽविष्टो हुङ्कारमकरोत्तदा।।1.40.29।। Bala Kanda,41,1,पुत्रांश्चिरगतान् ज्ञात्वा सगरो रघुनन्दन। नप्तारमब्रवीद्राजा दीप्यमानं स्वतेजसा।।1.41.1।। Bala Kanda,41,2,शूरश्च कृतविद्यश्च पूर्वैस्तुल्योऽसि तेजसा। पितृ़णां गतिमन्विच्छ येन चाश्वोऽपवाहित:।।1.41.2।। Bala Kanda,41,3,अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च। तेषां त्वं प्रतिघातार्थं सास्त्रं गृह्णीष्व कार्मुकम्।।1.41.3।। Bala Kanda,41,4,अभिवाद्याभिवाद्यांस्त्वं हत्वा विघ्नकरानपि। सिद्धार्थस्सन्निवर्तस्व मम यज्ञस्य पारग:।।1.41.4।। Bala Kanda,41,5,एवमुक्तोंऽशुमान्सम्यक् सगरेण महात्मना। धनुरादाय खड्गं च जगाम लघुविक्रम:।।1.41.5।। Bala Kanda,41,6,स खातं पितृभिर्मार्गमन्तर्भौमं महात्मभि:। प्रापद्यत नरश्रेष्ठ तेन राज्ञाऽभिचोदित:।।1.41.6।। Bala Kanda,41,7,दैत्यदानवरक्षोभि: पिशाचपतगोरगै:। पूज्यमानं महातेजा दिशागजमपश्यत।।1.41.7।। Bala Kanda,41,8,स तं प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम्। पितृ़न् स परिपप्रच्छ वाजिहर्तारमेव च।।1.41.8।। Bala Kanda,41,9,दिशागजस्तु तच्छ्रुत्वा प्रत्याहांशुमतो वच:। आसमञ्ज कृतार्थस्त्वं सहाश्वश्शीघ्रमेष्यसि।।1.41.9।। Bala Kanda,41,10,तस्य तद्वचनं श्रुत्वा सर्वानेव दिशागजान्। यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे।।1.41.10।। Bala Kanda,41,11,तैश्च सर्वैर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदै:। पूजितस्सहयश्चैव गन्ताऽसीत्यभिचोदित:।।1.41.11।। Bala Kanda,41,12,तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रम:। भस्मराशीकृता यत्र पितरस्तस्य सागरा:।।1.41.12।। Bala Kanda,41,13,स दु:खवशमापन्नस्त्वसमञ्जसुतस्तदा। चुक्रोश परमार्तस्तु वधात्तेषां सुदु:खित:।।1.41.13।। Bala Kanda,41,14,यज्ञीयं च हयं तत्र चरन्तमविदूरत:। ददर्श पुरुषव्याघ्रो दु:खशोकसमन्वित:।।1.41.14।। Bala Kanda,41,15,स तेषां राजपुत्राणां कर्तुकामो जलक्रियाम् । सलिलार्थी महातेजा न चापश्यज्जलाशयम् ।।1.41.15।। Bala Kanda,41,16,विसार्य निपुणां दृष्टिं ततोऽपश्यत्खगाधिपम् । पितृ़णां मातुलं राम सुपर्णमनिलोपमम्।।1.41.16।। Bala Kanda,41,17,स चैवमब्रवीद्वाक्यं वैनतेयो महाबल :। मा शुच: पुरुषव्याघ्र वधोऽयं लोकसम्मत:।।1.41.17।। Bala Kanda,41,18,कपिलेनाप्रमेयेन दग्धा हीमे महाबला:। सलिलं नार्हसि प्राज्ञ दातुमेषां हि लौकिकम्।।1.41.18।। Bala Kanda,41,19,गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ। तस्यां कुरु महाबाहो पितृ़णां तु जलक्रियाम्।।1.41.19।। Bala Kanda,41,20,भस्मराशीकृतानेतान् प्लावयेल्लोकपावनी। तया क्लिन्नमिदं भस्म गङ्गया लोककान्तया।।1.41.20।। षष्टिं पुत्रसहस्राणि स्वर्गलोकं च नेष्यति। Bala Kanda,41,21,गच्छ चाश्वं महाभाग तं गृह्य पुरुषर्षभ।।1.41.21।। यज्ञं पैतामहं वीर संवर्तयितुमर्हसि। Bala Kanda,41,22,सुपर्णवचनं श्रुत्वा सोंऽशुमानतिवीर्यवान् ।।1.41.22।। त्वरितं हयमादाय पुनरायान्महायशा:। Bala Kanda,41,23,ततो राजानमासाद्य दीक्षितं रघुनन्दन।।1.41.23।। न्यवेदयद्यथावृत्तं सुपर्णवचनं तथा। Bala Kanda,41,24,तच्छ्रुत्वा घोरसङ्काशं वाक्यमंशुमतो नृप:।।1.41.24।। यज्ञं निवर्तयामास यथाकल्पं यथाविधि। Bala Kanda,41,25,स्वपुरं चागमच्छ्रीमानिष्टयज्ञोमहीपति:।।1.41.25।। गङ्गायाश्चागमे राजा निश्चयं नाध्यगच्छत। Bala Kanda,41,26,अकृत्वा निश्चयं राजा कालेन महता महान् । त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गत:।।1.41.26।। Bala Kanda,42,1,कालधर्मं गते राम सगरे प्रकृतीजना:। राजानं रोचयामासुरंशुमन्तं सुधार्मिकम्।।1.42.1।। Bala Kanda,42,2,स राजा सुमहानासीदंशुमान् रघुनन्दन । तस्य पुत्रो महानासीद्दिलीप इति विश्रुत:।।1.42.2।। Bala Kanda,42,3,तस्मिन् राज्यं समावेश्य दिलीपे रघुनन्दन। हिमवच्छिखरे पुण्ये तपस्तेपे सुदारुणम्।।1.42.3।। Bala Kanda,42,4,द्वात्रिंशच्च सहस्राणि वर्षाणि सुमहायशा:। तपोवनं गतो राम स्वर्गं लेभे तपोधन:।।1.42.4।। Bala Kanda,42,5,दिलीपस्तु महातेजाश्श्रुत्वा पैतामहं वधम्। दु:खोपहतया बुद्ध्या निश्चयं नाध्यगच्छत।।1.42.5।। Bala Kanda,42,6,कथं गङ्गावतरणं कथं तेषां जलक्रिया। तारयेयं कथं चैतानिति चिन्तापरोऽभवत्।।1.42.6।। Bala Kanda,42,7,तस्य चिन्तयतो नित्यं धर्मेण विदितात्मन:। पुत्रो भगीरथो नाम जज्ञे परमधार्मिक:।।1.42.7।। Bala Kanda,42,8,दिलीपस्तु महातेजा यज्ञैर्बहुभिरिष्टवान्। त्रिंशद्वर्षसहस्राणि राजा राज्यमकारयत्।।1.42.8।। Bala Kanda,42,9,अगत्वा निश्चयं राजा तेषामुद्धरणं प्रति । व्याधिना नरशार्दूल कालधर्ममुपेयिवान्।।1.42.9।। Bala Kanda,42,10,इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणा। राज्ये भगीरथं पुत्रमभिषिच्य नरर्षभ:।।1.42.10।। Bala Kanda,42,11,भगीरथस्तु राजर्षिर्धार्मिको रघुनन्दन। अनपत्यो महातेजा: प्रजाकामस्स चाप्रज:।।1.42.11।। Bala Kanda,42,12,मन्त्रिष्वाधाय तद्राज्यं गङ्गावतरणे रत:। स तपो दीर्घमातिष्ठद्गोकर्णे रघुनन्दन।।1.42.12।। ऊर्ध्वबाहु: पञ्चतपा मासाहारो जितेन्द्रिय:। Bala Kanda,42,13,तस्य वर्षसहस्राणि घोरे तपसि तिष्ठत:।।1.42.13।। Bala Kanda,42,14,अतीतानि महाबाहो तस्य राज्ञो महात्मन:। सुप्रीतो भगवान् ब्रह्मा प्रजानां पतिरीश्वर:।।1.42.14।। Bala Kanda,42,15,ततस्सुरगणैस्सार्धमुपागम्य पितामह:। भगीरथं महात्मानं तप्यमानमथाब्रवीत्।।1.42.15।। Bala Kanda,42,16,भगीरथ महाभाग प्रीतस्तेऽहं जनेश्वर। तपसा च सुतप्तेन वरं वरय सुव्रत।।1.42.16।। Bala Kanda,42,17,तमुवाच महातेजा: सर्वलोकपितामहम्। भगीरथो महाभाग: कृताञ्जलिरुपस्थित:।।1.42.17।। Bala Kanda,42,18,यदि मे भगवन् प्रीतो यद्यस्ति तपस: फलम्। सगरस्यात्मजास्सर्वे मत्तस्सलिलमाप्नुयु:।।1.42.18।। Bala Kanda,42,19,गङ्गायास्सलिलक्लिन्ने भस्मन्येषां महात्मनाम्। स्वर्गं गच्छेयुरत्यन्तं सर्वे मे प्रपितामहा:।।1.42.19।। Bala Kanda,42,20,देया च सन्ततिर्देव नावसीदेत्कुलं च न:। इक्ष्वाकूणां कुले देव एष मेऽस्तु वर:पर:।।1.42.20।। Bala Kanda,42,21,उक्तवाक्यं तु राजानं सर्वलोकपितामह:। प्रत्युवाच शुभां वाणीं मधुरां मधुराक्षराम्।।1.42.21।। Bala Kanda,42,22,मनोरथो महानेष भगीरथ महारथ। एवं भवतु भद्रं ते इक्ष्वाकुकुलवर्धन।।1.42.22।। Bala Kanda,42,23,इयं हैमवती गङ्गा ज्येष्ठा हिमवतस्सुता। तां वै धारयितुं शक्तो हरस्तत्र नियुज्यताम्।।1.42.23।। Bala Kanda,42,24,गङ्गाया: पतनं राजन् पृथिवी न सहिष्यति। तां वै धारयितुं वीर नान्यं पश्यामि शूलिन:।।1.42.24।। Bala Kanda,42,25,तमेवमुक्त्वा राजानं गङ्गां चाभाष्य लोककृत्। जगाम त्रिदिवं देवस्सहदेवैर्मरुद्गणै:।।1.42.25।। Bala Kanda,43,1,देवदेवे गते तस्मिन् सोऽङ्गुष्ठाग्रनिपीडिताम्। कृत्वा वसुमतीं राम संवत्सरमुपासत।।1.43.1।। Bala Kanda,43,2,अथ संवत्सरे पूर्णे सर्वलोकनमस्कृत:। उमापति: पशुपती राजानमिदमब्रवीत्।।1.43.2।। Bala Kanda,43,3,प्रीतस्तेऽहं नरश्रेष्ठ करिष्यामि तव प्रियम्। शिरसा धारयिष्यामि शैलराजसुतामहम्।।1.43.3।। Bala Kanda,43,4,ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता। तदा सातिमहद्रूपं कृत्वा वेगं च दुस्सहम्।।1.43.4।। आकाशादपतद्राम शिवे शिवशिरस्युत। Bala Kanda,43,5,अचिन्तयच्च सा देवी गङ्गा परमदुर्धरा।।1.43.5।। विशाम्यहं हि पातालं स्रोतसा गृह्य शङ्करम्। Bala Kanda,43,6,तस्यावलेपनं ज्ञात्वा क्रुद्धस्तु भगवान् हर:।।1.43.6।। तिरोभावयितुं बुद्धिं चक्रे त्रिनयनस्तदा। Bala Kanda,43,7,सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्धनि।।1.43.7।। हिमवत्प्रतिमे राम जटामण्डलगह्वरे। Bala Kanda,43,8,सा कथञ्चिन्महीं गन्तुं नाशक्नोद्यत्नमास्थिता।।1.43.8।। नैव निर्गमनं लेभे जटामण्डलमोहिता। Bala Kanda,43,9,तत्रैवाबम्भ्रमद्देवी संवत्सरगणान् बहून्।।1.43.9।। तामपश्यन्पुनस्तत्र तप: परममास्थित:। Bala Kanda,43,10,अनेन तोषितश्चाभूदत्यर्थं रघुनन्दन।।1.43.10।। विससर्ज ततो गङ्गां हरो बिन्दुसर: प्रति। Bala Kanda,43,11,तस्यां विसृज्यमानायां सप्तस्रोतांसि जज्ञिरे।।1.43.11।। Bala Kanda,43,12,ह्लादिनी पावनी चैव नलिनी च तथाऽपरा। तिस्र: प्राचीं दिशं जग्मु: गङ्गाश्शिवजलाश्शुभा:।।1.43.12।। Bala Kanda,43,13,सुचक्षुश्चैव सीता च सिन्धुश्चैव महानदी। तिस्रस्त्वेता दिशं जग्मु: प्रतीचीं तु शुभोदका:।।1.43.13।। Bala Kanda,43,14,सप्तमी चान्वगात्तासां भगीरथमथो नृपम्। भगीरथोऽपि राजर्षिर्दिव्यं स्यन्दनमास्थित:।।1.43.14।। प्रायादग्रे महातेजा गङ्गा तं चाप्यनुव्रजत्। Bala Kanda,43,15,गगनाच्छङ्करशिरस्ततो धरणिमाश्रिता।।1.43.15 ।। व्यसर्पत जलं तत्र तीव्रशब्दपुरस्कृतम्। Bala Kanda,43,16,मत्स्यकच्छपसङ्घैश्च शिंशुमारगणैस्तदा।।1.43.16।। पतद्भि: पतितैश्चान्यैर्व्यरोचत वसुन्धरा। Bala Kanda,43,17,ततो देवर्षिगन्धर्वा यक्षसिद्धगणास्तदा।।1.43.17।। व्यलोकयन्त ते तत्र गगनाद्गां गतां तथा। Bala Kanda,43,18,विमानैर्नगराकारैर्हयैर्गजवरैस्तदा।।1.43.18।। पारिप्लवगतैश्चापि देवतास्तत्र विष्ठिता:। Bala Kanda,43,19,तदद्भुततमं लोके गङ्गापतनमुत्तमम्।।1.43.19।। दिदृक्षवो देवगणा: समीयुरमितौजस:। Bala Kanda,43,20,सम्पतद्भिस्सुरगणैस्तेषां चाभरणौजसा।।1.43.20।। शतादित्यमिवाभाति गगनं गततोयदम्। Bala Kanda,43,21,शिंशुमारोरगगणैर्मीनैरपि च चञ्चलै:।।1.43.21।। विद्युद्भिरिव विक्षिप्तमाकाशमभवत्तदा। Bala Kanda,43,22,पाण्डरैस्सलिलोत्पीडै: कीर्यमाणैस्सहस्रधा।।1.43.22।। शारदाभ्रैरिवाकीर्णं गगनं हंससम्प्लवै:। Bala Kanda,43,23,क्वचिद्द्रुततरं याति कुटिलं क्वचिदायतम्।।1.43.23।। विनतं क्वचिदुद्धूतं क्वचिद्याति शनैश्शनै:। Bala Kanda,43,24,सलिलेनैव सलिलं क्वचिदभ्याहतं पुन:।।1.43.24।। मुहुरूर्ध्वमुखं गत्वा पपात वसुधातलम्। Bala Kanda,43,25,तच्छङ्करशिरोभ्रष्टं भ्रष्टं भूमितले पुन:।।1.43.25।। व्यरोचत तदा तोयं निर्मलं गतकल्मषम्। Bala Kanda,43,26,तत्र देवर्षिगन्धर्वा वसुधातलवासिन:।।1.43.26।। भवाङ्गपतितं तोयं पवित्रमिति पस्पृशु:। Bala Kanda,43,27,शापात्प्रपतिता ये च गगनाद्वसुधातलम्।।1.43.27।। कृत्वा तत्राभिषेकं ते बभूवुर्गतकल्मषा:। Bala Kanda,43,28,धूतपापा: पुनस्तेन तोयेनाथ सुभास्वता।।1.43.28।। पुनराकाशमाविश्य स्वान् लोकान् प्रतिपेदिरे। Bala Kanda,43,29,मुमुदे मुदितो लोकस्तेन तोयेन भास्वता।।1.43.29।। कृताभिषेको गङ्गायां बभूव विगतक्लम:। Bala Kanda,43,30,भगीरथोऽपि राजार्षिर्दिव्यं स्यन्दनमास्थित:। प्रायादग्रे महातेजास्तं गङ्गा पृष्ठतोऽन्वगात्।।1.43.30। Bala Kanda,43,31,देवास्सर्षिगणा: सर्वे दैत्यदानवराक्षसा:।।1.43.31।। Bala Kanda,43,32,गन्धर्वयक्षप्रवरास्सकिन्नरमहोरगा:। सर्वाश्चाप्सरसो राम भगीरथरथानुगाम्।।1.43.32।। गङ्गामन्वगमन् प्रीतास्सर्वे जलचराश्च ये। Bala Kanda,43,33,यतो भगीरथो राजा ततो गङ्गायशस्विनी।।1.43.33।। जगाम सरितां श्रेष्ठा सर्वपापप्रणाशिनी। Bala Kanda,43,34,ततो हि यजमानस्य जह्नोरद्भुतकर्मण:।।1.43.34।। गङ्गा सम्प्लावयामास यज्ञवाटं महात्मन:। Bala Kanda,43,35,तस्यावलेपनं ज्ञात्वा क्रुद्धो यज्वा तु राघव।।1.43.35।। अपिबच्च जलं सर्वं गङ्गाया: परमाद्भुतम्। Bala Kanda,43,36,ततो देवास्सगन्धर्वा ऋषयश्च सुविस्मिता:।।1.43.36।। Bala Kanda,43,37,पूजयन्ति महात्मानं जह्नुं पुरुषसत्तमम्। गङ्गां चापि नयन्ति स्म दुहितृत्वे महात्मन:।।1.43.37।। Bala Kanda,43,38,ततस्तुष्टो महातेजाश्श्रोत्राभ्यामसृजत् पुन:।।1.43.38।। तस्माज्जह्नुसुता गङ्गा प्रोच्यते जाह्नवीतिच। Bala Kanda,43,39,जगाम च पुनर्गङ्गा भगीरथरथानुगा। सागरं चापि सम्प्राप्ता सा सरित्प्रवरा तदा।।1.43.39।। रसातलमुपागच्छत्सिद्ध्यर्थं तस्य कर्मण:। Bala Kanda,43,40,भगीरथोऽपि राजर्षि: गङ्गामादाय यत्नत:। पितामहान् भस्मकृतानपश्यद्दीनचेतन:।।1.43.40।। Bala Kanda,43,41,अथ तद्भस्मनां राशिं गङ्गासलिलमुत्तमम्। प्लावयद्धूतपाप्मानस्स्वर्गं प्राप्ता रघूत्तम।।1.43.41।। Bala Kanda,44,1,स गत्वा सागरं राजा गङ्गयाऽनुगतस्तदा । प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृता:।।1.44.1।। Bala Kanda,44,2,भस्मन्यथाऽप्लुते राम गङ्गायास्सलिलेन वै। सर्वलोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत्।।1.44.2।। Bala Kanda,44,3,तारिता नरशार्दूल दिवं याताश्च देववत्। षष्ठि: पुत्रसहस्राणि सगरस्य महात्मन:।।1.44.3।। Bala Kanda,44,4,सागरस्य जलं लोके यावत्स्थास्यति पार्थिव। सगरस्यात्मजास्तावत्स्वर्गे स्थास्यन्ति देववत्।।1.44.4।। Bala Kanda,44,5,इयं च दुहिता ज्येष्ठा तव गङ्गा भविष्यति । त्वत्कृतेन च नाम्नाऽथ लोके स्थास्यति विश्रुता।।1.44.5।। Bala Kanda,44,6,गङ्गा त्रिपथगा राजन् दिव्या भागीरथीति च। त्रीन् पथो भावयन्तीति ततस्त्रिपथगा स्मृता।।1.44.6।। Bala Kanda,44,7,पितामहानां सर्वेषां त्वमत्र मनुजाधिप । कुरुष्व सलिलं राजन् प्रतिज्ञामपवर्जय।।1.44.7।। Bala Kanda,44,8,पूर्वकेण हि ते राजंस्तेनातियशसा तदा। धर्मिणां प्रवरेणापि नैष प्राप्तो मनोरथ:।।1.44.8।। Bala Kanda,44,9,तथैवांशुमता तात लोकेऽप्रतिमतेजसा। गङ्गां प्रार्थयतानेतुं प्रतिज्ञा नापवर्जिता।।1.44.9।। Bala Kanda,44,10,राजर्षिणा गुणवता महर्षिसमतेजसा। मत्तुल्यतपसा चैव क्षत्रधर्मस्थितेन च।।1.44.10।। Bala Kanda,44,11,दिलीपेन महाभाग तव पित्राऽति तेजसा। पुनर्न शङ्किताऽनेतुं गङ्गां प्रार्थयताऽनघ।।1.44.11।। Bala Kanda,44,12,सा त्वया समनुक्रान्ता प्रतिज्ञा पुरुषर्षभ। प्राप्तोऽसि परमं लोके यश: परमसम्मतम्।।1.44.12।। Bala Kanda,44,13,यच्च गङ्गावतरणं त्वया कृतमरिन्दम। अनेन च भवान् प्राप्तो धर्मस्यायतनं महत्।।1.44.13।। Bala Kanda,44,14,प्लावयस्व त्वमात्मानं नरोत्तम सदोचिते। सलिले पुरुषव्याघ्र शुचि: पुण्यफलो भव।।1.44.14।। Bala Kanda,44,15,पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम्। स्वस्ति तेऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप।।1.44.15।। Bala Kanda,44,16,इत्येवमुक्त्वा देवेश: सर्वलोकपितामह:। यथाऽऽगतं तथाऽगच्छत् देवलोकं महायशा:।।1.44.16।। Bala Kanda,44,17,भगीरथोऽपि राजर्षि: कृत्वा सलिलमुत्तमम्। यथाक्रमं यथान्यायं सागराणां महायशा:।।1.44.17।। Bala Kanda,44,18,कृतोदकश्शुची राजा स्वपुरं प्रविवेश ह। समृद्धार्थो रघुश्रेष्ठ स्वराज्यं प्रशशास ह।।1.44.18।। Bala Kanda,44,19,प्रमुमोद ह लोकस्तं नृपमासाद्य राघव। नष्टशोकस्समृद्धार्थो बभूव विगतज्वर:।।1.44.19।। Bala Kanda,44,20,एष ते राम गङ्गाया विस्तरोऽभिहितो मया। स्वस्ति प्राप्नुहि भद्रं ते संध्याकालोऽतिवर्तते।।1.44.20।। Bala Kanda,44,21,धन्यं यशस्यमायुष्यं पुत्र्यं स्वर्ग्यमतीव च। यश्श्रावयति विप्रेषु क्षत्रियेष्वितरेषु च।।1.44.21।। प्रीयन्ते पितरस्तस्य प्रीयन्ते दैवतानि च। Bala Kanda,44,22,इदमाख्यानमव्यग्रो गङ्गावतरणं शुभम्।।1.44.22।। Bala Kanda,44,23,यश्शृणोति च काकुत्स्थ सर्वान् कामानवाप्नुयात्। सर्वे पापा: प्रणश्यन्ति आयु: कीर्तिश्च वर्धते।।1.44.23।। Bala Kanda,45,1,विश्वामित्रवचश्श्रुत्वा राघव स्सहलक्ष्मण:। विस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत्।।1.45.1।। Bala Kanda,45,2,अत्यद्भुतमिदं ब्रह्मन् कथितं परमं त्वया। गङ्गावतरणं पुण्यं सागरस्यापि पूरणम्।।1.45.2।। Bala Kanda,45,3,तस्य सा शर्वरी सर्वा सह सौमित्रिणा तदा। जगाम चिन्तयानस्य विश्वामित्रकथां शुभाम् ।।1.45.3।। Bala Kanda,45,4,तत: प्रभाते विमले विश्वामित्रं महामुनिम्। उवाच राघवो वाक्यं कृताह्निकमरिन्दम:।।1.45.4।। Bala Kanda,45,5,गता भगवती रात्रिश्श्रोतव्यं परमं श्रुतम्। क्षणभूतेव नौ रात्रि स्सम्वृत्तेयं महातप:।।1.45.5।। इमां चिन्तयतस्सर्वां निखिलेन कथां तव। Bala Kanda,45,6,तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम्।।1.45.6।। Bala Kanda,45,7,नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम्। भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता।।1.45.7।। Bala Kanda,45,8,तस्य तद्वचनं श्रुत्वा राघवस्य महात्मन:। सन्तारं कारयामास सर्षिसङ्घ स्सराघव:।।1.45.8।। Bala Kanda,45,9,उत्तरं तीरमासाद्य सम्पूज्यर्षिगणं तदा। गङ्गाकूले निविष्टास्ते विशालां ददृशु: पुरीम्।।1.45.9।। Bala Kanda,45,10,ततो मुनिवरस्तूर्णं जगाम सह राघव: । विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा।।1.45.10।। Bala Kanda,45,11,अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम् । पप्रच्छ प्राञ्जलिर्भूत्वा विशालामुत्तमां पुरीम्।।1.45.11।। Bala Kanda,45,12,कतरो राजवंशोऽयं विशालायां महामुने। श्रोतुमिच्छामि भद्रं ते परं कौतूहलं हि मे।।.1.45.12।। Bala Kanda,45,13,तस्य तद्वचनं श्रुत्वा रामस्य मुनिपुङ्गव:। आख्यातुं तत्समारेभे विशालस्य पुरातनम्।।1.45.13।। Bala Kanda,45,14,श्रूयतां राम शक्रस्य कथां कथयतश्शुभाम्। अस्मिन् देशे तु यद्वृत्तं तदपि शृणु राघव।।1.45.14।। Bala Kanda,45,15,पूर्वं कृतयुगे राम दिते: पुत्रा महाबला:। अदितेश्च महाभाग वीर्यवन्तस्सुधार्मिका:।।1.45.15।। Bala Kanda,45,16,ततस्तेषां नरश्रेष्ठ बुद्धिरासीन्महात्मनाम् । अमरा अजराश्चैव कथं स्याम निरामया:।।1.45.16।। Bala Kanda,45,17,तेषां चिन्तयतां राम बुद्धिरासीन्महात्मनाम्। क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै।।1.45.17।। Bala Kanda,45,18,ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम्। मन्थानं मन्दरं कृत्वा ममन्थुरमितौजस:।।1.45.18।। Bala Kanda,45,19,अथ वर्षसहस्रेण योक्त्रसर्पशिरांसि च। वमन्त्यति विषं तत्र ददंशुर्दशनैश्शिला:।।1.45.19।। Bala Kanda,45,20,उत्पपाताग्निसङ्काशं हालाहलमहाविषम्। तेन दग्धं जगत्सर्वं सदेवासुरमानुषम्।।1.45.20।। Bala Kanda,45,21,अथ देवा महादेवं शङ्करं शरणार्थिन:। जग्मु: पशुपतिं रुद्रं त्राहि त्राहीति तुष्टुवु:।।1.45.21।। Bala Kanda,45,22,एवमुक्तस्ततो देवैर्देवदेवेश्वर: प्रभु:। प्रादुरासीत्ततोऽत्रैव शङ्खचक्रधरो हरि:।।1.45.22।। Bala Kanda,45,23,उवाचैनं स्मितं कृत्वा रुद्रं शूलभृतं हरि:। दैवतैर्मथ्यमाने तु यत्पूर्वं समुपस्थितम् ।।1.45.23।। Bala Kanda,45,24,त्वदीयंहि सुरश्रेष्ठ सुराणामग्रजोऽसि यत् । अग्रपूजामिमां मत्वा गृहाणेदं विषं प्रभो।।1.45.24।। Bala Kanda,45,25,इत्युक्त्वा च सुरश्रेष्ठस्तत्रैवान्तरधीयत। देवतानां भयं दृष्टवाश्रुत्वा वाक्यं तु शार्ङ्गिण:। हालाहलविषं घोरं स जग्राहामृतोपमम्।।1.45.25।। Bala Kanda,45,26,देवान्विसृज्य देवेशो जगाम भगवान् हर:। ततो देवासुरास्सर्वे ममन्थू रघुनन्दन ।।1.45.26।। Bala Kanda,45,27,प्रविवेशाथ पातालं मन्थान: पर्वतोऽनघ। ततो देवास्सगन्धर्वास्तुष्टुवुर्मधुसूदनम्।।1.45.27।। Bala Kanda,45,28,त्वं गति: सर्वभूतानां विशेषेण दिवौकसाम्। पालयास्मान्महाबाहो गिरिमुद्धर्तुमर्हसि।।1.45.28।। Bala Kanda,45,29,इति श्रुत्वा हृषीकेश: कामठं रूपमास्थित:। पर्वतं पृष्ठत: कृत्वा शिश्ये तत्रोदधौ हरि:।।1.45.29।। Bala Kanda,45,30,पर्वताग्रे तु लोकात्मा हस्तेनाक्रम्य केशव:। देवानां मध्यत: स्थित्वा ममन्थ पुरुषोत्तम:।।1.45.30।। Bala Kanda,45,31,अथ वर्षसहस्रेण सदण्डस्सकमण्डलु:। पूर्वं धन्वन्तरिर्नाम अप्सराश्च सुवर्चस:।।1.45.31।। Bala Kanda,45,32,अप्सु निर्मथनादेव रसास्तस्माद्वरस्त्रिय:। उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन्।।1.45.32।। Bala Kanda,45,33,षष्टि: कोट्योऽभवंस्तासाम् अप्सराणां सुवर्चसाम्। असङ्ख्येयास्तु काकुत्स्थ यास्तासां परिचारिका:।।1.45.33।। Bala Kanda,45,34,न तास्स्म परिगृह्णन्ति सर्वे ते देवदानवा:। अप्रतिग्रहणात्ताश्च सर्वास्साधारणास्स्मृता:।।1.45.34।। Bala Kanda,45,35,वरुणस्य तत: कन्या वारुणी रघुनन्दन । उत्पपात महाभागा मार्गमाणा परिग्रहम्।।1.45.35।। Bala Kanda,45,36,दिते: पुत्रा न तां राम जगृहुर्वरुणात्मजाम्। अदितेस्तु सुता वीर जगृहुस्तामनिन्दिताम्।।1.45.36।। Bala Kanda,45,37,असुरास्तेन दैतेयास्सुरास्तेनादितेस्सुता:। हृष्टा: प्रमुदिताश्चासन् वारुणीग्रहणात्सुरा:।।1.45.37।। Bala Kanda,45,38,उच्चैश्श्रवा हयश्रेष्ठो मणिरत्नं च कौस्तुभम्। उदतिष्ठन्नरश्रेष्ठ तथैवामृतमुत्तमम्।।1.45.38।। Bala Kanda,45,39,अथ तस्य कृते राम महानासीत्कुलक्षय:। अदितेस्तु तत: पुत्रा दिते: पुत्रानसूदयन्।।1.45.39।। Bala Kanda,45,40,एकतोऽभ्यागमन् सर्वे ह्यसुरा राक्षसैस्सह। युद्धमासीन्महाघोरं वीर त्रैलोक्यमोहनम्।।1.45.40।। Bala Kanda,45,41,यदा क्षयं गतं सर्वं तदा विष्णुर्महाबल:। अमृतं सोऽहरत्त्तूर्णं मायामास्थाय मोहिनीम्।।1.45.41।। Bala Kanda,45,42,ये गताऽभिमुखं विष्णुमक्षयं पुरुषोत्तमम्। सम्पिष्टास्ते तदा युद्धे विष्णुना प्रभविष्णुना।।1.45.42।। Bala Kanda,45,43,अदितेरात्मजा वीरा दिते: पुत्रान्निजघ्निरे। तस्मिन् घोरे महायुद्धे दैतेयादित्ययोर्भृशम्।।1.45.43।। Bala Kanda,45,44,निहत्य दितिपुत्रांश्च राज्यं प्राप्य पुरन्दर:। शशास मुदितो लोकान् सर्षिसङ्घान् सचारणान्।।1.45.44।। Bala Kanda,46,1,हतेषु तेषु पुत्रेषु दिति: परमदु:खिता। मारीचं काश्यपं राम भर्तारमिदमब्रवीत्।।1.46.1।। Bala Kanda,46,2,हतपुत्राऽस्मि भगवंस्तव पुत्रैर्महाबलै:। शक्रहन्तारमिच्छामि पुत्रं दीर्घतपोऽर्जितम्।।1.46.2।। Bala Kanda,46,3,साऽहं तपश्चरिष्यामि गर्भं मे दातुमर्हसि। ईश्वरं शक्रहन्तारं त्वमनुज्ञातुमर्हसि।।1.46.3।। Bala Kanda,46,4,तस्यास्तद्वचनं श्रुत्वा मारीच: काश्यपस्तदा। प्रत्युवाच महातेजा दितिं परमदु:खिताम्।।1.46.4।। Bala Kanda,46,5,"""एवं भवतु, भद्रं ते शुचिर्भव तपोधने। जनयिष्यसि पुत्रं त्वं शक्रहन्तारमाहवे।।1.46.5।।""" Bala Kanda,46,6,पूर्णे वर्षसहस्रे तु शुचिर्यदि भविष्यसि। पुत्रं त्रैलोक्यभर्तारं मत्तस्त्वं जनयिष्यसि।।1.46.6।। Bala Kanda,46,7,एवमुक्त्वा महातेजा: पाणिना स ममार्ज ताम्। समालभ्य ततस्स्वस्तीत्युक्त्वा स तपसे ययौ।।1.46.7।। Bala Kanda,46,8,गते तस्मिन्नरश्श्रेष्ठ दिति: परमहर्षिता। कुशप्लवनमासाद्य तपस्तेपे सुदारुणम्।।1.46.8।। Bala Kanda,46,9,तपस्तस्यां हि कुर्वन्त्यां परिचर्यां चकार ह। सहस्राक्षो नरश्श्रेष्ठ परया गुणसम्पदा।।1.46.9।। Bala Kanda,46,10,अग्निं कुशान् काष्ठमप: फलं मूलं तथैव च। न्यवेदयत्सहस्राक्षो यच्चान्यदपि काङ्क्षितम्।।1.46.10।। Bala Kanda,46,11,गात्रसंवहनश्चैव श्रमापनयनैस्तथा। शक्रस्सर्वेषु कालेषु दितिं परिचचार ह ।।1.46.11।। Bala Kanda,46,12,अथ वर्षसहस्रे तु दशोने रघुनन्दन । दिति: परमसम्प्रीता सहस्राक्षमथाब्रवीत्।।1.46.12।। Bala Kanda,46,13,याचितेन सुरश्रेष्ठ तव पित्रा महात्मना। वरो वर्षसहस्रान्ते दत्तो मम सुतं प्रति।।1.46.13।। Bala Kanda,46,14,तपश्चरन्त्या वर्षाणि दश वीर्यवतां वर। अवशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे तत:।।1.46.14।। Bala Kanda,46,15,तमहं त्वत्कृते पुत्र समाधास्ये जयोत्सुकम्। त्रैलोक्यविजयं पुत्र सह भोक्ष्यसि विज्वर:।।1.46.15।। Bala Kanda,46,16,एवमुक्त्वा दितिश्शक्रं प्राप्ते मध्यं दिवाकरे। निद्रयाऽपहृता देवी पादौ कृत्वाऽथ शीर्षत:।।1.46.16।। Bala Kanda,46,17,दृष्ट्वा तामशुचिं शक्र: पादत: कृतमूर्धजाम्। शिरस्स्थाने कृतौ पादौ जहास च मुमोद च।।1.46.17।। Bala Kanda,46,18,तस्याश्शरीरविवरं विवेश च पुरन्दर:। गर्भं च सप्तधा राम बिभेद परमात्मवान्।।1.46.18।। Bala Kanda,46,19,भिद्यमानस्ततो गर्भो वज्रेण शतपर्वणा। रुरोद सुस्वरं राम ततो दितिरबुध्यत।।1.46.19।। Bala Kanda,46,20,मा रुदो मा रुदश्चेति गर्भं शक्रोऽभ्यभाषत। बिभेद च महातेजा रुदन्तमपि वासव:।।1.46.20।। Bala Kanda,46,21,न हन्तव्यो न हन्तव्य इत्येवं दितिरब्रवीत्। निष्पपात ततश्शक्रो मातुर्वचनगौरवात्।।1.46.21।। Bala Kanda,46,22,प्राञ्जलिर्वज्रसहितो दितिं शक्रोऽभ्यभाषत। अशुचिर्देवि सुप्ताऽसि पादयो: कृतमूर्धजा।।1.46.22।। Bala Kanda,46,23,तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे। अभिदं सप्तधा देवि तन्मे त्वं क्षन्तुमर्हसि।।1.46.23।। Bala Kanda,47,1,सप्तधातु कृते गर्भे दिति: परमदु:खिता। सहस्राक्षं दुराधर्षं वाक्यं सानुनयाऽब्रवीत्।।1.47.1।। Bala Kanda,47,2,ममापराधाद्गर्भोऽयं सप्तधा विफलीकृत:। नापराधोऽस्ति देवेश तवात्र बलसूदन।।1.47.2।। Bala Kanda,47,3,प्रियं तु कर्तुमिच्छामि मम गर्भविपर्यये। मरुतां सप्तसप्तानां स्थानपाला भवन्त्विमे।।1.47.3।। Bala Kanda,47,4,वातस्कन्धा: इमे सप्त चरन्तु दिवि पुत्रक । मारुता इति विख्याता दिव्यरूपा ममात्मजा:।।1.47.4।। Bala Kanda,47,5,ब्रह्मलोकं चरत्वेक इन्द्रलोकं तथाऽपर:। दिवि वायुरिति ख्यातस्तृतीयोऽपि महायशा:।।1.47.5।। Bala Kanda,47,6,चत्वारस्तु सुरश्रेष्ठ दिशो वै तव शासनात्। सञ्चरिष्यन्तु भद्रं ते देवभूता ममात्मजा:।।1.47.6।। Bala Kanda,47,7,तस्यास्तद्वचनं श्रुत्वा सहस्राक्ष: पुरन्दर:। उवाच प्राञ्जलिर्वाक्यं दितिं बलनिषूदन:।।1.47.7।। Bala Kanda,47,8,सर्वमेतद्यथोक्तं ते भविष्यति न संशय:। विचरिष्यन्ति भद्रं ते देवभूतास्तवात्मजा:।।1.47.8।। Bala Kanda,47,9,एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने। जग्मतुस्त्रिदिवं राम कृतार्थाविति नश्श्रुतम्।।1.47.9।। Bala Kanda,47,10,एष देशस्स काकुत्स्थ महेन्द्राध्युषित: पुरा। दितिं यत्र तपस्सिद्धामेवं परिचचार स:।।1.47.10।। Bala Kanda,47,11,इक्ष्वाकोऽस्तु नरव्याघ्र पुत्र: परमधार्मिक:।।1.47.11।। Bala Kanda,47,12,अलम्बुषायामुत्पन्नो विशाल इति विश्रुत:। तेन चासीदिह स्थाने विशालेति पुरी कृता।।1.47.12।। Bala Kanda,47,13,विशालस्य सुतो राम हेमचन्द्रो महाबल:। सुचन्द्र इति विख्यात: हेमचन्द्रादनन्तर:।।1.47.13।। Bala Kanda,47,14,सुचन्द्रतनयो राम धूम्राश्व इति विश्रुत:। धूम्राश्वतनयश्चापि सञ्जयस्समपद्यत।।1.47.14।। Bala Kanda,47,15,सञ्जयस्य सुतश्श्रीमान् सहदेव: प्रतापवान्। कुशाश्वस्सहदेवस्य पुत्र: परमधार्मिक:।।1.47.15।। Bala Kanda,47,16,कुशाश्वस्य महातेजा सोमदत्त: प्रतापवान्। सोमदत्तस्य पुत्रस्तु काकुत्स्थ इति विश्रुत:।।1.47.16।। Bala Kanda,47,17,तस्य पुत्रो महातेजा: सम्प्रत्येष पुरीमिमाम्। आवसत्यमरप्रख्यस्सुमतिर्नाम दुर्जय:।।1.47.17।। Bala Kanda,47,18,इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपा:। दीर्घायुषो महात्मानो वीर्यवन्तस्सुधार्मिका:।।1.47.18।। Bala Kanda,47,19,इहाद्य रजनीं राम सुखं वत्स्यामहे वयम्। श्व: प्रभाते नरश्रेष्ठ जनकं द्रष्टुमर्हसि।।1.47.19।। Bala Kanda,47,20,सुमतिस्तु महातेजा विश्वामित्रमुपागतम्। श्रुत्वा नरवरश्रेष्ठ: प्रत्युद्गच्छन्महायशा:।।1.47.20।। Bala Kanda,47,21,पूजां च परमां कृत्वा सोपाध्यायस्सबान्धव:। प्राञ्जलि: कुशलं पृष्ट्वा विश्वामित्रमथाब्रवीत्।।1.47.21।। Bala Kanda,47,22,धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे विषयं मुनि:। सम्प्राप्तो दर्शनं चैव नास्ति धन्यतरो मम।।1.47.22।। Bala Kanda,48,1,पृष्ट्वा तु कुशलं तत्र परस्परसमागमे। कथान्ते सुमतिर्वाक्यं व्याजहार महामुनिम्।।1.48.1।। Bala Kanda,48,2,इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ। गजसिंहगती वीरौ शार्दूलवृषभोपमौ।।1.48.2।। Bala Kanda,48,3,पद्मपत्रविशालाक्षौ खड्गतूणी धनुर्धरौ। अश्विनाविव रूपेण समुपस्थितयौवनौ।।1.48.3।। Bala Kanda,48,4,यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ। कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने।।1.48.4।। Bala Kanda,48,5,भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम्। परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितै:।।1.48.5।। Bala Kanda,48,6,किमर्थं च मुनिश्रेष्ठ सम्प्राप्तौ दुर्गमे पथि। वरायुधधरौ वीरौ श्रोतुमिच्छामि तत्त्वत:।।1.48.6।। Bala Kanda,48,7,तस्य तद्वचनं श्रुत्वा यथावृत्तं न्यवेदयत्। सिद्धाश्रमनिवासं च राक्षसानां वधं तथा।।1.48.7।। Bala Kanda,48,8,विश्वामित्रवचश्श्रुत्वा राजा परमहर्षित:। अतिथी परमौ प्राप्तौ पुत्रौ दशरथस्य तौ।।1.48.8।। पूजयामास विधिवत्सत्कारार्हौ महाबलौ। Bala Kanda,48,9,तत: परमसत्कारं सुमते: प्राप्य राघवौ।।1.48.9।। उष्य तत्र निशामेकां जग्मतुर्मिथिलां तत: । Bala Kanda,48,10,तान् दृष्ट्वा मुनयस्सर्वे जनकस्य पुरीं शुभाम्।।1.48.10।। साधु साध्विति शंसन्तो मिथिलां समपूजयन्। Bala Kanda,48,11,मिथिलोपवने शून्यमाश्रमं दृश्य राघव:।।1.48.11।। पुराणं निर्जनं रम्यं पप्रच्छ मुनिपुङ्गवम्। Bala Kanda,48,12,श्रीमदाश्रमसङ्काशं किन्न्विदं मुनिवर्जितम्।।1.48.12।। ज्ञातुमिच्छामि भगवन् कस्यायं पूर्वमाश्रम:। Bala Kanda,48,13,तच्छ्रुत्वा राघवेणोक्तं वाक्यं वाक्यविशारद:।।1.48.13।। प्रत्युवाच महातेजा विश्वामित्रो महामुनि:। Bala Kanda,48,14,हन्त ते कथयिष्यामि श्रुणु तत्त्वेन राघव।।1.48.14।। यस्येदमाश्रमपदं शप्तं कोपान्महात्मना। Bala Kanda,48,15,गौतमस्य नरश्रेष्ठ पूर्वमासीन्महात्मन:।।1.48.15।। आश्रमो दिव्यसङ्काशस्सुरैरपि सुपूजित:। Bala Kanda,48,16,स चेह तप आतिष्ठदहल्यासहित: पुरा।।1.48.16।। वर्षपूगाननेकांश्च राजपुत्र महायश:। Bala Kanda,48,17,तस्यान्तरं विदित्वा तु सहस्राक्षश्शचीपति:।।1.48.17।। मुनिवेषधरोऽहल्यामिदं वचनमब्रवीत्। Bala Kanda,48,18,ऋतुकालं प्रतीक्षन्ते नार्थिनस्सुसमाहिते।1.48.18 सङ्गमं त्वहमिच्छामि त्वया सह सुमध्यमे।। Bala Kanda,48,19,मुनिवेषं सहस्राक्षं विज्ञाय रघुनन्दन।1.48.19 मतिं चकार दुर्मेधा देवराजकुतूहलात्।। Bala Kanda,48,20,अथाब्रवीत् नरश्रेष्ठ कृतार्थेनान्तरात्मना।1.48.20।। कृतार्थाऽस्मि सुरश्रेष्ठ गच्छ शीघ्रमित: प्रभो। आत्मानं मां च देवेश सर्वदा रक्ष गौतमात्।1.48.21।। Bala Kanda,48,21,अथाब्रवीत् नरश्रेष्ठ कृतार्थेनान्तरात्मना।1.48.20।। कृतार्थाऽस्मि सुरश्रेष्ठ गच्छ शीघ्रमित: प्रभो। आत्मानं मां च देवेश सर्वदा रक्ष गौतमात्।1.48.21।। Bala Kanda,48,22,इन्द्रस्तु प्रहसन् वाक्यमहल्यामिदमब्रवीत्। सुश्रोणि परितुष्टोऽस्मि गमिष्यामि यथाऽगतम्।1.48.22।। Bala Kanda,48,23,एवं सङ्गम्य तु तया निश्चक्रामोटजात्तत:।। स सम्भ्रमात्त्वरन् राम शङ्कितो गौतमं प्रति।1.48.23।। Bala Kanda,48,24,गौतमं तं ददर्शाथ प्रविशन्तं महामुनिम्। देवदानवदुर्धर्षं तपोबलसमन्वितम्।।1.48.24।। Bala Kanda,48,25,तीर्थेंदकपरिक्लिन्नं दीप्यमानमिवानलम्। गृहीतसमिधं तत्र सकुशं मुनिपुङ्गवम्।।1.48.25।। Bala Kanda,48,26,दृष्ट्वा सुरपतिस्त्रस्तो विवर्णवदनोऽभवत्। अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनि:।।1.48.26।। दुर्वृत्तं वृत्तसम्पन्नो रोषाद्वचनमब्रवीत्। Bala Kanda,48,27,मम रूपं समास्थाय कृतवानसि दुर्मते।।1.48.27।। अकर्तव्यमिदं तस्माद्विफलस्त्वं भविष्यसि। Bala Kanda,48,28,गौतमेनैवमुक्तस्य सरोषेण महात्मना।।1.48.28।। पेततुर्वृषणै भूमौ सहस्राक्षस्य तत्क्षणात्। Bala Kanda,48,29,तथा शप्त्वा स वै शक्रमहल्यामपि शप्तवान्।।1.48.29।। Bala Kanda,48,30,इह वर्षसहस्राणि बहूनि त्वं निवत्स्यसि। वायुभक्षा निराहारा तप्यन्ती भस्मशायिनी।।1.48.30।। अदृश्या सर्वभूतानां आश्रमेऽस्मिन्निवत्स्यसि। Bala Kanda,48,31,यदा चैतद्वनं घोरं रामो दशरथात्मज:।।1.48.31।। आगमिष्यति दुर्धर्षस्तदा पूता भविष्यसि। Bala Kanda,48,32,तस्यातिथ्येन दुर्वुत्ते लोभमोहविवर्जिता।।1.48.32।। मत्सकाशे मुदा युक्ता स्वं वपुर्धारयिष्यसि। Bala Kanda,48,33,एवमुक्त्वा महातेजा गौतमो दुष्टचारिणीम्।।1.48.33।। Bala Kanda,48,34,इममाश्रममुत्सृज्य सिद्धचारणसेविते। हिमवच्छिखरे पुण्ये तपस्तेपे महातपा:।।1.48.34।। Bala Kanda,49,1,अफलस्तु ततश्शक्रो देवानग्निपुरोगमान्। अब्रवीत्त्रस्तवदनस्सर्षिस्सङ्घान् सचारणान्।।1.49.1।। Bala Kanda,49,2,कुर्वता तपसो विघ्नं गौतमस्य महात्मन:। क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम्।।1.49.2।। Bala Kanda,49,3,अफलोऽस्मि कृतस्तेन क्रोधात्सा च निराकृता। शापमोक्षेण महता तपोऽस्यापहृतं मया।।1.49.3।। Bala Kanda,49,4,तस्मात्सुरवरास्सर्वे सर्षिस्सङ्घास्सचारणा: । सुरसाह्यकरं सर्वे सफलं कर्तुमर्हथ।।1.49.4।। Bala Kanda,49,5,शतक्रतोर्वचश्श्रुत्वा देवास्साग्निपुरोगमा:। पितृदेवानुपेत्याहु स्सह सर्वैर्मरुद्गणै:।।1.49.5।। Bala Kanda,49,6,अयं मेषस्सवृषणश्शक्रो ह्यवृषण: कृत:। मेषस्य वृषणौ गृह्य शक्रायाऽशु प्रयच्छथ।।1.49.6।। Bala Kanda,49,7,अफलस्तु कृतो मेष: परां तुष्टिं प्रदास्यति। भवतां हर्षणार्थाय ये च दास्यन्ति मानवा:।।1.49.7।। Bala Kanda,49,8,अग्नेस्तु वचनं श्रुत्वा पितृदेवास्समागता:। उत्पाट्य मेषवृषणौ सहस्राक्षे न्यवेशयन्।।1.49.8।। Bala Kanda,49,9,तदा प्रभृति काकुत्स्थ पितृदेवास्समागता:। अफलान् भुञ्जते मेषान् फलैस्तेषामयोजयन्।।1.49.9।। Bala Kanda,49,10,इन्द्रस्तु मेषवृषणस्तदाप्रभृति राघव। गौतमस्य प्रभावेन तपसश्च महात्मन:।।1.49.10।। Bala Kanda,49,11,तदागच्छ महातेज आश्रमं पुण्यकर्मण:। तारयैनां महाभागामहल्यां देवरूपिणीम्।।1.49.11।। Bala Kanda,49,12,विश्वामित्रवचश्श्रुत्वा राघवस्सहलक्ष्मण:। विश्वामित्रं पुरस्कृत्य तमाश्रममथाविशत्।।1.49.12।। Bala Kanda,49,13,ददर्श च महाभागां तपसा द्योतितप्रभाम्। लोकैरपि समागम्य दुर्निरीक्ष्यां सुरासुरै:।।1.49.13।। Bala Kanda,49,14,प्रयत्नान्निर्मितां धात्रा दिव्यां मायामयीमिव। स तुषारावृतां साभ्रां पूर्णचन्द्रप्रभामिव।।1.49.14।। मध्येंऽभसो दुराधर्षां दीप्तां सूर्यप्रभामिव। Bala Kanda,49,15,सा हि गौतमवाक्येन दुर्निरीक्ष्या बभूव ह।।1.49.15।। त्रयाणामपि लोकानां यावद्रामस्य दर्शनम्। Bala Kanda,49,16,शापस्यान्तमुपागम्य तेषां दर्शनमागता।।1.49.16।। राघवौ तु ततस्तस्या: पादौ जगृहतुस्तदा। Bala Kanda,49,17,स्मरन्ती गौतमवच: प्रतिजग्राह सा च तौ।।1.49.17।। Bala Kanda,49,18,पाद्यमर्घ्यं तथाऽऽतिथ्यं चकार सुसमाहिता। प्रतिजग्राह काकुत्स्थो विधिदृष्टेन कर्मणा।।1.49.18।। Bala Kanda,49,19,पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभिनिस्वनै:। गन्धर्वाप्सरसां चैव महानासीत्समागम:।।1.49.19।। Bala Kanda,49,20,साधु साध्विति देवास्तामहल्यां समपूजयन्। तपोबलविशुद्धाङ्गी गौतमस्य वशानुगाम्।।1.49.20।। Bala Kanda,49,21,गौतमोऽपि महातेजा अहल्यासहितस्सुखी। रामं सम्पूज्य विधिवत्तपस्तेपे महातपा:।।1.49.21।। Bala Kanda,49,22,रामोऽपि परमां पूजां गौतमस्य महामुने:। सकाशाद्विधिवत्प्राप्य जगाम मिथिलां तत:।।1.49.22।। Bala Kanda,50,1,तत: प्रागुत्तरां गत्वा रामस्सौमित्रिणा सह। विश्वामित्रं पुरस्कृत्य यज्ञवाटमुपागमत्।।1.50.1।। Bala Kanda,50,2,रामस्तु मुनिशार्दूलमुवाच सहलक्ष्मण:। साध्वी यज्ञसमृद्धिर्हि जनकस्य महात्मन:।।1.50.2।। Bala Kanda,50,3,बहूनीह सहस्राणि नानादेशनिवासिनाम्। ब्राह्मणानां महाभाग वेदाध्ययनशालिनाम्।।1.50.3।। Bala Kanda,50,4,ऋषिवाटाश्च दृश्यन्ते शकटीशतसङ्कुला:। देशो विधीयतां ब्रह्मन् यत्र वत्स्यामहे वयम्।।1.50.4।। Bala Kanda,50,5,रामस्य वचनं श्रुत्वा विश्वामित्रो महामुनि:। निवेशमकरोद्देशे विविक्ते सलिलायुते।।1.50.5।। Bala Kanda,50,6,विश्वामित्रमनुप्राप्तं श्रुत्वा स नृपतिस्तदा। शतानन्दं पुरस्कृत्य पुरोहितमनिन्दितम्।।1.50.6।। प्रत्युज्जगाम सहसा विनयेन समन्वित:। Bala Kanda,50,7,ऋत्विजोऽपि महात्मानस्त्वर्घ्यमादाय सत्वरम्।।1.50.7।। विश्वामित्राय धर्मेण ददुर्मंन्त्रपुरस्कृतम्। Bala Kanda,50,8,प्रतिगृह्य च तां पूजां जनकस्य महात्मन:।।1.50.8।। पप्रच्छ कुशलं राज्ञो यज्ञस्य च निरामयम्। Bala Kanda,50,9,स तांश्चापि मुनीन् पृष्ट्वा सोपाध्यायपुरोधस:।।1.50.9।। यथान्यायं ततस्सर्वैस्समागच्छत्प्रहृष्टवत्। Bala Kanda,50,10,अथ राजा मुनिश्रेष्ठं कृताञ्जलिरभाषत।।1.50.10।। आसने भगवानास्तां सहैभिर्मुनिपुङ्गवै:। Bala Kanda,50,11,जनकस्य वचश्श्रुत्वा निषसाद महामुनि:।।1.50.11।। पुरोधा ऋत्विजश्चैव राजा च सह मन्त्रिभि:। Bala Kanda,50,12,आसनेषु यथान्यायमुपविष्टान् समन्तत:।।1.50.12।। दृष्ट्वा स नृपतिस्तत्र विश्वामित्रमथाब्रवीत्। Bala Kanda,50,13,अद्य यज्ञसमृध्दिर्मे सफला दैवतै: कृता।।1.50.13।। अद्य यज्ञफलं प्राप्तं भगवद्दर्शनान्मया। Bala Kanda,50,14,धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गव।।1.50.14।। यज्ञोपसदनं ब्रह्मन् प्राप्तोऽसि मुनिभि: सह। Bala Kanda,50,15,द्वादशाहं तु ब्रह्मर्षे शेषमाहुर्मनीषिण:।।1.50.15।। ततो भागार्थिनो देवान् द्रष्टुमर्हसि कौशिक। Bala Kanda,50,16,इत्युक्त्वा मुनिशार्दूलं प्रहृष्टवदनस्तदा।।1.50.16।। पुनस्तं परिपप्रच्छ प्राञ्जलि: प्रणतो नृप:। Bala Kanda,50,17,इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ।।1.50.17।। Bala Kanda,50,18,गजसिंहगती वीरौ शार्दूलवृषभोपमौ। पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ।।1.50.18।। Bala Kanda,50,19,अश्विनाविव रूपेण समुपस्थितयौवनौ। यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ।।1.50.19।। कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने। Bala Kanda,50,20,वरायुधधरौ वीरौ कस्य पुत्रौ महामुने।।1.50.20।। Bala Kanda,50,21,भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम्। परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितै:।।1.50.21।। काकपक्षधरौ वीरौ श्रोतुमिच्छामि तत्त्वत:। Bala Kanda,50,22,तस्य तद्वचनं श्रुत्वा जनकस्य महात्मन:।।1.50.22।। न्यवेदयन्महात्मानौ पुत्रौ दशरथस्य तौ। Bala Kanda,50,23,सिद्धाश्रमनिवासं च राक्षसानां वधं तथा।।1.50.23।। Bala Kanda,50,24,तच्चागमनमव्यग्रं विशालायाश्च दर्शनम्। अहल्यादर्शनं चैव गौतमेन समागमम्।।1.50.24।। Bala Kanda,50,25,महाधनुषि जिज्ञासां कर्तुमागमनं तथा। एतत्सर्वं महातेजा जनकाय महात्मने ।।1.50.25।। निवेद्य विररामाथ विश्वामित्रो महामुनि:। Bala Kanda,51,1,तस्य तद्वचनं श्रुत्वा विश्वामित्रस्य धीमत:। हृष्टरोमा महातेजाश्शतानन्दो महातपा:।।1.51.1।। Bala Kanda,51,2,गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभ:। रामसन्दर्शनादेव परं विस्मयमागत:।।1.51.2।। Bala Kanda,51,3,स तौ निषण्णौ सम्प्रेक्ष्य सुखासीनौ नृपात्मजौ। शतानन्दो मुनिश्रेष्ठं विश्वामित्रमथामब्रवीत्।।1.51.3।। Bala Kanda,51,4,अपि ते मुनिशार्दूल मम माता यशस्विनी। दर्शिता राजपुत्राय तपो दीर्घमुपागता।।1.51.4।। Bala Kanda,51,5,अपि रामे महातेजा मम माता यशस्विनी। वन्यैरुपाहरत्पूजां पूजार्हे सर्वदेहिनाम्।।1.51.5।। Bala Kanda,51,6,अपि रामाय कथितं यथावृत्तं पुरातनम्। मम मातुर्महातेजो दैवेन दुरनुष्ठितम्।।1.51.6।। Bala Kanda,51,7,अपि कौशिक भद्रं ते गुरुणा मम सङ्गता। मम माता मुनिश्रेष्ठ रामसन्दर्शनादित:।।1.51.7।। Bala Kanda,51,8,अपि मे गुरुणा राम: पूजित: कुशिकात्मज। इहागतो महातेजा: पूजां प्राप्तो महात्मन:।।1.51.8।। Bala Kanda,51,9,अपि शान्तेन मनसा गुरुर्मे कुशिकात्मज । इहाऽगतेन रामेण प्रयतेनाभिवादित:।।1.51.9।। Bala Kanda,51,10,तच्छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनि:। प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम्।।1.51.10।। Bala Kanda,51,11,नातिक्रान्तं मुनिश्रेष्ठ यत्कर्तव्यं कृतं मया। सङ्गता मुनिना पत्नी भार्गवेणेव रेणुका।।1.51.11।। Bala Kanda,51,12,तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य भाषितम् । शतानन्दो महातेजा रामं वचनमब्रवीत्।।1.51.12।। Bala Kanda,51,13,स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव। विश्वामित्रं पुरस्कृत्य महर्षिमपराजितम्।।1.51.13।। Bala Kanda,51,14,अचिन्त्यकर्मा तपसा ब्रह्मर्षिरतुलप्रभ:। विश्वामित्रो महातेजा वेत्स्येनं परमां गतिम्।।1.51.14।। Bala Kanda,51,15,नास्ति धन्यतरो राम त्वत्तोऽन्यो भुवि कश्चन। गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तप:।।1.51.15।। Bala Kanda,51,16,श्रूयतां चाभिधास्यामि कौशिकस्य महात्मन:। यथा बलं यथा वृत्तं तन्मे निगदत: श्रुणु।।1.51.16।। Bala Kanda,51,17,राजाऽभूदेष धर्मात्मा दीर्घकालमरिन्दम:। धर्मज्ञ: कृतविद्यश्च प्रजानां च हिते रत:।।1.51.17।। Bala Kanda,51,18,प्रजापतिसुतश्चासीत्कुशो नाम महीपति:। कुशस्य पुत्रो बलवान् कुशनाभस्सुधार्मिक:।।1.51.18।। Bala Kanda,51,19,कुशनाभसुतस्त्वासीद्गाधिरित्येव विश्रृत:। गाधे: पुत्रो महातेजा विश्वामित्रो महामुनि:।।1.51.19।। Bala Kanda,51,20,विश्वामित्रो महातेजा: पालयामास मेदिनीम्। बहुवर्षसहस्राणि राजा राज्यमकारयत्।।1.51.20।। Bala Kanda,51,21,कदाचित्तु महातेजा योजयित्वा वरूथिनीम्। अक्षौहीणीपरिवृत: परिचक्राम मेदिनीम्।।1.51.21।। Bala Kanda,51,22,नगराणि सराष्ट्राणि सरितश्च तथा गिरीन्। आश्रमान्क्रमशो राम विचरन्नाजगाम ह।।1.51.22।। Bala Kanda,51,23,वसिष्ठस्याश्रमपदं नानावृक्षसमाकुलम्। नानामृगगणाकीर्णं सिद्धचारणसेवितम्।।1.51.23।। Bala Kanda,51,24,देवदानवगन्धर्वै: किन्नरैरुपशोभितम्। प्रशान्तहरिणाकीर्णं द्विजसङ्घनिषेवितम्।।1.51.24।। Bala Kanda,51,25,ब्रह्मर्षिगणसङ्कीर्णं देवर्षिगणसेवितम्। तपश्चरणसंसिद्धैरग्निकल्पैर्महात्मभि:।।1.51.25।। Bala Kanda,51,26,अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशनैस्तथा। फलमूलाशनैर्दान्तैर्जितरोषैर्जितेन्द्रियै:।।1.51.26।। Bala Kanda,51,27,ऋषिभिर्वालखिल्यैश्च जपहोमपरायणै:। अन्यैर्वैखानसैश्चैव समन्तादुपशोभितम्।।1.51.27।। Bala Kanda,51,28,वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम्। ददर्श जयतां श्रेष्ठो विश्वामित्रो महाबल:।।1.51.28।। Bala Kanda,52,1,स दृष्ट्वा परमप्रीतो विश्वामित्रो महाबल:। प्रणतो विनयाद्वीरो वसिष्ठं जपतां वरम्।।1.52.1।। Bala Kanda,52,2,स्वागतं तव चेत्युक्तो वसिष्ठेन महात्मना। आसनं चास्य भगवान् वसिष्ठो व्यादिदेश ह।।1.52.2।। Bala Kanda,52,3,उपविष्टाय च तदा विश्वामित्राय धीमते। यथान्यायं मुनिवर: फलमूलमुपाहरत्।।1.52.3।। Bala Kanda,52,4,प्रतिगृह्य तु तां पूजां वसिष्ठाद्राजसत्तम:। तपोग्निहोत्रशिष्येषु कुशलं पर्यपृच्छत।।1.52.4।। Bala Kanda,52,5,विश्वामित्रो महातेजा वनस्पतिगणे तथा । सर्वत्र कुशलं चाह वसिष्ठो राजसत्तमम्।।1.52.5।। Bala Kanda,52,6,सुखोपविष्टं राजानं विश्वामित्रं महातपा:। पप्रच्छ जपतां श्रेष्ठो वसिष्ठो ब्रह्मणस्सुत:।।1.52.6।। Bala Kanda,52,7,कच्चित्ते कुशलं राजन् कच्चिद्धर्मेण रञ्जयन्। प्रजा: पालयसे वीर राजवृत्तेन धार्मिक।।1.52.7।। Bala Kanda,52,8,कच्चित्ते सम्भृता भृत्या: कच्चित्तिष्ठन्ति शासने। कच्चित्ते विजितास्सर्वे रिपवो रिपुसूदन ।।1.52.8।। Bala Kanda,52,9,कच्चिद्बलेषु कोशेषु मित्रेषु च परन्तप। कुशलं ते नरव्याघ्र पुत्रपौत्रे तवानघ ।।1.52.9।। Bala Kanda,52,10,सर्वत्र कुशलं राजा वसिष्ठं प्रत्युदाहरत्। विश्वामित्रो महातेजा वसिष्ठं विनयान्वित:।।1.52.10।। Bala Kanda,52,11,कृत्वोभौ सुचिरं कालं धर्मिष्ठौ ता: कथा: शुभा:। मुदा परमया युक्तौ प्रीयेतां तौ परस्परम्।।1.52.11।। Bala Kanda,52,12,ततो वसिष्ठो भगवान् कथाऽन्ते रघुनन्दन । विश्वामित्रमिदं वाक्यमुवाच प्रहसन्निव।।1.52.12।। Bala Kanda,52,13,आतिथ्यं कर्तुमिच्छामि बलस्यास्य महाबल । तव चैवाप्रमेयस्य यथार्हं सम्प्रतीच्छ मे।।1.52.13।। Bala Kanda,52,14,सत्क्रियां तु भवानेतां प्रतीच्छतु मयोद्यताम्। राजा त्वमतिथिश्रेष्ठ: पूजनीय: प्रयत्नत:।।1.52.14।। Bala Kanda,52,15,एवमुक्तो वसिष्ठेन विश्वामित्रो महामति:। कृतमित्यब्रवीद्राजा प्रियवाक्येन मे त्वया।।1.52.15।। Bala Kanda,52,16,फलमूलेन भगवन् विद्यते यत्तवाश्रमे। पाद्येनाचमनीयेन भगवद्दर्शनेन च।।1.52.16।। Bala Kanda,52,17,सर्वथा च महाप्राज्ञ पूजार्हेण सुपूजित:। गमिष्यामि नमस्तेऽस्तु मैत्रेणेक्षस्व चक्षुषा।।1.52.17।। Bala Kanda,52,18,एवं ब्रुवन्तं राजानं वसिष्ठ:पुनरेव हि। न्यमन्त्रयत धर्मात्मा पुन:पुनरुदारधी:।।1.52.18।। Bala Kanda,52,19,बाढमित्येव गाधेयो वसिष्ठं प्रत्युवाच ह। यथा प्रियं भगवतस्तथाऽस्तु मुनिपुङ्गव।।1.52.19।। Bala Kanda,52,20,एवमुक्तो महातेजा वसिष्ठो जपतां वर:। आजुहाव तत: प्रीत: कल्माषीं धूतकल्मष:।।1.52.20।। Bala Kanda,52,21,एह्येहि शबले क्षिप्रं श्रृणु चापि वचो मम। सबलस्यास्य राजर्षे:कर्तुं व्यवसितोऽस्म्यहम्।।1.52.21।। भोजनेन महार्हेण सत्कारं संविधत्स्व मे। Bala Kanda,52,22,यस्य यस्य यथाकामं षड्रसेष्वभिपूजितम्। तत्सर्वं कामधुक्क्षिप्रमभिवर्ष कृते मम।।1.52.22।। Bala Kanda,52,23,रसेनान्नेन पानेन लेह्यचोष्येण संयुतम्। अन्नानां निचयं सर्वं सृजस्व शबले त्वर।।1.52.23।। Bala Kanda,53,1,एवमुक्ता वसिष्ठेन शबला शत्रुसूदन। विदधे कामधुक्कामान्यस्य यस्य यथेप्सितम्।।1.53.1।। Bala Kanda,53,2,इक्षून्मधूं स्तथा लाजान्मैरेयांश्च वरासनान्। पानानि च महार्हाणि भक्ष्यांश्चोच्चावचां स्तथा।।1.53.2।। Bala Kanda,53,3,उष्णाढ्यस्योदनस्यात्र राशय: पर्वतोपमा:। मृष्टान्नानि च सूपाश्च दधिकुल्यास्तथैव च।।1.53.3।। Bala Kanda,53,4,नानास्वादुरसानां च षाडबानां तथैव च। भाजनानि सुपूर्णानि गौडानि च सहस्रश:।।1.53.4।। Bala Kanda,53,5,सर्वमासीत्सुसन्तुष्ठं हृष्टपुष्टजनायुतम्। विश्वामित्रबलं राम वसिष्ठेनाभितर्पितम्।।1.53.5।। Bala Kanda,53,6,विश्वामित्रोऽपि राजर्षिर्हृष्ट: पुष्टस्तदाभवत् । सान्त:पुरवरो राजा सब्राह्मणपुरोहित:।।1.53.6।। Bala Kanda,53,7,सामात्यो मन्त्रिसहितस्सभृत्य: पूजितस्तदा। युक्त: परमहर्षेण वसिष्ठमिदमब्रवीत्।।1.53.7।। Bala Kanda,53,8,पूजितोऽहं त्वया ब्रह्मन् पूजार्हेण सुसत्कृत:। श्रूयतामभिधास्यामि वाक्यं वाक्यविशारद।।1.53.8।। Bala Kanda,53,9,गवां शतसहस्रेण दीयतां शबला मम। रत्नं हि भगवन्नेतद्रत्नहारी च प्रार्थिव:।।1.53.9।। तस्मान्मे शबलां देहि ममैषा धर्मतो द्विज। Bala Kanda,53,10,एवमुक्तस्तु भगवान्वसिष्ठो मुनिसत्तम:। विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम्।।1.53.10।। Bala Kanda,53,11,नाहं शतसहस्रेण नापि कोटिशतैर्गवाम्। राजन् दास्यामि शबलां राशिभी रजतस्य च ।।1.53.11।। Bala Kanda,53,12,न परित्यागमर्हेयं मत्सकाशादरिन्दम । शाश्वती शबला मह्यं कीर्तिरात्मवतो यथा।।1.53.12।। Bala Kanda,53,13,अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च। आयत्तमग्निहोत्रं च बलिर्होमस्तथैव च।।1.53.13।। Bala Kanda,53,14,स्वाहाकारवषट्कारौ विद्याश्च विविधा स्तथा। आयत्तमत्र राजर्षे सर्वमेतन्न संशय:।।1.53.14।। Bala Kanda,53,15,सर्वस्वमेतत्सत्येन मम तुष्टिकरी सदा। कारणैर्बहुभी राजन्न दास्ये शबलां तव।।1.53.15।। Bala Kanda,53,16,वसिष्ठेनैवमुक्तस्तु विश्वामित्रोऽब्रवीत्तत:। संरब्धतरमत्यर्थं वाक्यं वाक्यविशारद:।।1.53.16।। Bala Kanda,53,17,हैरण्यकक्ष्याग्रैवेयान् सुवर्णाङ्कुशभूषितान्। ददामि कुञ्जरांस्तेषां सहस्राणि चतुर्दश।।1.53.17।। Bala Kanda,53,18,हैरण्यानां रथानां च श्वेताश्वानां चतुर्युजाम्। ददामि ते शतान्यष्टौ किङ्किणीकविभूषितान्।।1.53.18।। Bala Kanda,53,19,हयानां देशजातानां कुलजानां महौजसाम्। सहस्रमेकं दश च ददामि तव सुव्रत।।1.53.19।। Bala Kanda,53,20,नानावर्णविभक्तानां वयस्स्थानां तथैव च । ददाम्येकां गवां कोटिं शबला दीयतां मम।।1.53.20।। Bala Kanda,53,21,यावदिच्छसि रत्नं वा हिरण्यं वा द्विजोत्तम। तावद्ददामि तत्सर्वं शबला दीयतां मम।।1.53.21।। Bala Kanda,53,22,एवमुक्तस्तु भगवान् विश्वामित्रेण धीमता। न दास्यामीति शबलां प्राह राजन् कथञ्चन।।1.53.22।। Bala Kanda,53,23,एतदेव हि मे रत्नमेतदेव हि मे धनम्। एतदेव हि सर्वस्वमेतदेव हि जीवितम्।।1.53.23।। Bala Kanda,53,24,दर्शश्च पूर्णमासश्च यज्ञाश्चैवाप्तदक्षिणा:। एतदेव हि मे राजन् विविधाश्च क्रियास्तथा।।1.53.24।। Bala Kanda,53,25,अदोमूला: क्रियास्सर्वा मम राजन्न संशय:। बहुना किं प्रलापेन न दास्ये कामदोहिनीम्।।1.53.25।। Bala Kanda,54,1,कामधेनुं वसिष्ठोऽपि यदा न त्यज्यते मुनि:। तदास्य शबलां राम विश्वामित्रोऽन्वकर्षत।।1.54.1।। Bala Kanda,54,2,नीयमाना तु शबला राम राज्ञा महात्मना। दु:खिता चिन्तयामास रुदन्ती शोककर्शिता।।1.54.2।। Bala Kanda,54,3,परित्यक्ता वसिष्ठेन किमहं सुमहात्मना। याहं राजभटैर्दीना ह्रियेय भृशदु:खिता।।1.54.3।। Bala Kanda,54,4,किं मयाऽपकृतं तस्य महर्षेर्भावितात्मन:। यन्मामनागसं भक्तामिष्टां त्यजति धार्मिक:।।1.54.4।। Bala Kanda,54,5,इति सा चिन्तयित्वा तु विनिश्श्वस्य पुन:पुन:। निर्धूय तांस्तदा भृत्यान् शतशश्शत्रुसूदन । जगामानिलवेगेन पादमूलं महात्मन:।।1.54.5।। Bala Kanda,54,6,शबला सा रुदन्ती च क्रोशन्ती चेदमब्रवीत्। वसिष्ठस्याग्रतस्स्थित्वा मेघदुन्दुभिराविणी।।1.54.6।। Bala Kanda,54,7,भगवन् किं परित्यक्ता त्वयाऽहं ब्रह्मणस्सुत। यस्माद्राजभृता मां हि नयन्ते त्वत्सकाशत:।।1.54.7।। Bala Kanda,54,8,एवमुक्तस्तु ब्रह्मर्षिरिदं वचनमब्रवीत्। शोकसन्तप्तहृदयां स्वसारमिव दु:खिताम्।।1.54.8।। Bala Kanda,54,9,न त्वां त्यजामि शबले नापि मेऽपकृतं त्वया। एष त्वां नयते राजा बलोन्मत्तो महाबल:।।1.54.9।। Bala Kanda,54,10,न हि तुल्यं बलं मह्यं राजा त्वद्य विशेषत:। बली राजा क्षत्रियश्च पृथिव्या: पतिरेव च।।1.54.10।। Bala Kanda,54,11,इयमक्षौहिणी पूर्णा सवाजिरथसङ्कुला। हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तर:।।1.54.11।। Bala Kanda,54,12,एवमुक्ता वसिष्ठेन प्रत्युवाच विनीतवत्। वचनं वचनज्ञा सा ब्रह्मर्षिममितप्रभम्।।1.54.12।। Bala Kanda,54,13,न बलं क्षत्रियस्याहुर्ब्राह्मणो बलवत्तर:। ब्रह्मन् ब्रह्मबलं दिव्यं क्षत्रात्तु बलवत्तरम्।।1.54.13।। Bala Kanda,54,14,अप्रमेयबलं तुभ्यं न त्वया बलवत्तर:। विश्वामित्रो महावीर्यस्तेज स्तव दुरासदम्।।1.54.14।। Bala Kanda,54,15,नियुङ्क्ष्व मां महाभाग त्वद्ब्रह्मबलसम्भृताम्। तस्य दर्पबलं यत्तन्नाशयामि दुरात्मन:।।1.54.15।। Bala Kanda,54,16,इत्युक्तस्तु तया राम वसिष्ठ स्सुमहायशा:। सृजस्वेति तदोवाच बलं परबलार्दनम्।।1.54.16।। Bala Kanda,54,17,तस्य तद्वचनं श्रुत्वा सुरभिस्साऽसृजत्तदा।।1.54.17।। Bala Kanda,54,18,तस्या हुम्भारवोत्सृष्टा: पप्लवाश्शतशो नृप। नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यत:।।1.54.18।। Bala Kanda,54,19,बलं भग्नं ततो दृष्ट्वा रथेनाक्रम्य कौशिक:। स राजा परमक्रुद्धो रोषविस्फारितेक्षण:। पप्लवान्नाशयामास शस्त्रैरुच्चावचैरपि।।1.54.19।। Bala Kanda,54,20,विश्वामित्रार्दितान् दृष्ट्वा पप्लवाञ्छतशस्तदा। भूय एवासृजत्कोपाच्छकान् यवनमिश्रितान्।।1.54.20।। Bala Kanda,54,21,तैरासीत् संवृता भूमि श्शकैर्यवनमिश्रितै:। प्रभावद्भिर्महावीर्यैर्हेमकिञ्जल्कसन्निभै:।।1.54.21।। Bala Kanda,54,22,दीर्घासिपट्टिशधरैःमवर्णाम्बरावृतै:। निर्दग्धं तद्बलं सर्वं प्रदीप्तैरिव पावकै:।।1.54.22।। Bala Kanda,54,23,ततोऽस्त्राणि महातेजा विश्वामित्रो मुमोच ह। तैस्तैर्यवनकाम्भोजा: पप्लवाश्चाकुलीकृता:।।1.54.23।। Bala Kanda,55,1,ततस्तानाकुलान् दृष्ट्वा विश्वामित्रास्त्रमोहितान्। वसिष्ठश्चोदयामास कामधुक् सृज योगत:।।1.55.1।। Bala Kanda,55,2,तस्याहुम्भारवाज्जाता: काम्भोजा रविसन्निभा:। ऊधसस्त्वथ सञ्जाता: पप्लवाश्शस्त्रपाणय:।।1.55.2।। Bala Kanda,55,3,योनिदेशाच्च यवनाश्शकृद्देशाच्छका स्तथा। रोमकूपेषु च म्लेच्छा हारीतास्सकिरातका:।।1.55.3।। Bala Kanda,55,4,तैस्तैर्निषूदितं सर्वं विश्वामित्रस्य तत्क्षणात्। सपदातिगजं साश्वं सरथं रघुनन्दन।।1.55.4।। Bala Kanda,55,5,दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मना। विश्वामित्रसुतानां च शतं नानाविधायुधम्।।1.55.5।। Bala Kanda,55,6,अभ्यधावत्सुसङ्कृद्धं वसिष्ठं जपतां वरम्। हुङ्कारेणैव तान् सर्वान् ददाह भगवान् ऋषि:।।1.55.6।। Bala Kanda,55,7,ते साश्वरथपादाता वसिष्ठेन महात्मना। भस्मीकृता मुहूर्तेन विश्वामित्रसुता स्तदा।।1.55.7।। Bala Kanda,55,8,दृष्ट्वा विनाशितान् पुत्रान् बलं च सुमहायशा:। सव्रीडश्चिन्तयाऽविष्टो विश्वामित्रोऽभवत्तदा।।1.55.8।। Bala Kanda,55,9,समुद्र इव निर्वेगो भग्नदंष्ट्र इवोरग:। उपरक्त इवादित्यस्सद्यो निष्प्रभतां गत:।।1.55.9।। Bala Kanda,55,10,हतपुत्रबलो दीनो लूनपक्ष इव द्विज:। हतदर्पो हतोत्साहो निर्वेदं समपद्यत।।1.55.10।। Bala Kanda,55,11,स पुत्रमेकं राज्याय पालयेति नियुज्य च। पृथिवीं क्षत्रधर्मेण वनमेवान्वपद्यत।।1.55.11।। Bala Kanda,55,12,स गत्वा हिमवत्पार्श्वं किन्नरोरगसेवितम्। महादेवप्रसादार्थं तपस्तेपे महातपा:।।1.55.12।। Bala Kanda,55,13,केनचित्त्वथ कालेन देवेशो वृषभध्वज:। दर्शयामास वरदो विश्वामित्रं महाबलम्।।1.55.13।। Bala Kanda,55,14,किमर्थं तप्यसे राजन् ब्रूहि यत्ते विवक्षितम्। वरदोऽस्मि वरो यस्ते काङ्क्षितस्सोऽभिधीयताम्।।1.55.14।। Bala Kanda,55,15,एवमुक्तस्तु देवेन विश्वामित्रो महातपा:। प्रणिपत्य महादेवमिदं वचनमब्रवीत्।।1.55.15।। Bala Kanda,55,16,यदि तुष्टो महादेव धनुर्वेदो ममानघ। साङ्गोपाङ्गोपनिषदस्सरहस्य: प्रदीयताम्।।1.55.16।। Bala Kanda,55,17,यानि देवेषु चास्त्राणि दानवेषु महर्षिषु। गन्धर्वयक्षरक्षस्सु प्रतिभान्तु ममानघ।।1.55.17।। Bala Kanda,55,18,तव प्रसादाद्भवतु देवदेवममेप्सितम्। एवमस्त्विति देवेशो वाक्यमुक्त्वा गतस्तदा।।1.55.18।। Bala Kanda,55,19,प्राप्य चास्त्राणि राजर्षिर्विश्वामित्रो महाबल:। दर्पेण महता युक्तो दर्पपूर्णोऽभवत्तदा।।1.55.19।। Bala Kanda,55,20,विवर्धमानो वीर्येण समुद्र इव पर्वणि। हतमेव तदा मेने वसिष्ठमृषिसत्तमम्।।1.55.20।। Bala Kanda,55,21,ततो गत्वाऽऽश्रमपदं मुमोचास्त्राणि पार्थिव:। यैस्तत्तपोवनं सर्वं निर्दग्धं चास्त्रतेजसा।।1.55.21।। Bala Kanda,55,22,उदीर्यमाणमस्त्रं तद्विश्वामित्रस्य धीमत:। दृष्ट्वा विप्रद्रुतास्सर्वे मुनयश्शतशो दिश:।।1.55.22।। Bala Kanda,55,23,वसिष्ठस्य च ये शिष्यास्तथैव मृगपक्षिण:। विद्रवन्ति भयाद्भीता नानादिग्भ्यस्सहस्रश:।।1.55.23।। Bala Kanda,55,24,वसिष्ठस्याश्रमपदं शून्यमासीन्महात्मन:। मुहूर्तमिव निश्शब्दमासीदिरिणसन्निभम्।।1.55.24।। Bala Kanda,55,25,वदतो वै वसिष्ठस्य मा भैरिति मुहुर्मुहु:। नाशयाम्यद्य गाधेयं नीहारमिव भास्कर:।।1.55.25।। Bala Kanda,55,26,एवमुक्त्वा महातेजा वसिष्ठो जपतां वर:। विश्वामित्रं तदा वाक्यं सरोषमिदमब्रवीत्।।1.55.26।। Bala Kanda,55,27,आश्रमं चिरसम्वृद्धं यद्विनाशितवानसि। दुराचारोऽसि तन्मूढ तस्मात्त्वं न भविष्यसि।।1.55.27।। Bala Kanda,55,28,इत्युक्त्वा परमक्रुद्धो दण्डमुद्यम्य सत्वर:। विधूममिव कालाग्निं यमदण्डमिवापरम्।।1.55.28।। Bala Kanda,56,1,एवमुक्तो वसिष्ठेन विश्वामित्रो महाबल:। आग्नेयमस्त्रमुत्क्षिप्य तिष्ठ तिष्ठेति चाब्रवीत्।।1.56.1।। Bala Kanda,56,2,ब्रह्मदण्डं समुत्क्षिप्य कालदण्डमिवाऽपरम्। वसिष्ठो भगवान् क्रोधादिदं वचनमब्रवीत्।।1.56.2।। Bala Kanda,56,3,क्षत्रबन्धो स्थितोस्म्येष यद्बलं तद्विदर्शय। नाशयाम्यद्य ते दर्पं शस्त्रस्य तव गाधिज।।1.56.3।। Bala Kanda,56,4,क्व च ते क्षत्रियबलं क्व च ब्रह्मबलं महत्। पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन।।1.56.4।। Bala Kanda,56,5,तस्यास्त्रं गाधिपुत्रस्य घोरमाग्नेयमुद्यतम्। ब्रह्मदण्डेन तच्छान्तमग्नेर्वेग इवाम्भसा।।1.56.5।। Bala Kanda,56,6,वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा। ऐषीकं चापि चिक्षेप कुपितो गाधिनन्दन:।।1.56.6।। Bala Kanda,56,7,मानवं मोहनं चैव गान्धर्वं स्वापनं तथा। जृम्भणं मादनं चैव संतापनविलापने।।1.56.7।। Bala Kanda,56,8,शोषणं दारणं चैव वज्रमस्त्रं सुदुर्जयम्। ब्रह्मपाशं कालपाशं वारुणं पाशमेव च।।1.56.8।। Bala Kanda,56,9,पैनाकास्त्रं च दयितं शुष्कार्द्रे अशनी उभे। दण्डास्त्रमथ पैशाचं क्रौञ्चमस्त्रं तथैव च।।1.56.9।। Bala Kanda,56,10,धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च। वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा।।1.56.10।। Bala Kanda,56,11,शक्तिद्वयं च चिक्षेप कङ्कालं मुसलं तथा। 560 वैद्याधरं महास्त्रं च कालास्त्रमथ दारुणम्।।1.56.11।। Bala Kanda,56,12,त्रिशूलमस्त्रं घोरं च कापालमथ कङ्कणम्। एतान्यस्त्राणि चिक्षेप सर्वाणि रघुनन्दन।।1.56.12।। वसिष्ठे जपतां श्रेष्ठे तदद्भुतमिवाभवत्। Bala Kanda,56,13,तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणस्सुत:।।1.56.13।। तेषु शान्तेषु ब्रह्मास्त्रं क्षिप्तवान् गाधिनन्दन:। Bala Kanda,56,14,तदस्त्रमुद्यतं दृष्ट्वा देवास्साग्निपुरोगमा:।।1.56.14।। देवर्षयश्च सम्भ्रान्तागन्धर्वास्समहोरगा:। त्रैलोक्यमासीत्सन्तप्तं ब्रह्मास्त्रे समुदीरिते।।1.56.15। Bala Kanda,56,16,तदप्यस्त्रं महाघोरं ब्रह्मं ब्राह्मेण तेजसा । वसिष्ठो ग्रसते सर्वं ब्रह्मदण्डेन राघव।।1.56.16।। Bala Kanda,56,17,ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मन:। त्रैलोक्यमोहनं रौद्रं रूपमासीत्सुदारुणम्।।1.56.17।। Bala Kanda,56,18,रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मन:। मरीच्य इव निष्पेतुरग्नेर्धूमाकुलार्चिष:।।1.56.18।। Bala Kanda,56,19,प्राज्वलद्ब्रह्मदण्डश्च वसिष्ठस्य करोद्यत:। विधूम इव कालाग्निर्यमदण्ड इवापर:।।1.56.19।। Bala Kanda,56,20,ततोऽस्तुवन् मुनिगणा वसिष्ठं जपतां वरम्। अमोघं ते बलं ब्रह्मन् तेजो धारय तेजसा।।1.56.20।। Bala Kanda,56,21,निगृहीतस्त्वया ब्रह्मन् विश्वामित्रो महातपा:। प्रसीद जपतां श्रेष्ठ लोकास्सन्तु गतव्यथा:।।1.56.21।। Bala Kanda,56,22,एवमुक्तो महातेजाश्शमं चक्रे महातपा:। विश्वामित्रोऽपि निकृतो विनिश्वस्येदमब्रवीत्।।1.56.22।। Bala Kanda,56,23,धिग्बलं क्षत्रियबलं ब्रह्मतेजो बलं बलम्। एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे।।1.56.23।। Bala Kanda,56,24,तदेतत्समवेक्ष्याहं प्रसन्नेन्द्रियमानस:। तपो महत्समास्थास्ये यद्वै ब्रह्मत्वकारणम्।।1.56.24।। Bala Kanda,57,1,ततस्सन्तप्तहृदय: स्मरन्निग्रहमात्मन:। विनिश्श्वस्य विनिश्श्वस्य कृतवैरो महत्मना।।1.57.1।। Bala Kanda,57,2,स दक्षिणां दिशं गत्वा महिष्या सह राघव । तताप परमं घोरं विश्वामित्रो महत्तप:।।1.57.2।। फलमूलाशनो दान्तश्चकार सुमहत्तप:। Bala Kanda,57,3,अथास्य जज्ञिरे पुत्रास्सत्यधर्मपरायणा:। हविष्यन्दो मधुष्यन्दो दृढनेत्रो महारथ:।।1.57.3।। Bala Kanda,57,4,पूर्णे वर्षसहस्रे तु ब्रह्मा लोकपितामह:। अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम्।।1.57.4।। Bala Kanda,57,5,चिता राजर्षिलोकास्ते तपसा कुशिकात्मज। अनेन तपसा त्वां तु राजर्षिरिति विद्महे।।1.57.5।। Bala Kanda,57,6,एवमुक्त्वा महातेजा जगाम सह दैवतै:। त्रिविष्टपं ब्रह्मलोकं लोकानां परमेश्वर:।।1.57.6।। Bala Kanda,57,7,विश्वामित्रोऽपि तच्छ्रुत्वा ह्रिया किञ्चिदवाङ्मुख:। दु:खेन महताऽऽविष्टस्समन्युरिदमब्रवीत् ।।1.57.7।। Bala Kanda,57,8,तपश्च सुमहत्तप्तं राजर्षिरिति मां विदु:। देवास्सर्षिगणास्सर्वे नास्ति मन्ये तप:फलम्।।1.57.8।। Bala Kanda,57,9,इति निश्चित्य मनसा भूय एव महातपा:। तपश्चकार काकुत्स्थ परमं परमात्मवान्।।1.57.9।। Bala Kanda,57,10,एतस्मिन्नेव काले तु सत्यवादी जितेन्द्रिय:। त्रिशङ्कुरिति विख्यात इक्ष्वाकुकुलवर्धन:।।1.57.10।। Bala Kanda,57,11,तस्य बुद्धिस्समुत्पन्ना यजेयमिति राघव । गच्छेयं स्वशरीरेण देवानां परमां गतिम्।।1.57.11।। Bala Kanda,57,12,स वसिष्ठं समाहूय कथयामास चिन्तितम्। अशक्यमिति चाप्युक्तो वसिष्ठेन महात्मना।।1.57.12।। Bala Kanda,57,13,प्रत्याख्यातो वसिष्ठेन स ययौदक्षिणां दिशम्। ततस्तत्कर्मसिद्ध्यर्थं पुत्रां स्तस्य गतो नृप:।।1.57.13।। Bala Kanda,57,14,वासिष्ठा दीर्घतपसस्तपो यत्र हि तेपिरे। त्रिशंङ्कुस्सुमहातेजा श्शतं परमभास्वरम्।।1.57.14।। वसिष्ठपुत्रान् ददृशे तप्यमानान् यशस्विन:। Bala Kanda,57,15,सोऽभिगम्य महात्मनस्सर्वानेव गुरोस्सुतान्।।1.57.15।। Bala Kanda,57,16,अभिवाद्यानुपूर्व्येण ह्रिया किञ्चिदवाङ्मुख:। अब्रवीत्सुमहाभगान्सर्वानेव कृताञ्जलि:।।1.57.16।। Bala Kanda,57,17,शरणं व: प्रपद्येऽहं शरण्यान् शरणागत:। प्रत्याख्यातोऽस्मि भद्रं वो वसिष्ठेन महात्मना।।1.57.17।। Bala Kanda,57,18,यष्टुकामो महायज्ञं तदनुज्ञातुमर्हथ। गुरुपुत्रानहं सर्वान्नमस्कृत्य प्रसादये।।1.57.18।। Bala Kanda,57,19,शिरसा प्रणतो याचे ब्राह्मणान् तपसि स्थितान्। ते मां भवन्तस्सिद्ध्यर्थं याजयन्तु समाहिता:।।1.57.19।। सशरीरो यथाऽहं हि देवलोकमवाप्नुयाम्। Bala Kanda,57,20,प्रत्याख्यातो वसिष्ठेन गतिमन्यां तपोधना:।।1.57.20।। गुरुपुत्रानृते सर्वान्नाहं पश्यामि काञ्चन। Bala Kanda,57,21,इक्ष्वाकूणां हि सर्वेषां पुरोधा: परमा गति:।।1.57.21।। Bala Kanda,57,22,पुरोधसस्तु विद्वांसस्तारयन्ति सदा नृपान्। तस्मादनन्तरं सर्वे भवन्तो दैवतं मम।।1.57.22।। Bala Kanda,58,1,ततस्त्रिशङ्कोर्वचनं श्रुत्वा क्रोधसमन्वितम् । ऋषिपुत्रशतं राम राजानमिदमब्रवीत्।।1.58.1।। Bala Kanda,58,2,प्रत्याख्यातो हि दुर्बुद्धे गुरुणा सत्यवादिना। तं कथं समतिक्रम्य शाखान्तरमुपेयिवान्।।1.58.2।। Bala Kanda,58,3,इक्ष्वाकूणां हि सर्वेषां पुरोधा: परमो गुरु:। न चातिक्रमितुं शक्यं वचनं सत्यवादिन:।।1.58.3।। Bala Kanda,58,4,अशक्यमिति चोवाच वसिष्ठो भगवानृषि:। तं वयं वै समाहर्तुं क्रतुं शक्ता:कथं तव।।1.58.4।। Bala Kanda,58,5,बालिशस्त्वं नरश्रेष्ठ गम्यतां स्वपुरं पुन:। याजने भगवाञ्छक्तस्त्रैलोक्यस्यापि पार्थिव।।1.58.5।। अवमानं च तत्कर्तुं तस्य शक्ष्यामहे कथम्। Bala Kanda,58,6,तेषां तद्वचनं श्रुत्वा क्रोधपर्याकुलाक्षरम्।।1.58.6।। स राजा पुनरेवैतानिदं वचनमब्रवीत्। Bala Kanda,58,7,प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च।।1.58.7।। अन्यां गतिं गमिष्यामि स्वस्ति वोऽस्तु तपोधना:। Bala Kanda,58,8,ऋषिपुत्रास्तु तच्छ्रुत्वा वाक्यं घोराभिसंहितम्।।1.58.8।। शेपु: परमसङ्कृद्धाश्चण्डालत्वं गमिष्यसि। Bala Kanda,58,9,एवमुक्त्वा महात्मनो विविशुस्ते स्वमाश्रमम्।।1.58.9।। अथ रात्र्यां व्यतीतायां राजा चण्डालतां गत:। Bala Kanda,58,10,नीलवस्त्रधरो नील: पुरुषो ध्वस्तमूर्धज:।।1.58.10।। चित्यमाल्यानुलेपश्च आयसाभरणोऽभवत्। Bala Kanda,58,11,तं दृष्टवा मन्त्रिणस्सर्वे त्यज्य चण्डालरूपिणम्।।1.58.11।। प्राद्रवन् सहिता राम पौरा येऽस्यानुगामिन:। Bala Kanda,58,12,एको हि राजा काकुत्स्थ जगाम परमात्मवान्।।1.58.12।। दह्यमानो दिवारात्रं विश्वामित्रं तपोनिधिम्। Bala Kanda,58,13,विश्वामित्रस्तु तं दृष्ट्वा राजानं विफलीकृतम्। चण्डालरूपिणं राम मुनि: कारुण्यमागत:।।1.58.13।। Bala Kanda,58,14,कारुण्यात्स महातेजा वाक्यं परमधार्मिक:। इदं जगाद भद्रं ते राजानं घोररूपिणम्।।1.58.14।। Bala Kanda,58,15,किमागमनकार्यं ते राजपुत्र महाबल। अयोध्याधिपते वीर शापाच्चण्डालतां गत:।।1.58.15।। Bala Kanda,58,16,अथ तद्वाक्यमाज्ञाय राजा चण्डालतां गत:। अब्रवीत्प्राञ्जलिर्वाक्यं वाक्यज्ञो वाक्यकोविदम्।।1.58.16।। Bala Kanda,58,17,प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च। अनवाप्यैव तं कामं मया प्राप्तो विपर्यय:।।1.58.17।। Bala Kanda,58,18,सशरीरो दिवं यायामिति मे सौम्यदर्शनम्। मया चेष्टं क्रतुशतं तच्च नाऽवाप्यते फलम्।।1.58.18।। Bala Kanda,58,19,अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन। कृच्छ्रेष्वपि गत स्सौम्य क्षत्रधर्मेण ते शपे।।1.58.19।। Bala Kanda,58,20,यज्ञैर्बहुविधैरिष्टं प्रजा धर्मेण पालिता:।।1.58.20।। गुरवश्च महात्मान श्शीलवृत्तेन तोषिता:। Bala Kanda,58,21,धर्मे प्रयतमानस्य यज्ञं चाहर्तुमिच्छत:।।1.58.21।। परितोषं न गच्छन्ति गुरवो मुनिपुङ्गव । Bala Kanda,58,22,दैवमेव परं मन्ये पौरुषं तु निरर्थकम्।।1.58.22।। दैवेनाक्रम्यते सर्वं दैवं हि परमा गति:। Bala Kanda,58,23,तस्य मे परमार्तस्य प्रसादमभिकाङ्क्षत:।।1.58.23।। कर्तुमर्हसि भद्रं ते दैवोपहतकर्मण:। Bala Kanda,58,24,नान्यां गतिं गमिष्यामि नान्यश्शरणमस्ति मे।।1.58.24।। दैवं पुरुषकारेण निवर्तयितुमर्हसि।। Bala Kanda,59,1,उक्तवाक्यं तु राजानं कृपया कुशिकात्मज:। अब्रवीन्मधुरं वाक्यं साक्षाच्चण्डालरूपिणम्।।1.59.1।। Bala Kanda,59,2,ऐक्ष्वाक स्वागतं वत्स जानामि त्वां सुधार्मिकम् । शरणं ते भविष्यामि मा भैषीर्नृपपुङ्गव।।1.59.2।। Bala Kanda,59,3,अहमामन्त्रये सर्वान्महर्षीन्पुण्यकर्मण:। यज्ञसाह्यकरान् राजन् ततो यक्ष्यसि निर्वृत:।।1.59.3।। Bala Kanda,59,4,गुरुशापकृतं रूपं यदिदं त्वयि वर्तते । अनेन सह रूपेण सशरीरो गमिष्यसि।।1.59.4।। Bala Kanda,59,5,हस्तप्राप्तमहं मन्ये स्वर्गं तव नराधिप। यस्त्वं कौशिकमागम्य शरण्यं शरणागत:।।1.59.5।। Bala Kanda,59,6,एवमुक्त्वा महातेजा: पुत्रान् परमधार्मिकान्। व्यादिदेश महाप्राज्ञान् यज्ञसम्भारकारणात्।।1.59.6।। Bala Kanda,59,7,सर्वान् शिष्यान् समाहूय वाक्यमेतदुवाच ह। सर्वानृषिगणान्वत्सा आनयध्वं ममाज्ञया। सशिष्यसुहृदश्चैव सर्त्विज स्सबहुश्रुतान्।।1.59.7।। Bala Kanda,59,8,यदन्यो वचनं ब्रूयान्मद्वाक्यबलचोदित:। तत्सर्वमखिलेनोक्तं ममाख्येयमनादृतम्।।1.59.8।। Bala Kanda,59,9,तस्य तद्वचनं श्रुत्वा दिशो जग्मुस्तदाज्ञया। आजग्मुरथ देशेभ्य स्सर्वेभ्यो ब्रह्मवादिन:।।1.59.9।। Bala Kanda,59,10,ते च शिष्या: समागम्य मुनिं ज्वलिततेजसम्। ऊचुश्चवचनं सर्वे सर्वेषां ब्रह्मवादिनाम्।।1.59.10।। Bala Kanda,59,11,श्रुत्वा ते वचनं सर्वे समायान्ति द्विजातय:। सर्वदेशेषु चागच्छन् वर्जयित्वा महोदयम्।।1.59.11।। Bala Kanda,59,12,वासिष्ठं तच्छतं सर्वं क्रोधपर्याकुलाक्षरम्। यदाह वचनं सर्वं शृणु त्वं मुनिपुङ्गव।।1.59.12।। Bala Kanda,59,13,क्षत्रियो याजको यस्य चण्डालस्य विशेषत:। कथं सदसि भोक्तारो हविस्तस्य सुरर्षय:।।1.59.13।। Bala Kanda,59,14,ब्राह्मणा वा महात्मानो भुक्त्वा चण्डालभोजनम्। कथं स्वर्गं गमिष्यन्ति विश्वामित्रेण पालिता:।।1.59.14।। Bala Kanda,59,15,एतद्वचननैष्ठुर्यमूचु स्संरक्तलोचना:। वासिष्ठा मुनिशार्दूल सर्वे ते समहोदया:।।1.59.15।। Bala Kanda,59,16,तेषां तद्वचनं श्रुत्वा सर्वेषां मुनिपुङ्गव:। क्रोधसंरक्तनयन स्सरोषमिदमब्रवीत्।।1.59.16।। Bala Kanda,59,17,ये दूषयन्त्यदुष्टं मां तप उग्रं समास्थितम्। भस्मीभूता दुरात्मानो भविष्यन्ति न संशय:।।1.59.17।। Bala Kanda,59,18,अद्य ते कालपाशेन नीता वैवस्वतक्षयम्। सप्तजातिशतान्येव मृतपस्सन्तु सर्वश:।।1.59.18।। Bala Kanda,59,19,श्वमांसनियताहारा मुष्टिका नाम निर्घृणा:। विकृताश्च विरूपाश्च लोकाननुचरन्त्विमान्।।1.59.19।। Bala Kanda,59,20,महोदयस्तु दुर्बुद्धिर्मामदूष्यं ह्यदूषयत्। दूषित स्सर्वलोकेषु निषादत्वं गमिष्यति।।1.59.20।। Bala Kanda,59,21,प्राणातिपातनिरतो निरनुक्रोशतां गत:। दीर्घकालं मम क्रोधाद्दुर्गतिं वर्तयिष्यति।।1.59.21।। Bala Kanda,59,22,एतावदुक्त्वा वचनं विश्वामित्रो महातपा:। विरराम महातेजा ऋषिमध्ये महामुनि:।।1.59.22।। Bala Kanda,60,1,तपोबलहतान् कृत्वा वासिष्ठान् समहोदयान्। ऋषिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत।।1.60.1।। Bala Kanda,60,2,अयमिक्ष्वाकुदायादस्त्रिशंकुरिति विश्रुत:। धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गत:।।1.60.2।। तेनानेन शरीरेण देवलोकजिगीषया। Bala Kanda,60,3,यथाऽयं स्वशरीरेण स्वर्गलोकं गमिष्यति।।1.60.3।। तथा प्रवर्त्यतां यज्ञे भवद्भिश्च मया सह। Bala Kanda,60,4,विश्वामित्रवच श्श्रुत्वा सर्व एव महर्षय:।।1.60.4।। ऊचुस्समेत्य सहिता धर्मज्ञा धर्मसंहितम्। Bala Kanda,60,5,अयं कुशिकदायादो मुनि: परमकोपन:।।1.60.5।। Bala Kanda,60,6,यदाह वचनं सम्यगेतत्कार्यं न संशय:। अग्निकल्पो हि भगवान् शापं दास्यति रोषित:।।1.60.6।। Bala Kanda,60,7,तस्मात्प्रवर्त्यतां यज्ञ स्सशरीरो यथा दिवम्। गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा।।1.60.7।। तथा प्रवर्त्यतां यज्ञ स्सर्वे समधितिष्ठत। Bala Kanda,60,8,एवमुक्त्वा महर्षयः चक्रुस्तास्ता:क्रियास्तदा।।1.60.8।। याजकश्च महातेजा विश्वामित्रोऽभवत्क्रतौ। Bala Kanda,60,9,ऋत्विजश्चानुपूर्व्येण मन्त्रवन्मन्त्रकोविदा:।।1.60.9।। चक्रु: कर्माणि सर्वाणि यथाकल्पं यथाविधि। Bala Kanda,60,10,तत: कालेन महता विश्वामित्रो महातपा:।।1.60.10।। चकारावाहनं तत्र भागार्थं सर्वदेवता:। Bala Kanda,60,11,नाभ्यागमंस्तदाहूता भागार्थं सर्वदेवता:।।1.60.11।। Bala Kanda,60,12,तत: क्रोधसमाविष्टो विश्वामित्रो महामुनि:। स्रुवमुद्यम्य सक्रोधस्त्रिशङ्कुमिदमब्रवीत्।।1.60.12।। Bala Kanda,60,13,पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर । एष त्वां सशरीरेण नयामि स्वर्गमोजसा।।1.60.13।। दुष्प्रापं सशरीरेण दिवं गच्छ नराधिप। Bala Kanda,60,14,स्वार्जितं किञ्चिदप्यस्ति मया हि तपस:फलम्।।1.60.14।। राजन् स्वतेजसा तस्य सशरीरो दिवं व्रज। Bala Kanda,60,15,उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वर:।।1.60.15।। दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा। Bala Kanda,60,16,देवलोकगतं दृष्ट्वा त्रिशङ्कुं पाकशासन:।।1.60.16।। सह सर्वैस्सुरगणैरिदं वचनमब्रवीत्। Bala Kanda,60,17,त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालय:।।1.60.17।। गुरुशापहतो मूढ पत भूमिमवाक्छिरा:। Bala Kanda,60,18,एवमुक्तो महेन्द्रेण त्रिशङ्कुरपतत्पुन:।।1.60.18।। विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम्। Bala Kanda,60,19,तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिक:।।1.60.19।। रोषमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत्। Bala Kanda,60,20,ऋषिमध्ये स तेजस्स्वी प्रजापतिरिवापर:।।1.60.20।। Bala Kanda,60,21,सृजन् दक्षिणमार्गस्थान् सप्तर्षीनपरान् पुन:। नक्षत्रमालामपरामसृजत्क्रोधमूर्च्छित:।।1.60.21।। दक्षिणां दिशमास्थाय मुनिमध्ये महायशा:। Bala Kanda,60,22,सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृत:।।1.60.22।। Bala Kanda,60,23,अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रक:। दैवतान्यपि स क्रोधा त्स्रष्टुं समुपचक्रमे।।1.60.23।। Bala Kanda,60,24,तत: परमसम्भ्रान्तास्सर्षिसङ्घास्सुरासुरा:। विश्वामित्रं महात्मानमूचु: सानुनयं वच:।।1.60.24।। Bala Kanda,60,25,अयं राजा महाभाग गुरुशापपरिक्षत: । सशरीरो दिवं यातुं नार्हत्येव तपोधन ।।1.60.25।। Bala Kanda,60,26,तेषां तद्वचनं श्रुत्वा देवानां मुनिपुङ्गव: । अब्रवीत्सुमहद्वाक्यं कौशिक: सर्वदेवता:।।1.60.26।। Bala Kanda,60,27,सशरीरस्य भद्रं वस्त्रिशङ्कोरस्य भूपते:। आरोहणं प्रतिज्ञाय नानृतं कर्तुमुत्सहे।।1.60.27।। Bala Kanda,60,28,स्वर्गोऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वत:। नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ।।1.60.28।। Bala Kanda,60,29,यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वश:। मत्कृतानि सुरा स्सर्वे तदनुज्ञातुमर्हथ।।1.60.29।। Bala Kanda,60,30,एवमुक्ता: सुरास्सर्वे प्रत्यूचुर्मुनिपुङ्गवम्। एवं भवतु भद्रं ते तिष्ठन्त्वेतानि सर्वश:।।1.60.30।। Bala Kanda,60,31,गगने तान्यनेकानि वैश्वानरपथाद्बहि:। नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिष्षु जाज्वलन्।।1.60.31।। अवाक्छिरास्त्रिशङ्कुश्च तिष्ठत्वमरसन्निभ:। Bala Kanda,60,32,अनुयास्यन्ति चैतानि ज्योतींषि नृपसत्तमम्।।1.60.32।। कृतार्थं कीर्तिमन्तं च स्वर्गलोकगतं यथा। Bala Kanda,60,33,विश्वामित्रस्तु धर्मात्मा सर्वदेवैरभिष्टुत:।।1.60.33।। ऋषिभिश्च महातेजा बाढमित्याह देवता:। Bala Kanda,60,34,ततो देवा महात्मानो मुनयश्च तपोधना:। जग्मुर्यथाऽऽगतं सर्वे यज्ञस्यान्ते नरोत्तम।।1.60.34।। Bala Kanda,61,1,विश्वामित्रो महात्माथ प्रस्थितान् प्रेक्ष्य तानृषीन्। अब्रवीन्नरशार्दूलस्सर्वांस्तान्वनवासिन:।।1.61.1।। Bala Kanda,61,2,महान्विघ्न: प्रवृत्तोऽयं दक्षिणामास्थितो दिशम्। दिशमन्यां प्रपत्स्यामस्तत्र तप्स्यामहे तप:।।1.61.2।। Bala Kanda,61,3,पश्चिमायां विशालायां पुष्करेषु महात्मन:। सुखं तपश्चरिष्याम: परं तद्धि तपोवनम्।।1.61.3।। Bala Kanda,61,4,एवमुक्त्वा महातेजा: पुष्करेषु महामुनि:। तप उग्रं दुराधर्षं तेपे मूलफलाशन:।।1.61.4।। Bala Kanda,61,5,एतस्मिन्नेव काले तु अयोध्याधिपतिर्नृप:। अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे।।1.61.5।। Bala Kanda,61,6,तस्य वै यजमानस्य पशुमिन्द्रो जहार ह। प्रणष्टे तु पशौ विप्रो राजानमिदमब्रवीत्।।1.61.6।। Bala Kanda,61,7,पशुरद्य हृतो राजन् प्रणष्टस्तव दुर्नयात् । अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर ।।1.61.7।। Bala Kanda,61,8,प्रायश्चित्तं महद्ध्येतन्नरं वा पुरुषर्षभ । आनयस्व पशुं शीघ्रं यावत्कर्म प्रवर्तते।।1.61.8।। Bala Kanda,61,9,उपाध्यायवचश्श्रुत्वा स राजा पुरुषर्षभ। अन्वियेष महाबुद्धि: पशुं गोभिस्सहस्रश:।।1.61.9।। Bala Kanda,61,10,देशान् जनपदांस्तां स्तान्नगराणि वनानि च। आश्रमाणि च पुण्यानि मार्गमाणो महीपति: ।।1.61.10।। Bala Kanda,61,11,स पुत्रसहितं तात सभार्यं रघुनन्दन । भृगुतुंदे समासीनमृचीकं सन्ददर्श ह।।1.61.11।। Bala Kanda,61,12,तमुवाच महातेजा: प्रणम्याभिप्रसाद्य च। ब्रह्मर्षिं तपसा दीप्तं राजर्षिरमितप्रभ:।।1.61.12।। पृष्ट्वा सर्वत्र कुशलमृचीकं तमिदं वच:। Bala Kanda,61,13,गवां शतसहस्रेण विक्रीणीषे सुतं यदि।।1.61.13।। पशोरर्थे महाभाग कृतकृत्योऽस्मि भार्गव। Bala Kanda,61,14,सर्वे परिसृता देशा याज्ञीयं न लभे पशुम्।।1.61.14।। दातुमर्हसि मूल्येन सुतमेकमितो मम।4 Bala Kanda,61,15,एवमुक्तो महातेजा ऋचीकस्त्वब्रवीद्वच:।।1.61.15।। नाहं ज्येष्ठं नरश्रेष्ठ विक्रीणीयां कथञ्चन। Bala Kanda,61,16,ऋचीकस्य वचश्श्रुत्वा तेषां माता महात्मनाम्।।1.61.16।। उवाच नरशार्दूलमम्बरीषं तपस्विनी। Bala Kanda,61,17,अविक्रेयं सुतं ज्येष्ठं भगवानाह भार्गव:।।1.61.17।। Bala Kanda,61,18,ममापि दयितं विद्धि कनिष्ठं शुनकं नृप। तस्मात्कनीयसं पुत्रं न दास्ये तव पार्थिव ।।1.61.18।। Bala Kanda,61,19,प्रायेण हि नरश्रेष्ठ ज्येष्ठा: पितृषु वल्लभा:। मातृ़णां तु कनीयांसस्तस्माद्रक्षे कनीयसम् ।।1.61.19।। Bala Kanda,61,20,उक्तवाक्ये मुनौ तस्मिन् मुनिपत्न्यां तथैव च। शुनश्शेफस्स्वयं राम मध्यमो वाक्यमब्रवीत्।।1.61.20।। Bala Kanda,61,21,पिता ज्येष्ठमविक्रेयं माता चाह कनीयसम्। विक्रीतं मध्यमं मन्ये राजन् पुत्रं नयस्व माम्।।1.61.21।। Bala Kanda,61,22,गवां शतसहस्रेण शुनश्शेफं नरेश्वर:। गृहीत्वा परमप्रीतो जगाम रघुनन्दन ।।1.61.22।। Bala Kanda,62,1,शुनश्शेफं नरश्रेष्ठ गृहीत्वा तु महायशा:। व्यश्राम्यत् पुष्करे राजा मध्याह्ने रघुनन्दन।।1.62.1।। Bala Kanda,62,2,तस्य विश्रममाणस्य शुनश्शेफो महायशा:। पुष्करक्षेत्रमागम्य विश्वामित्रं ददर्श ह।।1.62.2।। तप्यन्तमृषिभिस्सार्धं मातुलं परमातुर:। Bala Kanda,62,3,विवर्णवदनो दीनस्तृष्णया च श्रमेण च।।1.62.3।। पपाताङ्के मुनेराशु वाक्यं चेदमुवाच ह। Bala Kanda,62,4,न मेऽस्ति माता न पिता ज्ञातयो बान्धवा: कुत:।।1.62.4।। त्रातुमर्हसि मां सौम्य धर्मेण मुनिपुङ्गव। Bala Kanda,62,5,त्राता त्वं हि मुनिश्रेष्ठ सर्वेषां त्वं हि भावन:।।1.62.5।। Bala Kanda,62,6,राजा च कृतकार्यस्स्यादहं दीर्घायुरव्यय:। स्वर्गलोकमुपाश्नीयां तपस्तप्त्वाह्यनुत्तमम्।।1.62.6।। Bala Kanda,62,7,त्वं मे नाथो ह्यनाथस्य भव भव्येन चेतसा। पितेव पुत्रं धर्मात्मं स्त्रातुमर्हसि किल्बिषात्।।1.62.7।। Bala Kanda,62,8,तस्य तद्वचनं श्रुत्वा विश्वामित्रो महातपा:। सान्त्वयित्वा बहुविधं पुत्रानिदमुवाच ह।।1.62.8।। Bala Kanda,62,9,यत्कृते पितर: पुत्रान् जनयन्ति शुभार्थिन:। परलोकहितार्थाय तस्य कालोऽयमागत:।।1.62.9।। Bala Kanda,62,10,अयं मुनिसुतो बालो मत्तश्शरणमिच्छति। अस्य जीवितमात्रेण प्रियं कुरुत पुत्रका:।।1.62.10।। Bala Kanda,62,11,सर्वे सुकृतकर्माणस्सर्वे धर्मपरायणा: । पशुभूता नरेन्द्रस्य तृप्तिमग्ने: प्रयच्छत ।।1.62.11।। Bala Kanda,62,12,नाथवांश्च शुनश्शेफो यज्ञश्चाविघ्नितो भवेत्। देवतास्तर्पिताश्चस्युर्मम चापि कृतं वच:।।1.62.12।। Bala Kanda,62,13,मुनेस्तु वचनं श्रुत्वा मधुच्छन्दादय स्सुता:। साभिमानं नरश्रेष्ठ सलीलमिदमब्रुवन्।।1.62.13।। Bala Kanda,62,14,कथमात्मसुतान् हित्वा त्रायसेऽन्यसुतं विभो। अकार्यमिव पश्याम श्श्वमांस इव भोजने।।1.62.14।। Bala Kanda,62,15,तेषां तद्वचनं श्रुत्वा पुत्राणां मुनिपुङ्गव:। क्रोधसंरक्तनयनो व्याहर्तुमुपचक्रमे।।1.62.15।। Bala Kanda,62,16,निस्साध्वसमिदं प्रोक्तं धर्मादपि विगर्हितम्। अतिक्रम्य तु मद्वाक्यं दारुणं रोमहर्षणम्।।1.62.16।। Bala Kanda,62,17,श्वमांसभोजिनस्सर्वे वासिष्ठा इव जातिषु। पूर्णं वर्षसहस्रं तु पृथिव्यामनुवत्स्यथ।।1.62.17।। Bala Kanda,62,18,कृत्वा शापसमायुक्तान् पुत्रान् मुनिवरस्तथा। शुनश्शेफमुवाचार्तं कृत्वा रक्षां निरामयम्।।1.62.18।। Bala Kanda,62,19,पवित्रपाशैरासक्तो रक्तमाल्यानुलेपन:। वैष्णवं यूपमासाद्य वाग्भिरग्निमुदाहर ।।1.62.19।। Bala Kanda,62,20,इमे तु गाथे द्वे दिव्ये गायेथा मुनिपुत्रक। अम्बरीषस्य यज्ञेऽस्मिंस्तत स्सिद्धिमवाप्स्यसि।।1.62.20।। Bala Kanda,62,21,शुनश्शेफो गृहीत्वा ते द्वे गाथे सुसमाहित:। त्वरया राजसिंहं तमम्बरीषमुवाच ह।।1.62.21।। Bala Kanda,62,22,राजसिंह महासत्त्व शीघ्रं गच्छावहे सद:। निर्वर्तयस्व राजेन्द्र दीक्षां च समुपाविश।।1.62.22।। Bala Kanda,62,23,तद्वाक्यमृषिपुत्रस्य श्रुत्वा हर्षसमुत्सुक: । जगाम नृपति श्शीघ्रं यज्ञवाटमतन्द्रित:।।1.62.23।। Bala Kanda,62,24,सदस्यानुमते राजा पवित्रकृतलक्षणम्। पशुं रक्ताम्बरं कृत्वा यूपे तं समबन्धयत्।।1.62.24।। Bala Kanda,62,25,सबद्धो वाग्भिरग्य्राभिरभितुष्टाव वै सुरौ। इन्द्रमिन्द्रानुजं चैव यथावन्मुनिपुत्रक:।।1.62.25।। Bala Kanda,62,26,तत: प्रीत स्सहस्राक्षो रहस्यस्तुतितर्पित:। दीर्घमायुस्तदा प्रादाच्छुनश्शेफाय राघव ।।1.62.26।। Bala Kanda,62,27,स च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान्। फलं बहुगुणं राम सहस्राक्षप्रसादजम्।।1.62.27।। Bala Kanda,62,28,विश्वामित्रो ऽपि धर्मात्मा भूयस्तेपे महातपा:। पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च।।1.62.28।। Bala Kanda,63,1,पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम्। अभ्यागच्छन् सुरास्सर्वे तप: फलचिकीर्षव:।।1.63.1।। Bala Kanda,63,2,अब्रवीत्सुमहातेजा ब्रह्मा सुरुचिरं वच:। ऋषिस्त्वमसि भद्रं ते स्वार्जितै: कर्मभिश्शुभै:।।1.63.2।। Bala Kanda,63,3,तमेवमुक्त्वा देवेशस्त्रिदिवं पुनरभ्यगात् । विश्वामित्रो महातेजा भूयस्तेपे महत्तप:।।1.63.3।। Bala Kanda,63,4,तत: कालेन महता मेनका परमाऽप्सरा:। पुष्करेषु नरश्रेष्ठ स्नातुं समुपचक्रमे।।1.63.4।। Bala Kanda,63,5,तां ददर्श महातेजा मेनकां कुशिकात्मज:। रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा।।1.63.5।। Bala Kanda,63,6,दृष्ट्वा कन्दर्पवशगो मुनिस्तामिदमब्रवीत्। अप्सरस्स्वागतं तेऽस्तु वस चेह ममाश्रमे।।1.63.6।। अनुगृह्णीष्व भद्रं ते मदनेन सुमोहितम्। Bala Kanda,63,7,इत्युक्ता सा वरारोहा तत्र वासमथाकरोत्।।1.63.7।। Bala Kanda,63,8,तस्यां वसन्त्यां वर्षाणि पञ्च पञ्च च राघव । विश्वामित्राश्रमे राम सुखेन व्यतिचक्रमु:।।1.63.8।। Bala Kanda,63,9,अथ काले गते तस्मिन्विश्वामित्रो महामुनि:। सव्रीड इव सम्वृत्तश्चिन्ताशोकपरायण:।।1.63.9।। Bala Kanda,63,10,बुद्धिर्मुनेस्समुत्पन्ना सामर्षा रघुनन्दन। सर्वं सुराणां कर्मैतत्तपोपहरणं महत्।।1.63.10।। Bala Kanda,63,11,अहोरात्रापदेशेन गतास्संवत्सरा दश। काममोहाभिभूतस्य विघ्नोऽयं समुपस्थित:।।1.63.11।। Bala Kanda,63,12,विनिश्श्वसन्मुनिवर: पश्चात्तापेन दु:खित:। भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम्।।1.63.12।। Bala Kanda,63,13,मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मज:। उत्तरं पर्वतं राम विश्वामित्रो जगाम ह।।1.63.13।। Bala Kanda,63,14,स कृत्वा नैष्ठिकीं बुद्धिं जेतुकामो महायशा:। कौशिकीतीरमासाद्य तपस्तेपे सुदारुणम्।।1.63.14।। Bala Kanda,63,15,तस्य वर्षसहस्रं तु घोरं तप उपासत:। उत्तरे पर्वते राम देवतानामभूद्भयम्।।1.63.15।। Bala Kanda,63,16,आमन्त्रयन् समागम्य सर्वे सर्षिगणा स्सुरा:। महर्षिशब्दं लभतां साध्वयं कुशिकात्मज:।।1.63.16।। Bala Kanda,63,17,देवतानां वच श्शृत्वा सर्वलोकपितामह:। अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम्।।1.63.17।। Bala Kanda,63,18,महर्षे स्वागतं वत्स तपसोग्रेण तोषित:। महत्त्वमृषिमुख्यत्वं ददामि तव कौशिक ।।1.63.18।। Bala Kanda,63,19,ब्रह्मणस्स वचश्श्रुत्वा सर्वलोकेश्वरस्य ह। न विषण्णो न सन्तुष्टो विश्वामित्रस्तपोधन:।।1.63.19।। Bala Kanda,63,20,प्राञ्जलि: प्रणतो भूत्वा सर्वलोकपितामहम्। प्रत्युवाच ततो वाचं विश्वामित्रो महामुनि:।।1.63.20।। Bala Kanda,63,21,महर्षिशब्दमतुलं स्वार्जितै: कर्मभिश्शुभै:। यदि मे भगवानाह ततोऽहं विजितेन्द्रिय:।।1.63.21।। Bala Kanda,63,22,तमुवाच ततो ब्रह्मा न तावत् त्त्वं जितेन्द्रिय:। यतस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवं गत:।।1.63.22।। Bala Kanda,63,23,विप्रस्थितेषु देवेषु विश्वामित्रो महामुनि:। ऊर्ध्वबाहुर्निरालम्बो वायुभक्षस्तपश्चरन्।।1.63.23।। Bala Kanda,63,24,घर्मे पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रय:। शिशिरे सलिलस्थायी रात्र्यहानि तपोधन:।।1.63.24।। एवं वर्षसहस्रं हि तपो घोरमुपागमत्। Bala Kanda,63,25,तस्मिन् सन्तप्यमाने तु विश्वामित्रे महामुनौ।।1.63.25।। सम्भ्रमस्सुमहानासीत्सुराणां वासवस्य च। Bala Kanda,63,26,रम्भामप्सरसं शक्र स्सह सर्वैर्मरुद्गणै:। उवाचात्महितं वाक्यमहितं कौशिकस्य च।।1.63.26।। Bala Kanda,64,1,सुरकार्यमिदं रम्भे कर्तव्यं सुमहत्त्वया। लोभनं कौशिकस्येह काममोहसमन्वितम्।।1.64.1।। Bala Kanda,64,2,तथोक्ता साऽप्सरा राम सहस्राक्षेण धीमता। व्रीडिता प्राञ्जलिर्वाक्यं प्रत्युवाच सुरेश्वरम्।।1.64.2।। Bala Kanda,64,3,अयं सुरपते घोरो विश्वामित्रो महामुनि:। घोरमुत्सृजते क्रोधं मयि देव न संशय:।।1.64.3।। ततो हि मे भयं देव प्रासादं कर्तुमर्हसि। Bala Kanda,64,4,एवमुक्तस्तया राम रम्भया भीतया तदा।।1.64.4।। तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम्। Bala Kanda,64,5,माभैषी रम्भे भद्रं ते कुरुष्व मम शासनम्।।1.64.5।। Bala Kanda,64,6,कोकिलो हृदयग्राही माधवे रुचिरद्रुमे। अहं कन्दर्पसहित स्स्थास्यामि तव पार्श्वत:।।1.64.6।। Bala Kanda,64,7,त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम्। तमृषिं कौशिकं रम्भे भेदयस्व तपस्विनम्।।1.64.7।। Bala Kanda,64,8,सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम्। लोभयामास ललिता विश्वामित्रं शुचिस्मिता।।1.64.8।। Bala Kanda,64,9,कोकिलस्य च शुश्राव वल्गु व्याहरत: स्वनम्। सम्प्रहृष्टेन मनसा तत एनामुदैक्षत।।1.64.9।। Bala Kanda,64,10,अथ तस्य च शब्देन गीतेनाप्रतिमेन च। दर्शनेन च रम्भाया मुनिस्सन्देहमागत:।।1.64.10।। Bala Kanda,64,11,सहस्राक्षस्य तत्कर्म विज्ञाय मुनिपुङ्गव:। रम्भां क्रोधसमाविष्ट श्शशाप कुशिकात्मज:।।1.64.11।। Bala Kanda,64,12,यन्मां लोभयसे रम्भे कामक्रोधजयैषिणम्। दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे ।।1.64.12।। Bala Kanda,64,13,ब्राह्मण स्सुमहातेजा स्तपोबलसमन्वित:। उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुषीकृताम्।।1.64.13।। Bala Kanda,64,14,एवमुक्त्वा महातेजा विश्वामित्रो महामुनि:। अशक्नुवन् धारयितुं क्रोधं सन्तापमागत:।।1.64.14।। Bala Kanda,64,15,तस्य शापेन महता रम्भा शैली तदाऽभवत्। वचश्शृत्वा च कन्दर्पो महर्षेस्स च निर्गत:।।1.64.15।। Bala Kanda,64,16,कोपेन स महातेजास्तपोऽपहरणे कृते। इन्द्रियैरजितै राम न लेभे शान्तिमात्मन:।।1.64.16।। Bala Kanda,64,17,बभूवास्य मनश्चिन्ता तपोऽपहरणे कृते । नैव क्रोधं गमिष्यामि न च वक्ष्ये कथञ्चन।।1.64.17।। Bala Kanda,64,18,अथवा नोच्छवसिष्यामि संवत्सरशतान्यपि। अहं विशोषयिष्यामि ह्यात्मानं विजितेन्द्रिय:।।1.64.18।। Bala Kanda,64,19,तावद्यावद्धि मे प्राप्तं ब्राह्मण्यं तपसाऽऽर्जितम्। अनुच्छवसन्नभुञ्जान स्तिष्ठेयं शाश्वतीस्समा:।।1.64.19।। न हि मे तप्यमानस्य क्षयं यास्यन्ति मूर्तय:। Bala Kanda,64,20,एवं वर्षसहस्रस्य दीक्षां स मुनिपुङ्गव:।।1.64.20।। चकाराप्रतिमां लोके प्रतिज्ञां रघुनन्दन। Bala Kanda,65,1,अथ हैमवतीं राम दिशं त्यक्त्वा महामुनि:। पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम्।।1.65.1।। Bala Kanda,65,2,मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम्। चकाराप्रतिमं राम तप: परमदुष्करम्।।1.65.2।। Bala Kanda,65,3,पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम्। विघ्नैर्बहुभिराधूतं क्रोधो नान्तर आविशत्।।1.65.3।। स कृत्वा निश्चयं राम तप आतिष्टदव्ययम्। Bala Kanda,65,4,तस्य वर्षसहस्रस्य व्रते पूर्णे महाव्रत:।।1.65.4।। Bala Kanda,65,5,भोक्तुमारब्धवानन्नं तस्मिन् काले रघूत्तम। इन्द्रो द्विजातिर्भूत्वा तं सिद्धमन्नमयाचत।।1.65.5।। Bala Kanda,65,6,तस्मै दत्वा तदा सिद्धं सर्वं विप्राय निश्चित:। निश्शेषितेऽन्ने भगवानभुक्तैव महातपा:।।1.65.6।। Bala Kanda,65,7,न किञ्चिदवदद्विप्रं मौनव्रतमुपस्थित:। अथ वर्षसहस्रं वै नोच्छ्वसन्मुनिपुङ्गव:।।1.65.7।। Bala Kanda,65,8,तस्यानुच्छ्वसमानस्य मूर्ध्नि धूमो व्यजायत। त्रैलोक्यं येन सम्भ्रान्तमादीपितमिवाभवत्।।1.65.8।। Bala Kanda,65,9,ततो देवास्सगन्धर्वा: पन्नगोरगराक्षसा:। मोहितास्तेजसा तस्य तपसा मन्दरश्मय:।।1.65.9।। कश्मलोपहता स्सर्वे पितामहमथाब्रुवन्। Bala Kanda,65,10,बहुभि: कारणैर्देव विश्वामित्रो महामुनि:।।1.65.10।। लोभित: क्रोधितश्चैव तपसा चाभिवर्धते। Bala Kanda,65,11,न ह्यस्य वृजिनं किञ्चिद्दृश्यते सूक्ष्ममप्यथ।।1.65.11।। Bala Kanda,65,12,न दीयते यदि त्वस्य मनसा यदभीप्सितम्। विनाशयति त्रैलोक्यं तपसा सचराचरम्।।1.65.12।। Bala Kanda,65,13,व्याकुलाश्च दिशस्सर्वा न च किञ्चित्प्रकाशते। सागरा: क्षुभितास्सर्वे विशीर्यन्ते च पर्वता:।।1.65.13।। Bala Kanda,65,14,प्रकम्पते च पृथिवी वायुर्वाति भृशाकुल:। बृह्मन्न प्रतिजानीमोनास्तिको जायते जन:।।1.65.14।। Bala Kanda,65,15,सम्मूढमिव त्रैलोक्यं सम्प्रक्षुभितमानसम्। भास्करो निष्प्रभश्चैव महर्षेस्तस्य तेजसा।।1.65.15।। Bala Kanda,65,16,बुद्धिं न कुरुते यावन्नाशे देव महामुनि:। तावत्प्रसाद्यो भगवा नग्निरूपोमहाद्युति:।।1.65.16।। Bala Kanda,65,17,कालाग्निना यथापूर्वं त्रैलोक्यं दह्यतेऽखिलम्। देवराज्यं चिकीर्षेत दीयतामस्य यन्मतम्।।1.65.17।। Bala Kanda,65,18,ततस्सुरगणास्सर्वे पितामहपुरोगमा:। विश्वामित्रं महात्मानं मधुरं वाक्यमब्रुवन्।।1.65.18।। Bala Kanda,65,19,ब्रह्मर्षे स्वागतं तेऽस्तु तपसा स्म सुतोषिता:। ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक ।।1.65.19।। Bala Kanda,65,20,दीर्घमायुश्च ते ब्रह्मन् ददामि समरुद्गण:। स्वस्ति प्राप्नुहि भद्रं ते गच्छ सौम्य यथासुखम्।।1.65.20।। Bala Kanda,65,21,पितामहवचश्शृत्वा सर्वेषां च दिवौकसाम्। कृत्वा प्रणामं मुदितो व्याजहार महामुनि:।।1.65.21।। Bala Kanda,65,22,ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव च। ओङ्कारश्च वषट्कारो वेदाश्च वरयन्तु माम्।।1.65.22।। Bala Kanda,65,23,क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदामपि। ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवता:।।1.65.23।। यद्ययं परम: काम: कृतो यान्तु सुरर्षभा:। Bala Kanda,65,24,तत: प्रसादितो देवैर्वसिष्ठो जपतां वर:।।1.65.24।। सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत्। Bala Kanda,65,25,ब्रह्मर्षिस्त्वं न सन्देहस्सर्वं सम्पत्स्यते तव।।1.65.25।। इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथागतम्। Bala Kanda,65,26,विश्वामित्रोऽपि धर्मात्मा लब्ध्वा ब्राह्मण्यमुत्तमम्।।1.65.26।। पूजयामास ब्रह्मर्षिं वसिष्ठं जपतां वरम्। Bala Kanda,65,27,कृतकामो महीं सर्वां चचार तपसि स्थित:।।1.65.27।। एवं त्वनेन ब्राह्मण्यं प्राप्तं राम महात्मना। Bala Kanda,65,28,एष राम मुनिश्रेष्ठ एष विग्रहवांस्तप:।।1.65.28।। एष धर्मपरो नित्यं वीर्यस्यैष परायणम्। Bala Kanda,65,29,एवमुक्त्वा महातेजा विरराम द्विजोत्तम:।।1.65.29।। Bala Kanda,65,30,शतानन्दवच: श्रुत्वा रामलक्ष्मणसन्निधौ। जनक: प्राञ्जलिर्वाक्यमुवाच कुशिकात्मजम्।।1.65.30।। Bala Kanda,65,31,धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गव। यज्ञं काकुत्स्थसहित: प्राप्तवानसि धार्मिक।।1.65.31।। Bala Kanda,65,32,पावितोऽहं त्वया ब्रह्मन् दर्शनेन महामुने। गुणा बहुविधा: प्राप्तास्तव सन्दर्शनान्मया।।1.65.32।। Bala Kanda,65,33,विस्तरेण च ते ब्रह्मन् कीर्त्यमानं महत्तप:। श्रुतं मया महातेजो रामेण च महात्मना।।1.65.33।। Bala Kanda,65,34,सदस्यै: प्राप्य च सद: श्रुतास्ते बहवो गुणा:। अप्रमेयं तपस्तुभ्यमप्रमेयं च ते बलम्।।1.65.34।। अप्रमेया गुणाश्चैव नित्यं ते कुशिकात्मज । Bala Kanda,65,35,तृप्तिराश्चर्यभूतानां कथानां नास्ति मे विभो।।1.65.35।। कर्मकालो मुनिश्रेष्ठ लम्बते रविमण्डलम्। Bala Kanda,65,36,श्व: प्रभाते महातेजो द्रष्टुमर्हसि मां पुन:।।1.65.36।। स्वागतं तपतां श्रेष्ठ मामनुज्ञातुमर्हसि। Bala Kanda,66,1,तत: प्रभाते विमले कृतकर्मा नराधिप:। विश्वामित्रं महात्मानं आजुहाव सराघवम्।।1.66.1।। Bala Kanda,66,2,तमर्चयित्वा धर्मात्मा शास्त्रदृष्टेन कर्मणा। राघवौ च महात्मानौ तदा वाक्यमुवाच ह।।1.66.2।। Bala Kanda,66,3,भगवन् स्वागतं तेऽस्तु किं करोमि तवानघ। भवानाज्ञापयतु मामाज्ञाप्यो भवता ह्यहम्।।1.66.3।। Bala Kanda,66,4,एवमुक्तस्स धर्मात्मा जनकेन महात्मना। प्रत्युवाच मुनिर्वीरं वाक्यं वाक्यविशारद:।।1.66.4।। Bala Kanda,66,5,पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ। द्रुष्टुकामौ धनु श्श्रेष्ठं यदेतत्वयि तिष्ठति।।1.66.5।। Bala Kanda,66,6,एतद्दर्शय भद्रं ते कृतकामौ नृपात्मजौ। दर्शनादस्य धनुषो यथेष्टं प्रतियास्यत:।।1.66.6।। Bala Kanda,66,7,एवमुक्तस्तु जनक: प्रत्युवाच महामुनिम्। श्रूयतामस्य धनुषो यदर्थमिह तिष्ठति।।1.66.7।। Bala Kanda,66,8,देवरात इति ख्यातो निमेष्षष्ठो महीपति:। न्यासोऽयं तस्य भगवन् हस्ते दत्तो महात्मना।।1.66.8।। Bala Kanda,66,9,दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान्। रुद्रस्तु त्रिदशान् रोषात्सलीलमिदमब्रवीत्।।1.66.9।। Bala Kanda,66,10,यस्माद्भागार्थिनो भागान्नाकल्पयत मे सुरा:। वराङ्गाणि महार्हाणि धनुषा शातयामि व:।।1.66.10।। Bala Kanda,66,11,ततो विमनसस्सर्वे देवा वै मुनिपुङ्गव। प्रसादयन्ति देवेशं तेषां प्रीतोऽभवद्भव:।।1.66.11।। Bala Kanda,66,12,प्रीतियुक्तस्स सर्वेषां ददौ तेषां महात्मनाम्। तदेतद्देवदेवस्य धनूरत्नं महात्मन:। न्यासभूतं तदा न्यस्तमस्माकं पूर्व के विभो।।1.66.12।। Bala Kanda,66,13,अथ मे कृषत: क्षेत्रं लाङ्गूलादुत्थिता मया। क्षेत्रं शोधयता लब्धा नाम्ना सीतेति विश्रुता।।1.66.13।। Bala Kanda,66,14,भूतलादुत्थिता सा तु व्यवर्धत ममात्मजा। वीर्यशुल्केति मे कन्या स्थापितेयमयोनिजा।।1.66.14।। Bala Kanda,66,15,भूतलादुत्थितां तां तु वर्धमानां ममात्मजाम्। वरयामासुरागम्य राजानो मुनिपुंगव।।1.66.15।। Bala Kanda,66,16,तेषां वरयतां कन्यां सर्वेषां पृथिवीक्षिताम्। वीर्यशुल्केति भगवन् न ददामि सुतामहम्।।1.66.16।। Bala Kanda,66,17,ततस्सर्वे नृपतय स्समेत्य मुनिपुंगव। मिथिलामभ्युपागम्य वीर्यजिज्ञासवस्तदा।।1.66.17।। Bala Kanda,66,18,तेषां जिज्ञासमानानां वीर्यं धनुरुपाहृतम्। न शेकुर्ग्रहणे तस्य धनुषस्तोलनेऽपि वा।।1.66.18।। Bala Kanda,66,19,तेषां वीर्यवतां वीर्यमल्पं ज्ञात्वा महामुने । प्रत्याख्याता नृपतयस्तन्निबोध तपोधन।।1.66.19।। Bala Kanda,66,20,तत: परमकोपेन राजानो नृपपुङ्गव। न्यरुंधन्मिथिलां सर्वे वीर्यसंदेहमागता:।।1.66.20।। Bala Kanda,66,21,आत्मानमवधूतं ते विज्ञाय नृपपुङ्गवा:। रोषेण महताऽऽविष्टा: पीडयन्मिथिलां पुरीम्।।1.66.21।। Bala Kanda,66,22,ततस्संवत्सरे पूर्णे क्षयं यातानि सर्वश:। साधनानि मुनिश्रेष्ठ ततोऽहं भृशदु:खित:।।1.66.22।। Bala Kanda,66,23,ततो देवगणान् सर्वान् तपसाऽहं प्रसादयम्। ददुश्च परमप्रीता श्चतुरङ्गबलं सुरा:।।1.66.23।। Bala Kanda,66,24,ततो भग्ना नृपतयो हन्यमाना दिशो ययु:। अवीर्या वीर्यसन्दिग्धा स्सामात्या: पापकर्मण:।।1.66.24।। Bala Kanda,66,25,तदेतन्मुनिशार्दूल धनु: परमभास्वरम्। रामलक्ष्मणयोश्चापि दर्शयिष्यामि सुव्रत।।1.66.25।। Bala Kanda,66,26,यद्यस्य धनुषो राम: कुर्यादारोपणं मुने। सुतामयोनिजां सीतां दद्यां दाशरथेरहम्।।1.66.26।। Bala Kanda,67,1,. जनकस्य वचश्श्रुत्वा विश्वामित्रो महामुनि: । धनुर्दर्शय रामाय इति होवाच पार्थिवम्।।1.67.1।। Bala Kanda,67,2,ततस्स राजा जनक: सामन्तान्व्यादिदेश ह। धनुरानीयतां दिव्यं गन्धमाल्यविभूषितम्।।1.67.2।। Bala Kanda,67,3,जनकेन समादिष्टा: सचिवा प्राविशन् पुरीम्। तद्धनु: पुरत: कृत्वा निर्जग्मु: पार्थिवाज्ञया।।1.67.3।। Bala Kanda,67,4,नृणां शतानि पञ्चाशद्व्यायतानां महात्मनाम्। मञ्जूषामष्टचक्रां तां समूहुस्ते कथञ्चन।।1.67.4।। Bala Kanda,67,5,तामादाय तु मञ्जूषामायसीं यत्र तद्धनु:। सुरोपमं ते जनकमूचुर्नृपतिमन्त्रिण:।।1.67.5।। Bala Kanda,67,6,इदं धनुर्वरं राजन् पूजितं सर्वराजभि:। मिथिलाधिप राजेन्द्र दर्शनीयं यदिच्छसि।।1.67.6।। Bala Kanda,67,7,तेषां नृपो वच: श्रुत्वा कृताञ्जलिरभाषत। विश्वामित्रं महात्मानं तौ चोभौ रामलक्ष्मणौ।।1.67.7।। Bala Kanda,67,8,इदं धनुर्वरं ब्रह्मन् जनकैरभिपूजितम्। राजभिश्च महावीर्यै: अशक्तै: पूरितुं पुरा।।1.67.8।। Bala Kanda,67,9,नैतत्सुरगणास्सर्वे नासुरा न च राक्षसा:। गन्धर्वयक्षप्रवरा: सकिन्नरमहोरगा:।।1.67.9।। Bala Kanda,67,10,क्व गतिर्मानुषाणां च धनुषोऽस्य प्रपूरणे। आरोपणे समायोगे वेपने तोलनेऽपि वा।।1.67.10।। Bala Kanda,67,11,तदेतद्धनुषां श्रेष्ठमानीतं मुनिपुङ्गव। दर्शयैतन्महाभाग अनयो: राजपुत्रयो:।।1.67.11।। Bala Kanda,67,12,विश्वामित्रस्तु धर्मात्मा श्रुत्वा जनकभाषितम्। वत्स राम धनु: पश्य इति राघवमब्रवीत्।।1.67.12।। Bala Kanda,67,13,ब्रह्मर्षेर्वचनाद्रामो यत्र तिष्ठति तद्धनु:। मञ्जूषां तामपावृत्य दृष्ट्वा धनुरथाब्रवीत्।।1.67.13।। Bala Kanda,67,14,इदं धनुर्वरं ब्रह्मन् संस्पृशामीह पाणिना। यत्नवांश्च भविष्यामि तोलने पूरणेऽपि वा।।1.67.14।। Bala Kanda,67,15,बाढमित्येव तं राजा मुनिश्च समभाषत। लीलया स धनुर्मध्ये जग्राह वचनान्मुने:।।1.67.15। Bala Kanda,67,16,पश्यतां नृपसहस्राणां बहूनां रघुनन्दन: । आरोपयत्स धर्मात्मा सलीलमिव तद्धनु:।।1.67.16।। Bala Kanda,67,17,आरोपयित्वा धर्मात्मा पूरयामास तद्धनु:। तद्बभञ्ज धनुर्मध्ये नरश्रेष्ठो महायशा:।।1.67.17।। Bala Kanda,67,18,तस्य शब्दो महानासीत् निर्घातसमनिस्वन:। भूमिकम्पश्च सुमहान् पर्वतस्येव दीर्यत:।।1.67.18।। Bala Kanda,67,19,निपेतुश्च नरा स्सर्वे तेन शब्देन मोहिता:। वर्जयित्वा मुनिवरं राजानं तौ च राघवौ।।1.67.19।। Bala Kanda,67,20,प्रत्याश्वस्ते जने तस्मिन्राजा विगतसाध्वस:। उवाच प्राञ्जलिर्वाक्यं वाक्यज्ञो मुनिपुङ्गवम्।।1.67.20।। Bala Kanda,67,21,भगवन् दृष्टवीर्यो मे रामो दशरथात्मज:। अत्यद्भुतमचिन्त्यं च न तर्कितमिदं मया।।1.67.21।। Bala Kanda,67,22,जनकानां कुले कीर्तिमाहरिष्यति मे सुता। सीता भर्तारमासाद्य रामं दशरथात्मजम्।।1.67.22।। Bala Kanda,67,23,मम सत्या प्रतिज्ञा च वीर्यशुल्केति कौशिक। सीता प्राणैर्बहुमता देया रामाय मे सुता।।1.67.23।। Bala Kanda,67,24,भवतोऽनुमते ब्रह्मन् शीघ्रं गच्छन्तु मन्त्रिण:। मम कौशिक भद्रं ते अयोध्यां त्वरिता रथै:।।1.67.24।। Bala Kanda,67,25,राजानं प्रश्रितैर्वाक्यैरानयन्तु पुरं मम। प्रदानं वीर्यशुल्काया: कथयन्तु च सर्वश:।।1.67.25।। Bala Kanda,67,26,मुनिगुप्तौ च काकुत्स्थौ कथयन्तु नृपाय वै। प्रीयमाणं तु राजानमानयन्तु सुशीघ्रगा:।।1.67.26।। Bala Kanda,67,27,कौशिकश्च तथेत्याह राजा चाभाष्य मन्त्रिण:।।1.67.27।। Bala Kanda,67,28,अयोध्यां प्रेषयामास धर्मात्मा कृतशासनान्। यथावृत्तं समाख्यातुमानेतुं च नृपं तदा।।1.67.28।। Bala Kanda,68,1,जनकेन समादिष्टा दूतास्ते क्लान्तवाहना:। त्रिरात्रमुषिता मार्गे तेऽयोध्यां प्राविशन् पुरीम्।।1.68.1।। Bala Kanda,68,2,राज्ञो भवनमासाद्य द्वारस्थानिदमब्रुवन्। शीघ्रं निवेद्यतां राज्ञे दूतान्नो जनकस्य च।।1.68.2।। Bala Kanda,68,3,इत्युक्ता द्वारपालास्ते राघवाय न्यवेदयन्। ते राजवचनाद्दूता राजवेश्मप्रवेशिता:। ददृशुर्देवसङ्काशं वृद्धं दशरथं नृपम्।।1.68.3।। Bala Kanda,68,4,बद्धाञ्जलिपुटा स्सर्वे दूता विगतसाध्वसा:। राजानं प्रयता वाक्यमब्रुवन्मधुराक्षरम्।।1.68.4।। Bala Kanda,68,5,मैथिलो जनको राजा साग्निहोत्रपुरस्कृतम् । कुशलं चाव्ययं चैव सोपाध्यायपुरोहितम्।।1.68.5।। Bala Kanda,68,6,मुहुर्मुहुर्मधुरया स्नेहसंयुक्तया गिरा। जनकस्त्वां महाराज पृच्छते सपुरस्सरम्।।1.68.6।। Bala Kanda,68,7,पृष्ट्वा कुशलमव्यग्रं वैदेहो मिथिलाधिप:। कौशिकानुमते वाक्यं भवन्तमिदमब्रवीत्।।1.68.7।। Bala Kanda,68,8,पूर्वं प्रतिज्ञा विदिता वीर्यशुल्का ममात्मजा। राजानश्च कृतामर्षानिर्वीर्या विमुखीकृता:।।1.68.8।। Bala Kanda,68,9,सेयं मम सुता राजन् विश्वामित्रपुरस्सरै:। यदृच्छयागतैर्वीरैर्निर्जिता तव पुत्रकै:।।1.68.9।। Bala Kanda,68,10,तच्च राजन् धनुर्दिव्यं मध्ये भग्नं महात्मना। रामेण हि महाराज महत्यां जनसंसदि।।1.68.10।। Bala Kanda,68,11,अस्मै देया मया सीता वीर्यशुल्का महात्मने। प्रतिज्ञां कर्तुमिच्छामि तदनुज्ञातुमर्हसि।।1.68.11।। Bala Kanda,68,12,सोपाध्यायो महाराज पुरोहितपुरस्सर:। शीघ्रमागच्छ भद्रं ते द्रष्टुमर्हसि राघवौ ।।1.68.12।। Bala Kanda,68,13,प्रीतिं च मम राजेन्द्र निर्वर्तयितुमर्हसि। पुत्रयोरुभयोरेव प्रीतिं त्वमपि लप्स्यसे।।1.68.13।। Bala Kanda,68,14,एवं विदेहाधिपतिर्मधुरं वाक्यमब्रवीत्।।1.68.14।। Bala Kanda,68,15,विश्वामित्राभ्यनुज्ञात श्शतानन्दमते स्थित:। इत्युक्त्वा विरता दूता राजगौरवशङ्किता:।।1.68.15।। Bala Kanda,68,16,दूतवाक्यं च तच्छ्रुत्वा राजा परमहर्षित:। वसिष्ठं वामदेवं च मन्त्रिणोऽन्यांश्च सोऽब्रवीत्।।1.68.16।। Bala Kanda,68,17,गुप्त: कुशिकपुत्रेण कौसल्यानन्दवर्धन:। लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्यसौ।।1.68.17।। Bala Kanda,68,18,दृष्टवीर्यस्तु काकुत्स्थो जनकेन महात्मना। सम्प्रदानं सुतायास्तु राघवे कर्तुमिच्छति।।1.68.18।। Bala Kanda,68,19,यदि वो रोचते वृत्तं जनकस्य महात्मन:। पुरीं गच्छामहे शीघ्रं मा भूत्कालस्य पर्यय:।।1.68.19।। Bala Kanda,69,1,ततो रात्र्यां व्यतीतायां सोपाध्याय: सबान्धव:। राजा दशरथो हृष्ट स्सुमन्त्रमिदमब्रवीत्।।1.69.1।। Bala Kanda,69,2,अद्य सर्वे धनाध्यक्षा धनमादाय पुष्कलम्। व्रजन्त्वग्रे सुविहिता नानारत्नसमन्विता:।।1.69.2।। Bala Kanda,69,3,चतुरङ्गबलं चापि शीघ्रं निर्यातु सर्वश:। ममज्ञासमकालं च यानयुग्यमनुत्तमम्।।1.69.3।। Bala Kanda,69,4,वसिष्ठो वामदेवश्च जाबालिरथ काश्यप:। मार्कण्डेयश्च दीर्घायु:ऋषि: कात्यायनस्तथा।।1.69.4।। Bala Kanda,69,5,एते द्विजा: प्रयान्त्वग्रे स्यन्दनं योजयस्व मे। यथा कालात्ययो न स्या द्दूता हि त्वरयन्ति माम्।।1.69.5।। Bala Kanda,69,6,वचनात्तु नरेन्द्रस्य सा सेना चतुरङ्गिणी। राजानमृषिभि स्सार्धं व्रजन्तं पृष्ठतोऽन्वगात्।।1.69.6।। Bala Kanda,69,7,गत्वा चतुरहं मार्गं विदेहानभ्युपेयिवान्। राजा तु जनक श्श्रीमान् श्श्रुत्वा पूजामकल्पयत्।।1.69.7।। Bala Kanda,69,8,ततो राजानमासाद्य वृद्धं दशरथं नृपम्। जनको मुदितो राजा हर्षं च परमं ययौ।।1.69.8।। Bala Kanda,69,9,उवाच च नरश्रेष्ठो नरश्रेष्ठं मुदाऽन्वित:। स्वागतं ते महाराज दिष्ट्या प्राप्तोऽसि राघव।।1.69.9।। पुत्रयोरुभयो: प्रीतिं लप्स्यसे वीर्यनिर्जिताम्। Bala Kanda,69,10,दिष्ट्या प्राप्तो महातेजा वसिष्ठो भगवानृषि:।।1.69.10।। सह सर्वैर्द्विजश्रेष्ठैर्देवैरिव शतक्रतु:। Bala Kanda,69,11,दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितं कुलम्।।1.69.11।। राघवै स्सह सम्बन्धाद्वीर्यश्रेष्ठैर्महात्मभि:। Bala Kanda,69,12,श्व: प्रभाते नरेन्द्रेन्द्र निर्वर्तयितुमर्हसि।।1.69.12।। यज्ञस्यान्ते नरश्रेष्ठ विवाहमृषिसम्मतम्। Bala Kanda,69,13,तस्य तद्वचनं श्रुत्वा ऋषिमध्ये नराधिप:।।1.69.13।। वाक्यं वाक्यविदां श्रेष्ठ: प्रत्युवाच महीपतिम्। Bala Kanda,69,14,प्रतिग्रहो दातृवश श्श्रृतमेतन्मया पुरा।।1.69.14।। यथा वक्ष्यसि धर्मज्ञ तत्करिष्यामहे वयम्। Bala Kanda,69,15,धर्मिष्ठं च यशस्यं च वचनं सत्यवादिन:।।1.69.15।। श्रुत्वा विदेहाधिपति: परं विस्मयमागत:।। Bala Kanda,69,16,तत स्सर्वे मुनिगणा: परस्परसमागमे।1.69.16। हर्षेण महता युक्तास्तां निशामवसन् सुखम्।। Bala Kanda,69,17,राजा च राघवौ पुत्रौ निशाम्य परिहर्षित:।।1.69.17।। उवास परमप्रीतो जनकेन सुपूजित:। Bala Kanda,69,18,जनकोऽपि महातेजा: क्रियां धर्मेण तत्त्ववित्।।1.69.18।। यज्ञस्य च सुताभ्यां च कृत्वा रात्रिमुवास ह । Bala Kanda,70,1,तत: प्रभाते जनक: कृतकर्मा महर्षिभि:। उवाच वाक्यं वाक्यज्ञ श्शतानन्दं पुरोहितम्।।1.70.1।। Bala Kanda,70,2,भ्राता मम महातेजा यवीयानतिधार्मिक:। कुशध्वज इति ख्यात: पुरीमध्यवसच्छुभाम्।।1.70.2।। Bala Kanda,70,3,वार्याफलकपर्यन्तां पिबन्निक्षुमतीं नदीम्। साङ्काश्यां पुण्यसङ्काशां विमानमिव पुष्पकम्।।1.70.3।। Bala Kanda,70,4,तमहं द्रष्टुमिच्छामि यज्ञगोप्ता स मे मत:। प्रीतिं सोऽपि महातेजा इमां भोक्ता मया सह।।1.70.4।। Bala Kanda,70,5,एवमुक्ते तु वचने शतानन्दस्य सन्निधौ। आगता: केचिदव्यग्रा जनकस्तान् समादिशत्।।1.70.5।। Bala Kanda,70,6,शासनात्तु नरेन्द्रस्य प्रययुश्शीघ्रवाजिभि:। समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथा।।1.70.6।। Bala Kanda,70,7,साङ्काश्यां ते समागत्य ददृशुश्च कुशध्वजम्। न्यवेदयन्यथावृत्तं जनकस्य च चिन्तितम्।।1.70.7।। Bala Kanda,70,8,तद्वृत्तं नृपति श्शृत्वा दूतश्रेष्ठैर्महाबलै:। अज्ञायाऽथ नरेन्द्रस्य आजगाम कुशध्वज:।।1.70.8।। Bala Kanda,70,9,स ददर्श महात्मानं जनकं धर्मवत्सलम्। सोऽभिवाद्य शतानन्दं राजानं चापि धार्मिकम्।।1.70.9।। राजार्हं परमं दिव्यमासनं चाऽध्यरोहत। Bala Kanda,70,10,उपविष्टावुभौ तौ तु भ्रातरावतितेजसौ।।1.70.10।। प्रेषयामासतुर्वीरौ मन्त्रिश्रेष्ठं सुदामनम्। Bala Kanda,70,11,गच्छ मन्त्रिपते शीघ्रमैक्ष्वाकुममितप्रभम्।।1.70.11।। आत्मजैस्सह दुर्धर्षमानयस्व समन्त्रिणम्। Bala Kanda,70,12,औपकार्यां स गत्वा तु रघूणां कुलवर्धनम्।।1.70.12।। ददर्श शिरसा चैनमभिवाद्येदमब्रवीत्। Bala Kanda,70,13,अयोध्याधिपते वीर वैदेहो मिथिलाधिप:।।1.70.13।। स त्वां द्रष्टुं व्यवसितस्सोपाध्यायपुरोहितम्। Bala Kanda,70,14,मंत्रिश्रेष्ठवच श्शृत्वा राजा सर्षिगणस्तदा।।1.70.14।। सबंधुरगमत्तत्र जनको यत्र वर्तते। Bala Kanda,70,15,स राजा मन्त्रिसहित स्सोपाध्याय: सबान्धव:।।1.70.15।। वाक्यं वाक्यविदां श्रेष्ठो वैदेहमिदमब्रवीत्। Bala Kanda,70,16,विदितं ते महाराज इक्ष्वाकुकुलदैवतम्।।1.70.16।। वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवानृषि:। Bala Kanda,70,17,विश्वामित्राभ्यनुज्ञातस्सह सर्वैर्महर्षिभि:।।1.70.17।। एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम्। Bala Kanda,70,18,एवमुक्त्वा नरश्रेष्ठे राज्ञां मध्ये महात्मनाम्।।1.70.18।। Bala Kanda,70,19,तूष्णींभूते दशरथे वसिष्ठो भगवानृषि:। उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोधसम्।।1.70.19।। Bala Kanda,70,20,अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्यय:। तस्मान्मरीचि स्संजज्ञे मरीचे: काश्यप: सुत:।।1.70.20।। Bala Kanda,70,21,विवस्वान् काश्यपाज्जज्ञे मनुर्वैवस्वत स्स्मृत:। मनु: प्रजापति: पूर्वमिक्ष्वाकुस्तु मनोस्सुत:।।1.70.21।। Bala Kanda,70,22,तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम्। इक्ष्वाकोस्तु सुतश्श्रीमान् कुक्षिरित्येव विश्रुत:।।1.70.22।। Bala Kanda,70,23,कुक्षेरथात्मज: श्रीमान् विकुक्षिरुदपद्यत। विकुक्षेस्तु महातेजा बाण: पुत्र: प्रतापवान्।।1.70.23।। Bala Kanda,70,24,बाणस्य तु महातेजा अनरण्य: प्रतापवान्। अनरण्यात्पृथुर्जज्ञे त्रिशङ्कुस्तु पृथोस्सुत:।।1.70.24।। Bala Kanda,70,25,त्रिशङ्कोरभवत्पुत्रो दुन्दुमारो महायशा:। युवनाश्वसुतस्त्वासीन्मान्धाता पृथिवीपति:।।1.70.25।। Bala Kanda,70,26,मान्धातुस्तु सुत श्श्रीमान् सुसन्धिरुदपद्यत। सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धि: प्रसेनजित्।।1.70.26।। Bala Kanda,70,27,यशस्वी ध्रुवसन्धेस्तु भरतो नाम नामत:। भरतात्तु महातेजा असितो नाम जातवान्।।1.70.27।। Bala Kanda,70,28,यस्यैते प्रतिराजान उदपद्यन्त शत्रव:। हैहयास्तालजंघाश्च शूराश्च शशिबिन्दव:।।1.70.28।। Bala Kanda,70,29,तांस्तु स प्रतियुध्यन् वै युद्धे राजा प्रवासित:। हिमवन्तमुपागम्य भृगुप्रस्रवणेऽवसत्।।1.70.29।। असितोऽल्पबलो राजा मन्त्रिभिस्सहितस्तदा। Bala Kanda,70,30,द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतम्।।1.70.30।। एका गर्भविनाशाय सपत्न्यै सगरं ददौ। Bala Kanda,70,31,तत श्शैलवरं रम्यं बभूवाभिरतो मुनि:।।1.70.31।। भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रित:। Bala Kanda,70,32,तत्रैका तु महाभागा भार्गवं देववर्चसम्।।1.70.32।। ववन्दे पद्मपत्राक्षी काङ्क्षन्ती सुतमात्मन:। Bala Kanda,70,33,तमृषिं साऽभ्युपागम्य कालिंदी चाभ्यवादयत्।।1.70.33।। स तामभ्यवदद्विप्र: पुत्रेप्सुं पुत्रजन्मनि। Bala Kanda,70,34,तव कुक्षौ महाभागे सुपुत्रस्सुमहाबल:।।1.70.34।। Bala Kanda,70,35,महावीर्यो महातेजा अचिरात्सञ्जनिष्यति। गरेण सहित श्श्रीमान् मा शुच: कमलेक्षणे।।1.70.35।। Bala Kanda,70,36,च्यवनं तु नमस्कृत्य राजपुत्री पतिव्रता। पतिशोकातुरा तस्मात्पुत्रं देवी व्यजायत।।1.70.36।। Bala Kanda,70,37,सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया। सह तेन गरेणैव जात: स सगरोऽभवत्।।1.70.37।। Bala Kanda,70,38,सगरस्यासमञ्जस्तु असमञ्जात्तथांऽशुमान्। दिलीपोंऽशुमत: पुत्रो दिलीपस्य भगीरथ:।।1.70.38।। Bala Kanda,70,39,भगीरथात्ककुत्स्थश्च ककुत्स्थस्य रघुस्सुत:। रघोस्तु पुत्रस्तेजस्वी प्रवृद्ध: पुरुषादक:।।1.70.39।। कल्माषपादो ह्यभवत्तस्माज्जातस्तु शंखण:। Bala Kanda,70,40,सुदर्शन: शङ्घणस्य अग्निवर्ण स्सुदर्शनात्।।1.70.40।। Bala Kanda,70,41,शीघ्रगस्त्वग्निवर्णस्य शीघ्रगस्य मरु स्सुत:। मरो: प्रशुश्रुकस्त्वासीदम्बरीष: प्रशुश्रृकात्।।1.70.41।। Bala Kanda,70,42,अम्बरीषस्य पुत्रोऽभून्नहुष: पृथिवीपति:। नहुषस्य ययातिस्तु नाभागस्तु ययातिज:।।1.70.42।। Bala Kanda,70,43,नाभागस्य बभूवाज: अजाद्दशरथोऽभवत्। अस्माद्दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ।।1.70.43।। Bala Kanda,71,1,एवं ब्रुवाणं जनक: प्रत्युवाच कृताञ्जलि:। श्रोतुमर्हसि भद्रं ते कुलं न: परिकीर्तितम्।।1.71.1।। Bala Kanda,71,2,प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषत:। वक्तव्यं कुलजातेन तन्निबोध महामुने।।1.71.2।। Bala Kanda,71,3,राजाऽभूत् त्रिषु लोकेषु विश्रुत स्स्वेन कर्मणा। निमि: परमधर्मात्मा सर्वसत्त्ववतां वर:।।1.71.3।। Bala Kanda,71,4,तस्य पुत्रोमिथिर्नाम मिथिला येन निर्मिता। प्रथमो जनको नाम जनकादप्युदावसु:।।1.71.4।। Bala Kanda,71,5,उदावसोस्तु धर्मात्मा जातो वै नन्दिवर्धन:। नन्दिवर्धनपुत्रस्तु सुकेतुर्नाम नामत:।।1.71.5।। Bala Kanda,71,6,सुकेतोरपि धर्मात्मा देवरातो महाबल:। देवरातस्य राजर्षेर्बृहद्रथ इति स्मृत:।।1.71.6।। Bala Kanda,71,7,बृहद्रथस्य शूरोऽभून्महावीर: प्रतापवान्। महावीरस्य धृतिमान् सुधृतिस्सत्यविक्रम:।।1.71.7।। Bala Kanda,71,8,सुधृतेरपि धर्मात्मा दृष्टकेतुस्सुधार्मिक:। दृष्टकेतोस्तु राजर्षेर्हर्यश्व इति विश्रुत:।।1.71.8।। Bala Kanda,71,9,हर्यश्वस्य मरु: पुत्रो मरो: पुत्र: प्रतिन्धक:। प्रतिंधकस्य धर्मात्मा राजा कीर्तिरथस्सुत:।।1.71.9।। Bala Kanda,71,10,पुत्र: कीर्तिरथस्यापि देवमीढ इति स्मृत:। देवमीढस्य विबुधो विबुधस्य महीध्रक:।।1.71.10।। Bala Kanda,71,11,महीध्रकसुतो राजा कीर्तिरातो महाबल:। कीर्तिरातस्य राजर्षेर्महारोमा व्यजायत।।1.71.11।। Bala Kanda,71,12,महारोम्णस्तु धर्मात्मा स्वर्णरोमा व्यजायत। स्वर्णरोम्णस्तु राजर्षेर्ह्रस्वरोमा व्यजायत।।1.71.12।। Bala Kanda,71,13,तस्य पुत्रद्वयं जज्ञे धर्मज्ञस्य महात्मन:। ज्येष्ठोऽहमनुजो भ्राता मम वीर: कुशध्वज:।।1.71.13।। Bala Kanda,71,14,मां तु ज्येष्ठं पिता राज्ये सोऽभिषिच्य नराधिप:। कुशध्वजं समावेश्य भारं मयि वनं गत:।।1.71.14।। Bala Kanda,71,15,वृद्धे पितरि स्वर्याते धर्मेण धुरमावहम्। भ्रातरं देवसङ्काशं स्नेहात्पश्यन् कुशध्वजम्।।1.71.15।। Bala Kanda,71,16,कस्य चित्त्वथकालस्य साङ्काश्यादगमत्पुरात्। सुधन्वा वीर्यवान्राजा मिथिलामवरोधक:।।1.71.16।। Bala Kanda,71,17,स च मे प्रेषयामास शैवं धनुरनुत्तमम्। सीता कन्या च पद्माक्षी मह्यं वै दीयतामिति।।1.71.17।। Bala Kanda,71,18,तस्याप्रदानाद्ब्रह्मर्षे युद्धमासीन्मया सह। स हतोऽभिमुखो राजा सुधन्वा तु मया रणे।।1.71.18।। Bala Kanda,71,19,निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम्। साङ्काश्ये भ्रातरं वीरमभ्यषिञ्चं कुशध्वजम्।।1.71.19।। Bala Kanda,71,20,कनीयानेष मे भ्राता अहं ज्येष्ठो महामुने। ददामि परमप्रीतो वध्वौ ते मुनिपुङ्गव।।1.71.20।। सीतां रामाय भद्रं ते ऊर्मिला लक्ष्मणाय च। Bala Kanda,71,21,वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम् ।।1.71.21।। द्वितीयामूर्मिलां चैव त्रिर्ददामि न संशय:। Bala Kanda,71,22,ददामि परमप्रीतो वध्वौ ते रघुनन्दन।।1.71.22।। Bala Kanda,71,23,रामलक्ष्मणयो राजन् गोदानं कारयस्व ह। पितृकार्यं च भद्रं ते ततो वैवाहिकं कुरु।।1.71.23।। Bala Kanda,71,24,मखा ह्यद्य महाबाहो तृतीये दिवसे प्रभो। फल्गुन्यामुत्तरे राजंस्तस्मिन्वैवाहिकं कुरु।।1.71.24।। रामलक्ष्मणयो राजन् दानं कार्यं सुखोदयम् ।। Bala Kanda,72,1,तमुक्तवन्तं वैदेहं विश्वामित्रो महामुनि:। उवाच वचनं वीरं वसिष्ठसहितो नृपम्।।1.72.1।। Bala Kanda,72,2,अचिन्त्यान्यप्रमेयानि कुलानि नरपुङ्गव। इक्ष्वाकूणां विदेहानां नैषां तुल्योऽस्ति कश्चन।।1.72.2।। Bala Kanda,72,3,सदृशो धर्मसम्बन्ध: सदृशो रूपसम्पदा। रामलक्ष्मणयो राजन् सीता चोर्मिलया सह।।1.72.3।। Bala Kanda,72,4,वक्तव्यं च नरश्रेष्ठ श्रूयतां वचनं मम। भ्राता यवीयान् धर्मज्ञ एष राजा कुशध्वज:।।1.72.4।। Bala Kanda,72,5,अस्य धर्मात्मनो राजन् रूपेणाप्रतिमं भुवि । सुताद्वयं नरश्रेष्ठ पत्न्यर्थं वरयामहे।।1.72.5।। Bala Kanda,72,6,भरतस्य कुमारस्य शत्रुघ्नस्य च धीमत:। वरयामस्सुते राजन् तयोरर्थे महात्मनो:।।1.72.6।। Bala Kanda,72,7,पुत्रा दशरथस्येमे रूपयौवनशालिन:। लोकपालोपमास्सर्वे देवतुल्यपराक्रमा:।।1.72.7।। Bala Kanda,72,8,उभयोरपि राजेन्द्र सम्बन्धेनानुबध्यताम्। इक्ष्वाको: कुलमव्यग्रं भवत:पुण्यकर्मण:।।1.72.8।। Bala Kanda,72,9,विश्वामित्रवच श्शृत्वा वसिष्ठस्य मते तदा। जनक: प्रांजलिर्वाक्यमुवाच मुनिपुङ्गवौ।।1.72.9।। Bala Kanda,72,10,कुलं धन्यमिदं मन्ये येषां नो मुनिपुङ्गवौ । सदृशं कुलसम्बन्धं यदाज्ञापयथ: स्वयम्।।1.72.10।। Bala Kanda,72,11,एवं भवतु भद्रं व: कुशध्वजसुते इमे। पत्न्यौ भजेतां सहितौ शत्रुघ्नभरतावुभौ।।1.72.11।। Bala Kanda,72,12,एकाह्ना राजपुत्रीणां चतसृणां महामुने। पाणीन् गृह्णन्तु चत्वारो राजपुत्रा महाबला:।।1.72.12।। Bala Kanda,72,13,उत्तरे दिवसे ब्रह्मन् फल्गुनीभ्यां मनीषिण:। वैवाहिकं प्रशंसन्ति भगो यत्र प्रजापति:।।1.72.13।। Bala Kanda,72,14,एवमुक्त्वा वचस्सौम्यं प्रत्युत्थाय कृताञ्जलि:। उभौ मुनिवरौ राजा जनको वाक्यमब्रवीत्।।1.72.14।। Bala Kanda,72,15,परो धर्म: कृतो मह्यं शिष्योऽस्मिभवतो सदा। इमान्यासनमुख्यानि आसातां मुनिपुङ्गवौ।।1.72.15।। Bala Kanda,72,16,यथा दशरथस्येयं तथाऽयोध्या पुरी मम। प्रभुत्वे नास्ति सन्देहो यथार्हं कर्तुमर्हथ।।1.72.16।। Bala Kanda,72,17,तथा ब्रुवति वैदेहे जनके रघुनन्दन:। राजा दशरथो हृष्ट: प्रत्युवाच महीपतिम्।।1.72.17।। Bala Kanda,72,18,युवामसङ्ख्येयगुणौ भ्रातरौ मिथिलेश्वरौ। ऋषयो राजसङ्घाश्च भवद्भ्यामभिपूजिता:।।1.72.18।। Bala Kanda,72,19,स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामि स्वमालयम्। श्राद्धकर्माणि सर्वाणि विधास्यामीति चाब्रवीत्।।1.72.19।। Bala Kanda,72,20,तमापृष्ट्वा नरपतिं राजा दशरथस्तदा। मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशा:।।1.72.20।। Bala Kanda,72,21,स गत्वा निलयं राजा श्राद्धं कृत्वा विधानत:। प्रभाते काल्यमुत्थाय चक्रे गोदानमुत्तमम्।।1.72.21।। Bala Kanda,72,22,गवां शतसहस्राणि ब्राह्मणेभ्यो नराधिप:। एकैकशो ददौ राजा पुत्रानुद्दिश्य धर्मत:।।1.72.22।। Bala Kanda,72,23,सुवर्णश्रुङ्गा स्सम्पन्ना स्सवत्सा: कांस्यदोहना:। गवां शतसहस्राणि चत्वारि पुरुषर्षभ:।।1.72.23।। Bala Kanda,72,24,वित्तमन्यच्च सुबहुद्विजेभ्यो रघुनन्दन:। ददौ गोदानमुद्दिश्य पुत्राणां पुत्रवत्सल:।।1.72.24।। Bala Kanda,72,25,स सुतै: कृतगोदानैर्वृतस्तु नृपतिस्तदा। लोकपालैरिवाभाति वृत: स्सौम्य: प्रजापति:।।1.72.25।। Bala Kanda,73,1,यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम् । तस्मिं स्तु दिवसे शूरो युधाजित्समुपेयिवान्।।1.73.1।। Bala Kanda,73,2,पुत्र: केकयराजस्य साक्षाद्भरतमातुल:। दृष्ट्वा पृष्ट्वा च कुशलं राजानमिदमब्रवीत्।।1.73.2।। Bala Kanda,73,3,केकयाधिपती राजा स्नेहात् कुशलमब्रवीत् । येषां कुशलकामोऽसि तेषां सम्प्रत्यनामयम् ।।1.73.3।। Bala Kanda,73,4,स्वस्रीयं मम राजेन्द्र द्रष्टुकामो महीपति:। तदर्थमुपयातोऽहमयोध्यां रघुनन्दन।।1.73.4।। Bala Kanda,73,5,श्रुत्वा त्वहमयोध्यायां विवाहार्थं तवात्मजान् । मिथिलामुपयातांस्तु त्वया सह महीपते।।1.73.5।। त्वरयाभ्युपयातोऽहं द्रष्टुकाम स्स्वसुस्सुतम्। Bala Kanda,73,6,अथ राजा दशरथ: प्रियातिथिमुपस्थितम्।।1.73.6।। दृष्ट्वा परमसत्कारै: पूजार्हं समपूजयत्। Bala Kanda,73,7,ततस्तामुषितो रात्रिं सह पुत्रैर्महात्मभि:।।1.73.7।। Bala Kanda,73,8,प्रभाते पुनरुत्थाय कृत्वा कर्माणि कर्मवित् । ऋषींस्तदा पुरस्कृत्य यज्ञवाटमुपागमत्।।1.73.8।। Bala Kanda,73,9,युक्ते मुहूर्ते विजये सर्वाभरणभूषितै:। भ्रातृभिस्सहितो राम: कृतकौतुकमंगल:।।1.73.9।। Bala Kanda,73,10,वसिष्ठं पुरत: कृत्वा महर्षीनपरानपि। पितु स्समीपमाश्रित्य तस्थौ भ्रातृभिरावृत:।।1.73.10।। Bala Kanda,73,11,वसिष्ठो भगवानेत्य वैदेहमिदमब्रवीत्। राजा दशरथो राजन् कृतकौतुकमङ्गलै:।।1.73.11।। पुत्रैर्नरवर श्रेष्ठ दातारमभिकाङ्क्षते। Bala Kanda,73,12,दातृप्रतिग्रहीतृभ्यां सर्वार्था: प्रभवन्ति हि।।1.73.12।। स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम्। Bala Kanda,73,13,इत्युक्त: परमोदारो वसिष्ठेन महात्मना।।1.73.13।। प्रत्युवाच महातेजा वाक्यं परमधर्मवित्। Bala Kanda,73,14,कस्स्थित: प्रतिहारो मे कस्याज्ञा सम्प्रतीक्ष्यते।।1.73.14।। स्वगृहे को विचारोऽस्ति यथा राज्यमिदं तव। Bala Kanda,73,15,कृतकौतुकसर्वस्वा वेदिमूलमुपागता:।।1.73.15।। मम कन्या मुनिश्रेष्ठ दीप्ता वह्नेरिवार्चिष:। Bala Kanda,73,16,सज्जोऽहं त्वत्प्रतीक्षोऽस्मि वेद्यामस्यां प्रतिष्ठित:।।1.73.16।। अविघ्नं कुरुतां राजा किमर्थमवलम्बते। Bala Kanda,73,17,तद्वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा। प्रवेशयामास सुतान् सर्वानृषिगणानपि।।1.73.17।। Bala Kanda,73,18,ततो राजा विदेहानां वसिष्ठमिदमब्रवीत्।।1.73.18।। Bala Kanda,73,19,कारयस्व ऋषे सर्वमृषिभि: सह धार्मिक। रामस्य लोकरामस्य क्रियां वैवाहिकीं विभो।।1.73.19।। Bala Kanda,73,20,तथेत्युक्त्वा तु जनकं वसिष्ठो भगवानृषि:। विश्वामित्रं पुरस्कृत्य शतानन्दं च धार्मिकम्।।1.73.20।। Bala Kanda,73,21,प्रपामध्ये तु विधिवत्वेदिं कृत्वा महातपा: । अलञ्चकार तां वेदिं गन्धपुष्पै स्समन्तत: ।।1.73.21।। Bala Kanda,73,22,सुवर्णपालिकाभिश्च छिद्रकुम्भैश्च साङ्कुरै:। अङ्कुराढ्यैश्शरावैश्च धूपपात्रै स्सधूपकै:।।1.73.22।। Bala Kanda,73,23,शङ्खपात्रै स्स्रुवै स्स्रुग्भि: पात्रैरर्घ्याभिपूरितै:। लाजपूर्णैश्च पात्रीभिरक्षतैरभिसंस्कृतै:।।1.73.23।। Bala Kanda,73,24,दर्भैस्समैस्समास्तीर्य विधिवन्मन्त्रपूर्वकम्। अग्निमादाय वेद्यां तु विधिमन्त्रपुरस्कृतम्।।1.73.24।। जुहावाग्नौ महातेजा वसिष्ठो भगवानृषि:। Bala Kanda,73,25,ततस्सीतां समानीय सर्वाभरणभूषिताम्।।1.73.25।। Bala Kanda,73,26,समक्षमग्ने स्संस्थाप्य राघवाभिमुखे तदा। अब्रवीज्जनको राजा कौसल्यानन्दवर्धनम्।।1.73.26।। Bala Kanda,73,27,इयं सीता मम सुता सहधर्मचरी तव। प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना।।1.73.27।। Bala Kanda,73,28,पतिव्रता महाभागा छायेवानुगता सदा। इत्युक्त्वा प्राक्षिपद्राजा मन्त्रपूतं जलं तदा।।1.73.28।। Bala Kanda,73,29,साधु साध्विति देवाना मृषीणां वदतां तदा । देवदुन्दुभिर्निर्घोष: पुष्पवर्षो महानभूत्।।1.73.29।। Bala Kanda,73,30,एवं दत्त्वा तदा सीतां मन्त्रोदकपुरस्कृताम् । अब्रवीज्जनको राजा हर्षेणाभिपरिप्लुत:।।1.73.30।। Bala Kanda,73,31,लक्ष्मणागच्छ भद्रं ते ऊर्मिलामुद्यतां मया। प्रतीच्छ पाणिं गृह्णीष्व माभूत्कालस्य पर्यय:।।1.73.31।। Bala Kanda,73,32,तमेवमुक्त्वा जनको भरतं चाभ्यभाषत। गृहाण पाणिं माण्डव्या: पाणिना रघुनन्दन ।।1.73.32।। Bala Kanda,73,33,शत्रुघ्नं चापि धर्मात्मा अब्रवीज्जनकेश्वर:। श्रुतकीर्त्या महाबाहो पाणिं गृह्णीष्व पाणिना।।1.73.33।। Bala Kanda,73,34,सर्वे भवन्तस्सौम्याश्च सर्वे सुचरितव्रता:। पत्नीभिस्सन्तु काकुत्स्था माभूत्कालस्य पर्यय:।।1.73.34।। Bala Kanda,73,35,जनकस्य वच श्शृत्वा पाणीन् पाणिभिरास्पृशन्। चत्वारस्ते चतसृ़णां वसिष्ठस्य मते स्थिता:।।1.73.35।। Bala Kanda,73,36,अग्निं प्रदक्षिणीकृत्य वेदिं राजानमेव च। ऋषींश्चैव महात्मानस्सभार्या रघुसत्तमा:।।1.73.36।। यथोक्तेन तदा चक्रुर्विवाहं विधिपूर्वकम्। Bala Kanda,73,37,काकुत्स्थैश्च गृहीतेषु ललितेषु च पाणिषु।।1.73.37।। पुष्पवृष्टिर्महत्यासीदन्तरिक्षात्सुभास्वरा। Bala Kanda,74,1,अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः। आपृष्ट्वा तौ च राजानौ जगामोत्तरपर्वतम् ।।1.74.1।। आशीर्भि: पूरयित्वा च कुमारांश्च सराघवान्। Bala Kanda,74,2,विश्वामित्रे गते राजा वैदेहं मिथिलाधिपम् । आपृष्ट्वाऽथ जगामाशु राजा दशरथ: पुरीम्।।1.74.2।। Bala Kanda,74,3,गच्छन्तं तं तु राजानमन्वगच्छन्नराधिप:।।1.74.3।। अथ राजा विदेहानां ददौ कन्याधनं बहु। Bala Kanda,74,4,गवां शतसहस्राणि बहूनि मिथिलेश्वर:। कम्बलानां च मुख्यानां क्षौमकोट्यंबराणि च।।1.74.4।। Bala Kanda,74,5,हस्त्यश्वरथपादातं दिव्यरूपं स्वलङ्कृतम् । ददौ कन्यापिता तासां दासीदासमनुत्तमम् ।।1.74.5।। Bala Kanda,74,6,हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च।।1.74.6।। ददौ परमसंहृष्ट: कन्याधनमनुत्तमम्। Bala Kanda,74,7,दत्त्वा बहु धनं राजा समनुज्ञाप्य पार्थिवम्।।1.74.7।। प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वर:। Bala Kanda,74,8,राजाऽप्ययोध्याधिपतिस्सह पुत्रैर्महात्मभि:। ऋषीन् सर्वान् पुरस्कृत्य जगाम सबलानुग:।।1.74.8।। Bala Kanda,74,9,गच्छन्तं तं नरव्याघ्रं सर्षिसङ्घं सराघवम्।।1.74.9।। घोरा: स्म पक्षिणो वाचो व्याहरन्ति ततस्तत:। Bala Kanda,74,10,भौमाश्चैव मृगा स्सर्वे गच्छन्ति स्म प्रदक्षिणम्।।1.74.10।। तान् दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत। Bala Kanda,74,11,असौम्या: पक्षिणो घोरा मृगाश्चापि प्रदक्षिणा:।।1.74.11।। किमिदं हृदयोत्कम्पि मनो मम विषीदति। Bala Kanda,74,12,राज्ञो दशरथस्यैतच्छ्रुत्वा वाक्यं महानृषि:।।1.74.12।। उवाच मधुरां वाणीं श्रूयतामस्य यत्फलम्। Bala Kanda,74,13,उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच्च्युतम्।।1.74.13।। मृगा: प्रशमयन्त्येते सन्तापस्त्यज्यतामयम्। Bala Kanda,74,14,तेषां संवदतां तत्र वायु: प्रादुर्बभूव ह।।1.74.14।। कम्पयन् पृथिवीं सर्वां पातयंश्च द्रुमांच्छुभान्। Bala Kanda,74,15,तमसा संवृतस्सूर्य स्सर्वा न प्रबभुर्दिश।।1.74.15।। भस्मना चावृतं सर्वं संमूढमिव तद्बलम्। Bala Kanda,74,16,वसिष्ठश्चर्षयश्चान्ये राजा च ससुतस्तदा ।।1.74.16।। संसज्ञा इव तत्रासन् सर्वमन्यद्विचेतनम्। Bala Kanda,74,17,तस्मिंस्तमसि घोरे तु भस्मच्छन्नेव सा चमू:।।1.74.17।। Bala Kanda,74,18,ददर्श भीमसङ्काशं जटामण्डलधारिणम्। भार्गवं जामदग्न्यं तं राजराजविमर्दिनम्।।1.74.18।। Bala Kanda,74,19,कैलासमिव दुर्धर्षं कालाग्निमिव दुस्सहम्। ज्वलंतमिव तेजोभिर्दुर्निरीक्ष्यं पृथग्जनै:।।1.74.19।। Bala Kanda,74,20,स्कन्धे चासज्य परशुं धनुर्विद्युद्गणोपमम् । प्रगृह्य शरमुख्यं च त्रिपुरघ्नं यथा शिवम्।।1.74.20।। Bala Kanda,74,21,तं दृष्ट्वा भीमसङ्काशं ज्वलन्तमिव पावकम्। वसिष्ठप्रमुखा विप्रा जपहोमपरायणा:।।1.74.21।। सङ्गता मुनयस्सर्वे सञ्जजल्पुरथो मिथ:। Bala Kanda,74,22,कच्चित्पितृवधामर्षी क्षत्रं नोत्सादयिष्यति।।1.74.22।। Bala Kanda,74,23,पूर्वं क्षत्रवधं कृत्वा गतमन्युर्गतज्वर:। क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम्।।1.74.23।। Bala Kanda,74,24,एवमुक्त्वाऽर्घ्यमादाय भार्गवं भीमदर्शनम्। ऋषयो राम रामेति वचो मधुरमब्रुवन्।।1.74.24।। Bala Kanda,74,25,प्रतिगृह्य तु तां पूजामृषिदत्तां प्रतापवान्। रामं दाशरथिं रामो जामदग्न्योऽभ्यभाषत।।1.74.25।। Bala Kanda,75,1,राम दाशरथे राम वीर्यं ते श्रूयतेऽद्भुतम्। धनुषो भेदनं चैव निखिलेन मया श्रुतम्।।1.75.1।। Bala Kanda,75,2,तदद्भुतमचिन्त्यं च भेदनं धनुषस्त्वया। तच्छ्रुत्वाऽहमनुप्राप्तो धनुर्गृह्यापरं शुभम्।।1.75.2।। Bala Kanda,75,3,तदिदं घोरसङ्काशं जामदग्न्यं महद्धनु:। पूरयस्व शरेणैव स्वबलं दर्शयस्व च।।1.75.3।। Bala Kanda,75,4,तदहं ते बलं दृष्ट्वा धनुषोऽस्य प्रपूरणे। द्वन्द्वयुद्धं प्रदास्यामि वीर्यश्लाघ्यस्य राघव।।1.75.4।। Bala Kanda,75,5,तस्य तद्वचनं श्रुत्वा राजा दशरथस्तदा। विषण्णवदनो दीन: प्राञ्जलिर्वाक्यमब्रवीत्।।1.75.5।। Bala Kanda,75,6,क्षत्ररोषात्प्रशान्तस्त्वं ब्राह्मणश्च महायशा:। बालानां मम पुत्राणामभयं दातुमर्हसि।।1.75.6।। Bala Kanda,75,7,भार्गवाणां कुले जात: स्वाध्यायव्रतशालिनाम्। सहास्राक्षे प्रतिज्ञाय शस्त्रं निक्षिप्तवानसि।।1.75.7।। Bala Kanda,75,8,स त्वं धर्मपरो भूत्वा काश्यपाय वसुन्धराम् । दत्त्वा वनमुपागम्य महेन्द्रकृतकेतन:।।1.75.8।। Bala Kanda,75,9,मम सर्वविनाशाय सम्प्राप्तस्त्वं महामुने। न चैकस्मिन् हते रामे सर्वे जीवामहे वयम् ।।1.75.9।। Bala Kanda,75,10,ब्रुवत्येवं दशरथे जामदग्न्य: प्रतापवान्। अनादृत्यैव तद्वाक्यं राममेवाभ्यभाषत।।1.75.10।। Bala Kanda,75,11,इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिविश्रुते। दृढे बलवती मुख्ये सुकृते विश्वकर्मणा।।1.75.11।। Bala Kanda,75,12,अतिसृष्टं सुरैरेकं त्र्यम्बकाय युयुत्सवे। त्रिपुरघ्नं नरश्रेष्ठ भग्नं काकुत्स्थ यत्त्वया।।1.75.12।। Bala Kanda,75,13,इदं द्वितीयं दुर्धर्षं विष्णोर्दत्तं सुरोत्तमै:। तदिदं वैष्णवं राम धनु: परमभास्वरम्। समानसारं काकुत्स्थ रौद्रेण धनुषा त्विदम्।।1.75.13।। Bala Kanda,75,14,तदा तु देवतास्सर्वा: पृच्छन्ति स्म पितामहम्। शितिकण्ठस्य विष्णोश्च बलाबलनिरीक्षया।।1.75.14।। Bala Kanda,75,15,अभिप्रायं तु विज्ञाय देवतानां पितामह:। विरोधं जनयामास तयो स्सत्यवतां वर:।।1.75.15।। Bala Kanda,75,16,विरोधे च महद्युद्धमभवद्रोमहर्षणम् । शितिकण्ठस्य विष्णोश्च परस्परजिगीषुणो:।।1.75.16।। Bala Kanda,75,17,तदा तु जृम्भितं शैवं धनुर्भीमपराक्रमम्। हुङ्कारेण महादेव स्तम्भितोऽथ त्रिलोचन:।।1.75.17।। Bala Kanda,75,18,देवैस्तदा समागम्य सर्षिसघै स्सचारणै:। याचितौ प्रशमं तत्र जग्मतुस्तौ सुरोत्तमौ।।1.75.18।। Bala Kanda,75,19,जृम्भितं तद्धनुर्द्रृष्ट्वा शैवं विष्णुपराक्रमै:। अधिकं मेनिरे विष्णुं देवा स्सर्षिगणास्तदा ।।1.75.19।। Bala Kanda,75,20,धनू रुद्रस्तु सङ्कृद्धो विदेहेषु महायशा:। देवरातस्य राजर्षेर्ददौ हस्ते ससायकम्।।1.75.20।। Bala Kanda,75,21,इदं च वैष्णवं राम धनु: परपुरञ्जयम्। ऋचीके भार्गवे प्रादाद्विष्णु: स न्यासमुत्तमम्।।1.75.21।। Bala Kanda,75,22,ऋचीकस्तु महातेजा: पुत्रस्याप्रतिकर्मण:। पितुर्मम ददौ दिव्यं जमदग्नेर्महात्मन:।।1.75.22।। Bala Kanda,75,23,न्यस्तशस्त्रे पितरि मे तपोबलसमन्विते। अर्जुनो विदधे मृत्युं प्राकृतां बुद्धिमास्थित:।।1.75.23।। Bala Kanda,75,24,वधमप्रतिरूपं तु पितु श्शृत्वा सुदारुणम्। क्षत्रमुत्सादयन्रोषाज्जातं जातमनेकश:।।1.75.24।। Bala Kanda,75,25,पृथिवीं चाखिलां प्राप्य काश्यपाय महात्मने । यज्ञस्यान्ते तदा राम दक्षिणां पुण्यकर्मणे । दत्त्वा महेन्द्रनिलयस्तपोबलसमन्वित:।।1.75.25।। Bala Kanda,75,26,अद्यतूत्तमवीर्येण त्वया राम महाबल। श्रुतवान् धनुषो भेदं ततोऽहं द्रुतमागत:।।1.75.26।। Bala Kanda,75,27,तदिदं वैष्णवं राम पितृपैतामहं महत्। क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व धनुरुत्तमम्।।1.75.27।। Bala Kanda,75,28,योजयस्व धनुश्श्रेष्ठे शरं परपुरञ्जयम्। यदि शक्नोषि काकुत्स्थ द्वन्द्वं दास्यामि ते तत:।।1.75.28।। Bala Kanda,76,1,श्रुत्वा तज्जामदग्न्यस्य वाक्यं दाशरथिस्तदा। गौरवाद्यंन्त्रितकथ: पितू राममथाब्रवीत्।।1.76.1।। Bala Kanda,76,2,श्रुतवानस्मि यत्कर्म कृतवानसि भार्गव। अनुरुंध्यामहे ब्रह्मन् पितुरानृण्यमास्थितम्।।1.76.2।। Bala Kanda,76,3,वीर्यहीनमिवाशक्तं क्षत्रधर्मेण भार्गव। अवजानासि मे तेज: पश्य मेऽद्य पराक्रमम्।।1.76.3।। Bala Kanda,76,4,इत्युक्त्वा राघव: क्रुद्धो भार्गवस्य शरासनम्। शरं च प्रतिजग्राह हस्ताल्लघुपराक्रम:।।1.76.4।। Bala Kanda,76,5,आरोप्य स धनू राम श्शरं सज्यं चकार ह। जामदग्न्यं ततो रामं राम: क्रुद्धोऽब्रवीद्वच:।।1.76.5।। Bala Kanda,76,6,ब्राह्मणोऽसीति पूज्यो मे विश्वामित्रकृतेन च। तस्माच्छक्तो न ते राम मोक्तुं प्राणहरं शरम्।।1.76.6।। Bala Kanda,76,7,इमां पादगतिं राम तपोबलसमार्जिताम्। लोकानप्रतिमान्वा ते हनिष्यामि यदिच्छसि ।।1.76.7।। Bala Kanda,76,8,न ह्ययं वैष्णवो दिव्य श्शर: परपुरञ्जय:। मोघ: पतति वीर्येण बलदर्पविनाशनः।।1.76.8।। Bala Kanda,76,9,वरायुधधरं रामं द्रष्टुं सर्षिगणा स्सुरा:। पितामहं पुरस्कृत्य समेतास्तत्र सङ्घश:।।1.76.9।। Bala Kanda,76,10,गन्धर्वाप्सरसश्चैव सिद्धचारणकिन्नरा:। यक्षराक्षसनागाश्च तद्द्रष्टुं महदद्भुतम्।।1.76.10।। Bala Kanda,76,11,जडीकृते तदाऽलोके रामे वरधनुर्धरे। निर्वीर्यो जामदग्न्योऽसौ रामो राममुदैक्षत।।।1.76.11।। Bala Kanda,76,12,तेजोभिहतवीर्यत्वाज्जामदग्न्यो जडीकृत:। रामं कमलपत्राक्षं मन्दं मन्दमुवाच ह।।1.76.12।। Bala Kanda,76,13,काश्यपाय मया दत्ता यदा पूर्वं वसुन्धरा। विषये मे न वस्तव्यमिति मां काश्यपोऽब्रवीत्।।1.76.13।। Bala Kanda,76,14,सोऽहं गुरुवच: कुर्वन् पृथिव्यां न वसे निशाम्। कृता प्रतिज्ञा काकुत्स्थ कृता भू: काश्यपस्य हि।।1.76.14।। Bala Kanda,76,15,तदिमां त्वं गतिं वीर हन्तुं नार्हसि राघव। मनोजवं गमिष्यामि महेन्द्रं पर्वतोत्तमम्।।1.76.15।। Bala Kanda,76,16,लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया । जहि तान् शरमुख्येन मा भूत्कालस्य पर्यय:।।1.76.16।। Bala Kanda,76,17,अक्षय्यं मधुहन्तारं जानामि त्वां सुरेश्वरम्। धनुषोऽस्य परामर्शात् स्वस्ति तेऽस्तु परंतप।।1.76.17।। Bala Kanda,76,18,एते सुरगणास्सर्वे निरीक्षन्ते समागता:। त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे।।1.76.18।। Bala Kanda,76,19,न चेयं मम काकुत्स्थ व्रीडा भवितुमर्हति। त्वया त्रैलोक्यनाथेन यदहं विमुखीकृत:।।1.76.19।। Bala Kanda,76,20,शरमप्रतिमं राम मोक्तुमर्हसि सुव्रत। शरमोक्षे गमिष्यामि महेन्द्रं पर्वतोत्तमम्।।1.76.20।। Bala Kanda,76,21,तथा ब्रुवति रामे तु जामदग्नये प्रतापवान्। रामो दाशरथि श्श्रीमान् चिक्षेप शरमुत्तमम्।।1.76.21।। Bala Kanda,76,22,स हतान् दृश्य रामेण स्वांल्लोकांस्तपसार्जितान्। जामदग्न्यो जगामाशु महेन्द्रं पर्वतोत्तमम्।।1.76.22।। Bala Kanda,76,23,ततो वितिमिरास्सर्वा दिशश्चोपदिशस्तथा। सुरा स्सर्षिगणा रामं प्रशशंसुरुदायुधम्।।1.76.23।। Bala Kanda,76,24,रामं दाशरथिं रामो जामदग्न्य: प्रशस्य च। तत: प्रदक्षिणी कृत्य जगामात्मगतिं प्रभु:।।1.76.24।। Bala Kanda,77,1,गते रामे प्रशान्तात्मा रामो दाशरथिर्धनु:। वरुणायाप्रमेयाय ददौ हस्ते ससायकम्।।1.77.1।। Bala Kanda,77,2,अभिवाद्य ततो रामो वसिष्ठप्रमुखानृषीन्। पितरं विह्वलं दृष्ट्वा प्रोवाच रघुनन्दन:।।1.77.2।। Bala Kanda,77,3,जामदग्न्यो गतो राम: प्रयातु चतुरङ्गिणी। अयोध्याभिमुखी सेना त्वया नाथेन पालिता।।1.77.3।। Bala Kanda,77,4,सन्दिशस्व महाराज सेनां त्वच्छासने स्थिताम्। शासनं काङ्क्षते सेना चातकालिर्जलं यथा।।1.77.4।। Bala Kanda,77,5,रामस्य वचनं श्रुत्वा राजा दशरथ स्सुतम्। बाहुभ्यां सम्परिष्वज्य मूर्ध्नि चाघ्राय राघवम्।।1.77.5।। Bala Kanda,77,6,गतो राम इति श्रुत्वा हृष्ट: प्रमुदितो नृप:। पुनर्जातं तदा मेने पुत्रमात्मानमेव च।।1.77.6।। Bala Kanda,77,7,चोदयामास तां सेनां जगामाशु तत: पुरीम्। पताकाध्वजिनीं रम्यां तूर्योद्घुष्टनिनादिताम्।।1.77.7।। Bala Kanda,77,8,सिक्तराज पथां रम्यां प्रकीर्णकुसुमोत्कराम् । राजप्रवेशसुमुखै: पौरैर्मङ्गलवादिभि:।।1.77.8।। सम्पूर्णां प्राविशद्राजा जनौघैस्समलङ्कृताम्। Bala Kanda,77,9,पौरै: प्रत्युद्गतो दूरं द्विजैश्च पुरवासिभि:। पुत्रैरनुगत श्श्रीमान् श्रीमद्भिश्च महायशा: ।।1.77.9।। प्रविवेश गृहं राजा हिमवत्सदृशं पुनः। Bala Kanda,77,10,ननन्द सजनो राजा गृहे कामै स्सुपूजित:।।1.77.10।। Bala Kanda,77,11,कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा। वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषित:।।1.77.11।। Bala Kanda,77,12,ततस्सीतां महाभागामूर्मिलां च यशस्विनीम्। कुशध्वजसुते चोभे जगृहुर्नृपपत्नय:।।1.77.12।। Bala Kanda,77,13,मङ्गलालम्भनैश्चापि शोभिता: क्षौमवासस:। देवतायतनान्याशु सर्वास्ता: प्रत्यपूजयन्।।1.77.13।। Bala Kanda,77,14,अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा। स्वं स्वं गृहमथासाद्य कुबेरभवनोपमम्।।1.77.14।। Bala Kanda,77,15,गोभिर्धनैश्च धान्यैश्च तर्पयित्वा द्विजोत्तमान्। रेमिरे मुदिता: सर्वा भर्तृभि: सहिता रह:।।1.77.15।। Bala Kanda,77,16,कुमाराश्च महात्मानो वीर्येणाप्रतिमा भुवि । कृतदारा: कृतास्त्राश्च सधना: ससुहृज्जना:।।1.77.16।। शुश्रूषमाणा: पितरं वर्तयन्ति नरर्षभा:। Bala Kanda,77,17,कस्यचित्त्वथ कालस्य राजा दशरथ: सुतम्।1.77.17।। भरतं कैकयीपुत्र मब्रवीद्रघुनन्दन:। Bala Kanda,77,18,अयं केकयराजस्य पुत्रो वसति पुत्रक।।1.77.18।। त्वां नेतुमागतो वीर युधाजिन्मातुलस्तव। Bala Kanda,77,19,प्रार्थितस्तेन धर्मज्ञ मिधिलायामहं तथा।।1.77.19।। ऋषिमध्ये तु तस्य त्वं प्रीतिं कर्तुमिहार्हसि। Bala Kanda,77,20,श्रुत्वा दशरथस्यैतद्भरत: कैकयीसुत:।।1.77.20।। Bala Kanda,77,21,अभिवाद्य गुरुं रामं परिष्वज्य च लक्ष्मणम्। गमनायाभिचक्राम शत्रुघ्नसहितस्तदा।।1.77.21।। Bala Kanda,77,22,आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम्। मातृश्चापि नरश्रेष्ठ श्शत्रुघ्नसहितो ययौ।।1.77.22।। Bala Kanda,77,23,गते तु भरते रामो लक्ष्मणश्च महाबल:। पितरं देवसंङ्काशं पूजयामासतुस्तदा।।1.77.23।। Bala Kanda,77,24,पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वश:। चकार रामो धर्मात्मा प्रियाणि च हितानि च।।1.77.24।। Bala Kanda,77,25,मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रित:। गुरूणां गुरुकार्याणि काले कालेऽन्ववैक्षत।।1.77.25।। Bala Kanda,77,26,एवं दशरथ: प्रीतो ब्राह्मणा नैगमास्तथा। रामस्य शीलवृत्तेन सर्वे विषयवासिन:।।1.77.26।। Bala Kanda,77,27,तेषामतियशा लोके राम स्सत्यपराक्रमः। स्वयम्भूरिव भूतानां बभूव गुणवत्तर:।।1.77.27।। Bala Kanda,77,28,रामस्तु सीतया सार्धं विजहार बहूनृतून् । मनस्स्वी तद्गतस्तस्याः नित्यं हृदि समर्पित:।।1.77.28।। Bala Kanda,77,29,प्रिया तु सीता रामस्य दारा: पितृकृता इति। गुणाद्रूपगुणाच्चापि प्रीतिर्भूयोऽभ्यवर्धत।।1.77.29।। Bala Kanda,77,30,तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते। अन्तर्जातमपि व्यक्तमाख्याति हृदयं हृदा।।1.77.30।। Ayodhya Kanda,1,1,गच्छता मातुलकुलं भरतेन तदाऽनघ। शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः।।2.1.1।। Ayodhya Kanda,1,2,तत्र न्यवसद्भ्रात्रा सह सत्कारसत्कृतः। मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः।।2.1.2।। Ayodhya Kanda,1,3,तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः। भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम्।।2.1.3।। Ayodhya Kanda,1,4,राजाऽपि तौ महातेजा स्सस्मार प्रोषितौ सुतौ। उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ।।2.1.4।। Ayodhya Kanda,1,5,सर्व एव तु तस्येष्टा श्चत्वारः पुरुषर्षभाः। स्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः।।2.1.5।। Ayodhya Kanda,1,6,तेषामपि महातेजा रामो रतिकरःपितुः। स्वयम्भूरिव भूतानां बभूव गुणवत्तरः।।2.1.6।। Ayodhya Kanda,1,7,स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः। अर्थितो मानुषे लोके जज्ञे विष्णुस्सनातनः।।2.1.7।। Ayodhya Kanda,1,8,कौशल्या शुशुभे तेन पुत्रेणामिततेजसा। यथा वरेण देवानामदितिर्वज्रपाणिना।।2.1.8।। Ayodhya Kanda,1,9,स हि रूपोपपन्नश्च वीर्यवाननसूयकः। भूमौवनुपमस्सूनुर्गुणैर्दशरथोपमः।।2.1.9।। Ayodhya Kanda,1,10,स तु नित्यं प्रशान्तात्मा मृदुपूर्वं च भाषते। उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते।।2.1.10।। Ayodhya Kanda,1,11,कथञ्चिदुपकारेण कृतेनैकेन तुष्यति। न स्मरत्यपकाराणां शतमप्यात्मवत्तया।।2.1.11।। Ayodhya Kanda,1,12,शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः। कथयन्नास्त वै नित्यमस्त्रयोग्यान्तरेष्वपि।।2.1.12।। Ayodhya Kanda,1,13,बुद्धिमान्मधुराभाषी पूर्वभाषी प्रियंवदः। वीर्यवान्न च वीर्येण महता स्वेन विस्मितः।।2.1.13।। Ayodhya Kanda,1,14,नचानृतकथो विद्वान् वृद्धानां प्रतिपूजकः। अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरञ्जते।।2.1.14।। Ayodhya Kanda,1,15,सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः। दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवांश्चुचिः।।2.1.15।। Ayodhya Kanda,1,16,कुलोचितमतिः क्षात्रं धर्मं स्वं बहुमन्यते। मन्यते परया कीर्त्या महत्स्वर्गफलं ततः।।2.1.16।। Ayodhya Kanda,1,17,नाऽऽश्रेयसि रतो विद्वान्नविरुद्धकथारुचिः। उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा।।2.1.17।। Ayodhya Kanda,1,18,अरोगस्तरुणो वाग्मी वपुष्मान्देशकालवित्। लोके पुरुषसारज्ञ स्साधुरेको विनिर्मितः।।2.1.18।। Ayodhya Kanda,1,19,स तु श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः। बहिश्चर इव प्राणो बभूव गुणतः प्रियः।।2.1.19।। Ayodhya Kanda,1,20,सम्यग्विद्याव्रतस्नातो यथावत्साङ्गवेदवित्। इष्वस्त्रे च पितु श्श्रेष्ठो बभूव भरताग्रजः।।2.1.20।। Ayodhya Kanda,1,21,कल्याणाभिजन स्साधुरदीन स्सत्यवागृजुः। वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः।।2.1.21।। Ayodhya Kanda,1,22,धर्मकामार्थतत्त्वज्ञः स्मृतिमान्प्रतिभानवान्। लौकिके समयाचारे कृतकल्पो विशारदः।।2.1.22।। Ayodhya Kanda,1,23,निभृत स्संवृताकारो गुप्तमन्त्र स्सहायवान्। अमोघक्रोधहर्षश्च त्यागसंयमकालवित्।।2.1.23।। Ayodhya Kanda,1,24,दृढभक्ति स्स्थिरप्रज्ञो नासद्ग्राही न दुर्वचाः। निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषवित्।।2.1.24।। Ayodhya Kanda,1,25,शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः। यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः।।2.1.25।। Ayodhya Kanda,1,26,सत्सङ्ग्रहप्रग्रहणे स्थानविन्निग्रहस्य च। आयकर्मण्युपायज्ञ स्सन्दृष्टव्ययकर्मवित्।।2.1.26।। Ayodhya Kanda,1,27,श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु च। अर्थधमौ च सङ्गृह्य सुखतन्त्रो न चालसः।।2.1.27।। Ayodhya Kanda,1,28,वैहारिकाणां शिल्पानां विज्ञाताऽऽर्थविभागवित्। आरोहे विनये चैव युक्तो वारणवाजिनाम्।।2.1.28।। Ayodhya Kanda,1,29,धनुर्वेदविदां श्रेष्ठो लोकेऽतिरथसम्मतः। अभियाता प्रहर्ता च सेनानयविशारदः।।2.1.29।। Ayodhya Kanda,1,30,अप्रधृष्यश्च सङ्ग्रामे क्रुध्दैरपि सुरासुरैः। अनसूयो जितक्रोधो न दृप्तो न च मत्सरी। न चावमन्ता भूतानां न च कालवशानुगः।।।2.1.30।। Ayodhya Kanda,1,31,एवं श्रेष्ठगुणैर्युक्तः प्रजानां पार्थिवात्मजः। सम्मतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैः।।2.1.31।। बुद्ध्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः। Ayodhya Kanda,1,32,तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः।।2.1.32।। गुणैर्विरुरुचे रामो दीप्तस्सूर्य इवांशुभिः। Ayodhya Kanda,1,33,तमेवं व्रतसम्पन्नमप्रधृष्यपराक्रमम्।।2.1.33।। लोक पालोपमं नाथमकामयत मेदिनी। Ayodhya Kanda,1,34,एतैस्तु बहुभिर्युक्तं गुणैरनुपमैस्सुतम्।।2.1.34।। दृष्ट्वा दशरथो राजा चक्रे चिन्तां परन्तपः। Ayodhya Kanda,1,35,अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः।।2.1.35।। प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति। Ayodhya Kanda,1,36,एषा ह्यस्य परा प्रीतिर्हृदि संपरिवर्तते।।2.1.36।। कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम्। Ayodhya Kanda,1,37,वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः।।2.1.37।। मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान्। Ayodhya Kanda,1,38,यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ।।2.1.38।। महीधरसमो धृत्यां मत्तश्च गुणवत्तरः। Ayodhya Kanda,1,39,महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम्।।2.1.39।। अनेन वयसा दृष्ट्वा यथास्वर्गमवाप्नुयाम्। Ayodhya Kanda,1,40,इत्येतैर्विविधैस्तैस्तैरन्यपार्थिवदुर्लभैः।।2.1.40।। Ayodhya Kanda,1,41,शिष्टैरपरिमेयैश्च लोके लोकोत्तरैर्गुणैः। तं समीक्ष्य महाराजो युक्तं समुदितैश्शुभैः।।2.1.41।। निश्चित्य सचिवैस्सार्धं युवराजममन्यत। Ayodhya Kanda,1,42,दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम्।।2.1.42।। स़ञ्चचक्षेऽथ मेधावी शरीरे चात्मनो जराम्। Ayodhya Kanda,1,43,पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः।।2.1.43।। लोके रामस्य बुबुधे सम्प्रियत्वं महात्मनः। Ayodhya Kanda,1,44,आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च।।2.1.44।। प्राप्तकालेन धर्मात्मा भक्त्या त्वरितवान् नृपः। Ayodhya Kanda,1,45,नानानगरवास्तव्यान्पृथग्जानपदानपि।।2.1.45।। समानिनाय मेदिन्याः प्रधानान्पृथिवीपतीन्। Ayodhya Kanda,1,46,न तु केकयराजानं जनकं वा नराधिपः।।2.1.46।। त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम्। Ayodhya Kanda,1,47,तान्वेश्मनानाभरणैर्यथाऽर्हं प्रतिपूजितान्।।2.1.47।। ददर्शालङ्कृतो राजा प्रजापतिरिव प्रजाः। Ayodhya Kanda,1,48,अथोपविष्टे नृपतौ तस्मिन्परबलार्दने।।2.1.48।। ततः प्रविविशु श्शेषा राजानो लोकसम्मताः। Ayodhya Kanda,1,49,अथ राजवितीर्णेषु विविधेष्वासनेषु च।।2.1.49।। राजानमेवाभिमुखाः निषेदुर्नियता नृपाः। Ayodhya Kanda,1,50,सलब्धमानैर्विनयान्वितैर्नृपैः पुरालयैर्जानपदैश्च मानदैः। उपोपविष्टैर्नृपतिर्वृतो बभौ सहस्रचक्षुर्भगवानिवामरैः।।2.1.50।। Ayodhya Kanda,2,1,ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः। हितमुद्धर्षणं चैवमुवाच प्रथितं वचः।।2.2.1।। Ayodhya Kanda,2,2,दुन्दुभिस्वनकल्पेन गम्भीरेणानुनादिना। स्वरेण महता राजा जीमूत इव नादयन्।।2.2.2।। Ayodhya Kanda,2,3,राजलक्षणयुक्तेन कान्तेनानुपमेन च। उवाच रसयुक्तेन स्वरेण नृपतिर्नृपान्।।2.2.3।। Ayodhya Kanda,2,4,विदितं भवतामेतद्यथा मे राज्यमुत्तमम्। पूर्वकैर्मम राजेन्द्रैस्सुतवत्परिपालितम्।।2.2.4।। Ayodhya Kanda,2,5,सोऽहमिक्ष्वाकुभि स्सर्वैर्नरेन्द्रैः परिपालितम्। श्रेयसा योक्तुकामोऽस्मि सुखार्हमखिलं जगत्।।2.2.5।। Ayodhya Kanda,2,6,मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता। प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिताः।।2.2.6।। Ayodhya Kanda,2,7,इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम्। पाण्डुरस्याऽतपत्रस्यच्छायायां जरितं मया।।2.2.7।। Ayodhya Kanda,2,8,प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवतः। जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये।।2.2.8।। Ayodhya Kanda,2,9,राजप्रभावजुष्टां हि दुर्वहामजितेन्द्रियैः। परिश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन्।।2.2.9।। Ayodhya Kanda,2,10,सोऽहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते। सन्निकृष्टानिमान्सर्वाननुमान्य द्विजर्षभान्।।2.2.10।। Ayodhya Kanda,2,11,अनुजातो हि मां सर्वैर्गुणैर्ज्येष्ठो ममात्मजः। पुरन्दरसमो वीर्ये रामः परपुरञ्जयः।।2.2.11।। Ayodhya Kanda,2,12,तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम्। यौवराज्ये नियोक्ताऽस्मि प्रीतः पुरुषपुङ्गवम्।।2.2.12।। Ayodhya Kanda,2,13,अनुरूपस्स वै नाथो लक्ष्मीवान् लक्ष्मणाग्रजः। त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम्।।2.2.13।। Ayodhya Kanda,2,14,अनेन श्रेयसा सद्यस्संयोज्यैवमिमां महीम्। गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै।।2.2.14।। Ayodhya Kanda,2,15,यदिदं मेऽनुरूपार्थं मया साधु सुमन्त्रितम्। भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम्।।2.2.15।। Ayodhya Kanda,2,16,यद्यप्येषा मम प्रीतिर्हितमन्यद्विचिन्त्यताम्। अन्या मध्यस्थचिन्ता हि विमर्दाभ्यधिकोदया।।2.2.16।। Ayodhya Kanda,2,17,इति ब्रुवन्तं मुदिताः प्रत्यनन्दन्नृपा नृपम्। वृष्टिमन्तं महामेघं नर्दन्त इव बर्हिणः।।2.2.17।। Ayodhya Kanda,2,18,स्निग्धोऽनुनादी संजज्ञे तत्र हर्षसमीरितः। जनौघोद्घुष्टसन्नादो विमानं कम्पयन्निव।।2.2.18।। Ayodhya Kanda,2,19,तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशः। ब्राह्मणा जनमुख्याश्च पौरजानपदै स्सह।।2.2.19।। Ayodhya Kanda,2,20,समेत्य मन्त्रयित्वा तु समतागतबुद्धयः। ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम्।।2.2.20।। Ayodhya Kanda,2,21,अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव। स रामं युवराजानमभिषिञ्चिस्व पार्थिवम्।।2.2.21।। Ayodhya Kanda,2,22,इच्छामो हि महाबाहुं रघुवीरं महाबलम्। गजेन महताऽयान्तं रामं छत्रावृताननम्।।2.2.22।। Ayodhya Kanda,2,23,इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियं। अजानन्निव जिज्ञासुरिदं वचनमब्रवीत्।।2.2.23।। Ayodhya Kanda,2,24,श्रुत्वैव वचनं यन्मे राघवं पतिमिच्छथ। राजान स्संशयोऽयं मे किमिदं ब्रूत तत्त्वतः।।2.2.24।। Ayodhya Kanda,2,25,कथं नु मयि धर्मेण पृथिवीमनुशासति। भवन्तो द्रष्टुमिच्छन्ति युवराजं ममात्मजम्।।2.2.25।। Ayodhya Kanda,2,26,ते तमूचुर्महात्मानं पौरजानपदैस्सह। बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते।।2.2.26।। Ayodhya Kanda,2,27,गुणान् गुणवतो देव देवकल्पस्य धीमतः। प्रियानानन्दनान्कृत्स्नान्प्रवक्ष्यामोऽद्य तान् शृणु।।2.2.27।। Ayodhya Kanda,2,28,दिव्यैर्गुणैश्शक्रसमो रामस्सत्यपराक्रमः। इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तो विशांपते।।2.2.28।। Ayodhya Kanda,2,29,राम स्सत्पुरुषो लोके सत्यधर्मपरायणः। साक्षाद्रामाद्विनिर्वृत्तो धर्मश्चापि श्रिया सह।।2.2.29।। Ayodhya Kanda,2,30,प्रजासुखत्त्वे चन्द्रस्य वसुधायाः क्षमागुणैः। बुद्ध्या बृहस्पतेस्तुल्यो वीर्ये साक्षाच्छचीपतेः।।2.2.30।। Ayodhya Kanda,2,31,धर्मज्ञः सत्यसन्धश्च शीलवाननसूयकः। क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः।।2.2.31।। Ayodhya Kanda,2,32,मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः। प्रियवादी च भूतानां सत्यवादी च राघवः।।2.2.32।। Ayodhya Kanda,2,33,बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता। तेनास्येहाऽतुला कीर्तिर्यशस्तेजश्च वर्धते।।2.2.33।। Ayodhya Kanda,2,34,देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः। सम्यग्विद्याव्रतस्नातो यथावत्साङ्गवेदवित्।।2.2.34।। Ayodhya Kanda,2,35,गान्धर्वे च भुवि श्रेष्ठो बभूव भरताग्रजः। कल्याणाभिजन स्साधुरदीनात्मा महामतिः।।2.2.35।। Ayodhya Kanda,2,36,द्विजैरभिविनीतश्च श्रेष्ठैर्धर्मार्थनैपुणैः। यदा व्रजति सङ्ग्रामं ग्रामार्थे नगरस्य वा।।2.2.36।। गत्वा सौमित्रिसहितो नाऽविजित्य निवर्तते। Ayodhya Kanda,2,37,सङ्ग्रामात्पुनरागम्य कुञ्जरेण रथेन वा।2.2.37।। पौरान् स्वजनवन्नित्यं कुशलं परिपृच्छति।। पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च।2.2.38।। निखिलेनानुपूर्व्याच्च पितापुत्रानिवौरसान्।। Ayodhya Kanda,2,38,सङ्ग्रामात्पुनरागम्य कुञ्जरेण रथेन वा।2.2.37।। पौरान् स्वजनवन्नित्यं कुशलं परिपृच्छति।। पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च।2.2.38।। निखिलेनानुपूर्व्याच्च पितापुत्रानिवौरसान्।। Ayodhya Kanda,2,39,शुश्रूषन्ते च व श्शिष्याः कच्चित्कर्मसु दंशिताः।।2.2.39।। इति नः पुरुषव्याघ्र स्सदा रामोऽभिभाषते। Ayodhya Kanda,2,40,व्यसनेषु मनुष्याणां भृशं भवति दुःखितः।।2.2.40।। उत्सवेषु च सर्वेषु पितेव परितुष्यति। Ayodhya Kanda,2,41,सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः।।2.2.41।। स्मितपूर्वाभिभाषी च धर्मं सर्वात्मना श्रितः। Ayodhya Kanda,2,42,सम्यग्योक्ता श्रेयसां च न विगृह्य कथारुचिः।।2.2.42।। उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा। Ayodhya Kanda,2,43,सुभ्रूः आयतताम्राक्षः साक्षाद्विष्णुरिव स्वयम्।।2.2.43।। रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः। Ayodhya Kanda,2,44,प्रजापालनतत्त्वज्ञो न रागोपहतेन्द्रियः।।2.2.44।। शक्तस्त्रैलोक्यमप्येको भोक्तुं किन्नु महीमिमाम्। Ayodhya Kanda,2,45,नास्य क्रोधः प्रसादश्च निरर्थोऽस्ति कदाचन।।2.2.45।। हन्त्येव नियमाद्वध्यानवध्ये न च कुप्यति। Ayodhya Kanda,2,46,युनक्त्यर्थैः प्रहृष्टश्च तमसौ यत्र तुष्यति।।2.2.46।। Ayodhya Kanda,2,47,शान्तै स्सर्वप्रजाकान्तैः प्रीतिसञ्जननैर्नृणाम्। गुणैर्विरुरुचे रामो दीप्त स्सूर्य इवांशुभिः।।2.2.47।। Ayodhya Kanda,2,48,तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम्। लोकपालोपमं नाथमकामयत मेदिनी।।2.2.48।। Ayodhya Kanda,2,49,वत्सश्श्रेयसि जातस्ते दिष्ट्याऽसौ तव राघव। दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव काश्यपः।।2.2.49।। Ayodhya Kanda,2,50,बलमारोग्यमायुश्च रामस्य विदितात्मनः। देवासुरमनुष्येषु सगन्धर्वोरगेषु च।।2.2.50।। Ayodhya Kanda,2,51,आशंसते जनस्सर्वो राष्ट्रे पुरवरे तथा। आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः।।2.2.51।। Ayodhya Kanda,2,52,स्त्रियो वृद्धास्तरुण्यश्च सायं प्रातस्समाहिताः। सर्वान् देवान् नमस्यन्ति रामस्यार्थे यशस्विनः।।2.2.52।। Ayodhya Kanda,2,53,तेषामायाचितं देव त्वत्प्रसादात्समृद्ध्यताम्। राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम्।।2.2.53।। पश्यामो यौवराज्यस्थं तव राजोत्तमात्मजम्। Ayodhya Kanda,2,54,तं देव देवोपममात्मजं ते सर्वस्य लोकस्य हिते निविष्टम्। हिताय नः क्षिप्रमुदारजुष्टं मुदाऽभषेक्तुं वरद त्वमर्हसि।।2.2.54।। Ayodhya Kanda,3,1,तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः। प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः।।2.3.1।। Ayodhya Kanda,3,2,अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम। यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ।।2.3.2।। Ayodhya Kanda,3,3,इति प्रत्यर्च्य तान्राजा ब्राह्मणानिदमब्रवीत्। वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम्।।2.3.3।। Ayodhya Kanda,3,4,चैत्रश्श्रीमानयं मासः पुण्यः पुष्पितकाननः। यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम्।।2.3.4।। राज्ञस्तूपरते वाक्ये जनघोषो महानभूत्। Ayodhya Kanda,3,5,शनैस्तस्मिन्प्रशान्ते च जनघोषे जनाधिपः।।2.3.5।। वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत्। Ayodhya Kanda,3,6,अभिषेकाय रामस्य यत्कर्म सपरिच्छदम्।।2.3.6।। तदद्य भगवन् सर्वमाज्ञापयितु मर्हसि। Ayodhya Kanda,3,7,तच्छ्रुत्वा भूमिपालस्य वसिष्ठो द्विजसत्तमः।।2.3.7।। आदिदेशाग्रतो राज्ञ स्स्थितान्युक्तान् कृताञ्जलीन्। Ayodhya Kanda,3,8,सुवर्णादीनि रत्नानि बलीन् सर्वौषधीरपि।।2.3.8।। Ayodhya Kanda,3,9,शुक्लमाल्यांश्च लाजांश्च पृथक्च मधुसर्पिषी। अहतानि च वासांसि रथं सर्वायुधान्यपि।।2.3.9।। Ayodhya Kanda,3,10,चतुरङ्गबलं चैव गजं च शुभलक्षणम्। चामरव्यजने श्वेते ध्वजं छत्रं च पाण्डुरम्।।2.3.10।। Ayodhya Kanda,3,11,शतं च शातकुम्भानां कुम्भानाग्निवर्चसाम्। हिरण्यशृङ्गमृषभं समग्रं व्याघ्रचर्म च।।2.3.11।। उपस्थापयत प्रातरग्न्यगारं महीपतेः। Ayodhya Kanda,3,8,सुवर्णादीनि रत्नानि बलीन् सर्वौषधीरपि।।2.3.8।। Ayodhya Kanda,3,12,यच्चान्यत्किञ्चिदेष्टव्यं तत्सर्वमुपकल्प्यताम्।।2.3.12।। Ayodhya Kanda,3,13,अन्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च। चन्दनस्रग्भिरर्च्यन्तां धूपैश्च घ्राणहारिभिः।।2.3.13।। Ayodhya Kanda,3,14,प्रशस्तमन्नं गुणवद्दधिक्षीरोपसेचनम्। द्विजानां शतसाहस्रे यत्प्रकाममलं भवेत्।।2.3.14।। Ayodhya Kanda,3,15,सत्कृत्य द्विजमुख्यानां श्वःप्रभाते प्रदीयताम्। घृतं दधि च लाजाश्च दक्षिणाश्चापि पुष्कलाः।।2.3.15।। Ayodhya Kanda,3,16,सूर्येऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम्। ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च।।2.3.16।। Ayodhya Kanda,3,17,आबध्यन्तां पताकाश्च राजमार्गश्च सिंच्यताम्। सर्वे च तालावचरा गणिकाश्च स्वलङ्कृताः।।2.3.17।। कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः। Ayodhya Kanda,3,18,देवायतनचैत्येषुसान्नभक्षा स्सदक्षिणाः।।2.3.18।। उपस्थापयितव्या स्स्युर्माल्ययोग्याः पृथक्पृथक्। Ayodhya Kanda,3,19,दीर्घासिबद्धा योधाश्च सन्नद्धा मृष्टवाससः।।2.3.19।। महाराजाङ्गणं सर्वे प्रविशन्तु महोदयम्। Ayodhya Kanda,3,20,एवं व्यादिश्य विप्रौ तौ क्रियास्तत्र सुनिष्ठितौ।।2.3.20।। चक्रतुश्चैव यच्छेषं पार्थिवाय निवेद्य च। Ayodhya Kanda,3,21,कृतमित्येव चाब्रूतां अभिगम्य जगत्पतिम्।।2.3.21।। यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ। Ayodhya Kanda,3,22,ततस्सुमन्त्रं द्युतिमान्राजा वचनमब्रवीत्। रामः कृतात्मा भवता शीघ्रमानीयतामिति।।2.3.22।। Ayodhya Kanda,3,23,स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात्।।2.3.23।। रामं तत्रानयाञ्चक्रे रथेन रथिनां वरम्। Ayodhya Kanda,3,24,अथ तत्र समासीना स्तदा दशरथं नृपम्।।2.3.24।। Ayodhya Kanda,3,25,प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः। म्लेच्छाश्चार्याश्च ये चान्ये वनशैलान्तवासिनः।।2.3.25।। उपासाञ्चक्रिरे सर्वे तं देवा इव वासवम्। Ayodhya Kanda,3,26,तेषां मध्ये स राजर्षिर्मरुतामिव वासवः।।2.3.26।। प्रासादस्थो रथगतं ददर्शायान्तमात्मजम्। Ayodhya Kanda,3,27,गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम्।।2.3.27।। Ayodhya Kanda,3,28,दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम्। चन्द्रकान्ताननं राममतीव प्रियदर्शनम्।।2.3.28।। Ayodhya Kanda,3,29,रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम्। घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः।।2.3.29।। न ततर्प समायान्तं पश्यमानो नराधिपः। Ayodhya Kanda,3,30,अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात्।।2.3.30।। पितुस्समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात्। Ayodhya Kanda,3,31,स तं कैलासशृङ्गाभं प्रासादं नरपुङ्गवः।।2.3.31।। आरुरोह नृपं द्रष्टुं सह सूतेन राघवः। Ayodhya Kanda,3,32,स प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके।।2.3.32।। नाम स्वं श्रावयन्रामो ववन्दे चरणौ पितुः। Ayodhya Kanda,3,33,तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः।।2.3.33।। गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम्। Ayodhya Kanda,3,34,तस्मै चाभ्युदितं दिव्यं मणिकाञ्चनभूषितम्।।2.3.34।। दिदेश राजा रुचिरं रामाय परमासनम्। Ayodhya Kanda,3,35,तदासनवरं प्राप्य व्यदीपयत राघवः।।2.3.35।। स्वयैव प्रभया मेरुमुदये विमलो रविः। Ayodhya Kanda,3,36,तेन विभ्राजता तत्र सा सभाऽभिव्यरोचत।।2.3.36।। विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना। Ayodhya Kanda,3,37,तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम्।।2.3.37।। अलङ्कृतमिवात्मानमादर्शतलसंस्थितम्। Ayodhya Kanda,3,38,स तं सस्मितमाभाष्य पुत्रं पुत्रवतां वरः।।2.3.38।। उवाचेदं वचो राजा देवेन्द्रमिव काश्यपः। Ayodhya Kanda,3,39,ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशस्सुतः।।2.3.39।। उत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः। Ayodhya Kanda,3,40,यतस्त्वया प्रजाश्चेमा स्स्वगुणैरनुरञ्जिताः।।2.3.40।। तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि। Ayodhya Kanda,3,41,कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि।।2.3.41।। गुणवत्यपि तु स्नेहात्पुत्र वक्ष्यामि ते हितम्। Ayodhya Kanda,3,42,भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः।।2.3.42।। कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च। Ayodhya Kanda,3,43,परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा।।2.3.43।। अमात्यप्रभृतीस्सर्वाःप्रकृतीश्चानुरञ्जय। Ayodhya Kanda,3,44,कोष्ठागारायुधागारैःकृत्वा सन्निचयान्बहून्।।2.3.44।। Ayodhya Kanda,3,45,तुष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम्। तस्यनन्दन्ति मित्राणि लब्ध्वाऽमृतमिवामराः।।2.3.45।। तस्मात्त्वमपि चात्मानं नियम्यैवं समाचर। Ayodhya Kanda,3,46,तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः।।2.3.46।। त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन्। Ayodhya Kanda,3,47,सा हिरण्यं च गाश्चैव रत्नानि विविधानि च।।2.3.47।। व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा। Ayodhya Kanda,3,48,अथाऽभिवाद्य राजानं रथमारुह्य राघवः।।2.3.48।। ययौ स्वं द्युतिमद्वेश्म जनौघैः प्रतिपूजितः। Ayodhya Kanda,3,49,ते चापि पौरा नृपतेर्वचस्त च्छृत्वा तथा लाभमिवेष्टमाशु। नरेन्द्रमामन्त्र्य गृहाणि गत्वा देवान्समानर्चुरतिप्रहृष्टाः।।2.3.49।। Ayodhya Kanda,4,1,गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः। मन्त्रयित्वा ततश्चक्रे निश्चयज्ञस्सनिश्चयम्।।2.4.1।। Ayodhya Kanda,4,2,श्व एव पुष्यो भविताश्वोऽभिषेच्यस्तु मे सुतः। रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः।।2.4.2।। Ayodhya Kanda,4,3,अथाऽन्तर्गृहमाविश्य राजा दशरथस्तदा। सूतमामन्त्रयामास रामं पुनरिहानय।।2.4.3।। Ayodhya Kanda,4,4,प्रतिगृह्य स तद्वाक्यं सूतः पुनरुपाययौ। रामस्य भवनं शीघ्रं राममानयितुं पुनः।।2.4.4।। Ayodhya Kanda,4,5,द्वार्स्थैरावेदितं तस्य रामायाऽऽगमनं पुनः। श्रुत्वैव चापि रामस्तं प्राप्तं शङ्कान्वितोऽभवत्।।2.4.5।। Ayodhya Kanda,4,6,प्रवेश्य चैनं त्वरितं रामो वचनमब्रवीत्। यदागमनकृत्यं ते भूयस्तद्ब्रूह्यशेषतः।।2.4.6।। Ayodhya Kanda,4,7,तमुवाच तत स्सूतो राजा त्वां द्रष्टुमिच्छति। श्रुत्वा प्रमाणमत्र त्वं गमनायेतराय वा।।2.4.7।। Ayodhya Kanda,4,8,इति सूतवच श्श्रुत्वा रामोऽथ त्वरयाऽन्वितः। प्रययौ राजभवनं पुनर्द्रष्टुं नरेश्वरम्।।2.4.8।। Ayodhya Kanda,4,9,तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः। प्रवेशयामास गृहं विवक्षुः प्रियमुत्तमम्।।2.4.9।। Ayodhya Kanda,4,10,प्रविशन्नेव च श्रीमान्राघवो भवनं पितुः। ददर्श पितरं दूरात्प्रणिपत्य कृताञ्जलिः।।2.4.10।। Ayodhya Kanda,4,11,प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः। प्रदिश्य चास्मै रुचिरमासनं पुनरब्रवीत्।।2.4.11।। Ayodhya Kanda,4,12,राम वृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा मयेप्सिताः। अन्नवद्भिः क्रतुशतै स्तथेष्टं भूरिदक्षिणैः।।2.4.12।। Ayodhya Kanda,4,13,जातमिष्टमपत्यं मे त्वमद्यानुपमं भुवि। दत्तमिष्टमधीतं च मया पुरुषसत्तम।।2.4.13।। Ayodhya Kanda,4,14,अनुभूतानि चेष्टानि मया वीर सुखान्यपि। देवर्षिपितृविप्राणामनृणोऽस्मि तथाऽत्मनः।।2.4.14।। Ayodhya Kanda,4,15,न किञ्चिन्मम कर्तव्यं तवान्यत्राभिषेचनात्। अतो यत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि।।2.4.15।। Ayodhya Kanda,4,16,अद्य प्रकृतयस्सर्वास्त्वामिच्छन्ति नराधिपम्। अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक।।2.4.16।। Ayodhya Kanda,4,17,अपि चाद्याऽशुभान्राम स्वप्ने पश्यामि दारुणान्। सनिर्घाता दिवोल्का च पततीह महास्वना।।2.4.17।। Ayodhya Kanda,4,18,अवष्टब्धं च मे राम नक्षत्रं दारुणैर्ग्रहैः। आवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः।।2.4.18।। Ayodhya Kanda,4,19,प्रायेण हि निमित्तानामीदृशानां समुद्भवे। राजा हि मृत्युमाप्नोति घोरां वाऽऽपदमृच्छति।।2.4.19।। Ayodhya Kanda,4,20,तद्यावदेव मे चेतो न विमुह्यति राघव। तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः।।2.4.20।। Ayodhya Kanda,4,21,अद्य चन्द्रोऽभ्युपगतः पुष्यात्पूर्वं पुनर्वसू। श्वः पुष्ययोगं नियतं वक्ष्यन्ते दैवचिन्तकाः।।2.4.21।। Ayodhya Kanda,4,22,ततः पुष्येऽभिषिञ्चस्व मनस्त्वरयतीव माम्। श्वस्त्वाऽहमभिषेक्ष्यामि यौवराज्ये परन्तप।।2.4.22।। Ayodhya Kanda,4,23,तस्मात्त्वयाऽद्य प्रभृति निशेयं नियतात्मना। सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना।।2.4.23।। Ayodhya Kanda,4,24,सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः। भवन्ति बहु विघ्नानि कार्याण्येवंविधानि हि।।2.4.24।। Ayodhya Kanda,4,25,विप्रोषितश्च भरतो यावदेव पुरादितः। तावदेवाभिषेकस्ते प्राप्तकालो मतो मम।।2.4.25।। Ayodhya Kanda,4,26,कामं खलु सतां वृत्ते भ्राता ते भरतस्स्थितः। ज्येष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः।।2.4.26।। Ayodhya Kanda,4,27,किन्तु चित्तं मनुष्याणामनित्यमिति मे मतिः। सतां च धर्मनित्यानां कृतशोभि च राघव।।2.4.27।। Ayodhya Kanda,4,28,इत्युक्त स्सोऽभ्यनुज्ञात श्श्वोभाविन्यभिषेचने। व्रजेति रामः पितरमभिवाद्याभ्ययाद्गृहम्।।2.4.28।। Ayodhya Kanda,4,29,प्रविश्य चात्मनो वेश्मराज्ञोद्दिष्टेऽभिषेचने। तत्क्षणेन विनिर्गम्य मातुरन्तपुरं ययौ।।2.4.29।। Ayodhya Kanda,4,30,तत्र तां प्रवणामेव मातरं क्षौमवासिनीम्। वाग्यतां देवतागारे ददर्शाऽऽयाचतीं श्रियम्।।2.4.30।। Ayodhya Kanda,4,31,प्रागेव चागता तत्र सुमित्रा लक्ष्मण स्तथा। सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम्।।2.4.31।। Ayodhya Kanda,4,32,तस्मिन् काले हि कौशल्या तस्थावामीलितेक्षणा। सुमित्रयाऽन्वास्यमाना सीतया लक्ष्मणेन च।।2.4.32।। Ayodhya Kanda,4,33,श्रुत्वा पुष्येण पुत्रस्य यौवराज्याऽभिषेचनम्। प्राणायामेन पुरुषं ध्यायमाना जनार्दनम्।।2.4.33।। Ayodhya Kanda,4,34,तथा सनियमामेव सोऽभिगम्याभिवाद्य च। उवाच वचनं रामो हर्षयंस्तामनिन्दिताम्।।2.4.34।। Ayodhya Kanda,5,1,सन्दिश्य रामं नृपति श्श्वोभाविन्यभिषेचने। पुरोहितं समाहूय वशिष्ठमिदमब्रवीत्।।2.5.1।। Ayodhya Kanda,5,2,गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन। श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम्।।2.5.2।। Ayodhya Kanda,5,3,तथेति च स राजानमुक्त्वा वेदविदां वरः। स्वयं वसिष्ठो भगवान्ययौ रामनिवेशनम्।।2.5.3।। Ayodhya Kanda,5,4,उपवासयितुं रामं मन्त्रवन्मन्त्रकोविदः। ब्राह्मं रथवरं युक्तमास्थाय सुदृढव्रतः।।2.5.4।। Ayodhya Kanda,5,5,स रामभवनं प्राप्य पाण्डुराभ्रघनप्रभम्। तिस्रः कक्ष्या रथेनैव विवेशमुनिसत्तमः।।2.5.5।। Ayodhya Kanda,5,6,तमागतमृषिं रामस्त्वरन्निव ससम्भ्रमः। मानयिष्यन्समानार्हं निश्चक्राम निवेशनात्।।2.5.6।। Ayodhya Kanda,5,7,अभ्येत्य त्वरमाणश्च रथाभ्याशं मनीषिणः। ततोऽवतारयामास परिगृह्य रथात्स्वयम्।।2.5.7।। Ayodhya Kanda,5,8,स चैनं प्रश्रितं दृष्ट्वा सम्भाष्याभिप्रसाद्य च। प्रियार्हं हर्षयन्राममित्युवाच पुरोहितः।।2.5.8।। Ayodhya Kanda,5,9,प्रसन्नस्ते पिता राम यौवराज्यमवाप्स्यसि। उपवासं भवानद्य करोतु सह सीतया।।2.5.9।। Ayodhya Kanda,5,10,प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः। पिता दशरथः प्रीत्या ययातिं नहुषो यथा।।2.5.10।। Ayodhya Kanda,5,11,इत्युक्त्वा स तदा राममुपवासं यतव्रतम्। मन्त्रवत्कारयामास वैदेह्या सहितं मुनिः।।2.5.11।। Ayodhya Kanda,5,12,ततो यथावद्रामेण स राज्ञो गुरुरर्चितः। अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात्।।2.5.12।। Ayodhya Kanda,5,13,सुहृद्भिस्तत्र रामोऽपि सहासीनः प्रियंवदैः। सभाजितो विवेशाऽथ ताननुज्ञाप्य सर्वशः।।2.5.13।। Ayodhya Kanda,5,14,हृष्टनारीनरयुतं रामवेश्म तदा बभौ। यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः।।2.5.14।। Ayodhya Kanda,5,15,स राजभवनप्रख्यात्तस्माद्रामनिवेशानात्। निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम्।।2.5.15।। Ayodhya Kanda,5,16,बृन्दबृन्दैरयोध्यायां राजमार्गास्समन्ततः। बभूवुरभिसम्बाधाः कुतूहलजनैर्वृताः।।2.5.16।। Ayodhya Kanda,5,17,जनबृन्दोर्मिसंघर्षहर्षस्वनवतस्तदा। बभूव राजमार्गस्य सागरस्येव निस्वनः।।2.5.17।। Ayodhya Kanda,5,18,सिक्तसम्मृष्टरथ्या हि तदहर्वनमालिनी। आसीदयोध्यानगरी समुच्छ्रितगृहध्वजा।।2.5.18।। Ayodhya Kanda,5,19,तदा ह्ययोध्यानिलयः सस्त्रीबालाबलो जनः। रामाभिषेकमाकाङ्क्षन्नाकाङ्क्षदुदयं रवेः।।2.5.19।। Ayodhya Kanda,5,20,प्रजालङ्कारभूतं च जनस्यानन्दवर्धनम्। उत्सुकोऽभूज्जनो द्रष्टुं तमयोध्यामहोत्सवम्।।2.5.20।। Ayodhya Kanda,5,21,एवं तज्जनसम्बाधं राजमार्गं पुरोहितः। व्यूहन्निव जनौघं तं शनै राजकुलं ययौ।।2.5.21।। Ayodhya Kanda,5,22,सिताभ्रशिखरप्रख्यं प्रासादमधिरुह्य सः। समीयाय नरेन्द्रेण शक्रेणेव बृहस्पतिः।।2.5.22।। Ayodhya Kanda,5,23,तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः। पप्रच्छ स च तस्मै तत्कृतमित्यभ्यवेदयत्।।2.5.23।। Ayodhya Kanda,5,24,चैव तदा तुल्यं सहासीनास्सभासदः। आसनेभ्यस्समुत्तस्थुः पूजयन्तः पुरोहितम्।।2.5.24।। Ayodhya Kanda,5,25,गुरुणा त्वभ्यनुज्ञातो मनुजौघं विसृज्य तम्। विवेशान्तः पुरं राजा सिंहो गिरिगुहामिव।।2.5.25।। Ayodhya Kanda,5,26,तदग्य्रवेषप्रमदाजनाकुलं महेन्द्रवेश्मप्रतिमं निवेशनम्। विदीपयंश्चारु विवेश पार्थिव श्शशीव तारागणसङ्कुलं नभः।।2.5.26।। Ayodhya Kanda,6,1,गते पुरोहिते रामः स्नातो नियतमानसः। सह पत्न्या विशालाक्ष्या नारायणमुपागमत्।।2.6.1।। Ayodhya Kanda,6,2,प्रगृह्य शिरसा पात्रीं हविषो विधिवत्तदा। महते दैवतायाज्यं जुहाव ज्वलितेऽनले।।2.6.2।। Ayodhya Kanda,6,3,शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम्। ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे।।2.6.3।। Ayodhya Kanda,6,4,वाग्यत स्सह वैदेह्या भूत्वा नियतमानसः। श्रीमत्यायतने विष्णो श्शिश्ये नरवरात्मजः।।2.6.4।। Ayodhya Kanda,6,5,एकयामावशिष्टायां रात्र्यां प्रतिविबुद्ध्य सः। अलङ्कारविधिं कृत्स्नं कारयामास वेश्मनः।।2.6.5।। Ayodhya Kanda,6,6,तत्र श्रृण्वन्सुखा वाच स्सूतमागधवन्दिनाम्। पूर्वां सध्यामुपासीनो जजाप यतमानसः।।2.6.6।। Ayodhya Kanda,6,7,तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम्। विमलक्षौमसंवीतो वाचयामास स द्विजान्।।2.6.7।। Ayodhya Kanda,6,8,तेषां पुण्याहघोषोऽथ गम्भीरमधुरस्तदा। अयोध्यां पूरयामास तूर्यघोषानुनादितः।।2.6.8।। Ayodhya Kanda,6,9,कृतोपवासं तु तदा वैदेह्या सह राघवम्। अयोध्यानिलयश्श्रुत्वा सर्वः प्रमुदितो जनः।।2.6.9।। Ayodhya Kanda,6,10,ततः पौरजनस्सर्वश्श्रुत्वा रामाभिषेचनम्। प्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम्।।2.6.10।। Ayodhya Kanda,6,11,सिताभ्रशिखराभेषु देवतायतनेषु च। चतुष्पथेषु रथ्यासु चैत्येष्वट्टालकेषु च।।2.6.11।। Ayodhya Kanda,6,12,नानापण्यसमृद्धेषु वणिजामापणेषु च। कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च।।2.6.12।। Ayodhya Kanda,6,13,सभासु चैव सर्वासु वृक्षेष्वालक्षितेषु च। ध्वजा स्समुच्छ्रिताश्चित्राः पताकाश्चाभवंस्तदा।।2.6.13।। Ayodhya Kanda,6,14,नटनर्तकसङ्घानां गायकानां च गायताम्। मनः कर्णसुखा वाच श्शुशृवुश्च ततस्ततः।।2.6.14।। Ayodhya Kanda,6,15,रामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः। रामाभिषेके सम्प्राप्ते चत्वरेषु गृहेषु च।।2.6.15।। Ayodhya Kanda,6,16,बाला अपि क्रीडमाना गृहद्वारेषु सङ्घशः। रामाभिषवसंयुक्ताश्चक्रुरेवं मिथः कथाः।।2.6.16।। Ayodhya Kanda,6,17,कृतपुष्पोपहारश्च धूपगन्धाधिवासितः। राजमार्गः कृतः श्रीमान्पौरै रामाभिषेचने।।2.6.17।। Ayodhya Kanda,6,18,प्रकाशकरणार्थं च निशागमनशङ्कया। दीपवृक्षां स्तथा चक्रुरनु रथ्यासु सर्वशः।।2.6.18।। Ayodhya Kanda,6,19,अलङ्कारं पुरस्यैवं कृत्वा तत्पुरवासिनः। आकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम्।।2.6.19।। Ayodhya Kanda,6,20,समेत्य सङ्घशस्सर्वे चत्वरेषु सभासु च। कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम्।।2.6.20।। Ayodhya Kanda,6,21,अहो महात्मा राजाऽयमिक्ष्वाकुकुलनन्दनः। ज्ञात्वा यो वृद्धमात्मानं रामं राज्येऽभिषेक्ष्यति।।2.6.21।। Ayodhya Kanda,6,22,सर्वेप्यनुगृहीता स्मो यन्नो रामो महीपतिः। चिराय भविता गोप्ता दृष्टलोकपरावरः।।2.6.22।। Ayodhya Kanda,6,23,अनुद्धतमनाः विद्वान्धर्मात्मा भ्रातृवत्सलः। यथा च भ्रातृषु स्निग्धस्तथाऽस्मास्वपि राघवः।।2.6.23।। Ayodhya Kanda,6,24,चिरं जीवतु धर्मात्मा राजा दशरथोऽनघः। यत्प्रसादोनभिषिक्तं तु रामं द्रक्ष्यामहे वयम्।।2.6.24।। Ayodhya Kanda,6,25,एवंविधं कथयतां पौराणां शुश्रुवु स्तदा। दिग्भ्योपि श्रुतवृत्तान्ता: प्राप्ता जानपदा जनाः।।2.6.25।। Ayodhya Kanda,6,26,ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम्। रामस्य पूरयामासुः पुरीं जानपदा जनाः।।2.6.26।। Ayodhya Kanda,6,27,जनौघैस्तैर्विसर्पद्भिः शुश्रुवे तत्र निस्वनः। पर्वसूदीर्णवेगस्य सागरस्येव निस्वनः।।2.6.27।। Ayodhya Kanda,6,28,ततस्तदिन्द्रक्षयसन्निभं पुरं दिदृक्षुभिर्जानपदैरुपागतैः। समन्तत स्सस्वनमाकुलं बभौ समुद्रयादोभिरिवार्णवोदकम्।।2.6.28।। Ayodhya Kanda,7,1,ज्ञातिदासी यतो जाता कैकेय्यास्तु सहोषिता। प्रासादं चन्द्रसङ्काशमारुरोह यदृच्छया।।2.7.1।। Ayodhya Kanda,7,2,सिक्तराजपथां कृत्स्नां प्रकीर्णकुसुमोत्कराम्। अयोध्यां मन्थरा तस्मात्प्रासादादन्ववैक्षत।।2.7.2।। Ayodhya Kanda,7,3,पताकाभिर्वरार्हाभिर्ध्वजैश्च समलङ्कृताम्। वृतां छन्दपथैश्चापि शिरस्स्नातजनैर्वृताम्।।2.7.3।। Ayodhya Kanda,7,4,माल्यमोदकहस्तैश्च द्विजेन्द्रैरभिनादिताम्। शुक्लदेवगृहद्वारां सर्ववादित्रनिस्वनाम्।।2.7.4।। Ayodhya Kanda,7,5,सम्प्रहृष्टजनाकीर्णां ब्रह्मघोषाभिनादिताम्। प्रहृष्टवरहस्त्यश्वां सम्प्रणर्दितगोवृषाम्।।2.7.5।। Ayodhya Kanda,7,6,प्रहृष्टमुदितैः पौरैरुच्छ्रितध्वजमालिनीम्। अयोध्यां मन्थरा दृष्ट्वा परं विस्मयमागता।।2.7.6।। Ayodhya Kanda,7,7,प्रहर्षोत्फुल्लनयनां पाण्डुरक्षौमवासिनीम्। अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा।।2.7.7।। Ayodhya Kanda,7,8,उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती। राममाता धनं किन्नु जनेभ्यस्सम्प्रयच्छति।।2.7.8।। Ayodhya Kanda,7,9,अतिमात्रप्रहर्षोऽयं किं जनस्य च शंस मे। कारयिष्यति किं वापि सम्प्रहृष्टो महीपतिः।।2.7.9।। Ayodhya Kanda,7,10,विदीर्यमाणा हर्षेण धात्री तु परया मुदा। आचचक्षेऽथ कुब्जायै भूयसीं राघव श्रियम्।।2.7.10।। Ayodhya Kanda,7,11,श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम्। राजा दशरथो राममभिषेचयिताऽनघम्।।2.7.11।। Ayodhya Kanda,7,12,धात्र्यास्तु वचनं शृत्वा कुब्जा क्षिप्रममर्षिता। कैलासशिखराकारा त्प्रासादादवरोहत।।2.7.12।। Ayodhya Kanda,7,13,सा दह्यमाना कोपेन मन्थरा पापदर्शिनी। शयानामेत्य कैकेयीमिदं वचनमब्रवीत्।।2.7.13।। Ayodhya Kanda,7,14,उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते। उपप्लुतामौघेन किमात्मानं न बुध्यसे।।2.7.14।। Ayodhya Kanda,7,15,अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे। चलं हि तव सौभाग्यं नद्यास्स्रोत इवोष्णगे।।2.7.15।। Ayodhya Kanda,7,16,एवमुक्ता तु कैकेयी रुष्टया परुषं वचः। कुब्जया पापदर्शिन्या विषादमगमत्परम्।।2.7.16।। Ayodhya Kanda,7,17,कैकेयी त्वब्रवीत्कुब्जां कच्चित्क्षेमं नु मन्थरे। विषण्णवदनां हि त्वां लक्षये भृशदुःखिताम्।।2.7.17।। Ayodhya Kanda,7,18,मन्थरा तु वच श्श्रुत्वा कैकेय्या मधुराक्षरम्। उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा।।2.7.18।। Ayodhya Kanda,7,19,सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी। विषादयन्ती प्रोवाच भेदयन्ती च राघवम्।।2.7.19।। Ayodhya Kanda,7,20,अक्षय्यं सुमहद्देवि प्रवृत्तं त्वद्विनाशनम्। रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति।।2.7.20।। Ayodhya Kanda,7,21,साऽस्म्यगाधे भये मग्ना दुःखशोकसमन्विता। दह्यमानाऽनलेनेव त्वद्धितार्थमिहागता।।2.7.21।। Ayodhya Kanda,7,22,तव दुःखेन कैकेयि मम दुःखं महद्भवेत्। त्वद्वृद्धौ मम वृद्धिश्च भवेदत्र न संशयः।।2.7.22।। Ayodhya Kanda,7,23,नराधिपकुले जाता महिषी त्वं महीपतेः। उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे।।2.7.23।। Ayodhya Kanda,7,24,धर्मावादी शठो भर्ता श्लक्ष्णवादी च दारुणः। शुद्धभावे न जानीषे तेनैव मतिसन्धिता।।2.7.24।। Ayodhya Kanda,7,25,उपस्थितः प्रयुञ्जानस्त्वयि सान्त्वमनर्थकम्। अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति।।2.7.25।। Ayodhya Kanda,7,26,उपवाह्य स दुष्टात्मा भरतं तव बन्धुषु। काल्ये स्थापयिता रामं राज्ये निहतकण्टके।।2.7.26।। Ayodhya Kanda,7,27,शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया। आशीविष इवाङ्केन बाले परिधृतस्त्वया।।2.7.27।। Ayodhya Kanda,7,28,यथा हि कुर्यात्सर्पो वा शत्रुर्वा प्रत्युपेक्षितः। राज्ञा दशरथेनाद्य सपुत्रा त्वं तथा कृता।।2.7.28।। Ayodhya Kanda,7,29,पापेनानृतसान्त्वेन बाले नित्यसुखोचिते। रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि।।2.7.29।। Ayodhya Kanda,7,30,सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव। त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने।।2.7.30।। Ayodhya Kanda,7,31,मन्थाराया वचश्श्रुत्वा शयाना सा शुभानना। उत्तस्थौ हर्षसम्पूर्णा चन्द्रलेखेव शारदी।।2.7.31।। Ayodhya Kanda,7,32,अतीव सा तु संहृष्टा कैकेयी विस्मयान्विता। एकमाभरणं तस्यै कुब्जायै प्रददौ शुभम्।।2.7.32।। Ayodhya Kanda,7,33,दत्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा। कैकेयी मन्थरां दृष्ट्वा पुनरेवाब्रवीदिदम्।।2.7.33।। Ayodhya Kanda,7,34,इदं तु मन्थरे मह्यमाख्यासि परमं प्रियम्। एतन्मे प्रियमाख्यातुः किं वा भूयः करोमि ते।।2.7.34।। Ayodhya Kanda,7,35,रामे वा भरते वाऽहं विशेषं नोपलक्षये। तस्मात्तुष्टाऽस्मि यद्राजा रामं राज्येऽभिषेक्ष्यति।।2.7.35।। Ayodhya Kanda,7,36,न मे परं किञ्चिदितस्त्वया पुनः प्रियं प्रियार्हे सुवचं वचःपरम्। तथा ह्यवोचस्त्वमतः प्रियोत्तरं वरं परं ते प्रददामि तं वृणु।।2.7.36।। Ayodhya Kanda,8,1,मन्थरा त्वभ्यसूयैनामुत्सृज्याभरणं च तत्। उवाचेदं ततो वाक्यं कोपदुःखसमन्विता।।2.8.1।। Ayodhya Kanda,8,2,हर्षं किमिदमस्थाने कृतवत्यसि बालिशे। शोकसागरमध्यस्थमात्मानं नावबुध्यसे।।2.8.2।। Ayodhya Kanda,8,3,मनसा प्रहसामि त्वां देवि दुःखार्दिता सती। यच्छोचितव्ये हृष्टाऽसि प्राप्येदं व्यसनं महत्।।2.8.3।। Ayodhya Kanda,8,4,शोचामि दुर्मतित्वं ते का हि प्राज्ञा प्रहर्षयेत्। अरेस्सपत्नीपुत्रस्य वृद्धिं मृत्योरिवागताम्।।2.8.4।। Ayodhya Kanda,8,5,भरतादेव रामस्य राज्यसाधारणाद्भयम्। तद्विचिन्त्य विषण्णाऽस्मि भयं भीताऽद्धि जायते।।2.8.5।। Ayodhya Kanda,8,6,लक्ष्मणो हि महेष्वासो रामं सर्वात्मना गतः। शत्रुघ्नश्चापि भरतं काकुत्स्थं लक्ष्मणो यथा।।2.8.6।। Ayodhya Kanda,8,7,प्रत्यासन्नक्रमेणापि भरतस्यैव भामिनि। राज्यक्रमो विप्रकृष्टस्तयोस्तावत्कनीयसोः।।2.8.7।। Ayodhya Kanda,8,8,विदुषः क्षत्रचारित्रे प्राज्ञस्य प्राप्तकारिणः। भयात्प्रवेपे रामस्य चिन्तयन्ती तवात्मजम्।।2.8.8।। Ayodhya Kanda,8,9,सुभगा खलु कौशल्या यस्याः पुत्रोऽभिषेक्ष्यते। यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः।।2.8.9।। Ayodhya Kanda,8,10,प्राप्तां सुमहतीं प्रीतिं प्रतीतां तां हतद्विषम्। उपस्थास्यसि कौसल्यां दासीव त्त्वं कृताञ्जलिः।।2.8.10।। Ayodhya Kanda,8,11,एवं चेत्त्वं सहास्माभिस्तस्याः प्रेष्या भविष्यसि। पुत्रश्च तव रामस्य प्रेष्यभावं गमिष्यति।।2.8.11।। Ayodhya Kanda,8,12,हृष्टाः खलु भविष्यन्ति रामस्य परमास्स्त्रियः। अप्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये।।2.8.12।। Ayodhya Kanda,8,13,तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः। रामस्यैव गुणान्देवी कैकेयी प्रशशंस ह।।2.8.13।। Ayodhya Kanda,8,14,धर्मज्ञो गुरुभिर्दान्तः कृतज्ञस्सत्यवाक्छुचिः। रामो राज्ञ स्सुतो ज्येष्ठो यौवराज्यमतोऽर्हति।।2.8.14।। Ayodhya Kanda,8,15,भ्रातृ़न्भृत्यांश्च दीर्घायुः पितृवत्पालयिष्यति। सन्तप्स्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम्।।2.8.15।। Ayodhya Kanda,8,16,भरतश्चापि रामस्य ध्रुवं वर्षशतात्परम्। पितृपैतामहं राज्यमवाप्ता पुरुषर्षभः।।2.8.16।। Ayodhya Kanda,8,17,सा त्वमभ्युदये प्राप्ते वर्तमाने च मन्थरे। भविष्यति च कल्याणे किमर्थं परितप्यसे।।2.8.17।। Ayodhya Kanda,8,18,यथा मे भरतो मान्यस्तथा भूयोऽपि राघवः। कौशल्यातोऽतिरिक्तं च सोऽनुशुश्रूषते हि माम्।।2.8.18।। Ayodhya Kanda,8,19,राज्यं यदि हि रामस्य भरतस्यापि तत्तदा। मन्यते हि यथात्मानं तथा भ्रातृ़ंश्च राघवः।।2.8.19।। Ayodhya Kanda,8,20,कैकेयीवचनं श्रुत्वा मन्थरा भृशदुःखिता। दीर्घमुष्णं च विनिश्वस्य कैकेयीमिदमब्रवीत्।।2.8.20।। Ayodhya Kanda,8,21,अनर्थदर्शिनी मौर्ख्यान्नात्मानमवबुध्यसे। शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे।।2.8.21।। Ayodhya Kanda,8,22,भविता राघवो राजा राघवस्यानु यस्सुतः। राजवंशात्तु कैकेयि भरतःपरिहास्यते।।2.8.22।। Ayodhya Kanda,8,23,न हि राज्ञस्सुता स्सर्वे राज्ये तिष्ठन्ति भामिनि। स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत्।।2.8.23।। Ayodhya Kanda,8,24,तस्माज्ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः। स्थापयन्त्यनवद्याङ्गि गुणवत्स्वितरेष्वपि।।2.8.24।। Ayodhya Kanda,8,25,असावत्यन्तनिर्भग्नस्तव पुत्रो भविष्यति। अनाथवत्सुखेभ्यश्च राजवंशाच्च वत्सले।।2.8.25।। Ayodhya Kanda,8,26,साऽहं त्वदर्थे सम्प्राप्ता त्वं तु मां नावबुद्ध्यसे। सपत्नि वृद्धौ या मे त्वं प्रदेयं दातुमिच्छसि।।2.8.26।। Ayodhya Kanda,8,27,ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम्। देशान्तरं वा नयिता लोकान्तरमथाऽपि वा।।2.8.27।। Ayodhya Kanda,8,28,बाल एव हि मातुल्यं भरतो नायितस्त्वया। सन्निकर्षाच्च सौहार्दं जायते स्थावरेष्वपि।।2.8.28।। Ayodhya Kanda,8,29,भरतस्याप्यनुवशश्शत्रुघ्नोऽपि समं गतः। लक्ष्मणो हि यथा रामं तथाऽसौ भरतं गतः।।2.8.29।। Ayodhya Kanda,8,30,श्रूयते हि द्रुमः कश्चिच्छेत्तव्यो वनजीविभिः। सन्निकर्षादिषीकाभिर्मोचितः परमाद्भयात्।।2.8.30।। Ayodhya Kanda,8,31,गोप्ता हि रामं सौमित्रिर्लक्ष्मणं चापि राघवः। अश्विनोरिव सौभ्रात्रं तयोर्लोकेषु विश्रुतम्।।2.8.31।। Ayodhya Kanda,8,32,तस्मान्न लक्ष्मणे रामः पापं किञ्चित्करिष्यति। रामस्तु भरते पापं कुर्यादिति न संशयः।।2.8.32।। Ayodhya Kanda,8,33,तस्माद्राजगृहादेव वनं गच्छतु ते सुतः। एतद्धि रोचते मह्यं भृशं चापि हितं तव।।2.8.33।। Ayodhya Kanda,8,34,एवं ते ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति। यदि चेद्भरतो धर्मात्पित्र्यं राज्यमवाप्स्यसि।।2.8.34।। Ayodhya Kanda,8,35,स ते सुखोचितो बालो रामस्य सहजो रिपुः। समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे।।2.8.35।। Ayodhya Kanda,8,36,अभिद्रुतमिवारण्ये सिंहेन गजयूथपम्। प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि।।2.8.36।। Ayodhya Kanda,8,37,दर्पान्निराकृता पूर्वं त्वया सौभाग्यवत्तया। राममाता सपत्नी ते कथं वैरं न शातयेत्।।2.8.37।। Ayodhya Kanda,8,38,यदा हि रामः पृथिवीमवाप्स्यति प्रभूतरत्नाकरशैलपत्तनाम्। तदा गमिष्यस्यशुभं पराभवं सहैव दीना भरतेन भामिनि।।2.8.38।। Ayodhya Kanda,8,39,यदा हि रामः पृथिवीमवाप्स्यति ध्रुवं प्रणष्टो भरतो भविष्यति। अतो हि सञ्चिन्तय राज्यमात्मजे परस्य चैवाद्य विवासकारणम्।।2.8.39।। Ayodhya Kanda,9,1,एवमुक्ता तु कैकेयी क्रोधेन ज्वलितानना। दीर्घमुष्णं विनिश्वस्य मन्थरामिदमब्रवीत्।।2.9.1।। Ayodhya Kanda,9,2,अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम्। यौवराज्ये च भरतं क्षिप्रमेवाभिषेचये।।2.9.2।। Ayodhya Kanda,9,3,इदं त्विदानीं सम्पश्य केनोपायेन मन्थरे। भरतः प्राप्नुयाद्राज्यं न तु रामः कथञ्चन।।2.9.3।। Ayodhya Kanda,9,4,एवमुक्ता तया देव्या मन्थरा पापदर्शिनी। रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत्।।2.9.4।। Ayodhya Kanda,9,5,हन्तेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां च मे। यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम्।।2.9.5।। Ayodhya Kanda,9,6,किं न स्मरसि कैकेयि स्मरन्ती वा निगूहसे। यदुच्यमानमात्मार्थं मत्तस्त्वं श्रोतुमिच्छसि।।2.9.6।। Ayodhya Kanda,9,7,मयोच्यमानं यदि ते श्रोतुं छन्दो विलासिनि। श्रूयतामभिधास्यामि श्रुत्वा चापि विमृश्यताम्।।2.9.7।। Ayodhya Kanda,9,8,श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकेयी। किञ्चिदुत्थाय शयनात्स्वास्तीर्णादिदमब्रवीत्।।2.9.8।। Ayodhya Kanda,9,9,कथय त्वं ममोपायं केनोपायेन मन्थरे। भरतः प्राप्नुयाद्राज्यं न तु रामः कथञ्चन।।2.9.9।। Ayodhya Kanda,9,10,एवमुक्ता तया देव्या मन्थरा पापदर्शिनी। रामार्थमुपहिंसन्ती कुब्जा वचनमब्रवीत्।।2.9.10।। Ayodhya Kanda,9,11,तव दैवासुरे युद्धे सह राजर्षिभिः पतिः। अगच्छत्त्वामुपादाय देवराजस्य साह्यकृत्।।2.9.11।। Ayodhya Kanda,9,12,दिशमास्थाय वै देवि दक्षिणां दण्डकान्प्रति। वैजयन्तमिति ख्यातं पुरं यत्र तिमिध्वजः।।2.9.12।। Ayodhya Kanda,9,13,स शम्बर इति ख्यातश्शतमायो महासुरः। ददौ शक्रस्य सङ्ग्रामं देवसङ्घैरनिर्जितः।।2.9.13।। Ayodhya Kanda,9,14,तस्मिन्महति सङ्ग्रामे पुरुषान्क्षतविक्षतान्। रात्रौ प्रसुप्तान्घ्नन्ति स्म तरसाऽऽसाद्य राक्षसाः।।2.9.14।। Ayodhya Kanda,9,15,तत्राकरोन्महद्युद्धं राजा दशरथस्तदा। असुरैश्च महाबाहुश्शस्त्रैश्च शकलीकृतः।।2.9.15।। Ayodhya Kanda,9,16,अपवाह्य त्वया देवि सङ्ग्रामान्नष्टचेतनः। तत्रापि विक्षतश्शस्त्रैः पतिस्ते रक्षितस्त्वया।।2.9.16।। Ayodhya Kanda,9,17,तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने। स त्वयोक्तः पतिर्देवि यदेच्छेयं तदा वरौ।।2.9.17।। गृह्णीयामिति तत्तेन तथेत्युक्तं महात्मना। Ayodhya Kanda,9,18,अनभिज्ञाम्ह्यहं देवि त्वयैव कथिता पुरा।।2.9.18।। Ayodhya Kanda,9,19,कथैषा तव तु स्नेहान्मनसा धार्यते मया। रामाभिषेकसम्भारान्निगृह्य विनिवर्तय।।2.9.19।। Ayodhya Kanda,9,20,तौ वरौ याच भर्तारं भरतस्याभिषेचनम्। प्रव्राजनं च रामस्य त्वं वर्षाणि चतुर्दश।।2.9.20।। Ayodhya Kanda,9,21,चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम्। प्रजाभावगतस्नेहस्स्थिरः पुत्रो भविष्यति।।2.9.21।। Ayodhya Kanda,9,22,क्रोधागारं प्रविश्याऽद्य क्रुद्धेवाश्वपतेस्सुते। शेष्वाऽनन्तर्हितायां त्वं भूमौ मलिनवासिनी।।2.9.22।। Ayodhya Kanda,9,23,मास्मैनं प्रत्युदीक्षेथा मा चैनमभिभाषथाः। रुदन्ती चापि तं दृष्ट्वा जगत्यां शोकलालसा।।2.9.23।। Ayodhya Kanda,9,24,दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः। त्वत्कृते स महाराजो विशेदपि हुताशनम्।।2.9.24।। Ayodhya Kanda,9,25,न त्वां क्रोधयितुं शक्तो न क्रृद्धां प्रत्युदीक्षितुम्। तव प्रियार्थं राजा हि प्राणानपि परित्यजेत्।।2.9.25।। Ayodhya Kanda,9,26,न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः। मन्दस्वभावे बुध्यस्व सौभाग्यबलमात्मनः।।2.9.26।। Ayodhya Kanda,9,27,मणिमुक्तं सुवर्णानि रत्नानि विविधानि च। दद्याद्दशरथो राजा मास्म तेषु मनः कृथाः।।2.9.27।। Ayodhya Kanda,9,28,यौ तौ दैवासुरे युद्धे वरौ दशरथोऽददात्। तौ स्मारय महाभागे सोऽर्थो न त्वामतिक्रमेत्।।2.9.28।। Ayodhya Kanda,9,29,यदातु ते वरं दद्यात्स्वयमुत्थाप्य राघवः। व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम्।।2.9.29।। Ayodhya Kanda,9,30,रामं प्रव्राजयारण्ये नव वर्षाणि पञ्च च। भरतः क्रियतां राजा पृथिव्याः पार्थिवर्षभः।।2.9.30।। Ayodhya Kanda,9,31,चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम्। रूढश्च कृतमूलश्च शेषं स्थास्यति ते सुतः।।2.9.31।। Ayodhya Kanda,9,32,रामप्रव्राजनं चैव देवि याचस्व तं वरम्। एवं सिद्ध्यन्ति पुत्रस्य सर्वार्थास्तव भामिनि।।2.9.32।। Ayodhya Kanda,9,33,एवं प्रव्राजितश्चैव रामोऽरामो भविष्यति। भरतश्च हतामित्रस्तव राजा भविष्यति।।2.9.33।। Ayodhya Kanda,9,34,येन कालेन रामश्च वनात्प्रत्यागमिष्यति। तेन कालेन पुत्रस्ते कृतमूलो भविष्यति।।2.9.34।। सुगृहीतमनुष्यश्च सुहृद्भिस्सार्धमात्मवान्। Ayodhya Kanda,9,35,प्राप्तकालं नु मन्येऽहं राजानं वीतसाध्वसा।।2.9.35।। रामाभिषेकसङ्कल्पान्निगृह्य विनिवर्तय। Ayodhya Kanda,9,36,अनर्थमर्थरूपेण ग्राहिता सा ततस्तया।।2.9.36।। हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत्। Ayodhya Kanda,9,37,सा हि वाक्येन कुब्जायाः किशोरीवोत्पथं गता।।2.9.37।। कैकेयी विस्मयं प्राप्ता परं परमदर्शना। Ayodhya Kanda,9,38,कुब्जे त्वां नाभिजानामि श्रेष्ठां श्रेष्ठाभिथायिनीम्।।2.9.38।। पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिश्चये। Ayodhya Kanda,9,39,त्वमेव तु ममाऽर्थेषु नित्ययुक्ता हितैषिणी।।2.9.39।। नाहं समवबुध्येयं कुब्जे राज्ञश्चिकीर्षितम्। Ayodhya Kanda,9,40,सन्ति दुस्संस्थिताः कुब्जा वक्राः परमदारुणाः।।2.9.40।। त्वं पद्ममिव वातेन सन्नता प्रियदर्शना। त्वं पद्ममिव वातेन सन्नता प्रियदर्शना। Ayodhya Kanda,9,41,उरस्तेऽभिनिविष्टं वै यावत्स्कन्धात् समुन्नतं।।2.9.41।। अधस्ताच्चोदरं शातं सुनाभमिव लज्जितम्। Ayodhya Kanda,9,42,परिपूर्णं तु जघनं सुपीनौ च पयोधरौ।।2.9.42।। विमलेन्दुसमं वक्त्रमहोराजसि मन्थरे। Ayodhya Kanda,9,43,जघनं तव निर्घुष्टं रशनादामशोभितम्।।2.9.43।। जङ्घे भृशमुपन्यस्ते पादौ चाप्यायतावुभौ। Ayodhya Kanda,9,44,त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनी।।2.9.44।। अग्रतो मम गच्छन्ती राजहंसीव राजसे। Ayodhya Kanda,9,45,आसन्याश्शम्बरे मायास्सहस्रमसुराधिपे।।2.9.45।। सर्वास्त्वयि निविष्टास्ता भूयश्चान्यास्सहस्रशः। Ayodhya Kanda,9,46,तवेदं स्थगु यद्दीर्घं रथघोणमिवायतम्।।2.9.46।। मतयः क्षत्रविद्याश्च मायाश्चात्र वसन्ति ते। Ayodhya Kanda,9,47,अत्र ते प्रतिमोक्ष्यामि मालां कुब्जे हिरण्मयीम्।।2.9.47।। अभिषिक्ते च भरते राघवे च वनं गते। Ayodhya Kanda,9,48,जात्येन च सुवर्णेन सुनिष्टप्तेन मन्थरे।।2.9.48।। लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु। Ayodhya Kanda,9,49,मुखे च तिलकं चित्रं जातरूपमयं शुभम्।।2.9.49।। कारयिष्यामि ते कुब्जे शुभान्याभरणानि च। Ayodhya Kanda,9,50,परिधाय शुभे वस्त्रे देवतेव चरिष्यसि।।2.9.50।। Ayodhya Kanda,9,51,चन्द्रमाह्वयमानेन मुखेनाप्रतिमानना। गमिष्यसि गतिं मुख्यां गर्वयन्ती द्विषज्जनम्।।2.9.51।। Ayodhya Kanda,9,52,तवापि कुब्जाः कुब्जायास्सर्वाभरणभूषिताः। पादौ परिचरिष्यन्ति यथैव त्वं सदा मम।।2.9.52।। Ayodhya Kanda,9,53,इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत्। शयानां शयने शुभ्रे वेद्यामग्निशिखामिव।।2.9.53।। Ayodhya Kanda,9,54,गतोदके सेतुबन्धो न कल्याणि विधीयते। उत्तिष्ठ कुरु कल्याणि राजानमनुदर्शय।।2.9.54।। Ayodhya Kanda,9,55,तथा प्रोत्साहिता देवी गत्वा मन्थरया सह। क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता।।2.9.55।। Ayodhya Kanda,9,56,अनेकशतसाहस्रं मुक्ताहारं वराङ्गना। अवमुच्य वरार्हाणि शुभान्याभरणानि च।।2.9.56।। Ayodhya Kanda,9,57,ततो हेमोपमा तत्र कुब्जावाक्यवशं गता। संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत्।।2.9.57।। Ayodhya Kanda,9,58,इह वा मां मृतां कुब्जे नृपायावेदयिष्यसि। वनं तु राघवे प्राप्ते भरतः प्राप्स्यति क्षितिम्।।2.9.58।। Ayodhya Kanda,9,59,न सुवर्णेन मे ह्यर्थो न रत्नैर्न च भूषणैः। एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते।।2.9.59।। Ayodhya Kanda,9,60,अथो पुनस्तां महिषीं महीक्षितो वचोभिरत्यर्थमहापराक्रमैः। उवाच कुब्जा भरतस्य मातरं हितं वचो राममुपेत्य चाहितम्।।2.9.60।। Ayodhya Kanda,9,61,प्रपत्स्यते राज्यमिदं हि राघवो यदि ध्रुवं त्वं ससुता च तप्स्यसे। अतो हि कल्याणि यतस्व तत्तथा यथा सुतस्ते भरतोऽभिषेक्ष्यते।।2.9.61।। Ayodhya Kanda,9,62,तथाऽतिविद्धा महिषी तु कुब्जया समाहता वागिषुभिर्मुहुर्मुहुः। निधायहस्तौ हृदयेऽतिविस्मिता शशंस कुब्जां कुपिता पुनः पुनः।।2.9.62।। Ayodhya Kanda,9,63,यमस्य वा मां विषयं गतामितो निशाम्य कुब्जे प्रतिवेदयिष्यसि। वनं गते वा सुचिराय राघवे समृद्धकामो भरतो भविष्यति।।2.9.63।। Ayodhya Kanda,9,64,अहं हि नैवास्तरणानि न स्रजो न चन्दनं नाञ्जनपानभोजनम्। न किञ्चिदिच्छामि न चेह जीवितं न चेदितो गच्छति राघवो वनम्।।2.9.64।। Ayodhya Kanda,9,65,अथैतदुक्त्वा वचनं सुदारुणं निधाय सर्वाभरणानि भामिनी। असंवृतामास्तरणेन मेदिनीं तदाऽधिशिश्ये पतितेव किन्नरी।।2.9.65।। Ayodhya Kanda,9,66,उदीर्णसंरम्भतमोवृतानना तथाऽवमुक्तोत्तममाल्यभूषणा। नरेन्द्रपत्नी विमना बभूव सा तमोवृता द्यौरिव मग्नतारका।।2.9.66।। Ayodhya Kanda,10,1,विदर्शिता यदा देवी कुब्जया पापया भृशम्। तदा शेते स्म सा भूमौ दिग्धविद्धेव किन्नरी।।2.10.1।। Ayodhya Kanda,10,2,निश्चित्य मनसा कृत्यं सा सम्यगिति भामिनी। मन्थरायै शनैस्सर्वमाचचक्षे विचक्षणा।।2.10.2।। Ayodhya Kanda,10,3,सा दीना निश्चयं कृत्वा मन्थरावाक्यमोहिता। नागकन्येव निश्वस्य दीर्घमुष्णं च भामिनी।।2.10.3।। मुहूर्तं चिन्तयामास मार्गमात्मसुखावहम्। Ayodhya Kanda,10,4,सा सुहृच्चार्थकामा च तं निशम्य सुनिश्चयम्।।2.10.4।। बभूव परमप्रीता सिध्दिं प्राप्येव मन्थरा। Ayodhya Kanda,10,5,अथ सा रुषिता देवी सम्यक्कृत्वा विनिश्चयम्।।2.10.5।। संविवेशाबला भूमौ निवेश्य भृकुटीं मुखे। Ayodhya Kanda,10,6,ततश्चित्राणि माल्यानि दिव्यान्याभरणानि च।।2.10.6।। अपविद्धानि कैकेय्या तानि भूमिं प्रपेदिरे। Ayodhya Kanda,10,7,तया तान्यपविद्धानि माल्यान्याभरणानि च।।2.10.7।। अशोभयन्त वसुधां नक्षत्राणि यथा नभः। Ayodhya Kanda,10,8,क्रोधागारे निपतिता सा बभौ मलिनाम्बरा।।2.10.8।। एकवेणीं दृढं बद्वा गतसत्त्वेव किन्नरी। Ayodhya Kanda,10,9,आज्ञाप्य च महाराजो राघवस्याभिषेचनम्।।2.10.9।। उपस्थानमनुज्ञाप्य प्रविवेश निवेशनम्। Ayodhya Kanda,10,10,अद्य रामाभिषेको वै प्रसिद्ध इति जज्ञिवान्।।2.10.10।। प्रियार्हां प्रियमाख्यातुं विवेशान्तःपुरं वशी। Ayodhya Kanda,10,11,स कैकेय्या गृहं श्रेष्ठं प्रविवेश महायशाः।।2.10.11।। पाण्डुराभ्रमिवाकाशं राहुयुक्तं निशाकरः। Ayodhya Kanda,10,12,शुकबर्हिणसङ्घुष्टं क्रौञ्चहंसरुतायुतम्।।2.10.12।। Ayodhya Kanda,10,13,वादित्ररवसङ्घुष्टं कुब्जा वामनिकायुतम्। लतागृहैश्चित्रगृहैश्चम्पकाशोकशोभितैः।।2.10.13।। Ayodhya Kanda,10,14,दान्तराजतसौवर्णवेदिकाभि स्समायुतम्। नित्यपुष्पफलैर्वृक्षैर्वापीभिश्चोपशोभितम्।।2.10.14।। Ayodhya Kanda,10,15,दान्तरजतसौवर्णैस्संवृतं परमासनैः। विविधैरन्नपानैश्च भक्ष्यैश्च विविधैरपि।।2.10.15।। Ayodhya Kanda,10,16,उपपन्नं महार्हैश्च भूषितैस्त्रिदिवोपमम्। तत्प्रविश्य महाराजस्स्वमन्तः पुरमृद्धिमत्।।2.10.16।। न ददर्श प्रियां राजा कैकेयीं शयनोत्तमे। Ayodhya Kanda,10,17,कामबलसंयुक्तो रत्यर्थं मनुजाधिपः।।2.10.17।। अपश्यन्दयितां भार्यां पप्रच्छ विषसाद च। Ayodhya Kanda,10,18,न हि तस्य पुरा देवी तां वेलामत्यवर्तत।।2.10.18।। न च राजा गृहं शून्यं प्रविवेश कदाचन। Ayodhya Kanda,10,19,ततो गृहगतो राजा कैकेयीं पर्यपृच्छत।।2.10.19।। यथा पूर्वमविज्ञाय स्वार्थलिप्सुमपण्डिताम्। Ayodhya Kanda,10,20,प्रतीहारी त्वथोवाच सन्त्रस्ता सुकृताञ्जलिः।।2.10.20।। देव देवी भृशं कृद्धा क्रोधागारमभिदृता। Ayodhya Kanda,10,21,प्रतीहार्या वचश्शृत्वा राजा परमदुर्मनाः।।2.10.21।। विषसाद पुनर्भूयो लुलितव्याकुलेन्द्रियः।। Ayodhya Kanda,10,22,तत्र तां पतितां भूमौ शयानामतथोचिताम्।।2.10.22।। प्रतप्त इव दुःखेन सोऽपश्यज्जगतीपतिः। Ayodhya Kanda,10,23,स वृद्धस्तरुणीं भार्यां प्राणेभ्योपि गरीयसीम्।।2.10.23।। Ayodhya Kanda,10,24,अपापः पापसङ्कल्पां ददर्श धरणीतले। लतामिव विनिष्कृत्तां पतितां देवतामिव।।2.10.24।। Ayodhya Kanda,10,25,किन्नरीमिव निर्धूतां च्युतामप्सरसं यथा। मायामिव परिभ्रष्टां हरिणीमिव संयताम्।।2.10.25।। Ayodhya Kanda,10,26,करेणुमिव दिग्धेन विद्धां मृगयुना वने। महागज इवारण्ये स्नेहात्परिममर्श ताम्।।2.10.26।। Ayodhya Kanda,10,27,परिमृश्य च पाणिभ्यामभिसन्त्रस्तचेतनः। कामी कमलपत्राक्षीमुवाच वनितामिदम्।।2.10.27।। Ayodhya Kanda,10,28,न तेऽहमभिजानामि क्रोधमात्मनि संश्रितम्। देवि केनाभिशप्ताऽसि केन वाऽसि विमानिता।।2.10.28।। यदिदं मम दुःखाय शेषे कल्याणि पांसुषु। Ayodhya Kanda,10,29,भूमौ शेषे किमर्थं त्वं मयि कल्याणचेतसि।।2.10.29।। भूतोपहतचित्तेव मम चित्तप्रमाथिनी। Ayodhya Kanda,10,30,सन्ति मे कुशला वैद्यास्त्वभितुष्टाश्च सर्वशः।।2.10.30।। सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनी। Ayodhya Kanda,10,31,कस्य वा ते प्रियं कार्यं केन वा विप्रियं कृतम्।।2.10.31।। कः प्रियं लभतामद्य को वा सुमहदप्रियम्। Ayodhya Kanda,10,32,मा रोदीर्मा च कार्षीस्त्वं देवि संपरिशोषणम्।।2.10.32।। Ayodhya Kanda,10,33,अवध्यो वध्यतां को वा को वा वध्यो विमुच्यताम्। दरिद्रः को भवत्वाढ्यो द्रव्यवान्वाऽप्यकिञ्चनः।।2.10.33।। Ayodhya Kanda,10,34,अहं चैव मदीयाश्च सर्वे तव वशानुगाः। न ते किञ्चिदभिप्रायं व्याहन्तुमहमुत्सहे।।2.10.34।। Ayodhya Kanda,10,35,आत्मनो जीवितेनापि ब्रूहि यन्मनसेच्छसि। बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि।।2.10.35।। करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे। Ayodhya Kanda,10,36,यावदावर्तते चक्रं तावती मे वसुन्धरा।।2.10.36।। Ayodhya Kanda,10,37,प्राचीनास्सिन्धुसौवीरा स्सौराष्ट्रा दक्षिणापथाः। वङ्गाङ्गमगधाः मत्स्याः समृद्धा काशिकोसलाः।।2.10.37।। Ayodhya Kanda,10,38,तत्र जातं बहु द्रव्यं धनधान्यमजाविकम्। ततो वृणीष्व कैकेयि यद्यत्त्वं मनसेच्छसि।।2.10.38।। Ayodhya Kanda,10,39,किमायासेन ते भीरु उत्तिष्ठोत्तिष्ठ शोभने। तत्त्वं मे ब्रूहि कैकेयि यतस्ते भयमागतम्।।2.10.39।। तत्ते व्यपनयिष्यामि नीहारमिव रश्मिवान्। Ayodhya Kanda,10,40,तथोक्ता सा समाश्वस्ता वक्तुकामा तदप्रियम्।।2.10.40।। परिपीडयितुं भूयो भर्तारमुपचक्रमे। Ayodhya Kanda,11,1,तं मन्मथशरैर्विद्धमं कामवेगवशानुगम्। उवाच पृथिवीपालं कैकेयी दारुणं वचः।।2.11.1।। Ayodhya Kanda,11,2,नास्मि विप्रकृतादेव केनचिन्नावमानिता। अभिप्रायस्तु मे कश्चित्तमिच्छामि त्वया कृतम्।।2.11.2।। Ayodhya Kanda,11,3,प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तुमिच्छसि। अथ तद्व्याहरिष्यामि यदभिप्रार्थितं मया।।2.11.3।। Ayodhya Kanda,11,4,तामुवाच महातेजाः कैकेयीमीषदुत्स्मितः। कामी हस्तेन संगृह्य मूर्धजेषु शुचिस्मिताम्।।2.11.4।। Ayodhya Kanda,11,5,आवलिप्ते न जानासि त्वत्तः प्रियतरो मम। मनुजो मनुजव्याघ्राद्रामादन्यो न विद्यते।।2.11.5।। Ayodhya Kanda,11,6,तेनाजय्येन मुख्येन राघवेण महात्मना। शपे ते जीवनार्हेण ब्रूहि यन्मनसेच्छासि।।2.11.6।। Ayodhya Kanda,11,7,यं मुहूर्तमपश्यंस्तु न जीवेयमहं ध्रुवम्। तेन रामेण कैकेयि शपे ते वचनक्रियाम्।।2.11.7।। Ayodhya Kanda,11,8,आत्मना वात्मजैश्चान्यैर्वृणेयं मनुजर्षभम्। तेन रामेण कैकेयि शपे ते वचनक्रियाम्।।2.11.8।। Ayodhya Kanda,11,9,भद्रे हृदयमप्येतदनुमृशोद्धरस्व मे। एतत्समीक्ष्य कैकेयि ब्रूहि यत्साधु मन्यसे।।2.11.9।। Ayodhya Kanda,11,10,बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि। करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे।।2.11.10।। Ayodhya Kanda,11,11,सा तदर्थमना देवी तमभिप्रायमागतम्। निर्माध्यस्थ्याच्च हर्षाच्च बभाषे दुर्वचं वचः।।2.11.11।। Ayodhya Kanda,11,12,तेन वाक्येन संहृष्टा तमभिप्रायमागतम्। व्याजहार महाघोरमभ्यागतमिवान्तकम्।।2.11.12।। Ayodhya Kanda,11,13,यथा क्रमे शपसि वरं मम ददासि च। तच्छृण्वन्तु त्रयस्त्रिंशद्देवास्साग्निपुरोगमाः।।2.11.13।। Ayodhya Kanda,11,14,चन्द्रादित्यौ नभश्चैव ग्रहा रात्र्यहनी दिशः। जगच्च पृथिवी चेयं सगन्धर्वा सराक्षसा।।2.11.14।। Ayodhya Kanda,11,15,निशाचराणि भूतानि गृहेषु गृहदेवता। यानि चान्यानि भूतानि जानीयुर्भाषितं तव।।2.11.15।। Ayodhya Kanda,11,16,सत्यसन्धो महातेजाः धर्मज्ञः सुसमाहितः। वरं मम ददात्येष तन्मे श्रृण्वन्तु दैवताः।।2.11.16।। Ayodhya Kanda,11,17,इति देवी महेष्वासं परिगृह्याभिशस्य च। ततः परमुवाचेदं वरदं काममोहितम्।।2.11.17।। Ayodhya Kanda,11,18,स्मर राजन् पुरावृत्तं तस्मिन् दैवासुरे रणे। तत्र चाच्यावयच्छत्रुस्तव जीवितमन्तरा।।2.11.18।। Ayodhya Kanda,11,19,तत्र चापि मया देव यत्त्वं समभिरक्षितः। जाग्रत्या यतमानायास्ततो मे प्राददा वरौ।।2.11.19।। Ayodhya Kanda,11,20,तौ तु दत्तौ वरौ देव निक्षेपौ मृगयाम्यहम्। तथैव पृथिवीपाल सकाशे सत्यसङ्गर।।2.11.20।। Ayodhya Kanda,11,21,तत् प्रतिश्रुत्य धर्मेण न चेद्दास्यसि मे वरम्। अद्यैव हि प्रहास्यामि जीवितं त्वद्विमानिता।।2.11.21।। Ayodhya Kanda,11,22,वाङ्मात्रेण तदा राजा कैकेय्या स्ववशे कृतः। प्रचस्कन्द विनाशाय पाशं मृग इवात्मनः।।2.11.22।। Ayodhya Kanda,11,23,ततः परमुवाचेदं वरदं काममोहितम्। वरौ यौ मे त्वया देव तदा दत्तौ महीपते।।2.11.23।। तौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः। Ayodhya Kanda,11,24,अभिषेकसमारम्भो राघवस्योपकल्पितः।।2.11.24।। अनेनैवाभिषेकेण भरतो मेऽभिषिच्यताम्। Ayodhya Kanda,11,25,यो द्वितीयो वरो देव दत्तः प्रीतेन मे त्वया।।2.11.25।। तदा दैवासुरे युद्धे तस्य कालोऽयमागत। Ayodhya Kanda,11,26,नव प़ञ्च च वर्षाणि दण्डकारण्यमाश्रितः।।2.11.26।। चीराजिनजटाधारी रामो भवतु तापसः। Ayodhya Kanda,11,27,भरतो भजतामद्य यौवराज्यमकण्टकम्।।2.11.27।। Ayodhya Kanda,11,28,एष मे परमः कामो दत्तमेव वरं वृणे। अद्य चैव हि पश्येयं प्रयान्तं राघवं वनम्।।2.11.28।। Ayodhya Kanda,11,29,स राजराजः भव सत्यसङ्गरः कुलं च शीलं च हि रक्ष जन्म च। परत्रवासे हि वदन्त्यनुत्तमं तपोधनास्सत्यवचो हितं नृणाम्।।2.11.29।। Ayodhya Kanda,12,1,ततश्शृत्वा महाराजः कैकेय्या दारुणं वचः। चिन्तामभिसमापेदे मुहूर्तं प्रतताप च।।2.12.1।। Ayodhya Kanda,12,2,किन्नु मे यदि वा स्वप्नश्चित्तमोहोऽपि वा मम। अनुभूतोपसर्गो वा मनसो वाप्युपद्रवः।।2.12.2।। Ayodhya Kanda,12,3,इति सञ्चिन्त्य तद्राजा नाध्यगच्छत्तदासुखम्। प्रतिलभ्य चिरात्संज्ञां कैकेयीवाक्यताडितः।।2.12.3।। Ayodhya Kanda,12,4,व्यथितो विक्लबश्चैव व्याघ्रीं दृष्ट्वा यथा मृगः। असंवृतायामासीनो जगत्यां दीर्घमुच्छवसन्।।2.12.4।। Ayodhya Kanda,12,5,मण्डले पन्नगो रुद्धो मन्त्रैरिव महाविषः। अहो धिगिति सामर्षो वाचमुक्त्वा नराधिपः।।2.12.5।। मोहमापेदिवान्भूय श्शोकोपहतचेतनः। Ayodhya Kanda,12,6,चिरेण तु नृप स्संज्ञां प्रतिलभ्य सुदुःखितः।।2.12.6।। कैकेयीमब्रवीत्क्रुद्धःप्रदहन्निव चक्षुषा। Ayodhya Kanda,12,7,नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि।।2.12.7।। किं कृतं तव रामेण पापं पापे मयापि वा। Ayodhya Kanda,12,8,यदा ते जननीतुल्यां वृत्तिं वहति राघव: ।।2.12.8।। तस्यैव त्वमनर्थाय किंनिमित्तमिहोद्यता । Ayodhya Kanda,12,9,त्वं मयाऽऽत्मविनाशार्थं भवनं स्वं प्रवेशिता।।2.12.9।। अविज्ञानान्नृपसुता व्याली तीक्ष्णविषा यथा। Ayodhya Kanda,12,10,जीवलोको यदा सर्वो रामस्याह गुणस्तवम्।।2.12.10।। अपराधं किमुद्दिश्य त्यक्ष्यामीष्टमहं सुतम्। Ayodhya Kanda,12,11,कौसल्यां वा सुमित्रां वा त्यजेयमपि वा श्रियम्।।2.12.11।। जीवितं वाऽत्मनो रामं न त्वेव पितृवत्सलम्। Ayodhya Kanda,12,12,परा भवति मे प्रीतिर्दृष्ट्वा तनयमग्रजम्।।2.12.12।। अपश्यतस्तु मे रामं नष्टा भवति चेतना। Ayodhya Kanda,12,13,तिष्ठेल्लोको विना सूर्यं शस्यं वा सलिलं विना।।2.12.13।। न तु रामं विना देहे तिष्ठेत्तु मम जीवितम्। Ayodhya Kanda,12,14,तदलं त्यज्यतामेष निश्चयः पापनिश्चये।।2.12.14।। अपि ते चरणै मूर्ध्ना स्पृशाम्येष प्रसीद मे। Ayodhya Kanda,12,15,किमिदं चिन्तितं पापे त्वया परमदारुणम्।।2.12.15।। Ayodhya Kanda,12,16,अथ जिज्ञाससे मां त्वं भरतस्य प्रियाप्रिये। अस्तु यत्तत्त्वया पूर्वं व्याहृतं राघवं प्रति।।2.12.16।। Ayodhya Kanda,12,17,स मे ज्येष्ठस्सुत श्रीमान्धर्मज्येष्ठ इतीव मे। तत्त्वया प्रियवादिन्या सेवार्थं कथितं भवेत्।।2.12.17।। Ayodhya Kanda,12,18,तच्छ्रुत्वा शोकसन्तप्ता सन्तापयसि मां भृशम्। आविष्टाऽसि गृहं शून्यं सा त्वं परवशं गता।।2.12.18।। Ayodhya Kanda,12,19,इक्ष्वाकूणां कुले देवि सम्प्राप्तस्सुमहानयम्। अनयो नयसम्पन्ने यत्र ते विकृता मतिः।।2.12.19।। Ayodhya Kanda,12,20,नहि किञ्चिदयुक्तं वा विप्रियं वा पुरा मम। अकरोस्त्वं विशालाक्षि तेन न श्रद्दधाम्यहम्।।2.12.20।। Ayodhya Kanda,12,21,ननु ते राघवस्तुल्यो भरतेन महात्मना। बहुशो हि सुबाले त्वं कथाः कथयसे मम।।2.12.21।। Ayodhya Kanda,12,22,तस्य धर्मात्मनो देवि वनवासं यशस्विनः। कथं रोचयसे भीरु नव वर्षाणि पञ्च च।।2.12.22।। Ayodhya Kanda,12,23,अत्यन्तसुकुमारस्य तस्य धर्मे धृतात्मनः। कथं रोचयसे वासमरण्ये भृशदारुणे।।2.12.23।। Ayodhya Kanda,12,24,रोचयस्यभिरामस्य रामस्य शुभलोचने। तव शुश्रूषमाणस्य किमर्थं विप्रवासनम्।।2.12.24।। Ayodhya Kanda,12,25,रामो हि भरताद्भूयस्तव शुश्रूषते सदा। विशेषं त्वयि तस्मात्तु भरतस्य न लक्षये।।2.12.25।। Ayodhya Kanda,12,26,शुश्रूषां गौरवं चैव प्रमाणं वचनक्रियाम्। कस्ते भूयस्तरं कुर्यादन्यत्र मनुजर्षभात्।।2.12.26।। बहूनां स्त्रीसहस्राणां बहूनां चोपजीविनाम्। Ayodhya Kanda,12,27,परिवादोऽपवादो वा राघवे नोपपद्यते।।2.12.27।। Ayodhya Kanda,12,28,सान्त्वयन्सर्वभूतानि राम श्शुद्धेन चेतसा। गृह्णाति मनुजव्याघ्र प्रियैर्विषयवासिनः।।2.12.28।। Ayodhya Kanda,12,29,सत्येन लोकान् जयति दीनान् दानेन राघवः। गुरूञ्छुश्रूषया वीरो धनुषा युधि शात्रवान्।।2.12.29।। Ayodhya Kanda,12,30,सत्यं दानं तपस्त्यागो मित्रता शौचमार्जवम्। विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे।।2.12.30।। Ayodhya Kanda,12,31,तस्मिन्नार्जवसम्पन्ने देवि देवोपमे कथम्। पापमाशंससे रामे महर्षिसमतेजसि।।2.12.31।। Ayodhya Kanda,12,32,न स्मराम्यप्रियं वाक्यं लोकस्य प्रियवादिनः। स कथं त्वत्कृते रामं वक्ष्यामि प्रियमप्रियम्।।2.12.32।। Ayodhya Kanda,12,33,क्षमा यस्मिन्दमस्त्याग सत्यं धर्मः कृतज्ञता। अप्यहिंसा च भूतानां तमृते का गतिर्मम।।2.12.33।। Ayodhya Kanda,12,34,मम वृद्धस्य कैकेयि गतान्तस्य तपस्विनः। दीनं लालप्यमानस्य कारुण्यं कर्तुमर्हसि।।2.12.34।। Ayodhya Kanda,12,35,पृथिव्यां सागरान्तायां यत्किञ्चिदधिगम्यते। तत्सर्वं तव दास्यामि मा च त्वां मन्युराविशेत्।।2.12.35।। Ayodhya Kanda,12,36,अञ्जलिं करोमि कैकेयि पादौ चापि स्पृशामि ते। शरणं भव रामस्य माऽधर्मो मामिह स्पृशेत्।।2.12.36।। Ayodhya Kanda,12,37,इति दुःखाभिसन्तप्तं विलपन्तमचेतनम्। घूर्णमानं महाराजं शोकेन समभिप्लुतम्।।2.12.37।। Ayodhya Kanda,12,38,पारं शोकार्णवस्याशु प्रार्थयन्तं पुनः पुनः। प्रत्युवाचाथ कैकेयी रौद्रा रौद्रतरं वचः।।2.12.38।। Ayodhya Kanda,12,39,यदि दत्त्वा वरौ राजन्पुनः प्रत्यनुतप्यसे। धार्मिकत्वं कथं वीर पृथिव्यां कथयिष्यसि।।2.12.39।। Ayodhya Kanda,12,40,यदा समेता बहवस्त्वया राजर्षय स्सह। कथयिष्यन्ति धर्मज्ञ तत्र किं प्रतिवक्ष्यसि।।2.12.40।। Ayodhya Kanda,12,41,यस्याः प्रसादे जीवामि या च मामभ्यपालयत्। तस्याः कृतम् मया मिथ्या कैकेय्या इति वक्षयसि।।2.12.41।। Ayodhya Kanda,12,42,किल्बिषत्वं नरेन्द्राणां करिष्यसि नराधिप। यो दत्वा वरमद्यैव पुनरन्यानि भाषसे।।2.12.42।। Ayodhya Kanda,12,43,शैब्यश्श्येनकपोतीये स्वमांसं पक्षिणे ददौ। अलर्कश्चक्षुषी दत्वा जगाम गतिमुत्तमाम्।।2.12.43।। Ayodhya Kanda,12,44,सागरस्समयं कृत्वा न वेलामतिवर्तते। समयं माऽनृतं कार्षीः पूर्ववृत्तमनुस्मरन्।।2.12.44।। Ayodhya Kanda,12,45,स त्वं धर्मं परित्यज्य रामं राज्येऽभिषिच्य च। सह कौसल्यया नित्यं रन्तुमिच्छसि दुर्मते।।2.12.45।। Ayodhya Kanda,12,46,भवत्वधर्मो धर्मो वा सत्यं वा यदि वाऽनृतम्। यत्त्वया संश्रुतं मह्यं तस्य नास्ति व्यतिक्रमः।।2.12.46।। Ayodhya Kanda,12,47,अहं हि विषमद्यैव पीत्वा बहु तवाग्रतः। पश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते।।2.12.47।। Ayodhya Kanda,12,48,एकाहमपि पश्येयं यद्यहं राममातरम्। अञ्जलिं प्रतिगृह्णन्तीं श्रेयो ननु मृतिर्मम।।2.12.48।। Ayodhya Kanda,12,49,भरतेनात्मना चाहं शपे ते मनुजाधिप। यथा नान्येन तुष्येयमृते रामविवासनात्।।2.12.49।। Ayodhya Kanda,12,50,एतावदुक्त्वा वचनं कैकेयी विरराम ह। विलपन्तं च राजानं न प्रतिव्याजहार सा।।2.12.50।। Ayodhya Kanda,12,51,श्रुत्वा तु राजा कैकेय्या वृतं परमशोभनम्। रामस्य च वने वासमैश्वर्यं भरतस्य च।।2.12.51।। नाभ्यभाषत कैकेयीं मुहूर्तं व्याकुलेन्द्रियः। Ayodhya Kanda,12,52,प्रैक्षतानिमिषो देवीं प्रियामप्रियवादिनीम्।।2.12.52।। Ayodhya Kanda,12,53,तां हि वज्रसमां वाचमाकर्ण्य हृदयाप्रियाम्। दुःखशोकमयीं घोरां राजा न सुखितोऽभवत्।।2.12.53।। Ayodhya Kanda,12,54,स देव्या व्यवसायं च घोरं च शपथं कृतम्। ध्यात्वा रामेति निश्श्वस्य छिन्न स्तरुरिवापतत्।।2.12.54।। Ayodhya Kanda,12,55,नष्टचित्तो यथोन्मत्तो विपरीतो यथाऽतुरः। हृततेजा यथा सर्पो बभूव जगतीपतिः।।2.12.55।। Ayodhya Kanda,12,56,दीनया तु गिरा राजा इति होवाच कैकयीम्। अनर्थमिममर्थाभं केन त्वमुपदर्शिता।।2.12.56।। भूतोपहतचित्तेव ब्रुवन्ती मां न लज्जसे। Ayodhya Kanda,12,57,शीलव्यसनमेतत्ते नाभिजानाम्यहं पुरा।।2.12.57।। बालायास्तत्त्वितिदानीं ते लक्षये विपरीतवत्। Ayodhya Kanda,12,58,कुतो वा ते भयं जातं या त्वमेवंविधं वरम्।।2.12.58।। राष्ट्रे भरतमासीनं वृणीषे राघवं वने। Ayodhya Kanda,12,59,विरमैतेन भावेन त्वमेतेनानृतेन वा।।2.12.59।। यदि भर्तुः प्रियं कार्यं लोकस्य भरतस्य च। Ayodhya Kanda,12,60,नृशंसे पापसङ्कल्पे क्षुद्रे दुष्कृतकारिणि।।2.12.60।। किन्नु दुखमलीकं वा मयि रामे च पश्यसि। Ayodhya Kanda,12,61,न कथञ्चिदृते रामाद्भरतो राज्यमावसेत्।।2.12.61।। रामादपि हि तं मन्ये धर्मतो बलवत्तरम्। Ayodhya Kanda,12,62,कथं द्रक्ष्यामि रामस्य वनं गच्छेति भाषिते।।2.12.62।। मुखवर्णं विवर्णं तु तं यथैवेन्दुमुपप्लुतम्। Ayodhya Kanda,12,63,तां हि मे सुकृतां बुद्धिं सुहृद्भिस्सह निश्चिताम्।।2.12.63।। Ayodhya Kanda,12,64,कथं द्रक्ष्याम्यपावृत्तां परैरिव हतां चमूम्। किं मां वक्ष्यन्ति राजानो नानादिग्भ्य स्समागताः।।2.12.64।। बालो बताऽयमैक्ष्वाकश्चिरं राज्यमकारयत्। Ayodhya Kanda,12,65,यदा तु बहवो वृद्धा गुणवन्तो बहुश्रुताः।।2.12.65।। परिप्रक्ष्यन्ति काकुत्स्थं वक्ष्यामि किमहं तदा। Ayodhya Kanda,12,66,कैकेय्या क्लिश्यमानेन रामः प्रव्राजितो मया।।2.12.66।। यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति। Ayodhya Kanda,12,67,किं मां वक्ष्यति कौशल्या राघवे वनमास्थिते।।2.12.67।। किं चैनां प्रतिवक्ष्यामि कृत्वा विप्रियमीदृशम्। Ayodhya Kanda,12,68,यदा यदा हि कौशल्या दासीवच्च सखीव च।।2.12.68।। Ayodhya Kanda,12,69,भार्यावद्भगिनीवच्च मातृवच्चोपतिष्ठति। सततं प्रियकामा मे प्रियपुत्रा प्रियंवदा।।2.12.69।। न मया सत्कृता देवी सत्कारार्हा कृते तव। Ayodhya Kanda,12,70,इदानीं तत्तपति मां यन्मया सुकृतं त्वयि।।2.12.70।। अपथ्यव्यञ्जनोपेतं भुक्तमन्नमिवातुरम्। Ayodhya Kanda,12,71,विप्रकारं च रामस्य सम्प्रयाणं वनस्य च।।2.12.71।। सुमित्रा प्रेक्ष्य वै भीता कथं मे विश्वसिष्यति। Ayodhya Kanda,12,72,कृपणं बत वैदेही श्रोष्यति द्वयमप्रियम्।।2.12.72।। मां च पञ्चत्वमापन्नं रामं च वनमाश्रितम्। Ayodhya Kanda,12,73,वैदेही बत मे प्राणान्शोचन्ती क्षपयिष्यति।।2.12.73।। हीना हिमवतः पार्श्वे किन्नरेणेव किन्नरी। Ayodhya Kanda,12,74,न हि राममहं दृष्ट्वा प्रवसन्तं महावने।।2.12.74।। चिरं जीवितुमाशंसे रुदन्तीं चापि मैथिलीम्। Ayodhya Kanda,12,75,सा नूनं विधवा राज्यं सपुत्रा कारयिष्यसि।।2.12.75।। न हि प्रव्राजिते रामे देवि जीवितुमुत्सहे। Ayodhya Kanda,12,76,सतीं त्वामहमत्यन्तं व्यवस्याम्यसतीं सतीम्। रूपिणीं विषसंयुक्तां पीत्वेव मदिरां नरः।।2.12.76।। Ayodhya Kanda,12,77,अनृतैर्बहु मां सान्त्वै स्सान्त्वयन्ती स्म भाषसे। गीतशब्देन संरुध्य लुब्धो मृगमिवावधीः।।2.12.77।। Ayodhya Kanda,12,78,अनार्य इति मामार्याः पुत्रविक्रायकं ध्रुवम्। धिक्करिष्यन्ति रथ्यासु सुरापं ब्राह्मणं यथा।।2.12.78।। Ayodhya Kanda,12,79,अहो दुःखमहो कृच्छ्रं यत्र वाचः क्षमे तव। दुःखमेवंविधं प्राप्तं पुराकृतमिवाशुभम्।।2.12.79।। Ayodhya Kanda,12,80,चिरं खलु मया पापे त्वं पापेनाभिरक्षिता। अज्ञानादुपसम्पन्ना रज्जुरुद्बन्धिनी यथा।।2.12.80।। Ayodhya Kanda,12,81,रममाणस्त्वया सार्धं मृत्युं त्वां नाभिलक्षये। बालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम्।।2.12.81।। Ayodhya Kanda,12,82,मया ह्यपितृकः पुत्र स्समहात्मा दुरात्मना। तं तु मां जीवलोकोऽयं नूनमाक्रोष्टुमर्हति।।2.12.82।। Ayodhya Kanda,12,83,बालिशो बत कामात्मा राजा दशरथो भृशम्। यः स्त्रीकृते प्रियं पुत्रं वनं प्रस्थापयिष्यति।।2.12.83।। Ayodhya Kanda,12,84,व्रतैश्च ब्रह्मचर्यैश्च गुरुभिश्चोपकर्शितः। भोगकाले महत्कृच्छ्रं पुनरेव प्रपत्स्यते।।2.12.84।। Ayodhya Kanda,12,85,नालं द्वितीयं वचनं पुत्रो मां प्रतिभाषितुम्। स वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति।।2.12.85।। Ayodhya Kanda,12,86,यदि मे राघवः कुर्याद्वनं गच्छेति चोदितः। प्रतिकूलं प्रियं मे स्यान्न तु वत्सः करिष्यति।।2.12.86।। Ayodhya Kanda,12,87,शुद्धभावो हि भावं मे न तु ज्ञास्यति राघवः।।2.12.87।। स वनं प्रब्रजे त्युक्तो बाढ मित्येव वक्षयति। Ayodhya Kanda,12,88,राघवे हि वनं प्राप्ते सर्वलोकस्य धिक्कृतम्।।2.12.88।। मृत्युरक्षमणीयं मां नयिष्यति यमक्षयम्। Ayodhya Kanda,12,89,मृते मयि गते रामे वनं मनुजपुङ्गवे।।2.12.89।। इष्टे मम जने शेषे किं पापं प्रतिपत्स्यसे। Ayodhya Kanda,12,90,कौशल्या मां च रामं च पुत्रौ च यदि हास्यति।।2.12.90।। दुःखान्यसहती देवी मामेवानुमरिष्यति। Ayodhya Kanda,12,91,कौसल्यां च सुमित्रां च मां च पुत्रैस्त्रिभिस्सह।।2.12.91।। प्रक्षिप्य नरके सा त्वं कैकेयि सुखिता भव। Ayodhya Kanda,12,92,मया रामेण च त्यक्तं शाश्वतं सत्कृतं गुणैः।।2.12.92।। इक्ष्वाकुकुलमक्षोभ्यमाकुलं पालयिष्यसि। Ayodhya Kanda,12,93,प्रियं चेद्भरतस्यैतद्रामप्रव्राजनं भवेत्।।2.12.93।। मा स्म मे भरतः कार्षीत्प्रेतकृत्यं गतायुषः। Ayodhya Kanda,12,94,हन्तानार्ये ममामित्रे सकामा भव कैकयि।।2.12.94।। Ayodhya Kanda,12,95,मृते मयि गते रामे वनं पुरुषपुङ्गवे। सेदानीं विधवा राज्यं सपुत्रा कारयिष्यसि।।2.12.95।। Ayodhya Kanda,12,96,त्वं राजपुत्रीवादेन न्यवसो मम वेश्मनि। अकीर्तिश्चातुला लोके ध्रुवः परिभवश्च मे।।2.12.96।। सर्वभूतेषु चावज्ञा यथा पापकृतस्तथा। Ayodhya Kanda,12,97,कथं रथैर्विभुर्यात्वा गजाश्वैश्च मुहुर्मुहुः।।2.12.97।। पद्भ्यां रामो महारण्ये वत्सो मे विचरिष्यति। Ayodhya Kanda,12,98,यस्य त्वाहारसमये सूदाः कुण्डलधारिणः।।2.12.98।। Ayodhya Kanda,12,99,अहंपूर्वाः पचन्ति स्म प्रशस्तं पानभोजनम्। स कथन्नु कषायाणि तिक्तानि कटुकानि च।।2.12.99।। भक्षयन्वन्यमाहारं सुतो मे वर्तयिष्यति। Ayodhya Kanda,12,100,महार्हवस्त्रसंवीतो भूत्वा चिरसुखोषितः।।2.12.100।। काषायपरिधानस्तु कथं भूमौनिवत्स्यति। Ayodhya Kanda,12,101,कस्यैतद्धारुणं वाक्यमेवंविधमचिन्तितम्।।2.12.101।। रामस्यारण्यगमनं भरतस्याभिषेचनम्। Ayodhya Kanda,12,102,धिगस्तु योषितो नाम शठा स्स्वार्थपरास्सदा। न ब्रवीमि स्त्रिय स्सर्वा भरतस्यैव मातरम्।।2.12.102।। Ayodhya Kanda,12,103,अनर्थभावेऽर्थपरे नृशंसे ममानुतापाय निविष्टभावे। किमप्रियं पश्यसि मन्निमित्तं हितानुकारिण्यथवाऽपि रामे।।2.12.103।। Ayodhya Kanda,12,104,परित्यजेयुः पितरो हि पुत्रान्भार्याः पतींश्चापि कृतानुरागाः। कृत्स्नं हि सर्वं कुपितं जगत्स्याद्दृष्ट्वैव रामं व्यसने निमग्नम्।।2.12.104।। Ayodhya Kanda,12,105,अहं पुनर्देवकुमाररूपमलङ्कृतं तं सुतमाव्रजन्तम्। नन्दामि पश्यन्नपि दर्शनेन भवामि दृष्ट्वैव च पुनर्युवेव।।2.12.105।। Ayodhya Kanda,12,106,विनाऽपि सूर्येण भवेत्प्रवृत्तिरवर्षता वज्रधरेण वाऽपि। रामं तु गच्छन्तमित स्समीक्ष्य जीवेन्न कश्चित्त्विति चेतना मे।।2.12.106।। Ayodhya Kanda,12,107,विनाशकामामहिताममित्रामावासयं मृत्युमिवात्मनस्त्वाम्। चिरं बताङ्केन धृतासि सर्पी महाविषा तेन हतोऽस्मि मोहात्।।2.12.107।। Ayodhya Kanda,12,108,मया च रामेण च लक्ष्मणेन प्रशास्तु हीनो भरतस्त्वया सह। पुरं च राष्ट्रं च निहत्य बान्धवान् ममाहितानां च भवाभिहर्षिणी।।2.12.108।। Ayodhya Kanda,12,109,नृशंसवृत्ते व्यसनप्रहारिणि प्रसह्य वाक्यं यदिहाद्य भाषसे। न नाम ते केन मुखात्पतन्त्यधो विशीर्यमाणा दशना स्सहस्रधा।।2.12.109।। Ayodhya Kanda,12,110,न किञ्चिदाहाहितमप्रियं वचो न वेत्ति रामः परुषाणि भाषितुम्। कथन्नु रामे ह्यभिरामवादिनि ब्रवीषि दोषान्गुणनित्यसम्मते।।2.12.110।। Ayodhya Kanda,12,111,प्रताम्य वा प्रज्वल वा प्रणश्य वा सहस्रशो वा स्फुटिता महीं व्रज। न ते करिष्यामि वच स्सुदारुणं ममाहितं केकयराजपांसनि।।2.12.111।। Ayodhya Kanda,12,112,"""क्षुरोपमां नित्यमसत्प्रियंवदां प्रदुष्टभावां स्वकुलोपघातिनीम्। न जीवितुं त्वां विषहेऽमनोरमां दिधक्षमाणां हृदयं सबन्धनम्।।2.12,112।।""" Ayodhya Kanda,12,113,न जीवितं मेऽस्ति पुनःकुत स्सुखं विनाऽऽत्मजेनाऽत्मवतः कुतो रतिः। ममाहितं देवि न कर्तुमर्हसि स्पृशामि पादावपि ते प्रसीद मे।।2.12.113।। Ayodhya Kanda,12,114,स भूमिपालो विलपन्ननाथवत्स्त्रिया गृहीतो हृदयेऽतिमात्रया। पपात देव्याश्चरणौ प्रसारितावुभावसम्स्पृश्य यथाऽतुरस्तथा।।2.12.114।। Ayodhya Kanda,13,1,अतदर्हं महाराजं शयानमतथोचितम्। ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम्।।2.13.1।। Ayodhya Kanda,13,2,अनर्थरूपा सिद्धार्था ह्यभीता भयदर्शिनी। पुनराकारयामास तमेव वरमङ्गना।।2.13.2।। Ayodhya Kanda,13,3,त्वं कत्थसे महाराज सत्यवादी दृढव्रतः। मम चेमं वरं कस्माद्विधारयितुमिच्छसि।।2.13.3।। Ayodhya Kanda,13,4,एवमुक्तस्तु कैकेय्या राजा दशरथस्तदा। प्रत्युवाच ततः क्रुद्धो मुहूर्तं विह्वलन्निव।।2.13.4।। Ayodhya Kanda,13,5,मृते मयि गते रामे वनं मनुजपुङ्गवे। हन्तानार्ये ममामित्रे सकामा सुखिनी भव।।2.13.5।। Ayodhya Kanda,13,6,स्वर्गेऽपि खलु रामस्य कुशलं दैवतैरहम्। प्रत्यादेशादभिहितं धारयिष्ये कथं बत।।2.13.6।। Ayodhya Kanda,13,7,कैकेय्याः प्रियकामेन रामः प्रव्राजितो मया। यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति।।2.13.7।। Ayodhya Kanda,13,8,अपुत्रेण मया पुत्रश्श्रमेण महता महान्। रामो लब्धो महाबाहु स्सकथं त्यज्यते मया।।2.13.8।। Ayodhya Kanda,13,9,शूरश्च कृतविद्यश्च जितक्रोधो क्षमापरः। कथं कमलपत्राक्षो मया रामो विवास्यते।।2.13.9।। Ayodhya Kanda,13,10,कथमिन्दीवरश्यामं दीर्घबाहुं महाबलम्। अभिराममहं रामं प्रेषयिष्यामि दण्डकान्।।2.13.10।। Ayodhya Kanda,13,11,सुखानामुचितस्यैव दुःखैरनुचितस्य च। दुखं नामानुपश्येयं कथं रामस्य धीमतः।।2.13.11।। Ayodhya Kanda,13,12,यदि दुःखमकृत्वाऽद्य मम संक्रमणं भवेत्। अदुःखार्हस्य रामस्य तत स्सुखमवाप्नुयाम्।।2.13.12।। Ayodhya Kanda,13,13,नृशंसे पापसङ्कल्पे रामं सत्यपराक्रमम्। किं विप्रियेण कैकेयि प्रियं योजयसे मम।।2.13.13।। अकीर्तिरतुला लोके ध्रुवं परिभवश्च मे। Ayodhya Kanda,13,14,तथा विलपतस्तस्य परिभ्रमितचेतसः।।2.13.14।। अस्तमभ्यगमत्सूर्यो रजनी चाभ्यवर्तत। Ayodhya Kanda,13,15,सा त्रियामा तथार्त्तस्य चन्द्रमण्डलमण्डिता।।2.13.15।। राज्ञो विलपमानस्य न व्यभासत शर्वरी। Ayodhya Kanda,13,16,तथैवोष्णं विनिश्वस्य वृद्धो दशरथो नृपः।।2.13.16।। विललापार्तवद्युखं गगनासक्तलोचनः। Ayodhya Kanda,13,17,न प्रभातं त्वयेच्छामि निशे नक्षत्रभूषणे।।2.13.17।। क्रियतां मे दया भद्रे मयाऽयं रचितोऽञ्जलिः। Ayodhya Kanda,13,18,अथवा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम्।।2.13.18।। नृशंसां कैकयीं द्रष्टुं यत्कृते व्यसनं महत्। Ayodhya Kanda,13,19,एवमुक्त्वा ततो राजा कैकेयीं संयताञ्जलिः।।2.13.19।। प्रसादयामास पुनः कैकेयीं चेदमब्रवीत्। Ayodhya Kanda,13,20,साधु वृत्तस्य दीनस्य त्वद्गतस्य गतायुषः।।2.1.20।। प्रसादः क्रियतां देवि भद्रे राज्ञो विशेषतः। Ayodhya Kanda,13,21,शून्ये न खलु सुश्रोणि मयेदं समुदाहृतम्।।2.13.21।। कुरु साधु प्रसादं मे बाले सहृदया ह्यसि। Ayodhya Kanda,13,22,प्रसीद देवि रामोमेत्वद्दत्तं राज्यमव्यम्।।2.13.22।। लभतामसितापाङ्गे यशः परमवाप्नु हि। Ayodhya Kanda,13,23,मम रामस्य लोकस्य गुरूणां भरतस्य च।।2.13.23।। प्रियमेतद्गुरुश्रोणि कुरु चारुमुखेक्षणे Ayodhya Kanda,13,24,विशुद्धभावस्य सुदुष्टभावा ताम्रेक्षणस्याश्रुकलस्य राज्ञः। श्रुत्वा विचित्रं करुणं विलापं भर्तुर्नृशंसा न चकार वाक्यम्।।2.13.24।। Ayodhya Kanda,13,25,ततस्स राजा पुनरेव मूर्छितः प्रियामतुष्टां प्रतिकूलभाषिणीम्। समीक्ष्य पुत्रस्य विवासनं प्रति क्षितौ विसंज्ञो निपपात दुखितः।।2.13.25।। Ayodhya Kanda,13,26,इतीव राज्ञो व्यथितस्य सा निशा जगाम घोरं श्वसतो मनस्विनः विबोध्यमानः प्रतिबोधनं तदा निवारयामास स राजसत्तमः।।2.13.26।। Ayodhya Kanda,14,1,पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि। विवेष्टमानमुद्वीक्ष्य सैक्ष्वाकमिदमब्रवीत्।।2.14.1।। Ayodhya Kanda,14,2,पापं कृत्वैव किमिदं मम संश्रुत्य संश्रवम्। शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि।।2.14.2।। Ayodhya Kanda,14,3,आहु स्सत्यं हि परमं धर्मं धर्मविदो जनाः। सत्यमाश्रित्य हि मया त्वं च धर्मं प्रबोधितः।।2.14.3।। Ayodhya Kanda,14,4,संश्रुत्य शैब्यश्श्येनाय स्वां तनुं जगतीपतिः। प्रदाय पक्षिणे राज न्जगाम गतिमुत्तमाम्।।2.14.4।। Ayodhya Kanda,14,5,तथा ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे। याचमाने स्वके नेत्रे उद्धृत्याविमना ददौ।।2.14.5।। Ayodhya Kanda,14,6,सरितां तु पतिस्स्वल्पां मर्यादां सत्यमन्वितः। सत्यानुरोधात्समये स्वां वेलां नातिवर्तते।।2.14.6।। Ayodhya Kanda,14,7,सत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्टितः। सत्यमेवाक्षया वेदा सत्येनैवाप्यते स्परम्।।2.14.7।। Ayodhya Kanda,14,8,सत्यं समनुवर्तस्व यदि धर्मे धृता मतिः। सफलस्स वरो मेऽस्तु वरदो ह्यसि सत्तम।।2.14.8।। Ayodhya Kanda,14,9,धर्मस्यैहाभिकामार्थं मम चैवाभिचोदनात्। प्रव्राजय सुतं रामं त्रिःखलु त्वां ब्रवीम्यहम्।।2.14.9।। Ayodhya Kanda,14,10,समयं च ममार्येमं यदि त्वं न करिष्यसि। अग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम्।।2.14.10।। Ayodhya Kanda,14,11,एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया। नाशकत्पाशमुन्मोक्तुं बलिरिन्द्रकृतं यथा।।2.14.11।। Ayodhya Kanda,14,12,उद्भ्रान्तहृदयश्चापि विवर्णवदनोऽभवत्। स धुर्योवैपरिस्पन्दन्युगचक्रान्तरं यथा।।2.14.12।। Ayodhya Kanda,14,13,विह्वलाभ्यां च नेत्राभ्यामपश्यन्निव भूपतिः। कृच्छ्राद्धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत्।।2.14.13।। Ayodhya Kanda,14,14,यस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः। तं त्यजामि स्वजं चैव तव पुत्रं त्वया सह।।2.14.14।। Ayodhya Kanda,14,15,प्रयाता रजनी देवि सूर्यस्योदयनंप्रति। अभिषेकं गुरुजनस्त्वरयिष्यति मां ध्रुवम्।।2.14.15।। Ayodhya Kanda,14,16,रामाभिषेकसंभारैस्तदर्थमुपकल्पितैः। रामः कारयितव्यो मे मृतस्य सलिलक्रियाम्।।2.14.16।। Ayodhya Kanda,14,17,त्वया सपुत्रया नैव कर्तव्या सलिलक्रिया। व्याहन्ताऽस्यशुभाचारे यदि रामाभिषेचनम्।।2.14.17।। Ayodhya Kanda,14,18,न च शक्तोऽस्म्यहं द्रष्टुं दृष्ट्वा पूर्वं तथासुखम्। हतहर्षं निरानन्दं पुनर्जनमवाङ्मुखम्।।2.14.18।। Ayodhya Kanda,14,19,तां तथा ब्रुवतस्तस्य भूमिपस्य महात्मनः। प्रभाता शर्वरी पुण्या चन्द्रनक्षत्रशालिनी।।2.14.19।। Ayodhya Kanda,14,20,ततः पापसमाचारा कैकेयी पार्थिवं पुनः। उवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्छिता।।2.14.20।। Ayodhya Kanda,14,21,किमिदं भाषसे राजन्वाक्यं गररुजोपमम्। आनाययितुमक्लिष्टं पुत्रं राममिहार्हसि।।2.14.21।। Ayodhya Kanda,14,22,स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम्। निस्सपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि।।2.14.22।। Ayodhya Kanda,14,23,स नुन्न इव तीक्ष्णेन प्रतोदेन हयोत्तमः। राजा प्रचोदितोऽभीक्ष्णं कैकेयीमिदमब्रवीत्।।2.14.23।। Ayodhya Kanda,14,24,धर्मबन्धेन बध्दोऽस्मि नष्टा च मम चेतना। ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम्।।2.14.24।। Ayodhya Kanda,14,25,ततः प्रभातां रजनीमुदिते च दिवाकरे। पुण्ये नक्षत्रयोगे च मुहूर्ते च समाहिते।।2.14.25।। Ayodhya Kanda,14,26,वसिष्ठो गुणसम्पन्न श्शिष्यै परिवृतस्तदा। उपगृह्याशु सम्भारान्प्रविवेश पुरोत्तमम्।।2.14.26।। Ayodhya Kanda,14,27,सिक्तसम्मार्जितपथां पताकोत्तम भूषिताम्। विचित्रकुसुमाकीर्णां नानास्रग्भिर्विराजिताम्।।2.14.27।। Ayodhya Kanda,14,28,संहृष्टमनुजोपेतां समृद्धविपणापणाम्। महोत्सवसमाकीर्णां राघवार्थे समुत्सुकाम्।।2.14.28।। Ayodhya Kanda,14,29,चन्दनागरुधूपैश्च सर्वतः प्रतिधूपिताम्। तां पुरीं समतिक्रम्य पुरन्दरपुरोपमाम्।।।2.14.29।। Ayodhya Kanda,14,30,ददर्शान्तःपुरश्रेष्ठं नानाद्विजगणायुतम्। पौरजानपदाकीर्णं ब्राह्मणैरुपशोभितम्।।2.14.30।। यज्ञविद्भि स्सुसम्पूर्णं सदस्यैः परमद्विजैः। Ayodhya Kanda,14,31,तदन्तःपुरमासाद्य व्यतिचक्राम तं जनम्।।2.14.31।। वसिष्ठः परमप्रीतः परमर्षिर्विवेश च। Ayodhya Kanda,14,32,सत्वपश्यद्विनिष्क्रान्तं सुमन्त्रं नाम सारथिम्।।2.14.32।। द्वारे मनुजसिंहस्य सचिवं प्रियदर्शनम्। Ayodhya Kanda,14,33,तमुवाच महातेजा स्सूतपुत्रं विशारदम्।।2.14.33 वसिष्ठः क्षिप्रमाचक्ष्व नृपतेर्मामिहागतम्। Ayodhya Kanda,14,34,इमे गङ्गोदकघटा स्सागरेभ्यश्च काञ्चनाः।।2.14.34।। Ayodhya Kanda,14,35,औदुम्बरं भद्रपीठमभिषेकार्थमागतम्। सर्वबीजानि गन्धाश्च रत्नानि विविधानि च।।2.14.35।। Ayodhya Kanda,14,36,क्षौद्रं दधि घृतं लाजा दर्भास्सुमनसः पयः। अष्टौ च कन्या रुचिरा मत्तश्च वरवारणः।।2.14.36।। Ayodhya Kanda,14,37,चतुरश्वो रथश्श्रीमान्निस्त्रिंशो धनुरुत्तमम्। वाहनं नरसंयुक्तं छत्रं च शशिसन्निभम्।।2.14.37।। Ayodhya Kanda,14,38,श्वेते च वालव्यजने भृङ्गारुश्च हिरण्मयः। हेमदामपिनध्दश्च ककुद्मान्पाण्डुरो वृषः।।2.14.38।। Ayodhya Kanda,14,39,केसरी च चतुर्दंष्ट्रो हरिश्रेष्ठो महाबलः। सिंहासनं व्याघ्रतनु स्समिद्धश्च हुताशनः।।2.14.39।। Ayodhya Kanda,14,40,सर्ववादित्रसङ्घाश्च वेश्याश्चालङ्कृता स्स्त्रयः। आचार्या ब्राह्मणा गावः पुण्याश्च मृगपक्षिणः।।2.14.40।। Ayodhya Kanda,14,41,पौरजानपदश्रेष्ठा नैगमाश्च गणै स्सह। एते चान्ये च बहवो नीयमानाः प्रियंवदाः।।2.14.41।। अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः। Ayodhya Kanda,14,42,त्वरयस्व महाराजं यथा समुदितेऽहनि।।2.14.42।। पुष्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात्। Ayodhya Kanda,14,43,इति तस्य वच श्श्रुत्वा सूतपुत्रो महात्मनः।।2.14.43।। स्तुवन्नृपतिशार्दूलं प्रविवेश निवेशनम्। Ayodhya Kanda,14,44,तं तु पूर्वोदितं वृध्दं द्वारस्था राज सम्मतम्।।2.14.44।। न शेकुरभिसंरोध्दुं राज्ञः प्रियचिकीर्षवः। Ayodhya Kanda,14,45,स समीपस्थितो राज्ञस्तामवस्थामजज्ञिवान्।।2.14.45।। वाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे। Ayodhya Kanda,14,46,तत स्सूतो यथाकालं पार्थिवस्य निवेशने।।2.14.46।। सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम्। Ayodhya Kanda,14,47,यथा नन्दति तेजस्वी सागरो भास्करोदये।।2.14.47।। प्रीतः प्रीतेन मनसा तथाऽनन्दघन स्स्वतः। Ayodhya Kanda,14,48,इन्द्रमस्यां तु वेलायामभितुष्टाव मातलिः।।2.14.48।। सोऽजयद्दानवान्सर्वांस्तथा त्वां बोधयाम्यहम्। Ayodhya Kanda,14,49,वेदास्सहाङ्गविद्याश्च यथाह्यात्मभुवं विभुम्।।2.14.49। ब्रह्माणं बोधयन्त्यद्य तथा त्वां बोधयाम्यहम्। Ayodhya Kanda,14,50,आदित्यस्सह चन्द्रेण यथा भूतधरां शुभाम्।।2.14.50।। बोधयत्यद्य पृथिवीं तथा त्वां बोधयाम्यहम्। Ayodhya Kanda,14,51,उत्तिष्ठाशु महाराज कृतकौतुकमङ्गलः।।2.14.51।। विराजमानो वपुषा मेरोरिव दिवाकरः। Ayodhya Kanda,14,52,सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि।।2.14.52।। वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते। Ayodhya Kanda,14,53,गता भगवती रात्रिः कृतं कृत्यमिदं तव।।2.14.53।। Ayodhya Kanda,14,54,बुद्ध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम्। उदतिष्ठत रामस्य समग्रमभिषेचनम्।।2.14.54।। Ayodhya Kanda,14,55,पौरजानापदैश्चापि नैगमैश्च कृताञ्जलिः। स्वयं वशिष्ठो भगवान्ब्राह्मणै स्सह तिष्ठति।।2.14.55।। Ayodhya Kanda,14,56,क्षिप्रमाज्ञाप्यतां राजन्राघवस्याभिषेचनम्। यथा ह्यपालाः पशवो यथा सेना ह्यनायका।।2.14.56।। Ayodhya Kanda,14,57,यथा चन्द्रं विना रात्रिर्यथा गावो विना वृषम्। एवं हि भविता राष्ट्रं यत्र राजा न दृश्यते।।2.14.57।। Ayodhya Kanda,14,58,इति तस्य वच श्शृत्वा सान्त्वपूर्वमिवार्थवत्। अभ्यकीर्यत शोकेन भूय एव महीपतिः।।2.14.58।। Ayodhya Kanda,14,59,तत स्सराजा तं सूतं सन्नहर्ष स्सुतं प्रति। शोकरक्तेक्षण श्श्रीमानुद्वीक्ष्योवाच धार्मिकः।।2.14.59।। वाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि। Ayodhya Kanda,14,60,सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम्। प्रगृहीताञ्जलिः किञ्चित्तस्माद्देशादपाक्रमत्।।2.14.60।। Ayodhya Kanda,14,61,यदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः।।2.14.61।। तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह। Ayodhya Kanda,14,62,सुमन्त्र राजा रजनीं रामहर्षसमुत्सुकः।।2.14.62।। प्रजागरपरिश्रान्तो निद्राया वशमुपेयिवान्। Ayodhya Kanda,14,63,तद्गच्छ त्वरितं सूत राजपुत्रं यशस्विनम्।।2.14.63।। राममानय भद्रं ते नात्र कार्या विचारणा। Ayodhya Kanda,14,64,स मन्यमानः कल्याणं हृदयेन ननन्द च।।2.14.64।। निर्जगाम च सम्प्रीत्या त्वरितो राजशासनात्। Ayodhya Kanda,14,65,सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया।।2.14.65।। व्यक्तं रामोऽभिषेकार्थमिहायास्यति धर्मवित्। Ayodhya Kanda,14,66,इति सूतो मतिं कृत्वा हर्षेण महताऽऽवृतः।।2.14.66।। निर्जगाम महाबाहो राघवस्य दिदृक्षया। Ayodhya Kanda,14,67,सागरह्रदसङ्काशात्सुमन्त्रोऽन्तःपुराच्छुभात्।।2.14.67।। निष्क्रम्य जनसम्बाधं ददर्श द्वारमग्रतः। Ayodhya Kanda,14,68,ततः पुरस्तात्सहसा विनिर्गतो महीपतीन्द्वारगतो विलोकयन्। ददर्श पौरान्विविधान्महाधना नुपस्थितान्द्वारमुपेत्य विष्ठितान्।।2.14.68।। Ayodhya Kanda,15,1,ते तु तां रजनीमुष्य ब्राह्मणा वेदपारगाः। उपतस्थुरुपस्थानं सह राजपुरोहिताः।।2.15.1।। Ayodhya Kanda,15,2,अमात्या बलमुख्याश्च मुख्या ये निगमस्य च। राघवस्याभिषेकार्थे प्रियमाणास्तु संगताः।।2.15.2।। Ayodhya Kanda,15,3,उदिते विमले सूर्ये पुष्ये चाभ्यागतेऽहनि। लग्ने कर्कटके प्राप्ते जन्म रामस्य च स्थिते।।2.15.3।। अभिषेकाय रामस्य द्विजेन्द्रैरुपकल्पितम्। Ayodhya Kanda,15,4,"""काञ्चना जलकुम्भाश्च भद्रपीठं स्वलंकृतम्।।2.15,4।। रथः च सम्यगास्तीर्णो भास्वता व्याघ्रचर्मणा।""" Ayodhya Kanda,15,5,गङ्गायमुनयोःपुण्यात्सङ्गमादाहृतं जलम्।।2.15.5।। Ayodhya Kanda,15,6,याश्चान्या स्सरितः पुण्या ह्रदाः कूपा स्सरांसि च। प्राग्वाहाश्चोर्ध्ववाहाश्च तिर्यग्वाहा स्समाहिताः।।2.15.6।। ताभ्यश्चैवाहृतं तोयं समुद्रेभ्यश्च सर्वशः। Ayodhya Kanda,15,7,सलाजाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः।।2.15.7।। पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा। Ayodhya Kanda,15,8,क्षौद्रं दधि घृतं लाजा दर्भा स्सुमनसः पयः।।2.15.8।। वेश्याश्चैव शुभाचारा स्सर्वाभरणभूषिताः। Ayodhya Kanda,15,9,चन्द्रांशुविकचप्रख्यं काञ्चनं रत्नभूषितम्।।2.15.9।। सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम्। Ayodhya Kanda,15,10,चन्द्रमण्डलसङ्काशमातपत्रं च पाण्डुरम्।।2.15.10।। सज्जं द्युतिकरं श्रीमदभिषेकपुरस्कृतम्। Ayodhya Kanda,15,11,पाण्डुरश्च वृषस्सज्जः पाण्डुरोऽश्वश्च सुस्थितः।।2.15.11।। प्रसृतश्च गजःश्रीमानौपवाह्यः प्रतीक्षते। Ayodhya Kanda,15,12,अष्टौ च कन्या माङ्गल्या स्सर्वाभरणभूषिताः।।2.15.12।। वादित्राणि च सर्वाणि वन्दिनश्च तथाऽपरे। Ayodhya Kanda,15,13,इक्ष्वाकूणां यथा राज्ये संभ्रियेताभिषेचनम्।।2.15.13।। Ayodhya Kanda,15,14,तथाजातीयमादाय राजपुत्राभिषेचनम्। ते राजवचनात्तत्र समवेतामहीपतिम्।।2.15.14।। Ayodhya Kanda,15,15,अपश्यन्तोऽब्रुवन् को नु राज्ञो नः प्रतिवेदयेत्। न पश्यामश्च राजानमुदितश्च दिवाकरः।।2.15.15।। यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः। Ayodhya Kanda,15,16,इति तेषु ब्रुवाणेषु सार्वभौमान् महीपतीन्।।2.15.16।। अब्रवीत्तानिदं सर्वान्सुमन्त्रो राजसत्कृतः। Ayodhya Kanda,15,17,रामं राज्ञो नियोगेन त्वरया प्रस्थितोऽस्म्यहम्।।2.15.17।। पूज्या राज्ञो भवन्तस्तु रामस्य च विशेषतः। Ayodhya Kanda,15,18,अयं पृच्छामि वचनात्सुखमायुष्मतामहम्।।2.15.18।। राज्ञः संप्रति बुद्धस्य यच्चागमनकारणम्। Ayodhya Kanda,15,19,इत्युक्त्वाऽन्तः पुरद्वारमाजगाम पुराणवित्।।2.15.19।। सदाऽसक्तं च तद्वेश्म सुमन्त्रः प्रविवेश ह। Ayodhya Kanda,15,20,तुष्टावास्य तदा वंशं प्रविश्य स विशांपतेः।।2.15.20।। शयनीयं नरेन्द्रस्य तदाऽऽसाद्य व्यतिष्ठत। Ayodhya Kanda,15,21,सोऽत्यासाद्य तु तद्वेश्म तिरस्करणिमन्तरा।।2.15.21।। आशीर्भिर्गुणयुक्ताभि रभितुष्टाव राघवम्। Ayodhya Kanda,15,22,सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि।।2.15.22।। वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते। Ayodhya Kanda,15,23,गता भगवती रात्रिरहः शिवमुपस्थितम्।।2.15.23।। बुद्ध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम्। Ayodhya Kanda,15,24,ब्राह्मणा बलमुख्याश्च नैगमाश्चागता नृप।।2.15.24।। दर्शनं तेऽभिकांक्षन्ते प्रतिबुध्यस्व राघव। Ayodhya Kanda,15,25,स्तुवन्तं तं तदा सूतं सुमन्त्रं मन्त्रकोविदम्।।2.15.25।। प्रतिबुध्य ततो राजा इदं वचनमब्रवीत्। Ayodhya Kanda,15,26,राममानय सूतेति यदस्यभिहितोऽनया।।2.15.26।। किमिदं कारणं येन ममाज्ञा प्रतिहन्यते। Ayodhya Kanda,15,27,न चैव संप्रसुप्तोऽहमानयेहाशु राघवम्।।2.15.27।। इति राजा दशरथ स्सूतं तत्रान्वशात्पुनः। Ayodhya Kanda,15,28,स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम्।।2.15.28।। निर्जगाम नृपावासान्मन्यमानः प्रियं महत्। Ayodhya Kanda,15,29,प्रसन्नो राजमार्गं च पताकाध्वजशोभितम्।।2.15.29।। हृष्टः प्रमुदित स्सूतो जगामाशु विलोकयन्। Ayodhya Kanda,15,30,स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः।।2.15.30।। अभिषेचनसंयुक्तास्सर्वलोकस्य हृष्टवत्। Ayodhya Kanda,15,31,ततो ददर्श रुचिरं कैलासशिखरप्रभम्।।2.15.31।। रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम्। Ayodhya Kanda,15,32,महाकवाटविहितं वितर्दिशतशोभितम्।।2.15.32।। Ayodhya Kanda,15,33,काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम्। शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहोपमम्।।2.15.33।। Ayodhya Kanda,15,34,मणिभिर्वरमाल्यानां समुहद्भिरलंकृतम्। मुक्तामणिभिराकीर्णं चन्दनागरूधूपितम्।।2.15.34।। Ayodhya Kanda,15,35,गन्धान्मनोज्ञान् विसृजद्दार्दुरं शिखरं यथा। सारसैश्च मयूरैश्च विनदद्भिर्विराजितम्।।2.15.35।। Ayodhya Kanda,15,36,सुकृतेहामृगाकीर्णं सुकीर्णं भक्तिभिस्तथा। मनश्चक्षुश्च भूतानामाददत्तिग्मतेजसा।।2.15.36।। Ayodhya Kanda,15,37,चन्द्रभास्करसङ्काशं कुबेरभवनोपमम्। महेन्द्रधामप्रतिमं नानापक्षिसमाकुलम्।।2.15.37।। Ayodhya Kanda,15,38,मेरुशृङ्गसमं सूतो रामवेश्म ददर्श ह। उपस्थितैःसमाकीर्णं जनैरञ्जलिकारिभिः।।2.15.38।। Ayodhya Kanda,15,39,उपादाय समाक्रान्तैस्तथा जानपदैर्जनैः। रामाभिषेकसुमुखैरुन्मुखैस्समलंकृतम्।।2.15.39।। Ayodhya Kanda,15,40,महामेघसमप्रख्यमुदग्रं सुविभूषितम्। नानारत्नसमाकीर्णं कुब्जकैरातकावृतम्।।2.15.40।। Ayodhya Kanda,15,41,स वाजियुक्तेन रथेन सारथिः नराकुलं राजकुलं विराजयन्। वरूथिना रामगृहाभिपातिना पुरस्य सर्वस्य मनांसि हर्षयन्।।2.15.41।। Ayodhya Kanda,15,42,ततस्समासाद्य महाधनं महत् प्रहृष्टरोमा स बभूब सारथिः। मृर्गैर्मयूरैश्च समाकुलोल्बणं गृहं वरार्हस्य शचीपतेरिव।।2.15.42।। Ayodhya Kanda,15,43,स तत्र कैलासनिभास्स्वलंकृताः प्रविश्य कक्ष्यास्त्रिदशालयोपमाः। प्रियान्वरान् राममते स्थितान् बहून् व्यपोह्य शुद्धान्तमुपस्थितो रथी।।2.15.43।। Ayodhya Kanda,15,44,स तत्र शुश्राव च हर्षयुक्ताः रामाभिषेकार्थकृता जनानाम्। नरेन्द्रसूनोरभिमङ्गलार्थाः सर्वस्य लोकस्य गिरः प्रहृष्टः।।2.15.44।। Ayodhya Kanda,15,45,महेन्द्रसद्मप्रतिमं तु वेश्म रामस्य रम्यं मृगपक्षि जुष्टम्। ददर्श मेरोरिव श्रुङ्गमुच्चं विभ्राजमानं प्रभया सुमन्त्रः।।2.15.45।। Ayodhya Kanda,15,46,उपस्थितैरञ्जलिकारकैश्च सोपायनैर्जानपदैर्जनैश्च। कोट्या परार्धैश्च विमुक्तयानैः समाकुलं द्वारपथं ददर्श।।2.15.46।। Ayodhya Kanda,15,47,ततो महामेघमहीधराभं प्रभिन्नमत्यङ्कुशमत्यसह्यम्। रामौपवाह्यं रुचिरं ददर्श शत्रुञ्जयं नागमुदग्रकायम्।।2.15.47।। Ayodhya Kanda,15,48,स्वलङ्कृतान् साश्वरथान् सकुञ्जरा नमात्य मुख्यांश्च ददर्श वल्लभान्। व्यपोह्य सूतस्सहितान् समन्ततः समृद्धमन्तःपुरमाविवेश ह।।2.15.48।। Ayodhya Kanda,15,49,तदन्द्रिकूटाचलमेघसन्निभं महाविमानोपमवेश्मसंयुतम्। अवार्यमाणः प्रविवेश सारथिः प्रभूतरत्नं मकरो यथार्णवम्।।2.15.49।। Ayodhya Kanda,16,1,तदन्तःपुरद्वारं समतीत्य जनाकुलम्। प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित्।।2.16.1।। Ayodhya Kanda,16,2,प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः। अप्रमादिभिरेकाग्रै स्स्वनुरक्तैरधिष्ठिताम्।।2.16.2।। Ayodhya Kanda,16,3,तत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वलङ्कृतान्। ददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान्सुसमाहितान्।।2.16.3।। Ayodhya Kanda,16,4,ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः। सहसोत्पतितास्सर्वे स्वासनेभ्यस्ससम्भ्रमाः।।2.16.4।। Ayodhya Kanda,16,5,तानुवाच विनीतात्मा सूतपुत्रः प्रदक्षिणः। क्षिप्रमाख्यात रामाय सुमंन्त्रो द्वारि तिष्ठति।।2.16.5।। Ayodhya Kanda,16,6,ते राममुपसङ्गम्य भर्तुः प्रियचिकीर्षवः। सहभार्याय रामाय क्षिप्रमेवाभिचक्षिरे।।2.16.6।। Ayodhya Kanda,16,7,प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः। तत्रैवानाययामास राघवप्रियकाम्यया।।2.16.7।। Ayodhya Kanda,16,8,तं वैश्रवणसङ्काशमुपविष्टं स्वलङ्कृतम्। ददर्श सूतः पर्य्यङ्के सौवर्णे सोत्तरच्छदे।।2.16.8।। Ayodhya Kanda,16,9,वराहरुधिराभेण शुचिना च सुगन्धिना। अनुलिप्तं परार्ध्येन चन्दनेन परन्तपम्।।2.16.9।। Ayodhya Kanda,16,10,स्थितया पार्श्वतश्चापि वालव्यजनहस्तया। उपेतं सीतयाभूयश्चित्रया शशिनं यथा।।2.16.10।। Ayodhya Kanda,16,11,तं तपन्तमिवादित्यमुपपन्नं स्वतेजसा। ववन्दे वरदं वन्दी विनयज्ञो विनीतवत्।।2.16.11।। Ayodhya Kanda,16,12,प्राञ्जलिस्सुमुखं दृष्ट्वा विहारशयनासने। राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः।।2.16.12।। Ayodhya Kanda,16,13,कौशल्यासुप्रजा राम पिता त्वां द्रष्टुमिच्छति। महिष्या सह कैकेय्या गम्यतां तत्र मा चिरम्।।2.16.13।। Ayodhya Kanda,16,14,एवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः। ततस्सम्मानयामास सीतामिदमुवाच ह।।2.16.14।। Ayodhya Kanda,16,15,देवि देवश्च देवी च समागम्य मदन्तरे। मन्त्रयेते धृवं किञ्चिदभिषेचनसंहितम्।।2.16.15।। Ayodhya Kanda,16,16,लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा। सञ्चोदयति राजानं मदर्थमसितेक्षणा।।2.16.16।। Ayodhya Kanda,16,17,सा प्रहृष्टा महाराजं हितकामानुवर्तिनी। जननी चार्थकामा मे केकयाधिपतेस्सुता।।2.16.17।। Ayodhya Kanda,16,18,दिष्ट्या खलु महाराजो महिष्या प्रियया सह। सुमन्त्रं प्राहिणोद्दूतमर्थकामकरं मम।।2.16.18।। Ayodhya Kanda,16,19,यादृशी परिषत्तत्र तादृशो दूत आगतः। ध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति।।2.16.19।। Ayodhya Kanda,16,20,हन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिम्। सह त्वं परिवारेण सुखमास्व रमस्व च।।2.16.20।। Ayodhya Kanda,16,21,पतिसम्मानिता सीता भर्तारमसितेक्षणा। आद्वारमनुवव्राज मङ्गलान्यभिदध्युषी।।2.16.21।। Ayodhya Kanda,16,22,राज्यं द्विजातिभिर्जुष्टं राजसूयाभिषेचनम्। कर्तुमर्हति ते राजा वासवस्येव लोककृत्।।2.16.22।। Ayodhya Kanda,16,23,दीक्षितं व्रतसम्पन्नं वराजिनधरं शुचिम्। कुरङ्गशृङ्गपाणिं च पश्यन्ती त्वां भजाम्यहम्।।2.16.23।। Ayodhya Kanda,16,24,पूर्वां दिशं वज्रधरो दक्षिणां पातु ते यमः। वरुणः पश्चिमामाशां धनेशस्तूत्तरां दिशम्।।2.16.24।। Ayodhya Kanda,16,25,अथ सीतामनुज्ञाप्य कृतकौतुकमङ्गलः। निश्चक्राम सुमन्त्रेण सह रामो निवेशनात्।।2.16.25।। Ayodhya Kanda,16,26,पर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः। लक्ष्मणं द्वारिसोऽपश्यत्प्रह्वाञ्जलिपुटं स्थितम्।।2.16.26।। Ayodhya Kanda,16,27,अथ मध्यमकक्ष्यायां समागच्छत्सुहृज्जनैः। स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च।।2.16.27।। Ayodhya Kanda,16,28,ततः पावकसङ्काशमारुरोह रथोत्तमम्। वैयाघ्रं पुरुषव्याघ्रो राजतं राजनन्दनः।।2.16.28।। Ayodhya Kanda,16,29,मेघनादमसम्बाधं मणिहेमविभूषितम्। मुष्णन्तमिव चक्षूंषि प्रभया सूर्यवर्चसम्।।2.16.29।। Ayodhya Kanda,16,30,करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः। हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम्।।2.16.30।। प्रययौ तूर्णमास्थाय राघवो ज्वलितश्श्रिया। Ayodhya Kanda,16,31,स पर्जन्य इवाकाशे स्वनवानभिनादयन्।।2.16.31।। निकेतान्निर्ययौ श्रीमान्महाभ्रादिव चन्द्रमाः। Ayodhya Kanda,16,32,छत्रचामरपाणिस्तु लक्ष्मणो राघवानुजः।।2.16.32।। जुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः। Ayodhya Kanda,16,33,ततो हलहलाशब्दस्तुमुलस्समजायत।।2.16.33।। तस्य निष्क्रममाणस्य जनौघस्य समन्ततः। Ayodhya Kanda,16,34,ततो हयवरा मुख्या नागाश्च गिरिसन्निभाः।।2.16.34।। अनुजग्मुस्तदा रामं शतशोऽथ सहस्रशः। Ayodhya Kanda,16,35,अग्रतश्चास्य सन्नद्धाश्चन्दनागरुभूषिताः।।2.16.35।। खड्गचापधराश्शूरा जग्मुराशंसवो जनाः। Ayodhya Kanda,16,36,ततो वादित्रशब्दाश्च स्तुतिशब्दाश्च वन्दिनाम्।।2.16.36।। सिंहनादाश्च शूराणां तदा शुश्रुविरे पथि। Ayodhya Kanda,16,37,हर्म्यवातायनस्थाभिर्भूषिताभिस्समन्ततः।।2.16.37।। कीर्यमाण स्सुपुष्पौघैर्ययौ स्त्रीभिररिन्दमः। Ayodhya Kanda,16,38,रामं सर्वानवद्याङ्ग्यो रामपिप्रीषया ततः।।2.16.38।। वचोभिरग्य्रैर्हर्म्यस्था क्षितिस्थाश्च ववन्दिरे। Ayodhya Kanda,16,39,नूनं नन्दति ते माता कौशल्यामातृनन्दन।।2.16.39।। पश्यन्ती सिद्धयात्रं त्वां पित्र्यं राज्यमवस्थितम्। Ayodhya Kanda,16,40,सर्वसीमन्तिनीभ्यश्च सीतां सीमन्तिनी वराम्।।2.16.40।। अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम्। Ayodhya Kanda,16,41,तया सुचरितं देव्या पुरा नूनं महत्तपः।।2.16.41।। रोहिणीव शशाङ्केन रामसंयोगमाप या। Ayodhya Kanda,16,42,इति प्रासादशृङ्गेषु प्रमदाभिर्नरोत्तमः।।2.16.42।। Ayodhya Kanda,16,43,शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः। आत्मसंपूजनै शृण्वन् ययौ रामौ महापथम्।।2.16.43।। Ayodhya Kanda,16,44,स राघवस्तत्र कथाप्रपञ्चान् शुश्राव लोकस्य समागतस्य। आत्माधिकारा विविधाश्च वाचः प्रहृष्टरूपस्य पुरो जनस्य।।2.16.44।। Ayodhya Kanda,16,45,एष श्रियं गच्छति राघवोऽद्य राजप्रसादाद्विपुलां गमिष्यन्। एते वयं सर्व समृद्धकामा येषामयं नो भविता प्रशास्ता।।2.16.45।। Ayodhya Kanda,16,46,लाभो जनस्यास्य यदेष सर्वं प्रपत्स्यते राष्ट्रमिदं चिराय। न ह्यप्रियं किञ्चन जातु कश्चि त्पश्येन्न दुःखं मनुजाधिपेऽस्मिन्।।2.16.46।। Ayodhya Kanda,16,47,स घोषवद्भिश्च मतङ्गाजैर्ययैः पुरस्सरै स्स्वस्तिकसूतमागधैः। महीयमानः प्रवरैश्च वादकै रभिष्टुतो वैश्रवणो यथा ययौ।।2.16.47।। Ayodhya Kanda,17,1,स रामो रथमास्थाय सम्प्रहृष्टसुहृज्जनः। पताकाध्वजसम्पन्नं महार्हागरुधूपितम्।।2.17.1।। अपश्यन्नगरं श्रीमान्नानाजनसमाकुलम्। Ayodhya Kanda,17,2,स गृहैरभ्रसङ्काशैः पाण्डुरैरुपशोभितम्।।2.17.2।। राजमार्गं ययौ रामो मध्येनागरुधूपितम्। Ayodhya Kanda,17,3,चन्दनानां च मुख्यानामगरूणां च सञ्चयैः।।2.17.3।। Ayodhya Kanda,17,4,उत्तमानां च गन्धानां क्षौमकोशाम्बरस्य च। अविद्धाभिश्च मुक्ताभिरुत्तमैस्स्फाटिकैरपि।।2.17.4।। Ayodhya Kanda,17,5,शोभमानमसंबाधैस्तं राजपथमुत्तमम्। संवृतं विविधैःपुष्पैर्भक्ष्यैरुच्चावचैरपि।।2.17.5।। Ayodhya Kanda,17,6,ददर्श तं राजपथं दिवि देवपथं यथा। दध्यक्षतहविर्लाजैर्धूपैरगरुचन्दनैः।।2.17.6।। नानामाल्योपगंधैश्च सदाऽभ्यर्चितचत्वरम्। Ayodhya Kanda,17,7,अशीर्वादान्बहून् शृण्वन्सुहृद्भिस्समुदीरितान्।।2.17.7।। यथार्हं चापि सम्पूज्य सर्वानेव नरान्ययौ। Ayodhya Kanda,17,8,पितामहैराचरितं तथैव प्रपितामहैः।।2.17.8।। अद्योपादाय तं मार्गमभिषिक्तोऽनुपालय। Ayodhya Kanda,17,9,यथास्म पोषिताः पित्रा यथा सर्वैः पितामहैः।।2.17.9।। ततस्सुखतरं रामे वत्स्यामस्सति राजनि। Ayodhya Kanda,17,10,अलमद्य हि भुक्तेन परमार्थैरलं च नः।।2.17.10।। यदि पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम्। Ayodhya Kanda,17,11,अतो हि नः प्रियतरं नान्यत्किञ्चिद्भविष्यति।।2.17.11।। यथाऽभिषेको रामस्य राज्येनामिततेजसः। Ayodhya Kanda,17,12,एताश्चान्याश्च सुहृदामुदासीनः कथाश्शुभाः।।2.17.12।। आत्मसम्पूजनीश्शृण्वन्ययौ रामो महापथम्। Ayodhya Kanda,17,13,न हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात्।।2.17.13।। नर श्शक्नोत्यपाक्रष्टुमतिक्रान्तेऽपि राघवे। Ayodhya Kanda,17,14,यश्च रामं न पश्येत्तु यं च रामो न पश्यति।।2.17.14।। निन्दित स्सर्वल्लोकेषु स्वात्माऽप्येनं विगर्हते। Ayodhya Kanda,17,15,सर्वेषु हि स धर्मात्मा वर्णानां कुरुते दयाम्।।2.17.15।। चतुर्णां हि वयः स्थानां तेन ते तमनुव्रताः। Ayodhya Kanda,17,16,चतुष्पथान्देवपथांश्चैत्यान्यायतनानि च।।2.17.16।। प्रदक्षिणं परिहरन् जगाम नृपते स्सुतः। Ayodhya Kanda,17,17,स राजकुलमासाद्य मेघसङ्घोपमै श्शुभैः।।2.17.17।। Ayodhya Kanda,17,18,प्रासादशृङ्गैर्विविधैःकैलास शिखरोपमैः। आवारयद्भिर्गगनं विमानैरिव पाण्डुरैः।।2.17.18।। Ayodhya Kanda,17,19,वर्धमानगृहैश्चापि रत्नजालपरिष्कृतैः। तत्पृथिव्यां गृहवरं महेन्द्रसदनोपमम्।।2.17.19।। राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन्। Ayodhya Kanda,17,20,स कक्ष्या धन्विभिर्गुप्तास्तिस्रोऽतिक्रम्य वाजिभिः।।2.17.20।। पदातिरपरे कक्ष्ये द्वे जगाम नरोत्तमः। Ayodhya Kanda,17,21,स सर्वा स्समतिक्रम्य कक्ष्या दशरथात्मजः। सन्निवर्त्य जनं सर्वं शुद्धान्तः पुरमभ्यगात्।।2.17.21।। Ayodhya Kanda,17,22,तस्मिन् प्रविष्टे पितुरन्तिकं तदा जन स्स सर्वो मुदितो नृपात्मजे। प्रतीक्षते तस्य पुनः स्म निर्गमं यथोदयं चन्द्रमसस्सरित्पतिः।।2.17.22।। Ayodhya Kanda,18,1,स ददर्शासने रामो निषण्णं पितरं शुभे। कैकेयीसहितं दीनं मुखेन परिशुष्यता।।2.18.1।। Ayodhya Kanda,18,2,स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत्। ततो ववन्दे चरणौ कैकेय्या स्सुसमाहितः।।2.18.2।। Ayodhya Kanda,18,3,रामेत्युक्त्वा तु वचनं बाष्पपर्याकुलेक्षणः। शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम्।।2.18.3।। Ayodhya Kanda,18,4,तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम्। रामोऽपि भयमापन्नः पदा स्पृष्ट्वेव पन्नगम्।।2.18.4।। Ayodhya Kanda,18,5,इन्द्रियैरप्रहृष्टैस्तं शोकसन्तापकर्शितम्। निश्श्वसन्तं महाराजं व्यथिताकुलचेतसम्।।2.18.5।। Ayodhya Kanda,18,6,ऊर्मिमालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम्। उपप्लुतमिवादित्यमुक्तानृतमृषिं यथा।।2.18.6।। Ayodhya Kanda,18,7,अचिन्त्यकल्पं हि पितुस्तं शोकमुपधारयन्। बभूव संरब्धतर स्समुद्र इव पर्वणि।।2.18.7।। Ayodhya Kanda,18,8,चिन्तयामास च तदा रामः पितृहिते रतः। किं स्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति।।2.18.8।। Ayodhya Kanda,18,9,अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति। तस्य मामद्य संप्रेक्ष्य किमायासः प्रवर्तते।।2.18.9।। Ayodhya Kanda,18,10,स दीन इव शोकार्तो विषण्णवदनद्युतिः। कैकेयीमभिवाद्यैव रामो वचनमब्रवीत्।।2.18.10।। Ayodhya Kanda,18,11,कच्चिन्मया नापराद्धमज्ञानाद्येन मे पिता। कुपितस्तन्ममाचक्ष्व त्वं चैवैनं प्रसादय।।2.18.11।। Ayodhya Kanda,18,12,अप्रसन्नमनाः किन्नु सदा मां प्रति वत्सलः। विवर्णवदनो दीनो न हि मामभिभाषते।।2.18.12।। Ayodhya Kanda,18,13,शरीरो मानसो वापि कच्चिदेनं न बाधते। सन्तापोवाऽभितापो वा दुर्लभं हि सदा सुखम्।।2.18.13।। Ayodhya Kanda,18,14,कच्चिन्न किञ्चिद्भरते कुमारे प्रियदर्शने। शत्रुघ्ने वा महासत्त्वे मात्रूणां वा ममाशुभम्।।2.18.14।। Ayodhya Kanda,18,15,अतोषयन्महाराजमकुर्वन्वा पितुर्वचः। मुहूर्तमपि नेच्छेयं जीवितुं कुपिते नृपे।।2.18.15।। Ayodhya Kanda,18,16,यतोमूलं नरः पश्येत्प्रादुर्भावमिहात्मनः। कथं तस्मिन्नवर्तेत प्रत्यक्षे सति दैवते।।2.18.16।। Ayodhya Kanda,18,17,कच्चित्ते परुषं किञ्चिदभिमानात्पतिता मम। उक्तो भवत्या कोपेन यत्रास्य लुलितं मनः।।2.18.17।। Ayodhya Kanda,18,18,एतदाचक्ष्व मे देवि तत्त्वेन परिपृच्छतः। किं निमित्तमपूर्वोयं विकारो मनुजाधिपे।।2.18.18।। Ayodhya Kanda,18,19,एवमुक्ता तु कैकेयी राघवेण महात्मना। उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वचः।।2.18.19।। Ayodhya Kanda,18,20,न राजा कुपितो राम व्यसनं नास्य किञ्चन। किञ्चिन्मनोगतंत्वस्य त्वद्भयान्नाभिभाषते।।2.18.20।। Ayodhya Kanda,18,21,प्रियं त्वामप्रियं वक्तुं वाणी नास्योपवर्तते। तदवश्यं त्वया कार्यं यदनेनाश्रुतं मम।।2.18.21।। Ayodhya Kanda,18,22,एष मह्यं वरं दत्त्वा पुरा मामभिपूज्य च। स पश्चात्तप्यते राजा यथाऽन्यः प्राकृतस्तथा।।2.18.22।। Ayodhya Kanda,18,23,अतिसृज्य ददानीति वरं मम विशांपतिः। स निरर्थं गतजले सेतुं बन्धितुमिच्छति।।2.18.23।। Ayodhya Kanda,18,24,धर्ममूलमिदं राम विदितं च सतामपि। तत्सत्यं न त्यजेद्राजा कुपितस्त्वत्कृते यथा।।2.18.24।। Ayodhya Kanda,18,25,यदि तद्वक्ष्यते राजा शुभं वा यदि वाऽशुभम्। करिष्यसि ततस्सर्वमाख्यास्यामि पुनस्त्वहम्।।2.18.25।। Ayodhya Kanda,18,26,यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते। ततोऽहमभिधास्यामि न ह्येष त्वयि वक्ष्यति।।2.18.26।। Ayodhya Kanda,18,27,एतत्तु वचनं श्रुत्वा कैकेय्या समुदाहृतम्। उवाच व्यथितो रामस्तां देवीं नृपसन्निधौ।।2.18.27।। Ayodhya Kanda,18,28,अहो धिङ्नार्हसे देवि वक्तुं मामीदृशं वचः। अहं हि वचनाद्राज्ञः पतेयमपि पावके।।2.18.28।। Ayodhya Kanda,18,29,भक्षयेयं विषं तीक्ष्णं मज्जेयमपि चार्णवे। नियुक्तो गुरुणा पित्रा नृपेण च हितेन च।।2.18.29।। Ayodhya Kanda,18,30,तद्ब्रूहि वचनं देवि राज्ञो यदभिकाङ्क्षितम्। करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते।।2.18.30।। Ayodhya Kanda,18,31,तमार्जवसमायुक्तमनार्या सत्यवादिनम्। उवाच रामं कैकेयी वचनं भृशदारुणम्।।2.18.31।। Ayodhya Kanda,18,32,पुरा दैवासुरे युद्धे पित्रा ते मम राघव। रक्षितेन वरौ दत्तौ सशल्येन महारणे।।2.18.32।। Ayodhya Kanda,18,33,तत्र मे याचितो राजा भरतस्याभिषेचनम्। गमनं दण्डकारण्ये तव चाद्यैव राघव।।2.18.33।। Ayodhya Kanda,18,34,यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुमिच्छसि। आत्मानं च नरश्रेष्ठ मम वाक्यमिदं शृणु।।2.18.34।। Ayodhya Kanda,18,35,सन्निदेशे पितुस्तिष्ठ यथा तेन प्रतिश्रुतम्। त्वयाऽरण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च।।2.18.35।। Ayodhya Kanda,18,36,भरतस्त्वभिषिच्येत यदेतदभिषेचनम्। त्वदर्थे विहितं राज्ञा तेन सर्वेण राघव।।2.18.36।। Ayodhya Kanda,18,37,सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः। अभिषेकमिमं त्यक्त्वा जटाजिनधरो वस।।2.18.37।। Ayodhya Kanda,18,38,भरतः कोसलपुरे प्रशास्तु वसुधामिमाम्। नानारत्न समाकीर्णां सवाजिरथकुञ्जराम्।।2.18.38।। Ayodhya Kanda,18,39,एतेन त्वां नरेन्द्रोऽयं कारुण्येन समाप्लुतः। शोकसंक्लिष्ट वदनो न शक्नोति निरीक्षितुम्।।2.18.39।। Ayodhya Kanda,18,40,एतत्कुरु नरेन्द्रस्य वचनं रघुनन्दन। सत्येन महता राम तारयस्व नरेश्वरम्।।2.18.40।। Ayodhya Kanda,18,41,इतीव तस्यां परुषं वदन्त्यां न चैव रामः प्रविवेश शोकम्। प्रविव्यथे चापि महानुभावो राजा तु पुत्रव्यसनाभितप्तः।।2.18.41।। Ayodhya Kanda,19,1,तदप्रियममित्रघ्नो वचनं मरणोपमम्। श्रुत्वा न विव्यथे रामः कैकेयीं चेदमब्रवीत्।।2.19.1।। Ayodhya Kanda,19,2,एवमस्तु गमिष्यामि वनं वस्तुमहं त्वितः। जटाजिनधरो राज्ञः प्रतिज्ञामनुपालयन्।।2.19.2।। Ayodhya Kanda,19,3,इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपतिः। नाभिनन्दति दुर्धर्षो यथापूर्वमरिन्दमः।।2.19.3।। Ayodhya Kanda,19,4,मन्युर्न च त्वया कार्यो देवि ब्रूमि तवाग्रतः। यास्यामि भव सुप्रीता वनं चीरजटाधरः।।2.19.4।। Ayodhya Kanda,19,5,हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च। नियुज्यमानो विस्रब्धः किं न कुर्यामहं प्रियम्।।2.19.5।। Ayodhya Kanda,19,6,अलीकं मानसं त्वेकं हृदयं दहतीव मे। स्वयं यन्नाह मां राजा भरतस्याभिषेचनम्।।2.19.6।। Ayodhya Kanda,19,7,अहं हि सीतां राज्यं च प्राणानिष्टान्धनानि च। हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः।।2.19.7।। Ayodhya Kanda,19,8,किं पुनर्मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः। तव च प्रियकामार्थं प्रतिज्ञामनुपालयन्।।2.19.8।। Ayodhya Kanda,19,9,तदाश्वासय हीमं त्वं किन्विदं यन्महीपतिः। वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति।।2.19.9।। Ayodhya Kanda,19,10,गच्छन्तु चैवानयितुं दूताश्श्रीघ्रजवैर्हयैः। भरतं मातुलकुलादद्यैव नृपशासनात्।।2.19.10।। Ayodhya Kanda,19,11,दण्डकारण्यमेषोऽहमितो गच्छामि सत्वरः। अविचार्य पितुर्वाक्यं समा वस्तुं चतुर्दश।।2.19.11।। Ayodhya Kanda,19,12,सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकयी। प्रस्थानं श्रद्धधाना हि त्वरयामास राघवम्।।2.19.12।। Ayodhya Kanda,19,13,एवं भवतु यास्यन्ति दूता श्शीघ्रजवैर्हयैः। भरतं मातुलकुलादुपावर्तयितुं नराः।।2.19.13।। Ayodhya Kanda,19,14,तव त्वहं क्षमं मन्ये नोत्सुकस्य विलम्बनम्। राम तस्मादित श्शीघ्रं वनं त्वं गन्तुमर्हसि।।2.19.14।। Ayodhya Kanda,19,15,व्रीडान्वित स्स्वयं यच्च नृपस्त्वां नाभिभाषते। नैतत्किञ्चिन्नरश्रेष्ठ मन्युरेषोऽपनीयताम्।।2.19.15।। Ayodhya Kanda,19,16,यावत्त्वं न वनं यातः पुरादस्मादभित्वरन्। पिता तावन्न ते राम स्नास्यते भोक्ष्यतेऽपि वा।।2.19.16।। Ayodhya Kanda,19,17,धिक्कष्टमिति निःश्वस्य राजा शोकपरिप्लुतः। मूर्छितो न्यपतत्तस्मिन्पर्यङ्के हेमभूषिते।।2.19.17।। Ayodhya Kanda,19,18,रामोऽप्युत्थाप्य राजानं कैकेय्याभिप्रचोदितः। कशयेवाहतो वाजी वनं गन्तुं कृतत्वरः।।2.19.18।। Ayodhya Kanda,19,19,तदप्रियमनार्याया वचनं दारुणोदयम्। श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यमब्रवीत्।।2.19.19।। Ayodhya Kanda,19,20,नाहमर्थपरो देवि लोकमावस्तुमुत्सहे। विद्धिमामृषिभिस्तुल्यं केवलं धर्ममास्थितम्।।2.19.20।। Ayodhya Kanda,19,21,यदत्र भवतः किञ्चिच्छक्यं कर्तुं प्रियं मया। प्राणानपि परित्यज्य सर्वथा कृतमेव तत्।।2.19.21।। Ayodhya Kanda,19,22,न ह्यतो धर्मचरणं किञ्चिदस्ति महत्तरम्। यथा पितरिशुश्रूषा तस्य वा वचनक्रिया।।2.19.22।। Ayodhya Kanda,19,23,अनुक्तोऽप्यत्रभवता भवत्या वचनादहम्। वने वत्स्यामि विजने वर्षाणीह चतुर्दश।।2.19.23।। Ayodhya Kanda,19,24,न नूनं मयि कैकयि किञ्चिदाशंससे गुणम्। यद्राजानमवोचस्त्वं ममेश्वरतरा सती।।2.19.24।। Ayodhya Kanda,19,25,यावन्मातरमाप्नच्छे सीतां चानुनयाम्यहम्। ततोऽद्यैव गमिष्यामि दण्डकानां महद्वनम्।।2.19.25।। Ayodhya Kanda,19,26,भरतः पालयेद्राज्यं शुश्रूषेच्च पितुर्यथा। तथा भवत्या कर्तव्यं स हि धर्म स्सनातनः।।2.19.26।। Ayodhya Kanda,19,27,स रामस्य वचश्श्रृत्वा भृशं दुःखहतः पिता। शोकादशक्नुवन्वकतुं प्ररुरोद महास्वनम्।।2.19.27।। Ayodhya Kanda,19,28,वन्दित्वा चरणौ रामो विसंज्ञस्य पितुस्तथा। कैकेय्याश्चाप्यनार्यायाः निष्पपात महाद्युतिः।।2.19.28।। Ayodhya Kanda,19,29,स रामः पितरं कृत्वा कैकेयीं च प्रदक्षिणम्। निष्क्रम्यान्तःपुरात्तस्मात्स्वं ददर्श सुहृज्जनम्।।2.19.29।। Ayodhya Kanda,19,30,तं बाष्पपरिपूर्णाक्षः पृष्ठतोऽनुजगाम ह। लक्ष्मणः परमक्कृध्दः स्सुमित्रानन्दवर्धनः।।2.19.30।। Ayodhya Kanda,19,31,अभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम्। शनैर्जगाम सापेक्षो दृष्टिं तत्राविचालयन्।।2.19.31।। Ayodhya Kanda,19,32,न चास्य महतीं लक्ष्मीं राज्यनाशोऽपकर्षति। लोककान्तस्य कान्तत्वाच्छीतरश्मेरिव क्षपा।।2.19.32।। Ayodhya Kanda,19,33,न वनं गन्तुकामस्य त्यजतश्च वसुन्धराम्। सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया।।2.19.33।। Ayodhya Kanda,19,34,प्रतिषिध्य शुभं छत्रं व्यजने च स्वलङ्कृते। विसर्जयित्वा स्वजनं रथं पौरांस्तथा जनान्।।2.19.34।। धारयन् मनसा दुःखमिन्द्रियाणि निगृह्य च। प्रविवेशात्मवान्वेश्म मातुरप्रियशंसिवान्।2.19.35।। Ayodhya Kanda,19,36,सर्वोह्यभिजनश्श्रीमान् श्रीमतस्सत्यवादिनः। नालक्षयत रामस्य किञ्चिदाकारमानने।।2.19.36।। Ayodhya Kanda,19,37,उचितं च महाबाहुर्नजहौहर्षमात्मनः। शारद स्समुदीर्णांशुश्चन्द्रस्तेज इवात्मजम्।।2.19.37।। Ayodhya Kanda,19,38,वाचा मधुरया रामस्सर्वं सम्मानयञ्जनम्। मातुस्समीपं धीरात्मा प्रविवेश महायशाः।।2.19.38।। Ayodhya Kanda,19,39,तं गुणैस्समतां प्राप्तो भ्राता विपुलविक्रमः। सौमित्रिरनुवव्राज धारयन्दुःखमात्मजम्।।2.19.39।। Ayodhya Kanda,19,40,प्रविश्य वेश्मातिभृशं मुदाऽन्वितं समीक्ष्य तां चार्थविपत्तिमागताम्। न चैव रामोऽत्रजगामविक्रियां सुहृज्जनस्यात्मविपत्तिशङ्कया।।2.19.40।। Ayodhya Kanda,20,1,तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ। आर्तशब्दो महान् जज्ञे स्त्रीणामन्तःपुरे तदा।।2.20.1।। Ayodhya Kanda,20,2,कृत्येष्वचोदितः पित्रा सर्वस्यान्तःपुरस्य च। गतिर्यश्शरणं चापि स रामोऽद्य प्रवत्स्यति।।2.20.2।। Ayodhya Kanda,20,3,कौशल्यायां यथा युक्तो जनन्यां वर्तते सदा। तथैव वर्ततेऽस्मासु जन्मप्रभृति राघवः।।2.20.3।। Ayodhya Kanda,20,4,न क्रुध्यत्यभिशप्तोऽपि क्रोधनीयानि वर्जयन्। क्रुद्धान्प्रसादयन्सर्वान् स इतोऽद्य प्रवत्स्यति।।2.20.4।। Ayodhya Kanda,20,5,अबुद्धिर्बत नो राजा जीवलोकं चरत्ययम्। यो गतिं सर्वभूतानां परित्यजति राघवम्।।.2.20.5।। Ayodhya Kanda,20,6,इति सर्वा महिष्यस्ता विवत्सा इव धेनवः। पतिमाचुक्रुशुश्चैव सस्वरं चापि चुक्रुशुः।।2.20.6।। Ayodhya Kanda,20,7,स हि चान्तःपुरे घोरमार्तशब्दं महीपतिः। पुत्रशोकाभिसन्तप्तः श्रुत्वा व्यालीयताऽसने।।2.20.7।। Ayodhya Kanda,20,8,रामस्तु भृशमायस्तो निश्श्वसन्निव कुञ्जरः। जगाम सहितो भ्रात्रा मातुरन्तःपुरं वशी।।2.20.8।। Ayodhya Kanda,20,9,सोऽपश्यत्पुरुषं तत्र वृद्धं परमपूजितम्। उपविष्टं गृहद्वारि तिष्ठतश्चापरान्बहून्।।2.20.9।। Ayodhya Kanda,20,10,दृष्ट्वैव तु तदा रामं ते सर्वे सहसोत्थिताः। जयेन जयतां श्रेष्ठं वर्धयन्ति स्म राघवम्।।2.20.10।। Ayodhya Kanda,20,11,प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः। ब्राह्मणान्वेदसम्पन्नान्वृद्धान्राज्ञाऽभिसत्कृतान्।।2.20.11।। Ayodhya Kanda,20,12,प्रणम्य रामस्तान्विप्रांस्तृतीयायां ददर्श सः। स्त्रियो वृद्धास्तथा बाला द्वाररक्षणतत्पराः।।2.20.12।। Ayodhya Kanda,20,13,वर्धयित्वा प्रहृष्टास्ताः प्रविश्य च गृहं स्त्रियः। न्यवेदयन्त त्वरिता राममातुः प्रियं तदा।।2.20.13।। Ayodhya Kanda,20,14,कौशल्यापि तदा देवी रात्रिं स्थित्वा समाहिता। प्रभाते त्वकरोत्पूजां विष्णोः पुत्रहितैषिणी।।2.20.14।। Ayodhya Kanda,20,15,सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा। अग्निं जुहोति स्म तदा मन्त्रवत्कृतमङ्गला।।2.20.15।। Ayodhya Kanda,20,16,प्रविश्य च तदा रामो मातुरन्त:पुरं शुभम्। ददर्श मातरं तत्र हावयन्तीं हुताशनम्।।2.20.16।। Ayodhya Kanda,20,17,देवकार्यनिमित्तं च तत्रापश्यत्समुद्यतम्। दध्यक्षतं घृतं चैव मोदकान्हविषस्तथा।।2.20.17।। Ayodhya Kanda,20,18,लाजान्माल्यानि शुक्लानि पायसं कृसरं तथा। समिध: पूर्णकुम्भांश्च ददर्श रघुनन्दनः।।2.20.18।। Ayodhya Kanda,20,19,तां शुक्लक्षौमसंवीतां व्रतयोगेन कर्शिताम्। तर्पयन्तीं ददर्शाद्भिर्देवतां देववर्णिनीम्।।2.20.19।। Ayodhya Kanda,20,20,सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम्। अभिचक्राम संहृष्टा किशोरं बडबा यथा।।2.20.20।। Ayodhya Kanda,20,21,स मातरमभिक्रान्तामुपसंगृह्य राघवः। परिष्वक्तश्च बाहुभ्यामुपाघ्रातश्च मूर्धनि।।2.20.21।। Ayodhya Kanda,20,22,तमुवाच दुराधर्षं राघवं सुतमात्मनः। कौशल्या पुत्रवात्सल्यादिदं प्रियहितं वचः।।2.20.22।। Ayodhya Kanda,20,23,वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम्। प्राप्नुह्यायुश्च कीर्तिं च धर्मं चोपहितं कुले।।2.20.23।। Ayodhya Kanda,20,24,सत्यप्रतिज्ञं पितरं राजानं पश्य राघव। अद्यैव हि त्वां धर्मात्मा यौवराज्येऽभिषेक्ष्यति।।2.20.24।। Ayodhya Kanda,20,25,दत्तमासनमालभ्य भोजनेन निमन्त्रितः। मातरं राघवः किञ्चिद्व्रीडात्प्रसार्याञ्जलिमब्रवीत्।।2.20.25।। Ayodhya Kanda,20,26,स स्वभावविनीतश्च गौरवाच्च तदा नतः। प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे।।2.20.26।। Ayodhya Kanda,20,27,देवि नूनं न जानीषे महद्भयमुपस्थितम्। इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च।।2.20.27।। Ayodhya Kanda,20,28,गमिष्ये दण्डकारण्यं किमनेनासनेन मे। विष्टरासनयोग्यो हि कालोऽयं मामुपस्थितः।।2.20.28।। Ayodhya Kanda,20,29,चतुर्दश हि वर्षाणि वत्स्यामि विजने वने। मधुमूलफलैर्जीवन्हित्वा मुनिवदामिषम्।।2.20.29।। Ayodhya Kanda,20,30,भरताय महाराजो यौवराज्यं प्रयच्छति। मां पुनर्दण्डकारण्ये विवासयति तापसम्।।2.20.30।। Ayodhya Kanda,20,31,स षट्चाष्टौ च वर्षाणि वत्स्यामि विजने वने। आसेवमानो वन्यानि फलमूलैश्च वर्तयन्।।2.20.31।। Ayodhya Kanda,20,32,सा निकृत्तेव सालस्य यष्टिः परशुना वने। पपात सहसा देवी देवतेव दिवश्च्युता।।2.20.32।। Ayodhya Kanda,20,33,तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव। रामस्तूत्थापयामास मातरं गतचेतसम्।।2.20.33।। Ayodhya Kanda,20,34,उपावृत्त्योत्थितां दीनां बडबामिव वाहिताम्। पांसुकुण्ठितसर्वाङ्गीं विममर्श च पाणिना।।2.20.34।। Ayodhya Kanda,20,35,सा राघवमुपासीनमसुखार्ता सुखोचिता। उवाच पुरुषव्याघ्रमुपशृण्वति लक्ष्मणे।।2.20.35।। Ayodhya Kanda,20,36,यदि पुत्र न जायेथा मम शोकाय राघव। न स्म दुःखमतो भूयः पश्येयमहमप्रजाः।।2.20.36।। Ayodhya Kanda,20,37,एक एव हि वन्ध्याया श्शोको भवति मानसः। अप्रजाऽस्मीति सन्तापो न ह्यन्यः पुत्र विद्यते।।2.20.37।। Ayodhya Kanda,20,38,न दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे। अपि पुत्रे ऽपि पश्येयमिति रामाऽस्थितं मया।।2.20.38।। Ayodhya Kanda,20,39,सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम्। अहं श्रोष्ये सपत्नीनामवराणां वरा सती।।2.20.39।। Ayodhya Kanda,20,40,अतो दुःखतरं किं नु प्रमदानां भविष्यति। मम शोको विलापश्च यादृशोऽयमनन्तकः।।2.20.40।। Ayodhya Kanda,20,41,त्वयि सन्निहितेऽप्येवमहमासं निराकृता। किं पुनः प्रोषिते तात ध्रुवं मरणमेव मे।।2.20.41।। Ayodhya Kanda,20,42,अत्यन्तनिगृहीतास्मि भर्तुर्नित्यमतन्त्रिता। परिवारेण कैकेय्या स्समा वाप्यथवाऽवरा।।2.20.42।। Ayodhya Kanda,20,43,योऽहि मां सेवते कश्चिदथवाप्यनुवर्तते। कैकेय्याः पुत्रमन्वीक्ष्य स्वश्चि जनो नाभिभाषते।।2.20.43।। Ayodhya Kanda,20,44,नित्यक्रोधतया तस्याः कथं नु खरवादितत्। कैकेय्या वदनं द्रष्टुं पुत्र शक्ष्यामि दुर्गता।।2.20.44।। Ayodhya Kanda,20,45,दश सप्त च वर्षाणि जातस्य तव राघव अतितानि प्रकाङ्क्षन्त्या मया दुःखपरिक्षयम्।।2.20.45।। Ayodhya Kanda,20,46,तदक्षयं महद्दुःखं नोत्सहे सहितुं चिरम्। विप्रकारं सपत्नीनामेवं जीर्णाऽपि राघव।।2.20.46।। Ayodhya Kanda,20,47,अपश्यन्ती तव मुखं परिपूर्णशशिप्रभम्। कृपणा वर्तयिष्यामि कथं कृपणजीविकाम्।।2.20.47।। Ayodhya Kanda,20,48,उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः। दुःखं संवर्धितो मोघं त्वं हि दुर्गतया मया।।2.20.48।। Ayodhya Kanda,20,49,स्थिरं तु हृदयं मन्ये ममेदं यन्न दीर्यते। प्रावृषीव महानद्या स्पृष्टं कूलं नवाम्भसा।।2.20.49।। Ayodhya Kanda,20,50,ममैव नूनं मरणं न विद्यते न चावकाऽशोस्ति यमक्षयेऽमम। यदन्तकोऽद्यैव न मां जिहीर्षति। प्रसह्य सिंहो रुदतीं मृगीमिव।।2.20.50।। Ayodhya Kanda,20,51,स्थिरं हि नूनं हृदयं ममायसं न भिद्यते यद्भुवि नावदीर्यते। अनेन दुःखेन च देहमर्पितं ध्रुवं ह्यकाले मरणं न विद्यते।।2.20.51।। Ayodhya Kanda,20,52,इदं हि दुःखं यदनर्थकानि मे व्रतानि दानानि च संयमाश्च हि। तपश्च तप्तं यदपत्यकारणा त्सुनिष्फलं बीजमिवोप्तमूषरे।।2.20.52।। Ayodhya Kanda,20,53,यदि ह्यकाले मरणं स्वयेच्छया लभेत कश्चिद्गुरुदुःखकर्शितः। गताहमद्यैव परेतसंसदं विना त्वया धेनुरिवात्मजेन वै।।2.20.53।। Ayodhya Kanda,20,54,अथापि किं जीवितमद्य मे वृथा त्वया विना चन्द्रनिभाननप्रभ। अनुव्रजिष्यामि वनं त्वयैव गौ स्सुदुर्बला वत्समिवानुकाङ्क्षया।।2.20.54।। Ayodhya Kanda,20,55,भृशमसुखममर्षिता तदा बहु विललाप समीक्ष्य राघवम्। व्यसनमुपनिशम्य सा मह त्सुतमिव बद्धमवेक्ष्य किन्नरी।।2.20.55।। Ayodhya Kanda,21,1,तथा तु विलपन्तीं तां कौसल्यां राममातरम्। उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः।।2.21.1।। Ayodhya Kanda,21,2,न रोचते ममाप्येतदार्ये यद्राघवो वनम्। त्यक्त्वा राज्यश्रियं गच्छेत् स्त्रिया वाक्यवशं गतः।।2.21.2।। Ayodhya Kanda,21,3,विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः। नृपः किमिव न ब्रूयाच्चोद्यमानस्समन्मथः।।2.21.3।। Ayodhya Kanda,21,4,नास्यापराधं पश्यामि नापि दोषं तथाविधम्। येन निर्वास्यते राष्ट्राद्वनवासाय राघवः।।2.21.4।। Ayodhya Kanda,21,5,न तं पश्याम्यहं लोके परोक्षमपि यो नरः। स्वमित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत्।।2.21.5।। Ayodhya Kanda,21,6,देवकल्पमृजुं दान्तं रिपूणामपि वत्सलम्। अवेक्षमाणः को धर्मं त्यजेत्पुत्रमकारणात्।।2.21.6।। Ayodhya Kanda,21,7,तदिदं वचनं राज्ञःपुनर्बाल्यमुपेयुषः। पुत्रः को हृदये कुर्याद्राजवृत्तमनुस्मरन्।।2.21.7।। Ayodhya Kanda,21,8,यावदेव न जानाति कश्चिदर्थमिमं नरः। तावदेव मया सार्धमात्मस्थं कुरु शासनम्।।2.21.8।। Ayodhya Kanda,21,9,मया पार्श्वे सधनुषा तव गुप्तस्य राघव। क स्समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः।।2.21.9।। Ayodhya Kanda,21,10,निर्मनुष्यामिमां कृत्स्नामयोध्यां मनुजर्षभ। करिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये।।2.21.10।। Ayodhya Kanda,21,11,भरतस्याथ पक्ष्यो वा यो वाऽस्य हितमिच्छति। सर्वानेतान्वधिष्यामि मृदुर्हि परिभूयते।।2.21.11।। Ayodhya Kanda,21,12,प्रोत्साहितोऽयं कैकेय्या स दुष्टो यदि नः पिता। अमित्रभूतो निस्सङ्गं वध्यतां बध्यतामपि।।2.21.12।। Ayodhya Kanda,21,13,गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः। उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम्।।2.21.13।। Ayodhya Kanda,21,14,बलमेष किमाश्रित्य हेतुं वापुरुषर्षभ। दातुमिच्छति कैकेय्यै राज्यं स्थितमिदं तव।।2.21.14।। Ayodhya Kanda,21,15,त्वया चैव मया चैव कृत्वा वैरमनुत्तमम्। काऽस्य शक्तिश्श्रियं दातुं भरतायारिशासन।।2.21.15।। Ayodhya Kanda,21,16,अनुरक्तोऽस्मि भावेन भ्रातरं देवि तत्त्वतः। सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे।।2.21.16।। Ayodhya Kanda,21,17,दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यति। प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय।।2.21.17।। Ayodhya Kanda,21,18,हरामि वीर्याद्दुःखं ते तम स्सूर्य इवोदितः। देवी पश्यतु मे वीर्यं राघवश्चैव पश्यतु।।2.21.18।। Ayodhya Kanda,21,19,एतत्तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः। उवाच रामं कौशल्या रुदन्ती शोकलालसा।।2.21.19।। Ayodhya Kanda,21,20,भ्रातुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया। यदत्रानन्तरं कार्यं कुरुष्व यदि रोचते।।2.21.20।। Ayodhya Kanda,21,21,न चाधर्म्यं वच श्रुत्वा सपत्न्या मम भाषितम्। विहाय शोकसन्तप्तां गन्तुमर्हसि मामितः।।2.21.21।। Ayodhya Kanda,21,22,धर्मज्ञ यदि धर्मिष्ठो धर्मं चरितुमिच्छसि। शुश्रूष मामिहस्थस्त्वं चर धर्ममनुत्तमम्।।2.21.22।। Ayodhya Kanda,21,23,शुश्रूषुर्जननीं पुत्र स्वगृहे नियतो वसन्। परेण तपसा युक्तः काश्यपस्त्रिदिवं गतः।।2.21.23।। Ayodhya Kanda,21,24,यथैव राजा पूज्यस्ते गौरवेण तथाऽस्म्यहम्। त्वां नाहमनुजानामि न गन्तव्यमितो वनम्।।2.21.24।। Ayodhya Kanda,21,25,त्वद्वियोगान्न मे कार्यं जीवितेन सुखेन वा। त्वया सह मम श्रेयस्तृणानामपि भक्षणम्।।2.21.25।। Ayodhya Kanda,21,26,यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम्। अहं प्रायमिहासिष्ये न हि शक्ष्यामि जीवितुम्।।2.21.26।। Ayodhya Kanda,21,27,ततस्त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम्। ब्रह्महत्यामिवाधर्मात्समुद्र स्सरितां पतिः।।2.21.27।। Ayodhya Kanda,21,28,विलपन्तीं तथा दीनां कौसल्यां जननीं ततः। उवाच रामो धर्मात्मा वचनं धर्मसंहितम्।।2.21.28।। Ayodhya Kanda,21,29,नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम। प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम्।।2.21.29।। Ayodhya Kanda,21,30,ऋषिणा च पितुर्वाक्यं कुर्वता व्रतचारिणा। गौर्हता जानता धर्मं कण्डुनाऽपि विपश्चिता।।2.21.30।। Ayodhya Kanda,21,31,अस्माकं च कुले पूर्वं सगरस्याज्ञया पितुः। खनद्भिस्सागरैर्भूमिमवाप्तस्सुमहान्वधः।।2.21.31।। Ayodhya Kanda,21,32,जामद्ग्न्येन रामेण रेणुका जननी स्वयम्। कृत्ता परशुनाऽरण्ये पितुर्वचनकारिणा।।2.21.32।। Ayodhya Kanda,21,33,एतैरन्यैश्च बहुभिर्देवि देवसमैः कृतम्। पितुर्वचनमक्लीबं करिष्यामि पितुर्हितम्।।2.21.33।। Ayodhya Kanda,21,34,न खल्वेतन्मयैकेन क्रियते पितृशासनम्। एतैरपि कृतं देवि ये मया तव कीर्तिताः।।2.21.34।। Ayodhya Kanda,21,35,नाहं धर्ममपूर्वं ते प्रतिकूलं प्रवर्तये। पूर्वैरयमभिप्रेतो गतो मार्गोऽनुगम्यते।।2.21.35।। Ayodhya Kanda,21,36,तदेतत्तु मया कार्यं क्रियते भुवि नान्यथा। पितुर्हि वचनं कुर्वन्न कश्चिन्नाम हीयते।।2.21.36।। Ayodhya Kanda,21,37,तामेवमुक्त्वा जननीं लक्ष्मणं पुनरब्रवीत्। वाक्यं वाक्यविदां श्रेष्ठश्श्रेष्ठस्सर्वधनुष्मताम्।।2.21.37।। Ayodhya Kanda,21,38,तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम्। विक्रमं चैव सत्त्वं च तेजश्च सुदुरासदम्।।2.21.38।। Ayodhya Kanda,21,39,मम मातुर्महद्दुःखमतुलं शुभलक्षण। अभिप्रायमविज्ञाय सत्यस्य च शमस्य च।।2.21.39।। Ayodhya Kanda,21,40,धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम्। धर्मसंश्रितमेतच्च पितुर्वचनमुत्तमम्।।2.21.40।। Ayodhya Kanda,21,41,संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा। न कर्तव्यं वृथा वीर धर्ममाश्रित्य तिष्ठता।।2.21.41।। Ayodhya Kanda,21,42,सोऽहं न शक्ष्यामि पितुर्नियोगमतिवर्तितुम्। पितुर्हिवचनाद्वीर कैकेय्याऽहं प्रचोदितः।।2.21.42।। Ayodhya Kanda,21,43,तदेतां विसृजानार्यां क्षत्रधर्माश्रितां मतिम्। धर्ममाश्रय मा तैक्ष्ण्यं मद्बुद्धिरनुगम्यताम्।।2.21.43।। Ayodhya Kanda,21,44,तमेवमुत्त्वा सौहार्दाद्भ्रातरं लक्ष्मणाग्रजः। उवाच भूयः कौसल्यां प्राञ्जलिश्शिरसानतः।।2.21.44।। Ayodhya Kanda,21,45,अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम्। शापिताऽसि मम प्राणैः कुरु स्वस्त्ययनानि मे।।2.21.45।। Ayodhya Kanda,21,46,तीर्णप्रतिज्ञश्च वनात्पुनरेष्याम्यहं पुरीम्। ययातिरिव राजर्षिःपुरा हित्वा पुनर्दिवम्।।2.21.46।। Ayodhya Kanda,21,47,शोकस्सन्धार्यतां मात र्हृदये साधु मा शुचः। वनवासादिहैष्यामि पुनः कृत्वा पितुर्वचः।।2.21.47।। Ayodhya Kanda,21,48,त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया। पितुर्नियोगे स्थातव्यमेष धर्मस्सनातनः।।2.21.48।। Ayodhya Kanda,21,49,अम्ब संहृत्य सम्भारान् दुःखं हृदि निगृह्य च। वनवासकृता बुद्धिर्मम धर्म्याऽनु वर्त्यताम्।।2.21.49।। Ayodhya Kanda,21,50,एतद्वचस्तस्य निशम्य माता सुधर्म्यमव्यग्रमविक्लबं च। मृतेव संज्ञां प्रतिलभ्य देवी समीक्ष्य रामं पुनरित्युवाच।।2.21.50।। Ayodhya Kanda,21,51,यथैव ते पुत्र पिता तथाऽहं गुरु स्स्वधर्मेण सुहृत्तया च। न त्वाऽनुजानामि न मां विहाय सुदुःखितामर्हसि गन्तुमेवम्।।2.21.51।। Ayodhya Kanda,21,52,किं जीवितेनेह विना त्वया मे लोकेन वा किं स्वधयाऽमृतेन। श्रेयो मुहूर्तं तव सन्निधानं ममेह कृत्स्नादपि जीवलोकात्।।2.21.52।। Ayodhya Kanda,21,53,नरैरिवोल्काभिरपोह्यमानो महागजोऽध्वानमनुप्रविष्टः। भूयः प्रजज्वाल विलापमेवं निशम्य रामः करुणं जनन्याः।।2.21.53।। Ayodhya Kanda,21,54,स मातरं चैव विसंज्ञकल्पा मार्तं च सौमित्रिमभिप्रतप्तम्। धर्मे स्थितो धर्म्यमुवाच वाक्यं यथा स एवार्हति तत्र वक्तुम्।।2.21.54।। Ayodhya Kanda,21,55,अहं हि ते लक्ष्मण नित्यमेव जानामि भक्तिं च पराक्रमं च। मम त्वभिप्रायमसन्निरीक्ष्य मात्रा सहाभ्यर्दसि मां सुदुःखम्।।2.21.55।। Ayodhya Kanda,21,56,धर्मार्थकामाः खलु तात लोके समीक्षिता धर्मफलोदयेषु। ते तत्र सर्वे स्युरसंशयं मे भार्येव वश्याऽभिमता सुपुत्रा।।2.21.56।। Ayodhya Kanda,21,57,यस्मिंस्तु सर्वे स्युरसन्निविष्टा धर्मो यत स्स्यात्तदुपक्रमेत। द्वेष्यो भवत्यर्थपरो हि लोके कामात्मता खल्वपि न प्रशस्ता।।2.21.57।। Ayodhya Kanda,21,58,गुरुश्च राजा च पिता च वृद्धः क्रोधात्प्रहर्षाद्यदि वाऽपि कामात्। यद्व्यादिशेत्कार्यमवेक्ष्य धर्मं कस्तन्न कुर्यादनृशंसवृत्तिः।2.21.58।। Ayodhya Kanda,21,59,स वै न शक्नोमि पितुः प्रतिज्ञा मिमामकर्तुं सकलां यथावत्। स ह्यावयोस्तात गुरुर्नियोगे देव्याश्च भर्ता स गति स्सधर्मः।।2.21.59।। Ayodhya Kanda,21,60,तस्मिन्पुनर्जीवति धर्मराजे विशेषतस्स्वे पथि वर्तमाने। देवी मया सार्धमितोऽपगच्छेत् कथं स्विदन्या विधवेव नारी।।2.21.60।। Ayodhya Kanda,21,61,सा माऽनुमन्यस्व वनं व्रजन्तं कुरुष्व न स्स्वस्त्ययनानि देवि। यथा समाप्ते पुनराव्रजेयं यथा हि सत्येन पुनर्ययातिः।।2.21.61।। Ayodhya Kanda,21,62,यशो ह्यहं केवलराज्यकारणा न्न पृष्ठतः कर्तुमलं महोदयम्। अदीर्घकाले न तु देवि जीविते वृणेऽवरामद्य महीमधर्मतः।।2.21.62।। Ayodhya Kanda,21,63,प्रसादयन्नरवृषभ स्समातरं पराक्रमाज्जिगमिषुरेव दण्डकान्। अथानुजं भृशमनुशास्य दर्शनं चकार तां हृदि जननीं प्रदक्षिणम्।।2.21.63।। Ayodhya Kanda,22,1,अथ तं व्यथया दीनं सविशेषममर्षितम्। श्वसन्तमिव नागेन्द्रं रोषविस्फारितेक्षणम्।।2.22.1।। Ayodhya Kanda,22,2,आसाद्य रामस्सौमित्रिं सुहृदं भ्रातरं प्रियम्। उवाचेदं स धैर्येण धारयन्सत्त्वमात्मवान्।।2.22.2।। Ayodhya Kanda,22,3,निगृह्य रोषं शोकं च धैर्यमाश्रित्य केवलम्। अवमानं निरस्येमं गृहीत्वा हर्षमुत्तमम्।।2.22.3।। Ayodhya Kanda,22,4,उपक्लृप्तं हि यत्किञ्चिदभिषेकार्थमद्य मे सर्वं विसर्जय क्षिप्रं कुरु कार्यं निरत्ययम्।।2.22.4।। Ayodhya Kanda,22,5,सौमित्रे योऽभिषेकार्थे मम सम्भार सम्भ्रमः। अभिषेकनिवृत्त्यर्थे सोऽस्तु संभारसम्भ्रमः।।2.22.5।। Ayodhya Kanda,22,6,यस्या मदभिषेकार्थे मानसं परितप्यते। माता मे सा यथा न स्यात्सविशङ्का तथा कुरु।।2.22.6।। Ayodhya Kanda,22,7,तस्याश्शङ्कामयं दुःखं मुहूर्तमपि नोत्सहे। मनसि प्रतिसंजातं सौमित्रेऽहमुपेक्षितुम्।।2.22.7।। Ayodhya Kanda,22,8,न बुद्धिपूर्वं नाबुद्धं स्मरामीह कदाचन। मातृ़णां वा पितुर्वाऽहं कृतमल्पं च विप्रियम्।।2.22.8।। Ayodhya Kanda,22,9,सत्यस्सत्याभिसन्धश्च नित्यं सत्यपराक्रमः। परलोकभयाद्भीतो निर्भयोऽस्तु पिता मम।।2.22.9।। Ayodhya Kanda,22,10,तस्याऽपि हि भवेदस्मिन्कर्मण्यप्रतिसंहृते। सत्यं नेति मनस्तापस्तस्य तापस्तपेच्च माम्।।2.22.10।। Ayodhya Kanda,22,11,अभिषेकविधानं तु तस्मात्संहृत्य लक्ष्मण। अन्वगेवाहमिच्छामि वनं गन्तुमितःपुनः।।2.22.11।। Ayodhya Kanda,22,12,मम प्रव्राजनादद्य कृतकृत्या नृपात्मजा। सुतं भरतमव्यग्रमभिषेचयिता ततः।।2.22.12।। Ayodhya Kanda,22,13,मयि चीराजिनधरे जटामण्डलधारिणि। गतेऽरण्यं च कैकेय्या भविष्यति मनस्सुखम्।।2.22.13।। Ayodhya Kanda,22,14,बुद्धिः प्रणीता येनेयं मनश्च सुसमाहितम्। तं तु नार्हामि संक्लेष्टुं प्रव्रजिष्यामि मा चिरम्।।2.22.14।। Ayodhya Kanda,22,15,कृतान्तस्त्वेव सौमित्रे द्रष्टव्यो मत्प्रवासने। राज्यस्य च वितीर्णस्य पुनरेव निवर्तने।।2.22.15।। Ayodhya Kanda,22,16,कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम पीडने। यदि भावो न दैवोऽयं कृतान्तविहितो भवेत्।।2.22.16।। Ayodhya Kanda,22,17,जानासि हि यथा सौम्य न मातृषु ममान्तरम्। भूतपूर्वं विशेषो वा तस्या मयि सुतेऽपि वा।।2.22.17।। Ayodhya Kanda,22,18,सोऽभिषेकनिवृत्त्यर्थैप्रवासार्थैश्च दुर्वचैः। उग्रैर्वाक्यैरहं तस्या नान्यद्दैवात्समर्थये।।2.22.18।। Ayodhya Kanda,22,19,कथं प्रकृतिसम्पन्ना राजपुत्री तथागुणा। ब्रूयात्सा प्राकृतेव स्त्री मत्पीडां भर्तृसन्निधौ।।2.22.19।। Ayodhya Kanda,22,20,यदचिन्त्यन्तु तद्दैवं भूतेष्वपि न विहन्यते। व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः।।2.22.20।। Ayodhya Kanda,22,21,कश्चिद्दैवेन सौमित्रे योद्धुमुत्सहते पुमान्। यस्य न ग्रहणं किञ्चित्कर्मणोऽन्यत्र दृश्यते।।2.22.21।। Ayodhya Kanda,22,22,सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ। यच्च किञ्चित्तथाभूतं ननु दैवस्य कर्म तत्।।2.22.22।। Ayodhya Kanda,22,23,ऋषयोऽप्युग्रतपसो दैवेनाभिप्रपीडिताः। उत्सृज्य नियमांस्तीव्रान्भ्रश्यन्ते काममन्युभिः।।2.22.23।। Ayodhya Kanda,22,24,असङ्कल्पितमेवेह यदकस्मात्प्रवर्तते। निवर्त्यारम्भमारब्धं ननु दैवस्य कर्म तत्।।2.22.24।। Ayodhya Kanda,22,25,एतया तत्त्वया बुद्ध्या संस्तभ्यात्मानमात्मना। व्याहतेऽप्यभिषेके मे परितापो न विद्यते।।2.22.25।। Ayodhya Kanda,22,26,तस्मादपरितापस्संस्त्वमप्यनुविधाय माम्। प्रतिसंहारय क्षिप्रमाभिषेचनिकीं क्रियाम्।।2.22.26।। Ayodhya Kanda,22,27,एभिरेव घटै स्सर्वैरभिषेचनसम्भृतैः। मम लक्ष्मण तापस्ये व्रतस्नानं भविष्यति।।2.22.27।। Ayodhya Kanda,22,28,अथवा किं ममैतेन राजद्रव्यमयेन तु। उद्धृतं मे स्वयं तोयं व्रतादेशं करिष्यति।।2.22.28।। Ayodhya Kanda,22,29,मा च लक्ष्मण सन्तापं कार्षीर्लक्ष्म्या विपर्यये। राज्यं वा वनवासो वा वनवासो महोदयः।।2.22.29।। Ayodhya Kanda,22,30,न लक्ष्मणास्मिन्खलु कर्मविघ्ने माता यवीयस्यतिशङ्कनीया। दैवाभिपन्ना हि वदत्यनिष्टं जानासि दैवं च तथा प्रभावम्।।2.22.30।। Ayodhya Kanda,23,1,इति ब्रुवति रामे तु लक्ष्मणोऽधश्शिरा मुहुः। श्रृत्वा मध्यं जगामेव मनसा दुःखहर्षयोः।।2.23.1।। Ayodhya Kanda,23,2,तदा तु बध्द्वा भ्रुकुटीं भ्रुवोर्मध्ये नरर्षभः। निशश्वास महासर्पो बिलस्थ इव रोषितः।।2.23.2।। Ayodhya Kanda,23,3,तस्य दुष्प्रतिवीक्षं तद्भ्रुकुटीसहितं तदा। बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम्।।2.23.3।। Ayodhya Kanda,23,4,अग्रहस्तं विधुन्वंस्तु हस्ती हस्तमिवात्मनः। तिर्यगूर्ध्वं शरीरे च पातयित्वा शिरोधराम्।।2.23.4।। अग्राक्ष्णा वीक्षमाणस्तु तिर्यग्भ्रातरमब्रवीत्। Ayodhya Kanda,23,5,अस्थाने सम्भ्रमो यस्य जातो वै सुमहानयम्।।2.23.5।। Ayodhya Kanda,23,6,धर्मदोष प्रसङ्गेन लोकस्यानतिशङ्कया। कथंह्येतदसम्भ्रान्तस्त्वद्विधो वक्तुमर्हति।।2.23.6।। यथा दैवमशौडीरं शौण्डीर क्षत्रियर्षभ। Ayodhya Kanda,23,7,किन्नाम कृपणं दैवमशक्तमभिशंससि।।2.23.7।। पापयोस्ते कथं नाम तयोश्शङ्का न विद्यते। Ayodhya Kanda,23,8,सन्ति धर्मोपधा श्लक्ष्णाः धर्मात्मन्किं न बुध्यसे।।2.23.8।। तयोस्सुचरितं स्वार्थं शाठ्यात्परिजिहीर्षतोः। Ayodhya Kanda,23,9,यदि नैवं व्यवसितं स्याद्धि प्रागेव राघव।।2.23.9।। तयोः प्रागेव दत्तश्च स्याद्वरः प्रकृतश्च सः। Ayodhya Kanda,23,10,लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम्। नोत्सहे सहितुं वीर तत्र मे क्षन्तुमर्हसि।।2.23.10।। Ayodhya Kanda,23,11,येनेय मागता द्वैधं तव बुद्धिर्महामते। स हि धर्मो मम द्वेष्यः प्रसङ्गाद्यस्य मुह्यसि।।2.23.11।। Ayodhya Kanda,23,12,कथं त्वं कर्मणा शक्तः कैकेयीवशवर्तिनः। करिष्यसि पितुर्वाक्यमधर्मिष्ठं विगर्हितम्।।2.23.12।। Ayodhya Kanda,23,13,यद्ययं किल्बिषाद्भेदः कृतोऽप्येवं न गृह्यते। जायते तत्र मे दुःखं धर्मसङ्गश्च गर्हितः।।2.23.13।। Ayodhya Kanda,23,14,मनसाऽपि कथं कामं कुर्यास्त्वं कामवृत्तयोः। तयोस्त्वहितयोर्नित्यं शत्र्वोः पित्रभिधानयोः।।2.23.14।। Ayodhya Kanda,23,15,यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम्। तथाप्युपेक्षणीयं ते न मे तदपि रोचते।।2.23.15।। Ayodhya Kanda,23,16,विक्लबो वीर्यहीनो यस्स दैवमनुवर्तते। वीरास्सम्भावितात्मानो न दैवं पर्युपासते।।2.23.16।। Ayodhya Kanda,23,17,दैवं पुरुषकारेण यः समर्थः प्रबाधितुम्। न दैवेन विपन्नार्थः पुरुषस्सोऽवसीदति।।2.23.17।। Ayodhya Kanda,23,18,द्रक्ष्यन्ति त्वद्य दैवस्य पौरुषं पुरुषस्य च। दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति।।2.23.18।। Ayodhya Kanda,23,19,अद्य मत्पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः। यद्दैवादाहतं तेऽद्य दृष्टं राज्याभिषेचनम्।।2.23.19।। Ayodhya Kanda,23,20,अत्यङ्कुशमिवोद्दामं गजं मदबलोद्धतम्। प्रधावितमहं दैवं पौरुषेण निवर्तये।।2.23.20।। Ayodhya Kanda,23,21,लोकपालास्समस्ता स्ते नाद्य रामाभिषेचनम्। न च कृत्स्नास्त्रयो लोका विहन्युः किं पुनः पिता।।2.23.21।। Ayodhya Kanda,23,22,यैर्निवासस्तवारण्ये मिथो राजन्समर्थितः। अरण्ये ते निवत्स्यन्ति चतुर्दश समास्तथा।।2.23.22।। Ayodhya Kanda,23,23,अहं तदाशां छेत्स्यामि पितुस्तस्याश्च या तव। अभिषेकविघातेन पुत्रराज्याय वर्तते।।2.23.23।। Ayodhya Kanda,23,24,मद्बलेन विरुद्धाय न स्याद्दैवबलं तथा। प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम।।2.23.24।। Ayodhya Kanda,23,25,ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्यमनन्तरम्। आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि।।2.23.25।। Ayodhya Kanda,23,26,पूर्वं राजर्षिवृत्त्या हि वनवासो विधीयते। प्रजा निक्षिप्य पुत्रेषु पुत्रवत्परिपालने।।2.23.26।। Ayodhya Kanda,23,27,स चेद्राजन्यनेकाग्रे राज्यविभ्रमशङ्कया। नैवमिच्छसि धर्मात्मन् राज्यं राम त्वमात्मनि।।2.23.27।। Ayodhya Kanda,23,28,प्रतिजाने च ते वीर माऽभूवं वीरलोकभाक्। राज्यं च तव रक्षेयमहं वेलेव सागरम्।।2.23.28।। Ayodhya Kanda,23,29,मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतो भव। अहमेको महीपालानलं वारयितुं बलात्।।2.23.29।। Ayodhya Kanda,23,30,न शोभार्थाविमौ बाहू न धनुर्भूषणाय मे। नाऽसिराबन्धनार्थाय न शरास्तम्भहेतवः।।2.23.30।। अमित्रदमनार्थं मे सर्वमेतच्चतुष्टयम्। Ayodhya Kanda,23,31,न चाहं कामयेऽत्यर्थं यस्स्याच्छत्रुर्मतो मम।।2.23.31।। Ayodhya Kanda,23,32,असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा। प्रगृहीतेन वै शत्रुं वज्रिणं वा न कल्पये।।2.23.32।। Ayodhya Kanda,23,33,खड्गनिष्पेषनिष्पिष्टैर्गहना दुश्चरा च मे। हस्त्यश्वनरहस्तोरुशिरोभिर्भविता मही।।2.23.33।। Ayodhya Kanda,23,34,खड्गधाराहता मेऽद्य दीप्यमाना इवाद्रयः। पतिष्यन्ति द्विपा भूमौ मेघा इव सविद्युतः।।2.23.34।। Ayodhya Kanda,23,35,बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने। कथं पुरुषमानी स्यात्पुरुषाणां मयि स्थिते।।2.23.35।। Ayodhya Kanda,23,36,बहुभिश्चैकमत्यस्यन्नेकेन च बहून्जनान्। विनियोक्ष्याम्यहं बाणान्नृवाजिगजमर्मसु।।2.23.36।। Ayodhya Kanda,23,37,अद्य मेऽस्त्रप्रभावस्य प्रभावः प्रभविष्यति। राज्ञश्चाप्रभुतां कर्तुं प्रभुत्वं तव च प्रभोः।।2.23.37।। Ayodhya Kanda,23,38,अद्य चन्दनसारस्य केयूरामोक्षणस्य च। वसूनां च विमोक्षस्य सुहृदां पालनस्य च।।2.23.38।। Ayodhya Kanda,23,39,अनुरूपाविमौ बाहू राम कर्म करिष्यतः। अभिषेचनविघ्नस्य कर्तृ़णां ते निवारणे।।2.23.39।। Ayodhya Kanda,23,40,ब्रवीहि कोऽद्यैव मया वियुज्यताम् तवा सुहृत्प्राणयशस्सुहृज्जनैः। यथा तवेयं वसुधा वशे भवे त्तथैव मां शाधि तवास्मि किङ्करः।।2.23.40।। Ayodhya Kanda,24,1,तं समीक्ष्य त्ववहितं पितुर्निर्देश पालने। कौशल्या बाष्पसंरुद्धा वचो धर्मिष्ठमब्रवीत्।।2.24.1।। Ayodhya Kanda,24,2,अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः। मयि जातो दशरथात्कथमुञ्छेन वर्तयेत्।।2.24.2।। Ayodhya Kanda,24,3,यस्य भृत्याश्च दासाश्च मृष्टान्यन्नानि भुञ्जते। कथं स भोक्ष्यतेऽनाथो वने मूलफलान्ययम्।।2.24.3।। Ayodhya Kanda,24,4,कः एतच्छ्रद्दधेच्छ्रुत्वा कस्य वा न भवेद्भयम्। गुणवान्दयितो राज्ञा राघवो यद्विवास्यते।।2.24.4।। Ayodhya Kanda,24,5,नूनं तु बलवान् लोके कृतान्तस्सर्वमादिशन्। लोके रामाभिरामस्त्वं वनं यत्र गमिष्यसि।।2.24.5।। Ayodhya Kanda,24,6,अयं तु मामात्मभव स्तवादर्शनमारुतः। विलापदुःखसमिधो रुदिताश्रुहुताहुतिः।।2.24.6।। Ayodhya Kanda,24,7,चिन्ताबाष्पमहाधूमस्तवागमनचित्तजः। कर्शयित्वा भृशं पुत्र निश्वासायाससम्भवः।।2.24.7।। Ayodhya Kanda,24,8,त्वया विहीनामिह मां शोकाग्निरतुलो महान्। प्रधक्ष्यति यथा कक्षं चित्रभानुर्हिमात्यये।।2.24.8।। Ayodhya Kanda,24,9,कथं हि धेनु स्स्वं वत्सं गच्छन्तं नानुगच्छति। अहं त्वाऽनुगमिष्यामि यत्र पुत्र गमिष्यसि।।2.24.9.।। Ayodhya Kanda,24,10,तथा निगदितं मात्रा तद्वाक्यं पुरुषर्षभः। श्रुत्वा रामोऽब्रवीद्वाक्यं मातरं भृशदुःखिताम्।।2.24.10।। Ayodhya Kanda,24,11,कैकेय्या वञ्चितो राजा मयि चारण्यमाश्रिते। भवत्या च परित्यक्तो न नूनं वर्तयिष्यति।।2.24.11।। Ayodhya Kanda,24,12,भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः। स भवत्या न कर्तव्यो मनसाऽपि विगर्हितः।।2.24.12।। Ayodhya Kanda,24,13,यावज्जीवति काकुत्स्थः पिता मे जगतीपतिः। शुश्रूषा क्रियतां तावत्सहि धर्मस्सनातनः।।2.24.13।। Ayodhya Kanda,24,14,एवमुक्ता तु रामेण कौशल्या शुभदर्शना। तथेत्युवाच सुप्रीता राममक्लिष्टकारिणम्।।2.24.14।। Ayodhya Kanda,24,15,एवमुक्तस्तु वचनं रामो धर्मभृतां वरः। भूयस्तामब्रवीद्वाक्यं मातरं भृशदुःखिताम्।।2.24.15।। Ayodhya Kanda,24,16,मया चैव भवत्या च कर्तव्यं वचनं पितुः। राजा भर्ता गुरु श्श्रेष्ठस्सर्वेषामीश्वरः प्रभुः।।2.24.16।। Ayodhya Kanda,24,17,इमानि तु महारण्ये विहृत्य नव पञ्च च। वर्षाणि परमप्रीतः स्थास्यामि वचने तव।।2.24.17।। Ayodhya Kanda,24,18,एवमुक्ता प्रियं पुत्रं बाष्पपूर्णानना तदा। उवाच परमार्ता तु कौशल्या पुत्रवत्सला।।2.24.18।। Ayodhya Kanda,24,19,आसां राम सपत्नीनां वस्तुं मध्ये न मे क्षमम्। नय मामपि काकुत्स्थ वनं वन्यां मृगीं यथा।।2.24.19।। यदि ते गमने बुद्धिः कृता पितुरपेक्षया। Ayodhya Kanda,24,20,तां तथा रुदतीं रामो रुदन्वचनमब्रवीत्।।2.24.20।। जीवन्त्या हि स्त्रिया भर्ता दैवतं प्रभुरेव च Ayodhya Kanda,24,21,भवत्या मम चैवाद्य राजा प्रभवति प्रभुः। न ह्यनाथा वयं राज्ञा लोकनाथेन धीमता।।2.24.21।। Ayodhya Kanda,24,22,भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः। भवतीमनुवर्तेत स हि धर्मरतस्सदा।।2.24.22।। Ayodhya Kanda,24,23,यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः। श्रमं नावाप्नुयात्किञ्चिदप्रमत्ता तथा कुरु।।2.24.23।। Ayodhya Kanda,24,24,दारुणश्चाप्ययं शोको यथैनं न विनाशयेत्। राज्ञो वृद्धस्य सततं हितं चर समाहिता।।2.24.24।। Ayodhya Kanda,24,25,व्रतोपवासनिरता या नारी परमोत्तमा। भर्तारं नानुवर्तेत सा तु पापगतिर्भवेत्।।2.24.25।। Ayodhya Kanda,24,26,भर्तु श्शुश्रूषया नारी लभते स्वर्गमुत्तमम्। अपि या निर्नमस्कारा निवृत्ता देवपूजनात्।।2.24.26।। Ayodhya Kanda,24,27,शुश्रूषामेव कुर्वीत भर्तुः प्रियहिते रता। एष धर्मः पुरा दृष्टो लोके वेदे श्रुतः स्मृतः।।2.24.27।। Ayodhya Kanda,24,28,अग्निकार्येषु च सदा सुमनोभिश्च देवताः। पूज्यास्ते मत्कृते देवि बाह्मणाश्चैव सुव्रताः।।2.24.28।। Ayodhya Kanda,24,29,एवं कालं प्रतीक्षस्व ममागमनकाङ्क्षिणी। नियता नियताहारा भर्तृशुश्रूषणे रता।।2.24.29।। Ayodhya Kanda,24,30,प्राप्स्यसे परमं कामं मयि प्रत्यागते सति। यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम्।।2.24.30।। Ayodhya Kanda,24,31,एवमुक्ता तु रामेण बाष्पपर्याकुलेक्षणा। कौशल्या पुत्रशोकार्ता रामं वचनमब्रवीत्।।2.24.31।। Ayodhya Kanda,24,32,गमने सुकृतां बुद्धिं न ते शक्नोमि पुत्रक। विनिवर्तयितुं वीर नूनं कालो दुरत्ययः।।2.24.32।। Ayodhya Kanda,24,33,गच्छ पुत्र त्वमेकाग्रो भद्रं तेऽस्तु सदा विभुः। पुनस्त्वयि निवृत्ते तु भविष्यामि गतव्यथा।।2.24.33।। Ayodhya Kanda,24,34,प्रत्यागते महाभागे कृतार्थे चरितव्रते। पितुरानृण्यतां प्राप्ते त्वयि लप्स्ये परं सुखम्।।2.24.34।। Ayodhya Kanda,24,35,कृतान्तस्य गतिः पुत्र दुर्विभाव्या सदा भुवि। यस्त्वां सञ्चोदयति मे वच आच्छिद्य राघव।।2.24.35।। Ayodhya Kanda,24,36,गच्छेदानीं महाबाहो क्षेमेण पुनरागतः। नन्दयिष्यसि मां पुत्र साम्ना वाक्येन चारुणा।।2.24.36।। Ayodhya Kanda,24,37,अपीदानीं स कालस्स्याद्वनात्प्रत्यागतं पुनः। यत्त्वां पुत्रक पश्येयं जटावल्कलधारिणम्।।2.24.37।। Ayodhya Kanda,24,38,तथा हि रामं वनवासनिश्चितं समीक्ष्य देवी परमेण चेतसा। उवाच रामं शुभलक्षणं वचो बभूव च स्वस्त्ययनाभिकाङ्क्षिणी।।2.24.38।। Ayodhya Kanda,25,1,साऽवनीय तमायासमुपस्पृश्य जलं शुचिः। चकार माता रामस्य मङ्गलानि मनस्विनी।।2.25.1।। Ayodhya Kanda,25,2,न शक्यसे वारयितुं गच्छेदानीं रघूत्तम। शीघ्रं च विनिवर्तस्व वर्तस्व च सतां क्रमे।।2.25.2।। Ayodhya Kanda,25,3,यं पालयसि धर्मं त्वं धृत्या च नियमेन च। स वै राघवशार्दूल धर्मस्त्वामभिरक्षतु।।2.25.3।। Ayodhya Kanda,25,4,येभ्यः प्रणमसे पुत्र चैत्येष्वायतनेषु च। ते च त्वामभिरक्षन्तु वने सह महर्षिभिः।।2.25.4।। Ayodhya Kanda,25,5,यानि दत्तानि तेऽस्त्राणि विश्वामित्रेण धीमता। तानि त्वामभिरक्षन्तु गुणैस्समुदितं सदा।।2.25.5।। Ayodhya Kanda,25,6,पितृशुश्रूषया पुत्र मातृशुश्रूषया तथा। सत्येन च महाबाहो चिरं जीवाभिरक्षितः।।2.25.6।। Ayodhya Kanda,25,7,समित्कुश पवित्राणि वेद्यश्चायतनानि च। स्थण्डिलानि विचित्राणि शैला वृक्षाः क्षुपा ह्रदाः।।2.25.7।। पतङ्गाः पन्नगास्सिंहास्त्वां रक्षन्तु नरोत्तम। Ayodhya Kanda,25,8,स्वस्तिसाध्याश्च विश्वे च मरुतश्च महर्षयः। स्वस्ति धाता विधाता च स्वस्ति पूषा भगोऽर्यमा।।2.25.8।। लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा। Ayodhya Kanda,25,9,ऋतवश्चैव पक्षाश्च मासा स्संवत्सराः क्षपाः।।2.25.9।। दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा। Ayodhya Kanda,25,10,स्मृतिर्धृतिश्च धर्मश्च पातु त्वां पुत्र सर्वतः।।2.25.10।। Ayodhya Kanda,25,11,स्कन्दश्च भगवान्देव स्सोमश्च स बृहस्पतिः। सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः।।2.25.11।। Ayodhya Kanda,25,12,याश्चापि सर्वतस्सिध्दा दिशश्च सदिगीश्वराः। स्तुता मया वने तस्मिन्पान्तु त्वां पुत्र नित्यशः।।2.25.12।। Ayodhya Kanda,25,13,शैलास्सर्वे समुद्राश्च राजा वरुण एव च। द्यौरन्तरिक्षं पृथिवी नद्यस्सर्वास्तथैव च।।2.25.13।। Ayodhya Kanda,25,14,नक्षत्राणि च सर्वाणि ग्रहाश्च सहदेवताः। अहोरात्रे तथा सन्ध्ये पान्तु त्वां वनमाश्रितम्।।2.25.14।। Ayodhya Kanda,25,15,ऋतवश्चैव षट्पुण्या मासास्संवत्सरास्तथा। कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते।।2.25.15।। Ayodhya Kanda,25,16,महावने विचरतो मुनिवेषस्य धीमतः। तवादित्याश्च दैत्याश्च भवन्तु सुखदास्सदा।।2.25.16।। Ayodhya Kanda,25,17,राक्षसानां पिशाचानां रौद्राणां क्रूरकर्मणाम्। क्रव्यादानां च सर्वेषां मा भूत्पुत्रक ते भयम्।।2.25.17।। Ayodhya Kanda,25,18,प्लवगा वृश्चिका दंशामशकाश्चैव कानने। सरीसृपाश्च कीटाश्च मा भूवन्गहने तव।।2.25.18।। Ayodhya Kanda,25,19,महाद्विपाश्च सिंहाश्च व्याघ्रा ऋक्षाश्च दंष्ट्रिणः। महिषा श्शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक।।2.25.19।। Ayodhya Kanda,25,20,नृमांसभोजना रौद्रा ये चान्ये सत्वजातयः। मा च त्वां हिंसिषुः पुत्र मया संपूजितास्त्विह।।2.25.20।। Ayodhya Kanda,25,21,आगमास्ते शिवास्सन्तु सिध्यन्तु च पराक्रमाः। सर्वसम्पत्तये राम स्वस्तिमान्गच्छ पुत्रक।।2.25.21।। Ayodhya Kanda,25,22,स्वस्ति ते ऽस्त्वन्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः। सर्वेभ्यश्चैव देवेभ्यो ये च वै परिपन्थिनः।।2.25.22।। Ayodhya Kanda,25,23,गुरुस्सोमश्च सूर्यश्च धनदोऽथ यमस्तथा। पान्तु त्वामर्चिता राम दण्डकारण्यवासिनम्।।2.25.23।। Ayodhya Kanda,25,24,अग्निर्वायुस्तथा धूमो मन्त्राश्चर्षिमुखाच्च्युताः। उपस्पर्शनकाले तु पान्तु त्वां रघुनन्दन।।2.25.24।। Ayodhya Kanda,25,25,सर्वलोकप्रभुर्ब्रह्मा भूतभर्ता तथर्षयः। ये च शेषास्सुरास्ते त्वां रक्षन्तु वनवासिनम्।।2.25.25।। Ayodhya Kanda,25,26,इति माल्यैस्सुरगणान्गन्धैश्चापि यशस्विनी। स्तुतिभिश्चानुरूपाभिरानर्चाऽयतलोचना।।2.25.26।। Ayodhya Kanda,25,27,ज्वलनं समुपादाय ब्राह्मणेन महात्मना। हावयामास विधिना राममङ्गलकारणात्।।2.25.27।। Ayodhya Kanda,25,28,घृतं श्वेतानि माल्यानि समिधश्श्वेतसर्षपान्। उपसम्पादयामास कौशल्या परमाङ्गना।।2.25.28।। Ayodhya Kanda,25,29,उपाध्याय स्सविधिना हुत्वा शान्तिमनामयम्। हुतहव्यावशेषेण बाह्यं बलिमकल्पयत्।।2.25.29।। Ayodhya Kanda,25,30,मधु दध्यक्षतघृतैः स्वस्तिवाच्यद्विजांस्ततः। वाचयामास रामस्य वनेस्वस्त्ययनक्रियाः।।2.25.30।। Ayodhya Kanda,25,31,ततस्तस्मै द्विजेन्द्राय राममाता यशस्विनी। दक्षिणां प्रददौ काम्यां राघवं चेदमब्रवीत्।।2.25.31।। Ayodhya Kanda,25,32,यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते। वृत्रनाशे समभवत्तत्ते भवतु मङ्गलम्।।2.25.32।। Ayodhya Kanda,25,33,यन्मङ्गलं सुपर्णस्य विनताऽकल्पयत्पुरा। अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम्।।2.25.33।। Ayodhya Kanda,25,34,अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत्। अदितिर्मङ्गलं प्रादात्तत्ते भवतु मङ्गलम्।।2.25.34।। Ayodhya Kanda,25,35,त्रीन्विक्रमान्प्रक्रमतो विष्णोरमिततेजसः। यदासीन्मङ्गलं राम तत्ते भवतु मङ्गलम्।।2.25.35।। Ayodhya Kanda,25,36,ऋतवस्सागरा द्वीपा वेदा लोका दिशश्च ते। मङ्गलानि महाबाहो दिशन्तु शुभमङ्गलाः।।2.25.36।। Ayodhya Kanda,25,37,इति पुत्रस्य शेषांश्च कृत्वा शिरसि भामिनी। गन्धैश्चापि समालभ्य राममायतलोचना।।2.25.37।। Ayodhya Kanda,25,38,ओषधीं चापि सिद्धार्थां विशल्यकरणीं शुभाम्। चकार रक्षां कौशल्या मन्त्रैरभिजजाप च।।2.25.38।। Ayodhya Kanda,25,39,उवाचातिप्रहृष्टेव सा दुःखवशवर्तिनी। वाङ्ग्मात्रेण न भावेन वाचाऽसंसज्जमानया।।2.25.39।। Ayodhya Kanda,25,40,आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी। अवदत्पुत्र सिद्धार्थो गच्छ राम यथासुखम्।।2.25.40।। Ayodhya Kanda,25,41,अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम्। पश्यामि त्वां सुखं वत्स सुस्थितं राजवर्त्मनि।।2.25.41।। Ayodhya Kanda,25,42,प्रणष्टदुःखसङ्कल्पा हर्षविद्योतितानना। द्रक्ष्यामि त्वां वनात्प्राप्तं पूर्णचन्द्रमिवोदितम्।।2.25.42।। Ayodhya Kanda,25,43,भद्रासनगतं राम वनवासादिहागतम्। द्रक्ष्यामि च पुनस्त्वां तु तीर्णवन्तं पितुर्वचः।।2.25.43।। Ayodhya Kanda,25,44,मङ्गलैरुपसपन्नो वनवासादिहागतः। वध्वा मम च नित्यं त्वं कामान्संवर्ध याहि भोः।।2.25.44।। Ayodhya Kanda,25,45,मयाऽर्चिता देवगणाश्शिवादयो महर्षयो भूतमहासुरोरगाः। अभिप्रयातस्य वनं चिराय ते हितानि काङ्क्षन्तु दिशश्च राघव।।2.25.45।। Ayodhya Kanda,25,46,इतीव साऽश्रुप्रतिपूर्णलोचना समाप्य च स्वस्त्ययनं यथाविधि। प्रदक्षिणं चैव चकार राघवं पुनः पुनश्चापि निपीड्य सस्वजे।।2.25.46।। Ayodhya Kanda,25,47,तथा तु देव्या स कृतप्रदक्षिणो निपीड्य मातुश्चरणौ पुनः पुनः। जगाम सीतानिलयं महायशा स्स राघवः प्रज्वलित स्स्वया श्रिया।।2.25.47।। Ayodhya Kanda,26,1,अभिवाद्य च कौसल्यां राम स्संप्रस्थितो वनम्। कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः।।2.26.1।। Ayodhya Kanda,26,2,विराजयन्राजसुतो राजमार्गं नरैर्वृतम्। हृदयान्याममन्थेव जनस्य गुणवत्तया।।2.26.2।। Ayodhya Kanda,26,3,वैदेही चापि तत्सर्वं न शुश्राव तपस्विनी। तदेव हृदि तस्याश्च यौवराज्याभिषेचनम्।।2.26.3।। Ayodhya Kanda,26,4,देवकार्यं स्वयं कृत्वा कृतज्ञा हृष्टचेतना। अभिज्ञा राजधर्माणां राजपुत्रं प्रतीक्षते।।2.26.4।। Ayodhya Kanda,26,5,प्रविवेशाथ रामस्तु स्वं वेश्म सुविभूषितम्। प्रहृष्टजनसम्पूर्णं ह्रिया किञ्चिदवाङ्मुखः।।2.26.5।। Ayodhya Kanda,26,6,अथ सीता समुत्पत्य वेपमाना च तं पतिम्। अपश्यच्छोकसन्तप्तं चिन्ताव्याकुलितेन्द्रियम्।।2.26.6।। Ayodhya Kanda,26,7,तां दृष्ट्वा स हि धर्मात्मा न शशाक मनोगतम्। तं शोकं राघवः सोढुं ततो विवृततां गतः।।2.26.7।। Ayodhya Kanda,26,8,विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम्। आह दुःखाभिसन्तप्ता किमिदानीमिदं प्रभो।।2.26.8।। Ayodhya Kanda,26,9,अद्य बार्हस्पत श्श्रीमान्युक्तः पुष्योऽनु राघव। प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वमसि दुर्मनाः।।2.26.9।। Ayodhya Kanda,26,10,न ते शतशलाकेन जलफेननिभेन च। आवृतं वदनं वल्गु छत्रेणापि विराजते।।2.26.10।। Ayodhya Kanda,26,11,व्यजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम्। चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम्।।2.26.11।। Ayodhya Kanda,26,12,वाग्मिनो वन्दिनश्चापि प्रहृष्टास्त्वां नरर्षभ। स्तुवन्तो नात्र दृश्यन्ते मङ्गलैः स्सूतमागधाः।।2.26.12।। Ayodhya Kanda,26,13,न ते क्षौद्रं च दधि च ब्राह्मणा वेदपारगाः। मूर्ध्नि मूर्धाभिषिक्तस्य ददति स्म विधानतः।।2.26.13।। Ayodhya Kanda,26,14,न त्वां प्रकृतय स्सर्वा श्श्रेणीमुख्याश्च भूषिताः। अनुव्रजितुमिच्छन्ति पौरजानपदास्तथा।।2.26.14।। Ayodhya Kanda,26,15,चतुर्भिर्वेगसम्पन्नैर्हयैः काञ्चनभूषितैः। मुख्यः पुष्यरथो युक्तः किं न गच्छति तेऽग्रतः।।2.26.15।। Ayodhya Kanda,26,16,हस्ती चाग्रत श्श्रीमां स्तव लक्षणपूजितः। प्रयाणे लक्ष्यते वीर कृष्णमेघगिरि प्रभः।।2.26.16।। Ayodhya Kanda,26,17,न च काञ्चनचित्रं ते पश्यामि प्रियदर्शन। भद्रासनं पुरस्कृत्य यान्तं वीर पुरस्कृतम्।।2.26.17।। Ayodhya Kanda,26,18,अभिषेको यथा सज्जः किमिदानीमिदं तव। अपूर्वो मुखवर्णश्च न प्रहर्षश्च लक्ष्यते।।2.26.18।। Ayodhya Kanda,26,19,इतीव विलपन्तीं तां प्रोवाच रघुनन्दनः। सीते तत्र भवांस्तातः प्रव्राजयति मां वनम्।।2.26.19।। Ayodhya Kanda,26,20,कुले महति सम्भूते धर्मज्ञे धर्मचारिणि। शृणु जानकि येनेदं क्रमेणाभ्यागतं मम।।2.26.20।। Ayodhya Kanda,26,21,राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन च। कैकेय्यै मम मात्रे तु पुरा दत्तौ महावरौ।।2.26.21।। Ayodhya Kanda,26,22,तयाऽद्य मम सज्जेऽस्मिन्नभिषेके नृपोद्यते। प्रचोदित स्स समयो धर्मेण प्रतिनिर्जितः।।2.26.22।। Ayodhya Kanda,26,23,चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया। पित्रा मे भरतश्चापि यौवराज्ये नियोजितः।।2.26.23।। Ayodhya Kanda,26,24,सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम्। भरतस्य समीपे तु नाहं कथ्यः कदाचन।।2.26.24।। Ayodhya Kanda,26,25,बुद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम्। तस्मान्नते गुणाः कथ्या भरतस्याग्रतो मम।।2.26.25।। Ayodhya Kanda,26,26,नापि त्वं तेन भर्तव्या विशेषेण कदाचन। अनुकूलतया शक्यं समीपे त्वस्य वर्तितुम्।।2.26.26।। Ayodhya Kanda,26,27,तस्मै दत्तं नृपतिना यौवराज्यं सनातनम्। स प्रसाद्यस्त्वया सीते नृपतिश्च विशेषतः।।2.26.27।। Ayodhya Kanda,26,28,अहं चापि प्रतिज्ञां तां गुरोस्समनुपालयन्। वनमद्यैव यास्यामि स्थिरा भव मनस्विनी।।2.26.28।। Ayodhya Kanda,26,29,याते च मयि कल्याणि वनं मुनिनिषेवितम्। व्रतोपवासपरया भवितव्यं त्वयाऽनघे।।2.26.29।। Ayodhya Kanda,26,30,काल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि। वन्दितव्यो दशरथः पिता मम नरेश्वरः।।2.26.30।। Ayodhya Kanda,26,31,माता च मम कौशल्या वृद्धा सन्तापकर्शिता। धर्ममेवाग्रतः कृत्वा त्वत्त स्सम्मानमर्हति।।2.27.31।। Ayodhya Kanda,26,32,वन्दितव्याश्च ते नित्यं या श्शेषा मम मातरः। स्नेह प्रणयसम्भोगै स्समा हि मम मातरः।।2.26.32।। Ayodhya Kanda,26,33,भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः। त्वया भरतशत्रुघ्नौ प्राणैः प्रियतरौ मम।।2.26.33।। Ayodhya Kanda,26,34,विप्रियं न च कर्तव्यं भरतस्य कदाचन। स हि राजा प्रभुश्चैव देशस्य च कुलस्य च।।2.26.34।। Ayodhya Kanda,26,35,आराधिता हि शीलेन प्रयत्नैश्चोपसेविताः। राजान स्सम्प्रसीदन्ति कुप्यन्तिच विपर्यये।।2.26.35।। Ayodhya Kanda,26,36,औरसानपि पुत्रान्हि त्यजन्त्यहितकारिणः। समर्थान्सम्प्रगृह्णन्ति जनानपि नराधिपाः।।2.26.36।। Ayodhya Kanda,26,37,सा त्वं वसेह कल्याणि राज्ञस्समनुवर्तिनी। भरतस्य रता धर्मे सत्यव्रतपरायणा।।2.26.37।। Ayodhya Kanda,26,38,अहं गमिष्यामि महावनं प्रिये त्वया हि वस्तव्यमिहैव भामिनि। यथा व्यलीकं कुरुषे न कस्य चि त्तथा त्वया कार्यमिदं वचो मम।।2.26.38।। Ayodhya Kanda,27,1,एवमुक्ता तु वैदेही प्रियार्हा प्रियवादिनी। प्रणयादेव संक्रुद्धा भर्तारमिदमब्रवीत्।।2.27.1।। Ayodhya Kanda,27,2,किमिदं भाषसे राम वाक्यं लघुतया ध्रुवम्। त्वया यदपहास्यं मे श्रुत्वा नरवरात्मज।।2.27.2।। Ayodhya Kanda,27,3,आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा। स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यमुपासते।।2.27.3।। Ayodhya Kanda,27,4,भर्तुर्भाग्यं तु भार्यैका प्राप्नोति पुरुषर्षभ। अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि।।2.27.4।। Ayodhya Kanda,27,5,न पिता नात्मजो नात्मा न माता न सखीजनः। इह प्रेत्य च नारीणां पतिरेको गतिस्सदा।।2.27.5।। Ayodhya Kanda,27,6,यदि त्वं प्रस्थितो दुर्गं वनमद्यैव राघव। अग्रतस्ते गमिष्यामि मृद्नन्ती कुशकण्टकान्।।2.27.6।। Ayodhya Kanda,27,7,ईर्ष्यारोषौ बहिष्कृत्य भुक्तशेषमिवोदकम्। नय मां वीर विस्रब्धः पापं मयि न विद्यते।।2.27.7।। Ayodhya Kanda,27,8,प्रासादाग्रैर्विमानैर्वा वैहायसगतेन वा। सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते।।2.27.8।। Ayodhya Kanda,27,9,अनुशिष्टाऽस्मि मात्रा च पित्रा च विविधाश्रयम्। नाऽस्मि सम्प्रति वक्तव्या वर्तितव्यं यथा मया।।2.27.9।। Ayodhya Kanda,27,10,अहं दुर्गं गमिष्यामि वनं पुरुषवर्जितम्। नानामृगगणाकीर्णं शार्दूलवृकसेवितम्।।2.27.10।। Ayodhya Kanda,27,11,सुखं वने निवत्स्यामि यथैव भवने पितुः। अचिन्तयन्ती त्रीन्लोकांश्च्चिन्तयन्ती पतिव्रतम्।।2.27.11।। Ayodhya Kanda,27,12,शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी। सह रंस्ये त्वया वीर वनेषु मधुगन्धिषु।।2.27.12।। Ayodhya Kanda,27,13,त्वं हि शक्तो वने कर्तुं राम सम्परिपालनम्। अन्यस्यापि जनस्येह किं पुनर्मम मानद।।2.27.13।। Ayodhya Kanda,27,14,सह त्वया गमिष्यामि वनमद्य न संशयः। नाहं शक्या महाभाग निवर्तयितुमुद्यता।।2.27.14।। Ayodhya Kanda,27,15,फलमूलाशना नित्यं भविष्यामि न संशयः। न ते दुःखं करिष्यामि निवसन्ती सह त्वया।।2.27.15।। Ayodhya Kanda,27,16,इच्छामि सरितश्शैलान्पल्वलानि वनानि च। द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता।।2.27.16।। Ayodhya Kanda,27,17,हंसकारण्डवाकीर्णाः पद्मिनीस्साधुपुष्पिताः। इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण सङ्गता।।2.27.17।। Ayodhya Kanda,27,18,अभिषेकं करिष्यामि तासु नित्यं यतव्रता। सह त्वया विशालाक्ष रंस्ये परमनन्दिनी ।।2.27.18।। Ayodhya Kanda,27,19,एवं वर्षसहस्राणां शतं वाऽहं त्वया सह। व्यतिक्रमं न वेत्स्यामि स्वर्गोऽपि न हि मे मतः।।2.27.19।। Ayodhya Kanda,27,20,स्वर्गेऽपि च विना वासो भविता यदि राघव। त्वया मम नरव्याघ्र नाहं तमपि रोचये।।2.27.20।। Ayodhya Kanda,27,21,अहं गमिष्यामि वनं सुदुर्गमं मृगायुतं वानरवारणैर्युतम्। वने निवत्स्यामि यथा पितुर्गृहे तवैव पादावुपगृह्य संयता।।2.27.21।। Ayodhya Kanda,27,22,अनन्यभावामनुरक्तचेतसं त्वया वियुक्तां मरणायनिश्चिताम्। नयस्व मां साधु कुरुष्व याचनाम् न ते मयाऽतो गुरुता भविष्यति।।2.27.22।। Ayodhya Kanda,27,23,तथा ब्रुवाणामपि धर्मवत्सलो न च स्म सीतां नृवरो निनीषति। उवाच चैनां बहु सन्निवर्तने वने निवासस्य च दुःखितां प्रति।।2.27.23।। Ayodhya Kanda,28,1,स एवं ब्रुवतीं सीतां धर्मज्ञो धर्मवत्सलः। न नेतुं कुरुते बुद्धिं वने दुःखानि चिन्तयन्।।2.28.1।। Ayodhya Kanda,28,2,सान्त्वयित्वा पुनस्तां तु बाष्पदूषितलोचनाम्। निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह।।2.28.2।। Ayodhya Kanda,28,3,सीते महाकुलीनाऽसि धर्मे च निरता सदा। इहाऽचर स्वधर्मं त्वं मे यथा मनसस्सुखम्।।2.28.3।। Ayodhya Kanda,28,4,सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाऽबले। वने हि बहवो दोषा वदतस्तान्निबोध मे।।2.28.4।। Ayodhya Kanda,28,5,सीते विमुच्यतामेषा वनवासकृता मतिः। बहुदोषं हि कान्तारं वनमित्यभिधीयते।।2.28.5।। Ayodhya Kanda,28,6,हितबुद्ध्या खलु वचो मयैतदभिधीयते। सदा सुखं न जानामि दुःखमेव सदा वनम्।।2.28.6।। Ayodhya Kanda,28,7,गिरिनिर्झरसम्भूता गिरिकन्दर वासिनाम्। सिंहानां निनदा दुःखा श्श्रोतुं दुःखमतो वनम्।।2.28.7।। Ayodhya Kanda,28,8,क्रीडमानाश्च विस्रब्धा मत्ता श्शून्ये महामृगाः। दृष्ट्वा समभिवर्तन्ते सीते दुःखमतो वनम्।।2.28.8।। Ayodhya Kanda,28,9,सग्राहा स्सरितश्चैव पङ्कवत्यस्सु दुस्तराः। मत्तैरपि गजैर्नित्यमतो दुःखतरं वनम्।।2.28.9।। Ayodhya Kanda,28,10,लताकण्टकसङ्कीर्णाः कृकवाकूपनादिताः। निरपाश्च सुदुर्गाश्च मार्गा दुःखमतो वनम्।।2.28.10।। Ayodhya Kanda,28,11,सुप्यते पर्णशय्यासु स्वयं भग्नासु भूतले। रात्रिषु श्रमखिन्नेन तस्माद्दुःखतरं वनम्।।2.28.11।। Ayodhya Kanda,28,12,अहोरात्रं च सन्तोषः कर्तव्यो नियतात्मना। फलैर्वृक्षावपतितै स्सीते दुःखमतो वनम्।।2.28.12।। Ayodhya Kanda,28,13,उपवासश्च कर्तव्यो यथा प्राणेन मैथिलि। जटाभारश्च कर्तव्यो वल्कलाम्बरधारिणा।।2.28.13।। Ayodhya Kanda,28,14,देवतानां पित्रूणां कर्तव्यं विधिपूर्वकम्। प्राप्तानामतिथीनां च नित्यशः प्रतिपूजनम्।।2.28.14।। Ayodhya Kanda,28,15,कार्यस्त्रिरभिषेकश्च काले काले च नित्यशः। चरता नियमेनैव तस्माद्धुःखतरं वनम्।।2.28.15।। Ayodhya Kanda,28,16,उपहारश्च कर्तव्यः कुसुमै स्स्वयमाहृतैः। आर्षेण विधिना वेद्यां बाले दुःखमतो वनम्।।2.28.16।। Ayodhya Kanda,28,17,यथालब्धेन कर्तव्यः सन्तोषस्तेन मैथिलि। यताहारैर्वनचरै र्नित्यं दुःखमतो वनम्।।2.28.17।। Ayodhya Kanda,28,18,अतीव वातास्तिमिरं बुभुक्षा चात्र नित्यशः। भयानि च महान्त्यत्र ततो दुःखतरं वनम्।।2.28.18।। Ayodhya Kanda,28,19,सरीसृपाश्च बहवो बहुरूपाश्च भामिनि। चरन्ति पृथिवीं दर्पात्ततो दुःखतरं वनम्।।2.28.19।। Ayodhya Kanda,28,20,नदी निलयना स्सर्पा नदीकुटिलगामिनः। तिषठ्न्त्यावृत्य पन्थानं ततो दुःखतरं वनम्।।.2.28.20।। Ayodhya Kanda,28,21,पतङ्गा वृश्चिकाः कीटा दंशाश्च मशकै स्सह। बाधन्ते नित्यमबले सर्वं दुःखमतो वनम्।।2.28.21।। Ayodhya Kanda,28,22,द्रुमाः कण्टकिनश्चैव कुशा: काशाश्च भामिनि। वने व्याकुलशाखाग्रास्तेन दुःखतरं वनम्।।2.28.22।। Ayodhya Kanda,28,23,कायक्लेशाश्च बहवो भयानि विविधानि च। अरण्यवासे वसतो दुःखमेव ततो वनम्।।2.28.23।। Ayodhya Kanda,28,24,क्रोधलोभौ विमोक्तव्यौ कर्तव्या तपसे मतिः। न भेतव्यं च भेतव्ये नित्यं दुःखमतो वनम्।।2.28.24।। Ayodhya Kanda,28,25,तदलं ते वनं गत्वा क्षमं न हि वनं तव। विमृशन्निह पश्यामि बहुदोषतरं वनम्।।2.28.25।। Ayodhya Kanda,28,26,वनन्तु नेतुं न कृता मतिस्तदा बभूव रामेण यदा महात्मना। न तस्य सीता वचनं चकार त त्ततोऽब्रवीद्राममिदं सुदुःखिता।।2.28.26।। Ayodhya Kanda,29,1,एतत्तु वचनं श्रुत्वा सीता रामस्य दुःखिता। प्रसक्ताश्रुमुखी मन्दमिदं वचनमब्रवीत्।।2.29.1।। Ayodhya Kanda,29,2,ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति। गुणानित्येव तान्विद्धि तव स्नेहपुरस्कृतान्।।2.29.2।। Ayodhya Kanda,29,3,मृगा स्सिंहा गजाश्चैव शार्दूला श्शरभास्तथा। पक्षिण स्सृमराश्चैव ये चान्ये वनचारिणः।।2.29.3।। Ayodhya Kanda,29,4,अदृष्टपूर्वरूपत्वात्सर्वे ते तव राघव। रूपं दृष्ट्वाऽपसर्पेयुर्भये सर्वे हि बिभ्यति।।2.29.4।। Ayodhya Kanda,29,5,त्वया च सह गन्तव्यं मया गुरुजनाज्ञया। त्वद्वियोगेन मे राम त्यक्तव्यमिह जीवितम्।।2.29.5।। Ayodhya Kanda,29,6,न हि मां त्वत्समीपस्थामपि शक्नोतिराघव। सुराणामीश्वर श्शक्रः प्रधर्षयितुमोजसा।।2.29.6।। Ayodhya Kanda,29,7,पतिहीना तु या नारी न सा शक्ष्यति जीवितुम्। काममेवं विधं राम त्वया मम निदर्शितम्।।2.29.7।। Ayodhya Kanda,29,8,अथ चापि महाप्राज्ञ ब्राह्मणानां मया श्रुतम्। पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने।।2.29.8।। Ayodhya Kanda,29,9,लक्षणिभ्यो द्विजातिभ्य श्शृत्वाऽहं वचनं पुरा। वनवासकृतोत्साहा नित्यमेव महाबल।।2.29.9।। Ayodhya Kanda,29,10,आदेशो वनवासस्य प्राप्तव्य स्स मया किल। सा त्वया सह तत्राहं यास्यामि प्रिय नान्यथा।।2.29.10।। Ayodhya Kanda,29,11,कृतादेशा भविष्यामि गमिष्यामि सह त्वया। कालश्चायं समुत्पन्न स्सत्यवाग्भवतु द्विजः।।2.29.11।। Ayodhya Kanda,29,12,वनवासेऽभिजानामि दुःखानि बहुथा किल। प्राप्यन्ते नियतं वीर पुरुषैरकृतात्मभिः।।2.29.12।। Ayodhya Kanda,29,13,कन्यया च पितुर्गेहे वनवास श्शृतो मया। भिक्षिण्या स्साधुवृत्ताया मम मातुरिहाग्रतः।।2.29.13।। Ayodhya Kanda,29,14,प्रसादितश्च वै पूर्वं त्वं मे बहुतिथं प्रभो। गमनं वनवासस्य काङ्क्षितं हि सह त्वया।।2.29.14।। Ayodhya Kanda,29,15,कृतक्षणाऽहं भद्रं ते गमनं प्रति राघव। वनवासस्य शूरस्य चर्या हि मम रोचते।।2.29.15।। Ayodhya Kanda,29,16,शुद्धात्मन्प्रेमभावाध्दि भविष्यामि विकल्मषा। भर्तारमनुगच्छन्ती भर्ता हि मम दैवतम्।।2.29.16।। Ayodhya Kanda,29,17,प्रेत्यभावे हि कल्याण स्सङ्गमो मे सह त्वया। श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम्।।2.29.17।। Ayodhya Kanda,29,18,इहलोके च पितृभिर्या स्त्री यस्य महामते। अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सा।।2.29.18।। Ayodhya Kanda,29,19,एवमस्मात्स्वकां नारीं सुवृत्तां हि पतिव्रताम्। नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना।।2.29.19।। Ayodhya Kanda,29,20,भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः। नेतुमर्हसि काकुत्स्थ समान सुखदुःखिनीम्।।2.29.20।। Ayodhya Kanda,29,21,ययदि मां दुःखितामेवं वनं नेतुं न चेच्छसि। विषमग्निं जलं वाऽहमास्थास्ये मृत्युकारणात्।।2.29.21।। Ayodhya Kanda,29,22,एवं बहुविधं तं सा याचते गमनं प्रति। नानुमेने महाबाहुस्तां नेतुं विजनं वनम्।।2.29.22।। Ayodhya Kanda,29,23,एवमुक्ता तु सा चिन्तां मैथिली समुपागता। स्नापयन्तीव गामुष्णैरश्रुभिर्नयनच्युतैः।।2.29.23।। Ayodhya Kanda,29,24,चिन्तयन्तीं तथा तां तु निवर्तयितुमात्मवान्। ताम्रोष्ठीं स तदा सीतां काकुत्स्थो बह्वसान्त्वयत्।।2.29.24।। Ayodhya Kanda,30,1,सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा। वनवासनिमित्ताय भर्तारमिदमब्रवीत्।।2.30.1।। Ayodhya Kanda,30,2,सा तमुत्तमसंविग्ना सीता विपुलवक्षसम्। प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम्।।2.30.2।। Ayodhya Kanda,30,3,किं त्वाऽमन्यत वैदेहः पिता मे मिथिलाधिपः। राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम्।।2.30.3।। Ayodhya Kanda,30,4,अनृतं बत लोकोऽयमज्ञानाद्यदि वक्ष्यति। तेजो नास्ति परं रामे तपतीव दिवाकरे।।2.30.4।। Ayodhya Kanda,30,5,किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते। यत्परित्यक्तुकामस्त्वं मामनन्यपरायणाम्।।2.30.5।। Ayodhya Kanda,30,6,द्युमत्सेनसुतं वीर सत्यवन्तमनुव्रताम्। सावित्रीमिव मां विद्धि त्वमात्मवशवर्तिनीम्।।2.30.6।। Ayodhya Kanda,30,7,न त्वहं मनसाऽप्यन्यं द्रष्टाऽस्मि त्वदृतेऽनघ। त्वया राघव गच्छेयं यथाऽन्या कुलपांसिनी।।2.30.7।। Ayodhya Kanda,30,8,स्वयं तु भार्यां कौमारीं चिरमध्युषितां सतीम्। शैलूष इव मां राम परेभ्यो दातुमिच्छसि।।2.30.8।। Ayodhya Kanda,30,9,यस्य पथ्यं च रामाऽत्थ यस्य चार्थेऽवरुध्यसे। त्वं तस्य भव वश्यश्च विधेयश्च सदाऽनघ।।2.30.9।। Ayodhya Kanda,30,10,स मामनादाय वनं न त्वं प्रस्थातुमर्हसि। तपो वा यदि वाऽरण्यं स्वर्गो वा स्यात्सह मे त्वया।।2.30.10।। Ayodhya Kanda,30,11,न च मे भविता तत्र कश्चित्पथि परिश्रमः। पृष्ठतस्तव गच्छन्त्या विहारशयनेष्विव।।2.30.11।। Ayodhya Kanda,30,12,कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः। तूलाजिनसमस्पर्शा मार्गे मम सह त्वया।।2.30.12।। Ayodhya Kanda,30,13,महावातसमुद्धूतं यन्मामपकरिष्यति। रजो रमण तन्मन्ये परार्थ्यमिव चन्दनम्।।2.30.13।। Ayodhya Kanda,30,14,शाद्वलेषु यथा शिश्ये वनान्ते वनगोचर। कुथास्तरणतल्पेषु किं स्यात्सुखतरं ततः।।2.30.14।। Ayodhya Kanda,30,15,पत्रं मूलं फलं यत्त्वमल्पं वा यदि वा बहु। दास्यसि स्वयमाहृत्य तन्मेऽमृतरसोपमम्।।2.30.15।। Ayodhya Kanda,30,16,न मातुर्न पितुस्तत्र स्मरिष्यामि न वेश्मनः। आर्तवान्युपभुञ्जाना पुष्पाणि च फलानि च।।2.30.16।। Ayodhya Kanda,30,17,न च तत्र ततः किञ्चिद्द्रष्टुमर्हसि विप्रियम्। मत्कृते न च ते शोको न भविष्यामि दुर्भरा।।2.30.17।। Ayodhya Kanda,30,18,य स्त्वया सह स स्वर्गो निरयो यस्त्वया विना। इति जानन्परां प्रीतिं गच्छ राम मया सह।।2.30.18।। Ayodhya Kanda,30,19,अथ मामेवमव्यग्रां वनं नैव नयिष्यति। विषमद्यैव पास्यामि मा विशं द्विषतां गमम्।।2.30.19।। Ayodhya Kanda,30,20,पश्चादपि हि दुःखेन मम नैवास्ति जीवितम्। उज्झितायास्त्वया नाथ तदैव मरणं वरम्।।2.30.20।। Ayodhya Kanda,30,21,इमं हि सहितुं शोकं मुहूर्तमपि नोत्सहे। किं पुनर्दशवर्षाणि त्रीणि चैकं च दुःखिता।।2.30.21।। Ayodhya Kanda,30,22,इति सा शोकसन्तप्ता विलप्य करुणं बहु। चुक्रोश पतिमायस्ता भृशमालिङ्ग्य सस्वरम्।।2.30.22।। Ayodhya Kanda,30,23,सा विद्धा बहुभिर्वाक्यैर्दिग्धैरिव गजाङ्गना। चिरसन्नियतं बाष्पं मुमोचाग्निमिवारणिः।।2.30.23।। Ayodhya Kanda,30,24,तस्या स्फटिकसङ्काशं वारि सन्तापसम्भवम्। नेत्राभ्यां परिसुस्राव पङ्कजाभ्यामिवोदकम्।।2.30.24।। Ayodhya Kanda,30,25,तच्चैवामलचन्द्राभं मुखमायतलोचनम्। पर्यशुष्यत बाष्पेण जलोद्धृतमिवाम्बुजम्।।2.30.25।। Ayodhya Kanda,30,26,तां परिष्वज्य बाहुभ्यां विसंज्ञामिव दुःखिताम्। उवाच वचनं रामः परिविश्वासयंस्तदा।।2.30.26।। Ayodhya Kanda,30,27,न देवि तव दुःखेन स्वर्गमप्यभिरोचये। न हि मेऽस्ति भयं किञ्चित्स्वयम्भोरिव सर्वतः।।2.30.27।। Ayodhya Kanda,30,28,तव सर्वमभिप्रायमविज्ञाय शुभानने। वासं न रोचयेऽरण्ये शक्तिमानपि रक्षणे।।2.30.28।। Ayodhya Kanda,30,29,यत्सृष्टाऽसि मया सार्धं वनवासाय मैथिलि। न विहातुं मया शक्या कीर्तिरात्मवता यथा।।2.30.29।। Ayodhya Kanda,30,30,धर्मस्तु गजनासोरु सद्भिराचरितः पुरा। तं चाहमनुवर्तेऽद्य यथा सूर्यं सुवर्चला।।2.30.30।। Ayodhya Kanda,30,31,न खल्वहं न गच्छेयं वनं जनकनन्दिनि। वचनं तन्नयति मां पितु स्सत्योपबृंहितम्।।2.30.31।। Ayodhya Kanda,30,32,एष धर्मस्तु सुश्रोणि पितुर्मातुश्च वश्यता। अतश्च तं व्यतिक्रम्य नाहं जीवितुमुत्सहे।।2.30.32।। Ayodhya Kanda,30,33,अस्वाधीनं कथं दैवं प्रकारैरभिराध्यते। स्वाधीनं समतिक्रम्य मातरं पितरं गुरुम्।।2.30.33।। Ayodhya Kanda,30,34,यत्त्रयं तत्त्रयो लोकाः पवित्रं तत्समं भुवि। नान्यदस्ति शुभापाङ्गे तेनेदमभिराध्यते।।2.30.34।। Ayodhya Kanda,30,35,न सत्यं दानमानौ वा न यज्ञाश्चाप्तदक्षिणाः। तथा बलकरा स्सीते यथा सेवा पितुर्हिता।।2.30.35।। Ayodhya Kanda,30,36,स्वर्गो धनं वा धान्यं वा विद्याः पुत्रास्सुखानि च। गुरुवृत्त्यनुरोधेन न किञ्चिदपि दुर्लभम्।।2.30.36।। Ayodhya Kanda,30,37,देवगन्धर्वगोलोकान्ब्रह्मलोकां स्तथाऽपरान्। प्राप्नुवन्ति महात्मानो मातापितृपरायणाः।।2.30.37।। Ayodhya Kanda,30,38,स मां पिता यथा शास्ति सत्यधर्मपथे स्थितः। तथा वर्तितुमिच्छामि स हि धर्मस्सनातनः।।2.30.38।। Ayodhya Kanda,30,39,मम सन्ना मतिस्सीते त्वां नेतुं दण्डकावनम्। वसिष्यामीति सा त्वं मामनुयातुं सुनिश्चिता।।2.30.39।। Ayodhya Kanda,30,40,सा हि सृष्टाऽनवद्याङ्गि वनाय मदिरेक्षणे। अनुगच्छस्व मां भीरु सहधर्मचरी भव।।2.30.40।। Ayodhya Kanda,30,41,सर्वथा सदृशं सीते मम स्वस्य कुलस्य च। व्यवसायमनुक्रान्ता कान्ते त्वमतिशोभनम्।।2.30.41।। Ayodhya Kanda,30,42,आरभस्व शुभश्रोणि वनवासक्षमाः क्रियाः। नेदानीं त्वदृते सीते स्वर्गोऽपि मम रोचते।।2.30.42।। Ayodhya Kanda,30,43,ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश्च भोजनम्। देहि चाशंसमानेभ्य स्सन्त्वरस्व च मा चिरम्।।2.30.43।। Ayodhya Kanda,30,44,भूषणानि महार्हाणि वरवस्त्राणि यानि च। रमणीयाश्च ये केचित्क्रीडार्थाश्चाप्युपस्कराः।।2.30.44।। Ayodhya Kanda,30,45,शयनीयानि यानानि मम चान्यानि यानि च। देहि स्वभृत्यवर्गस्य ब्राह्मणानामनन्तरम्।।2.30.45।। Ayodhya Kanda,30,46,अनुकूलं तु सा भर्तुर्ज्ञात्वा गमनमात्मनः। क्षिप्रं प्रमुदिता देवी दातुमेवोपचक्रमे।।2.30.46।। Ayodhya Kanda,31,1,एवं शृत्वा तु संवादं लक्ष्मणः पूर्वमागतः। बाष्पपर्याकुलमुखः शोकं सोढुमशक्नुवन्।।2.31.1।। Ayodhya Kanda,31,2,स भ्रातुश्चरणौ गाढं निपीड्य रघुनन्दनः। सीतामुवाचातियशां राघवं च महाव्रतम्।।2.31.2।। Ayodhya Kanda,31,3,यदि गन्तुं कृताबुद्धिर्वनं मृगगजायुतम्। अहं त्वानुगमिष्यामि वनमग्रे धनुर्धरः।।2.31.3।। Ayodhya Kanda,31,4,मया समेतोऽरण्यानि बहूनि विचरिष्यसि। पक्षिभिर्मृगयूथैश्च संघुष्टानि समन्ततः।।2.31.4।। Ayodhya Kanda,31,5,न देवलोकाक्रमणं नामरत्वमहं वृणे। ऐश्वर्यं वापि लोकानां कामये न त्वया विना।।2.31.5।। Ayodhya Kanda,31,6,एवं ब्रुवाणस्सौमित्रिर्वनवासाय निश्चितः। रामेण बहुभिस्सान्त्वैर्निषिध्दः पुनरब्रवीत्।।2.31.6।। Ayodhya Kanda,31,7,अनुज्ञातश्च भवता पूर्वमेव यदस्म्यहम्। किमिदानीं पुनरिदं क्रियते मन्निवारणम्।।2.31.7।। Ayodhya Kanda,31,8,यदर्थं प्रतिषेधो मे क्रियते गन्तुमिच्छतः। एतदिच्छामि विज्ञातुं संशयो हि ममानघ।।2.31.8।। Ayodhya Kanda,31,9,ततोऽब्रवीन्महातेजा रामो लक्ष्मणमग्रतः। स्थितं प्राग्गामिनं वीरं याचमानं कृताञ्जलिम्।।2.31.9।। Ayodhya Kanda,31,10,स्निग्धो धर्मरतो वीरस्सततं सत्पथे स्थितः। प्रियः प्राणसमो वश्यो भ्राता चापि सखा च मे।।2.31.10।। Ayodhya Kanda,31,11,मयाऽद्य सह सौमित्रे त्वयि गच्छति तद्वनम्। को भरिष्यति कौसल्यां सुमित्रां वा यशस्विनीम्।।2.31.11।। Ayodhya Kanda,31,12,अभिवर्षति कामैर्यः पर्जन्यः पृथिवीमिव। स कामपाशपर्यस्तो महातेजा महीपतिः।।2.31.12।। Ayodhya Kanda,31,13,सा हि राज्यमिदं प्राप्य नृपस्याश्वपते स्सुता। दुःखितानां सपत्नीनां न करिष्यति शोभनम्।।2.31.13।। Ayodhya Kanda,31,14,न स्मरिष्यति कौसल्यां सुमित्रां च सुदुःखिताम्। भरतो राज्यमासाद्य कैकेय्यां पर्यवस्थितः।।2.31.14।। Ayodhya Kanda,31,15,तामार्यां स्वयमेवेह राजानुग्रहणेन वा। सौमित्रे भर कौशल्यामुक्तमर्थमिमं चर।।2.31.15।। Ayodhya Kanda,31,16,एवं मम च ते भक्तिर्भविष्यति सुदर्शिता। धर्मज्ञ गुरुपूजायां धर्मश्चाप्यतुलो महान्।।2.31.16।। Ayodhya Kanda,31,17,एवं कुरुष्व सौमित्रे मत्कृते रघुनन्दन। अस्माभिर्विप्रहीणाया मातुर्नो न भवेत्सुखम्।।2.31.17।। Ayodhya Kanda,31,18,एवमुक्तस्तु रामेण लक्ष्मण श्श्लक्ष्णया गिरा। प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम्।।2.31.18।। Ayodhya Kanda,31,19,तवैव तेजसा वीर भरतः पूजयिष्यति। कौसल्यां च सुमित्रां च प्रयतो नात्र संशयः।।2.31.19।। Ayodhya Kanda,31,20,कौशल्या बिभृयादार्या सहस्रमपि मद्विधान्। यस्यास्सहस्रं ग्रामाणां सम्प्राप्त मुपजीवनम्।।2.31.20।। Ayodhya Kanda,31,21,तदात्मभरणे चैव मम मातुस्तथैव च। पर्याप्ता मद्विधानां च भरणाय यशस्विनी।।2.31.21।। Ayodhya Kanda,31,22,कुरुष्व मामनुचरं वैधर्म्यं नेह विद्यते। कृतार्थोऽहं भविष्यामि तव चार्थः प्रकल्पते।।2.31.22।। Ayodhya Kanda,31,23,धनुरादाय सशरं खनित्रपिटकाधरः। अग्रतस्ते गमिष्यामि पन्थानमनुदर्शयन्।।2.31.23।। Ayodhya Kanda,31,24,आहरिष्यामि ते नित्यं मूलानि च फलानि च। वन्यानि यानि चान्यानि स्वाहाराणि तपस्विनाम्।।2.31.24।। Ayodhya Kanda,31,25,भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यते। अहं सर्वं करिष्यामि जाग्रत स्स्वपतश्च ते।।2.31.25।। Ayodhya Kanda,31,26,रामस्त्वनेन वाक्येन सुप्रीतः प्रत्युवाच तम्। व्रजापृच्छस्व सौमित्रे सर्वमेव सुहृज्जनम्।।2.31.26।। Ayodhya Kanda,31,27,ये च राज्ञो ददौ दिव्ये महात्मा वरुण स्स्वयम्। जनकस्य महायज्ञे धनुषी रौद्रदर्शने।।2.31.27।। Ayodhya Kanda,31,28,अभेद्यकवचे दिव्ये तूणी चाक्षयसायकौ। आदित्यविमलौ चोभौ खड्गौ हेमपरिष्कृतौ।।2.31.28।। Ayodhya Kanda,31,29,सत्कृत्य निहितं सर्वमेतदाचार्यसद्मनि। सर्वमायुधमादाय क्षिप्रमाव्रज लक्ष्मण।।2.31.29।। Ayodhya Kanda,31,30,स सुहृज्जनमामन्त्र्यवनवासाय निश्चितः। इक्ष्वाकुगुरुमागम्य जग्राहायुधमुत्तमम्।।2.31.30।। Ayodhya Kanda,31,31,तद्धिव्यं राजशार्दूल सत्कृतं माल्यभूषितम्। रामाय दर्शयामास सौमित्रिस्सर्वमायुधम्।।2.31.31।। Ayodhya Kanda,31,32,तमुवाचात्मवान् रामः प्रीत्या लक्ष्मणमागतम्। काले त्वमागत सौम्य काङ्क्षिते मम लक्ष्मण।।2.31.32।। Ayodhya Kanda,31,33,अहं प्रदातुमिच्छामि यदिदं मामकं धनम्। ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह परन्तप।।2.31.33।। Ayodhya Kanda,31,34,वसन्तीह दृढं भक्त्या गुरुषु द्विजसत्तमाः। तेषामपि च मे भूयस्सर्वेषाञ्चोपजीविनाम्।।2.31.34।। Ayodhya Kanda,31,35,वशिष्ठपुत्रं तु सुयज्ञमार्यं त्वमानयाशु प्रवरं द्विजानाम्। अभिप्रयास्यामि वनं समस्ता नभ्यर्च्य शिष्टानपरान् द्विजातीन्।।2.31.35।। Ayodhya Kanda,32,1,ततश्शासन माज्ञाय भ्रातु श्शुभतरं प्रियम्। गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम्।।2.32.1।। Ayodhya Kanda,32,2,तं विप्रमग्न्यगारस्थं वन्दित्वा लक्ष्मणोऽब्रवीत्। सखेऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः।।2.32.2।। Ayodhya Kanda,32,3,ततस्सन्ध्यामुपास्याशु गत्वा सौमित्रिणा सह। जुष्टं तत्प्राविशल्लक्ष्म्या रम्यं रामनिवेशनम्।।2.32.3।। Ayodhya Kanda,32,4,तमागतं वेदविदं प्राञ्जलिस्सीतया सह। सुयज्ञमभिचक्राम राघवोऽग्निमिवार्चितम्।।2.32.4।। Ayodhya Kanda,32,5,जातरूपमयैर्मुख्यैरङ्गदैः कुण्डलैः शुभैः। सहेमसूत्रैर्मणिभिः केयूरैर्वलयैरपि।।2.32.5।। Ayodhya Kanda,32,6,अन्यैश्च रत्नैर्बहुभिः काकुत्स्थः प्रत्यपूजयत्। सुयज्ञं स तदोवाच रामस्सीता प्रचोदितः।।2.32.6।। Ayodhya Kanda,32,7,हारं च हेमसूत्रं च भार्यायै सौम्य हारय। रशनां चाधुना सीता दातुमिच्छति ते सखे।।2.32.7।। Ayodhya Kanda,32,8,अङ्गदानि विचित्राणि केयूराणि शुभानि च। प्रयच्छति सखे तुभ्यं भार्यायै गच्छती वनम्।।2.32.8।। Ayodhya Kanda,32,9,पर्यङ्कमग्य्रास्तरणं नानारत्नविभूषितम्। तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि।।2.32.9।। Ayodhya Kanda,32,10,नाग श्शत्रुञ्जयो नाम मातुलोऽयं ददौ मम। तं ते गजसहस्रेण ददामि द्विजसत्तम।।2.32.10।। Ayodhya Kanda,32,11,इत्युक्तस्स हि रामेण सुयज्ञः प्रतिगृहृयतत्। रामलक्ष्मणसीतानां प्रयुयोजाशिष श्शुभाः।।2.32.11।। Ayodhya Kanda,32,12,अथ भ्रातरमव्यग्रं प्रियं रामः प्रियंवदः। सौमित्रिं तमुवाचेदं ब्रह्मेव त्रिदशेश्वरम्।।2.32.12।। Ayodhya Kanda,32,13,अगस्त्यं कौशिकं चैव तावुभौ ब्राह्मणोत्तमौ। अर्चयाहूय सौमित्रे रत्नैस्सस्यमिवाम्बुभिः।।2.32.13।। Ayodhya Kanda,32,14,तर्पयस्व महाबाहो गोसहस्रैश्च मानद। सुवर्णै रजतैश्चैव मणिभिश्च महाधनैः।।2.32.14।। Ayodhya Kanda,32,15,कौसल्यां च य आशीर्भिर्भक्तः पर्युपतिष्ठति। आचार्यस्तैत्तिरीयाणामभिरूपश्च वेदवित्।।2.32.15।। Ayodhya Kanda,32,16,तस्य यानं च दासीश्च सौमित्रे सम्प्रदापय। कौशेयानि च वस्त्राणि यावत्तुष्यति स द्विजः।।2.32.16।। Ayodhya Kanda,32,17,सूतश्चित्ररथश्चार्य सचिवस्सुचिरोषितः। तोषयैनं महार्हैश्च रत्नैर्वस्त्रैर्धनैस्तथा।।2.32.17।। पशुकाभिश्च सर्वाभिर्गवां दशशतेन च। Ayodhya Kanda,32,18,ये चेमे कठकालापा बहवो दण्डमाणवाः।।2.32.18।। Ayodhya Kanda,32,19,नित्यस्वाध्यायशीलत्वान्नान्यत्कुर्वन्ति किञ्चन। अलसा स्वादुकामाश्च महतां चापि सम्मताः।।2.32.19।। Ayodhya Kanda,32,20,तेषामशीतियानानि रत्नपूर्णानि दापय। शालिवाहसहस्रं च द्वे शते भद्रकां स्तथा।।2.32.20।। व्यञ्जनार्थं च सौमित्रे गोसहस्रमुपाकुरु। Ayodhya Kanda,32,21,मेखलीनां महासङ्घः कौसल्यां समुपस्थितः।।2.32.21।। तेषां सहस्रं सौमित्रे प्रत्येकं सम्प्रदापय। Ayodhya Kanda,32,22,अम्बा यथा च सा नन्देत्कौसल्या मम दक्षिणाम्।।2.32.22।। तथा द्विजातीस्ता न्सर्वान् लक्ष्मणार्चय सर्वशः। Ayodhya Kanda,32,23,तत स्सपुरुषव्याघ्रस्तद्धनं लक्ष्मणः स्वयम्।।2.32.23।। यथोक्तं ब्राह्मणेन्द्राणांमददाद्धनदो यथा। Ayodhya Kanda,32,24,अथाऽब्रवीद्बाष्पकलांस्तिष्ठतश्चोपजीविनः।।2.32.24।। सम्प्रदायबहुद्रव्यमेकैकस्योपजीवनम्। Ayodhya Kanda,32,25,लक्ष्मणस्य च यद्वेश्म गृहं च यदिदं मम।।2.32.25।। अशून्यं कार्यमेकैकं यावदागमनं मम। Ayodhya Kanda,32,26,इत्युक्त्वा दुःखितं सर्वं जनं तमुपजीविनम्।।2.32.26।। उवाचेदं धनाध्यक्षं धनमानीयतामिति। Ayodhya Kanda,32,27,ततोऽस्य धनमाजह्रुस्सर्वमेवोपजीविनः।।2.32.27।। स राशिस्सुमहांस्तत्र दर्शनीयो ह्यदृश्यत। Ayodhya Kanda,32,28,ततस्सपुरुषव्याघ्र स्तद्धनं सहलक्ष्मणः।।2.32.28।। द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्योऽह्यदापयत्। Ayodhya Kanda,32,29,तत्रासीत्पिङ्गलो गार्ग्यस्त्रिजटो नाम वै द्विजः।।2.32.29।। क्षतवृत्तिर्वने नित्यं फालकुद्दाललाङ्गली। Ayodhya Kanda,32,30,तं वृद्धं तरुणी भार्या बालानादाय दारकान्।।2.32.30।। अब्रवीद्बाह्मणं वाक्यं दारिद्र्येणाभिपीडिता। Ayodhya Kanda,32,31,अपास्य फालं कुद्दालं कुरुष्व वचनं मम।।2.32.31।। रामं दर्शय धर्मज्ञं यदि किञ्चिदवाप्स्यसि। Ayodhya Kanda,32,32,स भार्यावचनं श्रुत्वा शाटीमाच्छाद्य दुश्छदाम्।।2.32.32।। स प्रातिष्ठत पन्थानं यत्र रामनिवेशनम्। Ayodhya Kanda,32,33,भृग्वङ्गिरसमं दीप्त्या त्रिजटं जनसंसदि।।2.32.33।। आपञ्चमायाः कक्ष्यायाः नैनं कश्चिदवारयत्। Ayodhya Kanda,32,34,स राजपुत्रमासाद्य त्रिजटो वाक्यमब्रवीत्।।2.32.34।। Ayodhya Kanda,32,35,निर्धनो बहुपुत्रोऽस्मि राजपुत्र महायशः। उञ्छवृत्तिर्वने नित्यं प्रत्यवेक्षस्व मामिति।।2.32.35।। Ayodhya Kanda,32,36,तमुवाच ततो राम: परिहास समन्वितम्। गवां सहस्रमप्येकं न नु विश्राणितं मया।।2.32.36।। परिक्षिपसि दण्डेन यावत्तावदवाप्स्यसि। Ayodhya Kanda,32,37,स शाटीं त्वरितः कट्यां सम्भ्रान्तः परिवेष्ट्य ताम्।।2.32.37।। आविद्ध्य दण्डं चिक्षेप सर्वप्राणेन वेगितः। Ayodhya Kanda,32,38,स तीर्त्वा सरयूपारं दण्डस्तस्य कराच्च्युतः।।2.32.38।। गोव्रजे बहुसाहस्रे पपातोक्षणसन्निधौ। Ayodhya Kanda,32,39,तं परिष्वज्य धर्मात्मा आतस्मात्सरयूतटात्।।2.32.39।। आनयामास ता गोपै स्त्रिजटायाश्रमं प्रति। Ayodhya Kanda,32,40,उवाच स ततो रामस्तं गार्ग्यमभिसान्त्वयन्। मन्युर्न खलु कर्तव्यः परिहासो ह्ययं मम।।2.32.40।। Ayodhya Kanda,32,41,इदं हि तेजस्तव यद्दुरत्ययं तदेव जिज्ञासितुमिच्छता मया। इमं भवानर्थमभि प्रचोदितो वृणीष्व किं चेदपरं व्यवस्यति।।2.32.41।। Ayodhya Kanda,32,42,ब्रवीमि सत्येन नतेऽस्ति यन्त्रणा धनं हि यद्यन्मम विप्रकारणात्। भवत्सु सम्यक्प्रतिपादनेन त न्मयार्जितं प्रीतियशस्करं भवेत्।।2.32.42।। Ayodhya Kanda,32,43,तत स्सभार्य स्त्रिजटो महामुनि र्गवामनीकं प्रतिगृह्य मोदितः। यशोबलप्रीतिसुखोपबृंहणी स्तदाशिष: प्रत्यवदन्महात्मनः।।2.32.43।। Ayodhya Kanda,32,44,स चापि रामः प्रतिपूर्णमानसो महद्धनं धर्मबलैरुपार्जितम्। नियोजयामास सुहृज्जनेऽचिरा द्यथार्हसम्मानवचः प्रचोदितः।।2.32.44।। Ayodhya Kanda,32,46,द्विज स्सुहृद्भृत्यजनोऽथवा तदा दरिद्रभिक्षाचरणश्च योऽभवत्। न तत्र कश्चिन्न बभूव तर्पितो यथार्हसम्मानन दान सम्भ्रमैः।।2.32.46।। Ayodhya Kanda,33,1,दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु। जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ।।2.33.1।। Ayodhya Kanda,33,2,ततो गृहीते दुष्प्रेक्षे त्वशोभेतां तदायुधे। मालादामभिराबद्धे सीतया समलङ्कृते।।2.33.2।। Ayodhya Kanda,33,3,ततः प्रासादहर्म्याणि विमानशिखराणि च। अधिरुह्य जनश्श्रीमानुदासीनो व्यलोकयत्।।2.33.3।। Ayodhya Kanda,33,4,न हि रथ्याः स्म शक्यन्ते गन्तुं बहुजनाकुलाः। आरुह्य तस्मात्प्रासादान् दीनाः पश्यन्ति राघवम्।।2.33.4।। Ayodhya Kanda,33,5,पदातिं वर्जितच्छत्रं रामं दृष्ट्वा जनास्तदा। ऊचुर्बहुविधा वाच श्शोकोपहतचेतसः।।2.33.5।। Ayodhya Kanda,33,6,यं यान्तमनुयाति स्म चतुरङ्गबलं महत्। तमेकं सीतया सार्धमनुयाति स्म लक्ष्मणः।।2.33.6।। Ayodhya Kanda,33,7,ऐश्वर्यस्य रसज्ञः सन् कामिनां चैव कामदः। नेच्छत्येवानृतं कर्तुं पितरं धर्मगौरवात्।।2.33.7।। Ayodhya Kanda,33,8,या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि। तामद्य सीतां पश्यन्ति राजमार्गगता जनाः।।2.33.8।। Ayodhya Kanda,33,9,अङ्गरागोचितां सीतां रक्तचन्दनसेविनीम्। वर्षमुष्णं च शीतं च नेष्यन्त्याशु विवर्णताम्।।2.33.9।। Ayodhya Kanda,33,10,अद्य नूनं दशरथस्सत्त्वमाविश्य भाषते। न हि राजा प्रियं पुत्रं विवासयितुमर्हति।।2.33.10।। Ayodhya Kanda,33,11,निर्गुणस्यापि पुत्रस्य कथं स्याद्विप्रवासनम्। किं पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम्।।2.33.11।। Ayodhya Kanda,33,12,अनृशंस्यमनुक्रोशः श्रुतं शीलं दमश्शमः। राघवं शोभयन्त्येते षड्गुणाः पुरुषोत्तमम्।।2.33.12।। Ayodhya Kanda,33,13,तस्मात्तस्योपघातेन प्रजाः परमपीडिताः। औदकानीव सत्त्वानि ग्रीष्मे सलिलसङ्क्षयात्।।2.33.13।। Ayodhya Kanda,33,14,पीडया पीडितं सर्वं जगदस्य जगत्पतेः। मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः।।2.33.14।। Ayodhya Kanda,33,15,मूलं ह्येष मनुष्याणां धर्मसारो महाद्युतिः। पुष्पं फलं च पत्रं च शाखाश्चास्येतरे जनाः।।2.33.15।। Ayodhya Kanda,33,16,ते लक्ष्मण इव क्षिप्रं सपत्न्य स्सहबान्धवाः। गच्छन्तमनुगच्छामो येन गच्छति राघवः।।2.33.16।। Ayodhya Kanda,33,17,उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च। एकदुःखसुखा राममनुगच्छाम धार्मिकम्।।2.33.17।। Ayodhya Kanda,33,18,समुद्धृतनिधानानि परिध्वस्ताजिराणि च। उपात्त धनधान्यानि हृतसाराणि सर्वशः।।2.33.18।। Ayodhya Kanda,33,19,रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः। मूषकैःपरिधावद्भिरुद्बिलैरावृतानि च।।2.33.19।। Ayodhya Kanda,33,20,अपेतोदकधूमानि हीनसम्मार्जनानि च। प्रणष्टबलिकर्मेज्यामन्त्रहोमजपानि च।।2.33.20।। Ayodhya Kanda,33,21,दुष्कालेनेव भग्नानि भिन्नभाजनवन्ति च। अस्मात्त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम्।।2.33.21।। Ayodhya Kanda,33,22,वनं नगरमेवास्तु येन गच्छति राघवः। अस्माभिश्च परित्यक्तं पुरं सम्पद्यतां वनम्।।2.33.22।। Ayodhya Kanda,33,23,बिलानि दंष्ट्रिण स्सर्वे सानूनि मृगपक्षिणः। त्यजन्त्वस्मद्भयाद्भीता गजास्सिंहा वनानि च।।2.33.23।। अस्मत्त्यक्तं प्रपद्यन्तां सेव्यमानं त्यजन्तु च। Ayodhya Kanda,33,24,तृणमांस फलादानां देशं व्यालमृगद्विजम्।।2.33.24।। Ayodhya Kanda,33,25,प्रपद्यतां हि कैकेयी सपुत्रा सह बान्धवैः। राघवेण वने सर्वे वयं वत्स्याम निर्वृताः।।2.33.25।। Ayodhya Kanda,33,26,इत्येवं विविधा वाचो नानाजनसमीरिताः। शुश्राव रामः श्रुत्वा च न विचक्रेऽस्य मानसम्।।2.33.26।। Ayodhya Kanda,33,27,स तु वेश्म पितुर्दूरात्कैलासशिखरप्रभम्। अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः।।2.33.27।। Ayodhya Kanda,33,28,विनीतवीरपुरुषं प्रविश्य तु नृपालयम्। ददर्शावस्थितं दीनं सुमन्त्रमविदूरतः।।2.33.28।। Ayodhya Kanda,33,29,प्रतीक्षमाणोऽपि जनं तदार्त मनार्तरूपः प्रहसन्निवाथ। जगाम रामः पितरं दिदृक्षुः पितुर्निदेशं विधिवच्चिकीर्षुः।।2.33.29।। Ayodhya Kanda,33,30,तत्पूर्वमैक्ष्वाकसुतो महात्मा रामो गमिष्यन्वनमार्तरूपम्। व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं पितुर्महात्मा प्रतिहारणार्थम्।।2.33.30।। Ayodhya Kanda,33,31,पितुर्निदेशेन तु धर्मवत्सलः वनप्रवेशे कृतबुद्धिनिश्चयः। स राघवः प्रेक्ष्य सुमन्त्रमब्रवी न्निवेदयस्वागमनं नृपाय मे।।2.33.31।। Ayodhya Kanda,34,1,ततः कमलपत्राक्षः श्यामो निरुपमो महान्। उवाच राम स्तं सूतं पितुराख्याहि मामिति।।2.34.1।। Ayodhya Kanda,34,2,स रामप्रेषितः क्षिप्रं सन्तापकलुषेन्द्रियः। प्रविश्य नृपतिं सूतो निश्वसन्तं ददर्श ह ।।2.34.2।। Ayodhya Kanda,34,3,उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम्। तटाकमिव निस्तोयमपश्यज्जगतीपतिम्।।2.34.3।। Ayodhya Kanda,34,4,आलोक्य तु महाप्राज्ञः परमाकुलचेतसम्। राममेवानुशोचन्तं सूतः प्राञ्जलिरासदत्।।2.34.4।। Ayodhya Kanda,34,5,तं वर्धयित्वा राजानं पूर्वं सूतो जयाशिषा। भयविक्लबया वाचा मन्दया श्लक्ष्णमब्रवीत्।।2.34.5।। Ayodhya Kanda,34,6,अयं स पुरुषव्याघ्रो द्वारि तिष्ठति ते सुतः। ब्राह्मणेभ्यो धनं दत्वा सर्वञ्चैवोपजीविनाम्।।2.34.6।। Ayodhya Kanda,34,7,स त्वा पश्यतु भद्रं ते रामस्सत्यपराक्रमः। सर्वान् सुहृद आपृच्छ्य त्वामिदानीं दिदृक्षते।।1.34.7।। Ayodhya Kanda,34,8,गमिष्यति महारण्यं तं पश्य जगतीपते। वृतं राजगुणै स्सर्वैरादित्यमिव रश्मिभिः।।2.34.8।। Ayodhya Kanda,34,9,स सत्यवादी धर्मात्मा गाम्भीर्यात्सागरोपमः। आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम्।।2.34.9।। Ayodhya Kanda,34,10,सुमंन्त्रानय मे दारान् ये केचिदिह मामकाः। दारैः परिवृतस्सर्वैर्द्रष्टुमिच्छामि धार्मिकम्।।2.34.10।। Ayodhya Kanda,34,11,सोऽन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत्। आर्याह्वयति वो राजा गम्यतां तत्र मा चिरम्।।2.34.11।। Ayodhya Kanda,34,12,एवमुक्ताः स्त्रिय स्सर्वाः सुमन्त्रेण नृपाज्ञया। प्रचक्रमु स्तद्भवनं भर्तुराज्ञाय शासनम्।।2.34.12।। Ayodhya Kanda,34,13,अर्धसप्तशतास्तास्तु प्रमदास्ताम्रलोचनाः। कौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रताः।।2.34.13।। Ayodhya Kanda,34,14,आगतेषु च दारेषु समवेक्ष्य महीपतिः। उवाच राजा तं सूतं सुमन्त्राऽनय मे सुतम्।।2.34.14।। Ayodhya Kanda,34,15,स सूतो राममादाय लक्ष्मणं मैथिलीं तदा। जगामाभिमुखस्तूर्णं सकाशं जगतीपतेः।।2.34.15।। Ayodhya Kanda,34,16,स राजा पुत्रमायान्तं दृष्ट्वा दूरात्कृताञ्जलिम्। उत्पपातासनात्तूर्णमार्त स्त्रीजनसंवृतः।।2.34.16।। Ayodhya Kanda,34,17,सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशाम्पतिः। तमसंप्राप्य दुःखार्तः पपात भुवि मूर्छितः।।2.34.17।। Ayodhya Kanda,34,18,तं रामोऽभ्यपतत् क्षिप्रं लक्ष्मणश्च महारथः। विसंज्ञमिव दुःखेन सशोकं नृपतिं तदा।।2.34.18।। Ayodhya Kanda,34,19,स्त्रीसहस्रनिनादश्च संजज्ञे राजवेश्मनि। हा हा रामेति सहसा भूषणध्वनिमूर्छितः।।2.34.19।। Ayodhya Kanda,34,20,तं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ। पर्यंङ्के सीतया सार्धं रुदन्तः समवेशयन्।।2.34.20।। Ayodhya Kanda,34,21,अथ रामो मुहूर्तेन लब्धसंज्ञं महीपतिम्। उवाच प्राञ्जलिर्भूत्वा शोकार्णवपरिप्लुतम्।।2.34.21।। Ayodhya Kanda,34,22,आपृच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः। प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम्।।2.34.22।। Ayodhya Kanda,34,23,लक्ष्मणं चानुजानीहि सीता चान्वेति मां वनम्। कारणैर्बहुभि स्तथ्यैर्वार्यमाणौ न चेच्छतः।।2.34.23।। Ayodhya Kanda,34,24,अनुजानीहि सर्वान्नः शोकमुत्सृज्य मानद। लक्ष्मणं मां च सीतां च प्रजापतिरिव प्रजाः।।2.34.24।। Ayodhya Kanda,34,25,प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः। उवाच राजा सम्प्रेक्ष्य वनवासाय राघवम्।।2.34.25।। Ayodhya Kanda,34,26,अहं राघव कैकेय्या वरदानेन मोहितः। अयोध्यायास्त्वमेवाद्य भव राजा निगृह्य माम्।।2.34.26।। Ayodhya Kanda,34,27,एवमुक्तो नृपतिना रामो धर्मभृतां वरः। प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः।।2.34.27।। Ayodhya Kanda,34,28,भवान्वर्ष सहस्राय पृथिव्या नृपते पतिः। अहं त्वरण्येवत्स्यामि न मे कार्यं त्वयाऽनृतम्।।2.34.28।। Ayodhya Kanda,34,29,नव पञ्च च वर्षाणि वनवासे विहृत्य ते। पुनःपादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिप।।2.34.29।। Ayodhya Kanda,34,30,रुदन्नार्तः प्रियं पुत्रं सत्यपाशेन संयतः। कैकेय्या चोद्यमानस्तु मिथो राजा तमब्रवीत्।।2.34.30।। Ayodhya Kanda,34,31,श्रेयसे वृद्धये तात पुनरागमनाय च। गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम्।।2.34.31।। Ayodhya Kanda,34,32,न हि सत्यात्मनस्तात धर्माभिमनस स्तव। विनिवर्तयितुं बुद्धिः शक्यते रघुनन्दन।।2.34.32।। Ayodhya Kanda,34,33,अद्य त्विदानीं रजनीं पुत्र मा गच्छ सर्वथा। एकाहदर्शनेनापि साधु तावच्चराम्यहम्।।2.34.33।। Ayodhya Kanda,34,34,मातरं मां च सम्पश्यन् वसेमामद्य शर्वरीम्। तर्पित स्सर्वकामैस्त्वं श्वः काले साधयिष्यसि।।।2.34.34।। Ayodhya Kanda,34,35,दुष्करं क्रियते पुत्र सर्वथा राघव त्वया। मत्प्रियार्थं प्रियांस्त्यक्त्वा यद्यासि विजनं वनम्।।2.34.35।। Ayodhya Kanda,34,36,न चैतन्मे प्रियं पुत्र शपे सत्येन राघव। छन्नया चलितस्त्वस्मि स्त्रिया छन्नाग्निकल्पया।।2.34.36।। Ayodhya Kanda,34,37,वञ्चना या तु लब्धा मे तां त्वं निस्तर्तुमिच्छसि। अनया वृत्तसादिन्या कैकेय्याऽभिप्रचोदितः।।.2.34.37।। Ayodhya Kanda,34,38,न चैतदाश्चर्यतमं यत्तज्येष्ठस्सुतो मम। अपानृतकथं पुत्र पितरं कर्तुमिच्छसि।।2.34.38।। Ayodhya Kanda,34,39,अथ रामस्तथा श्रुत्वा पितुरार्तस्य भाषितम्। लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत्।।2.34.39।। Ayodhya Kanda,34,40,प्राप्स्यामि यानद्य गुणान्को मे श्वस्तान् प्रदास्यति। अपक्रमणमेवातः सर्वकामैरहं वृणे।।2.34.40।। Ayodhya Kanda,34,41,इयं सराष्ट्रा सजना धनधान्यसमाकुला। मया विसृष्टा वसुधा भरताय प्रदीयताम्।।2.34.41।। Ayodhya Kanda,34,42,वनवासकृता बुद्धिर्न च मेऽद्य चलिष्यति। यस्तुष्टेन वरो दत्तः कैकेय्यै वरद त्वया।।2.34.42।। दीयतां निखिलेनैव सत्यस्त्वं भव पार्थिव। Ayodhya Kanda,34,43,अहं निदेशं भवतो यथोक्तमनुपालयन्।।2.34.43।। चतुर्दश समा वत्स्ये वने वनचरैस्सह। Ayodhya Kanda,34,44,मा विमर्शो वसुमती भरताय प्रदीयताम्।।2.34.44।। Ayodhya Kanda,34,45,न हि मे काङ्क्षितं राज्यं सुखमात्मनि वा प्रियम्। यथानिदेशं कर्तुं वै तवैव रघुनन्दन।।2.34.45।। Ayodhya Kanda,34,46,अपगच्छतु ते दु:खं माभूर्बाष्पपरिप्लुतः। न हि क्षुभ्यति दुर्धर्षः समुद्रः सरितां पतिः।।2.34.46।। Ayodhya Kanda,34,47,नैवाहं राज्यमिच्छामि न सुखं न च मेदिनीम्। नैव सर्वानिमान् कामा न्नस्वर्गं नैव जीवितम्।।2.34.47।। Ayodhya Kanda,34,48,त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ। प्रत्यक्षं तव सत्येन सुकृतेन च ते शपे।।2.34.48।। Ayodhya Kanda,34,49,न च शक्यं मया तात स्थातुं क्षणमपि प्रभो। स शोकं धारयस्वेमं न हि मेऽस्ति विपर्ययः।।2.34.49।। Ayodhya Kanda,34,50,अर्थितो ह्यस्मि कैकेय्या वनं गच्छेति राघव। मया चोक्तं व्रजामीति तत्सत्यमनुपालये।।2.34.50।। Ayodhya Kanda,34,51,मा चोत्कण्ठां कृथा देव वने रंस्यामहे वयम्। प्रशान्तहरिणाकीर्णे नानाशकुनिनादिते।।2.34.51।। Ayodhya Kanda,34,52,पिता हि दैवतं तात देवतानामपि स्मृतम्। तस्माद्दैवतमित्येव करिष्यामि पितुर्वचः।।2.34.52।। Ayodhya Kanda,34,53,चतुर्दशसु वर्षेषु गतेषु नरसत्तम। पुनर्द्रक्ष्यसि मां प्राप्तं सन्तापोऽयं विमुच्यताम्।।2.34.53।। Ayodhya Kanda,34,54,येन संस्तम्भनीयोऽयं सर्वो बाष्पगलो जनः। स त्वं पुरुषशार्दूल किमर्थं विक्रियां गतः।।2.34.54।। Ayodhya Kanda,34,55,पुरं च राष्ट्रं च मही च केवला मया निसृष्टा भरताय दीयताम्। अहं निदेशं भवतोऽनुपालयन् वनं गमिष्यामि चिराय सेवितुम्।।2.34.55।। Ayodhya Kanda,34,56,मया निसृष्टां भरतो महीमिमां सशैलषण्डां सपुरां सकाननाम्। शिवां सुसीमामनुशास्तु केवलं त्वया यदुक्तं नृपते तथास्तु तत्।।2.34.56।। Ayodhya Kanda,34,57,न मे तथा पार्थिव धीयते मनो महत्सु कामेषु न चात्मनःप्रिये। यथा निदेशे तव शिष्टसम्मते व्यपैतु दुःखं तव मत्कृतेऽनघ।।2.34.57।। Ayodhya Kanda,34,58,तदद्य नैवानघ राज्यमव्ययं न सर्वकामान्न सुखं न मैथिलीम्। न जीवितं त्वामनृतेन योजयन् वृणीय सत्यं व्रतमस्तु ते तथा।।2.34.58।। Ayodhya Kanda,34,59,फलानि मूलानि च भक्षयन्वने गिरींश्च पश्यन् सरितस्सरांसि च। वनं प्रविश्यैव विचित्रपादपम् सुखी भविष्यामि तवास्तु निर्वृतिः।।2.34.59।। Ayodhya Kanda,34,60,एवं स राजा व्यसनाभिपन्नः शोकेन दुःखेन च ताम्यमानः। आलिङ्ग्य पुत्रं सुविनष्टसंज्ञो मोहं गतो नैव चिचेष्ट किंञ्चित्।।2.34.60।। Ayodhya Kanda,34,61,देव्यस्तत स्संरुरुदुस्समेता स्तां वर्जयित्वा नरदेवपत्नीम्। रुदन् सुमन्त्रोऽऽपि जगाम मूर्छां हाहाकृतं तत्र बभूव सर्वम्।।2.34.61।। Ayodhya Kanda,35,1,ततो निर्धूय सहसा शिरो निश्श्वस्य चासकृत्। पाणौ पाणिं विनिष्पिष्य दन्तान् कटकटाप्य च ।।2.35.1।। Ayodhya Kanda,35,2,लोचने कोपसंरक्ते वर्णं पूर्वोचितं जहत्। कोपाभिभूतस्सहसा सन्तापमशुभं गतः।।2.35.2।। Ayodhya Kanda,35,3,मनः समीक्षमाणश्च सूतो दशरथस्य सः। कम्पयन्निव कैकेय्या हृदयं वाक्छरैश्शितैः ।।2.35.3।। Ayodhya Kanda,35,4,वाक्यवज्रैरनुपमैर्निर्भिन्दन्निव चाशुभैः। कैकेय्या स्सर्वमर्माणि सुमन्त्रः प्रत्यभाषत।।2.35.4।। Ayodhya Kanda,35,5,यस्यास्तव पतिस्त्यक्तो राजा दशरथः स्वयम्। भर्ता सर्वस्य जगतः स्थावरस्य चरस्य च।।2.35.5।। न ह्यकार्यतमं किञ्चित्तव देवीह विद्यते। Ayodhya Kanda,35,6,पतिघ्नीं त्वामहं मन्ये कुलघ्नीमपि चान्ततः।।2.35.6।। Ayodhya Kanda,35,7,यन्महेन्द्रमिवाजय्यं दुष्प्रकम्प्यमिवाचलम्। महोदधिमिवाक्षोभ्यं सन्तापयसि कर्मभिः।।2.35.7।। Ayodhya Kanda,35,8,मावमंस्था दशरथं भर्तारं वरदं पतिम्। भर्तुरिच्छा हि नारीणां पुत्रकोट्या विशिष्यते।।2.35.8।। Ayodhya Kanda,35,9,यथावयो हि राज्यानि प्राप्नुवन्ति नृपक्षये। इक्ष्वाकुकुलनाथेऽस्मिं स्तल्लोपयितुमिच्छसि।।2.35.9।। Ayodhya Kanda,35,10,राजा भवतु ते पुत्रो भरतश्शास्तु मेदिनीम्। वयं तत्र गमिष्यामो रामो यत्र गमिष्यति।।2.35.10।। Ayodhya Kanda,35,11,न हि ते विषये कश्चिद् र्ब्राह्मणो वस्तुमर्हति। तादृशं त्वममर्यादमद्य कर्म चिकीर्षसि।।2.35.11।। Ayodhya Kanda,35,12,नूनं सर्वे गमिष्यामो मार्गं रामनिषेवितम्। त्यक्ताया बान्धवैः सर्वैर्ब्राह्मणैः साधुभिः सदा।।2.35.12।। Ayodhya Kanda,35,13,का प्रीती राज्यलाभेन तव देवि भविष्यति। तादृशं त्वममर्यादं कर्म कर्तुं चिकीर्षसि।।2.35.13।। Ayodhya Kanda,35,14,आश्चर्यमिव पश्यामि यस्यास्ते वृत्तमीदृशम्। आचरन्त्या न विवृता सद्यो भवति मेदिनी।।2.35.14।। Ayodhya Kanda,35,15,महाब्रह्मर्षिसृष्टाः वा ज्वलन्तो भीमदर्शनाः। धिग्वाग्दण्डा न हिंसन्ति रामप्रव्राजने स्थिताम्।।2.35.15।। Ayodhya Kanda,35,16,आम्रं छित्वा कुठारेण निम्बं परिचरेत्तु यः। यश्चैनं पयसा सिञ्चेन्नैवास्य मधुरो भवेत्।।2.35.16।। Ayodhya Kanda,35,17,अभिजात्यं हि ते मन्ये यथा मातुस्तथैव च। न हि निम्बात्स्रवेत् क्षैद्रं लोके निगदितं वचः।।2.35.17।। Ayodhya Kanda,35,18,तव मातुरसद्ग्राहं विद्मः पूर्वं यथाश्रुतम्। पितुस्ते वरदः कश्चिद्ददौ वरमनुत्तमम्।।2.35.18।। Ayodhya Kanda,35,19,सर्वभूतरुतं तस्मात्संजज्ञे वसुधाधिपः। तेन तिर्यग्गतानां च भूतानां विदितं वचः।।2.35.19।। Ayodhya Kanda,35,20,ततो जृम्भस्य शयने विरुताद्भूरिवर्चसः। पितुस्ते विदितो भाव स्स तत्र बहुधाऽहसत्।।2.35.20।। Ayodhya Kanda,35,22,नृपश्चोवाच तां देवीं देवि शंसामि ते यदि। ततो मे मरणं सद्यो भविष्यति न संशयः।।2.35.22।। Ayodhya Kanda,35,23,माता ते पितरं देवि ततः केकयमब्रवीत्। शंस मे जीव वा मा वा न मामपहसिष्यसि।।2.35.23।। Ayodhya Kanda,35,24,प्रियया च तथोक्त स्सन् केकयः पृथिवीपतिः। तस्मै तं वरदायार्थं कथयामास तत्त्वतः।।2.35.24।। Ayodhya Kanda,35,25,ततः स्स वरदः साधुराजानं प्रत्यभाषत। म्रियतां ध्वंसतां वेयं मा कृथास्त्वं महीपते।।2.35.25।। Ayodhya Kanda,35,26,स तच्छ्रुत्वा वचस्तस्य प्रसन्नमनसो नृपः। मातरं ते निरस्याशु विजहार कुबेरवत्।।2.35.26।। Ayodhya Kanda,35,27,तथा त्वमपि राजानं दुर्जनाचरिते पथि। असद्ग्राहमिमं मोहात्कुरुषे पापदर्शिनि।।2.35.27।। Ayodhya Kanda,35,28,सत्यश्चाद्य प्रवादोऽयं लौकिकः प्रतिभाति मा। पितृन् समनुजायन्ते नरा मातरमङ्गनाः।।2.35.28।। Ayodhya Kanda,35,29,नैवं भव गृहाणेदं यदाह वसुधाधिपः। भर्तुरिच्छामुपास्वेह जनस्यास्य गतिर्भव।।2.35.29।। Ayodhya Kanda,35,30,मा त्वं प्रोत्साहिता पापैर्देवराजसमप्रभम्। भर्तारं लोकभर्तारमसद्धर्ममुपादधाः।।2.35.30।। Ayodhya Kanda,35,31,न हि मिथ्या प्रतिज्ञातं करिष्यति तवानघः। श्रीमान्दशरथो राजा देवि राजीवलोचनः।।2.35.31।। Ayodhya Kanda,35,32,ज्येष्ठो वदान्यः कर्मण्यः स्वधर्मपरिरक्षिता। रक्षिता जीवलोकस्य बली रामोऽभिषिच्यताम्।।2.35.32।। Ayodhya Kanda,35,33,परिवादो हि ते देवि महाल्लोके चरिष्यति। यदि रामो वनं याति विहाय पितरं नृपम्।।2.35.33।। Ayodhya Kanda,35,34,स राज्यं राघवः पातु भव त्वं विगतज्वरा। न हि ते राघवादन्यः क्षमः पुरवरे वसेत्।।2.35.34।। Ayodhya Kanda,35,35,रामे हि यौवराज्यस्थे राजा दशरथो वनम्। प्रवेक्ष्यति महेष्वासः पूर्ववृत्तमनुस्मरन्।।2.35.35।। Ayodhya Kanda,36,1,ततस्सुमन्त्रमैक्ष्वाकः पीडितोऽत्र प्रतिज्ञया। सबाष्पमतिनिश्श्वश्य जगादेदं पुनः पुनः।।2.36.1।। Ayodhya Kanda,36,2,सूत रत्नसुसम्पूर्णा चतुर्विधबला चमूः। राघवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम्।।2.36.2।। Ayodhya Kanda,36,3,रूपाजीवाश्च वादिन्यो वणिजश्च महाधनाः। शोभयन्तु कुमारस्य वाहिनीं सुप्रसारिताः।।2.36.3।। Ayodhya Kanda,36,4,ये चैनमुपजीवन्ति रमते यैश्च वीर्यतः। तेषां बहुविधं दत्त्वा तानप्यत्र नियोजय ।।2.38.4।। Ayodhya Kanda,36,5,आयुधानि च मुख्यानि नागरा श्शकटानि च। अनुगच्छन्तु काकुत्स्थं व्याधाश्चारण्य गोचराः।।2.36.5।। Ayodhya Kanda,36,6,निघ्नन् मृगान् कुञ्जरांश्च पिबंश्चारण्यकं मधु। नदीश्च विविधाः पश्यन्न राज्यस्य स्मरिष्यति।।2.36.6।। Ayodhya Kanda,36,7,धान्यकोशश्च यः कश्चिद्धनकोशश्च मामकः। तौ राममनुगच्छेतां वसन्तं निर्जने वने।।2.36.7।। Ayodhya Kanda,36,8,यजन् पुण्येषु देशेषु विसृजं श्चाप्तदक्षिणाः। ऋषिभिश्च समागम्य प्रवत्स्यति सुखं वने।।2.36.8।। Ayodhya Kanda,36,9,भरतश्च महाबाहुरयोध्यां पालयिष्यति। सर्वकामैः सह श्रीमान् रामः संसाध्यतामिति ।।2.36.9।। Ayodhya Kanda,36,10,एवं ब्रुवति काकुत्स्थे कैकेय्या भय मागतम्। मुखं चाप्यगमच्छोषं स्वरश्चापि न्यरुध्यत।।2.36.10।। Ayodhya Kanda,36,11,सा विषण्णा च सन्त्रस्ता मुखेन परिशुष्यता। राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत्।।2.36.11।। Ayodhya Kanda,36,12,राज्यं गतजनं साधो पीतमण्डां सुरामिव। निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते।।2.36.12।। Ayodhya Kanda,36,13,कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणाम्। राजा दशरथो वाक्यमुवाचायतलोचनाम्।।2.36.13।। Ayodhya Kanda,36,14,वहन्तं किं तुदसि मां नियुज्य धुरि माऽहिते। अनार्ये कृत्यमारब्धं किं न पूर्वमुपारुधः।।2.36.14।। Ayodhya Kanda,36,15,तस्यैतत्क्रोधसंयुक्तमुक्तं श्रुत्वा वराङ्गना। कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत्।।2.36.15।। Ayodhya Kanda,36,16,वैव वंशे सगरो ज्येष्ठं पुत्रमुपारुधत्। असमञ्ज इति ख्यातं तथायं गन्तुमर्हति।।2.36.16।। Ayodhya Kanda,36,17,एवमुक्तो धिगित्येव राजा दशरथोऽब्रवीत्। व्रीडितश्च जनस्सर्व स्सा च तं नावबुध्यत।।2.36.17।। Ayodhya Kanda,36,18,तत्र वृद्धो महामात्रस्सिद्धार्थो नाम नामतः। शुचिर्बहुमतो राज्ञः कैकेयी मिदमब्रवीत्।।2.38.18।। Ayodhya Kanda,36,19,असमञ्जो गृहीत्वा तु क्रीडतः पथि बालकान्। सरय्वाः प्रक्षिपन्नप्सु रमते तेन दुर्मतिः।।2.36.19।। Ayodhya Kanda,36,20,तं दृष्ट्वा नागरा स्सर्वे कृद्धा राजानमब्रुवन्। असमञ्जं वृणीष्वैकमस्मान्वा राष्ट्रवर्धन।।2.36.20।। Ayodhya Kanda,36,21,तानुवाच ततो राजा किन्निमित्तमिदं भयम्। ताश्चापि राज्ञा सम्पृष्टा वाक्यं प्रकृतयोऽब्रुवन्।।2.36.21।। Ayodhya Kanda,36,22,डक्रीडतस्त्वेष नः पुत्रान् बालानुद्भ्रान्तचेतनः। सरय्वां प्रक्षिपन्मौर्ख्यादतुलां प्रीतिमश्नुते।।2.36.22।। Ayodhya Kanda,36,23,स तासां वचनं श्रुत्वा प्रकृतीनां नराधिपः। तं तत्याजाहितं पुत्रं तेषां प्रियचिकीर्षया।।2.36.23।। Ayodhya Kanda,36,24,तं यानं शीघ्रमारोप्य सभार्यं सपरिच्छदम्। यावज्जीवं विवास्योऽयमिति स्वानन्वशात्पिता।।2.36.24।। Ayodhya Kanda,36,25,स फालपिटकं गृह्य गिरिदुर्गाण्यलोडयत्। दिश स्सर्वास्त्वनुचरन् स यथा पापकर्मकृत्।।2.36.25।। Ayodhya Kanda,36,26,इत्येनमत्यजद्राजा सगरो वै सुधार्मिकः। रामः किमकरोत्पापं येनैवमुपरुध्यते।।2.36.26।। Ayodhya Kanda,36,27,न हि कञ्चन पश्यामो राघवस्यागुणं वयम्। दुर्लभो ह्यस्य निरय श्शशाङ्कस्येव कल्मषम्।।2.36.27।। Ayodhya Kanda,36,28,अथवा देवि दोषं त्वं कञ्चित्पश्यसि राघवे। तमद्य ब्रूहि तत्वेन तदा रामो विवास्यताम्।।2.36.28।। Ayodhya Kanda,36,29,अदुष्टस्य हि संत्यागः सत्पथे निरतस्य च। निर्दहेदपि शक्रस्य द्युतिं धर्मनिरोधनात्।2.36.29।। Ayodhya Kanda,36,30,तदलं देवि रामस्य श्रिया विहतया त्वया। लोकतोऽपि हि ते रक्ष्यः परिवादः शुभानने।।2.36.30।। Ayodhya Kanda,36,31,श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वनः। शोकोपहतया वाचा कैकेयीमिदमब्रवीत्।।2.36.31।। Ayodhya Kanda,36,32,एतद्वचो नेच्छसि पापवृत्ते हितं न जानासि ममात्मनो वा। आस्थाय मार्गं कृपणं कुचेष्टा चेष्टा हि ते साधुपथादपेता।।2.36.32।। Ayodhya Kanda,36,33,अनुव्रजिष्याम्यहमद्य रामं राज्यं परित्यज्य सुखं धनं च। सहैव राज्ञा भरतेन च त्वं यथासुखं भुङ्क्ष्व चिराय राज्यम्।।2.36.33।। Ayodhya Kanda,37,1,महामात्रवचः श्रुत्वा रामो दशरथं तदा। अभ्यभाषत वाक्यं तु विनयज्ञो विनीतवत्।।2.37.1।। Ayodhya Kanda,37,2,त्यक्तभोगस्य मे राजन् वने वन्येन जीवतः। किं कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वतः।।2.37.2।। Ayodhya Kanda,37,3,यो हि दत्त्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनः। रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम्।।2.37.3।। Ayodhya Kanda,37,4,तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते। सर्वाण्येवानुजानामि चीराण्येवाऽनयन्तु मे।।2.37.4।। Ayodhya Kanda,37,5,खनित्रपिटके चोभे समानयत गच्छतः। चतुर्दश वने वासं वर्षाणि वसतो मम।।2.37.5।। Ayodhya Kanda,37,6,अथ चीराणि कैकेयी स्वयमाहृत्य राघवम्। उवाच परिधत्स्वेति जनौघे निरपत्रपा।।2.37.6।। Ayodhya Kanda,37,7,स चीरे पुरुषव्याघ्रः कैकेय्या प्रतिगृह्य ते। सूक्ष्मवस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्त ह।।2.37.7।। Ayodhya Kanda,37,8,लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे। तापसाच्छादने चैव जग्राह पितुरग्रतः।।2.37.8।। Ayodhya Kanda,37,9,अथाऽत्मपरिधानार्थं सीता कौशेयवासिनी। समीक्ष्य चीरं सन्त्रस्ता पृषती वागुरामिव।।2.37.9।। Ayodhya Kanda,37,10,सा व्यपत्रपमाणेव प्रगृह्य च सुदुर्मनाः। कैकेयी कुशचीरे ते जानकी शुभलक्षणा।।2.37.10।। Ayodhya Kanda,37,11,अश्रुसम्पूर्ण नेत्रा च धर्मज्ञा धर्मदर्शिनी। गन्धर्वराजप्रतिमं भर्तारमिदमब्रवीत्।।2.37.11।। Ayodhya Kanda,37,12,कथं नु चीरं बध्नन्ति मुनयो वनवासिनः। इति ह्यकुशला सीता सा मुमोह मुहुर्मुहुः।।2.37.12।। Ayodhya Kanda,37,13,कृत्वा कण्ठे च सा चीरमेकमादाय पाणिना। तस्थौ ह्यकुशला तत्र व्रीडिता जनकात्मजा।।2.37.13।। Ayodhya Kanda,37,14,तस्यास्तत्क्षिप्रमागम्य रामो धर्मभृतां वरः। चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम्।।2.37.14।। Ayodhya Kanda,37,15,रामं प्रेक्ष्य तु सीताया बध्नन्तं चीरमुत्तमम्। अन्तःपुरगता नार्यो मुमुचुर्वारि नेत्रजम्।।2.37.15।। Ayodhya Kanda,37,16,ऊचुश्च परमायस्ता रामं ज्वलिततेजसम्। वत्स नैवं नियुक्तेयं वनवासे मनस्विनी।।2.37.16।। Ayodhya Kanda,37,17,पितुर्वाक्यानुरोधेन गतस्य विजनं वनम्। तावद्दर्शनमस्या नः सफलं भवतु प्रभो।।2.37.17।। Ayodhya Kanda,37,18,लक्ष्मणेन सहायेन वनं गच्छस्व पुत्रक। नेयमर्हति कल्याणी वस्तुं तापसवद्वने।।2.37.18।। Ayodhya Kanda,37,19,कुरु नो याचनां पुत्र सीता तिष्ठतु भामिनी। धर्मनित्यस्स्वयं स्थातुं न हीदानीं त्वमिच्छसि।।2.37.19।। Ayodhya Kanda,37,20,तासामेवंविधा वाच शृण्वन् दशरथात्मजः। बबन्धैव तदा चीरं सीतया तुल्यशीलया।।2.37.20।। Ayodhya Kanda,37,21,चीरे गृहीते तु तया समीक्ष्य नृपतेर्गुरुः। निवार्य सीतां कैकेयीं वसिष्ठो वाक्यमब्रवीत्।।2.37.21।। Ayodhya Kanda,37,22,अतिप्रवृत्ते दुर्मेधे कैकेयि कुलपांसनि। वञ्चयित्वा च राजानं न प्रमाणेऽवतिष्ठसे।।2.37.22।। Ayodhya Kanda,37,23,न गन्तव्यं वनं देव्या सीतया शीलवर्जिते। अनुष्ठास्यति रामस्य सीता प्रकृतमासनम्।।2.37.23।। Ayodhya Kanda,37,24,आत्मा हि दारास्सर्वेषां दारसङ्ग्रहवर्तिनाम्। आत्मेयमिति रामस्य पालयिष्यति मेदिनीम्।।2.37.24।। Ayodhya Kanda,37,25,अथ यास्यति वैदेही वनं रामेण सङ्गता। वयमप्यनुयास्यामः पुरं चेदं गमिष्यति।।2.37.25।। Ayodhya Kanda,37,26,अन्तपालाश्च यास्यन्ति सदारो यत्र राघवः। सहोपजीव्यं राष्ट्रं च पुरं च सपरिच्छदम्।।2.37.26।। Ayodhya Kanda,37,27,भरतश्च सशत्रुघ्नश्चीरवासा वनेचरः। वने वसन्तं काकुत्स्थ मनुवत्स्यति पूर्वजम्।।2.37.27।। Ayodhya Kanda,37,28,तत श्शून्यां गतजनां वसुधां पादपै स्सह। त्वमेका शाधि दुर्वृत्ता प्रजानामहिते स्थिता।।2.37.28।। Ayodhya Kanda,37,29,न हि तद्भविता राष्ट्रं यत्र रामो न भूपतिः। तद्वनं भविता राष्ट्रं यत्र रामो निवत्स्यति।।2.37.29।। Ayodhya Kanda,37,30,न ह्यदत्तां महीं पित्रा भरतः शास्तुमर्हति। त्वयि वा पुत्रवद्वस्तुं यदि जातो महीपतेः।।2.37.30।। Ayodhya Kanda,37,31,यद्यपि त्वं क्षितितलाद्गगनं चोत्पतिष्यसि। पितृर्वंशचरित्रज्ञः सोऽन्यथा न करिष्यति।।2.37.31।। Ayodhya Kanda,37,32,तत्त्वया पुत्रगर्धिन्या पुत्रस्य कृतमप्रियम्। लोके हि स न विद्येत यो न राममनुव्रतः।।2.37.32।। Ayodhya Kanda,37,33,द्रक्ष्यस्यद्यैव कैकेयी पशुव्यालमृगद्विजान्। गच्छतस्सह रामेण पादपांश्च तदुन्मुखान्।।2.37.33।। Ayodhya Kanda,37,34,अथोत्तमान्याभरणानि देवि देहि स्नुषायै व्यपनीय चीरम्। न चीरमस्याः प्रविधीयतेति न्यवारयत्तद्वसनं वसिष्टः।।2.37.34।। Ayodhya Kanda,37,35,एकस्य रामस्य वने निवास स्त्वया वृतःकेकयराजपुत्री। विभूषितेयं प्रतिकर्मनित्या वसत्वरण्ये सह राघवेण।।2.37.35।। Ayodhya Kanda,37,36,यानैश्च मुख्यैः परिचारकैश्च सुसंवृता गच्छतु राजपुत्री। वस्त्रैश्च सर्वैस्सहितैर्विधानै र्नेयं वृता ते वरसम्प्रदाने।।2.37.36।। Ayodhya Kanda,37,37,तस्मिंस्तथा जल्पति विप्रमुख्ये गुरौ नृपस्याप्रतिमप्रभावे। नैव स्म सीता विनिवृत्तभावा प्रियस्य भर्तुः प्रतिकारकामा।।2.37.37।। Ayodhya Kanda,38,1,तस्यां चीरं वसानायां नाथवत्यामनाथवत्। प्रचुक्रोश जनस्सर्वो धिक्त्वां दशरथं त्विति।।2.38.1।। Ayodhya Kanda,38,2,तेन तत्र प्रणादेन दुःखितस्स महीपतिः। चिच्छेद जीविते श्रद्धां धर्मे यशसि चात्मनः।।2.38.2।। Ayodhya Kanda,38,3,स निःश्वस्योष्णमैक्ष्वाक स्तां भार्यामिदमब्रवीत्। कैकेयि कुशचीरेण न सीता गन्तुमर्हति।।2.38.3।। Ayodhya Kanda,38,4,सुकुमारी च बाला च सततं च सुखोचिता। नेयं वनस्य योग्येति सत्यमाह गुरुर्मम।।2.38.4।। Ayodhya Kanda,38,5,इयं हि कस्यापकरोति किञ्चि त्तपस्विनी राजवरस्य कन्या। या चीरमासाद्य जनस्य मध्ये स्थिता विसंज्ञाश्रमणीव काचित्।।2.38.5।। Ayodhya Kanda,38,6,चीराण्यपास्याज्जनकस्य कन्या नेयं प्रतिज्ञा मम दत्तपूर्वा। यथासुखं गच्छतु राजपुत्री वनं समग्रा सह सर्वरत्नैः।।2.38.6।। Ayodhya Kanda,38,7,अजीवनार्हेण मया नृशंसा कृता प्रतिज्ञा नियमेन तावत्। तवया हि बाल्यात् प्रतिपन्नमेतत् तन्मां दहेद्वेणुमिवात्मपुष्पम्।।2.38.7।। Ayodhya Kanda,38,8,रामेण यदि ते पापे किञ्चित्कृतमशोभनम्। अपकारः क इह ते वैदेह्या दर्शितोऽधमे।।2.38.8।। Ayodhya Kanda,38,9,मृगीवोत्फुल्लनयना मृदुशीला तपस्वीनी। अपकारं कमिह ते करोति जनकात्मजा।।2.38.9।। Ayodhya Kanda,38,10,ननु पर्याप्त मेतत्ते पापे रामविवासनम्। किमेभिः कृपणैर्भूय: पातकैरपि ते कृतैः।।2.38.10।। Ayodhya Kanda,38,11,प्रतिज्ञातं मया तावत् त्वयोक्तं देवि शृण्वता। रामं यदभिषेकाय त्वमिहागतमब्रवीः।।2.38.11।। Ayodhya Kanda,38,12,तत्त्वेतत्समतिक्रम्य निरयं गन्तुमिच्छसि। मैथिलीमपि या हि त्वमीक्षसे चीरवासिनीम्।।2.38.12।। Ayodhya Kanda,38,13,इतीव राजा विलपन्महात्मा शोकस्य नान्तं स ददर्श किञ्चित्। भृशातुरत्वाच्च पपात भूमौ तेनैव पुत्रव्यसनेन मग्नः।।2.38.13।। Ayodhya Kanda,38,14,एवं ब्रुवन्तं पितरं रामस्सम्प्रस्थितो वनम्। अवाक्छिरसमासीनमिदं वचनमब्रवीत्।।2.38.14।। Ayodhya Kanda,38,15,यं धार्मिक कौशल्या मम माता यशस्विनी। वृद्धा चाक्षुद्रशीला च न च त्वां देव गर्हते।।2.38.15।। Ayodhya Kanda,38,16,मया विहीनां वरद प्रपन्नां शोकसागरम्। अदृष्टपूर्वव्यसनां भूयस्सम्मन्तुमर्हसि।।2.38.16।। Ayodhya Kanda,38,17,पुत्रशोकं यथा नर्च्छेत्त्वया पूज्येन पूजिता। मां हि सञ्चिन्तयन्ती सा त्वयि जीवेत्तपस्विनी।।2.38.17।। Ayodhya Kanda,38,18,इमां महेंन्द्रोपम जातगर्धिनीं तथा विधातुं जननीं ममार्हसि। यथा वनस्थे मयि शोककर्शिता न जीवितं न्यस्य यमक्षयं व्रजेत्।।2.38.18।। Ayodhya Kanda,39,1,रामस्य तु वचः शृत्वा मुनिवेशधरं च तम्। समीक्ष्य सह भार्याभी राजा विगतचेतनः।।2.39.1।। Ayodhya Kanda,39,2,नैनं दुःखेन सन्तप्तः प्रत्यवैक्षत राघवम्। न चैनमभिसम्प्रेक्ष्य प्रत्यभाषत दुर्मनाः।।2.39.2।। Ayodhya Kanda,39,3,स मुहूर्तमिवासंज्ञो दुःखितश्च महीपतिः। विललाप महाबाहू राममेवानुचिन्तयन्।।2.39.3।। Ayodhya Kanda,39,4,मन्ये खलु मया पूर्वं विवत्सा बहवःकृताः। प्राणिनो हिंसिता वापि तस्मादिदमुपस्थितम्।।2.39.4।। Ayodhya Kanda,39,5,न त्वेवानागते काले देहाच्च्यवति जीवितम्। कैकेय्या क्लिश्यमानस्य मृत्युर्मम न विद्यते।।2.39.5।। Ayodhya Kanda,39,6,योऽहं पावकसङ्काशं पश्यामि पुरतः स्थितम्। विहाय वसने सूक्ष्मे तापसाच्छादमात्मजम्।।2.39.6।। Ayodhya Kanda,39,7,एकस्याः खलु कैकेय्याः कृतेऽयं क्लिश्यते जनः। स्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्विमाम्।।2.39.7।। Ayodhya Kanda,39,8,एवमुक्त्वा तु वचनं बाष्पेण पिहितेन्द्रियः। रामेति सकृदेवोक्त्वा व्याहर्तुं न शशाक ह।।2.39.8।। Ayodhya Kanda,39,9,संज्ञां तु प्रतिलभ्यैव मुहूर्तात्स महीपतिः। नेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदमब्रवीत्।।2.39.9।। Ayodhya Kanda,39,10,औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः। प्रापयैनं महाभागमितो जनपदात्परम्।।2.39.10।। Ayodhya Kanda,39,11,एवं मन्ये गुणवतां गुणानां फलमुच्यते। पित्रा मात्रा च यत्साधुर्वीरो निर्वास्यते वनम्।।2.39.11।। Ayodhya Kanda,39,12,राज्ञो वचनमाज्ञाय सुमन्त्रः शीघ्रविक्रमः। योजयित्वाऽययौ तत्र रथमश्वैरलङ्कृतम्।।2.39.12।। Ayodhya Kanda,39,13,तं रथं राजपुत्राय सूत: कनकभूषितम्। आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः।।2.39.13।। Ayodhya Kanda,39,14,राजा सत्वरमाहूय व्यापृतं वित्तसंञ्चये। उवाच देशकालज्ञो निश्चितं सर्वत श्शुचिम्।।2.39.14।। Ayodhya Kanda,39,15,वासांसि च महार्हाणि भूषणानि वराणि च। वर्षाण्येतानि सङ्ख्याय वैदेह्याः क्षिप्रमानय।।2.39.15।। Ayodhya Kanda,39,16,नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः। प्रायच्छत्सर्वमाहृत्य सीतायै सममेव तत्।।2.39.16।। Ayodhya Kanda,39,17,सा सुजाता सुजातानि वैदेही प्रस्थिता वनम्। भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः।।2.39.17।। Ayodhya Kanda,39,18,व्यराजयत वैदेही वेश्म तत्सुविभूषिता। उद्यतोंऽशुमतः काले खं प्रभेव विवस्वतः।।2.39.18।। Ayodhya Kanda,39,19,तां भुजाभ्यां परिष्वज्य श्वश्रूर्वचनमब्रवीत्। अनाचरन्ती कृपणं मूर्ध्न्युपाघ्राय मैथिलीम्।।2.39.19।। Ayodhya Kanda,39,20,असत्य स्सर्वलोकेऽस्मिन्सततं सत्कृताः प्रियैः। भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः।।2.39.20।। Ayodhya Kanda,39,21,एष स्वभावो नारीणामनुभूय पुरा सुखम्। अल्पामप्यापदं प्राप्य दुष्यन्ति प्रजहत्यपि।।2.39.21।। Ayodhya Kanda,39,22,असत्यशीला विकृता दुर्ग्राह्यहृदयास्सदा। युवत्यः पापसंङ्कल्पाः क्षणमात्राद्विरागिणः।।2.39.22।। Ayodhya Kanda,39,23,न कुलं न कृतं विद्या न दत्तं नापि सङ्ग्रहः। स्त्रीणां गृह्णाति हृदयमनित्यहृदया हि ताः।।2.39.23।। Ayodhya Kanda,39,24,साध्वीनां हि स्थितानां तु शीले सत्ये श्रुते शमे। स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते।।2.39.24।। Ayodhya Kanda,39,25,स त्वया नावमन्तव्यः पुत्रः प्रव्राजितो मम। तव दैवतमस्त्वेष निर्धनः सधनोऽपि वा।।2.39.25।। Ayodhya Kanda,39,26,विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम्। कृताञ्जलिरुवाचेदं श्वश्रूमभिमुखे स्थिताम्।।2.39.26।। Ayodhya Kanda,39,27,करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम्। अभिज्ञास्मि यथा भर्तुर्वर्तितव्यं श्रुतं च मे।।2.39.27।। Ayodhya Kanda,39,28,न मामसज्जनेनार्या समानयितुमर्हति। धर्माद्विचलितुं नाहमलं चन्द्रादिव प्रभा।।2.39.28।। Ayodhya Kanda,39,29,नातन्त्री वाद्यते वीणा नाचक्रो वर्तते रथः। नापतिस्सुखमेधेत या स्यादपि शतात्मजा।।2.39.29।। Ayodhya Kanda,39,30,मितं ददाति हि पिता मितं माता मितं सुतः। अमितस्य हि दातारं भर्तारं का न पूजयेत्।।2.39.30।। Ayodhya Kanda,39,31,साहमेवं गता श्रेष्ठा श्रुतधर्मपरावरा। आर्ये किमवमन्येऽहं स्त्रीणां भर्ता हि दैवतम्।।2.39.31।। Ayodhya Kanda,39,32,सीताया वचनं श्रुत्वा कौशल्या हृदयङ्गमम्। शुद्धसत्त्वा मुमोचाश्रु सहसा दुःखहर्षजम्।।2.39.32।। Ayodhya Kanda,39,33,तां प्राञ्जलिरभिक्रम्य मातृमध्येऽतिसत्कृताम्। रामः परमधर्मात्मा मातरं वाक्यमब्रवीत्।।2.39.33।। Ayodhya Kanda,39,34,अम्ब मा दुःखिता भूस्त्वं पश्य त्वं पितरं मम।। क्षयो हि वनवासस्य क्षिप्रमेव भविष्यति।।2.39.34।। Ayodhya Kanda,39,35,सुप्तायास्ते गमिष्यन्ति नव वर्षाणि पञ्च च। सा समग्रमिह प्राप्तं मां द्रक्ष्यसि सुहृद्वृतम्।।2.39.35।। Ayodhya Kanda,39,36,एतावदभिनीतार्थमुक्त्वा स जननीं वचः। त्रयश्शतशतार्धाश्च ददर्शा वेक्ष्य मातरः।।2.39.36।। Ayodhya Kanda,39,37,ता श्चापि स तथैवार्ता मातृ़र्दशरथात्मजः। धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलिः।।2.39.37।। Ayodhya Kanda,39,38,संवासात्परुषं किञ्चिदज्ञानाद्वापि यत्कृतम्। तन्मे समनुजानीत सर्वाश्चामन्त्रयामि वः।।2.39.38।। Ayodhya Kanda,39,39,वचनं राघवस्यैतध्दर्मयुक्तं समाहितम्। शुश्रुवुस्ताः स्त्रियंस्सर्वा श्शोकोपहतचेतसः।।2.39.39।। Ayodhya Kanda,39,40,जज्ञेऽथ तासां सन्नादः क्रौञ्चीनामिव निस्वनः। मानवेन्द्रस्य भार्याणामेवं वदति राघवे।।2.39.40।। Ayodhya Kanda,39,41,मुरजपणवमेघघोषवत् दशरथवेश्म बभूव यत्पुरा। विलपितपरिदेवनाकुलं व्यसनगतं तदभूत्सुदुःखितम्।।2.39.41।। Ayodhya Kanda,40,1,अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः। उपसङ्गृह्य राजानं चक्रुर्दीना: प्रदक्षिणम्।।2.40.1।। Ayodhya Kanda,40,2,तं चापि समनुज्ञाप्य धर्मज्ञस्सीतया सह। राघव श्शोकसम्मूढो जननीमभ्यवादयत्।।2.40.2।। Ayodhya Kanda,40,3,अअन्वक्षं लक्ष्मणो भ्रातुः कौशल्यामभ्यवादयत्। अथ मातु स्सुमित्राया जग्राह चरणौ पुनः।।2.40.3।। Ayodhya Kanda,40,4,तं वन्दमानं रुदती माता सौमित्रिमब्रवीत्। हितकामा महाबाहुं मूध्नर्युपाघ्राय लक्ष्मणम्।।2.40.4।। Ayodhya Kanda,40,5,सृष्टस्त्वं वनवासाय स्वनुरक्तस्सुहृज्जने। रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति।।2.40.5।। Ayodhya Kanda,40,6,व्यसनी वा समृद्धो वा गतिरेष तवानघ। एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत्।।2.40.6।। Ayodhya Kanda,40,7,इदं हि वृत्तमुचितं कुलस्यास्य सनातनम्। दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु च।।2.40.7।। Ayodhya Kanda,40,8,लक्ष्मणं त्वेवमुक्त्वा सा संसिद्धं प्रियराघवम्। सुमित्रा गच्छ गच्छेति पुनः पुनरुवाच तम्।।2.40.8।। Ayodhya Kanda,40,9,रामं दशरथं विद्धि मां विद्धि जनकात्मजाम्। अयोध्यामटवीं विध्दि गच्छ तात यथासुखम्।।2.40.9।। Ayodhya Kanda,40,10,ततः सुमन्त्रः काकुत्स्थं प्राञ्जलिर्वाक्यमब्रवीत्। विनीतो विनयज्ञश्च मातलिर्वासवं यथा।।2.40.10।। Ayodhya Kanda,40,11,ररथमारोह भद्रं ते राजपुत्र महायशः। क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसि।।2.40.11।। Ayodhya Kanda,40,12,चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया। तान्युपक्रमितव्यानि यानि देव्यासि चोदितः।।2.40.12।। Ayodhya Kanda,40,13,तं रथं सूर्यसङ्काशं सीता हृष्टेन चेतसा। आरुरोह वरारोहा कृत्वालङ्कारमात्मनः।।2.40.13।। Ayodhya Kanda,40,14,अथो ज्वलनसङ्काशं चामीकरविभूषितम्। तमारुरुहतुस्तूर्णं भ्रातरौ रामलक्ष्मणौ।।2.40.14।। Ayodhya Kanda,40,15,वनवासं हि संख्याय वासांस्याभरणानि च। भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ।।2.40.15।। Ayodhya Kanda,40,16,तथैवायुधजालानि भ्रातृभ्यां कवचानि च। रथोपस्थे प्रतिन्यस्य सचर्म कठिनं च तत्।।2.40.16।। Ayodhya Kanda,40,17,सीतातृतीयानारूढान् दृष्ट्वा दृष्टमचोदयत्। सुमन्त्रस्सम्मतानश्वान् वायुवेगसमान्जवे।।2.40.17।। Ayodhya Kanda,40,18,प्रतियाते महारण्यं चिररात्राय राघवे। बभूव नगरे मूर्छा बलमूर्छा जनस्य च।।2.40.18।। Ayodhya Kanda,40,19,तत्समाकुलसम्भ्रान्तं मत्तसङ्कुपितद्विपम्। हयशिञ्जितनिर्घोषं पुरमासीन्महास्वनम्।।2.40.19।। Ayodhya Kanda,40,20,तत स्सबालवृद्धा सा पुरी परमपीडिता। राममेवाभिदुद्राव घर्मार्ता सलिलं यथा।।2.40.20।। Ayodhya Kanda,40,21,पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाः। बाष्पपूर्णमुखास्सर्वे तमूचुर्भृशनिस्वनाः।।2.40.21।। Ayodhya Kanda,40,22,संयच्छ वाजिनां रश्मीन् सूत याहि शनैश्शनैः। मुखं द्रक्ष्याम रामस्य दुर्दर्शं नो भविष्यति।।2.40.22।। Ayodhya Kanda,40,23,आयसं हृदयं नूनं राममातुरसंशयम्। यद्देवगर्भप्रतिमे वनं याति न भिद्यते।।2.40.23।। Ayodhya Kanda,40,24,कृतकृत्या हि वैदेही छायेवानुगता पतिम्। न जहाति रता धर्मे मेरुमर्कप्रभा यथा।।2.40.24।। Ayodhya Kanda,40,25,अहो लक्ष्मण सिद्धार्थ स्सततं प्रियवादिनम्। भ्रातरं देवसङ्काशं यस्त्वं परिचरिष्यसि।।2.40.25।। Ayodhya Kanda,40,26,महत्येषा हि ते सिध्दिरेष चाभ्युदयो महान्। एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि।।2.40.26।। Ayodhya Kanda,40,27,एवं वदन्तस्ते सोढुं न शेकुर्बाष्पमागतम्। नरास्तमनुगच्छन्तः प्रियमिक्ष्वाकुनन्दनम्।।2.40.27।। Ayodhya Kanda,40,28,अथ राजा वृत स्त्रीभिर्दीनाभिर्दीनचेतनः। निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन् गृहात्।।2.40.28।। Ayodhya Kanda,40,29,शुश्रुवे चाग्रतः स्त्रीणां रुदन्तीनां महास्वनः। यथा नादः करेणूनां बद्धे महति कुञ्जरे।।2.40.29।। Ayodhya Kanda,40,30,पिता हि राजा काकुत्स्थः श्रीमान् सन्नस्तदाऽभवत्। परिपूर्णः शशी काले ग्रहेणोपप्लुतो यथा।।2.40.30।। Ayodhya Kanda,40,31,स च श्रीमानचिन्त्यात्मा रामो दशरथात्मजः। सूतं सञ्चोदयामास त्वरितं वाह्यतामिति।।2.40.31।। Ayodhya Kanda,40,32,रामो याहीति सूतं तं तिष्ठेति स जनस्तदा। उभयं नाशकत्सूतः कर्तुमध्वनि चोदितः।।2.40.32।। Ayodhya Kanda,40,33,निर्गच्छति महाबाहौ रामे पौरजनाश्रुभिः। पतितैरभ्यवहितं प्रशशाम महीरजः।।2.40.33।। Ayodhya Kanda,40,34,रुदिताश्रुपरिद्यूनं हाहाकृतमचेतनम्। प्रयाणे राघवस्यासीत्पुरं परमपीडितम्।।2.40.34।। Ayodhya Kanda,40,35,सुस्राव नयनैः स्त्रीणामस्रमायाससम्भवम्। मीनसङ्क्षोभचलितै स्सलिलं पङ्कजैरिव।।2.40.35।। Ayodhya Kanda,40,36,दृष्ट्वा तु नृपति श्श्रीमानेकचित्तगतं पुरम्। निपपातैव दुःखेन हतमूल इव द्रुमः।।2.40.36।। Ayodhya Kanda,40,37,ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः। नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम्।।2.40.37।। Ayodhya Kanda,40,38,हा रामेति जनाः केचिद्राममातेति चापरे। अन्तःपुरं समृद्धं च क्रोशन्तः पर्यदेवयन्।।2.40.38।। Ayodhya Kanda,40,39,अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसम्। राजानं मातरं चैव ददर्शानुगतौ पथि।।2.40.39।। Ayodhya Kanda,40,40,स बद्ध इव पाशेन किशोरो मातरं यथा। धर्मपाशेन सङ्क्षिप्तः प्रकाशं नाभ्युदैक्षत।।2.40.40।। Ayodhya Kanda,40,41,पदातिनौ च यानार्हावदुःखार्हौ सुखोचितौ। दृष्ट्वा सञ्चोदयामास शीघ्रं याहीति सारथिम्।।2.40.41।। Ayodhya Kanda,40,42,न हि तत्पुरुषव्याघ्रो दुःखदं दर्शनं पितुः। मातुश्च सहितुं शक्तस्तोत्रार्दित इव द्विपः।।2.40.42।। Ayodhya Kanda,40,43,प्रत्यगारमिवायान्ती वत्सला वत्सकारणात्। बद्धवत्सा यथा धेनू राममाताभ्यधावत।।2.40.43।। Ayodhya Kanda,40,44,तथा रुदन्तीं कौसल्यां रथं तमनुधावतीम्। क्रोशन्तीं राम रामेति हा सीते लक्ष्मणेति च।।2.40.44।। Ayodhya Kanda,40,45,रामलक्ष्मणसीतार्थं स्रवन्तीं वारि नेत्रजम्। असकृत्प्रैक्षत तदा नृत्यन्तीमिव मातरम्।।2.40.45।। Ayodhya Kanda,40,46,तिष्ठेति राजा चुक्रोश याहि याहीति राघवः। सुमन्त्रस्य बभूवात्मा चक्रयोरिव चान्तरा।।2.40.46।। Ayodhya Kanda,40,47,नाश्रौषमिति राजानमुपालब्धोऽपि वक्ष्यसि। चिरं दुःखस्य पापिष्ठमिति रामस्तमब्रवीत्।।2.40.47।। Ayodhya Kanda,40,48,रामस्य स वचः कुर्वन्ननुज्ञाप्य च तं जनम्। व्रजतोऽपि हयान् शीघ्रं चोदयामास सारथिः।।2.40.48।। Ayodhya Kanda,40,49,न्यवर्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम्। मनसाप्यश्रुवेगैश्च न न्यवर्तत मानुषम्।।2.40.49।। Ayodhya Kanda,40,50,यमिच्छेत्पुनरायान्तं नैनं दूरमनुव्रजेत्। इत्यमात्या महाराजमूचुर्दशरथं वचः।।2.40.50।। Ayodhya Kanda,40,51,तेषां वचः सर्वगुणोपपन्नं प्रस्विन्नगात्रः प्रविषण्णरूपः। निशम्य राजा कृपणः सभार्यो व्यवस्थितस्तं सुतमीक्षमाणः।।2.40.51।। Ayodhya Kanda,41,1,तस्मिन्स्तु पुरुषव्याघ्रे विनिर्याति कृताञ्जलौ। आर्तशब्दोऽहि सञ्जज्ञे स्त्रीणामन्त:पुरे महान्।।2.41.1।। Ayodhya Kanda,41,2,अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः। यो गतिश्शरणं चासीत्स नाथः क्व नु गच्छति।।2.41.2।। Ayodhya Kanda,41,3,न क्रुध्यत्यभिशप्तोऽपि क्रोधनीयानि वर्जयन्। क्रुद्धान्प्रसादयन्सर्वान् समदुःखः क्व गज्छति।।2.41.3।। Ayodhya Kanda,41,4,कौशल्यायां महातेजा यथा मातरि वर्तते। तथा यो वर्ततेऽस्मासु महात्मा क्व नु गच्छति।।2.41.4।। Ayodhya Kanda,41,5,कैकेय्या क्लिश्यमानेन राज्ञा सञ्चोदितो वनम्। परित्राता जनस्यास्य जगतः क्व नु गच्छति।।2.41.5।। Ayodhya Kanda,41,6,अहो निश्चेतनो राजा जीवलोकस्य सम्प्रियम्। धर्म्यं सत्यव्रतं रामं वनवासे प्रवत्स्यति।।2.41.6।। Ayodhya Kanda,41,7,इति सर्वा महिष्यस्ता विवत्सा इव धेनवः। रुरुदुश्चैव दुःखार्ताः सस्वरं च विचुक्रुशुः।।2.41.7।। Ayodhya Kanda,41,8,स तमन्तः पुरे घोरमार्तशब्दं महीपतिः। पुत्रशोकाभिसन्तप्तः श्रुत्वा चासीत्सुदुःखितः।।2.41.8।। Ayodhya Kanda,41,9,नाग्निहोत्राण्यहूयन्त नापचन् गृहमेधिनः अकुर्वन्न प्रजाः कार्यं सूर्यश्चान्तरधीयत।।2.41.9।। Ayodhya Kanda,41,10,व्यसृजन् कबलान्नागा गावो वत्सान्न पाययन्। पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत।।2.41.10।। Ayodhya Kanda,41,11,त्रिशङ्कुर्लोहिताङ्गश्च बृहस्पतिबुधावपि। दारुणा स्सोममभ्येत्य ग्रहास्सर्वे व्यवस्थिताः।।2.41.11।। Ayodhya Kanda,41,12,नक्षत्राणि गतार्चींषि ग्रहाश्च गततेजसः। विशाखास्तु सधूमाश्च नभसि प्रचकाशिरे।।2.41.12।। Ayodhya Kanda,41,13,कालिकानिलवेगेन महोदधिरिवोत्थितः। रामे वनं प्रव्रजिते नगरं प्रचचाल तत्।।2.41.13।। Ayodhya Kanda,41,14,दिशः पर्याकुलास्सर्वा स्तिमिरेणेव संवृताः। न ग्रहो नापि नक्षत्रं प्रचकाशे नकिञ्चन।।2.41.14।। Ayodhya Kanda,41,15,अकस्मान्नागरस्सर्वो जनो दैन्यमुपागमत्। आहारे वा विहारे वा न कश्चिदकरोन्मनः।।2.41.15।। Ayodhya Kanda,41,16,शोकपर्यायसन्तप्त स्सततं दीर्घमुच्छवसन्। अयोध्यायां जनस्सर्व श्शुशोच जगतीपतिम्।।2.41.16।। Ayodhya Kanda,41,17,बाष्पपर्याकुलमुखो राजमार्गगतो जनः। न हृष्टो लक्ष्यते कश्चित्सर्व श्शोकपरायणः।।2.41.17।। Ayodhya Kanda,41,18,न वाति पवन श्शीतो न शशी सौम्यदर्शनः। न सूर्यस्तपते लोकं सर्वं पर्याकुलं जगत्।।2.41.18।। Ayodhya Kanda,41,19,अनर्थिनस्सुताः स्त्रीणां भर्तारो भ्रातरस्तथा। सर्वे सर्वं परित्यज्य राममेवान्वचिन्तयन्।।2.41.19।। Ayodhya Kanda,41,20,ये तु रामस्य सुहृद स्सर्वे ते मूढचेतसः। शोकभारेण चाक्रान्ता श्शयनं न जहुस्तदा।।2.41.20।। Ayodhya Kanda,41,21,ततस्त्वयोध्या रहिता महात्मना पुरन्दरेणेव मही सपर्वता। चचाल घोरं भयशोकपीडिता सनागयोधाश्वगणा ननाद च।।2.41.21।। Ayodhya Kanda,42,1,यावत्तु निर्यतस्तस्य रजोरूपमदृश्यत। नैवेक्ष्वाकुवरस्तावत्सञ्जहारात्मचक्षुषी।।2.42.1।। Ayodhya Kanda,42,2,यावद्राजा प्रियं पुत्रं पश्यत्यत्यन्तधार्मिकम्। तावद्व्यवर्धते वास्य धरण्यां पुत्रदर्शने।।2.42.2।। Ayodhya Kanda,42,3,न पश्यति रजोऽप्यस्य यदा रामस्य भूमिपः। तदाऽऽर्तश्च विषण्णश्च पपात धरणीतले।।2.42.3।। Ayodhya Kanda,42,4,तस्य दक्षिणमन्वागात्कौसल्या बाहुमङ्गना। वामं चास्यान्वगात्पार्श्वं कैकेयी भरतप्रिया।।2.42.4।। Ayodhya Kanda,42,5,तां नयेन च सम्पन्नो धर्मेण विनयेन च। उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः।।2.42.5।। Ayodhya Kanda,42,6,कैकेयि मा ममाङ्गानि स्प्राक्षीस्त्वं दुष्टचारिणी। न हि त्वां द्रष्टुमिच्छामि न भार्या न च बान्धवी।।2.42.6।। Ayodhya Kanda,42,7,ये च त्वामनुजीवन्ति नाहं तेषां न ते मम। केवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्यहम्।।2.42.7।। Ayodhya Kanda,42,8,अगृह्णां यच्च ते पाणिमग्निं पर्यणयं च यत्। अनुजानामि तत्सर्वमस्मिन् लोके परत्र च।।2.42.8।। Ayodhya Kanda,42,9,भरतश्चेत्प्रतीतः स्याद्राज्यं प्राप्येदमव्ययम्। यन्मे स दद्यात्पित्रर्थं मामां तद्दत्तमागमत्।।2.42.9।। Ayodhya Kanda,42,10,अथ रेणुसमुध्वस्तं समुत्थाप्य नराधिपम्। न्यवर्तत तदा देवी कौशल्या शोककर्शिता।।2.42.10।। Ayodhya Kanda,42,11,हत्वेव ब्राह्मणं कामात् स्पृष्ट्वाग्निमिव पाणिना। अन्वतप्यत धर्मात्मा पुत्रं सञ्चिन्त्य तापसम् ।।2.42.11।। Ayodhya Kanda,42,12,निवृत्त्यैव निवृत्त्यैव सीदतो रथवर्त्मसु। राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा।।2.42.12।। Ayodhya Kanda,42,13,विललाप च दुःखार्तः प्रियं पुत्रमनुस्मरन्। नगरान्तमनुप्राप्तं बुध्वा पुत्रमथाब्रवीत्।।2.42.13।। Ayodhya Kanda,42,14,वाहननां च मुख्यानां वहतां तं ममात्मजम्। पदानि पथि दृश्यन्ते स महात्मा न दृश्यते।।2.42.14।। Ayodhya Kanda,42,15,यः सुखेषूपधानेषु शेते चन्दनरूषितः। वीज्यमानो महार्हाभिः स्त्रीभिर्मम सुतोत्तमः।।2.42.15।। Ayodhya Kanda,42,16,स नूनं क्वचिदेवाद्य वृक्षमूलमुपाश्रितः। काष्ठं वा यदि वाश्मानमुपधाय शयिष्यते।।2.42.16।। Ayodhya Kanda,42,17,उत्थास्यति च मेदिन्याः कृपणः पांसुकुण्ठितः। विनिश्श्वसन् प्रस्रवणात्करेणूनामिवर्षभः।।2.42.17।। Ayodhya Kanda,42,18,द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः। राममुत्थाय गच्छन्तं लोकनाथमनाथवत्।।2.42.18।। Ayodhya Kanda,42,19,सा नूनं जनकस्येष्टा सुता सुखसदोचिता। कण्टकाक्रमणाक्लान्ता वनमद्य गमिष्यति।।2.42.19।। Ayodhya Kanda,42,20,अनभिज्ञा वनानां सा नूनं भयमुपैष्यति। श्वापदानर्दितं श्रुत्वा गम्भीरं रोमहर्षणम्।।2.42.20।। Ayodhya Kanda,42,21,सकामा भव कैकेयि विधवा राज्यमावस। न हि तं पुरुषव्याघ्रं विना जीवितुमुत्सहे।।2.42.21।। Ayodhya Kanda,42,22,इत्येवं विलपन् राजा जनौघेनाभिसंवृतः। अपस्नात इवारिष्टं प्रविवेश पुरोत्तमम्।।2.42.22।। Ayodhya Kanda,42,23,शून्यचत्वरवेश्मान्तां संवृतापणदेवताम्। क्लान्तदुर्बलदुःखार्तां नात्याकीर्णमहापथाम्।।2.42.23।। Ayodhya Kanda,42,24,तामवेक्ष्य पुरीं सर्वां राममेवानुचिन्तयन्। विलपन् प्राविशद्राजा गृहं सूर्य इवाम्बुदम्।।2.42.24।। Ayodhya Kanda,42,25,महाह्रदमिवाक्षोभ्यं सुपर्णेन हृतोरगम्। रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च।।2.42.25।। Ayodhya Kanda,42,26,अथ गद्गदशब्दस्तु विलपन्मनुजाधिपः। उवाच मृदुमन्दार्थं वचनं दीनमस्वरम्।।2.42.26।। Ayodhya Kanda,42,27,कौशल्यायां गृहं शीघ्रं राममातुर्नयन्तु माम्। न ह्यन्यत्र ममाश्वासो हृदयस्य भविष्यति।।2.42.27।। Ayodhya Kanda,42,28,इति ब्रुवन्तं राजानमनयन् द्वारदर्शिनः। कौशल्याया गृहं तत्र न्यवेश्यत विनीतवत्।।2.42.28।। Ayodhya Kanda,42,29,ततस्तस्य प्रविष्टस्य कौशल्याया निवेशनम्। अधिरुह्यापि शयनं बभूव लुलितं मनः।।2.42.29।। Ayodhya Kanda,42,30,पुत्रद्वयविहीनं च स्नुषयापि विवर्जितम्। अपश्यद्भवनं राजा नष्टचन्द्रमिवाम्बरम्।।2.42.30।। Ayodhya Kanda,42,31,तच्च दृष्ट्वा महाराजो भुजमुद्यम्य वीर्यवान्। उच्चैस्स्वरेण चुक्रोश हा राघव जहासि माम्।।2.42.31।। Ayodhya Kanda,42,32,सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः। परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनरागतम्।।2.42.32।। Ayodhya Kanda,42,33,अथ रात्र्यां प्रपन्नायां कालरात्र्यामिवात्मनः। अर्धरात्रे दशरथः कौशल्यामिदमब्रवीत्।।2.42.33।। Ayodhya Kanda,42,34,रामं मेऽनुगता दृष्टिरद्यापि न निवर्तते। न त्वा पश्यामि कौसल्ये साधु मां पाणिना स्पृश।।2.42.34।। Ayodhya Kanda,42,35,तं राममेवानुविचिन्तयन्तं समीक्ष्य देवी शयने नरेन्द्रम्। उपोपविश्याधिकमार्तरूपा विनिश्वसन्ती विललाप कृच्छ्रम्।।2.42.35।। Ayodhya Kanda,43,1,ततः समीक्ष्य शयने सन्नं शोकेन पार्थिवम्। कौशल्या पुत्रशोकार्ता तमुवाच महीपतिम्।।2.43.1।। Ayodhya Kanda,43,2,राघवे नरशार्दूले विषमुप्त्वाहिजिह्मगा। विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी।।2.43.2।। Ayodhya Kanda,43,3,विवास्य रामं सुभगा लब्धकामा समाहिता। त्रासयिष्यति मां भूयो दुष्टाहिरिव वेश्मनि।।2.43.3।। Ayodhya Kanda,43,4,अथ स्म नगरे रामश्चरन् भैक्षं गृहे वसेत्। कामकारो वरं दातुमपि दासं ममात्मजम्।।2.43.4।। Ayodhya Kanda,43,5,पातयित्वा तु कैकेय्या रामं स्थानाद्यथेष्टतः। प्रदिष्टो रक्षसां भागः पर्वणीवाहिताग्निना।।2.43.5।। Ayodhya Kanda,43,6,गजराजगतिर्वीरो महाबाहुर्धनुर्धरः। वनमाविशते नूनं सभार्य स्सह लक्ष्मणः।।2.43.6।। Ayodhya Kanda,43,7,वने त्वदृष्टदुःखानां केकय्यानुमते त्वया। त्यक्तानां वनवासाय कान्ववस्था भविष्यति।।2.43.7।। Ayodhya Kanda,43,8,ते रत्नहीनास्तरुणाः फलकाले विवासिताः। कथं वत्स्यन्ति कृपणाः फलमूलैः कृताशनाः।।2.43.8।। Ayodhya Kanda,43,9,अपीदानीं स कालस्स्यान्मम शोकक्षय श्शिवः। सभार्यं यत्सह भ्रात्रा पश्येयमिह राघवम्।।2.43.9।। Ayodhya Kanda,43,10,श्रृत्वैवोपस्थितौ वीरौ कदायोध्या भविष्यति। यशस्विनी हृष्टजना सूच्छ्रितध्वजमालिनी।।2.43.10।। Ayodhya Kanda,43,11,कदा प्रेक्ष्य नरव्याघ्रावरण्यात्पुनरागतौ। नन्दिष्यति पुरी हृष्टा समुद्र इव पर्वणि।।2.43.11।। Ayodhya Kanda,43,12,कदाऽयोध्यां महाबाहुः पुरीं वीरः प्रवेक्ष्यति। पुरस्कृत्य रथे सीतां वृषभो गोवधूमिव।।2.43.12।। Ayodhya Kanda,43,13,कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ। लाजैरवकिरिष्यन्ति प्रविशन्तावरिन्दमौ।।2.43.13।। Ayodhya Kanda,43,14,प्रविशन्तौ कदाऽयोध्यां द्रक्ष्यामि शुभकुण्डलौ। उदग्रायुधनिस्त्रिंशौ सश्रृङ्गाविव पर्वतौ।।2.43.14।। Ayodhya Kanda,43,15,कदासुमनसः कन्याद्विजातीनां फलानि च। प्रदिशन्तः पुरीं हृष्टाः करिष्यन्ति प्रदक्षिणम्।।2.43.15।। Ayodhya Kanda,43,16,कदा परिणतो बुद्ध्या वयसा चामरप्रभः। अभ्युपैष्यति धर्मज्ञस्त्रिवर्ष इव मां ललन्।।2.43.16।। Ayodhya Kanda,43,17,निस्संशयं मया मन्ये पुरा वीर कदर्यया। पातुकामेषु वत्सेषु मातृ़णां शातितास्स्तनाः।।2.43.17।। Ayodhya Kanda,43,18,साहं गौरिव सिंहेन विवत्सा वत्सला कृता। कैकेय्या पुरुषव्याघ्र बालवत्सेव गौर्बलात्।।2.43.18।। Ayodhya Kanda,43,19,न हि तावद्गुणैर्जुष्टं सर्वशास्त्रविशारदम्। एकपुत्रा विना पुत्रमहं जीवितुमुत्सहे।।2.43.19।। Ayodhya Kanda,43,20,न हि मे जीविते किञ्चित्सामर्थ्यमिह कल्प्यते। अपश्यन्त्याः प्रियं पुत्रं महाबाहुं महाबलम्।।2.43.20।। Ayodhya Kanda,43,21,अयं हि मां दीपयते समुत्थितः तनूजशोकप्रभवो हुताशनः। महीमिमां रश्मिभिरुद्धतप्रभः यथा निदाघे भगवान् दिवाकरः।।2.43.21।। Ayodhya Kanda,44,1,विलपन्ती तथा तां तु कौसल्यां प्रमदोत्तमाम्। इदं धर्मे स्थिता धर्म्यं सुमित्रा वाक्यमब्रवीत्।।2.44.1।। Ayodhya Kanda,44,2,तवार्ये सद्गुणैर्युक्तः पुत्र स्स पुरुषोत्तमः। किं ते विलपितेनैवं कृपणं रुदितेन वा।।2.44.2।। Ayodhya Kanda,44,3,यस्तवार्ये गतः पुत्रस्त्यक्त्वा राज्यं महाबलः। साधु कुर्वन् महात्मानं पितरं सत्यवादिनम्।।2.44.3।। Ayodhya Kanda,44,4,शिष्टैराचरिते सम्यक्छश्वत्प्रेत्यफलोदये। रामो धर्मे स्थित श्रेष्ठो न स शोच्यः कदाचन।।2.44.4।। Ayodhya Kanda,44,5,वर्तते चोत्तमां वृत्तिं लक्ष्मणोऽस्मिन् सदानघः। दयावान् सर्वभूतेषु लाभस्तस्य महात्मनः।।2.44.5।। Ayodhya Kanda,44,6,अरण्यवासे यद्दुःखं जानती वै सुखोचिता। अनुगच्छति वैदेही धर्मात्मानं तवात्मजम्।।2.44.6।। Ayodhya Kanda,44,7,कीर्तिभूतां पताकां यो लोके भ्रमयति प्रभुः। धर्मसत्यव्रतधनः किं न प्राप्तस्तवात्मजः।।2.44.7।। Ayodhya Kanda,44,8,व्यक्तं रामस्य विज्ञाय शौचं माहात्म्यमुत्तमम्। न गात्रमंशुभि स्सूर्य स्सन्तापयितुमर्हति।।2.44.8।। Ayodhya Kanda,44,9,शिवस्सर्वेषु कालेषु काननेभ्यो विनिस्सृतः। राघवं युक्तशीतोष्णस्सेविष्यति सुखोऽनिलः।।2.44.9।। Ayodhya Kanda,44,10,शयानमनघं रात्रौ पितेवाभिपरिष्वजन्। रश्मिभि स्संस्पृशन् शीतैश्चन्द्रमाह्लादयिष्यति।।2.44.10।। Ayodhya Kanda,44,11,ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौजसे। दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे।।2.44.11।। Ayodhya Kanda,44,12,स शूरः पुरुषव्याघ्रः स्वबाहुबलमाश्रितः। असन्त्रस्तोऽप्यरणस्थो वेश्मनीव निवत्स्यति।।2.44.12।। Ayodhya Kanda,44,13,यस्येषुपथमासाद्य विनाशं यान्ति शत्रवः। कथं न पृथिवी तस्य शासने स्थातुमर्हति।।2.44.13।। Ayodhya Kanda,44,14,या श्री श्शौर्यं च रामस्य या च कल्याणसत्वता। निवृत्तारण्यवास स्स क्षिप्रं राज्यमवाप्स्यति।।2.44.14।। Ayodhya Kanda,44,15,सूर्यस्यापि भवेत्सूर्यो ह्यग्नेरग्नि प्रभोः प्रभुः। श्रियः श्रीश्च भवेदग्र्या कीर्तिः कीर्त्याः क्षमाक्षमा।।2.44.15।। Ayodhya Kanda,44,16,दैवतं दैवतानां च भूतानां भूतसत्तमः। तस्य के ह्यगुणा देवि वने वाप्यथवा पुरे।।2.44.16।। Ayodhya Kanda,44,17,पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभः। क्षिप्रं तिसृभिरेताभि स्सह रामोऽभिषेक्ष्यते।।2.44.17।। Ayodhya Kanda,44,19,दुःखजं विसृजन्त्यस्रं निष्क्रामन्तमुदीक्ष्य यम्। अयोध्यायां जनास्सर्वे शोकवेगसमाहताः।2.44.18।। कुशचीरधरं देवं गच्छन्तमपराजितम्। सीतेवानुगता लक्ष्मी स्तस्य किं नाम दुर्लभम्।।2.44.19।। Ayodhya Kanda,44,20,धनुर्ग्रहवरो यस्य बाणखड्गास्त्रभृत्स्वयम्। लक्ष्मणो व्रजति ह्यग्रे तस्य किं नाम दुर्लभम्।।2.44.20।। Ayodhya Kanda,44,21,निवृत्तवनवासं तं द्रष्टासि पुनरागतम्। जहिशोकं च मोहं च देवि सत्यं ब्रवीमि ते।।2.44.21।। Ayodhya Kanda,44,22,शिरसा चरणावेतौ वन्दमानमनिन्दिते पुनर्द्रक्ष्यसि कल्याणि पुत्रं चन्द्रमिवोदितम्।।2.44.22।। Ayodhya Kanda,44,23,पुनः प्रविष्टं दृष्ट्वा तमभिषिक्तं महाश्रियम्। समुत्स्रक्ष्यसि नेत्राभ्यां क्षिप्रमानन्दजं पयः।।2.44.23।। Ayodhya Kanda,44,24,मा शोको देवि दुःखं वा न रामे दृश्यतेऽशिवम्। क्षिप्रं द्रक्ष्यसि पुत्रं त्वं ससीतं सहलक्ष्मणम्।।2.44.24।। Ayodhya Kanda,44,25,त्वया शेषो जनश्चैव समाश्वास्यो यदाऽनघे। किमिदानीमिदं देवि करोषि हृदि विक्लबम्।।2.44.25।। Ayodhya Kanda,44,26,नार्हा त्वं शोचितुं देवि यस्यास्ते राघवस्सुतः। न हि रामात्परो लोके विद्यते सत्पथे स्थितः।।2.44.26।। Ayodhya Kanda,44,27,अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम्। मुदाऽश्रृ मोक्ष्यसे क्षिप्रं मेघलेखेव वार्षिकी।।2.44.27।। Ayodhya Kanda,44,28,पुत्रस्ते वरदः क्षिप्रमयोध्यां पुनरागतः। पाणिभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति।।2.44.28।। Ayodhya Kanda,44,29,अभिवाद्य नमस्यन्तं शूरं ससुहृदं सुतम्। मुदाऽस्रैः प्रोक्ष्यसि पुनर्मेघराजिरिवाचलम्।।2.44.29।। Ayodhya Kanda,44,30,आश्वासयन्ती विविधैश्च वाक्यै र्वाक्योपचारे कुशलाऽनवद्या। रामस्य तां मातरमेवमुक्त्वा देवी सुमित्रा विरराम रामा।।2.44.30।। Ayodhya Kanda,44,31,निशम्य तल्लक्ष्मणमातृवाक्यं रामस्य मातुर्नरदेवपत्न्या:। सद्यश्शरीरे विननाश शोकः शरद्गतो मेघ इवाल्पतोयः।।2.44.31।। Ayodhya Kanda,45,1,अनुरक्ता महात्मानं रामं सत्यपराक्रमम्। अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः।।2.45.1।। Ayodhya Kanda,45,2,निवर्तितेऽपि च बलात्सुहृद्वर्गे च राजनि। नैव ते संन्यवर्तन्त रामस्यानुगता रथम्।।2.45.2।। Ayodhya Kanda,45,3,अयोध्यानिलयानां हि पुरुषाणां महायशाः। बभूव गुणसम्पन्नः पूर्णचन्द्र इव प्रियः।।2.45.3।। Ayodhya Kanda,45,4,स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस्तदा। कुर्वाणः पितरं सत्यं वनमेवान्वपद्यत।।2.45.4।। Ayodhya Kanda,45,5,अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निव। उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजा इव।।2.45.5।। Ayodhya Kanda,45,6,या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम्। मत्प्रियार्थं विशेषेण भरते सा निवेश्यताम्।।2.45.6।। Ayodhya Kanda,45,7,स हि कल्याणचारित्रः कैकेय्यानन्दवर्धनः। करिष्यति यथावद्वः प्रियाणि च हितानि च।।2.45.7।। Ayodhya Kanda,45,8,ज्ञानवृद्धो वयोबालो मृदुर्वीर्यगुणान्वितः। अनुरूपः स वो भर्ता भविष्यति भयापहः।।2.45.8।। Ayodhya Kanda,45,9,स हि राजगुणैर्युक्तो युवराजः समीक्षितः। अपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम्।।2.45.9।। Ayodhya Kanda,45,10,न च सन्तप्येद्यथा चासौ वनवासं गते मयि। महाराजस्तथा कार्यो मम प्रियचिकीर्षया।।2.45.10।। Ayodhya Kanda,45,11,यथा यथा दाशरथि र्धर्म एवास्थितोऽभवत्। तथा तथा प्रकृतयो रामं पतिमकामयन्।।2.45.11।। Ayodhya Kanda,45,12,बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह। चकर्षेव गुणैर्बद्ध्वा जनं पुरनिवासिनम्।।2.45.12।। Ayodhya Kanda,45,13,ते द्विजास्त्रिविधं वृद्धा ज्ञानेन वयसौजसा। वयः प्रकम्पशिरसो दूरादूचुरिदं वचः।।2.45.13।। Ayodhya Kanda,45,14,वहन्तो जवना रामं भो भो जात्यास्तुरङ्गमाः। निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि।।2.45.14।। Ayodhya Kanda,45,15,कर्णवन्ति हि भूतानि विशेषेण तुरङ्गमाः। यूयं तस्मान्निवर्तध्वं याचनां प्रतिवेदिताः।।2.45.15।। Ayodhya Kanda,45,16,धर्मतः स विशुद्धात्मा वीरः शुभदृढव्रतः। उपवाह्यस्तु वो भर्ता नापवाह्यः पुराद्वनम्।।2.45.16।। Ayodhya Kanda,45,17,एवमार्तप्रलापांस्तान् वृद्धान् प्रलपतो द्विजान्। अवेक्ष्य सहसा रामो रथादवततार ह।।2.45.17।। Ayodhya Kanda,45,18,पद्भ्यामेव जगामाथ ससीत स्सहलक्ष्मणः। सन्निकृष्टपदन्यासो रामो वनपरायणः।।2.45.18।। Ayodhya Kanda,45,19,द्विजातींस्तु पदातींस्तान् रामश्चारित्रवत्सलः। न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः।।2.45.19।। Ayodhya Kanda,45,20,गच्छन्तमेव तं दृष्ट्वा रामं सम्भ्रान्तचेतसः। ऊचुः परमसन्तप्ता रामं वाक्यमिदं द्विजाः।।2.45.20।। Ayodhya Kanda,45,21,ब्राह्मण्यं सर्वमेतत्त्वां ब्रह्मण्यमनुगच्छति। द्विजस्कन्धाधिरूढास्त्वामग्नयोऽप्यनुयान्त्यमी।।2.45.21।। Ayodhya Kanda,45,22,वाजपेयसमुत्थानि छत्राण्येतानि पश्य नः। पृष्ठतोऽनुप्रयातानि मेघानिव जलात्यये।।2.45.22।। Ayodhya Kanda,45,23,अनवाप्तातपत्रस्य रश्मिसन्तापितस्य ते। एभिश्छायां करिष्यामः स्वैश्छत्रैर्वाजपेयिकैः।।2.45.23।। Ayodhya Kanda,45,24,या हि नः सततं बुद्धिर्वेदमन्त्रानुसारिणी। त्वत्कृते सा कृता वत्स वनवासानुसारिणी।।2.45.24।। Ayodhya Kanda,45,25,हृदयेष्वेव तिष्ठन्ति वेदा ये नः परं धनम्। वत्स्यन्त्यपि गृहेष्वेव दाराश्चारित्ररक्षिताः।।2.45.25।। Ayodhya Kanda,45,26,न पुनर्निश्चयः कार्यस्त्वद्गतौ सुकृता मतिः। त्वयि धर्मव्यपेक्षे तु किं स्याद्धर्मपथे स्थितम्।।2.45.26।। Ayodhya Kanda,45,27,याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः। शिरोभिर्निभृताचार महीपतनपांसुलैः।।2.45.27।। Ayodhya Kanda,45,28,बहूनां वितता यज्ञा द्विजानां य इहागताः। तेषां समाप्तिरायत्ता तव वत्स निवर्तने।।2.45.28।। Ayodhya Kanda,45,29,भक्तिमन्ति हि भूतानि जङ्गमाजङ्गमानि च। याचमानेषु राम त्वं भक्तिं भक्तेषु दर्शय।।2.45.29।। Ayodhya Kanda,45,30,अनुगन्तुमशक्ता स्त्वां मूलैरुद्धतवेगिनः। उन्नता वायुवेगेन विक्रोशन्तीव पादपाः।।2.45.30।। Ayodhya Kanda,45,31,निश्चेष्टाहारसञ्चारा वृक्षैकस्थानविष्ठिताः। पक्षिणोऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम्।।2.45.31।। Ayodhya Kanda,45,32,एवं विक्रोशतां तेषां द्विजातीनां निवर्तने। ददृशे तमसा तत्र वारयन्तीव राघवम्।।2.45.32।। Ayodhya Kanda,45,33,ततः सुमन्त्रोऽपि रथाद्विमुच्य श्रान्तान्हयान्सम्परिवर्त्य शीघ्रम्। पीतोदकांस्तोयपरिप्लुताङ्गा नचारयद्वै तमसाविदूरे।।2.45.33।। Ayodhya Kanda,46,1,ततस्तु तमसातीरं रम्यमाश्रित्य राघवः। सीतामुद्वीक्ष्य सौमित्रिमिदं वचनमब्रवीत्।।2.46.1।। Ayodhya Kanda,46,2,इयमद्य निशा पूर्वा सौमित्रे प्रहिता वनम्। वनवासस्य भद्रं ते स नोत्कण्ठितुमर्हसि।।2.46.2।। Ayodhya Kanda,46,3,पश्य शून्यान्यरण्यानि रुदन्तीव समन्ततः। यथानिलयमायद्भिर्निलीनानि मृगद्विजैः।।2.46.3।। Ayodhya Kanda,46,4,अद्यायोध्या तु नगरी राजधानी पितुर्मम। सस्त्रीपुंसा गतानस्माञ्शोचिष्यति न संशयः।।2.46.4।। Ayodhya Kanda,46,5,अनुरक्ता हि मनुजा राजानं बहुभिर्गुणैः। त्वां च मां च नरव्याघ्र शत्रुघ्न भरतौ तथा।।2.46.5।। Ayodhya Kanda,46,6,पितरं चानुशोचामि मातरं च यशस्विनीम्। अपि वान्धौ भवेतां तु रुदन्तौ तावभीक्ष्णशः।।2.46.6।। Ayodhya Kanda,46,7,भरतः खलु धर्मात्मा पितरं मातरं च मे। धर्मार्थकामसहितैर्वाक्यैर्वाश्वासयिष्यति।।2.46.7।। Ayodhya Kanda,46,8,भरतस्यानृशंसत्वं विचिन्त्याहं पुनः पुनः। नानुशोचामि पितरं मातरं चापि लक्ष्मण।।2.46.8।। Ayodhya Kanda,46,9,त्वया कार्यं नरव्याघ्र मामनुव्रजता कृतम्। अन्वेष्टव्या हि वैदेह्या रक्षणार्थे सहायता।।2.46.9।। Ayodhya Kanda,46,10,अद्भिरेव तु सौमित्रे वत्स्याम्यद्य निशामिमाम्। एतध्दि रोचते मह्यं वन्येऽपि विविधे सति।।2.46.10।। Ayodhya Kanda,46,11,एवमुक्त्वा तु सौमित्रिं सुमन्त्रमपि राघवः। अप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाच ह।।2.46.11।। Ayodhya Kanda,46,12,सोऽश्वान्सुमन्त्रः संयम्य सूर्येऽस्तं समुपागते। प्रभूतयवसान् कृत्वा बभूव प्रत्यनन्तरः।।2.46.12।। Ayodhya Kanda,46,13,उपास्य तु शिवां सन्ध्यां दृष्ट्वा रात्रिमुपस्थिताम्। रामस्य शयनं चक्रे सूतः सौमित्रिणा सह।।2.46.13।। Ayodhya Kanda,46,14,तां शय्यां तमसातीरे वीक्ष्य वृक्षदलैः कृताम्। रामः सौमित्रिणा सार्धं सभार्यस्संविवेश ह।।2.46.14।। Ayodhya Kanda,46,15,सभार्यं सम्प्रसुप्तं तं भ्रातरं वीक्ष्य लक्ष्मणः। कथयामास सूताय रामस्य विविधान् गुणान्।।2.46.15।। Ayodhya Kanda,46,16,जाग्रतो ह्येव तां रात्रिं सौमित्रेरुदितो रविः। सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान्।।2.46.16।। Ayodhya Kanda,46,17,गोकुलाकुलतीरायास्तमसाया विदूरतः। अवसत्तत्र तां रात्रिं रामः प्रकृतिभिस्सह।।2.46.17।। Ayodhya Kanda,46,18,उत्थाय स महातेजाः प्रकृतीस्ता निशाम्य च। अब्रवीद्भ्रातरं रामो लक्ष्मणं पुण्यलक्षणम्।।2.46.18।। Ayodhya Kanda,46,19,अस्मद्व्यपेक्षान् सौमित्रे निरपेक्षान् गृहेष्वपि। वृक्षमूलेषु संसुप्तान् पश्य लक्ष्मण साम्प्रतम्।।2.46.19।। Ayodhya Kanda,46,20,यथैते नियमं पौराः कुर्वन्त्यस्मन्निवर्तने। अपि प्राणान्न्यसिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम्।।2.46.20।। Ayodhya Kanda,46,21,यावदेव तु संसुप्ता स्तावदेव वयं लघु। रथमारुह्य गच्छामः पन्थानमकुतोभयम्।।2.46.21।। Ayodhya Kanda,46,22,अतो भूयोऽपि नेदानीमिक्ष्वाकुपुरवासिनः। स्वपेयुरनुरक्ता मां वृक्षमूलानि संश्रिताः।।2.46.22।। Ayodhya Kanda,46,23,पौरा ह्यात्मकृताद्दुःखाद्विप्रमोच्या नृपात्मजैः। न तु खल्वात्मना योज्या दुःखेन पुरवासिनः।।2.46.23।। Ayodhya Kanda,46,24,अब्रवील्लक्ष्मणो रामं साक्षाद्धर्ममिवस्थितम्। रोचते मे तथा प्राज्ञ क्षिप्र मारुह्यतामिति।।2.46.24।। Ayodhya Kanda,46,25,अथ रामोऽब्रवीच्छ्रीमान्सुमन्त्रं युज्यतां रथः। गमिष्यामि ततोऽरण्यं गच्छ शीघ्रमितः प्रभो।।2.46.25।। Ayodhya Kanda,46,26,सूतस्तत स्सत्त्वरितः स्यन्दनं तैर्हयोत्तमैः। योजयित्व्राऽथ रामाय प्राञ्जलिः प्रत्यवेदयत्।।2.46.26।। Ayodhya Kanda,46,27,अयं युक्तो महाबाहो रथस्ते रथिनां वर। त्वमारोहस्व भद्रं ते ससीत स्सहलक्ष्मणः।।2.46.27।। Ayodhya Kanda,46,28,तं स्यन्दनमधिष्ठाय राघव स्सपरिच्छदः। शीघ्रगामाकुलावर्तां तमसामतरन्नदीम्।।2.46.28।। Ayodhya Kanda,46,29,स सन्तीर्य महाबाहुः श्रीमान् शिवमकण्टकम्। प्रापद्यत महामार्गमभयं भयदर्शिनाम्।।2.46.29।। Ayodhya Kanda,46,30,मोहनार्थं तु पौराणां सूतं रामोऽब्रवीद्वचः। उदङ्मुखः प्रयाहि त्वं रथमास्थाय सारथे।।2.46.30।। Ayodhya Kanda,46,31,मुहूर्तं त्वरितं गत्वा निवर्तय रथं पुनः। यथा न विद्युः पौरा मां तथा कुरु समाहितः।।2.46.31।। Ayodhya Kanda,46,32,रामस्य वचनं श्रुत्वा तथा चक्रे स सारथिः। प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत्।।2.46.32।। Ayodhya Kanda,46,33,तौ सम्प्रयुक्तं तु रथं समास्थितौ तदा ससीतौ रघुवंशवर्धनौ। प्रचोदयामास ततस्तुरङ्गमान् स सारथिर्येन पथा तपोवनम्।।2.46.33।। Ayodhya Kanda,46,34,तत स्समास्थाय रथं महारथः ससारथिर्दाशरथिर्वनं ययौ। उदङ्मुखं तं तु रथं चकार स प्रयाणमाङ्गल्य निमित्तदर्शनात्।।2.46.34।। Ayodhya Kanda,47,1,प्रभातायां तु शर्वर्यां पौरास्ते राघवं विना। शोकोपहतनिश्चेष्टा बभूवुर्हतचेतसः।।2.47.1।। Ayodhya Kanda,47,2,शोकजाश्रुपरिद्यूना वीक्षमाणास्ततस्ततः। आलोकमपि रामस्य न पश्यन्ति स्म दुःखिताः।।2.47.2।। Ayodhya Kanda,47,3,ते विषादार्तवदना रहितास्तेन धीमता। कृपणाः करुणा वाचो वदन्ति स्म मनस्विनः।।2.47.3।। Ayodhya Kanda,47,4,धिगस्तु खलु निद्रां तां ययाऽपहृतचेतसः। नाद्य पश्यामहे रामं पृथूरस्कं महाभुजम्।।2.47.4।। Ayodhya Kanda,47,5,कथं नाम महाबाहु स्स तथावितथक्रियः। भक्तं जनं परित्यज्य प्रवासं राघवो गतः।।2.47.5।। Ayodhya Kanda,47,6,यो नः सदा पालयति पिता पुत्रानिवौरसान्। कथं रघूणां स श्रेष्ठस्त्यक्त्वा नो विपिनं गतः।।2.47.6।। Ayodhya Kanda,47,7,इहैव निधनं यामो महाप्रस्थानमेव वा। रामेण रहितानां हि किमर्थं जीवितं हि नः।।2.47.7।। Ayodhya Kanda,47,8,सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च। तैः प्रज्वाल्य चितां सर्वे प्रविशामोऽथ पावकम्।।2.47.8।। Ayodhya Kanda,47,9,किं वक्ष्यामो महाबाहुरनसूयः प्रियंवदः। नीत स्स राघवोऽस्माभिरिति वक्तुं कथं क्षमम्।।2.47.9।। Ayodhya Kanda,47,10,सा नूनं नगरी दीना दृष्ट्वाऽस्मान् राघवं विना। भविष्यति निरानन्दा सस्त्रीबालवयोधिका।।2.47.10।। Ayodhya Kanda,47,11,निर्यातास्तेन वीरेण सह नित्यं जितात्मना। विहीनास्तेन च पुनः कथं पश्याम तां पुरीम्।।2.47.11।। Ayodhya Kanda,47,12,इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः। विलपन्ति स्म दुःखार्ता विवत्सा इव धेनवः।।2.47.12।। Ayodhya Kanda,47,13,ततो मार्गानुसारेण गत्वा किञ्चित् क्षणं पुनः। मार्गनाशाद्विषादेन महता समभिप्लुताः।।2.47.13।। Ayodhya Kanda,47,14,रथस्य मार्गनाशेन न्यवर्तन्त मनस्विनः। किमिदं किं करिष्यामो दैवेनोपहता इति।।2.47.14।। Ayodhya Kanda,47,15,ततो यथागतेनैव मार्गेण क्लान्तचेतसः। अयोध्यामागमन्सर्वे पुरीं व्यथितसज्जनाम्।।2.47.15।। Ayodhya Kanda,47,16,आलोक्य नगरीं तां च क्षयव्याकुलमानसाः। आवर्तयन्त तेऽश्रूणि नयनैः शोकपीडितैः।।2.47.16।। Ayodhya Kanda,47,17,एषा रामेण नगरी रहिता नातिशोभते। आपगा गरुडेनेव ह्रदादुद्धृतपन्नगा।।2.47.17।। Ayodhya Kanda,47,18,चन्द्रहीनमिवाकाशं तोयहीनमिवार्णवम्। अपश्यन्निहतानन्दं नगरं ते विचेतसः।।2.47.18।। Ayodhya Kanda,47,19,ते तानि वेश्मानि महाधनानि दुःखेन दुःखोपहता विशन्तः। नैव प्रजज्ञुः स्वजनं जनं वा निरीक्षमाणाः प्रविनष्टहर्षाः।।2.47.19।। Ayodhya Kanda,48,1,तेषामेवं विषण्णानां पीडितानामतीव च। बाष्पविप्लुतनेत्राणां सशोकानां मुमूर्षया।।2.48.1।। Ayodhya Kanda,48,2,अनुगम्य निवृत्तानां रामं नगरवासिनाम्। उद्गतानीव सत्वानि बभूवुरमनस्विनाम्।।2.48.2।। Ayodhya Kanda,48,3,स्वं स्वं निलयमागम्य पुत्रदारैस्समावृता। अश्रूणि मुमुचुस्सर्वे बाष्पेण पिहिताननाः।।2.48.3।। Ayodhya Kanda,48,4,न चाहृष्यन् नचामोदन् वणिजो न प्रसारयन्। न चाशोभन्त पण्यानि नापचन् गृहमेधिनः।।2.48.4।। Ayodhya Kanda,48,5,नष्टं दृष्ट्वा नाभ्यनन्दन् विपुलं वा धनागमम्। पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत।।2.48.5।। Ayodhya Kanda,48,6,गृहे गृहे रुदन्त्यश्च भर्तारं गृहमागतम्। व्यगर्हयन्त दुःखार्ता वाग्भिस्तोत्रैरिव द्विपान्।।2.48.6।। Ayodhya Kanda,48,7,किं नु तेषां गृहैः कार्यं किं दारै: किं धनेन वा। पुत्रैर्वा किं सुखैर्वापि ये न पश्यन्ति राघवम्।।2.48.7।। Ayodhya Kanda,48,8,एकः सत्पुरुषो लोके लक्ष्मण स्सह सीतया। योऽनुगच्छति काकुत्स्थं रामं परिचरन् वने।।2.48.8।। Ayodhya Kanda,48,9,आपगाः कृतपुण्यास्ता पद्मिन्यश्च सरांसि च। येषु स्नास्यति काकुत्स्थो विगाह्य सलिलं शुचि।।2.48.9।। Ayodhya Kanda,48,10,शोभयिष्यन्ति काकुत्स्थमटव्यो रम्यकाननाः। आपगाश्च महानूपाः सानुमन्तश्च पर्वताः।।2.48.10।। Ayodhya Kanda,48,11,काननं वापि शैलं वा यं रामोऽधिगमिष्यति। प्रियातिथिमिव प्राप्तं नैनं शक्ष्यन्त्यनर्चितुम्।।2.48.11।। Ayodhya Kanda,48,12,विचित्रकुसुमापीडा बहुमञ्जरि धारिणः। राघवं दर्शयिष्यन्ति नगा भ्रमरशालिनः।।2.48.12।। Ayodhya Kanda,48,13,अकाले चापि मुख्यानि पुष्पाणि च फलानि च। दर्शयिष्यन्त्यनुक्रोशाद्गिरयो राममागतम्।।2.48.13।। Ayodhya Kanda,48,14,प्रस्रविष्यन्ति तोयानि विमलानि महीधराः। विदर्शयन्तो विविधान् भूयश्चित्रांश्च निर्झरान्।।2.48.14।। Ayodhya Kanda,48,15,पादपाः पर्वताग्रेषु रमयिष्यन्ति राघवम्। यत्र रामो भयं नात्र नास्ति तत्र पराभवः।।2.48.15।। Ayodhya Kanda,48,16,स हि शूरो महाबाहुः पुत्रो दशरथस्य च। पुरा भवति नोदूरादनुगच्छाम राघवम्।।2.48.16।। Ayodhya Kanda,48,17,पादच्छाया सुखा भर्तुस्तादृशस्य महात्मनः। स हि नाथो जनस्यास्य स गति स्सपरायणम्।।2.48.17।। Ayodhya Kanda,48,18,वयं परिचरिष्यामः सीतां यूयं तु राघवम्। इति पौरस्त्रियो भर्तृ़न् दुखार्तास्तत्तदब्रुवन्।।2.48.18।। Ayodhya Kanda,48,19,युष्माकं राघवोऽरण्ये योगक्षेमं विधास्यति। सीता नारीजनस्यास्य योगक्षेमं करिष्यति।।2.48.19।। Ayodhya Kanda,48,20,को न्वनेनाऽप्रतीतेन सोत्कण्ठितजनेन च। सम्प्रियेतामनोज्ञेन वासेन हृतचेतसा।।2.48.20।। Ayodhya Kanda,48,21,कैकेय्या यदि चे द्राज्यं स्यादधर्म्यमनाथवत्। न हि नो जीवितेनार्थः कुतः पुत्रैः कुतो धनैः।।2.48.21।। Ayodhya Kanda,48,22,यया पुत्रश्च भर्ता च त्यक्तावैश्वर्यकारणात्। कं सा परिहरेदन्यं कैकेयी कुलपांसनी।।2.48.22।। Ayodhya Kanda,48,23,कैकेय्या न वयं राज्ये भृतका निवसेमहि। जीवन्त्या जातु जीवन्त्यः पुत्रैरपि शपामहे।।2.48.23।। Ayodhya Kanda,48,24,या पुत्रं पार्थिवेन्द्रस्य प्रवासयति निर्घृणा। कस्तां प्राप्य सुखं जीवेदधर्म्यां दुष्टचारिणीम्।।2.48.24।। Ayodhya Kanda,48,25,उपद्रुतमिदं सर्वमनालम्बमनायकम्। कैकेय्या हि कृते सर्वं विनाशमुपयास्यति।।2.48.25।। Ayodhya Kanda,48,26,न हि प्रव्रजिते रामे जीविष्यति महीपतिः। मृते दशरथे व्यक्तं विलापस्तदनन्तरम्।।2.48.26।। Ayodhya Kanda,48,27,ते विषं पिबतालोड्य क्षीणपुण्या स्सुदुर्गताः। राघवं वानुगच्छध्वमश्रुतिं वापि गच्छत।।2.48.27।। Ayodhya Kanda,48,28,मिथ्याप्रव्राजितो राम स्ससीत स्सहलक्ष्मणः। भरते सन्निसृष्टास्स्म स्सौनिके पशवो यथा।।2.48.28।। Ayodhya Kanda,48,29,पूर्णचन्द्रानन श्श्यामो गूढजत्रुररिन्दमः। आजानुबाहुः पद्माक्षो रामो लक्ष्मणपूर्वजः।।2.48.29।। Ayodhya Kanda,48,30,पूर्वाभिभाषी मधुर स्सत्यवादी महाबलः। सौम्यस्सर्वस्य लोकस्य चन्द्रवत्प्रियदर्शनः।।2.48.30।। Ayodhya Kanda,48,31,नूनं पुरुषशार्दूलो मत्तमातङ्गविक्रमः। शोभयिष्यत्यरण्यानि विचरन् स महारथः।।2.48.31।। Ayodhya Kanda,48,32,तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रियः। चुक्रुशु र्दुःखसन्तप्ता मृत्योरिव भयागमे।।2.48.32।। Ayodhya Kanda,48,33,इत्येवं विलपन्तीनां स्त्रीणां वेश्मसु राघवम्। जगामास्तं दिनकरो रजनी चाभ्यवर्तत।।2.48.33।। Ayodhya Kanda,48,34,नष्टज्वलनसन्तापा प्रशान्ताध्यायसत्कथा। तिमिरेणाभिलिप्तेव सा तदा नगरी बभौ।।2.48.34।। Ayodhya Kanda,48,35,उपशान्तवणिक्पण्या नष्टहर्षा निराश्रया। अयोध्या नगरी चासीन्नष्टतारमिवाम्बरम्।।2.48.35।। Ayodhya Kanda,48,36,तथा स्त्रियो रामनिमित्तमातुरा यथा सुते भ्रातरि वा विवासिते। विलप्य दीना रुरुदुर्विचेतस स्सूतैर्हि तासामधिको हि सोऽभवत्।।2.48.36।। Ayodhya Kanda,48,37,प्रशान्तगीतोत्सवनृत्तवादना व्यपास्तहर्षा पिहितापणोदया। तदा ह्ययोध्या नगरी बभूव सा महार्णव स्सङ्क्षपितोदको यथा।।2.48.37।। Ayodhya Kanda,49,1,रामोऽपि रात्रिशेषेण तेनैव महदन्तरम्। जगाम पुरुषव्याघ्रः पितुराज्ञामनुस्मरन्।।2.49.1।। Ayodhya Kanda,49,2,तथैव गच्छतस्तस्य व्यपायाद्रजनी शिवा। उपास्य शिवां सन्ध्यां विषयान्तं व्यगाहत।।2.49.2।। Ayodhya Kanda,49,3,ग्रामान् विकृष्टसीमान्तान् पुष्पितानि वनानि च। पश्यन्नतिययौ शीघ्रं शनैरिव हयोत्तमैः।।2.49.3।। शृण्वन् वचो मनुष्याणां ग्रामसंवासवासिनाम्। Ayodhya Kanda,49,4,राजानं धिग्दशरथं कामस्य वशमागतम्।।2.49.4।। Ayodhya Kanda,49,5,हा नृशंसाद्य कैकेयी पापा पापानुबन्धिनी। तीक्ष्णा सम्भिन्नमर्यादा तीक्ष्णकर्मणि वर्तते।।2.49.5।। Ayodhya Kanda,49,6,या पुत्रमीदृशं राज्ञः प्रवासयति धार्मिकम्। वनवासे महाप्राज्ञं सानुक्रोशं जितेन्द्रियम्।।2.49.6।। Ayodhya Kanda,49,7,कथं नाम महाभागा सीता जनकनन्दिनी। सदा सुखेष्वभिरता दुःखान्यनुभविष्यति।।2.49.7।। Ayodhya Kanda,49,8,अहो दशरथो राजा निस्नेहः स्वसुतं प्रियम्। प्रजानामनघं रामं परित्यक्तुमिहेच्छति।।2.49.8।। Ayodhya Kanda,49,9,एता वाचो मनुष्याणां ग्रामसंवासवासिनाम्। शृण्वन्नतिययौ वीरः कोसलान् कोसलेश्वरः।।2.49.9।। Ayodhya Kanda,49,10,ततो वेदश्रुतिं नाम शिववारिवहां नदीम्। उत्तीर्याभिमुखः प्रायादगस्त्याध्युषितां दिशम्।।2.49.10।। Ayodhya Kanda,49,11,गत्वा तु सुचिरं कालं ततः शीतजलां नदीम्। गोमतीं गोयुतानूपामतरत्सागरङ्गमाम्।।2.49.11।। Ayodhya Kanda,49,12,गोमतीं चाप्यतिक्रम्य राघवः शीघ्रगैर्हयैः। मयूरहंसाभिरुतां ततार स्यन्दिकां नदीम्।।2.49.12।। Ayodhya Kanda,49,13,स महीं मनुना राज्ञा दत्तामिक्ष्वाकवे पुरा। स्फीतां राष्ट्रावृतां रामो वैदेहीमन्वदर्शयत्।।2.49.13।। Ayodhya Kanda,49,14,सूत इत्येव चाभाष्य सारथिं तमभीक्ष्णशः। हंसमत्तस्वरश्श्रीमानुवाच पुरुषर्षभः।।2.19.14।। Ayodhya Kanda,49,15,कदाऽहं पुनरागम्य सरय्वा पुष्पिते वने। मृगयां पर्यटिष्यामि मात्रा पित्रा च सङ्गतः।।2.49.15।। Ayodhya Kanda,49,16,नात्यर्थमभिकाङ्क्षामि मृगयां सरयूवने। रतिर्ह्येषातुला लोके राजर्षिगणसम्मता।।2.49.16।। Ayodhya Kanda,49,17,राजर्षीणां हि लोकेऽस्मिन् रत्यर्थं मृगया वने। काले कृतां तां मनुजैर्घन्विनामभिकाङ्क्षिताम्।।2.49.17।। Ayodhya Kanda,49,18,स तमध्वानमैक्ष्वाकस्सूतं मधुरया गिरा। तं तमर्थमभिप्रेत्य ययौ वाक्यमुदीरयन्।।2.49.18।। Ayodhya Kanda,50,1,विशालान् कोसलान् रम्यान् यात्वा लक्ष्मणपूर्वजः। अयोध्याभिमुखो धीमान् प्राञ्जलिर्वाक्यमब्रवीत्।।2.50.1।। Ayodhya Kanda,50,2,आपृच्छे त्वां पुरीश्रेष्ठे काकुत्स्थपरिपालिते। दैवतानि च यानि त्वां पालयन्ति वसन्ति च।।2.50.2।। Ayodhya Kanda,50,3,निवृत्तवनवासस्त्वामनृणो जगतीपतेः। पुनर्द्रक्ष्यामि मात्रा च पित्रा च सह सङ्गतः।।2.50.3।। Ayodhya Kanda,50,4,ततो रुधिरताम्राक्षो भुजमुद्यम्य दक्षिणम्। अश्रुपूर्णमुखो दीनोऽब्रवीज्जानपदं जनम्।।2.50.4।। Ayodhya Kanda,50,5,अनुक्रोशो दया चैव यथार्हं मयि वः कृतः। चिरं दुःखस्य पापीयो गम्यतामर्थसिद्धये।।2.50.5।। Ayodhya Kanda,50,6,तेऽभिवाद्य महात्मानं कृत्वा चापि प्रदक्षिणम्। विलपन्तो नरा घोरं व्यतिष्ठन्त क्वचित् क्वचित्।।2.50.6।। Ayodhya Kanda,50,7,तथा विलपतां तेषामतृप्तानां च राघवः। अचक्षुर्विषयं प्रायाद्यथार्कः क्षणदामुखे।।2.50.7।। Ayodhya Kanda,50,8,ततो धान्यधनोपेतान् दानशीलजनान् शिवान्। अकुतश्चिद्भयान् रम्यांश्चैत्ययूपसमावृतान्।।2.50.8।। Ayodhya Kanda,50,9,उद्यानाम्रवनोपेतान् सम्पन्नसलिलाशयान्। तुष्टपुष्टजनाकीर्णान् गोकुलाकुलसेवितान्।।2.50.9।। Ayodhya Kanda,50,10,लक्षणीयान्नरेन्द्राणां ब्रह्मघोषाभिनादितान्। रथेन पुरुषव्याघ्रः कोसलानत्यवर्तत।।2.50.10।। Ayodhya Kanda,50,11,मध्येनमुदितं स्फीतं रम्योद्यानसमाकुलम्। राज्यं भोग्यं नरेन्द्राणां ययौ धृतिमतां वरः।।2.50.11।। Ayodhya Kanda,50,12,तत स्त्रिपथगां दिव्यां शिवतोयामशैवलाम्। ददर्श राघवो गङ्गां पुण्यामृषिनिषेविताम्।।2.50.12।। Ayodhya Kanda,50,13,आश्रमैरविदूरस्थैः श्रीमद्भिस्समलङ्कृताम्। कालेऽप्सरोभिर्हृष्टाभि स्सेविताम्भोह्रदां शिवाम्।।2.50.13।। Ayodhya Kanda,50,14,देवदानवगन्धर्वैः किन्नरैरुपशोभिताम्। नानागन्धर्वपत्नीभि स्सेवितां सततं शिवाम्।।2.50.14।। Ayodhya Kanda,50,15,देवाऽऽक्रीडशताकीर्णां देवोद्यानशतायुताम्। देवार्थमाकाशगमां विख्यातां देवपद्मिनीम्।।2.50.15।। Ayodhya Kanda,50,16,जलाघाताट्टहासोग्रां फेननिर्मलहासिनीम्। क्वचिद्वेणीकृतजलां क्वचिदावर्तशोभिताम्।।2.50.16।। Ayodhya Kanda,50,17,क्वचित् स्तिमितगम्भीरां क्वचिद्वेगजलाकुलाम्। क्वचिद्गम्भीरनिर्घोषां क्वचिद्भैरवनिस्वनाम्।।2.50.17।। Ayodhya Kanda,50,18,देवसङ्घाप्लुतजलां निर्मलोत्पलशोभिताम्। क्वचिदाभोगपुलिनां क्वचिन्निर्मलवालुकाम्।।2.50.18।। Ayodhya Kanda,50,19,हंससारससङ्घुष्टां चक्रवाकोपकूजिताम्। सदा मदैश्च विहगैरभिसन्नादितान्तराम्।।2.50.19।। Ayodhya Kanda,50,20,क्वचित्तीररुहैर्वृक्षैर्मालाभिरिवशोभिताम्। क्वचित्फुल्लोत्पलच्छन्नां क्वचित्पद्मवनाकुलाम्।।2.50.20।। Ayodhya Kanda,50,21,क्वचित्कुमुदषण्डैश्च कुड्मलैरुपशोभिताम्। नानापुष्परजोध्वस्तां समदामिव च क्वचित्।।2.50.21।। Ayodhya Kanda,50,22,व्यपेतमलसङ्घातां मणिनिर्मलदर्शनाम्। दिशागजैर्वनगजै र्मत्तैश्च वरवारणैः।।2.50.22।। देवोपवाह्यैश्च मुहुस्सन्नादितवनान्तराम्। Ayodhya Kanda,50,23,प्रमदामिव यत्नेन भूषितां भूषणोत्तमैः।।2.50.23।। Ayodhya Kanda,50,24,फलैः पुष्पैः किसलयैर्वृतां गुल्मैर्द्विजैस्तथा। शिंशुमारैश्च नक्रैश्च भुजङ्गैश्च निषेविताम्।।2.50.24।। Ayodhya Kanda,50,25,विष्णुपादच्युतां दिव्यामपापां पापनाशिनीम्। तां शङ्करजटाजूटाद्भ्रष्टां सागरतेजसा।।2.50.25।। Ayodhya Kanda,50,26,समुद्रमहिषीं गङ्गां सारसक्रौञ्चनादिताम्। आससाद महाबाहुः शृङ्गिबेरपुरं प्रति।।2.50.26।। Ayodhya Kanda,50,27,तामूर्मिकलिलावर्तामन्ववेक्ष्य महारथः। सुमन्त्रमब्रवीत्सूतमिहैवाद्य वसामहे।।2.50.27।। Ayodhya Kanda,51,1,तं जाग्रतमदम्भेन भ्रातुरर्थाय लक्ष्मणम्। गुहः सन्तापसन्तप्तो राघवं वाक्यमब्रवीत्।।2.51.1।। Ayodhya Kanda,51,2,इयं तात सुखा शय्या त्वदर्थमुपकल्पिता। प्रत्याश्वसिहि साध्वस्यां राजपुत्र यथासुखम्।।2.51.2।। Ayodhya Kanda,51,3,उचितोऽयं जनस्सर्वः क्लेशानां त्वं सुखोचितः। गुप्त्यर्थं जागरिष्यामः काकुत्स्थस्य वयं निशाम्।।2.51.3।। Ayodhya Kanda,51,4,न हि रामात्प्रियतमो ममास्ति भुवि कश्चन। ब्रवीम्येतदहं सत्यं सत्येनैव च ते शपे।।2.51.4।। Ayodhya Kanda,51,5,अस्य प्रसादादाशंसे लोकेस्मिन् सुमुहद्यशः। धर्मावाप्तिं च विपुलामर्थावाप्तिं च केवलम्।।2.51.5।। Ayodhya Kanda,51,6,सोऽहं प्रियसखं रामं शयानं सह सीतया। रक्षिष्यामि धनुष्पाणि स्सर्वतो ज्ञातिभि स्सह।।2.51.6।। Ayodhya Kanda,51,7,न हि मेऽविदितं किञ्चिद्वनेऽस्मिंश्चरतस्सदा। चतुरङ्गं ह्यपिबलं सुमहत्प्रसहेमहि।।2.51.7।। Ayodhya Kanda,51,8,लक्ष्मणस्तं तदोवाच रक्ष्यमाणास्त्वयानघ। नात्र भीता वयं सर्वे धर्ममेवानुपश्यता।।2.51.8।। Ayodhya Kanda,51,9,कथं दशरथौ भूमौ शयाने सह सीतया। शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा।।2.51.9।। Ayodhya Kanda,51,10,यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि। तं पश्य सुखसंविष्टं तृणेषु सह सीतया।।2.51.10।। Ayodhya Kanda,51,11,यो मन्त्रतपसा लब्धो विविधैश्च पराश्रमैः। एको दशरथस्येष्टः पुत्रः सदृशलक्षणः।।2.51.11।। Ayodhya Kanda,51,12,अस्मिन् प्रव्राजिते राजा न चिरं वर्तयिष्यति। विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति।।2.51.12।। Ayodhya Kanda,51,13,विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः। निर्घोषोपरतं चातो मन्ये राजनिवेशनम्।।2.51.13।। Ayodhya Kanda,51,14,कौशल्या चैव राजा च तथैव जननी मम। नाशंसे यदि जीवन्ति सर्वे ते शर्वरीमिमाम्।।2.51.14।। Ayodhya Kanda,51,15,जीवेदपि हि मे माता शत्रुघ्नस्यान्ववेक्षया। तद्दुःखं यत्तु कौशल्या वीरसूर्विनशिष्यति।।2.51.15।। Ayodhya Kanda,51,16,अनुरक्तजनाकीर्णा सुखालोकप्रियावहा। राजव्यसनसंसृष्टा सा पुरी विनशिष्यति।।2.51.16।। Ayodhya Kanda,51,17,कथं पुत्रं महात्मानं ज्येष्ठं प्रियमपश्यतः। शरीरं धारयिष्यन्ति प्राणा राज्ञो महात्मनः।।2.51.17।। Ayodhya Kanda,51,18,विनष्टे नृपतौ पश्चात्कौसल्या विनशिष्यति। अनन्तरं च माताऽपि मम नाशमुपैष्यति।।2.51.18।। Ayodhya Kanda,51,19,अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम्। राज्ये राममनिक्षिप्य पिता मे विनशिष्यति।।2.51.19।। Ayodhya Kanda,51,20,सिद्धार्थाः पितरं वृत्तं तस्मिन्कालेऽप्युपस्थिते। प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम्।।2.51.20।। Ayodhya Kanda,51,21,रम्यचत्वरसंस्थानां सुविभक्तमहापथाम्। हर्म्यप्रासादसम्पन्नाम् गणिकावरशोभिताम्।।2.51.21।। Ayodhya Kanda,51,22,रथाश्वगजसम्बाधां तूर्यनादविनादिताम्। सर्वकल्याणसम्पूर्णां हृष्टपुष्टजनाकुलाम्।।2.51.22।। Ayodhya Kanda,51,23,आरामोद्यानसम्पन्नां समाजोत्सवशालिनीम्। सुखिता विचरिष्यन्ति राजधानीं पितुर्मम।।2.51.23।। Ayodhya Kanda,51,24,अपि जीवेद्दशरथो वनवासात्पुनर्वयम्। प्रत्यागम्य महात्मानमपि पश्येम सुव्रतम्।।2.51.24।। Ayodhya Kanda,51,25,अपि सत्यप्रतिज्ञेन सार्धं कुशलिना वयम्। निवृत्ते वनवासेऽस्मिन्नयोध्यां प्रविशेमहि।।2.51.25।। Ayodhya Kanda,51,26,परिदेवयमानस्य दुखार्तस्य महात्मनः। तिष्ठतो राजपुत्रस्य शर्वरी साऽत्यवर्तत।।2.51.26।। Ayodhya Kanda,51,27,तथा हि सत्यं ब्रुवति प्रजाहिते नरेन्द्रपुत्रे गुरुसौहृदाद्गुहः। मुमोच बाष्पं व्यसनाभिपीडितो ज्वरातुरो नाग इव व्यथातुरः।।2.51.27।। Ayodhya Kanda,52,1,प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः। उवाच रामः सौमित्रिं लक्ष्मणं शुभलक्षणम्।।2.52.1।। Ayodhya Kanda,52,2,भास्करोदयकालोऽयं गता भगवती निशा। असौ सुकृष्णो विहगः कोकिलस्तात कूजति।।2.52.2।। Ayodhya Kanda,52,3,बर्हिणानां च निर्घोषः श्रूयते नदतां वने। तराम जाह्नवीं सौम्य शीघ्रगां सागरङ्गमाम्।।2.52.3।। Ayodhya Kanda,52,4,विज्ञाय रामस्य वचः सौमित्रिर्मित्रनन्दनः। गुहमामन्त्र्य सूतं च सोऽतिष्ठद्भ्रातुरग्रतः।।2.52.4।। Ayodhya Kanda,52,5,स तु रामस्य वचनं निशम्य प्रतिगृह्य च। स्थपतिस्तूर्णमाहूय सचिवानिदमब्रवीत्।।2.52.5।। Ayodhya Kanda,52,6,अस्य वाहनसंयुक्तां कर्णग्राहवतीं शुभाम्। सुप्रतारां दृढां तीर्थे शीघ्रं नावमुपाहर।।2.52.6।। Ayodhya Kanda,52,7,तं निशम्य समादेशं गुहामात्यगणो महान्। उपोह्य रुचिरां नावं गुहाय प्रत्यवेदयत्।।2.52.7।। Ayodhya Kanda,52,8,ततः स प्राञ्जलिर्भूत्वा गुहो राघवमब्रवीत्। उपस्थितेयं नौर्देव भूयः किं करवाणि ते।।2.52.8।। Ayodhya Kanda,52,9,तवामरसुतप्रख्य तर्तुं सागरगां नदीम्। नौरियं पुरुषव्याघ्र तां त्वमारोह सुव्रत।।2.52.9।। Ayodhya Kanda,52,10,अथोवाच महातेजा रामो गुहमिदं वचः। कृतकामोऽस्मि भवता शीघ्रमारोप्यतामिति।।2.52.10।। Ayodhya Kanda,52,11,ततः कलापान् सन्नह्य खड्गौ बध्वा च धन्विनौ। जग्मतुर्येन तौ गङ्गां सीतया सह राघवौ।।2.52.11।। Ayodhya Kanda,52,12,राममेव तु धर्मज्ञमुपगम्य विनीतवत्। किमहं करवाणीति सूतः प्राञ्जलिरब्रवीत्।।2.52.12।। Ayodhya Kanda,52,13,ततोऽब्रवीद्दाशरथिः सुमन्त्रं स्पृशन् करेणोत्तमदक्षिणेन। सुमन्त्र शीघ्रं पुनरेव याहि राज्ञः सकाशे भव चाप्रमत्तः।।2.52.13।। Ayodhya Kanda,52,14,निवर्तस्वेत्युवाचैव ह्येतावद्धि कृतं मम। रथं विहाय पद्भ्यां तु गमिष्यामि महावनम्।।2.52.14।। Ayodhya Kanda,52,15,आत्मानं त्वभ्यनुज्ञातमवेक्ष्यार्तः स सारथिः। सुमन्त्रः पुरुषव्याघ्रमैक्ष्वाकमिदमब्रवीत्।।2.52.15।। Ayodhya Kanda,52,16,नातिक्रान्तमिदं लोके पुरुषेणेह केनचित्। तव सभ्रातृभार्यस्य वासः प्राकृतवद्वने।।2.52.16।। Ayodhya Kanda,52,17,न मन्ये ब्रह्मचर्येऽस्ति स्वधीते वा फलोदयः। मार्दवार्जवयोर्वापि त्वां चेद्व्यसनमागतम्।।2.52.17।। Ayodhya Kanda,52,18,सह राघव वैदेह्या भ्रात्रा चैव वने वसन्। त्वं गतिं प्राप्स्यसे वीर त्रीन् लोकांस्तु जयन्निव।।2.52.18।। Ayodhya Kanda,52,19,वयं खलु हता राम ये त्वयाप्युपवञ्चिताः। कैकेय्या वशमेष्यामः पापाया दुःखभागिनः।।2.52.19।। Ayodhya Kanda,52,20,इति ब्रुवन्नात्मसमं सुमन्त्रः सारथिस्तदा। दृष्ट्वा दूरगतं रामं दुःखार्तो रुरुदे चिरम्।।2.52.20।। Ayodhya Kanda,52,21,ततस्तु विगते बाष्पे सूतं स्पृष्टोदकं शुचिम्। रामस्तु मधुरं वाक्यं पुनः पुनरुवाच तम्।।2.52.21।। Ayodhya Kanda,52,22,इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये। यथा दशरथो राजा मां न शोचेत्तथा कुरु।।2.52.22।। Ayodhya Kanda,52,23,शोकोपहतचेताश्च वृद्धश्च जगतीपतिः। कामभावावसन्नश्च तस्मादेतद्ब्रवीमि ते।।2.52.23।। Ayodhya Kanda,52,24,यद्यदाज्ञापयेत्किञ्चित्स महात्मा महीपतिः। कैकेय्याः प्रियकामार्थं कार्यं तदविकाङ्क्षया।।2.52.24।। Ayodhya Kanda,52,25,एतदर्थं हि राज्यानि प्रशासति नरेश्वराः। यदेषां सर्वकृत्येषु मनो न प्रतिहन्यते।।2.52.25।। Ayodhya Kanda,52,26,यद्यथा स महाराजो नालीकमधिगच्छति। न च ताम्यति दुःखेन सुमन्त्र कुरु तत्तथा।।2.52.26।। Ayodhya Kanda,52,27,अदृष्टदुःखं राजानं वृद्धमार्यं जितेन्द्रियम्। ब्रूयास्त्वमभिवाद्यैव मम हेतोरिदं वचः।।2.52.27।। Ayodhya Kanda,52,28,नैवाहमनुशोचामि लक्ष्मणो न च मैथिली। अयोध्यायाश्च्युताश्चेति वने वत्स्यामहेति च।।2.52.28।। Ayodhya Kanda,52,29,चतुर्दशसु वर्षेषु निवृत्तेषु पुनः पुनः। लक्ष्मणं मां च सीतां च द्रक्ष्यसे क्षिप्रमागतान्।।2.52.29।। Ayodhya Kanda,52,30,एवमुक्त्वा तु राजानं मातरं च सुमन्त्र मे। अन्याश्च देवीस्सहिताः कैकेयीं च पुनः पुनः।।2.52.30।। Ayodhya Kanda,52,31,आरोग्यं ब्रूहि कौशल्यामथ पादाभिवन्दनम्। सीताया मम चाऽऽर्यस्य वचनाल्लक्ष्मणस्य च।।2.52.31।। Ayodhya Kanda,52,32,ब्रूयाश्च हि महाराजं भरतं क्षिप्रमानय। आगतश्चापि भरतः स्थाप्यो नृपमते पदे।।2.52.32।। Ayodhya Kanda,52,33,भरतं च परिष्वज्य यौवराज्येऽभिषिच्य च। अस्मत्सन्तापजं दुःखं न त्वामभिभविष्यति।।2.52.33।। Ayodhya Kanda,52,34,भरतश्चापि वक्तव्यो यथा राजनि वर्तसे। तथा मातृषु वर्तेथाः सर्वास्वेवाविशेषतः।।2.52.34।। Ayodhya Kanda,52,35,यथा च तव कैकेयी सुमित्रा च विशेषतः। तथैव देवी कौशल्या मम माता विशेषतः।।2.2.35।। Ayodhya Kanda,52,36,तातस्य प्रियकामेन यौवराज्यमपेक्षता। लोकयोरुभयोः शक्यं त्वया यत्सुखमेधितुम्।।2.52.36।। Ayodhya Kanda,52,37,निवर्त्यमानो रामेण सुमन्त्रः शोककर्शितः। तत्सर्वं वचनं श्रुत्वा स्नेहात्काकुत्स्थमब्रवीत्।।2.52.37।। Ayodhya Kanda,52,38,यदहं नोपचारेण ब्रूयां स्नेहादविक्लबः। भक्तिमानिति तत्तावद्वाक्यं त्वं क्षन्तुमर्हसि।।2.52.38।। Ayodhya Kanda,52,39,कथं हि त्वद्विहीनोऽहं प्रतियास्यामि तां पुरीम्। तव तावद्वियोगेन पुत्रशोकाकुलामिव।।2.52.39।। Ayodhya Kanda,52,40,सराममपि तावन्मे रथं दृष्ट्वा तदा जनः। विना रामं रथं दृष्ट्वा विदीर्येतापि सा पुरी।।2.52.40।। Ayodhya Kanda,52,41,दैन्यं हि नगरी गच्छेद्दृष्ट्वा शून्यमिमं रथम्। सूतावशेषं स्वं सैन्यं हतवीरमिवाऽहवे।।2.52.41।। Ayodhya Kanda,52,42,दूरेऽपि निवसन्तं त्वां मानसेनाग्रतः स्थितम्। चिन्तयन्तोऽद्य नूनं त्वां निराहाराः कृताः प्रजाः।।2.52.42।। Ayodhya Kanda,52,43,दृष्टं तद्धि त्वया राम यादृशं त्वत्प्रवासने। प्रजानां सङ्कुलं वृत्तं त्वच्छोकक्लान्तचेतसाम्।।2.52.43।। Ayodhya Kanda,52,44,आर्तनादो हि यः पौरैर्मुक्तस्त्वद्विप्रवासने। सरथं मां निशाम्यैव कुर्युः शतगुणं ततः।।2.52.44।। Ayodhya Kanda,52,45,अहं किं चापि वक्ष्यामि देवीं तव सुतो मया। नीतोऽसौ मातुलकुलं सन्तापं मा कृथा इति।।2.52.45।। Ayodhya Kanda,52,46,असत्यमपि नैवाहं ब्रूयां वचनमीदृशम्। कथमप्रियमेवाहं ब्रूयां सत्यमिदं वचः।।2.52.46।। Ayodhya Kanda,52,47,मम तावन्नियोगस्थास्त्वद्बन्धुजनवाहिनः। कथं रथं त्वया हीनं प्रवक्ष्यन्ति हयोत्तमाः।।2.52.47।। Ayodhya Kanda,52,48,तन्न शक्ष्याम्यहं गन्तुमयोध्यां त्वदृतेऽनघ। वनवासानुयानाय मामनुज्ञातुमर्हसि।।2.52.48।। Ayodhya Kanda,52,49,यदि मे याचमानस्य त्यागमेव करिष्यसि। सरथोऽग्निं प्रवेक्ष्यामि त्यक्तमात्र इह त्वया।।2.52.49।। Ayodhya Kanda,52,50,भविष्यन्ति वने यानि तपोविघ्नकराणि ते। रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव।।2.52.50।। Ayodhya Kanda,52,51,त्वत्कृते न मयाऽवाप्तं रथचर्याकृतं सुखम्। आशंसे त्वत्कृते नाहं वनवासकृतं सुखम्।।2.52.51।। Ayodhya Kanda,52,52,प्रसीदेच्छामि तेऽरण्ये भवितुं प्रत्यनन्तरः। प्रीत्याऽभिहितमिच्छामि भव मे प्रत्यनन्तरः।।2.52.52।। Ayodhya Kanda,52,53,इमे चापि हया वीर यदि ते वनवासिनः। परिचर्यां करिष्यन्ति प्राप्स्यन्ति परमां गतिम्।।2.52.53।। Ayodhya Kanda,52,54,तव शुश्रूषणं मूर्ध्ना करिष्यामि वने वसन्। अयोध्यां देवलोकं वा सर्वथा प्रजहाम्यहम्।।2.52.54।। Ayodhya Kanda,52,55,न हि शक्या प्रवेष्टुं सा मयाऽयोध्या त्वया विना। राजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा।।2.52.55।। Ayodhya Kanda,52,56,वनवासे क्षयं प्राप्ते ममैष हि मनोरथः। यदनेन रथेनैव त्वां वहेयं पुरीं पुनः।।2.52.56।। Ayodhya Kanda,52,57,चतुर्दश हि वर्षाणि सहितस्य त्वया वने। क्षणभूतानि यास्यन्ति शतसङ्ख्यान्यतोऽन्यथा।।2.52.57।। Ayodhya Kanda,52,58,भृत्यवत्सल तिष्ठन्तं भर्तृपुत्रगते पथि। भक्तं भृत्यं स्थितं स्थित्यां त्वं न मां हातुमर्हसि।।2.52.58।। Ayodhya Kanda,52,59,एवं बहुविधं दीनं याचमानं पुनः पुनः। रामो भृत्यानुकम्पी तु सुमन्त्रमिदमब्रवीत्।।2.52.59।। Ayodhya Kanda,52,60,जानामि परमां भक्तिं मयि ते भर्तृवत्सल। शृणु चापि यदर्थं त्वां प्रेषयामि पुरीमितः।।2.52.60।। Ayodhya Kanda,52,61,नगरीं त्वां गतं दृष्ट्वा जननी मे यवीयसी। कैकेयी प्रत्ययं गच्छेदिति रामो वनं गतः।।2.52.61।। Ayodhya Kanda,52,62,परितुष्टा हि सा देवी वनवासं गते मयि। राजानं नातिशङ्केत 'मिथ्यावादी'ति धार्मिकम्।।2.52.62।। Ayodhya Kanda,52,63,एष मे प्रथमः कल्पो यदम्बा मे यवीयसी। भरतारक्षितं स्फीतं पुत्रराज्यमवाप्नुयात्।।2.52.63।। Ayodhya Kanda,52,64,मम प्रियार्थं राज्ञश्च सरथस्त्वं पुरीं व्रज। सन्दिष्टश्चासि यानर्थांस्तां स्तान् ब्रूयास्तथा तथा।।2.52.64।। Ayodhya Kanda,52,65,इत्युक्त्वा वचनं सूतं सान्त्वयित्वा पुनः पुनः। गुहं वचनमक्लीबो रामो हेतुमदब्रवीत्।।2.52.65।। Ayodhya Kanda,52,66,नेदानीं गुह योग्योऽयं वासो मे सजने वने। आवश्यं ह्याश्रमे वासः कर्तव्यस्तद्गतो विधिः।।2.52.66।। Ayodhya Kanda,52,67,सोऽहं गृहीत्वा नियमं तपस्वि जनभूषणम्। हितकामः पितुर्भूयः सीताया लक्ष्मणस्य च।।2.52.67।। जटाः कृत्वा गमिष्यामि न्यग्रोधक्षीरमानय। Ayodhya Kanda,52,68,तत् क्षीरं राजपुत्राय गुहः क्षिप्रमुपाहरत्।।2.52.68।। लक्ष्मणस्यात्मनश्चैव रामस्तेनाकरोज्जटाः। Ayodhya Kanda,52,69,दीर्घबाहुर्नरव्याघ्रो जटिलत्वमधारयत्।।2.52.69।। Ayodhya Kanda,52,70,तौ तदा चीरवसनौ जटामण्डलधारिणौ। आशोभेतामृषिसमौ भ्रातरौ रामलक्ष्मणौ।।2.52.70।। Ayodhya Kanda,52,71,ततो वैखानसं मार्गमास्थितः सह लक्ष्मणः। व्रतमादिष्टवान् रामः सखायं गुहमब्रवीत्।।2.52.71।। Ayodhya Kanda,52,72,अप्रमत्तो बले कोशे दुर्गे जनपदे तथा। भवेथा गुह राज्यं हि दुरारक्षतमं मतम्।।2.52.72।। Ayodhya Kanda,52,73,ततस्तं समनुज्ञाय गुहमिक्ष्वाकुनन्दनः। जगाम तूर्णमव्यग्रः सभार्यः सह लक्ष्मणः।।2.52.73।। Ayodhya Kanda,52,74,स तु दृष्ट्वा नदीतीरे नावमिक्ष्वाकुनन्दनः। तितीर्षुः शीघ्रगां गङ्गामिदं लक्ष्मणमब्रवीत्।।2.52.74।। Ayodhya Kanda,52,75,आरोह त्वं नरव्याघ्र स्थितां नावमिमां शनैः। सीतां चारोपयान्वक्षं परिगृह्य मनस्विनीम्।।2.52.75।। Ayodhya Kanda,52,76,स भ्रातुः शासनं श्रुत्वा सर्वमप्रतिकूलयन्। आरोप्य मैथिलीं पूर्वमारुरोहाऽऽत्मवां स्ततः।।2.52.76।। Ayodhya Kanda,52,77,अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वजः। ततो निषादाधिपतिर्गुहो ज्ञातीनचोदयत्।।2.52.77।। Ayodhya Kanda,52,78,राघवोऽपि महातेजा नावमारुह्य तां ततः। ब्रह्मवत् क्षत्रवच्चैव जजाप हितमात्मनः।।2.52.78।। Ayodhya Kanda,52,79,आचम्य च यथाशास्त्रं नदीं तां सह सीतया। प्राणमत्प्रीतिसंहृष्टो लक्ष्मणश्चामितप्रभः।।2.52.79।। Ayodhya Kanda,52,80,अनुज्ञाय सुमन्त्रं च सबलं चैव तं गुहम्। आस्थाय नावं रामस्तु चोदयामास नाविकान्।।2.52.80।। Ayodhya Kanda,52,81,ततस्तैश्चोदिता सा नौः कर्णधारसमाहिता। शुभस्फ्यवेगाभिहता शीघ्रं सलिलमत्यगात्।।2.52.81.।। Ayodhya Kanda,52,82,मध्यं तु समनुप्राप्य भागीरथ्यास्त्वनिन्दिता। वैदेही प्राञ्जलिर्भूत्वा तां नदीमिदमब्रवीत्।।2.52.82।। Ayodhya Kanda,52,83,पुत्रो दशरथस्यायं महाराजस्य धीमतः। निदेशं पारयित्वेमं गङ्गे त्वदभिरक्षितः।।2.52.83।। Ayodhya Kanda,52,84,चतुर्दश हि वर्षाणि समग्राण्युष्य कानने। भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति।।2.52.84।। Ayodhya Kanda,52,85,ततस्त्वां देवि सुभगे क्षेमेण पुनरागता। यक्ष्ये प्रमुदिता गङ्गे सर्वकामसमृद्धिनी।।2.52.85।। Ayodhya Kanda,52,86,त्वं हि त्रिपथगा देवि ब्रह्मलोकं समीक्षसे। भार्या चोदधिराजस्य लोकेऽस्मिन् सम्प्रदृश्यसे।।2.52.86।। Ayodhya Kanda,52,87,सा त्वां देवि नमस्यामि प्रशंसामि च शोभने। प्राप्तराज्ये नरव्याघ्रे शिवेन पुनरागते।।2.52.87।। Ayodhya Kanda,52,88,गवां शतसहस्राणि वस्त्राण्यन्नं च पेशलम्। ब्राह्मणेभ्यः प्रदास्यामि तव प्रियचिकीर्षया।।2.52.88।। Ayodhya Kanda,52,89,सुराघटसहस्रेण मांसभूतौदनेन च। यक्ष्ये त्वां प्रयता देवि पुरीं पुनरुपागता।।2.52.89।। Ayodhya Kanda,52,90,यानि त्वत्तीरवासीनि दैवतानि च सन्ति हि। तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि च।।2.52.90।। Ayodhya Kanda,52,91,पुनरेव महाबाहुर्मया भ्रात्रा च सङ्गतः। अयोध्यां वनवासात्तु प्रविशत्वनघोऽनघे।।2.52.91।। Ayodhya Kanda,52,92,तथा सम्भाषमाणा सा सीता गङ्गामनिन्दिता। दक्षिणा दक्षिणं तीरं क्षिप्रमेवाभ्युपागमत्।।2.52.92।। Ayodhya Kanda,52,93,तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः। प्रातिष्ठत सह भ्रात्रा वैदेह्या च परन्तपः।।2.52.93।। Ayodhya Kanda,52,94,अथाब्रवीन्महाबाहुः सुमित्रानन्दवर्धनम्। भव संरक्षणार्थाय सजने विजनेऽपि वा।।2.52.94।। Ayodhya Kanda,52,95,अवश्यं रक्षणं कार्यमदृष्टे विजने वने। अग्रतो गच्छ सौमित्रे सीता त्वामनुगच्छतु।।.2.52.95।। Ayodhya Kanda,52,96,पृष्ठतोऽहं गमिष्यामि त्वां च सीतां च पालयन्। अन्योन्यस्येह नो रक्षा कर्तव्या पुरुषर्षभ।।2.52.96।। Ayodhya Kanda,52,97,न हि तावदतिक्रान्ता सुकरा काचन क्रिया। अद्य दुःखं तु वैदेही वनवासस्य वेत्स्यति।।2.52.97।। Ayodhya Kanda,52,98,प्रणष्टजनसम्बाधं क्षेत्रारामविवर्जितम्। विषमं च प्रपातं च वनमद्य प्रवेक्ष्यति।।2.52.98।। Ayodhya Kanda,52,99,श्रुत्वा रामस्य वचनं प्रतस्थे लक्ष्मणोऽग्रतः। अनन्तरं च सीताया राघवो रघुनन्दनः।।2.52.99।। Ayodhya Kanda,52,100,गतं तु गङ्गापरपारमाशु रामं सुमन्त्रः प्रततं निरीक्ष्य। अध्वप्रकर्षाद्विनिवृत्तदृष्टि र्मुमोच बाष्पं व्यथित स्तपस्वी।।2.52.100।। Ayodhya Kanda,52,101,स लोकपालप्रतिमप्रभाववां स्तीर्त्वा महात्मा वरदो महानदीम्। ततः समृद्धान् शुभसस्यमालिनः क्रमेण वत्सान् मुदितानुपागमत्।।2.52.101।। Ayodhya Kanda,52,102,तौ तत्र हत्वा चतुरो महामृगान् वराहमृश्यं पृषतं महारुरुम्। आदाय मेध्यं त्वरितं बुभुक्षितौ वासाय काले ययतुर्वनस्पतिम्।।2.52.102।। Ayodhya Kanda,53,1,स तं वृक्षं समासाद्य सन्ध्यामन्वास्यपश्चिमाम्। रामो रमयतां श्रेष्ठ इति होवाच लक्ष्मणम्।।2.53.1।। Ayodhya Kanda,53,2,अद्येयं प्रथमा रात्रिर्याता जनपदाद्बहिः। या सुमन्त्रेण रहिता तां नोत्कण्ठितुमर्हसि।।2.53.2।। Ayodhya Kanda,53,3,जागर्तव्यमतन्द्रिभ्यामद्यप्रभृति रात्रिषु। योगक्षेमौ हि सीताया वर्तेते लक्ष्मणावयोः।।2.53.3।। Ayodhya Kanda,53,4,रात्रिं कथञ्चिदेवेमां सौमित्रे वर्तयामहे। अपावर्तामहे भूमावास्तीर्य स्वयमार्जितैः।।2.53.4।। Ayodhya Kanda,53,5,स तु संविश्य मेदिन्यां महार्हशयनोचितः। इमाः सौमित्रये रामो व्याजहार कथाः शुभाः।।2.53.5।। Ayodhya Kanda,53,6,ध्रुवमद्य महाराजो दुःखं स्वपिति लक्ष्मण। कृतकामा तु कैकेयी तुष्टा भवितुमर्हति।।2.53.6।। Ayodhya Kanda,53,7,सा हि देवी महाराजं कैकेयी राज्यकारणात्। अपि न च्यावयेत्प्राणान् दृष्ट्वा भरतमागतम्।।2.53.7।। Ayodhya Kanda,53,8,अनाथश्च हि वृद्धश्च मया चैव विनाकृतः। किं करिष्यति कामात्मा कैकेयी वशमागतः।।2.53.8।। Ayodhya Kanda,53,9,इदं व्यसनमालोक्य राज्ञश्च मतिविभ्रमम्। काम एवार्थधर्माभ्यां गरीयानिति मे मतिः।।2.53.9।। Ayodhya Kanda,53,10,को ह्यविद्वानपि पुमान् प्रमदायाः कृते त्यजेत्। छन्दानुवर्तिनं पुत्रं तातो मामिव लक्ष्मण।।2.53.10।। Ayodhya Kanda,53,11,सुखी बत सभार्यश्च भरतः केकयीसुतः। मुदितान् कोसलानेको यो भोक्ष्यत्यधिराजवत्।।2.53.11।। Ayodhya Kanda,53,12,स हि सर्वस्य राज्यस्य मुखमेकं भविष्यति। ताते च वयसाऽतीते मयि चारण्यमास्थिते।।2.53.12।। Ayodhya Kanda,53,13,अर्थधर्मौ परित्यज्य य काममनुवर्तते। एवमापद्यते क्षिप्रं राजा दशरथो यथा।।2.53.13।। Ayodhya Kanda,53,14,मन्ये दशरथान्ताय मम प्रव्राजनाय च। कैकेयी सौम्य सम्प्राप्ता राज्याय भरतस्य च।।2.53.14।। Ayodhya Kanda,53,15,अपीदानीं तु कैकेयी सौभाग्यमदमोहिता। कौसल्यां च सुमित्रां च सम्प्रबाधेत मत्कृते।।2.53.15।। Ayodhya Kanda,53,16,मा स्म मत्कारणाद्देवी सुमित्रा दुःखमावसेत्। अयोध्यामित एव त्वं काल्ये प्रविश लक्ष्मण।।2.53.16।। Ayodhya Kanda,53,17,अहमेको गमिष्यामि सीतया सह दण्डकान्। अनाथाया हि नाथस्त्वं कौशल्याया भविष्यसि।।2.53.17।। Ayodhya Kanda,53,18,क्षुद्रकर्मा हि कैकेयी द्वेष्यमन्याय्यमाचरेत्। परिदद्याहि धर्मज्ञे भरते मम मातरम्।।2.53.18।। Ayodhya Kanda,53,19,नूनं जात्यन्तरे कस्मिन् स्त्रियः पुत्रैर्वियोजिताः। जनन्या मम सौमित्रे तस्मादेतदुपस्थितम्।।2.53.19।। Ayodhya Kanda,53,20,मया हि चिरपुष्टेन दुखसंवर्धितेन च। विप्रयुज्यत कौशल्या फलकाले धिगस्तु माम्।।2.53.20।। Ayodhya Kanda,53,21,मा स्म सीमन्तिनी काचिज्जनयेत्पुत्रमीदृशम्। सौमित्रे योऽहमम्बाया दद्मि शोकमनन्तकम्।।2.53.21।। Ayodhya Kanda,53,22,मन्ये प्रीतिविशिष्टा सा मत्तो लक्ष्मण शारिका। यस्यास्तच्छ्रूयते वाक्यं शुक पादमरेर्दश।।2.53.22।। Ayodhya Kanda,53,23,शोचन्त्या अल्पभाग्याया न किञ्चिदुपकुर्वता। पुत्रेण किमपुत्राया मया कार्यमरिन्दम।।2.53.23।। Ayodhya Kanda,53,24,अल्पभाग्या हि मे माता कौशल्या रहिता मया। शेते परमदुःखार्ता पतिता शोकसागरे।।2.53.24।। Ayodhya Kanda,53,25,एको ह्यहमयोध्यां च पृथिवीं चापि लक्ष्मण। तरेयमिषुभिः क्रुद्धो ननु वीर्यमकारणम्।।2.53.25।। Ayodhya Kanda,53,26,अधर्मभयभीतश्च परलोकस्य चानघ। तेन लक्ष्मण नाद्याह मात्मानमभिषेचये।।2.53.26।। Ayodhya Kanda,53,27,एतदन्यश्च करुणं विलप्य विजने वने। अश्रुपूर्णमुखो रामो निशि तूष्णीमुपाविशत्।।2.53.27।। Ayodhya Kanda,53,28,विलप्योपरतं रामं गतार्चिषमिवानलम्। समुद्रमिव निर्वेगमाश्वासयत लक्ष्मणः।।2.53.28।। Ayodhya Kanda,53,29,ध्रुवमद्य पुरी राजन्नयोध्यायुधिनां वर। निष्प्रभा त्वयि निष्क्रान्ते गतचन्द्रेव शर्वरी।।2.53.29।। Ayodhya Kanda,53,30,नैतदौपयिकं राम यदिदं परितप्यते। विषादयसि सीतां च मां चैव पुरुषर्षभ।।2.53.30।। Ayodhya Kanda,53,31,न च सीता त्वया हीना न चाहमपि राघव। मुहूर्तमपि जीवावो जलान्मत्स्याविनोद्धृतौ।।2.53.31।। Ayodhya Kanda,53,32,नहि तातं न शत्रुघ्नं न सुमित्रां परन्तप। द्रष्टुमिच्छेयमद्याहं स्वर्गं चापि त्वया विना।।2.53.32।। Ayodhya Kanda,53,33,ततस्तत्र सुखासीनौ नातिदूरे निरीक्ष्य ताम्। न्यग्रोधे सुकृतां शय्यां भेजाते धर्मवत्सलौ।।2.53.33।। Ayodhya Kanda,53,34,स लक्ष्मणस्योत्तमपुष्कलं वचो निशम्य चैवं वनवासमादरात्। समाः समस्ता विदधे परन्तपः प्रपद्य धर्मं सुचिराय राघवः।।2.53.34।। Ayodhya Kanda,53,35,ततस्तु तस्मिन् विजने वने तदा महाबलौ राघववंशवर्धनौ। न तौ भयं सम्भ्रममभ्युपेयतु र्यथैव सिंहौ गिरिसानुगोचरौ।।2.53.35।। Ayodhya Kanda,54,1,ते तु तस्मिन्महावृक्षे उषित्वा रजनीं शिवाम्। विमलेऽभ्युदिते सूर्ये तस्माद्देशात्प्रतस्थिरे।।2.54.1।। Ayodhya Kanda,54,2,यत्र भागीरथीं गङ्गां यमुनाभिप्रवर्तते। जग्मुस्तं देशमुद्दिश्य विगाह्य सुमहद्वनम्।।2.54.2।। Ayodhya Kanda,54,3,ते भूमिभागान्विविधान् देशांश्चापि मनोरमान्। अदृष्टपूर्वान् पश्यन्तस्तत्र तत्र यशश्विनः।।2.54.3।। Ayodhya Kanda,54,4,यथा क्षेमेण गच्छन् स पश्यंश्च विविधान् द्रुमान्। निवृत्तमात्रे दिवसे रामः सौमित्रिमब्रवीत्।।2.54.4।। Ayodhya Kanda,54,5,प्रयागमभितः पश्य सौमित्रे धूममुन्नतम्। अग्नेर्भगवतः केतुं मन्ये सन्निहितो मुनिः।।2.54.5।। Ayodhya Kanda,54,6,नूनं प्राप्ताः स्म सम्भेदं गङ्गायमुनयोर्वयम्। तथा हि श्रूयते शब्दो वारिणो वारिघट्टितः।।2.54.6।। Ayodhya Kanda,54,7,दारूणि परिभिन्नानि वनजैरुपजीविभिः। भरद्वाजाश्रमे चैते दृश्यन्ते विविधा द्रुमाः।।2.54.7।। Ayodhya Kanda,54,8,धन्विनौ तौ सुखं गत्वा लम्बमाने दिवाकरे। गङ्गायमुनयोस्सन्धौ प्रापतुर्निलयं मुनेः।।2.54.8।। Ayodhya Kanda,54,9,रामस्त्वाश्रममासाद्य त्रासयन्मृगपक्षिणः। गत्वा मुहूर्तमध्वानं भरद्वाजमुपागमत्।।2.54.9।। Ayodhya Kanda,54,10,ततस्त्वाश्रमासाद्य मुनेर्दर्शनकाङ्क्षिणौ। सीतयानुगतौ वीरौ दूरादेवावतस्थतुः।।2.54.10।। Ayodhya Kanda,54,11,स प्रविश्य महात्मानमृषिं शिष्यगणैर्वृतम्। संशितव्रतमेकाग्रं तपसा लब्धचक्षुषम्।।2.54.11।। Ayodhya Kanda,54,12,हुताग्निहोत्रं दृष्ट्वैव महाभागं कृताञ्जलिः। रामः सौमित्रिणा सार्धं सीतया चाभ्यवादयत्।।2.54.12।। Ayodhya Kanda,54,13,न्यवेदयत चात्मानं तस्मै लक्ष्मणपूर्वजः। पुत्रौ दशरथस्यावां भगवन् रामलक्ष्मणौ।।2.54.13।। Ayodhya Kanda,54,14,भार्या ममेयं वैदेही कल्याणी जनकात्मजा। मां चानुयाता विजनं तपोवनमनिन्दिता।।2.54.14।। Ayodhya Kanda,54,15,पित्रा प्रव्राज्यमानं मां सौमित्रिरनुज प्रियः। अयमन्वगमद्भ्राता वनमेव दृढव्रतः।।2.54.15।। Ayodhya Kanda,54,16,पित्रा नियुक्ता भगवन् प्रवेक्ष्यामस्तपोवनम्। धर्ममेव चरिष्याम स्तत्र मूलफलाशनाः।।2.54.16।। Ayodhya Kanda,54,17,तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः। उपानयत धर्मात्मा गामर्घ्यमुदकं ततः।।2.54.17।। Ayodhya Kanda,54,18,नानाविधानन्नरसान् वन्यमूलफलाश्रयान्। तेभ्यो ददौ तप्ततपा वासं चैवाभ्यकल्पयत्।।2.54.18।। Ayodhya Kanda,54,19,मृगपक्षिभिरासीनो मुनिभिश्च समन्ततः। राममागतमभ्यर्च्य स्वागतेनाहतं मुनिः।।2.54.19।। Ayodhya Kanda,54,20,प्रतिगृह्य च तामर्चामुपविष्टं स राघवम्। भरद्वाजोऽब्रवीद्वाक्यं धर्मयुक्तमिदं तदा।।2.54.20।। Ayodhya Kanda,54,21,चिरस्य खलु काकुत्स्थ पश्यामि त्वामिहागतम्। श्रुतं तव मया चेदं विवासनमकारणम्।।2.54.21।। Ayodhya Kanda,54,22,अवकाशो विविक्तोऽयं महानद्योस्समागमे। पुण्यश्च रमणीयश्च वसत्विह भवान् सुखम्।।2.54.22।। Ayodhya Kanda,54,23,एवमुक्तस्तु वचनं भरद्वाजेन राघवः। प्रत्युवाच शुभं वाक्यं रामः सर्वहिते रतः।।2.54.23।। Ayodhya Kanda,54,24,भगवन्नित आसन्नः पौरजानपदो जनः। सुदर्शमिह मां प्रेक्ष्य मन्येऽहमिममाश्रमम्।।2.54.24।। Ayodhya Kanda,54,25,आगमिष्यति वैदेहीं मां चापि प्रेक्षको जनः। अनेन कारणेनाहमिह वासं न रोचये।।2.54.25।। Ayodhya Kanda,54,26,एकान्ते पश्य भगवन्नाश्रमस्थानमुत्तमम्। रमेत यत्र वैदेही सुखार्हा जनकात्मजा।।2.54.26।। Ayodhya Kanda,54,27,एतछ्रुत्वा शुभं वाक्यं भरद्वाजो महामुनिः। राघवस्य ततो वाक्यमर्थग्राहकमब्रवीत्।।2.54.27।। Ayodhya Kanda,54,28,दशक्रोश इतस्तात गिरिर्यत्रनिवत्स्यसि। महर्षिसेवितः पुण्यः सर्वतः सुखदर्शनः।।2.54.28।। Ayodhya Kanda,54,29,गोलाङ्गूलानुचरितो वानरर्क्षनिषेवितः। चित्रकूट इति ख्यातो गन्धमादनसन्निभः।।2.54.29।। Ayodhya Kanda,54,30,यावता चित्रकूटस्य नरशृङ्गान्यवेक्षते। कल्याणानि समाधत्ते न पापे कुरुते मनः।।2.54.30।। Ayodhya Kanda,54,31,ऋषयस्तत्र बहवो विहृत्य शरदां शतम्। तपसा दिवमारूढाः कपालशिरसा सह।।2.54.31।। Ayodhya Kanda,54,32,प्रविविक्तमहं मन्ये तं वासं भवतस्सुखम्। इह वा वनवासाय वस राम मया सह।।2.54.32।। Ayodhya Kanda,54,33,स रामं सर्वकामैस्तं भरद्वाजः प्रियातिथिम्। सभार्यं सह च भ्रात्रा प्रतिजग्राह धर्मवित्।।2.54.33।। Ayodhya Kanda,54,34,तस्य प्रयागे रामस्य तं महर्षिमुपेयुषः। प्रपन्ना रजनी पुण्याः चित्राः कथयतः कथाः।।2.54.34।। Ayodhya Kanda,54,35,सीतातृतीयः काकुत्स्थः परिश्रान्तः सुखोचितः। भरद्वाजाश्रमे रम्ये तां रात्रिमवसत्सुखम्।।2.54.35।। Ayodhya Kanda,54,36,प्रभातायां रजन्यां तु भरद्वाजमुपागमत्। उवाच नरशार्दूलो मुनिं ज्वलिततेजसम्।।2.54.36।। Ayodhya Kanda,54,37,शर्वरीं भगवन्नद्य सत्यशील तवाश्रमे। उषिताः स्मेह वसतिमनुजानातु नो भवान्।।2.54.37।। Ayodhya Kanda,54,38,रात्र्यां तु तस्यां व्युष्टायां भरद्वाजोऽब्रवीदिदम्। मधुमूलफलोपेतं चित्रकूटं व्रजेति ह।।2.54.38।। Ayodhya Kanda,54,39,वासमौपयिकं मन्ये तव राम महाबल नानानगगणोपेतः किन्नरोरगसेवितः। मयूरनादाभिरुतो गजराजनिषेवितः।।2.54.39।। Ayodhya Kanda,54,40,गम्यतां भवता शैल श्चित्रकूटः स विश्रुतः। पुण्यश्च रमणीयश्च बहुमूलफलायुतः।।2.54.40।। Ayodhya Kanda,54,41,तत्र कुञ्जरयूथानि मृगयूथानि चाभितः। विचरन्ति वनान्तेस्मिन् तानि द्रक्ष्यसि राघव।।2.54.41।। Ayodhya Kanda,54,42,सरित्प्रस्रवणप्रस्थान् दरीकन्दरनिर्झरान्। चरतः सीतया सार्धं नन्दिष्यति मनस्तव।।2.54.42।। Ayodhya Kanda,54,43,प्रहृष्टकोयष्टिककोकिलस्वनैर्विनादितं तं वसुधाधरं शिवम्। मृगैश्च मत्तैर्बहुभिश्च कुञ्जरैः सुरम्यमासाद्य समावसाश्रमम्।।2.54.43।। Ayodhya Kanda,55,1,उषित्वा रजनीं तत्र राजपुत्रावरिन्दमौ। महर्षिमभिवाद्याथ जग्मतुस्तं गिरिं प्रति।।2.55.1।। Ayodhya Kanda,55,2,तेषां चैव स्वस्त्ययनं महर्षि स्स चकार ह। प्रस्थितांश्चैव तान्प्रेक्ष्य पिता पुत्रानिवान्वगात्।।2.55.2।। Ayodhya Kanda,55,3,ततः प्रचक्रमे वक्तुं वचनं स महामुनिः। भरद्वाजो महातेजा रामं सत्यपराक्रमम्।।2.55.3।। Ayodhya Kanda,55,4,गङ्गायमुनयो स्सन्धिमासाद्य मनुजर्षभौ। कालिन्दीमनुगच्छेतां नदीं पश्चान्मुखाश्रिताम्।।2.55.4।। Ayodhya Kanda,55,5,अथाऽसाद्य तु कालिन्दी शीघ्रस्रोतसमापगाम्। तस्यास्तीर्थं प्रचलितं पुराणं प्रेक्ष्य राघवौ।।2.55.5।। तत्र यूयं प्लवं कृत्वा तरतांशुमतीं नदीम्। Ayodhya Kanda,55,6,ततो न्यग्रोधमासाद्य महान्तं हरितच्छदम्।।2.55.6।। Ayodhya Kanda,55,7,विवृद्धं बहुभिर्वृक्षै श्श्यामं सिद्धोपसेवितम्। तस्मै सीताञ्जलिं कृत्वा प्रयुञ्जीताशिषश्शिवाः।।2.55.7।। Ayodhya Kanda,55,8,समासाद्य तु तं वृक्षं वसेद्वातिक्रमेत वा। क्रोशमात्रं ततो गत्वा नीलं द्रक्ष्यथ काननम्।।2.55.8।। पलाशबदरीमिश्रं रम्यं वंशैश्च यामुनैः। Ayodhya Kanda,55,9,स पन्थाश्चित्रकूटस्य गत स्सुबहुशो मया।।2.55.9।। रम्यो मार्दवयुक्तश्च वनदावैर्विवर्जितः। Ayodhya Kanda,55,10,इति पन्थानमावेद्य महर्षिस्सन्यवर्तत।।2.55.10।। अभिवाद्य तथेत्युक्त्वा रामेण विनिवर्तितः। Ayodhya Kanda,55,11,उपावृत्ते मुनौ तस्मिन्रामो लक्ष्मणमब्रवीत्।।2.55.11।। कृतपुण्याः स्म सौमित्रे मुनिर्यन्नोऽनुकम्पते। Ayodhya Kanda,55,12,इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ। सीतामेवाग्रतः कृत्वा कालिन्दीं जग्मतुर्नदीम्।।2.55.12।। Ayodhya Kanda,55,13,अथाऽसाद्य तु कालिन्दीं शीघ्रस्रोतोवहां नदीम्। चिन्तामापेदिरे सर्वे नदीजलतितीर्षवः।।2.55.13।। Ayodhya Kanda,55,14,तौ काष्ठसङ्घातमथो चक्रतु स्सुमहाप्लवम्। शुष्कैर्वंशै स्समास्तीर्णमुशीरैश्च समावृतम्।।2.55.14।। Ayodhya Kanda,55,15,ततो वेतसशाखाश्च जम्बूशाखाश्च वीर्यवान्। चकार लक्ष्मणश्छित्वा सीताया स्सुखमासनम्।।2.55.15।। Ayodhya Kanda,55,16,तत्र श्रियमिवाचिन्त्यां रामो दाशरथिः प्रियाम्। ईषत्संलज्जमानां तामध्यारोपयतप्लवम्।।2.55.16।। Ayodhya Kanda,55,17,पार्श्वे च तत्र वैदेह्या वसने भूषणानि च। प्लवे कठिनकाजं च रामश्चक्रे सहायुधैः।।2.55.17।। Ayodhya Kanda,55,18,आरोप्य प्रथमं सीतां सङ्घाटं परिगृह्य तौ। तत प्रतेरतुर्यत्तौ वीरौ दशरथात्मजौ।।2.55.18।। Ayodhya Kanda,55,19,कालिन्दीमध्यमायाता सीता त्वेनामवन्दत। स्वस्ति देवि तरामि त्वां पारये न्मे पतिर्व्रतम्।।2.55.19।। Ayodhya Kanda,55,20,यक्ष्ये त्वां गोसहस्रेण सुराघटशतेन च। स्वस्ति प्रत्यागते रामे पुरी मिक्ष्वाकुपालिताम्।।2.56.20।। Ayodhya Kanda,55,21,कालिन्दी मथ सीता तु याचमाना कृताञ्जलिः। तीरमेवाभिसम्प्राप्ता दक्षिणं वरवर्णिनी।।2.55.21।। Ayodhya Kanda,55,22,तत प्लवेनांशुमतीं शीघ्रगामूर्मिमालिनीम्। तीरजै र्बहुभिर्वृक्षै स्सन्तेरुर्यमुनां नदीम्।।2.55.22।। Ayodhya Kanda,55,23,ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात्। श्यामं न्यग्रोध मासेदु श्शीतलं हरितच्छदम्।।2.55.23।। Ayodhya Kanda,55,24,न्यग्रोधं तमुपागम्य वैदेही वाक्यमब्रवीत्। नमस्तेऽस्तु महावृक्ष पारयेन्मे पतिर्व्रतम्।।2.55.24।। Ayodhya Kanda,55,25,कौशल्यां चैव पश्येयं सुमित्रां च यशश्विनीम्। इति सीताऽञ्जलिं कृत्वा पर्यगच्छद्वनस्पतिम्।।2.55.25।। Ayodhya Kanda,55,26,अवलोक्य तत स्सीतामायाचन्तीमनिन्दिताम्। दयितां च विधेयां च रामो लक्ष्मणमब्रवीत्।।2.55.26।। Ayodhya Kanda,55,27,सीतामादाय गच्छत्वमग्रतो भरतानुज। पृष्ठतोऽहं गमिष्यामि सायुधो द्विपदां वर।।2.55.27।। Ayodhya Kanda,55,28,यद्यत्फलं प्रार्थयते पुष्पं वा जनकात्मजा। तत्तत्प्रदद्या वैदेह्या यत्राऽस्या रमते मनः।।2.55.28।। Ayodhya Kanda,55,29,गच्छतोऽस्तु तयोर्मध्ये बभूव जनकात्मजा। मातङ्गयोर्मध्यगता शुभा नागवधूरिव।।2.55.29।। Ayodhya Kanda,55,30,एकैकं पादपं गुल्मं लतां वा पुष्पशालिनीम्। अदृष्टपूर्वां पश्यन्ती रामं पप्रच्छ साऽबला।।2.55.30।। Ayodhya Kanda,55,31,रमणीयान्बहुविधान्पादपान्कुसुमोत्कटान्। सीतावचनसंरब्ध आनयामास लक्ष्मणः।।2.55.31।। Ayodhya Kanda,55,32,विचित्रवालुकजलां हंससारसनादिताम्। रेमे जनकराजस्य सुता प्रेक्ष्य तदा नदीम्।।2.55.32।। Ayodhya Kanda,55,33,क्रोशमात्रं ततो गत्वा भ्रातरौ रामलक्ष्मणौ। बहून्मेध्यान्मृगान्हत्वा चेरतुर्यमुनावने।।2.55.33।। Ayodhya Kanda,55,34,विहृत्य ते बर्हिणपूगनादिते शुभे वने वानरवारणायुते। समं नदीवप्रमुपेत्य सम्मतं निवास माजग्मु रदीनदर्शनाः।।2.55.34।। Ayodhya Kanda,56,1,अथ रात्र्यां व्यतीतायामवसुप्तमनन्तरम्। प्रबोधयामास शनैर्लक्ष्मणं रघुनन्दनः।।2.56.1।। Ayodhya Kanda,56,2,सौमित्रे श्रुणु वन्यानां वल्गु व्याहरतां स्वनम्। सम्प्रतिष्ठामहे काल प्रस्थानस्य परन्तप।।2.56.2।। Ayodhya Kanda,56,3,स सुप्तस्समये भ्रात्रा लक्ष्मणः प्रतिबोधितः। जहौ निद्रां च तन्द्रीं च प्रसक्तं च पथि श्रमम्।।2.56.3।। Ayodhya Kanda,56,4,तत उत्थाय ते सर्वे स्पृष्ट्वा नद्या श्शिवं जलम्। पन्थानमृषिणाऽदिष्टं चित्रकूटस्य तं ययुः।।2.56.4।। Ayodhya Kanda,56,5,ततस्सम्प्रस्थितः काले रामस्सौमित्रिणा सह। सीतां कमलपत्राक्षीमिदं वचनमब्रवीत्।।2.56.5।। Ayodhya Kanda,56,6,आदिप्तानिव वैदेहि सर्वतः पुष्पितान्नगान्। स्वैः पुष्पैः किंशुकान् पश्य मालिनशिशिरात्यये।।2.56.6।। Ayodhya Kanda,56,7,पश्य भल्लातकान् फुल्लान्नरै रनुपसेवितान्। फलपत्रैरवनता न्नूनं शक्ष्याम जीवितुम्।।2.56.7।। Ayodhya Kanda,56,8,पश्य द्रोणप्रमाणानि लम्बमानानि लक्ष्मण। मधूनि मधुकारीभि स्सम्भृतानि नगे नगे।।2.56.8।। Ayodhya Kanda,56,9,एष क्रोशति नत्यूहस्तं शिखी प्रतिकूजति। रमणीये वनोद्देशे पुष्पसंस्तरसङ्कटे।।2.56.9।। Ayodhya Kanda,56,10,मातङ्गयूथानुसृतं पक्षिसंङ्घानुनादितम्। चित्रकूटमिमं पश्य प्रवृद्धशिखरं गिरिम्।।2.56.10।। Ayodhya Kanda,56,11,समभूमितले रम्ये द्रुमैर्बहुभिरावृते। पुण्ये रंस्यामहे तात चित्रकूटस्य कानने।।2.56.11।। Ayodhya Kanda,56,12,ततस्तौ पादचारेण गच्छन्तौ सह सीतया। रम्यमासेदतुश्शैलं चित्रकूटं मनोरमम्।।2.56.12।। Ayodhya Kanda,56,13,तन्तु पर्वतमासाद्य नानापक्षिगणायुतम्। बहुमूलफलं रम्यं सम्पन्नं सरसोदकम्।।2.56.13।। Ayodhya Kanda,56,14,मनोज्ञोऽयं गिरिस्सौम्य नानाद्रुमलतायुतः। बहुमूलफलो रम्य स्स्वाजीवः प्रतिभाति मे।।2.56.14।। Ayodhya Kanda,56,15,मुनयश्च महात्मानो वसन्त्यस्मि शिलोच्चये। अयं वासो भवेत्तावदत्र सौम्य रमेमहि।।2.56.15।। Ayodhya Kanda,56,16,इति सीता च रामश्च लक्ष्मणश्च कृताञ्जलिः। अभिगम्याऽश्रमं सर्वे वाल्मीकि मभिवादयन्।।2.56.16।। Ayodhya Kanda,56,17,तान्महर्षि प्रमुदितः पूजयामास धर्मवित्। अस्यतामिति चोवाच स्वागन्तु निवेद्य च।।2.56.17।। Ayodhya Kanda,56,18,ततोऽब्रवीन्महाबाहुर्लक्ष्मणं लक्ष्मणाग्रजः। सन्निवेद्य यथान्याय मात्मानमृषये प्रभुः।।2.56.18।। Ayodhya Kanda,56,19,लक्ष्मणाऽऽनय दारूणि दृढानि च वराणि च। कुरुष्वाऽवसथं सौम्य वासे मेऽभिरतं मनः।।2.56.19।। Ayodhya Kanda,56,20,तस्य तद्वचनं श्रुत्वा सौमित्रिर्विविधान् द्रुमान्। आजहार तत श्चक्रे पर्णशालामरिन्दमः।।2.56.20।। Ayodhya Kanda,56,21,तां निष्ठितां बद्धकटां दृष्ट्वा रामस्सुदर्शनाम्। शुश्रूषमाणमेकाग्रमिदं वचनमब्रवीत्।।2.56.21।। Ayodhya Kanda,56,22,ऐणेयं मांसमाहृत्य शालां यक्ष्यामहे वयम्। कर्तव्यं वास्तुशमनं सौमित्रे चिरजीविभिः।।2.56.22।। Ayodhya Kanda,56,23,मृगं हत्वाऽऽनय क्षिप्रं लक्ष्मणेह शुभेक्षण। कर्तव्य श्शास्त्रदृष्टो हि विधिर्धर्ममनुस्मर।।2.56.23।। Ayodhya Kanda,56,24,भ्रातुर्वचनमाज्ञाय लक्ष्मणः परवीरहा। चकार स यथोक्तं च तं राम पुनरब्रवीत्।।2.56.24।। Ayodhya Kanda,56,25,ऐणेयं श्रपयस्वैतच्छालां यक्ष्यामहे वयम्। त्वर सौम्य मुहूर्तोऽयं ध्रुवश्च दिवसोऽप्ययम्।।2.56.25।। Ayodhya Kanda,56,26,स लक्ष्मणः कृष्णमृगं मेध्यं हत्वा प्रतापवान्। अथ चिक्षेप सौमित्रिस्समिद्धे जातवेदसि।।2.56.26।। Ayodhya Kanda,56,27,तन्तु पक्वं परिज्ञाय निष्टप्तं छिन्नशोणितम्। लक्ष्मण: पुरुषव्याघ्रमथ राघवमब्रवीत्।।2.56.27।। Ayodhya Kanda,56,28,अयं सर्व: समस्ताग्ङ: श्रृत: कृष्णमृगो मया। देवतां देवसङ्काश यजस्व कुशलो ह्यसि।।2.56.28।। Ayodhya Kanda,56,29,राम: स्नात्वा तु नियतो गुणवान् जप्यकोविदः। सङ्ग्रहेणाकरोत् स्रवार्न मन्त्रान् सत्रावसानिकान्।।2.56.29।। Ayodhya Kanda,56,30,इष्ट्वा देवगणान्सर्वान्विवेशाऽवसथं शुचिः। बभूव च मनोह्लादो रामस्यामिततेजसः।।2.56.30।। Ayodhya Kanda,56,31,वैश्वदेवबलिं कृत्वा रौद्रं वैष्णव मेव च। वास्तुसंशमनीयानि मङ्गलानि प्रवर्तयन्।।2.56.31।। Ayodhya Kanda,56,32,जपं च न्यायत कृत्वा स्नात्वा नद्यां यथाविधि। पापसंशमनं राम श्चकार बलिमुत्तमम्।।2.56.32।। Ayodhya Kanda,56,33,वेदिस्थलविधानानि चैत्यान्यायतनानि च। आश्रमस्यानुरूपाणि स्थापयामास राघवः।।2.56.33।। Ayodhya Kanda,56,34,वन्यैर्माल्यैः फलैर्मूलैः पक्वैर्मांसैर्यथाविधि। अद्भिर्जपैश्च वेदोक्तैर्दर्भैश्च ससमित्कुशैः।।2.56.34।। Ayodhya Kanda,56,35,तौ तर्पयित्वा भूतानि राघवौ सह सीतया। तदा विविशतु श्शालां सुशुभां शुभलक्षणौ।।2.56.35।। Ayodhya Kanda,56,36,तां वृक्षपर्णच्छदनां मनोज्ञां यथाप्रदेशं सुकृतां निवाताम्। वासाय सर्वे विविशुस्समेतास्सभां यथा देवगणास्सुधर्माम्।।2.56.36।। Ayodhya Kanda,56,37,अनेकनानामृगपक्षिसङ्कुले विचित्रपत्रस्तबकैर्द्रुमैर्युते। वनोत्तमे व्यालमृगानुनादिते तदा विजह्रु स्सुसुखं जितेन्द्रियाः।।2.56.37।। Ayodhya Kanda,56,38,सुरम्यमासाद्य तु चित्रकूटं नदीं च तां माल्यवतीं सुतीर्थाम्। ननन्द हृष्टो मृगपक्षिजुष्टां जहौ च दुखं पुरविप्रवासात्।।2.35.38।। Ayodhya Kanda,57,1,कथयित्वा सुदुःखार्तस्सुमन्त्रेण चिरं सह। रामे दक्षिणकूलस्थे जगाम स्वगृहं गुहः।।2.57.1।। Ayodhya Kanda,57,2,भरद्वाजाभिगमनं प्रयागे च सहाऽसनम्। आगिरेर्गमनं तेषां तत्रस्थैरुपलक्षितम्।।2.57.2।। Ayodhya Kanda,57,3,अनुज्ञातस्सुमन्त्रोऽथ योजयित्वा हयोत्तमान्। अयोध्यामेव नगरीं प्रययौ गाढदुर्मनाः।।2.57.3।। Ayodhya Kanda,57,4,स वनानि सुगन्धीनि सरितश्च सरांसि च। पश्यन्नतिययौ शीघ्रं ग्रामाणि नगराणि च।।2.57.4।। Ayodhya Kanda,57,5,तत स्सायाह्न समये तृतीयेऽहनि सारथिः। अयोध्यां समनुप्राप्य निरानन्दां ददर्श ह।।2.57.5।। Ayodhya Kanda,57,6,स शून्यामिव निश्शब्दां दृष्ट्वा परमदुर्मनाः। सुमन्त्रश्चिन्तयामास शोकवेगसमाहतः।।2.57.6।। Ayodhya Kanda,57,7,कच्चिन्न सगजा साऽश्वा सजना सजनाधिपा। रामसन्तापदुःखेन दग्धा शोकाग्निना पुरी।।2.57.7।। Ayodhya Kanda,57,8,इति चिन्तापरस्सूतो वाजिभिश्शीघ्रपातिभिः। नगरद्वारमासाद्य त्वरितः प्रविवेश ह।।2.57.8।। Ayodhya Kanda,57,9,सुमन्त्रमभियान्तं तं शतशोऽथ सहस्रशः। क्व राम इति पृच्छन्तस्सूतमभ्यद्रवन्नराः।।2.57.9।। Ayodhya Kanda,57,10,तेषां शशंस गङ्गायामहमापृच्छ्य राघवम्। अनुज्ञातो निवृत्तोऽस्मि धार्मिकेण महात्माना।।2.57.10।। Ayodhya Kanda,57,11,ते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाः। अहो धिगिति निश्श्वस्य हा रामेति च चुक्रुशुः।।2.57.11।। Ayodhya Kanda,57,12,शुश्राव च वचस्तेषां बृन्दं बृन्दं च तिष्ठताम्। हतास्म खलु ये नेह पश्याम इति राघवम्।।2.57.12।। Ayodhya Kanda,57,13,दानयज्ञविवाहेषु समाजेषु महत्सु च। न द्रक्ष्यामः पुन र्जातु धार्मिकं राममन्तरा।।2.57.13।। Ayodhya Kanda,57,14,किं समर्थं जनस्यास्य किं प्रियं किं सुखावहम्। इति रामेण नगरं पितृवत्परिपालितम्।।2.57.14।। Ayodhya Kanda,57,15,वातायनगतानां च स्त्रीणामन्वन्तरापणम्। रामशोकाभितप्तानां शुश्राव परिदेवनम्।।2.57.15।। Ayodhya Kanda,57,16,स राजमार्गमध्येन सुमन्त्रः पिहिताननः। यत्र राजा दशरथस्तदेवोपययौ गृहम्।।2.57.16।। Ayodhya Kanda,57,17,सोऽवतीर्य रथाच्छीघ्रं राजवेश्म प्रविश्य च। कक्ष्या स्सप्ताभिचक्राम महाजनसमाकुलाः।।2.57.17।। Ayodhya Kanda,57,18,हर्म्यै र्विमानैः प्रासादैरवेक्ष्याथ समागतम्। हाहाकारकृता नार्यो रामदर्शनकर्शिताः।।2.57.18।। Ayodhya Kanda,57,19,आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः। अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रियः।।2.57.19।। Ayodhya Kanda,57,20,ततो दशरथस्त्रीणां प्रासादेभ्य स्तत स्ततः। रामशोकाभितप्तानां मन्दं शुश्राव जल्पितम्।।2.57.20।। Ayodhya Kanda,57,21,सह रामेण निर्यातो विना राम मिहागतः। सूतः किन्नाम कौसल्यां शोचन्तीं प्रतिवक्ष्यति।।2.57.21।। Ayodhya Kanda,57,22,यथा च मन्ये दुर्जीवमेवं न सुकरं ध्रुवम्। आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति।।2.57.22।। Ayodhya Kanda,57,23,सत्यरूपं तु तद्वाक्यं राज्ञ: स्त्रीणां निशामयन्। प्रदीप्तमिव शोकेन विवेश सहसा गृहम्।।2.57.23।। Ayodhya Kanda,57,24,स प्रविश्याष्टमीं कक्ष्यां राजानं दीनमातुरम्। पुत्रशोकपरिम्लानमपश्यत्पाण्डुरे गृहे।।2.57.24।। Ayodhya Kanda,57,25,अभिगम्य तमासीनं नरेन्द्रे मभिवाद्य च। सुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत्।।2.57.25।। Ayodhya Kanda,57,26,स तूष्णीमेव तच्छ्रुत्वा राजा विभ्रान्तचेतनः। मूर्छितो न्यपतद्भूमौ रामशोकाभिपीडितः।।2.57.26।। Ayodhya Kanda,57,27,ततोऽन्तःपुरमाविद्धं मूर्छिते पृथिवीपतौ। उद्धृत्य बाहू चुक्रोश नृपतौ पतितेक्षितौ।।2.57.27।। Ayodhya Kanda,57,28,सुमित्रया तु सहिता कौसल्या पतितं पतिम्। उत्थापयामास तदा वचनं चेदमब्रवीत्।।2.57.28।। Ayodhya Kanda,57,29,इमं तस्य महाभाग दूतं दुष्करकारिणः। वनवासादनुप्राप्तं कस्मान्न प्रतिभाषसे।।2.57.29।। Ayodhya Kanda,57,30,अद्यैवमनयं कृत्वा व्यपत्रपसि राघव। उत्तिष्ठ सुकृतं तेस्तु शोके नस्या त्सहायता।।2.57.30।। Ayodhya Kanda,57,31,देव यस्या भयाद्रामं नानुपृच्छसि सारथिम्। नेह तिष्ठिति कैकेयी विस्रब्धं प्रतिभाष्यताम्।।2.57.31।। Ayodhya Kanda,57,32,सा तथोक्त्वा महाराजं कौसल्या शोकलालसा। धरण्यां निपपाताऽशु बाष्पविप्लुतभाषिणी।।2.57.32।। Ayodhya Kanda,57,33,एवं विलपतीं दृष्ट्वा कौसल्यां पतितां भुवि। पतिं चावेक्ष्य ता स्सर्वा सुस्वरं रुरुदुः स्त्रियः।।2.57.33।। Ayodhya Kanda,57,34,तत स्तमन्तःपुरनादमुत्थितं समीक्ष्य वृद्धा स्तरुणाश्च मानवाः। स्त्रियश्च सर्वा रुरुदु स्समन्ततः पुरं तदासीत्पुनरेव सङ्कुलम्।।2.57.34।। Ayodhya Kanda,58,1,प्रत्याश्वस्तो यदा राजा मोहात्प्रत्यागतं पुनः। अथाऽजुहाव तं सूतं रामवृत्तान्तकारणात्।।2.58.1।। Ayodhya Kanda,58,2,अथ सूतो महाराजं कृताञ्जलिरुपस्थितः। राममेवानुशोचन्तं दुःखशोकसमन्वितम्।।2.58.2।। Ayodhya Kanda,58,3,वृद्धं परमसन्तप्तं नवग्रहमिव द्विपम्। विनिश्वसन्तं ध्यायन्तमस्वस्थ मिव कुङञरम्।।2.58.3।। Ayodhya Kanda,58,4,राजा तु रजसा सूतं ध्वस्ताङ्गं समुपस्थितम्। अश्रुपूर्णमुखं दीनमुवाच परमार्तवत्।।2.58.4।। Ayodhya Kanda,58,5,क्वनु वत्स्यति धर्मात्मा वृक्षमूलमुपाश्रितः। सोऽत्यन्तसुखित स्सूत किमशिष्यति राघवः।।2.58.5।। Ayodhya Kanda,58,6,दुःखस्यानुचितो दुःखं सुमन्त्र शयनोचितः। भूमिपालात्मजो भूमौ शेते कथमनाथवत्।।2.58.6।। Ayodhya Kanda,58,7,यं यान्तमनुयान्ति स्म पदातिरथकुञ्जराः। स वत्स्यति कथं रामो विजनं वन माश्रितः।।2.58.7।। Ayodhya Kanda,58,8,व्यालैर्मृगैराचरितं कृष्णसर्पनिषेवितम्। कथं कुमारौ वैदेह्या सार्धं वन मुपस्थितौ।।2.58.8।। Ayodhya Kanda,58,9,सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया। राजपुत्रौ कथं पादैरवरुह्य रथाद्गतौ।।2.58.9।। Ayodhya Kanda,58,10,सिद्धार्थः खलु सूत त्वं येन दृष्टौ ममाऽत्मजौ। वनान्तं प्रविशन्तौ तावश्विनाविवमन्दरम्।।2.58.10।। Ayodhya Kanda,58,11,किमुवाच वचो रामः किमुवाच च लक्ष्मणः। सुमन्त्र वनमासाद्य किमुवाच च मैथिली।।2.58.11।। Ayodhya Kanda,58,12,आसितं शयितं भुक्तं सूत रामस्य कीर्तय। जीविष्यामहमेतेन ययातिरिव साधुषु।।2.58.12।। Ayodhya Kanda,58,13,इति सूतो नरेन्द्रेण बोधित स्सज्जमानया। उवाच वाचा राजानं स बाष्पपरिबद्धया।।2.58.13।। Ayodhya Kanda,58,14,अब्रवीन्मां महाराज धर्ममेवानुपालयन्। अञ्जलिं राघवः कृत्वा शिरसाऽभिप्रणम्य च।।2.58.14।। Ayodhya Kanda,58,15,सूत मद्वचनात्तस्य तातस्य विदितात्मनः। शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः।।2.58.15।। Ayodhya Kanda,58,16,सर्वमन्तःपुरं वाच्यं सूत मद्वचनात्त्वया। आरोग्यमविशेषेण यथार्हं चाभिवादनम्।।2.58.16।। Ayodhya Kanda,58,17,माता च मम कौसल्या कुशलं चाभिवादनम्। अप्रमादं च वक्तव्या ब्रूयाश्चैनामिदं वचः।।2.58.17।। Ayodhya Kanda,58,18,धर्मनित्या यथाकालमग्न्यगारपरा भव। देवि देवस्य पादौ च देववत्परिपालय।।2.58.18।। Ayodhya Kanda,58,19,अभिमानं च मानं च त्यक्त्वा वर्तस्व मातृषु। अनु राजानमार्यां च कैकेयीमम्ब कारय।।2.58.19।। Ayodhya Kanda,58,20,कुमारे भरते वृत्तिर्वर्तितव्या च राजवत्। अर्थज्येष्ठा हि राजानो राजधर्ममनुस्मर।।2.58.20।। Ayodhya Kanda,58,21,भरतः कुशलं वाच्यो वाच्यो मद्वचनेन च। सर्वास्वेव यथान्यायं वृत्तिं वर्तस्व मातृषु।।2.58.21।। Ayodhya Kanda,58,22,वक्तव्यश्च महाबाहुरिक्ष्वाकुकुलनन्दनः। पितरं यौवराज्यस्थो राज्यस्थमनुपालय।।2.58.22।। Ayodhya Kanda,58,23,अतिक्रान्तवया राजा मास्मैनं व्यवरोरुधः। कुमार राज्ये जीव त्वं तस्यैवाज्ञाप्रवर्तनात्।।2.58.23।। Ayodhya Kanda,58,24,अब्रवीच्चापि मां भूयो भृशमश्रूणि वर्तयन्। मातेव मम माता ते द्रष्टव्या पुत्रगर्धिनी।।2.58.24।। Ayodhya Kanda,58,25,इत्येवं मां महराज ब्रुवन्नेव महायशाः। रामो राजीवताम्राक्षो भृशमश्रूण्यवर्तयत्।।2.58.25।। Ayodhya Kanda,58,26,लक्ष्मणस्तु सुसङ्कृद्धो निश्श्वसन्वाक्यमब्रवीत्। केनायमपराधेन राजपुत्रो विवासितः।।2.58.26।। Ayodhya Kanda,58,27,राज्ञा तु खलु कैकेय्या लघुत्वाश्रित्य शासनम्। कृतं कार्यमकार्यं वा वयं येनाभिपीडिताः।।2.58.27।। Ayodhya Kanda,58,28,यदि प्रव्राजितो रामो लोभकारणकारितम्। वरदाननिमित्तं वा सर्वथा दुष्कृतं कृतम्।।2.58.28।। Ayodhya Kanda,58,29,इदं तावद्यथाकाममीश्वरस्य कृते कृतम्। रामस्य तु परित्यागे न हेतु मुपलक्षये।।2.58.29।। Ayodhya Kanda,58,30,असमीक्षय समारब्धं विरुद्धं बुध्दिलाघवात्। जनयिष्यति सङ्क्रोशं राघवस्य विवासनम्।।2.58.30।। Ayodhya Kanda,58,31,अहं तावन्महाराजे पितृत्वं नोपलक्ष्ये। भ्राता भर्ता च बन्धुश्च पिता च मम राघवः।।2.58.31।। Ayodhya Kanda,58,32,सर्वर्लोकप्रियं त्यक्त्वा सर्वलोकहिते रतम्। सर्वलोकोऽनुरज्येत कथं त्वाऽनेनकर्मणा।।2.58.32।। Ayodhya Kanda,58,33,सर्वप्रजाभिरामं हि रामं प्रव्राज्य धार्मिकम्। सर्वलोकं विरुध्येमं कथं राजा भविष्यसि।।2.58.33।। Ayodhya Kanda,58,34,जानकी तु महाराज निश्श्वसन्ती मनस्विनी। भूतोपहतचित्तेव विष्ठिता विस्मृता स्मिता।।2.58.34।। Ayodhya Kanda,58,35,अदृष्टपूर्वव्यसना राज्यपुत्री यशस्विनी। तेन दुःखेन रुदती नैव मां किञ्चिदब्रवीत्।।2.58.35।। Ayodhya Kanda,58,36,उद्वीक्षमाणा भर्तारं मुखेन परिशुष्यता। मुमोच सहसा बाष्पं मां प्रयान्तमुदीक्ष्य सा।।2.58.36।। Ayodhya Kanda,58,37,तथैव रामोऽश्रुमुखः कृताञ्जलिः स्थितोऽभवल्लक्ष्मणबाहुपालितः। तथैव सीता रुदती तपस्विनी निरीक्षते राजरथं तथैव माम्।।2.58.37।। Ayodhya Kanda,59,1,इति ब्रुवन्तं तं सूतं सुमन्त्रं मन्त्रिसत्तमम्। ब्रूहि शेषं पुनरिति राजा वचनमब्रवीत्।।2.59.1।। Ayodhya Kanda,59,2,तस्य तद्वचनं श्रुत्वा सुमन्त्रो बाष्पविक्लबः। कथयामास भूयोऽपि रामसन्देशविस्तरम्।।2.59.2।। Ayodhya Kanda,59,3,जटाः कृत्वा महाराज चीरवल्कलधारिणौ। गङ्गामुत्तीर्य तौ वीरौ प्रयागाभिमुखौ गतौ।।2.59.3।। Ayodhya Kanda,59,4,अग्रतो लक्ष्मणो यातः पालयन्रघुनन्दनम्। तांस्तथा गच्छतो दृष्ट्वा निवृत्तोऽस्म्यवशस्तदा।।2.59.4।। Ayodhya Kanda,59,5,ममत्वश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि। उष्णमश्रु प्रमुञ्चन्तो रामे सम्प्रस्थिते वनम्।।2.59.5।। Ayodhya Kanda,59,6,उभाभ्यां राजपुत्राभ्यामथ कृत्वाहमञ्जलिम्। प्रस्थितो रथमास्थाय तद्दुःखमपि धारयन्।।2.59.6।। Ayodhya Kanda,59,7,गुहेन सार्धं तत्रैव स्थितोऽस्मि दिवसान्बहून्। आशया यदि मां रामः पुन श्शब्दापयेदिति।।2.59.7।। Ayodhya Kanda,59,8,विषये ते महाराज रामव्यसनकर्शिताः। अपि वृक्षाः परिम्लानास्सपुष्पाङ्कुरकोरकाः।।2.59.8।। Ayodhya Kanda,59,9,उपतप्तोदका नद्यः पल्वलानि सरांसि च। परिशुष्कपलाशानि वनान्युपवनानि च।।2.59.9।। Ayodhya Kanda,59,10,न च सर्पन्ति सत्त्वानि व्यासा न प्रचरन्ति च। रामशोकाभिभूतं तन्निष्कूजमभवद्वनम्।।2.59.10।। Ayodhya Kanda,59,11,लीनपुष्करपत्राश्च नरेन्द्र कलुषोदकाः। सन्तप्तपद्माः पद्मिन्यो लीनमीनविहङ्गमाः।।2.59.11।। Ayodhya Kanda,59,12,जलजानि च पुष्पाणि माल्यानि स्थलजानि च। नाद्य भान्त्यल्पगन्धीनि फलानि च यथापुरम्।।2.59.12।। Ayodhya Kanda,59,13,अत्रोद्यानानि शून्यानि प्रलीनविहगनि च। न चाभिरामा नारामान्पश्यामि मनुजर्षभ।।2.59.13।। Ayodhya Kanda,59,14,प्रविशन्तमयोध्यां मां न कश्चिदभिनन्दति। नरा राममपश्यन्तो निश्श्वसन्ति मुहुर्मुहुः।।2.59.14।। Ayodhya Kanda,59,15,देव राजरथं दृष्ट्वा विना राममिहागतम्। दुःखादश्रुमुखस्सर्वो राजमार्गगतो जनः।।2.59.15।। Ayodhya Kanda,59,16,हर्म्यैर्विमानैः प्रासादैरवेक्ष्यरथमागतम्। हाहाकारकृतानार्यो रामादर्शनकर्शिताः।।2.59.16।। Ayodhya Kanda,59,17,आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः। अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रियः।।2.59.17।। Ayodhya Kanda,59,18,नामित्राणां न मित्राणामुदासीनजनस्य च। अहमार्ततया किञ्चिद्विशेषमुपलक्षये।।2.59.18।। Ayodhya Kanda,59,19,अप्रहृष्टमनुष्या च दीननागतुरङ्गमा। आर्तस्वरपरिम्लाना विनिश्श्वसितनिस्स्वना।।2.59.19।। Ayodhya Kanda,59,20,निरानन्दा महाराज रामप्रव्राजनातुरा। कौसल्या पुत्रहीनेव अयोध्या प्रतिभाति मा।।2.59.20।। Ayodhya Kanda,59,21,सूतस्य वचनं श्रुत्वा वाचा परमदीनया। बाष्पोपहतया राजा तं सूतमिदमब्रवीत्।।2.59.21।। Ayodhya Kanda,59,22,कैकेय्या विनियुक्तेन पापाभिजनभावया। मया न मन्त्रकुशलैर्वृद्धैस्सह समर्थितम्।।2.59.22।। Ayodhya Kanda,59,23,न सुहृद्भिर्नचामात्यैर्मन्त्रयित्वा न नैगमैः। मयायमर्थस्सम्मोहात् स्त्रीहेतो स्सहसा कृतः।।2.59.23।। Ayodhya Kanda,59,24,भवितव्यतया नूनमिदं वा व्यसनं महत्। कुलस्यास्य विनाशाय प्राप्तं सूत यदृच्छया।।2.59.24।। Ayodhya Kanda,59,25,सूत यद्यस्ति ते किञ्चिन्मया तु सुकृतं कृतम्। त्वं प्रापयाऽऽशु मां रामं प्राणास्सन्त्वरयन्तिमाम्।।2.59.25।। Ayodhya Kanda,59,26,यद्यद्यापि ममैवाज्ञा निवर्तयतु राघवम्। न शक्ष्यामि विना रामं मुहूर्तमपि जीवितुम्।।2.59.26।। Ayodhya Kanda,59,27,अथवाऽपि महाबाहुर्गतो दूरं भविष्यति। मामेव रथमारोप्य शीघ्रं रामाय दर्शय।।2.58.27।। Ayodhya Kanda,59,28,वृत्तदंष्ट्रो महेष्वासः क्वासौ लक्ष्मणपूर्वजः। यदि जीवामि साध्वेनं पश्येयं सीतया सह।।2.59.28।। Ayodhya Kanda,59,29,लोहिताक्षं महाबाहुमामुक्तमणिकुण्डलम्। रामं यदि न पश्येयं गमिष्यामि यमक्षयम्।।2.59.29।। Ayodhya Kanda,59,30,अतो नु किं दुःखतरं सोऽहमिक्ष्वाकुनन्दनम्। इमामवस्थामापन्नो नेह पश्यामि राघवम्।।2.59.30।। Ayodhya Kanda,59,31,हा राम रामानुज हा हा वैदेहि तपस्विनि। न मां जानीत दुःखेन म्रियमाणतमनाथवत्।।2.59.31।। Ayodhya Kanda,59,32,स तेन राजा दुःखेन भृशमर्पितचेतनः। अवगाढस्सुदुष्पारं शोकसागरमब्रवीत्।।2.59.32।। Ayodhya Kanda,59,33,रामशोकमहाभोगस्सीताविरहपारगः। श्वसितोर्मि महावर्तो बाष्पफेनजालाविलः।।2.59.33।। Ayodhya Kanda,59,34,बाहुविक्षेपमीनौघो विक्रन्दित महास्वनः। प्रकीर्णकेशशैवालः कैकेयीबडबामुखः।।2.59.34।। Ayodhya Kanda,59,35,ममाश्रुवेगप्रभवः कुब्जावाक्यमहाग्रहः। वरवेलो नृशंसाया रामप्रव्राजनायतः।।2.59.35।। Ayodhya Kanda,59,36,यस्मिन्बत निमग्नोऽहं कौसल्ये राघवं विना। दुस्तरो जीवता देवि मयाऽयं शोकसागरः।।2.59.36।। Ayodhya Kanda,59,37,अशोभनं योऽहमिहाद्य राघवं दिदृक्षमाणो न लभे सलक्ष्मणम्। इतीव राजा विलपन्महायशाः पपात तूर्णं शयने समूर्छितः।।2.59.37।। Ayodhya Kanda,59,38,इति विलपति पार्थिवे प्रणष्टे करुणतरं द्विगुणं च रामहेतोः। वचनमनुनिशम्य तस्य देवी भयमगमत्पुनरेव राममाता।।2.59.38।। Ayodhya Kanda,60,1,ततो भूतोपसृष्टेव वेपमाना पुनः पुनः। धरण्यां गतसत्त्वेव कौसल्या सूतमब्रवीत्।।2.60.1।। Ayodhya Kanda,60,2,नय मां यत्र काकुत्स्थस्सीता यत्र च लक्ष्मणः। तान्विना क्षणमप्यत्र जीवितुं नोत्सहेह्यहम्।।2.60.2।। Ayodhya Kanda,60,3,निवर्तय रथं शीघ्रं दण्डकान्नय मामपि। अथ तान्नानुगच्छामि गमिष्यामि यमक्षयम्।।2.60.3।। Ayodhya Kanda,60,4,बाष्पवेगोपहतया स वाचा सज्जमानया। इदमाश्वासयन्देवीं सूतः प्राञ्जलिरब्रवीत्।।2.60.4।। Ayodhya Kanda,60,5,त्यज शोकं च मोहं च सम्भ्रमं दुःखजं तथा। व्यवधूय च सन्तापं वने वत्स्यति राघवः।।2.60.5।। Ayodhya Kanda,60,6,लक्ष्मणश्चापि रामस्य पादौ परिचरन्वने। आराधयति धर्मज्ञः परलोकं जितेन्द्रियः।।2.60.6।। Ayodhya Kanda,60,7,विजनेऽपि वने सीता वासं प्राप्य गृहेष्विव। विस्रम्भं लभतेऽभीता रामे सन्न्यस्तमानसा।।2.60.7।। Ayodhya Kanda,60,8,नास्या दैन्यं कृतं किञ्चित्सुसूक्ष्ममपि लक्ष्यते। उचितेव प्रवासानां वैदेही प्रतिभाति मा।।2.60.8।। Ayodhya Kanda,60,9,नगरोपवनं गत्वा यथा स्मरमते पुरा। तथैव रमते सीता निर्जनेषु वनेष्वपि।।2.60.9।। Ayodhya Kanda,60,10,बालेव रमते सीताऽबालचन्द्रनिभानना। रामा रामे ह्यधीनात्मा विजनेऽपि वने सती।।2.60.10।। Ayodhya Kanda,60,11,तद्गतं हृदयं ह्यस्यास्तदधीनं च जीवितम्। अयोध्यापि भवेऽत्तस्या रामहीना तदा वनम्।।2.60.11।। Ayodhya Kanda,60,12,परिपृच्छति वैदेही ग्रामांश्च नगराणि च। गतिं दृष्ट्वा नदीनां च पादपान्विविधानपि।।2.60.12।। Ayodhya Kanda,60,13,रामं हि लक्ष्मणं वापि पृष्ट्वा जानाति जानकी। अयोध्या क्रोशमात्रे तु विहारमिव संश्रिता।।2.60.13।। Ayodhya Kanda,60,14,इदमेव स्मराम्यस्यास्सहसैवोपजल्पितम्। कैकेयी संश्रितं वाक्यं नेदानीं प्रतिभाति मा।।2.60.14।। Ayodhya Kanda,60,15,ध्वंसयित्वा तु तद्वाक्यं प्रमादात्पर्युपत्स्थितम्। ह्लादनं वचनं सूतो देव्या मधुरमब्रवीत्।।2.60.15।। Ayodhya Kanda,60,16,अध्वना वातवेगेन सम्भ्रमेणाऽऽतपेन च। न विगच्छति वैदेह्याश्चन्द्रांशु सदृशी प्रभा।।2.60.16।। Ayodhya Kanda,60,17,सदृशं शतपत्रस्य पूर्णचन्द्रोपमप्रभम्। वदनं तद्वदान्याया वैदेह्या न विकम्पते।।2.60.17।। Ayodhya Kanda,60,18,अलक्तरसरक्ताभावलक्तरसवर्जितौ। अद्यापि चरणौ तस्याः पद्मकोशसमप्रभौ।।2.60.18।। Ayodhya Kanda,60,19,नूपुरोद्घुष्टहेलेव खेलं गच्छति भामिनी। इदानीमपि वैदेही तद्रागान्नयस्त भूषणा।।2.60.19।। Ayodhya Kanda,60,20,गजं वा वीक्ष्य सिंहं वा व्याघ्रं वा वनमाश्रिता। नाऽहारयति सन्त्रासं बाहू रामस्य संश्रिता।।2.60.20।। Ayodhya Kanda,60,21,न शोच्यास्ते न चात्मनश्शोच्यो नापि जनाधिपः। इदं हि चरितं लोके प्रतिष्ठास्यति शाश्वतम्।।2.60.21।। Ayodhya Kanda,60,22,विधूय शोकं परिहृष्टमानसा महर्षियाते पथि सुव्यवत्स्थिताः। वनेरता वन्यफलाशनाः पितुश्शुभां प्रतिज्ञां परिपालयन्ति ते।।2.60.22।। Ayodhya Kanda,60,23,तथापि सूतेन सुयुक्तवादिना निवार्यमाणा सुतशोककर्शिता। न चैव देवी विरराम कूजितात्प्रियेति पुत्रेति च राघवेति च।।2.60.23।। Ayodhya Kanda,61,1,वनं गते धर्मपरे रामे रमयतां वरे। कौसल्या रुदती स्वार्ता भर्तारमिदमब्रवीत्।।2.61.1।। Ayodhya Kanda,61,2,यद्यपि त्रिषु लोकेषु प्रथितं ते महद्यशः। सानुक्रोशो वदान्यश्च प्रियवादी च राघवः।।2.61.2।। Ayodhya Kanda,61,3,कथं नरवरश्रेष्ठ पुत्रौ तौ सह सीतया। दुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः।।2.61.3।। Ayodhya Kanda,61,4,सा नूनं तरुणी श्यामा सुकुमारी सुखोचिता। कथमुष्णं च शीतं च मैथिली प्रसहिष्यते।।2.61.4।। Ayodhya Kanda,61,5,भुक्त्वाऽशनं विशालाक्षी सूपदं शान्वितं शुभम्। वन्यं नैवारमाहारं कथं सीतोपभोक्ष्यते।।2.61.5।। Ayodhya Kanda,61,6,गीतवादित्रनिर्घोषं श्रुत्वा शुभमनिन्दिता। कथं क्रव्यादसिंहानां शब्दं श्रोष्यत्यशोभनम्।।2.61.6।। Ayodhya Kanda,61,7,महेन्द्रध्वजसङ्काशः क्व नु शेते महाभुजः। भुजं परिघसङ्काशमुपधाय महाबलः।।2.61.7।। Ayodhya Kanda,61,8,पद्मवर्णं सुकेशान्तं पद्मनिश्श्वासमुत्तमम्। कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम्।।2.61.8।। Ayodhya Kanda,61,9,वज्रसारमयं नूनं हृदयं मे न संशयः। अपश्यन्त्या न तं यद्वै फलतीदं सहस्रधा।।2.61.9।। Ayodhya Kanda,61,10,यत्त्वयाऽकरुणं कर्म व्यपोह्य मम बान्धवाः। निरस्ताः परिधावन्ति सुखार्हाः कृपणा वने।।2.61.10।। Ayodhya Kanda,61,11,यदि पञ्चदशे वर्षे राघवः पुनरेष्यति। जह्याद्राज्यं च कोषं च भरतो नोपलक्षयते।।2.61.11।। Ayodhya Kanda,61,12,भोजयन्ति किल श्राद्धे केचित्स्वानेव बान्धवान्। ततः पश्चात्समीक्षन्ते कृतकार्या द्विजर्षभान्।।2.61.12।। Ayodhya Kanda,61,13,तत्र ये गुणवन्तश्च विद्वांसश्च द्विजातयः। न पश्चात्तेऽभिमन्यन्ते सुधामपि सुरोपमाः।।2.61.13।। Ayodhya Kanda,61,14,ब्राह्मणेष्वपि तृप्तेषु पश्चाद्भोक्तुं द्विजर्षभाः। नाभ्युपैतुमलं प्राज्ञा श्शृङ्गच्छेदमिवर्षभाः।।2.61.14।। Ayodhya Kanda,61,15,एवं कनीयसा भ्रात्रा भुक्तं राज्यं विशाम्पते। भ्राता ज्येष्ठो वरिष्ठश्च किमर्थं नावमंस्यते।।2.61.15।। Ayodhya Kanda,61,16,न परेणाऽहृतं भक्ष्यं व्याघ्रः खादितुमिच्छति। एवमेतन्नरव्याघ्रः परलीढं न मन्यते।।2.61.16।। Ayodhya Kanda,61,17,हविराज्यं पुरोडाशाः कुशा यूपाश्च खादिराः। नैतानि यातयामानि कुर्वन्ति पुनरध्वरे।।2.61.17।। Ayodhya Kanda,61,18,तथा ह्यात्तमिदं राज्यं हृतसारां सुरामिव। नाभिमन्तुमलं रामो नष्टसोममिवाध्वरम्।।2.61.18।। Ayodhya Kanda,61,19,न चेमां धर्षणां राम सङ्गच्छेदत्यमर्षणः। दारयेन्मन्दरमपि स हि क्रुद्धश्शितैश्शरैः।।2.61.19।। Ayodhya Kanda,61,20,त्वां तु नोत्सहते हन्तुं महात्मा पितृगौरवात्। ससोमार्कग्रहगणं नभस्ताराविचित्रितम्।।2.61.20।। Ayodhya Kanda,61,21,पातयेद्योदिवं क्रुद्धस्सत्वां न व्यतिवर्तते। प्रक्षोभयेद्वारये द्वा महीं शैलशताचिताम्।।2.61.21।। Ayodhya Kanda,61,22,नैवं विधमसत्कारं राघवो मर्षयिष्यति। बलवानिव शार्दूलो वालधेरभिमर्शनम्।।2.61.22।। Ayodhya Kanda,61,23,नैतस्य सहिता लोका भयं कुर्युर्महामृथे। अधर्मंत्विह धर्मात्मा लोकं धर्मेण योजयेत्।।2.61.23।। Ayodhya Kanda,61,24,नन्वसौ काञ्चनैर्बाणैर्महावीर्यो महाभुजः। युगान्त इव भूतानि सागरानपि निर्दहेत्।।2.61.24।। Ayodhya Kanda,61,25,स तादृशस्सिंहबलो वृषभाक्षो नरर्षभः। स्वयमेव हतः पित्रा जलजेनात्मजो यथा।।2.61.25।। Ayodhya Kanda,61,26,द्विजातिचरितो धर्मश्शास्त्रदृष्टस्सनातनः। यदि ते धर्मनिरते त्वया पुत्रे विवासिते।।2.61.26।। Ayodhya Kanda,61,27,गतिरेका पतिर्नार्या द्वितीया गतिरात्मजः। तृतीया ज्ञातयो राजंश्चतुर्थी नेह विद्यते।।2.61.27।। Ayodhya Kanda,62,1,एवं तु क्रुद्धया राजा राममात्रा सशोकया। श्रावितः परुषं वाक्यं चिन्तयामास दुःखितः।।2.62.1।। Ayodhya Kanda,62,2,चिन्तयित्वा स च नृपो मुमोह व्याकुलेन्द्रियः। अथ दीर्घीण कालेन संज्ञामाप परन्तपः।।2.62.2।। Ayodhya Kanda,62,3,स संज्ञामुपलभ्यैव दीर्घमुष्णं च निश्श्वसन्। कौसल्यां पार्श्वतो दृष्ट्वा पुन श्चिन्तामुपागमत्।।2.62.3।। Ayodhya Kanda,62,4,तस्य चिन्तयमानस्य प्रत्याभात्कर्म दुष्कृतम्। यदनेन कृतं पूर्वमज्ञानाच्छब्दवेधिना।।2.62.4।। Ayodhya Kanda,62,5,अमनास्तेन शोकेन रामशोकेन च प्रभुः। द्वाभ्यामपि महाराज श्शोकाभ्यामन्वतप्यत।।2.62.5।। Ayodhya Kanda,62,6,दह्यामान स्सशोकाभ्यां कौसल्यामाह भूपतिः। वेपमानोऽञ्जलिं कृत्वा प्रसादार्थमवाङ्मुखः।।2.62.6।। Ayodhya Kanda,62,7,प्रसादये त्वां कौसल्ये रचितोऽयं मयाऽञ्जलिः। वत्सला चानृशंसा च त्वं हि नित्यं परेष्वपि।।2.62.7।। Ayodhya Kanda,62,8,भर्ता तु खलु नारीणां गुणवान्निर्गुणोऽपि वा। धर्मं विमृशमानानां प्रत्यक्षं देवि दैवतम्।।2.62.8।। Ayodhya Kanda,62,9,सा त्वं धर्मपरा नित्यं दृष्टलोक परावरा। नार्हसे विप्रियं वक्तुं दुखिःताऽपि सुदुःखितम्।।2.62.9।। Ayodhya Kanda,62,10,तद्वाक्यं करुणं राज्ञः श्रुत्वा दीनस्य भाषितम्। कौसल्या व्यसृजद्बाष्पं प्रणालीव नवोदकम्।।2.62.10।। Ayodhya Kanda,62,11,सा मूर्ध्निबध्वा रुदती राज्ञः पद्ममिवाञ्जलिम्। सम्भ्रमादब्रवीत् त्रस्ता त्वरमाणाक्षरं वचः।।2.62.11।। Ayodhya Kanda,62,12,प्रसीद शिरसा याचे भूमौ निपतितास्मि ते। याचितास्मि हता देव क्षन्तव्याऽहं न हि त्वया।।2.62.12।। Ayodhya Kanda,62,13,नैषा हि सा स्त्री भवति श्लाघनीयेन धीमता। उभयोर्लोकयोर्वीर पत्या या सम्साद्यते।।2.62.13।। Ayodhya Kanda,62,14,जानामि धर्मं धर्मज्ञ त्वां जाने सत्यवादिनम्। पुत्रशोकार्तया तत्तु मया किमपि भाषितम्।।2.62.14।। Ayodhya Kanda,62,15,शोको नाशयते धैर्यं शोको नाशयते श्रुतम्। शोको नाशयते सर्वं नास्ति शोकसमो रिपुः।।2.62.15।। Ayodhya Kanda,62,16,शक्य आपतित स्सोढुं प्रहारो रिपुहस्ततः। सोढुंमापतितश्शोकस्सुसूक्ष्मोऽपि न शक्यते।।2.62.16।। Ayodhya Kanda,62,17,धर्मज्ञा श्श्रुतिमन्तोऽपि छिन्नधर्मार्थसंशयाः। यतयो वीर मुह्यन्ति शोकसम्मूढचेतसः।।2.62.17।। Ayodhya Kanda,62,18,वनवासाय रामस्य पञ्चरात्रोऽद्य गण्यते। य श्शोकहतहर्षायाः पञ्चवर्षोपमो मम।।2.62.18।। Ayodhya Kanda,62,19,तं हि चिन्तयमानाया श्शोकोऽयं हृदि वर्धते। नदीनामिव वेगेन समुद्रसलिलं महत्।।2.62.19।। Ayodhya Kanda,62,20,एवं हि कथयन्त्यास्तु कौसल्यायाश्शुभं वचः। मन्दरश्मिरभूत्सूर्यो रजनी चाभ्यवर्तत।।2.62.20।। Ayodhya Kanda,63,1,प्रतिबुद्धो मुहूर्तेन शोकोपहतचेतनः। अथ राजा दशरथस्सचिन्तामभ्यपद्यत।।2.63.1।। Ayodhya Kanda,63,2,रामलक्ष्मणयोश्चैव विवासा द्वासवोपमम्। आविवेशोपसर्गस्तं तम स्सूर्यमिवासुरम्।।2.63.2।। Ayodhya Kanda,63,3,सभार्ये निर्गते रामे कौसल्यां कोशलेश्वरः। विवक्षुरसितापाङ्गां स्मृत्वा दुष्कृतमात्मनः।।2.63.3।। Ayodhya Kanda,63,4,स राजा रजनीं षष्ठीं रामे प्रव्राजिते वनम्। अर्धरात्रे दशरथ स्संस्मरन् दुष्कृतं कृतम्।।2.63.4।। Ayodhya Kanda,63,5,स राजा पुत्रशोकार्तः स्मृत्वा दुष्कृतमात्मनः। कौसल्यां पुत्रशोकार्तामिदं वचनमब्रवीत्।।2.63.5।। Ayodhya Kanda,63,6,यदाचरति कल्याणि शुभं वा यदि वाऽशुभम्। तदेव लभते भद्रे कर्ता कर्मजमात्मनः।।2.63.6।। Ayodhya Kanda,63,7,गुरुलाघवमर्थानामारम्भे कर्मणां फलम्। दोषं वा यो न जानाति न बाल इति होच्यते।।2.63.7।। Ayodhya Kanda,63,8,कश्चिदाम्रवणं छित्त्वा पलाशां श्च निषिञ्चति। पुष्पं दृष्ट्वा फले गृध्नु स्स शोचति फलागमे।।2.63.8।। Ayodhya Kanda,63,9,अविज्ञाय फलं यो हि कर्म त्वेवानुधावति। स शोचेत्फलवेलायां यथा किंशुकसेचकः।।2.63.9।। Ayodhya Kanda,63,10,सोऽहमाम्रवणं छित्वा पलाशांश्च न्यषेचयम्। रामं फलागमे त्यक्त्वा पश्चाच्छोचामि दुर्मतिः।।2.63.10।। Ayodhya Kanda,63,11,लब्धशब्देन कौसल्ये कुमारेण धनुष्मता। कुमारश्शब्दवेधीति मया पापमिदं कृतम्।।2.63.11।। Ayodhya Kanda,63,12,तदिदं मेऽनुसंम्प्राप्तं देवि दुःखं स्वयं कृतम्। सम्मोहादिह बालेन यथा स्याद्भक्षितं विषम्।।2.63.12।। Ayodhya Kanda,63,13,यथान्यः पुरुषः कश्चित्पलाशैर्मोहितो भवेत्। एवं ममाऽप्यविज्ञातं शब्दवेध्यमयं फलम्।।2.63.13।। Ayodhya Kanda,63,14,देव्यनूढा त्वमभवो युवराजो भवाम्यहम्। ततः प्रावृडनुप्राप्ता मदकामविवर्धिनी।।2.63.14।। Ayodhya Kanda,63,15,उपास्य च रसान्भौमां स्तप्त्वा च जगदंशुभिः। परेताचरितां भीमां रविराविशते दिशम्।।2.63.15।। Ayodhya Kanda,63,16,उष्णमन्तर्दधे सद्य स्स्निग्धा ददृशिरे घनाः। ततो जहृषिरे सर्वे भेकसारङ्गबर्हिणः।।2.63.16।। Ayodhya Kanda,63,17,क्लिन्न पक्षोत्तरास्स्नाताः कृच्छ्रादिव पतत्रिणः। वृष्टिवातावधूताग्रान्पादपानभिपेदिरे।।2.63.17।। Ayodhya Kanda,63,18,पतितेनाम्भसाच्छन्नः पतमानेन चासकृत्। आबभौ मत्तसारङ्गस्तोयराशिरिवाचलः।।2.63.18।। Ayodhya Kanda,63,19,पाण्डुरारुणवर्णानि स्रोतांसि विमलान्यपि। सुस्रुवुर्गिरिधातुभ्यस्सभस्मानि भुजङ्गवत्।।2.63.19।। Ayodhya Kanda,63,20,आकुलारुण तोयानि स्रोतांसि विमलान्यपि। उन्मार्गजलवाहिनी बभूवुर्जलदागमे।।2.63.20।। Ayodhya Kanda,63,21,तस्मिन्नतिसुखे काले धनुष्मानिषुमान्रथी। व्यायामकृतसङ्कल्पस्सरयूमन्वगां नदीम्।।2.63.21।। Ayodhya Kanda,63,22,निपाने महिषं रात्रौ गजं वाऽभ्यागतं नदीम्। अन्यं वा श्वापदं कञ्चिज्जिघांसु रजितेन्द्रियः। तस्मिं स्तत्राहमेकान्ते रात्रौ विवृतकार्मुकः।।2.63.22।। Ayodhya Kanda,63,23,तत्राहं संवृतं वन्यं हतवांस्तीरमागतम्। अन्यं चापि मृगं हिंस्रं शब्दं श्रुत्वाऽभ्युपागतम्।।2.63.23।। Ayodhya Kanda,63,24,अथान्धकारे त्वश्रौषं जले कुम्भस्य पूर्यतः। अचक्षुर्विषये घोषं वारणस्येव नर्दतः।।2.63.24।। Ayodhya Kanda,63,25,ततोऽहं शरमुधृत्य दीप्तमाशीविषोपमम्। शब्दं प्रति गजप्रेप्सुरभिलक्ष्य त्वपातयम्।।2.63.25।। Ayodhya Kanda,63,26,अमुञ्चं निशितं बाणमहमाशीविषोपमम्। तत्र वागुषसि व्यक्ता प्रादुरासीद्वनौकसः।।2.63.26।। Ayodhya Kanda,63,27,हाहेति पततस्तोये बाणाभिहतमर्मणः।।2.63.27।। Ayodhya Kanda,63,28,तस्मिन्निपतिते बाणे वागभूत्तत्र मानुषी। कथमस्मद्विधे शस्त्रं निपतेत्तु तपस्विनि।।2.63.28।। Ayodhya Kanda,63,29,प्रविविक्तां नदीं रात्रावुदाहाऽरोहमागतः। इषुणाऽभिहतः केन कस्य वा किं कृतं मया।।2.63.29।। Ayodhya Kanda,63,30,ऋषेर्हिन्यस्तदण्डस्य वने वन्येन जीवतः। कथं नु शस्रेण वधो मद्विधस्य विधीयते।।2.63.30।। Ayodhya Kanda,63,31,जटाभारधरस्यैव वल्कलाजिनवाससः। को वधेन ममर्थी स्यात्किंवाऽस्यापकृतं मया।।2.63.31।। Ayodhya Kanda,63,32,एवं निष्फलमारब्धं केवलानर्थसंहितम्। न कश्चित्साधु मन्येत यथैव गुरुतल्पगम्।।2.63.32।। Ayodhya Kanda,63,33,नाहं तथाऽनु शोचामि जीवितक्षयमात्मनः। मातरं पितरं चोभावनुशोचामि मद्वधे।।2.63.33।। Ayodhya Kanda,63,34,तदेतन्मिथुनं वृद्धं चिरकालभृतं मया। मयि पञ्चत्वमापन्ने कां वृत्तिं वर्तयिष्यति।।2.63.34।। Ayodhya Kanda,63,35,वृद्धै च मतापितरावहं चैकेषुणा हता। केन स्मनिहता स्सर्वे सुबालेनाकृतात्मना।।2.63.35।। Ayodhya Kanda,63,36,तां गिरं करुणां श्रुत्वा मम धर्मानुकाङ्क्षिणः। कराभ्यां सशरं चापं व्यथितस्यापतद्भुवि।।2.63.36।। Ayodhya Kanda,63,37,तस्याहं करुणं श्रुत्वा निशि लालवतो बहु। सम्भ्रान्त श्शोकवेगेन भृशमासं विचेतनः।।2.63.37।। Ayodhya Kanda,63,38,तं देशमहमागम्य दीनसत्त्वस्सुदुर्मनाः। अपश्यमिषुणा तीरे सरय्वास्तापसं हतम्।।2.63.38।। Ayodhya Kanda,63,39,अवकीर्ण जटाभारं प्रविद्धकलशोदकम्। पांसुशोणितदिग्धाङ्गं शयानं शल्यपीडितम्।।2.63.39।। Ayodhya Kanda,63,40,स मामुद्वीक्ष्य नेत्राभ्यां त्रस्तमस्वस्थचेतसम्। इत्युवाच ततः क्रूरं दिधक्षन्निव तेजसा।।2.63.40।। Ayodhya Kanda,63,41,किं तवापकृतं राजन्वने निवसता मया। जिहीर्षुरम्भो गुर्वुर्थं यदहं ताडितस्त्वया।।2.63.41।। Ayodhya Kanda,63,42,एकेन खलु बाणेन मर्मण्यभिहते मयि। द्वावन्धौ निहतौ वृद्धौ माता जनयिता च मे।।2.63.42।। Ayodhya Kanda,63,43,तौ कथं दुर्बलावन्धौ मत्प्रतीक्षौ पिपासितौ। चिरमाशाकृतां तृष्णां कष्टां सन्धारयिष्यतः।।2.63.43।। Ayodhya Kanda,63,44,न नूनं तपसो वास्ति फलयोगश्श्रुतस्य वा। पिता यन्मां न जानाति शयानं पतितं भुवि।।2.63.44।। Ayodhya Kanda,63,45,जानन्नपि च किं कुर्यादशक्तिरपरिक्रमः। भिद्यमानमिवाशक्त स्त्रतुमन्यो नगो नगम्।।2.63.45।। Ayodhya Kanda,63,46,पितुस्त्वमेव मे गत्वा शीघ्रमाचक्ष्य राघव। न त्वामनुदहेत्क्रुद्धो वनं वह्निरिवैधितः।।2.63.46।। Ayodhya Kanda,63,47,इयमेकपदी राजन्यतो मे पितुराश्रमः। तं प्रसादय गत्वा त्वं न त्वां स कुपितश्शपेत्।।2.63.47।। Ayodhya Kanda,63,48,विशल्यं कुरु मां राजन्मर्म मे निशितश्शरः। रुणद्धि मृदुसोत्सेधं तीरमम्बुरयो यथा।।2.63.48।। Ayodhya Kanda,63,49,सशल्यः क्लिश्यते प्राणैर्विशल्यो विनशिष्यति। इति मामविशच्चिन्ता तस्य शल्यापकर्षणे।।2.63.49।। Ayodhya Kanda,63,50,दुःखितस्य च दीनस्य मम शोकातुरस्य च। लक्षयामास हृदये चिन्तां मुनिसुतस्तदा।।2.63.50।। Ayodhya Kanda,63,51,ताम्यमानस्स मां कृच्छ्रादुवाच परमार्तवत्। सीदमानो विवृत्ताङ्गो वेष्टमानो गतः क्षयम्।।2.63.51।। Ayodhya Kanda,63,52,संस्तभ्य शोकं धैर्येण स्थिरचित्तो भवाम्यहम्। ब्रह्महत्याकृतं पापं हृदयादपनीयताम्।।2.63.52।। Ayodhya Kanda,63,53,न द्विजातिरहं राजन्मा भूत्ते मनसो व्यथा। शूद्रायामस्मि वैश्येन जातो जनपदाधिप।।2.63.53।। Ayodhya Kanda,64,1,वधमप्रतिरूपं तु महर्षेस्तस्य राघवः। विलपन्नेव धर्मात्मा कौसल्यां पुनरब्रवीत्।।2.64.1।। Ayodhya Kanda,64,2,तदज्ञानान्महत्पापं कृत्वाहं सङ्कुलेन्द्रियः। एकस्त्वचिन्तयं बुध्या कथं नु सुकृतं भवेत्।।2.64.2।। Ayodhya Kanda,64,3,ततस्तं घटमादाय पूर्णं परमवारिणा। आश्रमं तमहं प्राप्य यथाऽख्यातपथं गतः।।2.64.3।। Ayodhya Kanda,64,4,तत्राहं दुर्बलावन्धौ वृद्धावपरिणायकौ। अपश्यं तस्य पितरौ लूनपक्षाविव द्विजौ।।2.64.4।। Ayodhya Kanda,64,5,तन्निमित्ताभिरासीनौ कथाभिरपरिश्रमौ। तामाशां मत्कृते हीनावुदासीनावनाथवत्।।2.64.5।। Ayodhya Kanda,64,6,शोकोपहतचित्तश्च भयसन्त्रस्तचेतनः। तच्चाऽश्रमपदं गत्वा भूयश्शोकमहं गतः।।2.64.6।। Ayodhya Kanda,64,7,पदशब्दं तु मे श्रुत्वा मुनिर्वाक्यमभाषत। किं चिरायसि मे पुत्र पानीयं क्षिप्रमानय।।2.64.7।। Ayodhya Kanda,64,8,यन्निमित्तमिदं तात सलिले क्रीडितं त्वया। उत्कण्ठिता ते मातेयं प्रविश क्षिप्रमाश्रमम्।।2.64.8।। Ayodhya Kanda,64,9,यद्व्यलीकं कृतं पुत्र मात्रा ते यदि वा मया। न तन्मनसि कर्तव्यं त्वया तात तपस्विना।।2.64.9।। Ayodhya Kanda,64,10,त्वं गतिस्त्वगतीनां चक्षुस्त्वं हीनचक्षुषाम्। समासक्तास्त्वयि प्राणाः किं त्वं नो नाभिभाषसे।।2.64.10।। Ayodhya Kanda,64,11,मुनिमव्यक्तया वाचा तमहं सज्जमानया। हीनव्यञ्जनया प्रेक्ष्य भीतचित्त इवाब्रुवम्।।2.64.11।। Ayodhya Kanda,64,12,मनसः कर्म चेष्टाभिरभिसंस्तभ्य वाग्बलम्। आचचक्षे त्वहं तस्मै पुत्रव्यसनजं भयम्।।2.64.12।। Ayodhya Kanda,64,13,क्षत्रियोऽहं दशरथो नाहं पुत्रो महात्मनः। सज्जनावमतं दुःखमिदं प्राप्तं स्वकर्मजम्।।2.64.13।। Ayodhya Kanda,64,14,भगवंश्चापहस्तोऽहं सरयूतीरमागतः। जिघांसुश्श्वापदं कञ्चिन्निपाने चाऽगतं गजम्।।2.64.14।। Ayodhya Kanda,64,15,ततश्श्रुतो मया शब्दो जले कुम्भस्य पूर्यतः। द्विपोऽयमिति मत्वाऽयं बाणेनाभिहतो मया।।2.64.15।। Ayodhya Kanda,64,16,गत्वा नद्यास्तत स्तीरमपश्यमिषुणा हृदि। विनिर्भिन्नं गतप्राणं शयानं भुवि तापसम्।।2.64.16।। Ayodhya Kanda,64,17,भगवच्छशब्दमालक्ष्य मया गजजिघांसुना। विसृप्टोऽम्भसि नाराचस्तेन ते निहतस्सुतः।।2.64.17।। Ayodhya Kanda,64,18,ततस्तस्यैव वचनादुपेत्य परितप्यतः। स मया सहसा बाण उधृतो मर्मतस्तदा।।2.64.18।। Ayodhya Kanda,64,19,स चोधृतेन बाणेन तत्रैव स्वर्गमास्थितः। भवन्तौ पितरौ शोचन्नन्धाविति विलप्य च।।2.64.19।। Ayodhya Kanda,64,20,अज्ञानाद्भवतः पुत्र स्सहसाऽभिहतो मया। शेषमेवं गते यत्स्यात्तत्प्रसीदतु मे मुनिः।।2.64.20।। Ayodhya Kanda,64,21,स तच्च्रुत्वा वचः क्रूरं मयोक्तमघशंसिना। नाशकत्तीव्रमायासमकर्तुं भगवानृषिः।।2.64.21।। Ayodhya Kanda,64,22,स बाष्पपूर्णवदनो निश्श्वसन्शोककर्शितः। मामुवाच महातेजाः कृताञ्जलिमुपस्थितम्।।2.64.22।। Ayodhya Kanda,64,23,यद्येतदशुभं कर्म न त्वं मे कथयेस्स्वयम्। फलेन्मूर्धा स्म ते राजन् सद्य श्शतसहस्रधा।।2.64.23।। Ayodhya Kanda,64,24,क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः। ज्ञानपूर्वं कृत स्स्थानाच्च्यावयेदपि वज्रिणम्।।2.64.24।। Ayodhya Kanda,64,25,सप्तधा तु फलेन्मूर्धा मुनौ तपसि तिष्ठति। ज्ञानाद्विसृजतश्शस्त्रं तादृशे ब्रह्मावादिनि।।2.64.25।। Ayodhya Kanda,64,26,अज्ञानाद्धिकृतं यस्मादिदं तेनैव जवसि। अपि ह्यद्य कुलं न स्यादिक्ष्वाकूणां कुतो भवान्।।2.64.26।। Ayodhya Kanda,64,27,नय नौ नृप तं देशमिति मां चाभ्यभाषत। अद्य तं द्रष्टुमिच्छावः पुत्रं पश्चिमदर्शनम्।।2.64.27।। Ayodhya Kanda,64,28,रुधिरेणावसिक्ताङ्गं प्रकीर्णाजिनवाससम्। शयानं भुवि निस्संज्ञं धर्म राजवशं गतम्।।2.64.28।। Ayodhya Kanda,64,29,अथाहमेकस्तं देशं नीत्वा तौ भृशदुःखितौ। अस्पर्शयमहं पुत्रं तं मुनिं सह भार्यया।।2.64.29।। Ayodhya Kanda,64,30,तौ पुत्रमात्मन स्स्पृष्ट्वा तमासाद्य तपस्विनौ। निपेततुश्शरीरेऽस्य पिता चास्येदमब्रवीत्।।62.64.30।। Ayodhya Kanda,64,31,नाभिवादयसे माद्य न च माऽमभिभाषसे। किं नु शेषे तु भूमौ त्वं वत्स किं कुपितो ह्यसि।।2.64.31।। Ayodhya Kanda,64,32,न त्वहं ते प्रियं पुत्र मातरं पश्य धार्मिक। किं नु नालिङ्गसे पुत्र सुकुमार वचो वद।।2.64.32।। Ayodhya Kanda,64,33,कस्य वाऽपररात्रेऽहं श्रोष्यामि हृदयङ्गमम्। अधीयानस्य मधुरं शास्त्रं वान्यद्विशेषतः।।2.64.33।। Ayodhya Kanda,64,34,को मां सन्द्यामुपास्यैव स्नात्वा हुतहुताशनः। श्लाघयिष्यत्युपासीनः पुत्र शोकभयार्दितम्।।2.64.34।। Ayodhya Kanda,64,35,कन्दमूलफलं हृत्वा को मां प्रियमिवातिथिम्। भोजयिष्यत्यकर्मण्यमप्रग्रहमनायकम्।।2.64.35।। Ayodhya Kanda,64,36,इमामन्धां च वृद्धां च मातरं ते तपस्विनीम्। कथं वत्स भरिष्यामि कृपणां पुत्रगर्धिनीम्।।2.64.36।। Ayodhya Kanda,64,37,तिष्ठ मां मागमः पुत्र यमस्य सदनं प्रति। श्वो मया सह गन्तासि जनन्या च समेधितः।।2.64.37।। Ayodhya Kanda,64,38,उभावपि च शोकार्तावनाथौ कृपणौ वने। क्षिप्रमेव गमिष्यावस्त्वया हीनौ यमक्षयम्।।2.4.38।। Ayodhya Kanda,64,39,ततो वैवस्वतं दृष्ट्वा तं प्रवक्ष्यामि भारतीम्। क्षमतां धर्मराजो मे बिभृयात्पितरावयम्।।2.64.39।। Ayodhya Kanda,64,40,दातुमर्हति धर्मात्मा लोकपालो महायशाः। ईदृशस्य ममाक्षय्या मेकामभयदक्षिणाम्।।2.64.40।। Ayodhya Kanda,64,41,अपापोऽसि यदा पुत्र निहतः पापकर्मणा। तेन सत्येन गच्छाऽऽशु ये लोकाश्शस्त्रयोधिनाम्।।2.64.41।। Ayodhya Kanda,64,42,यान्ति शूरा गतिं यां च सङ्ग्रामेष्वनिवर्तिनः। हतास्त्वभिमुखाः पुत्र गतिं तां परमां व्रज।।2.64.42।। Ayodhya Kanda,64,43,यां गतिं सगरश्शैब्यो दिलीपो जनमेजयः। नहुषो दुन्दुमारश्च प्राप्तास्तां गच्छ पुत्रक।।2.64.43।। Ayodhya Kanda,64,44,या गति स्सर्वसाधूनां स्वाध्यायात्तपसाच या। या भूमिदस्याहिऽताग्नेरेकपत्नी व्रतस्य च।।2.64.44।। Ayodhya Kanda,64,45,गोसहस्रप्रदातृ़णां या या गुरुभृतामपि। देहन्यासकृतां या च तां गतिं गच्छ पुत्रक।।2.64.45।। Ayodhya Kanda,64,46,न हि त्वस्मिन्कुले जातो गच्छत्यकुशलां गतिम्। स तु यास्यति येन त्वं निहतो मम बान्धवः।।2.64.46।। Ayodhya Kanda,64,47,एवं स कृपणं तत्र पर्यदेवयतासकृत्। ततोऽस्मै कर्तुमुदकं प्रवृत्तस्सहभार्यया।।2.64.47।। Ayodhya Kanda,64,48,स तु दिव्येन रूपेण मुनिपुत्रस्स्वकर्मभिः। स्वर्गमध्यारुहत्क्षिप्रं शक्रेण सह धर्मवित्।।2.64.48।। Ayodhya Kanda,64,49,आबभाषे च वृद्धौ तौ सह शक्रेण तापसः। आश्वास्यच मुहूर्तं तु पितरौ वाक्यमब्रवीत्।।2.64.49।। Ayodhya Kanda,64,50,स्थानमस्मि महत्प्राप्तो भवतोः परिचारणात्। भवन्तावपि च क्षिप्रं मम मूलमुपैष्यतः।।2.64.50।। Ayodhya Kanda,64,51,एवमुक्त्वा तु दिव्येन विमानेन वपुष्मता। आरुरोह दिवं क्षिप्रं मुनिपुत्रो जितेन्द्रियः।।2.64.51।। Ayodhya Kanda,64,52,स कृत्वा तूदकं तूर्णं तापस स्सह भार्यया। मामुवाच महातेजाः कृताञ्जलिमुपस्थितम्।।2.64.52।। Ayodhya Kanda,64,53,अद्यैव जहिं मां राजन्मरणे नास्ति मे व्यथा। यच्छरेणैकपुत्रं मां त्वमकर्षीरपुत्रकम्।।2.64.53।। Ayodhya Kanda,64,54,त्वया तु यदविज्ञानान्निहतो मे सुतश्शुचिः। तेन त्वामभिशप्स्यामि सुदुःखमतिदारुणम्।।2.64.54।। Ayodhya Kanda,64,55,पुत्रव्यसनजं दुःखं यदेतन्मम साम्प्रतम्। एवं त्वं पुत्रशोकेन राजन्कालं करिष्यसि।।2.64.55।। Ayodhya Kanda,64,56,अज्ञानात्तु हतो यस्मात्क्षत्रियेण त्वया मुनिः। तस्मात्त्वां नाविशत्याशु ब्रह्महत्या नराधिप।।2.64.56।। Ayodhya Kanda,64,57,त्वामप्येतादृशो भावः क्षिप्रमेव गमिष्यति। जीवितान्तकरो घोरो दातारमिव दक्षिणा।।2.64.57।। Ayodhya Kanda,64,58,एवं शापं मयि न्यस्य विलप्य करुणं बहु। चितामारोप्य देहं तन्मिथुनं स्वर्गमभ्ययात्।।2.64.58।। Ayodhya Kanda,64,59,तदेतच्छिन्तयानेन स्मृतं पापं मया स्वयम्। तदा बाल्यात्कृतं देवि शब्दवेध्यनुशिक्षिणा।।2.64.59।। Ayodhya Kanda,64,60,तस्यायं कर्मणो देवि विपाकस्समुपस्थितः। अपथ्यैस्सहम्भुक्ते व्याधिरन्नरसे यथा।।2.64.60।। Ayodhya Kanda,64,61,तस्मान्मामागतं भद्रे तस्योदारस्य तद्वचः। यदहं पुत्रशोकेन सन्त्यक्ष्याम्यद्य जीवितम्।।2.64.61।। Ayodhya Kanda,64,62,चक्षुभ्यां त्वां न पश्यामि कौसल्ये साधु मां स्फृश। इत्युक्त्वा स रुदंस्त्रस्तो भार्यामाह च भूमिपः।।2.64.62।। Ayodhya Kanda,64,63,एतन्मे सदृशं देवि यन्मया राघवे कृतम्। सदृशं तत्तु तस्यैव यदनेन कृतं मयि।।2.64.63।। Ayodhya Kanda,64,64,दुर्वृत्तमपि कः पुत्रं त्यजेद्भुवि विचक्षणः। कश्च प्रव्राज्यमानो वा नासूयेत्पितरं सुतः।।2.64.64।। Ayodhya Kanda,64,65,यदि मां संस्पृशेद्रामस्सकृदद्य लभेत वा। यमक्षयमनुप्राप्ता द्रक्ष्यन्ति न हि मानवाः।।2.64.65।। Ayodhya Kanda,64,66,चक्षुषा त्वां न पश्यामि स्मृतिर्मम विलुप्यते। दूता वैवस्वतस्यैते कौसल्ये त्वरयन्ति माम्।।2.64.66।। Ayodhya Kanda,64,67,अतस्तु किं दुःखतरं यदहं जीवितक्षये। न हि पश्यामि धर्मज्ञं रामं सत्यपराक्रमम्।।2.64.67।। Ayodhya Kanda,64,68,तस्यादर्शनजश्शोकस्सुतस्याप्रतिकर्मणः। उच्छोषयति मे प्राणान्वारिस्तोकमिवातपः।।2.64.68।। Ayodhya Kanda,64,69,न ते मनुष्या देवास्ते ये चारुशुभकुण्डलम्। मुखं द्रक्ष्यन्ति रामस्य वर्षे पञ्चदशे पुनः।।2.64.69।। Ayodhya Kanda,64,70,पद्मपत्रेक्षणं सुभ्रु सुदंष्ट्रं चारुनासिकम्। धन्या द्रक्ष्यन्ति रामस्य ताराधिपनिभं मुखम्।।2.64.70।। Ayodhya Kanda,64,71,सदृशं शारदस्येन्दोः पुल्लस्य कमलस्य च। सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन्मुखम्।।2.64.71।। Ayodhya Kanda,64,72,निवृत्तवनवासं तमयोध्यां पुनरागतम्। द्रक्ष्यन्ति सुखिनो रामं शुक्रं मार्गगतं यथा।।2.64.72।। Ayodhya Kanda,64,73,कौसल्ये चित्तमोहेन हृदयं सीदतीव मे। वेदये न च संयुक्तान् शब्दस्पर्शरसानहम्।।2.64.73।। Ayodhya Kanda,64,74,चित्तनाशाद्विपद्यन्ते सर्वाण्येन्द्रियाणि मे। क्षीणस्नेहस्य दीपस्य संसक्ता रश्मयो यथा।।2.64.74।। Ayodhya Kanda,64,75,अयमात्मभवश्शोको मामनाथमचेतनम्। संसादयति वेगेन यथा कूलं नदीरयः।।2.64.75।। Ayodhya Kanda,64,76,हा राघव महाबाहो हा ममाऽयासनाशन। हा पितृप्रिय मे नाथ हाऽद्य क्वासि गतस्सुत।।2.64.76।। Ayodhya Kanda,64,77,हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि। हा नृशंसे ममामित्रे कैकेयि कुलपांसनि।।2.64.77।। Ayodhya Kanda,64,78,इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ। राजा दशरथ श्शोचञ्जीवितान्तमुपागमत्।।2.64.78।। Ayodhya Kanda,64,79,यदा तु दीनं कथयन्नराधिपः प्रियस्य पुत्त्रस्य विवासनातुरः। गतेऽर्धरात्रे भृशदुःखपीडितस्तदा जहौ प्राणमुदारदर्शनः।।2.64.79।। Ayodhya Kanda,65,1,अथ रात्र्यां व्यतीतायां प्रातरेवापरेऽहनि। वन्दिनः पर्युपातिष्ठंस्तत्पार्थिव निवेशनम्।।2.65.1।। Ayodhya Kanda,65,2,सूताः परमसंस्कारा मङ्गलाश्चोत्तमश्रुताः। गायका: स्तुतिशीलाश्च निगदन्तः पृथक् पृथक्।।2.65.2।। Ayodhya Kanda,65,3,राजानं स्तुवतां तेषामुदात्ताभिहिताशिषाम्। प्रासादाऽभोगविस्तीर्णः स्तुतिशब्दोह्यवर्तत।।2.65.3।। Ayodhya Kanda,65,4,ततस्तु स्तुवतां तेषां सूतानां पाणिवादकाः। अपदानान्युदाहृत्य पाणिवादा नवादयन्।।2.65.4।। Ayodhya Kanda,65,5,तेन शब्देन विहगाः प्रतिबुद्धा विसस्वनुः। शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः।।2.65.5।। Ayodhya Kanda,65,6,व्याहृताः पुण्यशब्दाश्च वीणानां चापि निस्स्वनाः। आशीर्गेयं च गाथानां पूरयामास वेश्म तत्।।2.65.6।। Ayodhya Kanda,65,7,तत श्शुचिसमाचाराः पर्युपस्थानकोविदाः। स्त्रीवर्ष धरभूयिष्ठा उपतस्थुर्यथापुरम्।।2.65.7।। Ayodhya Kanda,65,8,हरिचन्दनसम्पृक्तमुदकं काञ्चनैर्घटैः। आनिन्युस्स्नानशिक्षाज्ञा यथाकालं यथाविधि।।2.65.8।। Ayodhya Kanda,65,9,मङ्गलालम्भनीयानि प्राशनीयान्युपस्करान्। उपनिन्युस्तथाप्यन्याः कुमारीबहुलाः स्त्रियः।।2.65.9।। Ayodhya Kanda,65,10,सर्वलक्षणसम्पन्नं सर्वं विधिवदर्चितम्। सर्वं सुगुणलक्ष्मीवत्तद्बभूवाभिहारिकम्।।2.65.10।। Ayodhya Kanda,65,11,तत स्सूर्योदयं यावत्सर्वं परिसमुत्सुकम्। तस्थावनुपसम्प्राप्तं किंस्विदित्युपशङ्कितम्।।2.65.11।। Ayodhya Kanda,65,12,अथ याः कोसलेन्द्रस्य शयनं प्रत्यनन्तराः। ताः स्त्रियस्तु समागम्य भर्तारं प्रत्यबोधयन्।।2.65.12।। Ayodhya Kanda,65,13,तथाप्युचितवृत्ता स्ता विनयेन नयेन च। नह्यस्य शयनं स्पृष्ट्वा किञ्चिदप्युपलेभिरे।।2.65.13।। Ayodhya Kanda,65,14,ताः स्त्रियस्स्वप्नशीलज्ञाश्चेष्टासञ्चलनादिषु ता वेपथुपरीताश्च राज्ञः प्राणेषु शङ्किताः। प्रतिस्रोतस्तृणाग्राणां सदृशं सञ्चकाशिरे।।2.65.14।। Ayodhya Kanda,65,15,अथ सन्देहमानानां स्त्रीणां दृष्ट्वा च पार्थिवम्। यत्तदाशङ्कितं पापं तस्य जज्ञे विनिश्चयः।।2.65.15।। Ayodhya Kanda,65,16,कौसल्या च सुमत्रच पुत्रशोकपराजिते। प्रसुप्ते न प्रबुध्येते यथा कालसमन्विते।।2.65.16।। Ayodhya Kanda,65,17,निष्प्रभा च विवर्णा च सन्ना शोकेन सन्नता। न व्यराजत कौसल्या तारेव तिमिरावृता।।2.65.17।। Ayodhya Kanda,65,18,कौसल्याऽनन्तरं राज्ञस्सुमित्रा तदन्तनरम्। न स्म विभ्राजते देवी शोकाश्रुलुलितानना।।2.65.18।। Ayodhya Kanda,65,19,ते च दृष्ट्वा तथा सुप्ते शुभे देव्यौ च तं नृपम्। सुप्तमेवोद्गतप्राणमन्तःपुरमदृश्यत।।2.65.19।। Ayodhya Kanda,65,20,ततः प्रचुक्रुशुर्दीना स्सस्वरं ता वराङ्गनाः। करेणव इवारण्ये स्थानप्रच्युतयूथपाः।।2.65.20।। Ayodhya Kanda,65,21,तासामाक्रन्दशब्देन सहसोद्धतचेतने। कौसल्या च सुमित्रा च त्यक्त निद्रे बभूवतुः।।2.65.21।। Ayodhya Kanda,65,22,कौसल्या च सुमित्रा च दृष्ट्वा स्प़ृष्ट्वा च पार्थिवम्। हा नाथेति परिक्रुश्य पेततुर्धरणीतले।।2.65.22।। Ayodhya Kanda,65,23,सा कोसलेन्द्रदुहिता वेष्टमाना महीतले। न बभ्राज रजोध्वस्ता तारेव गगनाच्च्युता।।2.65.23।। Ayodhya Kanda,65,24,नृपे शान्तगुणे जाते कौसल्यां पतितां भुवि। अपश्यंस्ताः स्त्रियः सर्वा हतां नागवधूमिव।।2.65.24।। Ayodhya Kanda,65,25,ततस्सर्वा नरेन्द्रस्य कैकेयीप्रमुखाः स्त्रियः। रुदन्त्य श्शोकसन्तप्ता निपेतुर्गतचेतनाः।।2.65.25।। Ayodhya Kanda,65,26,ताभिस्स बलवान्नादः क्रोशन्तीभिरनुद्रुतः। येन स्फीतीकृतं भूयस्तद्गृहं समनादयत् ।। 2.65.26 ।। Ayodhya Kanda,65,27,तत् परित्रस्तन्त्रसम्भ्रान्त पर्युत्सुकजनाकुलम्। सर्वतस्तुमुलाक्रन्दं परितापार्तबान्धवम्।।2.65.27।। Ayodhya Kanda,65,28,सद्यो निपतितानन्दं दीनविक्लबदर्शनम्। बभूव नरदेवस्य सद्म दिष्टान्तमीयुषः।।2.65.28।। Ayodhya Kanda,65,29,अतीतमाज्ञाय तु पार्थिवर्षभं यशस्विनं सम्परिवार्य पत्नयः। भृशं रुदन्त्यः करुणं सुदुःखिताः प्रगृह्य बाहू व्यलपन्ननाथवत्।।2.65.29।। Ayodhya Kanda,66,1,तमग्निमिव संशान्तमम्बुहीनमिवार्णवम्। हतप्रभमिवाऽऽदित्यं स्वर्गस्थं प्रेक्ष्य पार्थिवम्।।2.66.1।। Ayodhya Kanda,66,2,कौसल्या बाष्पपूर्णाक्षी विविधां शोककर्शिता। उपगृह्य शिरो राज्ञः कैकेयीं प्रत्यभाषत।।2.66.2।। Ayodhya Kanda,66,3,सकामा भव कैकेयि भुङ्क्ष्व राज्यमकण्टकम्। त्यक्त्वा राजानमेकाग्रा नृशंसे दुष्टचारिणि।।2.66.3।। Ayodhya Kanda,66,4,विहाय मां गतो रामः भर्ता च स्वर्गतो मम। विपथे सार्थहीनेव नाहं जीवितुमुत्सहे।।2.66.4।। Ayodhya Kanda,66,5,भर्तारं तं परित्यज्य का स्त्री दैवतमात्मनः। इच्छेज्जीवितुमन्यत्र कैकेय्यास्त्यक्तधर्मणः।।2.66.5।। Ayodhya Kanda,66,6,न लुब्धो बुध्यते दोषान् किम्पाकमिव भक्षयन्। कुब्जानिमित्तं कैकेय्या राघवाणां कुलं हतम्।।2.66.6।। Ayodhya Kanda,66,7,अनियोगे नियुक्तेन राज्ञा रामं विवासितम्। सभार्यं जनकश्श्रुत्वा परितप्स्यत्यहं यथा।।2.66.7।। Ayodhya Kanda,66,8,स मामनाथां विधवां नाद्य जानाति धार्मिकः। रामः कमलपत्राक्षः जीवन्नाशमितो गतः।।2.66.8।। Ayodhya Kanda,66,9,विदेहराजस्य सुता तथा सीता तपस्विनी। दुःखस्यानुचिता दुःखं वने पर्युद्विजिष्यति।।2.66.9।। Ayodhya Kanda,66,10,नदतां भीमघोषाणां निशासु मृगपक्षिणाम्। निशम्य नूनं सन्त्रस्ता राघवं संश्रयिष्यति।।2.66.10।। Ayodhya Kanda,66,11,वृद्धश्चैवाल्पपुत्रश्च वैदेहीमनुचिन्तयन्। सोऽपि शोकसमाविष्टो ननु त्यक्ष्यति जीवितम्।।2.66.11।। Ayodhya Kanda,66,12,साऽहमद्यैव दिष्टान्तं गमिष्यामि पतिव्रता। इदं शरीर मालिङ्ग्य प्रवेक्ष्यामि हुताशनम्।।2.66.12।। Ayodhya Kanda,66,13,तां ततस्सम्परिष्वज्य विलपन्तीं तपस्विनीम्। व्यपनीय सुदुःखार्तां कौसल्यां व्यावहारिकाः।।2.66.13।। Ayodhya Kanda,66,14,तैलद्रोण्यामथामात्या सम्वेश्य जगतीपतिम्। राज्ञस्सर्वाण्यथादिष्टाश्चक्रुः कर्माण्यनन्तरम्।।2.66.14।। Ayodhya Kanda,66,15,न तु सङ्कलनं राज्ञो विना पुत्रेण मन्त्रिणः। सर्वज्ञाः कर्तुमीषुस्ते ततो रक्षन्ति भूमिपम्।।2.66.15।। Ayodhya Kanda,66,16,तैलद्रोण्यां तु सचिवैश्शायितं तं नराधिपम्। हा मृतोऽयमिति ज्ञात्वा स्त्रियस्ताः पर्यदेवयन्।।2.66.16।। Ayodhya Kanda,66,17,बाहूनुद्यम्य कृपणाः नेत्रप्रस्रवणैर्मुखैः। रुदन्त्य श्शोकसन्तप्ताः कृपणं पर्यदेवयन्।।2.66.17।। Ayodhya Kanda,66,18,हा महाराज रामेण सततं प्रियवादिना। विहीनास्सत्यसन्धेन किमर्थं विजहासि नः।।2.66.18।। Ayodhya Kanda,66,19,कैकेय्या दुष्टभावायाः राघवेण वियोजिताः। कथं पतिघ्नया वत्स्याम स्समीपे विधवा वयम्।।2.66.19।। Ayodhya Kanda,66,20,स हि नाथस्सदास्माकं तव च प्रभुरात्मवान्। वनं रामो गतश्श्रीमान्विहाय नृपतिश्रियम्।।2.66.20।। Ayodhya Kanda,66,21,त्वया तेन च वीरेण विना व्यसनमोहिताः। कथं वयं निवत्स्यामः कैकेय्या च विदूषिताः।।2.66.21।। Ayodhya Kanda,66,22,यया तु राजा रामश्च लक्ष्मणश्च महाबलः। सीतया सह सन्त्यक्ता स्साकमन्यं न हास्यति।।2.66.22।। Ayodhya Kanda,66,23,ता बाष्पेण च संवीताश्शोकेन विपुलेन च। व्यवेष्टन्त निरानन्दा राघवस्य वरस्त्रियः।।2.66.23।। Ayodhya Kanda,66,24,निशा चन्द्रविहीनेव स्त्रीव भर्तृविवर्जिता। पुरी नाराजतायोध्या हीना राज्ञा महात्मना।।2.66.24।। Ayodhya Kanda,66,25,बाष्पपर्याकुलजना हाहाभूतकुलाङ्गना। शून्यचत्वरवेश्मान्ता न बभ्राज यथापुरम्।।2.66.25।। Ayodhya Kanda,66,26,गते तु शोकात् त्रिदिवं नराधिपे महीतलस्थासु नृपाङ्गनासु च। निवृत्तचारस्सहसा गतो रविः प्रवृत्तचारा रजनी ह्युपस्थिता।।2.66.26।। Ayodhya Kanda,66,27,ऋते तु पुत्राद्धहनं महीपतेर्नरोचयन्ते सुहृदस्समागताः। इतीव तस्मिन् शयने न्यवेशयन् वनिचिन्त्य राजानमचिन्त्य दर्शनम्।।2.66.27।। Ayodhya Kanda,66,28,गतप्रभा द्यौरिव भास्करं विना व्यपेतनक्षत्रगणेव शर्वरी। पुरी बभासे रहिता महात्मना न चास्रकण्ठाऽकुलमार्गचत्वरा।।2.66.28।। Ayodhya Kanda,66,29,नराश्च नार्यश्च समेत्य सङ्घशः विगर्हमाणा भरतस्य मातरम्। तदा नगर्यां नरदेवसङ्क्षये बभूवुरार्ता न च शर्म लेभिरे।।2.66.29।। Ayodhya Kanda,67,1,आक्रन्दितनिरानन्दा सास्रकण्ठजनाकुला। अयोध्यायामवतता सा व्यतीयाय शर्वरी।।2.67.1।। Ayodhya Kanda,67,2,व्यतीतायां तु शर्वर्यामादित्यस्योदये ततः। समेत्य राजकर्तारः सभामीयुर्द्विजातयः।।2.67.2।। Ayodhya Kanda,67,3,मार्कण्डेयोऽथ मौद्गल्यो वामदेवश्च काश्यपः। कात्यायनो गौतमश्च जाबालिश्च महायशाः।।2.67.3।। Ayodhya Kanda,67,4,एते द्विजा स्सहामात्यैः पृथग्वा च मुदीरयन्। वसिष्ठमेवाभिमुखाः श्रेष्ठं राजपुरोहितम्।।2.67.4।। Ayodhya Kanda,67,5,अतीता शर्वरी दुःखं या नो वर्षशतोपमा। अस्मिन्पञ्चत्वमापन्ने पुत्रशोकेन पार्थिवे।।2.67.5।। Ayodhya Kanda,67,6,स्वर्गतश्च महाराजो रामश्चारण्यमाश्रितः। लक्ष्मणश्चापि तेजस्वी रामेणैव गतस्सह।।2.67.6।। Ayodhya Kanda,67,7,उभौ भरतशत्रुघ्नौ केकयेषु परन्तपौ। पुरे राजगृहे रम्ये मातामहनिवेशने।।2.67.7।। Ayodhya Kanda,67,8,इक्ष्वाकूणामिहाद्यैव कश्चिद्राजा विधीयताम्। अराजकं हि नो राष्ट्रं विनाशं समवाप्नुयात्।।2.67.8।। Ayodhya Kanda,67,9,नाराजके जनपदे विद्युन्माली महास्वनः। अभिवर्षति पर्जन्यो महीं दिव्येन वारिणा।।2.67.9।। Ayodhya Kanda,67,10,नाराजके जनपदे बीजमुष्टिः प्रकीर्यते। नाराजके पितुः पुत्रो भार्या वा वर्तते वशे।।2.67.10।। Ayodhya Kanda,67,11,नाराजके धनं चास्ति नास्ति भार्या प्यराजके। इद मत्याहितं चान्यत्कुतस्सत्य मराजके।।2.67.11।। Ayodhya Kanda,67,12,नाराजके जनपदे कारयन्ति सभां नराः। उद्यानानि च रम्याणि हृष्टाः पुण्यगृहाणि च।।2.67.12।। Ayodhya Kanda,67,13,नाराजके जनपदे यज्ञशीला द्विजातयः। सत्राण्यन्वासते दान्ता ब्राह्मणा स्संशितव्रताः।।2.67.13।। Ayodhya Kanda,67,14,नाराजके जनपदे महायज्ञेषु यज्वनः। ब्राह्मणा वसुसम्पन्ना विसृजन्त्याप्तदक्षिणाः।।2.67.14।। Ayodhya Kanda,67,15,नाराजके जनपदे प्रभूतनटनर्तकाः। उत्सवाश्च समाजाश्च वर्धन्ते राष्ट्रवर्धनाः।।2.67.15।। Ayodhya Kanda,67,16,नाराजके जनपदे सिद्धार्था व्यवहारिणः। कथाभिरनुरज्यन्ते कथाशीलाः कथाप्रियैः।।2.67.16।। Ayodhya Kanda,67,17,नाराजके जनपदे उद्यानानि समागताः। सायाह्ने क्रीडितुं यान्ति कुमार्यो हेमभूषिताः।।2.67.17।। Ayodhya Kanda,67,18,नाराजके जनपदे वाहनै शशीघ्रगामिभिः। नरा निर्यान्त्यरण्यानि नारीभिस्सह कामिनः।।2.67.18।। Ayodhya Kanda,67,19,नाराजके जनपदे धनवन्तस्सुरक्षिताः। शेरते विवृतद्वाराः कृषिगोरक्षजीविनः।।2.67.19।। Ayodhya Kanda,67,20,नाराजके जनपदे बद्धघण्टाविषाणिनः। अटन्ति राजमार्गेषु कुञ्जरा षष्टिहायनाः।।2.67.20।। Ayodhya Kanda,67,21,नाराजके जनपदे शरान्सन्ततमस्यताम्। श्रूयते तलनिर्घोष इष्वस्त्राणामुपासने।।2.67.21।। Ayodhya Kanda,67,22,नाराजके जनपदे वणिजो दूरगामिनः। गच्छन्ति क्षेममध्वानं बहुपण्यसमाचिताः।।2.67.22।। Ayodhya Kanda,67,23,नाराजके जनपदे चरत्येकचरो वशी। भावयन्नात्मनाऽत्मानं यत्र सायंगृहो मुनिः।।2.67.23।। Ayodhya Kanda,67,24,नाराजके जनपदे योगक्षेमं प्रवर्तते। नचाप्यराजके सेना शत्रून्विषहते युधि।।2.67.24।। Ayodhya Kanda,67,25,नाराजके जनपदे हृष्टैः परमवाजिभिः। नरास्संयान्ति सहसा रथैश्च परिमण्डिताः।।2.67.25।। Ayodhya Kanda,67,26,नाराजके जनपदे नराश्शास्त्रविशारदाः। संवदन्तोऽवतिष्ठन्ते वनेषूपवनेषु च।।2.67.26।। Ayodhya Kanda,67,27,नाराजके जनपदे माल्यमोदकदक्षिणाः। देवताभ्यर्चनार्थाय कल्प्यन्ते नियतैर्जनैः।।2.67.27।। Ayodhya Kanda,67,28,नाराजके जनपदे चन्दनागरुरूषिताः। राजपुत्रा विराजन्ते वसन्त इव शाखिनः।।2.67.28।। Ayodhya Kanda,67,29,यथा ह्यनुदका नद्यः यथा वाऽप्यतृणं वनम्। अगोपाला यथा गावस्तथा राष्ट्रमराजकम्।।2.67.29।। Ayodhya Kanda,67,30,ध्वजो रथस्य प्रज्ञानं धूमो ज्ञानं विभावसोः। तेषां यो नो ध्वजो राजा स देवत्वमितो गतः।।2.66.30।। Ayodhya Kanda,67,31,नाराजके जनपदे स्वकं भवति कस्यचित्। मत्स्या इव नरा नित्यं भक्षयन्ति परस्परम्।।2.67.31।। Ayodhya Kanda,67,32,ये हि सम्भिन्नमर्यादा नास्तिकाश्छिन्नसंशयाः। तेऽपि भावाय कल्पन्ते राजदण्डनिपीडिताः।।2.67.32।। Ayodhya Kanda,67,33,यथा दृष्टि श्शरीरस्य नित्यमेव प्रवर्तते। तथा नरेन्द्रो राष्ट्रस्य प्रभवस्सत्यधर्मयोः।।2.67.33।। Ayodhya Kanda,67,34,राजा सत्यं च धर्मश्च राजा कुलवतां कुलम्। राजा माता पिता चैव राजा हितकरो नृणाम्।।2.67.34।। Ayodhya Kanda,67,35,यमो वैश्रवण श्शक्रः वरुणश्च महाबलः। विशेष्यन्ते नरेन्द्रेण वृत्तेन महता ततः।।2.67.35।। Ayodhya Kanda,67,36,अहो तम इवेदं स्यान्नप्रज्ञायेत किञ्चन। राजा चे न्न भवे ल्लोके विभज साध्वसाधुनी।।2.67.36।। Ayodhya Kanda,67,37,जीवत्यपि महाराजे तवैव वचनं वयम्। नातिक्रमामहे सर्वे वेलां प्राप्येव सागरः।।2.67.37।। Ayodhya Kanda,67,38,स न स्समीक्ष्य द्विजवर्य वृत्तं नृपं विना राज्यमरण्यभूतम्। कुमारमिक्ष्वाकुसुतं वदान्यं त्वमेव राजानमिहाभिषिञ्च।।2.67.38।। Ayodhya Kanda,68,1,तेषां हि वचनं श्रुत्वा वसिष्ठः प्रत्युवाच ह। मित्रामात्यगणान्सर्वान्ब्राह्मणांस्तानिदं वचः।।2.68.1।। Ayodhya Kanda,68,2,यदसौ मातुलकुले दत्तराज्यं परं सुखी। भरतो वसति भ्रात्रा शत्रुघ्नेन समन्वितः।।2.68.2।। Ayodhya Kanda,68,3,तच्छीघ्रं जवना दूता गच्छन्तु त्वरितैर्हयैः। आनेतुं भ्रातरौ वीरौ किं समीक्षामहे वयम्।।2.68.3।। Ayodhya Kanda,68,4,गच्छन्त्विति तत स्सर्वे वसिष्ठं वाक्यमब्रुवन्। तेषां तद्वचनं श्रूत्वा वसिष्ठो वाक्यमब्रवीत्।।2.68.4।। Ayodhya Kanda,68,5,एहि सिद्धार्थ विजय जयन्ताशोक नन्दन। श्रूयतामिति कर्तव्यं सर्वानेव ब्रवीमि वः।।2.68.5।। Ayodhya Kanda,68,6,पुरं राजगृहं गत्वा शीघ्रं शीघ्रजवै र्हयैः। त्यक्तशोकैरिदं वाच्य श्शासनाद्भरतो मम।।2.68.6।। Ayodhya Kanda,68,7,पुरोहित स्त्वां कुशलं प्राह सर्वे च मन्त्रिणः। त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया।।2.68.7।। Ayodhya Kanda,68,8,मा चास्मै प्रोषितं रामं मा चास्मै पितरं मृतम्। भवन्त श्शंसिषुर्गत्वा राघवाणामिमं क्षयम्।।2.68.8।। Ayodhya Kanda,68,9,कौशेयानि च वस्त्राणि भूषणानि वराणि च। क्षिप्रमादय राज्ञश्च भरतस्य च गच्छत।।2.68.9।। Ayodhya Kanda,68,10,दत्तपथ्यशना दूता जग्मुस्स्वं स्वं निवेशनम्। केकयां स्ते गमिष्यन्तो हयानारुह्य संमतान्।।2.68.10।। Ayodhya Kanda,68,11,ततः प्रास्थानिकं कृत्वा कार्यशेषमनन्तरम्। वसिष्ठेनाभ्यनुज्ञाता दूता स्संत्वरिता ययुः।।2.68.11।। Ayodhya Kanda,68,12,न्यन्तेनापरतालस्य प्रलम्बस्योत्तरं प्रति। निषेवमाणा स्ते जग्मुर्नदीं मध्येन मालिनीम्।।2.68.12।। Ayodhya Kanda,68,13,ते हस्तिनापुरे गङ्गां तीर्त्वा प्रत्यङ्मुखा ययुः। पाञ्चालदेशमासाद्य मध्येन कुरुजाङ्गलम्।।2.68.13।। Ayodhya Kanda,68,14,सरांसि च सुपूर्णानि नदीश्च विमलोदकाः। निरीक्षमाणा स्ते जग्मुर्दूताः कार्यवशाद्द्रुतम्।।2.68.14।। Ayodhya Kanda,68,15,ते प्रसन्नोदकां दिव्यां नानाविहगसेविताम्। उपातिजग्मुर्वेगेन शरदण्डां जनाकुलाम्।।2.68.15।। Ayodhya Kanda,68,16,निकूलवृक्षमासाद्य दिव्यं सत्योपयाचनम्। अभिगम्याभिवाद्यं तं कुलिङ्गां प्राविशन्पुरीम्।।2.68.16।। Ayodhya Kanda,68,17,आभिकालं ततः प्राप्य ते बोधिभवनाच्च्युताम्। पितृपैतामहीं पुण्यां तेरुरिक्षुमतीं नदीम्।।2.68.17।। Ayodhya Kanda,68,18,अवेक्ष्याञ्जलिपानांश्च ब्राह्मणान्वेदपारगान्। ययुर्मध्येन बाह्लीकान् सुदामानं च पर्वतम्।।2.68.18।। Ayodhya Kanda,68,19,विष्णोः पदं प्रेक्षमाणा विपाशांचापि शाल्मलीम्। नदीर्वापी स्तटाकानि पल्वलानि सरांसि च।।2.68.19।। Ayodhya Kanda,68,20,पश्यन्तो विविधांश्चापि सिंहाव्याघ्रमृग द्विपान्। ययुः पथाऽतिमहता शासनं भर्तुरीप्सवः।।2.68.20।। Ayodhya Kanda,68,21,ते श्रान्तवाहना दूता विकृष्णेन पथा ततः। गिरिव्रजं पुरवरं शीघ्रमासेदुरञ्जसा।।2.68.21।। Ayodhya Kanda,68,22,भर्तुः प्रियार्थं कुलरक्षणार्थं भर्तुश्च वंशस्य परिग्रहार्थम्। अहेडमाना स्त्वरया स्म दूता रात्र्यान्तु ते तत्पुरमेव याताः।।2.68.22।। Ayodhya Kanda,69,1,यामेव रात्रिं ते दूताः प्रविशन्ति स्म तां पुरीम्। भरतेनापि तां रात्रिं स्वप्नो दृष्टोऽयमप्रियः।।2.69.1।। Ayodhya Kanda,69,2,व्युष्टामेव तु तां रात्रिं दृष्ट्वा तं स्वप्नमप्रियम्। पुत्रो राजाधिराजस्य सुभृशं पर्यतप्यत।।2.69.2।। Ayodhya Kanda,69,3,तप्यमानं समाज्ञाय वयस्याः प्रियवादिनः। आयासं हि विनेष्यन्त स्सभायां चक्रिरे कथाः।।2.69.3।। Ayodhya Kanda,69,4,वादयन्ति तथा शान्तिं लास यन्त्यपि चापरे। नाटकान्यपरे प्राहुर्हास्यानि विविधानि च।।2.69.4।। Ayodhya Kanda,69,5,स तैर्महात्मा भरतस्सखिभिः प्रियवादिभिः। गोष्ठीहास्यानि कुर्वद्भिर्न प्राहृष्यत राघवः।।2.69.5।। Ayodhya Kanda,69,6,तमब्रवीत्प्रियसखो भरतं सखिभिर्वृतम्। सुहृद्भिः पर्युपासीनः किं सखे नानुमोदसे।।2.69.6।। Ayodhya Kanda,69,7,एवं ब्रुवाणं सुहृदं भरतः प्रत्युवाच ह। श्रुणु त्वं यन्निमित्तं मे दैन्यमेतदुपागतम्।।2.69.7।। Ayodhya Kanda,69,8,स्वप्ने पितरमद्राक्षं मलिनं मुक्त मूर्धजम्। पतन्तमद्रिशिखरात्कलुषे गोमयह्रदे।।2.69.8।। Ayodhya Kanda,69,9,प्लवमानश्च मे दृष्टस्स तस्मिन्गोमयह्रदे। पिबन्नञ्जलिना तैलं हसन्नपि मुहुर्मुहुः।।2.69.9।। Ayodhya Kanda,69,10,ततस्तिलौदनं भुक्त्वा पुनः पुनरधश्शिराः। तैलेनाभ्यक्तसर्वाङ्गः तैलमेवान्वगाहत।।2.69.10।। Ayodhya Kanda,69,11,स्वप्नेऽपि सागरं शुष्कं चन्द्रं च पतितं भवि। उपरुद्धां च जगतीं तमसेव समावृताम्।।2.69.11।। Ayodhya Kanda,69,12,औपवाह्यस्य नागस्य विषाणं शकलीकृतम्। सहसाचापि संशान्तं ज्वलितं जातवेदसम्।।2.69.12।। Ayodhya Kanda,69,13,अवतीर्णां च पृथिवीं शुष्कां श्च विविधान् द्रुमान्। अहं पश्यामि विध्वस्तान् सधूमांश्चापि पर्वतान्।।2.69.13।। Ayodhya Kanda,69,14,पीठे कार्ष्णायसे चैनं निषण्णं कृष्णवाससम्। प्रहसन्ति स्म राजानं प्रमदाः कृष्णपिङ्गलाः।।2.69.14।। Ayodhya Kanda,69,15,त्वरमाणश्च धर्मात्मा रक्तमाल्यानुलेपनः। रथेन खरयुक्तेन प्रयातो दक्षिणामुखः।।2.69.15।। Ayodhya Kanda,69,16,प्रहसन्तीव राजानं प्रमदा रक्तवासिनी। प्रकर्षन्ती मया दृष्टा राक्षसी विकृतानना।।2.69.16।। Ayodhya Kanda,69,17,एवमेतन्मया दृष्टमिमां रात्रिं भयावहम्। अहं रामोऽथवा राजा लक्ष्मणो वा मरिष्यति।।2.69.17।। Ayodhya Kanda,69,18,नरो यानेन य स्स्वप्ने स्वरयुक्तेन याति हि। अचिरात्तस्य धूमाग्रं चितायां सम्प्रदृश्यते।।2.69.18।। Ayodhya Kanda,69,19,एतन्निमित्तं दीनोऽहं तन्नवः प्रतिपूजये। शुष्यतीव च मे कण्ठः न स्वस्थमिव मे मनः।।2.69.19।। Ayodhya Kanda,69,20,न पश्यामि भयस्थानं भयं चैवोपधारये भ्रष्टश्च स्वरयोगो मे छाया चोपहता मम। जुगुप्सन्निव चाऽत्मानं न पश्यमि च कारणम्।।2.69.20।। Ayodhya Kanda,69,21,इमां च दुस्स्वप्नगतिं निशाम्यतामनेकरूपामवितर्कितां पुरा। भयं महत्तद्धृदयान्नयाति मे विचिन्त्य राजानमचिन्तदर्शनम्।।2.69.21।। Ayodhya Kanda,70,1,भरते ब्रुवति स्वप्नं दूतास्ते क्लान्तवाहनाः। प्रविश्यासह्यपरिखं रम्यं राजगृहं पुरम्।।2.70.1।। Ayodhya Kanda,70,2,समागम्य तु राज्ञा च राजपुत्रेण चार्चिताः राज्ञः पादौ गृहीत्वा तु तमूचुर्भरतं वचः।।2.70.2।। Ayodhya Kanda,70,3,पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिणः। त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया।।2.70.3।। Ayodhya Kanda,70,4,इमानि च महार्हाणि वस्त्राण्याभरणानि च। प्रतिगृह्य विशालक्ष मातुलस्य च दापय।।2.70.4।। Ayodhya Kanda,70,5,अत्र विशंतिकोट्यस्तु नृपतेर्मातुलस्य ते। दशकोट्यस्तु सम्पूर्णास्तथैव च नृपात्मज।।2.70.5।। Ayodhya Kanda,70,6,प्रतिगृह्य तु तत्सर्वं स्वनुरक्त स्सुहृज्जने। दूतानुवाच भरतः कामैस्सम्प्रतिपूज्य तान्।।2.70.6।। Ayodhya Kanda,70,7,कच्चित्सुकुशली राजा पिता दशरथो मम। कच्चिच्चारोगता रामे लक्ष्मणे च महात्मनि।।2.70.7।। Ayodhya Kanda,70,8,आर्या च धर्मनिरता धर्मज्ञा धर्मदर्शिनी। अरोगा चापि कौसल्या माता रामस्य धीमतः।।2.70.8।। Ayodhya Kanda,70,9,कच्चित्सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या। शत्रुघ्नस्य च वीरस्य साऽरोगा चापि मध्यमा।।2.70.9।। Ayodhya Kanda,70,10,आत्मकामा सदा चण्डी क्रोधना प्राज्ञमानिनी। अरोगा चापि मे माता कैकेयी किमुवाच ह।।2.70.10।। Ayodhya Kanda,70,11,एवमुक्तास्तु ते दूताः भरतेन महात्मना। ऊचुस्सप्रश्रयं वाक्यमिदं तं भरतं तदा।।2.70.11।। Ayodhya Kanda,70,12,कुशलास्ते नरव्याघ्र येषां कुशलमिच्छसि। श्रीश्च त्वां वृणुते पद्मा युज्यतां चापि ते रथः।।2.70.12।। Ayodhya Kanda,70,13,भरतश्चापि तान् दूतानेवमुक्तोऽभ्यभाषत। आपृच्चेऽहं महाराजं दूतास्सन्त्वरयन्ति माम्।।2.70.13।। Ayodhya Kanda,70,14,एवमुक्त्वा तु तान् दूतान्भरतः पार्थिवात्मजः। दूतै स्सञ्चोदितो वाक्यं मातामहमुवाच ह।।2.70.14।। Ayodhya Kanda,70,15,राजन् पितुर्गमिष्यामि सकाशं दूतचोदितः। पुनरप्यहमेष्यामि यदा मे त्वं स्मरिष्यसि।।2.70.15।। Ayodhya Kanda,70,16,भरतेनैवमुक्तस्तु नृपो मातामहस्तदा। तमुवाच शुभं वाक्यं शिरस्याघ्राय राघवम्।।2.70.16।। Ayodhya Kanda,70,17,गच्छ तातानुजाने त्वां कैकेयीसुप्रजास्त्वया। मातरं कुशलं ब्रूयाः पितरं च परन्तप।।2.70.17।। Ayodhya Kanda,70,18,पुरोहितं च कुशलं ये चान्ये द्विजसत्तमाः। तौ च तात महेष्वासौ भ्रातरौ रामलक्ष्मणौ।।2.70.18।। Ayodhya Kanda,70,19,तस्मै हस्त्युत्तमांश्चित्रान्कम्बलानजिनानि च। अभिसत्कृत्य कैकेयो भरताय धनं ददौ।।2.70.19।। Ayodhya Kanda,70,20,रुक्मनिष्कसहस्रे द्वे षोडशाश्वशतानि च। सत्कृत्य कैकयीपुत्रं केकयो धनमादिशत्।।2.70.20।। Ayodhya Kanda,70,21,तथाऽमात्यानभिप्रेतान्विश्वास्यांश्च गुणान्वितान्। ददावश्वपतिः क्षिप्रं भरतायानुयायिनः।।2.70.21।। Ayodhya Kanda,70,22,ऐरावतानैन्द्रशिरान्नागान्वै प्रियदर्शनान्। खरान् श्रीघ्रान्सुसंयुक्तान्मातुलोऽस्मै धनं ददौ।।2.70.22।। Ayodhya Kanda,70,23,अन्तःपुरेऽति संवृद्धान् व्याघ्रवीर्यबलान्वितान्। दंष्ट्राऽऽयुधान्महाकायान् शुनश्चोपायनं ददौ।।2.70.23।। Ayodhya Kanda,70,24,स दत्तं केकयेन्द्रेण धनं तन्नाभ्यनन्दत। भरतः कैकयीपुत्रो गमनत्वरया तदा।।2.70.24।। Ayodhya Kanda,70,25,बभूव ह्यस्य हृदये चिन्ता सुमहती तदा। त्वरया चापि दूतानां स्वप्नस्यापि च दर्शनात्।।2.70.25।। Ayodhya Kanda,70,26,स स्ववेश्माभ्यतिक्रम्य नरनागाश्वसंवृतम्। प्रपेदे सुमहच्छ्रीमान्राजमार्गमनुत्तमम्।।2.70.26।। Ayodhya Kanda,70,27,अभ्यतीत्य ततोऽपश्यदन्तःपुरमुदारधीः। ततस्तद्भरतश्श्रीमानाविवेशानिवारितः।।2.70.27।। Ayodhya Kanda,70,28,स मातामहमापृच्छ्य मातुलं च युधाजितम्। रथमारुह्य भरतश्शत्रुघ्नसहितो ययौ।।2.70.28।। Ayodhya Kanda,70,29,रथान्मण्डल चक्रांश्च योजयित्वा परश्शतम्। उष्ट्र गोऽश्वबलैर्भृत्या भरतं यान्तमन्वयुः।।2.70.29।। Ayodhya Kanda,70,30,बलेन गुप्तो भरतो महात्मा सहार्यकस्याऽत्मसमैरमात्यैः। आदाय शत्रुघ्नमपेतशत्रुर्गृहाद्ययौ सिद्ध इवेन्द्रलोकात्।।2.70.30।। Ayodhya Kanda,71,1,"""[Crossing many rivers, forests and territories Bharata reaches Ayodhya -- witnesses scenes of dull desolation charged with an atmosphere of apprehensions -- enters the palace dejected] स प्राङ्मुखो राजगृहादभिनिर्याय राघवः। ततस्सुदामां द्युतिमान् सन्तीर्यावेक्ष्य तां नदीम्।।2.71.1।।" Ayodhya Kanda,71,2,"ह्लादिनीं दूरपारां च प्रत्यक्स्रोतस्तरङ्गिणीम्। शतद्रूमतरच्छ्रीमान्नदीमिक्ष्वाकुनन्दनः।।2.71.2।।""" Ayodhya Kanda,71,1,स प्राङ्मुखो राजगृहादभिनिर्याय राघवः। ततस्सुदामां द्युतिमान् सन्तीर्यावेक्ष्य तां नदीम्।।2.71.1।। Ayodhya Kanda,71,2,ह्लादिनीं दूरपारां च प्रत्यक्स्रोतस्तरङ्गिणीम्। शतद्रूमतरच्छ्रीमान्नदीमिक्ष्वाकुनन्दनः।।2.71.2।। Ayodhya Kanda,71,3,ऐलाधाने नदीं तीर्त्वा प्राप्य चापरपर्पटान्। शिलामकुर्वतीं तीर्त्वा आग्नेयं शल्यकर्षणम्।।2.71.3।। Ayodhya Kanda,71,4,सत्यसन्धश्शुचिश्श्रीमान्प्रेक्षमाण श्शिलावहाम्। अत्ययात्स महाशैलान्वनं चैत्ररथं प्रति।।2.71.4।। Ayodhya Kanda,71,5,सरस्वतीं च गङ्गां च युग्मेन प्रतिपद्यच। उत्तरान्वीरमत्स्यानां भारुण्डं प्राविशद्वनम्।।2.71.5।। Ayodhya Kanda,71,6,वेगिनीं च कुलिङ्गाख्यां ह्लादिनीं पर्वताऽऽवृताम्। यमुनां प्राप्य सन्तीर्णः बलमाश्वासयत्तदा।।2.71.6।। Ayodhya Kanda,71,7,सशीतीकृत्य तु गात्राणि क्लान्तानाश्वास्य वाजिनः। तत्र स्नात्वा च पीत्वा च प्रायादादाय चोदकम्।।2.71.7।। Ayodhya Kanda,71,8,राजपुत्रो महारण्यमनभीक्ष्णोपसेवितम्। भद्रो भद्रेण यानेन मारुतः खमिवात्ययात्।।2.71.8।। Ayodhya Kanda,71,9,भागीरथीं दुष्प्रतरामंशुधाने महानदीम्। उपायाद्राघवस्तूर्णं प्राग्वटे विश्रुते पुरे।।2.71.9।। Ayodhya Kanda,71,10,स गङ्गां प्राग्वटे तीर्त्वा समायात्कुटिकोष्ठिकाम्। सबल स्तां स तीर्त्वाऽथ समायाद्धर्मवर्धनम्।।2.71.10।। Ayodhya Kanda,71,11,तोरणं दक्षिणार्धेन जम्भूप्रस्थमुपागमत्। वरूथं च ययौ रम्यं ग्रामं दशरथात्मजः।।2.71.11।। Ayodhya Kanda,71,12,तत्र रम्ये वने वासं कृत्वाऽसौ प्राङ्मुखो ययौ। उद्यानमुज्जिहानायाः प्रियका यत्र पादपाः।।2.71.12।। Ayodhya Kanda,71,13,सालांस्तु प्रियकान्प्राप्य शीघ्रानास्थाय वाजिनः। अनुज्ञाप्याथ भरतः वाहिनीं त्वरितो ययौ।।2.71.13।। Ayodhya Kanda,71,14,वासं कृत्वा सर्वतीर्थे तीर्त्वा चोत्तानिकां नदीम्। अन्या नदीश्च विविधाः पार्वतीयैस्तुरङ्गमैः।।2.71.14।। Ayodhya Kanda,71,15,हस्तिपृष्ठकमासाद्य कुटिकामत्यवर्तत। ततार च नरव्याघ्रो लौहित्ये स कपीवतीम्।।2.71.15।। Ayodhya Kanda,71,16,एकसाले स्थाणुमतीं विनते गोमतीं नदीम्। कलिङ्गनगरे चापि प्राप्य सालवनं तदा।।2.71.16।। भरतः क्षिप्रमागच्छत्सुपरिश्रान्तवाहनः। Ayodhya Kanda,71,17,वनं च समतीत्याशुशर्वर्यामरुणोदये।।2.71.17।। अयोध्यां मनुना राज्ञा निर्मितां सन्ददर्श ह। Ayodhya Kanda,71,18,तां पुरीं पुरुषव्याघ्रस्सप्तरात्रोषितः पथि।।2.71.18।। अयोध्यामग्रतो दृष्ट्वा सारथिं वाक्यमब्रवीत्। Ayodhya Kanda,71,19,एषा नातिप्रतीता मे पुण्योद्याना यशस्विनी।।2.71.19।। Ayodhya Kanda,71,20,अयोध्या दृश्यते दूरात्सारथे पाण्डुमृत्तिका। यज्वभिर्गुणसम्पन्नैर्ब्राह्मणैर्वेदपारगैः।।2.71.20।। भूयिष्ठमृद्धैराकीर्णा राजर्षिपरिपालिता। Ayodhya Kanda,71,19,एषा नातिप्रतीता मे पुण्योद्याना यशस्विनी।।2.71.19।। Ayodhya Kanda,71,21,अयोध्यायां पुरा शब्दश्श्रूयते तुमुलो महान्।।2.71.21।। समन्तान्नरनारीणां तमद्य न श्रुणोम्यहम्। Ayodhya Kanda,71,22,उद्यानानि हि सायाह्ने क्रीडित्वोपरतैर्नरैः।।2.71.22।। समन्तात्परिधावद्भिः प्रकाशन्ते ममान्यथा। Ayodhya Kanda,71,23,तान्यद्यानुरुदन्तीव परित्यक्तानि कामिभिः।।2.71.23।। अरण्यभूतेव पुरी सारथे प्रतिभाति मे। Ayodhya Kanda,71,24,न ह्यत्र यानैर्दृश्यन्ते न गजैर्न च वाजिभिः।।2.71.24।। निर्यान्तो वाऽभियान्तो वा नरमुख्या यथापुरम्। Ayodhya Kanda,71,25,उद्यानानि पुरा भान्ति मत्तप्रमुदितानि च।।2.71.25।। जनानां रतिसंयोगेष्वत्यन्तगुणवन्ति च। Ayodhya Kanda,71,26,तान्येतान्यद्य पश्यामि निरानन्दानि सर्वशः।।2.71.26।। स्रस्तपर्णैरनुपथं विक्रोशद्भिरिव द्रुमैः। Ayodhya Kanda,71,27,नाद्यापि श्रूयते शब्दः मत्तानां मृगपक्षिणाम्।।2.71.27।। संरक्तां मधुरां वाणीं कलं व्याहरतां बहु। Ayodhya Kanda,71,28,चन्दनागरुसम्पृक्तो धूपसम्मूर्छितोऽतुलः।।2.71.28।। प्रवाति पवन श्श्रीमान्किन्नुनाद्य यथापुरम्। Ayodhya Kanda,71,29,भेरीमृदङ्गवीणानां कोणसङ्घट्टितः पुनः।।2.71.29।। किमद्य शब्दो विरतस्सदा दीनगतिः पुरा। Ayodhya Kanda,71,30,अनिष्टानि च पापानि पश्यामि विविधानि च।।2.71.30।। निमित्तान्यमनोज्ञानितेन सीदति मे मनः। Ayodhya Kanda,71,31,सर्वथा कुशलं सूत दुर्लभं मम बन्दुषु।।2.71.31।। तथाह्यसति सम्मोहे हृदयं सीदतीव मे। Ayodhya Kanda,71,32,विषण्ण श्श्रान्तहृदयस्त्रस्त स्सुलुलितेन्द्रियः।।2.71.32।। भरतः प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम्। Ayodhya Kanda,71,33,द्वारेण वैजयन्तेन प्राविशच्छ्रान्तवाहनः।।2.71.33।। द्वास्स्थैरुत्थाय विजयं पृष्टस्तै स्सहितो ययौ। Ayodhya Kanda,71,34,स त्वनेकाग्रहृदयो द्वास्स्थं प्रत्यर्च्य तं जनम्।।2.71.34।। सूतमश्वपतेः क्लान्तमब्रवीत्तत्र राघवः। Ayodhya Kanda,71,35,किमहं त्वरयाऽनीतः कारणेन विनानघ।।2.71.35।। अशुभाशङ्कि हृदयं शीलं च पततीव मे। Ayodhya Kanda,71,36,श्रुता नो यादृशाः पूर्वं नृपतीनां विनाशने।।2.71.36।। आकारांस्तानहं सर्वानिहपश्यामि सारथे। Ayodhya Kanda,71,37,सम्मार्जनविहीनानि परुषाण्युपलक्षये।।2.71.37।। Ayodhya Kanda,71,38,असंयत कवाटानि श्रीविहीनानि सर्वशः। बलिकर्मविहीनानि धूपसम्मोदनेन च।।2.71.38।। Ayodhya Kanda,71,39,अनाशितकुटुम्बानि प्रभाहीनजनानि च। अलक्ष्मीकानि पश्यामि कुटुम्बिभवनान्यहम्।।2.71.39।। Ayodhya Kanda,71,37,सम्मार्जनविहीनानि परुषाण्युपलक्षये।।2.71.37।। Ayodhya Kanda,71,40,अपेतमाल्यशोभानि ह्यसम्मृष्टाजिराणि च। देवागाराणि शून्यानि न चाभान्ति यथापुरम्।।2.71.40।। Ayodhya Kanda,71,41,देवतार्चाः प्रविद्धाश्च यज्ञगोष्ठ्यस्तथाविधाः। माल्यापणेषु राजन्ते नाद्य पण्यानि वा तथा।।2.71.41।। Ayodhya Kanda,71,42,दृश्यन्ते वणिजोऽप्यद्य न यथापूर्वमत्रवै। ध्यानसंविग्नहृदयाः नष्टव्यापारयन्त्रिताः।।2.71.42।। Ayodhya Kanda,71,43,देवायतनचैत्येषु दीनाः पक्षिगणास्तथा।।2.71.43।। Ayodhya Kanda,71,44,मलिनं चाश्रुपूर्णाक्षं दीनं ध्यानपरं कृशम्। सस्त्रीपुंसं च पश्यामि जनमुत्कण्ठितं पुरे।।2.71.44।। Ayodhya Kanda,71,45,इत्येवमुक्त्वा भरतस्सूतं तं दीनमानसः। तान्यनिष्टान्ययोध्यायां प्रेक्ष्य राजगृहं ययौ।।2.71.45।। Ayodhya Kanda,71,46,तां शून्यशृङ्गाटकवेश्मरथ्यां रजोऽरुणद्वारकवाटयन्त्राम्। दृष्ट्वा पुरीमिन्द्रपुरप्रकाशां दुःखेन सम्पूर्णतरो बभूव।।2.71.46।। Ayodhya Kanda,72,1,अपश्यंस्तु ततस्तत्र पितरं पितुरालये। जगाम भरतो द्रष्टुं मातरं मातुरालये।।2.72.1।। Ayodhya Kanda,72,2,अनुप्राप्तं तु तं दृष्ट्वा कैकेयी प्रोषितं सुतम्। उत्पपात तदा हृष्टा त्यक्त्वा सौवर्णमासनम्।।2.72.2।। Ayodhya Kanda,72,3,स प्रविश्यैव धर्मात्मा स्वगृहं श्रीविवर्जितम्। भरतः प्रतिजग्राह जनन्याश्चरणौ शुभौ।।2.72.3।। Ayodhya Kanda,72,4,सा तं मूर्धन्युपाघ्राय परिष्वज्य यशस्विनम्। अङ्के भरतमारोप्य प्रष्टुं समुपचक्रमे।।2.72.4।। Ayodhya Kanda,72,5,अद्य ते कतिचिद्रात्र्य श्च्युतस्याऽर्यकवेश्मनः। अपि नाध्वश्रमशशीघ्रं रथेनापततस्तव।।2.72.5।। Ayodhya Kanda,72,6,आर्यकस्ते सुकुशली युधाजिन्मातुलस्तव। प्रवासाच्च सुखं पुत्र सर्वं मे वक्तुमर्हसि।।2.72.6।। Ayodhya Kanda,72,7,एवं पृष्टस्तु कैकेय्या प्रियं पार्थिवनन्दनः। आचष्ट भरत स्सर्वं मात्रे राजीवलोचनः।।2.72.7।। Ayodhya Kanda,72,8,अद्य मे सप्तमी रात्रिश्च्युतस्याऽर्यकवेश्मनः। अम्बायाः कुशली तात युधाजिन्मातुलश्च मे।।2.72.8।। Ayodhya Kanda,72,9,यन्मे धनं च रत्नं च ददौ राजा परन्तपः। परिश्रान्तं पथ्यभवत्ततोऽहं पूर्वमागतः।।2.72.9।। Ayodhya Kanda,72,10,राजवाक्यहरैर्दूतैस्त्वर्यमाणोऽहमागतः। यदहं प्रष्टुमिच्छामि तदम्बा वक्तुमर्हति।।2.72.10।। Ayodhya Kanda,72,11,शून्योऽयं शयनीयस्ते पर्यङ्को हेमभूषितः। न चायमिक्ष्वाकुजनः प्रहृष्टः प्रतिभाति मा।।2.72.11।। Ayodhya Kanda,72,12,राजा भवति भूयिष्ठमिहाम्बाया निवेशने। तमहं नाद्य पश्यामि द्रष्टुमिच्छन्निहाऽगतः।।2.72.12।। Ayodhya Kanda,72,13,पितुर्ग्रहीष्ये चरणौ तं ममाऽख्याहि पृच्छतः। आहोस्विदम्ब ज्येष्ठायाः कौसल्याया निवेशने।।2.72.13।। Ayodhya Kanda,72,14,तं प्रत्युवाच कैकेयी प्रियवद्घोरमप्रियम्। अजानन्तं प्रजानन्ती राज्यलोभेन मोहिता।।2.72.14।। Ayodhya Kanda,72,15,या गतिस्सर्वभूतानां तां गतिं ते पिता गतः। राजा महत्मा तेजस्वी यायजूकस्सतां गतिः।।2.72.15।। Ayodhya Kanda,72,16,तच्छ्रुत्वा भरतो वाक्यं धर्माभिजनवाञ्चुचिः। पपात सहसा भूमौ पितृशोकबलार्दितः।।2.72.16।। Ayodhya Kanda,72,17,हा हतोऽस्मीति कृपणां दीनां वाचमुदीरयन्। निपपात महाबाहुर्बाहू विक्षिप्य वीर्यवान्।।2.72.17।। Ayodhya Kanda,72,18,ततश्शोकेन संवीतः पितुर्मरणदुःखितः। विललाप महातेजा भ्रान्ताकुलितचेतनः।।2.72.18।। Ayodhya Kanda,72,19,एतत्सुरुचिरं भाति पितुर्मे शयनं पुरा। शशिनेवामलं रात्रौ गगनं तोयदात्यये।।2.72.19।। Ayodhya Kanda,72,20,तदिदं न विभात्यद्य विहीनं तेन धीमता। व्योमेव शशिना हीनमप्च्छुष्क इव सागरः।।2.72.20।। Ayodhya Kanda,72,21,बाष्पमुत्सृज्य् कण्ठेन स्वात्मना परमपीडितः। आच्छाद्य वदनं श्रीमद्वस्त्रेण जयतां वरः।।2.72.21।। Ayodhya Kanda,72,22,तमार्तं देवसङ्काशं समीक्ष्य पतितं भुवि। निकृत्तमिव सालस्य स्कन्धं परशुना वने।।2.72.22।। Ayodhya Kanda,72,23,मत्तमातङ्गसङ्काशं चन्द्रार्कसदृशं भुवः। उत्थापयित्वा शोकार्तं वचनं चेदमब्रवीत्।।2.72.23।। Ayodhya Kanda,72,24,उत्तिष्ठोत्तिष्ठ किं शेषे राजपुत्र महायशः। त्वद्विधा नहि शोचन्ति सन्त स्सदसि सम्मताः।।2.72.24।। Ayodhya Kanda,72,25,दानयज्ञाधिकारा हि शीलश्रुतिवचोऽनुगा। बुद्धिस्ते बुद्धिसम्पन्न प्रभेवार्कस्य मन्दिरे।।2.72.25।। Ayodhya Kanda,72,26,स रुदित्वा चिरं कालं भूमौ विपरिवृत्य च। जननीं प्रत्युवाचेदं शोकैर्बहुभिरावृतः।।2.72.26।। Ayodhya Kanda,72,27,अभिषेक्ष्यति रामं नु राजा यज्ञं नु यक्ष्यते। इत्यहं कृतसङ्कल्पो हृष्टो यात्रामयासिषम्।।2.72.27।। Ayodhya Kanda,72,28,तदिदं ह्यन्यथा भूतं व्यवदीर्णं मनो मम। पितरं यो न पश्यामि नित्यं प्रियहिते रतम्।।2.72.28।। Ayodhya Kanda,72,29,अम्ब केनात्यगाद्राजा व्याघिना मय्यनागते। धन्या रामादयस्सर्वे यैः पिता संस्कृत स्स्वयम्।।2.72.29।। Ayodhya Kanda,72,30,न नूनं मां महाराजः प्राप्तं जानाति कीर्तिमान्। उपजिघ्रेद्धि मूर्ध्नि तात स्सन्नम्य सत्वरम्।।2.72.30।। Ayodhya Kanda,72,31,क्व स पाणिस्सुखस्पर्शस्तातस्याक्लिष्टकर्मणः। येन मां रजसा ध्वस्तमभीक्ष्णं परिमार्जति।।2.72.31।। Ayodhya Kanda,72,32,यो मे भ्राता पिता बन्धुर्यस्य दासोऽस्मि धीमतः। तस्य मां शीघ्रमाख्याहि रामस्याक्लिष्टकर्मणः।।2.72.32।। Ayodhya Kanda,72,33,पिता हि भवति ज्येष्ठो धर्ममार्यस्य जानतः। तस्य पादौ ग्रहीष्यामि स हीदानीं गतिर्मम।।2.72.33।। Ayodhya Kanda,72,34,धर्मविद्धर्मनित्यश्च सत्यसन्धो दृढव्रतः। आर्यः किमब्रवीद्राजा पिता मे सत्यविक्रमः।।2.72.34।। Ayodhya Kanda,72,35,पश्चिमं साधु सन्देशमिच्छामि श्रोतुमात्मनः। इति पृष्टा यथातत्त्वं कैकेयी वाक्यमब्रवीत्।।2.72.35।। Ayodhya Kanda,72,36,रामेति राजा विलपन् हा सीते लक्ष्मणेति च। स महात्मा परं लोकं गतो गतिमतां वरः।।2.72.36।। Ayodhya Kanda,72,37,इमां तु पश्चिमां वाचं व्याजहार पिता तव। कालधर्मपरिक्षिप्तः पाशैरिव महागजः।।2.72.37।। Ayodhya Kanda,72,38,सिद्धार्थास्ते नरा राममागतं सह सीतया। लक्ष्मणं च महाबाहुं द्रक्ष्यन्ति पुनरागतम्।।2.72.38।। Ayodhya Kanda,72,39,तच्छ्रुत्वा विषसादैव द्वितीयाप्रियशंसनात्। विषण्णवदनो भूत्वा भूयः पप्रच्छ मातरम्।।2.72.39।। Ayodhya Kanda,72,40,क्व चेदानीं स धर्मात्मा कौसल्यानन्दवर्धनः। लक्ष्मणेन सह भ्रात्रा सीतया च समं गतः।।2.72.40।। Ayodhya Kanda,72,41,तथा पृष्टा यथातत्त्वमाख्यातुमुपचक्रमे। मातास्य सुमहद्वाक्यं विप्रियं प्रियशङ्कया।।2.72.41।। Ayodhya Kanda,72,42,स हि राजसुतः पुत्र चीरवासा महावनम्। दण्डकान्सह वैदेह्या लक्ष्मणानुचरो गतः।।2.72.42।। Ayodhya Kanda,72,43,तच्छ्रुत्वा भरतस्त्रस्तो भ्रातुश्चारित्रशङ्कया। स्वस्य वंशस्य महात्म्यात्प्रष्टुं समुपचक्रमे।।2.72.43।। Ayodhya Kanda,72,44,कच्चिन्न ब्राह्मणधनं हृतं रामेण कस्यचित्। कच्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः।।2.72.44।। Ayodhya Kanda,72,45,कच्चिन्न परदारान्वा राजपुत्रोऽभिमन्यते। कस्मात्स दण्डकारण्ये भ्रूणहेव विवासितः।।2.72.45।। Ayodhya Kanda,72,46,अथास्य चपला माता तत्स्वकर्म यथातथम्। तेनैव स्त्रीस्वभावेन व्याहर्तुमुपचक्रमे।।2.72.46।। Ayodhya Kanda,72,47,एवमुक्ता तु कैकेयी भरतेन महात्मना। उवाच वचनं हृष्टा मूढा पण्डितमानिनी।।2.72.47।। Ayodhya Kanda,72,48,न ब्राह्मणधनं किञ्चिद्धृतं रामेण कस्यचित् कश्चिन्नाढ्यो दरिद्रो तेनापापो विहिंसितः। न रामः परदारांश्च चक्षुर्भ्यामपि पश्यति।।2.72.48।। Ayodhya Kanda,72,49,मया तु पुत्र श्रुत्वैव रामस्यैवाभिषेचनम्। याचितस्ते पिता राज्यं रामस्य च विवासनम्।।2.72.49।। Ayodhya Kanda,72,50,स स्ववृत्तिं समास्थाय पिता ते तत्तऽथाकरोत्। रामश्च सह सौमित्रिः प्रेषितस्सह सीतया।।2.72.50।। Ayodhya Kanda,72,51,तमपश्यन्प्रियंपुत्रं महीपालो महायशाः। पुत्रशोकपरिद्यूनः पञ्चत्वमुपपेदिवान्।।2.72.51।। Ayodhya Kanda,72,52,त्वयात्विदानीं धर्मज्ञ राजत्वमवलम्ब्यताम्। त्वत्कृते हि मया सर्वमिदमेवं विधं कृतम्।।2.72.52।। Ayodhya Kanda,72,53,मा शोकं मा च सन्तापं धैर्यमाश्रय पुत्रक। त्वदधीना हि नगरी राज्यं चैतदनामयम्।।2.72.53।। Ayodhya Kanda,73,1,सश्रूत्वा तु पितरं वृत्तं भ्रातरौ च विवासितौ। भरतो दुःखसन्तप्त इदं वचनमब्रवीत्।।2.73.1।। Ayodhya Kanda,73,2,किं नु कार्यं हतस्येह मम राज्येन शोचतः। विहीनस्याथ पित्रा च भ्रात्रा पितृसमेन च।।2.73.2।। Ayodhya Kanda,73,3,दुःखे मे दुःखमकरोर्व्रणे क्षारमिवादधाः। राजानं प्रेतभावस्थं कृत्वा रामं च तापसम्।।2.73.3।। Ayodhya Kanda,73,4,कुलस्य त्वमभावाय कालरात्रिरिवाऽगता। अङ्गारमुपगूह्य स्म पिता मे नावबुद्धवान्।।2.73.4।। Ayodhya Kanda,73,5,मृत्युमापादितो पिता त्वया मे पापदर्शिनि। सुखं परिहृतं मोहात्कुलेऽस्मिन्कुलपांसनि।।2.73.5।। Ayodhya Kanda,73,6,त्वां प्राप्य हि पिता मेऽद्य सत्यसन्धो महायशाः। तीव्रदुःखाभिसन्तप्तो वृत्तो दशरथो नृपः।।2.73.6।। Ayodhya Kanda,73,7,विनाशितो महाराजः पिता मे धर्मवत्सलः। कस्मात्प्रव्राजितो रामः कस्मादेव वनं गतः।।2.73.7।। Ayodhya Kanda,73,8,कौसल्या च सुमित्रा च पुत्रशोकाभिपीडिते। दुष्करं यदि जीवेतां प्राप्य त्वां जननीं मम।।2.73.8।। Ayodhya Kanda,73,9,ननुत्वार्योऽपि धर्मात्मा त्वयि वृतिमनुत्तमाम्। वर्तते गुरुवृत्तिज्ञो यथा मातरि वर्तते।।2.73.9।। Ayodhya Kanda,73,10,तथा ज्येष्ठा हि मे माता कौसल्या दीर्घदर्शिनी। त्वयि धर्मं समास्थाय भगिन्यामिव वर्तते।।2.74.10।। Ayodhya Kanda,73,11,तस्याः पुत्रं कृताऽत्मानं चीरवल्कलवाससम्। प्रस्थाप्य वनवासाय कथं पापे न शोचसि।।2.73.11।। Ayodhya Kanda,73,12,अपापदर्शनं शूरं कृतात्मानं यशस्विनम्। प्रव्राज्य चीरवसनं किन्नु पश्यसि कारणम्।।2.73.12।। Ayodhya Kanda,73,13,लुब्धाया विदितो मन्ये न तेऽहं राघवं प्रति। तथाह्यनर्धो राज्यार्थं त्वयाऽनीतो महानयम्।।2.73.13।। Ayodhya Kanda,73,14,अहं हि पुरुषव्याघ्रावपश्यन्रामलक्ष्मणौ। केन शक्तिप्रभावेन राज्यं रक्षितुमुत्सहे।।2.73.14।। Ayodhya Kanda,73,15,तं हि नित्यं महाराजो बलवन्तं महाबलः। उपाश्रितोऽभूद्धर्मात्मा मेरुर्मेरुवनं यथा।।2.73.15।। Ayodhya Kanda,73,16,सोऽहं कथमिमं भारं महाधुर्यसमुद्धृतम्। दम्योधुरमिवाऽऽसाद्य वहेयं केनचौजसा।। 2.73.16।। Ayodhya Kanda,73,17,अथवा मे भवेच्छक्तिर्योगैर्बुद्धिबलेन वा। सकामां न करिष्यामि त्वामहं पुत्रगर्धिनीम्।।2.73.17।। Ayodhya Kanda,73,18,न मे विकाङ्क्षा जायेत त्यक्तुं त्वां पापनिश्चयाम्। यदि रामस्य नावेक्षा त्वयि स्यान्मातृवत्सदा।।2.73.18।। Ayodhya Kanda,73,19,उत्पन्नातु कथं बुद्धिस्तवेयं पापदर्शिनि। साधुचारित्रविभ्रष्टे पूर्वेषां नो विगर्हिता।।2.73.19।। Ayodhya Kanda,73,20,अस्मिन्कुले हि पूर्वेषां ज्येष्ठो राज्येऽभिषिच्यते। अपरे भ्रातरस्तस्मिन्प्रवर्तन्ते समाहिताः।।2.73.20।। Ayodhya Kanda,73,21,न हि मन्ये नृशंसे त्वं राजधर्ममवेक्षसे। गतिं वा न विजानासि राजवृत्तस्य शाश्वतीम्।।2.73.21।। Ayodhya Kanda,73,22,सततं राजवृत्ते हि ज्येष्ठो राज्येऽभिषिच्यते। राज्ञामेतत्समं तत्स्यादिक्ष्वाकूणां विशेषतः।।2.73.22।। Ayodhya Kanda,73,23,तेषां धर्मैकरक्षाणां कुलचारित्रशोभिनाम्। अद्य चारित्रशौण्डीर्यं त्वां प्राप्य विनिवर्तितम्।।2.73.23।। Ayodhya Kanda,73,24,तवापि सुमहाभागा जनेन्द्राः कुलपूर्वगाः। बुद्धेर्मोहः कथमयं सम्भूतस्त्वयि गर्हितः।।2.73.24।। Ayodhya Kanda,73,25,न तु कामं करिष्यामि तवाऽहं पापनिश्चये। त्वया व्यसनमारब्धं जीवितान्तकरं मम।।2.73.25।। Ayodhya Kanda,73,26,एषत्विदानीमेवाहमप्रियार्थं तवानघम्। निवर्तयिष्यामि वनाद्भ्रातरं स्वजनप्रियम्।।2.73.26।। Ayodhya Kanda,73,27,निवर्तयित्वा रामं च तस्याहं दीप्ततेजसः। दासभूतो भविष्यामि सुस्थिरेणान्तरात्मना।।2.73.27।। Ayodhya Kanda,73,28,इत्येवमुक्त्वा भरतो महात्मा प्रियेतरैर्वाक्यगणैस्तुदंस्ताम्। शोकातुरश्चापि ननाद भूयः सिंहो यथा पर्वतगह्वरस्थः।।2.73.28।। Ayodhya Kanda,74,1,तां तथा गर्हयित्वा तु मातरं भरतस्तदा। रोषेण महताऽविष्टः पुनरेवाब्रवीद्वचः।।2.74.1।। Ayodhya Kanda,74,2,राज्याद्भ्रंशस्व कैकेयि नृशंसे दुष्टचारिणि। परित्यक्ता च धर्मेण मा मृतं रुदती भव।।2.74.2।। Ayodhya Kanda,74,3,किन्नु तेऽदूषयद्राजा रामो वा भृशधार्मिकः। ययोर्मृत्युर्विवासश्च त्वत्कृते तुल्यमागतौ।।2.74.3।। Ayodhya Kanda,74,4,भ्रूणहत्यामसि प्राप्ता कुलस्यास्य विनाशनात्। कैकेयि नरकं गच्छ मा च भर्तु स्सलोकताम्।।2.74.4।। Ayodhya Kanda,74,5,यत्त्वया हीदृशं पापं कृतं घोरेण कर्मणा। सर्वलोकप्रियं हित्वा ममाप्यापादितं भयम्।।2.74.5।। Ayodhya Kanda,74,6,त्वत्कृते मे पिता वृत्तो रामश्चारण्यमाश्रितः। अयशो जीवलोके च त्वयाऽहं प्रतिपादितः।।2.74.6।। Ayodhya Kanda,74,7,मातृरूपे ममामित्रे नृशंसे राज्यकामुके। न तेऽह मभिभाष्योऽस्मि दुर्वृत्ते पतिघातिनि।।2.74.7।। Ayodhya Kanda,74,8,कौसल्या च सुमित्रा च याश्चान्या मम मातरः। दुःखेन महताऽविष्टास्त्वां प्राप्य कुलदूषिणीम्।।2.74.8।। Ayodhya Kanda,74,9,न त्वमश्वपतेः कन्या धर्मराजस्य धीमतः। राक्षसी तत्र जाताऽसि कुलप्रध्वंसिनी पितुः।।2.74.9।। Ayodhya Kanda,74,10,यत्त्वया धार्मिको रामो नित्यं सत्यपरायणः। वनं प्रस्थापितो दुःखात्पिता च त्रिदिवं गतः।।2.74.10।। Ayodhya Kanda,74,11,यत्प्रधानाऽसि तत्पापं मयि पित्रा विनाकृते। भ्रातृभ्यां च परित्यक्ते सर्वलोकस्य चाप्रिये।।2.74.11।। Ayodhya Kanda,74,12,कौसल्यां धर्मसंयुक्तां वियुक्तां पापनिश्चये। कृत्वा कं प्राप्स्यसे त्वद्य लोकं निरयगामिनि।।2.74.12।। Ayodhya Kanda,74,13,किं नावबुध्यसे क्रूरे नियतं बन्धुसंश्रयम्। ज्येष्ठं पितृसमं रामं कौसल्यायाऽत्मसम्भवम्।।2.74.13।। Ayodhya Kanda,74,14,अङगप्रत्यङगजः पुत्रो हृदयाच्चापि जायते। तस्मात्प्रियतमो मातुः प्रिया एव तु बान्धवाः।।2.74.14।। Ayodhya Kanda,74,15,अन्यदा किल धर्मज्ञा सुरभि स्सुरसम्मता। वहमानौ ददर्शोर्व्यां पुत्रौ विगतचेतसौ।।2.74.15।। Ayodhya Kanda,74,16,तावर्धदिवसे श्रान्तौ दृष्ट्वा पुत्रौ महीतले। रुरोद पुत्रशोकेन बाष्पपर्याकुलेक्षणा।।2.74.16।। Ayodhya Kanda,74,17,अधस्ताद्व्रजतस्तस्याः सुरराज्ञो महात्मनः। बिन्दवः पतिता गात्रे सूक्ष्मा स्सुरभिगन्धिनः।।2.74.17।। Ayodhya Kanda,74,18,इन्द्रोऽप्यश्रुनिपातं तं स्वगात्रे पुण्यगन्धिनम्। सुरभिं मन्यते दृष्ट्वा भूयसीं तां सुरेश्वरः।।2.74.18।। Ayodhya Kanda,74,19,निरीक्षमाण श्शक्रस्तां ददर्श सुरभिं स्थिताम्। आकाशे विष्ठितां दीनां रुदन्तीं भृशदुःखिताम्।।2.74.19।। Ayodhya Kanda,74,20,तां दृष्ट्वा शोकसन्तप्तां वज्रपाणिर्यशस्विनीम्। इन्द्रः प्राञ्जलिरुद्विग्न स्सुरराजोऽब्रवीद्वचः।।2.74.20।। Ayodhya Kanda,74,21,भयं कच्छिन्न चास्मासु कुतश्चिद्विद्यते महत्। कुतोनिमत्तश्शोकस्ते ब्रूहि सर्वहितैषिणि।।2.74.21।। Ayodhya Kanda,74,22,एवमुक्ता तु सुरभि स्सुरराजेन धीमता। प्रत्युवाच ततो धीरा वाक्यं वाक्यविशारदा।।2.74.22।। Ayodhya Kanda,74,23,शान्तं पापं न वः किञ्चित्कुतश्चिदमराधिपः। अहं मग्नौ तु शोचामि स्वपुत्रौ विषमे स्थितौ।।2.74.23।। Ayodhya Kanda,74,24,एतौ दृष्ट्वा कृशौ दीनौ सूर्यरश्मिप्रतापितौ। बाध्यमानौ बलीवर्धौ कर्षकेण सुराधिप।।2.74.24।। Ayodhya Kanda,74,25,ममकायात्प्रसूतौ हि दुःखितौ भारपीडितौ। यौ दृष्ट्वा परितप्येऽहं नास्ति पुत्रसमः प्रियः।।2.74.25।। Ayodhya Kanda,74,26,यस्याः पुत्रसहस्रैस्तु कृत्स्नं व्याप्तमिदं जगत्। तां दृष्ट्वा रुदतीं शक्रो न सुतान्मन्यते परम्।।2.74.26।। Ayodhya Kanda,74,27,सदाऽप्रतिमवृत्तायाः लोकधारणकाम्यया। श्रीमत्या गुणनित्याया स्स्वभावपरिचेष्टया।।2.74.27।। Ayodhya Kanda,74,28,यस्याः पुत्रसहस्राणि साऽपि शोचति कामधुक्। किं पुनर्या विना रामं कौसल्या वर्तयिष्यति।।2.74.28।। Ayodhya Kanda,74,29,एकपुत्रा च साध्वी च विवत्सेयं त्वया कृता। तस्मात्त्वं सततं दुःखं प्रेत्य चेह च लप्स्यसे।।2.74.29।। Ayodhya Kanda,74,30,अहं ह्यपचितिं भ्रातुः पितुश्च सकलामिमाम्। वर्धनं यशसश्चापि करिष्यामि न संशयः।।2.74.30।। Ayodhya Kanda,74,31,अनाययित्वा तनयं कौसल्याया महाबलम्। स्वयमेव प्रवेक्ष्यामि वनं मुनिनिषेवितम्।।2.74.31।। Ayodhya Kanda,74,32,न ह्यहं पापसङ्कल्पे पापे पापं त्वया कृतम्। शक्तो धारयितुं पौरैरश्रुकण्ठै र्निरीक्षितः।।2.74.32।। Ayodhya Kanda,74,33,सा त्वमग्निं प्रविश वा स्वयं वा दण्डकान्विश। रज्जुं बधान वा कण्ठे न हि तेऽन्यत्परायणम्।।2.74.33।। Ayodhya Kanda,74,34,अहमप्यवनीं प्राप्ते रामे सत्यपराक्रमे। कृतकृत्यो भविष्यामि विप्रवासितकल्मषः।।2.74.34।। Ayodhya Kanda,74,35,इति नाग इवारण्ये तोमराङ्कुशचोदितः। पपात भुवि सङ्कृद्धो निश्श्वसन्निव पन्नगः।।2.74.35।। Ayodhya Kanda,74,36,संरक्तनेत्र श्शिथिलाम्भरस्तदा विधूतसर्वाभरणः परन्तपः। बभूव भूमौ पतितो नृपात्मजश्शचीपतेः केतुरिवोत्सवक्षये।।2.74.36।। Ayodhya Kanda,75,1,दीर्घकालात्समुत्थाय संज्ञां लब्ध्वा च वीर्यवान्। नेत्राभ्यामश्रुपूर्णाभ्यां दीनामुद्वीक्ष्य मातरम्।।2.75.1।। सोऽमात्यमध्ये भरतो जननीमभ्यकुत्सयत्। Ayodhya Kanda,75,2,राज्यं न कामये जातु मन्त्रये नापि मातरम्।।2.75.2।। Ayodhya Kanda,75,3,अभिषेकं न जानामि योऽभूद्राज्ञा समीक्षितः। विप्रकृष्टेह्यहं देशे शत्रुघ्नसहितोऽवसम्।।2.75.3।। Ayodhya Kanda,75,4,वनवासं न जानामि रामस्याहं महात्मनः। विवासनं वा सौमित्रे स्सीतायाश्च यथाऽभवत्।।2.75.4।। Ayodhya Kanda,75,5,तथैव क्रोशतस्तस्य भरतस्य महात्मनः। कौसल्या शब्दमाज्ञाय सुमित्रामिदमब्रवीत्।।2.75.5।। Ayodhya Kanda,75,6,आगतः क्रूरकार्यायाः कैकेय्या भरतस्सुतः। तमहं द्रष्टुमिच्छामि भरतं दीर्घदर्शिनम्।।2.75.6।। Ayodhya Kanda,75,7,एवमुक्त्वा सुमित्रां सा विवर्णा मलिना कृशा। प्रतस्थे भरतो यत्र वेपमाना विचेतना।।2.75.7।। Ayodhya Kanda,75,8,स तु रामानुजश्चापि शत्रुघ्नसहितस्तदा। प्रतस्थे भरतो यत्र कौसल्याया निवेशनम्।।2.75.8।। Ayodhya Kanda,75,9,तत श्शत्रुघ्नभरतौ कौसल्यां प्रेक्ष्य दुःखितौ। पर्यष्वजेतां दुःखार्तां पतितां नष्टचेतसाम्।।2.75.9।। रुदन्तौ रुदतीं दुःखात्समेत्यार्यां मनस्स्विनीम्। Ayodhya Kanda,75,10,भरतं प्रत्युवाचेदं कौसल्या भृशदुःखिता।।2.75.10।। Ayodhya Kanda,75,11,इदं ते राज्यकामस्य राज्यं प्राप्तमकण्टकम्। संप्राप्तं बत कैकेय्या शशीघ्रं क्रूरेण कर्मणा।।2.75.11।। Ayodhya Kanda,75,12,प्रस्थाप्य चीरवसनं पुत्रं मे वनवासिनम्। कैकेयी कं गुणं तत्र पश्यति क्रूरदर्शिनी।।2.75.12।। Ayodhya Kanda,75,13,क्षिप्रं मामपि कैकेयी प्रस्थापयितुमर्हति। हिरण्यनाभो यत्रास्ते सुतो मे सुमहायशाः।।2.75.13।। Ayodhya Kanda,75,14,अथवा स्वयमेवाहं सुमित्रानुचरा सुखम्। अग्निहोत्रं पुरस्कृत्य प्रस्थास्ये यत्र राघवः।।2.75.14।। Ayodhya Kanda,75,15,कामं वा स्वयमेवाद्य तत्र मां नेतुमर्हसि। यत्रासौ पुरुषव्याघ्रः पुत्रो मे तप्यते तपः।।2.75.15।। Ayodhya Kanda,75,16,इदं हि तव विस्तीर्णं धनधान्यसमाचितम्। हस्त्वश्वरथसम्पूर्णं राज्यं निर्यातितं तया।।2.75.16।। Ayodhya Kanda,75,17,इत्यादिबहुभिर्वाक्यैः क्रूरैः सम्भर्त्सितोऽनघः। विव्यथे भरतस्तीव्रं व्रणे तुद्येव सूचिना।।2.75.17।। Ayodhya Kanda,75,18,पपात चरणौ तस्यास्तदा सम्भ्रान्तचेतनः। विलप्य बहुधाऽसंज्ञो लब्धसंज्ञस्ततः स्थितः।।2.75.18।। Ayodhya Kanda,75,19,एवं विलपमानां तां भरतः प्राञ्जलिस्तदा। कौसल्यां प्रत्युवाचेदं शोकैर्बहुभिरावृताम्।।2.75.19।। Ayodhya Kanda,75,20,आर्ये कस्मादजानन्तं गर्हसे मामकिल्बिषम्। विपुलां च मम प्रीतिं स्थिरां जानासि राघवे।।2.75.20।। Ayodhya Kanda,75,21,कृता शास्त्रानुगा बुद्धिर्माभूत्तस्य कदाचन। सत्यसन्ध स्सतां श्रेष्ठो यस्याऽर्योऽनुमते गतः।।2.75.21।। Ayodhya Kanda,75,22,प्रेष्यं पापीयसां यातु सूर्यञ्च प्रतिमेहतु। हन्तु पादेन गां सुप्तां यस्याऽर्योऽनुमते गतः।।2.75.22।। Ayodhya Kanda,75,23,कारयित्वा महत्कर्म भर्ता भृत्यमनर्थकम्। अधर्मो योऽस्य सोऽस्यास्तु यस्याऽर्योऽनुमतेगतः।।2.75.23।। Ayodhya Kanda,75,24,परिपालयमानस्य राज्ञो भूतानि पुयत्रवत्। ततस्नु दुह्यतां पापं यस्याऽर्योऽनुमते गतः।।2.75.24।। Ayodhya Kanda,75,25,बलिषड्भागमुद्धृत्य नृपस्यारक्षतः प्रजाः। अधर्मो योऽस्य सोऽस्यास्तु यस्यार्थोऽनुमते गतः।।2.75.25।। Ayodhya Kanda,75,26,संश्रुत्य च तपस्विभ्यस्सत्रे वै यज्ञदक्षिणाम्। तां विप्रलपतां पापं यस्यार्योऽनुमते गतः।।2.75.26।। Ayodhya Kanda,75,27,हस्त्यश्वरथसम्बाधे युद्धे शस्त्रसमाकुले। मा स्म कार्षीत्सतां धर्मं यस्यार्योऽनुमते गतः।।2.75.27।। Ayodhya Kanda,75,28,उपदिष्टं सुसूक्ष्मार्थं शास्त्रं यत्नेन धीमता। स नाशयतु दुष्टात्मा यस्याऽर्योऽनुमते गतः।।2.75.28।। Ayodhya Kanda,75,29,मा च तं व्यूढबाह्वंसं चन्द्रार्कसमतेजसम्। द्राक्षीद्राज्यस्थमासीनं यस्यार्योऽनुमतेगतः।।2.75.29।। Ayodhya Kanda,75,30,पायसं कृसरं छागं वृथा सोऽश्नातु निर्घृणः। गुरूंश्चाप्यवजानातु यस्याऽर्योऽनुमते गतः।।2.75.30।। Ayodhya Kanda,75,31,गाश्च स्पृशतु पादेन गुरून्परिवदेत्स्वयम्। मित्रे द्रुह्येत सोऽत्यन्तं यस्याऽर्योऽनुमते गतः।।2.75.31।। Ayodhya Kanda,75,32,विश्वासात्कथितं किञ्चित्परिवादं मिथः क्वचित्। विवृणोतु स दुष्टात्मा यस्याऽर्योऽमते गतः।।2.75.32।। Ayodhya Kanda,75,33,अकर्ता ह्यकृतज्ञश्च त्यक्ताचाऽत्मा निरपत्रपः। लोके भवतु विद्विष्टो यस्यार्योऽनुमते गतः।।2.75.33।। Ayodhya Kanda,75,34,पुत्रैर्दारैश्च भृत्यैश्च स्वगृहे परिवारितः। स एको मृष्टमश्नातु यस्यार्योऽनुमते गतः।।2.75.34।। Ayodhya Kanda,75,35,अप्राप्य सदृशान् दाराननपत्यः प्रमीयताम्। अनवाप्य क्रियां धर्म्यां यस्याऽर्योऽनुमते गतः।।2.75.35।। Ayodhya Kanda,75,36,माऽत्मनस्सन्ततिं द्राक्षीत्स्वेषु दारेषु दुःखितः। आयुस्समग्रमप्राप्य यऽस्यार्योऽनुमते गतः।।2.75.36।। Ayodhya Kanda,75,37,राजस्त्रीबालवृद्धानां वधे यत्पापमुच्यते। भृत्यत्यागे च यत्पापं तत्पापं प्रतिपद्यताम्।।2.75.37।। Ayodhya Kanda,75,38,लाक्षया मधुमांसेन लोहेन च विषेण च। सदैव बिभृयाद्भृत्यान्यस्यार्योऽनुमते गतः।।2.75.38।। Ayodhya Kanda,75,39,सङ्ग्रमे समुपोढे स्म शत्रुपक्षभयङ्करे। पलायामानो वध्येत यस्यार्योऽनुमते गतः।।2.75.39।। Ayodhya Kanda,75,40,कपालपाणिः पृथिवीमटतां चीरसंवृतः। भिक्षमाणो यथोन्मत्तो यस्यार्योऽनुमते गतः।।2.75.40।। Ayodhya Kanda,75,41,मद्ये प्रसक्तो भवतु स्त्रीष्वक्षेषु च नित्यशः। कामक्रोधाभिभूतस्तु यस्यार्योऽनुमते गतः।।2.75.41।। Ayodhya Kanda,75,42,मास्म धर्मे मनो भूयादधर्मं स निषेवताम्। अपात्रवर्षी भवतु यस्यार्योऽनुमते गतः।।2.75.42।। Ayodhya Kanda,75,43,सञ्चितान्यस्य वित्तनि विविधानि सहस्रशः। दस्युभिर्विप्रलुप्यन्तां यस्यार्योऽनुमते गतः।।2.75.43।। Ayodhya Kanda,75,44,उभे सन्ध्ये शयानस्य यत्पापं परिकल्प्यते। तच्चपापं भवेत्तस्य यस्यार्योऽनुमते गतः।।2.75.44।। Ayodhya Kanda,75,45,यदग्निदायके पापं यत्पापं गुरतल्पगे। मित्रद्रोहे च यत्पापं तत्पापं प्रतिपद्यताम्।।2.75.45।। Ayodhya Kanda,75,46,देवतानां पित्रूणां च मातापित्रोस्तथैव च। मा स्म कार्षीत्स शुश्रूषां यस्यार्योऽनुमते गतः।।2.75.46।। Ayodhya Kanda,75,47,सतां लोकात्सतां कीर्त्या स्सञ्जुष्टात्कर्मणस्तथा। भ्रश्यतु क्षिप्रमद्यैव यस्यार्योऽनुमते गतः।।2.75.47।। Ayodhya Kanda,75,48,अपास्य मातृशुश्रूषामनर्थे सोऽवतिष्ठताम्। दीर्घबाहुर्महावक्षा: यस्यार्योऽनुमते गतः।।2.75.48।। Ayodhya Kanda,75,49,बहुपुत्रो दरिद्रश्च ज्वररोगसमन्वितः। स भूयात्सतत क्लेशी यस्यार्योऽनुमते गतः।।2.75.49।। Ayodhya Kanda,75,50,आशामाशंसमानानां दीनानामूर्ध्वचक्षुषाम्। अर्थिनां वितथां कुर्याद्यस्यार्योऽनुमते गतः।।2.75.50।। Ayodhya Kanda,75,51,मायया रमतां नित्यं परुषः पिशुनोऽशुचिः। राज्ञो भीतस्त्वधर्मात्मा यस्यार्योऽनुमते गतः।।2.75.51।। Ayodhya Kanda,75,52,ऋतुस्नातां सतीं भार्यामृतुकालानुरोधिनीम्। अतिवर्तेत दुष्टात्मा यस्यार्योऽनुमते गतः।।2.75.52।। Ayodhya Kanda,75,53,सधर्मदारान्परित्यज्य परदारान्निषेवताम्। त्यक्तधर्मरतिर्मूढो यस्यार्योऽनुमते गतः।।2.75.53।। Ayodhya Kanda,75,54,विप्रलुप्तप्रजातस्य दुष्कृतं ब्राह्मणस्य यत्। तदेव प्रतिपद्येत यस्यार्योऽनुमते गतः।।2.75.54।। Ayodhya Kanda,75,55,पानीयदूषके पापं तथैव विषदायके। यत्तदेकस्स लभतां यस्यार्योऽनुमते गतः।।2.75.55।। Ayodhya Kanda,75,56,ब्राह्मणायोद्यतां पूजां विहन्तु कलुषेन्द्रियः। बालवत्सां च गां दोग्धु यस्यार्यो ऽनुमते गतः।।2.75.56।। Ayodhya Kanda,75,57,तुर्ष्णार्तं सति पानीये विप्रलम्भेन योजयेत्। लभेत तस्य यत्पापं यस्यार्योऽनुमते गतः।।2.75.57।। Ayodhya Kanda,75,58,भक्त्या विवदमानेषु मार्गमाश्रित्य पश्यतः। तस्य पापेन युज्येत यस्यार्योऽनुमते गतः।।2.75.58।। Ayodhya Kanda,75,59,विहीनां पतिपुत्राभ्यां कौसल्यां पार्थिवात्मजः। एवमाश्वासयन्नेव दुःखार्तो निपपात ह।।2.75.59।। Ayodhya Kanda,75,60,तथा तु शपथैः कष्टै श्शपमानमचेतनम्। भरतं शोकसन्तप्तं कौसल्या वाक्यमब्रवीत्।।2.75.60।। Ayodhya Kanda,75,61,मम दुःखमिदं पुत्र भूयस्समुपजायते। शपथै श्शपमानो हि प्राणानुपरुणत्सि मे।।2.75.61।। Ayodhya Kanda,75,62,दिष्ट्या न चलितो धर्मादात्मा ते सहलक्ष्मणः। वत्स सत्यप्रतिज्ञो ते सतां लोकमवाप्स्यसि।।2.75.62।। Ayodhya Kanda,75,63,इत्युक्त्वा चाङ्कमानीय भरतं भ्रातृवत्सलम्। परिष्वज्य महाबाहुं रुरोद भृशदुःखिता।।2.75.63।। Ayodhya Kanda,75,64,एवं विलपमानस्य दुःखार्तस्य महात्मनः। मोहाच्च शोकसम्रोधाद्बभूव लुलितं मनः।।2.75.64।। Ayodhya Kanda,76,1,तमेवं शोकसन्तप्तं भरतं कैकयी सुतम्। उवाच वदतां श्रेष्ठो वसिष्ठ श्श्रेष्ठवागृषिः।।2.76.1।। Ayodhya Kanda,76,2,अलं शोकेन भद्रं ते राजपुत्र महायशः। प्राप्तकालं नरपतेः कुरु संयानमुत्तमम्।।2.76.2।। Ayodhya Kanda,76,3,वसिष्ठस्य वच श्शृत्वा भरतो धारणां गतः। प्रेतकार्याणि सर्वाणि कारयामास धर्मवित्।।2.76.3।। Ayodhya Kanda,76,4,उद्धृतं तैलसंरोधात्सतु भूमौ निवेशितम्। आपीतवर्णवदनं प्रसुप्तमिव भूमिपम्।।2.76.4।। Ayodhya Kanda,76,5,संवेश्य शयने चाग्य्रे नानारत्नपरिष्कृते। ततो दशरथं पुत्रो विललाप सुदुःखितः।।2.76.5।। Ayodhya Kanda,76,6,किं ते व्यवसितं राजन् प्रोषिते मय्यनागते। विवास्य रामं धर्मज्ञं लक्ष्मणं च महाबलम्।।2.76.6।। Ayodhya Kanda,76,7,क्व यास्यसि महाराज हित्वेमं दुःखितं जनम्। हीनं पुरुषसिंहेन रामेणाक्लिष्टकर्मणा।।2.76.7।। Ayodhya Kanda,76,8,योगक्षेमं तु ते राजन् कोऽस्मिन्कल्पयिता पुरे त्वयि प्रयाते स्वस्तात रामे च वनमाश्रिते।।2.76.8।। Ayodhya Kanda,76,9,विधवा पृथिवी राजन् स्त्वया हीना न राजते। हीनचन्द्रेव रजनी नगरी प्रतिभाति मा।।2.76.9।। Ayodhya Kanda,76,10,एवं विलपमानं तं भरतं दीनमानसम्। अब्रवीद्वचनं भूयो वसिष्ठस्तु महामुनिः।।2.76.10।। Ayodhya Kanda,76,11,प्रेतकार्याणि यान्यस्य कर्तव्यानि विशां पतेः। तान्यव्यग्रं महाबाहो क्रियान्तामविचारितम्।।2.76.11।। Ayodhya Kanda,76,12,तथेति भरतो वाक्यं वसिष्ठस्याभिपूज्य तत्। ऋत्विक्पुरोहिताचार्यान् स्त्वरयामास सर्वशः।।2.76.12।। Ayodhya Kanda,76,13,ये त्वग्नयो नरेन्द्रेस्य चाग्न्यगाराद्बहिष्कृताः। ऋत्विग्भिर्याजकैश्चैव ते आह्रियन्त यथाविधि।।2.76.13।। Ayodhya Kanda,76,14,शिबिकायामथा़ऽरोप्य राजानं गतचेतसम्। बाष्पकण्ठा विमनसस्तमूहुः परिचारकाः।।2.76.14।। Ayodhya Kanda,76,15,हिरण्यं च सुवर्णं च वासांसि विविधानि च। प्रकिरन्तो जना मार्गं नृपतेरग्रतो ययुः।।2.76.15।। Ayodhya Kanda,76,16,चन्दनागरुनिर्यासान् सरलं पद्मकं तथा। देवदारूणि चाहृत्य क्षेपयन्ति तथापरे।।2.76.16।। Ayodhya Kanda,76,17,गन्धानुच्चावचांश्चान्यां स्तत्र गत्वाथ भूमिपम्। तत्र संवेशयामासुश्चितामध्ये तमृत्विजः।।2.76.17।। Ayodhya Kanda,76,18,तदा हुताशनं हुत्वा जेपुस्तस्य तदृत्विजः। जगुश्च ते यथाशास्त्र तत्र सामानि सामगाः।।2.76.18।। Ayodhya Kanda,76,19,शिबिकाभिश्च यानैश्च यथार्हं तस्य योषितः। नगरा न्निर्ययुस्तत्र वृद्धैः परिवृता स्तदा।।2.76.19।। Ayodhya Kanda,76,20,प्रसव्यं चापि तं चकुः ऋत्विजोऽग्निचितं नृपम्। स्त्रियश्च शोकसन्तप्ताः कौसल्याप्रमुखास्तदा।।2.76.20।। Ayodhya Kanda,76,21,क्रौञ्चीनामिव नारीणां निनादस्तत्र शुश्रुवे। आर्तानां करुणं काले क्रोशन्तीनां सहस्रशः।।2.76.21।। Ayodhya Kanda,76,22,ततो रुदन्त्यो विवशाविलप्य च पुनः पुनः। यानेभ्यस्सरयूतीरमवतेरुर्वराङ्गनाः।।2.76.22।। Ayodhya Kanda,76,23,कृत्वोदकं ते भरतेन सार्धं नृपाङ्गना मन्त्रिपुरोहिता श्च। पुरंप्रविश्याश्रुपरीतनेत्राः भूमौ दशाहं व्यनयन्त दुःखम्।।2.76.23।। Ayodhya Kanda,77,1,ततो दशाहेऽतिगते कृतशौचो नृपात्मजः। द्वादशेऽहनि सम्प्राप्ते श्राद्धकर्माण्यकारयत्।।2.77.1।। Ayodhya Kanda,77,2,ब्राह्मणेभ्यो ददौ रत्नं धनमन्नं च पुष्कलम्। वासांसि च महार्हाणि रत्नानि विविधानि च।।2.77.2।। Ayodhya Kanda,77,3,बास्तिकं बहु शुक्लं च गाश्चापि शतशस्तथा। दासीदासं च यानं च वेश्मानि सुमहान्ति च।।2.77.3।। ब्राह्मणेभ्यो ददौ पुत्रो राज्ञस्तस्यौर्ध्वदैहिकम्। Ayodhya Kanda,77,4,ततः प्रभातसमये दिवसेऽथ त्रयोदशे।।2.77.4।। Ayodhya Kanda,77,5,विललाप महाबाहुर्भरत श्शोकमूर्छितः। शब्दापिहितकण्ठस्तु शोधनार्थमुपागतः।।2.77.5।। चितामूले पितुर्वाक्यमिदमाह सुदुःखितः। Ayodhya Kanda,77,6,तात यस्मिन्निसृष्टोऽहं त्वया भ्रातरि राघवे।।2.77.6।। तस्मिन्वनं प्रव्रजिते शून्ये त्यक्तोऽस्म्यहं त्वया। Ayodhya Kanda,77,7,यस्या गतिरनाथायाः पुत्रः प्रवाजितो वनम्। तामम्बां तात कौसल्यां त्यक्त्वा त्वं क्व गतो नृप।।2.77.7।। Ayodhya Kanda,77,8,दृष्ट्वा भस्मारुणं तच्च दग्धास्थि स्थानमण्डलम्।।2.77.8।। पितु श्शरीरनिर्वाणं निष्टनन्विषसाद सः। Ayodhya Kanda,77,9,स तु दृष्ट्वा रुदन् दीनः पपात धरणीतले।।2.77.9।। उत्थाप्यमानश्शक्रस्य यन्त्रध्वज इव च्युतः। Ayodhya Kanda,77,10,अभिपेतुस्ततस्सर्वे तस्यामात्याश्शुचिव्रतम्।।2.77.10।। अन्तकाले निपतितं ययातिमृषयो यथा। Ayodhya Kanda,77,11,शत्रुघ्न श्चापि भरतं दृष्ट्वा शोकम् परिप्लुतः।।2.77.11।। विसंज्ञो न्यपतद्भूमौ भूमिपालमनुस्मरन्। Ayodhya Kanda,77,12,उन्मत्त इव निश्चेता विललाप सुदुःखितः।।2.77.12।। स्मृत्वा पितुर्गुणाङ्गानि तानि तानि तथा तथा। Ayodhya Kanda,77,13,मन्थराप्रभवस्तीव्रः कैकेयीग्राहसङ्कुलः।।2.77.13।। वरदानमयोऽक्षोभ्योऽमञ्जयच्छोकसागरः। Ayodhya Kanda,77,14,सुकुमारं च बालं च सततं लालितं त्वया।।2.77.14।। क्व तात भरतं हित्वा विलपन्तं गतो भवान्। Ayodhya Kanda,77,15,ननु भोज्येषु पानेषु वस्त्रेष्वाभरणेषु च।।2.77.15।। प्रवारयसि नस्सर्वान् तन्नः कोऽन्यः करिष्यति। Ayodhya Kanda,77,16,अवदारणकाले तु पृथिवी नावदीर्यते।।2.77.16।। या विहीना त्वया राज्ञा धर्मज्ञेन महात्मना। Ayodhya Kanda,77,17,पितरि स्वर्गमापन्ने रामे चारण्यमाश्रिते।।2.77.17।। किं मे जीवितसामर्थ्यं प्रवेक्ष्यामि हुताशनम्। Ayodhya Kanda,77,18,हीनो भ्रात्रा च पित्रा च शून्यामिक्ष्वाकुपालिताम्।।2.77.18।। अयोध्यां न प्रवेक्ष्यामि प्रवेक्ष्यामि तपोवनम्। Ayodhya Kanda,77,19,तयोर्विलपितं श्रुत्वा व्यसनं चान्ववेक्ष्य तत्।।2.77.19।। भृशमार्ततरा भूयस्सर्वएवानुगामिनः। Ayodhya Kanda,77,20,ततो विषण्णौ श्रान्तौ च शत्रुघ्नभरतावुभौ।।2.77.20।। धरण्यां संव्यवेष्टेतां भग्नशृङ्गाविवर्षभौ। Ayodhya Kanda,77,21,ततः प्रकृतिमान्वैद्यः पितुरेषां पुरोहितः।।2.77.21।। वसिष्ठो भरतं वाक्यमुत्थाप्य तमुवाच ह। Ayodhya Kanda,77,22,त्रयोदशोऽयं दिवसः पितुर्वृत्तस्य ते विभो।।2.77.22।। सावशेषास्थिनिचये किमिह त्वं विलम्भसे। Ayodhya Kanda,77,23,त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तान्यविशेषतः।।2.77.23।। तेषु चापरिहार्येषु नैवं भवितुमर्हसि। Ayodhya Kanda,77,24,सुमन्त्रश्चापि शत्रुघ्नमुत्थाप्याभिप्रसाद्य च।।2.77.24।। श्रावयामास तत्त्वज्ञ स्सर्वभूतभवाभवम्। Ayodhya Kanda,77,25,उत्थितौ च नरव्याघ्रौ प्रकाशेते यशस्विनौ।।2.77.25।। वर्षातपपरिक्लिनौ पृथगिन्द्रध्वजाविव। Ayodhya Kanda,77,26,अश्रूणि परिमृद्नन्तौ रक्ताक्षौ दीनभाषिणौ। अमात्यास्त्वरयन्ति स्म तनयौ चापराः क्रियाः।।2.77.26।। Ayodhya Kanda,78,1,अथ यात्रां समीहन्तं शत्रुघ्नो लक्ष्मणानुजः। भरतं शोकसन्तप्तमिदं वचनमब्रवीत्।।2.78.1।। Ayodhya Kanda,78,2,गतिर्य स्सर्वभूतानां दुःखे किं पुनरात्मनः। स राम स्सत्त्वसम्पन्नः स्त्रिया प्रव्राजितो वनम्।।2.78.2।। Ayodhya Kanda,78,3,बलवान्वीर्यसम्पन्नो लक्ष्मणो नाम योऽप्यसौ। किं न मोचयते रामं कृत्वा स्म पितृनिग्रहम्।।2.78.3।। Ayodhya Kanda,78,4,पूर्वमेव तु निग्राह्य स्समवेक्ष्य नयानयौ। उत्पथं यस्समारूढो राजा नार्या वशं गतः।।2.78.4।। Ayodhya Kanda,78,5,इति सम्भाषमाणे तु शत्रुघ्ने लक्ष्मणानुजे। प्राग्द्वारेऽभूत्तदा कुब्जा सर्वाभरणभूषिता।।2.78.5।। Ayodhya Kanda,78,6,लिप्ता चन्दनसारेण राजवस्त्राणि बिभ्रती। विविधं विविधै स्तैस्तैर्भूषणैश्च विभूषिता।।2.78.6।। Ayodhya Kanda,78,7,मेखलादामभिश्चित्रैरन्यैश्च शुभभूषणैः। बभासे बहुभिर्बद्धा रज्जुबद्धेव वानरी।।2.78.7।। Ayodhya Kanda,78,8,तां समीक्ष्य तदा द्वास्स्थास्सुभृशं पापकारिणीम्। गृहीत्वाऽकरुणां कुब्जां शत्रुघ्नाय न्यवेदयन्।।2.78.8।। Ayodhya Kanda,78,9,यस्याः कृते वने रामो न्यस्तदेहश्च वः पिता। सेयं पापा नृशंसा च तस्याः कुरु यथामति।।2.78.9।। Ayodhya Kanda,78,10,शत्रुघ्नश्च तदाज्ञाय वचनं भृशदुःखितः। अन्तःपुरचरान्सर्वानित्युवाच धृत व्रतः।।2.78.10।। Ayodhya Kanda,78,11,तीव्रमुत्पादितं दुःखं भ्रात्रूणां मे तथा पितुः। यया सेयं नृशंसस्य कर्मणः फलमश्नुताम्।।2.78.11।। Ayodhya Kanda,78,12,एवमुक्त्वा तु तेनाशु सखीजनसमावृता। गृहीता बलवत्कुब्जा सा तद्गृहमनादयत्।।2.78.12।। Ayodhya Kanda,78,13,तत स्सुभृशसन्तप्तस्तस्या स्सर्व स्सखीजनः। क्रुद्धमाज्ञाय शत्रुघ्नं विपलायत सर्वशः।।2.78.13।। Ayodhya Kanda,78,14,आमन्त्रयत कृत्स्न श्च तस्या स्सर्व स्सखीजनः। यथाऽयं समुपक्रान्तो निश्शेषां नः करिष्यति।।2.78.14।। Ayodhya Kanda,78,15,सानुक्रोशां वदान्यां च धर्मज्ञां च यशस्विनीम्। कौसल्यां शरणं याम सा हि नोऽस्तु ध्रुवा गतिः।।2.78.15।। Ayodhya Kanda,78,16,स च रोषेण ताम्राक्ष श्शत्रुघ्न श्शत्रुतापनः। विचकर्ष तदा कुब्जां क्रोशन्तीं धरणीतले।।2.78.16।। Ayodhya Kanda,78,17,तस्या ह्याकृष्यमाणाया मन्थराया स्ततस्ततः। चित्रं बहुविधं भाण्डं पृथिव्यां तद्व्यशीर्यत।।2.78.17।। Ayodhya Kanda,78,18,तेन भाण्डेन संस्तीर्णं श्रीमद्राजनिवेशनम्। अशोभत तदा भूयः शारदं गगनं यथा।।2.78.18।। Ayodhya Kanda,78,19,स बली बलवत्क्रोधाद्गृहीत्वा पुरुषर्षभः। कैकेयीमभिनिर्भर्त्स्य बभाषे परुषं वचः।।2.78.19।। Ayodhya Kanda,78,20,तैर्वाक्यैः परुषैर्दुःखैः कैकेयी भृशदुःखिता। शत्रुघ्नभयसन्त्रस्ता पुत्रं शरणमागता।।2.78.20।। Ayodhya Kanda,78,21,तं प्रेक्ष्य भरतः क्रुद्धं शत्रुघ्नमिदमब्रवीत्। अवध्या स्सर्वभूतानां प्रमदाः क्षम्यतामिति।।2.78.21।। Ayodhya Kanda,78,22,हन्यामहमिमां पापां कैकेयीं दुष्टचारिणीम्। यदि मां धार्मिको रामो नासूयेन्मातृघातकम्।।2.78.22।। Ayodhya Kanda,78,23,इमामपि हतां कुब्जां यदि जानाति राघवः। त्वां च मां च हि धर्मात्मा नाभिभाषिष्यते ध्रुवम्।।2.78.23।। Ayodhya Kanda,78,24,भरतस्य वचश्श्रुत्वा शत्रुघ्नो लक्ष्मणानुजः। न्यवर्तत ततो रोषात्तां मुमोच च मन्थराम्।।2.78.24।। Ayodhya Kanda,78,25,सा पादमूले कैकेय्या मन्थरा निपपात ह। निश्श्वसन्ती सुदुःखार्ता कृपणं विललाप च।।2.78.25।। Ayodhya Kanda,78,26,शत्रुघ्नविक्षेपविमूढसंज्ञां समीक्ष्य कुब्जां भरतस्य माता। शनैस्समाश्वासयदार्तरूपां क्रौञ्चीं विलग्नामिव वीक्षमाणाम्।।2.78.26।। Ayodhya Kanda,79,1,ततः प्रभातसमये दिवसेऽथ चतुर्दशे। समेत्य राजकर्तारो भरतं वाक्यमब्रुवन्।।2.79.1।। Ayodhya Kanda,79,2,गतो दशरथस्स्वर्गं यो नो गुरुतरो गुरुः। रामं प्रव्राज्य वै ज्येष्ठं लक्ष्मणं च महाबलम्।।2.79.2।। Ayodhya Kanda,79,3,त्वमद्य भव नो राजा राजपुत्र महायशः। सङ्गत्या नापराध्नोति राज्यमेतदनायकम्।।2.79.3।। Ayodhya Kanda,79,4,अभिषेचनिकं सर्वमिदमादाय राघव। प्रतीक्षते त्वां स्वजनश्श्रेणयश्च नृपात्मज।।2.79.4।। Ayodhya Kanda,79,5,राज्यं गृहाण भरत पितृपैतामहं ध्रुवम्। अभिषेचय चात्मानं पाहि चास्मान्नरर्षभ।।2.79.5।। Ayodhya Kanda,79,6,अभिषेचनिकं भाण्डं कृत्वा सर्वं प्रदक्षिणम्। भरतस्तं जनं सर्वं प्रत्युवाच धृतव्रतः।।2.79.6।। Ayodhya Kanda,79,7,ज्येष्ठस्य राजता नित्यमुचिता हि कुलस्य नः। नैवं भवन्तो मां वक्तुमर्हन्ति कुशला जनाः।।2.79.7।। Ayodhya Kanda,79,8,रामः पूर्वो हि नो भ्राता भविष्यति महीपतिः। अहं त्वरण्ये वत्स्यामि वर्षाणि नव पञ्च च।।2.79.8।। Ayodhya Kanda,79,9,युज्यतां महती सेना चतुरङ्गमहाबला। आनयिष्याम्यहं ज्येष्ठं भ्रातरं राघवं वनात्।।2.79.9।। Ayodhya Kanda,79,10,अभिषेचनिकं चैव सर्वमेतदुपस्कृतम्। पुरस्कृत्य गमिष्यामि रामहेतोर्वनं प्रति।।2.79.10।। Ayodhya Kanda,79,11,तत्रैवं तं नरव्याघ्रमभिषिच्य पुरस्कृतम्। आनेष्यामि तु वै रामं हव्यवाहमिवाध्वरात्।।2.79.11। Ayodhya Kanda,79,12,न सकामां करिष्यामि स्वामिमां मातृगन्धिनीम्। वने वत्स्याम्यहं दुर्गे रामो राजा भविष्यति।।2.79.12।। Ayodhya Kanda,79,13,क्रियतां शिल्पिभिः पन्था स्समानि विषमाणि च। रक्षिणश्चानुसम्यान्तु पथि दुर्गविचारकाः।।2.79.13।। Ayodhya Kanda,79,14,एवं सम्भाषमाणं तं रामहेतोर्नृपात्मजम्। प्रत्युवाच जनस्सर्व श्श्रीमद्वाक्यमनुत्तमम्।।2.79.14।। Ayodhya Kanda,79,15,एवं ते भाषमाणस्य पद्मा श्रीरुपतिष्ठतात्। यस्त्वं ज्येष्ठे नृपसुते पृथिवीं दातुमिच्छसि।।2.79.15।। Ayodhya Kanda,79,16,अनुत्तमं तद्वचनं नृपात्मजप्रभाषितं संश्रवणे निशम्य च। प्रहर्षजास्तं प्रति बाष्पबिन्दवो निपेतुरार्यानननेत्रसम्भवाः।।2.79.16।। Ayodhya Kanda,79,17,ऊचुस्ते वचनमिदं निशम्य हृष्टा स्सामात्या स्सपरिषदो वियातशोकाः। पन्थानं नरवर भक्तिमान् जनश्च व्यादिष्टस्तव वचनाच्च शिल्पिवर्गः।।2.79.17। Ayodhya Kanda,80,1,अथ भूमिप्रदेशज्ञास्सूत्रकर्मविशारदाः। स्वकर्माभिरताश्शूराः खनका यन्त्रकास्तथा।।2.80.1।। Ayodhya Kanda,80,2,कर्मान्तिकाः स्थपतयः पुरुष यन्त्रकोविदाः। तथा वार्धकयश्चैव मार्गिणो वृक्षतक्षकाः।।2.80.2।। Ayodhya Kanda,80,3,कूपकारास्सुधाकारार्वंशकर्मकृतस्तथा। समर्था ये च द्रष्टारः पुरतस्ते प्रतस्थिरे।।2.80.3।। Ayodhya Kanda,80,4,स तु हर्षात्तमुद्देशं जनौघो विपुलः प्रयान्। अशोभत महावेगस्समुद्र इव पर्वणि।।2.80.4।। Ayodhya Kanda,80,5,ते स्ववारं समास्थाय वर्त्मकर्मणि कोविदाः। करणैर्विविधोपेतैः पुरस्तात्सम्प्रतस्थिरे।।2.80.5।। Ayodhya Kanda,80,6,लतावल्ली श्च गुल्मांश्च स्थाणूनश्मन एव च। जनायांचक्रिरे मार्गं छिन्दन्तो विविधान्द्रुमान्।।2.80.6।। Ayodhya Kanda,80,7,अवृक्षेषु च देशेषु केचिद्वृक्षानरोपयन्। केचित्कुठारैष्टङ्कैश्च दात्रैश्चिन्दन्क्वचित्क्वचित्।।2.80.7।। Ayodhya Kanda,80,8,अपरे वीरणस्तम्भान्बलिनो बलवत्तराः। विधमन्ति स्म दुर्गाणि स्थलानि च ततस्ततः।।2.80.8।। Ayodhya Kanda,80,9,अपरेऽपूरयन्कूपान्पांसुभि श्श्वभ्रमायतम्। निम्नभागान्स्ततः केचित्समान्श्चक्रु स्समन्ततः।।2.80.9।। Ayodhya Kanda,80,10,बबन्धुर्बन्धनीयांश्च क्षोद्यान्सञ्चुक्षुदुस्तदा। बिभिदुर्भेदनीयांश्च तांस्तान्देशान्नरा स्तदा।।2.80.10।। Ayodhya Kanda,80,11,अचिरेणैव कालेन परिवाहान्बहूदकान्। चक्रुर्बहुविधाकारान् सागरप्रतिमान्बहून्।।2.80.11।। Ayodhya Kanda,80,12,निर्जलेषु च देशेषु खानयामासुरुत्तमान्। उदपानान्बहुविधान्वेदिकापरिमण्डितान्।।2.80.12।। Ayodhya Kanda,80,13,ससुधाकुट्टिमतलः प्रपुष्पितमहीरुहः। मत्तोद्घुष्ट द्विजगणः पताकाभिरलङ्कृतः।।2.80.13।। Ayodhya Kanda,80,14,चन्दनोदकसंसिक्तो नानाकुसुमभूषितः। बह्वशोभत सेनायाः पन्था स्सुरपथोपमः।।2.80.14।। Ayodhya Kanda,80,15,आज्ञाप्याथ यथाऽज्ञप्ति युक्तास्तेऽधिकृता नराः। रमणीयेषु देशेषु बहुस्वादुफलेषु च।।2.80.15।। Ayodhya Kanda,80,16,यो निवेशस्त्वभिप्रेतो भरतस्य महात्मनः। भूयस्तं शोभयामासुर्भूषाभिर्भूषणोपमम्।।2.80.16।। Ayodhya Kanda,80,17,नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः। निवेशान् स्थापयामासुर्भरतस्य महात्मनः।।2.80.17।। Ayodhya Kanda,80,18,बहुपांसुचयाश्चापि परिखापरिवारिताः। तत्रेन्द्रकीलप्रतिमाः प्रतोलीवरशोभिताः।।2.80.18।। Ayodhya Kanda,80,19,प्रासादमालावितता स्सौधप्राकारसंवृताः। पताकाशोभिता स्सर्वे सुनिर्मितमहापथाः।।2.80.19।। Ayodhya Kanda,80,20,विसर्पद्भिरिवाऽकाशे विटङ्काग्रविमानकैः। समुच्छ्रितैर्निवेशास्ते बभुश्शक्रपुरोपमाः।।2.80.20।। Ayodhya Kanda,80,21,जाह्नवीं तु समासाद्य विविधद्रुमकाननाम्। शीतलामलपानीयां महामीनसमाकुलाम्।।2.80.21।। Ayodhya Kanda,80,22,सचन्द्रतारागणमण्डितं यथा नभः क्षपायाममलं विराजते। नरेन्द्रमार्गस्स तथा व्यराजत क्रमेण रम्यः शुभशिल्पिनिर्मितः।।2.80.22।। Ayodhya Kanda,81,1,ततो नान्दीमुखीं रात्रिं भरतं सूतमागधाः। तुष्टुवुर्वाग्विशेषज्ञास्स्तवैर्मङ्गलसंहितैः।।2.81.1।। Ayodhya Kanda,81,2,सुवर्णकोणाभिहतः प्राणदद्यामदुन्दुभिः। दध्मुश्शङ्खांश्च शतशो नादांश्चोच्चावचस्वरान्।।2.81.2।। Ayodhya Kanda,81,3,स तूर्यघोष स्सुमहान्दिवमापूरयन्निव। भरतं शोकसन्तप्तं भूयश्शोकैररन्ध्रयत्।।2.81.3।। Ayodhya Kanda,81,4,ततः प्रबुद्धो भरतस्तं घोषं सन्निवर्त्य च। नाहं राजेति चाप्युक्त्वा शत्रुघ्नमिदमब्रवीत्।।2.81.4।। Ayodhya Kanda,81,5,पश्य शत्रुघ्न कैकेय्या लोकस्यापकृतं महत्। विसृज्य मयि दुःखानि राजा दशरथो गतः।।2.81.5।। Ayodhya Kanda,81,6,तस्यैषा धर्मराजस्य धर्ममूला महात्मनः। परिभ्रमति राज्य श्रीर्नौरिवाकर्णिका जले।।2.81.6।। Ayodhya Kanda,81,7,यो हि न स्सुमहान्नाथस्सोऽपि प्रव्राजितो वनम्। अनया धर्ममुत्सृज्य मात्रा मे राघवस्स्वयम्।।2.81.7।। Ayodhya Kanda,81,8,इत्येवं भरतं प्रेक्ष्य विलपन्तं विचेतनम्। कृपणं रुरुदुस्सर्वास्सस्वरं योषित स्तदा।। 2.81.8।। Ayodhya Kanda,81,9,तथा तस्मिन्विलपति वसिष्ठो राजधर्मवित्। सभामिक्ष्वाकुनाथस्य प्रविवेश महायशाः।।2.81.9।। Ayodhya Kanda,81,10,शातकुम्भमयीं रम्यां मणिरत्नसमाकुलाम्। सुधर्मामिव धर्मात्मा सगणः प्रत्यपद्यत।।2.81.10।। Ayodhya Kanda,81,11,स काञ्चनमयं पीठं सुखास्तरणसंवृतम्। अध्यास्त सर्ववेदज्ञो दूताननुशशास च।।2.81.11।। Ayodhya Kanda,81,12,ब्राह्मणान् क्षत्रियान्वैश्यनमात्यान्गणवल्लभान्। क्षिप्रमानयताऽव्यग्राः कृत्यमात्ययिकं हि नः।।2.81.12।। Ayodhya Kanda,81,13,सराजभृत्यं शत्रुघ्नं भरतं च यशस्विनम्। युधाजितं सुमन्त्रं च ये च तत्र हिता जनाः।।2.81.13।। Ayodhya Kanda,81,14,ततो हलहलाशब्दस्सुमहान्समपद्यत। रथैरश्वैर्गजैश्चापि जनानामुपगच्छताम्।।2.81.14।। Ayodhya Kanda,81,15,ततो भरतमायान्तं शतक्रतुमिवामराः। प्रत्यनन्दन्प्रकृतयो यथा दशरथं तथा।।2.81.15।। Ayodhya Kanda,81,16,ह्रद इव तिमिनागसंवृतः स्तिमितजलो मणिशङ्खशर्करः। दशरथसुतशोभिता सभा सदशरथेव बभौ यथा पुरा।।2.81.16।। Ayodhya Kanda,82,1,तामार्यगणसम्पूर्णां भरतः प्रग्रहां सभाम्। ददर्श बुद्धिसम्पन्नः पूर्णचन्द्रो निशामिव।।2.82.1।। Ayodhya Kanda,82,2,आसनानि यथान्यायमार्याणां विशतां तदा। वस्त्राङ्गरागप्रभया द्योतिता सा सभोत्तमा।।2.82.2।। Ayodhya Kanda,82,3,सा विद्वज्जनसम्पूर्णा सभा सुरुचिरा तदा। अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी।।2.82.3।। Ayodhya Kanda,82,4,राज्ञस्तु प्रकृती स्सर्वा स्समग्राः प्रेक्ष्य धर्मवित्। इदं पुरोहितो वाक्यं भरतं मृदु चाब्रवीत्।।2.82.4।। Ayodhya Kanda,82,5,तात राजा दशरथ स्स्वर्गतो धर्ममाचरन्। धनधान्यवतीं स्फीतां प्रदाय पृथिवीं तव।।2.82.5।। Ayodhya Kanda,82,6,रामस्तथा सत्यधृतिस्सतां धर्ममनुस्मरन्। नाजहात्पितुरादेशं शशी ज्योत्स्नामिवोदितः।।2.82.6।। Ayodhya Kanda,82,7,पित्रा भ्रात्रा च ते दत्तं राज्यं निहतकण्टकम्। तद्भुङ्क्ष्व मुदितामात्यः क्षिप्रमेवाभिषेचय।।2.82.7।। Ayodhya Kanda,82,8,उदीच्या श्च प्रतीच्या श्च दाक्षिणात्याश्च केवलाः। कोट्यापरान्तास्सामुद्रारत्नान्यभिहरन्तुते।।2.82.8।। Ayodhya Kanda,82,9,तच्छ्रुत्वा भरतो वाक्यं शोकेनाभिपरिप्लुतः। जगाम मनसा रामं धर्मज्ञो धर्मकाङ्क्षया।।2.82.9।। Ayodhya Kanda,82,10,सबाष्पकलया वाचा कलहंसस्वरो युवा। विललाप सभामध्ये जगर्हे च पुरोहितम्।।2.82.10।। Ayodhya Kanda,82,11,चरितब्रह्मचर्यस्य विद्यास्नातस्य धीमतः। धर्मे प्रयतमानस्य को राज्यं मद्विधो हरेत्।।2.82.11।। Ayodhya Kanda,82,12,कथं दशरथाज्जातो भवेद्राज्यापहारकः। राज्यं चाहं च रामस्य धर्मं वक्तुमिहार्हसि।।2.82.12।। Ayodhya Kanda,82,13,ज्येष्ठ श्श्रेष्ठश्च धर्मात्मा दिलीपनहुषोपमः। लब्धुमर्हति काकुत्स्थो राज्यं दशरथो यथा।।2.82.13।। Ayodhya Kanda,82,14,अनार्यजुष्टमस्वर्ग्यं कुर्यां पापमहं यदि। इक्ष्वाकूणामहं लोके भवेयं कुलपांसनः।।2.82.14।। Ayodhya Kanda,82,15,यद्धि मात्रा कृतं पापं नाहं तदपि रोचये। इहस्थो वनदुर्गस्थं नमस्यामि कृताञ्जलिः।।2.82.15।। Ayodhya Kanda,82,16,राममेवानुगच्छामि राजा स द्विपदां वरः। त्रयाणामपि लोकानां राज्यमर्हति राघवः।।2.82.16।। Ayodhya Kanda,82,17,तद्वाक्यं धर्मसंयुक्तं श्रुत्वा सर्वे सभासदः। हर्षान्मुमुचुरश्रूणि रामे निहितचेतसः।।2.82.17।। Ayodhya Kanda,82,18,यदि त्वार्यं न शक्ष्यामि विनिवर्तयितुं वनात्। वने तत्रैव वत्स्यामि यथाऽर्यो लक्ष्मणस्तथा।।2.82.18।। Ayodhya Kanda,82,19,सर्वोपायं तु वर्तिष्ये विनिवर्तयितुं बलात्। समक्षमार्यमिश्राणां साधूनां गुणवर्तिनाम्।।2.82.19।। Ayodhya Kanda,82,20,विष्टिकर्मान्तिका स्सर्वे मार्गशोधकरक्षकाः। प्रस्थापिता मया पूर्वं यत्रापि मम रोचते।।2.82.20।। Ayodhya Kanda,82,21,एवमुक्त्वा तु धर्मात्मा भरतो भ्रातृवत्सलः। समीपस्थमुवाचेदं सुमन्त्रं मन्त्रकोविदम्।।2.82.21।। Ayodhya Kanda,82,22,तूर्णमुत्थाय गच्छ त्वं सुमन्त्र मम शासनात्। यात्रामाज्ञापय क्षिप्रं बलं चैव समानय।।2.82.22।। Ayodhya Kanda,82,23,एवमुक्त स्सुमन्त्रस्तु भरतेन महात्मना। हृष्टस्तदाऽदिशत्सर्वं यथासन्दिष्टमिष्टवत्।।2.82.23।। Ayodhya Kanda,82,24,ताः प्रहृष्टाः प्रकृतयो बलाध्यक्षा बलस्य च। श्रुत्वा यात्रां समाज्ञप्तां राघवस्य निवर्तने।।2.82.24।। Ayodhya Kanda,82,25,ततो योधाङ्गना स्सर्वा भर्त्रून्सर्वान्गृहेगृहे। यात्रागमनमाज्ञाय त्वरयन्ति स्म हर्षिताः।।2.82.25।। Ayodhya Kanda,82,26,ते हयैर्गोरथैश्शीघ्रैस्स्यन्दनैश्च महाजवैः सह योधैर्बलाध्यक्षा बलं सर्वमचोदयन्।।2.82.26।। Ayodhya Kanda,82,27,सज्जं तु तद्बलं दृष्ट्वा भरतो गुरुसन्निधौ। रथं मे त्वरयस्वेति सुमन्त्रं पार्श्वतोऽब्रवीत्।।2.82.27।। Ayodhya Kanda,82,28,भरतस्य तु तस्याज्ञां प्रतिगृह्य च हर्षितः। रथं गृहीत्वा प्रययौ युक्तं परमवाजिभिः।।2.82.28।। Ayodhya Kanda,82,29,स राघव स्सत्यधृतिः प्रतापवान् ब्रुवन् सुयुक्तं दृढसत्यविक्रमः। गुरुं महारण्यगतं यशस्विनं प्रसादयिष्यन्भरतोऽब्रवीत्तदा।।2.82.29।। Ayodhya Kanda,82,30,तूर्णं समुत्थाय सुमन्त्र गच्छ बलस्य योगाय बलप्रधानान्। आनेतुमिच्छामि हि तं वनस्थं प्रसाद्य रामं जगतो हिताय।।2.82.30।। Ayodhya Kanda,82,31,ससूतपुत्रो भरतेन सम्यगाज्ञापितस्सम्परिपूर्णकामः। शशास सर्वान्प्रकृतिप्रधानान्बलस्य मुख्यांश्च सुहृज्जनं च।।2.82.31।। Ayodhya Kanda,82,32,तत स्समुत्थाय कुले कुले ते राजन्यवैश्या वृषलाश्च विप्राः। अयूयुजन्नुष्ट्रखरान्रथांश्च नागान्हयांश्चैव कुलप्रसूतान्।।2.82.32।। Ayodhya Kanda,83,1,तत स्समुत्थितः काल्यमास्थाय स्यन्दनोत्तमम्। प्रययौ भरतश्शीघ्रं रामदर्शनकाङ्क्षया।।2.83.1।। Ayodhya Kanda,83,2,अग्रतः प्रययुस्तस्य सर्वे मन्त्रिपुरोधसः। अधिरुह्य हयैर्युक्तान्रथान्सूर्यरथोपमान्।।2.83.2।। Ayodhya Kanda,83,3,नवनागसहस्राणि कल्पितानि यथाविधि। अन्वयुर्भरतं यान्तमिक्ष्वाकुकुलनन्दनम्।।2.83.3।। Ayodhya Kanda,83,4,षष्टी रथसहस्राणि धन्विनो विविधायुधाः। अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम्।।2.83.4।। Ayodhya Kanda,83,5,शतं सहस्राण्यश्वानां समारूढानि राघवम्। अन्वयुर्भरतं यान्तं सत्यसन्धं जितेन्द्रियम्।।2.83.5।। Ayodhya Kanda,83,6,कैकेयी च सुमित्रा च कौसल्या च यशस्विनी। रामानयनसंहृष्टा ययुर्यानेन भास्वता।।2.83.6।। Ayodhya Kanda,83,7,प्रयाताश्चार्यसङ्घाता रामं द्रष्टुं सलक्ष्मणम्। तस्यैव च कथाश्चित्राः कुर्वाणा हृष्टमानसाः।।2.83.7।। Ayodhya Kanda,83,8,मेघश्यामं महाबाहुं स्थिरसत्त्वं दृढव्रतम्। कदा द्रक्ष्यामहे रामं जगत श्शोकनाशनम्।।2.83.8।। Ayodhya Kanda,83,9,दृष्ट एव हि न श्शोकमपनेष्यति राघवः। तम स्सर्वस्य लोकस्य समुद्यन्निव भास्करः।।2.83.9।। Ayodhya Kanda,83,10,इत्येवं कथयन्तस्ते सम्प्रहृष्टाः कथा श्शुभाः। परिष्वजानाश्चान्योन्यं ययुर्नागरिका जनाः।।2.83.10।। Ayodhya Kanda,83,11,ये च तत्रापरे सर्वे सम्मता ये च नैगमाः। रामं प्रति ययुर्हृष्टा स्सर्वाः प्रकृतयस्तथा।।2.83.11।। Ayodhya Kanda,83,13,मणिकाराश्च ये केचित्कुम्भकाराश्च शोभनाः। सूत्रकर्मकृतश्चैव ये च शस्त्रोपजीविनः।2.83.12।। मयूरकाः क्राकचिका रोचका वेधकास्तथा। दन्तकारा स्सुधाकारा स्तथा गन्धोपजीविनः।।2.83.13।। Ayodhya Kanda,83,14,सुवर्णकाराः प्रख्यातास्तथा कम्बलधावकाः। स्नापकोष्णोदका वैद्याधूपकाश्शौण्डिकास्तथा।।2.83.14।। Ayodhya Kanda,83,15,रजकास्तुन्नवायाश्च ग्रामघोषमहत्तराः। शैलूषाश्च सह स्त्रीभिर्ययुः कैवर्तकास्तथा।।2.83.15।। Ayodhya Kanda,83,16,समाहिता वेदविदो ब्राह्मणा वृत्तसम्मताः। गोरथैर्भरतं यान्तमनुजग्मु स्सहस्रशः।।2.83.16।। Ayodhya Kanda,83,17,सुवेषा श्शुद्धवसनास्ताम्रमृष्टानुलेपनाः। सर्वे ते विविधैर्यानै श्शनैर्भरतमन्वयुः।।2.83.17।। Ayodhya Kanda,83,18,प्रहृष्टमुदिता सेना साऽन्वयात्कैकयीसुतम्। भ्रातुरानयने यान्तं भरतं भ्रातृवत्सलम्।।2.83.18।। Ayodhya Kanda,83,19,ते गत्वा दूरमध्वानं रथयानाश्वकुञ्जरैः। समासेदुस्ततो गङ्गां शृङ्गीबेरपुरं प्रति।।2.83.19।। Ayodhya Kanda,83,20,यत्र रामसखो वीरो गुहो ज्ञातिगणैर्वृतः। निवसत्यप्रमादेन देशं तं परिपालयन्।।2.83.20।। Ayodhya Kanda,83,21,उपेत्य तीरं गङ्गायाश्चक्रवाकैरलङ्कृतम्। व्यवातिष्ठत सा सेना भरतस्यानुयायिनी।।2.83.21।। Ayodhya Kanda,83,22,निरीक्ष्यानुगतां सेनां तां च गङ्गां शिवोदकाम्। भरतस्सचिवान्सर्वानब्रवीद्वाक्यकोविदः।।2.83.22।। Ayodhya Kanda,83,23,निवेशयत मे सैन्यमभिप्रायेण सर्वतः। विश्रान्ताः प्रतरिष्यामश्श्व इदानीमिमां नदीम्।।2.83.23।। Ayodhya Kanda,83,24,दातुं च तावदिच्छामि स्वर्गतस्य महीपतेः। और्ध्वदेहनिमित्तार्थमवतीर्योदकं नदीम्।।2.83.24।। Ayodhya Kanda,83,25,तस्यैवं ब्रुवतोऽमात्यास्तथेत्युक्त्वा समाहिताः। न्यवेशयंस्तां छन्देन स्वेन स्वेन पृथक्पृथक्।।2.83.25।। Ayodhya Kanda,83,26,निवेश्य गङ्गामनु तां महानदीं चमूं विधानैः परिबर्हशोभिनीम्। उवास रामस्य तदा महात्मनो विचिन्तयानो भरतो निवर्तनम्।।2.83.26।। Ayodhya Kanda,84,1,ततो निविष्टां ध्वजिनीं गङ्गामन्वाश्रितां नदीम्। निषादराजो दृष्ट्वैव ज्ञातीन्सन्त्वरितोऽऽब्रवीत्।।2.84.1।। Ayodhya Kanda,84,2,महतीयमितस्सेना सागराभा प्रदृश्यते। नास्यान्तमधिगच्छामि मनसापि विचिन्तयन्।।2.84.2।। Ayodhya Kanda,84,3,यथा तु खलु दुर्बुद्धिर्भरत स्स्वयमागतः। स एष हि महाकायः कोविदारध्वजो रथे।।2.84.3।। Ayodhya Kanda,84,4,बन्धयिष्यति वा दाशानथवाऽस्मान्वधिष्यति। अथ दाशरथिं रामं पित्रा राज्याद्विवासितम्।।2.84.4।। Ayodhya Kanda,84,5,सम्पन्नां श्रियमन्विच्छन्स्तस्य राज्ञ स्सुदुर्लभाम्। भरतः कैकयीपुत्रो हन्तुं समधिगच्छति।।2.84.5।। Ayodhya Kanda,84,6,भर्ताचैव सखाचैव रामो दाशरथिर्मम। तस्यार्थकामास्सन्नद्धा गङ्गाऽनूपे प्रतिष्ठत।।2.84.6।। Ayodhya Kanda,84,7,तिष्ठन्तु सर्वे दाशाश्च गङ्गामन्वाश्रिता नदीम्। बलयुक्ता नदीरक्षा मांसमूलफलाशनाः।।2.84.7।। Ayodhya Kanda,84,8,नावां शतानां पञ्चानां कैवर्तानां शतं शतम्। सन्नद्धानां तथा यूनां तिष्ठन्त्वित्यभ्यचोदयत्।।2.84.8।। Ayodhya Kanda,84,9,यदाऽऽदुष्टस्तु भरतो रामस्येह भविष्यति। सेयं स्वस्तिमती सेना गङ्गामद्य तरिष्यति।।2.84.9।। Ayodhya Kanda,84,10,इत्युक्त्वोपायनं गृह्य मत्स्यमांसमधूनि च। अभिचक्राम भरतं निषादाधिपतिर्गुहः।।2.84.10।। Ayodhya Kanda,84,11,तमायान्तं तु सम्प्रेक्ष्य सूतपुत्रः प्रतापवान्। भरतायाऽचचक्षेऽथ विनयज्ञो विनीतवत्।।2.84.11।। Ayodhya Kanda,84,12,एष ज्ञातिसहस्रेण स्थपतिः परिवारितः। कुशलो दण्डकारण्ये वृद्धो भ्रातुश्च ते सखा।।2.84.12।। Ayodhya Kanda,84,13,तस्मात्पश्यतु काकुत्स्थ त्वां निषादाधिपो गुहः। असंशयं विजानीते यत्र तौ रामलक्ष्मणौ।।2.84.13।। Ayodhya Kanda,84,14,एतत्तु वचनं श्रुत्वा सुमन्त्राद्भरत श्शुभम्। उवाच वचनं शीघ्रं गुहः पश्यतु मामिति।।2.84.14।। Ayodhya Kanda,84,15,लब्ध्वाऽभ्यनुज्ञां संहृष्टो ज्ञातिभिः परिवारितः। आगम्य भरतं प्रह्वो गुहो वचनमब्रवीत्।।2.84.15।। Ayodhya Kanda,84,16,निष्कुटश्चैव देशोऽयं वञ्चिताश्चापि ते वयम्। निवेदयामस्ते सर्वे स्वके दासकुले वस।।2.84.16।। Ayodhya Kanda,84,17,अस्ति मूलं फलञ्चैव निषादैस्समुपाहृतम्। आर्द्रं च मांसं शुष्कं च वन्यं चोच्चावचं महत्।।2.84.17।। Ayodhya Kanda,84,18,आशंसे स्वाशिता सेना वत्स्यतीमां विभावरीम्। अर्चितो विविधैः कामै श्श्व स्ससैन्यो गमिष्यसि।।2.84.18।। Ayodhya Kanda,85,1,एवमुक्तस्तु भरतो निषादाधिपतिं गुहम्। प्रत्युवाच महाप्राज्ञो वाक्यं हेत्वर्थसंहितम्।।2.85.1।। Ayodhya Kanda,85,2,ऊर्जितः खलु ते कामः कृतो मम गुरोस्सखे। यो मे त्वमीदृशीं सेनामेकोऽभ्यर्चितुमिच्छसि।।2.85.2।। Ayodhya Kanda,85,3,इत्युक्त्वा तु महातेजा गुहं वचनमुत्तमम्। अब्रवीद्भरत श्श्रीमाननिषादाधिपतिं पुनः।।2.85.3।। Ayodhya Kanda,85,4,कतरेण गमिष्यामि भरद्वाजाश्रमं गुह। गहनोऽयं भृशं देशो गङ्गाऽनूपो दुरत्ययः।।2.85.4।। Ayodhya Kanda,85,5,तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः। अब्रवीत्प्राञ्जलिर्वाक्यं गुहो गहनगोचरः।।2.85.5।। Ayodhya Kanda,85,6,दाशास्त्वाऽनुऽगमिष्यन्ति धन्विनस्सुसमाहिताः। अहं त्वानुगमिष्यामि राजपुत्र महायशः।।2.85.6।। Ayodhya Kanda,85,7,कच्छिन्नदुष्टो व्रजसि रामस्याक्लिष्टकर्मणः। इयं ते महती सेना शङ्कां जनयतीव मे।।2.85.7।। Ayodhya Kanda,85,8,तमेवमभिभाषन्तमाकाश इव निर्मलः। भरतश्श्लक्ष्णया वाचा गुहं वचनमब्रवीत्।।2.85.8।। Ayodhya Kanda,85,9,माभूत्स कालो यत्कष्टं न मां शङ्कितुमर्हसि। राघव स्सहि मे भ्राता ज्येष्ठः पितुसमो मतः।।2.85.9।। Ayodhya Kanda,85,10,तं निवर्तयितुं यामि काकुत्स्थं वनवासिनम्। बुद्धिरन्या न ते कार्या गुह सत्यं ब्रवीमि ते।।2.85.10।। Ayodhya Kanda,85,11,स तु संहृष्टवदन श्श्रुत्वा भरतभाषितम्। पुनरेवाब्रवीद्वाक्यं भरतं प्रति हर्षितः।।2.85.11।। Ayodhya Kanda,85,12,धन्यस्त्वं न त्वया तुल्यं पश्यामि जगतीतले। अयत्नादागतं राज्यं यस्त्वं त्यक्तुमिहेच्छसि।।2.85.12।। Ayodhya Kanda,85,13,शाश्वती खलु ते कीर्तिर्लोकाननुचरिष्यति। यस्त्वं कृच्छ्रगतं रामं प्रत्यानयितुमिच्छसि।।2.85.13।। Ayodhya Kanda,85,14,एवं सम्भाषमाणस्य गुहस्य भरतं तदा। बभौ नष्टप्रभस्सूर्यो रजनी चाभ्यवर्तत।।2.85.14।। Ayodhya Kanda,85,15,सन्निवेश्य स तां सेनां गुहेन परितोषितः। शत्रुघ्नेन सह श्रीमाञ्छयनं समुपागमत्।।2.85.15।। Ayodhya Kanda,85,16,रामचिन्तामय श्शोको भरतस्य महात्मनः। उपस्थितो ह्यनर्हस्य धर्मप्रेक्षस्य तादृशः।।2.85.16।। Ayodhya Kanda,85,17,अन्तर्दाहेन दहनस्सन्तापयति राघवम्। वनदाहाभिसन्तप्तं गूढोऽग्निरिव पादपम्।।2.85.17।। Ayodhya Kanda,85,18,प्रसृतस्सर्वगात्रेभ्यस्स्वेदं शोकाग्निसम्भवम्। यथा सूर्यांशुसन्तप्तो हिमवान् प्रसृतोहिमम्।।2.85.18।। Ayodhya Kanda,85,19,ध्याननिर्धरशैलेन विनिश्श्वसितधातुना। दैन्यपादपसंघेन शोकायासाधिशृङ्गिणा।।2.85.19।। Ayodhya Kanda,85,20,प्रमोहानन्तसत्त्वेन सन्तापौषधिवेणुना। आक्रान्तो दुःखशैलेन महता कैकयीसुतः।।2.85.20।। Ayodhya Kanda,85,21,विनिश्श्वसन्वै भृशदुर्मनास्ततः प्रमूढसंज्ञः परमापदं गतः। शमं न लेभे हृदयज्वरार्दितो नरर्षभो यूथहतो यथर्षभः।।2.85.21।। Ayodhya Kanda,85,22,गुहेन सार्धं भरतस्समागतो महानुभावस्सजनस्समाहितः। सुदुर्मनास्तं भरतं तदा पुनर्गुह स्समाश्वासयदग्रजं प्रति।।2.85.22।। Ayodhya Kanda,86,1,आचचक्षेऽथ सद्भावं लक्ष्मणस्य महात्मनः। भरतायाप्रमेयाय गुहो गहनगोचरः।।2.86.1।। Ayodhya Kanda,86,2,तं जाग्रतं गुणैर्युक्तं शरचापासिधारिणम्। भ्रातृगुप्त्यर्थमत्यन्तमहं लक्ष्मणमबृवम्।।2.86.2।। Ayodhya Kanda,86,3,इयं तात सुखा शय्या त्वदर्थमुपकल्पिता। प्रत्याश्वसिहि शेष्वास्यां सुखं राघवनन्दन।।2.86.3।। Ayodhya Kanda,86,4,उचितोऽयं जनस्सर्वो दुःखानां त्वं सुखोचितः। धर्मात्मंस्तस्य गुप्त्यर्थं जागरिष्यामहे वयम्।।2.86.4।। Ayodhya Kanda,86,5,नहि रामात्प्रियतरो ममास्ति भुवि कश्चन। मोत्सुकोऽभूर्ब्रवीम्येतदप्यसत्यं तवाग्रतः।।2.86.5।। Ayodhya Kanda,86,6,अस्य प्रसादादाशंसे लोकेऽस्मिन् सुमहद्यशः। धर्मावाप्तिं च विपुलामर्थकामौ च केवलम्।।2.86.6।। Ayodhya Kanda,86,7,सोऽहं प्रियसखं रामं शयानं सह सीतया। रक्षिष्यामि धनुष्पाणि स्सर्वै स्स्वैर्ज्ञातिभिस्सह।।2.86.7।। Ayodhya Kanda,86,8,न हि मेऽविदितं किञ्चिद्वनेऽस्मिंश्चरत स्सदा। चतुरङ्गं ह्यपि बलं प्रसहेम वयं युधि।।2.86.8।। Ayodhya Kanda,86,9,एवमस्माभिरुक्तेन लक्ष्मणेन महात्मना। अनुनीता वयं सर्वे धर्ममेवानुपश्यता।। 2.86.9।। Ayodhya Kanda,86,10,कथं दाशरथौ भूमौ शयाने सह सीतया। शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा।।2.86.10।। Ayodhya Kanda,86,11,यो न देवासुरैस्सर्वैश्शक्यः प्रसहितुं युधि। तं पश्य गुह संविष्टं तृणेषु सह सीतया।।2.86.11।। Ayodhya Kanda,86,12,महता तपसा लब्धो विविधैश्च परिश्रमैः। एको दशरथस्यैष पुत्रस्सदृशलक्षणः।।2.86.12।। Ayodhya Kanda,86,13,अस्मिन्प्रव्राजिते राजा न चिरं वर्तयिष्यति। विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति।।2.86.13।। Ayodhya Kanda,86,14,विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः। निर्घोषो विरतो नूनमध्य राजनिवेशने।।2.86.14।। Ayodhya Kanda,86,15,कौसल्या चैव राजा च तथैव जननी मम। नाशंसे यदि जीवेयुस्सर्वे ते शर्वरीमिमाम्।।2.86.15।। Ayodhya Kanda,86,16,जीवेदपि च मे माता शत्रुघ्नस्यान्ववेक्षया। दुःखिता या तु कौसल्या वीरसूर्विनशिष्यति।।2.86.16।। Ayodhya Kanda,86,17,अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम्। राज्ये राममनिक्षिप्य पिता मे विनशिष्यति।।2.86.17।। Ayodhya Kanda,86,18,सिद्धार्थाः पितरं वृत्तं तस्मिन्काले ह्युपस्थिते। प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम्।।2.86.18।। Ayodhya Kanda,86,19,रम्यचत्वरसंस्थानां सुविभक्तमहापथाम्। हर्म्यप्रासादम्पन्नां सर्वरत्नविभूषिताम्।।2.86.19।। Ayodhya Kanda,86,20,गजाश्वरथसंबाधां तूर्यनादविनादिताम्। सर्वकल्याणसंपूर्णां हृष्टपुष्टजनाकुलाम्।।2.86.20।। Ayodhya Kanda,86,21,आरामोद्यानसंपूर्णां समाजोत्सवशालिनीम्। सुखिता विचरिष्यन्ति राजधानीं पितुर्मम।।2.86.21।। Ayodhya Kanda,86,22,अपिसत्यप्रतिज्ञेन सार्धं कुशलिना वयं। निवृत्ते समये ह्यस्मिन् सुखिताः प्रविशेमहि।।2.86.22।। Ayodhya Kanda,86,23,परिदेवयमानस्य तस्यैवं सुमहात्मनः। तिष्ठतो राजपुत्रस्य शर्वरी साऽत्यवर्तत।।2.86.23।। Ayodhya Kanda,86,24,प्रभाते विमले सूर्ये कारयित्वा जटा उभौ। अस्मिन् भागीरथीतीरे सुखं सन्तारितौ मया।।2.86.24।। Ayodhya Kanda,86,25,जटाधरौ तौ द्रुमचीरवाससौ महाबलौ कुञ्जरयूथपोपमौ। वरेषुचापासिधरौ परन्तपौ व्यपेक्षमाणौ सह सीतया गतौ।।2.86.25।। Ayodhya Kanda,87,1,गुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम्। ध्यानं जगाम तत्रैव यत्र तच्छ्रुतमप्रियम्।।2.87.1।। Ayodhya Kanda,87,2,सुकुमारो महासत्त्वस्सिंहस्कन्धो महाभुजः। पुण्डरीकविशालाक्ष स्तरुणः प्रियदर्शनः।।2.87.2।। Ayodhya Kanda,87,3,प्रत्याश्वस्य मुहूर्तं तु कालं परमदुर्मनाः। पपात सहसा तोत्रैर्ह्यतिविद्ध इव द्विपः।।2.87.3।। Ayodhya Kanda,87,4,तदवस्थं तु भरतं शत्रुघ्नोऽनन्तरस्थितः। परिष्वज्य रुरोदोच्चैर्विसंज्ञश्शोककर्शितः।।2.87.4।। Ayodhya Kanda,87,5,ततस्सर्वास्समापेतुर्मातरो भरतस्य ताः। उपवासकृशा दीना भर्तृव्यसनकर्शिताः।।2.87.5।। Ayodhya Kanda,87,6,ताश्च तं पतितं भूमौ रुदन्त्यः पर्यवारयन्। कौसल्या त्वनुसृत्यैनं दुर्मनाः परिषस्वजे।।2.87.6।। Ayodhya Kanda,87,7,वत्सला स्वं यथा वत्समुपगूह्य तपस्विनी। परिपप्रच्छ भरतं रुदन्ती शोकलालसा।।2.87.7।। Ayodhya Kanda,87,8,पुत्र व्याधिर्न ते कच्चिच्छरीरं परिबाधते। अद्य राजकुलस्यास्य त्वदधीनं हि जीवितम्।।2.87.8।। Ayodhya Kanda,87,9,त्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृकेगते। वृत्ते दशरथे राज्ञि नाथ एकस्त्वमद्य नः।।2.87.9।। Ayodhya Kanda,87,10,कच्चिन्न लक्ष्मणे पुत्र श्रुतं ते किंचदप्रियम्। पुत्रे वाऽप्येकपुत्राया स्सहभार्ये वनं गते।।2.87.10।। Ayodhya Kanda,87,11,स मुहूर्तं समाश्वस्य रुदन्नेव महायशाः। कौसल्यां परिसान्त्वेद्यं गुहं वचनमब्रवीत्।।2.87.11।। Ayodhya Kanda,87,12,भ्राता मे क्वावसद्रात्रौ क्व सीता क्व च लक्ष्मणः। अस्वपच्छयने कस्मिन् किं भुक्त्वा गुह शंस मे।।2.87.12।। Ayodhya Kanda,87,13,सोऽब्रवीद्भरतं हृष्टो निषादाधिपतिर्गुहः। यद्विधं प्रतिपेदे च रामे प्रियहितेऽतिथौ।।2.87.13।। Ayodhya Kanda,87,14,अन्नमुच्चावचं भक्षाः फलानि विविधानि च। रामायाभ्यवहारार्थं बहुचोपहृतं मया।।2.87.14।। Ayodhya Kanda,87,15,तत्सर्वं प्रत्यनुज्ञासीद्राम स्सत्यपराक्रमः। न तु तत्प्रत्यगृह्णात्स क्षत्रधर्ममनुस्मरन्।।2.87.15।। Ayodhya Kanda,87,16,न ह्यस्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा। इति तेन वयं राजन्ननुनीता महात्मना।।2.87.16।। Ayodhya Kanda,87,17,लक्ष्मणेन समानीतं पीत्वा वारि महायशाः। औपवास्यं तदाऽकार्षीद्राघवस्सह सीतया।।2.87.17।। Ayodhya Kanda,87,18,ततस्तु जलशेषेण लक्ष्मणोऽप्यकरोत्तदा। वाग्यतास्ते त्रय स्सन्ध्यां समुपासत संहिताः।।2.87.18।। Ayodhya Kanda,87,19,सौमित्रिस्तु ततः पश्चादकरोत्स्वास्तरं शुभम्। स्वयमानीय बर्हींषि क्षिप्रं राघवकारणात्।।2.87.19।। Ayodhya Kanda,87,20,तस्मिन्समाविशद्राम स्स्वास्तरे सह सीतया। प्रक्षाल्य च तयोः पादावपचक्राम लक्ष्मणः।।2.87.20।। Ayodhya Kanda,87,21,एतत्तदिङ्गुदीमूलमिदमेव च तत्तृणम्। यस्मिन्रामश्च सीता च रात्रिं तां शयितावुभौ।।2.87.21।। Ayodhya Kanda,87,22,नियम्य पृष्ठे तु तलाङ्गुलित्रवान् शरैस्सुपूर्णाविषुधी परन्तपः। महाद्धनु स्सज्यमुपोह्य लक्ष्मणो निशामतिष्ठत्परितोऽस्य केवलम्।।2.87.22।। Ayodhya Kanda,87,23,तत स्त्वहंचोत्तमबाणचापधृत् स्थितोऽभवं तत्र स यत्र लक्ष्मणः। अतन्द्रितैर्ज्ञातिभिरात्तकार्मुकैर्महेन्द्रकल्पं परिपालयंस्तदा।।2.87.23।। Ayodhya Kanda,88,1,तच्छ्रुत्वा निपुणं सर्वं भरत स्सह मन्त्रिभिः। इङ्गुदीमूलमागम्य रामशय्यामवेक्ष्य ताम्।।2.88.1।। Ayodhya Kanda,88,2,अब्रवीज्जननी स्सर्वा इह तेन महात्मना। शर्वरी शयिता भूमाविदमस्य विमर्दितम्।।2.88.2।। Ayodhya Kanda,88,3,महाभागकुलीनेन महाभागेन धीमता। जातो दशरथेनोर्व्यां न रामस्स्वप्तु मर्हति।।2.88.3।। Ayodhya Kanda,88,4,अजिनोत्तरसंस्तीर्णे वरास्तरणसंचये। शयित्वा पुरुषव्याघ्रः कथं शेते महीतले।।2.88.4।। Ayodhya Kanda,88,5,प्रासादाग्रविमानेषु वलभीषु च सर्वदा। हैमराजतभौमेषु वरास्तरणशालिषु।।2.88.5।। Ayodhya Kanda,88,6,पुष्पसञ्चयचित्रेषु चन्दनागरुगन्धिषु। पाण्डुराभ्रप्रकाशेषु शुकसङ्घरूतेषुच।।2.88.6।। Ayodhya Kanda,88,7,प्रासादवरवर्येषु शीतवत्सु सुगन्धिषु। उषित्वामेरुकल्पेषु कृतकाञ्चन भित्तिषु।।2.88.7।। Ayodhya Kanda,88,8,गीतवादित्रनिर्घोषैर्वराभरणनिस्स्वनैः। मृदङ्गवरशब्दैश्च सततं प्रतिबोधितः।।2.88.8।। Ayodhya Kanda,88,9,वन्दिभिर्वन्दितः काले बहुभि स्सूतमागधैः। गाथाभिरनुरूपाभि स्स्तुतिभिश्च परन्तपः।।2.88.9।। Ayodhya Kanda,88,10,अश्रद्धेयमिदं लोके न सत्यं प्रतिभाति मा। मुह्यते खलु मे भाव स्स्वप्नोऽयमिति मे मतिः।।2.88.10।। Ayodhya Kanda,88,11,न नूनं दैवतं किंचित्कालेन बलवत्तरम्। यत्र दाशरथी रामो भूमावेव शयीत सः।।2.88.11।। Ayodhya Kanda,88,12,विदेहराजस्य सुता सीता च प्रियदर्शना। दयिता शयिता भूमौ स्नुषा दशरथस्य च।।2.88.12।। Ayodhya Kanda,88,13,इयं शय्या मम भ्रातुरिदं हि परिवर्तितम्। स्थण्डिले कठिने सर्वं गात्रै र्विमृदितं तृणम्।।2.88.13।। Ayodhya Kanda,88,14,मन्ये साभरणा सुप्ता सीताऽस्मिञ्छयनोत्तमे। तत्र तत्र हि दृश्यन्ते सक्ताः कनकबिन्दवः।।2.88.14।। Ayodhya Kanda,88,15,उत्तरीयमिहाऽसक्तं सुव्यक्तं सीतया तदा। तथा ह्येते प्रकाशन्ते सक्ताः कौशेयतन्तवः।।2.88.15।। Ayodhya Kanda,88,16,मन्ये भर्तु स्सुखा शय्या येन बाला तपस्विनी। सुकुमारी सती दुःखं न हि विजानाति मैथिली।।2.88.16।। Ayodhya Kanda,88,17,हा हन्ताऽस्मि नृशंसोऽहं यत्सभार्यः कृते मम। ईदृशीं राघवश्शय्यामधिशेते ह्यनाथवत्।।2.88.17।। Ayodhya Kanda,88,18,सार्वभौमकुले जात स्सर्वलोकस्य सम्मतः। सर्वलोकप्रियस्त्यक्त्वा राज्यं सुखमनुत्तम्।।2.88.18।। Ayodhya Kanda,88,19,कथमिन्दीवरश्यामो रक्ताक्षः प्रियदर्शनः। सुखभागी न दुःखार्ह श्शयितो भुवि राघवः।।2.88.19।। Ayodhya Kanda,88,20,धन्यः खलु महाभागो लक्ष्मण श्शुभलक्षणः। भ्रातरं विषमे काले यो राममनुवर्तते।।2.88.20।। Ayodhya Kanda,88,21,सिद्धार्था खलु वैदेही पतिं याऽनुगता वनम्। वयं संशयिता स्सर्वे हीनास्तेन महात्मना।।2.88.21।। Ayodhya Kanda,88,22,आकर्णधारा पृथिवी नौः इव प्रतिभाति मा। गते दशरथे स्वर्गं रामे चारण्यमाश्रिते।।2.88.22।। Ayodhya Kanda,88,23,न च प्रार्थयते कच्चिन्मनसापि वसुन्धराम्। वनेऽपि वसतस्तस्य बाहुवीर्याभिरक्षिताम्।।2.88.23।। Ayodhya Kanda,88,24,शून्यसंवरणारक्षामयन्त्रितहयद्विपाम्। अपावृतपुरद्वारां राजधानीमरक्षिताम्।।2.88.24।। Ayodhya Kanda,88,25,अप्रहृष्टबलां शून्यां विषमस्थामनावृताम्। शत्रवो नाभिमन्यन्ते भक्षान्विषकृतानिव।।2.88.25।। Ayodhya Kanda,88,26,अद्यप्रभृति भूमौ तु शयिष्येऽहं तृणेषु वा। फलमूलाशनो नित्यं जटाचीराणि धारयन्।।2.88.26।। Ayodhya Kanda,88,27,तस्यार्थमुत्तरं कालं निवत्स्यामि सुखं वने। तं प्रतिश्रवमामुच्य नास्य मिथ्या भविष्यति।।2.88.27।। Ayodhya Kanda,88,28,वसन्तं भ्रातुरर्थाय शत्रुघ्नो माऽनुवत्स्यति। लक्ष्मणेन सहत्वार्यो ह्ययोध्यां पालयिष्यति।।2.88.28।। Ayodhya Kanda,88,29,अभिषेक्ष्यन्ति काकुत्स्थमयोध्यायां द्विजातयः। अपि मे देवताः कुर्युरिमं सत्यं मनोरथम्।।2.88.29।। Ayodhya Kanda,88,30,प्रसाद्यमान श्शिरसा मया स्वयं बहुप्रकारं यदि नाभिपत्स्यते। ततोऽनुवत्स्यामि चिराय राघवम् वनेचरन्नार्हति मामुपेक्षितुम्।।2.88.30।। Ayodhya Kanda,89,1,उष्य रात्रिं तु तत्रैव गङ्गाकूले स राघवः। भरतः काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत्।।2.89.1।। Ayodhya Kanda,89,2,शत्रुघ्नोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम्। शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम्।।2.89.2।। Ayodhya Kanda,89,3,जागर्मि नाहं स्वपिमि तमेवाऽर्यं विचिन्तयन्। इत्येवमब्रवीद्भ्रात्ता शत्रुघ्नोऽपि प्रचोदितः।।2.89.3।। Ayodhya Kanda,89,4,इति संवदतोरेवमन्योन्यं नरसिंहयोः। आगम्य प्राञ्जलिः काले गुहो भरतमब्रवीत्।।2.89.4।। Ayodhya Kanda,89,5,कच्चित्सुखं नदीतीरेऽवात्सीः काकुत्स्थ शर्वरीम्। कच्चित्ते सह सैन्यस्य तावत्सर्वमनामयम्।।2.89.5।। Ayodhya Kanda,89,6,गुहस्य वचनं श्रुत्वा तत्तु स्नेहादुदीरितम्। रामस्यानुवशो वाक्यं भरतोऽपीदमब्रवीत्।।2.89.6।। Ayodhya Kanda,89,7,सुखा न श्शर्वरी राजन् पूजिताश्चापि ते वयम्। गङ्गां तु नौभिर्बह्वीभिर्दाशास्सन्तारयन्तु नः।।2.89.7।। Ayodhya Kanda,89,8,ततो गुह स्सन्त्वरितं श्रुत्वा भरतशासनम्। प्रति प्रविश्य नगरं तं ज्ञातिजनमब्रवीत्।।2.89.8।। Ayodhya Kanda,89,9,उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु च वस्सदा। नाव स्समनुकर्षध्वं तारयिष्याम वाहिनीम्।।2.89.9।। Ayodhya Kanda,89,10,ते तथोक्ता स्समुत्थाय त्वरिता राजशासनात्। पञ्चनावां शतान्याशु समानिन्युस्समन्ततः।।2.89.10।। Ayodhya Kanda,89,11,अन्या स्स्वस्तिकविज्ञेया महाघंटाधरा वराः। शोभमानाः पताकाभिर्युक्तवातास्सुसंहताः।।2.89.11।। Ayodhya Kanda,89,12,तत स्स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम्। सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत्।।2.89.12।। Ayodhya Kanda,89,13,तामारुरोह भरतश्शत्रुघ्नश्च महाबलः। कौसल्या च सुमित्रा च याश्चान्या राजयोषितः।।2.89.13।। Ayodhya Kanda,89,14,पुरोहितश्च तत्पूर्वं गुरवो ब्राह्मणाश्च ये। अनन्तरं राजदारास्तदैव शकटापणाः।।2.89.14।। Ayodhya Kanda,89,15,आवासमादीपयतां तीर्थं चाप्यवगाहताम्। भाण्डानि चाददानानां घोषस्त्रिदिवमस्पृशत्।।2.89.15।। Ayodhya Kanda,89,16,पताकिन्यस्तु ता नावस्स्वयं दाशैरधिष्ठिताः। वहन्त्यो जनमारूढं तदा सम्पेतुराशुगाः।।2.89.16।। Ayodhya Kanda,89,17,नारीणामभिपूर्णा स्तु काश्चित् काश्चिच्च वाजिनाम्। काश्चिदत्र वहन्ति स्म यानयुग्यं महाधनम्।।2.89.17।। Ayodhya Kanda,89,18,ता स्स्म गत्वा परं तीरमवरोप्य च तं जनम्। निवृत्ताः काण्डचित्राणि क्रियन्ते दाशबन्धुभिः।।2.89.18।। Ayodhya Kanda,89,19,सवैजयन्तास्तु गजा गजारोहप्रचोदिताः। तरन्त स्स्म प्रकाशन्ते सध्वजा इव पर्वताः।।2.89.19।। Ayodhya Kanda,89,20,नावस्त्वारुरुहुश्चान्ये प्लवैस्तेरु स्तथापरे। अन्ये कुम्भघटैस्तेरुरन्येतेरुश्च बाहुभिः।।2.89.20।। Ayodhya Kanda,89,21,सा पुण्या ध्वजिनी गङ्गां दाशैस्सन्तारिता स्वयम्। मैत्रे मुहूर्ते प्रययौ प्रयागवनमुत्तमम्।।2.89.21।। Ayodhya Kanda,89,22,आश्वासयित्वा च चमूं महात्मा निवेशयित्वा च यथोपजोषम्। द्रष्टुं भरद्वाजमृषिप्रवर्य मृत्विग्वृतस्सन्भरतः प्रतस्थे।।2.89.22।। Ayodhya Kanda,90,1,भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभः। बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभिः।।2.90.1।। Ayodhya Kanda,90,2,पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छदः। वसानो वाससी क्षौमे पुरोधाय पुरोधसम्।।2.90.2।। Ayodhya Kanda,90,3,तत स्सन्दर्शने तस्य भरद्वाजस्य राघवः। मन्त्रिणस्तानवस्थाप्य जगामानुपुरोहितम्।।2.90.3।। Ayodhya Kanda,90,4,वसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपाः। सञ्चचाऽलासनात्तूर्णं शिष्यानर्घ्यमिति ब्रुवन्।।2.90.4।। Ayodhya Kanda,90,5,समागम्य वसिष्ठेन भरतेनाभिवादितः। अबुद्ध्यत महातेजास्सुतं दशरथस्य तम्।।2.90.5।। Ayodhya Kanda,90,6,ताभ्यामर्घ्यं च पाद्यं च दत्वा पश्चात्फलानि च। आनुपूर्व्याच्छ धर्मज्ञः पप्रच्छ कुशलं कुले।।2.90.6।। Ayodhya Kanda,90,7,अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु। जानन् दशरथं वृत्तं न राजानमुदाहरत्।।2.90.7।। Ayodhya Kanda,90,8,वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम्। शरीरेऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु।।2.90.8।। Ayodhya Kanda,90,9,तथेति तत्प्रतिज्ञाय भरद्वाजो महातपाः। भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात्।।2.90.9।। Ayodhya Kanda,90,10,किमिहाऽगमने कार्यं तव राज्यं प्रशासतः। एतदाचक्ष्व मे सर्वं न हि मे शुद्ध्यते मनः।।2.90.10।। Ayodhya Kanda,90,11,सुषुवे यममित्रघ्नं कौसल्यानऽन्दवर्धनम्। भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम्।।2.90.11।। Ayodhya Kanda,90,12,नियुक्तः स्त्रीनियुक्तेन पित्रा योऽसौ महायशाः। वनवासी भवेतीह समाः किल चतुर्दश।।2.90.12।। Ayodhya Kanda,90,13,कच्छिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि। अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च।।2.90.13।। Ayodhya Kanda,90,14,एवमुक्तो भरद्वाजं भरतः प्रत्युवाच ह। पर्यश्रुनयनो दुःखाद्वाचा संसज्जमानया।।2.90.14।। Ayodhya Kanda,90,15,हतोऽस्मि यदि मामेवं भगवानपि मन्यते। मत्तो न दोषमाशङ्के नैवं मामनुशास्तु हि।2.90.15।। Ayodhya Kanda,90,16,न चैतदिष्टं माता मे यदवोचन्मदन्तरे। नाहमेतेन तुष्टश्च न तद्वचनमाददे।।2.90.16।। Ayodhya Kanda,90,17,अहं तु तं नरव्याघ्रमुपयातः प्रसादकः। प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम्।।2.90.17।। Ayodhya Kanda,90,18,त्वं मामेवंगतं मत्वा प्रसादं कर्तुमर्हसि। शंस मे भगवन्रामः क्व सम्प्रति महीपतिः।।2.90.18।। Ayodhya Kanda,90,19,वशिष्ठादिभिः ऋत्विग्भिर्याचितो भगवांस्ततः। उवाच तं भरद्वाजः प्रसादाद्भरतं वचः।2.90.19।। Ayodhya Kanda,90,20,त्वय्येतत्पुरुषव्याघ्र युक्तं राघववंशजे। गुरुवृत्तिर्दमश्चैव साधूनामनुयायिता।।2.90.20।। Ayodhya Kanda,90,21,जाने चैतन्मनस्थं ते दृढीकरणमस्त्विति। अपृच्छं त्वां तथाऽत्यर्थं कीर्तिं समभिवर्धयन्।।2.90.21।। Ayodhya Kanda,90,22,जाने च रामं धर्मज्ञं ससीतं सहलक्ष्मणम्। असौ वसति ते भ्राता चित्रकूटे महागिरौ।।2.90.22।। Ayodhya Kanda,90,23,श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभिः। एतन्मे कुरु सुप्राज्ञ कामं कामार्थकोविद।।2.90.23।। Ayodhya Kanda,90,24,ततस्तथेत्येवमुदारदर्शनः प्रतीतरूपो भरतोऽब्रवीद्वचः। चकार बुद्धिं च तदा तदाश्रमे निशानिवासाय नराधिपाऽत्मजः।।2.90.24।। Ayodhya Kanda,91,1,कृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा। भरतं कैकयीपुत्रमातिथ्येनन्यमन्त्रयत्।।2.91.1।। Ayodhya Kanda,91,2,अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम्। पाद्यमर्घ्यं तथाऽतिथ्यं वने यदुपपद्यते।।2.91.2।। Ayodhya Kanda,91,3,अथोवाच भरद्वाजो भरतं प्रहसन्निव। जाने त्वां प्रीतिसंयुक्तं तुष्येस्त्वं येन केनचित्।।2.91.3।। Ayodhya Kanda,91,4,सेनायास्तु तवैतस्याः कर्तुमिच्छामि भोजनम्। मम प्रीतिर्यथारूपा तथार्हो मनुजर्षभ।।2.91.4।। Ayodhya Kanda,91,5,किमर्थं चापि निक्षिप्य दूरे बलमिहागतः। कस्मान्नेहोपयातोऽसि सबलः पुरुषर्षभः।।2.91.5।। Ayodhya Kanda,91,6,भरतः प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम्। ससैन्यो नोपयातोऽस्मि भगवन्भगवद्भयात्।।2.91.6।। Ayodhya Kanda,91,7,राज्ञा च भगवन्नित्यं राजपुत्रेण वा सदा। यत्नतः परिहर्तव्या विषयेषु तपस्विनः।।2.91.7।। Ayodhya Kanda,91,8,वाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणाः। प्रच्छाद्य भगवन्भूमिं महतीमनुयान्ति माम्।।2.91.8।। Ayodhya Kanda,91,9,ते वृक्षानुदकं भूमिमाश्रमेषूटजां स्तथा। न हिंस्युरिति तेनाऽहमेक एव समागतः।।2.91.9।। Ayodhya Kanda,91,10,आनीयतामितस्सेनेत्याज्ञप्तः परमर्षिणा। ततस्तु चक्रे भरतस्सेनायास्समुपागमम्।।2.91.10।। Ayodhya Kanda,91,11,अग्निशालां प्रविश्याथ पीत्वाऽपः परिमृज्य च। आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत्।।2.91.11।। Ayodhya Kanda,91,12,आह्वये विश्वकर्माणमहं त्वष्टारमेव च। आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम्।।2.91.12।। Ayodhya Kanda,91,13,आह्वये लोकपालांस्त्रीन् देवान् शक्रमुखांस्तथा। आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम्।।2.91.13।। Ayodhya Kanda,91,14,प्राक्स्रोतसश्च या नद्यः प्रत्यक्स्रोतस एव च। पृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वशः।।2.91.14।। Ayodhya Kanda,91,15,अन्या स्रवन्तु मैरेयं सुरामन्यास्सुविष्ठिताम्। अपरा श्चोदकं शीतमिक्षुकाण्डरसोपमम्।।2.91.15।। Ayodhya Kanda,91,16,आह्वये देवगन्धर्वान्विश्वावसुहहाहुहून्। तथैवाप्सरसो देवीर्गन्धर्वीश्चापि सर्वशः।।2.91.16।। Ayodhya Kanda,91,17,घृताचीमथ विश्वाचीं मिश्रकेशीमलंबुसाम्। नागदन्तां च हेमां च हिमामद्रिकृतस्थलाम्।।2.91.17।। Ayodhya Kanda,91,18,शक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च योषितः। सर्वास्तुम्बुरुणा सार्धमाह्वये सपरिच्छदाः।।2.91.18।। Ayodhya Kanda,91,19,वनं कुरुषु यद्दिव्यं वासोभूषणपत्रवत्। दिव्यनारीफलं शश्वत्तत्कौबेरमिहैतु च।।2.91.19।। Ayodhya Kanda,91,20,इह मे भगवान् सोमो विधत्तामन्नमुत्तमम्। भक्ष्यंभोज्यं च चोष्यं च लेह्यं च विविधं बहु।।2.91.20।। Ayodhya Kanda,91,21,विचित्राणि च माल्यानि पादपप्रच्युतानि च। सुरादीनि च पेयानि मांसानि विविधानि च।।2.91.21।। Ayodhya Kanda,91,22,एवं समाधिना युक्तस्तेजसाऽप्रतिमेन च। शीक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनिः।।2.91.22।। Ayodhya Kanda,91,23,मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जलेः। आजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक्।।2.91.23।। Ayodhya Kanda,91,24,मलयं दर्दुरं चैव ततस्स्वेदनुदोऽनिलः। उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखश्शिवः।।2.91.24।। Ayodhya Kanda,91,25,ततोऽभ्यवर्षन्त घना दिव्याः कुसुमवृष्टयः। दिव्यदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे।।2.91.25।। Ayodhya Kanda,91,26,प्रववुश्चोत्तमा वाता ननृतुश्चाप्सरोगणाः। जगुश्च देवगन्धर्वा वीणाः प्रमुमुचुस्स्वरान्।।2.91.26।। Ayodhya Kanda,91,27,स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च। विवेशोच्चरितश्श्लक्ष्णस्समो लयसमन्वितः।।2.91.27।। Ayodhya Kanda,91,28,तस्मिन्नुपरते शब्दे दिव्ये श्रोत्र सुखे नृणाम्। ददर्श भारतं सैन्यं विधानं विश्वकर्मणः।।2.91.28।। Ayodhya Kanda,91,29,बभूव हि समा भूमिस्समन्तात्पञ्चयोजना। शाद्वलैर्भहुभिश्चन्ना नीलवैढूर्यसन्निभैः।।2.91.29।। Ayodhya Kanda,91,30,तस्मिन्बिल्वाः कपित्थाश्च पनसा बीजपूरकाः। आमलक्यो बभूवुश्च चूताश्च फलभूषणाः।।2.91.30।। Ayodhya Kanda,91,31,उत्तरेभ्यः कुरुभ्यश्च वनं दिव्योपभोगवत्। आजगाम नदी दिव्या तीरजैर्भहुभिर्वृता।।2.91.31।। Ayodhya Kanda,91,32,चतुश्शालानि शुभ्राणि शालाश्च गजवाजिनाम्। हर्म्यप्रासादसम्बाधास्तोरणानि शुभानि च।।2.91.32।। Ayodhya Kanda,91,33,सितमेघनिभं चापि राजवेश्म सुतोरणम्। दिव्यमाल्यकृताकारं दिव्यगन्धसमुक्षितम्।।2.91.33।। Ayodhya Kanda,91,34,चतुरश्रमसंबाधं शयनासनयानवत्। दिव्यैस्सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत्।।2.91.34।। Ayodhya Kanda,91,35,उपकल्पितसर्वान्नं धौतनिर्मलभाजनम्। क्लुप्तसर्वासनं श्रीमत्स्वास्तीर्णशयनोत्तमम्।।2.91.35।। Ayodhya Kanda,91,36,प्रविवेश महाबाहुरनुज्ञातो महर्षिणा। वेश्म तद्रत्नसम्पूर्णं भरतः कैकयीसुतः।।2.91.36।। Ayodhya Kanda,91,37,अनुजग्मुश्च तं सर्वे मन्त्रिणस्सपुरोहिताः। बभूवुश्च मुदा युक्ता दृष्ट्वा तं वेश्मसंविधिम्।।2.91.37।। Ayodhya Kanda,91,38,तत्र राजासनं दिव्यं व्यजनं छत्रमेव च। भरतो मन्त्रिभिस्सार्धमभ्यवर्तत राजवत्।।2.91.38।। Ayodhya Kanda,91,39,आसनं पूजयामास रामायाभिप्रणम्य च। वालव्यजनमादाय न्यषीदत्सचिवासने।।2.91.39।। Ayodhya Kanda,91,40,आनुपूर्व्यान्निषेदुश्च सर्वे मन्त्रिपुरोहिताः। ततस्सेनापतिः पश्चात्प्रशास्ताच निषेदतुः।।2.91.40।। Ayodhya Kanda,91,41,तत स्तत्र मुहूर्तेन नद्यः पायसकर्दमाः। उपातिष्ठन्त भरतं भरद्वाजस्य शासनात्।।2.91.41।। Ayodhya Kanda,91,42,तासामुभयतः कूलं पाण्डुमृत्तिकलेपनाः। रम्याश्चावसधा दिव्या ब्रह्मणस्तु प्रसादजा:।।2.91.42।। Ayodhya Kanda,91,43,तेनैव च मूहूर्तेन दिव्याऽभरणभूषिताः। आगुर्विंशतिसाहस्राः ब्रह्मणा प्रहिताः स्त्रियः।।2.91.43।। Ayodhya Kanda,91,44,सुवर्णमणिमुक्तेन प्रवालेन च शोभिताः। आगुर्विंशतिसाहास्राः कुबेरप्रहिताः स्त्रियः।।2.91.44।। Ayodhya Kanda,91,45,याभिर्गृहीतः पुरुषस्सोन्माद इव लक्ष्यते। आगुर्विंशतिसाहस्रा नन्दनादप्सरोगणाः।।2.91.45।। Ayodhya Kanda,91,46,नारदस्तुम्भुरुर्गोपः प्रवरास्सूर्यवर्चसः। एते गन्धर्वराजानो भरतस्याग्रतो जगुः।।2.91.46।। Ayodhya Kanda,91,47,अलम्बुसा मिश्रकेशी पुण्डरीकाऽथ वामना। उपानृत्यंस्तु भरतं भरद्वाजस्य शासनात्।।2.91.47।। Ayodhya Kanda,91,48,यानि माल्यानि देवेषु यानि चैत्ररथे वने। प्रयागे तान्यदृश्यन्त भरद्वाजस्य शासनात्।।2.91.48।। Ayodhya Kanda,91,49,बिल्वा मार्दङ्गिका आसन् शम्याग्राहा विभीतकाः। अश्वत्था नर्तकाश्चासन्भरद्वाजस्य शासनात्।।2.91.49।। Ayodhya Kanda,91,50,ततस्सरलतालाश्च तिलका नक्तमालकाः। प्रहृष्टास्तत्र सम्पेतुः कुब्जा भूत्वाऽथ वामनाः।।2.91.50।। Ayodhya Kanda,91,51,शिंशुपामलकीजम्ब्वो याश्चान्याः काननेषु ताः मालती मल्लिका जातिर्याश्चान्याः कानने लताः। प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमेऽवदन्।।2.91.51।। Ayodhya Kanda,91,52,सुरास्सुरापाः पिबत पायसं च बुभुक्षिताः।।2.91.52।। Ayodhya Kanda,91,53,मांसानि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ।।2.91.53।। Ayodhya Kanda,91,54,उच्छाद्य स्नापयन्ति स्म नदीतीरेष वल्गुषु। अप्येकमेकं पुरषं प्रमदास्सप्त चाष्ट च।।2.91.54।। Ayodhya Kanda,91,55,संवाहन्त्यस्समापेतुर्नार्यो रुचिरलोचनाः। परिमृज्य तथाऽन्योन्यं पाययन्ति वराङ्गनाः।।2.91.55।। Ayodhya Kanda,91,56,हयान् गजान् खारानुष्ट्रान्तथैव सुरभेस्सुतान्। अभोजयन्वाहनपास्तेषां भोज्यं यथाविधि।।2.91.56।। Ayodhya Kanda,91,57,इक्षूंश्च मधुलाजांश्च भोजयन्ति स्म वाहनान्। इक्ष्वाकुवरयोधानां चोदयन्तो महाबला:।।2.91.57।। Ayodhya Kanda,91,58,नाश्वबन्धोऽश्वमाजानान्नगजं कुञ्जरग्रहः। मत्तप्रमत्तमुदिता चमूः सा तत्र संबभौ।।2.91.58।। Ayodhya Kanda,91,59,तर्पितास्सर्वकामैस्ते रक्तचन्दनरूषिताः। अप्सरोगणसंयुक्तास्सैन्या वाचमुदैरयन्।।2.91.59।। Ayodhya Kanda,91,60,नैवायोध्यां गमिष्यामो नगमिष्याम दण्डकान्। कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम्।।2.91.60।। Ayodhya Kanda,91,61,इति पादातयोधाश्च हस्त्यश्वारोहबन्धकाः। अनाथास्तं विधिं लब्ध्वा वाचमेतामुदीरयन्।।2.91.61।। Ayodhya Kanda,91,62,संम्प्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रशः। भरतस्यानुयातारस्स्वर्गोऽयमिति चाब्रुवन्।।2.91.62।। Ayodhya Kanda,91,63,नृत्यन्ति स्म हसन्ति स्म गायन्ति स्म च सैनिकाः समन्तात्परिधावन्ति माल्योपेतास्सहस्रशः।।2.91.63।। Ayodhya Kanda,91,64,ततो भुक्तवतां तेषां तदन्नममृतोपमम्। दिव्यानुद्वीक्ष्य भक्ष्यां स्तानभवद्भक्षणे मतिः।।2.91.64।। Ayodhya Kanda,91,65,प्रेष्याश्चेट्यश्च वध्वश्च बलस्थाश्च सहस्रशः। बभूवुस्ते भृशं दृप्तास्सर्वे चाहतवाससः।।2.91.65।। Ayodhya Kanda,91,66,कुञ्जराश्च खरोष्ट्राश्च गोऽश्वाश्च मृगपक्षिणः। बभूवुस्सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत्।।2.91.66।। Ayodhya Kanda,91,67,नाऽशुक्लवासा स्तत्राऽसीत्क्षुधितो मलिनोऽपि वा। रजसा ध्वस्तकेशो वा नरः कश्चिददृश्यत।।2.91.67।। Ayodhya Kanda,91,68,आजैश्चापि च वाराहैर्निष्ठानवरस़ञ्चयैः। फलनिर्यूह संसिद्दैस्सूपैर्गन्ध रसान्वितैः।।2.91.68।। Ayodhya Kanda,91,69,पुष्पध्वजवतीः पूर्णाश्शुक्लस्यान्नस्य चाभितः। ददृशुर्विस्मितास्तत्रनरा लौहीस्सहस्रशः।।2.91.69।। Ayodhya Kanda,91,70,बभूवुर्वनपार्श्वेषु कूपाः पायसकर्दमाः। ताश्चकामदुघा गावो द्रुमाश्चासन्मधुश्च्युतः।।2.91.70।। Ayodhya Kanda,91,71,वाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृताः। प्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटैः।।2.91.71।। Ayodhya Kanda,91,72,पात्रीणां च सहस्राणि स्थालीनां नियुतानि च। न्यर्बुधानि च पात्राणि शातकुम्भमयानि च।।2.91.72।। Ayodhya Kanda,91,73,स्थाल्यः कुम्भ्य करम्भ्य श्च दधिपूर्णास्सुसंस्कृताः। यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः।।2.91.73।। Ayodhya Kanda,91,74,ह्रदाः पूर्णा रसालस्य दध्नश्श्वेतस्य चापरे। बभूवुः पायसस्यान्ये शर्करायावसञ्चयाः।।2.91.74।। Ayodhya Kanda,91,75,कल्कान्चूर्णकषायांश्च स्नानानि विविधानि च। ददृशुर्भाजनस्थानि तीर्थेषु सरतां नराः।।2.91.75।। Ayodhya Kanda,91,76,शुक्लानंशुमतश्चापि दन्तधावनसञ्चयान्। शुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठतः।।2.91.76।। Ayodhya Kanda,91,77,दर्पणापरिमृष्टांश्च वाससां चापि सञ्चयान्। पादुकोपानहां चैव युग्मानिच सहस्रशः।।2.91.77।। Ayodhya Kanda,91,78,आञ्जनीः कङ्कतान्कूर्चान् शस्त्राणि च धनूंषि च। मर्मत्राणानि चित्राणि शयनान्यासनानि च।।2.91.78।। Ayodhya Kanda,91,80,प्रतिपानह्रदान्पूर्णन्खरोष्ट्रगजवाजिनाम्। अवगाह्यसुतीर्थांश्चह्रदान् सोत्पलपुष्करान्।2.91.79।। आकाश वर्णप्रतिमान् स्वच्छतोयान्सुखप्लवान्। नीपवैडूर्यवर्णांश्च मृदून्यवससञ्चयान्। निर्वापार्थान् पशूनां ते ददृशुस्तत्र सर्वशः।।2.91.80।। Ayodhya Kanda,91,81,व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम्। दृष्ट्वाऽतिथ्यं कृतं तादृग्भरतस्य महर्षिणा।।2.91.81।। Ayodhya Kanda,91,82,इत्येवं रममाणानां देवानामिव नन्दने। भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्तत।।2.91.82।। Ayodhya Kanda,91,83,प्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम्। भरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गनाः।।2.91.83।। Ayodhya Kanda,92,1,ततस्तां रजनीमुष्य भरतस्सपरिच्छदः। कृतातिथ्यो भरद्वाजं कामादभिजगाम ह।।2.92.1।। Ayodhya Kanda,92,2,तं ऋषिः पुरुषव्याघ्रं प्राञ्जलिं प्रेक्ष्य चाऽगतम्। हुताग्निहोत्रो भरतं भरद्वाजोऽभ्यभाषत।।2.92.2।। Ayodhya Kanda,92,3,कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता। समग्रस्ते जनः कच्चिदातिथ्ये शंस मेऽनघ।।2.92.3।। Ayodhya Kanda,92,4,तमुवाचाञ्जलिं कृत्वा भरतोऽभिप्रणम्य च। आश्रमादभिनिष्क्रान्तमृषिमुत्तमतेजसम्।।2.92.4।। Ayodhya Kanda,92,5,ससुखोषितोऽस्मि भगवन्समग्रबलवाहनः। तर्पितस्सर्वकामैश्च सामात्यो बलवत्त्वया।।2.92.5।। Ayodhya Kanda,92,6,अपेतक्लमसन्तापा स्सुभिक्षास्सुप्रतिश्रयाः। अपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिताः।।2.92.6।। Ayodhya Kanda,92,7,आमन्त्रयेऽहं भगवन् कामं त्वामृषिसत्तमः। समीपं प्रस्थितं भ्रातुर्मैत्रेणेक्षस्व चक्षुषा।।2.92.7।। Ayodhya Kanda,92,8,आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मनः। आचक्ष्व कतमो मार्गः कियानिति च शंस मे।।2.92.8।। Ayodhya Kanda,92,9,इति पृष्टस्तु भरतं भ्रातृदर्शनलालसम्। प्रत्युवाच महातेजा भरद्वाजो महातपाः।।2.92.9।। Ayodhya Kanda,92,10,भरतार्धतृतीयेषु योजनेष्वजने वने। चित्रकूटो गिरिस्तत्र रम्यनिर्झरकाननः।।2.92.10।। Ayodhya Kanda,92,11,उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी। पुष्पितद्रुमसञ्छन्ना रम्यपुष्पितकानना।।2.92.11।। Ayodhya Kanda,92,12,अनन्तरं तत्सरितश्चित्रकूटश्च पर्वतः। तयोः पर्णकुटी तात तत्र तौ वसतो ध्रुवम्।।2.92.12।। Ayodhya Kanda,92,13,दक्षिणेनैव मार्गेण सव्यदक्षिणमेव वा। गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते।।2.92.13।। वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम्। Ayodhya Kanda,92,14,प्रयाणमिति तच्छ्रुत्वा रजराजस्य योषितः। हित्वा यानानि यानार्हाः ब्राह्मणं पर्यवारयन्।।2.92.14।। Ayodhya Kanda,92,15,वेपमाना कृशा दीना सह देव्या सुमित्रया। कौसल्या तत्र जग्राह कराभ्यां चरणौ मुनेः।।2.92.15।। Ayodhya Kanda,92,16,असमृद्धेन कामेन सर्वलोकस्य गर्हिता। कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा।।2.92.16।। Ayodhya Kanda,92,17,तं प्रदक्षिणमागम्य भगवन्तं महामुनिम्। अदूरार्भरतस्यैव तस्थौ दीनमनास्तदा।।2.92.17।। Ayodhya Kanda,92,18,ततः पप्रच्छ भरतं भरद्वाजो दृढव्रतः। विशेषं ज्ञातुमिच्छामि मात्रूणां तव राघव।।2.92.18।। Ayodhya Kanda,92,19,एवमुक्तस्तु भरतो भरद्वाजेन धीमता। उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविदः।।2.92.19।। Ayodhya Kanda,92,20,यामिमां भगवन् दीनां शोकानशनकर्शिताम्। पितुर्हि महिषीं देवीं देवतामिव पश्यसि।।2.92.20।। Ayodhya Kanda,92,21,एषा तं पुरषव्याघ्रं सिंहविक्रान्तगामिनम्। कौसल्या सुषुवे रामं धातारमदितिर्यथा।।2.92.21।। Ayodhya Kanda,92,22,अस्या वामभुजं श्लिष्टा यैषा तिष्ठति दुर्मनाः। कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे।।2.92.22।। Ayodhya Kanda,92,23,एतस्यास्तु सुतौ देव्याः कुमारौ देववर्णिनौ। उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ।।2.92.23।। Ayodhya Kanda,92,24,यस्याः कृते नरव्याघ्रौ जीवनाशमितो गतौ। राजपुत्रविहीनश्च स्वर्गं दशरथो गतः।।2.92.24।। Ayodhya Kanda,92,25,क्रोधनामकृतप्रज्ञां दृप्तां सुभगमानिनीम्। ऐश्वर्यकामां कैकेयीमनार्यामार्यारूपिणीम्।।2.92.25।। Ayodhya Kanda,92,26,ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम्। यतोमूलं हि पश्यामि व्यसनं महदात्मनः।।2.92.26।। Ayodhya Kanda,92,27,इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा। स निश्स्वास ताम्राक्षो नागः कृद्ध इव श्वसन्।।2.92.27।। Ayodhya Kanda,92,28,भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तथा। प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत्।।2.92.28।। Ayodhya Kanda,92,29,न दोषेणावगन्तव्या कैकेयी भरत त्वया। रामप्रव्राजनं ह्येतत्सुखोदर्कं भविष्यति।।2.92.29।। Ayodhya Kanda,92,30,देवानां दानवानां च ऋषीणां भावितात्मनाम्। हितमेव भविष्यद्धि रामप्रव्राजनादिह।।2.92.30।। Ayodhya Kanda,92,31,अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम्। आमन्त्र्य भरत स्सैन्यं युज्यतामित्यचोदयत्।।2.92.31।। Ayodhya Kanda,92,32,ततो वाजिरथान्युक्तान् दिव्यान्हेमपरिष्कृतान्। अध्यारोहत्प्रयाणार्थी बहून्बहुविधो जनः।।2.92.32।। Ayodhya Kanda,92,33,गजकन्या गजाश्चैव हेमकक्ष्याः पताकिनः। जीमूता इव घर्मान्ते सघोषास्सम्प्रतस्थिरे।।2.92.33।। Ayodhya Kanda,92,34,विविधान्यपि यानानि महन्ति च लघूनि च। प्रययु स्सुमहार्हाणि पादै रेव पदातयः।।2.92.34।। Ayodhya Kanda,92,35,अथ यानप्रवेकैस्तु कौसल्याप्रमुखाः स्त्रियः। रामदर्शनकाङ्क्षिण्यः प्रययुर्मुदितास्तदा।।2.92.35।। Ayodhya Kanda,92,36,चन्द्रार्कतरुणाभासां निर्युक्तां शिबिकां शुभाम्। आस्थाय प्रययौ श्रीमान्भरत स्सपरिच्छदः।।2.92.36।। Ayodhya Kanda,92,37,सा प्रयाता महासेना गजवाजिरथाकुला। दक्षिणां दिशमावृत्य महामेघ इवोत्थितः।।2.92.37।। Ayodhya Kanda,92,38,वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभिः। गङ्गायाः परवेलायां गिरिष्वपि नदीषु च।।2.92.38।। Ayodhya Kanda,92,39,सा सम्प्रहृष्टद्विपवाजियोधा वित्रासयन्ती मृगपक्षिसङ्घान्। महद्वनं तत्प्रतिगाहमाना रराज सेना भरतस्य तत्र।।2.92.39।। Ayodhya Kanda,93,1,तया महत्या यायिन्या ध्वजिन्या वनवासिनः। अर्दिता यूथपा मत्ताः सयूथास्सम्प्रदुद्रुवुः।।2.93.1।। Ayodhya Kanda,93,2,ऋक्षाः पृषतसङ्घाश्च रुरवश्च समन्ततः। दृश्यन्ते वनराजीषु गिरिष्वपि नदीषु च।।2.93.2।। Ayodhya Kanda,93,3,स सम्प्रतस्थे धर्मात्मा प्रीतो दशरथात्मजः। वृतो महत्या नादिन्या सेनया चतुरङ्गया।।2.93.3।। Ayodhya Kanda,93,4,सागरौघनिभा सेना भरतस्य महात्मनः। महीं सञ्छादयामास प्रावृषि द्यामिवाम्बुदः।।2.93.4।। Ayodhya Kanda,93,5,तुरङ्गौघैरवतता वारणैश्च महाजवैः। अनालक्ष्या चिरं कालं तस्मिन्काले बभूव भूः।।2.93.5।। Ayodhya Kanda,93,6,स यात्वा दूरमध्वानं सुपरिश्रान्तवाहनः। उवाच भरत श्श्रीमान् वसिष्ठं मन्त्रिणां वरम्।।2.93.6।। Ayodhya Kanda,93,7,यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया। व्यक्तं प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत्।।2.93.7।। Ayodhya Kanda,93,8,अयं गिरिश्चित्रकूट इयं मन्दाकिनी नदी। एतत्प्रकाशते दूरान्नीलमेघनिभं वनम्।।2.93.8।। Ayodhya Kanda,93,9,गिरे स्सानूनि रम्याणि चित्रकूटस्य सम्प्रति। वारणैरवमृद्यन्ते मामकै पर्वतोपमैः।।2.93.9।। Ayodhya Kanda,93,10,मुञ्चन्ति कुसुमान्येते नगाः पर्वतसानुषु। नीला इवातपापाये तोयं तोयधरा घनाः।।2.93.10।। Ayodhya Kanda,93,11,किन्नराचरितं देशं पश्य शत्रुघ्न पर्वतम्। मृगैस्समन्तादाकीर्णं मकरैरिव सागरम्।।2.93.11।। Ayodhya Kanda,93,12,एते मृगगणा भान्ति शीघ्रवेगाः प्रचोदिताः। वायुप्रविद्धा श्शरदि मेघराजिरिवाम्बरे।।2.93.12।। Ayodhya Kanda,93,13,कुर्वन्ति कुसुमापीडान् शिरस्सु सुरभीनमी। मेघप्रकाशैः फलकैर्दाक्षिणात्या यथा नराः।।2.93.13।। Ayodhya Kanda,93,14,निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम्। अयोध्येव जनाकीर्णा सम्प्रति प्रतिभाति मा।।2.93.14।। Ayodhya Kanda,93,15,खुरैरुदीरितो रेणुर्दावं प्रच्छाद्य तिष्ठति। तं वहत्यनिल श्श्रीघ्रं कुर्वन्निव मम प्रियम्।।2.93.15।। Ayodhya Kanda,93,16,स्यन्दनांस्तुरगोपेतान्सूतमुख्यै रधिष्ठितान्। एतान्सम्पततश्श्रीघ्रं पश्य शत्रुघ्न कानने।।2.93.16।। Ayodhya Kanda,93,17,एतान्वित्रासितान्पश्यबर्हिणः प्रियदर्शनान्। एतमाविशत श्श्रीघ्रमधिवासं पतत्रिणः।।2.93.17।। Ayodhya Kanda,93,18,अतिमात्रमयं देशो मनोज्ञः प्रतिभाति मे। तापसानां निवासोऽयं व्यक्तं स्वर्गपथो यथा।।2.93.18।। Ayodhya Kanda,93,19,मृगा मृगीभिः सहिता बहवः पृषता वने। मनोज्ञरूपा दृश्यन्ते कुसुमैरिव चित्रिताः।।2.93.19।। Ayodhya Kanda,93,20,साधु सैन्याः प्रतिष्ठन्तां विचिन्वन्तु च कानने। यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ।।2.93.20।। Ayodhya Kanda,93,21,भरतस्य वचश्श्रुत्वा पुरुषाश्शस्त्रपाणयः। विविशु स्तद्वनं शूरा धूमं च ददृशु स्ततः।।2.93.21।। Ayodhya Kanda,93,22,ते समालोक्य धूमाग्रमूचुर्भरतमागताः। नामनुष्ये भवत्यग्नि र्व्यक्तमत्रैव राघवौ।।2.93.22।। Ayodhya Kanda,93,23,अथ नाऽत्र नरव्याघ्रौ राजपुत्रौ परन्तपौ। अन्ये रामोपमा स्सन्ति व्यक्तमत्र तपस्विनः।।2.93.23।। Ayodhya Kanda,93,24,तच्छ्रुत्वा भरतस्तेषां वचनं साधुसम्मतम्। सैन्यानुवाच सर्वांस्तानमित्रबलमर्दनः।।2.93.24।। Ayodhya Kanda,93,25,यत्ता भवन्तस्तिष्ठन्तु नेतो गन्तव्यमग्रतः। अहमेव गमिष्यामि सुमन्त्रो गुरुरेव च।।2.93.25।। Ayodhya Kanda,93,26,एवमुक्ता स्ततस्सर्वे तत्र तस्थुः समन्तः। भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधात्।।2.93.26।। Ayodhya Kanda,93,27,व्यवस्थिता या भरतेन सा चमूर्निरीक्षमाणाऽपि च भूमिमग्रतः। बभूव हृष्टा न चिरेण जानती प्रियस्य रामस्य समागमं तदा।।2.93.27।। Ayodhya Kanda,94,1,दीर्घकालोषित स्तस्मिन्गिरौ गिरिवनप्रियः। वैदेह्याः प्रियमाकाङ्क्षन्स्वं च चित्तं विलोभयन्।।2.94.1।। Ayodhya Kanda,94,2,अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत्। भार्याममरसङ्काश श्शचीमिव पुरन्दरः।।2.94.2।। Ayodhya Kanda,94,3,न राज्याद्भ्रंशनं भद्रे न सुहृद्भिर्विनाभवः। मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम्।।2.94.3।। Ayodhya Kanda,94,4,पश्येममचलं भद्रे नानाद्विजगणायुतम्। शिखरैः खमिवोद्विद्धैर्धातुमद्भिर्विभूषितम्।।2.94.4।। Ayodhya Kanda,94,5,केचिद्रजतसङ्काशाः केचित्क्षतजसंनिभाः। पीतमाञ्जिष्टवर्णाश्च केचिन्मणिवरप्रभाः।।2.94.5।। Ayodhya Kanda,94,6,पुष्यार्ककेतकाभाश्च केचिज्ज्योतीरसप्रभाः। विराजन्तेऽचलेन्द्रस्य देशा धातुविभूषिताः।।2.94.6।। Ayodhya Kanda,94,7,नानामृगगणद्वीपितरर्क्ष्वृक्षगणैर्वुतः। अदुष्टैर्भात्ययं शैलो बहुपक्षिसमायुतः।।2.94.7।। Ayodhya Kanda,94,8,आम्रजम्ब्वसनैर्लोध्रैः प्रियालैः पनसैर्धवैः। अङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुक वेणुभिः।।2.94.8।। Ayodhya Kanda,94,9,काश्मर्यरिष्टवरुणैर्मधूकैस्तिलकैस्तथा। बदर्यामलकैर्नीपैर्वेत्रधन्वनबीजकैः।।2.94.9।। Ayodhya Kanda,94,10,पुष्पवद्भिः फलोपेतैश्छायावद्भिर्मनोरमैः। एवमादिभिराकीर्णः श्रियं पुष्यत्ययं गिरिः।।2.94.10।। Ayodhya Kanda,94,11,शैलप्रस्थेषु रम्येषु पश्येमान् रोमहर्षणान्। किन्नरान् द्वन्द्वशो भद्रे रममाणान्मनस्विनः।।2.94.11।। Ayodhya Kanda,94,12,शाखावसक्तान् खड्गांश्च प्रवराण्यम्बराणि च। पश्य विद्याधरस्त्रीणां क्रीडोद्धेशान्मनोरमान्।।2.94.12।। Ayodhya Kanda,94,13,जलप्रपातैरुद्भेदैर्निष्यन्दैश्च क्वचित्क्वचित्। स्रवद्भिर्भात्ययं शैल स्स्रवन्मद इव द्विपः।।2.94.13।। Ayodhya Kanda,94,14,गुहासमीरणो गन्धान्नानापुष्पभवान्वहन्। घ्राणतर्पणमभ्येत्य कं नरं न प्रहर्षयेत्।।2.94.14।। Ayodhya Kanda,94,15,यदीह शरदोऽनेकास्त्वया सार्धमनिन्दिते। लक्ष्मणेन च वत्स्यामि न मां शोकः प्रधक्ष्यति।।2.94.15।। Ayodhya Kanda,94,16,बहुपुष्पफले रम्ये नानाद्विजगणायुते। विचित्रशिखरे ह्यस्मिन्रतवानस्मि भामिनि।।2.94.16।। Ayodhya Kanda,94,17,अनेन वनवासेन मया प्राप्तं फलद्वयम्। पितुश्चानृणता धर्मे भरतस्य प्रियं तथा।।2.94.17।। Ayodhya Kanda,94,18,वैदेहि रमसे कच्चिच्चित्रकूटे मया सह। पश्यन्ती विविधान्भावान्मनोवाक्कायसम्मतान्।।2.94.18।। Ayodhya Kanda,94,19,इदमेवामृतं प्राहू राज्ञि राजर्षयः परे। वनवासं भवार्थाय प्रेत्य मे प्रपितामहाः।।2.94.19।। Ayodhya Kanda,94,20,शिला श्शैलस्य शोभन्ते विशाला श्शतशोऽभितः। बहुला बहुलैर्वर्णैर्नीलपीतसितारुणैः।।2.94.20।। Ayodhya Kanda,94,21,निशिभान्त्यचलेन्द्रस्य हुताशनशिखा इव। ओषध्यः स्वप्रभालक्ष्म्या भ्राजमाना स्सहस्रशः।।2.94.21।। Ayodhya Kanda,94,22,केचित् क्षयनिभा देशाः केचिदुद्यानसन्निभाः। केचिदेकशिला भान्ति पर्वतस्यास्य भामिनि।।2.94.22।। Ayodhya Kanda,94,23,भित्त्वेव वसुधां भाति चित्रकूटस्समुत्थितः। चित्रकूटस्य कूटोऽसौ दृश्यते सर्वत श्शुभः।।2.94.23।। Ayodhya Kanda,94,24,कुष्ठस्थगरपुन्नाग भूर्जपत्रोत्तरच्छदान्। कामिनां स्वास्तरान्पश्य कुशेशयदलायुतान्।।2.94.24।। Ayodhya Kanda,94,25,मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रजः। कामिभिर्वनिते पश्य फलानि विविधानि च।।2.94.25।। Ayodhya Kanda,94,26,वस्वौकसारां नलिनीमत्येतीवोत्तरान्कुरून्। पर्वतश्चित्रकूटोऽसौ बहुमूलफलोदकः।।2.94.26।। Ayodhya Kanda,94,27,इमं तु कालं वनिते विजह्रिवांस्त्वया च सीते सह लक्ष्मणेन च। रतिं प्रपत्स्ये कुलधर्मवर्धनीं सतां पथि स्वैर्नियमैः परैः स्थितः।।2.94.27।। Ayodhya Kanda,95,1,अथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वरः। अदर्शयच्छुभजलां रम्यां मन्दाकिनीं नदीम्।।2.95.1।। Ayodhya Kanda,95,2,अब्रवीच्च वरारोहां चारुचन्द्रनिभाननाम्। विदेहराजस्य सुतां रामो राजीवलोचनः।।2.95.2।। Ayodhya Kanda,95,3,विचित्रपुलिनां रम्यां हंससारससेविताम्। कमलैरुपसम्पन्नां पश्य मन्दाकिनीं नदीम्।।2.95.3।। Ayodhya Kanda,95,4,नानाविधैस्तीररुहै र्वृतां पुष्पफलद्रुमैः। राजन्तीं राजराजस्य नलिनीमिव सर्वतः।।2.95.4।। Ayodhya Kanda,95,5,मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम्। तीर्थानि रमणीयानि रतिं सञ्जनयन्ति मे।।2.95.5।। Ayodhya Kanda,95,6,जटाजिनधराः काले वल्कलोत्तरवाससः। ऋषय स्त्ववगाहन्ते नदीं मन्दाकिनीं प्रिये।।2.95.6।। Ayodhya Kanda,95,7,आदित्यमुपतिष्ठन्ते नियमादूर्ध्वबाहवः। एते परे विशालाक्षि मुनय स्संशितव्रताः।।2.95.7।। Ayodhya Kanda,95,8,मारुतोद्धूतशिखरैः प्रनृत्त इव पर्वतः। पादपैः पत्रपुष्पाणि सृजद्भिरभितो नदीम्।।2.95.8।। Ayodhya Kanda,95,9,चिन्मणिनिकाशोदां क्वचित्पुलिनशालिनीम्। क्वचित्सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम्।।2.95.9।। Ayodhya Kanda,95,10,निर्धूतान्वायुना पश्य विततान्पुष्पसञ्चयान्। पोप्लूयमानानपरान्पश्य त्वं जलमध्यगान्।।2.95.10।। Ayodhya Kanda,95,11,तांश्चातिवल्गुवचसो रथाङ्गाह्वयना द्विजाः। अधिरोहन्ति कल्याणि निष्कूजन्त श्शुभा गिरः।।2.95.11।। Ayodhya Kanda,95,12,दर्शनं चित्रकूटस्य मन्दाकिन्याश्च शोभने। अधिकं पुरवासाच्च मन्ये तव च दर्शनात्।।2.95.12।। Ayodhya Kanda,95,13,विधूतकलुषै स्सिद्धैस्तपोदमशमान्वितैः। नित्यविक्षोभितजलां विगाहस्व मया सह।।2.95.13।। Ayodhya Kanda,95,14,सखीवच्च विगाहस्व सीते मन्दाकिनीं नदीम्। कमलान्यवमज्जन्ती पुष्कराणि च भामिनि।।2.95.14।। Ayodhya Kanda,95,15,त्वं पौरजनवद्व्यालानयोध्यामिव पर्वतम्। मन्यस्व वनिते नित्यं सरयूवदिमां नदीम्।।2.95.15।। Ayodhya Kanda,95,16,लक्ष्मणश्चापि धर्मात्मा मन्निदेशे व्यवस्थितः। त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम।।2.95.16।। Ayodhya Kanda,95,17,उपस्पृशंस्त्रिषवणं मधुमूलफलाशनः। नायोध्यायैन राज्याय स्पृहयेऽद्य त्वया सह।।2.95.17।। Ayodhya Kanda,95,18,इमांहि रम्यां मृगयूथशालिनीं निपीततोयां गजसिंहवानरैः। सुपुष्पितां पुष्पभरैरलङ्कृतां नसोऽस्ति य स्स्यान्न गतक्लम स्सुखी।।2.95.18।। Ayodhya Kanda,95,19,इतीव रामो बहुसङ्गतं वचः प्रियासहाय स्सरितं प्रति ब्रुवन्। चचार रम्यं नयनाञ्जनप्रभं स चित्रकूटं रघुवंशवर्धनः।।2.95.19।। Ayodhya Kanda,96,1,तां तथा दर्शयित्वा तु मैथिलीं गिरिनिम्नगाम्। निषसाद गिरिप्रस्थे सीतां मांसेन छन्दयन्।।2.96.1।। Ayodhya Kanda,96,2,इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना। एवमास्ते स धर्मात्मा सीतया सह राघवः।।2.96.2।। Ayodhya Kanda,96,3,तथा तत्राऽसतस्तस्य भरतस्यौपयायिनः। सैन्यरेणुश्च शब्दश्च प्रादुरास्तां नभस्पृशौ।।2.96.3।। Ayodhya Kanda,96,4,एतस्मिन्नन्तरे त्रस्ता श्शब्देन महता ततः। अर्दिता यूथपा मत्ता स्सयूथा दुद्रुवुर्दिशः।।2.96.4।। Ayodhya Kanda,96,5,स तं सैन्यसमुद्धूतं शब्दं शुश्राव राघवः। तां श्च विप्रद्रुतान्सर्वान्यूथपानन्ववैक्षत।।2.96.5।। Ayodhya Kanda,96,6,तांश्च विद्रुवतो दृष्ट्वा तं च श्रुत्वा च निस्वनम्। उवाच राम स्सौमित्रिं लक्ष्मणं दीप्ततेजसम्।।2.96.6।। Ayodhya Kanda,96,7,हन्त लक्ष्मण पश्येह सुमित्रासुप्रजास्त्वया। भीमस्तनितगम्भीरस्तुमुलः श्रूयते स्वनः।।2.96.7।। Ayodhya Kanda,96,8,गजयूथानि वाऽरण्ये महिषा वा महावने। वित्रासिता मृगा स्सिंहै स्सहसा प्रद्रुता दिशः।।2.96.8।। Ayodhya Kanda,96,9,राजा वा राजपुत्रो वा मृगयामटते वने। अन्यद्वा श्वापदं किञ्चित्सौमित्रे ज्ञातुमर्हसि।।2.96.9।। Ayodhya Kanda,96,10,सुदुश्चरो गिरिश्चायं पक्षिणामपि लक्ष्मण। सर्वमेतद्यथातत्त्वमचिरात् ज्ञातुमर्हसि।।2.96.10।। Ayodhya Kanda,96,11,स लक्ष्मण स्सन्त्वरित स्सालमारुह्य पुष्पितम्। प्रेक्षमाणो दिश स्सर्वाः पूर्वां दिशमुदैक्षत।।2.96.11।। Ayodhya Kanda,96,12,उदङ्मुखः प्रेक्षमाणो ददर्श महतीं चमूम्। रथाश्वगजसम्बाधां यत्तैर्युक्तां पदातिभिः।।2.96.12।। Ayodhya Kanda,96,13,तामश्वगजसम्पूर्णां रथध्वजविभूषिताम्। शशंस सेनां रामाय वचनं चेदमब्रवीत्।।2.96.13।। Ayodhya Kanda,96,14,अग्निं संशमयत्वार्य स्सीता च भजतां गुहाम्। सज्यं कुरुष्व चापं च शरांश्च कवचं तथा।।2.96.14।। Ayodhya Kanda,96,15,तं रामः पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह। अङ्गावेक्षस्व सौमित्रे कस्येमां मन्यसे चमूम्।।2.96.15।। Ayodhya Kanda,96,16,एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत्। दिधक्षन्निव तां सेनां रुषितः पावको यथा।।2.96.16।। Ayodhya Kanda,96,17,सम्पन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम्। आवां हन्तुं समभ्येति कैकेय्या भरतस्सुतः।।2.96.17।। Ayodhya Kanda,96,18,एष वै सुमहाञ्छ्रीमान्विटपी सम्प्रकाशते। विराजत्युद्गतस्कन्धं कोविदारध्वजो रथे।।2.96.18।। Ayodhya Kanda,96,19,असौ हि सुमहास्कन्धो विटपी च महाद्रुमः। विराजते महासैन्ये कोविदारध्वजो रथे।।2.96.19।। Ayodhya Kanda,96,20,भजन्त्येते यथाकाममश्वानारुह्य शीघ्रगान्। एते भ्राजन्ति संहृष्टा गजानारुह्य सादिनः।।2.96.20।। Ayodhya Kanda,96,21,गृहीतधनुषौ चावां गिरिं वीर श्रयावहै। अथवेहैव तिष्ठाव स्सन्नद्धावुद्यतायुधौ।।2.96.21।। Ayodhya Kanda,96,22,अपि नौ वशमागच्छेत्कोविदारध्वजो रणे। अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत्।।2.96.22।। त्वया राघव सम्प्राप्तं सीतया च मया तथा। Ayodhya Kanda,96,23,यन्निमित्तं भवान्राज्याच्छ्युतो राघव शाश्वतात्।।2.96.23।। सम्प्राप्तोऽयमरिर्वीर भरतो वध्य एव मे। Ayodhya Kanda,96,24,भरतस्य वधे दोषं नाहं पश्यामि राघव। पूर्वापकारिणं हत्वा न ह्यधर्मेण युज्यते।।2.96.24।। Ayodhya Kanda,96,25,पूर्वापकारी भरतस्त्यक्तधर्मश्च राघव। एतस्मिन्निहते कृत्स्नामनुशाधि वसुन्धराम्।।2.96.25।। Ayodhya Kanda,96,26,अद्य पुत्रं हतं संख्ये कैकेयी राज्यकामुका। मया पश्येत्सुदुःखार्ता हस्तिभग्नमिव द्रुमम्।।2.96.26।। Ayodhya Kanda,96,27,कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम्। कलुषेणाद्य महता मेदिनी परिमुच्यताम्।।2.96.27।। Ayodhya Kanda,96,28,अद्येमं संयतं क्रोधमसत्कारं च मानद। मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम्।।2.96.28।। Ayodhya Kanda,96,29,अद्यैतच्छित्रकूटस्य काननं निशितै श्शरैः। छिन्दञ्चत्रुशरीराणि करिष्ये शोणितोक्षितम्।।2.96.29।। Ayodhya Kanda,96,30,शरैर्निर्भिन्नहृदयान्कुञ्जरांस्तुरगांस्तथा। श्वापदाः परिकर्षन्तु नरांश्च निहतान्मया।।2.96.30।। Ayodhya Kanda,96,31,शराणां धनुषश्चाहमनृणोऽस्मिन्महावने। ससैन्यं भरतं हत्वा भविष्यामि न संशयः।।2.96.31।। Ayodhya Kanda,97,1,सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्छितम्। रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत्।।2.97.1।। Ayodhya Kanda,97,2,किमत्र धनुषा कार्यमसिना वा सचर्मणा। महेष्वासे महाप्राज्ञे भरते स्वयमागते।।2.97.2।। Ayodhya Kanda,97,3,पितुस्सत्यं प्रतिश्रुत्य हत्वा भरतमागतम्। किं करिष्यामि राज्येन सापवादेन लक्ष्मण।।2.97.3।। Ayodhya Kanda,97,4,यद्द्रव्यं बान्धवानां वा मित्राणां वा क्षये भवेत्। नाहं तत्प्रतिगृह्णीयां भक्षान्विषकृतानिव।।2.97.4।। Ayodhya Kanda,97,5,धर्ममर्थं च कामं च पृथिवीं चापि लक्ष्मण। इच्छामि भवतामर्थे एतत् प्रतिशृणोमि ते।।2.97.5।। Ayodhya Kanda,97,6,भ्रात्रूणां संग्रहार्थं च सुखार्थं चापि लक्ष्मण। राज्यमप्यहमिच्छामि सत्येनाऽयुधमालभे।।2.97.6।। Ayodhya Kanda,97,7,नेयं मम मही सौम्य दुर्लभा सागराम्बरा। न हीच्छेयमधर्मेण शक्रत्वमपि लक्ष्मण।।2.97.7।। Ayodhya Kanda,97,8,यद्विना भरतं त्वां च शत्रुघ्नं चापि मानद। भवेन्मम सुखं किञ्चिद्भस्म तत्कुरुतां शिखी।।2.97.8।। Ayodhya Kanda,97,9,मन्येऽहमागतोऽयोध्यां भरतो भ्रातृवत्सलः। मम प्राणात्प्रियतरः कुलधर्ममनुस्मरन्।।2.97.9।। Ayodhya Kanda,97,10,श्रुत्वा प्रव्राजितं मां हि जटावल्कलधारिणम्। जानक्यासहितं वीर त्वया च पुरुषर्षभ।।2.97.10।। Ayodhya Kanda,97,11,स्नेहेनाऽक्रान्तहृदय श्शोकेनाकुलितेन्द्रियः। द्रष्टुमभ्यागतो ह्येष भरतो नान्यथाऽगतः।।2.97.11।। Ayodhya Kanda,97,12,अम्बां च कैकयीं रुष्य परुषं चाप्रियं वदन्। प्रसाद्य पितरं श्रीमार्नाज्यं मे दातुमागतः।।2.97.12।। Ayodhya Kanda,97,13,प्राप्तकालं यदेषोऽस्मान्भरतो द्रष्टुमिच्छति। अस्मासु मनसाऽप्येष नाप्रियं किञ्चिदाचरेत्।।2.97.13।। Ayodhya Kanda,97,14,विप्रियं कृतपूर्वं ते भरतेन कदा नु किम्। ईदृशं वा भयं तेऽद्य भरतं योऽत्र शङ्कसे।।2.97.14।। Ayodhya Kanda,97,15,न हि ते निष्ठुरं वाच्यो भरतो नाप्रियं वचः। अहं ह्यप्रियमुक्त स्स्यां भरतस्याप्रिये कृते।।2.97.15।। Ayodhya Kanda,97,16,कथं नु पुत्राः पितरं हन्युः कस्यां चिदापदि। भ्राता वा भ्रातरं हन्यात्सौमित्रे प्राणमात्मनः।।2.97.16।। Ayodhya Kanda,97,17,यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे। वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम्।।2.97.17।। Ayodhya Kanda,97,18,उच्यमानोऽपि भरतो मया लक्ष्मण तद्वचः। राज्यमस्मै प्रयच्छेति बाढमित्येव वक्ष्यति।।2.97.18।। Ayodhya Kanda,97,19,तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रतः। लक्ष्मणः प्रविवेशेव स्वानि गात्राणि लज्जया।।2.97.19।। Ayodhya Kanda,97,20,तद्वाक्यं लक्ष्मण श्श्रुत्वा व्रीलितः प्रत्युवाच ह। त्वां मन्ये द्रष्टुमायातः पिता दशरथ स्स्वयम्।।2.97.20।। Ayodhya Kanda,97,21,व्रीलितं लक्ष्मणं दृष्ट्वा राघवः प्रत्युवाच ह। एष मन्ये महाबाहुरिहास्मान्द्रष्टुमागतः।।2.97.21।। Ayodhya Kanda,97,22,अथवा नौ ध्रुवं मन्ये मन्यमान स्सुखोचितौ। वनवासमनुध्याय गृहाय प्रतिनेष्यति।।2.97.22।। Ayodhya Kanda,97,23,इमां वाप्येष वैदेहीमत्यन्तसुखसेविनीम्। पिता मे राघव श्श्रीमान्वनादादाय यास्यति।।2.97.23।। Ayodhya Kanda,97,24,एतौ तौ सम्प्रकाशेते गोत्रवन्तौ मनोरमौ। वायुवेगसमौ वीर जवनौ तुरगोत्तमौ।।2.97.24।। Ayodhya Kanda,97,25,स एष सुमहाकायः कम्पते वाहिनीमुखे। नागश्शत्रुञ्जयो नाम वृद्धस्तातस्य धीमतः।।2.97.25।। Ayodhya Kanda,97,26,न तु पश्यामि तच्छत्रं पाण्डुरं लोकसत्कृतम् | पितुर्दिव्यं महाबाहो संशयो भवतीह मे।।2.97.26।। Ayodhya Kanda,97,27,वृक्षाग्रादवरोह त्वं कुरु लक्ष्मण मद्वचः। इतीव रामो धर्मात्मा सौमित्रिं तमुवाच ह।।2.97.27।। Ayodhya Kanda,97,28,अवतीर्य तु सालाग्रात्तस्मात्स समितिञ्जयः। लक्ष्मणः प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वतः।।2.97.28।। Ayodhya Kanda,97,29,भरतेनापि सन्दिष्टा सम्मर्दो न भवेदिति। समन्तात्तस्य शैलस्य सेना वासमकल्पयत्।।2.97.29।। Ayodhya Kanda,97,30,अध्यर्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य सा। पार्श्वे न्यविशदावृत्य गजवाजिरथाकुला।।2.97.30।। Ayodhya Kanda,97,31,सा चित्रकूटे भरतेन सेना धर्मं पुरस्कृत्य विधूय दर्पम्। प्रसादनार्थं रघुनन्दनस्य विराजते नीतिमता प्रणीता।।2.97.31।। Ayodhya Kanda,98,1,निवेश्य सेनां तु विभुः पद्भ्यां पादवतां वरः। अभिगन्तुं स काकुत्थ्समियेष गुरुवर्तकम्।।2.98.1।। Ayodhya Kanda,98,2,निविष्टमात्रे सैन्ये तु यथोद्देशं विनीतवत्। भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत्।।2.98.2।। Ayodhya Kanda,98,3,क्षिप्रं वनमिदं सौम्य नरसङ्घै स्समन्ततः। लुब्धैश्च सहितैरेभि स्त्वमन्वेषितुमर्हसि।।2.98.3।। Ayodhya Kanda,98,4,गुहो ज्ञातिसहस्रेण शरचापासिधारिणा। समन्वेषतु काकुत्स्थमस्मिन् परिवृतस्स्वयम्।।2.98.4।। Ayodhya Kanda,98,5,अमात्यै स्सह पौरैश्च गुरुभिश्च द्विजातिभिः। वनं सर्वं चरिष्यामि पद्भ्यां परिवृत स्स्वयम्।।2.98.5।। Ayodhya Kanda,98,6,यावन्न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम्। वैदेहीं च महाभागां न मे शान्तिर्भविष्यति।।2.98.6।। Ayodhya Kanda,98,7,यावन्न चन्द्रसङ्काशं द्रक्ष्यामि शुभमाननम्। भ्रातुः पद्मपलाशाक्षं न मे शान्तिर्भविष्यति।।2.98.7।। Ayodhya Kanda,98,8,यावन्न चरणौ भ्रातुः पार्थिवव्यञ्जनान्वितौ। शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति।।2.98.8।। Ayodhya Kanda,98,9,यावन्न राज्ये राज्यार्हः पितृपैतामहे स्थितः। अभिषेकजलक्लिन्नो न मे शान्तिर्भविष्यति।।2.98.9।। Ayodhya Kanda,98,10,सिद्धार्थः खलु सौमित्रिर्यश्चन्द्रविमलोपमम्। मुखं पश्यति रामस्य राजीवाक्षं महाद्युति।।2.98.10।। Ayodhya Kanda,98,11,कृतकृत्या महाभागा वैदेही जनकात्मजा। भर्तारं सागरान्तायाः पृथिव्या यानुगच्छति।।2.98.11।। Ayodhya Kanda,98,12,सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरिः। यस्मिन्वसति काकुत्स्थः कुबेर इव नन्दने।।2.98.12।। Ayodhya Kanda,98,13,कृतकार्यमिदं दुर्गं वनं व्यालनिषेवितम्। यदध्यास्ते महातेजा राम श्शस्त्रभृतां वरः।।2.98.13।। Ayodhya Kanda,98,14,एवमुक्त्वा महातेजा भरतः पुरषर्षभः। पद्भ्यामेव महाबाहुः प्रविवेश महाद्वनम्।।2.98.14।। Ayodhya Kanda,98,15,स तानि द्रुमजालानि जातानि गिरिसानुषु। पुष्पिताग्राणि मध्येन जगाम वदतां वरः।।2.98.15।। Ayodhya Kanda,98,16,स गिरेश्चित्रकूटस्य सालमासाद्य पुष्पितम्। रामाश्रमगतस्याग्नेर्ददर्श ध्वजमुच्छ्रितम्।।2.98.16।। Ayodhya Kanda,98,17,तं दृष्ट्वा भरत श्रीमान्मुमोद सह बान्धवः। अत्र राम इति ज्ञात्वा गतः पारमिवाम्भसः।।2.98.17।। Ayodhya Kanda,98,18,स चित्रकूटे तु गिरौ निशम्यव रामाश्रमं पुण्यजनोपपन्नम्। गुहेन सार्धं त्वरितो जगाम पुनर्निवेश्यैव चमूं महात्मा।।2.98.18।। Ayodhya Kanda,99,1,निविष्टायां तु सेनायामुत्सुको भरतस्तदा। जगाम भ्रातरं द्रष्टुं शत्रुघ्नमनुदर्शयन्।।2.99.1।। Ayodhya Kanda,99,2,ऋषिं वसिष्ठं सन्दिश्य मातृ़र्मे शीघ्रमानय। इति त्वरितमग्रे स जगाम गुरुवत्सलः।।2.99.2।। Ayodhya Kanda,99,3,सुमन्त्रस्त्वपि शत्रुघ्नमदूरादन्वपद्यत। रामदर्शनजस्तर्षो भरतस्येव तस्य च।।2.99.3।। Ayodhya Kanda,99,4,गच्छन्नेवाथ भरतस्तापसालय संस्थिताम्। भ्रातुः पर्णकुटीं श्रीमानुटजं च ददर्श ह।। 2.99.4।। Ayodhya Kanda,99,5,शालायास्त्वग्रत स्तस्या ददर्श भरत स्तदा। काष्ठानि चावभग्नानि पुष्पाण्युपचितानि च।।2.99.5।। Ayodhya Kanda,99,6,स लक्ष्मणस्य रामस्य ददर्शाऽश्रममीयुषः। कृतं वृक्षेष्वभिज्ञानं कुशचीरैः क्वचित्क्वचित्।।2.99.6।। Ayodhya Kanda,99,7,ददर्श वने तस्मिन्महत स्सञ्चयान्कृतान्। मृगाणां महिषाणां च करीषै शशीतकारणात्।।2.99.7।। Ayodhya Kanda,99,8,गच्छन्नेव महाबाहुर्द्युतिमान्भरत स्तदा। शत्रुघ्नं चाब्रवीद्धृष्टस्तानमात्यांश्च सर्वशः।।2.99.8।। Ayodhya Kanda,99,9,मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत्। नातिदूरे हि मन्येऽहं नदीं मन्दाकिनीमितः।।2.99.9।। Ayodhya Kanda,99,10,उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम्। अभिज्ञानकृतः पन्था अकाले गन्तुमिच्छता।।2.99.10।। Ayodhya Kanda,99,11,इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम्। शैलपार्श्वे परिक्रान्तमन्योन्यमभिगर्जताम्।।2.99.11।। Ayodhya Kanda,99,12,यमेवाधातुमिच्छन्ति तापसा स्सततं वने। तस्यासौ दृश्यते धूम स्सङ्कुलः कृष्णवर्त्मनः।।2.99.12।। Ayodhya Kanda,99,13,अत्राहं पुरुषव्याघ्रं गुरुसत्कारकारिणम्। आर्यं द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम्।।2.99.13।। Ayodhya Kanda,99,14,अथ गत्वा मुहूर्तन्तु चित्रकूटं स राघवः। मन्दाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत्।।2.99.14।। Ayodhya Kanda,99,15,जगत्यां पुरषव्याघ्र आस्ते वीरासने रतः। जनेन्द्रो निर्जनं प्राप्य धिङ्मे जन्म सजीवितम्।।2.99.15।। Ayodhya Kanda,99,16,मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युतिः। सर्वान्कामान्परित्यज्य वने वसति राघवः।।2.99.16।। Ayodhya Kanda,99,17,इति लोकसमाक्रुष्टः पादेष्वद्य प्रसादयन्। रामस्य निपतिष्यामि सीताया लक्ष्मणस्य च।।2.99.17।। Ayodhya Kanda,99,18,एवं संविलपं स्तस्मिन्वने दशरथात्मजः। ददर्श महतीं पुण्यां पर्णशालां मनोरमाम्।।2.99.18।। Ayodhya Kanda,99,19,सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम्। विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे।।2.99.19।। Ayodhya Kanda,99,20,शक्रायुधनिकाशैश्च कार्मुकैर्भारसाधनैः। रुक्मपृष्ठैर्महासारै श्शोभितां शत्रुबाधकैः।।2.99.20।। Ayodhya Kanda,99,21,अर्क रश्मि प्रतीकाशैर्घोरैस्तूणीगतैश्शरैः। शोभितां दीप्तवदनै स्सर्पैर्भोगवतीमिव।।2.99.21।। Ayodhya Kanda,99,22,महारजतवासोभ्यामसिभ्यां च विराजिताम्। रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम्।।2.99.22।। Ayodhya Kanda,99,23,गोधाङ्गुळित्रैरासक्तैश्चित्रैः काञ्चनभूषितैः। अरिसंघैरनाधृष्यां मृगै स्सिंहगुहा मिव।।2.99.23।। Ayodhya Kanda,99,18,एवं संविलपं स्तस्मिन्वने दशरथात्मजः। ददर्श महातीं पुण्यां पर्णशालां मनोरमाम्।।2.99.18।। Ayodhya Kanda,99,24,प्रागुदक्प्रवणां वेदिं विशालां दीप्तपावकाम्। ददर्श भरतस्तत्र पुण्यां रामनिवेशने।।2.99.24।। Ayodhya Kanda,99,25,निरीक्ष्य स मुहूर्तं तु ददर्श भरतो गुरुम्। उटजे राममासीनं जटामण्डलधारिणम्।।2.99.25।। Ayodhya Kanda,99,26,तं तु कृष्णाजिनधरं चीरवल्कलवाससम्। ददर्श राममासीनमभितः पावकोपमम्।।2.99.26।। Ayodhya Kanda,99,27,सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम्। पृथिव्यास्सागरान्तायाः भर्तारं धर्मचारिणम्।।2.99.27।। Ayodhya Kanda,99,28,उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम्। स्थण्डिले दर्भसंस्तीर्णे सीतया लक्ष्मणेन च।।2.99.28।। Ayodhya Kanda,99,29,तं दृष्ट्वा भरत श्श्रीमान् दुःखशोकपरिप्लुतः। अभ्यधावत धर्मात्मा भरतः कैकेयी सुतः।।2.99.29।। Ayodhya Kanda,99,30,दृष्ट्वैव विललापाऽर्तो बाष्पसन्दिग्धया गिरा। अशक्नुवन् धारयितुं धैर्याद्वचनमब्रवीत्।।2.99.30।। Ayodhya Kanda,99,31,य स्संसदि प्रकृतिभिर्भवेद्युक्त उपासितुम्। वन्यैर्मृगैरुपासीन स्सोऽयमास्ते ममाग्रजः।।2.99.31।। Ayodhya Kanda,99,32,वासोभिर्बहुसाहस्रैर्यो महात्मा पुरोचितः। मृगाजिने सोऽयमिह प्रवस्ते धर्ममाचरन्।।2.99.32।। Ayodhya Kanda,99,33,अधारयद्यो विविधाश्चित्रास्सुमनसस्तदा। सोऽयं जटाभारमिमं वहते राघवः कथम्।।2.99.33।। Ayodhya Kanda,99,34,यस्य यज्ञैर्यथादिष्टैर्युक्तो धर्मस्य सञ्चयः। शरीरक्लेशसम्भूतं स धर्मं परिमार्गते।।2.99.34।। Ayodhya Kanda,99,35,चन्दनेन महार्हेण यस्याङ्गमुपसेवितम्। मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते।।2.99.35।। Ayodhya Kanda,99,36,मन्निमित्तमिदं दुःखं प्राप्तो रामः सुखोचितः। धिग्जीवितं नृशंसस्य मम लोकविगर्हितम्।।2.99.36।। Ayodhya Kanda,99,37,इत्येवं विलपन्दीनः प्रस्विन्नमुखपङ्कजः। पादावप्राप्य रामस्य पपात भरतो रुदन्।।2.99.37।। Ayodhya Kanda,99,38,दुःखाभितप्तो भरतो राजपुत्रो महाबलः। उक्त्वाऽर्येति सकृद्दीनं पुनर्नोवाच किञ्चन।।2.99.38।। Ayodhya Kanda,99,39,बाष्पाभिहतकण्ठश्च प्रेक्ष्य रामं यशस्विनम्। आर्येत्येवाभिसङ्क्रुश्य व्याहर्तुं नाशकत्तदा।।2.99.39।। Ayodhya Kanda,99,40,शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन्। तावुभौ स समालिङ्ग्य रामश्चाश्रूण्यवर्तयत्।।2.99.40।। Ayodhya Kanda,99,41,ततस्सुमन्त्रेण गुहेन चैव समीयतु राजसुतावरण्ये। दिवाकरश्चैव निशाकरश्च यथाऽम्बरे शुक्रबृहस्पतिभ्याम्।।2.99.41।। Ayodhya Kanda,99,42,तान्पार्थिवान्वारणयूथपाभान्समागतां स्तत्र महत्यरण्ये। वनौकसस्तेऽपि समीक्ष्य सर्वेऽप्यश्रूण्यमुञ्चन्प्रविहाय हर्षम्।।2.99.42।। Ayodhya Kanda,100,1,जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि। ददर्श रामो दुर्दर्शं युगान्ते भास्करंयथा।।2.100.1।। Ayodhya Kanda,100,2,कथंचिदभिविज्ञाय विवर्णवदनं कृशम्। भ्रातरं भरतं रामः परिजग्राह बाहुना।।2.100.2।। Ayodhya Kanda,100,3,आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघवः। अङ्के भरतमारोप्य पर्यपृच्छत्समाहितः।।2.100.3।। Ayodhya Kanda,100,4,क्व नु तेऽभूत्पिता तात यदरण्यं त्वमागतः। न हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि।।2.100.4।। Ayodhya Kanda,100,5,चिरस्य बत पश्यामि दूराद्भरतमागतम्। दुष्प्रतीकमरण्येऽस्मिन् किं तात वनमागतः।।2.100.5।। Ayodhya Kanda,100,6,कच्चिद्धारयते तात राजा यत्त्वमिहाऽगतः। कच्चिन्न दीन स्सहसा राजा लोकान्तरं गतः।।2.100.6।। Ayodhya Kanda,100,7,कच्चित्सौम्य न ते राज्यं भ्रष्टं बालस्य शाश्वतम्। कच्चिच्छुश्रूषसे तात पितरं सत्यविक्रमम्।।2.100.7।। Ayodhya Kanda,100,8,कच्चिद्धशरथो राजा कुशली सत्यसंङ्गरः। राजसूयाश्वमेधानामाहर्ता धर्मनिश्चयः।।2.100.8।। Ayodhya Kanda,100,9,स कच्चिद्ब्राह्मणो विद्वान् धर्मनित्यो महाद्युतिः। इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते।।2.100.9।। Ayodhya Kanda,100,10,सा तात कच्चित्कौसल्या सुमित्रा च प्रजावती। सुखिनी कच्चिदार्या च देवी नन्दति कैकयी।।2.100.10।। Ayodhya Kanda,100,11,कच्चिद्विनयसम्पन्नः कुलपुत्रो बहुश्रुतः। अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहितः।।2.100.11।। Ayodhya Kanda,100,12,कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः। हुतं च होष्यमाणं च काले वेदयते सदा।।2.100.12।। Ayodhya Kanda,100,13,कच्चिद्देवान्पित्रून् मातृ़र्गुरून्पितृसमानपि। वृद्धांश्च तात वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे।।2.100.13।। Ayodhya Kanda,100,14,इष्वस्त्रवरसम्पन्नमर्थशास्त्र विशारदम्। सुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे।।2.100.14।। Ayodhya Kanda,100,15,कच्चिदात्मसमा श्शूरा श्श्रुतवन्तो जितेन्द्रियाः। कुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिणः।।2.100.15।। Ayodhya Kanda,100,16,मन्त्रो विजयमूलं हि राज्ञां भवति राघव। सुसंवृतो मन्त्रधरैरमात्यै श्शास्त्रकोविदैः।।2.100.16।। Ayodhya Kanda,100,17,कच्चिन्निद्रावशं नैषीः कच्चित् कालेऽवबुध्यसे। कच्चिच्चापररात्रेषु चिन्तियस्यर्थनैपुणम्।।2.100.17।। Ayodhya Kanda,100,18,कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिस्सह। कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति।।2.100.18।। Ayodhya Kanda,100,19,कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम्। क्षिप्रमारभसे कर्तुं न दीर्घयसि राघव।।2.100.19।। Ayodhya Kanda,100,20,कच्चित्तु सुकृतान्येव कृतरूपाणि वा पुनः। विदुस्ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः।।2.100.20।। Ayodhya Kanda,100,21,कच्चिन्नतर्कैर्युक्त्या वा ये चाप्यपरिकीर्तिताः। त्वया वा तवामात्यैर्बुध्यते तात मन्त्रितम्।।2.100.21।। Ayodhya Kanda,100,22,कच्चित्सहस्रान्मूर्खाणामेकमिच्छसि पण्डितम्। पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निश्रेयसं महत्।।2.100.22।। Ayodhya Kanda,100,23,सहस्राण्यपि मूर्खाणां युद्युपास्ते महीपतिः। अथवाप्ययुतान्येव नास्ति तेषु सहायता।।2.100.23।। Ayodhya Kanda,100,24,एकोऽप्यमात्यो मेधावी शूरो दक्षो विचक्षणः। राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम्।।2.100.24।। Ayodhya Kanda,100,25,कच्चिन्मुख्या महात्स्वेव मध्यमेषु च मध्यमाः। जघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः।।2.100.25।। Ayodhya Kanda,100,26,अमात्यानुपधातीतान्पितृपैतामहाञ्छुचीन्। श्रेष्ठांछ्रेष्ठेषुकच्चित्वं नियोजयसि कर्मसु।।2.100.26।। Ayodhya Kanda,100,27,कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजम्। राष्ट्रं तवानुजानन्ति मन्त्रिणः कैकयीसुत।।2.100.27।। Ayodhya Kanda,100,28,कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा। उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः।।2.100.28।। Ayodhya Kanda,100,29,उपायकुशलं वैद्यं भृत्यसंदूषणे रतम्। शूरमैश्वर्यकामं च यो न हन्ति स हन्यते।।2.100.29।। Ayodhya Kanda,100,30,कच्चिद्धृष्टश्च शूरश्च मतिमान् धृतिमान् शुचिः। कुलीनश्चानुरक्तश्च दक्षस्सेनापतिः कृतः।।2.100.30।। Ayodhya Kanda,100,31,बलवन्तश्च कच्चित्ते मुख्या युध्दविशारदाः। दृष्टापदाना विक्रान्तास्त्वया सत्कृत्यमानिताः।।2.100.31।। Ayodhya Kanda,100,32,कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम्। सम्प्राप्तकालं दातव्यं ददासि न विलम्बसे।।2.100.32।। Ayodhya Kanda,100,33,कालातिक्रमणाच्चैव भक्तवेतनयोर्भृताः। भर्तुः कुप्यन्ति दुष्यन्ति सोऽनर्थ स्सुमहान् स्मृतः।।2.100.33।। Ayodhya Kanda,100,34,कच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः। कच्चित्प्राणां स्तवार्थेषु सन्त्यजन्ति समाहिताः।।2.100.34।। Ayodhya Kanda,100,35,कच्चिज्जानपदो विद्वान्दक्षिणः प्रतिभानवान्। यथोक्तवादी दूतस्ते कृतो भरत पण्डितः।।2.100.35।। Ayodhya Kanda,100,36,कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च। त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः।।2.100.36।। Ayodhya Kanda,100,37,कच्चिद्व्यपास्तानहितान्प्रतियातांश्च सर्वदा। दुर्बलाननवज्ञाय वर्तसे रिपुसूदन।।2.100.37।। Ayodhya Kanda,100,38,कच्चिन्न लौकायतिकान्ब्राह्मणांस्तात सेवसे।। अनर्थकुशला ह्येते बालाः पण्डितमानिनः।।2.100.38।। Ayodhya Kanda,100,39,धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः। बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते।।2.100.39।। Ayodhya Kanda,100,40,वीरैरध्युषितां पूर्वमस्माकं तात पूर्वकैः। सत्यनामां दृढ द्वारां हस्त्यश्वरथसङ्कुलाम्।।2.100.40।। Ayodhya Kanda,100,41,ब्राह्मणैः क्षत्रियैर्वैश्यै स्स्वकर्मनिरतैस्सदा। जितेन्द्रियैर्महोत्साहैर्वृतामार्यै स्सहस्रशः।।2.100.41।। Ayodhya Kanda,100,42,प्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम्। कच्चित्सुमुदितां स्फीतामयोध्यां परिरक्षसि।।2.100.42।। Ayodhya Kanda,100,43,कच्चिच्चैत्यशतैर्जुष्ट स्सुनिविष्टजनाकुलः। देवस्थानैः प्रपाभिश्च तटाकैश्चोपशोभितः।।2.100.43।। Ayodhya Kanda,100,44,प्रहृष्टनरनारीकस्समाजोत्सवशोभितः। सुकृष्टसीमा पशुमान्हिंसाभिः परिवर्जितः।।2.100.44।। Ayodhya Kanda,100,45,अदेवमातृको रम्य श्श्वापदैः परिवर्जितः। परित्यक्तो भयैस्सर्वैः खनिभिश्चोपशोभितः।।2.100.45।। Ayodhya Kanda,100,46,विवर्जितो नरैः पापैर्मम पूर्वै स्सुरक्षितः। कच्चिज्जनपदस्स्फीतः सुखं वसति राघव।।2.100.46।। Ayodhya Kanda,100,47,कच्चित्ते दयितास्सर्वे कृषिगोरक्षजीविनः। वार्तायां संश्रितस्तात लोको हि सुखमेधते।।2.100.47।। Ayodhya Kanda,100,48,तेषां गुप्तिपरीहारैः कच्चित्ते भरणं कृतम्। रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः।।2.100.48।। Ayodhya Kanda,100,49,कच्चिस्त्रिय स्सान्त्वयसि कच्चित्ताश्च सुरक्षिताः। कच्चिन्न श्रद्धास्यासां कच्चिद्गुह्यं न भाषसे।।2.100.49।। Ayodhya Kanda,100,50,कच्चिन्नागवनं गुप्तं कच्चित्ते सन्ति धेनुकाः। कच्चिन्न गणिकाश्वानां कुञ्जराणां च तृप्यसि।।2.100.50।। Ayodhya Kanda,100,51,कच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम्। उत्थायोत्थाय पूर्वाह्णे राजपुत्र महापथे।।2.100.51।। Ayodhya Kanda,100,52,कच्चिन्न सर्वे कर्मान्ताः प्रत्यक्षास्तेऽविशङ्कया। सर्वे वा पुनरुत्सृष्टा मध्यमेवात्र कारणम्।।2.100.52।। Ayodhya Kanda,100,53,कच्चित्सर्वाणि दुर्गाणि धनधान्यायुधोदकैः। यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः।।2.100.53।। Ayodhya Kanda,100,54,आयस्ते विपुलः कच्चित्कच्चिदल्पतरो व्ययः। अपात्रेषु न ते कच्चित्कोशो गच्छति राघव।।2.100.54।। Ayodhya Kanda,100,55,देवतार्थे च पित्रर्थेब्राह्मणाभ्यागतेषु च। योधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्ययः।।2.100.55।। Ayodhya Kanda,100,56,कच्चिदार्यो विशुद्धात्मा क्षारित श्चापरकर्मणा। अपृष्ट श्शास्त्रकुशलैर्न लोभाद्वध्यते शुचिः।।2.100.56।। Ayodhya Kanda,100,57,गृहीतश्चैव पृष्टश्च काले दृष्टस्सकारणः। कच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ।।2.100.57।। Ayodhya Kanda,100,58,व्यसने कच्चिदाढ्यस्य दुर्गतस्य च राघव। अर्थं विरागाः पश्यन्ति तवामात्या बहुश्रुताः।।2.100.58।। Ayodhya Kanda,100,59,यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि राघव। तानि पुत्रान्पशून्घ्नन्ति प्रीत्यर्थमनुशासतः।।2.100.59।। Ayodhya Kanda,100,60,कच्चिद्वृद्धांश्च बालांश्च वैद्यामुख्यांश्च राघव। दानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे।।2.100.60।। Ayodhya Kanda,100,61,कच्चिद्गुरूंश्च वृद्धांश्च तापसान् देवतातिथीन्। चैत्यांश्च सर्वान्सिध्दार्थान्ब्राह्मणांश्च नमस्यसि।।2.100.61।। Ayodhya Kanda,100,62,कच्चिदर्थेन वा धर्ममर्थं धर्मेण वा पुनः। उभौ वा प्रीतिलोभेन कामेन च न बाधसे।।2.100.62।। Ayodhya Kanda,100,63,कच्चिदर्थं च धर्मं च कामं च जयतां वर। विभज्य काले कालज्ञ सर्वान्वरद सेवसे।।2.100.63।। Ayodhya Kanda,100,64,कच्चित्ते ब्राह्मणा श्शर्म सर्वशास्त्रार्थकोविदाः। आशंसन्ते महाप्राज्ञ पौरजानपदैस्सह।।2.100.64।। Ayodhya Kanda,100,65,नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम्। अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम्।।2.100.65।। Ayodhya Kanda,100,66,एकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम्। निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम्।।2.100.66।। Ayodhya Kanda,100,67,मङ्गलाद्यप्रयोगं च प्रत्युत्थानं च सर्वतः। कच्चित्वं वर्जयस्येतान्राजदोषांश्चतुर्दश।।2.100.67।। Ayodhya Kanda,100,68,दशपञ्चचतुर्वर्गान्सप्तवर्गं च तत्त्वतः। अष्टवर्गं त्रिवर्गं च विद्यास्तिस्रश्च राघव।।2.100.68।। Ayodhya Kanda,100,69,इन्द्रियाणां जयं बुद्ध्या षाड्गुण्यं दैवमानुषम्। कृत्यं विंशतिवर्गं च तथा प्रकृतिमण्डलम्।।2.100.69।। Ayodhya Kanda,100,70,यात्रादण्डविधानं च द्वियोनी सन्धिविग्रहौ। कच्चिदेतान्महाप्राज्ञ यथावदनुमन्यसे।।2.100.70।। Ayodhya Kanda,100,71,मन्त्रिभिस्त्वं यथोद्दिष्टैश्चतुर्भिस्त्रिभिरेव वा। कच्चित्समस्तैर्व्यस्तैश्च मन्त्रं मन्त्रयसे मिथः।।2.100.71।। Ayodhya Kanda,100,72,कच्चित्ते सफला वेदाः कच्चित्ते सफलाः क्रियाः। कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम्।।2.100.72।। Ayodhya Kanda,100,73,कच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघव। आयुष्या च यशस्या च धर्मकामार्थ संहिता।।2.100.73।। Ayodhya Kanda,100,74,यां वृत्तिं वर्तते तातो यां च नः प्रपितामहाः। तां वृत्तिं वर्तसे कच्चिद्याच सत्पथगा शुभा।।2.100.74।। Ayodhya Kanda,100,75,कच्चित्स्वादु कृतं भोज्यमेको नाश्नासि राघव। कच्चिदाशंसमानेभ्यो मित्रेभ्य स्सम्प्रयच्छसि।।2.100.75।। Ayodhya Kanda,100,76,राजा तु धर्मेण हि पालयित्वा महामतिर्दण्डधरः प्रजानाम्। अवाप्य कृत्स्नां वसुधां यथावदितश्च्युत स्स्वर्गमुपैति विद्वान्।।2.100.76।। Ayodhya Kanda,101,1,रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह। किं मे धर्माद्विहीनस्य राजधर्मः करिष्यति।।2.101.1।। Ayodhya Kanda,101,2,शाश्वतोऽयं सदा धर्मः स्थितोऽस्मासु नरर्षभ। ज्येष्ठेे पुत्रे स्थिते राजा न कनीयान् भवेन्नृपः।।2.101.2।। Ayodhya Kanda,101,3,स समृद्धां मया सार्धमयोध्यां गच्छ राघव। अभिषेचयचात्मानं कुलस्यास्य भवाय नः।।2.101.3।। Ayodhya Kanda,101,4,राजानं मानुषं प्राहु र्देवत्वे सम्मतो मम। यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम्।।2.101.4।। Ayodhya Kanda,101,5,केकयस्थे च मयि तु त्वयि चारण्य माश्रिते। दिवमार्यो गतो राजा यायजूक: सतां मतः।।2.101.5।। Ayodhya Kanda,101,6,निष्क्रान्तमात्रे भवति ससीते सहलक्ष्मणे। दुःखशोकाभिभूतस्तु राजा त्रिदिवमभ्यगात्।।2.101.6।। Ayodhya Kanda,101,7,उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितुः। अहं चायं च शत्रुघ्नः पूर्वमेव कृतोदकौ।।2.101.7।। Ayodhya Kanda,101,8,प्रियेण किल दत्तं हि पितृलोकेषु राघव। अक्षय्यं भवतीत्याहुर्भवांश्चैव पितुः प्रियः।।2.101.8।। Ayodhya Kanda,101,9,त्वामेव शोचंस्तव दर्शनेप्सुस्त्वय्येव सक्तामनिवर्त्य बुद्धिम्। त्वया विहीन स्तव शोकमग्नस्त्वां संस्मरन्नस्तमितः पिता ते।।2.101.9।। Ayodhya Kanda,102,1,तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम्। राघवो भरते नोक्तां बभूव गतचेतनः।।2.102.1।। Ayodhya Kanda,102,2,तं तु वज्रमिवोत्सृष्टमाहवे दानवारिणा वाग्वज्रंभरते नोक्त ममनोज्ञं परन्तपः।।2.102.2।। Ayodhya Kanda,102,3,प्रगृह्य रामो बाहू वैपुष्पिताग्रो यथा द्रुमः। वने परशुना कृत्तस्तथा भुवि पपात ह।।2.102.3।। Ayodhya Kanda,102,5,तथा हि पतितं रामं जगत्यां जगतीपतिम्। कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम्।।2.102. 4।। भ्रातरस्ते महेष्वासं सर्वतश्शोककर्शितम्। रुदन्तस्सह वैदेह्या सिषिचुस्सलिलेन वै।।2.102.5।। Ayodhya Kanda,102,6,स तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामस्रमुत्सृजन्। उपाक्रामत काकुत्स्थ कृपणं बहु भाषितुम्।।2.102.6।। Ayodhya Kanda,102,7,स रामस्स्वर्गतं श्रुत्वा पितरं पृथिवीपतिम्। उवाच भरतं वाक्यं धर्मात्मा धर्मसंहितम्।।2.102.7।। Ayodhya Kanda,102,8,किं करिष्याम्ययोध्यायां ताते दिष्टां गतिं गते। कस्तां राजवराध्दीनामयोध्यां पालयिष्यति।।2.102.8।। Ayodhya Kanda,102,9,किं नु तस्य मया कार्यं दुर्जातेन महात्मनः। यो मृतो मम शोकेन मया चापि न संस्कृतः।।2.102.9।। Ayodhya Kanda,102,10,अहो भरत सिद्धार्थो येन राजा त्वयाऽनघ। शत्रुघ्नेन च सर्वेषु प्रेतकृत्येषु सत्कृतः।।2.102.10।। Ayodhya Kanda,102,11,निष्प्रधानामनेकाग्रां नरेन्द्रेण विनाकृताम्। निवृत्तवनवासोऽपि नायोध्यां गन्तु मुत्सहे।।2.102.11।। Ayodhya Kanda,102,12,समाप्तवनवासं मामयोध्यायां परन्तप। कोऽनु शासिष्यति पुनस्ताते लोकान्तरं गते।।2.102.12।। Ayodhya Kanda,102,13,पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन्। वाक्यानि तानि श्रोष्यामि कुतश्श्रोत्रसुखान्यहम्।।2.102.13।। Ayodhya Kanda,102,14,एवमुक्त्वा स भरतं भार्यामभ्येत्य राघवः। उवाच शोकसन्तप्तः पूर्णचन्द्रनिभाननाम्।।2.102.14।। Ayodhya Kanda,102,15,सीते मृतस्ते श्वशुरः पित्रा हीनोऽसि लक्ष्मण। भरतो दुःखमाचष्टे स्वर्गतं पृथिवीपतिम्।।2.102.15।। Ayodhya Kanda,102,16,ततो बहुगुणं तेषां बाष्पं नेत्रेष्वजायत। तथा ब्रुवति काकुत्स्थे कुमाराणां यशस्विनाम्।।2.102.16।। Ayodhya Kanda,102,17,ततस्ते भ्रातर  स्रव्रॆ भृशमाश्वास्य दु:खितम्। अब्रुवन् जगतीभर्तुः क्रियतामुदकं पितुः।।2.102.17।। Ayodhya Kanda,102,18,सा सीता स्वर्गतं श्रुत्वा श्वशुरं  तं महानृपम्। नेत्राभ्यामश्रुपूर्णाभ्या शशाकेक्षितुं प्रियम्।।2.102.18।। Ayodhya Kanda,102,19,सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम्। उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः।।2.102.19।। Ayodhya Kanda,102,20,आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम्। जलक्रियार्थं तातस्य गमिष्यामि महात्मनः।।2.102.20।। Ayodhya Kanda,102,21,सीता पुरस्ताद्व्रजतु त्वमेनामभितो व्रज। अहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा।।2.102.21।। Ayodhya Kanda,102,22,ततो नित्यानुगस्तेषां विदितात्मा महामतिः। मृदुर्दान्तश्च कान्तश्च रामे च दृढभक्तिमान्।।2.102.22।। Ayodhya Kanda,102,23,सुमन्त्र स्तैर्नृपसुतैस्सार्धमाश्वस्य राघवम्। अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम्।।2.102.23।। Ayodhya Kanda,102,22,ततो नित्यानुगस्तेषां विदितात्मा महामतिः। मृदुर्दान्तश्च शान्तश्च रामे च दृढभक्तिमान्।।2.102.22।। Ayodhya Kanda,102,23,सुमन्त्रस्तैर्नृपसुतैः सार्धमाश्वास्य राघवम्। अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम्।।2.102.23।। Ayodhya Kanda,102,24,ते सुतीर्थां ततः कृच्छ्रादुपागम्य यशस्विनः। नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम्।।2.102.24।। Ayodhya Kanda,102,25,शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्दमम्। सिषिचु स्तूदकं राज्ञे तत एतद् भवत्विति।।2.102.25।। Ayodhya Kanda,102,25,शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्दमम्। सिषिचु स्तूदकं राज्ञे तातैतत्ते भवत्विति।।2.102.25।। Ayodhya Kanda,102,26,प्रगृह्य च महीपालो जलपूरितमञ्जलिम्। दिशं याम्यामभिमुखो रुदन्वचनमब्रवीत्।।2.102.26।। Ayodhya Kanda,102,27,एतत्ते राजशार्दूल विमलं तोयमक्षयम्। पितृलोकगत स्याद्य मद्दत्तमुपतिष्ठतु।।2.102.27।। Ayodhya Kanda,102,28,ततो मन्दाकिनीतीरात्प्रत्युत्तीर्य स राघवः। पितुश्चकार तेजस्वी निर्वापं भ्रातृभि सह।।2.102.28।। Ayodhya Kanda,102,29,ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे। न्यस्य रामस्सदुःखार्तो रुदन्वचनमब्रवीत्।।2.102.29।। Ayodhya Kanda,102,30,इदं भुङ्क्ष्वमहाराज प्रीतो यदशना वयम्। यदन्नः पुरुषो भवति तदन्ना स्तस्य देवताः।।2.102.30।। Ayodhya Kanda,102,31,तत स्तेनैव मार्गेण प्रत्युत्तीर्य सरित्तटात्। आरुरोह नरव्याघ्रो रम्यसानुं महीधरम्।।2.102.31।। Ayodhya Kanda,102,32,ततः पर्णकुटीद्वारमासाद्य जगतीपतिः। परिजग्राह बाहुभ्यामुभौ भरतलक्ष्मणौ।।2.102.32।। Ayodhya Kanda,102,33,तेषां तु रुदतां शब्दात् प्रतिशब्दोऽभवद् गिरौ। भ्रातॄणां सह वैदेह्या सिंहानां नर्दतामिव।।2.102.33।। Ayodhya Kanda,102,34,महाबलानां रुदतां कुर्वतामुदकं पितुः। विज्ञाय तुमुलं शब्दं त्रस्ता भरत सैनिकाः।।2.102.34। Ayodhya Kanda,102,35,अब्रुवंश्चापि रामेण भरत संगतो ध्रुवम्। तेषामेव महान् श‌ब्द: शोचतां पितरं मृतम्।।2.102.35।। Ayodhya Kanda,102,36,अथ वासान्परित्यज्य तं सर्वेऽभिमुखास्स्वनम्। अप्येकमनसो जग्मुर्यथास्थानं प्रधाविताः।।2.102.36।। Ayodhya Kanda,102,37,हयैरन्ये गजैरन्ये रथैरन्ये स्वलङ्कृतैः। सुकुमारा स्तथैवान्ये पद्भिरेव नरा ययुः।।2.102.37।। Ayodhya Kanda,102,38,अचिरप्रोषितं रामं चिरविप्रोषितं यथा। द्रष्टुकामो जनः सर्वो जगाम सहसाऽऽश्रमम्।।2.102.38।। Ayodhya Kanda,102,39,भ्रातृ़णां त्वरितास्ते तु द्रष्टुकामा स‌मागमम्। ययुर्बहुविधैर्यानै: खुरनेमिस्वनाकुलैः।।2.102.39।। Ayodhya Kanda,102,40,सा भूमिर्बहुभिर्यानैः रथ‌नेमिसमाहता। मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे।।2.102.40।। Ayodhya Kanda,102,41,तेन वित्रासिता नागाः करेणुपरिवारिताः। आवासयन्तो गन्धेन जग्मुरन्यद्वनं ततः।।2.102.41।। Ayodhya Kanda,102,42,वराह वृकसङ्घाश्च महिषा: सृमरास्तथा । व्याघ्रगोकर्णगवया वित्रेसुः पृषतै स‌ह।।2.102.42।। Ayodhya Kanda,102,43,रथाङ्गसाह्वा नत्यूहा हंसाः कारण्डवाः परे। तथा पुंस्कोकिलाः क्रौञ्चा विसंज्ञा भेजिरे दिशः।।2.102.43।। Ayodhya Kanda,102,44,तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम्। मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा।।2.102.44।। Ayodhya Kanda,102,45,ततस्तं पुरषव्याघ्रं यशस्विनमकल्पषम्। आसीनं स्थण्डिले रामं ददर्श सहसा जनः।।2.102.45।। Ayodhya Kanda,102,46,विगर्हमाणः कैकेयीं मन्थरासहितामपि। अभिगम्य जनो रामं बाष्पपूर्णमुखोऽभवत्।।2.102.46।। Ayodhya Kanda,102,47,तान्नरान्बाष्पपूर्णाक्षान्समीक्ष्याथ सुदुःखितान्। पर्यष्वजत धर्मज्ञः पितृवन्मातृवच्च सः।।2.102.47।। Ayodhya Kanda,102,48,स तत्र कांश्चित्परिषस्वजे नरान्नरास्तु केचित्तु तमभ्यवादयन्। चकार सर्वान्सवयस्यबान्धवान्यथार्ह मासाद्य तदा नृपात्मजः।।2.102.48।। Ayodhya Kanda,102,49,स तत्र तेषां रुदतां महात्मनां भुवं च खं चानुनिनादयन्स्वनः। गुहा गिरीणां च दिशश्च सन्ततं मृदङ्गघोषप्रतिमः प्रशुश्रुवे।।2.102.49।। Ayodhya Kanda,103,1,वसिष्ठः पुरतः कृत्वा दारान्दशरथस्य च। अभिचक्राम तं देशं रामदर्शनतर्षितः।।2.103.1।। Ayodhya Kanda,103,2,राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति। ददृशु स्तत्र तत् तीर्थं रामलक्ष्मणसेवितम्।।2.103.2।। Ayodhya Kanda,103,3,कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता। सुमित्रामब्रवीद्दीना याश्चान्या राजयोषितः।।2.103.3।। Ayodhya Kanda,103,4,इदं तेषामनाथानां क्लिष्टमक्लिष्टकर्मणाम्। वने प्राक्कलनं तीर्थं ये ते निर्विषयीकृताः।।2.103.4।। Ayodhya Kanda,103,5,इत स्सुमित्रे पुत्रस्ते सदा जलमतन्द्रितः। स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात्।।2.103.5।। Ayodhya Kanda,103,6,जघन्यमपि ते पुत्रः कृतवान् न तु गर्हितः। भ्रातुर्यदर्थरहितं सर्वं तद् गर्हितंं गुणैः।।2.103.6।। Ayodhya Kanda,103,7,अद्यायमपि ते पुत्रः क्लेशानामतथोचितः। नीचानर्थ समाचारं सज्जं कर्म प्रमुञ्चतु।।2.103.7।। Ayodhya Kanda,103,8,दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले। पितुरिङ्गुदिपिण्याकं न्यस्तमायतलोचना।।2.103.8।। Ayodhya Kanda,103,9,तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा। उवाच देवी कौसल्या सर्वा दशरथस्त्रियः।।2.103.9।। Ayodhya Kanda,103,10,इदमिक्ष्वाकुनाथस्य राघवस्य महात्मनः। राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि।।2.103.10।। Ayodhya Kanda,103,11,तस्य देवसमानस्य पार्थिवस्य महात्मनः। नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम्।।2.103.11।। Ayodhya Kanda,103,12,चतुरन्तां महीं भुक्त्वा महेन्द्रसदृशो विभुः। कथमिङ्गुदिपिण्याकं स भुक्ते वसुधाधिपः।।2.103.12।। Ayodhya Kanda,103,13,अतो दुःखतरं लोके न किञ्चित्प्रतिभाति मा। यत्र रामः पितुर्दद्यादिङ्गुदिक्षोदमृद्धिमान्।।2.103.13।। Ayodhya Kanda,103,14,रामेणेङ्गुदिपिण्याकं पितुर्दत्तं समीक्ष्य मे। कथं दुःखेन हृदयं न स्फोटति सहस्रधा।।2.103.14।। Ayodhya Kanda,103,15,श्रुतिस्तु खल्वियं सत्या लौकिकी प्रतिभाति मा। यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः।।2.103.15।। Ayodhya Kanda,103,16,एवमार्तां सपत्न्यस्ता जग्मुराश्वास्य तां तदा। ददृशुश्चाश्रमे रामं स्वर्गच्युतमिवामरम्।।2.103.16।। Ayodhya Kanda,103,17,सर्वभोगैः परित्यक्तं रामं सम्प्रेक्ष्य मातरः। आर्ता मुमुचुरश्रूणि सस्वरं शोककर्शिताः।।2.103.17।। Ayodhya Kanda,103,18,तासां रामस्समुत्थाय जग्राह चरणान् शुभान्। मात्रूणां मनुजव्याघ्रस्सर्वासां सत्यसङ्गरः।।2.103.18।। Ayodhya Kanda,103,19,ताः पाणिभि स्सुखस्पर्शैर्मृद्वङ्गुलितलै श्शुभैः। प्रममार्जू रजः पृष्ठाद्रामस्यायतलोचनाः।।2.103.19।। Ayodhya Kanda,103,20,सौमित्रिरपि ता स्सर्वा मातृ़स्सम्प्रेक्ष्य दुःखितः। अभ्यवादयतासक्तं शनै रामादनन्तरम्।।2.103.20।। Ayodhya Kanda,103,21,यथा रामे तथा तस्मिन्सर्वा ववृतिरे स्त्रियः। वृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे।।2.103.21।। Ayodhya Kanda,103,22,सीताऽपि चरणांस्तासामुपसङ्गृह्य दुःखिता। श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रतः स्थिता।।2.103.22।। Ayodhya Kanda,103,23,तां परिष्वज्य दुःखार्तां माता दुहितरं यथा। वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत्।।2.103.23।। Ayodhya Kanda,103,24,विदेहराजस्य सुता स्नुषा दशरथस्य च। रामपत्नी कथं दुःखं सम्प्राप्ता निर्जने वने।।2.103.24।। Ayodhya Kanda,103,25,पद्ममातपसन्तप्तं परिक्लिष्टमिवोत्पलम्। काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदैः।।2.103.25।। Ayodhya Kanda,103,26,मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाऽश्रयम्। भृशं मनसि वैदेहि व्यसनारणिसम्भवः।।2.103.26।। Ayodhya Kanda,103,27,ब्रुवन्त्यामेवमार्तायां जनन्यां भरताग्रजः। पादावासाद्य जग्राह वसिष्ठस्य च राघवः।।2.103.27।। Ayodhya Kanda,103,28,पुरोहितस्याग्निसमस्य वै तदा बृहस्पतेरिन्द्रमिवामराधिपः। प्रगृह्य पादौ सुसमृद्धतेजसस्सहैव तेनोपविवेश राघवः।।2.103.28।। Ayodhya Kanda,103,29,ततो जघन्यं सहितै स्समन्त्रिभिः पुरप्रधानैश्च सहैव सैनिकैः। जनेन धर्मज्ञतमेन धर्मवानुपोपविष्टो भरत स्तदाऽग्रजम्।।2.103.29।। Ayodhya Kanda,103,30,उपोपविष्ट स्तु तदा स वीर्यवांस्तपस्विवेषेण समीक्ष्य राघवम्। श्रिया ज्वलन्तं भरतः कृताञ्जलिर्यथा महेन्द्रः प्रयतः प्रजापतिम्।।2.103.30।। Ayodhya Kanda,103,31,किमेष वाक्यं भरतोऽद्य राघवं प्रणम्य सत्कृत्य च साधु वक्ष्यति। इतीव तस्यार्यजनस्य तत्त्वतो बभूव कौतूहलमुत्तमं तदा।।2.103.31।। Ayodhya Kanda,103,32,स राघव स्सत्यधृति श्च लक्ष्मणो महानुभावो भरत श्च धार्मिकः। वृताः सुहृद्भि श्च विरेजुरध्वरे यथा सदस्यै स्सहितास्त्रयोऽग्नयः।।2.103.32।। Ayodhya Kanda,104,1,तं तु राम स्समाश्वास्य भ्रातरं गुरवत्सलम्। लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे।।2.104.1।। Ayodhya Kanda,104,2,किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया। यस्मात्त्वमागतो देशमिमं चीरजटाजिनः।।2.104.2।। Ayodhya Kanda,104,3,यन्निमित्तमिमं देशं कृष्णाजिनजटाधरः। हित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हसि।।2.104.3।। Ayodhya Kanda,104,4,इत्युक्तः कैकयीपुत्रः काकुत्स्थेन महात्मना। प्रगृह्य बलवद्भूयः प्राञ्जलिर्वाक्यमब्रवीत्।।2.104.4।। Ayodhya Kanda,104,5,आर्यं तातः परित्यज्य कृत्वा कर्म सुदुष्करम्। गत: स्वर्ग महाबाहुः पुत्रशोकाभिपीडितः।।2.104.5।। Ayodhya Kanda,104,6,स्त्रिया नियुक्तः कैकेय्या मम मात्रा परन्तप। चकार सा महत्पापमिदमात्मयशोहरम्।।2.104.6।। Ayodhya Kanda,104,7,सा राज्यफलमप्राप्य विधवा शोककर्शिता। पतिष्यति महाघोरे निरये जननी मम।।2.104.7।। Ayodhya Kanda,104,8,तस्य मे दासभूतस्य प्रसादं कर्तुमर्हसि। अभिषिञ्चस्व चाद्येव राज्येन मघवानिव।।2.104.8।। Ayodhya Kanda,104,9,इमाः प्रकृतय स्सर्वा विधवा मातरश्च याः। त्वत्सकाशमनुप्राप्ता प्रसादं कर्तुमर्हसि।।2.104.9।। Ayodhya Kanda,104,10,तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद। राज्यं प्राप्नुहि धर्मेण सकामान्सुहृदः कुरु।।2.104.10।। Ayodhya Kanda,104,11,भवत्वविधवा भूमि स्समग्रा पतिना त्वया। शशिना विमलेनेव शारदी रजनी यथा।।2.104.11।। Ayodhya Kanda,104,12,एभिश्च सचिवैस्सार्धं शिरसा याचितो मया। भ्रातु  शिष्यस्य दासस्य प्रसादं कर्तुमर्हसि।।2.104.12।। Ayodhya Kanda,104,13,तदिदं शाश्वतं पित्र्यं सर्वं प्रकृतिमण्डलम्। पूजितं पुरुषव्याघ्र नातिक्रमितुमर्हसि।।2.104.13।। Ayodhya Kanda,104,14,एवमुक्त्वा महाबाहु स्सबाष्पः कैकयीसुतः। रामस्य शिरसा पादौ जग्राह भरत: पुन:।।2.104.14।। Ayodhya Kanda,104,15,तं मत्तमिव मातङ्गं निःश्वसन्तं पुन पुनः। भ्रातरं भरतं रामः परिष्वज्येदमब्रवीत्।।2.104.15।। Ayodhya Kanda,104,16,कुलीन:सत्त्वसम्पन्नस्तेजस्वी चरितव्रतः। राज्यहेतोः कथं पापमाचरेत्त्वद्विधो जनः।।2.104.16।। Ayodhya Kanda,104,17,न दोषं त्वयि पश्यामि सूक्ष्ममप्यरिसूदन। न चापि जननीं बाल्यात्त्वं विगर्हितुमर्हसि।।2.104.17।। Ayodhya Kanda,104,18,कामकारो महाप्राज्ञ गुरूणां सर्वदाऽनघ। उपपन्नेषु दारेषु पुत्रेषु च विधीयते।।2.104.18।। Ayodhya Kanda,104,19,वयमस्य यथा लोके सङ्ख्याता: सौम्य साधुभिः। भार्याः पुत्राश्च शिष्याश्च त्वमनुज्ञातुमर्हसि।।2.104.19।। Ayodhya Kanda,104,20,वने वा चीरवसनं सौम्य कृष्णाजिनाम्बरम्। राज्ये वाऽपि महाराजो मां वासयितुमीश्वरः।।2.104.20।। Ayodhya Kanda,104,21,यावत पितरि धर्मज्ञे गौरवं लोकसत्कृतम्। तावद्धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम्।।2.104.21।। Ayodhya Kanda,104,22,एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव। मातापितृभ्यामुक्तोऽहं कथमन्यत्समाचरे।।2.104.22।। Ayodhya Kanda,104,23,त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम्। वस्तव्यं दण्डकारण्ये मया वल्कलवाससा।।2.104.23।। Ayodhya Kanda,104,24,एवं कृत्वा महाराजो विभागं लोकसन्निधौ। व्यादिश्य च महातेजा दिवं दशरथो गतः।।2.104.24।। Ayodhya Kanda,104,25,स च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव। पित्रा दत्तं यथाभागमुपभोक्तुं त्वमर्हसि।।2.104.25।। Ayodhya Kanda,104,26,चतुर्दश समास्सौम्य दण्डकारण्यमाश्रितः। उपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मना।।2.104.26।। Ayodhya Kanda,104,27,यदब्रवीन्मां नरलोकसत्कृतः पिता महात्मा विबुधाधिपोपमः। तदेव मन्ये परमात्मनो हितं न सर्वलोकेश्वर भावमप्ययम्।।2.104.27।। Ayodhya Kanda,105,1,ततः पुरुषसिंहानां वृतानां तै स्सुहृद्गणैः। शोचतामेव रजनी दुःखेन व्यत्यवर्तत।।2.105.1।। Ayodhya Kanda,105,2,रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृताः। मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन्।।2.105.2।। Ayodhya Kanda,105,3,तूष्णीं ते समुपासीना न कश्चित्किञ्चिदब्रवीत्। भरतस्तु सुहृन्मध्ये रामं वचनमब्रवीत्।।2.105.3।। Ayodhya Kanda,105,4,सान्त्विता मामिका माता दत्तं राज्यमिदं मम। तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम्।।2.105.4।। Ayodhya Kanda,105,5,महतेवाम्बुवेगेन भिन्नस्सेतुर्जलागमे। दुरावारं त्वदन्येन राज्यखण्डमिदं महत्।।2.105.5।। Ayodhya Kanda,105,6,गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्रिणः। अनुगन्तुं न शक्तिर्मे गतिं तव महीपते।।2.105.6।। Ayodhya Kanda,105,7,सुजीवं नित्यशस्तस्य यः परैरुपजीव्यते। राम तेन तु दुर्जीवं यः परानुपजीवति।।2.105.7।। Ayodhya Kanda,105,8,यथा तु रोपितो वृक्षः पुरुषेण विवर्धितः। ह्रस्वकेण दुरारोहो रूढस्कन्धो महाद्रुमः।।2.105.8।। Ayodhya Kanda,105,9,स यदा पुष्पितो भूत्वा फलानि न विदर्शयेत्। स तां नानुभवेत्प्रीतिं यस्य हेतोः प्ररोपितः।।2.105.9।। Ayodhya Kanda,105,10,एषोपमा महाबाहो तमर्थं वेत्तु मर्हसि। यदि त्वमस्मान्वृषभो भर्ता भृत्यान्न शाधि हि।।2.105.10।। Ayodhya Kanda,105,11,श्रेणयस्त्वां महाराज पश्यन्त्वग्य्राश्च सर्वशः। प्रतपन्तमिवादित्यं राज्ये स्थित मरिन्दमम्।।2.105.11।। Ayodhya Kanda,105,12,तवानुयाने काकुत्स्थ मत्ता नर्दन्तु कुञ्जराः। अन्तःपुरगता नार्यो नन्दन्तु सुसमाहिताः।।2.105.12।। Ayodhya Kanda,105,13,तस्य साध्वित्यमन्यन्त नागरा विविधा जनाः। भरतस्य वच श्श्रुत्वा रामं प्रत्यनुयाचतः।।2.105.13।। Ayodhya Kanda,105,14,तमेवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम्। रामः कृतात्मा भरतं समाश्वासयदात्मवान्।।2.105.14।। Ayodhya Kanda,105,15,नाऽत्मनः कामकारोऽस्ति पुरुषोऽयमनीश्वरः। इतश्चेतरतश्चैनं कृतान्तः परिकर्षति।।2.105.15।। Ayodhya Kanda,105,16,सर्वे क्षयान्ताः निचयाः पतनान्ता समुच्छ्रयाः। संयोगा विप्रयोगान्ता मरणान्तं च जीवितम्।।2.105.16।। Ayodhya Kanda,105,17,यथा फलानां पक्वानां नान्यत्र पतनाद्भयम्। एवं नरस्य जातस्य नान्यत्र मरणाद्भयम्।।2.105.17।। Ayodhya Kanda,105,18,यथाऽगारं दृढस्थूणं जीर्णं भूत्वाऽवसीदति। तथैव सीदन्ति नरा जरामृत्युवशं गताः।।2.105.18।। Ayodhya Kanda,105,19,अत्येति रजनी या तु सा न प्रतिनिवर्तते। यात्येव यमुना पूर्णा समुद्रमुदकाकुलम्।।2.105.19।। Ayodhya Kanda,105,20,अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह। अायूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः।।2.105.20।। Ayodhya Kanda,105,21,आत्मानमनुशोच त्वं किमन्यमनुशोचसि। आयुस्ते हीयते यस्य स्थितस्य च गतस्य च।।2.105.21।। Ayodhya Kanda,105,22,सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति। गत्वासुदीर्घमध्वानं सहमृत्युर्निवर्तते।।2.105.22।। Ayodhya Kanda,105,23,गात्रेषु वलयः प्राप्ता श्श्वेताश्चैव शिरोरुहाः। जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत्।।2.105.23।। Ayodhya Kanda,105,24,नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमितेऽहनि। आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम्।।2.105.24।। Ayodhya Kanda,105,25,हृष्यन्त्यृतुमुखं दृष्ट्वा नवं नवमिहागतम्। ऋतूनां परिवर्तेन प्राणिनां प्राणसङ्क्षयः।।2.105.25।। Ayodhya Kanda,105,26,यथा काष्ठं च काष्ठं च समेयातां महार्णवे। समेत्य च व्यपेयातां कालमासाद्य कञ्चन।।2.105.26।। Ayodhya Kanda,105,27,एवं भार्याश्चपुत्राश्च ज्ञातयश्च धनानि च। समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः।।2.105.27।। Ayodhya Kanda,105,27,एवं भार्याश्चपुत्राश्च ज्ञातयश्च धनानि च। समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः।।2.105.27।। Ayodhya Kanda,105,28,नात्र कश्चिद्यथाभावं प्राणी समभिवर्तते। तेन तस्मिन्न सामर्थ्यं प्रेतस्या स्त्यनुशोचतः।।2.105.28।। Ayodhya Kanda,105,29,यथा हि सार्थं गच्छन्तं ब्रूयात्कश्चित्पथि स्थितः। अहमप्यागमिष्यामि पृष्ठतो भवता मिति।।2.105.29।। Ayodhya Kanda,105,30,एवं पूर्वैर्गतो मार्गः पितृपैतामहो ध्रुवः। तमापन्नः कथं शोचेद्यस्य नास्ति व्यतिक्रमः।।2.105.30।। Ayodhya Kanda,105,31,वयसः पतमानस्य स्रोतसो वाऽनिवर्तिनः। आत्मा सुखे नियोक्तव्यस्सुखभाजः प्रजाः स्मृताः।।2.105.31।। Ayodhya Kanda,105,32,धर्मात्मा स शुभैः कृत्स्नैः क्रतुभिश्चाप्तदक्षिणैः। स्वर्गं दशरथः प्राप्तः पिता नः पृथिवीपतिः।।2.105.32।। Ayodhya Kanda,105,33,भृत्यानां भरणात्सम्यक्प्रजानां परिपालनात्। अर्थादानाच्च धर्मेण पिता न स्त्रिदिवंगतः।।2.105.33।। Ayodhya Kanda,105,34,कर्मभि स्तु शुभैरिष्टैः क्रतुभिश्चाप्तदक्षिणैः। स्वर्गं दशरथः प्राप्तः पिता नः पृथिवीपतिः।।2.105.34।। Ayodhya Kanda,105,35,इष्ट्वा बहुविधैर्यज्ञैर्भोगां श्चावाप्य पुष्कलान्। उत्तमं चायुरासाद्य स्वर्गतः पृथिवीपतिः।।2.105.35।। Ayodhya Kanda,105,36,आयुरुत्तममासाद्य भोगानपि च राघवः। स न शोच्यः पिता तात स्वर्गत स्सत्कृत स्सताम्।।2.105.36।। Ayodhya Kanda,105,37,स जीर्णं मानुषं देहं परित्यज्य पिता हि नः। दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम्।।2.105.37।। Ayodhya Kanda,105,38,तं तु नैवंविधः कश्चित्प्राज्ञ श्शोचितुमर्हति। तत्विधो मद्विधश्चापि श्रुतवान्बुद्धिमत्तरः।।2.105.38।। Ayodhya Kanda,105,39,एते बहुविधा शोका विलापरुदिते तथा। वर्जनीया हि धीरेण सर्वावस्थासु धीमता।।2.105.39।। Ayodhya Kanda,105,40,स स्वस्थो भव मा शोचेर्यात्वा चावसतां पुरीम्। तथा पित्रा नियुक्तोऽसि वशिना वदतां वर।।2.105.40।। Ayodhya Kanda,105,41,यत्राहमपि तेनैव नियुक्तः पुण्यकर्मणा। तत्रैवाहं करिष्यामि पितुरार्यस्य शासनम्।।2.105.41।। Ayodhya Kanda,105,42,न मया शासनं तस्य त्यक्तुं न्याय्य मरिन्दम। स त्वयापि सदा मान्यं स वै बन्धु स नः पिता।।2.105.42।। Ayodhya Kanda,105,43,तद्वचः पितुरेवाहं सम्मतं धर्मचारिणः। कर्मणा पालयिष्यामि वनवासेन राघव।।2.105.43।। Ayodhya Kanda,105,44,धार्मिकेणानृशंसेन नरेण गुरुवर्तिना। भवितव्यं नरव्याघ्र परलोकं जिगीषता।।2.105.44।। Ayodhya Kanda,105,45,आत्मानमनुतिष्ठत्वं स्वभावेन नरर्षभ। निशाम्यतु शुभं वृत्तं पितुर्दशरथस्य नः।।2.105.45।। Ayodhya Kanda,105,46,इत्येवमुक्त्वा वचनं महात्मा पितुर्निदेश प्रतिपालनार्थम्। यवीयसं भ्रातरमर्थवच्च प्रभुर्मुहूर्ताद्विरराम रामः।।2.105.46।। Ayodhya Kanda,106,1,एवमुक्त्वा तु विरते रामे वचनमर्थवत्। ततो मन्दाकिनीतीरे रामं प्रकृतिवत्सलम्।।2.106.1।। उवाच भरत श्चित्रं धार्मिको धार्मिकं वचः। Ayodhya Kanda,106,2,को हि स्यादीदृशो लोके यादृश स्त्वमरिन्दमः।।2.106.2।। Ayodhya Kanda,106,3,न त्वां प्रव्यथयेद्दुःखं प्रीतिर्वा नप्रहर्षयेत्। सम्मतश्चासि वृद्धानां तांश्च पृच्छसि संशयान्।।2.106.3।। Ayodhya Kanda,106,2,को हि स्यादीदृशो लोके यादृश स्त्वमरिन्दम।।2.106.2।। Ayodhya Kanda,106,4,यथा मृत स्तथा जीवन्यथाऽसति तथा सति। यस्यैष बुद्धिलाभ स्स्यात्परितप्येत केन सः।।2.106.4।। Ayodhya Kanda,106,5,परावरज्ञो यश्च स्याद् यथा त्वं मनुजाधिप। स एव व्यसनं प्राप्य न विषीदितुमर्हति।।2.106.5।। Ayodhya Kanda,106,6,अमरोपमसत्त्व स्त्वं महात्मा सत्यसङ्गरः। सर्वज्ञ स्सर्वदर्शी च बुद्धिमांश्चासि राघव।।2.106.6।। Ayodhya Kanda,106,7,न त्वामेवं गुणैर्युक्तं प्रभवाभवकोविदम्। अविषह्यतमं दुःखमासादयितुमर्हति।।2.106.7।। Ayodhya Kanda,106,8,प्रोषिते मयि यत्पापं मात्रा मत्कारणात्कृतम्। क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम।।2.106.8।। Ayodhya Kanda,106,9,धर्मबन्धेन बद्धोऽस्मि तेनेमां नेह मातरम्। हन्मितीव्रेण दण्डेन दण्डार्हां पापकारिणीम्।।2.106.9।। Ayodhya Kanda,106,10,कथं दशरथा ज्जात श्शुद्धाभिजनकर्मणः। जानन् धर्ममधर्मिष्ठं कुर्यां कर्म जुगुप्सितम्।।2.106.10।। Ayodhya Kanda,106,11,गुरुः क्रियावान्वृद्धश्च राजा प्रेतः पितेतिच। तातं न परिगर्हेयं दैवतं चेति संसदि।।2.106.11।। Ayodhya Kanda,106,12,को हि धर्मार्थयोर्हीनमीदृशं कर्म किल्बिषम्। स्त्रियाः प्रियं चिकीर्षु स्सन्कुर्याद्धर्मज्ञ धर्मवित्।।2.106.12।। Ayodhya Kanda,106,13,अन्तकाले हि भूतानि मुह्यन्तीति पुरा श्रुतिः। राज्ञैवं कुर्वता लोके प्रत्यक्षं सा श्रुतिः कृता।।2.106.13।। Ayodhya Kanda,106,14,साध्वर्थमभिसन्धाय क्रोधान्मोहाच्च साहसात्। तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान्।।2.106.14।। Ayodhya Kanda,106,15,पितुर्हि समतिक्रान्तं पुत्रो यस्साधु मन्यते। तदपत्यं मतं लोके विपरीतमतोऽन्यथा।।2.106.15।। Ayodhya Kanda,106,16,तदपत्यं भवानस्तु मा भवान् दुष्कृतं पितुः। अभिपत्ता कृतं कर्म लोके धीरविगर्हितम्।।2.106.16।। Ayodhya Kanda,106,17,कैकेयीं मां च तातं च सुहृदो बान्धवांश्च नः। पौरजानपदान्सर्वांस्त्रातु सर्वमिदं भवान्।।2.106.17।। Ayodhya Kanda,106,18,क्व चारण्यं क्वच क्षात्रं क्व जटाः क्व च पालनम्। ईदृशं व्याहतं कर्म न भवान्कर्तुमर्हति।।2.106.18।। Ayodhya Kanda,106,19,एष हि प्रथमो धर्मः क्षत्रियस्याभिषेचनम्। येन शक्यं महाप्राज्ञ प्रजानां परिपालनम्।।2.106.19।। Ayodhya Kanda,106,20,कश्च प्रत्यक्षमुत्सृज्य संशयस्थ मलक्षणम्। आयतिस्थं चरे द्धर्मं क्षत्रबन्दुरनिश्चितम्।।2.106.20।। Ayodhya Kanda,106,21,अथ क्लेशज मेव त्वं धर्मं चरितु मिच्छसि। धर्मेण चतुरो वर्णान्पालयन् क्लेश माप्नुहि।।2.106.21।। Ayodhya Kanda,106,22,चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमुत्तमम्। आहुर्धर्मज्ञ धर्मज्ञास्तं कथं त्यक्तु मर्हसि।।2.106.22।। Ayodhya Kanda,106,23,श्रुतेन बालः स्थानेन जन्मना भवतो ह्यहम्। स कथं पालयिष्यामि भूमिं भवति तिष्ठति।।2.106.23।। Ayodhya Kanda,106,24,हीनबुद्धिगुणो बालो हीनः स्थानेन चाप्यहम्। भवता च विनाभूतो न वर्तयितुमुत्सुहे।।2.106.24।। Ayodhya Kanda,106,25,इदं निखिल मव्यग्रं राज्यं पित्र्यमकण्टकम्। अनुशाधि स्वधर्मेण धर्मज्ञ सहबान्धवैः।।2.106.25।। Ayodhya Kanda,106,26,इहैव त्वाऽभिषिञ्चन्तु सर्वाः प्रकृतय स्सह। ऋत्विज स्सवसिष्ठाश्च मन्त्रविन्मन्त्रकोविदाः।।2.106.26।। Ayodhya Kanda,106,27,अभिषिक्तस्त्वमस्माभिरयोध्यां पालने व्रज। विजित्य तरसा लोकान्मरुद्भिरिव वासवः।।2.106.27।। Ayodhya Kanda,106,28,ऋणानि त्रीण्यपाकुर्वन्दुर्हृदस्साधु निर्दहन्। सुहृदस्तर्पयन्कामैस्त्वमेवात्रानुशाधि माम्।।2.106.28।। Ayodhya Kanda,106,29,अद्याऽर्य मुदिता स्सन्तु सुहृदस्तेऽभिषेचने। अद्य भीताः पलायन्तां दुर्हृदस्ते दिशो दश।।2.106.29।। Ayodhya Kanda,106,30,आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ। अद्य तत्र भवन्तं च पितरं रक्ष किल्बिषात्।।2.106.30।। Ayodhya Kanda,106,31,शिरसा त्वाऽभियाचेऽहं कुरुष्व करुणां मयि। बान्धवेषु च सर्वेषु भूतेष्विव महेश्वरः।।2.106.31।। Ayodhya Kanda,106,32,अथैतत्पृष्ठतः कृत्वा वनमेव भवानितः। गमिष्यति गमिष्यामि भवता सार्धमप्यहम्।।2.106.32।। Ayodhya Kanda,106,33,तथाहि रामो भरतेन ताम्यता प्रसाद्यमानश्शिरसा महीपतिः। नचैव चक्रे गमनाय सत्त्ववान्मतिं पितुस्तद्वचने प्रतिष्ठितः।।2.106.33।। Ayodhya Kanda,106,34,तदद्भुतं स्थैर्यमवेक्ष्य राघवे समं जनो हर्षमवाप दुःखितः। न यात्ययोध्यामिति दुःखितोऽभवत् स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षितः।।2.106.34।। Ayodhya Kanda,106,35,तमृत्विजो नैगमयूथवल्लभास्तदा विसंज्ञाश्रुकलाश्च मातरः। तथा ब्रुवाणं भरतं प्रतुष्टुवुः प्रणम्य रामं च ययाचिरे सह।।2.106.35।। Ayodhya Kanda,107,1,पुनरेवं ब्रुवाणं तं भरतं लक्ष्मणाग्रजः। प्रत्युवाच तत श्श्रीमान् ज्ञातिमध्येऽभिसत्कृतः।।2.107.1।। Ayodhya Kanda,107,2,उपपन्नमिदं वाक्यं यत्त्वमेवमभाषथाः। जातः पुत्रो दशरथात्कैकेय्यां राजसत्तमात्।।2.107.2।। Ayodhya Kanda,107,3,पुरा भ्रातः पिता न स्स मातरं ते समुद्वहन्। मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम्।।2.107.3।। Ayodhya Kanda,107,4,दैवासुरे च सङ्ग्रामे जनन्यै तव पार्थिवः। सम्प्रहृष्टो ददौ राजा वरमाराधितः प्रभुः।।2.107.4।। Ayodhya Kanda,107,5,ततस्सा सम्प्रतिश्राव्य तव माता यशस्विनी। अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी।।2.107.5।। Ayodhya Kanda,107,6,तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा। तौ च राजा तदा तस्यै नियुक्तः प्रददौ वरौ।।2.107.6।। Ayodhya Kanda,107,5,ततः सा सम्प्रतिश्राव्य तव माता यशस्विनी। अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी।।2.107.5।। Ayodhya Kanda,107,6,तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा। तच्च राजा तदा तस्यै नियुक्तः प्रददौ वरौ।।2.107.6।। Ayodhya Kanda,107,7,तेन पित्राऽहमप्यत्र नियुक्तः पुरुषर्षभ। चतुर्दश वने वासं वर्षाणि वरदानिकम्।।2.107.7।। Ayodhya Kanda,107,8,सोऽहं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वितः। सीतया चाप्रतिद्वन्द्व स्सत्यवादे स्थितः पितुः।।2.107.8।। Ayodhya Kanda,107,9,भवानपि तथेत्येव पितरं सत्यवादिनम्। कर्तुमर्हति राजेन्द्र क्षिप्रमेवाभिषेचनात्।।2.107.9।। Ayodhya Kanda,107,10,ऋणान्मोचय राजानं मत्कृते भरत प्रभुम्। पितरं चापि धर्मज्ञं मातरं चाभिनन्दय।।2.107.10।। Ayodhya Kanda,107,11,श्रूयते धीमता तात श्रुतिर्गीता यशस्विना। गयेन यजमानेन गयेष्वेव पितॄन् प्रति।।2.107.11।। Ayodhya Kanda,107,12,पुन्नाम्नो नरकाद् यस्मात् पितरं त्रायते सुतः। तस्मात् पुत्र इति प्रोक्तः पितॄन् यः पाति सर्वतः।।2.107.12।। Ayodhya Kanda,107,13,एष्टव्या बहवः पुत्रा गुणवन्तो बहुश्रुताः। तेषां वै समवेतानामपि कश्चिद्गयां व्रजेत्।।2.107.13।। Ayodhya Kanda,107,14,एवं राजर्षय स्सर्वे प्रतीता राजनन्दन। तस्मात्राहि नरश्रेष्ठ पितरं नरकात्प्रभो।।2.107.14।। Ayodhya Kanda,107,15,अयोध्यां गच्छ भरत प्रकृतीरनुरञ्जय। शत्रुघ्नसहितो वीर सह सर्वैर्द्विजातिभिः।।2.107.15।। Ayodhya Kanda,107,16,प्रवेक्ष्ये दण्डकारण्यमहमप्यविलम्बयन्। आभ्यान्तु सहितो राजन् वैदेह्या लक्ष्मणेन च।।2.107.16।। Ayodhya Kanda,107,17,त्वं राजा भरत भव स्वयं नराणां वन्यानामहमपि राजराण्मृगाणाम्। गच्छ त्वं पुरवरमद्य सम्प्रहृष्टस्संहृष्टस्त्वहमपि दण्डकान्प्रवेक्ष्ये।।2.107.17।। Ayodhya Kanda,107,18,छायां ते दिनकरभाः प्रबाधमानां वर्षत्रं भरत करोतु मूर्ध्नि शीताम्। एतेषामहमपि काननद्रुमाणां छायां तामतिशयिनीं सुखी श्रयिष्ये।।2.107.18।। Ayodhya Kanda,107,19,शत्रुघ्नः कुशलमतिस्तु ते सहायस्सौमित्रिर्मम विदितः प्रधानमित्रम्। चत्वारस्तनयवरा वयं नरेन्द्रं सत्यस्थं भरत चराम मा विषीद।।2.107.19।। Ayodhya Kanda,108,1,आश्वासयन्तं भरतं जाबालिर्ब्राह्मणोत्तमः। उवाच रामं धर्मज्ञं धर्मापेतमिदं वचः।।2.108.1।। Ayodhya Kanda,108,2,साधु राघव माऽभूत्ते बुध्दिरेवं निरर्थिका। प्राकृतस्य नरस्येव ह्यार्यबुद्धेर्मनस्विनः।।2.108.2।। Ayodhya Kanda,108,3,कः कस्य पुरुषो बन्धुः किमाप्यं कस्य केनचित्। यदेको जायते जन्तुरेक एव विनश्यति।।2.108.3।। Ayodhya Kanda,108,4,तस्मान्माता पिता चेति राम सज्जेत यो नरः। उन्मत्त इव स ज्ञेयो नास्ति कश्चिद्धि कस्यचित्।।2.108.4।। Ayodhya Kanda,108,5,यथा ग्रामान्तरं गच्छन्नरः कश्चित्क्वचिद्वसेत्। उत्सृज्य च तमावासं प्रतिष्ठेतापरेऽहनि।।2.108.5।। Ayodhya Kanda,108,6,एवमेव मनुष्याणां पिता माता गृहं वसु। अवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जनाः।।2.108.6।। Ayodhya Kanda,108,7,पित्र्यं राज्यं परित्यज्य स नार्हसि नरोत्तम। आस्थातुं कापथं दुःखं विषमं बहुकण्टकम्।।2.108.7।। Ayodhya Kanda,108,8,समृद्धायामयोध्यायामात्मानमभिषेचय। एकवेणीधरा हि त्वां नगरी सम्प्रतीक्षते।।2.108.8।। Ayodhya Kanda,108,9,राजभोगाननुभवन्महार्हान्पार्थिवात्मज। विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे।।2.108.9।। Ayodhya Kanda,108,10,न ते कश्चिद्धशरथ स्त्वं च तस्य न कश्चन। अन्यो राजा त्वमन्य स्तस्मात्कुरु यदुच्यते।।2.108.10।। Ayodhya Kanda,108,11,बीजमात्रं पिता जन्तो श्शुक्लं रुधिरमेव च। संयुक्तमृतुमन्मात्रा पुरुषस्येह जन्म तत्।।2.108.11।। Ayodhya Kanda,108,12,गत स्स नृपतिस्तत्र गन्तव्यं यत्र तेन वै। प्रवृततिरेषा मर्त्यानां त्वं तु मिथ्या विहन्यसे।।2.108.12।। Ayodhya Kanda,108,13,अर्थधर्मपरा ये ये तांस्तांछोचामि नेतरान्। ते हि दुःखमिह प्राप्य विनाशं प्रेत्य भेजिरे।।2.108.13।। Ayodhya Kanda,108,14,अष्टका पितृदैवत्यमित्ययं प्रसृतो जनः। अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति।।2.108.14।। Ayodhya Kanda,108,15,यदि भुक्तमिहान्येन देहमन्यस्य गच्छति। दद्यात्प्रवसत श्श्राद्धं न तत्पथ्यशनं भवेत्।।2.108.15।। Ayodhya Kanda,108,16,दानसंवनना ह्येते ग्रन्था मेधाविभिः कृताः। यजस्व देहि दीक्षस्व तपस्तप्यस्व सन्त्यज।।2.108.16।। Ayodhya Kanda,108,17,स नास्ति परमित्येव कुरु बुद्धिं महामते। प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठतः कुरु।।2.108.17।। Ayodhya Kanda,108,18,सतां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम्। राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः।।2.108.18।। Ayodhya Kanda,109,1,जाबालेस्तु वचश्श्रुत्वा राम स्सत्यात्मनां वरः। उवाच परया भक्त्या स्वबुद्ध्या चाविपन्नया।।2.109.1।। Ayodhya Kanda,109,2,भवान्मे प्रियकामार्थं वचनं यदिहोक्तवान्। अकार्यं कार्यसङ्काशमपथ्यं पथ्यसम्मतम्।।2.109.2।। Ayodhya Kanda,109,3,निर्मर्यादस्तु पुरुषः पापाचारसमन्वितः। मानं न लभते सत्सु भिन्नचारित्रदर्शनः।।2.109.3।। Ayodhya Kanda,109,4,कुलीनमकुलीनं वा वीरं पुरुषमानिनम्। चारित्रमेव व्याख्याति शुचिं वा यदि वाऽशुचिम्।।2.109.4।। Ayodhya Kanda,109,5,अनार्यस्त्वार्यसङ्काश श्शौचाद्दीनस्ताथाऽशुचिः। लक्षण्यवदलक्षण्यो दुश्शीलश्शीलवानिव।।2.109.5।। Ayodhya Kanda,109,6,अधर्मं धर्मवेशेण यदीमं लोकसङ्कुरम्। अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम्।।2.109.6।। Ayodhya Kanda,109,7,कश्चेतयानः पुरुषः कार्याकार्यविचक्षणः। बहुमंस्यति मां लोके दुर्वृत्तं लोकदूषणम्।।2.109.7।। Ayodhya Kanda,109,8,कस्य दास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम्। आनया वर्तमानो हि वृत्त्या हीनप्रतिज्ञया।।2.109.8।। Ayodhya Kanda,109,9,कामवृत्तस्त्वयं लोकः कृत्स्न स्समुपवर्तते। यद्वृत्ता स्सन्ति राजानस्तद्वृत्ता स्सन्ति हि प्रजाः।।2.109.9।। Ayodhya Kanda,109,10,सत्यमेवानृशंसं च राजवृत्तं सनातनम्। तस्मात्सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः।।2.109.10।। Ayodhya Kanda,109,11,ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे। सत्यवादी हि लोकेऽस्मिन्परमं गच्छति क्षयम्।।2.109.11।। Ayodhya Kanda,109,12,उद्विजन्ते यथा सर्पान्नरादनृतवादिनः। धर्म स्सत्यं परो लोके मूलं स्वर्गस्य चोच्यते।।2.109.12।। Ayodhya Kanda,109,13,सत्यमेवेश्वरो लोके सत्यं पद्माश्रिता सदा। सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम्।।2.109.13।। Ayodhya Kanda,109,14,दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च। वेदा स्सत्यप्रतिष्ठाना स्तस्मात्सत्यपरो भवेत्।।2.109.14।। Ayodhya Kanda,109,15,एकः पालयते लोकमेकः पालयते कुलम्। मज्जत्येको हि निरय एक स्स्वर्गे महीयते।।2.109.15।। Ayodhya Kanda,109,16,सोऽहं पितुर्नियोगं तु किमर्थं नानुपालये। सत्यप्रतिश्रव स्सत्यं सत्येन समयीकृतः।।2.109.16।। Ayodhya Kanda,109,17,नैव लोभान्न मोहाद्वा न ह्यज्ञानात्तमोऽन्वितः। सेतुं सत्यस्य भेत्स्यामि गुरो स्सत्यप्रतिश्रवः।।2.109.17।। Ayodhya Kanda,109,18,असत्यसन्धस्य सतश्चलस्यास्थिरचेतसः। नैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम्।।2.109.18।। Ayodhya Kanda,109,19,प्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम्। भार स्सत्पुरुषाचीर्णस्तदर्थमभिमन्यते।।2.109.19।। Ayodhya Kanda,109,20,क्षात्रं धर्ममहंत्यक्ष्ये ह्यधर्मं धर्मसंहितम्। क्षुद्रैर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभिः।।2.109.20।। Ayodhya Kanda,109,21,कायेन कुरुते पापं मनसा सम्प्रधार्य तत्। अनृतं जिह्वया चाह त्रिविधं कर्मपातकम्।।2.109.21।। Ayodhya Kanda,109,22,भूमिः कीर्तिर्यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हि। सत्यं समनुवर्तने सत्यमेव भजेत तत:।।2.109.22।। Ayodhya Kanda,109,23,श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य माम्। आह युक्ति करैर्वाक्यैरिदं भद्रं कुरुष्व ह।।2.109.23।। Ayodhya Kanda,109,24,कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरॊ:। भरतस्य करिष्यामि वचो हित्वा गुरोर्वचः।।2.109.24।। Ayodhya Kanda,109,25,स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ। प्रहृष्यमाणा सा देवी कैकेयी चाभवत्तदा।।2.109.25।। Ayodhya Kanda,109,26,वनवासं वसन्नेव शुचिर्नियतभोजनः। मूलपुष्पफलैः पुण्यैः पित्रून् देवांश्च तर्पयन्।।2.109.26।। Ayodhya Kanda,109,27,सन्तुष्टपञ्चवर्गोऽहं लोकयात्रां प्रवर्तये। अकुह श्श्रद्धधानस्सन्कार्याकार्यविचक्षणः।।2.109.27।। Ayodhya Kanda,109,26,वनवासं वसन्नेवं शुचिर्नियतभोजनः। मूलैः पुष्पैः फलैः पुण्यैः पित्रून् देवांश्च तर्पयन्।।2.109.26।। Ayodhya Kanda,109,28,कर्मभूमिमां प्राप्य कर्तव्यं कर्म यच्छुभम्। अग्निर्वायुश्च सोमश्च कर्मणां फलभागिनः।।2.109.28।। Ayodhya Kanda,109,29,शतं क्रतूनामाहृत्य देवराट् त्रिदिवं गतः। तपांस्युग्राणि चास्थाय दिवं याता महर्षयः।।2.109.29।। Ayodhya Kanda,109,30,अमृष्यमाणः पुनरुग्रतेजाः निशम्य तं नास्तिकवाक्यहेतुम्। अथाब्रवीत्तं नृपतेस्तनूजो विगर्हमाणो वचनानि तस्य।।2.109.30।। Ayodhya Kanda,109,31,सत्यं च धर्मं च पराक्रमं च भूतानुकम्पां प्रियवादितां च। द्विजातिदेवातिधिपूजनं च पन्थानमाहुस्त्रिदिवस्य सन्तः।।2.109.31।। Ayodhya Kanda,109,32,तेनैवमाज्ञाय यथावदर्थमेकोदयं सम्प्रतिपद्य विप्राः। धर्मं चरन्त स्सकलं यथावत्काङ्क्षन्ति लोकागममप्रमत्ताः।।2.109.32।। Ayodhya Kanda,109,33,निन्दाम्यहं कर्म कृतं पितुस्तद्यस्त्वामगृह्णाद्विषमस्थबुद्धिम्। बुद्ध्याऽनयैवंविधया चरन्तं सुनास्तिकं धर्मपथादपेतम्।।2.109.33।। Ayodhya Kanda,109,34,यथा हि चोर: स‌ तथा हि बुद्धस्तथागतं नास्तिकमत्र विद्धि। तस्माद्धि य: श‌ङ्क्यतमः प्रजानाम् न नास्तिकेनाभिमुखो बुध: स्यात्।।2.109.34।। Ayodhya Kanda,109,35,त्वत्तो जनाः पूर्वतरे  द्विजाच्श्र शुभानि कर्माणि बहूनि चक्रुः। जित्वा सदेमं च परं च लोकं तस्माव्दिजा स्व‌स्ति हुतं कृतं च।।2.109.35।। Ayodhya Kanda,109,36,धर्मे रता: स‌त्पुरुषै: स‌मेतास्तेजस्विनो दानगुणप्रधानाः। अहिंसका वीतमलाश्च लोके भवन्ति पूज्या मुनयः प्रधानाः।।2.109.36।। Ayodhya Kanda,109,37,इति ब्रुवन्तं वचनं सरोषं रामं महात्मानमदीनसत्त्वम्। उवाच पथ्यं पुनरास्तिकं च सत्यं वच: सानुनयं च विप्रः।।2.109.37।। Ayodhya Kanda,109,38,न नास्तिकानां वचनं ब्रवीम्यहं न नास्तिकोऽहं न च नास्ति किञ्चन। समीक्ष्य कालं पुनरास्तिकोऽभवं भवेय काले पुनरेव नास्तिकः।।2.109.38।। Ayodhya Kanda,109,39,न चापि कालोऽय मुपागतश्शनैर्यथा मया नास्तिकवागुदीरिता। निवर्तनार्थं तव राम कारणात् प्रसादनार्थं च मयैतदीरितम्।।2.109.39।। Ayodhya Kanda,110,1,क्रुद्धमाज्ञाय रामं तु वसिष्ठः प्रत्युवाच ह। जाबालिरपि जानीते लोकस्यास्य गतागतिम्।।2.110.1।। Ayodhya Kanda,110,2,निवर्तयितुकामस्तु त्वामेतद्वाक्यमब्रवीत्। इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे।।2.110.2।। Ayodhya Kanda,110,3,सर्वं सलिलमेवासीत्पृथिवी यत्र निर्मिता। तत: स‌मभवद्ब्रह्मा स्वयम्भूर्दैवतै: स‌ह।।2.110.3।। Ayodhya Kanda,110,4,स वराहस्ततो भूत्वा प्रोज्जहार वसुन्धराम्। असृजच्च जगत्सर्वं सह पुत्रैः कृतात्मभिः।।2.110.4।। Ayodhya Kanda,110,5,आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः। तस्मान्मरीचि: संज‌ज्ञे मरीचेः कश्यप: सुतः।।2.110.5।। Ayodhya Kanda,110,6,विवस्वान्काश्यपात् जज्ञे मनुर्वैवस्वत: स्वयम्। स तु प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनो: सुतः।।2.110.6।। Ayodhya Kanda,110,7,यस्येयं प्रथमं दत्ता समृद्धा मनुना मही। तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम्।।2.110.7।। Ayodhya Kanda,110,8,इक्ष्वाकोस्तु सुत श्रीमान्कुक्षिरेवेति विश्रुतः। कुक्षेरथात्मजो वीरो विकुक्षिरुदपद्यत।।2.110.8।। Ayodhya Kanda,110,9,विकुक्षेस्तु महातेजा बाणः पुत्र प्रतापवान्। बाणस्य तु महाबाहुरनरण्यो महात‌पा:।।2.110.9।। Ayodhya Kanda,110,10,नानावृष्टिर्बभूवास्मिन्नदुर्भिक्षं सतां वरे। अनरण्ये महाराजे तस्करो नापि कश्चन।।2.110.10।। Ayodhya Kanda,110,11,अनरण्यान्महाबाहुः पृथु राजा बभूव ह। तस्मात्पृथोमेहाराजस्त्रिशङ्कुरुदपद्यत।।2.110.11।। स सत्यवचनाद् वीर: स‌शरीरो दिवं गतः। Ayodhya Kanda,110,12,त्रिशङ्कोरभवत्सूनुर्दुन्धुमारो महायशाः।।2.110.12।। दुन्धुमारान्महातेजा युवनाश्वो व्यजायत। Ayodhya Kanda,110,13,युवनाश्वसुत श्श्रीमान्मान्धाता समपद्यत।।2.110.13।। Ayodhya Kanda,110,14,मान्धातुस्त महातेजा: सुसन्धिरुदपद्यत। सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित्।।2.110.14।। यशस्वी ध्रुवसन्धेस्तु भरतो रिपुसूदनः। Ayodhya Kanda,110,14,मान्धातुस्त महातेजा स्सुसन्धिरुदपद्यत। सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित्।।2.110.14।। यशस्वी ध्रुवसन्धेस्तु भरतो रिपुसूदनः। Ayodhya Kanda,110,15,भरतात्तु महाबाहोरसितो नाम जायत।।2.110.15।। Ayodhya Kanda,110,16,यस्यैते प्रतिराजान उदपद्यन्त शत्रवः। हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दवः।।2.110.16।। Ayodhya Kanda,110,17,तांस्तु सर्वान्प्रतिव्यूह्य युद्धे राजा प्रवासितः। स च शैलवरे रम्ये बभूवाभिरतो मुनिः।।2.110.17।। Ayodhya Kanda,110,18,द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः। एका गर्भविनाशाय सपत्न्यै गरलं ददौ।।2.110.18।। Ayodhya Kanda,110,19,भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः। तमृषिं समुपागम्य कालिन्दी त्वभ्यवादयत्।।2.110.19।। स तामभ्यवदद्विप्रो वरेप्सुं पुत्रजन्मनि। Ayodhya Kanda,110,20,पुत्रस्ते भविता देवि महात्मा लोकविश्रुतः।।2.110.20।। धार्मिकश्च सुशीलश्च वंशकर्ताऽरिसूदनः। Ayodhya Kanda,110,21,कृत्वा प्रदक्षिणं हृष्टा मुनिंतमनुमान्य च।।2.110.21।। Ayodhya Kanda,110,22,पद्मपत्रसमानाक्षं पद्मगर्भसमप्रभम्। तत: सा गृहमागम्य देवी पुत्रं व्यजायत।।2.110.22।। Ayodhya Kanda,110,23,सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया। गरेण सह तेनैव जात स्स सगरोऽभवत्।।2.110.23।। Ayodhya Kanda,110,24,स राजा सगरो नाम य: स‌मुद्रमखानयत्। इष्ट्वा पर्वणि वेगेन त्रासयन इमाः प्रजाः।।2.110.24। Ayodhya Kanda,110,25,असमञ्जस्तु पुत्रोऽभूत्सगरस्येति न श्श्रुतम्। जीवन्नेव स पित्रा तु निरस्तः पापकर्मकृत्।।2.110.25।। Ayodhya Kanda,110,26,अंशुमानिति पुत्रोऽभूदसमञ्जस्य वीर्यवान्। दिलीपोंशुमतः पुत्रो दिलीपस्य भगीरथः।।2.110.26।। Ayodhya Kanda,110,27,भगीरथात्ककुत्स्थस्तु काकुत्स्था येन विश्रुताः। ककुत्स्थस्य च पुत्रोऽभूद्रघुर्येन च राघवाः।।2.110.27।। Ayodhya Kanda,110,28,रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः। कल्माषपाद स्सौदास इत्येवं प्रथितो भुवि।।2.110.28।। Ayodhya Kanda,110,29,कल्माषपादपुत्रोऽभूच्छङ्खणस्त्विति विश्रुतः। यस्तु तद्वीर्यमासाद्य सहसैन्यो व्यनीनशत्।।2.110.29।। Ayodhya Kanda,110,30,शङ्खणस्य च पुत्रोऽभूच्छूर श्रीमान्सुदर्शनः। सुदर्शनस्याग्निवर्णः अग्निवर्णस्य शीघ्रगः।।2.110.30।। Ayodhya Kanda,110,31,शीघ्रगस्य मरुः पुत्रो मरोः पुत्रः प्रशुश्रुवः। प्रशुश्रुवस्य पुत्रोभूदम्बरीषो महाद्युतिः।।2.110.31।। Ayodhya Kanda,110,32,अम्बरीषस्य पुत्रोभून्नहुषः सत्यविक्रमः। नहुषस्य च नाभागः पुत्रः परमधार्मिकः।।2.110.32।। Ayodhya Kanda,110,33,अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौ। अजस्यैव च धर्मात्मा राजा दशरथस्सुतः।।2.110.33।। Ayodhya Kanda,110,34,तस्य ज्येष्ठोऽसि दायादो राम इत्यभिविश्रुतः। तद्गृहाण स्वकं राज्यमवेक्षस्व जनं नृप।।2.110.34।। Ayodhya Kanda,111,1,वसिष्ठस्तु तदा राममुक्त्वा राजपुरोहितः। अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वचः।।2.111.1।। Ayodhya Kanda,111,2,पुरुषस्येह जातस्य भवन्ति गुरवस्त्रयः। आचार्यश्चैव काकुत्स्थ पिता माता च राघव।।2.111.2।। Ayodhya Kanda,111,3,पिता ह्येवं जनयति पुरुषं पुरुषर्षभ। प्रज्ञां ददाति चाचार्यस्तस्मात्स गुरुरुच्यते।।2.111.3।। Ayodhya Kanda,111,4,सोऽहं ते पितुराचार्यस्तव चैव परन्तप। मम त्वं वचनं कुर्वन्नातिवर्तेस्सतां गतिम्।।2.111.4।। Ayodhya Kanda,111,5,इमा हि ते परिषद श्श्रेणयश्च द्विजास्तथा। एषु तात चरन्धर्मं नातिवर्ते: स‌तां गतिम्।।2.111.5।। Ayodhya Kanda,111,6,वृद्धाया धर्मशीलाया मातुर्नार्हस्यवर्तितुम्। अस्या हि वचनं कुर्वन्नातिवर्तेस्सतां गतिम्।।2.111.6।। Ayodhya Kanda,111,7,भरतस्य वचः कुर्वन्याचमानस्य राघव। आत्मानं नातिवर्तेस्त्वं सत्यधर्मपराक्रम।।2.111.7।। Ayodhya Kanda,111,8,एवं मधुरमुक्तस्सन् गुरुणा राघवस्स्वयम्। प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभः।।2.111.8।। Ayodhya Kanda,111,9,यन्मातापितरौ वृत्तं तनये कुरुत: स‌दा। न सुप्रतिकरं तत् तु मात्रा पित्रा च यत्कृतम्।।2.111.9।। Ayodhya Kanda,111,10,यथाशक्ति प्रदानेन स्वापनोच्छादनेन च। नित्यं च प्रियवादेन तथा संवर्धनेन च।।2.111.10।। Ayodhya Kanda,111,9,यन्मातापितरौ वृत्तं तनये कुरुतस्सदा। न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम्।।2.111.9।। Ayodhya Kanda,111,10,यथाशक्तिप्रदानेन स्वापनोच्छादनेन च। नित्यं च प्रियवादेन तथा संवर्धनेन च।।2.111.10।। Ayodhya Kanda,111,11,स हि राजा जनयिता पिता दशरथो मम। आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति।।2.111.11।। Ayodhya Kanda,111,12,एवमुक्तस्तु रामेण भरतः प्रत्यनन्तरम्। उवाच परमोदारस्सूतं परमदुर्मनाः।।2.111.12।। Ayodhya Kanda,111,13,इह मे स्थण्डिले शीघ्रं कुशानास्तर सारथे। आर्यं प्रत्युपवेक्ष्यामि यावन्मे न प्रसीदति।।2.111.13।। Ayodhya Kanda,111,14,अनाहारो निरालोको धनहीनो यथा द्विजः। शेष्ये पुरस्ताच्छालाया यावन्न प्रतियास्यति।।2.111.14।। Ayodhya Kanda,111,15,स तु राममवेक्षन्तं सुमन्त्रं पेक्ष्य दुर्मनाः। कुशोत्तरमुपस्थाप्य भूमावेवाऽस्तरत्स्वयम्।।2.111.15।। Ayodhya Kanda,111,16,तमुवाच महातेजा रामो राजर्षिसत्तमः। किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि।।2.111.16।। Ayodhya Kanda,111,17,ब्राह्मणो ह्येकपार्श्वेन नरान्रोद्धुमिहार्हति। न तु मूर्धाभिषिक्तानां विधिः प्रत्युपवेशने।।2.111.17।। Ayodhya Kanda,111,18,उत्तिष्ठ नरशार्दूल हित्वैतद्दारुणं व्रतम्। पुरवर्यामितः क्षिप्रमयोध्यां याहि राघव।।2.111.18।। Ayodhya Kanda,111,19,आसीनस्त्वेव भरतः पौरजानपदं जनम्। उवाच सर्वतः प्रेक्ष्य किमार्यं नानुशासथ।।2.111.19।। Ayodhya Kanda,111,20,ते तदोचुर्महात्मानं पौरजानपदा जनाः। काकुत्स्थमभिजानीमः सम्यग् वदति राघवः।।2.111.20।। Ayodhya Kanda,111,21,एषोऽपि हि महाभागः पितुर्वचसि तिष्ठति। अत एव न शक्ताः स्मो व्यावर्तयितुमञ्जसा।।2.111.21।। Ayodhya Kanda,111,22,तेषामाज्ञाय वचनं रामो वचनमब्रवीत्। एवं निबोध वचनं सुहृदां धर्मचक्षुषाम्।।2.111.22।। Ayodhya Kanda,111,23,एतच्चैवोभयं श्रुत्वा सम्यक्सम्पश्य राघव। उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम्।।2.111.23।। Ayodhya Kanda,111,24,अथोत्थाय जलंस्पृष्ट्वा भरतो वाक्यमब्रवीत्। श्रुण्वन्तु मे परिषदो मन्त्रिण श्श्रेणयस्तथा।।2.111.24।। Ayodhya Kanda,111,25,न याचे पितरं राज्यं नानुशासामि मातरम्। आर्यं परमधर्मज्ञं नानुजानामि राघवम्।।2.111.25।। Ayodhya Kanda,111,26,यदित्ववश्यं वस्तव्यं कर्तव्यं च पितुर्वचः। अहमेव निवत्स्यामि चतुर्दश समा वने।।2.111.26।। Ayodhya Kanda,111,27,धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मितः। उवाच राम स्सम्प्रेक्ष्य पौरजानपदं जनम्।।2.111.27।। Ayodhya Kanda,111,28,विक्रीतमाहितं क्रीतं यत्पित्रा जीवता मम। न तल्लोपयितुं शक्यं मया वा भरतेन वा।।2.111.28।। Ayodhya Kanda,111,29,उपधिर्न मया कार्यो वनवासे जुगुप्सितः। युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम्।।2.111.29।। Ayodhya Kanda,111,30,जानामि भरतं क्षान्तं गुरुसत्कारकारिणम्। सर्वमेवात्र कल्याणं सत्यसन्धे महात्मनि।।2.111.30।। Ayodhya Kanda,111,31,अनेन धर्मशीलेन वनात्प्रत्यागतः पुनः। भ्रात्रा सह भविष्यामि पृथिव्याः पतिरुत्तमः।।2.111.31।। Ayodhya Kanda,111,32,वृतो हि राजा कैकेय्या मया तद्वचनं कृतम्। अनृतान्मोचयानेन पितरं तं महीपतिम्।।2.111.32।। Ayodhya Kanda,112,1,तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम्। विस्मिता: स‌ङ्गमं प्रेक्ष्य समवेता महर्षयः।।2.112.1।। Ayodhya Kanda,112,2,अन्तर्हिता मुनिगणास्सिद्धाश्च परमर्षयः। तौ भ्रातरौ महात्मानौ काकुत्स्थौ प्रशशंसिरे।।2.112.2।। Ayodhya Kanda,112,3,स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ। श्रुत्वा वयं हि सम्भाषामुभयोस्स्पृहयामहे।।2.112.3।। Ayodhya Kanda,112,4,ततस्त्वृषिगणाः क्षिप्रं दशग्रीववधैषिणः। भरतं राजशार्दूलमित्यूचु: स‌ङ्गता वचः।।2.112.4।। Ayodhya Kanda,112,5,कुले जात महाप्राज्ञ महावृत्त महायशः। ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे।।2.112.5।। Ayodhya Kanda,112,6,सदाऽनृणमिमं रामं वयमिच्छामहे पितुः। आनृणत्वाच्च कैकेय्या: स्वर्गम् दशरथो गतः।।2.112.6।। Ayodhya Kanda,112,7,एतावदुक्त्वा वचनं गन्धर्वा: स‌महर्षयः। राजर्षयश्चैव तदा सर्वे स्वां स्वां गतिं गताः।।2.112.7।। Ayodhya Kanda,112,8,ह्लादितस्तेन वाक्येन शुभेन शुभदर्शनः। राम स्संहृष्टवदनस्तानृषीनभ्यपूजयत्।।2.112.8।। Ayodhya Kanda,112,9,त्रस्तगात्रस्तु भरतस्स वाचा सज्जमानया। कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत्।।2.112.9।। Ayodhya Kanda,112,10,राजधर्ममनुप्रेक्ष्य कुलधर्मानुसन्ततिम्। कर्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम्।।2.112.10।। Ayodhya Kanda,112,11,रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्सहे। पौरजानपदांश्चापि रक्तान्रञ्जयितुं तथा।।2.112.11।। Ayodhya Kanda,112,12,ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च नः। त्वामेव प्रतिवीक्षन्ते पर्जन्यमिव कर्षकाः।।2.112.12।। Ayodhya Kanda,112,13,इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि। शक्तिमानसि काकुत्स्थ लोकस्य परिपालने।।2.112.13।। Ayodhya Kanda,112,14,इत्युक्त्वा न्यपतद्भ्रातुः पादयोर्भरतस्तदा। भृशं सम्प्रार्थयामास राममेव प्रियंवदः।।2.112.14।। Ayodhya Kanda,112,15,तमङ्के भरतं कृत्वा रामो वचनमब्रवीत्। श्यामं नलिनपत्राक्षं मत्तहंसस्वरं स्वयम्।।2.112.15।। Ayodhya Kanda,112,16,आगता त्वामियं बुद्धिस्स्वजा वैनयिकी च या। भृशमुत्सहसे तात रक्षितुं पृथिवीमपि।।2.112.16।। Ayodhya Kanda,112,17,अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभिः। सर्वकार्याणि सम्मन्त्र्य सुमहन्त्यपि कारय।।2.112.17।। Ayodhya Kanda,112,18,लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान्वा हिमं त्यजेत्। अतीयात्सागरो वेलां न प्रतिज्ञामहं पितुः।।2.112.18।। Ayodhya Kanda,112,19,कामाद्वा तात लोभाद्वा मात्रातुभ्यमिदं कृतम्। न तन्मनसि कर्तव्यं वर्तितव्यं च मातृवत्।।2.112.19।। Ayodhya Kanda,112,20,एवं ब्रुवाणं भरतः कौसल्यासुतमब्रवीत्। तेजसाऽऽदित्यसङ्काशं प्रतिपच्चन्द्रदर्शनम्।।2.112.20।। Ayodhya Kanda,112,21,आधिरोहाऽर्य पादाभ्यां पादुके हेमभूषिते। एतेहि सर्वलोकस्य योगक्षेमं विधास्यतः।।2.112.21।। Ayodhya Kanda,112,22,सोऽधिरुह्य नरव्याघ्रः पादुके ह्यवरुह्य च। प्रायच्छत्सुमहातेजा भरताय महात्मने।।2.112.22।। Ayodhya Kanda,112,23,स पादुके सम्प्रणम्य रामं वचनमब्रवीत् चतुर्दश हि वर्षाणि जटाचीरधरो ह्याहम्।।2.112.23।। Ayodhya Kanda,112,24,फलमूलाशनो वीर भवेयं रघुनन्दन। तवाऽगमनमाकाङ्क्षान्वसन्वै नगराद्बहिः।।2.112.24।। तव पादुकयोर्न्यस्तराज्यतन्त्रः परन्तप। Ayodhya Kanda,112,25,चतुर्दशे तु संपूर्णे वर्षेऽहनि रघूत्तम।।2.112.25।। न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम्। Ayodhya Kanda,112,26,तथेति च प्रतिज्ञाय तं परिष्वज्य सादरम्।।2.112.26।। शत्रुघ्नं च परिष्वज्य भरतं चेदमब्रवीत्। Ayodhya Kanda,112,27,मातरं रक्ष कैकेयीं मा रोषं कुरु तां प्रति।।2.112.27।। Ayodhya Kanda,112,28,मया च सीतया चैव शप्तोऽसि रघुसत्तम। इत्युक्त्वाऽश्रुपरीताक्षो भ्रातरं विससर्ज ह।।2.112.28।। Ayodhya Kanda,112,29,स पादुके ते भरतः प्रतापवान् स्वलङ्कृते सम्परिपूज्य धर्मवित्। प्रदक्षिणं चैव चकार राघवम् चकार ते चोत्तमनागमूर्धनि।।2.112.29।। Ayodhya Kanda,112,30,अथाऽनुपूर्व्यात्प्रतिनन्द्य तं जनं गुरूंश्च मन्त्रिप्रकृतीस्तथाऽनुजौ। व्यसर्जयद्राघववंशवर्धनस्थिरः स्वधर्मे हिमवानिवाचलः।।2.112.30।। Ayodhya Kanda,112,31,तं मातरो बाष्पगृहीतकण्ठ्यो दुःखेन नामन्त्रयितुं हि शेकुः। स त्वेव मात्रृ़रभिवाद्य सर्वारुदन्कुटीं स्वां प्रविवेश राघवः।।2.112.31।। Ayodhya Kanda,113,1,तत श्शिरसि कृत्वा तु पादुके भरतस्तदा। आरुरोह रथं हृष्टः शत्रुघ्नेन समन्वितः।।2.113.1।। Ayodhya Kanda,113,2,वसिष्ठो वामदेवश्च जाबालिश्च दृढव्रतः। अग्रतः प्रययु स्सर्वे मन्त्रिणो मन्त्रपूजिताः।।2.113.2।। Ayodhya Kanda,113,3,मन्दाकिनीं नदीं रम्यां प्राङ्मुखास्ते ययुस्तदा। प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम्।।2.113.3।। Ayodhya Kanda,113,4,पश्यन्धातुसहस्राणि रम्याणि विविधानि च। प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा।।2.113.4।। Ayodhya Kanda,113,5,अदूराच्चित्रकूटस्य ददर्श भरतस्तदा। आश्रमं यत्र स मुनिर्भरद्वाजः कृतालयः।।2.113.5।। Ayodhya Kanda,113,6,स तमाश्रममागम्य भरद्वाजस्य बुद्धिमान्। अवतीर्य रथात्पादौ ववन्दे भरतस्तदा।।2.113.6।। Ayodhya Kanda,113,7,ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत्। अपि कृत्यं कृतं तात रामेण च समागतम्।।2.113.7।। Ayodhya Kanda,113,8,एवमुक्त स्स तु ततो भरद्वाजेन धीमता। प्रत्युवाच भरद्वाजं भरतो धर्मवत्सलः।।2.113.8।। Ayodhya Kanda,113,9,स याच्यमानो गुरुणा मया च दृढविक्रमः। राघवः परमप्रीतो वसिष्ठं वाक्यमब्रवीत्।।2.113.9।। Ayodhya Kanda,113,10,पितुः प्रतिज्ञां तामेव पालयिष्यामि तत्त्वतः। चतुर्दश हि वर्षाणि या प्रतिज्ञा पितुर्मम।।2.113.10।। Ayodhya Kanda,113,11,एवमुक्तो महाप्राज्ञो वसिष्ठः प्रत्युवाच ह। वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत्।।2.113.11।। Ayodhya Kanda,113,12,एते प्रयच्छ संहृष्टः पादुके हेमभूषिते। अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव।।2.113.12।। Ayodhya Kanda,113,13,एवमुक्तो वसिष्ठेन राघवः प्राङ्मुखः स्थितः। पादुके ह्यधिरुह्यैते मम राज्याय वै ददौ।।2.113.13।। Ayodhya Kanda,113,14,निवृत्तोऽहमनुज्ञातो रामेण सुमहात्मना। अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे।।2.113.14।। Ayodhya Kanda,113,15,एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः। भरद्वाजश्शुभतरं मुनिर्वाक्यमुवाच तम्।।2.113.15।। Ayodhya Kanda,113,16,नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर। यदार्यं त्वयि तिष्ठेत्तु निम्ने सृष्टमिवोदकम्।।2.113.16।। Ayodhya Kanda,113,17,अमृत स्समहाबाहुः पिता दशरथस्तव। यस्य त्वमीदृश: पुत्रो धर्मज्ञो धर्मवत्सलः।।2.113.17।। Ayodhya Kanda,113,18,तमृषिं तु महात्मानमुक्तवाक्यं कृताञ्जलिः। आमन्त्रयितुमारेभे चरणावुपगृह्य च।।2.113.18।। Ayodhya Kanda,113,19,ततः प्रदक्षिणं कृत्वा भरद्वाजं पुनः पुनः। भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभिः।।2.113.19।। Ayodhya Kanda,113,20,यानैश्च शकटैश्चैव हयैर्नागैश्च सा चमूः। पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी।।2.113.20 ।। Ayodhya Kanda,113,21,ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम्। ददृशुस्तां पुन स्सर्वे गङ्गां शुभजलां नदीम्।।2.113.21।। Ayodhya Kanda,113,22,तां रम्यजलसंपूर्णां सन्तीर्य सहबान्धवः शृङ्गिबेरपुरं रम्यं प्रविवेश ससैनिकः। शृङ्गिबेरपुराद्भूय स्त्वयोध्यां सन्ददर्श ह।।2.113.22।। Ayodhya Kanda,113,23,अयोध्यां च ततो दृष्ट्वा पित्रा भ्रात्रा विवर्जिताम्। भरतो दुःख सन्तप्त स्सारथिं चेदमब्रवीत्।।2.113.23।। Ayodhya Kanda,113,24,सारथे पश्य विध्वस्ता साऽयोध्या न प्रकाशते। निराकारा निरानन्दा दीना प्रतिहतस्वरा।।2.113.24।। Ayodhya Kanda,114,1,स्निग्धगम्भीरघोषेण स्यन्दनेनोपयान्प्रभुः। अयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः।।2.114.1।। Ayodhya Kanda,114,2,बिडालोलूकचरितामालीननरवारणाम्। तिमिराभ्याहतां कालीमप्रकाशां निशामिव।।2.114.2।। Ayodhya Kanda,114,3,राहुशत्रोः प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम्। ग्रहेणाभ्युत्थितेनैकां रोहिणीमिव पीडिताम्।।2.114.3।। Ayodhya Kanda,114,4,अल्पोष्णक्षुब्धसलिलां घर्मोत्तप्तविहङ्गमाम्। लीनमीनझषग्राहां कृशां गिरिनदीमिव।।2.114.4।। Ayodhya Kanda,114,5,विधूमामिव हेमाभामध्वराग्ने स्समुत्थिताम्। हविरभ्युक्षितां पश्चाच्छिखां विप्रलयं गताम्।।2.114.5।। Ayodhya Kanda,114,6,विध्वस्तकवचां रुग्णगजवाजिरथध्वजाम्। हतप्रवीरामापन्नां चमूमिव महाहवे।।2.114.6।। Ayodhya Kanda,114,7,सफेनां सस्वनां भूत्वा सागरस्य समुत्थिताम्। प्रशान्तमारुतोद्धूतां जलोर्मिमिव निस्स्वनाम्।।2.114.7।। Ayodhya Kanda,114,8,त्यक्तां यज्ञायुधैः सर्वैरभिरूपैश्च याजकैः। सुत्याकाले सुनिर्वृत्ते वेदिं गतरवामिव।।2.114.8।। Ayodhya Kanda,114,9,गोष्ठमध्ये स्थितामार्तामचरन्तीं तृणं नवम्। गोवृषेण परित्यक्तां गवां पक्तिमिवोत्सुकाम्।।2.114.9।। Ayodhya Kanda,114,10,प्रभाकराद्यै स्सुस्निग्धैः प्रज्वलद्भिरिवोत्तमैः। वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव।।2.114.10।। Ayodhya Kanda,114,11,सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम्। संवृतद्युतिविस्तारां तारामिव दिवश्च्युताम्।।2.114.11।। Ayodhya Kanda,114,12,पुष्पनद्धां वसन्तान्ते मत्तभ्रमरनादिताम्। द्रुतदावाग्नि विप्लुष्टां क्लान्तां वनलतामिव।।2.114.12।। Ayodhya Kanda,114,13,सम्मूढनिगमांस्तब्धां संक्षिप्तविपणापणाम्। प्रच्छन्नशशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम्।।2.114.13।। Ayodhya Kanda,114,14,क्षीणपानोत्तमैर्भग्नैः शरावैरभिसंवृताम्। हतशौण्डामिव ध्वस्तांं पानभूमिमसंस्कृताम्।।2.114.14।। Ayodhya Kanda,114,15,वृक्णभूमितलां निम्नां वृक्णपात्रैस्समावृताम्। उपयुक्तोदकां भग्नां प्रपां निपतितामिव।।2.114.15।। Ayodhya Kanda,114,16,विपुलां विततां चैव युक्तपाशां तरस्विनाम्। भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात्।।2.114.16।। Ayodhya Kanda,114,17,सहसा युद्धशौण्डेन हयारोहेण वाहिताम्। निहतां प्रतिसैन्येन वडवामिव पातिताम्।।2.114.17।। Ayodhya Kanda,114,18,शुष्कतोयां महामत्स्यैः कूर्मैश्च बहुभिर्वृताम्। प्रभिन्नतटविस्तीर्णां वापीमिव हृतोत्पलाम्।।2.114.18।। Ayodhya Kanda,114,19,पुरुषस्याप्रहृष्टस्य प्रतिषिद्धानुलेपनाम्। सन्तप्तामिव शोकेन गात्रयष्टिमभूषणाम्।।2.114.19।। Ayodhya Kanda,114,20,प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमण्डलम्। प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव।।2.114.20।। Ayodhya Kanda,114,21,भरतस्तु रथस्थ स्सन् श्रीमान्दशरथात्मजः। वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत्।।2.114.21।। Ayodhya Kanda,114,22,किं नु खल्वद्य गम्भीरो मूर्छितो न निशम्यते। यथापुरमयोध्यायां गीतवादित्रनिस्वनः।।2.114.22।। Ayodhya Kanda,114,23,वारुणीमदगन्धश्च माल्यगन्धश्च मूर्छितः। धूपितागुरुगन्धश्च न प्रवाति समन्ततः।।2.114.23।। Ayodhya Kanda,114,24,यानप्रवरघोषश्च स्निग्धश्च हयनिस्वनः। प्रमत्तगजनादश्च महांश्च रथनिस्वनः।।2.114.24।। नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते। Ayodhya Kanda,114,25,चन्दनागरुगन्धांश्च महार्हाश्च नवस्रजः। गते हि रामे तरुणा स्संतप्ता नोपभुञ्जते।।2.114.25।। Ayodhya Kanda,114,27,बहिर्यात्रां न गच्छन्ति चित्रमाल्यधरा नराः। नोत्सवा स्सम्प्रवर्तन्ते रामशोकार्दिते पुरे।।2.114.27।। Ayodhya Kanda,114,28,सह नूनं मम भ्रात्रा पुरस्यास्य द्युतिर्गता। न हि राजत्ययोध्येयं सासारेवार्जुनी क्षपा।।2.114.28।। Ayodhya Kanda,114,29,कदा नु खलु मे भ्राता महोत्सव इवाऽगतः। जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवाम्बुदः।।2.114.29।। Ayodhya Kanda,114,30,तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभिः। सम्पतद्भिरयोध्यायां नाभिभान्ति महापथाः।।2.114.30।। Ayodhya Kanda,114,31,एवं बहुविधं जल्पन्विवेश वसतिं पितुः। तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव।।2.114.31।। Ayodhya Kanda,115,1,ततो निक्षिप्य मातृ़ स्स अयोध्यायां दृढ व्रतः। भरत श्शोकसन्तप्तो गुरूनिदमथाब्रवीत्।।2.115.1।। Ayodhya Kanda,115,2,नन्दिग्रामं गमिष्यामि सर्वानामन्त्रयेऽद्य वः। तत्र दुःखमिदं सर्वं सहिष्ये राघवं विना।।2.115.2।। Ayodhya Kanda,115,3,गतश्च वा दिवं राजा वनस्थश्च गुरुर्मम। रामं प्रतीक्षे राज्याय स हि राजा महायशाः।।2.115.3।। Ayodhya Kanda,115,4,एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः। अब्रुवन्मन्त्रिणस्सर्वे वसिष्ठश्च पुरोहितः।।2.115.4।। Ayodhya Kanda,115,5,सुभृशं श्लाघनीयं च यदुक्तं भरत त्वया। वचनं भ्रातृवात्सल्यादनुरूपं तवैव तत्।।2.115.5।। Ayodhya Kanda,115,6,नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे। आर्यमार्गं प्रपन्नस्य नानुमन्येत कः पुमान्।।2.115.6।। Ayodhya Kanda,115,7,मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम्। अब्रवीत्सारथिं वाक्यं रथो मे युज्यतामिति।।2.115.7।। Ayodhya Kanda,115,8,प्रहृष्टवदन स्सर्वा मातृ़ स्समभिवाद्य सः। आरुरोह रथं श्रीमान् शत्रुघ्नेन समन्वितः।।2.115.8।। Ayodhya Kanda,115,9,आरुह्य च रथं शीघ्रं शत्रुघ्नभरतावुभौ। ययतुः परमप्रीतौ वृतौ मन्त्रिपुरोहितैः।।2.115.9।। Ayodhya Kanda,115,10,अग्रतो गुरव: सर्वे वसिष्ठप्रमुखा द्विजाः। प्रययुः प्राङ्ग्मुखा स्सर्वे नन्दिग्रामो यतोऽभवत्।।2.115.10।। Ayodhya Kanda,115,11,बलं च तदनाहूतं गजाश्वरथसङ्कुलम्। प्रययौ भरते याते सर्वे च पुरवासिनः।।2.115.11।। Ayodhya Kanda,115,12,रथस्थः स तु धर्मात्मा भरतो भ्रातृवत्सलः। नन्दिग्रामं ययौ तूर्णं शिरस्यादाय पादुके।।2.115.12।। Ayodhya Kanda,115,13,ततस्तु भरतः क्षिप्रं नन्दिग्रामं प्रविश्य सः। अवतीर्य रथात्तूर्णं गुरूनिदमुवाच ह।।2.115.13।। Ayodhya Kanda,115,14,एतद्राज्यं मम भ्रात्रा दत्तं सन्नयासवत्स्वयम्। योगक्षेमवहे चेमे पादुके हेमभूषिते।।2.115.14।। Ayodhya Kanda,115,15,भरत श्शिरसा कृत्वा सन्न्यासं पादुके ततः। अब्रवीद्धुःखसंतप्त स्सर्वं प्रकृतिमण्डलम्।।2.115.15।। Ayodhya Kanda,115,16,छत्रं धारयत क्षिप्रमार्यपादाविमौ मतौ। आभ्यां राज्ये स्थितो धर्मः पादुकाभ्यां गुरोर्मम।।2.115.16।। Ayodhya Kanda,115,17,भ्रात्रा हि मयि संन्यासो निक्षिप्त स्सौहृदादयम्। तमिमं पालयिष्यामि राघवागमनं प्रति।।2.115.17।। Ayodhya Kanda,115,18,क्षिप्रं संयोजयित्वातु राघवस्य पुनस्स्वयम्। चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ।।2.115.18।। Ayodhya Kanda,115,19,ततो निक्षिप्तभारोऽहं राघवेण समागतः। निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम्।।2.115.19।। Ayodhya Kanda,115,20,राघवाय च सन्यासं दत्त्वेमे वरपादुके। राज्यं चेदमयोध्यां च धूतपापो भवामि च।।2.115.20।। Ayodhya Kanda,115,21,अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने। प्रीतिर्मम यशश्चैव भवेद्राज्याच्चतुर्गुणम्।।2.115.21।। Ayodhya Kanda,115,22,एवं तु विलपन्दीनो भरत स्समहायशाः। नन्दिग्रामेऽकरोद्राज्यं दुःखितो मन्त्रिभिस्सह।।2.115.22।। Ayodhya Kanda,115,23,स वल्कलजटाधारी मुनिवेषधरः प्रभुः। नन्दिग्रामेऽवसद्वीर स्ससैन्यो भरतस्तदा।।2.115.23।। Ayodhya Kanda,115,24,रामागमनमाकाङ्क्षन्भरतो भ्रातृवत्सलः। भ्रातुर्वचनकारी च प्रतिज्ञापारगस्तथा।।2.115.24।। पादुके त्वभिषिच्याथ नन्दिग्रामेऽवसत्तदा। Ayodhya Kanda,115,25,स वालव्यजनं छत्रं धारयामास स स्वयं। भरत श्शासनं सर्वं पादुकाभ्यां निवेदयन्।।2.115.25।। Ayodhya Kanda,115,26,ततस्तु भरत शश्रीमानभिषिच्याऽऽर्यपादुके। तदधीनस्तदा राज्यं कारयामास सर्वदा।।2.115.26।। Ayodhya Kanda,115,27,तदा हि यत्कार्यमुपैति किञ्चिदुपायनं चोपहृतं महार्हम्। स पादुकाभ्यां प्रथमं निवेद्य चकार पश्चाद्भरतो यथावत्।।2.115.27।। Ayodhya Kanda,116,1,प्रतिप्रयाते भरते वसन्रामस्तपोवने। लक्षयामास सोद्वेगमथौत्सुक्यं तपस्विनाम्।।2.116.1।। Ayodhya Kanda,116,2,ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे। राममाश्रित्य निरतास्तानलक्षयदुत्सुकान्।।2.116.2।। Ayodhya Kanda,116,3,नयनैर्ब्रुकुटीभिश्च रामं निर्दिश्य शङ्किताः। अन्योन्यमुपजल्पन्त श्शनैश्चक्रुर्मिथः कथाः।।2.116.3।। Ayodhya Kanda,116,4,तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शङ्कितः। कृताञ्जलिरुवाचेदमृषिं कुलपतिं ततः।।2.116.4।। Ayodhya Kanda,116,5,न कच्चिद्भगवन्किञ्चित्पूर्ववृत्तमिदं मयि। दृश्यते विकृतं येन विक्रियन्ते तपस्विनः।।2.116.5।। Ayodhya Kanda,116,6,प्रमादाच्चरितं कच्चित्किञ्चिन्नावरजस्य मे। लक्ष्मणस्यर्षिभिदृष्टं नानुरूपमिवात्मनः।।2.116.6।। Ayodhya Kanda,116,7,कच्चिच्छुश्रूषमाणा व श्शुश्रूषणपरा मयि। प्रमदाऽभ्युचितां वृत्तिं सीता युक्तं न वर्तते।।2.116.7।। Ayodhya Kanda,116,8,अथर्षिर्जरया वृद्धस्तपसा च जरां गतः। वेपमान इवोवाच रामं भूतदयापरम्।।2.116.8।। Ayodhya Kanda,116,9,कुतः कल्याणसत्त्वायाः कल्याणाभिरतेस्तथा। चलनं तात वैदेह्यास्तपस्विषु विशेषतः।।2.116.9।। Ayodhya Kanda,116,10,त्वन्निमित्तमिदं तावत्तापसान्प्रतिवर्तते। रक्षोभ्यस्तेन संविग्नाः कथयन्ति मिथः कथाः।।2.116.10।। Ayodhya Kanda,116,11,रावणावरजः कश्चित् खरो नामेह राक्षसः। उत्पाट्य तापसान्सर्वाञ्जनस्थाननिकेतनान्।।2.116.11।। Ayodhya Kanda,116,12,धृष्टश्च जितकाशी च नृशंसः पुरुषादकः। अवलिप्तश्च पापश्च त्वां च तात न मृष्यते।।2.116.12।। Ayodhya Kanda,116,13,त्वं यदाप्रभृति ह्यस्मिन्नाश्रमे तात वर्तसे। तदाप्रभृति रक्षांसि विप्रकुर्वन्ति तापसान्।।2.116.13।। Ayodhya Kanda,116,14,दर्शयन्ति हि बीभत्सैः क्रूरैर्भीषणकैरपि। नानारूपैर्विरूपैश्च रूपैर्विकृतदर्शनैः।।2.116.14।। Ayodhya Kanda,116,15,अप्रशस्तैशुचिभिस्सम्प्रयोज्य च तापसान्। प्रतिध्नन्त्यपरान्क्षिप्रमनार्याः पुरतः स्थिताः।।2.116.15।। Ayodhya Kanda,116,16,तेषु तेष्वाश्रमस्थानेष्वबुद्धमवलीय च। रमन्ते तापसां स्तत्र नाशयन्तोऽल्पचेतसः।।2.116.16।। Ayodhya Kanda,116,17,अपक्षिपन्ति स्रुग्भाण्डानग्नीस्निञ्चन्ति वारिणा। कलशांश्च प्रमध्नन्ति हवने समुपस्थिते।।2.116.17।। Ayodhya Kanda,116,18,तैर्दुरात्मभिरामृष्टानाश्रमान्प्रजिहासवः। गमनायान्यदेशस्य चोदयन्त्यृषयोऽद्य माम्।।2.116.18।। Ayodhya Kanda,116,19,तत्पुरा राम शारीरामुपहिंसां तपस्विषु। दर्शयन्ति हि दुष्टास्ते त्यक्ष्याम इममाश्रमम्।।2.116.19।। Ayodhya Kanda,116,20,बहुमूलफलं चित्रमविदूरादितो वनम्। पुराणाश्रममेवाहं श्रयिष्ये सगणः पुनः।।2.116.20।। Ayodhya Kanda,116,21,खरस्त्वय्यपि चायुक्तं पुरा तात प्रवर्तते। सहास्माभिरितो गच्छ यदि बुद्धिः प्रवर्तते।।2.116.21।। Ayodhya Kanda,116,22,सकलत्रस्य सन्देहो नित्यं यत्तस्य राघव। समर्थस्यापि हि सतो वासो दुःखमिहाद्य ते।।2.116.22।। Ayodhya Kanda,116,23,इत्युक्तवन्तं स्तंराम राजपुत्रस्तपस्विनम्। न शशाकोत्तरैर्वाक्यैरवरोद्धुं समुत्सुकम्।।2.116.23।। Ayodhya Kanda,116,24,अभिनन्द्य समापृच्छ्य समाधाय च राघवम्। स जगामाश्रमं त्यक्त्वा कुलैः कुलपतिस्सह।।2.116.24।। Ayodhya Kanda,116,25,रामः संसाद्य ऋषिगणमनुगमनाद्देशात्तस्मात्कुलपतिमभिवाद्य ऋषिम्। सम्यक्प्रीतैस्तैरनुमत उपदिष्टार्थः पुण्यं वासाय स्वनिलयमुपसम्पेदे।।2.116.25।। Ayodhya Kanda,116,26,आश्रममृषिविरहितं प्रभुः क्षणमपिन जहौ स राघवः। राघवं हि सततमनुगता स्तापसाश्चार्षचरित धृतगुणाः।।2.116.26।। Ayodhya Kanda,117,1,राघव स्त्वथ यातेषु तपस्विषु विचिन्तयन्। न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा।।2.117.1।। Ayodhya Kanda,117,2,इह मे भरतो दृष्टो मातरश्च सनागराः। सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचतः।।2.117.2।। Ayodhya Kanda,117,3,स्कन्धावारनिवेशेन तेन तस्य महात्मनः। हयहस्तिकरीषैश्च उपमर्दः कृतो भृशम्।।2.117.3।। Ayodhya Kanda,117,4,तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघवः। प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सङ्गतः।।2.117.4।। Ayodhya Kanda,117,5,सोऽत्रेराश्रममासाद्य तं ववन्दे महायशाः। तं चापि भगवानत्रिः पुत्रवत्प्रत्यपद्यत।।2.117.5।। Ayodhya Kanda,117,6,स्वयमातिथ्यमादिश्य सर्वमन्यत्सुसत्कृतम्। सौमित्रिं च महाभागां सीतां च समसान्त्वयत्।।2.117.6।। Ayodhya Kanda,117,7,पत्नीं च समनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम्। सान्त्वयामास धर्मज्ञः सर्वभूतहिते रतः।।2.117.7।। Ayodhya Kanda,117,8,आनसूयां महाभागां तापसीं धर्मचारिणीम् प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तमः। रामाय चाऽचचक्षे तां तापसीं धर्मचारिणीम्।।2.117.8।। Ayodhya Kanda,117,9,दश वर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम्।।2.117.9।। Ayodhya Kanda,117,10,यया मूलफले सृष्टे जाह्नवी च प्रवर्तिता। उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता।।2.117.10।। Ayodhya Kanda,117,11,दश वर्ष सहास्राणि तया तप्तं महत्तपः। अनसूया व्रतै स्स्नाता प्रत्यूहाश्च निवर्तिताः।।2.117.11।। Ayodhya Kanda,117,12,देवकार्यनिमित्तं च यया सन्त्वरमाणया। दशरात्रं कृता रात्रि स्सेयं मातेव तेऽनघ।।2.117.12।। Ayodhya Kanda,117,11,दश वर्षसहास्राणि यया तप्तं महत् तपः। अनसूया व्रतै स्स्नाता प्रत्यूहाश्च निवर्तिताः।।2.117.11।। Ayodhya Kanda,117,13,तामिमां सर्वभूतानां नमस्कार्यां यशस्विनीम् अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा। अनसूयेति या लोके कर्मभिः ख्यातिमागता।।2.117.13।। Ayodhya Kanda,117,14,एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघवः। सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम्।।2.117.14।। Ayodhya Kanda,117,15,राजपुत्रि श्रुतमिदं मुनेरस्य समीरितम्। श्रेयोऽर्थमात्मनश्शीघ्रमभिगच्छ तपस्विनीम्।।2.117.15।। Ayodhya Kanda,117,16,सीता त्वेतद वचः श्रुत्वा राघवस्य हितैषिणः। तामत्रिपन्तीं धर्मज्ञामभिचक्राम मैथिली।।2.117.16।। Ayodhya Kanda,117,18,शिथिलां वलितां वृद्धां जरापाण्डुरमूर्धजाम्। सततं वेपमानाङ्गीं प्रवाते कदलीं यथा।। 2.117.17।। तां तु सीता महाभागामनसूयां पतिव्रताम्। अभ्यवादयदव्यग्रा स्वं नाम समुदाहरत्।।2.117.18।। Ayodhya Kanda,117,18,शिथिलां वलितां वृद्धां जरापाण्डुरमूर्धजाम्। सततं वेपमानाङ्गीं प्रवाते कदलीं यथा।। 2.117.17।। तां तु सीता महाभागामनसूयां पतिव्रताम्। अभ्यवादयदव्यग्रा स्वंनाम समुदाहरत्।।2.117.18।। Ayodhya Kanda,117,19,अभिवाद्य च वैदेही तापसीं तामनिन्दिताम्। बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम्।।2.117.19।। Ayodhya Kanda,117,20,ततस्सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम्। सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे।।2.117.20।। Ayodhya Kanda,117,21,त्यक्त्वा ज्ञातिजनं सीते मानमृद्धं च भामिनि। अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि।।2.117.21।। Ayodhya Kanda,117,22,नगरस्थो वनस्थो वा पापो वा यदि वा शुभः। यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः।।2.117.22।। Ayodhya Kanda,117,23,दुश्शीलः कामवृत्तो वा धनैर्वा परिवर्जितः। स्त्रीणामार्यस्वभावानां परमं दैवतं पतिः।।2.117.23।। Ayodhya Kanda,117,24,नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम्। सर्वत्र योग्यं वैदेहि तपः कृतमिवाव्ययम्।।2.117.24।। Ayodhya Kanda,117,25,न त्वेवमवगच्छन्ति गुणदोषमसत्त्स्रियः। कामवक्तव्यहृदया भर्तृनाथाश्चरन्ति याः।।2.117.25।। Ayodhya Kanda,117,26,प्राप्नुवन्त्य यशश्चैव धर्मभ्रंशं च मैथिलि। अकार्यवशमापन्नाः स्त्रियो याः खलु तद्विधाः।।2.117.26।। Ayodhya Kanda,117,27,त्वद्विधास्तु गुणैर्युक्ता दृष्ट लोक परावराः। स्त्रिय स्स्वर्गे चरिष्यन्ति यथा धर्मकृतस्तथा।।2.117.27।। Ayodhya Kanda,118,1,सात्वेवमुक्ता वैदेही अनसूयाऽनसूयया। प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे।।2.118.1।। Ayodhya Kanda,118,2,नैतदाश्चर्यमार्याया यन्मां त्वमभिभाषसे। विदितन्तु ममाप्येतद्यथा नार्याः पतिर्गुरुः।।2.118.2।। Ayodhya Kanda,118,3,यद्यप्येष भवेद्भर्ता ममाऽर्ये वृत्तवर्जितः। अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत्।।2.118.3।। Ayodhya Kanda,118,4,किं पुनर्यो गुणश्लाघ्य स्सानुक्रोशो जितेन्द्रियः। स्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रियः।।2.118.4।। Ayodhya Kanda,118,5,यां वृत्तिं वर्तते रामः कौसल्यायां महाबलः। तामेव नृपनारीणामन्यासामपि वर्तते।।2.118.5।। Ayodhya Kanda,118,6,सकृद्दृष्टास्वपि स्त्रिषु नृपेण नृपवत्सलः। मातृवद्वर्तते वीरो मानमुत्सृज्य धर्मवित्।।2.118.6।। Ayodhya Kanda,118,7,आगच्छन्त्याश्च विजनं वनमेवं भयावहम्। समाहितं मे श्वश्र्वा च हृदये तद्धृतं महत्।।2.118.7।। Ayodhya Kanda,118,8,पाणिप्रदानकाले च यत्पुरात्वग्नि सन्निधौ। अनुशिष्टा जनन्याऽस्मि वाक्यं तदपि मे धृतम्।।2.118.8।। Ayodhya Kanda,118,9,नवीकृतं तु तत्सर्वं वाक्यैस्ते धर्मचारिणि। पतिशुश्रूषणान्नार्यास्तपो नान्यद्विधीयते।।2.118.9।। Ayodhya Kanda,118,10,सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते। तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम्।।2.118.10।। Ayodhya Kanda,118,11,वरिष्ठा सर्वनारीणामेषा च दिवि देवता। रोहिणी न विनाचन्द्रं मुहूर्तमपि दृश्यते।।2.118.11।। Ayodhya Kanda,118,12,एवंविधाश्च प्रवराः स्त्रियो भर्तृदृढव्रताः। देवलोके महीयन्ते पुण्येन स्वेन कर्मणा।।2.118.12।। Ayodhya Kanda,118,13,ततोऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः। शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत।।2.118.13।। Ayodhya Kanda,118,14,नियमैर्विविधैराप्तं तपो हि महदस्ति मे। तत्संश्रित्य बलं सीते छन्दये त्वां शुचिव्रते।।2.118.14।। Ayodhya Kanda,118,15,उपपन्नं मनोज्ञं च वचनं तव मैथिलि। प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे।।2.118.15।। Ayodhya Kanda,118,16,तस्यास्तद्  वचनं श्रूत्वा विस्मिता मन्दविस्मया। कृतमित्यब्रवीत् सीता तपोबलसमन्विताम्।।2.118.16।। Ayodhya Kanda,118,17,सा त्वेवमुक्ता धर्मज्ञा तया प्रीततराऽभवत्। सफलं च प्रहर्षं ते हन्त सीते करोम्यहम्।।2.118.17।। Ayodhya Kanda,118,18,इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च। अङ्गरागं च वैदेहि महार्हं चानुलेपनम्।।2.118.18।। Ayodhya Kanda,118,19,मया दत्तमिदं सीते तव गात्राणि शोभयेत्। अनुरूपमसंक्लिष्टं नित्यमेव भविष्यति।।2.118.19।। Ayodhya Kanda,118,20,अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे। शोभयिष्यसि भर्तारं यथा श्रीर्विष्णुमव्ययम्।।2.118.20।। Ayodhya Kanda,118,21,सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा। मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम्।।2.118.21।। Ayodhya Kanda,118,22,प्रतिगृह्य च तत्सीता प्रीतिदानं यशस्विनी। श्लिष्टाञ्जलिपुटा तत्र समुपास्त तपोधनाम्।।2.118.22।। Ayodhya Kanda,118,23,तथा सीतामुपासीनामनसूया दृढव्रता। वचनं प्रष्टुमारेभे काञ्चित्प्रियकथामनु।।2.118.23।। Ayodhya Kanda,118,24,स्वयं वरे किल प्राप्ता त्वमनेन यशस्विना। राघवेणेति मे सिते कथा श्रुतिमुपागता।।2.118.24।। Ayodhya Kanda,118,25,तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि। यथाऽनुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि।।2.118.25।। Ayodhya Kanda,118,26,एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम्। श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम्।।2.118.26।। Ayodhya Kanda,118,27,मिथिलाधिपतिर्वीरो जनको नाम धर्मवित्। क्षत्रधर्मे ह्यभिरतो न्यायतश्शास्ति मेदिनीम्।।2.118.27।। Ayodhya Kanda,118,28,तस्य लाङ्गलहस्तन्य कर्षतः क्षेत्रमण्डलम्। अहं किलोत्थिता भित्वा जगतीं नृपतेस्सुता।।2.118.28।। Ayodhya Kanda,118,29,स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः। पांसुकुण्ठितसर्वाङ्गीं जनको विस्मितोऽभवत्।।2.118.29।। Ayodhya Kanda,118,30,अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम्। ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातितः।।2.118.30।। Ayodhya Kanda,118,31,अन्तरिक्षे च वागुक्ताऽप्रतिमाऽमानुषी किल। एवमेतन्नरपते धर्मेण तनया तव।।2.118.31।। Ayodhya Kanda,118,32,ततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः। अवाप्तो विपुलां बुद्धिं मामवाप्य नराधिपः।।2.118.32।। Ayodhya Kanda,118,33,दत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा। तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात्।।2.118.33।। Ayodhya Kanda,118,34,पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता। चिन्तामभ्यगमद्धीनो वित्तनाशादिवाधनः।।2.118.34।। Ayodhya Kanda,118,35,सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात्। प्रधर्षणामवाप्नोति शक्रेणापि समो भुवि।।2.118.35।। Ayodhya Kanda,118,36,तां धर्षणामदूरस्थां दृष्ट्वा चात्मनि पार्थिवः। चिन्तार्णवगतः पारं नाससादाप्लवो यथा।।2.118.36।। Ayodhya Kanda,118,37,अयोनिजां हि मां ज्ञात्वा नाध्यगच्छद्विचिन्तयन्। सदृशं चानुरूपं च महीपालः पतिं मम।।2.118.37।। Ayodhya Kanda,118,38,तस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम्। स्वयंवरं तनूजायाः करिष्यामीति धीमतः।।2.118.38।। Ayodhya Kanda,118,39,महायज्ञे तदा तस्य वरुणेन महात्मना। दत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ।।2.118.39।। Ayodhya Kanda,118,40,असञ्चाल्यं मनुष्यैश्च यत्नेनापि च गौरवात्। तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपाः।।2.118.40।। Ayodhya Kanda,118,41,तद्धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना। समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान्।।2.118.41।। Ayodhya Kanda,118,42,इदं च धनुरुद्यम्य सज्यं यः कुरुते नरः। तस्य मे दुहिता भार्या भविष्यति न संशयः।।2.118.42।। Ayodhya Kanda,118,43,तच्च दृष्ट्वा धनुश्श्रेष्ठं गौरवाद्गिरिसन्निभम्। अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने।।2.118.43।। Ayodhya Kanda,118,44,सुदीर्घस्य तु कालस्य राघवोऽयं महाद्युतिः। विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः।।2.118.44।। लक्ष्मणेन सह भ्रात्रा राम स्सत्यपराक्रमः। Ayodhya Kanda,118,45,विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजितः।।2.118.45।। प्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ। Ayodhya Kanda,118,46,सुतौ दशरथस्येमौ धनुर्दर्शकाङ्क्षिणौ। धनुर्दर्शय रामाय राजपुत्राय दैविकम्।।2.118.46।। Ayodhya Kanda,118,47,इत्युक्तस्तेन विप्रेण तद्धनुस्समुपानयत्।।2.118.47।। Ayodhya Kanda,118,48,निमेषान्तरमात्रेण तदाऽनम्य महाबलः। ज्यां समारोप्य झडिति पूरयामास वीर्यवान्।।2.118.48।। Ayodhya Kanda,118,49,तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनुः। तस्य शब्दो भवद्भीमः पतितस्याशनेरिव।।2.118.49।। Ayodhya Kanda,118,50,ततोऽहं तत्र रामाय पित्रा सत्याभिसन्धिना। निश्चिता दातुमुद्यम्य जलभाजनमुत्तमम्।।2.118.50।। Ayodhya Kanda,118,51,दीयमानां न तु तदा प्रतिजग्राह राघवः। अविज्ञाय पितुश्छन्दमयोध्याऽधिपतेः प्रभोः।।2.118.51।। Ayodhya Kanda,118,52,तत श्श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम्। मम पित्रा त्वहं दत्ता रामाय विदितात्मने।।2.118.52।। Ayodhya Kanda,118,53,मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना। भार्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम्।।2.118.53।। Ayodhya Kanda,118,54,एवं दत्ताऽस्मि रामाय तदा तस्मिन्स्वयंवरे। अनुरक्ताऽस्मि धर्मेण पतिं वीर्यवतां वरम्।।2.118.54।। Ayodhya Kanda,119,1,अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम्। पर्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम्।।2.119.1।। Ayodhya Kanda,119,2,व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया। यथा स्वयंवरं वृत्तं तत्सर्वं हि श्रुतं मया।।2.119.2।। रमेऽहं कथया ते तु दृढं मधुरभाषिणि। Ayodhya Kanda,119,3,रविरस्तङ्गतश्श्रीमानुपोह्य रजनीं शिवाम्।।2.119.3।। Ayodhya Kanda,119,4,दिवसं प्रतिकीर्णानामाहारार्थं पतत्रिणाम्। सन्ध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनिः।।2.119.4।। Ayodhya Kanda,119,5,एते चाप्यभिषेकार्द्रा मुनयः कलशोद्यताः। सहिता उपवर्तन्ते सलिलाप्लुतवल्कलाः।।2.119.5।। Ayodhya Kanda,119,6,ऋषीणामग्निहोत्रेषु हुतेषु विधिपूर्वकम्। कपोताङ्गारुणो धूमो दृश्यते पवनोद्धतः।।2.119.6।। Ayodhya Kanda,119,7,अल्पपर्णा हि तरवो घनीभूतास्समन्ततः। विप्रकृष्टेन्द्रिये देशेऽस्मिन्न प्रकाशन्ति वै दिशः।।2.119.7।। Ayodhya Kanda,119,8,रजनीचरसत्त्वानि प्रचरन्ति समन्ततः। तपोवनमृगा ह्येते वेदितीर्थेषु शेरते।।2.119.8।। Ayodhya Kanda,119,9,सम्प्रवृत्तानिशा सीते नक्षत्रसमलङ्कृता। ज्योत्स्नाप्रावरणश्चन्द्रो दृश्यतेऽभ्युदितोऽम्बरे।।2.119.9।। Ayodhya Kanda,119,10,गम्यतामनुजानामि रामस्यानुचरी भव। कथायन्त्या हि मधुरं त्वयाऽहं परितोषिता।।2.119.10।। Ayodhya Kanda,119,11,अलङ्कुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि। प्रीतिं जनय मे वत्से दिव्यालङ्कारशोभिता।।2.119.11।। Ayodhya Kanda,119,12,सा तथा समलङ्कृत्य सीता सुरसुतोपमा। प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ।।2.119.12।। Ayodhya Kanda,119,13,तथा तु भूषितां सीतां ददर्श वदतां वरः। राघवः प्रीतिदानेन तपस्विन्या जहर्ष च।।2.119.13।। Ayodhya Kanda,119,14,न्यवेदयत्ततस्सर्वं सीता रामाय मैथिली। प्रीतिदानं तपस्विन्या वसनाभरणस्रजम्।।2.119.14।। Ayodhya Kanda,119,15,प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथः। मैथिल्यास्सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम्।।2.119.15।। Ayodhya Kanda,119,16,ततस्तां शर्वरीं प्रीतः पुण्यां शशिनिभाननः। अर्चितस्तापसै स्सिद्धैरुवास रघुनन्दनः।।2.119.16।। Ayodhya Kanda,119,17,तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान्। आपृच्छेतां नरव्याघ्रौ तापसान्वनगोचरान्।।2.119.17।। Ayodhya Kanda,119,18,तावूचुस्ते वनचरास्तापसा धर्मचारिणः। वनस्य तस्य सञ्चारं राक्षसैस्समभिप्लुतम्।।2.119.18।। Ayodhya Kanda,119,19,रक्षांसि पुरुषादानि नानारूपाणि राघव। वसन्त्यस्मिन्महारण्ये व्यालाश्च रुधिराशनाः।।2.119.19।। Ayodhya Kanda,119,20,उच्छिष्टं वा प्रमत्तं वा तापसं धर्मचारिणम्। अदन्त्यस्मिन्महारण्ये तान्निवारय राघव।।2.119.20।। Ayodhya Kanda,119,21,एष पन्था महर्षीणां फलान्याहरतां वने। अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम्।।2.119.21।। Ayodhya Kanda,119,22,इतीव तैः प्राञ्जलिभिस्तपस्विभिर्द्विजैः कृतस्वस्त्ययनः परन्तपः। वनं सभार्यः प्रविवेश राघवस्सलक्ष्मणस्सूर्य इवाभ्रमण्डलम्।।2.119.22।। Aranya Kanda,1,1,प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान्। ददर्श रामो दुर्धर्षस्तापसाश्रममण्डलम्।।3.1.1।। Aranya Kanda,1,2,कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम्। यथा प्रदीप्तं दुर्दर्शं गगने सूर्यमण्डलम्।।3.1.2।। Aranya Kanda,1,3,शरण्यं सर्वभूतानां सुसम्मृष्टाजिरं सदा। मृगैर्बहुभिराकीर्णं पक्षिसङ्घैस्समावृतम्।।3.1.3।। Aranya Kanda,1,4,पूजितं च प्रनृत्तं च नित्यमप्सरसां गणैः। विशालैरग्निशरणैः स्रुग्भाण्डैरजिनैः कुशैः।।3.1.4।। Aranya Kanda,1,5,समिद्भिस्तोयकलशैः फलमूलैश्च शोभितम्। आरण्यैश्च महावृक्षैः पुण्यैस्स्वादुफलैर्वृतम्।।3.1.5।। Aranya Kanda,1,6,बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम्। पुष्पैश्चान्यैः परिक्षिप्तं पद्मिन्या च सपद्मया।।3.1.6।। Aranya Kanda,1,7,फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः। सूर्यवैश्वानराभैश्च पुराणैर्मुनिभिर्वुतम्।।3.1.7।। Aranya Kanda,1,8,पुण्यैश्च नियताहारैः शोभितं परमर्षिभिः। तद्ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम्।।3.1.8।। Aranya Kanda,1,9,ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैरुपशोभितम्। तद्दृष्ट्वा राघवः श्रीमांस्तापसाश्रममण्डलम्।।3.1.9।। अभ्यगच्छन्महातेजा विज्यं कृत्वा महद्धनुः। Aranya Kanda,1,10,दिव्यज्ञानोपपन्नास्ते रामं दृष्ट्वा महर्षयः।।3.1.10।। अभ्यगच्छन्स्तदा प्रीता वैदेहीं च यशस्विनीम्। Aranya Kanda,1,11,ते तं सोममिवोद्यन्तं दृष्ट्वा वै धर्मचारिणम्।।3.1.11।। Aranya Kanda,1,12,लक्ष्मणं चैव दृष्ट्वा तु वैदेहीं च यशस्विनीम्। मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन्दृढव्रताः।।3.1.12।। Aranya Kanda,1,13,रूपसंहननं लक्ष्मीं सौकुमार्यं सुवेषताम्। ददृशुर्विस्मिताकारा रामस्य वनवासिनः।।3.1.13।। Aranya Kanda,1,14,वैदेहीं लक्ष्मणं रामं नेत्रैरनिमिषैरिव। आश्चर्यभूतान्ददृशुः सर्वे ते वनचारिणः।।3.1.14।। Aranya Kanda,1,15,अत्रैनं हि महाभागा स्सर्वभूतहिते रताः। अतिथिं पर्णशालायां राघवं संन्यवेशयन्।।3.1.15।। Aranya Kanda,1,16,ततो रामस्य सत्कृत्य विधिना पावकोपमाः। आजह्रुस्ते महाभागाः सलिलं धर्मचारिणः।।3.1.16।। Aranya Kanda,1,17,पुष्पं मूलं फलं सर्वमाश्रमं च महात्मनः। निवेदयित्वा धर्मज्ञास्ते ततः प्राञ्जलयोऽब्रुवन्।।3.1.17।। Aranya Kanda,1,18,धर्मपालो जनस्यास्य शरण्यस्त्वं महायशाः। पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः।।3.1.18।। Aranya Kanda,1,19,इन्द्रस्येह चतुर्भागः प्रजा रक्षति राघव। राजा तस्माद्वरान्भोगान्रम्यान् भुङक्तेलोकनमस्कृतः।।3.1.19।। Aranya Kanda,1,20,ते वयं भवता रक्ष्या भवद्विषयवासिनः। नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः।।3.1.20।। Aranya Kanda,1,21,न्यस्तदण्डा वयं राजञ्जितक्रोधा जितेन्द्रियाः। रक्षणीयास्त्वया शश्वदगर्भभूतास्तपोधनाः।।3.1.21।। Aranya Kanda,1,22,एवमुक्त्वा फलैर्मूलैः पुष्पैर्वन्यैश्च राघवम्। अन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन्।।3.1.22।। Aranya Kanda,2,1,कृतातिथ्योऽथ रामस्तु सूर्यस्योदयनं प्रति। आम्नत्ऱ्य स मुनीन्सर्वान्वनमेवान्वगाहत।।3.2.1।। Aranya Kanda,2,2,नानामृगगणाकीर्णमृक्षशार्दूल सेवितम्। ध्वस्तवृक्षलतागुल्मं दुर्दर्शसलिलाशयम्।।3.2.2।। Aranya Kanda,2,3,निष्कूजनानाशकुनिझिल्लिकागणनादितम्। लक्ष्मणानुगतो रामो वनमध्यं ददर्श ह।।3.2.3।। Aranya Kanda,2,4,सीतया सह काकुत्स्थस्तस्मिनघोरमृगायुते। ददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम्।।3.2.4।। Aranya Kanda,2,5,गम्भीराक्षं महावक्त्रं विकटं विषमोदरम्। बीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम्।।3.2.5।। Aranya Kanda,2,6,वसानं चर्म वैयाघ्रं वसार्द्रं रुधिरोक्षितम्। त्रासनं सर्वभूतानां व्यादितास्यमिवान्तकम्।।3.2.6।। Aranya Kanda,2,7,त्रीन्सिम्हान्श्चतुरो व्याघ्रान्द्वौ वृकौ पृषतान्दश। सविषाणं वसादिग्धं गजस्य च शिरो महत्। अवसज्यायसे शूले विनदन्तं महास्वनम्।।3.2.7।। Aranya Kanda,2,8,स रामं लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम्। अभ्यधावत्सुसङ्कृद्धः प्रजाः काल इवान्तकः।।3.2.8।। Aranya Kanda,2,9,स कृत्वा भैरवं नादं चालयन्निव मेदिनीम्। अङ्केनादाय वैदेहीमपक्रम्य ततोऽब्रवीत्।।3.2.9।। Aranya Kanda,2,10,युवां जटाचीरधरौ सभार्यौ क्षीणजीवितौ। प्रविष्टौ दण्डकारण्यं शरचापासिधारिणौ।।3.2.10।। Aranya Kanda,2,11,कथं तापसयोर्वां च वासः प्रमदया सह। अधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ।।3.2.11।। Aranya Kanda,2,12,अहं वनमिदं दुर्गं विराधो नाम राक्षसः। चरामि सायुधो नित्यमृषिमांसानि भक्षयन्।।3.2.12।। Aranya Kanda,2,13,इयं नारी वरारोहा मम भार्या भविष्यति। युवयोः पापयोश्चाहं पास्यामि रुधिरं मृधे।।3.2.13।। Aranya Kanda,2,14,तस्यैवं ब्रुवतो दुष्टं विराधस्य दुरात्मनः। श्रुत्वा सगर्वितं वाक्यं सम्भ्रान्ता जनकात्मजा।।3.2.14।। Aranya Kanda,2,15,सीता प्रवेपतोद्वेगात् प्रावाते कदली यथा।।3.2.15।। Aranya Kanda,2,16,तां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम्। अब्रवील्लक्ष्मणं वाक्यं मुखेन परिशुष्यता।।3.2.16।। Aranya Kanda,2,17,पश्य सौम्य नरेन्द्रस्य जनकस्यात्मसम्भवाम्। मम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम्।।3.2.17।। अत्यन्तसुखसंमव़ृद्धां राजपुत्रीं यशस्विनीम्। Aranya Kanda,2,18,यदभिप्रेतमस्मासु प्रियं वरवृतं च यत्।।3.2.18।। कैकेय्यास्तु सुसंवृत्तं क्षिप्रमद्यैव लक्ष्मण। Aranya Kanda,2,19,या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी।।3.2.19।। Aranya Kanda,2,20,ययाहं सर्वभूतानां प्रियः प्रस्थापितो वनम्। अद्येदानीं सकामा सा या माता मध्यमा मम।।3.2.20।। Aranya Kanda,2,21,परस्पर्शात्तु वैदेह्याः न दुःखतरमस्तिमे। पितुर्विनाशात्सौमित्रे स्वराज्यहरणात्तथा।।3.2.21।। Aranya Kanda,2,22,इति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुते। अब्रवील्लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन्।।3.2.22।। Aranya Kanda,2,23,अनाथ इव भूतानां नाथस्त्वं वासवोपमः। मया प्रेष्येण काकुत्स्थ किमर्थं परितप्यसे।।3.2.23।। Aranya Kanda,2,24,शरेण निहतस्याद्य मया क्रुद्धेन रक्षसः। विराधस्य गतासोर्हि मही पास्यति शोणितम्।।3.2.24।। Aranya Kanda,2,25,राज्यकामे मम क्रोधो भरते यो बभूव ह। तं विराधे प्रमोक्ष्यामि वज्री वज्रमिवाचले।।3.2.25।। Aranya Kanda,2,26,मम भुजबलवेगवेगितः पततु शरोऽस्य महान्महोरसि। व्यपनयतु तनोश्च जीवितं पततु ततस्समहीं विघूर्णितः।।3.2.26।। Aranya Kanda,3,1,इत्युक्त्वा लक्ष्मणश्श्रीमान्विराधे प्रहसन्निव। कोभवान्वनमभ्येत्य चरिष्यसि यथासुखम्।।3.3.1।। Aranya Kanda,3,2,अथोवाच पुनर्वाक्यं विराधः पूरयन्वनम्। पृच्छतो मम हि ब्रूतं कौ युवां क्व गमिष्यथः।।3.3.2.।। Aranya Kanda,3,3,तमुवाच ततो रामो राक्षसं ज्वलिताननम्। पृच्छन्तं सुमहातेजा इक्ष्वाकुकुलमात्मनः।।3.3.3।। Aranya Kanda,3,4,क्षत्रियौ वृत्तसम्पन्नौ विद्धि नौ वनगोचरौ। त्वां तु वेदितुमिच्छावः कस्त्वं चरसि दण्डकान्।।3.3.4।। Aranya Kanda,3,5,तमुवाच विराधस्तु रामं सत्यपराक्रमम्। हन्त वक्ष्यामि ते राजन्निबोध मम राघव।।3.3.5।। Aranya Kanda,3,6,पुत्रः किल जयस्याहं माता मम शतह्रदा। विराध इति मामाहुः पृथिव्यां सर्वराक्षसाः।।3.3.6।। Aranya Kanda,3,7,तपसा चाभिसम्प्राप्ता ब्रह्मणो हि प्रसादजा। शस्त्रेणावध्यता लोकेऽच्छेद्याभेद्यत्वमेव च।।3.3.7।। Aranya Kanda,3,8,उत्सृज्य प्रमदामेनामनपेक्षौ यथागतम्। त्वरमाणौ पलायेथां न वां जीवितमाददे।। 3.3.8।। Aranya Kanda,3,9,तं रामः प्रत्युवाचेदं कोपसंरक्तलोचनः। राक्षसं विकृताकारं विराधं पापचेतसम्।।3.3.9।। Aranya Kanda,3,10,क्षुद्र धिक्त्वां तु हीनार्थं मृत्युमन्वेषसे ध्रुवम्। रणे प्राप्स्यसे सन्तिष्ठ न मे जीवन् गमिष्यासि।।3.3.10।। Aranya Kanda,3,11,ततः सज्यं धनुः कृत्वा रामस्सुनिशिताञ्छरान्। सुशीघ्रमभिसन्धाय राक्षसं निजघान ह।।3.3.11।। Aranya Kanda,3,12,धनुषा ज्यागुणवता सप्त बाणान्मुमोच ह। रुक्मपुङ्खान्महावेगान्सुपर्णानिलतुल्यगान्।।3.3.12।। Aranya Kanda,3,13,ते शरीरं विराधस्य भित्त्वाबर्हिणवाससः। निपेतुश्शोणितादिग्धा धरण्यां पावकोपमाः।।3.3.13।। Aranya Kanda,3,14,स विद्धो न्यस्य वैदेहीं शूलमुद्यम्य राक्षसः। अभ्यद्रवत्सुसङ्कृद्धस्तदा रामं सलक्ष्मणम्।।3.3.14।। Aranya Kanda,3,15,स विनद्य महानादं शूलं शक्रध्वजोपमम्। प्रगृह्याशोभत तदा व्यात्तानन इवान्तकः।।3.3.15।। Aranya Kanda,3,16,अथ तौ भ्रातरौ दीप्तं शरवर्षं ववर्षतुः। विराधे राक्षसे तस्मिन् कालान्तकयमोपमे।।3.3.16।। Aranya Kanda,3,17,स प्रहस्य महारौद्रः स्थित्वाजृम्भत राक्षसः। जृम्भमाणस्य ते बाणाः कायान्निष्पेतुराशुगाः।।3.3.17।। Aranya Kanda,3,18,स्पर्शात्तु वरदानेन प्राणान्सम्रोध्य राक्षसः। विराधः शूलमुद्यम्य राघवावभ्यधावत।।3.3.18।। Aranya Kanda,3,19,तच्छूलं वज्रसङ्काशं गगने ज्वलनोपमम्। द्वाभ्यां शराभ्यां चिच्छेद रामः शस्त्रभृतांवरः।।3.3.19।। Aranya Kanda,3,20,तद्रामविशिखच्छिन्नं शूलं तस्यकराद्भुवि। पपाताशनिना छिन्नं मेरोरिव शिलातलम्।।3.3.20।। Aranya Kanda,3,21,तौ खड्गौ क्षिप्रमुद्यम्य कृष्णसर्पोपमौशुभौ। तूर्णमापेततुस्तस्य तदा प्रहरतां बलात्।।3.3.21।। Aranya Kanda,3,22,स वध्यमानः सुभृशं भुजाभ्यां परिरभ्यतौ। अप्रकम्प्यौ नरव्याघ्रौ रौद्रः प्रस्थातुमैच्छत।।3.3.22।। Aranya Kanda,3,23,तस्याभिप्रायमाज्ञाय रामो लक्ष्मणमब्रवीत्। वहत्वयमलं तावत्पथाऽनेन तु राक्षसः।।3.3.23।। Aranya Kanda,3,24,यथा चेच्छति सौमित्रे तथा वहतु राक्षसः। अयमेव हि नः पन्था येन याति निशाचरः।।3.3.24।। Aranya Kanda,3,25,स तु स्वबलवीर्येण समुत्क्षिप्य निशाचरः। बालाविव स्कन्धगतौ चकारातिबलोद्धतः।।3.3.25।। Aranya Kanda,3,26,तावारोप्य ततः स्कन्धं राघवौ रजनीचरः। विराधो विनदन्घोरं जगामाभिमुखो वनम्।।3.3.26।। Aranya Kanda,4,1,ह्रियमाणौ तु तौ दृष्ट्वा वैदेही रामलक्ष्मणौ। उच्चैस्स्वरेण चुक्रोश प्रगृह्य सुमहाजाभुजौ।।3.4.1।। Aranya Kanda,4,2,एष दाशरथी रामः सत्यवान् शीलवान् शुचिः। रक्षसा रौद्ररूपेण ह्रियते सहलक्ष्मणः।।3.4.2।। Aranya Kanda,4,3,मामृका भक्षयिष्यन्ति शार्दूलाद्वीपिनस्तथा। मां हरोत्सृज काकुत्स्थौ नमस्ते राक्षसोत्तम।।3.4.3।। Aranya Kanda,4,4,तस्यास्तद्वचनं श्रुत्वा वैदेह्या रामलक्ष्मणौ। वेगं प्रचक्रतुर्वीरौ वधे तस्य दुरात्मनः।।3.4.4।। Aranya Kanda,4,5,तस्य रौद्रस्य सौमित्रिः सव्यं बाहुं बभञ्ज ह। रामस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः।।3.4.5।। Aranya Kanda,4,6,स भग्नबाहुस्सविग्नो निपपाताशु राक्षसः। धरण्यां मेघसङ्काशो वज्रभिन्न इवाचलः।।3.4.6।। Aranya Kanda,4,7,मुष्टिभिर्जानुभिः पद्भिः सूदयन्तौ तु राक्षसम्। उद्यम्योद्यम्य चाप्येनं स्थण्डिले निष्पिपेषतुः।।3.4.7।। Aranya Kanda,4,8,स विद्धो बहुभिर्बाणैः खङ्गाभ्यां च परिक्षतः। निष्पिष्टो बहुधा भूमौ न ममार स राक्षसः।।3.4.8।। Aranya Kanda,4,9,तं प्रेक्ष्य रामः सुभृशमवध्यमचलोपमम्। भयेष्वभयदश्श्रीमानिदं वचनमब्रवीत्।।3.4.9।। Aranya Kanda,4,10,तपसा पुरुषव्याघ्र राक्षसोऽयं न शक्यते। शस्त्रेण युधि निर्जेतुं राक्षसं निखनावहे।।3.4.10।। Aranya Kanda,4,11,कुञ्जरस्येव रौद्रस्य राक्षसस्यास्य लक्ष्मण। वनेऽस्मिन् सुमहच्छ्वभ्रं खन्यतां रौद्रवर्चसः।।3.4.11।। Aranya Kanda,4,12,इत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति। तस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान्।।3.4.12।। Aranya Kanda,4,13,तच्छ्रुत्वा राघवेणोक्तं राक्षसः प्रश्रितं वचः। इदं प्रोवाच काकुत्थ्सं विराधः पुरुषर्षभम्।।3.4.13।। Aranya Kanda,4,14,हतोऽस्मि पुरुषव्याघ्र शक्रतुल्यबलेन वै। मया तु पूर्वं त्वं मोहान्न ज्ञातः पुरुषर्षभ।।3.4.14।। Aranya Kanda,4,15,कौसल्यासुप्रजा राम तातस्त्वं विदितो मया। वैदेही च महाभागा लक्ष्मणश्च महायशाः।।3.4.15।। Aranya Kanda,4,16,अभिशापादहं घोरां प्रविष्टो राक्षसीं तनुम्। तुम्बुरुर्नाम गन्धर्वः शप्तो वैश्रवणेन ह।।3.4.16।। Aranya Kanda,4,17,प्रसाद्यमानश्च मया सोऽब्रवीन्मां महायशाः। यदा दाशरथी रामस्त्वां वधिष्यति संयुगे। तदा प्रकृतिमापन्नो भवान्स्वर्गं गमिष्यति।।3.4.17।। Aranya Kanda,4,18,अनुपस्थीयमानो मां स क्रुद्धो व्याजहार ह। इति वैश्रवणो राजा रम्भासक्तमुवाच ह।।3.4.18।। Aranya Kanda,4,19,तव प्रसादान्मुक्तोऽहमिहशापात्सुदारुणात्। भुवनं स्वं गमिष्यामि स्वस्ति वोऽस्तु परन्तप।।3.4.19।। Aranya Kanda,4,20,इतो वसति धर्मात्मा शरभङ्गः प्रतापवान्।।3.4.20।। Aranya Kanda,4,21,अध्यर्धयोजने तात महर्षिस्सूर्यसन्निभः। तं क्षिप्रमधिगच्छ त्वं स ते श्रेयोऽभिधास्यति।।3.4.21।। Aranya Kanda,4,22,अवटे चापि मां राम प्रक्षिप्य कुशली व्रज। रक्षसां गतसत्त्वानामेष धर्मस्ससनातनः। अवटे ये निधीयन्ते तेषां लोकास्सनातनाः।।3.4.22।। Aranya Kanda,4,23,एवमुक्त्वा तु काकुत्थ्सं विराधश्शरपीडितः। बभूव स्वर्गसम्प्राप्तो न्यस्तदेहो महाबलः।।3.4.23।। Aranya Kanda,4,24,तच्छ्रुत्वा राघवो वाक्यं लक्ष्मणं व्यादिदेश ह। कुञ्जरस्येव रौद्रस्य राक्षसस्यास्य लक्ष्मण।।3.4.24।। Aranya Kanda,4,25,वनेऽस्मिन् सुमहच्छ्वभ्रं खन्यतां रौदकर्मणः। इत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति। तस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान्।।3.4.25।। Aranya Kanda,4,26,ततः खनित्रमादाय लक्ष्मणश्श्वभ्रमुत्तमम्। अखनत्पार्श्वतस्तस्य विराधस्य महात्मनः।।3.4.26।। Aranya Kanda,4,27,तं मुक्तकण्ठंनिक्षिप्य शङ्कुकर्णं महास्वनम्। विराधं प्राक्षिपच्छ्वभ्रे नदन्तं भैरवस्वनम्।।3.4.27।। Aranya Kanda,4,28,तमाहवे दारुणमाशुविक्रमौ स्थिरावुभौ संयति रामलक्ष्मणौ। मुदान्वितौ चिक्षिपतुर्भयावहं नदन्तमुत्क्षिप्य बिले तु राक्षसम्।।3.4.28।। Aranya Kanda,4,29,अवध्यतां प्रेक्ष्य महासुरस्य तौ शितेन शस्त्रेण तदा नरर्षभौ। समर्थ्य चात्यर्थविशारदावुभौ बिले विराधस्य वधं प्रचक्रतुः।।3.4.29।। Aranya Kanda,4,30,स्वयं विराधेन हि मृत्युरात्मनः प्रसह्य रामेण यथार्थमीप्सितः। निवेदितः काननचारिणा स्वयं न मे वधः शस्त्रकृतो भवेदिति।।3.4.30।। Aranya Kanda,4,31,तदेव रामेण निशम्य भाषितं कृता मतिस्तस्य बिलप्रवेशने। बिलं च रामेणातिबलेन रक्षसा प्रवेश्यमानेन वनं विनादितम्।।3.4.31।। Aranya Kanda,4,32,प्रहृष्टरूपाविव रामलक्ष्मणौ विराधमुर्व्या प्रदरे निहत्य तौ। ननन्दतुर्वीतभयौ महावने शिलाभिरन्तर्दधतुश्च राक्षसम्।।3.4.32।। Aranya Kanda,5,1,हत्वा तु तं भीमबलं विराधं राक्षसं वने। ततस्सीतां परिष्वज्य समाश्वास्य च वीर्यवान्।।3.5.1।। अब्रवील्लक्ष्मणं रामो भ्रातरं दीप्ततेजसम्। Aranya Kanda,5,2,कष्टं वनमिदं दुर्गं न च स्म वनगोचराः।।3.5.2।। अभिगच्छामहे शीघ्रं शरभङ्गं तपोधनम्। Aranya Kanda,5,3,आश्रमं शरभङ्गस्य राघवोऽभिजगाम ह।।3.5.3।। Aranya Kanda,5,4,तस्य देवप्रभावस्य तपसा भावितात्मनः। समीपे शरभङ्गस्य ददर्श महदद्भुतम्।।3.5.4।। Aranya Kanda,5,5,विभ्राजमानं वपुषा सूर्यवैश्वानरोपमम्। अवरुह्यरथोत्सङ्गादाकाशे विबुधानुगम।।3.5.5।। Aranya Kanda,5,6,असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम्। सुप्रभाभरणं देवं विरजोऽम्बरधारिणम्।।3.5.6।। तद्विधैरेव बहुभिः पूज्यमानं महात्मभिः। Aranya Kanda,5,7,हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम्।।3.5.7।। Aranya Kanda,5,8,ददर्शादूरतस्तस्य तरुणादित्यसन्निभम्। पाण्डुराभ्रघनप्रख्यं चन्द्रमण्डलसन्निभम्।।3.5.8।। Aranya Kanda,5,9,अपश्यद्विमलं छत्रं चित्रमाल्योपशोभितम्। चामरव्यजने चाग्र्ये रुक्मदण्डे महाधने।।3.5.9।। गृहीते वरनारीभ्यां धूयमाने च मूर्धनि। Aranya Kanda,5,10,गन्धर्वामरसिद्धाश्च बहवः परमर्षयः।।3.5.10।। अन्तरिक्षगतं देवं वाग्भिरग्य्राभिरीडिरे। Aranya Kanda,5,11,सह सम्भाषमाणे तु शरभङ्गेन वासवे।।3.5.11।। दृष्ट्वा शतक्रतुं तत्र रामो लक्ष्मणमब्रवीत्। Aranya Kanda,5,12,रामोऽथ रथमुद्दिश्य लक्ष्मणायप्रदर्शयन्।।3.5.12।। Aranya Kanda,5,13,अर्चिष्मन्तं श्रिया जुष्टमद्भुतं पश्य लक्ष्मण। प्रतपन्तमिवादित्यमन्तरिक्षगतं रथम्।।3.5.13।। Aranya Kanda,5,14,ये हयाः पुरुहूतस्य पुरा शक्रस्य नश्श्रुताः। अन्तरिक्षगता दिव्यास्त इमे हरयो ध्रुवम्।।3.5.14।। Aranya Kanda,5,15,इमे च पुरुषव्याघ्रा ये तिष्ठ्न्त्यभितो रथम्। शतं शतं कुण्डलिनो युवानः खङ्गपाणयः।।3.5.15।। Aranya Kanda,5,16,विस्तीर्णविपुलोरस्काः परिघायतबाहवः। शोणांशुवसनास्सर्वे व्याध्रा इव दुरासदाः।।3.5.16।। Aranya Kanda,5,17,उरोदेशेषु सर्वेषां हारा ज्वलनसन्निभाः। रूपं बिभ्रति सौमित्रे पञ्चविंशतिवार्षिकम्।।3.5.17।। Aranya Kanda,5,18,एतद्दि किल देवानां वयो भवति नित्यदा। यथेमे पुरुषव्याघ्रा दृश्यन्ते प्रियदर्शनाः।।3.5.18।। Aranya Kanda,5,19,इहैव सह वैदेह्या मुहूर्तं तिष्ठ लक्ष्मण। यावज्जानाम्यहं व्यक्तं क एष द्युतिमान्रथे।।3.5.19।। Aranya Kanda,5,20,तमेवमुक्त्वा सौमित्रिमिहैव स्थीयतामिति। अभिचक्राम काकुत्स्थ श्शरभङ्गाश्रमं प्रति।।3.5.20।। Aranya Kanda,5,21,ततस्समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः। शरभङ्गमनुप्राप्य विविक्त इदमब्रवीत्।।3.5.21।। Aranya Kanda,5,22,इहोपयात्यसौ रामो यावन्मां नाभिभाषते। निष्ठां नयतु तावत्तु ततो मा द्रष्टुमर्हति।।3.5.22।। Aranya Kanda,5,23,जितवन्तं कृतार्थं हि तदाहमचिरादिमम्। कर्म ह्यनेन कर्तव्यं महदन्यैस्सुदुष्करम्।।3.5.23।। Aranya Kanda,5,24,इति वज्री तमामन्त्र्य मानयित्वा च तापसम्। रथेन हययुक्तेन ययौ दिवमरिन्दमः।।3.5.24।। Aranya Kanda,5,25,प्रयाते तु सहस्राक्षे राघवस्सपरिच्छदः। अग्निहोत्रमुपासीनं शरभङ्गमुपागमत्।।3.5.25।। Aranya Kanda,5,26,तस्य पादौ च सङ्गृह्य रामस्सीता च लक्ष्मणः। निषेदुस्समनुज्ञाता लब्धवासा निमन्त्रिताः।।3.5.26।। Aranya Kanda,5,27,ततश्शक्रोपयानं तु पर्यपृच्छत्स राघवः। शरभङ्गश्च तत्सर्यं राघवाय न्यवेदयत्।।3.5.27।। Aranya Kanda,5,28,मामेष वरदो राम ब्रह्मलोकं निनीषति। जितमुग्रेण तपसा दुष्प्रापमकृतात्मभिः।।3.5.28।। Aranya Kanda,5,29,अहं ज्ञात्वा नरव्याघ्र वर्तमानमदूरतः। ब्रह्मलोकं न गच्छामि त्वामदृष्ट्वा प्रियातिथिम्।।3.5.29।। Aranya Kanda,5,30,त्वयाऽहं पुरुषव्याघ्र धार्मिकेण महात्मना। समागम्य गमिष्यामि त्रिदिवं देवसेवितम्।।3.5.30।। Aranya Kanda,5,31,अक्षया नरशार्दूल मया लोका जिताश्शुभा। ब्राह्म्याश्च नाकपृष्ठ्याश्च प्रतिगृह्णीष्व मामकान्।।3.5.31।। Aranya Kanda,5,32,एवमुक्तो नरव्याघ्रस्सर्वशास्त्र विशारदः। ऋषिणा शरभङ्गेण राघवो वाक्यमब्रवीत्।।3.5.32।। Aranya Kanda,5,33,अहमेवाहरिष्यामि सर्वांल्लोकान्महामुने। आवासं त्वहमिच्छामि प्रदिष्टमिह कानने।।3.5.33।। Aranya Kanda,5,34,राघवेणैवमुक्तस्तु शक्रतुल्यबलेन वै। शरभङ्गो महाप्राज्ञः पुनरेवाब्रवीद्वचः।।3.5.34।। Aranya Kanda,5,35,इह राम महातेजास्सुतीक्ष्णो नाम धार्मिकः। वसत्यरण्ये धर्मात्मा स ते श्रेयो विधास्यति।।3.5.35।। Aranya Kanda,5,36,सुतीक्ष्णमभिगच्छ त्वं शुचौ देशे तपस्विनम्। रमणीये वनोद्देशे स ते वासं विधास्यति।।3.5.36।। Aranya Kanda,5,37,इमां मन्दाकिनीं राम प्रतिस्रोतामनुव्रज। नदीं पुष्पोडुपवहां ततस्तत्र गमिष्यसि।।3.5.37।। Aranya Kanda,5,38,एष पन्था नरव्याघ्र मुहूर्तं पश्य तात माम्। यावज्जहामि गात्राणि जीर्णां त्वचमिवोरगः।।3.5.38।। Aranya Kanda,5,39,ततोऽग्निं स समाधाय हुत्वा चाज्येन मन्त्रवित्। शरभङ्गो महातेजाः प्रविवेश हुताशनम्।।3.5.39।। Aranya Kanda,5,40,तस्य रोमाणि केशांश्च तदा वह्निर्महात्मनः। जीर्णां त्वचं तथाऽस्थीनि यच्च मांसं सशोणितम्।।3.5.40।। Aranya Kanda,5,41,स च पावकसङ्काशः कुमारस्समपद्यत। उत्थायाग्निचयात्तस्माच्छरभङ्गो व्यरोचत।।3.5.41।। Aranya Kanda,5,42,स लोकानाहिताग्नीनामृषीणां च महात्मनाम्। देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत।।3.5.42।। Aranya Kanda,5,43,स पुण्यकर्मा भुवने द्विजर्षभः पितामहं सानुचरं ददर्श ह। पितामहश्चापि समीक्ष्य तं द्विजं ननन्द सुस्वागतमित्युवाच ह।।3.5.43।। Aranya Kanda,6,1,शरभङ्गे दिवं प्राप्ते मुनिसङ्घास्समागताः। अभ्यगच्छन्त काकुत्स्थं रामं ज्वलिततेजसम्।।3.6.1।। Aranya Kanda,6,2,वैखानसा वालखिल्यास्सम्प्रक्षाला मरीचिपाः। अश्मकुट्टाश्च बहवः पत्राहाराश्च तापसाः।।3.6.2।। Aranya Kanda,6,3,दन्तोलूखलिनश्चैव तथैवोन्मज्जकाः परे। गात्रशय्या अशय्याश्च तथैवाभ्रावकाशकाः।।3.6.3।। Aranya Kanda,6,4,मुनयस्सलिलाहारावायुभक्षा स्तथापरे। आकाशनिलयाश्चैव तथा स्थण्डिलशायिनः।।3.6.4।। Aranya Kanda,6,5,व्रतोपवासिनो दान्तास्तथाऽर्द्रपटवाससः। सजपाश्च तपोनित्यास्तथा पञ्चतपोऽन्विताः।।3.6.5।। Aranya Kanda,6,6,सर्वे ब्राह्म्या श्रिया जुष्टा दृढयोगास्समाहिताः। शरभङ्गाश्रमे राममभिजग्मुश्च तापसाः।।3.6.6।। Aranya Kanda,6,7,अभिगम्य च धर्मज्ञा रामं धर्मभृतां वरम्। ऊचुः परमधर्मज्ञमृषिसङ्घास्समाहिताः।।3.6.7।। Aranya Kanda,6,8,त्वमिक्ष्वाकुकुलस्यास्य पृथिव्याश्च महारथ। प्रधानश्चासि नाथश्च देवानां मघवानिव।।3.6.8।। Aranya Kanda,6,9,विश्रुतस्त्रिषु लोकेषु यशसा विक्रमेण च। पितृभक्तिश्च सत्यं च त्वयि धर्मश्च पुष्कलः।।3.6.9।। Aranya Kanda,6,10,त्वामासाद्य महात्मानं धर्मज्ञं धर्मवत्सलम्। अर्थित्वान्नाथ वक्ष्यामस्तच्च नः क्षन्तुमर्हसि।।3.6.10।। Aranya Kanda,6,11,अधर्मस्सुमहांस्तात भवेत्तस्य महीपतेः। यो हरेद्बलिषड्भागां न च रक्षति पुत्रवत्।।3.6.11।। Aranya Kanda,6,12,युञ्जानस्स्वानिव प्राणान्प्राणैरिष्टान्सुतानिव। नित्ययुक्तस्सदा रक्षन्सर्वान्विषयवासिनः।।3.6.12।। Aranya Kanda,6,13,प्राप्नोति शाश्वतीं राम कीर्तिं स बहुवार्षिकीम्। ब्रह्मणस्स्थानमासाद्य तत्र चापि महीयते।।3.6.13।। Aranya Kanda,6,14,यत्करोति परं धर्म मुनिर्मूलफलाशनः। तत्र राज्ञश्चतुर्भाग प्रजा धर्मेण रक्षितः।।3.6.14।। Aranya Kanda,6,15,सोऽयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान्। त्वन्नाथोऽनाथवद्राम राक्षसैर्वध्यते भृशम्।।3.6.15।। Aranya Kanda,6,16,एहि पश्य शरीराणि मुनीनां भावितात्मनाम्। हतानां राक्षसैर्घोरैर्बहूनां बहुधा वने।।3.6.16।। Aranya Kanda,6,17,पम्पानदीनिवासानामनुमन्दाकिनीमपि। चित्रकूटालयानां च क्रियते कदनं महत्।।3.6.17।। Aranya Kanda,6,18,एवं वयं न मृष्यामो विप्रकारं तपस्विनाम्। क्रियमाणं वने घोरं रक्षोभिर्भीमकर्मभिः।।3.6.18।। Aranya Kanda,6,19,ततस्त्वां शरणार्थं च शरण्यं समुपस्थिताः। परिपालय नो राम वध्यमानान्निशाचरैः।।3.6.19।। Aranya Kanda,6,20,परा त्वत्तो गतिर्वीर पृथिव्यां नोपपद्यते। परिपालय न स्सर्वान्राक्षसेभ्यो नृपात्मज।।3.6.20।। Aranya Kanda,6,21,एतच्छ्रुत्वा तु काकुत्स्थस्तापसानां तपस्विनाम्। इदं प्रोवाच धर्मात्मा सर्वानेव तपस्विनः।।3.6.21।। Aranya Kanda,6,22,नैवमर्हथ मां वक्तुमाज्ञाप्योऽहं तपस्विनाम्। केवलेनात्मकार्येण प्रवेष्टव्यं मया वनं।।3.6.22।। Aranya Kanda,6,23,विप्रकारमपाक्रष्टुं राक्षसैर्भवतामिमम्। पितुस्तु निर्देशकरः प्रविष्टोऽहमिदं वनम्।।3.6.23।। Aranya Kanda,6,24,भवतामर्थसिद्ध्यर्थमागतोऽहं यदृच्छया। तस्य मेऽयं वने वासो भविष्यति महाफलः।।3.6.24।। Aranya Kanda,6,25,तपस्विनां रणे शत्रून्हन्तुमिच्छामि राक्षसान्। पश्यन्तु वीर्यमृषयस्सभ्रातुर्मे तपोधनाः।।3.6.25।। Aranya Kanda,6,26,दत्त्वाऽभयं चापि तपोधनानां धर्मे धृतात्मा सह लक्ष्मणेन। तपोधनैश्चापि सभाज्यवृत्तः सुतीक्ष्णमेवाभिजगाम वीरः।।3.6.26।। Aranya Kanda,7,1,रामस्तु सहितो भ्रात्रा सीतया च परन्तपः। सुतीक्ष्णस्याश्रमपदं जगाम सह तैर्द्विजैः।।3.7.1।। Aranya Kanda,7,2,स गत्वा दीर्घमध्वानं नदीस्तीर्त्वा बहूदकाः। ददर्श विमलं शैलं महामेघमिवोन्नतम्।।3.7.2।। Aranya Kanda,7,3,तत स्तदिक्ष्वाकुवरौ सन्ततं विविधैर्द्रुमैः। काननं तौ विविशतुस्सीतया सह राघवौ।।3.7.3।। Aranya Kanda,7,4,प्रविष्टस्तु वनं घोरं बहुपुष्पफलद्रुमम्। ददर्शाश्रममेकान्ते चीरमालापरिष्कृतम्।।3.7.4।। Aranya Kanda,7,5,तत्र तापसमासीनं मलपङ्कजटाधरम्। रामस्सुतीक्ष्णं विधिवत्तपोवृद्धमभाषत।।3.7.5।। Aranya Kanda,7,6,रामोऽहमस्मि भगवन्भवन्तं द्रष्टुमागतः। त्वं माभिवद धर्मज्ञ महर्षे सत्यविक्रम।।3.7.6।। Aranya Kanda,7,7,स निरीक्ष्य ततो धीरो रामं धर्मभृतां वरम्। समाश्लिष्य च बाहुभ्यामिदं वचनमब्रवीत्।।3.7.7।। Aranya Kanda,7,8,स्वागतं ते रघुश्रेष्ठ राम सत्यभृतां वर। आश्रमोऽयं त्वयाक्रान्तस्सनाथ इव साम्प्रतम्।।3.7.8।। Aranya Kanda,7,9,प्रतीक्षमाणस्त्वामेव नारोहेऽहं महायशः। देवलोकमितो वीर देहं त्यक्त्वा महीतले। चित्रकूटमुपादाय राज्यभ्रष्टोऽसि मे श्रुतः।।3.7.9।। Aranya Kanda,7,10,इहोपयातः काकुत्थ्स देवराजश्शतक्रतुः।।3.7.10।। Aranya Kanda,7,11,उपागम्य च मे देवो महादेवस्सुरेश्वरः। सर्वान् लोकाञ्जितानाह मम पुण्येन कर्मणा।।3.7.11।। Aranya Kanda,7,12,तेषु देवर्षिजुष्टेषु जितेषु तपसा मया। मत्प्रसादात्सभार्यस्त्वं विहरस्व सलक्ष्मणः।।3.7.12।। Aranya Kanda,7,13,तमुग्रतपसायुक्तं महर्षिं सत्यवादिनम्। प्रत्युवाचात्मवान्रामो ब्रह्माणमिव काश्यपः।।3.7.13।। Aranya Kanda,7,14,अहमेवाहरिष्यामि सर्वान् लोकान्महामुने। आवासं त्वहमिच्छामि प्रदिष्टमिह कानने।।3.7.14।। Aranya Kanda,7,15,भवान्सर्वत्र कुशलस्सर्वभूतहिते रतः। आख्यातश्शरभङ्गेण गौतमेन महात्मना।।3.7.15।। Aranya Kanda,7,16,एवमुक्तस्तु रामेण महर्षिर्लोकविश्रुतः। अब्रवीन्मधुरं वाक्यं हर्षेण महताऽप्लुतः।।3.7.16।। Aranya Kanda,7,17,अयमेवाश्रमो राम गुणवान्रम्यतामिह। ऋषिसङ्घानुचरितस्सदा मूलफलैर्युतः।।3.7.17।। Aranya Kanda,7,18,इममाश्रममागम्य मृगसङ्घा महायशः। अहत्वा प्रतिगच्छन्ति लोभयित्वाऽकुतोभयाः।।3.7.18।। Aranya Kanda,7,19,नान्यद्धोषं भवेदत्र मृगेभ्योऽन्यत्र विद्धि वै। तच्छृत्वा वचनं तस्य महर्षेर्लक्ष्मणाग्रजः।।3.7.19।। उवाच वचनं धीरो विकृष्य सशरं धनुः। Aranya Kanda,7,20,तानहं सुमहाभाग मृगसङ्घान्समागतान्।।3.7.20।। हन्यां निशितधारेण शरेणाशनिवर्चसा। Aranya Kanda,7,21,भवांस्तत्राभिषज्येत किंस्यात्कृच्छ्रतरं ततः।।3.7.21।। एतस्मिन्नाश्रमे वासं चिरं तु न समर्थये। Aranya Kanda,7,22,तमेवमुक्त्वोपरमं रामस्सन्ध्यामुपागमत्।।3.7.22।। Aranya Kanda,7,23,अन्वास्य पश्चिमां स्नध्यां तत्र वासमकल्पयत्। सुतीक्ष्णस्याऽश्रमे रम्ये सीतया लक्ष्मणेन च।।3.7.23।। Aranya Kanda,7,23,अन्वास्य पश्चिमां संंध्यां तत्र वासमकल्पयत्। सुतीक्ष्णस्याश्रमे रम्ये सीतया लक्ष्मणेन च।।3.7.23।। Aranya Kanda,7,24,ततश्शुभं तापसभोज्यमन्नं स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम्। ताभ्यां सुसत्कृत्य ददौ महात्मा सन्ध्यानिवृत्तौ रजनीं मवेक्ष्य।।3.7.24।। Aranya Kanda,8,1,रामस्तु सहसौमित्रिस्सुतीक्ष्णेनाभिपूजितः। परिणाम्य निशां तत्र प्रभाते प्रत्यबुध्यत।।3.8.1।। Aranya Kanda,8,2,उत्थाय तु यथाकालं राघवस्सहसीतया। उपस्पृश्यसुशितेन जलेनोत्पलगन्धिना।।3.8.2।। Aranya Kanda,8,3,अथ तेऽग्निं सुरांश्चैव वैदेही रामलक्ष्मणौ। काल्यं विधिवदभ्यर्च्य तपस्विशरणे वने।।3.8.3।। Aranya Kanda,8,4,उदयन्तं दिनकरं दृष्ट्वा विगतकल्मषाः। सुतीक्ष्णभिगम्येदं श्लक्ष्णं वचनमब्रुवन्।।3.8.4।। Aranya Kanda,8,5,सुखोषितास्स्मभगवंस्त्वया पूज्येन पूजिताः। आपृच्छामः प्रयास्यामो मुनयस्त्वरयन्ति नः।।3.8.5।। Aranya Kanda,8,6,त्वरामहे वयं द्रष्टुं कृत्स्नमाश्रममण्डलम्। ऋषीणां पुण्यशीलानां दण्डकारण्यवासिनाम्।।3.8.6।। Aranya Kanda,8,7,अभ्यनुज्ञातुमिच्छामस्सहैभिर्मुनिपुङ्गवैः। धर्मनित्यैस्तपोदान्तैर्विशिखैरिव पावकैः।।3.8.7।। Aranya Kanda,8,8,अविषह्यातपो यावत्सूर्यो नातिविराजते। अमार्गेणागतां लक्ष्मीं प्राप्येवान्वयवर्जितः।।3.8.8।। तावदिच्छामहे गन्तुमित्युक्त्वा चरणौ मुनेः। ववन्दे सहसौमित्रिस्सीतया सह राघवः।। 3.8.9।। Aranya Kanda,8,10,तौ संस्पृशन्तौ चरणावुत्थाप्य मुनिपुङ्गवः। गाढमालिङ्ग्य सस्नेहमिदं वचनमब्रवीत्।।3.8.10।। Aranya Kanda,8,11,अरिष्टं गच्छ पन्थानं राम सौमित्रिणा सह। सीतया चानया सार्धं छाययेवानुवृत्तया।।3.8.11।। Aranya Kanda,8,12,पश्याश्रमपदं रम्यं दण्डकारण्यवासिनाम्। एषां तपस्विनां वीर तपसा भावितात्मनाम्।।3.8.12।। Aranya Kanda,8,14,सप्राज्यफलमूलानि पुष्पितानि वनानि च। प्रशस्तमृगयूथानि शान्तपक्षिगणानि च।। 3.8.13।। फुल्लपङ्कजषण्डानि प्रसन्नसलिलानि च। कारण्डवविकीर्णानि तटाकानि सरांसि च।।3.8.14।। Aranya Kanda,8,15,द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च। रमणीयान्यरण्यानि मयूराभिरुतानि च।।3.8.15।। Aranya Kanda,8,16,गम्यतां वत्स सौमित्रे भवानपि च गच्छतु। आगन्तव्यं च ते दृष्ट्वा पुनरेवाश्रमं मम।।3.8.16।। Aranya Kanda,8,17,एवमुक्तस्तथेत्युक्त्वा काकुत्स्थस्सहलक्ष्मणः। प्रदक्षिणं मुनिं कृत्वा प्रस्थातुमुपचक्रमे।।3.8.17।। Aranya Kanda,8,18,ततश्शुभतरे तूणी धनुषी चायतेक्षणा। ददौ सीता तयोर्भ्रात्रोः खङ्गौ च विमलौ ततः।।3.8.18।। Aranya Kanda,8,19,आबध्य च शुभे तूणी चापे चादाय सुस्वनौ। निष्क्रान्तावाश्रमाद्गन्तुमुभौ तौ रामलक्ष्मणौ।।3.8.19।। Aranya Kanda,8,20,श्रीमन्तौ रूपसम्पन्नौ दीप्यमानौ स्वतेजसा। प्रस्थितौ धृतचापौ तौ सीतया सह राघवौ।।3.8.20।। Aranya Kanda,9,1,सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम्। हृद्यया स्निग्धया वाचा भर्तारमिदमब्रवीत्।।3.9.1।। Aranya Kanda,9,2,अयं धर्मस्सुसूक्ष्मेण विधिना प्राप्यते महान्। निवृत्तेन तु शक्योऽयं व्यसनात्कामजादिह।।3.9.2।। Aranya Kanda,9,3,त्रीण्येव व्यसनान्यत्र कामजानि भवन्त्युत। मिथ्यावाक्यं परमकं तस्माद्गुरुतरावुभौ।।3.9.3।। परदाराभिगमनं विना वैरं च रौद्रता। Aranya Kanda,9,4,मिथ्यावाक्यं न ते भूतं न भविष्यति राघव।।3.9.4।। कुतोऽभिलाषणं स्त्रीणां परेषां धर्मनाशनम्। Aranya Kanda,9,5,तव नास्ति मनुष्येन्द्र न चाभूत्ते कदाचन।।3.9.5।। मनस्यपि तथा राम न चैतद्विद्यते क्वचित्। Aranya Kanda,9,6,स्वदारनिरतस्त्वं च नित्यमेव नृपात्मज।।3.9.6।। धर्मिष्ठस्सत्यसन्धश्च पितुर्निर्देशकारकः। Aranya Kanda,9,7,सत्यसन्ध महाभाग श्रीमल्लक्ष्मणपूर्वज।।3.9.7।। त्वयि धर्मश्च सत्यं च त्वयि सर्वं प्रतिष्ठितम्। Aranya Kanda,9,8,तच्च सर्वं महाबाहो शक्यं धर्तुं जितेन्द्रियैः।।3.9.8।। तव वश्येन्द्रियत्वं च जानामि शुभदर्शन। Aranya Kanda,9,9,तृतीयं यदिदं रौद्रं परप्राणाभिहिंसनम्।।3.9.9।। निर्वैरं क्रियते मोहात्तच्च ते समुपस्थितम्। Aranya Kanda,9,10,प्रतिज्ञातस्त्वया वीर दण्डकारण्यवासिनाम्।।3.9.10।। ऋषीणां रक्षणार्थाय वधस्संयति रक्षसाम्। Aranya Kanda,9,11,एतन्निमित्तं च वनं दण्डका इति विश्रुतम्।।3.9.11।। प्रस्थितस्त्वं सह भ्रात्रा धृतबाणशरासनः। Aranya Kanda,9,12,ततस्त्वां प्रस्थितं दृष्ट्वा मम चिन्ताकुलं मनः।।3.9.12।। त्वद्वृत्तं चिन्तयन्त्या वै भवेन्निश्श्रेयसं हितम्। Aranya Kanda,9,13,त्वां चैव प्रस्थितं दृष्ट्वा राम चिन्ताकुलं मनः।।3.9.13।। Aranya Kanda,9,14,सर्वतचशिन्तय्नत्या मे तव निश्श्रेयसं नृप। न हि मे रोचते वीर गमनं दण्डकान्प्रति।।3.9.14।। कारणं तत्र वक्ष्यामि वदन्त्याश्श्रूयतां मम। Aranya Kanda,9,15,त्वं हि बाणधनुष्पाणिर्भ्रात्रा सह वनं गतः।।3.9.15।। दृष्ट्वा वनचरान्सर्वान्कच्चित्कुर्याश्शरव्ययम्। Aranya Kanda,9,16,क्षत्रियाणामपि धनुर्हुताशस्येन्धनानि च।।3.9.16।। समीपतस्स्थितं तेजो बलमुच्छ्रयते भृशम्। Aranya Kanda,9,17,पुरा किल महाबाहो तपस्स्वी सत्यवाक्छुचिः।।3.9.17।। कस्मिंश्चिदभवत्पुण्ये वने रतमृगद्विजे। Aranya Kanda,9,18,तस्यैव तपसो विघ्नं कर्तुमिन्द्रश्शचीपतिः।।3.9.18।। खङ्गपाणिरथागच्छदाश्रमं भटरूपधृत्। Aranya Kanda,9,19,तस्मिंस्तदाश्रमपदे निशितः खङ्ग उत्तमः।।3.9.19।। स न्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः। Aranya Kanda,9,20,स तच्छस्त्रमनुप्राप्य न्यासरक्षणतत्परः।।3.9.20।। वने तु विचरत्येव रक्षन्प्रत्ययमात्मनः। Aranya Kanda,9,21,यत्र गच्छत्युपादातुं मूलानि च फलानि च।।3.9.21।। न विना याति तं खङ्गं न्यासरक्षणतत्परः। Aranya Kanda,9,22,नित्यं शस्त्रं परिवहन्क्रमेण स तपोधनः।।3.9.22।। चकार रौद्रीं स्वां बुद्धिं त्यक्त्वा तपसि निश्चयम्। Aranya Kanda,9,23,ततस्सरौद्रेऽभिरतः प्रमत्तोऽधर्मकर्शितः।।3.9.23।। तस्य शस्त्रस्य संवासाज्जगाम नरकं मुनिः। Aranya Kanda,9,24,एवमेतत्पुरा वृत्तं शस्त्रसंयोगकारणम्।।3.9.24।। Aranya Kanda,9,25,अग्निसंयोगवद्धेतुश्शस्त्रसंयोग उच्यते। स्नेहाच्च बहुमानाच्च स्मारये त्वां न शिक्षये।।3.9.25।। Aranya Kanda,9,26,न कथञ्चन सा कार्या गृहीतधनुषा त्वया। बुद्धिर्वैरं विना हन्तुं राक्षसान्दण्डकाश्रितान्।।3.9.26।। अपराधं विना हन्तुं लोकान्वीर न कामये। Aranya Kanda,9,27,क्षत्रियाणां तु वीराणां वनेषु निरतात्मनाम्।।3.9.27।। धनुषा कार्यमेतावदार्तानां त्वभिरक्षणम्। Aranya Kanda,9,28,क्वच शस्त्रं क्व च वनं क्व च क्षात्रं तपः क्वच।।3.9.28।। व्याविद्धमिदमस्माभिर्द्देशधर्मस्तु पूज्यताम्। Aranya Kanda,9,29,तदार्य कलुषा बुद्धिर्जायते शस्त्रसेवनात्।।3.9.29।। पुनर्गत्वा त्वयोध्यायां क्षत्रधर्मं चरिष्यसि। Aranya Kanda,9,30,अक्षया तु भवेत्प्रीतिश्श्वश्रूश्वशुरयोर्मम।।3.9.30।। यदि राज्यं परित्यज्य भवेस्त्वं निरतो मुनिः। Aranya Kanda,9,31,धर्मादर्थः प्रभवति धर्मात्प्रभवते सुखम्।।3.9.31।। धर्मेण लभते सर्वं धर्मसारमिदं जगत्। Aranya Kanda,9,32,आत्मानं नियमैस्तैस्तै कर्शयित्वा प्रयत्नतः।।3.9.32।। प्राप्यते निपुणैर्धर्मो न सुखाल्लभ्यते सुखम्। Aranya Kanda,9,33,नित्यं शुचिमतिस्सौम्य चर धर्मं तपोवने।।3.9.33।। सर्वं हि विदितं तुभ्यं त्रैलोक्यमपि तत्त्वतः। Aranya Kanda,10,1,वाक्यमेतत्तु वैदेह्या व्याहृतं भर्तृभक्तया। श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ मैथिलीम्।।3.10.1।। Aranya Kanda,10,2,हितमुक्तं त्वया देवि स्निग्धया सदृशं वचः। कुलं व्यपदिशन्त्या च धर्मज्ञे जनकात्मजे।।3.10.2।। Aranya Kanda,10,3,किन्तु वक्ष्याम्यहं देवि त्वयैवोक्तमिदं वचः। क्षत्रियैर्धार्यते चापो नार्तशब्दो भवेदिति।।3.10.3।। Aranya Kanda,10,4,ते चार्ता दण्डकारण्ये मुनयस्संशितव्रताः। मां सीते स्वयमागम्य शरण्याश्शरणं गताः।।3.10.4।। Aranya Kanda,10,5,वसन्तो धर्मनिरता वने मूलफलाशनाः। न लभन्ते सुखं भीता राक्षसैः क्रूरकर्मभिः।।3.10.5।। Aranya Kanda,10,6,काले काले च निरता नियमैर्विविधैर्वने। भक्ष्यन्ते राक्षसैर्भीमैर्नरमांसोपजीविभिः।।3.10.6।। Aranya Kanda,10,7,ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः। अस्मानभ्यवपद्येति मामूचुर्द्विजसत्तमा।।3.10.7।। Aranya Kanda,10,8,मया तु वचनं श्रुत्वा तेषामेवं मुखाच्च्युतम्। कृत्वा चरणशुश्रूषां वाक्यमेतदुदाहृतम्।।3.10.8।। Aranya Kanda,10,9,प्रसीदन्तु भवन्तो मे ह्रीरेषा हि ममातुला। यदीदृशैरहं विप्रैरुपस्थेयैरुपस्थितः।।3.10.9।। Aranya Kanda,10,10,किं करोमीति च मया व्याहृतं द्विजसन्निधौ। सर्वैरेतैस्समागम्य वागियं समुदाहृता।।3.10.10।। Aranya Kanda,10,11,राक्षसैर्दण्डकारण्ये बहुभिः कामरूपिभिः। अर्दितास्स्म दृढं राम भवान्नस्तत्र रक्षतु।।3.10.11।। Aranya Kanda,10,12,होमकालेषु सम्प्राप्ताः पर्वकालेषु चानघ। धर्षयन्ति सुदुर्धर्षा राक्षसाः पिशिताशनाः।।3.10.12।। Aranya Kanda,10,13,राक्षसैर्धर्षितानां च तापसानां तपस्विनाम्। गतिं मृगयमाणानां भवान्नः परमा गतिः।।3.10.13।। Aranya Kanda,10,14,कामं तपःप्रभावेन शक्ता हन्तुं निशाचरान्। चिरार्जितं तु नेच्छामस्तपः खण्डयितुं वयम्।।3.10.14।। Aranya Kanda,10,15,बहुविघ्नं तपो नित्यं दुश्चरं चैव राघव। तेन शापं न मुञ्चामो भक्ष्यमाणाश्च राक्षसैः।।3.10.15।। Aranya Kanda,10,16,तदर्ध्यमानान्रक्षोभिर्दण्डकारण्यवासिभिः। रक्ष नस्त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने।।3.10.16।। Aranya Kanda,10,17,मया चैतद्वचश्श्रुत्वा कार्त्स्न्येन परिपालनम्। ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे।।3.10.17।। Aranya Kanda,10,18,संश्रुत्य च न शक्ष्यामि जीवमानः प्रतिश्रवम्। मुनीनामन्यथा कर्तुं सत्यमिष्टं हि मे सदा।।3.10.18।। Aranya Kanda,10,19,अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम्। न तु प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः।।3.10.19।। Aranya Kanda,10,20,तदवश्यं मया कार्यमृषीणां परिपालनम्। अनुक्तेनापि वैदेहि प्रतिज्ञाय तु किं पुनः।।3.10.20।। Aranya Kanda,10,21,मम स्नेहाच्च सौहार्दादिदमुक्तंत्वयाऽनघे। परितुष्टोऽस्म्यहं सीते न ह्यनिष्टोऽनुशिष्यते।।3.10.21।। Aranya Kanda,10,22,सदृशं चानुरूपं च कुलस्य तव चात्मनः। सधर्मचारिणी मे त्वं प्राणेभ्योऽपि गरीयसी।।3.10.22।। Aranya Kanda,10,23,इत्येवमुक्त्वा वचनं महात्मा सीतां प्रियां मैथिलराजपुत्रीम्। रामो धनुष्मान्सह लक्ष्मणेन जगाम रम्याणि तपोवनानि।।3.10.23।। Aranya Kanda,11,1,अग्रतः प्रययौ रामस्सीता मध्ये सुमध्यमा। पृष्ठतस्तु धनुष्पाणिर्लक्ष्मणोऽनुजगाम ह।।3.11.1।। Aranya Kanda,11,2,तौ पश्यमानौ विविधान् शैलप्रस्थान्वनानि च। नदीश्च विविधा रम्या जग्मतुस्सीतया सह।।3.11.2।। Aranya Kanda,11,3,सारसांश्चक्रवाकांश्च नदीपुलिनचारिणः। सरांसि च सपद्मानि युक्तानि जलजैः खगैः।।3.11.3।। Aranya Kanda,11,4,यूथबद्धांश्च पृषतान्मदोन्मत्तान् विषाणिनः। महिषांश्च वराहांश्च नागांश्च द्रुमवैरिणः।।3.11.4।। Aranya Kanda,11,5,ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे। ददृशुस्सहिता रम्यं तटाकं योजनायतम्।।3.11.5।। Aranya Kanda,11,6,पद्मपुष्करसम्बाधं गजयूथैरलङ्कृतम्। सारसैर्हंसकादम्बैस्सङ्कुलं जलचारिभिः।।3.11.6।। Aranya Kanda,11,7,प्रसन्नसलिले रम्ये तस्मिन्सरसि शुश्रुवे। गीतवादित्रनिर्घोषो न तु कश्चन दृश्यते।।3.11.7।। Aranya Kanda,11,8,ततः कौतूहलाद्रामो लक्ष्मणश्च महाबलः। मुनिं धर्मभृतं नाम प्रष्टुं समुपचक्रमे।।3.11.8।। Aranya Kanda,11,9,इदमत्यद्भुतं श्रुत्वा सर्वेषां नो महामुने। कौतूहलं महज्जातं किमिदं साधु कथ्यताम्।।3.11.9।। वक्तव्यं यदि चेदविप्र नातिगुह्यमपि प्रभो। Aranya Kanda,11,10,तेनैवमुक्तो धर्मात्मा राघवेण मुनिस्तदा।।3.11.10।। प्रभवं सरसः कृत्स्नमाख्यातुमुपचक्रमे। Aranya Kanda,11,11,इदं पञ्चाप्सरो नाम तटाकं सार्वकालिकम्।।3.11.11।। निर्मितं तपसा राम मुनिना माण्डकर्णिना। Aranya Kanda,11,12,स हि तेपे तपस्तीव्रं माण्डकर्णिर्महामुनिः।।3.11.12।। दशवर्षसहस्राणि वायुभक्षो जलाश्रयः। Aranya Kanda,11,13,ततः प्रव्यथितास्सर्वे देवास्साग्निपुरोगमाः।।3.11.13।। अब्रुवन् वचनं सर्वे परस्परसमागताः। Aranya Kanda,11,14,अस्माकं कस्यचित् स्थानमेष प्रार्थयते मुनिः।।3.11.14।। इति संविग्नमनसस्सर्वे ते त्रिदिवौकसः। Aranya Kanda,11,15,तत्र कर्तुं तपोविघ्नं देवैस्सर्वैर्नियोजिताः।।3.11.15।। प्रधानाप्सरसः पञ्च विद्युच्चलितवर्चसः। Aranya Kanda,11,16,अप्सरोभिस्ततस्ताभिर्मुनिर्दृष्टपरावरः।।3.11.16।। नीतो मदनवश्यत्वं सुराणां कार्यसिद्धये। Aranya Kanda,11,17,ताश्चैवाप्सरसः पञ्च मुनेः पत्नीत्वमागताः।।3.11.17।। तटाके निर्मितं तासामस्मिन्नन्तर्हितं गृहम्। Aranya Kanda,11,18,तथैवाप्सरसः पञ्च निवसन्त्यो यथासुखम्।।3.11.18।। रमयन्ति तपोयोगान्मुनिं यौवनमास्थितम्। Aranya Kanda,11,19,तासां सङ्क्रीडमानानामेष वादित्रनिस्स्वनः।।3.11.19।। श्रूयते भूषणोन्मिश्रो गीतशब्दो मनोहरः। Aranya Kanda,11,20,आश्चर्यमिति तस्यैतद्वचनं भावितात्मनः।।3.11.20।। राघवः प्रतिजग्राह सह भ्रात्रा महायशाः। Aranya Kanda,11,21,एवं कथयमानस्य ददर्शाश्रममण्डलम्।।3.11.21।। कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम्। Aranya Kanda,11,22,प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः।।3.11.22।। उवास मुनिभिस्सर्वैः पूज्यमानो महायशाः। Aranya Kanda,11,23,तदा तस्मिन्सकाकुत्थ्सः श्रीमत्याश्रममण्डले।।3.11.23।। Aranya Kanda,11,24,उषित्वा तु सुखं तत्र पूज्यमानो महर्षिभिः। जगाम चाश्रमांस्तेषां पर्यायेण तपस्विनाम्।।3.11.24।। येषामुषितवान् पूर्वं सकाशे स महास्त्रवित्। Aranya Kanda,11,25,क्वचित्परिदशान्मासानेकं संवत्सरं क्वचित्।।3.11.25।। Aranya Kanda,11,26,क्वचिच्छ चतुरो मासान् पञ्च षट्चापरान्क्वचित्। अपरत्राधिकं मासादप्यर्धमधिकं क्वचित्।।3.11.26।। त्रीन्मासानष्टमासांश्च राघवो न्यवसत्सुखम्। Aranya Kanda,11,27,तथा संवसतस्तस्य मुनीनामाश्रमेषु वै।।3.11.27।। रमतश्चानुकूल्येन ययुस्संवत्सरा दश। Aranya Kanda,11,28,परिवृत्य च धर्मज्ञो राघवस्सह सीतया।।3.11.28।। सुतीक्ष्णस्याश्रमं श्रीमान्पुनरेवाजगाम ह। Aranya Kanda,11,29,स तमाश्रममासाद्य मुनिभिः प्रतिपूजितः।।3.11.29।। तत्रापि न्यवसद्रामः कञ्चित्कालमरिन्दमः। Aranya Kanda,11,30,तदाश्रमस्थो विनयात्कदाचित्तं महामुनिम्।।3.11.30।। उपासीनस्सकाकुत्स्थस्सुतीक्ष्णमिदमब्रवीत्। Aranya Kanda,11,31,अस्मिन्नरण्ये भगवानगस्त्यो मुनिसत्तमः।।3.11.31।। वसतीति मया नित्यं कथाः कथयतां श्रुतम्। Aranya Kanda,11,32,न तु जानामि तं देशं वनस्यास्य महत्तया।।3.11.32।। कुत्राश्रमपदं रम्यं महर्षेस्तस्य धीमतः। Aranya Kanda,11,33,प्रसादात्तत्र भवतस्सानुजस्सह सीतया।।3.11.33।। अगस्त्यमभिगच्छेयमभिवादयितुं मुनिम्। Aranya Kanda,11,34,मनोरथो महानेष हृदि मे परिवर्तते।।3.11.34।। यद्यहं तं मुनिवरं शुश्रूषेयमपि स्वयम्। Aranya Kanda,11,35,इति रामस्य स मुनिश्श्रुत्वा धर्मात्मनो वचः।।3.11.35।। सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम्। Aranya Kanda,11,36,अहमप्येतदेव त्वां वक्तुकामस्सलक्ष्मणम्।।3.11.36।। अगस्त्यमभिगच्छेति सीतया सह राघव। Aranya Kanda,11,37,दिष्ट्या त्विदानीमर्थेऽस्मिन् स्वयमेव ब्रवीषि माम्।।3.11.37।। अहमाख्यामि ते वत्स यत्रागस्त्यो महामुनिः। Aranya Kanda,11,38,योजनान्याश्रमात्तात याहि चत्वारि वै ततः।।3.11.38।। दक्षिणेन महान् श्रीमानगस्त्यभ्रातुराश्रमः। Aranya Kanda,11,39,स्थलप्राये वनोद्देशे पिप्पलीवनशोभिते।।3.11.39।। बहुपुष्पफले रम्ये नानाशकुनिनादिते। Aranya Kanda,11,40,पद्मिन्यो विविधास्तत्र प्रसन्नसलिलाश्शिवाः।।3.11.40।। Aranya Kanda,11,41,हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः। तत्रैकां रजनीं व्युष्य प्रभाते राम गम्यताम्।।3.11.41।। Aranya Kanda,11,42,दक्षिणां दिशमास्थाय वनषण्डस्य पार्श्वतः। तत्रागस्त्याश्रमपदं गत्वा योजनमन्तरा।।3.11.42।। Aranya Kanda,11,43,रमणीये वनोद्धेशे बहुपादपसंवृते। रंस्यते तत्र वैदेही लक्ष्मणश्च सह त्वया।।3.11.43।। स हि रम्यो वनोद्देशो बहुपादपसङ्कुलः। Aranya Kanda,11,44,यदि बुद्धिः कृता द्रष्टुमगस्त्यं तं महामुनिम्।।3.11.44।। अद्यैव गमने बुद्धिं रोचयस्व महायशः। Aranya Kanda,11,45,इति रामो मुनेश्श्रुत्वा सह भ्रात्राभिवाद्य च।।3.11.45।। प्रतस्थेऽमुद्दिश्य सानुजस्सीतया सह। Aranya Kanda,11,46,पश्यन्वनानि रम्याणि पर्वतांश्चाभ्रसन्निभान्।।3.11.46।। Aranya Kanda,11,47,सरांसि सरितश्चैव पथि मार्गवशानुगाः। सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम्।।3.11.47।। इदं परमसंहृष्टो वाक्यं लक्ष्मणमब्रवीत्। Aranya Kanda,11,48,एतदेवाश्रमपदं नूनं तस्य महात्मनः।।3.11.48।। अगस्त्यस्य मुनेर्भ्रातुर्दृश्यते पुण्यकर्मणः। Aranya Kanda,11,49,यथा हि मे वनस्यास्य ज्ञाताः पथि सहस्रशः।।3.11.49।। सन्नताः फलभारेण पुष्पभारेण च द्रुमाः। Aranya Kanda,11,50,पिप्पलीनां च पक्वानां वनादस्मादुपागतः।।3.11.50।। गन्धोऽयं पवनोक्षिप्तस्सहसा कटुकोदयः। Aranya Kanda,11,51,तत्र तत्र च दृश्यन्ते सङ्क्षिप्ताः काष्ठसञ्चयाः।।3.11.51।। लूनाश्च पथि दृश्यन्ते दर्भा वैडूर्यवर्चसः। Aranya Kanda,11,52,एतच्च वनमध्यस्थं कृष्णाभ्रशिखरोपमम्।।3.11.52।। पावकस्याश्रमस्थस्य धूमाग्रं सम्प्रदृश्यते। Aranya Kanda,11,53,विविक्तेषु च तीर्थेषु कृतस्नाना द्विजातयः।।3.11.53।। पुष्पोपहारं कुर्वन्ति कुसुमैस्स्वयमर्जितै। Aranya Kanda,11,54,तत्सुतीक्ष्णस्य वचनं यथा सौम्य मया श्रुतम्।।3.11.54।। अगस्त्यस्याश्रमो भ्रातुर्नूनमेष भविष्यति। Aranya Kanda,11,55,निगृह्य तपसा मृत्युं लोकानां हितकाम्यया।।3.11.55।। यस्य भ्रात्रा कृतेयं दिक्छरण्या पुण्यकर्मणा। Aranya Kanda,11,56,धारयन् ब्राह्मणं रूपमिल्वलस्संस्कृतं वदन्।।3.11.56।। आमन्त्रयति विप्रान्स्मश्राद्धमुद्दिश्य निर्घृणः। Aranya Kanda,11,57,भ्रातरं संस्कृतं कृत्वा ततस्तं मेषरूपिणम्।।3.11.57।। तान् द्विजान्भोजयामास श्राद्धदृष्टेन कर्मणा। Aranya Kanda,11,59,ततो भुक्तवतां तेषां विप्राणामिल्वलोऽब्रवीत्।।3.11.59।। वातापे निष्क्रमन्वेति स्वरेण महता वदन्। Aranya Kanda,11,60,ततो भ्रातुर्वचश्श्रुत्वा वातापिर्मेषवन्नदन्।।3.11.60।। भित्त्वा भित्त्वा शरीराणि ब्राह्मणानां विनिष्पतत्। Aranya Kanda,11,61,ब्राह्माणानां सहस्राणि तैरेवं कामरूपिभिः।।3.11.61।। विनाशितानि संहत्य नित्यशः पिशिताशनैः। Aranya Kanda,11,62,अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा।।3.11.62।। अनुभूय किल श्राद्धे भक्षितस्समहासुरः। Aranya Kanda,11,63,ततस्सम्पन्नमित्युक्त्वा दत्त्वा हस्तोदकं ततः।।3.11.63।। भ्रातरं निष्क्रमस्वेति चेल्वलस्सोऽभ्यभाषत। Aranya Kanda,11,64,स तं तथा भाषमाणं भ्रातरं विप्रघातिनम्।।3.11.64।। अब्रवीत्प्रहसन्धीमानगस्त्यो मुनिसत्तमः। Aranya Kanda,11,65,कुतो निष्क्रमितुं शक्तिर्मया जीर्णस्य रक्षसः।।3.11.65।। भ्रातुस्ते मेषरूपस्य गतस्य यमसादनम्। Aranya Kanda,11,66,अथ तस्य वचश्श्रुत्वा भ्रातुर्निधनसंश्रयम्।।3.11.66।। प्रधर्षयितुमारेभे मुनिं क्रोधान्निशाचरः। Aranya Kanda,11,67,सोऽभिद्रवन्मुनिश्रेष्ठं मुनिना दीप्ततेजसा।।3.11.67।। चक्षुषानलकल्पेन निर्दग्धो निधनं गतः। Aranya Kanda,11,68,तस्यायमाश्रमो भ्रातुस्तटाकवनशोभितः।।3.11.68।। विप्रानुकम्पया येन कर्मेदं दुष्करं कृतम्। Aranya Kanda,11,69,एवं कथयमानस्य तस्य सौमित्रिणा सह। रामस्यास्तं गतस्सूर्यस्सन्ध्याकालोऽभ्यवर्ततः।।3.11.69।। Aranya Kanda,11,70,उपास्य पश्चिमां सन्ध्यां सह भ्रात्रा यथाविधि। प्रविवेशाऽश्रमपदं तमृषिं सोऽभ्यवादयत्।।3.11.70।। Aranya Kanda,11,71,सम्यक् प्रतिगृहीतश्च मुनिना तेन राघवः। न्यवसत्तां निशामेकां प्राश्य मूलफलानि च।।3.11.71।। Aranya Kanda,11,72,तस्यां रात्य्रां व्यतीतायां विमले सूर्यमण्डले। भ्रातरं तमगस्त्यस्य ह्यामन्त्रयत राघवः।।3.11.72।। Aranya Kanda,11,73,अभिवादये त्वां भगवन् सुखमध्युषितो निशाम्। आमन्त्रये त्वां गच्छामि गुरुं ते द्रष्टुमग्रजम्।।3.11.73।। Aranya Kanda,11,74,गम्यतामिति तेनोक्तो जगाम रघुनन्दनः। यथोद्दिष्टेन मार्गेण वनं तच्चावलोकयन्।।3.11.74।। Aranya Kanda,11,75,नीवारान्पनसांस्तालांस्तिमिशान्वञ्चुलान्धवान्। चिरिबिल्वान्मधूकांश्च बिल्वानपि च तिन्दुकान्।।3.11.75।। Aranya Kanda,11,76,पुष्पितान्पुष्पिताग्राभिर्लताभिरनुवेष्टितान्। ददर्श रामश्शतशस्तत्र कान्तारपादपान्।।3.11.76।। Aranya Kanda,11,77,हस्तिहस्तैर्विमृदितान्वानरैरुपशोभितान्। मत्तैश्शकुनिसङ्घैश्च शतशश्च प्रणादितान्।।3.11.77।। Aranya Kanda,11,78,ततोऽब्रवीत्समीपस्थं रामो राजीवलोचनः। पृष्ठतोऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम्।।3.11.78।। Aranya Kanda,11,79,स्निग्धपत्रा यथा वृक्षा यथा क्षान्ता मृगद्विजाः। आश्रमो नातिदूरस्थो महर्षेर्भावितात्मनः।।3.11.79।। Aranya Kanda,11,80,अगस्त्य इति विख्यातो लोके स्वेनैव कर्मणा। आश्रमो दृश्यते तस्य परिश्रान्तश्रमापहः।।3.11.80।। Aranya Kanda,11,81,प्राज्यधूमाकुलवनश्चीरमालापरिष्कृतः। प्रशान्तमृगयूथश्च नानाशकुनिनादितः।।3.11.81।। Aranya Kanda,11,82,तस्येदमाश्रमपदं प्रभावाद्यस्य राक्षसैः। दिगियं दक्षिणा त्रासाद्दृश्यते नोपभुज्यते।।3.11.82।। Aranya Kanda,11,83,यदा प्रभृति चाक्रान्ता दिगियं पुण्यकर्मणा। तदा प्रभृति निर्वैराः प्रशान्ता रजनीचराः।।3.11.83।। Aranya Kanda,11,84,नाम्ना चेयं भगवतो दक्षिणा दिक्प्रदक्षिणा। प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूरकर्मभिः।।3.11.84।। Aranya Kanda,11,85,मार्गं निरोद्धुं निरतो भास्करस्याचलोत्तमः। निदेशं पालयन्यस्य विन्ध्यशैला न वर्धते।।3.11.85।। Aranya Kanda,11,86,अयं दीर्घायुषस्तस्य लोके विश्रुतकर्मणः। अगस्त्यस्याश्रम श्रीमान्विनीतजनसेवितः।।3.11.86।। Aranya Kanda,11,87,एष लोकार्चितस्साधुर्हिते नित्यरतस्सताम्। अस्मानभिगतानेष श्रेयसा योजयिष्यति।।3.11.87।। Aranya Kanda,11,88,आराधयिष्याम्यत्राहमगस्त्यं तं महामुनिम्। शेषं च वनवासस्य सौम्य वत्स्याम्यहं प्रभो।।3.11.88।। Aranya Kanda,11,89,अत्र देवास्सगन्धर्वास्सिद्धाश्च परमर्षयः। अगस्त्यं नियताहारं सततं पर्युपासते।।3.11.89।। Aranya Kanda,11,90,नात्र जीवेन्मृषावादी क्रूरो वा यदि वा शठः। नृशंसः कामवृत्तो वा मुनिरेष तथाविधः।।3.11.90।। Aranya Kanda,11,91,अत्र देवाश्च यक्षाश्च नागाश्च पतगैस्सह। वसन्ति नियताहारा धर्ममाराधयिष्णवः।।3.11.91।। Aranya Kanda,11,92,अत्र सिद्धा महात्मानो विमानैजस्सूर्यसन्निभैः। त्यक्तदेहा नवैर्देहैः स्वर्याताः परमर्षयः।।3.11.92।। Aranya Kanda,11,93,यक्षत्वममरत्वं च राज्यानि विविधानि च। अत्र देवाः प्रयच्छन्ति भूतैराराधिताश्शुभैः।।3.11.93।। Aranya Kanda,12,1,सप्रविश्याऽश्रमपदं लक्ष्मणो राघवानुजः। अगस्त्यशिष्यमासाद्य वाक्यमेतदुवाच ह।।3.12.1।। Aranya Kanda,12,2,राजा दशरथो नाम ज्येष्ठस्तस्य सुतो बली। रामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया।।3.12.2।। Aranya Kanda,12,3,लक्ष्मणो नाम तस्याहं भ्राता त्ववरजो हितः। अनुकूलश्च भक्तश्च यदि ते श्रोत्रमागतः।।3.12.3।। Aranya Kanda,12,4,ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात्। द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम्।।3.12.4।। Aranya Kanda,12,5,तस्य तद् वचनं श्रुत्वा लक्ष्मणस्य तपोधनः। तथेत्युक्त्वाऽग्निशरणं प्रविवेश निवेदितुम्।।3.12.5।। Aranya Kanda,12,6,स प्रविश्य मुनिश्रेष्ठं तपसा दुष्प्रधर्षणम्। कृताञ्जलिरुवाचेदं रामागमनमञ्जसा।।3.12.6।। यथोक्तं लक्ष्मणेनैव शिष्योऽगस्त्यस्य सम्मतः। Aranya Kanda,12,7,पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव च।।3.12.7।। प्रविष्टावाश्रमपदं सीतया सह भार्यया। Aranya Kanda,12,8,द्रष्टुं भवन्तमायातौ शुश्रूषार्थमरिन्दमौ।।3.12.8।। यदत्रानन्तरं तत्त्वमाज्ञापयितुमर्हसि। Aranya Kanda,12,9,ततश्शिष्यादुपश्रुत्य प्राप्तं रामं सलक्ष्मणम्।।3.12.9।। वैदेहीं च महाभागामिदं वचनमब्रवीत्। Aranya Kanda,12,10,दिष्ट्या रामश्चिरस्याद्य द्रष्टुं मां समुपागतः।।3.12.10।। मनसा काङ्क्षितं ह्यस्य मयाप्यागमनं प्रति। Aranya Kanda,12,11,गम्यतां सत्कृतो रामस्सभार्यस्सहलक्ष्मणः।।3.12.11।। प्रवेश्यतां समीपं मे किं चासौ न प्रवेशितः। Aranya Kanda,12,12,एवमुक्तस्तु मुनिना धर्मज्ञेन महात्मना।। 3.12.12।। अभिवाद्याब्रवीच्छिष्यस्तथेति नियताञ्जलिः। Aranya Kanda,12,13,ततो निष्क्रम्य सम्भ्रान्तश्शिष्यो लक्ष्मणमब्रवीत्।।3.12.13।। क्वासौ रामो मुनिं द्रष्टुमेतु प्रविशतु स्वयम्। Aranya Kanda,12,14,ततो गत्वाऽऽश्रमपदं शिष्येण सह लक्ष्मणः।। 3.12.14।। दर्शयामास काकुत्स्थं सीतां च जनकात्मजाम्। Aranya Kanda,12,15,तं शिष्यः प्रश्रितो वाक्यमगस्त्यवचनं ब्रुवन्।।3.12.15।। प्रावेशयद्यथान्यायं सत्कारार्हं सुसत्कृतम्। Aranya Kanda,12,16,प्रविवेश ततो रामस्सीतया सहलक्ष्मणः।।3.12.16।। प्रशान्तहरिणाकीर्णमाश्रमं ह्यवलोकयन्। Aranya Kanda,12,17,स तत्र ब्रह्मणः स्थानमग्नेः स्थानं तथैव च।।3.12.17।। Aranya Kanda,12,18,विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः। सोमस्थानं भगस्थानं स्थानं कौबेरमेव च।।3.12.18।। Aranya Kanda,12,19,दातुर्विधातुः स्थानेच वायोः स्थानं तथैव च। नागराजस्य च स्थानमनन्तस्य महात्मनः।।3.12.19।। Aranya Kanda,12,20,स्थानं तथैव गायत्र्या वसूनां स्थानमेव च। स्थानं च पाशहस्तस्य वरुणस्य महात्मनः।।3.12.20।। कार्तिकेयस्य च स्थानं धर्मस्थानं च पश्यति। Aranya Kanda,12,19,धातुर्विधातुः स्थानं च वायोः स्थानं तथैव च। नागराजस्य च स्थानमनन्तस्य महात्मनः।।3.12.19।। Aranya Kanda,12,21,ततश्शिष्यैः परिवृतो मुनिरप्यभिनिष्पतत्।।3.12.21।। तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसाम्। Aranya Kanda,12,22,अब्रवीद्वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम्। 3.12.22।। एष लक्ष्मण निष्क्रामत्यगस्त्यो भगवानृषिः। औदार्येणावगच्छामि निधानं तपसामिमम्।। 3.12.23।। Aranya Kanda,12,23,अब्रवीद्वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम्। 3.12.22।। एष लक्ष्मण निष्क्रामत्यगस्त्यो भगवानृषिः। औदार्येणावगच्छामि निधानं तपसामिमम्।। 3.12.23।। Aranya Kanda,12,24,एवमुक्त्वा महाबाहुरगस्त्यं सूर्यवर्चसम्। जग्राह परमप्रीतस्तस्य पादौ परन्तपः।।3.12.24।। Aranya Kanda,12,25,अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः। सीतया सह वैदेह्या तदा रामः सलक्ष्मणः।।3.12.25।। Aranya Kanda,12,26,प्रतिजग्राह काकुत्स्थमर्चयित्वासनोदकैः। कुशलप्रश्नमुक्त्वा च आस्यतामिति चाब्रवीत्।। 3.12.26।। Aranya Kanda,12,27,अग्निं हुत्वा प्रदायार्घ्यमतिथीन् प्रतिपूज्य च। वानप्रस्थ्येन धर्मेण स तेषां भोजनं ददौ।। 3.12.27।। Aranya Kanda,12,28,प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुङ्गवः। उवाच राममासीनं प्राञ्जलिं धर्मकोविदम्।।3.12.28।। Aranya Kanda,12,29,अग्निं हुत्वा प्रदायार्घ्यमतिथिं प्रतिपूजयेत्। अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन्।।3.12.29।। दुःसाक्षीव परे लोके स्वानि मांसानि भक्षयेत्। Aranya Kanda,12,30,राजा सर्वस्य लोकस्य धर्मचारी महारथः।।3.12.30।। पूजनीयश्च मान्यश्च भवान् प्राप्तः प्रियातिथिः। Aranya Kanda,12,31,एवमुक्त्वा फलैर्मूलैः पुष्पैरन्यैश्च राघवम्।। 3.12.31।। पूजयित्वा यथाकामं पुनरेव ततोऽब्रवीत्। Aranya Kanda,12,32,इदं दिव्यं महच्चापं हेमरत्नविभूषितम्।।3.12.32।। Aranya Kanda,12,33,वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा। अमोघस्सूर्यसङ्काशो ब्रह्मदत्तश्शरोत्तमः।।3.12.33।। Aranya Kanda,12,34,दत्तौ मम महेन्द्रेण तूणी चाक्षयसायकौ। सम्पूर्णौ निशितैर्बाणैर्ज्वलद्भिरिव पावकैः।।3.12.34।। महारजतकोशोऽयमसिर्हेमविभूषितः। Aranya Kanda,12,35,अनेन धनुषा राम हत्वा संख्ये महासुरान्।।3.12.35।। आजहार श्रियं दीप्तां पुरा विष्णुर्दिवौकसाम्। Aranya Kanda,12,36,तद्धनुस्तौ च तूणीरौ शरं खङ्गं च मानद।। 3.12.36।। जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा। Aranya Kanda,12,37,एवमुक्त्वा महातेजाः समस्तं तद्वरायुधम्। दत्वा रामाय भगवानगस्त्यः पुनरब्रवीत्।।3.12.37।। Aranya Kanda,13,1,राम प्रीतोऽस्मि भद्रं ते परितुष्टोऽस्मि लक्ष्मण। अभिवादयितुं यन्मां प्राप्तौ स्थ स्सह सीतया।।3.13.1।। Aranya Kanda,13,2,अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः। व्यक्तमुत्कण्ठते वापि मैथिली जनकात्मजा।।3.13.2।। Aranya Kanda,13,3,एषा हि सुकुमारी च दुःखैश्च न विमानिता। प्राज्यदोषं वनं प्राप्ता भर्तृस्नेहप्रचोदिता।।3.13.3।। Aranya Kanda,13,4,यथैषा रमते राम इह सीता तथा कुरु। दुष्करं कृतवत्येषा वने त्वामनुगच्छती।।3.13.4।। Aranya Kanda,13,5,एषा हि प्रकृतिः स्त्रीणामासृष्टे रघुनन्दन। समस्थमनुरज्यान्ति विषमस्थं त्यजन्ति च।।3.13.5।। Aranya Kanda,13,6,शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा। गरूडानिलयोश्शैघ्र्यमनुगच्छन्ति योषितः।।3.13.6।। Aranya Kanda,13,7,इयं तु भवतो भार्या दोषैरेतैर्विवर्जिता। श्लाघ्या च व्यपदेश्या च यथा देवी ह्यरुन्धती।।3.13.7।। Aranya Kanda,13,8,अलङ्कृतोऽयं देशश्च यत्र सौमित्रिणा सह। वैदेह्या चानया राम वत्स्यसि त्वमरिन्दम।।3.13.8।। Aranya Kanda,13,9,एवमुक्तस्समुनिना राघवस्संयताञ्जलिः। उवाच प्रश्रितं वाक्यमृषिं दीप्तमिवानलम्।।3.13.9।। Aranya Kanda,13,10,धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गवः। गुणैस्सभ्रातृभार्यस्य वरदः परितुष्यति।।3.13.10।। Aranya Kanda,13,11,किन्तु व्यादिश मे देशं सोदकं बहुकाननम्। यत्राश्रमपदं कृत्वा वसेयं निरतस्सुखम्।।3.13.11।। Aranya Kanda,13,12,ततोऽब्रवीन्मुनिश्रेष्ठश्श्रुत्वा रामस्य तद्वचः। ध्यात्वा मुहूर्तं धर्मात्मा धीरो धीरतरं वचः।।3.13.12।। Aranya Kanda,13,13,इतो द्वियोजने तात बहुमूलफलोदकः। देशो बहुमृगश्श्रीमान्पञ्चवट्यभिविश्रुतः।।3.13.13।। Aranya Kanda,13,14,तत्र गत्वाऽऽश्रमपदं कृत्वा सौमित्रिणा सह। रमस्व त्वं पितुर्वाक्यं तथोक्तमनुपालयन्।।3.13.14।। Aranya Kanda,13,15,कालोऽयं गतभूयिष्ठो यः काल स्तव राघव। समयो यो नरेन्द्रेण कृतो दशरथेन ते।।3.13.15।। तीर्णप्रतिज्ञः काकुत्स्थ सुखं राज्ये निवत्स्यसि। Aranya Kanda,13,16,धन्यस्ते जनको राम स राजा रघुनन्दन।।3.13.16।। यस्त्वया ज्येष्ठपुत्रेण ययातिरिव तारितः। Aranya Kanda,13,17,विदितो ह्येष वृत्तान्तो मम सर्वस्तवानघ।।3.13.17।। तपसश्च प्रभावेण स्नेहाद्दशरथस्य च। Aranya Kanda,13,18,हृदयस्थश्च ते छन्दो विज्ञातस्तपसा मया।।3.13.18।। Aranya Kanda,13,19,इहावासं प्रतिज्ञाय मया सह तपोवने। अतश्च त्वामहं ब्रूमि गच्छ पञ्चवटीमिति।।3.13.19।। Aranya Kanda,13,20,स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते। स देशश्श्लाघनीयश्च नातिदूरे च राघव।।3.13.20।। Aranya Kanda,13,21,गोदावर्यास्समीपे च मैथिली तत्र रंस्यते। प्राज्यमूलफलश्चैव नानाद्विजगणायुतः।।3.13.21।। विविक्तश्च महाबाहो पुण्योरम्यस्तथैव च। Aranya Kanda,13,22,भवानपि सदारश्च शक्तश्च परिरक्षणे। अपि चात्र वसन्राम तापसान्पालयिष्यसि।।3.13.22।। Aranya Kanda,13,23,एतदालक्ष्यते वीर मधूकानां महद्वनम्। उत्तरेणास्य गन्तव्यं न्यग्रोधमभिगच्छता।।3.13.23।। Aranya Kanda,13,24,ततः स्थलमुपारुह्य पर्वतस्याविदूरतः। ख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः।।3.13.24।। Aranya Kanda,13,25,अगस्त्येनैवमुक्तस्तु रामस्सौमित्रिणा सह। सत्कृत्यामन्त्रयामास तमृषिं सत्यवादिनम्।।3.13.25।। Aranya Kanda,13,26,तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ। तदाश्रमात्पञ्चवटीं जग्मतुस्सीतया सह।।3.13.26।। Aranya Kanda,13,27,गृहीतचापौ तु नराधिपात्मजौ विषक्ततूणौ समरेष्वकातरौ। यथोपदिष्टेन पथा महर्षिणा प्रजग्मतुः पञ्चवटीं समाहितौ।।3.13.27।। Aranya Kanda,14,1,अथ पञ्चवटीं गच्छन्नन्तरा रघुनन्दनः। आससाद महाकायं गृध्रं भीमपराक्रमम्।।3.14.1।। Aranya Kanda,14,2,तं दृष्ट्वा तौ महाभागौ वटस्थं रामलक्ष्मणौ। मेनाते राक्षसं पक्षिं ब्रुवाणौ को भवानिति।।3.14.2।। Aranya Kanda,14,3,स तौ मधुरया वाचा सौम्यया प्रीणयन्निव। उवाच वत्स मां विद्धि वयस्यं पितुरात्मनः।।3.14.3।। Aranya Kanda,14,4,स तं पितृसखं बुद्ध्वा पूजयामास राघवः। स तस्य कुलमव्यग्रमथ पप्रच्छ नाम च।।3.14.4।। Aranya Kanda,14,5,रामस्य वचनं श्रुत्वा सर्वभूतसमुद्भवम्। आचचक्षे द्विजस्तस्मै कुलमात्मानमेव च।।3.14.5।। Aranya Kanda,14,6,पूर्वकाले महाबाहो ये प्रजापतयोऽभवन्। तान्मे निगदतस्सर्वानादितश्शृणु राघव।।3.14.6।। Aranya Kanda,14,7,कर्दमः प्रथमस्तेषां विक्रीतस्तदनन्तरः। शेषश्च संश्रयश्चैव बहुपुत्रश्च वीर्यवान्।।3.14.7।। Aranya Kanda,14,8,स्थाणुर्मरीचिरत्रिश्च क्रतुश्चैव महाबलः। पुलस्त्यश्चाङ्गिराश्चैव प्रचेताः पूलहस्तथा।।3.14.8।। Aranya Kanda,14,9,दक्षो विवस्वानपरोऽरिष्टनेमिश्च राघव। काश्यपश्च महातेजास्तेषामासीच्च पश्चिमः।।3.14.9।। Aranya Kanda,14,10,प्रजापतेस्तु दक्षस्य बभूवुरिति विश्रुतम्। षष्टिर्दुहितरो राम यशस्विन्यो महायशः।।3.14.10।। Aranya Kanda,14,11,काश्यपः प्रतिजग्राह तासामष्टौ सुमध्यमाः। अदितिं च दितिं चैव दनुमप्यथ कालिकाम्।।3.14.11।। ताम्रां क्रोधवशां चैव मनुं चाप्यनलामपि। Aranya Kanda,14,12,तास्तु कन्यास्ततः प्रीतः काश्यपः पुनरब्रवीत्।।3.14.12।। पुत्रां स्स्रैलोक्यभर्तृ़न्वै जनयिष्यथ मत्समान्। Aranya Kanda,14,13,अदितिस्तन्मना राम दितिश्च मनुजर्षभ।।3.14.13।। कालिका च महाबाहो शेषास्त्वमनसोऽभवन्। Aranya Kanda,14,14,अदित्यां जज्ञिरे देवात्रयस्त्रिंशदरिंदम।।3.14.14।। आदित्या वसवो रुद्रा ह्यश्विनौ च परन्तप। Aranya Kanda,14,15,दितिस्त्वजनयत्पुत्रान् दैत्यांस्तात यशस्विनः।।3.14.15।। तेषामियं वसुमती पुराऽसीत्सवनार्णवा। Aranya Kanda,14,16,दनुस्त्वजनयत्पुत्रमश्वग्रीवमरिन्दम।।3.14.16।। नरकं कालकंचैव कालिकापि व्यजायत। Aranya Kanda,14,17,क्रौञ्चीं भासीं तथा श्येनीं धृतराष्ट्रीं तथा शुकीम्।।3.14.17।। ताम्रापि सुषुवे कन्याः पञ्चैता लोकविश्रुताः। Aranya Kanda,14,18,उलूकाञ्जनयत्क्रौञ्ची भासी भासान्व्यजायत।।3.14.18।। Aranya Kanda,14,19,श्येनी श्येनांश्च गृध्रांश्च व्यजायत सुतेजसः। धृतराष्ट्रीतु हंसांश्च कलहंसांश्च सर्वशः।।3.14.19।। Aranya Kanda,14,20,चक्रवाकांश्च भद्रं ते विजज्ञे सापि भामिनी। शुकी नतां विजज्ञे तु नताया विनता सुता।।3.14.20।। Aranya Kanda,14,21,दश क्रोधवशा राम विजज्ञे ह्यात्मसम्भवाः। मृगीं च मृगमन्दां च हरीं भद्रमदामपि।।3.14.21।। Aranya Kanda,14,22,मातङ्गीमपि शार्दूलीं श्वेतां च सुरभिं तथा। सर्वलक्षणसम्पन्नां सुरसां कद्रुकामपि।।3.14.22।। Aranya Kanda,14,23,अपत्यं तु मृगास्सर्वे मृग्या नरवरोत्तम। ऋक्षाश्च मृगमन्दायास्सृमराश्चमरा स्तथा।।3.14.23।। Aranya Kanda,14,24,हर्याश्च हरयोऽपत्यं वानराश्च तरस्स्विनः। ततस्त्विरावतीं नाम जज्ञे भद्रमदा सुताम्।।3.14.24।। Aranya Kanda,14,25,तस्यास्त्वैरावतः पुत्रो लोकनाथो महागजः। मातङ्ग्या स्त्वथ मातङ्गा अपत्यं मनुजर्षभ।।3.14.25।। Aranya Kanda,14,26,गोलाङ्गूलांश्च शार्दूली व्याघ्रांश्चाजनयत्सुतान्। दिशागजांश्च काकुत्स्थ श्वेताप्यजनयत्सुतान्।।3.14.26।। Aranya Kanda,14,27,ततो दुहितरौ राम सुरभिर्द्वेव्यजायत। रोहिणीं नाम भद्रं ते गन्धर्वीं च यशस्स्विनीम्।।3.14.27।। Aranya Kanda,14,28,रोहिण्यजनयद् गावो गन्धर्वी वाजिनः सुतान्। सुरसाऽजनयन्नागान्राम कद्रूस्तु पन्नगान्।।3.14.28।। Aranya Kanda,14,29,मनुर्मनुष्यान् जनयद्राम पुत्रान् यशस्विनः। ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्च मनुजर्षभ।।3.14.29।। Aranya Kanda,14,30,सर्वान् पुण्यफलान्वृक्षाननलापि व्यजायत। विनता च शुकीपौत्री कद्रूश्च सुरसास्वसा।।3.14.30।। Aranya Kanda,14,31,कद्रूर्नागं सहस्रास्यं विजज्ञे धरणीधरम्। द्वौ पुत्रौ विनतायास्तु गरुडोऽरुण एव च।।3.14.31।। Aranya Kanda,14,32,तस्माज्जातोऽहमरुणात्सम्पातिस्तु ममाग्रजः। जटायुरिति मां विद्धि श्येनीपुत्रमरिन्दम।।3.14.32।। Aranya Kanda,14,33,सोऽहं वाससहायस्ते भविष्यामि यदीच्छसि। इदं दुर्गं हि कान्तारं मृगराक्षस सेवितम्।।3.14.33।। सीतां च तात रक्षिष्ये त्वयि याते सलक्ष्मणे। Aranya Kanda,14,34,जटायुषं तं प्रतिपूज्य राघवो मुदा परिष्वज्य च सन्नतोऽभवत्। पितुर्हि शुश्राव सखित्वमात्मवान् जटायुषा सङ्कथितं पुनः पुनः।।3.14.34।। Aranya Kanda,14,35,स तत्र सीतां परिदाय मैथिलीं सहैव तेनातिबलेन पक्षिणा। जगाम तां पञ्चवटीं सलक्ष्मणो रिपून्दिधक्षञ्छलभानि वानलः।।3.14.35।। Aranya Kanda,15,1,ततः पञ्चवटीं गत्वा नानाव्यालमृगायुताम्। उवाच भ्रातरं रामस्सौमित्रिं दीप्ततेजसम्।।3.15.1।। Aranya Kanda,15,2,आगताः स्म यथोद्दिष्टममुं देशं महर्षिणा। अयं पञ्चवटीदेशस्सौम्य पुष्पितपादपः।।3.15.2।। Aranya Kanda,15,3,सर्वतश्चार्यतां दृष्टिः कानने निपुणोह्यसि। आश्रमः कतरस्मिन्नो देशे भवति सम्मतः।।3.15.3।। Aranya Kanda,15,4,रमते यत्र वैदेही त्वमहं चैव लक्ष्मण। तादृशो दृश्यतां देशस्सन्निकृष्टजलाशयः।।3.15.4।। Aranya Kanda,15,5,वनरामण्यकं यत्र स्थलरामण्यकं तथा। सन्निकृष्टं च यत्र स्यात्समित्पुष्पकुशोदकम्।।3.15.5।। Aranya Kanda,15,6,एवमुक्तस्तु रामेण लक्ष्मण संयताञ्जलिः। सीतासमक्षं काकुत्स्थमिदं वचनमब्रवीत्।।3.15.6।। Aranya Kanda,15,7,परवानस्मि काकुत्स्थ त्वयि वर्षशतं स्थिते। स्वयं तु रुचिरे देशे क्रियतामिति मां वद।।3.15.7।। Aranya Kanda,15,8,सुप्रीतस्तेन वाक्येन लक्ष्मणस्य महात्मनः। विमृशन्रोचयामास देशं सर्वगुणान्वितम्।।3.15.8।। Aranya Kanda,15,9,स तं रुचिरमाक्रम्य देशमाश्रमकर्मणि। हस्तौ गृहीत्वा हस्तेन रामस्सौमित्रिमब्रवीत्।।3.15.9।। Aranya Kanda,15,10,अयं देशस्समश्रीमान् पुष्पितैस्तरुभिर्वृतः। इहाऽश्रमपदं सौम्य यथावत्कर्तुमर्हसि।।3.15.10।। Aranya Kanda,15,11,इयमादित्यसङ्काशैः पद्मैस्सुरभिगन्धिभिः। अदूरे दृश्यते रम्या पद्मिनी पद्मशोभिता।।3.15.11।। Aranya Kanda,15,12,यथातख्यातमगस्त्येन मुनिना भावितात्मना। इयं गोदावरी रम्या पुष्पितैस्तरुभिर्वृता।।3.15.12।। हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता। Aranya Kanda,15,13,नातिदूरे न चासन्ने मृगयूथपिपीडिताः।।3.15.13।। Aranya Kanda,15,14,मयूरनादिता रम्याः प्रांशवो बहुकन्दराः। दृश्यन्ते गिरयः सौम्य फुल्लैस्तरुभिरावृताः।।3.15.14।। Aranya Kanda,15,15,सौवर्णैराजतैस्ताम्रैर्देशे देशे च धातुभिः। गवाक्षिता इवाभान्ति गजाः परमभक्तिभिः।।3.15.15।। Aranya Kanda,15,16,सालैस्तालैस्तमालैश्च खर्जूरपनसाम्रकैः। नीवारैस्तिमिशैश्चैव पुन्नागैश्चोपशोभिताः।।3.15.16।। Aranya Kanda,15,17,चूतैरशोकैस्तिलकैश्चम्पकैः केतकैरपि। पुष्पगुल्मलतोपेतैस्तैस्तैस्तरुभिरावृताः।।3.15.17।। Aranya Kanda,15,18,चन्दनैस्पन्दनैर्नीपैः पर्णासैर्लिकुचैरपि। धवाश्वकर्णखदिरैः शमीकिंशुकपाटलैः।।3.15.18।। Aranya Kanda,15,19,इदं पुण्यमिदं मेध्यमिदं बहुमृगद्विजम्। इह वत्स्याम सौमित्रे सार्धमेतेन पक्षिणा।।3.15.19।। Aranya Kanda,15,20,एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा। अचिरेणाऽश्रमं भ्रातुश्चकार सुमहाबलः।।3.15.20।। Aranya Kanda,15,22,पर्णशालां सुविपुलां तत्र सङ्खातमृत्तिकाम्। सुस्तम्भां मस्करैर्दीर्घैः कृतवंशां सुशोभनाम्।।3.15. 21।। शमीशाखाभिरास्तीर्य दृढपाशावपाशिताम्। कुशकाशशरैः पर्णैस्सुपरिच्छादितां तथा।।3.15.22।। Aranya Kanda,15,23,समीकृततलां रम्यां चकार लघुविक्रमः। निवासं राघवस्यार्थे प्रेक्षणीयमनुत्तमम्।।3.15.23।। Aranya Kanda,15,24,सहसा लक्ष्मणः श्रीमान् नदीं गोदावरीं तदा। स्नात्वा पद्मानि चादाय सफलः पुनरागतः।।3.15.24।। Aranya Kanda,15,25,ततः पुष्पबलिं कृत्वा शान्तिं च स यथाविधि। दर्शयामास रामाय तदाश्रमपदं कृतम्।।3.15.25।। Aranya Kanda,15,26,स तं दृष्ट्वा कृतं सौम्यमाश्रमं सीतया सह। राघवः पर्णशालायां हर्षमाहारयत्परम्।।3.15.26।। Aranya Kanda,15,27,सुसंहृष्टः परिष्वज्य बाहुभ्यां लक्ष्मणं तदा। अतिस्निग्धं च गाढं च वचनं चेदमब्रवीत्।।3.15.27।। Aranya Kanda,15,28,प्रीतोऽस्मि ते महत्कर्म त्वया कृतमिदं प्रभो। प्रदेयो यन्निमित्तं ते परिष्वङ्गो मया कृतः।।3.15.28।। Aranya Kanda,15,29,भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण। त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम।।3.15.29।। Aranya Kanda,15,30,एवं लक्ष्मणमुक्त्वा तु राघवो लक्ष्मिवर्धनः। तस्मिन् देशे बहुफले न्यवसत्सुसुखं वशी।।3.15.30।। Aranya Kanda,15,31,कञ्चित्कालं स धर्मात्मा सीतया लक्ष्मणेन च। अन्वास्यमानो न्यवसत्स्वर्गलोके यथामरः।।3.15.31।। Aranya Kanda,16,1,वसतस्तस्य तु सुखं राघवस्य महात्मनः। शरद्व्यपाये हेमन्तऋतुरिष्टः प्रवर्तत।।3.16.1।। Aranya Kanda,16,2,स कदाचित्प्रभातायां शर्वर्यां रघुनन्दनः। प्रययावभिषेकार्थं रम्यां गोदावरीं नदीम्।।3.16.2।। Aranya Kanda,16,3,प्रह्वः कलशहस्तस्तं सीतया सह वीर्यवान्। पृष्ठतोऽनुव्रजन्भ्राता सौमित्रिरिदमब्रवीत्।।3.16.3।। Aranya Kanda,16,4,अयं स कालः सम्प्राप्तः प्रियो यस्ते प्रियंवद। अलङ्कृत इवाभाति येन संवत्सरः शुभः।।3.16.4।। Aranya Kanda,16,5,नीहारपरुषो लोकः पृथिवी सस्यशालिनी। जलान्यनुपभोग्यानि सुभगो हव्यवाहनः।।3.16.5।। Aranya Kanda,16,6,नवाग्रयणपूजाभिरभ्यर्च्य पितृदेवताः। कृताग्रयणकाः काले सन्तो विगतकल्मषाः।।3.16.6।। Aranya Kanda,16,7,प्राज्यकामा जनपदास्सम्पन्नतरगोरसाः। विचरन्ति महीपाला यात्रास्था विजिगीषवः।।3.16.7।। Aranya Kanda,16,8,सेवमाने दृढं सूर्ये दिशमन्तक सेविताम्। विहीनतिलकेव स्त्री नोत्तरा दिक्प्रकाशते।।3.16.8।। Aranya Kanda,16,9,प्रकृत्या हिमकोशाढ्यो दूरसूर्यश्च साम्प्रतम्। यथार्थनामा सुव्यक्तं हिमवान्हिमवान्गिरिः।।3.16.9।। Aranya Kanda,16,10,अत्यन्तसुखसञ्चारा मध्याह्ने स्पर्शतस्सुखाः। दिवसास्सुभगादित्याश्चायासलिलदुर्भगाः।।3.16.10।। Aranya Kanda,16,11,मृदुसूर्यास्सनीहाराः पटुशीतास्समारुताः। शून्यारण्या हिमध्वस्ता दिवसा भान्तिसाम्प्रतम्।।3.16.11।। Aranya Kanda,16,12,निवृत्ताकाशशयनाः पुष्यनीता हिमारुणाः। शीता वृद्धतरायामास्त्रियामा यान्ति साम्प्रतम्।।3.16.12।। Aranya Kanda,16,13,रविसङ्क्रान्तसौभाग्य स्तुषारारुणमण्डलः। निश्श्वासान्ध इवादर्शन्छन्द्रमा न प्रकाशते।।3.16.13।। Aranya Kanda,16,14,ज्योत्स्न तुषारमलिना पौर्णमास्यां न राजते। सीतेव चातपश्यामा लक्ष्यते न तु शोभते।।3.16.14।। Aranya Kanda,16,15,प्रकृत्या शीतलस्पर्शो हिमविद्धश्च साम्प्रतम्। प्रवाति पश्चिमो वायुः काले द्विगुणशीतलः।।3.16.15।। Aranya Kanda,16,16,बाष्पच्छन्नान्यरण्यानि यवगोधूमवन्ति च। शोभन्तेऽभ्युदिते सूर्ये नद्भि क्रौञ्चसारसैः।।3.16.16।। Aranya Kanda,16,17,खर्जूरपुष्पाकृतिभिश्शिरोभिः पूर्णतण्डुलैः। शोभन्ते किञ्चिदानम्राश्शालयः कनकप्रभाः।।3.16.17।। Aranya Kanda,16,18,मयूखैरुपसर्पद्भिर्हिमनीहारसंवृतैः। दूरमभ्युदितस्सूर्यश्शशाङ्क इव लक्ष्यते।।3.16.18।। Aranya Kanda,16,19,अग्राह्यवीर्यः पूर्वाह्णे मध्याह्ने स्पर्शतस्सुखः। संरक्तः किञ्चिदापाण्डुरातपश्शोभते क्षितौ।।3.16.19।। Aranya Kanda,16,20,अवश्यायनिपातेन किञ्चित्प्रक्लिन्नशाद्वला। वनानां शोभते भूमिर्निविष्टतरुणातपा।।3.16.20।। Aranya Kanda,16,21,स्पृशंस्तु विमलं शीतमुदकं द्विरदस्सुखम्। अत्यन्ततृषितो वन्यः प्रतिसंहरते करम्।।3.16.21।। Aranya Kanda,16,22,एते हि समुपासीना विहगा जलचारिणः। नावगाहन्ति सलिलमप्रगल्भा इवाहवम्।।3.16.22।। Aranya Kanda,16,23,अवश्यायतमोनद्धा नीहारतमसाऽवृताः। प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वनराजयः।।3.16.23।। Aranya Kanda,16,24,बाष्पसञ्छन्नसलिला रुतविज्ञेयसारसाः। हिमार्द्रवालुकैस्तीरैस्सरितो भान्ति साम्प्रतम्।।3.16.24।। Aranya Kanda,16,25,तुषारपतनाच्चैव मृदुत्वाद्भास्करस्य च। शैत्यादगाग्रस्थमपि प्रायेण रसवज्जलम्।।3.16.25।। Aranya Kanda,16,26,जराजर्जरितैः पद्मैशशीर्णकेसरकर्णिकैः। नालषेर्हिमध्वस्सैर्न भन्ति कमलाकराः।।3.16.26।। Aranya Kanda,16,27,अस्मिंस्तु पुरुषव्याघ्रः काले दुःखसमन्वितः। तपश्चरति धर्मात्मा त्वद्भक्त्या भरतः पुरे।।3.16.27।। Aranya Kanda,16,28,त्यक्त्वा राज्यं च मानं च भोगांश्च विविधान्बहून्। तपस्स्वी नियताहारश्शेते शीते महीतले।।3.16.28।। Aranya Kanda,16,29,सोऽपि वेलामिमां नूनमभिषेकार्थमुद्यतः। वृतः प्रकृतिभिर्नित्यं प्रयाति सरयूं नदीम्।।3.16.29।। Aranya Kanda,16,30,अत्यन्तसुखसंवृद्धस्सुकुमारस्सुखोचितः। कथं न्वपररात्रेषु सरयूमवगाहते।।3.16.30।। Aranya Kanda,16,31,पद्मपत्रेक्षणो वीरश्श्यामो निरुदरो महान्। धर्मज्ञ स्सत्यवादी च ह्रीनिषेधो जितेन्द्रियः।।3.16.31।। Aranya Kanda,16,32,प्रियाभिभाषी मधुरो दीर्घबाहुररिन्दमः। सन्त्यज्य विविधान्भोगानार्यं सर्वात्मना श्रितः।।3.16.32।। Aranya Kanda,16,33,जितस्स्वर्गस्तव भ्रात्रा भरतेन महात्मना। वनस्थमपि तापस्ये यस्त्वामनुविधीयते।।3.16.33।। Aranya Kanda,16,34,न पित्र्यमनुवर्तन्ते मातृकं द्विपदा इति। ख्यातो लोकप्रवादोऽयं भरतेनान्यथा कृतः।।3.16.34।। Aranya Kanda,16,35,भर्ता दशरथो यस्यास्साधुश्च भरतस्सुतः। कथं नु साऽम्बा कैकेयी तादृशी क्रूरशीलिनी।।3.16.35।। Aranya Kanda,16,36,इत्येवं लक्ष्मणे वाक्यं स्नेहाद्ब्रुवति धार्मिके। परिवादं जनन्यास्तमसहन्राघवोऽब्रवीत्।।3.16.36।। Aranya Kanda,16,37,स तेऽम्बा मध्यमा तात गर्हितव्या कथञ्चन। तामेवेक्ष्वाकुनाथस्य भरतस्य कथां कुरु।।3.16.37।। Aranya Kanda,16,38,निश्चिताऽपि हि मे बुद्धिर्वनवासे दृढव्रता। भरतस्नेहसन्तप्ता बालिशीक्रियते पुनः।।3.16.38।। Aranya Kanda,16,39,संस्मराम्यस्य वाक्यानि प्रियाणि मधुराणि च। हृद्यान्यमृतकल्पानि मनःप्रह्लादनानि च।।3.16.39।। Aranya Kanda,16,40,कदान्वहं समेष्यामि भरतेन महात्मना। शत्रुघ्नेन च वीरेण त्वया च रघुनन्दन।।3.16.40।। Aranya Kanda,16,41,इत्येवं विलपंस्तत्र प्राप्य गोदावरीं नदीम्। चक्रेऽभिषेकं काकुत्स्थस्सानुजस्सह सीतया।।3.16.41।। Aranya Kanda,16,42,तर्पयित्वाऽथ सलिलैस्ते पितृ़न्दैवतानि च। स्तुवन्ति स्मोदितं सूर्यं देवताश्च समाहिताः।।3.16.42।। Aranya Kanda,16,43,कृताभिषेकस्सरराज रामः सीताद्वितीयस्सह लक्ष्मणेन। कृताभिषेको गिरिराजपुत्र्या रुद्रस्सनन्दी भगवानिवेशः।।3.16.43।। Aranya Kanda,17,1,कृताभिषेको रामस्तु सीता सौमित्रिरेव च। तस्माद्गोदावरीतीरात्ततो जग्मुस्वमाश्रमम्।।3.17.1।। Aranya Kanda,17,2,आश्रमं तमुपागम्य राघवस्सह लक्ष्मणः। कृत्वा पौर्वाह्णिकं कर्म पर्णशालामुपागमत्।।3.17.2।। Aranya Kanda,17,3,उवास सुखितस्तत्र पूज्यमानो महर्षिभिः। लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः।।3.17.3।। Aranya Kanda,17,4,स रामः पर्णशालायामासीनस्सह सीतया। विरराज महाबाहुश्चित्रया चन्द्रमाः इव।।3.17.4।। Aranya Kanda,17,5,तदाऽऽसीनस्य रामस्य कथासंसक्तचेतसः। तं देशं राक्षसी काचिदाजगाम यदृच्छया।।3.17.5।। Aranya Kanda,17,6,सा तु शूर्पणखा नाम दशग्रीवस्य राक्षसः। भगिनी राममासाद्य ददर्श त्रिदशोपमम्।।3.17.6।। Aranya Kanda,17,7,सिंहोरस्कं महाबाहुं पद्मपत्रनिभेक्षणम्। आजानुबाहुं दीप्तास्यमतीव प्रियदर्शनम्।।3.17.7।। Aranya Kanda,17,8,गजविक्रान्तगमनं जटामण्डलधारिणम्। सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम्।।3.17.8।। Aranya Kanda,17,9,राममिन्दीवरश्यामं कन्दर्पसदृशप्रभम्। बभूवेन्द्रोपमं दृष्ट्वा राक्षसी काममोहिता।।3.17.9।। Aranya Kanda,17,10,सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी। विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा।।3.17.10।। Aranya Kanda,17,11,प्रीतिरूपं विरूपा सा सुस्वरं भैरवस्वरा। तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी।।3.17.11।। Aranya Kanda,17,12,न्यायवृत्तं सुदुर्वृत्ता प्रियमप्रियदर्शना। शरीरजसमाविष्टा राक्षसी वाक्यमब्रवीत्।।3.17.12।। Aranya Kanda,17,13,जटी तापसरूपेण सभार्यश्शरचापधृत्। आगतस्त्वमिमं देशं कथं राक्षससेवितम्।।3.17.13।। किमागमनकृत्यं ते तत्त्वमाख्यातुमर्हसि। Aranya Kanda,17,14,एवमुक्तस्तु राक्षस्या शूर्पणख्या परन्तपः।।3.17.14।। ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे। Aranya Kanda,17,15,अनृतं न हि रामस्य कदाचिदपि सम्मतम्।।3.17.15।। विशेषेणाऽश्रमस्थस्य समीपे स्त्रीजनस्य च। Aranya Kanda,17,16,आसीद्धशरथो नाम राजा त्रिदशविक्रमः।।3.17.16।। तस्याहमग्रजः पुत्रो रामो नाम जनैश्श्रुतः। Aranya Kanda,17,17,भ्राताऽयं लक्ष्मणो नाम यवीयान्मामनुव्रतः।।3.17.17।। इयं भार्या च वैदेही मम सीतेति विश्रुता। Aranya Kanda,17,18,नियोगात् तु नरेन्द्रस्य पितुर्मातुश्च यन्त्रितः।।3.17.18।। धर्मार्थं धर्मकाङ्क्षी च वनं वस्तुमिहागतः। Aranya Kanda,17,19,त्वां तु वेदितुमिच्छामि कस्य त्वं कासि कस्य वा।।3.17.19।। त्वं हि तावन्मनोज्ञाङ्गी राक्षसी प्रतिभासि मे। Aranya Kanda,17,20,इह वा किंनिमित्तं त्वमागता ब्रूहि तत्त्वत:।।3.17.20।। साब्रवीद् वचनं श्रुत्वा राक्षसी मदनार्दिता। Aranya Kanda,17,22,श्रूयतां राम वक्ष्यामि तत्त्वार्थं वचनं मम। 3.17.21।। अहं शूर्पणखा नाम राक्षसी कामरूपिणी। अरण्यं विचरामीदमेका सर्वभयङ्करा।।3.17.22।। Aranya Kanda,17,23,रावणो नाम मे भ्राता बलीयान्राक्षसेश्वरः। वीरो विश्रवसः पुत्रो यदि ते श्रोत्रमागतः।।3.17.23।। Aranya Kanda,17,24,प्रवृद्धनिद्रश्च सदा कुम्भकर्णो महाबलः। विभीषणस्तु धर्मात्मा न तु राक्षसचेष्टितः।।3.17.24।। प्रख्यातवीर्यौ च रणे भ्रातरौ खरदूषणौ। Aranya Kanda,17,25,तानहं समतिक्रान्ता राम त्वा पूर्वदर्शनात्।।3.17.25।। समुपेतास्मि भावेन भर्तारं पुरुषोत्तमम्। Aranya Kanda,17,26,अहं प्रभावसम्पन्ना स्वच्छन्दबलगामिनी।।3.17.26।। चिराय भव मे भर्ता सीतया किं करिष्यसि। Aranya Kanda,17,27,विकृता च विरूपा च न चेयं सदृशी तव।।3.17.27।। अहमेवानुरूपा ते भार्या रूपेण पश्य माम्। Aranya Kanda,17,28,इमां विरूपामसतीं करालां निर्णतोदरीम्।।3.17.28।। अनेन ते सह भ्रात्रा भक्षयिष्यामि मानुषीम्। Aranya Kanda,17,29,ततः पर्वतशृङ्गाणि वनानि विविधानि च।।3.17.29।। पश्यन्सह मया कान्त दण्डकान्विचरिष्यसि। Aranya Kanda,17,30,इत्येवमुक्तः काकुत्स्थः प्रहस्य मदिरेक्षणाम्।।3.17.30।। इदं वचनमारेभे वक्तुं वाक्यविशारदः। Aranya Kanda,18,1,ततश्शूर्पणखां रामः कामपाशावपाशिताम्। स्वच्छया श्लक्ष्णया वाचा स्मितपूर्वमथाब्रवीत्।।3.18.1।। Aranya Kanda,18,2,कृतदारोऽस्मि भवति भार्येयं दयिता मम। त्वद्विधानां तु नारीणां सुदुःखा ससपत्नता।।3.18.2।। Aranya Kanda,18,3,अनुजस्त्वेष मे भ्राता शीलवान्प्रियदर्शनः। श्रीमानकृतदारश्च लक्ष्मणो नाम वीर्यवान्।।3.18.3।। Aranya Kanda,18,4,अपूर्वी भार्यया चार्थी तरुणः प्रियदर्शनः। अनुरूपश्च ते भर्ता रूपस्यास्य भविष्यति।।3.18.4।। Aranya Kanda,18,5,एनं भज विशालाक्षि भर्तारं भ्रातरं मम। असपत्ना वरारोहे मेरुमर्कप्रभा यथा।।3.18.5।। Aranya Kanda,18,6,इति रामेण सा प्रोक्ता राक्षसी काममोहिता। विसृज्य रामं सहसा ततो लक्ष्मणमब्रवीत्।।3.18.6।। Aranya Kanda,18,7,अस्य रूपस्य ते युक्ता भार्याहं वरवर्णिनी। मया सह सुखं सर्वान्दण्डकान्विचरिष्यसि।।3.18.7।। Aranya Kanda,18,8,एवमुक्तस्तु सौमित्री राक्षस्या वाक्यकोविदः। ततश्शूर्पणखीं स्मित्वा लक्ष्मणो युक्तमब्रवीत्।।3.18.8।। Aranya Kanda,18,9,कथं दासस्य मे दासी भार्या भवितुमिच्छसि। सोऽहमार्येण परवान्भ्रात्रा कमलवर्णिनि।।3.18.9।। Aranya Kanda,18,10,समृद्धार्थस्य सिद्धार्था मुदितामलवर्णिनी। आर्यस्य त्वं विशालाक्षि भार्या भव यवीयसी।।3.18.10।। Aranya Kanda,18,11,एनां विरूपामसतीं करालां निर्णतोदरीम्। भार्यां वृद्धां परित्यज्य त्वामेवैष भजिष्यति।।3.18.11।। Aranya Kanda,18,12,को हि रूपमिदं श्रेष्ठं संत्यज्य वरवर्णिनि। मानुषीषु वरारोहे कुर्याद्भावं विचक्षणः।।3.18.12।। Aranya Kanda,18,13,इति सा लक्ष्मणेनोक्ता कराला निर्णतोदरी। मन्यते तद्वचस्तथ्यं परिहासाविचक्षणा।।3.18.13।। Aranya Kanda,18,14,सा रामं पर्णशालायामुपविष्टं परन्तपम्। सीतया सह दुर्दर्षमब्रवीत्काममोहिता।।3.18.14।। Aranya Kanda,18,15,एनां विरूपामसतीं करालां निर्णतोदरीम्। वृद्धां भार्यामवष्टभ्य मां न त्वं बहुमन्यसे।।3.18.15।। Aranya Kanda,18,16,अद्येमां भक्षयिष्यामि पश्यतस्तव मानुषीम्। त्वया सह चरिष्यामि निस्सपत्ना यथासुखम्।।3.18.16।। Aranya Kanda,18,17,इत्युक्त्वा मृगशाबाक्षीमलातसदृशेक्षणा। अभ्यधावत्सुसङ्कृद्धा महोल्कां रोहिणीमिव।।3.18.17।। Aranya Kanda,18,18,तां मृत्युपाशप्रतिमामापतन्तीं महाबलः। निगृह्य रामः कुपित स्ततो लक्ष्मणमब्रवीत्।।3.18.18।। Aranya Kanda,18,19,क्रूरैरनार्यै स्सौमित्रे परिहासः कथञ्चन। न कार्यः पश्यवैदेहीं कथञ्चित्सौम्य जीवतीम्।।3.18.19।। Aranya Kanda,18,20,इमां विरूपामसतीमतिमत्तां महोदरीम्। राक्षसीं पुरुषव्याघ्र विरूपयितुमर्हसि।।3.18.20।। Aranya Kanda,18,21,इत्युक्तो लक्ष्मणस्तस्याः क्रुद्धो रामस्य पार्श्वतः। उद्धृत्य खङ्गं चिच्छेद कर्णनासं महाबलः।।3.18.21।। Aranya Kanda,18,22,निकृत्तकर्णनासा तु विस्वरं सा विनद्य च। यथागतं प्रदुद्राव घोरा शूर्पणखा वनम्।।3.18.22।। Aranya Kanda,18,23,सा विरूपा महाघोरा राक्षसी शोणितोक्षिता। ननाद विविधान्नादान्यथा प्रावृषि तोयदः।।3.18.23।। Aranya Kanda,18,24,सा विक्षरन्ती रुधिरं बहुधा घोरदर्शना। प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम्।।3.18.24।। Aranya Kanda,18,25,ततस्तु सा राक्षससङ्घसंवृतं खरं जनस्थानगतं विरूपिता। उपेत्य तं भ्रातरमुग्रदर्शनं पपात भूमौ गगनाद्यथाऽशनिः।।3.18.25।। Aranya Kanda,18,26,ततस्सभार्यं भयमोहमूर्छिता सलक्ष्मणं राघवमागतं वनम्। विरूपणं चात्मनि शोणितोक्षिता शशंस सर्वं भगिनी खरस्य सा।।3.18.26।। Aranya Kanda,19,1,तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम्। भगिनीं क्रोधसन्तप्तः खरः पप्रच्छ राक्षसः।।3.19.1।। Aranya Kanda,19,2,उत्तिष्ठ तावदाख्याहि प्रमोहं जहि सम्भ्रमम्। व्यक्तमाख्याहि केन त्वमेवं रूपा विरूपिता।।3.19.2।। Aranya Kanda,19,3,कः कृष्णसर्पमासीनमाशीविषमनागसम्। तुदत्यभिसमापन्नमङ्गुल्यग्रेण लीलया।।3.19.3।। Aranya Kanda,19,4,कः कालपाशं समासज्य कण्ठे मोहान्न बुध्यते। यस्त्वामद्य समासाद्य पीतवान्विषमुत्तमम्।।3.19.4।। Aranya Kanda,19,5,बलविक्रमसम्पन्ना कामगा कामरूपिणी। इमामवस्थां नीता त्वं केनान्तकसमागता।।3.19.5।। Aranya Kanda,19,6,देवगन्धर्वभूतानामृषीणां च महात्मनाम्। कोऽयमेवं विरूपां त्वां महावीर्यश्चकार ह।।3.19.6।। Aranya Kanda,19,7,न हि पश्याम्यहं लोके यः कुर्यान्मम विप्रियम्। अमरेषु सहस्राक्षं महेन्द्रं पाकशासनम्।।3.19.7।। Aranya Kanda,19,8,अद्याहं मार्गणैः प्राणानादास्ये जीवितान्तकैः। सलिले क्षीरमासक्तं निष्पिबन्निव सारसः।।3.19.8।। Aranya Kanda,19,9,निहतस्य मया सङ्ख्ये शरसंकृत्तमर्मणः। सफेनं रुधिरं रक्तं मेदिनी कस्य पास्यति।।3.19.9।। Aranya Kanda,19,10,कस्य पत्ररथाः कायान्मांसमुत्कृत्य सङ्गताः। प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे।।3.19.10।। Aranya Kanda,19,11,तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः। मयापकृष्टं कृपणं शक्तास्त्रातुं महाहवे।।3.19.11।। Aranya Kanda,19,12,उपलभ्य शनैस्संज्ञां तं मे शंसितुमर्हसि। येन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता।।3.19.12।। Aranya Kanda,19,13,इति भ्रातुर्वचश्श्रुत्वा क्रुद्धस्य च विशेषतः। ततश्शूर्पणखा वाक्यं सबाष्पमिदमब्रवीत्।।3.19.13।। Aranya Kanda,19,14,तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ। पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ।।3.19.14।। Aranya Kanda,19,15,फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ। पुत्रौ दशरथस्यास्तां भ्रातरौ रामलक्ष्मणौ।।3.19.15।। Aranya Kanda,19,16,गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ। देवौ वा मानुषौ वा तौ न तर्कयितुमुत्सहे।।3.19.16।। Aranya Kanda,19,17,तरुणी रूपसम्पन्ना सर्वाभरणभूषिता। दृष्टा तत्र मया नारी तयोर्मध्ये सुमध्यमा।।3.19.17।। Aranya Kanda,19,18,ताभ्यामुभाभ्यां सम्भूय प्रमदामधिकृत्य ताम्। इमामवस्थां नीताहं यथानाथासती तथा।।3.19.18।। Aranya Kanda,19,19,तस्याश्चानृजुवृत्तायास्तयोश्च हतयोरहम्। सफेनं पातुमिच्छामि रुधिरं रणमूर्धनि।।3.19.19।। Aranya Kanda,19,20,एष मे प्रथमः कामः कृतस्तात त्वया भवेत्। तस्यास्तयोश्च रुधिरं पिबेयमहमाहवे।।3.19.20।। Aranya Kanda,19,21,इति तस्यां ब्रुवाणायां चतुर्दश महाबलान्। व्यादिदेश खरः क्रुद्धो राक्षसानन्तकोपमान्।।3.19.21।। Aranya Kanda,19,22,मानुषौ शस्त्रसम्पन्नौ चीरकृष्णाजिनाम्बरौ। प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह।।3.19.22।। Aranya Kanda,19,23,तौ हत्वा तां च दुर्वृत्तामपावर्तितुमर्हथ। इयं च रुधिरं तेषां भगिनी मम पास्यति।।3.19.23।। Aranya Kanda,19,24,मनोरथोऽयमिष्टोऽस्या भगिन्या मम राक्षसाः। शीघ्रं सम्पाद्यतां तौ च प्रमथ्य स्वेन तेजसा।।3.19.24।। Aranya Kanda,19,25,इति प्रतिसमादिष्टा राक्षसास्ते चतुर्दश। तत्र जग्मुस्तया सार्धं घना वातेरिता यथा।।3.19.25।। Aranya Kanda,19,26,ततस्तु ते तं समुदग्रतेजसं तथापिऽतीक्ष्णप्रदरा निशाचराः। न शेकुरेनं सहसा प्रमर्दितुं वनद्विपा दीप्तमिवाग्निमुत्थितम्।।3.19.26।। Aranya Kanda,20,1,ततश्शूर्पणखा घोरा राघवाश्रममागता। राक्षसानाचचक्षे तौ भ्रातरौ सह सीतया।।3.20.1।। Aranya Kanda,20,2,ते रामं पर्णशालायामुपविष्टं महाबलम्। ददृशुस्सीतया सार्धं वैदेह्या लक्ष्मणेन च।3.20.2।। Aranya Kanda,20,3,तान्दृष्ट्वा राघवश्श्रीमानागतांस्तां च राक्षसीम्। अब्रवीद्भ्रातरं रामो लक्ष्मणं दीप्ततेजसम्।।3.20.3।। Aranya Kanda,20,4,मुहूर्तं भव सौमित्रे सीतायाः प्रत्यनन्तरः। इमानस्या वधिष्यामि पदवीमागतानिह।।3.20.4।। Aranya Kanda,20,5,वाक्यमेतत्ततश्श्रुत्वा रामस्य विदितात्मनः। तथेति लक्ष्मणो वाक्यं रामस्य प्रत्यपूजयत्।।3.20.5।। Aranya Kanda,20,6,राघवोऽपि महच्चापं चामीकरविभूषितम्। चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत्।।3.20.6।। Aranya Kanda,20,7,पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ। प्रविष्टौ सीतया सार्धं दुश्चरं दण्डकावनम्।।3.20.7।। Aranya Kanda,20,8,फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ। वसन्तौ दण्डकारण्ये किमर्थमुपहिंसथ।।3.20.8।। Aranya Kanda,20,9,युष्मान्पापात्मकान्हन्तुं विप्रकारान्महाहवे। ऋषीणां तु नियोगेन प्राप्तोऽहं सशरायुधः।।3.20.9।। Aranya Kanda,20,10,तिष्ठतैवात्र सन्तुष्टा नोपावर्तितुमर्हथ। यदि प्राणैरिहार्थो वा निवर्तध्वं निशाचराः।।3.20.10।। Aranya Kanda,20,11,तस्य तद्वचनं श्रुत्वा राक्षसास्ते चतुर्दश। ऊचुर्वाचं सुसंक्रुद्धा ब्रह्मघ्नाश्शूलपाणयः।।3.20.11।। Aranya Kanda,20,12,क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः। त्वमेव हास्यसे प्राणानद्यास्माभिर्हतो युधि।।3.20.12।। Aranya Kanda,20,13,का हि ते शक्तिरेकस्य बहूनां रणमूर्धनी। अस्माकमग्रतः स्थातुं किं पुनर्योद्दुमाहवे।।3.20.13।। Aranya Kanda,20,14,एहि बाहुप्रयुक्तैर्नः परिघैश्शूलपट्टिसैः। प्राणांस्त्यक्षसि वीर्यं च धनुश्च करपीडितम्।।3.20.14।। Aranya Kanda,20,15,इत्येवमुक्त्वा सङ्कृद्धा राक्षसास्ते चतुर्दश। चिक्षिपुस्तानि शूलानि राघवं प्रति दुर्जयम्।।3.20.15।। Aranya Kanda,20,16,तानि शूलानि काकुत्स्थस्समस्तानि चतुर्दश। तावद्भिरेव चिच्छेद शरैः काञ्चनभूषणैः।।3.20.16।। Aranya Kanda,20,17,ततः पश्चान्महातेजा नाराचान्सूर्यसन्निभान्। जग्राह परमक्रुद्धश्चतुर्दश शिलाशितान्।।3.20.17।। Aranya Kanda,20,18,गृहीत्वा धनुरायम्य लक्ष्यानुद्दिश्य राक्षसान्। मुमोच राघवो बाणान्वज्रानिव शतक्रतुः।।3.20.18।। Aranya Kanda,20,19,रुक्मपुङ्खाश्च विशिखा दीप्ता हेमविभूषिताः। ते भित्त्वा रक्षसां वेगाद्वक्षांसि रुधिराप्लुताः।3.20.19।। विनिष्पेतुस्तदा भूमौ न्यमज्जन्ताशनिस्वनाः। Aranya Kanda,20,20,ते भिन्नहृदया भूमौ छिन्नमूला इव द्रुमाः।।3.20.20।। निपेतुश्शोणितार्द्राङ्गा विकृता विगतासवः। Aranya Kanda,20,21,तान् दृष्ट्वा पतितान्भूमौ राक्षसी क्रोधमूर्छिता।।3.20.21।। परित्रस्ता पुनस्तत्र व्यसृजद्भैरवस्वनान्। Aranya Kanda,20,22,उपगम्य खरं सा तु किञ्चित्संशुष्कशोणिता।।3.20.22।। पपात पुनरेवार्ता सनिर्यासेव सल्लकी। Aranya Kanda,20,23,पपात पुनरेवार्ता सनिर्यासेव सल्लकी ।।3.20.23 ।। Aranya Kanda,20,24,भ्रातुस्समीपे शोकार्ता ससर्ज निनदं मुहुः।।3.20.24।। सस्वरं मुमुचे बाष्पं विषण्णवदना तदा। Aranya Kanda,20,25,निपातितान् दृश्य रणे तु राक्षसान् प्रधाविता शूर्पणखा पुनस्ततः। वधं च तेषां निखिलेन रक्षसां शशंस सर्वं भगिनी खरस्य सा।।3.20.25।। Aranya Kanda,21,1,स पुनः पतितां दृष्ट्वा क्रोधाच्छूर्पणखां खरः। उवाच व्यक्तया वाचा तामनर्थार्थमागताम्।।3.21.1।। Aranya Kanda,21,2,मया त्विदानीं शूरास्ते राक्षसा रुधिराशनाः। त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः।।3.21.2।। Aranya Kanda,21,3,भक्ताश्चैवानुरक्ताश्च हिताश्च मम नित्यशः। हन्यमाना न हन्यन्ते न न कुर्युर्वचो मम।।3.21.3।। Aranya Kanda,21,4,किमेतच्छ्रोतुमिच्छामि कारणं यत्कृते पुनः। हा नाथेति विनर्दन्ती सर्पवल्लुठसि क्षितौ।।3.21.4।। Aranya Kanda,21,5,अनाथवद्विलपसि नाथे तु मयि संस्थिते। उत्तिष्ठोत्तिष्ठ माभैषीर्वैक्लव्यं त्यज्यतामिह।।3.21.5।। Aranya Kanda,21,6,इत्येवमुक्ता दुर्धर्षा खरेण परिसान्त्विता। विमृज्य नयने सास्रे खरं भ्रातरमब्रवीत्।।3.21.6।। Aranya Kanda,21,7,अस्मीदानीमहं प्राप्ता हृतश्रवणनासिका। शोणितौघपरिक्लिन्ना त्वया च परिसान्त्विता।।3.21.7।। Aranya Kanda,21,8,प्रेषिताश्च त्वया वीर राक्षसास्ते चतुर्दश। निहन्तुं राघवं क्रोधान्मत्प्रियार्थं सलक्षणम्।।3.21.8।। Aranya Kanda,21,9,ते तु रामेण सामर्षाः शूलपट्टसपाणयः। समरे निहतास्सर्वे सायकैर्मर्मभेदिभिः।।3.21.9।। Aranya Kanda,21,10,तान्दृष्ट्वा पतितान्भूमौ क्षणेनैव महाबलान्। रामस्य च महत्कर्म महांस्त्रासोऽभवन्मम।।3.21.10।। Aranya Kanda,21,11,अहमस्मि समुद्विग्ना विषण्णा च निशाचर। शरणं त्वां पुनः प्राप्ता सर्वतोभयदर्शिनी।।3.21.11।। Aranya Kanda,21,12,विषादनक्राध्युषिते परित्रासोर्मिमालिनि। किं मां न त्रायसे मग्नां विपुले शोकसागरे।।3.21.12।। Aranya Kanda,21,13,एते च निहता भूमौ रामेण निशितैः शरैः। येऽपि मे पदवीं प्राप्ता राक्षसाः पिशिताशनाः।।3.21.13।। Aranya Kanda,21,14,मयि ते यद्यनुक्रोशो यदि रक्षस्सु तेषु च। रामेण यदि ते शक्तिस्तेजो वास्ति निशाचर।3.21.14।। दण्डकारण्यनिलयं जहि राक्षसकण्टकम्। Aranya Kanda,21,15,यदि रामं ममामित्रं न त्वमद्यवधिष्यसि।।3.21.15।। तवैव चाग्रतः प्राणांस्त्यक्षामि निरपत्रप। Aranya Kanda,21,16,बुद्ध्याहमनुपश्यामि न त्वं रामस्य संयुगे।।3.21.16।। स्थातुं प्रतिमुखे शक्तस्सबलश्च महात्मनः। Aranya Kanda,21,17,शूरमानी न शूरस्त्वं मिथ्यारोपितविक्रमः।।3.21.17।। मानुषौ यो न शक्नोषि हन्तुं तौ रामलक्ष्मणौ। Aranya Kanda,21,18,रामेण यदि ते शक्तिस्तेजो वास्ति निशाचर।।3.21.18।। दण्डकारण्यनिलयं जहि तं कुलपांसन। Aranya Kanda,21,19,निस्सत्वस्याल्प वीर्यस्य वासस्ते कीदृशस्त्विह।।3.21.19।। अपयाहि जनस्थानातत्वरितस्सहबान्धवः। Aranya Kanda,21,21,रामतेजोभिभूतो हि त्वं क्षिप्रं विनशिष्यसि।3.21.20।। स हि तेजस्समायुक्तो रामो दशरथात्मजः। भ्राता चास्य महावीर्यो येन चास्मि विरूपिता।।3.21.21।। Aranya Kanda,21,22,एवं विलप्य बहुशो राक्षसी विततोदरी। कराभ्यामुदरं हत्वा रुरोद भृशदुःखिता।।3.21.22।। Aranya Kanda,22,1,एवमाधर्षितश्शूरश्शूर्पणख्या खरस्ततः। उवाच रक्षसां मध्ये खरः खरतरं वचः।।3.22.1।। Aranya Kanda,22,2,तवावमानप्रभवः क्रोधोऽयमतुलो मम। न शक्यते धारयितुं लवणाम्भ इवोल्बणम्।।3.22.2।। Aranya Kanda,22,3,न रामं गणये वीर्यान्मानुषं क्षीणजीवितम्। आत्मदुश्चरितैः प्राणान्हतोयोऽद्य विमोक्ष्यते।।3.22.3।। Aranya Kanda,22,4,बाष्पस्संह्रियतामेष सम्भ्रमश्च विमुच्यताम्। अहं रामं सह भ्रात्रा नयामि यमसादनम्।।3.22.4।। Aranya Kanda,22,5,परश्वथहतस्याद्य मन्दप्राणस्य संयुगे। रामस्य रुधिरं रक्तमुष्णं पास्यसि राक्षसि।।3.22.5।। Aranya Kanda,22,6,सा प्रहृष्टा वचश्श्रुत्वा खरस्य वदनाच्च्युतम्। प्रशशंस पुनर्मौर्ख्याद्भ्रातरं रक्षसां वरम्।।3.22.6।। Aranya Kanda,22,7,तया परुषितः पूर्वं पुनरेव प्रशंसितः। अब्रवीद्दूषणं नाम खरस्सेनापतिं तदा।।3.22.7।। Aranya Kanda,22,8,चतुर्दश सहस्राणि मम चित्तानुवर्तिनाम्। रक्षसां भीमवेगानां समरेष्वनिवर्तिनाम्।।3.22.8।। Aranya Kanda,22,9,नीलजीमूतवर्णानां घोराणां क्रूरकर्मणाम्। लोकहिंसाविहाराणां बलिनामुग्रतेजसाम्।।3.22.9।। Aranya Kanda,22,10,तेषां शार्दूलदर्पाणां महास्यानां महौजसाम्। सर्वोद्योग मुदीर्णानां रक्षसां सौम्य कारय।।3.22.10।। Aranya Kanda,22,11,उपस्थापय मे क्षिप्रं रथं सौम्य धनूंषि च। शरांश्चित्रांश्च खङ्गांश्च शक्तीश्च विविधाश्शिताः।।3.22.11।। Aranya Kanda,22,12,अग्रे निर्यातुमिच्छामि पौलस्त्यानां महात्मनाम्। वधार्थं दुर्विनीतस्य रामस्य रणकोविदः।।3.22.12।। Aranya Kanda,22,13,इति तस्य ब्रुवाणस्य सूर्यवर्णं महारथम्। सदश्वैश्शबलैर्युक्तमाचचक्षेऽथ दूषणः।।3.22.13।। Aranya Kanda,22,14,तं मेरुशिखराकारं तप्तकाञ्चनभूषणम्। हेमचक्रमसम्बाधं वैदूर्यमयकूबरम्।।3.22.14।। Aranya Kanda,22,15,मत्स्यैः पुष्पैर्द्रुमैश्शैलैश्चन्द्रसूर्यैश्च काञ्चनैः। मङ्गलैः पक्षिसङ्घैश्च ताराभिरभिसंवृतम्।।3.22.15।। Aranya Kanda,22,16,ध्वजनिस्त्रिंशसम्पन्नं किङ्किणीकविराजितम्। सदश्वयुक्तं सोऽमर्षादारुरोह खरो रथम्।।3.22.16।। Aranya Kanda,22,17,निशाम्य तु रथस्थं तं राक्षसा भीमविक्रमाः। तस्थुस्संपरिवार्यैनं दूषणं च महाबलम्।।3.22.17।। Aranya Kanda,22,18,खरस्तु तान्महेष्वासान्घोरवर्मायुधध्वजान्। निर्यातेत्यब्रवीद्दृष्ट्वा रथस्थस्सर्वराक्षसान्।।3.22.18।। Aranya Kanda,22,19,ततस्तद् राक्षसं सैन्यं घोरचर्मायुधध्वजम्। निर्जगाम जनस्थानान्महानादं महाजवम्।।3.22.19।। Aranya Kanda,22,20,मुद्गरैः पट्टिसैश्शूलैस्सुतीक्ष्णैश्च परश्वधैः। खङ्गैश्चक्रैश्च हस्तस्थैर्भ्राजमानैश्च तोमरैः।।3.22.20।। Aranya Kanda,22,21,शक्तिभिः परिघैर्घोरैरतिमात्रैश्च कार्मुकैः। गदासिमुसलैर्वज्रैर्गृहीतैर्भीमदर्शनैः।।3.22.21।। Aranya Kanda,22,22,राक्षसानां सुघोराणां सहस्राणि चतुर्दश। निर्यातानि जनस्थानात्खरचित्तानुवर्तिनाम्।।3.22.22।। Aranya Kanda,22,23,तांस्त्वभिद्रवतो दृष्ट्वा राक्षसान् भीमविक्रमान्। खरस्यापि रथः किञ्चिज्जगाम तदनन्तरम्।।3.22.23।। Aranya Kanda,22,24,ततस्ताञ्छबलानश्वास्तप्तकाञ्चनभूषितान्। खरस्य मतिमाज्ञाय सारथिस्समचोदयत्।।3.22.24।। Aranya Kanda,22,25,स चोदितो रथश्शीघ्रं खरस्य रिपुघातिनः। शब्देनापूरयामास दिशश्च प्रदिशस्तदा।।3.22.25।। Aranya Kanda,22,26,प्रवृद्धमन्युस्तु खरः खरस्वनो रिपोर्वधार्थं त्वरितो यथान्तकः। अचूचुदत्सारथिमुन्नदन्घनं महाबलो मेघ इवाश्मवर्षवान्।।3.22.26।। Aranya Kanda,23,1,तस्मिन्याते बले घोरमशिवं शोणितोदकम्। अभ्यवर्षन्महामेघस्तुमुलो गर्दभारुणः।।3.23.1।। Aranya Kanda,23,2,निपेतुस्तुरगास्तस्य रथयुक्ता महाजवाः। समे पुष्पचिते देशे राजमार्गे यदृच्छया।।3.23.2।। Aranya Kanda,23,3,श्यामं रुधिरपर्यन्तं बभूव परिवेषणम्। अलातचक्रप्रतिमं परिगृह्य दिवाकरम्।।3.23.3।। Aranya Kanda,23,4,ततो ध्वजमुपागम्य हेमदण्डं समुच्छ्रितम्। समाक्रम्य महाकायस्तस्थौ गृध्रस्सुदारुणः।।3.23.4।। Aranya Kanda,23,5,जनस्थानसमीपे तु समागम्य खरस्वनाः। विस्वरान्विविधांश्चक्रुर्मांसादा मृगपक्षिणः।।3.23.5।। Aranya Kanda,23,6,व्याजह्रुश्च प्रदीप्तायां दिशि वै भैरवस्वनम्। अशिवं यातुधानानां शिवा घोरा महास्वनाः।।3.23.6।। Aranya Kanda,23,7,प्रभिन्नगिरिसङ्काशास्तोयशोणितधारिणः। आकाशं तदनाकाशं चक्रुर्भीमा वलाहकाः।।3.23.7।। Aranya Kanda,23,8,बभूव तिमिरं घोरमुद्धतं रोमहर्षणम्। दिशो वा विदिशो वापि न च व्यक्तं चकाशिरे।।3.23.8।। Aranya Kanda,23,9,क्षतजार्द्रसवर्णाभा सन्ध्याकालं विना बभौ। खरस्याभिमुखा नेदुस्तदा घोरमृगाः खगाः।।3.23.9।। कङ्कगोमायुगृध्राश्च चुक्रुशुर्भयशंसिनः। Aranya Kanda,23,10,नित्याशुभकरा युद्धे शिवा घोरनिदर्शनाः।।3.23.10।। नेदुर्बलस्याभिमुखं ज्वालोद्गारिभिराननैः। Aranya Kanda,23,11,कबन्धः परिघाभासो दृश्यते भास्करान्तिके।।3.23.11।। Aranya Kanda,23,12,जग्राह सूर्यं स्वर्भानुरपर्वणि महाग्रहः। प्रवाति मारुतश्शीघ्रं निष्प्रभोऽभूद्दिवाकरः।।3.23.12।। Aranya Kanda,23,13,उत्पेतुश्च विना रात्रिं ताराः खद्योतसप्रभाः। संलीनमीनविहगा नलिन्यश्शुष्कपङ्कजाः।।3.23.13।। तस्मिन् क्षणे बभूवुश्च विना पुष्पफलैर्द्रुमाः। Aranya Kanda,23,14,उद्धूतश्च विना वातं रेणुर्जलधरारुणः।।3.23.14।। वीचीकूचीति वाश्यन्त्यो बभूवुस्तत्र शारिकाः। Aranya Kanda,23,15,उल्काश्चापि सनिर्घाता निपेतुर्घोरदर्शनाः।।3.23.15।। प्रचचाल मही सर्वा सशैलवनकानना। Aranya Kanda,23,16,खरस्य च रथस्थस्य नर्दमानस्य धीमतः।।3.23.16।। प्राकम्पत भुजस्सव्यस्स्वरश्चास्यावसज्जत। Aranya Kanda,23,17,सास्रा सम्पद्यते दृष्टिः पश्यमानस्य सर्वतः।।3.23.17।। ललाटे च रुजा जाता न च मोहान्यवर्तत। Aranya Kanda,23,18,तान्समीक्षय महोत्पातानुत्थितान्रोमहर्षणान्।।3.23.18।। अब्रवीद्राक्षसान्सर्वान्प्रहसन्सखरस्तदा। Aranya Kanda,23,19,महोत्पातानिमान्सर्वानुत्थितान्घोरदर्शनान्।।3.23.19।। न चिन्तयाम्यहं वीर्याद्बलवान्दुर्बलानिव। Aranya Kanda,23,20,तारा अपि शरैस्तीक्ष्णैः पातयामि नभस्स्थलात्।।3.23.20।। मृत्युं मरणधर्मेण सङ्क्रुद्धो योजयाम्यहम्। Aranya Kanda,23,21,राघवं तं बलोत्सिक्तं भ्रातरं चास्य लक्ष्मणम्।।3.23.21।। अहत्वा सायकैस्तीक्ष्णैर्नोपावर्तितुमुत्सहे। Aranya Kanda,23,22,सकामा भगिनी मेऽस्तु पीत्वा तु रुधिरं तयोः।।3.23.22।। यन्निमित्तस्तु रामस्य लक्ष्मणस्य विपर्ययः। Aranya Kanda,23,23,न क्वचित्प्राप्तपूर्वो मे संयुगेषु पराजयः।।3.23.23।। युष्माकमेतत्प्रत्यक्षं नानृतं कथयाम्यहम्। Aranya Kanda,23,24,देवराजमपि क्रुद्धो मत्तैरावतयायिनम्।।3.23.24।। वज्रहस्तं रणे हन्यां किं पुनस्तौ कुमानुषौ। Aranya Kanda,23,25,सा तस्य गर्जितं श्रुत्वा राक्षसस्य महाचमूः।।3.23.25।। प्रहर्षमतुलं लेभे मृत्युपाशावपाशिता। Aranya Kanda,23,26,समीयुश्च महात्मानो युद्धदर्शनकाङ्क्षिणः।।3.23.26।। ऋषयो देवगन्दर्वास्सिद्धाश्च सहचारणैः। Aranya Kanda,23,27,समेत्य चोचुस्सहितास्तेऽन्योन्यं पुण्यकर्मणः। स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकानां येऽभिसङ्गताः।।3.23.27।। Aranya Kanda,23,28,जयतां राघवस्संख्ये पौलस्त्यान् रजनीचरान्।।3.23.28।। चक्रहस्तो यथा युद्धे सर्वानसुरपुङ्गवान्। Aranya Kanda,23,29,एतच्चान्यच्च बहुशो ब्रुवाणाः परमर्षयः।।3.23.29।। Aranya Kanda,23,30,जातकौतूहलास्तत्र विमानस्थाश्च देवताः। ददृशुर्वाहिनीं तेषां राक्षसानां गतायुषाम्।।3.23.30।। Aranya Kanda,23,31,रथेन तु खरो वेगादुग्रसैन्यो विनिस्सृतः। तं दृष्ट्वा राक्षसं भूयो राक्षसाश्च विनिस्सृताः।।3.23.31।। Aranya Kanda,23,32,श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहङ्गमः। दुर्जयः करवीराक्षः परुषः कालकार्मुकः।।3.23.32।। Aranya Kanda,23,33,मेघमाली महामाली सर्वास्यो रुधिराशनः। द्वादशैते महावीर्याः प्रतस्थुरभितः खरम्।।3.23.33।। Aranya Kanda,23,34,महाकपालिस्स्थूलाक्षः प्रमाथी त्रिशिरास्तथा। चत्वार एते सेनान्यो दूषणं पृष्ठतो ययुः।।3.23.34।। Aranya Kanda,23,35,सा भीमवेगा समराभिकामा महाबला राक्षसवीरसेना। तौ राजपुत्रौ सहसाभ्युपेता माला ग्रहाणामिव चन्द्रसूर्यौ।।3.23.35।। Aranya Kanda,24,1,आश्रमं प्रति याते तु खरे खरपराक्रमे। तानेवौत्पातिकान्रामस्सह भ्रात्रा ददर्श ह।।3.24.1।। Aranya Kanda,24,2,तानुत्पातान्महोघोरानुत्थितान्रोमहर्षणान्। प्रजानामहितान्दृष्ट्वा रामो लक्ष्मणमब्रवीत्।।3.24.2।। Aranya Kanda,24,3,इमान्पश्य महाबाहो सर्वभूतापहारिणः। समुत्थितान्महोत्पातान्संहर्तुं सर्वराक्षसान्।।3.24.3।। Aranya Kanda,24,4,अमी रुधिरधारास्तु विसृजन्तः खरस्वनाः। व्योम्नि मेघा विवर्तन्ते परुषा गर्दभारुणाः।।3.24.4।। Aranya Kanda,24,5,सधूमाश्च शरास्सर्वे मम युद्धाभिनन्दिनः। रुक्मपृष्ठानि चापानि विचेष्टन्ते च लक्ष्मण।।3.24.5।। Aranya Kanda,24,6,यादृशा इह कूजन्ति पक्षिणः वनचारिणः। अग्रतो नो भयं प्राप्तं संशयो जीवितस्य च।।3.24.6।। Aranya Kanda,24,7,सम्प्रहारस्तु सुमहान्भविष्यति न संशयः। अयमाख्याति मे बाहुस्स्फुरमाणो मुहुर्मुहुः।।3.24.7।। Aranya Kanda,24,8,सन्निकर्षे तु न श्शूर जयं शत्रोः पराजयम्। सप्रभं च प्रसन्नं च तव वक्त्रं हि लक्ष्यते।।3.24.8।। Aranya Kanda,24,9,उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मण। निष्प्रभं वदनं तेषां भवत्यायुः परिक्षयः।।3.24.9।। Aranya Kanda,24,10,रक्षसां नर्दतां घोरश्श्रूयते च महाध्वनिः। आहतानां च भेरीणां राक्षसैः क्रूरकर्मभिः।।3.24.10।। Aranya Kanda,24,11,अनागतविधानं तु कर्तव्यं शुभमिच्छता। आपदं शङ्कमानेन पुरुषेण विपश्चिता।।3.24.11।। Aranya Kanda,24,12,तस्माद्गृहीत्वा वैदेहीं शरपाणिर्धनुर्धरः। गुहामाश्रय शैलस्य दुर्गां पादपसङ्कुलाम्।।3.24.12।। Aranya Kanda,24,13,प्रतिकूलितुमिच्छामि न हि वाक्यमिदं त्वया। शापितो मम पादाभ्यां गम्यतां वत्स मा चिरम्।।3.24.13।। Aranya Kanda,24,14,त्वं हि शूरश्च बलवान्हन्याह्येतान्न संशयः। स्वयं तु हन्तुमिच्छामि सर्वानेव निशाचरान्।।3.24.14।। Aranya Kanda,24,15,एवमुक्तस्तु रामेण लक्ष्मणस्सह सीताया। शरानादाय चापं च गुहां दुर्गां समाश्रयत्।।3.24.15।। Aranya Kanda,24,16,तस्मिन्प्रविष्टे तु गुहां लक्ष्मणे सह सीतया। हन्त निर्युक्तमित्युक्त्वा रामः कवचमाविशत्।।3.24.16।। Aranya Kanda,24,17,स तेनाग्नि निकाशेन कवचेन विभूषितः। बभूव राम स्तिमिरे विधूमोऽग्निरिवोत्थितः।।3.24.17।। Aranya Kanda,24,18,स चापमुद्यम्य महच्छरानादाय वीर्यवान्। बभूवावस्थितस्तत्र ज्यास्वनैः पूरयन्दिशः।।3.24.18।। Aranya Kanda,24,19,ततो देवास्सगन्धर्वास्सिद्धाश्च सह चारणैः। समेयुश्च महात्मानो युद्धदर्शनकाङ्क्षिणः।।3.24.19।। Aranya Kanda,24,20,ऋषयश्च महात्मानो लोके ब्रह्मर्षिसत्तमाः। समेत्य चोचुस्सहिता अन्योन्यं पुण्यकर्मणः।।3.24.20।। Aranya Kanda,24,21,स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकानां येऽभिसङ्गताः। जयतां राघवो युद्धे पौलस्त्यान् रजनीचरान्।।3.24.21।। चक्रहस्तो यथा युद्धे सर्वानसुर पुङ्गवान्। Aranya Kanda,24,22,एवमुक्त्वा पुनः प्रोचुरालोक्य च परस्परम्।।3.24.22।। Aranya Kanda,24,23,चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्। एकश्च रामो धर्मात्मा कथं युद्धं भविष्यति।।3.24.23।। Aranya Kanda,24,24,इति राजर्षयस्सिद्धास्सगणाश्च द्विजर्षभाः। जातकौतूहलास्तस्थुर्विमानस्थाश्च देवताः।।3.24.24।। Aranya Kanda,24,25,आविष्टं तेजसा रामं सङ्ग्रामशिरसि स्थितम्। दृष्ट्वा सर्वाणि भूतानि भयाद्विव्यथिरे तदा।।3.24.25।। Aranya Kanda,24,26,रूपमप्रतिमं तस्य रामस्याक्लिष्टकर्मणः। बभूव रूपं क्रुद्धस्य रुद्रस्येव पिनाकिनः।।3.24.26।। Aranya Kanda,24,27,ततो गम्भीरनिर्ह्रादं घोरवर्मायुधध्वजम्। अनीकं यातुधानानां समन्तात्प्रत्यदृश्यत।।3.24.27।। Aranya Kanda,24,28,सिंहनादं विसृजतामन्योन्यमभिगर्जताम्। चापानि विस्फ़ारयतां जृम्भतामप्यभीक्ष्णशः।।3.24.28।। Aranya Kanda,24,29,विप्रघुष्टस्वनानां च दुन्धुभींश्चापि निघ्नताम्। तेषां सुतुमुलश्शब्दः पूरयामास तद्वनम्।।3.24.29।। Aranya Kanda,24,30,तेन शब्देन वित्रस्ताश्वापदा वनचारिणः। दुद्रुवुर्यत्र निश्शब्दं पृष्ठतो न व्यलोकयन्।।3.24.30।। Aranya Kanda,24,31,तत्त्वनीकं महाघोरं रामं समुपसर्पत। धृतनानाप्रहरणं गम्भीरं सागरोपमम्।।3.24.31।। Aranya Kanda,24,32,रामोऽपि चारयंश्चक्षुस्सर्वतो रणपण्डितः। ददर्श खरसैन्यं तद्युद्धाभिमुखमुत्थितम्।।3.24.32।। Aranya Kanda,24,33,वितत्य च धनुर्भीमं तूण्याश्चोद्धृत्य सायकान्। क्रोधमाहारयत्तीव्रं वधार्थं सर्वरक्षसाम्।।3.24.33।। Aranya Kanda,24,34,दुष्प्रेक्ष्यस्सोऽभवत्कृद्धो युगान्ताग्निरिव ज्वलन्। तं दृष्ट्वा तेजसाविष्टं प्राद्रवन्वनदेवताः।।3.24.34।। Aranya Kanda,24,35,तस्य क्रुद्धस्य रूपं तु रामस्य ददृशे तदा। दक्षस्येव क्रतुं हन्तुमुद्यतस्य पिनाकिनः।।3.24.35।। Aranya Kanda,24,36,आविष्टं तेजसा रामं सङ्ग्रामशिरसि स्थितम्। दृष्ट्वा सर्वाणि भूतानि भयार्तानि प्रदुद्रुवुः।।3.24.36।। Aranya Kanda,24,37,तत्कार्मुकैराभरणैर्ध्वजैश्च तैर्वर्मभिश्चाग्निसमानवर्णैः। बभूव सैन्यं पिशिताशनानां सूर्योदये नीलमिवाभ्रबृन्दम्।।3.24.37।। Aranya Kanda,25,1,अवष्टब्धधनुं रामं क्रुद्धं च रिपुघातिनम्। ददर्शाऽश्रममागम्य खरस्सह पुरस्सरैः।।3.25.1।। Aranya Kanda,25,2,तं दृष्ट्वा सशरं चापमुद्यम्य खरनिस्स्वनम्। रामस्याभिमुखं सूतं चोद्यतामित्यचोदयत्।।3.25.2।। Aranya Kanda,25,3,स खरस्याज्ञया सूतस्तुरगान् समचोदयत्। यत्र रामो महाबाहुरेको चुन्वन्स्थितो धनुः।।3.25.3।। Aranya Kanda,25,4,तं तु निष्पतितं दृष्ट्वा सर्वे ते रजनीचराः। नर्दमाना महानादं सचिवाः पर्यवारयन्।।3.25.4।। Aranya Kanda,25,5,स तेषां यातुधानानां मध्ये रथगतः खरः। बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः।।3.25.5।। Aranya Kanda,25,6,ततश्शरसहस्रेण राममप्रतिमौजसम्। अर्दयित्वा महानादं ननाद समरे खरः।।3.25.6।। Aranya Kanda,25,7,ततस्तं भीमधन्वानं क्रुद्धाः सर्वे निशाचराः। रामं नानाविधैः शस्स्रैरभ्यवर्षन्त दुर्जयम्।।3.25.7।। Aranya Kanda,25,8,मुद्गरैः पट्टसैश्शूलैः प्रासैः खङ्गै परश्वथैः। राक्षसास्समरे रामं निजघ्नू रोषतत्पराः।।3.25.8।। Aranya Kanda,25,9,ते वलाहसङ्काशा महानादा महौजसः। अभ्यधावन्त काकुत्स्थं रथैर्वाजिभिरेव च।।3.25.9।। गजैः पर्वतकूटाभै रामं युद्धे जिघांसवः। Aranya Kanda,25,10,ते रामे शरवर्षाणि व्यसृजन् रक्षसां गणाः।।3.25.10।। शैलेन्द्रमिव धाराभिर्वर्षमाणा वलाहकाः। Aranya Kanda,25,11,स तैः परिवृतो घोरैः राघवो रक्षसां गणैः।।3.25.11।। तिथिष्वि महादेवो वृत परिषदाङ्गणै Aranya Kanda,25,12,तानि मुक्तानि शस्त्राणि यातुधानैस्सराघवः। प्रतिजग्राह विशिखैर्नद्योघानिव सागरः।।3.25.12।। Aranya Kanda,25,13,स तैः प्रहरणैर्घोरैर्भिन्नगात्रो न विव्यथे। रामः प्रदीप्तैर्बहुभिर्वज्रैरिव महाचलः।।3.25.13।। Aranya Kanda,25,14,स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः। बभूव रामः सन्ध्याभ्रैर्दिवाकर इवावृतः।।3.25.14।। Aranya Kanda,25,15,विषेदुर्देवगन्धर्वास्सिद्धाश्च परमर्षयः। एकं सहस्रैर्भहुभिस्तदा दृष्ट्वा समावृतम्।।3.25.15।। Aranya Kanda,25,16,ततो रामस्सुसङ्कृद्धो मण्डलीकृतकार्मुकः। ससर्ज विशिखान्बाणाञ्छतशोऽथ सहस्रश।।3.25.16।। Aranya Kanda,25,17,दुरावारान्दुर्विषहान्कालदण्डोपमान् रणे। मुमोच लीलया रामः कङ्कपत्रानजिह्मगान्।।3.25.17।। Aranya Kanda,25,18,ते शराश्शत्रुसैन्येषु मुक्ता रामेण लीलया। अददू रक्षसां प्राणान्पाशाः कालकृता इव।।3.25.18।। Aranya Kanda,25,19,भित्त्वा राक्षसदेहां स्तांस्ते शरा रुधिराप्लुताः। अन्तरिक्षगता रेजुर्दीप्ताग्निसमतेजसः।।3.25.19।। Aranya Kanda,25,20,असङ्ख्येयास्तु रामस्य सायकाश्चापमण्डलात्। विनिष्पेतुरतीवोग्रा रक्षःप्राणापहारिणः।।3.25.20।। Aranya Kanda,25,21,तैर्धनूंषि ध्वजाग्राणि वर्माणि च शिरांसि च। बाहून्सहस्ताभरणानूरून्करिकरोपमान्।।3.25.21।। चिच्छेद रामस्समरे शतशोऽथ सहस्रशः। Aranya Kanda,25,22,हयान्काञ्चनसन्नाहान्रथयुक्तान्ससारथीन्।।3.25.22।। Aranya Kanda,25,23,गजांश्च सगजारोहान्सहयान्सादिनस्तथा। पदातीन्समरे हत्वा ह्यनयद्यमसादनम्।।3.25.23।। Aranya Kanda,25,24,ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः। भीममार्तस्वरं चक्रुर्भिद्यमाना निशाचराः।।3.25.24।। Aranya Kanda,25,25,तत्सैन्यं निशितैर्बाणैरर्दितं मर्मभेदिभिः। रामेण न सुखं लेभे शुष्कं वनमिवाग्निना।।3.25.25।। Aranya Kanda,25,26,केचिद्भीमबलाश्शूराश्शूलान्खङ्गान्परश्वधान्। रामस्याभिमुखं गत्वा चिक्षिपुः परमायुधान्।।3.25.26।। Aranya Kanda,25,27,तानि बाणैर्महाबाहुश्शस्त्राण्यावार्य राघवः। जहार समरे प्राणांश्चिच्छेद च शिरोधरान्।।3.25.27।। Aranya Kanda,25,28,ते छिन्नशिरसः पेतुश्चिन्नवर्मशरासनाः। सुपर्णवातविक्षिप्ता जगत्यां पादपा यथा।।3.25.28।। Aranya Kanda,25,29,अवशिष्टाश्च ये तत्र विषण्णाश्च निशाचराः। खरमेवाभ्यधावन्त शरणार्थं शरार्दिताः।।3.25.29।। Aranya Kanda,25,30,तान्सर्वान्पुनरादाय समाश्वास्य च दूषणः। अभ्यधावत काकुत्स्थं क्रुद्धो रुद्रमिवान्तकः।।3.25.30।। Aranya Kanda,25,31,निवृत्तास्तु पुनस्सर्वे दूषणाश्रयनिर्भयाः। राममेवाभ्यधावन्त सालतालशिलायुधाः।।3.25.31।। Aranya Kanda,25,32,शूलमुद्गरहस्ताश्च चापहस्ता महाबलाः। सृजन्तश्शरवर्षाणि शस्त्रवर्षाणि संयुगे।।3.25.32।। द्रुमवर्षाणि मुञ्चन्तश्शिलावर्षाणि राक्षसाः।। Aranya Kanda,25,33,तद्बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम्। रामस्य च महाघोरं पुनस्तेषां च रक्षसाम्।।3.25.33।। Aranya Kanda,25,34,ते समन्तादतिक्रुद्धा राघवं पुनरभ्ययुः।।3.25.34।। Aranya Kanda,25,35,तैश्च सर्वा दिशो दृष्ट्वा प्रदिशश्च समावृताः। राक्षसैरुद्यतप्रासैश्शरवर्षाभिवर्षिभिः।।3.25.35।। Aranya Kanda,25,36,स कृत्वा भैरवं नादमस्त्रं परमभास्वरम्। संयोजयत गान्धर्वं राक्षसेषु महाबलः।।3.25.36।। Aranya Kanda,25,37,ततश्शरसहस्राणि निर्ययुश्चापमण्डलात्। सर्वा दश दिशो बाणैरावार्यन्त समागतैः।।3.25.37।। Aranya Kanda,25,38,नाददानं शरान्घोरान्नमुञ्चन्तं शिलीमुखान्। विकर्षमाणं पश्यन्ति राक्षसास्ते शरार्दिताः।।3.25.38।। Aranya Kanda,25,39,शरान्धकारमाकाशमावृणोत्सदिवाकरम्। बभूवावस्थितो रामः प्रवमन्निव ताञ्छरान्।।3.25.39।। Aranya Kanda,25,40,युगपत्पतमानैश्च युगपच्च हतैर्भृशम्। युगपत्पतितैश्चैव विकीर्णा वसुधा भवत्।।3.25.40।। Aranya Kanda,25,41,निहताः पतिताः क्षीणाश्छिन्ना भिन्ना विदारिताः। तत्र तत्र स्म दृश्यन्ते राक्षसास्ते सहस्रशः।।3.25.41।। Aranya Kanda,25,42,सोष्णीषैरुत्तमाङ्गैश्च साङ्गदैर्बाहुभिस्तथा। ऊरुभिर्जानुभिश्छिन्नैर्नानारूपैविभूषणैः।।3.25.42।। Aranya Kanda,25,43,हयैश्च द्विपमुख्यैश्च रथैर्भिन्नैरनेकशः। चामरैर्व्यजनैश्छत्रैर्ध्वजैर्नानाविधैरपि।।3.25.43।। Aranya Kanda,25,44,रामस्य बाणाभिहतैर्विचित्रैश्शूलपट्टिसैः। खङ्गै खण्डीकृतैः प्रासैर्विकीर्णैश्च परश्वधैः।।3.25.44।। Aranya Kanda,25,45,चूर्णिताभिश्शिलाभिश्च शरैश्चित्रैरनेकशः। विच्छिन्नैस्समरे भूमिर्विकीर्णाऽभूद्भयङ्करा।।3.25.45।। Aranya Kanda,26,1,दूषणस्तु स्वकं सैन्यं हन्यमानं निरीक्ष्य सः। सन्दिदेश महाबाहुर्भीमवेगान्दुरासदान्।।3.26.1।। राक्षसान्पञ्चसहस्रान्समरेष्वनिवर्तिनः। Aranya Kanda,26,2,ते शूलैः पट्टिशैः खङ्गै शिलावर्षैर्द्रुमैरपि।।3.26.2।। शरवर्षैरविच्छिन्नं ववर्षुस्तं समन्ततः। Aranya Kanda,26,3,स दृमाणां शिलानां च वर्षं प्राणहरं महत्।।3.26.3।। प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः। Aranya Kanda,26,4,प्रतिगृह्य च तद्वर्षं निमीलित इवर्षभः।।3.26.4।। रामः क्रोधं परं भेजे वधार्थं सर्वरक्षसाम्। Aranya Kanda,26,5,ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा।।3.26.5।। शरैरवाकिरत्सैन्यं सर्वतस्सहदूषणम्। Aranya Kanda,26,6,ततस्सेनापतिः क्रुद्धो दूषणश्शत्रुदूषणः।।3.26.6।। शरैरशनिकल्पैस्तं राघवं समवाकिरत्। Aranya Kanda,26,7,ततो रामस्सुसङ्कृद्धः क्षुरेणास्य महद्धनुः।।3.26.7।। चिच्छेद समरे वीरश्चतुर्भिश्चतुरो हयान्। Aranya Kanda,26,8,हत्वा चाश्वान्शरैस्तीक्ष्णैरर्धचन्द्रेण सारथेः।।3.26.8।। शिरो जहार तद्रक्षस्त्रिभिर्विव्याध वक्षसि। Aranya Kanda,26,9,स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः।।3.26.9।। Aranya Kanda,26,10,जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम्। वेष्टितं काञ्चनैः पट्टैर्देवसैन्यप्रमर्दनम्।।3.26.10।। Aranya Kanda,26,11,आयसैश्शङ्कुभिस्तीक्ष्णैः कीर्णं परवसोक्षितम्। वज्राशनिसमस्पर्शं परगोपुरदारणम्।।3.26.11।। Aranya Kanda,26,12,तं महोरगसङ्काशं प्रगृह्य परिघं रणे। दूषणोऽभ्यद्रवद्रामं क्रूरकर्मा निशाचरः।।3.26.12।। Aranya Kanda,26,13,तस्याभिपतमानस्य दूषणस्य स राघवः। द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ।।3.26.13।। Aranya Kanda,26,14,भ्रष्टस्तस्य महाकायः पपात रणमूर्धनि। परिघश्छिन्नहस्तस्य शक्रध्वज इवाग्रतः।।3.26.14।। Aranya Kanda,26,15,स कराभ्यां विकीर्णाभ्यां पपात भुवि दूषणः। विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः।।3.26.15।। Aranya Kanda,26,16,तं दृष्ट्वा पतितं भूमौ दूषणं निहतं रणे। साधुसाध्विति काकुत्स्थं सर्वभूतान्यपूजयन्।।3.26.16।। Aranya Kanda,26,17,एतस्मिन्नन्तरे क्रुद्धास्त्रयः सेनाग्रयायिनः। संहृत्याभ्यद्रवन् रामं मृत्युपाशावपाशिताः।।3.26.17।। महाकपालः स्थूलाक्षः प्रमाथी च महाबलः। Aranya Kanda,26,18,महाकपालो विपुलं शूलमुद्यम्य राक्षसः।।3.26.18।। स्थूलाक्षः पट्टिसं गृह्य प्रमाथी च परश्वधम्। Aranya Kanda,26,19,दृष्ट्वैवापततस्तूर्णं राघवस्सायकैश्शितैः।।3.26.19।। तीक्ष्णाग्रैः प्रतिजग्राह सम्प्राप्तानतिथीनिव। Aranya Kanda,26,20,महाकपालस्य शिरश्चिच्छेद परमेषुभिः।।3.26.20।। Aranya Kanda,26,21,असङ्ख्येयैस्तु बाणौघैः प्रममाथ प्रमाथिनम्। स पपात हतो भूमौ विटपीव महाद्रुमः।।3.26.21।। Aranya Kanda,26,22,स्थूलाक्षस्याक्षिणी तीक्ष्णैः पूरयामास सायकैः। दूषणस्यानुगान्पञ्चसहस्रान्कुपितः क्षणात्।।3.26.22।। बाणौघैः पञ्चसाहस्रैरनयद्यमसादनम्। Aranya Kanda,26,23,दूषणं निहतं दृष्ट्वा तस्य चैव पदानुगान्।।3.26.23।। व्यादिदेश खरः क्रुद्धः सेनाध्यक्षान्महाबलान्। Aranya Kanda,26,24,अयं विनिहतस्संख्ये दूषणस्सपदानुगः।।3.26.24।। Aranya Kanda,26,25,महत्या सेनया सार्धं युद्ध्वा रामं कुमानुषम्। शस्त्रैर्नानाविधाकारैर्हनध्वं सर्वराक्षसाः।।3.26.25।। Aranya Kanda,26,26,एवमुक्त्वा खरः क्रुद्धो राममेवाभिदुद्रुवे। श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहङ्गमः।।3.26.26।। Aranya Kanda,26,27,दुर्जयः करवीराक्षः परुषः कालकार्मुकः। मेघमाली महामाली सर्पास्यो रुधिराशनः।।3.26.27।। Aranya Kanda,26,28,द्वादशैते महावीर्या बलाध्यक्षास्ससैनिकाः। राममेवाभ्यधावन्त विसृजन्तश्शरोत्तमान्।।3.26.28।। Aranya Kanda,26,29,ततः पावकसङ्काशैर्हेमवज्रविभूषितैः। जघान शेषं तेजस्वी तस्य सैन्यस्य सायकैः।।3.26.29।। Aranya Kanda,26,30,ते रुक्मपुङ्खा विशिखास्सधूमा इव पावकाः। निजघ्नुस्तानि रक्षांसि वज्रा इव महाद्रुमान्।।3.26.30।। Aranya Kanda,26,31,रक्षसां तु शतं रामश्शतेनैकेन कर्णिना। सहस्रं च सहस्रेण जघान रणमूर्धनि।।3.26.31।। Aranya Kanda,26,32,तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः। निपेतुश्शोणितादिग्धा धरण्यां रजनीचराः।।3.26.32।। Aranya Kanda,26,33,तैर्मुक्तकेशैस्समरे पतितैश्शोणितोक्षितैः। आस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव।।3.26.33।। Aranya Kanda,26,34,क्षणेन तु महाघोरं वनं निहतराक्षसम्। बभूव निरयप्रख्यं मांसशोणितकर्दमम्।।3.26.34।। Aranya Kanda,26,35,चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्। हतान्येकेन रामेण मानुषेण पदातिना।।3.26.35।। Aranya Kanda,26,36,तस्य सैन्यस्य सर्वस्य खरश्शेषो महारथः। राक्षसस्त्रिशिराश्चैव रामश्च रिपुसूदनः।।3.26.36।। Aranya Kanda,26,37,शेषा हता महासत्वा राक्षसा रणमूर्धनि। घोरा दुर्विषहाः सर्वे लक्ष्मणस्याग्रजेन ते।।3.26.37।। Aranya Kanda,26,38,ततस्तु तद्भीमबलं महाहवे समीक्ष्य रामेण हतं बलीयसा। रथेन रामं महता खरस्तदा समाससादेन्द्र इवोद्यताशनिः।।3.26.38।। Aranya Kanda,27,1,खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः। राक्षसस्त्रिशिरा नाम सन्निपत्येदमब्रवीत्।।3.27.1।। Aranya Kanda,27,2,मां नियोजय विक्रान्त सन्निवर्तस्व साहसात्। पश्य रामं महाबाहुं संयुगे विनिपातितम्।।3.27.2।। Aranya Kanda,27,3,प्रतिजानामि ते सत्यमायुधं चाहमालभे। यथा रामं वधिष्यामि वधार्हं सर्वरक्षसाम्।।3.27.3।। Aranya Kanda,27,4,अहं वास्य रणे मृत्युरेष वा समरे मम। विनिवृत्य रणोत्साहान्मुहूर्तं प्राश्निको भव।।3.27.4।। Aranya Kanda,27,5,प्रहृष्टो वा हते रामे जनस्थानं प्रयास्यसि। मयि वा निहते रामं संयुगायोपयास्यसि।।3.27.5।। Aranya Kanda,27,6,खरस्त्रिशिरसा तेन मृत्युलोभात्प्रसादितः। गच्छ युध्येत्यनुज्ञातो राघवाभिमुखो ययौ।।3.27.6।। Aranya Kanda,27,7,त्रिशिराश्च रथेनैव वाजियुक्तेन भास्वता। अभ्यद्रवद्रणे रामं त्रिशृङ्ग इव पर्वतः।।3.27.7।। Aranya Kanda,27,8,शरधारासमूहान्स महामेघ इवोत्सृजन्। व्यसृजत्सदृशं नादं जलार्द्रस्य तु दुन्दुभेः।।3.27.8।। Aranya Kanda,27,9,आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः। धनुषा प्रतिजग्राह विधुन्वन्सायकान् शितान्।।3.27.9।। Aranya Kanda,27,10,स सम्प्रहारस्तुमुलो रामत्रिशिरसोर्महान्। बभूवातीव बलिनोस्सिंहकुञ्जरयोरिव।।3.27.10।। Aranya Kanda,27,11,ततस्त्रिशिरसा बाणैर्ललाटे ताडितस्त्रिभिः। अमर्षी कुपितोरामस्संरब्धमिदमब्रवीत्।।3.27.11।। Aranya Kanda,27,12,अहो विक्रमशूरस्य राक्षसस्येदृशं बलम्। पुष्पैरिव शरैर्यस्य ललाटेऽस्मिन्परिक्षतः।।3.27.12।। Aranya Kanda,27,13,ममापि प्रतिगृह्णीष्व शरांश्चापगुणाच्च्युतान्। एवमुक्त्वा तु संरब्धश्शरानाशीविषोपमान्।3.27.13।। त्रिशिरोवक्षसि क्रुद्धो निजघान चतुर्दश। Aranya Kanda,27,14,चतुर्भिस्तुरगानस्य शरैः सन्नतपर्वभिः।।3.27.14।। न्यपातयत तेजस्वी चतुरस्तस्य वाजिनः। Aranya Kanda,27,15,अष्टभिस्सायकैस्सूतं रथोपस्थान्न्यपातयत्।।3.27.15।। रामश्चिच्छेद बाणेन ध्वजं चास्य समुच्छ्रितम्। Aranya Kanda,27,16,ततो हतरथात्तस्मादुत्पतन्तं निशाचरम्।।3.27.16।। बिभेद रामस्तं बाणैर्हृदये सोऽभवज्जडः। Aranya Kanda,27,17,सायकैश्चाप्रमेयात्मा सामर्षस्तस्य रक्षसः।।3.27.17।। शिरांस्यपातयद्रामो वेगवद्भिस्त्रिभिश्शितैः। Aranya Kanda,27,18,स भूमौ रुधिरोद्गारी रामबाणाभिपीडितः।।3.27.18।। न्यपतत्पतितैः पूर्वं स्वशिरोभिर्निशाचरः। Aranya Kanda,27,19,हतशेषास्ततो भग्ना राक्षसाः खरसंश्रया।।3.27.19।। द्रवन्ति स्म न तिष्ठन्ति व्याघ्रत्रस्ता मृगा इव। Aranya Kanda,27,20,तान्खरो द्रवतो दृष्ट्वा निवर्त्य रुषितस्स्वयम्।।3.27.20।। राममेवाभिदुद्राव राहुश्चन्द्रमसं यथा। Aranya Kanda,28,1,निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह। खरस्याप्यभवत्त्रासो दृष्ट्वा रामस्य विक्रमम्।।3.28.1।। Aranya Kanda,28,2,स दृष्ट्वा राक्षसं सैन्यमविसह्यं महाबलः। हतमेकेन रामेण त्रिशिरोदूषणावपि।।3.28.2।। Aranya Kanda,28,3,तद्बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः। आससाद खरो रामं नमुचिर्वासवं यथा।।3.28.3।। Aranya Kanda,28,4,विकृष्य बलवच्चापं नाराचान्रक्तभोजनान्। खरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव।।3.28.4।। Aranya Kanda,28,5,ज्यां विधून्वंसुबहुशश्शिक्षयास्त्राणि दर्शयन्। चचार समरे मार्गाञ्छरै रथगतः खरः।।3.28.5।। Aranya Kanda,28,6,स सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः। पूरयामास तं दृष्ट्वा रामोऽपि सुमहद्धनुः।।3.28.6।। Aranya Kanda,28,7,स सायकैर्दुर्विसहैस्सस्फुलिङ्गैरिवाग्निभिः। नभश्चकाराविवरं पर्जन्य इव वृष्टिभिः।।3.28.7।। Aranya Kanda,28,8,तद्बभूव शितैर्बाणैः खररामविसर्जितैः। पर्याकाशमनाकाशं सर्वतश्शरसङ्कुलम्।।3.28.8।। Aranya Kanda,28,9,शरजालावृतस्सूर्यो न तदा स्म प्रकाशते। अन्योन्यवधसंरम्भादुभयोस्संप्रयुध्यतोः।।3.28.9।। Aranya Kanda,28,10,ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः। आजघान खरो रामं तोत्रैरिव महाद्विपम्।।3.28.10।। Aranya Kanda,28,11,तं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम्। ददृशुस्सर्वभूतानि पाशहस्तमिवान्तकम्।।3.28.11।। Aranya Kanda,28,12,हन्तारं सर्वसैन्यस्य पौरुषे पर्यवस्थितम्। परिश्रान्तं महासत्वं मेने रामं खरस्तदा।।3.28.12।। Aranya Kanda,28,13,तं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम्। दृष्ट्वा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा।।3.28.13।। Aranya Kanda,28,14,ततः सूर्यनिकाशेन रथेन महता खरः। आससाद रणे रामं पतङ्ग इव पावकम्।।3.28.14।। Aranya Kanda,28,15,ततोऽस्य सशरं चापं मुष्टिदेशे महात्मनः। खरश्चिच्छेद रामस्य दर्शयन्पाणिलाघवम्।।3.28.15।। Aranya Kanda,28,16,स पुनस्त्वपरान्सप्त शरानादाय वर्मणि। निजघान खरः क्रुद्धश्शक्राशनिसमप्रभान्।।3.28.16।। Aranya Kanda,28,17,ततस्तत्प्रहतं बाणैः खरमुक्तैस्सुपर्वभिः। पपात कवचं भूमौ रामस्यादित्यवर्चसः।।3.28.17।। Aranya Kanda,28,18,ततश्शरसहस्रेण राममप्रतिमौजसम्। अर्दयित्वा महानादं ननाद समरे खरः।।3.28.18।। Aranya Kanda,28,19,स शरैरर्दितः क्रुद्धस्सर्वगात्रेषु राघवः। रराज समरे रामो विधूमोऽग्निरिव ज्वलन्।।3.28.19।। Aranya Kanda,28,20,ततो गम्भीरनिर्ह्रादं रामश्शत्रुनिबर्हणः। चकारान्ताय स रिपोस्सज्यमन्यन्महद्धनुः।।3.28.20।। Aranya Kanda,28,21,सुमहद्वैष्णवं यत्तदतिसृष्टं महर्षिणा। वरं तद्धनुरुद्यम्य खरं समभिधावत।।3.28.21।। Aranya Kanda,28,22,ततः कनकपुङ्खैस्तु शरैस्सन्नतपर्वभिः। बिभेद रामस्सङ्क्रुद्धः खरस्य समरे ध्वजम्।।3.28.22।। Aranya Kanda,28,23,स दर्शनीयो बहुधा विकीर्णः काञ्चनध्वजः। जगाम धरणीं सूर्यो देवतानामिवाज्ञया।।3.28.23।। Aranya Kanda,28,24,तं चतुर्भिः खरः क्रुद्धो रामं गात्रेषु मार्गणैः। विव्याध युधि मर्मज्ञो मातङ्गमिव तोमरैः।।3.28.24।। Aranya Kanda,28,25,स रामो बहुभिर्बाणैः खरकार्मुकनिस्सृतैः। विद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम्।।3.28.25।। Aranya Kanda,28,26,स धनुर्धन्विनां श्रेष्ठः प्रगृह्य परमाहवे। मुमोच परमेष्वासष्षट्छरानभिलक्षितान्।।3.28.26।। Aranya Kanda,28,27,शिरस्येकेन बाणेन द्वाभ्यां बह्वोरथार्दयत्। त्रिभिश्चन्द्रार्धवक्त्रैश्च वक्षस्यभिजघान ह।।3.28.27।। Aranya Kanda,28,28,ततः पश्चान्महातेजा नाराचान्भास्करोपमान्। जिघांसू राक्षसङ्कृद्धस्त्रयोदश समाददे।।3.28.28।। Aranya Kanda,28,29,ततोऽस्य युगमेकेन चतुर्भिश्चतुरो हयान्। षष्ठेन तु शिरस्सङ्ख्ये खरस्य रथसारथेः।।3.28.29।। Aranya Kanda,28,30,त्रिभिस्त्रिवेणुं बलवान्द्वाभ्यामक्षं महाबलः। द्वादशेन तु बाणेन खरस्य सशरं धनुः।।3.28.30।। Aranya Kanda,28,31,छित्वा वज्रनिकाशेन राघवः प्रहसन्निव। त्रयोदशेनेन्द्रसमो बिभेद समरे खरम्।।3.28.31।। Aranya Kanda,28,32,प्रभग्नधन्वा विरथो हताश्वो हतसारथिः। गदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा।।3.28.32।। Aranya Kanda,28,33,तत्कर्म रामस्य महारथस्य समेत्य देवाश्च महर्षयश्च। अपूजयन्प्राञ्जलयः प्रहृष्टाः तदा विमानाग्रगतास्समेताः।।3.28.33।। Aranya Kanda,29,1,खरं तु विरथं रामो गदापाणिमवस्थितम्। मृदुपूर्वं महातेजाः परुषं वाक्यमब्रवीत्।।3.29.1।। Aranya Kanda,29,2,गजाश्वरथसम्बाधे बले महति तिष्ठता। कृतं सुदारुणं कर्म सर्वलोकजुगुप्सितम्।।3.29.2।। Aranya Kanda,29,3,उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत्। त्रयाणामपि लोकानामीश्वरोऽपि न तिष्ठति।।3.29.3।। Aranya Kanda,29,4,कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर। तीक्ष्णं सर्वजनो हन्ति सर्पं दुष्टमिवागतम्।।3.29.4।। Aranya Kanda,29,5,लोभात्पापानि कुर्वाणः कामाद्वा यो न बुध्यते। भ्रष्टः पश्यति तस्यान्तं ब्राह्मणी करकादिव।।3.29.5।। Aranya Kanda,29,6,वसतो दण्डकारण्ये तापसान्धर्मचारिणः। किन्नु हत्वा महाभागान्फलं प्राप्स्यसि राक्षस।।3.29.6।। Aranya Kanda,29,7,न चिरं पापकर्माणः क्रूरा लोकजुगुप्सिताः। ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव द्रुमाः।।3.29.7।। Aranya Kanda,29,8,अवश्यं लभते जन्तुः फलं पापस्य कर्मणः। घोरं पर्यागते काले द्रुमाः पुष्पमिवार्तवम्।।3.29.8।। Aranya Kanda,29,9,नचिरात्प्राप्यते लोके पापानां कर्मणां फलम्। सविषाणामिवान्नानां भुक्तानां क्षणदाचर।।3.29.9।। Aranya Kanda,29,10,पापमाचरतां घोरं लोकस्याप्रियमिच्छताम्। अहमासादितो राजा प्राणान्हन्तुं निशाचर।।3.29.10।। Aranya Kanda,29,11,अद्य हि त्वां मया मुक्ताश्शराः काञ्चनभूषणाः। विदार्यातिपतिष्यन्ति वल्मीकमिव पन्नगाः।।3.29.11।। Aranya Kanda,29,12,ये त्वया दण्डकारण्ये भक्षिता धर्मचारिणः। तानद्य निहतस्सङ्ख्ये ससैन्योऽनुगमिष्यसि।।3.29.12।। Aranya Kanda,29,13,अद्य त्वां निहतं बाणैः पश्यन्तु परमर्षयः। निरयस्थं विमानस्था ये त्वया हिंसिताः पुरा।।3.29.13।। Aranya Kanda,29,14,प्रहर त्वं यथाकामं कुरु यत्नं कुलाधम। अद्य ते पातयिष्यामि शिरस्तालफलं यथा।।3.29.14।। Aranya Kanda,29,15,एवमुक्तस्तु रामेण कृद्धस्संरक्तलोचनः। प्रत्युवाच खरो रामं प्रहसन्क्रोधमूर्छितः।।3.29.15।। Aranya Kanda,29,16,प्राकृतान्राक्षसान्हत्वा युद्धे दशरथात्मज। आत्मना कथमात्मानमप्रशस्यं प्रशंससि।।3.29.16।। Aranya Kanda,29,17,विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः। कथयन्ति न ते किञ्चित्तेजसा स्वेन गर्विताः।।3.29.17।। Aranya Kanda,29,18,प्राकृतास्त्वकृतात्मानो लोके क्षत्रियपांसनाः। निरर्थकं विकत्थन्ते यथा राम विकत्थसे।।3.29.18।। Aranya Kanda,29,19,कुलं व्यपदिशन्वीरस्समरे कोऽभिधास्यति। मृत्युकाले हि सम्प्राप्ते स्वयमप्रस्तवे स्तवम्।।3.29.19।। Aranya Kanda,29,20,सर्वथैव लघुत्वं ते कत्थनेन विदर्शितम्। सुवर्णप्रतिरूपेण तप्तेनेव कुशाग्निना।।3.29.20।। Aranya Kanda,29,21,न तु मामिह तिष्ठन्तं पश्यसि त्वं गदाधरम्। धराधरमिवाकम्प्यं पर्वतं धातुभिश्चितम्।।3.29.21।। Aranya Kanda,29,22,पर्याप्तोऽहं गदापाणिर्हन्तुं प्राणान्रणे तव। त्रयाणामपि लोकानां पाशहस्त इवान्तकः।।3.29.22।। Aranya Kanda,29,23,कामं बह्वपि वक्तव्यं त्वयि वक्ष्यामि न त्वहम्। अस्तं गच्छेद्धि सविता युद्धविघ्नस्ततो भवेत्।।3.29.23।। Aranya Kanda,29,24,चतुर्दश सहस्राणि राक्षसानां हतानि ते। त्वद्विनाशात्करोम्येषां तेषामश्रुप्रमार्जनम्।।3.29.24।। Aranya Kanda,29,25,इत्युक्त्वा परमक्रुद्धस्तां गदां परमाङ्गदः। खरश्चिक्षेप रामाय प्रदीप्तामशनिं यथा।।3.29.25।। Aranya Kanda,29,26,खरबाहुप्रयुक्ता सा प्रदीप्ता महती गदा। भस्मवृक्षांश्च गुल्मांश्च कृत्वागात्तत्समीपतः।।3.29.26।। Aranya Kanda,29,27,तामापतन्तीं ज्वलतां मृत्युपाशोपमां गदाम्। अन्तरिक्षगतां रामचशिच्छेद बहुधा शरैः।।3.29.27।। Aranya Kanda,29,28,सा विकीर्णा शरैर्भग्ना पपात धरणीतले। गदा मन्त्रौषधबलैर्व्यालीव विनिपातिता।।3.29.28।। Aranya Kanda,30,1,भित्त्वा तु तां गदां बाणै राघवो धर्मवत्सलः। स्मयमानः खरं वाक्यं संरब्धमिदमब्रवीत्।।3.30.1।। Aranya Kanda,30,2,एतत्ते बलसर्वस्वं दर्शितं राक्षसाधम। शक्तिहीनतरो मत्तो वृथा त्वमवगर्जसि।।3.30.2।। Aranya Kanda,30,3,एषा बाणविनिर्भिन्ना गदा भूमितलं गता। अभिधानप्रगल्भस्य तव प्रत्ययघातिनी।।3.30.3।। Aranya Kanda,30,4,यत्त्वयोक्तं विनष्टानामहमश्रुप्रमार्जनम्। राक्षसानां करोमीति मिथ्या तदपि ते वचः।।3.30.4।। Aranya Kanda,30,5,नीचस्य क्षुद्रशीलस्य मिथ्यावृत्तस्य रक्षसः। प्राणानहं हरिष्यामि गरुत्मानमृतं यथा।।3.30.5।। Aranya Kanda,30,6,अद्य ते छिन्नकण्ठस्य फेनबुद्बुदभूषितम्। विदारितस्य मद्बाणैर्मही पास्यति शोणितम्।।3.30.6।। Aranya Kanda,30,7,पांसुरूषितसर्वाङ्गस्स्रस्तन्यस्त भुजद्वयः। स्वप्स्यसे गां समालिङ्ग्य दुर्लभां प्रमदामिव।।3.30.7।। Aranya Kanda,30,8,प्रबद्धनिद्रे शयिते त्वयि राक्षसपांसने। भविष्यन्तिशरण्यानां शरण्या दण्डका इमे।।3.30.8।। Aranya Kanda,30,9,जनस्थाने हतस्थाने तव राक्षस मच्छरैः। निर्भया विचरिष्यन्ति सर्वतो मुनयो वने।।3.30.9।। Aranya Kanda,30,10,अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाः। बाष्पार्द्रवदना दीना भयादन्यभयावहाः।।3.30.10।। Aranya Kanda,30,11,अद्य शोकरसज्ञास्ता भविष्यन्ति निरर्थकाः। अनुरूपकुलाः पत्न्यो यासां त्वं पतिरीदृशः।।3.30.11।। Aranya Kanda,30,12,नृशंस नीच क्षुद्रात्मन्नित्यं ब्राह्मणकण्टक। यत्कृते शङ्कितैरग्नौ मुनिभिः पात्यते हविः।।3.30.12।। Aranya Kanda,30,13,तमेवमभिसंरब्धं ब्रुवाणं राघवं रणे। खरो निर्भर्त्सयामास रोषात्खरतरस्वरः।।3.30.13।। Aranya Kanda,30,14,दृढं खल्ववलिप्तोऽसि भयेष्वपि च निर्भयः। वाच्यावाच्यं ततो हि त्वं मृत्युवश्यो न बुध्यसे।।3.30.14।। Aranya Kanda,30,15,कालपाशपरिक्षिप्ता भवन्ति पुरुषा हि ये। कार्याकार्यं न जानन्ति ते निरस्तषडिन्द्रियाः।।3.30.15।। Aranya Kanda,30,16,एवमुक्त्वा ततो रामं संरुध्य भ्रुकुटीं ततः। स ददर्श महासालमविदूरे निशाचरः।।3.30.16।। रणे प्रहरणस्यार्थे सर्वतो ह्यवलोकयन्। Aranya Kanda,30,17,स तमुत्पाटयामास संदश्य दशनच्छदम्।।3.30.17।। Aranya Kanda,30,18,तं समुत्क्षिप्य बाहुभ्यां विनद्य च महाबलः। राममुद्दिश्य चिक्षेप हतस्त्वमिति चाब्रवीत्।।3.30.18।। Aranya Kanda,30,19,तमापतन्तं बाणौघैच्छित्वा रामः प्रतापवान्। रोषमाहारयत्तीव्रं निहन्तुं समरे खरम्।।3.30.19।। Aranya Kanda,30,20,जातस्वेदस्ततो रामो रोषाद्रक्तान्तलोचनः। निर्भिभेद सहस्रेण बाणानां समरे खरम्।।3.30.20।। Aranya Kanda,30,21,तस्य बाणान्तराद्रक्तं बहु सुस्राव फेनिलम्। गिरेः प्रस्रवणस्येव तोयधारापरिस्रवः।।3.30.21।। Aranya Kanda,30,22,विह्वलस्सकृतो बाणैः खरो रामेण संयुगे। मत्तो रुधिरगन्धेन तमेवाभ्यद्रवद्द्रुतम्।।3.30.22।। Aranya Kanda,30,23,तमापतन्तं संरब्धं कृतास्त्रो रुधिराप्लुतम्। अपासर्पत्प्रतिपदं किञ्चित्वरितविक्रमः।।3.30.23।। Aranya Kanda,30,24,ततः पावकसङ्काशं वधाय समरे शरम्। खरस्य रामो जग्राह ब्रह्मदण्डमिवापरम्।।3.30.24।। Aranya Kanda,30,25,स तं दत्तं मघवता सुरराजेन धीमता। संदधे चापि धर्मात्मा मुमोच च खरं प्रति।।3.30.25।। Aranya Kanda,30,26,स विमुक्तो महाबाणो निर्घातसमनिस्वनः। रामेण धनुरायम्य खरस्योरसिचापतत्।।3.30.26।। Aranya Kanda,30,27,स पपात खरो भूमौ दह्यमानश्शरानग्निना। रुद्रेणेव विनिर्दग्धश्वेतारण्ये यथान्तकः।।3.30.27।। Aranya Kanda,30,28,स वृत्र इव वज्रेण फेनेन नमुचिर्यथा। बलो वेन्द्राशनिहतो निपपात हतः खरः।।3.30.28।। Aranya Kanda,30,29,ततो राजर्षयस्सर्वे सङ्गताः परमर्षयः। सभाज्य मुदिता राममिदं वचनमब्रुवन्।।3.30.29।। Aranya Kanda,30,30,एतदर्थं महातेजा महेन्द्रः पाकशासनः। शरभङ्गाश्रमं पुण्यमाजगाम पुरन्दरः।।3.30.30।। Aranya Kanda,30,31,आनीतस्त्वमिमं देशमुपायेन महर्षिभिः। एषां वधार्थं क्रूराणां रक्षसां पापकर्मणाम्।।3.30.31।। Aranya Kanda,30,32,तदिदं नः कृतं कार्यं त्वया दशरथात्मज। सुखं धर्मं चरिष्यन्ति दण्डकेषु महर्षयः।।3.30.32।। Aranya Kanda,30,33,एतस्मिन्तरे देवाश्चारणैस्सह सङ्गताः। दुन्दुभींश्चाभिनिघ्नन्तः पुष्पवर्षं समन्ततः।।3.30.33।। रामस्योपरि संह्रुष्टा ववृषुर्विस्मितास्तदा। Aranya Kanda,30,34,अर्धाधिकमुहूर्तेन रामेण निशितैश्शरैः।।3.30.34।। Aranya Kanda,30,35,चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम्। खरदूषणमुख्यानां निहतानि महाहवे।।3.30.35।। Aranya Kanda,30,36,अहो बत महत्कर्म रामस्य विदितात्मनः। अहो वीर्यमहो दाक्ष्यं विष्णोरिव हि दृश्यते।।3.30.36।। इत्येवमुक्त्वा ते सर्वे ययुर्देवा यथागतम्। Aranya Kanda,30,37,तस्मिन्नन्तरे वीरो लक्ष्मणस्सह सीतया। गिरिदुर्गाद्विनिष्क्रम्य संविवेशाश्रमं सुखी।।3.30.37।। Aranya Kanda,30,38,ततो रामस्तु विजयी पूज्यमानो महर्षिभिः। प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिपूजितः।।3.30.38।। Aranya Kanda,30,39,तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम्। बभूव हृष्टा वैदेही भर्तारं परिषस्वजे।।3.30.39।। Aranya Kanda,30,40,मुदा परमया युक्ता दृष्ट्वा रक्षोगणान्हतान्। रामं चैवाव्यथं दृष्ट्वा तुतोष जनकात्मजा।।3.30.40।। Aranya Kanda,30,41,ततस्तु तं राक्षससङ्घमर्दनं सभाज्यमानं मुदितैर्महर्षिभिः। पुनः परिष्वज्य शशिप्रभानना बभूव हृष्टा जनकात्मजा तदा।।3.30.41।। Aranya Kanda,31,1,त्वरमाणस्ततो गत्वा जनस्थानादकम्पनः। प्रविश्य लङ्कां वेगेन रावणं वाक्यमब्रवीत्।।3.31.1।। Aranya Kanda,31,2,जनस्थानस्थिता राजन्राक्षसा बहवो हताः। खरश्च निहतस्सङ्ख्ये कथञ्चिदहमागतः।।3.31.2।। Aranya Kanda,31,3,एवमुक्तो दशग्रीवः क्रुद्ध स्संरक्तलोचनः। अकम्पनमुवाचेदं निर्दहन्निव चक्षुषा।।3.31.3।। Aranya Kanda,31,4,केन रम्यं जनस्थानं हतं मम परासुना। को हि सर्वेषु लोकेषु गतिं चाधिगमिष्यति।।3.31.4।। Aranya Kanda,31,5,न हि मे विप्रियं कृत्वा शक्यं मघवता सुखम्। प्राप्तुं वैश्रवणेनापि न यमेन न विष्णुना।।3.31.5।। Aranya Kanda,31,6,कालस्य चाप्यहं कालो दहेयमपि पावकम्। मृत्युं मरणधर्मेण संयोजयितुमुत्सहे।।3.31.6।। Aranya Kanda,31,7,दहेयमपि सङ्कृद्धस्तेजसाऽदित्यपावकौ। वातस्य तरसा वेगं निहन्तुमहमुत्सहे।।3.31.7।। Aranya Kanda,31,8,तथा क्रुद्धं दशग्रीवं कृताञ्जलिरकम्पनः। भयात्सन्दिग्धया वाचा रावणं याचतेऽभयम्।।3.31.8।। Aranya Kanda,31,9,दशग्रीवोऽभयं तस्मै प्रददौ रक्षसां वरः। स विस्रब्धोऽब्रवीद्वाक्यमसन्दिग्धमकम्पनः।।3.31.9।। Aranya Kanda,31,10,पुत्रो दशरथस्यास्ति सिंहसंहननो युवा। रामो नाम वृषस्कन्धो वृत्तायतमहाभुजः।।3.31.10।। Aranya Kanda,31,11,वीरः पृथुयशाश्श्रीमानतुल्यबलविक्रमः। हतं तेन जनस्थानं खरश्च सह दूषणः।।3.31.11।। Aranya Kanda,31,12,अकम्पनवच श्रुत्वा रावणो राक्षसाधिपः। नागेन्द्र इव निश्वस्य वचनं चेदमब्रवीत्।।3.31.12।। Aranya Kanda,31,13,स सुरेन्द्रेण संयुक्तो रामस्सर्वामरैस्सह। उपयातो जनस्थानं ब्रूहि कच्चिदकम्पन।।3.31.13।। Aranya Kanda,31,14,रावणस्य पुनर्वाक्यं निशम्य तदकम्पनः। आचचक्षे बलं तस्य विक्रमं च महात्मनः।।3.31.14।। Aranya Kanda,31,15,रामो नाम महातेजा श्रेष्ठस्सर्वधनुष्मताम्। दिव्यास्त्रगुणसम्पन्नः पुरन्दरसमो युधि।।3.31.15।। Aranya Kanda,31,16,तस्यानुरूपो बलवान्रक्ताक्षो दन्दुभिस्वनः। कनीयान्लक्ष्मणो नाम भ्राता शशिनिभाननः।।3.31.16।। Aranya Kanda,31,17,स तेन सह संयुक्तः पावकेनानिलो यथा। श्रीमान्राजवरस्तेन जनस्थानं निपातितम्।।3.31.17।। Aranya Kanda,31,18,नैव देवा महात्मानो नात्र कार्या विचारणा। शरा रामेण तूत्सृष्टा रुक्मपुङ्खाः पतत्रिणः।।3.31.18।। सर्पाः पञ्चानना भूत्वा भक्षयन्ति स्म राक्षसान्। Aranya Kanda,31,20,येन येन च गच्छन्ति राक्षसा भयकर्शिताः।3.31.19।। तेन तेन स्म पश्यन्ति राममेवाग्रतः स्थितम्। इत्थं विनाशितं तेन जनस्थानं तवानघ।।3.31.20।। Aranya Kanda,31,21,अकम्पनवचश्रुत्वा रावणो वाक्यमब्रवीत्। जनस्थानं गमिष्यामि हन्तुं रामं सलक्ष्मणम्।।3.31.21।। Aranya Kanda,31,22,अथैवमुक्ते वचने प्रोवाचेदमकम्पनः। शृणु राजन्यथावृत्तं रामस्य बलपौरुषम्।।3.31.22।। Aranya Kanda,31,23,असाध्यः कुपितो रामो विक्रमेण महायशाः। आपगायास्सुपूर्णाया वेगं परिहरेच्छरैः।।3.31.23।। Aranya Kanda,31,24,सतारग्रहनक्षत्रं नभश्चाप्यवसादयेत्। असौ रामस्तु सीदन्तीं श्रीमानभ्युद्धरेन्महीम्।।3.31.24।। Aranya Kanda,31,25,भित्त्वा वेलां समुद्रस्य लोकानाप्लावयेद्विभुः। वेगं वापि समुद्रस्य वायुं वा विधमेच्छरैः।।3.31.25।। Aranya Kanda,31,26,संहृत्य वा पुनर्लोकान्विक्रमेण महायशाः। शक्तस्सपुरुषव्याघ्रः स्रष्टुं पुनरपि प्रजाः।।3.31.26।। Aranya Kanda,31,27,न हि रामो दशग्रीव शक्यो जेतुं त्वया युधि। रक्षसां वापि लोकेन स्वर्गः पापजनैरिव।।3.31.27।। Aranya Kanda,31,28,न तं वध्यमहं मन्ये सर्वैर्देवासुरैरपि। अयं तस्य वधोपायस्तन्ममैकमनाश्शृणु।।3.31.28।। Aranya Kanda,31,29,भार्या तस्योत्तमा लोके सीता नाम सुमध्यमा। श्यामा समविभक्ताङ्गी स्त्रीरत्नं रत्नभूषिता।।3.31.29।। Aranya Kanda,31,30,नैव देवी न गन्धर्वी नाप्सरा नापि दानवी। तुल्या सीमन्तिनी तस्या मानुषीषु कुतो भवेत्।।3.31.30।। Aranya Kanda,31,31,तस्यापहर भार्यांत्वं प्रमथ्य तु महावने। सीतया रहितः कामी रामो हास्यति जीवितम्।।3.31.31।। Aranya Kanda,31,32,अरोचयत तद्वाक्यं रावणो राक्षसाधिपः। चिन्तयित्वा महाबाहुरकम्पनमुवाच ह।।3.31.32।। Aranya Kanda,31,33,बाढं काल्यं गमिष्यामि ह्येकस्सारथिना सह। आनयिष्यामि वैदेहीमिमां हृष्टो महापुरीम्।।3.31.33।। Aranya Kanda,31,34,अथैवमुक्त्वा प्रययौ खरयुक्तेन रावणः। रथेनादित्यवर्णेन दिशस्सर्वाः प्रकाशयन्।।3.31.34।। Aranya Kanda,31,35,स रथो राक्षसेन्द्रस्य नक्षत्रपथगो महान्। सञ्चार्यमाणश्शुशुभे जलदे चन्द्रमा इव।।3.31.35।। Aranya Kanda,31,36,स मारीचाश्रमं प्राप्य ताटकेयमुपागमत्। मारीचेनार्चितो राजा भक्ष्यभोज्यैरमानुषैः।।3.31.36।। Aranya Kanda,31,37,तं स्वयं पूजयित्वा तु आसनेनोदकेन च। अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत्।।3.31.37।। Aranya Kanda,31,38,कच्चित्सुकुशलं राजन्लोकानां राक्षसेश्वर। आशङ्के नाथ जाने त्वं यतस्तूर्णमिहागतः।।3.31.38।। Aranya Kanda,31,39,एवमुक्तो महातेजा मारीचेन स रावणः। ततः पश्चादिदं वाक्यमब्रवीद्वाक्यकोविदः।।3.31.39।। Aranya Kanda,31,40,आरक्षो मे हतस्तात रामेणाक्लिष्टकर्मणा। जनस्थानमवध्य तत्सर्वं युधि निपातितम्।।3.31.40।। तस्य मे कुरु साचिव्यं तस्य भार्यापहारणे। Aranya Kanda,31,41,राक्षसेन्द्रवचश्श्रुत्वा मारीचो वाक्यमब्रवीत्।।3.31.41।। Aranya Kanda,31,42,आख्याता केन सीता सा मित्ररूपेण शत्रुणा। त्वया राक्षसशार्दूल को न नन्दति नन्दितः।।3.31.42।। Aranya Kanda,31,43,सीतामिहानयस्वेति को ब्रवीति ब्रवीहि मे। रक्षोलोकस्य सर्वस्य कश्शृङ्गं छेत्तुमिच्छति।।3.31.43।। Aranya Kanda,31,44,प्रोत्साहयति कश्च त्वां स च शत्रुरसंशयः। अशीविषमुखाद्दंष्ट्रामुद्धर्तुं चेच्छति त्वया।।3.31.44।। Aranya Kanda,31,45,कर्मणा केन केनासि कापथं प्रतिपादितः। सुखसुप्तस्य ते राजन् प्रहृतं केन मूर्धनि।।3.31.45।। Aranya Kanda,31,46,विशुद्धवंशाभिजनाग्रहस्त स्तेजोमदस्संस्थितदोर्विषाणः। उदीक्षितुं रावण नेह युक्तः स संयुगे राघवगन्धहस्ती।।3.31.46।। Aranya Kanda,31,47,असौ रणान्तः स्थितिसंधिवालो विदग्धरक्षोमृगहा नृसिंहः। सुप्तस्त्वया बोधयितुं न युक्तः शराङ्गपूर्णो निशितासिदंष्ट्रः।।3.31.47।। Aranya Kanda,31,48,चापापहारे भुजवेगपङ्के शरोर्मिमाले सुमहाहवौघे। न रामपातालमुखेऽतिघोरे प्रस्कन्दितुं राक्षसराज युक्तम्।।3.31.48।। Aranya Kanda,31,49,प्रसीद लङ्केश्वर राक्षसेन्द्र लङ्कां प्रसन्नो भव साधु गच्छ। त्वं स्वेषु दारेषु रमस्व नित्यं रामस्सभार्यो रमतां वनेषु।।3.31.49।। Aranya Kanda,31,50,एवमुक्तो दशग्रीवो मारीचेन स रावणः। न्यवर्तत पुरीं लङ्कां विवेश च गृहोत्तमम्।।3.31.50।। Aranya Kanda,32,1,ततश्शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश। हतान्येकेन रामेण रक्षसां भीमकर्मणाम्।।3.32.1।। Aranya Kanda,32,2,दूषणं च खरं चैव हतं त्रिशिरसा सह। दृष्ट्वा पुनर्महानादं ननाद जलदो यथा।।3.32.2।। Aranya Kanda,32,3,सा दृष्ट्वा कर्म रामस्य कृतमन्यैस्सुदुष्करम्। जगाम परमोद्विग्ना लङ्कां रावणपालिताम्।।3.32.3।। Aranya Kanda,32,4,सा ददर्श विमानाग्रे रावणं दीप्ततेजसम्। उपोपविष्टं सचिवैर्मरुद्भिरिव वासवम्।।3.32.4।। Aranya Kanda,32,5,आसीनं सूर्यसङ्काशे काञ्चने परमासने। रुक्मवेदिगतं प्राज्यं ज्वलन्तमिव पावकम्।।3.32.5।। Aranya Kanda,32,6,देवगन्धर्वभूतानामृषीणां च महात्मनाम्। अजेयं समरे शूरं व्यात्ताननमिवान्तकम्।।3.32.6।। Aranya Kanda,32,7,देवासुरविमर्देषु वज्राशनिकृतव्रणम्। ऐरावतविषाणग्रैरुद्घृष्टकिणवक्षसम्।।3.32.7।। Aranya Kanda,32,8,विंशद्भुजं दशग्रीवं दर्शनीयपरिच्छदम्। विशालवक्षसं वीरं राजलक्षण शोभितम्।।3.32.8।। Aranya Kanda,32,9,स्निग्धवैडूर्यसङ्काशं तप्तकाञ्चनकुण्डलम्। सुभुजं शुक्लदशनं महास्यं पर्वतोपमम्।।3.32.9।। Aranya Kanda,32,10,विष्णुचक्रनिपातैश्च शतशो देवसंयुगे। अन्यैश्शस्त्रप्रहारैश्च महायुद्धेषु ताडितम्।।3.32.10।। Aranya Kanda,32,11,अहताङ्गं समस्तैश्च देवप्रहरणैस्तथा। अक्षोभ्याणां समुद्राणां क्षोभणं क्षिप्रकारिणम्।।3.32.11।। Aranya Kanda,32,12,क्षेप्तारं पर्वतेन्द्राणां सुराणां च प्रमर्दनम्। उच्छेत्तारं च धर्माणां परदाराभिमर्शनम्।।3.32.12।। Aranya Kanda,32,13,सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा। पुरीं भोगवतीं प्राप्य पराजित्य च वासुकिम्।।3.32.13।। तक्षकस्य प्रियां भार्यां पराजित्य जहार यः। Aranya Kanda,32,14,कैलासपर्वतं गत्वा विजित्य नरवाहनम्। विमानं पुष्पकं तस्य कामगं वै जहार यः।।3.32.14।। Aranya Kanda,32,15,वनं चैत्ररथं दिव्यं नलिनीं नन्दनं वनम्। विनाशयति यः क्रोधाद्देवोद्यानानि वीर्यवान्।।3.32.15।। Aranya Kanda,32,16,चन्द्रसूर्यौ महाभागावुत्तिष्ठन्तौ परन्तपौ। निवारयति बाहुभ्यां यश्शैलशिखरोपमः।।3.32.16।। Aranya Kanda,32,17,दशवर्षसहस्राणि तपस्तप्वा महावने। पुरा स्वयंभुवे धीरश्शिरांस्युपजहार यः।।3.32.17।। Aranya Kanda,32,18,देवदानवगन्धर्वपिशाचपतगोरगैः। अभयं यस्य सङ्ग्रामे मृत्युतो मानुषादृते।।3.32.18।। Aranya Kanda,32,19,मन्त्रैरभिष्टुतं पुण्यमध्वरेषु द्विजातिभिः। हविर्धानेषु यस्सोममुपहन्ति महाबलः।।3.32.19।। Aranya Kanda,32,20,आप्तयज्ञहरं क्रूरं ब्रह्मघ्नं दुष्टचारिणम्। कर्कशं निरनुक्रोशं प्रजानामहिते रतम्।।3.32.20।। Aranya Kanda,32,21,रावणं सर्वभूतानां सर्वलोकभयावहम्। राक्षसी भ्रातरं शूरं सा ददर्श महाबलम्।।3.32.21।। Aranya Kanda,32,22,तं दिव्यवस्त्राभरणं दिव्यमाल्योपशोभितम्। आसने सूपविष्टं च कालकालमिवोद्यतम्।।3.32.22।। Aranya Kanda,32,24,राक्षसेन्द्रं महाभागं पौलस्त्यकुलनन्दनम्। 3.32.23।। रावणं शत्रुहन्तारं मन्त्रिभिः परिवारितम्। अभिगम्याब्रवीद्वाक्यं राक्षसी भयविह्वला।।3.32.24।। Aranya Kanda,32,25,तमब्रवीद्दीप्तविशाललोचनं प्रदर्शयित्वा भयमोहमूर्छिता। सुदारुणं वाक्यमभीतचारिणी महात्मना शूर्पणखा विरूपिता।।3.32.25।। Aranya Kanda,33,1,ततः शूर्पणखा दीना रावणं लोकरावणम्। अमात्यमध्ये सङ्क्रुद्धा परुषं वाक्यमब्रवीत्।।3.33.1।। Aranya Kanda,33,2,प्रमत्तः कामभोगेषु स्वैरवृत्तो निरङ्कुशः। समुत्पन्नं भयं घोरं बोद्धव्यं नावबुध्यसे।।3.33.2।। Aranya Kanda,33,3,सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम्। लुब्धं न बहुमन्यन्ते श्मशानाग्निमिव प्रजाः।।3.33.3।। Aranya Kanda,33,4,स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः। स तु वै सह राज्येन तैश्च कार्यैर्विनश्यति।।3.33.4।। Aranya Kanda,33,5,अयुक्तचारं दुर्दर्शमस्वाधीनं नराधिपम्। वर्जयन्ति नरा दूरान्नदीपङ्कामिव द्विपाः।।3.33.5।। Aranya Kanda,33,6,ये न रक्षन्ति विषयमस्वाधीना नराधिपाः। ते न वृद्ध्या प्रकाशन्ते गिरयस्सागरे यथा।।3.33.6।। Aranya Kanda,33,7,आत्मवद्भिर्विगृह्य त्वं देवगन्धर्वदानवैः। अयुक्तचारश्चपलः कथं राजा भविष्यसि।।3.33.7।। Aranya Kanda,33,8,त्वन्तु बालस्वभावश्च बुद्धिहीनश्च राक्षस। ज्ञातव्यन्तु न जानीषे कथं राजा भविष्यसि।।3.33.8।। Aranya Kanda,33,9,येषां चारश्च कोशश्च नयश्च जयतां वर। अस्वाधीना नरेन्द्राणां प्राकृतैस्ते जनैस्समाः।।3.33.9।। Aranya Kanda,33,10,यस्मात्पश्यन्ति दूरस्थान् सर्वानर्थान्नराधिपाः। चारेण तस्मादुच्यन्ते राजानो दीर्घचक्षुषः।।3.33.10।। Aranya Kanda,33,11,अयुक्तचारं मन्ये त्वां प्राकृतैस्सचिवैर्वृतम्। स्वजनं तु जनस्थाने हतं यो नावबुद्ध्यसे।।3.33.11।। Aranya Kanda,33,12,चतुर्दश सहस्राणि रक्षसां क्रूरकर्मणाम्। हतान्येकेन रामेण खरश्च सहदूषणः।।3.33.12।। Aranya Kanda,33,13,ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः। धर्षितं च जनस्थानं रामेणाक्लिष्टकर्मणा।।3.33.13।। Aranya Kanda,33,14,त्वन्तु लुब्दः प्रमत्तश्च पराधीनश्च रावण। विषये स्वे समुत्पन्नं भयं यो नावबुध्यसे।।3.33.14।। Aranya Kanda,33,15,तीक्ष्णमल्पप्रदातारं प्रमत्तं गर्वितं शठम्। व्यसने सर्वभूतानि नाभिधावन्ति पार्थिवम्।।3.33.15।। Aranya Kanda,33,16,अतिमानिनमग्राह्यमात्मसम्भावितं नरम्। क्रोधिनं व्यसने हन्ति स्वजनोऽपि महीपतिम्।।3.33.16।। Aranya Kanda,33,17,नानुतिष्ठति कार्याणि भयेषु न बिभेति च। क्षिप्रं राज्याच्युतो दीनस्तृणैस्तुल्यो भविष्यति।।3.33.17।। Aranya Kanda,33,18,शुष्कैः काष्ठैर्भवेत्कार्यं लोष्टैरपि च पांसुभिः। न तु स्थानात्परिभ्रष्टैः कार्यं स्याद्वसुधाधिपैः।।3.33.18।। Aranya Kanda,33,19,अपभुक्तं यथा वासस्स्रजो वा मृदिता यथा। एवं राज्यात्परिभ्रष्टस्समर्थोऽपि निरर्थकः।।3.33.19।। Aranya Kanda,33,20,अप्रमत्तश्च यो राजा सर्वज्ञो विजितेन्द्रियः। कृतज्ञो धर्मशीलश्च स राजा तिष्ठते चिरम्।।3.33.20।। Aranya Kanda,33,21,नयनाभ्यां प्रसुप्तोऽपि जागर्ति नयचक्षुषा। त्यक्तक्रोधप्रमादश्च स राजा पूज्यते जनैः।।3.33.21।। Aranya Kanda,33,22,त्वं तु रावण दुर्बुद्धिर्गुणैरेतैर्विवर्जितः। यस्य तेऽविदितश्चारै रक्षसां सुमहान्वधः।।3.33.22।। Aranya Kanda,33,23,परावमन्ता विषयेषु सङ्गतो न देशकालप्रविभागतत्ववित्। अयुक्तबुद्धिर्गुणदोषनिश्चये विपन्नराज्यो नचिराद्विपत्स्यसे।।3.33.23।। Aranya Kanda,33,24,इति स्वदोषान् परिकीर्तितांस्तया समीक्ष्य बुद्ध्या क्षणदाचरेश्वरः। धनेन दर्पेण बलेन चान्वितो विचिन्तयामास चिरं स रावणः।।3.33.24।। Aranya Kanda,34,1,ततश्शूर्पणखां दृष्ट्वा ब्रुवन्तीं परुषं वचः। अमात्यमध्ये सङ्क्रुद्धः परिपप्रच्छ रावणः।।3.34.1।। Aranya Kanda,34,2,कश्च रामः कथंवीर्यः किंरूपः किंपराक्रमः। किमर्थं दण्डकारण्यं प्रविष्टस्सुदुरासदम्।।3.34.2।। Aranya Kanda,34,3,आयुधं किञ्च रामस्य निहता येन राक्षसाः। खरश्च निहतस्संख्ये दूषणस्त्रिशिरास्तथा।।3.34.3।। Aranya Kanda,34,4,इत्युक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्छिता। ततो रामं यथातत्वमाख्यातुमुपचक्रमे।।3.34.4।। Aranya Kanda,34,5,दीर्घबाहुर्विशालाक्ष श्चीरकृष्णाजिनाम्बरः। कन्दर्पसमरूपश्च रामो दशरथात्मजः।।3.34.5।। Aranya Kanda,34,6,शक्रचापनिभं चापं विकृष्य कनकाङ्गदम्। दीप्तान् क्षिपति नाराचान्सर्पानिव महाविषान्।।3.34.6।। Aranya Kanda,34,7,नाददानं शरान्घोरान्नमुञ्चन्तं शिलीमुखान्। न कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे।।3.34.7।। Aranya Kanda,34,8,हन्यमानं तु तत्सैन्यं पश्यामि शरवृष्टिभिः। इन्द्रेणेवोत्तमं सस्यमाहतन्त्वश्मवृष्टिभिः।।3.34.8।। Aranya Kanda,34,9,रक्षसां भीमरूपाणां सहस्राणि चतुर्दश। निहतानि शरै स्तीक्ष्णैस्तेनैकेन पदातिना।।3.34.9।। अर्धाधिकमुहूर्तेन खरश्च सहदूषणः। Aranya Kanda,34,10,ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः।।3.34.10।। Aranya Kanda,34,11,एका कथञ्चिन्मुक्ताहं परिभूय महात्मना। स्त्रीवधं शङ्कमानेन रामेण विदितात्मना।।3.34.11।। Aranya Kanda,34,12,भ्राता चास्य महातेजा गुणतस्तुल्यविक्रमः। अनुरक्तश्च भक्तश्च लक्ष्मणो नाम वीर्यवान्।।3.34.12।। Aranya Kanda,34,13,अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान्बली। रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः।।3.34.13।। Aranya Kanda,34,14,रामस्य तु विशालाक्षी पूर्णेन्दुसदृशानना। धर्मपत्नी प्रिया भर्तुर्नित्यं प्रियहिते रता।।3.34.14।। Aranya Kanda,34,15,सा सुकेशी सुनासोरुस्सुरूपा च यशस्विनी। देवतेव वनस्यास्य राजते श्रीरिवापरा।।3.34.15।। Aranya Kanda,34,16,तप्तकाञ्चनवर्णाभा रक्ततुङ्गनखी शुभा। सीता नाम वरारोहा वैदेही तनुमध्यमा।।3.34.16।। Aranya Kanda,34,17,नैव देवी न गन्धर्वी न यक्षी न च किन्नरी। नैवंरूपा मया नारी दृष्टपूर्वा महीतले।।3.34.17।। Aranya Kanda,34,18,यस्य सीता भवेद्भार्या यं च हृष्टा परिष्वजेत्। अतिजीवेत्स सर्वेषु लोकेष्वपि पुरन्दरात्।।3.34.18।। Aranya Kanda,34,19,सा सुशीला वपुश्श्लाघ्या रूपेणाप्रतिमा भुवि। तवानुरूपा भार्या स्यात्त्वं च तस्यास्तथा पतिः।।3.34.19।। Aranya Kanda,34,20,तां तु विस्तीर्णजघनां पीनश्रोणिपयोधराम्। भार्यार्थे च तवानेतुमुद्यताहं वराननाम्।।3.34.20।। विरूपितास्मि क्रूरेण लक्ष्मणेन महाभुज। Aranya Kanda,34,21,तां तु दृष्ट्वाद्य वैदेहीं पूर्णचन्द्रनिभाननाम्। मन्मथस्य शराणां वै त्वं विधेयो भविष्यसि।।3.34.21।। Aranya Kanda,34,22,यदि तस्यामभिप्रायो भार्यार्थे तव जायते। शीघ्रमुद्ध्रियतां पादो जयार्थमिह दक्षिणः।।3.34.22।। Aranya Kanda,34,23,कुरु प्रियं तथा तेषां रक्षसां राक्षसेश्वर। वधात्तस्य नृशंसस्य रामस्याश्रमवासिनः।।3.34.23।। Aranya Kanda,34,24,तं शरैर्निशितैर्हत्वा लक्ष्मणं च महारथम्। हतनाथां सुखं सीतां यथावदुपभोक्ष्यसि।।3.34.24।। Aranya Kanda,34,25,रोचते यति ते वाक्यं ममैतद्राक्षसेश्वर। क्रियतां निर्विशङ्केन वचनं मम रावण।।3.34.25।। Aranya Kanda,34,26,विज्ञायेहात्मशक्तिं च ह्रियतामबला बलात्। सीता सर्वानवद्याङ्गी भार्यार्थे राक्षसेश्वर।।3.34.26।। Aranya Kanda,34,27,निशम्य रामेण शरैरजिह्मगै र्हतान् जनस्थानगतान्निशाचरान्। खरं च बुद्ध्वा निहतं च दूषणं त्वमत्र कृत्यं प्रतिपत्तुमर्हसि।।3.34.27।। Aranya Kanda,35,1,ततश्शूर्पणखावाक्यं तच्छ्रुत्वा रोमहर्षणम्। सचिवानभ्यनुज्ञाय कार्यं बुद्ध्वा जगाम ह।।3.35.1।। Aranya Kanda,35,3,तत्कार्यमनुगम्याथ यथावदुपलभ्य च। दोषाणां च गुणानां च सम्प्रधार्य बलाबलम्।3.35.2।। इति कर्तव्यमित्येव कृत्वा निश्चयमात्मनः। स्थिरबुद्धिस्ततो रम्यां यानशालां जगाम ह।।3.35.3।। Aranya Kanda,35,4,यानशालां ततो गत्वा प्रच्छन्नो राक्षसाधिपः। सूतं सञ्चोदयामास रथस्संयोज्यतामिति।।3.35.4।। Aranya Kanda,35,5,एवमुक्तः क्षेणेनैव सारथिर्लघुविक्रमः। रथं संयोजयामास तस्याभिमतमुत्तमम्।।3.35.5।। Aranya Kanda,35,6,काञ्चनं रथमास्थाय कामगं रत्नभूषितम्। पिशाचवदनैर्युक्तं खरैः काञ्चनभूषणैः।।3.35.6।। Aranya Kanda,35,7,मेघप्रतिमनादेन स तेन धनदानुजः। राक्षसाधिपतिश्श्रीमान्ययौ नदनदीपतिम्।।3.35.7।। Aranya Kanda,35,8,स श्वेतवालव्यजनः श्वेतच्छत्रो दशाननः। स्निग्धवैदूर्यसंकाश स्तप्तकाञ्चनकुण्डलः।।3.35.8।। Aranya Kanda,35,9,विंशद्भुजो दशग्रीवो दर्शनीयपरिच्छदः। त्रिदशारिर्मुनीन्द्रघ्नो दशशीर्ष इवाद्रिराट्।।3.35.9।। Aranya Kanda,35,10,कामगं रथमास्थाय शुशुभे राक्षसेश्वरः। विद्युन्मण्डलवान्मेघस्सबलाक इवाम्बरे।।3.35.10।। Aranya Kanda,35,11,स शैलं सागरानूपं वीर्यवानवलोकयन्। नानापुष्पफलैर्वृक्षैरनुकीर्णं सहस्रशः।।3.35.11।। Aranya Kanda,35,12,शीतमङ्गलतोयाभिः पद्मिनीभिस्समन्ततः। विशालैराश्रमपदैर्वेदिमद्भिस्समावृतम्।।3.35.12।। Aranya Kanda,35,13,कदल्याढकिसम्बाधं नारिकेलोपशोभितम्। सालैस्तालैस्तमालैश्च पुष्पितैस्तरुभिर्वृतम्।।3.35.13।। Aranya Kanda,35,14,नागैस्सुपर्णैर्गन्धैर्वैः किन्नरैश्च सहस्रशः। अजैर्वैखानसैर्माषैर्वालखिल्यैर्मरीचिपैः।।3.35.14।। Aranya Kanda,35,15,अत्यन्तनियताहारैश्शोभितं परमर्षिभिः। जितकामैश्च सिद्धैश्च चारणैरुपशोभितम्।।3.35.15।। Aranya Kanda,35,16,दिव्याभरणमाल्याभिर्दिव्यरूपाभिरावृतम्। क्रीडारतिविधिज्ञाभिरप्सरोभिस्सहस्रशः।।3.35.16।। Aranya Kanda,35,17,सेवितं देवपन्तीभिश्श्रीमतीभिश्श्रियाऽऽवृतम्। देवदानवसङ्घैश्च चरितं त्वमृताशिभिः।।3.35.17।। Aranya Kanda,35,18,हंसक्रौञ्चप्लवाकीर्णं सारसैस्सम्प्रणादितम्। वैढूर्यप्रस्तरं रम्यं स्निग्धं सागरतेजसा।।3.35.18।। Aranya Kanda,35,19,पाण्डुराणि विशालानि दिव्यमाल्ययुतानि च। तूर्यगीताभिजुष्टानि विमानानि समन्ततः।।3.35.19।। Aranya Kanda,35,20,तपसा जितलोकानां कामगान्यभिसम्पतन्। गन्धर्वाप्सरसश्चैव ददर्श धनदानुजः।।3.35.20।। Aranya Kanda,35,21,निर्यासरसमूलानां चन्दनानां सहस्रशः। वनानि पश्यन्सौम्यानि घ्राणतृप्तिकराणि च।।3.35.21।। Aranya Kanda,35,22,अगरूणां च मुख्यानां वनान्युपवनानि च। तक्कोलानां च जात्यानां फलानां च सुगन्धिनाम्।।3.35.22।। Aranya Kanda,35,23,पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च। मुक्तानां च समूहानि शुष्यमाणानि तीरतः।।3.35.23।। Aranya Kanda,35,24,शङ्खानां प्रसरं चैव प्रवालनिचयं तथा। काञ्चनानि च शैलानि राजतानि च सर्वशः।।3.35.24।। Aranya Kanda,35,25,प्रस्रवाणि मनोज्ञानि प्रसन्नानि ह्रदानि च। धनधान्योपपन्नानि स्त्रीरत्नैश्शोभितानि च।।3.35.25।। हस्त्यश्वरथगाढानि नगराण्यवलोकयन्। Aranya Kanda,35,26,तं समं सर्वतस्निग्धं मृदुसंस्पर्शमारुतम्। अनूपं सिन्धुराजस्य ददर्श त्रिदिवोपमम्।।3.35.26।। Aranya Kanda,35,27,तत्रापश्यत्स मेघाभं न्यग्रोधमृषिभिर्वृतम्।।3.35.27।। समन्ताद्यस्य ताश्शाखाश्शतयोजनमायताः। Aranya Kanda,35,28,यस्य हस्तिनमादाय महाकायं च कच्छपम्।।3.35.28।। भक्षार्थं गरुडश्शाखामाजगाम महाबलः। Aranya Kanda,35,29,तस्य तां सहसा शाखां भारेण पतगोत्तमः।।3.35.29।। सुपर्णः पर्णबहुलां बभञ्ज च महाबलः। Aranya Kanda,35,30,तत्र वैखानसा माषा वालखिल्या मरीचिपाः।।3.35.30।। अजा बभूवुर्धूम्राश्च सङ्गताः परमर्षयः। Aranya Kanda,35,31,तेषां दयार्थं गरुडस्तां शाखां शतयोजनाम्।।3.35.31।। जगामादाय वेगेन तौ चोभौ गजकच्छपौ। Aranya Kanda,35,32,एकपादेन धर्मात्मा भक्षयित्वा तदामिषम्।।3.35.32।। Aranya Kanda,35,33,निषादविषयं हत्वा शाखया पतगोत्तमः। प्रहर्षमतुलं लेभे मोक्षयित्वा महामुनीन्।।3.35.33।। Aranya Kanda,35,34,स तेनैव प्रहर्षेण द्विगुणीकृतविक्रमः। अमृतानयनार्थं वै चकार मतिमान्मतिम्।।3.35.34।। Aranya Kanda,35,35,अयोजालानि निर्मथ्य भित्वा रत्नमयं गृहम्। महेन्द्रभवनाद्गुप्तमाजहारामृतं ततः।।3.35.35।। Aranya Kanda,35,36,तं महर्षिगणैर्जुष्टं सुपर्णकृतलक्षणम्। नाम्ना सुभद्रं न्यग्रोधं ददर्श धनदानुजः।।3.35.36।। Aranya Kanda,35,37,तं तु गत्वा परं पारं समुद्रस्य नदीपतेः। ददर्शाश्रममेकान्ते रम्ये पुण्ये वनान्तरे।।3.35.37।। Aranya Kanda,35,38,तत्र कृष्णाजिनधरं जटावल्कलधारिणम्। ददर्श नियताहारं मारीचं नाम राक्षसाम्।।3.35.38।। Aranya Kanda,35,39,स रावणस्समागम्य विधिवत्तेन रक्षसा। मारीचेनार्चितो राजा सर्वकामैरमानुषैः।।3.35.39।। Aranya Kanda,35,40,तं स्वयं पूजयित्वा तु भोजनेनोदकेन च। अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत्।।3.35.40।। Aranya Kanda,35,41,कच्चित्सुकुशलं राजन्लङ्कायां राक्षसेश्वर। केनार्थेन पुनस्त्वं वै तूर्णमेवमिहागतः।।3.35.41।। Aranya Kanda,35,42,एवमुक्तो महातेजा मारीचेन स रावणः। ततः पश्चादिदं वाक्यमब्रवीद्वाक्यकोविदः।।3.35.42।। Aranya Kanda,36,1,मारीच श्रूयातां तात वचनं मम भाषतः। आर्तोऽस्मि मम चार्तस्य भवान्हि परमा गतिः।।3.36.1।। Aranya Kanda,36,2,जानीषे त्वं जनस्थाने यथा भ्राता खरो मम। दूषणश्च महाबाहु स्वसा शूर्पणखा च मे।।3.36.2।। Aranya Kanda,36,3,त्रिशिराश्च महातेजा राक्षसः पिशिताशनः। अन्ये च बहवश्शूरा लब्धलक्षा निशाचराः।।3.36.3।। Aranya Kanda,36,4,वसत्नि मन्नियोगेन नित्यवासं च राक्षसाः। बाधमाना महारण्ये मुनीन्वै धर्मचारिणः।।3.36.4।। Aranya Kanda,36,5,चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्। शूराणां लब्धलक्षाणां खरचित्तानुवर्तिनाम्।।3.36.5।। Aranya Kanda,36,6,ते त्विदानीं जनस्थाने वसमाना महाबलाः। सङ्गताः परमायत्ता रामेण सह संयुगे।।3.36.6।। नानाप्रहरणोपेताः खरप्रमुखराक्षसाः। Aranya Kanda,36,7,तेन सञ्जातरोषेण रामेण रणमूर्धनि। अनुक्त्वा परुषं किञ्चिच्छरैर्व्यापारितं धनुः।।3.36.7।। Aranya Kanda,36,8,चतुर्दश सहस्राणि रक्षसामुग्रतेजसाम्। निहतानि शरैस्तीक्ष्णैर्मानुषेण पदातिना।।3.36.8।। Aranya Kanda,36,9,खरश्च निहतस्सङ्ख्ये दूषणश्च निपातितः। हतश्च त्रिशिराश्चापि निर्भया दण्डकाः कृताः।।3.36.9।। Aranya Kanda,36,10,पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः। स हन्ता तस्य सैन्यस्य रामः क्षत्रियपांसनः।।3.36.10।। Aranya Kanda,36,11,दुश्शीलः कर्कशस्तीक्ष्णो मूर्खो लुब्धोऽजितेन्द्रियः।।3.36.11।। त्यक्तधर्मो ह्यधर्मात्मा भूतानामहिते रतः। Aranya Kanda,36,12,येन वैरं विनाऽरण्ये सत्वमाश्रित्य केवलम्।।3.36.12।। कर्णनासापहरणाद्भगिनी मे विरूपिता। तस्यभार्यां जनस्थानात्सीतां सुरसुतोपमाम्।3.36.13।। आनयिष्यामि विक्रम्य सहायस्तत्र मे भव। Aranya Kanda,36,14,त्वया ह्यहं सहायेन पार्श्वस्थेन महाबल।।3.36.14।। Aranya Kanda,36,15,भ्रातृभिश्च सुरान्युद्धे समग्रान्नाभिचिन्तये। तत्सहायो भव त्वं मे समर्थो ह्यसि राक्षस।।3.36.15।। Aranya Kanda,36,16,वीर्ये युद्धे च दर्पे च न ह्यस्ति सदृशस्तव। उपायज्ञो महान्शूरस्सर्वमायाविशारदः।।3.36.16।। Aranya Kanda,36,17,एतदर्थमहं प्राप्तस्त्वत्समीपं निशाचर। शृणु तत्कर्म साहाय्ये यत्कार्यं वचनान्मम।।3.36.17।। Aranya Kanda,36,18,सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः। आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर।।3.36.18।। Aranya Kanda,36,19,त्वां तु निस्संशयं सीता दृष्ट्वा तु मृगरूपिणम्। गृह्यतामिति भर्तारं लक्ष्मणं चाभिधास्यति।।3.36.19।। Aranya Kanda,36,20,ततस्तयोरपाये तु शून्ये सीतां यथासुखम्। निराबाधो हरिष्यामि राहुश्चन्द्रप्रभामिव।।3.36.20।। Aranya Kanda,36,21,ततः पश्चात्सुखं रामे भार्याहरणकर्शिते। विस्रब्धः प्रहरिष्यामि कृतार्थेनान्तरात्मना।।3.36.21।। Aranya Kanda,36,22,तस्य रामकथां श्रुत्वा मारीचस्य महात्मनः। शुष्कं समभवद्वक्त्रं परितप्ता बभूव ह।।3.36.22।। Aranya Kanda,36,23,ओष्ठौ परिलिहञ्चुष्कौ नेत्रैरनिमिषैरिव। मृतभूत इवार्तस्तु रावणं समुदैक्षत।।3.36.23।। Aranya Kanda,36,24,स रावणं त्रस्तविषण्णचेता महावने रामपराक्रमज्ञः। कृताञ्जलिस्तत्वमुवाच वाक्यं हितं च तस्मै हितमात्मनश्च।।3.36.24।। Aranya Kanda,37,1,तच्छृत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः। प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम्।।3.37.1।। Aranya Kanda,37,2,सुलभाः पुरुषा राजन्सततं प्रियवादिनः। अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः।।3.37.2।। Aranya Kanda,37,3,न नूनं बुध्यसे रामं महावीर्यं गुणोन्नतम्। अयुक्तचारश्चपलो महेन्द्रवरुणोपमम्।।3.37.3।। Aranya Kanda,37,4,अपि स्वस्ति भवेत्तात सर्वेषां भुवि रक्षसाम्। अपि रामो नासङ्क्रुद्धः कुर्याल्लोकमराक्षसम्।।3.37.4।। Aranya Kanda,37,5,अपि ते जीवितान्ताय नोत्पन्ना जनकात्मजा। अपि सीतानिमित्तं च न भवेद्व्यसनं मम।।3.37.5।। Aranya Kanda,37,6,अपि त्वामीश्वरं प्राप्य कामवृत्तं निरङ्कुशम्। न विनश्येत्पुरी लङ्का त्वया सह सराक्षसा।।3.37.6।। Aranya Kanda,37,7,त्वद्विधः कामवृत्तो हि दुश्शीलः पापमन्त्रितः। आत्मानं स्वजनं राष्ट्रं स राजा हन्ति दुर्मतिः।।3.37.7।। Aranya Kanda,37,8,न च पित्रा परित्यक्तो नामर्यादः कथञ्चन। न लुब्धो न च दुश्शीलो न च क्षत्रियपांसनः।।3.37.8।। Aranya Kanda,37,9,न च धर्मगुणैर्हीनः कौसल्यानन्दवर्धनः। न तीक्ष्णो न च भूतानां सर्वेषामहिते रतः।।3.37.9।। Aranya Kanda,37,10,वञ्चितं पितरं दृष्ट्वा कैकेय्या सत्यवादिनम्। करिष्यामीति धर्मात्मा तात प्रव्रजितो वनम्।।3.37.10।। Aranya Kanda,37,11,कैकेय्याः प्रियकामार्थं पितुर्दशरथस्य च। हित्वा राज्यं च भोगांश्च प्रविष्टो दण्डकावनम्।।3.37.11।। Aranya Kanda,37,12,न रामः कर्कशस्तात नाविद्वान्नाजितेन्द्रियः। अनृतं दुश्श्रुतं चैव नैव त्वं वक्तुमर्हसि।।3.37.12।। Aranya Kanda,37,13,रामो विग्रहवान् धर्मस्साधुस्सत्यपराक्रमः। राजा सर्वस्य लोकस्य देवानां मघवानिव।।3.37.13।। Aranya Kanda,37,14,कथं त्वं तस्य वैदेहीं रक्षितां स्वेन तेजसा। इच्छसि प्रसभं हर्तुं प्रभामिव विवस्वतः।।3.37.14।। Aranya Kanda,37,15,शरार्चिषमाधृष्यं चापखङ्गेन्धनं रणे। रामाग्निं सहसा दीप्तं न प्रवेष्टुं त्वमर्हसि।।3.37.15।। Aranya Kanda,37,16,धनुर्व्यादितदीप्तास्यं शरार्चिषममर्षणम्। चापबाणधरं तीक्ष्णं शत्रुसैन्यप्रहारिणम्।।3.37.16।। Aranya Kanda,37,17,राज्यं सुखं च सन्त्यज्य जीवितं चेष्टमात्मनः। नात्यासादयितुं तात रामान्तकमिहार्हसि।।3.37.17।। Aranya Kanda,37,18,अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा। न त्वं समर्थस्तां हर्तुं रामचापाश्रयं वने।।3.37.18।। Aranya Kanda,37,19,तस्य सा नरसिंहस्य सिंहोरस्कस्य भामिनी। प्राणेभ्योऽपि प्रियतरा भार्या नित्यमनुव्रता।।3.37.19।। Aranya Kanda,37,20,न सा धर्षयितुं शक्या मैथिल्योजस्विनः प्रिया। दीप्तस्येव हुताशस्य शिखा सीता सुमध्यमा।।3.37.20।। Aranya Kanda,37,21,किमुद्यममिमं व्यर्थं कृत्वा ते राक्षसाधिप। दृष्टश्चेत्वं रणे तेन तदन्तं तव जीवितम्।।3.37.21।। Aranya Kanda,37,22,जीवितं च सुखं चैव राज्यं चैव सुदुर्लभम्। यदीच्छसि चिरं भोक्तुं मा कृथा रामविप्रियम्।।3.37.22।। Aranya Kanda,37,23,स सर्वैस्सचिवैस्सार्धं विभीषणपुरोगमैः। मन्त्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चयमात्मनः।।3.37.23।। Aranya Kanda,37,24,दोषाणां च गुणानां च सम्प्रधार्य बलाबलम्। आत्मनश्च बलं ज्ञात्वा राघवस्य च तत्वतः।।3.37.24।। हिताहितं विनिश्चित्य क्षमं त्वं कर्तुमर्हसि। Aranya Kanda,37,25,अहं तु मन्ये तव न क्षमं रणे समागमं कोसलराजसूनुना। इदं हि भूयश्श़ृणु वाक्यमुत्तमं क्षमं च युक्तं च निशाचरेश्वर।।3.37.25।। Aranya Kanda,38,1,कदाचिदप्यहं वीर्यात्पर्यटन्पृथिवीमिमाम्। बलं नागसहस्रस्य धारयन्पर्वतोपमः।।3.38.1।। Aranya Kanda,38,2,नीलजीमूतसङ्काशस्तप्तकाञ्चनकुण्डलः। भयं लोकस्य जनयन्किरीटी परिघायुधः।।3.38.2।। व्यचरं दण्डकारण्ये ऋषिमांसानि भक्षयन्। Aranya Kanda,38,3,विश्वामित्रोऽथ धर्मात्मा मद्वित्रस्तो महामुनिः।।3.38.3।। स्वयं गत्वा दशरथं नरेन्द्रमिदमब्रवीत्। Aranya Kanda,38,4,अद्य रक्षतु मां रामः पर्वकाले समाहितः।।3.38.4।। मारीचान्मे भयं घोरं समुत्पन्नं नरेश्वर। Aranya Kanda,38,5,इत्येवमुक्तो धर्मात्मा राजा दशरथस्तदा।।3.38.5।। प्रत्युवाच महाभागं विश्वामित्रं महामुनिम्। Aranya Kanda,38,6,बालो द्वादशवर्षोऽयमकृतास्त्रश्च राघवः।।3.38.6।। कामं तु मम यत्सैन्यं मया सह गमिष्यति। Aranya Kanda,38,7,बलेन चतुरङ्गेण स्वयमेत्य निशाचरान्।।3.38.7।। वधिष्यामि मुनिश्रेष्ठ शत्रूंस्ते मनसेप्सितान्। Aranya Kanda,38,8,इत्येवमुक्तस्समुनी राजानमिदमब्रवीत्।।3.38.8।। रामान्नान्यद्बलं लोके पर्याप्तं तस्य रक्षसः। Aranya Kanda,38,9,देवतानामपि भवान् समरेष्वभिपालकः।।3.38.9।। आसीत्तव कृतं कर्म त्रिलोके विदितं नृप। Aranya Kanda,38,10,काममस्तु महत्सैन्यं तिष्ठत्विह परन्तप।।3.38.10।। Aranya Kanda,38,11,बालोऽप्येष महातेजास्समर्थस्तस्य निग्रहे। गमिष्ये राममादाय स्वस्ति तेऽस्तु परन्तप।।3.38.11।। Aranya Kanda,38,12,एवमुक्त्वा तु स मुनिस्तमादाय नृपात्मजम्। जगाम परमप्रीतो विश्वामित्रस्स्वमाश्रमम्।।3.38.12।। Aranya Kanda,38,13,तं तदा दण्डकारण्ये यज्ञमुद्दिश्य दीक्षितम्। बभूवोपस्थितो रामश्चित्रं विष्फारयन्धनुः।।3.38.13।। Aranya Kanda,38,14,अजातव्यञ्जनश्रीमान्पद्मपत्रनिभेक्षणः। एकवस्त्रधरो धन्वी शिखी कनकमालया।।3.38.14।। Aranya Kanda,38,15,शोभयन् दण्डकारण्यं दीप्तेन स्वेन तेजसा। अदृश्यत ततो रामो बालचन्द्र इवोदितः।।3.38.15।। Aranya Kanda,38,16,ततोऽहं मेघसङ्काशस्तप्तकाञ्चनकुण्डलः। बली दत्तवरोदर्पादाजगाम तदाश्रमम्।।3.38.16।। Aranya Kanda,38,17,तेन दृष्टः प्रविष्टोऽहं सहसैवोद्यतायुधः। मां तु दृष्ट्वा धनुस्सज्यमसम्भ्रान्तश्चकार सः।।3.38.17।। Aranya Kanda,38,18,अवजानन्नहं मोहाद्बालोऽयमिति राघवम्। विश्वामित्रस्य तां वेदिमभ्यधावं कृतत्वरः।।3.38.18।। Aranya Kanda,38,19,तेन मुक्तस्ततो बाणः शितश्शत्रुनिबर्हणः। तेनाहं त्वाहतः क्षिप्तस्समुद्रे शतयोजने।।3.38.19।। Aranya Kanda,38,20,नेच्छता तात मां हन्तुं तदा वीरेण रक्षितः। रामस्य शरवेगेन निरस्तोऽहमचेतनः।।3.38.20।। Aranya Kanda,38,21,पातितोऽहं तदा तेन गम्भीरे सागराम्भसि। प्राप्य संज्ञां चिरात्तात लङ्कां प्रतिगतः पुरीम्।।3.38.21।। Aranya Kanda,38,22,एवमस्मि तदा मुक्तस्सहायास्तु निपातिताः। अकृतास्त्रेण बालेन रामेणाक्लिष्टकर्मणा।।3.38.22।। Aranya Kanda,38,23,तन्मया वार्यमाणस्त्वं यदि रामेण विग्रहम्। करिष्यस्यापदं घोरां क्षिप्रं प्राप्स्यसि रावण।।3.38.23।। Aranya Kanda,38,24,क्रीडारतिविधिज्ञानां समाजोत्सवशालिनाम्। रक्षसां चैव सन्तापमनर्थं चाहरिष्यसि।।3.38.24।। Aranya Kanda,38,25,हर्म्यप्रासादसम्बाधां नानारत्नविभूषिताम्। द्रक्ष्यसि त्वं पुरीं लङ्कां विनष्टां मैथिलीकृते।।3.38.25।। Aranya Kanda,38,26,अकुर्वन्तोऽपि पापानि शुचयः पापसंश्रयात्। परपापैर्विनश्यन्ति मत्स्या नागह्रदे यथा।।3.38.26।। Aranya Kanda,38,27,दिव्यचन्दनदिग्धाङ्गान्दिव्याभरणभूषितान्। द्रक्ष्यस्यभिहतान्भूमौ तव दोषात्तु राक्षसान्।।3.38.27।। Aranya Kanda,38,28,हृतदारान् सदारांश्च दश विद्रवतो दिशः। हतशेषानशरणान्द्रक्ष्यसि त्वं निशाचरान्।।3.38.28।। Aranya Kanda,38,29,शरजालपरिक्षिप्तामग्निज्वालासमावृताम्। प्रदग्धभवनां लङ्कां द्रक्ष्यसि त्वं न संशयः।।3.38.29।। Aranya Kanda,38,30,परदाराभिमर्शात्तु नान्यत्पापतरं महत्। प्रमदानां सहस्रं च तव राजन्परिग्रहः।।3.38.30।। Aranya Kanda,38,31,भव स्वदारनिरतस्वकुलं रक्ष राक्षस। मानमृद्धिं च राज्यं च जीवितं चेष्टमात्मनः।।3.38.31।। Aranya Kanda,38,32,कलत्राणि च सौम्यानि मित्रवर्गं तथैव च। यदीच्छसि चिरं भोक्तं मा कृथा रामविप्रियम्।।3.38.32।। Aranya Kanda,38,33,निवार्यमाणस्सुहृदा मया भृशं प्रसह्य सीतां यदि धर्षयिष्यसि। गमिष्यसि क्षीणबलस्सबान्धवो यमक्षयं रामशरात्तजीवितः।।3.38.33।। Aranya Kanda,39,1,एवमस्मि तदा मुक्तः कथञ्चित्तेन संयुगे। इदानीमपि यद्वृत्तं तच्छृणुष्व निरुत्तरम्।।3.39.1।। Aranya Kanda,39,2,राक्षसाभ्यामहं द्वाभ्यामनिर्विण्णस्तथा कृतः। सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावनम्।।3.39.2।। Aranya Kanda,39,3,दीप्तजिह्वो महाकायस्तीक्ष्णदंष्ट्रो महाबलः। व्यचरं दण्डकारण्यं मांसभक्षो महामृगः।।3.39.3।। Aranya Kanda,39,4,अग्निहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण। अत्यन्तघोरो व्यचरं तापसान्सम्प्रधर्षयन्।।3.39.4।। Aranya Kanda,39,5,निहत्य दण्डकारण्ये तापसान्धर्मचारिणः। रुधिराणि पिबंस्तेषां तथा मांसानि भक्षयन्।।3.39.5।। Aranya Kanda,39,6,ऋषिमांसाशनः क्रूरस्त्रासयन्वनगोचरान्। तथा रुधिरमत्तोऽहं विचरन्धर्मदूषकः।।3.39.6।। Aranya Kanda,39,7,आसादयं तदा रामं तापसं धर्मचारिणम्। वैदेहीं च महाभागां लक्ष्मणं च महारथम्।।3.39.7।। Aranya Kanda,39,8,तापसं नियताहारं सर्वभूतहिते रतम्। सोऽहं वनगतं रामं परिभूय महाबलम्।।3.39.8।। Aranya Kanda,39,9,तापसोऽयमिति ज्ञात्वा पूर्ववैरमनुस्मरन्। अभ्यधावं हि संक्रुद्धस्तीक्ष्ण शृङ्गो मृगाकृतिः।।3.39.9।। जिघांसुरकृतप्रज्ञस्तं प्रहारमनुस्मरन्। Aranya Kanda,39,10,तेन मुक्तास्त्रयो बाणाश्शिताश्शत्रुनिबर्हणाः।।3.39.10।। विकृष्य बलवच्चापं सुपर्णानिलनिस्स्वनाः। Aranya Kanda,39,11,ते बाणा वज्रसङ्काशास्सुमुक्ता रक्तभोजनाः। आजग्मुस्सहितास्सर्वे त्रयस्सन्नतपर्वणः।।3.39.11।। Aranya Kanda,39,12,पराक्रमज्ञो रामस्य शठो दृष्टभयः पुरा। समुद्भान्तस्ततोमुक्तस्तावुभौ राक्षसौ हतौ।।3.39.12।। Aranya Kanda,39,13,शरेण मुक्तो रामस्य कथञ्चित्प्राप्य जीवितम्। इह प्रव्राजितो युक्तस्तापसोऽहं समाहितः।।3.39.13।। Aranya Kanda,39,14,वृक्षे वृक्षे च पश्यामि चीरकृष्णाजिनाम्बरम्। गृहीतधनुषं रामं पाशहस्तमिवान्तकम्।।3.39.14।। Aranya Kanda,39,15,अपि रामसहस्राणि भीतः पश्यामि रावण। रामभूतमिदं सर्वमरण्यं प्रतिभाति मे।।3.39.15।। Aranya Kanda,39,16,राममेव हि पश्यामि रहिते राक्षसाधिप। दृष्ट्वा स्वप्नगतं राममुद्भ्रमामि विचेतनः।।3.39.16।। Aranya Kanda,39,17,रकारादीनि नामानि रामत्रस्तस्य रावण। रत्नानि च रथाश्चैव त्रासं संजनयन्ति मे।।3.39.17।। Aranya Kanda,39,18,अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम्। बलिं वा नमुचिं वापि हन्याद्धि रघुनन्दनः।।3.39.18।। Aranya Kanda,39,19,रणे रामेण युद्ध्यस्व क्षमां वा कुरु राक्षस । न ते रामकथा कार्या यदि मां द्रष्टुमिच्छसि ।।3.39.19 ।। Aranya Kanda,39,20,बहवस्साधवो लोके युक्ता धर्ममनुष्ठिताः। परेषामपराधेन विनष्ठास्सपरिच्छदाः।।3.39.20।। Aranya Kanda,39,21,सोऽऽहं तवापराधेन विनश्येयं निशाचर। कुरु यत्ते क्षमं तत्त्वमहं त्वा नानुयामि ह।।3.39.21।। Aranya Kanda,39,22,रामश्च हि महातेजा महासत्त्वो महाबलः।।3.39.22।। अपि राक्षसलोकस्य न भवेदन्तकोऽपि सः। Aranya Kanda,39,23,यदि शूर्पणखाहेतोर्जनस्थानगतः खरः।।3.39.23।। Aranya Kanda,39,24,अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा। अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः।।3.39.24।। Aranya Kanda,39,25,इदं वचो बन्धुहितार्थिनामया यथोच्यमानं यदि नाभिपत्स्यसे। सबान्धवस्त्यक्ष्यसि जीवितं रणे हतोऽऽद्य रामेण शरैरजिह्मगैः।।3.39.25।। Aranya Kanda,40,1,मारीचेन तु तद्वाक्यं क्षमं युक्तं च निशाचरः। उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम्।।3.40.1।। Aranya Kanda,40,2,तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः। अब्रवीत्परुषं वाक्यमयुक्तं कालचोदितः।।3.40.2।। Aranya Kanda,40,3,यत्किलैतदयुक्तार्थं मारीच मयि कथ्यते। वाक्यं निष्फलमत्यर्थमुप्तं बीजमिवोषरे।।3.40.3।। Aranya Kanda,40,4,त्वद्वाक्यैर्न तु मां शक्यं भेत्तुं रामस्य संयुगे। पापशीलस्य मूर्खस्य मानुषस्य विशेषतः।।3.40.4।। Aranya Kanda,40,5,यस्त्यक्त्वा सुहृदो राज्यं मातरं पितरं तथा। स्त्रीवाक्यं प्राकृतं श्रुत्वा वनमेकपदे गतः।।3.40.5।। Aranya Kanda,40,6,अवश्यन्तु मया तस्य संयुगे खरघातिनः। प्राणैः प्रियतरा सीता हर्तव्या तव सन्निधौ।।3.40.6।। Aranya Kanda,40,7,एवं मे निश्चिता बुद्धिर्हृदि मारीच वर्तते। न व्यावर्तयितुं शक्या सेन्द्रैरपि सुरासुरैः।।3.40.7।। Aranya Kanda,40,8,दोषं गुणं वा सम्पृष्टस्त्वमेवं वक्तुमर्हसि। अपायं वाप्युपायं वा कार्यस्यास्य विनिश्चये।।3.40.8।। Aranya Kanda,40,9,सम्पृष्टेन तु वक्तव्यं सचिवेन विपश्चिता। उद्यताञ्जलिना राज्ञे य इच्छेद्भूतिमात्मनः।।3.40.9।। Aranya Kanda,40,10,वाक्यमप्रितकूलं तु मृदुपूर्वं हितं शुभम्। उपचारेण युक्तं च वक्तव्यो वसुधाधिपः।।3.40.10।। Aranya Kanda,40,11,सावमर्दं तु यद्वाक्यं मारीच हितमुच्यते। नाभिनन्दति तद्राजा मानार्हो मानवर्जितम्।।3.40.11।। Aranya Kanda,40,12,पञ्च रूपाणि राजानो धारयन्त्यमितौजसः। अग्नेरिन्द्रस्य सोमस्य वरुणस्य यमस्य च।।3.40.12।। Aranya Kanda,40,13,औष्ण्यं तथा विक्रमं च सौम्यं दण्डं प्रसन्नताम्। धारयन्ति महात्मानो राजानः क्षणदाचर।।3.40.13।। तस्मात्सर्वास्ववस्थासु मान्याः पूज्याश्च पार्थिवाः। Aranya Kanda,40,14,त्वं तु धर्ममविज्ञाय केवलं मोहमास्थितः। अभ्यागतं मां दौरात्म्यात्परुषं वक्तुमिच्छसि।।3.40.14।। Aranya Kanda,40,15,गुणदोषौ न पृच्छामि क्षमं चात्मनि राक्षस। मयोक्तं तव चैतावत्संप्रत्यमितविक्रमः।।3.40.15।। Aranya Kanda,40,16,अस्मिंस्तु त्वं महाकृत्ये साहाय्यं कर्तुमर्हसि। शृणु तत्कर्म साहाय्ये यत्कार्यं वचनान्मम।।3.40.16।। Aranya Kanda,40,17,सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः । आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ।।3.40.17 ।। Aranya Kanda,40,18,सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः। आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर। प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि।।3.40.18।। Aranya Kanda,40,19,त्वां तु मायामृगं दृष्ट्वा काञ्चनं जातविस्मया। आनयैनमिति क्षिप्रं रामं वक्ष्यति मैथिली।।3.40.19।। Aranya Kanda,40,20,अपक्रान्ते तु काकुत्स्थे दूरं यात्वाप्युदाहर। हा सीते लक्ष्मणेत्येवं रामवाक्यानुरूपकम्।।3.40.20।। Aranya Kanda,40,21,तच्छ्रुत्वा रामपदवीं सीतया च प्रचोदितः। अनुगच्छति सम्भ्रान्तः सौमित्रिरपि सौहृदात्।।3.40.21।। Aranya Kanda,40,22,अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम्। आनयिष्यामि वैदेहीं सहस्राक्षश्शचीमिव।।3.40.22।। Aranya Kanda,40,23,एवं कृत्वा त्विदं कार्यं यथेष्टं गच्छ राक्षस। राज्यस्यार्धं प्रयच्छामि मारीच तव सुव्रत।।3.40.23।। Aranya Kanda,40,24,गच्छ सौम्य शिवं मार्गं कार्यस्यास्य विवृद्धये। अहं त्वानुगमिष्यामि सरथो दण्डकावनम्।।3.40.24।। Aranya Kanda,40,25,प्राप्य सीतामयुद्धेन वञ्चयित्वा तु राघवम्। लङ्कां प्रतिगमिष्यामि कृतकार्यस्सह त्वया।।3.40.25।। Aranya Kanda,40,26,न चेत्करोषि मारीच हन्मि त्वामहमद्य वै। एतत्कार्यमवश्यं मे बलादपि करिष्यसि। राज्ञो हि प्रतिकूलस्थो न जातु सुखमेधते।।3.40.26।। Aranya Kanda,40,27,आसाद्य तं जीवितसंशयस्ते मृत्युर्ध्रुवो ह्यद्य मया विरुध्य। एतद्यथावत्प्रतिगृह्य बुद्ध्या यदत्र पथ्यं कुरु तत्तथा त्वम्।।3.40.27।। Aranya Kanda,41,1,आज्ञप्तो राजवद्वाक्यं प्रतिकूलं निशाचरः। अब्रवीत्परुषं वाक्यं मारीचो राक्षसाधिपम्।।3.41.1।। Aranya Kanda,41,2,केनायमुपदिष्टस्ते विनाशः पापकर्मणा। सपुत्रस्य सराष्ट्रस्य सामात्यस्य निशाचर।।3.41.2।। Aranya Kanda,41,3,कस्त्वया सुखिना राजन्नाभिनन्दति पापकृत्। केनेदमुपदिष्टं ते मृत्युद्वारमुपायतः।।3.41.3।। Aranya Kanda,41,4,शत्रवस्तव सुव्यक्तं हीनवीर्या निशाचराः। इच्छन्ति त्वां विनश्यन्तमुपरुद्धं बलीयसा।।3.41.4।। Aranya Kanda,41,5,केनेदमुपदिष्टं ते क्षुद्रेणाहितवादिना। यस्त्वामिच्छति नश्यन्तं स्वकृतेन निशाचर।।3.41.5।। Aranya Kanda,41,6,वध्याः खलु न हन्यन्ते सचिवास्तव रावण। ये त्वामुत्पथमारूढं न निगृह्णन्ति सर्वशः।।3.41.6।। Aranya Kanda,41,7,अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः। निग्राह्यस्सर्वथा सदभिर्न निग्राह्यो निगृह्यसे।।3.41.7।। Aranya Kanda,41,8,धर्ममर्थं च कामं च यशश्च जयतां वर। स्वामिप्रसादात्सचिवाः प्राप्नुवन्ति निशाचर।।3.41.8।। Aranya Kanda,41,9,विपर्यये तु तत्सर्वं व्यर्थं भवति रावण। व्यसनं स्वामिवैगुण्यात्प्राप्नुवन्तीतरे जनाः।।3.41.9।। Aranya Kanda,41,10,राजमूलो हि धर्मश्च जयश्च जयतां वर। तस्मात्सर्वास्ववस्थासु रक्षितव्या नराधिपाः।।3.41.10।। Aranya Kanda,41,11,राज्यं पालयितुं शक्यं न तीक्ष्णेन निशाचर। न चापि प्रतिकूलेन नाविनीतेन राक्षस।।3.41.11।। Aranya Kanda,41,12,ये तीक्ष्णमन्त्रास्सचिवा भज्यन्ते सह तेन वै। विषमे तुरगा श्शीघ्रा मन्दसारथयो यथा।।3.41.12।। Aranya Kanda,41,13,बहवस्साधवो लोके युक्ता धर्ममनुष्ठिताः। परेषामपराधेन विनष्टास्सपरिच्छदाः।।3.41.13।। Aranya Kanda,41,14,स्वामिना प्रतिकूलेन प्रजास्तीक्ष्णेन रावण। रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा।।3.41.14।। Aranya Kanda,41,15,अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः। येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः।।3.41.15।। Aranya Kanda,41,16,तदिदं काकतालीयं घोरमासादितं मया। अत्र किं शोचनीयस्त्वं ससैन्यो विनशिष्यसि।।3.41.16।। Aranya Kanda,41,17,मां निहत्य तु रामश्च न चिरात्त्वां वधिष्यति। अनेन कृतकृत्योऽस्मि म्रियेयमरिणा हतः।।3.41.17।। Aranya Kanda,41,18,दर्शनादेव रामस्य हतं मामवधारय। आत्मानं च हतं विद्धि हृत्वा सीतां सबान्धवम्।।3.41.18।। Aranya Kanda,41,19,आनयिष्यसि चेत्सीतामाश्रमात्सहितो मया। नैवत्वमसि नाहं च नैव लङ्का न राक्षसाः।।3.41.19।। Aranya Kanda,41,20,निवार्यमाणस्तु मया हितैषिणा न मृष्यसे वाक्यमिदं निशाचर। परेतकल्पा हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिरीरितम्।।3.41.20।। Aranya Kanda,42,1,एवमुक्त्वा तु वचनं मारीचो रावणं ततः। गच्छावेत्यब्रवीद्दीनो भयाद्रात्रिंचरप्रभोः।।3.42.1।। Aranya Kanda,42,2,दृष्टश्चाहं पुनस्तेन शरचापासिधारिणा। मद्वधोद्यतशस्त्रेऽण विनष्टं जीवितं च मे।।3.42.2।। Aranya Kanda,42,3,न हि रामं पराक्रम्य जीवन्प्रतिनिवर्तते। वर्तते प्रतिरूपोऽसौ यमदण्डहतस्य ते।।3.42.3।। Aranya Kanda,42,4,किं नु शक्यं मया कर्तुमेवं त्वयि दुरात्मनि। एष गच्छाम्यहं तात स्वस्ति तेऽस्तु निशाचर।।3.42.4।। Aranya Kanda,42,5,प्रहृष्टस्त्वभवत्तेन वचनेन स रावणः। परिष्वज्य सुसंश्लिष्टमिदं वचनमब्रवीत्।।3.42.5।। Aranya Kanda,42,6,एतच्छौण्डीर्ययुक्तं ते मच्छन्दवशवर्तिनः। इदानीमसि मारीचः पूर्वमन्यो निशाचरः।।3.42.6।। Aranya Kanda,42,7,आरुह्यतामयं शीघ्रं रथो रत्नविभूषितः। मया सह तथा युक्तः पिशाचवदनैः खरैः।।3.42.7।। Aranya Kanda,42,8,प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि। तां शून्ये प्रसभं सीतामानयिष्यामि मैथिलीम्।।3.42.8।। Aranya Kanda,42,9,ततो रावणमारीचौ विमानमिव तं रथम्। आरुह्य ययतुश्शीघ्रं तस्मादाश्रममण्डलात्।।3.42.9।। Aranya Kanda,42,10,तथैव तत्र पश्यन्तौ पत्तनानि वनानि च। गीरींश्च सरितस्सर्वा राष्ट्राणि नगराणि च।।3.42.10।। Aranya Kanda,42,11,समेत्य दण्डकारण्यं राघवस्याश्रमं ततः। ददर्श सह मारीचो रावणो राक्षसाधिपः।।3.42.11।। Aranya Kanda,42,12,अवतीर्य रथात्तस्मात्ततः काञ्चनभूषणात्। हस्ते गृहीत्वा मारीचं रावणो वाक्यमब्रवीत्।।3.42.12।। Aranya Kanda,42,13,एतदाश्रमपदं दृश्यते कदलीवृतम्। क्रियतां तत्सखे शीघ्रं यदर्थं वयमागताः।।3.42.13।। Aranya Kanda,42,14,स रावणवचश्श्रुत्वा मारीचो राक्षसस्तदा। मृगो भूत्वाऽश्रमद्वारि रामस्य विचचार ह।।3.42.14।। Aranya Kanda,42,15,स तु तद्रूपमास्थाय महदद्भुतदर्शनम्। मणिप्रवरशृङ्गाग्रस्सितासितमुखाकृतिः।।3.42.15।। Aranya Kanda,42,16,रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः। किंचिदभ्युन्नतग्रीव इंद्रनीलदलाधरः।।3.42.16।। Aranya Kanda,42,17,कुन्देन्दुवज्रसङ्काशमुदरं चास्य भास्वरम्। मधूकनिभपार्श्वश्च पद्मकिञ्जल्कसन्निभः।।3.42.17।। वैडूर्यसङ्काशखुरस्तनुजङ्घस्सुसंहतः। Aranya Kanda,42,18,इन्द्रायुधसवर्णेन पुच्छेनोर्ध्वं विराजता।।3.42.18।। मनोहरस्स्निग्धवर्णो रत्नैर्नानाविधैर्वृतः। Aranya Kanda,42,19,क्षणेन राक्षसो जातो मृगः परमशोभनः।।3.42.19।। वनं प्रज्वलयन्रम्यं रामाश्रमपदं च तत्। Aranya Kanda,42,20,मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः।।3.42.20।। Aranya Kanda,42,21,प्रलोभनार्थं वैदेह्या नानाधातुविचित्रितम्। विचरन्गच्छते तस्माच्छाद्वलानि समन्ततः।।3.42.21।। Aranya Kanda,42,22,रूप्यैर्बिन्दुशतैश्चित्रो भूत्वा स प्रियदर्शनः। विटपीनां किसलयान्भङ्त्क्वाऽदन्विचचार ह।।3.42.22।। Aranya Kanda,42,23,कदलीगृहकं गत्वा कर्णिकारानितस्ततः। समाश्रयन्मन्दगतिस्सीतासन्दर्शनं तथा।।3.42.23।। Aranya Kanda,42,24,राजीवचित्रपृष्ठस्स विरराज महामृगः। रामाश्रमपदाभ्याशे विचचार यथासुखम्।।3.42.24।। Aranya Kanda,42,25,पुनर्गत्वा निवृत्तश्च विचचार मृगोत्तमः। गत्वा मुहूर्तं त्वरया पुनः प्रतिनिवर्तते।।3.42.25।। Aranya Kanda,42,26,विक्रीडंश्च क्वचिद्भूमौ पुनरेव निषीदति। आश्रमद्वारमागम्य मृगयूथानि गच्छति।।3.42.26।। Aranya Kanda,42,27,मृगयूथैरनुगतः पुनरेव निवर्तते। सीतादर्शनमाकांक्षन्राक्षसो मृगतां गतः।।3.42.27।। परिभ्रमति चित्राणि मण्डलानि विनिष्पतन्। Aranya Kanda,42,28,समुद्वीक्ष्य च ते सर्वे मृगा ह्यन्ये वनेचराः।।3.42.28।। उपागम्य समाघ्राय विद्रवन्ति दिशो दश। Aranya Kanda,42,29,राक्षसस्सोऽपि तान्वन्यान्मृगान्मृगवधे रतः।।3.42.29।। प्रच्छादनार्थं भावस्य न भक्षयति संस्पृशन्। Aranya Kanda,42,30,तस्मिन्नेव ततः काले वैदेही शुभलोचना।।3.42.30।। कुसुमावचयव्यग्रा पादपानभ्यवर्तत। Aranya Kanda,42,31,कर्णिकारानशोकांश्च चूतांश्च मदिरेक्षणा।।3.42.31।। कुसुमान्यवचिन्वन्ती चचार रुचिरानना। Aranya Kanda,42,32,अनर्हाऽरण्यवासस्य सा तं रत्नमयं मृगम्।।3.42.32।। मुक्तामणि विचित्राङ्गं ददर्श परमाङ्गना। Aranya Kanda,42,33,सा तं रुचिरदन्तोष्ठी रूप्यधातुतनूरुहम्।।3.42.33।। विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत। Aranya Kanda,42,34,स च तां रामदयितां पश्यन्मायामयो मृगः।।3.42.34।। विचचार पुनश्चित्रं दीपयन्निव तद्वनम्। Aranya Kanda,42,35,अदृष्टपूर्वं तं दृष्ट्वा नानारत्नमयं मृगम्।।3.42.35।। विस्मयं परमं सीता जगाम जनकात्मजा। Aranya Kanda,43,1,सा तं सम्प्रेक्ष्य सुश्रोणी कुसुमान्यपचिन्वती। हेमराजतवर्णाभ्यां पार्श्वाभ्यामुपशोभितम्।।3.43.1।। Aranya Kanda,43,2,प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी। भर्तारमपि चक्रन्द लक्ष्मणं चापि सायुधम्।।3.43.2।। Aranya Kanda,43,3,तयाऽऽहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ। वीक्षमाणौ तु तौ देशं तदा ददृशतुर्मृगम्।।3.43.3।। Aranya Kanda,43,4,शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो राममब्रवीत्। तमेवैनमहं मन्ये मारीचं राक्षसं मृगम्।।3.43.4।। Aranya Kanda,43,5,चरन्तोमृगयां हृष्टाः पापेनोपाधिना वने। अनेन निहता राजन् राजानः कामरूपिणा।।3.43.5।। Aranya Kanda,43,6,अस्य मायाविदो मायामृगरूपमिदं कृतम्। भानुमत्पुरुषव्याघ्र गन्धर्वपुरसन्निभम्।।3.43.6।। Aranya Kanda,43,7,मृगो ह्येवंविधो रत्नविचित्रो नास्ति राघव। जगत्यां जगतीनाथ मायैषा हि न संशयः।।3.43.7।। Aranya Kanda,43,8,एवं ब्रुवाणं काकुत्स्थं प्रतिवार्य शुचिस्मिता। उवाच सीता संहृष्टा चर्मणा हृतचेतना।।3.43.8।। Aranya Kanda,43,9,आर्यपुत्राभिरामोऽसौ मृगो हरति मे मनः। आनयैनं महाबाहो क्रीडार्थं नो भविष्यति।।3.43.9।। Aranya Kanda,43,10,इहाश्रमपदेऽस्माकं बहवः पुण्यदर्शनाः। मृगाश्चरन्ति सहिताश्चमरास्सृमरास्तथा।।3.43.10।। Aranya Kanda,43,11,ऋक्षाः पृषतसङ्घाश्च वानराः किन्नरास्तथा। विचरन्ति महाबाहो रुपश्रेष्ठा मनोहराः।।3.43.11।। Aranya Kanda,43,12,न चास्य सदृशो राजन्दृष्टपूर्वो मृगो मया। तेजसा क्षमया दीप्त्या यथाऽयं मृगसत्तमः।।3.43.12।। Aranya Kanda,43,13,नानावर्णविचित्राङ्गो रत्नबिन्दुसमाचितः। द्योतयन्वनमव्यग्रं शोभते शशिसन्निभः।।3.43.13।। Aranya Kanda,43,14,अहो रूपमहो लक्ष्मीस्स्वरसम्पच्च शोभना। मृगोऽद्भुतो विचित्राङ्गो हृदयं हरतीव मे।।3.43.14।। Aranya Kanda,43,15,यदि ग्रहणमभ्येति जीवन्नेव मृगस्तव। आश्चर्यभूतं भवति विस्मयं जनयिष्यति।।3.43.15।। Aranya Kanda,43,16,समाप्तवनवासानां राज्यस्थानां च नः पुनः। अन्तःपुरविभूषार्थो मृग एष भविष्यति।।3.43.16।। Aranya Kanda,43,17,भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो। मृगरूपमिदं व्यक्तं विस्मयं जनयिष्यति।।3.43.17।। Aranya Kanda,43,18,जीवन्न यदि तेऽभ्येति ग्रहणं मृगसत्तमः। अजिनं नरशार्दूल रुचिरं मे भविष्यति।।3.43.18।। Aranya Kanda,43,19,निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि। शष्पबृस्यां विनीतायामिच्छाम्यहमुपासितुम्।।3.43.19।। Aranya Kanda,43,20,कामवृत्तमिदं रौद्रं स्त्रीणामसदृशं मतम्। वपुषा त्वस्य सत्त्वस्य विस्मयो जनितो मम।।3.43.20।। Aranya Kanda,43,21,तेन काञ्चनवर्णेन मणिप्रवरशृङ्गिणा। तरुणादित्यवर्णेन नक्षत्रपथवर्चसा।।3.43.21।। बभूव राघवस्यापि मनो विस्मयमागतम्। Aranya Kanda,43,22,एवं सीतावचः श्रुत्वा तं दृष्ट्वा मृगमद्भुतम्।।3.43.22।। Aranya Kanda,43,23,लोभितस्तेन रूपेण सीतया च प्रचोदितः। उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः।।3.43.23।। Aranya Kanda,43,24,पश्य लक्ष्मण वैदेह्याः स्पृहां मृगगतामिमाम्। रूपश्रेष्ठतया ह्येष मृगोऽद्य न भविष्यति।।3.43.24।। Aranya Kanda,43,25,न वने नन्दनोद्धेशे न चैत्ररथसंश्रये। कुतःपृथिव्यां सौमित्रे योऽस्य कश्चित्समो मृगः।।3.43.25।। Aranya Kanda,43,26,प्रतिलोमानुलोमाश्च रुचिरा रोमराजयः। शोभन्ते मृगमाश्रित्य चित्राः कनकबिन्दवः।।3.43.26।। Aranya Kanda,43,27,पश्यास्य जृम्भमाणस्य दीप्तामग्निशिखोपमाम्। जिह्वां मुखान्निस्सरन्तीं मेघादिव शतह्रदाम्।।3.43.27।। Aranya Kanda,43,28,मसारगल्लर्कमुखश्शङ्खमुक्तानिभोदरः। कस्य नामाभिरूप्योऽसौ न मनो लोभयेन्मृगः।।3.43.28।। Aranya Kanda,43,29,कस्य रूपमिदं दृष्ट्वा जाम्बूनद मयप्रभम्। नानारत्नमयं दिव्यं न मनो विस्मयं व्रजेत्।।3.43.29।। Aranya Kanda,43,30,मांसहेतोरपि मृगान्विनोदार्थं च धन्वनः। घ्नन्ति लक्ष्मण राजानो मृगयायां महावने।।3.43.30।। Aranya Kanda,43,31,धनानि व्यवसायेन विचीयन्ते महावने। धातवो विविधाश्चापि मणिरत्नसुवर्णिनः।।3.43.31।। Aranya Kanda,43,32,तत्सारमखिलं नृ़णां धनं निचयवर्धनम्। मनसा चिन्तितं सर्वं यथा शुक्रस्य लक्ष्मण।।3.43.32।। Aranya Kanda,43,33,अर्थी येनार्थकृत्येन संव्रजत्यविचारयन्। तमर्थमर्थशास्त्रज्ञाः प्राहुरर्थ्याश्च लक्ष्मण।।3.43.33।। Aranya Kanda,43,34,एतस्य मृगरत्नस्य परार्ध्ये काञ्चनत्वचि। उपवेक्ष्यति वैदेही मया सह सुमध्यमा।।3.43.34।। Aranya Kanda,43,35,न कादली न प्रियकी न प्रवेणी न चाविकी। भवेदेतस्य सदृशी स्पर्शनेनेति मे मतिः।।3.43.35।। Aranya Kanda,43,36,एष चैव मृगश्श्रीमान् यश्च दिव्यो नभश्चरः। उभावेतौ मृगौ दिव्यौ तारामृगमहीमृगौ।।3.43.36।। Aranya Kanda,43,37,यदि वाऽयं तथा यन्मां भवेद्वदसि लक्ष्मण। मायैषा राक्षसस्येति कर्तव्योस्य वधो मया।।3.43.37।। Aranya Kanda,43,38,एतेन हि नृशंसेन मारीचेनाकृतात्मना। वने विचरता पूर्वं हिंसिता मुनिपुङ्गवाः।।3.43.38।। Aranya Kanda,43,39,उत्थाय बहवो येन मृगयायां जनाधिपाः। निहताः परमेष्वासास्तस्माद्वध्यस्त्वयं मृगः।।3.43.39।। Aranya Kanda,43,40,पुरस्तादिह वातापिः परिभूय तपस्विनः। उदरस्थो द्विजान्हन्तिस्वगर्भोऽश्वतरीमिव।।3.43.40।। Aranya Kanda,43,41,स कदाचिच्चिराल्लोभादाससाद महामुनिम्। अगस्त्यं तेजसा युक्तं भक्षस्तस्य बभूव ह।।3.43.41।। Aranya Kanda,43,42,समुत्थाने व तद्रूपं कर्तुकामं समीक्ष्य तम्। उत्स्मयित्वा तु भगवान्वातापिमिदमब्रवीत्।।3.43.42।। Aranya Kanda,43,43,त्वयाऽविगण्य वातापे परिभूतास्स्वतेजसा। जीवलोके द्विजश्रेष्ठास्तस्मादसि जरां गतः।।3.43.43।। Aranya Kanda,43,44,तदेवं न भवेद्रक्षोवातापिरिव लक्ष्मण। मद्विधं योऽतिमन्येत धर्मनित्यं जितेन्द्रियम्।।3.43.44।। भवेद्धतोऽयं वातापिरगस्त्येनेव मां गतः। Aranya Kanda,43,45,इह त्वं भव सन्नद्दो यन्त्रितो रक्ष मैथिलीम्।।3.43.45।। अस्यामायत्तमस्माकं यत्कृत्यं रघुनन्दन। Aranya Kanda,43,46,अहमेनं वधिष्यामि ग्रहीष्याम्यपि वा मृगम्।।3.43.46।। यावद्गच्छामि सौमित्रे मृगमानयितुं द्रुतम्। Aranya Kanda,43,47,पश्य लक्ष्मण वैदेहीं मृगत्वचि गतस्पृहाम्।।3.43.47।। त्वचा प्रधानया ह्येष मृगोऽद्य न भविष्यति। Aranya Kanda,43,48,अप्रमत्तेन ते भाव्यमाश्रमस्थेन सीतया।।3.43.48।। Aranya Kanda,43,49,यावत्पृषतमेकेन सायकेन निहन्म्यहम्। हत्वैतच्चर्म चादाय शीघ्रमेष्यामि लक्ष्मण।।3.43.49।। Aranya Kanda,43,50,प्रदक्षिणेनातिबलेन पक्षिणा जटायुषा बुद्धिमता च लक्ष्मण। भवाप्रमत्तः परिगृह्य मैथिलीं प्रतिक्षणं सर्वत एव शङ्कितः।।3.43.50।। Aranya Kanda,44,1,तथा तु तं समादिश्य भ्रातरं रघुनन्दनः। बबन्धासिं महातेजा जाम्बूनदमयत्सरुम्।।3.44.1।। Aranya Kanda,44,2,तत स्त्र्यवनतं चापमादायाऽत्मविभूषणम्। आबध्य च कलापौ द्वौ जगामोदग्रविक्रमः।।3.44.2।। Aranya Kanda,44,3,तं वञ्चयानो राजेन्द्रमापतन्तं निरीक्ष्यवै। बभूवान्तर्हितस्त्रासात्पुनस्सन्दर्शनेऽभवत्।।च3.44.3।। बद्धासिर्धनुरादाय प्रदुद्राव यतो मृगः। Aranya Kanda,44,4,तं स्म पश्यति रूपेण द्योतमानमिवाग्रतः।।3.44.4।। Aranya Kanda,44,5,अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणिर्महावने। अतिवृत्तमिषोः पाताल्लोभयानं कदाचन।।3.44.5।। Aranya Kanda,44,6,शङ्कितन्तु समुद्भ्रान्तमुत्पतन्तमिवाम्बरे। दृश्यमानमदृश्यं च वनोद्देशेषु केषुचित्।।3.44.6।। छिन्नाभ्रैरिव संवीतं शारदं चन्द्रमण्डलम्। Aranya Kanda,44,7,मुहुर्तादेव ददृशे मुहुर्दूरात्प्रकाशते।।3.44.7।। Aranya Kanda,44,8,दर्शनादर्शनादेवं सोऽपाकर्षत राघवम्। सुदूरमाश्रमस्यास्य मारीचो मृगतां गतः।।3.44.8।। Aranya Kanda,44,9,आसीत् क्रुद्धस्तु काकुत्स्थो विवशस्तेन मोहितः। अथावतस्थे संभ्रान्तश्चायामाश्रित्य शाद्वले।।3.44.9।। Aranya Kanda,44,10,स तमुन्मादयामास मृगरूपो निशाचरः। मृगैः परिवृतो वन्यैरदूरात्प्रत्यदृश्यत।।3.44.10।। Aranya Kanda,44,11,गृहीतुकामं दृष्ट्वैवं पुनरेवाभ्यधावत। तत्क्षणादेव संत्रासात्पुनरन्तर्हितोऽभवत्।।3.44.11।। Aranya Kanda,44,12,पुनरेव ततो दूराद्वृक्षषण्डाद्विनिस्सृतम्। दृष्ट्वा रामो महातेजास्तं हन्तुं कृतनिश्चयः।।3.44.12।। Aranya Kanda,44,13,भूयस्तु शरमुद्धृत्य कुपितस्तत्र राघवः। सूर्यरश्मिप्रतीकाशं ज्वलन्तमरिमर्दनः।।3.44.13।। Aranya Kanda,44,14,सन्धाय सुदृढे चापे विकृष्य बलवद्बली। तमेव मृगमुद्दिश्य श्वसन्तमिव पन्नगम्।।3.44.14।। मुमोच ज्वलितं दीप्तमस्त्रं ब्रह्मविनिर्मितम्। Aranya Kanda,44,15,शरीरं मृगरूपस्य विनिर्भिद्य शरोत्तमः।।3.44.15।। मारीचस्यैव हृदयं बिभेदाशनिसन्निभः। Aranya Kanda,44,16,तालमात्रमथोत्प्लुत्य न्यपतत्सशरातुरः।।3.44.16।। विनदन्भैरवं नादं धरण्यामल्पजीवितः। Aranya Kanda,44,17,म्रियमाणस्तु मारीचो जहौ तां कृत्रिमां तनुम्।।3.44.17।। Aranya Kanda,44,18,स्मृत्वा तद्वचनं रक्षो दध्यौ केन तु लक्ष्मणम्। इह प्रस्थापयेत्सीता शून्ये तां रावणो हरेत्।।3.44.18।। Aranya Kanda,44,19,स प्राप्तकालमाज्ञाय चकार च तत स्वनम्। सदृशं राघवस्येह हा सीते लक्ष्मणेति च।।3.44.19।। Aranya Kanda,44,20,तेन मर्मणि निर्विद्धं शरेणानुपमेन हि। मृगरूपं तु तत्त्यक्त्वा राक्षसं रूपमास्थितः।।3.44.20।। चक्रे स सुमहाकायं मारीचो जीवितं त्यजन्। Aranya Kanda,44,21,तं दृष्ट्वा पतितं भूमौ राक्षसं घोरदर्शनम्।।3.44.21।। Aranya Kanda,44,22,रामो रुधिरसिक्ताङ्गं चेष्टमानं महीतले। जगाम मनसा सीतां लक्ष्मणस्य वचस्स्मरन्।।3.44.22।। Aranya Kanda,44,23,मारीचस्य तु मायैषा पूर्वोक्तं लक्ष्मणेन तु। तत्तथा ह्यभवच्चाद्य मारीचोऽयं मया हतः।।3.44.23।। Aranya Kanda,44,24,हा सीते लक्ष्मणेत्येवमाक्रुश्य च महास्वरम्। ममार राक्षसस्सोऽयं श्रुत्वा सीता कथं भवेत्।।3.44.24।। Aranya Kanda,44,25,लक्ष्मणश्च महाबाहुः कामवस्थां गमिष्यति। इति सञ्चिन्त्य धर्मात्मा रामो हृष्टतनूरुहः।।3.44.25।। Aranya Kanda,44,26,तत्र रामं भयं तीव्रमाविवेश विषादजम्। राक्षसं मृगरूपं तं हत्वा श्रुत्वा च तत्स्वरम्।।3.44.26।। Aranya Kanda,44,27,निहत्य पृषतं चान्यं मांसमादाय राघवः। त्वरमाणो जनस्थानं ससाराभिमुखस्तदा।।3.44.27।। Aranya Kanda,45,1,आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने। उवाच लक्ष्मणं सीता गच्छ जीनीहि राघवम्।।3.45.1।। Aranya Kanda,45,2,न हि मे हृदयं स्थाने जीवितं वाऽवतिष्ठति। क्रोशतः परमार्तस्य श्रुतश्शब्दो मया भृशम्।।3.45.2।। आक्रन्दमानं तु वने भ्रातरं त्रातुमर्हसि। Aranya Kanda,45,3,तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम्।।3.45.3।। रक्षसां वशमापन्नं सिंहानामिव गोवृषम्। Aranya Kanda,45,4,न जगाम तथोक्तस्तु भ्रातुराज्ञाय शासनम्।।3.45.4।। तमुवाच ततस्तत्र कुपिता जनकात्मजा। Aranya Kanda,45,5,सौमित्रे मित्ररूपेण भ्रातुस्त्वमसि शत्रुवत्।।3.45.5।। यस्त्वमस्यामवस्थायां भ्रातरं नाभिपत्स्यसे। Aranya Kanda,45,6,इच्छसि त्वं विनश्यन्तं रामं लक्ष्मण मत्कृते।।3.45.6।। लोभात्त्वं मत्कृते नूनं नानुगच्छसि राघवम्। Aranya Kanda,45,7,व्यसनं ते प्रियं मन्ये स्नेहो भ्रातरिनास्तिते।।3.45.7।। तेन तिष्ठसि विश्रब्धंतमपश्यन्महाद्युतिम्। Aranya Kanda,45,8,किं हि संशयमापन्ने तस्मिन्निह मया भवेत्।।3.45.8।। कर्तव्यमिह तिष्ठन्त्या यत्प्रधानस्त्वमागतः। Aranya Kanda,45,9,इति ब्रुवाणां वैदेहीं बाष्पशोकपरिप्लुताम्।।3.45.9।। अब्रवील्लक्ष्मणस्त्रस्तां सीतां मृगवधूमिव। Aranya Kanda,45,10,पन्नगासुरगन्धर्वदेवमानुषराक्षसैः।।3.45.10।। अशक्यस्तव वैदेहि भर्ता जेतुं न संशयः। Aranya Kanda,45,11,देवि देवमनुष्येषु गन्धर्वेषु पतत्रिषु।।3.45.11।। Aranya Kanda,45,12,राक्षसेषु पिशाचेषु किन्नरेषु मृगेषु च। दानवेषु च घोरेषु स न विद्येत शोभने।।3.45.12।। यो रामं प्रतियुध्येत समरे वासवोपमम्। Aranya Kanda,45,13,अवध्यस्समरे रामो नैवं त्वं वक्तुमर्हसि।।3.45.13।। न त्वामस्मिन्वने हातुमुत्सहे राघवं विना। Aranya Kanda,45,14,अनिवार्यं बलं तस्य बलैर्बलवतामपि।।3.45.14।। त्रिभिर्लोकैस्समुद्युक्तैस्सेश्वरैरपि सामरैः। Aranya Kanda,45,15,हृदयं निर्वृतं तेऽस्तुसन्तापस्त्यज्यतामयम्।।3.45.15।। आगमिष्यति ते भर्ता श्रीघ्रं हत्वा मृगोत्तमम्। Aranya Kanda,45,16,न च तस्य स्वरो व्यक्तं मायया केन चित्कृतः। गन्धर्वनगरप्रख्या माया सा तस्य रक्षसः।।3.45.16।। Aranya Kanda,45,17,न्यासभूतासि वैदेहि न्यस्ता मयि महात्मना।।3.45.17।। रामेण त्वं वरारोहे न त्वां त्यक्तुमिहोत्सहे। Aranya Kanda,45,18,कृतवैराश्च वैदेहि वयमेतैर्निशाचरैः।।3.45.18।। खरस्य निधनादेव जनस्थानवधं प्रति। Aranya Kanda,45,19,राक्षसा विविधा वाचो विसृजन्ति महावने।।3.45.19।। हिंसाविहारा वैदेहि न चिन्तयितुमर्हसि। Aranya Kanda,45,20,लक्ष्मणेनैवमुक्ता सा क्रुद्धा संरक्तलोचना।।3.45.20।। अब्रवीत्परुषं वाक्यं लक्ष्मणं सत्यवादिनम्। Aranya Kanda,45,21,अनार्याकरणारम्भ नृशंस कुलपांसन।।3.45.21।। अहं तव प्रियं मन्ये रामस्य व्यसनं महत्। Aranya Kanda,45,22,रामस्य व्यसनं दृष्ट्वा तेनैतानि प्रभाषसे।।3.45.22।। Aranya Kanda,45,23,नैतच्चित्रं सपत्नेषु पापं लक्ष्मण यद्भवेत्। त्वद्विधेषु नृशंसेषु नित्यं प्रच्छन्नचारिषु।।3.45.23।। Aranya Kanda,45,24,सुदुष्टस्त्वं वने राममेकमेकोऽनुगच्छसि। मम हेतोः प्रतिच्छन्नः प्रयुक्तोभरतेन वा।।3.45.24।। Aranya Kanda,45,25,तन्नसिध्यति सौमित्रे तव वा भरतस्य वा। कथमिन्दीवरश्यामं पद्मपत्रनिभेक्षणम्।।3.45.25।। उपसंश्रित्य भर्तारं कामयेयं पृथग्जनम्। Aranya Kanda,45,26,समक्षं तव सौमित्रे प्राणांस्त्यक्षे न संशयः। रामं विना क्षणमपि न हि जीवामि भूतले।।3.45.26।। Aranya Kanda,45,27,इत्युक्तः परुषं वाक्यं सीतया रोमहर्षणम्।।3.45.27।। अब्रवील्लक्ष्मणस्सीतां प्राञ्जलिर्विजितेन्द्रियः। Aranya Kanda,45,28,उत्तरं नोत्सहे वक्तुं दैवतं भवती मम।।3.45.28।। Aranya Kanda,45,29,वाक्यमप्रतिरूपं तु न चित्रं स्त्रीषु मैथिलि। स्वभावस्त्वेष नारीणामेवं लोकेषु दृश्यते।।3.45.29।। Aranya Kanda,45,30,विमुक्तधर्माश्चपलास्तीक्ष्णा भेदकराः स्त्रियः। न सहे हीदृशं वाक्यं वैदेहि जनकात्मजे।।3.45.30।। श्रोत्रयोरुभयोर्मेद्य तप्तनाराचसन्निभम्। Aranya Kanda,45,31,उपशृण्वन्तु मे सर्वे साक्षिभूता वनेचराः।।3.45.31।। न्यायवादी यथान्यायमुक्तोऽहं परुषं त्वया। Aranya Kanda,45,32,धिक्त्वामद्य प्रणश्य त्वं यन्मामेवं विशङ्कसे। स्त्रीत्वलदुष्टं स्वभावेन गुरुवाक्ये व्यवस्थितम्।।3.45.32।। Aranya Kanda,45,33,गमिष्ये यत्र काकुत्स्थ स्वस्ति तेऽस्तु वरानने।।3.45.33।। रक्षन्तु त्वां विशालाक्षि समग्रा वनदेवताः। Aranya Kanda,45,34,निमित्तानि च घोराणि यानि प्रादुर्भवन्ति मे।।3.45.34।। Aranya Kanda,45,35,अपि त्वां सह रामेण पश्येयं पुनरागतः। न वेत्येतन्न जानामि वैदेहि जनकात्मजे।।3.45.35।। Aranya Kanda,45,36,लक्ष्मणेनैवमुक्ता सा रुदन्ती जनकात्मजा। प्रत्युवाच ततो वाक्यं तीव्रं बाष्पपरिप्लुता।।3.45.36।। Aranya Kanda,45,37,गोदावरीं प्रवेक्ष्यामि विना रामेण लक्ष्मण। अबन्धिष्येऽथवा त्यक्ष्ये विषमे देहमात्मनः।।3.45.37।। Aranya Kanda,45,38,पिबाम्यहं विषं तीक्ष्णं प्रवेक्ष्यामि हुताशनम्। न त्वहं राघवादन्यं पदापि पुरुषं स्पृशे।।3.45.38।। Aranya Kanda,45,39,इति लक्ष्मणमाक्रुश्य सीता दुःखसमन्विता। पाणिभ्यां रुदती दुःखादुदरं प्रजघान ह।।3.45.39।। Aranya Kanda,45,40,तामार्तरूपां विमना रुदन्तीं सौमित्रिरालोक्य विशालनेत्राम्। आश्वासयामास न चैव भर्तु स्तं भ्रातरंकिञ्चिदुवाच सीता।।3.45.40।। Aranya Kanda,46,1,तया परुषमुक्तस्तु कुपितो राघवानुजः। स विकाङ्क्षन्भृशं रामं प्रतस्थे नचिरादिव।।3.46.1।। Aranya Kanda,46,2,तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः। अभिचक्राम वैदेहीं परिव्राजकरूपधृक्।।3.46.2।। Aranya Kanda,46,3,श्लक्ष्णकाषायसंवीतश्शिखी छत्री उपानही। वामे चांसेऽवसज्याथ शुभे यष्टिकमण्डलू।।3.46.3।। परिव्राजकरूपेण वैदेहीमन्वपद्यत। Aranya Kanda,46,4,तामाससादातिबलो भ्रातृभ्यां रहितां वने।।3.46.4।। रहितां चन्द्रसूर्याभ्यां सन्ध्यामिव महत्तमः। Aranya Kanda,46,5,तामपश्यत्ततो बालां रामपत्नीं यशस्विनीम्।।3.46.5।। रोहिणीं शशिना हीनां ग्रहवद्भृशदारुणः। Aranya Kanda,46,6,तमुग्रतेजःकर्माणं जनस्थानरूहा द्रुमाः।।3.46.6।। समीक्ष्य सम्प्रकम्पन्ते न प्रवाति च मारुतः। Aranya Kanda,46,7,शीघ्रस्रोताश्च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम्।।3.46.7।। स्तिमितं गन्तुमारेभे भयाद्गोदावरी नदी। Aranya Kanda,46,8,रामस्य त्वन्तरप्रेप्सुर्दशग्रीवस्तदन्तरे।।3.46.8।। उपतस्थे च वै देहीं भिक्षुरूपेण रावणः। Aranya Kanda,46,9,अभव्यो भव्यरूपेण भर्तारमनुशोचतीम्।।3.46.9।। अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः। Aranya Kanda,46,10,स पापो भव्यरूपेण तृणैः कूप इवावृतः।।3.46.10।। अतिष्ठत्प्रेक्ष्य वैदेहीं रामपत्निं यशस्विनीम्। Aranya Kanda,46,11,शुभां रुचिरदन्तोष्ठीं पूर्णचन्द्रनिभाननाम्।।3.46.11।। Aranya Kanda,46,12,आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम्। स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम्।।3.46.12।। अभ्यगच्छत वैदेहीं दुष्टचेता निशाचरः। Aranya Kanda,46,13,स मन्मथशराविष्टो ब्रह्मघोषमुदीरयन्।।3.46.13।। अब्रवीत्प्रश्रितं वाक्यं रहिते राक्षसाधिपः। Aranya Kanda,46,14,तामुत्तमां स्त्रियं लोके पद्महीनामिव श्रियम्।।3.46.14।। विभ्राजमानां वपुषा रावणः प्रशशंस ह। Aranya Kanda,46,15,का त्वं काञ्चनवर्णाभे पीतकौशेयवासिनि।।3.46.15।। कमलानां शुभां मालां पद्मिनीव हि बिभ्रती। Aranya Kanda,46,16,ह्रीः कीर्तिः श्रीश्शुभा लक्ष्मीरप्सरा वा शुभानने।।3.46.16।। भूतिर्वा त्वं वरारोहे रतिर्वा स्वैरचारिणी। Aranya Kanda,46,17,समाश्शिखरिणस्स्निग्धाः पाण्डुरा दशनास्तव।।3.46.17।। विशाले विमले नेत्रे रक्तान्ते कृष्णतारके। Aranya Kanda,46,18,विशालं जघनं पीनमूरू करिकरोपमौ।।3.46.18।। Aranya Kanda,46,19,एतावुपचितौ वृत्तौ संहतौ सम्प्रवल्गितौ। पीनोन्नतमुखौ कान्तौ स्निग्धौ तालफलोपमौ।।3.46.19।। मणिप्रवेकाभरणौ रुचिरौ ते पयोधरौ। Aranya Kanda,46,20,चारुस्मिते चारुदति चारुनेत्रे विलासिनि।।3.46.20।। Aranya Kanda,46,21,मनो हरसि मे कान्ते नदी कूलमिवाम्भसा। करान्तमितमध्यासि सुकेशी संहतस्तनी।।3.46.21।। Aranya Kanda,46,22,नैव देवी न गन्धर्वी न यक्षी न च किन्नरी। नैवंरूपा मया नारी दृष्टपूर्वा महीतले।।3.46.22।। Aranya Kanda,46,23,रूपमग्र्यं च लोकेषु सौकुमार्यं वयश्चते। इह वासश्च कान्तारे चित्तमुन्मादयन्ति मे।।3.46.23।। Aranya Kanda,46,24,सा प्रतिक्राम भद्रं ते नैवं वस्तुमिहार्हसि। राक्षसानामयं वासो घोराणां कामरूपिणाम्।।3.46.24।। Aranya Kanda,46,25,प्रासादाग्राणि रम्याणि नगरोपवनानि च। सम्पन्नानि सुगन्धीनि युक्तान्याचरितुं त्वया।।3.46.25।। Aranya Kanda,46,26,वरं माल्यं वरं भोज्यं वरं वस्त्रं च शोभने। भर्तारं च वरं मन्ये त्वद्युक्तमसितेक्षणे।।3.46.26।। Aranya Kanda,46,27,का त्वं भवसि रुद्राणां मरुतां वा वरानने। वसूनां वा वरावोहे देवता प्रतिभासि मे।।3.46.27।। Aranya Kanda,46,28,नेह गच्छन्ति गन्धर्वा न देवा न च किन्नराः। राक्षसानामयं वासः कथं नु त्वमिहागता।।3.46.28।। Aranya Kanda,46,29,इह शाखामृगास्सिंहा द्वीपिव्याघ्रमृगास्तथा। ऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसि।।3.46.29।। Aranya Kanda,46,30,मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम्। कथमेका महारण्ये न बिभेषि वरानने।।3.46.30।। Aranya Kanda,46,31,कासि कस्य कुतश्चित्त्वं किं निमित्तं च दण्डकान्। एका चरसि कल्याणि घोरान्राक्षससेवितान्।।3.46.31।। Aranya Kanda,46,32,इति प्रशस्ता वैदेही रावणेन दुरात्मना। द्विजातिवेशेण हि तं दृष्ट्वा रावणमागतम्।।3.46.32।। सर्वैरतिथिसत्कारैः पूजयामास मैथिली। Aranya Kanda,46,33,उपनीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य च।।3.46.33।। अब्रवीत्सिद्धमित्येव तदा तं सौम्यदर्शनम्। Aranya Kanda,46,34,द्विजातिवेषेण समीक्ष्य मैथिली समागतं पात्रकुसुम्भधारिणम्। अशक्यमुद्वेष्टुमपायदर्शनम् न्यमन्त्रयद्ब्राह्मणवत्तदाङ्गना।।3.46.34।। Aranya Kanda,46,35,इयं बृसी ब्राह्मण काममास्यतामिदं च पाद्यं प्रतिगृह्यतामिति। इदं च सिद्धं वनजातमुत्तमं त्वदर्थमव्यग्रमिहोपभुज्यताम्।।3.46.35।। Aranya Kanda,46,36,निमन्त्र्यमाणः प्रतिपूर्णभाषिणीं नरेन्द्रपत्नीं प्रसमीक्ष्य मैथिलीम्। प्रसह्य तस्याहरणे धृतं मनः समर्पयत्स्वात्मवधाय रावणः।।3.46.36।। Aranya Kanda,46,37,ततः सुवेषं मृगयागतं पतिं प्रतीक्षमाणा सहलक्ष्मणं तदा। विवीक्षमाणा हरितं ददर्श तन्महद्वनं नैव तु रामलक्ष्णौ।।3.46.37।। Aranya Kanda,47,1,रावणेन तु वैदेही तदा पृष्टा जिहीर्षता। परिव्राजकरूपेण शशंसात्मानमात्मना।।3.47.1।। Aranya Kanda,47,2,ब्राह्मणश्चातिथिश्चायमनुक्तो हि शपेत माम्। इति ध्यात्वा मुहूर्तं तु सीता वचनमब्रवीत्।।3.47.2।। Aranya Kanda,47,3,दुहिता जनकस्याहं मैथिलस्य महात्मनः। सीता नाम्नास्मि भद्रं ते रामभार्या द्विजोत्तम।।3.47.3।। Aranya Kanda,47,4,उषित्वा द्वादश समा इक्ष्वाकुणां निवेशने। भुञ्जाना मानुषान्भोगान्सर्वकामसमृद्धिनी।।3.47.4।। Aranya Kanda,47,5,ततस्त्रयोदशे वर्षे राजामन्त्रयत प्रभुः। अभिषेचयितुं रामं समेतो राजमन्त्रिभिः।।3.47.5।। Aranya Kanda,47,6,तस्मिन्सम्भ्रियमाणे तु राघवस्याभिषेचने। कैकेयी नाम भर्तारमार्या सा याचते वरम्।।3.47.6।। Aranya Kanda,47,7,प्रतिगृह्य तु कैकेयी श्वशुरं सुकृतेन मे। मम प्रव्राजनं भर्तुर्भरतस्याभिषेचनम्।।3.47.7।। द्वावयाचत भर्तारं सत्यसन्धं नृपोत्तमम्। Aranya Kanda,47,8,नाद्य भोक्ष्ये न च स्वप्स्ये न पास्येच कथञ्चन।।3.47.8।। एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते। Aranya Kanda,47,9,इति ब्रुवाणां कैकेयीं श्वशुरो मे स मानदः।।3.47.9।। अयाचतार्थैरन्वर्थैर्न च याञ्चां चकार सा। Aranya Kanda,47,10,मम भर्तामहातेजा वयसा पञ्चविंशकः।।3.47.10।। अष्टादश हि वर्षाणि मम जन्मनि गण्यते। Aranya Kanda,47,11,रामेति प्रथितो लोके गुणवान्सत्यवान्शुचिः।।3.47.11।। विशालाक्षो महाबाहुस्सर्वभूतहिते रतः। Aranya Kanda,47,12,कामार्तस्तु महातेजाः पिता दशरथस्स्वयम्।।3.47.12।। कैकेय्याः प्रियकामार्थं तं रामं नाभ्यषेचयत्। Aranya Kanda,47,13,अभिषेकाय तु पितुस्समीपं राममागतम्।।3.47.13।। कैकेयी मम भर्तारमित्युवाच धृतं वचः। Aranya Kanda,47,14,तव पित्रा समाज्ञप्तं ममेदं शृणु राघव।।3.47.14।। भरताय प्रदातव्यमिदं राज्यमकण्टकम्। Aranya Kanda,47,15,त्वया हि खलु वस्तव्यं नव वर्षाणि पञ्च च।।3.47.15।। वने प्रव्रज काकुत्स्थ पितरं मोचयानृतान्। Aranya Kanda,47,16,तथेत्युक्त्वा च तां रामः कैकेयीमकुतोभयः।।3.47.16।। चकार तद्वचस्तस्या मम भर्ता दृढव्रतः। Aranya Kanda,47,17,दद्यान्न प्रतिगृह्णीयात्सत्यं ब्रूयान्न चानृतम्।।3.47.17।। एतद्ब्राह्मण रामस्य ध्रृवं व्रतमनुत्तमम्। Aranya Kanda,47,18,तस्य भ्राता तु द्वैमात्रो लक्ष्मणो नाम वीर्यवान्।।3.47.18।। रामस्य पुरुषव्याघ्रस्सहायस्समरेरिहा। Aranya Kanda,47,19,स भ्राता लक्ष्मणो नाम धर्मचारी दृढव्रतः।।3.47.19।। अन्वगच्छद्दनुष्पाणिः प्रव्रजन्तं मया सह। Aranya Kanda,47,20,जटी तापसरूपेण मया सह सहानुजः।।3.47.20।। प्रविष्टो दण्डकारण्यं धर्मनित्यो जितेन्द्रियः। Aranya Kanda,47,21,ते वयं प्रच्युता राज्यात्कैकेय्यास्तु कृते त्रयः।।3.47.21।। विचरामो द्विजश्रेष्ठ वनं गम्भीरमोजसा। Aranya Kanda,47,22,समाश्वस मुहूर्तं तु शक्यं वस्तुमिह त्वया।।3.47.22।। Aranya Kanda,47,23,आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम्। रुरून्गोधा न्वराहांश्च हत्वाऽदायाऽमिषान्बहून्।।3.47.23।। Aranya Kanda,47,24,स त्वं नाम च गोत्रञ्च कुलं चाचक्ष्व तत्त्वतः। एकश्च दण्डकारण्ये किमर्थं चरसि द्विज।।3.47.24।। Aranya Kanda,47,25,एवं बृवन्त्यां सीतायां रामपत्न्यां महाबलः। प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः।।3.47.25।। Aranya Kanda,47,26,येन वित्रासिता लोकास्सदेवासुरपन्नगाः। अहं तु रावणो नाम सीते रक्षोगणेश्वरः।।3.47.26।। Aranya Kanda,47,27,त्वां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनीम्। रतिं स्वकेषु दारेषु नाधिगच्छाम्यनिन्दिते।।3.47.27।। Aranya Kanda,47,28,बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः। सर्वासामेव भद्रं ते ममाग्रमहिषी भव।।3.47.28।। Aranya Kanda,47,29,लङ्कानाम समुद्रस्य मम मध्ये महापुरी। सागरेण परिक्षिस्ता निविष्टा नगमूर्धनि।।3.47.29।। Aranya Kanda,47,30,तत्र सीते मया सार्धं वनेषु विहरिष्यसि। न चास्यारण्यवासस्य स्पृहयिष्यसि भामिनि।।3.47.30।। Aranya Kanda,47,31,पञ्च दास्यस्सहस्राणि सर्वाभरणभूषिताः। सीते परिचरिष्यन्ति भार्या भवसि मे यदि।।3.47.31।। Aranya Kanda,47,32,रावणेनैवमुक्ता तु कुपिता जनकात्मजा। प्रत्युवाचानवद्याङ्गी तमनादृत्य राक्षसम्।।3.47.32।। Aranya Kanda,47,33,महागिरिमिवाकम्प्यं महेन्द्रसदृशं पतिम्। महोदधिमिवाक्षोभ्यमहं राममनुव्रता।।3.47.33।। Aranya Kanda,47,34,सर्वलक्षणसम्पन्नं न्यग्रोधपरिमण्डलम्। सत्यसन्धं महाभागमहं राममनुव्रता।।3.47.34।। Aranya Kanda,47,35,महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम्। नृसिंहं सिंहसङ्काशमहं राममनुव्रता।।3.47.35।। Aranya Kanda,47,36,पूर्णचन्द्राननं रामं राजवत्सं जितेन्द्रियम्। पृथुकीर्तिं महात्मानमहं राममनुव्रता।।3.47.36।। Aranya Kanda,47,37,त्वं पुनर्जम्बुकस्सिंहीं मामिच्छसि सुदुर्लभाम्। नाहं शक्या त्वया स्प्रष्टुमादित्यस्य प्रभा यथा।।3.47.37।। Aranya Kanda,47,38,पादपान्काञ्चनान्नूनं बहून्पश्यसि मन्दभाक्। राघपस्य प्रियां भार्यां यस्त्वमिच्छसि रावण।।3.47.38।। Aranya Kanda,47,39,क्षुधितस्य हि सिंहस्य मृगशत्रोस्तरस्विनः। आशीविषस्य मुखाद्दंष्ट्रामादातुमिच्छसि।।3.47.39।। Aranya Kanda,47,40,मन्दरं पर्वतश्रेष्ठं पाणिना हर्तुमिच्छसि। कालकूटं विषं पीत्वा स्वस्तिमान्गन्तुमिच्छसि।।3.47.40।। Aranya Kanda,47,41,अक्षि सूच्या प्रमृजसि जिह्वया लेक्षि च क्षुरम्। राघवस्य प्रियां भार्यां योऽधिगन्तुं त्वमिच्छसि।।3.47.41।। Aranya Kanda,47,42,अवसज्य शिलां कण्ठे समुद्रं तर्तुमिच्छसि। सूर्याचन्द्रमसौ चोभौ पाणिभ्यां हर्तुमिच्छसि।।3.47.42।। यो रामस्य प्रियां भार्यां प्रधर्षयितुमिच्छसि। Aranya Kanda,47,43,अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुमिच्छसि।।3.47.43।। काल्याणवृत्तां रामस्य यो भार्यांहर्तुमिच्छसि। Aranya Kanda,47,44,अयोमुखानां शूलानामग्रे चरितुमिच्छसि।।3.47.44।। रामस्य सदृशीं भार्यां योऽधिगन्तुं त्वमिच्छसि। Aranya Kanda,47,45,यदन्तरं सिंहशृगालयोर्वने यदन्तरं स्यन्दिनिका समुद्रयोः। सुराग्र्य सौवीरकयोर्यदन्तरं तदन्तरं वै तव राघवस्य च।।3.47.45।। Aranya Kanda,47,46,यदन्तरं काञ्चनसीसलोहयोर्यदन्तरं चन्दनवारिपङ्कयोः। यदन्तरं हस्तिबिडालयोर्वने तदन्तरं दाशरथेस्तवैव च।।3.47.46।। Aranya Kanda,47,47,यदन्तरं वायसवैनतेययोर्यदन्तरं मद्गुमयूरयोरपि। यदन्तरं सारसगृध्रयोर्वने तदन्तरं दाशरथेस्तवैव च।।3.47.47।। Aranya Kanda,47,48,तस्मिन्सहस्राक्षसमप्रभावे रामे स्थिते कार्मुकबाणपाणौ। हृतापि तेहं न जरां गमिष्ये वज्रं यथा मक्षिकयावगीर्णम्।।3.47.48।। Aranya Kanda,47,49,इतीव तद्वाक्यमदुष्टभावा सुदुष्टमुक्त्वा रजनीचरं तम्। गात्रप्रकम्पाद्व्यथिता बभूव वातोद्धता सा कदलीव तन्वी।।3.47.49।। Aranya Kanda,47,50,तां वेपमानामुपलक्ष्य सीतां स रावणो मृत्युसमप्रभावः। कुलं बलं नाम च कर्म चात्मनः समाचचक्षे भयकारणार्थम्।।3.47.50।। Aranya Kanda,48,1,एवं बृवन्त्यां सीतायां संरब्दः परुषं वचः। ललाटे भृकुटीं कृत्वा रावणः प्रत्युवाच ह।।3.48.1।। Aranya Kanda,48,2,भ्राता वैश्रवणस्याहं सापत्न्यो वरवर्णिनि। रावणो नाम भद्रं ते दशग्रीवः प्रतापवान्।।3.48.2।। Aranya Kanda,48,3,यस्य देवास्सगन्धर्वाः पिशाचपतगोरगाः। विद्रवन्ति भयाद्भीता मृत्योरिव सदा प्रजाः।।3.48.3।। Aranya Kanda,48,4,येन वैश्रवणो राजा द्वैमात्रः कारणान्तरे। द्वन्द्वमासादितः क्रोधाद्रणे विक्रम्य निर्जितः।।3.48.4।। Aranya Kanda,48,5,यद्भयार्तः परित्यज्य स्वमधिष्ठानमृद्धिमत्। कैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः।।3.48.5।। Aranya Kanda,48,6,यस्य तत्पुष्पकं नाम विमानं कामगं शुभम्। वीर्यादेवार्जितं भद्रे येन यामि विहायसम्।।3.48.6।। Aranya Kanda,48,7,मम सञ्जातरोषस्य मुखं दृष्ट्वैव मैथिलि। विद्रवन्ति परित्रस्तास्सुराश्शक्रपुरोगमाः।।3.48.7।। Aranya Kanda,48,8,यत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः। तीव्रांशुश्शिशिरांशुश्च भयात्सम्पद्यते रविः।।3.48.8।। Aranya Kanda,48,9,निष्कम्पपत्रास्तरवो नद्यश्च स्तिमितोदकाः। भवन्ति यत्र यत्राहं तिष्ठामि विचरामि च।।3.48.9।। Aranya Kanda,48,10,मम पारे समुद्रस्य लङ्का नाम पुरी शुभा। सम्पूर्णा राक्षसैर्घोरैर्यथेन्द्रस्यामरावती।।3.48.10।। Aranya Kanda,48,11,प्राकारेण परिक्षिप्ता पाण्डुरेण विराजता। हेमकक्ष्या पुरी रम्या वैढूर्यमयतोरणा।।3.48.11।। Aranya Kanda,48,12,हस्त्यश्वरथसम्बाधा तूर्यनादविनादिता। सर्वकालफलैर्वृक्षैस्सङ्कुलोद्द्यानशोभिता।।3.48.12।। Aranya Kanda,48,13,तत्र त्वं वसती सीते राजपुत्रि मया सह। न स्मरिष्यसि नारीणां मानुषीणां मनस्विनि।।3.48.13।। Aranya Kanda,48,14,भुञ्जाना मानुषान्भोगान्दिव्यांश्च वरवर्णिनि। न स्मरिष्यसि रामस्य मानुषस्य गतायुषः।।3.48.14।। Aranya Kanda,48,15,स्थापयित्वा प्रियं पुत्रं राज्ञा दशरथेन यः। मन्दवीर्यस्सुतो ज्येष्ठस्ततः प्रस्थापितो वनम्।।3.48.15।। Aranya Kanda,48,16,तेन किं भ्रष्टराज्येन रामेण गतचेतसा। करिष्यसि विशालाक्षि तापसेन तपस्विना।।3.48.16।। Aranya Kanda,48,17,सर्वराक्षसभर्तारं कामात्स्वयमिहागतम्। न मन्मथशराविष्टं प्रत्याख्यातुं त्वमर्हसि।।3.48.17।। Aranya Kanda,48,18,प्रत्याख्याय हि मां भीरु परितापं गमिष्यसि। चरणेनाभिहत्येव पुरूरवसमूर्वशी।।3.48.18।। Aranya Kanda,48,19,अङ्गुल्या न समो रामो मम युद्धे स मानुषः। तव भाग्येन सम्प्राप्तं भजस्व वरवर्णिनि।।3.48.19।। Aranya Kanda,48,20,एवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना। अब्रवीत्परुषं वाक्यं रहिते राक्षसाधिपम्।।3.48.20।। Aranya Kanda,48,21,कथं वैश्रवणं देवं सर्वभूतनमस्कृतम्। भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि।।3.48.21।। Aranya Kanda,48,22,अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः। येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः।।3.48.22।। Aranya Kanda,48,23,अपहृत्य शचीं भार्यां शक्यमिन्द्रस्य जीवितुम्। न च रामस्य भार्यां मामपनीयास्ति जीवितम्।।3.48.23।। Aranya Kanda,48,24,जीवेच्चिरं वज्रधरस्य हस्ताच्छचीं प्रधृष्याप्रतिरूपरूपाम्। न मादृशीं राक्षस दूशयित्वा पीतामृतस्यापि तवास्ति मोक्षः।।3.48.24।। Aranya Kanda,49,1,सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवाम्। हस्ते हस्तं समाहत्य चकार सुमहद्वपुः।।3.49.1।। Aranya Kanda,49,2,स मैथिलीं पुनर्वाक्यं बभाषे च ततो भृशम्। नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ।।3.49.2।। Aranya Kanda,49,3,उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः। आपिबेयं समुद्रं च हन्यां मृत्युं रणे स्थितः।।3.49.3।। Aranya Kanda,49,4,अर्कं ऱुन्ध्यां शरैस्तीक्ष्णैर्विभिन्द्या हि महीतलम्। कामरूपिणमुन्मत्ते पश्य मां कामदं पतिम्।।3.49.4।। Aranya Kanda,49,5,एवमुक्तवतस्तस्य सूर्यकल्पे शिखिप्रभे। क्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः।।3.49.5।। Aranya Kanda,49,6,सद्यस्सौम्यं परित्यज्य भिक्षुरूपं स रावणः। स्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः।।3.49.6।। Aranya Kanda,49,7,संरक्तनयनश्श्रीमांस्तप्तकाञ्चनभूषणः। क्रोधेन महताविष्टो नीलजीमूतसन्निभः।।3.49.7।। दशास्यः कार्मुकी बाणी बभूव क्षणदाचरः। Aranya Kanda,49,8,स परिव्राजकच्छद्म महाकायो विहाय तत्।।3.49.8।। Aranya Kanda,49,9,प्रतिपद्य स्वकं रूपं रावणो राक्षसाधिपः। संरक्तनयनः क्रोधाज्जीमूतनिचयप्रभः।।3.49.9।। रक्ताम्बरधरस्तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम्। Aranya Kanda,49,10,स तामसितकेशान्तां भास्करस्य प्रभामिव।।3.49.10।। वसनाभरणोपेतां मैथिलीं रावणोऽब्रवीत्। Aranya Kanda,49,11,त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छसि।।3.49.11।। मामाश्रय वरारोहे तवाहं सदृशः पतिः। Aranya Kanda,49,12,मां भजस्व चिराय त्वमहं श्लाघ्यः प्रियस्तव।।3.49.12।। Aranya Kanda,49,13,नैव चाहं क्वचिद्भद्रे करिष्ये तव विप्रियम्। त्यज्यतां मानुषे भावो मयि भावः प्रणीयताम्।।3.49.13।। Aranya Kanda,49,14,राज्याच्च्युतमसिद्धार्थं रामं परिमितायुषम्। कैर्गुणैरनुरक्तासि मूढे पण्डितमानिनि।।3.49.14।। Aranya Kanda,49,15,यः स्त्रिया वचनाद्राज्यं विहाय ससुहृज्जनम्। अस्मिन्व्यालानुचरिते वने वसति दुर्मतिः।।3.49.15।। Aranya Kanda,49,16,इत्युक्त्वा मैथिलीं वाक्यं प्रियार्हां प्रियवादिनीम्। अभिगम्य सुदुष्टात्मा राक्षसः काममोहितः।।3.49.16।। जग्राह रावणस्सीतां बुधः खे रोहिणीमिव। Aranya Kanda,49,17,वामेन सीतां पद्माक्षीं मूर्धजेषु करेण सः।।3.49.17।। ऊर्वोस्तु दक्षिणेनैव परिजग्राह पाणिना। Aranya Kanda,49,18,तं दृष्ट्वा मृत्युसङ्काशं तीक्ष्णदंष्ट्रं महाभुजम्।।3.49.18।। प्राद्रवन्गिरिसङ्काशं भयार्ता वनदेवताः। Aranya Kanda,49,19,स च मायामयो दिव्यः खरयुक्तः खरस्वनः।।3.49.19।। प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः। Aranya Kanda,49,20,ततस्तां परुषैर्वाक्यैर्भर्त्सयन्स महास्वनः।।3.49.20।। अङ्केनादाय वैदेहीं रथमारोपयत्तदा। Aranya Kanda,49,21,सा गृहीता विचुक्रोश रावणेन यशस्स्विनी।।3.49.21।। रामेति सीता दुःखार्ता रामं दूरगतंवने। Aranya Kanda,49,22,तामकामां स कामार्तः पन्नगेन्द्रवधूमिव।।3.49.22।। विवेष्टमानामादाय उत्पपाताथ रावणः। Aranya Kanda,49,23,ततस्सा राक्षसेन्द्रेण ह्रियमाणा विहायसा।।3.49.23।। भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथाऽऽतुरा। Aranya Kanda,49,24,हा लक्ष्मण महाबाहो गुरुचित्तप्रसादक।।3.49.24।। ह्रियमाणां न जानीषे रक्षसा माममर्षिणा। Aranya Kanda,49,25,जीवितं सुखमर्थांश्च धर्महेतोः परित्यजन्।।3.49.25।। ह्रियमाणामधर्मेण मां राघव न पश्यसि। Aranya Kanda,49,26,ननु नामाविनीतानां विनेतासि परन्तप।।3.49.26।। कथमेवंविधं पापं न त्वं शासि हि रावणम्। Aranya Kanda,49,27,ननु सद्योऽविनीतस्य दृश्यते कर्मणःफलम्।।3.49.27।। कालोऽप्यङ्गीभवत्यत्र सस्यानामिव पक्तये। Aranya Kanda,49,28,त्वं कर्म कृतवानेतत्कालोपहतचेतनः।।3.49.28।। जीवितान्तकरं घोरं रामाद्व्यसनमाप्नुहि। Aranya Kanda,49,29,हन्तेदानीं सकामास्तु कैकेयी सह बान्धवैः।।3.49.29।। ह्रिये यद्धर्मकामस्य धर्मपत्नी यशस्विनः। Aranya Kanda,49,30,आमन्त्रये जनस्थाने कर्णिकारान्सुपुष्पितान्।।3.49.30।। क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः। Aranya Kanda,49,31,माल्यवन्तं शिखरिणं वन्दे प्रस्रवणं गिरिम्।।3.49.31।। क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः। Aranya Kanda,49,32,हंसकारण्डवाकीर्णां वन्दे गोदावरीं नदीम्।।3.49.32।। क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः। Aranya Kanda,49,33,दैवतानि च यान्यस्मिन्वने विविधपादपे।।3.49.33।। नमस्करोम्यहं तेभ्योभर्तुश्शंसत मां हृताम्। Aranya Kanda,49,34,यानि कानि चिदप्यत्र सत्त्वानि निवसन्त्युत।।3.49.34।। सर्वाणि शरणं यामि मृगपक्षिगणानपि। Aranya Kanda,49,35,ह्रियमाणां प्रियां भर्तुः प्राणेभ्योऽपि गरीयसीम्।।3.49.35।। विवशाऽपहृता सीता रावणेनेति शंसत। Aranya Kanda,49,36,विदित्वा मां महाबाहुरमुत्रापि महाबलः।।3.49.36।। आनेष्यति पराक्रम्य वैवस्वतहृतामपि। Aranya Kanda,49,37,सा तदा करुणा वाचो विलपन्ती सुदुःखिता।।3.49.37।। वनस्पतिगतं गृध्रं ददर्शाऽयतलोचना। Aranya Kanda,49,38,सा तमुद्वीक्ष्य सुश्रोणी रावणस्य वशं गता।3.49.38।। समाक्रन्दद्भयपरा दुःखोपहतया गिरा। Aranya Kanda,49,39,जटायो पश्य मामद्य ह्रियमाणामनाथवत्।।3.49.39।। अनेन राक्षसेन्द्रेण करुणं पापकर्मणा। Aranya Kanda,49,40,नैष वारयितुं शक्यस्तव क्रूरो निशाचरः।।3.49.40।। सत्त्वाञ्जितकाशी च सायुधश्चैव दुर्मतिः। Aranya Kanda,49,41,रामाय तु यथातत्त्वं जटायो हरणं मम।।3.49.41।। लक्ष्मणाय च तत्सर्वमाख्यातव्यमशेषतः। Aranya Kanda,50,1,तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे। निरीक्ष्य रावणं क्षिप्रं वैदेहीं च ददर्श सः।।3.50.1।। Aranya Kanda,50,2,ततः पर्वतकूटाभस्तीक्ष्णतुण्डः खगोत्तमः। वनस्पतिगतश्श्रीमान्व्याजहार शुभां गिरम्।।3.50.2।। Aranya Kanda,50,3,दशग्रीव स्थितो धर्मे पुराणे सत्यसंश्रयः। जटायुर्नाम नाम्नाहं गृध्रराजो महाबलः।।3.50.3।। Aranya Kanda,50,4,राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः। लोकानां च हिते युक्तो रामो दशरथात्मजः।।3.50.4।। Aranya Kanda,50,5,तस्यैषा लोकनाथस्य धर्मपत्नी यशस्विनी। सीता नाम वरारोहा यां त्वं हर्तुमिहेच्छसि।।3.50.5।। Aranya Kanda,50,6,कथं राजास्थितो धर्मे परदारान्परामृशेत्। रक्षणीया विशेषेण राजदारा महाबल।।3.50.6।। Aranya Kanda,50,7,निवर्तय मतिं नीचां परदाराभिमर्शनात्। न तत्समाचरेद्धीरो यत्परोऽस्य विगर्हयेत्।।3.50.7।। यथात्मनस्तथान्येषां दारा रक्ष्या विपश्चिता। Aranya Kanda,50,8,धर्ममर्थं वा कामं वा शिष्टाश्शास्त्रेष्वनागतम्।।3.50.8।। व्यवस्यन्त्यनु राजानं धर्मं पौलस्त्यनन्दन। Aranya Kanda,50,9,राजा धर्मस्य कामस्य द्रव्याणां चोत्तमो निधिः।।3.50.9।। धर्मश्शुभं वा पापं वा राजमूलं प्रवर्तते। Aranya Kanda,50,10,पापस्वभावश्चपलः कथं त्वं रक्षसां वर।।3.50.10।। ऐश्वर्यमभिसम्प्राप्तो विमानमिव दुष्कृतिः। Aranya Kanda,50,11,कामं स्वभावो यो यस्य न शक्यः परिमार्जितुम्।।3.50.11।। न हि दुष्टात्मनामार्यमावसत्यालये चिरम्। Aranya Kanda,50,12,विषये वा पुरे वा ते यदा रामो महाबलः।।3.50.12।। नापराध्यति धर्मात्मा कथं तस्यापराध्यसि। Aranya Kanda,50,13,यदि शूर्पणखाहेतोर्जनस्थानगतः खरः।।3.50.13।। Aranya Kanda,50,14,अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा। अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः।।3.50.14।। यस्य त्वं लोकनाथस्य भार्यां हृत्वा गमिष्यसि। Aranya Kanda,50,15,क्षिप्रं विसृज वैदेहीं मा त्वा घोरेण चक्षुषा।।3.50.15।। दहेद्दहनभूतेन वृत्रमिन्द्राशनिर्यथा। Aranya Kanda,50,16,सर्पमाशीविषं बद्ध्वा वस्त्रान्ते नावबुध्यसे।।3.50.16।। ग्रीवायां प्रतिसक्तं च कालपाशं न पश्यसि। Aranya Kanda,50,17,स भारस्सौम्य भर्तव्यो यो नरं नावसादयेत्।।3.50.17।। तदन्नमपि भोक्तव्यं जीर्यते यदनामयम्। Aranya Kanda,50,18,यत्कृत्वा न भवेद्धर्मो न कीर्तिर्न यशो भुवि।।3.50.18।। शरीरस्य भवेत्खेदः कस्तत्कर्म समाचरेत्। Aranya Kanda,50,19,षष्टिर्वर्षसहस्राणि मम जातस्य रावण।।3.50.19।। पितृपैतामहं राज्यं यथावदनुतिष्ठतः। Aranya Kanda,50,20,वृद्धोऽहं त्वं युवा धन्वी सशरः कवची रथी।।3.50.20।। तथाप्यादाय वैदेहीं कुशली न गमिष्यसि। Aranya Kanda,50,21,न शक्तस्त्वं बलाद्धर्तुं वैदेहीं मम पश्यतः।।3.50.21।। हेतुभिर्न्यायसंसिद्धैद्धृवां वेदश्रुतीमिव। Aranya Kanda,50,22,युद्ध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण।।3.50.22।। शयिष्यसे हतो भूमौ यथापूर्वं खरस्तथा। Aranya Kanda,50,23,असकृत्संयुगे येन निहता दैत्यदानवाः।।3.50.23।। नचिराच्चीरवासास्त्वां रामो युधि वधिष्यति। Aranya Kanda,50,24,किं नु शक्यं मया कर्तुं गतौदूरं नृपात्मजौ।।3.50.24।। क्षिप्रं त्वं नश्यसे नीच तयोर्भीतो न संशयः। Aranya Kanda,50,25,न हि मे जीवमानस्य नयिष्यसि शुभामिमाम्।।3.50.25।। सीतां कमलपत्राक्षीं रामस्य महिषीं प्रियाम्। Aranya Kanda,50,26,अवश्यं तु मया कार्यं प्रियं तस्य महात्मनः।।3.50.26।। जीवितेनापि रामस्य तथा दशरथस्य च। Aranya Kanda,50,27,तिष्ठ तिष्ठ दशग्रीव मुहूर्तं पश्य रावण।।3.50.27।। Aranya Kanda,50,28,युद्धातिथ्यं प्रदास्यामि यथाप्राणं निशाचर। वृन्तादिव फलं त्वां तु पातयेयं रथोत्तमात्।।3.50.28।। Aranya Kanda,51,1,इत्युक्तस्य यथान्यायं रावणस्य जटायुषा। क्रुद्धस्याग्निनिभास्सर्वा रेजुर्विंशतिदृष्टयः।।3.51.1।। Aranya Kanda,51,2,संरक्तनयनः कोपात्तप्तकाञ्चनकुण्डलः। राक्षसेन्द्रोऽभिदुद्राव पतगेन्द्रममर्षणः।।3.51.2।। Aranya Kanda,51,3,स सम्प्रहारस्तुमुल स्तयोस्तस्मिन्महावने। बभूव वातोद्धतयोर्मेघयोर्गगने यथा।।3.51.3।। Aranya Kanda,51,4,तद्बभूवाद्भुतं युद्धं गृध्रराक्षसयोस्तदा। सपक्षयोर्माल्यवतोर्महापर्वतयोरिव।।3.51.4।। Aranya Kanda,51,5,ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः। अभ्यवर्षन्महाघोरैर्गृध्रराजं महाबलः।।3.51.5।। Aranya Kanda,51,6,स तानि शरजालानि गृध्रः पत्त्ररथेश्वरः। जटायुः प्रतिजग्राह रावणास्त्राणि संयुगे।।3.51.6।। Aranya Kanda,51,7,तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः। चकार बहुधा गात्रे व्रणान्पतगसत्तमः।।3.51.7।। Aranya Kanda,51,8,अथ क्रोधाद्धशग्रीवो जग्राह दश मार्गणान्। मृत्युदण्डनिभान्घोरान्छत्रुमर्दनकाङ्क्षया।।3.51.8।। Aranya Kanda,51,9,स तैर्बाणैर्महावीर्यः पूर्णमुक्तैरजिह्मगैः। बिभेद निशितैस्तीक्ष्णैर्गृध्रं घोरैश्शिलीमुखैः।।3.51.9।। Aranya Kanda,51,10,स राक्षसरथे पश्यन्जानकीं बाष्पलोचनाम्। अचिन्तयित्वा तान्बाणान्राक्षसं समभिद्रवत्।।3.51.10।। Aranya Kanda,51,11,ततोऽस्य सशरं चापं मुक्तामणिविभूषितम्। चरणाभ्यां महातेजा बभञ्ज पतगेश्वरः।।3.51.11।। Aranya Kanda,51,12,ततोऽन्यद्धनुरादाय रावणः क्रोधमूर्छितः। ववर्ष शरवर्षाणि शतशोऽथ सहस्रशः।।3.51.12।। Aranya Kanda,51,13,शरैरावारितस्तस्य संयुगे पतगेश्वरः। कुलायमुपसम्प्राप्तः पक्षीव प्रबभौ तदा।।3.51.13।। Aranya Kanda,51,14,स तानि शरवर्षाणि पक्षाभ्यां च विधूयच। चरणाभ्यां महातेजा बभञ्जास्य महद्धनुः।।3.51.14।। Aranya Kanda,51,15,तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम्। पक्षाभ्यां स महावीर्यो व्याधुनोत्पतगेश्वरः।।3.51.15।। Aranya Kanda,51,16,काञ्चनोरश्छदान्दिव्यान्पिशाचवदनान्खरान्। तांश्चास्य जवसम्पन्नाञ्जघान समरे बली।।3.51.16।। Aranya Kanda,51,17,वरं त्रिवेणुसम्पन्नं कामगं पावकार्चिषम्। मणिहेमविचित्राङ्गं बभञ्ज च महारथम्।।3.51.17।। Aranya Kanda,51,18,पूर्णचन्द्रप्रतीकाशं छत्रं च व्यजनैस्सह। पातयामास वेगेन ग्राहिभी राक्षसैस्सह।।3.51.18।। Aranya Kanda,51,19,सारथेश्चास्य वेगेन तुण्डेनैव महच्छिरः। पुनर्व्यपाहरच्छ्रीमान्पक्षिराजो महाबलः।।3.51.19।। Aranya Kanda,51,20,स भग्नधन्वा विरथो हताश्वो हतसारथिः। अङ्केनादाय वैदेहीं पपात भुवि रावणः।।3.51.20।। Aranya Kanda,51,21,दृष्ट्वा निपतितं भूमौ रावणं भग्नवाहनम्। साधुसाध्विति भूतानि गृध्रराजमपूजयन्।।3.51.21।। Aranya Kanda,51,22,परिश्रान्तं तु तं दृष्टवा जरया पक्षियूथपम्। उत्पपात पुनर्हृष्टो मैथिलीं गृह्य रावणः।।3.51.22।। Aranya Kanda,51,23,तं प्रहृष्टं निधायाङ्के गच्छन्तं जनकात्मजाम्। गृध्रराजस्समुत्पत्य समभिद्रुत्य रावणम्।।3.51.23।। समावार्य महातेजा जटायुरिदमब्रवीत्। Aranya Kanda,51,24,वज्रसंस्पर्शबाणस्य भार्यां रामस्य रावण।।3.51.24।। अल्पबुद्धे हरस्येनां वधाय खलु रक्षसाम्। Aranya Kanda,51,25,समित्रबन्धुस्सामात्यस्सबलस्सपरिच्छदः।।3.51.25।। विषपानं पिबस्येतत्पिपासित इवोदकम्। Aranya Kanda,51,26,अनुबन्धमजानन्तः कर्मणामविचक्षणाः।।3.51.26।। शीघ्रमेव विनश्यन्ति यथा त्वं विनशिष्यसि। Aranya Kanda,51,27,बद्धस्त्वं कालपाशेन क्व गतस्तस्य मोक्ष्यसे।।3.51.27।। वधाय बडिशं गृह्य सामिषं जलजो यथा। Aranya Kanda,51,28,न हि जातु दुराधर्षौ काकुत्स्थौ तव रावण।।3.51.28।। धर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ। Aranya Kanda,51,29,यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम्।।3.51.29।। तस्कराचरितो मार्गो नैव वीरनिषेवितः। Aranya Kanda,51,30,युध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठरावण।।3.51.30।। शयिष्यसे हतो भूमौ यथा भ्राता खरस्तथा। Aranya Kanda,51,31,परेतकाले पुरुषो यत्कर्म प्रतिपद्यते।।3.51.31।। विनाशायात्मनोऽधर्म्यं प्रतिपन्नोऽसि कर्म तत्। Aranya Kanda,51,32,पापानुबन्धो वै यस्य कर्मणः कर्मको नु तत्।।3.51.32।। कुर्वीत लोकाधिपतिस्स्वयंभूर्भगवानपि। Aranya Kanda,51,33,एवमुक्त्वा शुभं वाक्यं जटायुस्तस्य रक्षसः।।3.51.33।। निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान्। Aranya Kanda,51,34,तं गृहीत्वा नखैस्तीक्ष्णैर्विददार समन्ततः।।3.51.34।। अधिरूढो गजारोहो यथा स्याद्दुष्टवारणम्। Aranya Kanda,51,35,विददार नखैरस्य तुण्डं पृष्ठे समर्पयन्।।3.51.35।। केशांश्चोत्पाटयामास नखपक्षमुखायुधः। Aranya Kanda,51,36,स तथा गृध्रराजेन क्लिश्यमानो मुहुर्मुहुः।।3.51.36।। अमर्षस्फुरितोष्ठस्सन्प्राकम्पत च रावणः। Aranya Kanda,51,37,स परिष्वज्य च वैदेहीं वामेनाङ्केन रावणः।।3.51.37।। तलेनाभिजघानाशु जटायुं क्रोधमुर्छीतः। Aranya Kanda,51,38,जटायुस्तमभिक्रम्य तुण्डेनास्य खगाधिपः।।3.51.38।। वामबाहून्दश तदा व्यपाहरदरिन्दमः। Aranya Kanda,51,39,सञ्छिन्नबाहोस्सद्यैव बाहवस्सहसाभवन्।।3.51.39।। विषज्वालावलीयुक्ता वल्मीकादिव पन्नगाः। Aranya Kanda,51,40,ततः क्रोधाद्दशग्रीवस्सीतामुत्सृज्य रावणः।।3.51.40।। मुष्टिभ्यां चरणाभ्यां च गृध्रराजमपोथयत्। Aranya Kanda,51,41,ततो मुहूर्तं सङ्ग्रामो बभूवातुल्यवीर्ययोः।।3.51.41।। राक्षसानां च मुख्यस्य पक्षिणां प्रवरस्य च। Aranya Kanda,51,42,तस्य व्यायच्छमानस्य रामस्यार्थे स रावणः।।3.51.42।। पक्षौ पार्श्वौ च पादौ च खड्गमुद्धृत्य सोऽच्छिनत्। Aranya Kanda,51,43,स च्छिन्नपक्षस्सहसा रक्षसा रौद्रकर्मणा।।3.51.43।। निपपात हतो गृद्रो धरण्यामल्पजीवितः। Aranya Kanda,51,44,तं दृष्ट्वा पतितं भूमौ क्षतजार्द्रं जटायुषम्।।3.51.44।। अभ्यधावत वैदेही स्वबन्धुमिव दुःखिता। Aranya Kanda,51,45,तं नीलजीमूतनिकाशकल्पं सुपाण्डुरोरस्कमुदारवीर्यम्। ददर्श लङ्काधिपतिः पृथिव्यां जटायुषं शान्तमिवाग्निदावम्।।3.51.45।। Aranya Kanda,51,46,ततस्तु तं पत्ररथं महीतले निपातितं रावणवेगमर्दितम्। पुनः परिश्वज्य शशिप्रभानना रुरोद सीता जनकात्मजातदा।।3.51.46।। Aranya Kanda,52,1,सा तु ताराधिपमुखी रावणेन समीक्ष्य तम्। गृध्रराजं विनिहतं विललाप सुदुःखिता।।3.52.1।। Aranya Kanda,52,2,निमित्तं लक्षणज्ञानं शकुनिस्वरदर्शनम्। अवश्यं सुखदुःखेषु नराणां प्रतिदृश्यते।।3.52.2।। Aranya Kanda,52,3,नूनं राम न जानासि महद्व्यसनमात्मनः। धावन्ति नूनं काकुत्स्थं मदर्थं मृगपक्षिणः।।3.52.3।। Aranya Kanda,52,4,अयं हि पापचारेण मां त्रातुमभिसङ्गतः। शेते विनिहतो भूमौ ममाभाग्याद्विहंगमः।।3.52.4।। Aranya Kanda,52,5,त्राहि मामद्य काकुत्स्थ लक्ष्मणेति वराङ्गना। सुसन्त्रस्ता समाक्रन्दच्छृण्वतां तु यथान्तिके।।3.52.5।। Aranya Kanda,52,6,तां क्लिष्टमाल्याभरणां विलपन्तीमनाथवत्। अभ्यधावत् वैदेहीं रावणो राक्षसाधिपः।।3.52.6।। Aranya Kanda,52,7,तां लतामिव वेष्टन्तीमालिङ्गन्तीं महाद्रुमान्। मुञ्च मुञ्चेति बहुशः प्रवदन्राक्षसाधिपः।।3.52.7।। Aranya Kanda,52,8,क्रोशन्तीं राम रामेति रामेण रहितां वने। जीवितान्ताय केशेषु जग्राहान्तकसन्निभः।।3.52.8।। Aranya Kanda,52,9,प्रधर्षितायां सीतायां बभूव सचराचरम्। जगत्सर्वममर्यादं तमसान्धेन संवृतम्।।3.52.9।। न वाति मारुतस्तत्र निष्प्रभोऽभूद्दिवाकरः। Aranya Kanda,52,10,दृष्ट्वा सीतां परामृष्टां दीनां दिव्येन चक्षुषा।।3.52.10।। कृतं कार्यमिति श्रीमान्व्याजहार पितामहः। Aranya Kanda,52,11,प्रहृष्टा व्यथिताश्चासन्सर्वे ते परमर्षयः।।3.52.11।। Aranya Kanda,52,12,दृष्ट्वा सीतां परामृष्टां दण्डकारण्यवासिनः। रावणस्य विनाशं च प्राप्तं बुद्ध्वा यदृच्छया।।3.52.12।। Aranya Kanda,52,13,स तु तां राम रामेति रुदन्तीं लक्ष्मणेति च। जगामादाय चाकाशं रावणो राक्षसाधिपः।।3.52.13।। Aranya Kanda,52,14,तप्ताभरणजुष्टाङ्गी पीतकौशेयवासिनी। रराजराजपुत्री तुविद्युत्सौदामिनी यथा।।3.52.14।। Aranya Kanda,52,15,उद्धूतेन च वस्त्रेण तस्याः पीतेन रावणः। अधिकं परिबभ्राज गिरिर्दीप्त इवाग्निना।।3.52.15।। Aranya Kanda,52,16,तस्याः परमकल्याण्यास्ताम्राणि सुरभीणि च। पद्मपत्राणि वैदेह्या अभ्यकीर्यन्त रावणम्।।3.52.16।। Aranya Kanda,52,17,तस्याः कौशेयमुद्धूतमाकाशे कनकप्रभम्। बभौ चादित्यरागेण ताम्रमभ्रमिवातपे।।3.52.17।। Aranya Kanda,52,18,तस्यास्तत्सुनसं वक्त्रमाकाशे रावणाङ्कगम्। न रराज विना रामं विनालमिव पङ्कजम्।।3.52.18।। Aranya Kanda,52,19,बभूव जलदं नीलं भित्त्वा चन्द्र इवोदितः। सुललाटं सुकेशान्तं पद्मगर्भाभमव्रणम्।।3.52.19।। Aranya Kanda,52,20,शुक्लैस्सुविमलैर्दन्तै प्रभावद्भिरलङ्कृतम्। तस्यास्तद्विमलं वक्त्रमाकाशे रावणाङ्कगम्।।3.52.20।। Aranya Kanda,52,21,रुदितं व्यपमृष्टास्रं चन्द्रवत्प्रियदर्शनम्। सुनासं चारुताम्रोष्ठमाकाशे हाटकप्रभम्।।3.52.21।। Aranya Kanda,52,22,राक्षसेन समाधूतं तस्यास्तद्वदनं शुभम्। शुशुभे न विना रामंदिवा चन्द्र इवोदितः।।3.52.22।। Aranya Kanda,52,23,सा हेमवर्णा नीलाङ्गं मैथिली राक्षसाधिपम्। शुशुभे काञ्चनी काञ्ची नीलं मणिमिवाश्रिता।।3.52.23।। Aranya Kanda,52,24,सा पद्मगौरी हेमाभा रावणं जनकात्मजा। विद्युद्घनमिवाविश्य शुशुभे तप्तभूषणा।।3.52.24।। Aranya Kanda,52,25,तस्या भूषणघोषेण वैदेह्या राक्षसाधिपः। बभौ सचपलो नीलस्सघोष इव तोयदः।।3.52.25।। Aranya Kanda,52,26,उत्तमाङ्गाच्च्युता तस्याः पुष्पवृष्टिस्समन्ततः। सीताया ह्रिममाणायाः पपात धरणीतले।।3.52.26।। Aranya Kanda,52,27,सा तु रावणवेगेन पुष्पवृष्टिः समन्ततः। समाधूता दशग्रीवं पुनरेवाभ्यवर्तत।।3.52.27।। Aranya Kanda,52,28,अभ्यवर्तत पुष्पाणां धारा वैश्रवणानुजम्। नक्षत्रमाला विमला मेरुं नगमिवोन्नतम्।।3.52.28।। Aranya Kanda,52,29,चरणान्नूपुरं भ्रष्टं वैदेह्या रत्नभूषितम्। विद्युन्मण्डलसङ्काशं पपात मधुरस्वनम्।।3.52.29।। Aranya Kanda,52,30,तरुप्रवालरक्ता सा नीलाङ्गं राक्षसेश्वरम्। प्राशोभयत वैदेही गजं कक्ष्येव काञ्चनी।।3.52.30।। Aranya Kanda,52,31,तां महोल्कामिवाकाशे दीप्यमानां स्वतेजसा। जहाराऽकाशमाविस्य सीतां वैश्रवणानुजः।।3.52.31।। Aranya Kanda,52,32,तस्यास्तान्यग्निवर्णानि भूषणानि महीतले। सघोषाण्यवकीर्यन्त क्षीणास्तारा इवाम्बरात्।।3.52.32।। Aranya Kanda,52,33,तस्यास्स्तनान्तराद्भ्रष्टो हारस्ताराधिपद्युतिः। वैदेह्या निपतन्भाति गङ्गेव गगनाच्च्युता।।3.52.33।। Aranya Kanda,52,34,उत्पातवाताभिहता नानाद्विजगणायुताः। माभैरिति विधूताग्रा व्याजह्रुरिव पादपाः।।3.52.34।। Aranya Kanda,52,35,नलिन्यो ध्वस्तकमलास्त्रस्तमीनजलेचराः। सखीमिव गतोच्छ्वासामन्वशोचन्त मैथिलीम्।।3.52.35।। Aranya Kanda,52,36,समन्तादभिसम्पत्य सिंहव्याघ्रमृगद्विजाः। अन्वधावंस्तदा रोषात्सीतां छायानुगामिनः।।3.52.36।। Aranya Kanda,52,37,जलप्रपातास्रमुखाश्शृङ्गैरुच्छ्रितबाहुभिः। सीतायां ह्रियमाणायां विक्रोशन्तीव पर्वताः।।3.52.37।। Aranya Kanda,52,38,ह्रियमाणां तु वैदेहीं दृष्ट्वा दीनो दिवाकरः। प्रतिध्वस्तप्रभश्श्रीमानासीत्पाण्डरमण्डलः।।3.52.38।। Aranya Kanda,52,39,नास्ति धर्मः कुतस्सत्यं नार्जवं नानृशंसता। यत्र रामस्य वैदेहीं भार्यां हरति रावणः।।3.52.39।। इति सर्वाणि भूतानि गणशः पर्यदेवयन्। Aranya Kanda,52,40,वित्रस्तका दीनमुखा रुरुदुर्मृगपोतकाः।।3.52.40।। उद्वीक्ष्योद्वीक्ष्य नयनैरस्रपाताविलेक्षणाः। Aranya Kanda,52,41,सुप्रवेपितगात्राश्च बभूवुर्वनदेवताः।।3.52.41।। विक्रोशन्तीं दृढं सीतां दृष्ट्वा दुःखं तथा गताम्। Aranya Kanda,52,42,तां तु लक्ष्मण रामेति क्रोशन्तीं मधुरस्वरम्।।3.52.42।। Aranya Kanda,52,43,अवेक्षमाणां बहुशो वैदेहीं धरणीतलम्। स तामाकुलकेशान्तां विप्रमृष्टविशेषकाम्।।3.52.43।। जहारात्म विनाशाय दशग्रीवो मनस्स्विनीम्। Aranya Kanda,52,44,ततस्तु सा चारुदती शुचिस्मिता विनाकृता बन्धुजनेन मैथिली। अपश्यती राघवलक्ष्मणावुभौ विवर्णवक्त्राभयभारपीडिता।।3.52.44।। Aranya Kanda,53,1,खमुत्पतन्तं तं दृष्ट्वा मैथिली जनकात्मजा। दुःखिता परमोद्विग्ना भये महति वर्तिनी।।3.53.1।। Aranya Kanda,53,2,रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम्। रुदन्ती करुणं सीता ह्रियमाणेदमब्रवीत्।।3.53.2।। Aranya Kanda,53,3,न व्यपत्रपसे नीच कर्मणानेन रावण। ज्ञात्वा विरहितां यन्मां चोरयित्वा पलायसे।।3.53.3।। Aranya Kanda,53,4,त्वयैव नूनं दुष्टात्मन् भीरुणा हर्तुमिच्छता। ममापवाहितो भर्ता मृगरूपेण मायया।।3.53.4।। Aranya Kanda,53,5,यो हि मामुद्यतस्त्रातुं सोऽप्ययं विनिपातितः। गृध्रराजः पुराणोऽसौ श्वशुरस्य सखा मम।।3.53.5।। Aranya Kanda,53,6,परमं खलु ते वीर्यं दृश्यते राक्षसाधम। विश्राव्य नामधेयं हि युद्धे नास्मि जिता त्वया।।3.53.6।। Aranya Kanda,53,7,ईदृशं गर्हितं कर्म कथं कृत्वा न लज्जसे। स्त्रियाश्च हरणं नीच रहिते च परस्य च।।3.53.7।। Aranya Kanda,53,8,कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम्। सुनृशंसमधर्मिष्ठं तव शौण्डीर्यमानिनः।।3.53.8।। Aranya Kanda,53,9,धिक्ते शौर्यं च सत्त्वं च यत्त्वं कथितवांस्तदा। कुलाक्रोशकरं लोके धिक्ते चारित्रमीदृशम्।।3.53.9।। Aranya Kanda,53,10,किं कर्तुं शक्यमेवं हि यज्जवेनैव धावसि। मुहूर्तमपि तिष्ठस्व न जीवन्प्रतियास्यसि।।3.53.10।। Aranya Kanda,53,11,न हि चक्षुष्पथं प्राप्य तयोः पार्थिवपुत्रयोः। ससैन्योऽपि समर्थस्त्वं मुहूर्तमपि जीवितुम्।।3.53.11।। Aranya Kanda,53,12,न त्वं तयोश्शरस्पर्शं सोढुं शक्तः कथञ्चन। वने प्रज्वलितस्येव स्पर्शमग्नेर्विहंगमः।।3.53.12।। Aranya Kanda,53,13,साधु कुर्वाऽऽत्मनः पथ्यं साधु मां मुञ्च रावण। मत्प्रधर्षणरुष्टो हि भ्रात्रा सह पतिर्मम।।3.53.13।। विधास्यति विनाशाय त्वं मां यदि न मुञ्चसि। Aranya Kanda,53,14,येन त्वं व्यवसायेन बलान्मां हर्तुमिच्छसि।।3.53.14।। व्यवसायस्स ते नीच भविष्यति निरर्थकः। Aranya Kanda,53,15,न ह्यहं तमपश्यन्ती भर्तारं विबुधोपमम्।।3.53.15।। उत्सहे शत्रुवशगा प्राणान्धारयितुं चिरम्। Aranya Kanda,53,16,न नूनं चात्मनः पथ्यं श्रेयो वा समवेक्षसे।।3.53.16।। मृत्युकाले यथा मर्त्यो विपरीतानि सेवते। Aranya Kanda,53,17,मुमूर्षूणां हि सर्वेषां यत्पथ्यं तन्न रोचते।।3.53.17।। पश्याम्यद्य हि कण्ठेत्वां कालपाशावपाशितम्। Aranya Kanda,53,18,यथा चास्मिन्भयस्थाने न बिभेषि दशानन।।3.53.18।। व्यक्तं हिरण्मयान् हि त्वं सम्पश्यसि महीरुहान्। Aranya Kanda,53,19,नदीं वैतरणीं घोरां रुधिरौघनिवाहिनीम्।।3.53.19।। असिपत्रवनं चैव भीमं पश्यसि रावण। Aranya Kanda,53,20,तप्तकाञ्चनपुष्पां च वैडूर्यप्रवरच्छदाम्।।3.53.20।। द्रक्ष्यसे शाल्मलीं तीक्ष्णामायसैः कण्टकैश्चिताम्। Aranya Kanda,53,21,न हि त्वमीदृशं कृत्वा तस्यालीकं महात्मनः।।3.53.21।। धरितुं शक्ष्यसि चिरं विषं पीत्वेव निर्घृणः। Aranya Kanda,53,22,बद्धस्त्वं कालपाशेन दुर्निवारेण रावण।।3.53.22।। क्वगतो लप्स्यसे शर्म भर्तुर्मम महात्मनः। Aranya Kanda,53,23,निमेषान्तरमात्रेण विना भ्रात्रा महावने।।3.53.23।। Aranya Kanda,53,24,राक्षसा निहता येन सहस्राणि चतुर्दश। स कथं राघवो वीरस्सर्वास्त्रकुशलो बली।।3.53.24।। न त्वां हन्याच्छरैस्तीक्ष्णैरिष्टभार्यापहारिणम्। Aranya Kanda,53,25,तच्चान्यच्च परुषं वैदेही रावणाङ्कगा।।3.53.25।। भयशोकसमाविष्टा करुणं विललाप ह। Aranya Kanda,53,26,तथा भृशार्तां बहुचैव भाषिणीं विलापपूर्वं करुणं च भामिनीम्। जहार पापः करुणं विचेष्टतीं नृपात्मजामागतगात्रवेपथुम्।।3.53.26।। Aranya Kanda,54,1,ह्रियमाणा तु वैदेही कञ्चिन्नाथमपश्यती। ददर्श गिरिशृङ्गस्थान्पञ्च वानरपुङ्गवान्।।3.54.1।। Aranya Kanda,54,2,तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम्। उत्तरीयं वरारोहा शुभान्याभरणानि च।।3.54.2।। मुमोच यदि रामाय शंसेयुरिति मैथिली। Aranya Kanda,54,3,वस्त्रमुत्सृज्य तन्मध्ये निक्षिप्तं सहभूषणम्।।3.54.3।। सम्भ्रमात्तु दशग्रीवस्तत्कर्म न स बुद्धवान्। Aranya Kanda,54,4,पिङ्गाक्षास्तां विशालाक्षीं नेत्रैरनिमिषैरिव।।3.54.4।। विक्रोशन्तीं तथा सीतां ददृशुर्वानरर्षभाः। Aranya Kanda,54,5,स च पम्पामतिक्रम्य लङ्कामभिमुखः पुरीम्।।3.54.5।। जगाम रुदतीं गृह्य वैदेहीं राक्षसेश्वरः। Aranya Kanda,54,6,तां जहार सुसंहृष्टो रावणो मृत्युमात्मनः।।3.54.6।। उत्सङ्गेनेव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम्। Aranya Kanda,54,7,वनानि सरितश्शैलांत्सरांसि च विहायसा।।3.54.7।। स क्षिप्रं समतीयाय शरश्चापादिव च्युतः। Aranya Kanda,54,8,तिमिनक्रनिकेतं तु वरुणालयमक्षयम्।।3.54.8।। सरितां शरणं गत्वा समतीयाय सागरम्। Aranya Kanda,54,9,सम्भ्रमात्परिवृत्तोर्मी रुद्धमीनमहोरगः।।3.54.9।। वैदेह्यां ह्रियमाणायां बभूव वरुणालयः। Aranya Kanda,54,10,अन्तरिक्षगता वाचस्ससृजुश्चारणास्तदा।।3.54.10।। एतदन्तो दशग्रीव इति सिद्धास्तदाब्रुवन्। Aranya Kanda,54,11,स तु सीतां विवेष्टन्तीमङ्केनादाय रावणः।।3.54.11।। प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः। Aranya Kanda,54,12,सोऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम्।।3.54.12।। संरूढकक्ष्याबहुलं स्वमन्तःपुरमाविशत्। Aranya Kanda,54,13,तत्र तामसितापाङ्गां शोकमोहपरायणाम्।।3.54.13।। निदधे रावणस्सीतां मयो मायामिवस्त्रियम्। Aranya Kanda,54,14,अब्रवीच्च दशग्रीवः पिशाचीर्घोरदर्शनाः।।3.54.14।। यथा नेमां पुमान् स्त्री वा सीतां पश्यत्यसम्मतः। Aranya Kanda,54,15,मुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च।।3.54.15।। यद्यदिच्छेत्तदेवास्या देयं मच्छन्दतो यथा। Aranya Kanda,54,16,या च वक्ष्यति वैदेहीं वचनं किञ्चिदप्रियम्।।3.54.16।। अज्ञानाद्यदि वा ज्ञानान्न तस्या जीवितं प्रियम्। Aranya Kanda,54,17,तथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान्।।3.54.17।। Aranya Kanda,54,18,निष्क्रम्यान्तः पुरात्तस्मात्किंकृत्यमिति चिन्तयन्। ददर्शाष्टौ महावीर्यान्राक्षसान्पिशिताशनान्।।3.54.18।। Aranya Kanda,54,19,स तान्दृष्ट्वा महावीर्यो वरदानेन मोहितः। उवाचैतानिदं वाक्यं प्रशस्य बलवीर्यतः।।3.54.19।। Aranya Kanda,54,20,नानाप्रहरणाः क्षिप्रमितो गच्छत सत्वराः। जनस्थानं हतस्थानं भूतपूर्वं खरालयम्।।3.54.20।। Aranya Kanda,54,21,तत्रोष्यतां जनस्थाने शून्ये निहतराक्षसे। पौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः।।3.54.21।। Aranya Kanda,54,22,बलं हि सुमहद्यन्मे जनस्थाने निवेशितम्। सदूषणखरं युद्धे हतं रामेण सायकैः।।3.54.22।। Aranya Kanda,54,23,तत क्रोधो ममामर्षाद्धैर्यस्योपरि वर्तते। वैरं च सुमहज्जातं रामं प्रति सुदारुणम्।।3.54.23।। Aranya Kanda,54,24,निर्यातयितुमिच्छामि तच्च वैरमहं रिपोः। न हि लप्स्याम्यहं निद्रामहत्वा संयुगे रिपुम्।।3.54.24।। Aranya Kanda,54,25,तं त्विदानीमहं हत्वा खरदूषणघातिनम्। रामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः।।3.54.25।। Aranya Kanda,54,26,जनस्थाने वसद्भिस्तु भवद्भीराममाश्रिता। प्रवृत्तिरुपनेतव्या किञ्करोतीति तत्त्वतः।।3.54.26।। Aranya Kanda,54,27,अप्रमादाच्च गन्तव्यं सर्वैरपि निशाचरैः। कर्तव्यश्च सदा यत्नो राघवस्य वधं प्रति।।3.54.27।। Aranya Kanda,54,28,युष्माकं च बलज्ञोऽहं बहुशो रणमूर्धनि। अतश्चास्मिन् जनस्थाने मया यूयं नियोजिताः।।3.54.28।। Aranya Kanda,54,29,ततः प्रियं वाक्यमुपेत्य राक्षसा महार्थमष्टावभिवाद्य रावणम्। विहाय लङ्कां सहिताः प्रतस्थिरे यतो जनस्थानमलक्ष्यदर्शनाः।।3.54.29।। Aranya Kanda,54,30,ततस्तु सीतामुपलभ्य रावणः सुसम्प्रहृष्टः परिगृह्य मैथिलीम्। प्रसज्य रामेण च वैरमुत्तमं बभूव मोहान्मुदितस्सराक्षसः।।3.54.30।। Aranya Kanda,55,1,सन्दिश्य राक्षसान्घोरान् रावणोऽष्टौ महाबलान्। आत्मानं बुद्धिवैक्लब्यात्कृतकृत्यममन्यत।।3.55.1।। Aranya Kanda,55,2,स चिन्तयानो वैदेहीं कामबाणसमर्पितः। प्रविवेश गृहं रम्यं सीतां द्रष्टुमभित्वरन्।।3.55.2।। Aranya Kanda,55,3,स प्रविश्य तु तद्वेश्म रावणो राक्षसाधिपः। अपश्यद्राक्षसीमध्ये सीतां शोकपरायणाम्।।3.55.3।। Aranya Kanda,55,4,अश्रुपूर्णमुखीं दीनां शोकभाराभिपीडिताम्। वायुवेगैरिवाक्रान्तां मज्जन्तीं नावमर्णवे।।3.55.4।। Aranya Kanda,55,5,मृगयूथपरिभ्रष्टां मृगीं श्वभिरिवावृताम्। अधोमुखमुखीं सीतामभ्येत्य च निशाचरः।।3.55.5।। Aranya Kanda,55,6,तां तु शोकपरां दीनामवशां राक्षसाधिपः। स बलाद्दर्शयामास गृहं देवगृहोपमम्।।3.55.6।। Aranya Kanda,55,7,हर्म्यप्रासादसम्बाधं स्त्रीसहस्रनिषेवितम्। नानापक्षिगणैर्जुष्टं नानारत्नसमन्वितम्।।3.55.7।। Aranya Kanda,55,8,दान्तकैस्तापनीयैश्च स्फाटिकै राजतैरपि। वज्रवैडूर्यचित्रैश्च स्तम्भैर्दृष्टिमनोहरैः।।3.55.8।। दिव्यदुन्दुभिनिर्ह्रादं तप्तकाञ्चनतोरणम्। Aranya Kanda,55,9,सोपानं काञ्चनं चित्रमारुरोह तया सह।।3.55.9।। Aranya Kanda,55,10,दान्तका राजताश्चैव गवाक्षाः प्रियदर्शनाः। हेमजालावताश्चासन्स्तत्र प्रासादपङ्क्तयः।।3.55.10।। Aranya Kanda,55,11,सुधामणिविचित्राणि भूमिभागानि सर्वशः। दशग्रीवस्स्वभवने प्रादर्शयत मैथिलीम्।।3.55.11।। Aranya Kanda,55,12,दीर्घिकाः पुष्करिण्यश्च नानावृक्षसमन्विताः। रावणो दर्शयामास सीतां शोकपरायणाम्।।3.55.12।। Aranya Kanda,55,13,दर्शयित्वा तु वैदेह्याः कृत्स्नं तद्भवनोत्तमम्। उवाच वाक्यं पापात्मा सीतां लोभितुमिच्छया।।3.55.13।। Aranya Kanda,55,14,दश राक्षसकोट्यश्च द्वाविंशतिरथापराः। तेषां प्रभुरहं सीते सर्वेषां भीमकर्मणाम्।।3.55.14।। वर्जयित्वा जरावृद्धान्बालांश्च रजनीचरान्। Aranya Kanda,55,15,सहस्रमेकमेकस्य मम कार्यपुरस्सरम्।।3.55.15।। Aranya Kanda,55,16,यदिदं राजतन्त्रं मे त्वयि सर्वं प्रतिष्ठितम्। जीवितं च विशालाक्षि त्वं मे प्राणैर्गरीयसी।।3.55.16।। Aranya Kanda,55,17,बहूनांस्त्रीसहस्राणां मम योऽसौ परिग्रहः। तासां त्वमीश्वरा सीते मम भार्या भव प्रिये।।3.55.17।। Aranya Kanda,55,18,साधु किं तेऽन्यया बुद्ध्या रोचयस्व वचो मम। भजस्वमाभितप्तस्य प्रसादं कर्तुमर्हसि।।3.55.18।। Aranya Kanda,55,19,परिक्षिप्ता समुद्रेण लङ्केयं शतयोजना। नेयं धर्षयितुं शक्या सेन्द्रैरपि सुरासुरैः।।3.55.19।। Aranya Kanda,55,20,न देवेषु न यक्षेषु न गन्धर्वेषु पक्षिषु। अहं पश्यामि लोकेषु यो मे वीर्यसमो भवेत्।।3.55.20।। Aranya Kanda,55,21,राज्यभ्रष्टेन दीनेन तापसेन गतायुषा। किं करिष्यसि रामेण मानुषेणाल्पतेजसा।।3.55.21।। Aranya Kanda,55,22,भजस्व सीते मामेव भर्ताहं सदृशस्तव। यौवनं ह्यध्रुवं भीरु रमस्वेह मया सह।।3.55.22।। Aranya Kanda,55,23,दर्शने माकृथा बुद्धिं राघवस्य वरानने। कास्य शक्तिरिहागन्तुमपि सीते मनोरथैः।।3.55.23।। Aranya Kanda,55,24,न शक्यो वायुराकाशे पाशैर्बद्धुं महाजवः। दीप्यमानस्य वाप्यग्नेर्गृहीतुं विमलां शिखाम्।।3.55.24।। Aranya Kanda,55,25,त्रयाणामपि लोकानां न तं पश्यामि शोभने। विक्रमेण नयेद्यस्त्वां मद्बाहुपरिपालिताम्।।3.55.25।। Aranya Kanda,55,26,लङ्कायां सुमहद्राज्यमिदं त्वमनुपालय। त्वत्प्रेष्या मद्विधाश्चैव देवाश्चापि चराचराः।।3.55.26।। Aranya Kanda,55,27,अभिषेकोदकक्लिन्ना तुष्टा च रमयस्व माम्। दुष्कृतं यत्परा कर्म वनवासेन तद्गतम्।।3.55.27।। यश्च ते सुकृतो धर्मस्तस्येह फलमाप्नुहि। Aranya Kanda,55,28,इह माल्यानि सर्वाणि दिव्यगन्धानि मैथिलि।।3.55.28।। भूषणानि च मुख्यानि सेवस्व च मया सह।। Aranya Kanda,55,29,पुष्पकं नाम सुश्रोणि भ्रातुर्वैश्रवणस्य मे।।3.55.29।। विमानं सूर्यसङ्काशं तरसा निर्जितं मया। Aranya Kanda,55,30,विशालं रमणीयं च तद्विमानमनुत्तम्।।3.55.30।। तत्र सीते मया सार्धं विहरस्व यथासुखम्। Aranya Kanda,55,31,वदनं पद्मसङ्काशममलं चारुदर्शनम्। शोकार्तंतु वरारोहे न भ्राजति वरानने।।3.55.31।। Aranya Kanda,55,32,एवं वदति तस्मित्सा वस्त्रान्तेन वराङ्गना। पिधायेन्दुनिभं सीता मुखमश्रूण्यवर्तयत्।।3.55.32।। Aranya Kanda,55,33,ध्यायन्तीं तामिवास्वस्थां दीनां चिन्ताहतप्रभाम्। उवाच वचनं पापो रावणो राक्षसेश्वरः।।3.55.33।। Aranya Kanda,55,34,अलं व्रीडेन वैदेहि धर्मलोपकृतेन च।।3.55.34।। आर्षोऽयं दैवनिष्यन्दो यस्त्वामभिगमिष्यति। Aranya Kanda,55,35,एतौ पादौ मया स्निग्धौ शिरोभिः परिपीडितौ।।3.55.35।। प्रसादं कुरु मे क्षिप्रं वश्यो दासोऽहमस्मिते। Aranya Kanda,55,36,इमाश्शून्य मया वाचश्शुष्यमाणेन भाषिताः।।3.55.36।। न चापि रावणः काञ्चिन्मूर्ध्ना स्त्रीं प्रणमेत ह। Aranya Kanda,55,37,एवमुक्त्वा दशग्रीवो मैथिलीं जनकात्मजाम्।।3.55.37।। कृतान्तवशमापन्नो ममेयमिति मन्यते। Aranya Kanda,56,1,सा तथोक्ता तु वैदेही निर्भया शोककर्शिता। तृणमन्तरतः कृत्वा रावणं प्रत्यभाषत।।3.56.1।। Aranya Kanda,56,2,राजा दशरथो नाम धर्मसेतुरिवाचलः। सत्यसन्धः परिज्ञातो यस्य पुत्रस्सराघवः।।3.56.2।। Aranya Kanda,56,3,रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः। दीर्घबाहुर्विशालाक्षो दैवतं हि पतिर्मम।।3.56.3।। Aranya Kanda,56,4,इक्ष्वाकूणां कुले जातस्सिंहस्कन्धो महाद्युतिः। लक्ष्मणेन सह भ्रात्रा यस्ते प्राणान्हरिष्यति।।3.56.4।। Aranya Kanda,56,5,प्रत्यक्षं यद्यहं तस्य त्वया स्यां धर्षिता बलात्। शयिता त्वं हतस्संख्ये जनस्थाने यथा खरः।।3.56.5।। Aranya Kanda,56,6,य एते राक्षसाः प्रोक्ता घोररूपा महाबलाः। राघवे निर्विषास्सर्वे सुपर्णे पन्नगा यथा।।3.56.6।। Aranya Kanda,56,7,तस्य ज्याविप्रमुक्तास्ते शराः काञ्चनभूषणाः। शरीरं विधमिष्यन्ति गङ्गाकूलमिवोर्मयः।।3.56.7।। Aranya Kanda,56,8,असुरैर्वा सुरैर्वा त्वं यद्यवध्योऽसि रावण। उत्पाद्य सुमहद्वैरं जीवंस्तस्य न मोक्ष्यसे।।3.56.8।। Aranya Kanda,56,9,स ते जीवितशेषस्य राघवोऽन्तकरो बली। पशोर्यूपगतस्येव जीवितं तव दुर्लभम्।।3.56.9।। Aranya Kanda,56,10,यदि पश्येत्स रामस्त्वां रोषदीप्तेन चक्षुषा। रक्षस्त्वमद्य निर्धग्धो गच्छेस्सद्यः पराभवम्।।3.56.10।। Aranya Kanda,56,11,यश्चन्द्रं नभसो भूमौ पातयेन्नाशयेत वा। सागरं शोषयेद्वापि स सीतां मोचयेदिह।।3.56.11।। Aranya Kanda,56,12,गतायुस्त्वं गतश्रीको गतसत्त्व गतेन्द्रियः। लङ्का वैधव्यसंयुक्ता त्वत्कृतेन भविष्यति।।3.56.12।। Aranya Kanda,56,13,न ते पापमिदं कर्म शुखोदर्कं भविष्यति। याऽहं नीता विनाभावं पतिपार्श्वात्त्वया वने।।3.56.13।। Aranya Kanda,56,14,स हि दैवतसंयुक्तो मम भर्ता महाद्युतिः। निर्भयो वीर्यमाश्रित्य शून्ये वसति दण्डके।।3.56.14।। Aranya Kanda,56,15,स ते दर्पं बलं वीर्यमुत्सेकं च तथाविधम्। अपनेष्यति गात्रेभ्यश्शरवर्षेण संयुगे।।3.56.15।। Aranya Kanda,56,16,यदा विनाशो भूतानां दृश्यते कालचोदितः। तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः।।3.56.16।। Aranya Kanda,56,17,मां प्रधृष्य स ते कालः प्राप्तोऽयं राक्षसाधम। आत्मनो राक्षसानां च वधायान्तःपुरस्य च।।3.56.17।। Aranya Kanda,56,18,न शक्या यज्ञमध्यस्था वेदी सृग्भाण्डमण्डिता। द्विजातिमन्त्रपूता च चण्डालेनावमर्दितुम्।।3.56.18।। Aranya Kanda,56,19,तथाऽहं धर्मनित्यस्य धर्मपत्नी पतिव्रता। त्वया स्पृष्टुं न शक्यास्मि राक्षसाधम पापिना।।3.56.19।। Aranya Kanda,56,20,क्रीडन्ती राजहंसेन पद्मषण्डेषु नित्यदा। हंसी सा तृणषण्डस्थं कथं पश्येत मद्गुकम्।।3.56.20।। Aranya Kanda,56,21,इदं शरीरं निस्संज्ञं बन्ध वा खातयस्व वा। नेदं शरीरं रक्षयं मे जीवितं वापि राक्षस।।3.56.21।। न तु शक्ष्याम्युपक्रोशं पृथिव्यां दातुमात्मनः। Aranya Kanda,56,22,एवमुक्त्वा तु वैदेही क्रोधात्सुपरुषं वचः।।3.56.22।। रावणं मैथिली तत्र पुनर्नोवाच किञ्चन। Aranya Kanda,56,23,सीताया वचनं श्रुत्वा परुषं रोमहर्षणम्।।3.56.23।। प्रत्युवाच ततस्सीतां भयसन्दर्शनं वचः। Aranya Kanda,56,24,शृणु मैथिलि मद्वाक्यं मासान्द्वादश भामिनि।।3.56.24।। Aranya Kanda,56,25,कालेनानेन नाभ्येषि यदि मां चारुहासिनि। ततस्त्वां प्रातराशार्थं सूदाश्छेत्स्यन्ति लेशशः।।3.56.25।। Aranya Kanda,56,26,इत्युक्त्वा परुषं वाक्यं रावणश्शत्रुरावणः। राक्षसीश्च ततः क्रुद्ध इदं वचनमब्रवीत्।।3.56.26।। Aranya Kanda,56,27,शीघ्रमेव हि राक्षस्यो विकृता घोरदर्शनाः। दर्पमस्या विनेष्यध्वं मांसशोणितभोजनाः।।3.56.27।। Aranya Kanda,56,28,वचनादेव तास्तस्य सुघोरा राक्षसीगणाः। कृतप्राञ्जलयो भूत्वा मैथिलीं पर्यवारयन्।।3.56.28।। Aranya Kanda,56,29,स ताः प्रोवाच राजा तु रावणो घोरदर्शनः। प्रचाल्य चरणोत्कर्षैर्दारयन्निव मेदिनीम्।।3.56.29।। Aranya Kanda,56,30,अशोकवनिकामध्ये मैथिली नीयतामियम्। तत्रेयं रक्ष्यतां गूढं युष्माभिः परिवारिता।।3.56.30।। Aranya Kanda,56,31,तत्रैनां तर्जनैर्घोरैः पुनस्सान्त्वैश्च मैथिलीम्। आनयध्वं वशं सर्वा वन्यां गजवधूमिव।।3.56.31।। Aranya Kanda,56,32,इति प्रतिसमादिष्टा राक्षस्यो रावणेन ताः। अशोकवनिकां जग्मुर्मैथिलीं परिगृह्य तु।।3.56.32।। Aranya Kanda,56,33,सर्वकालफलैर्वृक्षैर्नानापुष्पफलैर्वृताम्। सर्वकालमदैश्चापि द्विजैस्समुपसेविताम्।।3.56.33।। Aranya Kanda,56,34,सा तु शोकपरीताङ्गी मैथिली जनकात्मजा। राक्षसीवशमापन्ना व्याघ्रीणां हरिणी यथा।।3.56.34।। Aranya Kanda,56,35,शोकेन महता ग्रस्ता मैथिली जनकात्मजा। न शर्म लभते भीरुः पाशबद्धा मृगी यथा।।3.56.35।। Aranya Kanda,56,36,न विन्दते तत्र तु शर्म मैथिली विरूपनेत्राभिरतीव तर्जिता। पतिं स्मरन्ती दयितं च देवतं विचेतनाऽभूद्भयशोकपीडिता।।3.56.36।। Aranya Kanda,57,1,राक्षसं मृगरूपेण चरन्तं कामरूपिणम्। निहत्य रामो मारीचं तूर्णं पथि न्यवर्तत।।3.57.1।। Aranya Kanda,57,2,तस्य सन्त्वरमाणस्य द्रष्टुकामस्य मैथिलीम्। क्रूरस्वनोऽथ गोमायुर्विननादास्य पृष्ठतः।।3.57.2।। Aranya Kanda,57,3,स तस्य स्वरमाज्ञाय दारुणं रोमहर्षणम्। चिन्तयामास गोमायोस्स्वरेण परिशङ्कितः।।3.57.3।। Aranya Kanda,57,4,अशुभं बत मन्येऽहं गोमायुर्वाश्यते यथा। स्वस्ति स्यादपि वैदेह्या राक्षसैर्भक्षणं विना।।3.57.4।। Aranya Kanda,57,5,मारीचेन तु विज्ञाय स्वरमालम्ब्य मामकम्। विक्रुष्टं मृगरूपेण लक्ष्मणश्शृणुयाद्यदि।।3.57.5।। Aranya Kanda,57,6,स सौमित्रिस्स्वरं श्रुत्वा तां च हित्वाच मैथिलीम्। तयेह प्रहितः क्षिप्रं मत्सकाशमिहैष्यति।।3.57.6।। Aranya Kanda,57,7,राक्षसैस्सहितैर्नूनं सीताया ईप्सितो वधः। काञ्चनश्च मृगो भूत्वा व्यपनीयाश्रमात्तु माम्।।3.57.7।। Aranya Kanda,57,8,दूरं नीत्वा तु मारीचो राक्षसोऽभूच्छरा हतः। हा लक्ष्मण हतोऽस्मीति यद्वाक्यं व्याजहार ह।।3.57.8।। Aranya Kanda,57,9,अपि स्वस्ति भवेत्ताभ्यां रहिताभ्यां महावने। जनस्थाननिमित्तं हि कृतवैरोऽस्मि राक्षसैः।।3.57.9।। निमित्तानि च घोराणि दृश्यन्तेऽद्य बहूनि च। Aranya Kanda,57,10,इत्येवं चिन्तयन्रामश्श्रुत्वा गोमायुनिस्स्वनम्।।3.57.10।। Aranya Kanda,57,11,आत्मनश्चापनयनान्मृगरूपेण रक्षसा। आजगाम जनस्थानं राघवः परिशङ्कितः।।3.57.11।। Aranya Kanda,57,12,तं दीनमनसो दीनमासेदुर्मृगपक्षिणः। सव्यं कृत्वा महात्मानं घोरांश्च ससृजुस्स्वरान्।।3.57.12।। Aranya Kanda,57,13,तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः। न्यवर्तताथ त्वरितो जवेनाश्रममात्मनः।।3.57.13।। Aranya Kanda,57,14,सीतां स तु वरारोहां लक्ष्मणं च महाबलम्। आजगाम जनस्थानं चिन्तयन्नेव राघवः।।3.57.14।। Aranya Kanda,57,15,ततो लक्ष्मणमायान्तं ददर्श विगतप्रभम्। ततोऽविदूरे रामेण समीयाय स लक्ष्मणः।।3.57.15।। विषण्णस्सुविषण्णेन दुःखितो दुःखभागिना। Aranya Kanda,57,16,सञ्जगर्हेऽथ तं भ्राता ज्येष्ठो लक्ष्मणमागतम्।।3.57.16।। विहाय सीतां विजने वने राक्षससेविते। Aranya Kanda,57,17,गृहीत्वा च करं सव्यं लक्ष्मणं रघुनन्दनः।।3.57.17।। उवाच मधुरोदर्कमिदं परुषमार्तिमत्। Aranya Kanda,57,18,अहो लक्ष्मण गर्ह्यं ते कृतं यस्त्वं विहाय ताम्।।3.57.18।। सीतामिहाऽगतस्सौम्य कच्चित्स्वस्ति भवेदिह। Aranya Kanda,57,19,न मेऽस्ति संशयो वीर सर्वथा जनकात्मजा।।3.57.19।। Aranya Kanda,57,20,विनष्टा भक्षिता वापि राक्षसैर्वनचारिभिः। अशुभान्येव भूयिष्ठं यथा प्रादुर्भवन्ति मे।।3.57.20।। Aranya Kanda,57,21,अपि लक्ष्मण सीतायास्सामग्र्यं प्राप्नुयावहे। जीवन्त्याः पुरुषव्याघ्र सुताया जनकस्य वै।।3.57.21।। Aranya Kanda,57,22,यथा वै मृगसङ्घाश्च गोमायुश्चैव भैरवम्। वाश्यन्ते शकुनाश्चापि प्रदीप्तामभितो दिशम्।।3.57.22।। अपि स्वस्ति भवेत्तस्या राजपुत्र्या महाबल। Aranya Kanda,57,23,इदं हि रक्षो मृगसन्निकाशं प्रलोभ्य मां दूरमनुप्रयान्तम्। हतं कथञ्चिन्महता श्रमेण स राक्षसोऽभून्म्रियमाण एव।।3.57.23।। Aranya Kanda,57,24,मनश्च मे दीनमिहाप्रहृष्टं चक्षुश्च सव्यं कुरुते विकारम्। असंशयं लक्ष्मण नास्ति सीता हृता मृता वा पथि वर्तते वा।।3.57.24।। Aranya Kanda,58,1,स दृष्ट्वा लक्ष्मणं दीनं शून्ये दशरथात्मजः। पर्यपृच्छत धर्मात्मा वैदेहीमागतं विना।।3.58.1।। Aranya Kanda,58,2,प्रस्थितं दण्डकारण्यं या मामनुजगाम ह। क्व सा लक्ष्मण वैदेही यां हित्वा त्वमिहागतः।।3.58.2।। Aranya Kanda,58,3,राज्यभ्रष्टस्य दीनस्य दण्डकान्परिधावतः। क्व सा दुःखसहाया मे वैदेही तनुमध्यमा।।3.58.3।। Aranya Kanda,58,4,यां विना नोत्सहे वीर मुहूर्तमपि जीवितुम्। क्व सा प्राणसहाया मे सीता सुरसुतोपमा।।3.58.4।। Aranya Kanda,58,5,पतित्वममराणां वा पृथिव्याश्चापि लक्ष्मण। तां विना तपनीयाभां नेच्छेयं जनकात्मजाम्।।3.58.5।। Aranya Kanda,58,6,कच्चिज्जीवति वैदेहि प्राणैः प्रियतरा मम। कच्चित्प्रव्राजनं सौम्य न मे मिथ्या भविष्यति।।3.58.6।। Aranya Kanda,58,7,सीतानिमित्तं सौमित्रे मृते मयि गते त्वयि। कच्चित्सकामा सुखिता कैकेयी सा भविष्यति।।3.58.7।। Aranya Kanda,58,8,सपुत्रराज्यां सिद्धार्थां मृतपुत्रा तपस्विनी। उपस्थास्यतिकौसल्या कच्चित्सौम्य न केकयीम्।।3.58.8।। Aranya Kanda,58,9,यदि जीवति वैदेही गमिष्याम्याश्रमं पुनः। सुवृत्ता यदि वृत्ता प्राणांस्त्यक्ष्यामि लक्ष्मण।।3.58.9।। Aranya Kanda,58,10,यदि मामाश्रमगतं वैदेही नाभिभाषते। पुनः प्रहसिता सीता विनशिष्यामि लक्ष्मण।।3.58.10।। Aranya Kanda,58,11,ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा। त्वयि प्रमत्ते रक्षोभिर्भक्षिता वा तपस्विनी।।3.58.11।। Aranya Kanda,58,12,सुकुमारी च बाला च नित्यं चादुःखदर्शिनी। मद्वियोगेन वैदेही व्यक्तं शोचति दुर्मनाः।।3.58.12।। Aranya Kanda,58,13,सर्वदा रक्षसा तेन जिह्मेन सुदुरात्मना। वदता लक्ष्मणेत्युच्चैस्तवापि जनितं भयम्।।3.58.13।। Aranya Kanda,58,14,श्रुतस्तु शङ्के वैदेह्या स स्वरस्सदृशो मम। त्रस्तया प्रेषितस्त्वं च द्रष्टुं मां शीघ्रमागतः।।3.58.14।। Aranya Kanda,58,15,सर्वथा तु कृतं कष्टं सीतामुत्सृजता वने। प्रतिकर्तुं नृशंसानां रक्षसां दत्तमन्तरं।।3.58.15।। Aranya Kanda,58,16,दुःखिताः खरघातेन राक्षसाः पिशिताशनाः। तैस्सीता निहता घोरैर्भविष्यति न संशयः।3.58.16।। Aranya Kanda,58,17,अहोऽस्मिन् व्यसने मग्नस्सर्वथा शत्रुसूदन। किं न्विदानीं करिष्यामि शङ्के प्राप्तव्यमीदृशम्।।3.58.17।। Aranya Kanda,58,18,इति सीतां वरारोहां चिन्तयन्नेव राघवः। आजगाम जनस्थानं त्वरया सह लक्ष्मणः।।3.58.18।। Aranya Kanda,58,19,विगर्हमाणोऽनुजमार्तरूपं क्षुधा श्रमाच्चैव पिपासया च। विनिश्श्वसन् शुष्कमुखो विवर्णः प्रतिश्रयं प्राप्य समीक्ष्य शून्यम्।।3.58.19।। Aranya Kanda,58,20,स्वमाश्रमं सम्प्रविगाह्य वीरो विहारदेशाननुसृत्य कांश्चित्। एतत्तदित्येव निवासभूमौ प्रहृष्टरोमा व्यथितो बभूव।।3.58.20।। Aranya Kanda,59,1,अथाश्रमादुपावृत्तमन्तरा रघुनन्दनः। परिपप्रच्छ सौमित्रिं रामो दुःखार्दितं पुनः।।3.59.1।। Aranya Kanda,59,2,तमुवाच किमर्थं त्वमागतोऽपास्य मैथिलीम्। यदा सा तव विश्वासाद्वने विरहिता मया।।3.59.2।। Aranya Kanda,59,3,दृष्ट्वैवाभ्यागतं त्वां मे मैथिलीं त्यज्य लक्ष्मण। शङ्कमानं महत्पापं यत्सत्यं व्यथितं मनः।।3.59.3।। Aranya Kanda,59,4,स्फुरते नयनं सव्यं बाहुश्च हृदयं च मे। दृष्ट्वा लक्ष्मण दूरे त्वां सीताविरहितं पथि।।3.59.4।। Aranya Kanda,59,5,एवमुक्तन्तु सौमित्रिर्लक्ष्मणश्शुभलक्षणः। भूयो दुःखसमाविष्टो दुःखितं राममब्रवीत्।।3.59.5।। Aranya Kanda,59,6,न स्वयं कामकारेण तां त्यक्त्वाहमिहागतः। प्रचोदित स्तयैवोग्रैस्त्वत्सकाशमिहागतः।।3.59.6।। Aranya Kanda,59,7,आर्येणेव पराक्रुष्टं हासीते लक्ष्मणेति च। परित्राहीति यद्वाक्यं मैथिल्यास्तच्छ्रुतिं गतम्।।3.59.7।। Aranya Kanda,59,8,सा तमार्तस्वरं श्रुत्वा तव स्नेहेन मैथिली। गच्छ गच्छेति मामाह रुदन्ती भयविह्वला।।3.59.8।। Aranya Kanda,59,9,प्रचोद्यमानेन मया गच्छेति बहुशस्तया। प्रत्युक्ता मैथिली वाक्यमिदं त्वत्प्रत्ययान्वितम्।3.59.9।। Aranya Kanda,59,10,न तत्पश्याम्यहं रक्षो यदस्य भयमावहेत्। निर्वृता भव नास्त्येतत्केनाप्येवमुदाहृतम्।।3.59.10।। Aranya Kanda,59,11,विगर्हितं च नीचं च कथमार्योऽभिधास्यति। त्राहीति वचनं सीते यस्त्रायेत्रिदशानपि।।3.59.11।। Aranya Kanda,59,12,किं निमित्तं तु केनापि भ्रातुरालम्ब्य मे स्वरम्। राक्षसेनेरितं वाक्यं त्राहि त्राहीति शोभने।।3.59.12।। Aranya Kanda,59,13,विस्वरं व्याहृतं वाक्यं लक्ष्मण त्राहि मामिति। न भवत्या व्यथा कार्या कुनारीजनसेविता।।3.59.13।। Aranya Kanda,59,14,अलं वैक्लब्यमालम्ब्य स्वस्था भव निरुत्सुका। न सोऽस्ति त्रिषु लोकेषु पुमान्वै राघवं रणे।।3.59.14।। Aranya Kanda,59,15,जातो वा जायमानो वा संयुगे यः पराजयेत्। न जय्यो राघवो युद्धे देवैश्शक्रपुरोगमैः।।3.59.15।। Aranya Kanda,59,16,एवमुक्ता तु वैदेही परिमोहितचेतना। उवाचाश्रूणि मुञ्चन्ती दारुणं मामिदं वचः।।3.59.16।। Aranya Kanda,59,17,भावो मयि तवात्यर्थं पाप एव निवेशितः। विनष्टे भ्रातरि प्राप्तुं न च त्वं मामवाप्स्यसि।।3.59.17।। Aranya Kanda,59,18,सङ्केताद्भरतेन त्वं रामं समनुगच्छसि। क्रोशन्तं हि यथात्यर्थं नैवमभ्यवपद्यसे।।3.59.18।। Aranya Kanda,59,19,रिपुः प्रच्छन्नचारी त्वं मदर्थमनुगच्छसि। राघवस्यान्तरप्रेप्सुस्तथैनं नाभिपद्यसे।।3.59.19।। Aranya Kanda,59,20,एवमुक्तो हि वैदेह्या संरब्धो रक्तलोचनः। क्रोधात्प्रस्फुरमाणोष्ठ आश्रमादभिनिर्गतः।।3.59.20।। Aranya Kanda,59,21,एवं ब्रुवाणं सौमित्रिं रामस्सन्तापमोहितः। अब्रवीद्दुष्कृतं सौम्य तां विना यत्त्वमागतः।।3.59.21।। Aranya Kanda,59,22,जानन्नपि समर्थं मां रक्षसां विनिवारणे। अनेन क्रोधवाक्येन मैथिल्या निस्सृतो भवान्।।3.59.22।। Aranya Kanda,59,23,न हि ते परितुष्यामि त्यक्त्वा यद्यासि मैथिलीम्। क्रुद्धायाः परुषं श्रुत्वा तां विहाय त्वमागतः।।3.59.23।। Aranya Kanda,59,24,सर्वथा त्वविनीतं ते सीतया यत्प्रचोदितः। क्रोधस्य वशमापन्नो नाकरोश्शासनं मम।।3.59.24।। Aranya Kanda,59,25,असौ हि राक्षसश्शेते शरेणाभिहतो मया। मृगरूपेण येनाहमाश्रमादपवाहितः।।3.59.25।। Aranya Kanda,59,26,विकृष्य चापं परिधाय सायकं सलीलबाणेन च ताडितो मया। मार्गीं तनुं त्यज्य स विक्लबस्वरो बभूव केयूरधरस्सराक्षसः।।3.59.26।। Aranya Kanda,59,27,शराहतेनैव तदार्तया गिरा स्वरं समालम्ब्य सुदूरसुश्रवम्। उदाहृतं तद्वचनं सुदारुणं त्वमागतो येन विहाय मैथिलीम्।।3.59.27।। Aranya Kanda,60,1,भृशमाव्रजमानस्य तस्याधो वामलोचनम्। प्रास्फुरच्चास्खलद्रामो वेपथुश्चाप्य जायत।।3.60.1।। Aranya Kanda,60,2,उपालक्ष्य निमित्तानि सोऽशुभानि मुहुर्मुहुः। अपि क्षेमं नु सीताया इति वै व्याजहार च।।3.60.2।। Aranya Kanda,60,3,त्वरमाणो जगामाथ सीतादर्शनलालसः। शून्यमावसथं दृष्ट्वा बभूवोद्विग्नमानसः।।3.60.3।। Aranya Kanda,60,4,उद्भ्रमन्निव वेगेन विक्षिपन्रघुनन्दनः। तत्र तत्रोटजस्थानमभिवीक्षय समन्ततः।।3.60.4।। Aranya Kanda,60,5,ददर्श पर्णशालां च रहितां सीतया तदा। श्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीमिव।।3.60.5।। Aranya Kanda,60,6,रुदन्तमिव वृक्षैश्च म्लानपुष्पमृगद्विजम्। श्रिया विहीनं विध्वस्तं सन्त्यक्तवनदेवतम्।।3.60.6।। Aranya Kanda,60,7,विप्रकीर्णाजिनकुशं विप्रविद्धब्रुसीकटम्। दृष्ट्वा शून्यं निजस्थानं विललाप पुनः पुनः।।3.60.7।। Aranya Kanda,60,8,हृता मृता वा नष्टा वा भक्षिता वा भविष्यति। निलीनाप्यथवा भीरुरथवा वनमाश्रिता।।3.60.8।। Aranya Kanda,60,9,गता विचेतुं पुष्पाणि फलान्यपि च वा पुनः। अथवा पद्मिनीं याता जलार्थं वा नदीं गता।।3.60.9।। Aranya Kanda,60,10,यत्नान्मृगयमाणस्तु नाससाद वने प्रियाम्। शोकरक्तेक्षणश्शोकादुन्मत्त इव लक्ष्यते।।3.60.10।। Aranya Kanda,60,11,वृक्षाद्वृक्षं प्रधावन्सगिरेश्चाद्रिं नदान्नदीम्। बभूव विलपन्रामश्शोकार्णवपरिप्लुतः।।3.60.11।। Aranya Kanda,60,12,अपि काचित्त्वया दृष्टा सा कदम्बप्रिया प्रिया। कदम्ब यदि जानीषे शंस सीतां शुभाननाम्।।3.60.12।। Aranya Kanda,60,13,स्निग्धपल्लवसङ्काशा पीतकौशेयवासिनी। शंसस्व यदि वा दृष्टा बिल्व बिल्वोपमस्तनी।।3.60.13।। Aranya Kanda,60,14,अथवाऽर्जुन शंस त्वं प्रियां तामर्जुनप्रियाम्। जनकस्य सुता भीरुर्यदि जीवति वा न वा।।3.60.14।। Aranya Kanda,60,15,ककुभः ककुभोरूं तां व्यक्तं जानाति मैथिलीम्। यथा पल्लवपुष्पाढ्यो भाति ह्येष वनस्पतिः।।3.60.15।। Aranya Kanda,60,16,भ्रमरैरुपगीतश्च यथा द्रुमवरो ह्ययम्। एष व्यक्तं विजानाति तिलकस्तिलकप्रियाम्।।3.60.16।। Aranya Kanda,60,17,अशोक शोकापनुद शोकोपहतचेतसम्। त्वन्नामानं कुरु क्षिप्रं प्रियासन्दर्शनेन माम्।।3.60.17।। Aranya Kanda,60,18,यदि ताल त्वया दृष्टा पक्वतालफलस्तनी। कथयस्व वरारोहां कारुण्यं यदि ते मयि।।3.60.18।। Aranya Kanda,60,19,यदि दृष्टा त्वया सीता जम्बु जम्बूफलोपमा। प्रियां यदि विजानीषे निःशङ्कं कथयस्व मे।।3.60.19।। Aranya Kanda,60,20,अहो त्वं कर्णिकाराद्य सुपुष्पैश्शोभसे भृशम्। कर्णिकारप्रिया साध्वी शंस दृष्टा प्रिया यदि।।3.60.20।। Aranya Kanda,60,21,चूतनीपमहासालान्पनसान्कुरवान्धवान्। दाडिमाननसान्गत्वा दृष्ट्वा रामो महायशाः।।3.60.21।। Aranya Kanda,60,22,मल्लिका माधवीश्चैव चम्पकान्केतकीस्तथा। पृच्छन्रामो वने भान्तः उन्मत्त इव लक्ष्यते।।3.60.22।। Aranya Kanda,60,23,अथवा मृगशाबाक्षीं मृग जानासि मैथिलीम्। मृगविप्रेक्षणी कान्ता मृगीभिस्सहिता भवेत्।।3.60.23।। Aranya Kanda,60,24,गज सा गजनासोरूर्यदि दृष्टा त्वया भवेत्। तां मन्ये विदितां तुभ्यमाख्याहि वरवारण।3.60.24।। Aranya Kanda,60,25,शार्दूल यदि सा दृष्टा प्रिया चन्द्रनिभानना। मैथिली मम विस्रब्धं कथयस्व न ते भयम्।।3.60.25।। Aranya Kanda,60,26,किं धावसि प्रिये दूरे दृष्टासि कमलेक्षणे। वृक्षैराच्छाद्य चात्मानं किं मां न प्रतिभाषसे।।3.60.26।। Aranya Kanda,60,27,तिष्ठ तिष्ठ वरारोहे न तेऽस्ति करुणा मयि। नात्यर्थं हास्यशीलासि किमर्थं मामुपेक्षसे।।3.60.27।। Aranya Kanda,60,28,पीतकौशेयकेनासि सूचिता वरवर्णिनि। धावन्त्यपि मया दृष्टा तिष्ठ यद्यस्ति सौहृदम्।।3.60.28।। Aranya Kanda,60,29,नैव सा नूनमथवा हिंसिता चारुहासिनी। कृच्छ्रप्राप्तं न मां नूनं यथोपेक्षितुमर्हति।।3.60.29।। Aranya Kanda,60,30,व्यक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैः। विभज्याङ्कानि सर्वाणि मया विरहिता प्रिया।।3.60.30।। Aranya Kanda,60,31,नूनं तच्छुभदन्तोष्ठं सुनासं चारुकुण्डलम्। पूर्णचन्द्रनिभं ग्रस्तं मुखंनिष्प्रभतां गतम्।।3.60.31।। Aranya Kanda,60,32,सा हि चम्पकवर्णाभा ग्रीवा ग्रैवेयशोभिता। कोमला विलपन्त्यास्तु कान्ताया भक्षिता शुभा।।3.60.32।। Aranya Kanda,60,33,नूनं विक्षिप्यमाणौ तौ बाहू पल्लवकोमलौ। भक्षितौ वेपमानाग्रौ सहस्ताभरणाङ्गदौ।।3.60.33।। Aranya Kanda,60,34,मया विरहिता बाला रक्षसां भक्षणाय वै। सार्धेनेव परित्यक्ता भक्षिता बहुबान्धवा।।3.60.34।। Aranya Kanda,60,35,हा लक्ष्मण महाबाहो पश्यसि त्वं प्रियां क्वचित्। हा प्रिये क्व गता भद्रे हा सीतेति पुनः पुनः।।3.60.35।। Aranya Kanda,60,36,इत्येवं विलपन्रामः परिधावन्वनाद्वनम्। क्वचिदुद्भ्रमते वेगात्क्वचिद्विभ्रमते बलात्।।3.60.36।। क्वचिन्मत्त इवाभाति कान्तान्वेषणतत्परः। Aranya Kanda,60,37,स वनानि नदीश्शैलान् गिरिप्रस्रवणानि च।।3.60.37।। काननानि च वेगेन भ्रमत्यपरिसंस्थितः। Aranya Kanda,60,38,तथा स गत्वा विपुलम् महद्वनं परीत्य सर्वं त्वथ मैथिलीं प्रति। अनिष्ठिताशस्सचकार मार्गणे पुनः प्रियायाः परमं परिश्रमम्।।3.60.38।। Aranya Kanda,61,1,दृष्ट्वाश्रमपदं शून्यं रामो दशरथात्मजः। रहितां पर्णशालां च विध्वस्तान्यासनानि च।।3.61.1।। Aranya Kanda,61,2,अदृष्ट्वा तत्र वैदेहीं सन्निरीक्ष्य च सर्वशः। उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ।।3.61.2।। Aranya Kanda,61,3,क्व नु लक्ष्मण वैदेही कं वा देशमितो गता। केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया।।3.61.3।। Aranya Kanda,61,4,वृक्षेणाच्छाद्य यदि मां सीते हसितुमिच्छसि। अलं ते हसितेनाद्य मां भजस्व सुदुःखितम्।।3.61.4।। Aranya Kanda,61,5,यैस्सह क्रीडसे सीते विश्वस्तैर्मृगपोतकैः। एते हीनास्त्वया सौम्ये ध्यायन्त्यस्राविलेक्षणाः।।3.61.5।। Aranya Kanda,61,6,सीतया रहितोऽहं वै न हि जीवामि लक्ष्मण। मृतं शोकेन महता सीताहरणजेन माम्।।3.61.6।। परलोके महाराजो नूनं द्रक्ष्यति मे पिता। Aranya Kanda,61,7,कथं प्रतिज्ञां संश्रुत्य मया त्वमभियोजितः।।3.61.7।। Aranya Kanda,61,8,अपूरयित्वा तं कालं मत्सकाशमिहागतः। कामवृत्तमनार्यं मां मृषावादिनमेव च।।3.61.8।। धिक्त्वामिति परे लोके व्यक्तं वक्ष्यति मे पिता। Aranya Kanda,61,9,विवशं शोकसन्तप्तं दीनं भग्नमनोरथम्।।3.61.9।। Aranya Kanda,61,10,मामिहोत्सृज्य करुणं कीर्तिर्नरमिवानृजुम्। क्व गच्छसि वरारोहे मां नोत्सृज सुमध्यमे।।3.61.10।। त्वया विरहितश्चाहं मोक्ष्ये जीवितमात्मनः। Aranya Kanda,61,11,इतीव विलपन्रामस्सीतादर्शनलालसः।।3.61.11।। न ददर्श सुदुःखार्तो राघवो जनकात्मजाम्। Aranya Kanda,61,12,अनासादयमानं तं सीतां दशरथात्मजम्।।3.61.12।। Aranya Kanda,61,13,पङ्कमासाद्य विपुलं सीदन्तमिव कुञ्जरम्। लक्ष्मणो राममत्यर्थमुवाच हितकाम्यया।।3.61.13।। Aranya Kanda,61,14,मा विषादं महाबाहो कुरु यत्नं मया सह। इदं च हि वनं शूर बहुकन्दरशोभितम्।।3.61.14।। Aranya Kanda,61,15,प्रियकाननसञ्चारा वनोन्मत्ता च मैथिली। सा वनं वा प्रविष्टा स्यान्नलिनीं वा सुपुष्पिताम्।।3.61.15।। Aranya Kanda,61,16,सरितं वापि सम्प्राप्ता मीनवञ्जुलसेविताम्। स्नातुकामा निलीना स्याद्धासकामा वने क्वचित्।।3.61.16।। Aranya Kanda,61,17,वित्रासयितुकामा वा लीना स्यात्कानने क्वचित्। जिज्ञासमाना वैदेही त्वां मां च पुरुषर्षभ।।3.61.17।। तस्याह्यन्वेषणे श्रीमन् क्षिप्रमेव यतावहे। Aranya Kanda,61,18,वनं सर्वं विचिनुवो यत्र सा जनकात्मजा।।3.61.18।। मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः। Aranya Kanda,61,19,एवमुक्तस्तु सौहार्दाल्लक्ष्मणेन समाहितः।।3.61.19।। सह सौमित्रिणा रामो विचेतुमुपचक्रमे। Aranya Kanda,61,20,तौ वनानि गिरींश्चैव सरितश्च सरांसि च।।3.61.20।। निखिलेन विचिन्वानौ सीतां दशरथात्मजौ। Aranya Kanda,61,21,तस्य शैलस्य सानूनि गुहाश्च शिखराणि च।।3.61.21।। निखिलेन विचिन्वानौ नैव तामभिजग्मतुः। Aranya Kanda,61,22,विचित्य सर्वतश्शैलं रामो लक्ष्मणमब्रवित्।।3.61.22।। नेह पश्यामि सौमित्रे वैदेहीं पर्वते शुभाम्। Aranya Kanda,61,23,ततो दुःखाभिसन्तप्तो लक्ष्मणो वाक्यमब्रवीत्।।3.61.23।। विचरन्दण्डकारण्यं भ्रातरं दीप्ततेजसम्। Aranya Kanda,61,24,प्राप्स्यसि त्वं महाप्राज्ञ मैथिलीं जनकात्मजाम्।।3.61.24।। यथा विष्णुर्महाबाहुर्बलिं बद्ध्वा महीमिमाम्। Aranya Kanda,61,25,एवमुक्तस्तु सौहार्दाल्लक्ष्मणेन स राघवः।।3.61.25।। उवाच दीनया वाचा दुःखाभिहतचेतनः। Aranya Kanda,61,26,वनं सर्वं सुविचितं पद्मिन्यः फुल्लपङ्कजाः।।3.61.26।। Aranya Kanda,61,27,गिरिश्चायं महाप्राज्ञ बहुकन्दरनिर्झरः। न हि पश्यामि वैदेहीं प्राणेभ्योऽपि गरीयसीम्।।3.61.27।। Aranya Kanda,61,28,एवं स विलपन्रामस्सीताहरणकर्शितः। दीनश्शोकसमाविष्टो मुहूर्तं विह्वलोऽभवत्।।3.61.28।। Aranya Kanda,61,29,सन्तप्तो ह्यवसन्नाङ्गो गतबुद्धिर्विचेतनः। निषसादातुरो दीनो निश्श्वस्याशीतमायतम्।।3.61.29।। Aranya Kanda,61,30,बहुलं स तु निश्श्वस्य रामो राजीवलोचनः। हा प्रियेति विचुक्रोश बहुशो बाष्पगद्गदः।।3.61.30।। Aranya Kanda,61,31,तं ततस्सान्त्वयामास लक्ष्मणः प्रियबान्धवः। बहुप्रकारं धर्मज्ञः प्रश्रितं प्रश्रिताञ्जलिः।।3.61.31।। Aranya Kanda,61,32,अनादृत्य तु तद्वाक्यं लक्ष्मणोष्ठपुटाच्च्युतम्। अपश्यंस्तां प्रियां सीतां प्राक्रोशत्स पुनः पुनः।।3.61.32।। Aranya Kanda,62,1,सीतामपश्यन्धर्मात्मा शोकोपहतचेतनः। विललाप महाबाहू रामः कमललोचनः।।3.62.1।। Aranya Kanda,62,2,पश्यन्निव च तां सीतामपश्यन्मदनार्दितः। उवाच राघवो वाक्यं विलापाश्रयदुर्वचम्।।3.62.2।। Aranya Kanda,62,3,त्वमशोकस्य शाखाभिः पुष्पप्रियतया प्रिये। आवृणोषि शरीरं ते मम शोकविवर्धिनी।।3.62.3।। Aranya Kanda,62,4,कदलीस्कन्धसदृशौ कदल्या संवृतावुभौ। ऊरू पश्यामि ते देवि नासि शक्ता निगूहितुम्।।3.62.4।। Aranya Kanda,62,5,कर्णिकारवनं भद्रे हसन्ती देवि सेवसे। अलं ते परिहासेन मम बाधावहेन वै।।3.62.5।। Aranya Kanda,62,6,परिहासेन किं सीते परिश्रान्तस्य मे प्रिये। अयं स परिहासोऽपि साधु देवि न रोचते।।3.62.6।। Aranya Kanda,62,7,विशेषेणाश्रमस्थाने हासोऽयं न प्रशस्यते। अवगच्छामि ते शीलं परिहासप्रियं प्रिये।।3.62.7।। आगच्छ त्वं विशालाक्षि शून्योऽयमुटजस्तव। Aranya Kanda,62,8,सुव्यक्तं राक्षसैस्सीता भक्षिता वा हृतापि वा।।3.62.8।। न हि सा विलपन्तं मामुपसम्प्रैति लक्ष्मण। Aranya Kanda,62,9,एतानि मृगयूथानि साश्रुनेत्राणि लक्ष्मण।।3.62.9।। शंसन्तीव हि वैदेहीं भक्षितां रजनीचरैः। Aranya Kanda,62,10,हा ममार्ये क्व यातासि हा साध्वि वरवर्णिनि।।3.62.10।। हा सकामा त्वया देवी कैकेयी सा भविष्यति। Aranya Kanda,62,11,सीतया सह निर्यातो विना सीतामुपागतः।।3.62.11।। कथं नाम प्रवेक्ष्यामि शून्यमन्तःपुरं पुनः। Aranya Kanda,62,12,निर्वीर्य इति लोको मां निर्दयश्चेति वक्ष्यति।।3.62.12।। कातरत्वं प्रकाशं हि सीतापनयनेन मे। Aranya Kanda,62,13,निवृत्तवनवासश्च जनकं मिथिलाधिपम्।।3.62.13।। कुशलं परिपृच्छन्तं कथं शक्ष्ये निरीक्षितुम्। Aranya Kanda,62,14,विदेहराजो नूनं मां दृष्ट्वा विरहितं तया।।3.62.14।। सुतास्नेहेन सन्तप्तो मोहस्य वशमेष्यति। Aranya Kanda,62,15,अथवा न गमिष्यामि पुरीं भरतपालिताम्।।3.62.15।। स्वर्गोऽपि सीतया हीनश्शून्य एव मतो मम। Aranya Kanda,62,16,मामिहोत्सृज्य हि वने गच्छायोध्यां पुरीं शुभाम्।।3.62.16।। न त्वहं तां विना सीतां जीवेयं हि कथञ्चन। Aranya Kanda,62,17,गाढमाश्लिष्य भरतो वाच्यो मद्वचनात्त्वया।।3.62.17।। अनुज्ञातोऽसि रामेण पालयेति वसुन्धराम्। Aranya Kanda,62,18,अम्बा च मम कैकेयी सुमित्रा च त्वया विभो।।3.62.18।। Aranya Kanda,62,19,कौसल्या च यथान्यायमभिवाद्या ममाऽज्ञया। रक्षणीया प्रयत्नेन भवता सूक्तकारिणा।।3.62.19।। Aranya Kanda,62,20,सीतायाश्च विनाशोऽयं मम चामित्रकर्शन। विस्तरेण जनन्या मे विनिवेद्यस्त्वया भवेत्।।3.62.20।। Aranya Kanda,62,21,इति विलपति राघवे सुदीने वनमुपगम्य तया विना सुकेश्या। भयविकलमुखस्तु लक्ष्मणोऽपि व्यथितमना भृशमातुरो बभूव।।3.62.21।। Aranya Kanda,63,1,स राजपुत्रः प्रियया विहीनः शोकेन मोहेन च पीड्यमानः। विषादयन्भ्रातरमार्तरूपो भूयो विषादं प्रविवेश तीव्रम्।।3.63.1।। Aranya Kanda,63,2,स लक्ष्मणं शोकवशाभिपन्नं शोके निमग्नो विपुले तु रामः। उवाच वाक्यं व्यसनानुरूपमुष्णं विनिश्श्वस्य रुदंत्सशोकम्।।3.63.2।। Aranya Kanda,63,3,न मद्विधो दुष्कृतकर्मकारी मन्ये द्वितीयोऽस्ति वसुन्धरायाम्। शोकेन शोको हि परम्पराया मा मेति भिन्दन्हृदयं मनश्च।।3.63.3।। Aranya Kanda,63,4,पूर्वं मया नूनमभीप्सितानि पापानि कर्माण्यसकृत्कृतानि। तत्रायमद्यापतितो विपाको दुःखेन दुःखं यदहं विशामि।।3.63.4।। Aranya Kanda,63,5,राज्यप्रणाशस्स्वजनैर्वियोगः पितुर्विनाशो जननीवियोगः। सर्वाणि मे लक्ष्मण शोकवेगमापूरयन्ति प्रविचिन्तितानि।।3.63.5।। Aranya Kanda,63,6,सर्वं तु दुःखं मम लक्ष्मणेदं शान्तं शरीरे वनमेत्य शून्यम्। सीतावियोगात्पुनरप्युदीर्णं काष्ठैरिवाग्निस्सहसा प्रदीप्तः।।3.63.6।। Aranya Kanda,63,7,सा नूनमार्या मम राक्षसेन बलाद्दृता खं समुपेत्य भीरुः। अपस्वरं सस्वरविप्रलापा भयेन विक्रन्दितवत्यभीक्ष्णम्।।3.63.7।। Aranya Kanda,63,8,तौ लोहितस्य प्रियदर्शनस्य सदोचितावुत्तमचन्दनस्य। वृत्तौ स्तनौ शोणितपङ्कदिग्धौ नूनं प्रियाया मम नाभिभातः।।3.63.8।। Aranya Kanda,63,9,तच्छलक्ष्णसुव्यक्तमृदुप्रलापं तस्या मुखं कुञ्चितकेशभारम्। रक्षोवशं नूनमुपागताया न भ्राजते राहुमुखे यथेन्दुः।।3.63.9।। Aranya Kanda,63,10,तां हारपाशस्य सदोचिताया ग्रीवां प्रियाया मम सुव्रतायाः। रक्षांसि नूनं परिपीतवन्ति विभिद्य शून्ये रुधिराशनानि।।3.63.10।। Aranya Kanda,63,11,मया विहीना विजने वने या रक्षोभिराहृत्य विकृष्यमाणा। नूनं निनादं कुररीव दीना सा मुक्तवत्यायतकान्तनेत्रा।।3.63.11।। Aranya Kanda,63,12,अस्मिन्मयासार्धमुदारशीला शिलातले पूर्वमुपोपविष्टा। कान्तस्मिता लक्ष्मण जातहासा त्वामाह सीता बहुवाक्यजातम्।।3.63.12।। Aranya Kanda,63,13,गोदावरीयं सरितां वरिष्ठा प्रिया प्रियाया मम नित्यकालम्। अप्यत्र गच्छेदिति चिन्तयामि नैकाकिनी याति हि सा कदाचित्।।3.63.13।। Aranya Kanda,63,14,पद्मानना पद्मविशालनेत्रा पद्मानि वानेतुमभिप्रयाता। तदप्ययुक्तं न हि सा कदाचिन्मया विना गच्छति पङ्कजानि।।3.63.14।। Aranya Kanda,63,15,कामं त्विदं पुष्पितवृक्षषण्डं नानाविधैः पक्षिगणैरुपेतम्। वनं प्रयाता नु तदप्ययुक्त मेकाकिनी सातिबिभेति भीरुः।।3.63.15।। Aranya Kanda,63,16,आदित्य भो लोककृताकृतज्ञ लोकस्य सत्यानृतकर्मसाक्षिन्। मम प्रिया सा क्व गता हृता वा शंसस्व मे शोकवशस्य नित्यम्।।3.63.16।। Aranya Kanda,63,17,लोकेषु सर्वेषु च नास्ति किञ्चिद्यत्ते न नित्यं विदितं भवेत्तत्। शंसस्व वायो कुलशालिनीं तां हृता मृता वा पथि वर्तते वा।।3.63.17।। Aranya Kanda,63,18,इतीव तं शोकविधेयदेहं रामं विसंज्ञं विलपन्तमेवम्। उवाच सौमित्रिरदीनसत्त्वो न्याये स्थितः कालयुतं च वाक्यम्।।3.63.18।। Aranya Kanda,63,19,शोकं विमुञ्चार्य धृतिं भजस्व सोत्साहता चास्तु विमार्गणेऽस्याः। उत्साहवन्तो हि नरा न लोके सीदन्ति कर्मस्वतिदुष्करेषु।।3.63.19।। Aranya Kanda,63,20,इतीव सौमित्रिमुदग्रपौरुषं ब्रुवन्तमार्तो रघुवंशवर्धनः। न चिन्तयामास धृतिं विमुक्तवान्पुनश्च दुःखं महदभ्युपागमत्।।3.63.20।। Aranya Kanda,64,1,स दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत्। शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम्।।3.64.1।। अपि गोदावरीं सीता पद्मान्यानयितुं गता। Aranya Kanda,64,2,एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा।।3.64.2।। नदीं गोदावरीं रम्यां जगाम लघुविक्रमः। Aranya Kanda,64,3,तां लक्ष्मणस्तीर्थवती विचित्वा राममब्रवीत्।।3.64.3।। नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे। Aranya Kanda,64,4,कं नु वा देशमापन्ना वैदेही क्लेशनाशिनी।।3.64.4।। न ह्यहं वेद तं देशं यत्र सा जनकात्मजा। Aranya Kanda,64,5,लक्ष्मणस्य वचश्श्रुत्वा दीनस्सन्तापमोहितः।।3.64.5।। Aranya Kanda,64,6,रामस्समभिचक्राम स्वयं गोदावरीं नदीम्। स तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत्।।3.64.6।। Aranya Kanda,64,7,भूतानि राक्षसेन्द्रेण वधार्हेण हृतामिति। न तां शशंसू रामाय तथा गोदावरी नदि।।3.64.7।। Aranya Kanda,64,8,ततः प्रचोदिता भूतैश्शंसास्मैतां प्रियामिति। न तु साभ्यवदतसितां पृष्टा रामेण शोचता।।3.64.8।। Aranya Kanda,64,9,रावणस्य तु तद्रूपं कर्माणि च दुरात्मनः। ध्यात्वा भयात्तु वैदेहीं सा नदी न शशंस ताम्।।3.64.9।। Aranya Kanda,64,10,निराशस्तु तया नद्या सीताया दर्शने कृतः। उवाच रामस्सौमित्रिं सीतादर्शनकर्शितः।।3.64.10।। Aranya Kanda,64,11,एषा गोदावरी सौम्य किंचिन्न प्रति भाषते। किं नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः।।3.64.11।। मातरं चैव वैदेह्या विना तामहमप्रियम्। Aranya Kanda,64,12,या मे राज्यविहीनस्य वने वन्येन जीवतः।।3.64.12।। सर्वं व्यपनयेच्छोकं वैदेही क्व नु सा गता। Aranya Kanda,64,13,ज्ञातिपक्षविहीनस्य राजपुत्रीमपश्यतः।।3.64.13।। मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः। Aranya Kanda,64,14,गोदावरीं जनस्थानमिमं प्रस्रवणं गिरिम्।।3.64.14।। सर्वाण्यनुगमिष्यामि यदि सीता हि दृश्यते। Aranya Kanda,64,15,एते मृगा महावीर्य मामीक्षन्ते मुहुर्मुहुः।।3.64.15।। वक्तुकामा इव हि मे इङ्गितान्युपलक्षये। Aranya Kanda,64,16,तांस्तु दृष्ट्वा नरव्याघ्रो राघवः प्रत्युवाच ह।।3.64.16।। क्व सीतेति निरीक्षन्वै बाष्पसंरुद्धया दृशा। Aranya Kanda,64,17,एवमुक्ता नरेन्द्रेण ते मृगास्सहसोत्थिताः।।3.64.17।। Aranya Kanda,64,18,दक्षिणाभिमुखास्सर्वे दर्शयन्तो नभस्थलम्। मैथिली ह्रियमाणा सा दिशं यामन्वपद्यत।।3.64.18।। तेन मार्गेण धावन्तो निरीक्षन्ते नराधिपम्। Aranya Kanda,64,19,येन मार्गं च भूमिं च निरीक्षन्ते स्म ते मृगाः।।3.64.19।। पुनश्च मार्गमिच्छन्ति लक्ष्मणेनोपलक्षिताः। Aranya Kanda,64,20,तेषां वचनसर्वस्वं लक्षयामास चेङ्गितम्।।3.64.20।। उवाच लक्ष्मणो ज्येष्ठं धीमान्भ्रातरमार्तवत्। Aranya Kanda,64,21,क्व सितेति त्वया पृष्टा यथेमे सहसोत्थिताः।।3.64.21।। Aranya Kanda,64,22,दर्शयन्ति क्षितिं चैव दक्षिणां च दिशं मृगाः। साधु गच्छावहे देव दिशमेतां हि नैऋतिम्।।3.64.22।। यदि स्यादागमः कश्चिदार्या वा साऽथ लक्ष्यते। Aranya Kanda,64,23,बाढमित्येव काकुत्स्थः प्रस्थितो दक्षिणां दिशम्।।3.64.23।। लक्ष्मणानुगतश्शीमन्वीक्षमाणो वसुन्धराम्। Aranya Kanda,64,24,एवं सम्भाषमाणौ तावन्योन्यं भ्रातरावुभौ।।3.64.24।। वसुन्धरायां पतितं पुष्पमार्गमपश्यताम्। Aranya Kanda,64,25,तां पुष्पवृष्टिं पतितां दृष्ट्वा रामो महीतले।।3.64.25।। उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः। Aranya Kanda,64,26,अभिजानामि पुष्पाणि तानीमानीह लक्ष्मण।।3.64.26।। पिनद्धानि हि वैदेह्या मया दत्तानि कानने। Aranya Kanda,64,27,मन्ये सूर्यश्च वायुश्च मेदिनी च यशस्विनी।।3.64.27।। अभिरक्षन्ति पुष्पाणि प्रकुर्वन्तो मम प्रियम्। Aranya Kanda,64,28,एवमुक्त्वा महाबाहुं लक्ष्मणं पुरुषर्षभः।।3.64.28।। उवाच रामो धर्मात्मा गिरिं प्रस्रवणाकुलम्। Aranya Kanda,64,29,कच्चित् क्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी।।3.64.29।। रामा रम्ये वनोद्देशे मया विरहिता त्वया। Aranya Kanda,64,30,क्रुद्धोऽब्रवीद्गिरिं तत्र सिंहः क्षुद्रमृगं यथा।।3.64.30।। Aranya Kanda,64,31,तां हेमवर्णां हेमाभां सीतां दर्शय पर्वत। यावत्सानूनि सर्वाणि न ते विध्वंसयाम्यहम्।।3.64.31।। Aranya Kanda,64,32,एवमुक्तस्तु रामेण पर्वतो मैथिलीं प्रति। शंसन्निव ततस्सीतां नादर्शयत राघवे।।3.64.32।। Aranya Kanda,64,33,ततो दाशरथी राम उवाच च शिलोच्चयम्। मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि।।3.64.33।। असेव्यः सततं चैव निस्तृणद्रुमपल्लवः। Aranya Kanda,64,34,इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण।।3.64.34।। यदि नाख्याति मे सीतामार्यां चन्द्रनिभाननाम्। Aranya Kanda,64,35,एवं स रुषितो रामो दिधक्षन्निव चक्षुषा।।3.64.35।। Aranya Kanda,64,36,ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत्। त्रस्ताया रामकाङ्क्षिण्याः प्रधावन्त्या इतस्ततः।।3.64.36।। राक्षसेनानुवृत्ताया मैथिल्याश्च पदान्यथ। Aranya Kanda,64,37,स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च।।3.64.37।। Aranya Kanda,64,38,भग्नं धनुश्च तूणी च विकीर्णं बहुधा रथम्। सम्भ्रान्तहृदयो रामश्शशंस भ्रातरंप्रियम्।।3.64.38।। Aranya Kanda,64,39,पश्य लक्ष्मण वैदेह्याशशीर्णाः कनकबिन्दवः। भूषणानां हि सौमित्रे माल्यानि विविधानि च।।3.64.39।। Aranya Kanda,64,40,तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजबिन्दुभिः। आवृतं पश्य सौमित्रे सर्वतो धरणीतलम्।3.64.40।। Aranya Kanda,64,41,मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः। भित्वाभित्वा विभक्ता वा भक्षिता वा भविष्यति।।3.64.41।। Aranya Kanda,64,42,तस्या निमित्तं वैदेह्या द्वयोर्विवदमानयोः। बभूव युद्धं सौमित्रे घोरं राक्षसयोरिह।।3.64.42।। Aranya Kanda,64,43,मुक्तामणिमयं चेदं तपनीयविभूषितम्। धरण्यां पतितं सौम्य कस्य भग्नं महद्धनुः।।3.64.43।। Aranya Kanda,64,44,तरुणादित्यसङ्काशं वैडूर्यगुलिकाचितम्। विशीर्णं पतितं भूमौ कवचं कस्य काञ्चनम्।।3.64.44।। Aranya Kanda,64,45,छत्रं शतशलाकं च दिव्यमाल्योपशोभितम्। भग्नदण्डमिदं कस्य भूमौ सम्यङ्निपातितम्।।3.64.45।। Aranya Kanda,64,46,काञ्चनोरश्छदा श्चेमे पिशाचवदनाः खराः। भीमरूपा महाकायाः कस्य वा निहता रणे।।3.64.46।। Aranya Kanda,64,47,दीप्तपावकसङ्काशो द्युतिमान्समरध्वजः। अपविद्धश्च भग्नश्च कस्य साङ्ग्रामिको रथः।।3.64.47।। Aranya Kanda,64,48,रथाक्षमात्रा विशिखास्तपनीयविभूषणाः। कस्येमेऽभिहता बाणाः प्रकीर्णा घोरकर्मणः।।3.64.48।। Aranya Kanda,64,49,शरावरौ शरैः पूर्णौ विध्वस्तौ पश्य लक्ष्मण। प्रतोदाभीशुहस्तो वै कस्यायं सारथिर्हतः।।3.64.49।। Aranya Kanda,64,50,कस्येमौ पुरुषव्याघ्र शयाते निहतौ युधि। चामरग्राहिणौ सौम्य सोष्णीषमणिकुण्डलौ।।3.64.50।। Aranya Kanda,64,51,पदवीपुरुषस्यैषा व्यक्तं कस्यापि रक्षसः। वैरं शतगुणं पश्य ममेदं जीवितान्तकम्।।3.64.51।। Aranya Kanda,64,52,सुघोरहृदयैस्सौम्य राक्षसैः कामरूपिभिः। हृता मृता वा सीता सा भक्षिता वा तपस्विनी।।3.64.52।। नधर्मस्त्रायते सीतां ह्रियमाणां महावने। Aranya Kanda,64,53,भक्षितायां हि वैदेह्यां हृतायामपि लक्ष्मण।।3.64.53।। के हि लोके प्रियं कर्तुं शक्तास्सौम्य ममेश्वराः। Aranya Kanda,64,54,कर्तारमपि लोकानां शूरं करुणवेदिनम्।।3.64.54।। अज्ञानादवमन्येरत्सर्वभूतानि लक्ष्मण। Aranya Kanda,64,55,मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम्।।3.64.55।। निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः। Aranya Kanda,64,56,मां प्राप्य हि गुणो दोषस्संवृत्तः पश्य लक्ष्मण।।3.64.56।। Aranya Kanda,64,57,अद्यैव सर्वभूतानां रक्षसामभवाय च। संहृत्यैव शशिज्योत्स्नां महान्सूर्य इवोदितः।।3.64.57।। संहृत्यैव गुणान्सर्वान्मम तेजः प्रकाशते। Aranya Kanda,64,58,नैव यक्षा न गन्धर्वा न पिशाचा न राक्षसाः।।3.64.58।। किन्नरा वा मनुष्या वा सुखं प्राप्स्यन्ति लिक्ष्मण। Aranya Kanda,64,59,ममास्त्रबाणसम्पूर्णमाकाशं पश्य लक्ष्मण।।3.64.59।। निस्सम्पातं करिष्यामि ह्यद्य त्रैलोक्यचारिणाम्। Aranya Kanda,64,60,सन्निरुद्धग्रहगणमावारितनिशाकरम्।।3.64.60।। Aranya Kanda,64,61,विप्रणष्टानलमरुद्भास्करद्युतिसंवृतम्। विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम्।।3.64.61।। Aranya Kanda,64,62,ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम्। त्रैलोक्यं तु करिष्यामि संयुक्तं कालकर्मणा।।3.64.62।। Aranya Kanda,64,63,न तां कुशलिनीं सीतां प्रदास्यन्ति ममेश्वराः। अस्मिन्मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम्।।3.64.63।। Aranya Kanda,64,64,नाकाशमुत्पतिष्यन्ति सर्वभूतानि लक्ष्मण। मम चापगुणोन्मुक्तैर्बाणजालैर्निरन्तरम्।।3.64.64।। Aranya Kanda,64,65,अर्दितं मम नाराचैर्ध्वस्तभ्रान्तमृगद्विजम्। समाकुलममर्यादं जगत्पश्याद्य लक्ष्मण।।3.64.65।। Aranya Kanda,64,66,आकर्णपूर्णैरिषुभिर्जीवलोकं दुरावरैः। करिष्ये मैथिलीहेतोरपिशाचमराक्षसम्।।3.64.66।। Aranya Kanda,64,67,मम रोषप्रयुक्तानां सायकानां बलं सुराः। द्रक्ष्यन्त्यद्य विमुक्तानामतिदूरातिगामिनाम्।।3.64.67।। Aranya Kanda,64,68,नैव देवा न दैतेया न पिशाचा न राक्षसाः। भविष्यन्ति मम क्रोधात्त्रैलोक्ये विप्रणाशिते।।3.64.68।। Aranya Kanda,64,69,देवदानवयक्षाणां लोका ये रक्षसामपि। बहुधा न भविष्यन्ति बाणौघैश्शकलीकृताः।।3.64.69।। Aranya Kanda,64,70,निर्मर्यादानिमान्लोकान्करिष्याम्यद्य सायकैः। हृतां मृतां वा सौमित्रे न दास्यन्ति ममेश्वराः।।3.64.70।। Aranya Kanda,64,71,तथारुपां हि वैदेहीं न दास्यन्ति यदि प्रियाम्। नाशयामि जगत्सर्वं त्रैलोक्यं सचराचरम्।।3.64.71।। Aranya Kanda,64,72,इत्युक्त्वा रोषताम्राक्षो रामो निष्पीड्य कार्मुकम्। शरमादाय सन्दीप्तं घोरमाशीविषोपमम्।।3.64.72।। Aranya Kanda,64,73,सन्धाय धनुषि श्रीमान्रामः परपुरञ्जयः। युगान्ताग्निरिव क्रुद्ध इदं वचनमब्रवीत्।।3.64.73।। Aranya Kanda,64,74,यथा जरा यथा मृत्युर्यथा कालो यथा विधिः। नित्यं न प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण।।3.64.74।। तथाहं क्रोधसंयुक्तो न निवार्योऽस्मि सर्वथा। Aranya Kanda,64,75,पुरेव मे चारुदंतीमनिन्दितां दिशन्ति सीतां यदि नाद्य मैथिलीम्। सदेवगन्धर्वमनुष्यपन्नगं जगत्सशैलं परिवर्तयाम्यहम्।।3.64.75।। Aranya Kanda,65,1,तप्यमानं तथा रामं सीताहरणकर्शितम्। लोकानामभवे युक्तं सांवर्तकमिवानलम्।।3.65.1।। Aranya Kanda,65,2,वीक्षमाणं धनुस्सज्यं निश्श्वसन्तं पुनः पुनः। दग्धुकामं जगत्सर्वं युगान्ते च यथा हरम्।।3.65.2।। Aranya Kanda,65,3,अदृष्टपूर्वं सङ्क्रुद्धं दृष्ट्वा रामं तु लक्ष्मणः। अब्रवीत्प्राञ्जलिर्वाक्यं मुखेन परिशुष्यता।।3.65.3।। Aranya Kanda,65,4,पुरा भूत्वा मृदुर्दान्तस्सर्वभूतहिते रतः। न क्रोधवशमापन्नः प्रकृतिं हातुमर्हसि।।3.65.4।। Aranya Kanda,65,5,चन्द्रे लक्ष्मीः प्रभा सूर्ये गतिर्वायौ भुवि क्षमा। एतत्तु नियतं सर्वं त्वयि चानुत्तमं यशः।।3.65.5।। Aranya Kanda,65,6,एकस्य नापराधेन लोकान् हन्तुं त्वमर्हसि। न तु जानामि कस्यायं भग्नस्साङ्ग्रामिको रथः।।3.65.6।। केन वा कस्य वा हेतोस्सायुधस्सपरिच्छदः। Aranya Kanda,65,7,खुरनेमिक्षतश्चायं सिक्तो रुधिरबिन्धुभिः।।3.65.7।। देशो निर्वृत्तसङ्ग्रामस्सुघोरः पार्थिवात्मज। Aranya Kanda,65,8,एकस्य तु विमर्धोऽयं न द्वयोर्वदतांवर।।3.65.8।। न हि वृत्तं हि पश्यामि बलस्य महतः पदम्। Aranya Kanda,65,9,नैकस्य तु कृते लोकान्विनाशयितुमर्हसि।।3.65.9।। युक्तदण्डा हि मृदवः प्रशान्ता वसुधाधिपाः। Aranya Kanda,65,10,सदा त्वं सर्वभूतानां शरण्यः परमा गतिः।।3.65.10।। को नु दारप्रणाशं ते साधु मन्येत राघव। Aranya Kanda,65,11,सरितस्सागराश्शैला देवगन्धर्वदानवाः।।3.65.11।। नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः। Aranya Kanda,65,12,येन राजन्हृता सीता तमन्वेषितुमर्हसि।।3.65.12।। मद्वितीयो धनुष्पाणिस्सहायैः परमर्षिभिः। Aranya Kanda,65,13,समुद्रं च विचेष्यामः पर्वतांश्च वनानि च।।3.65.13।। गुहाश्च विविधा घोरा नदी पद्मवनानि च। Aranya Kanda,65,14,देवगन्धर्वलोकांश्च विचेष्यामस्समाहिताः।।3.65.14।। यावन्नाधिगमिष्यामस्तव भार्यापहारिणम्। Aranya Kanda,65,15,न चेत्साम्ना प्रदास्यन्ति पत्नीं ते त्रिदशेश्वराः।।3.65.15।। कोसलेन्द्र ततः पश्चात्प्राप्तकालं करिष्यसि। Aranya Kanda,65,16,शीलेन साम्ना विनयेन सीतां नयेन न प्राप्स्यसि चेन्नरेन्द्र। ततस्समुत्सादय हेमपुङ्खै र्महेन्द्रवज्रप्रतिमैश्शरौघैः।।3.65.16।। Aranya Kanda,66,1,तं तथा शोकसन्तप्तं विलपन्तमनाथवत्। मोहेन महताविष्टं परिद्यूनमचेतनम्।।3.66.1।। Aranya Kanda,66,2,ततस्सौमित्रिराश्वास्य मुहूर्तादिव लक्ष्मणः। रामं सम्बोधयामास चरणौ चाभिपीडयन्।।3.66.2।। Aranya Kanda,66,3,महता तपसा राम महता चापि कर्मणा। राज्ञा दशरथेनासि लब्धोऽमृतमिवामरैः।।3.66.3।। Aranya Kanda,66,4,तव चैव गुणैर्बद्धस्त्वद्वियोगान्महीपतिः। राजा देवत्वमापन्नो भरतस्य यथाश्रुतम्।।3.66.4।। Aranya Kanda,66,6,दुःखितो हि भवान्लोकांस्तेजसा यदि धक्ष्यते। आर्ताः प्रजा नरव्याघ्र क्व नु यास्यन्ति निर्वृतिम्।।3.66.6।। Aranya Kanda,66,7,लोकस्वभाव एवैष ययातिर्नहुषात्मजः। गतश्शक्रेण सालोक्यमनयस्तं समस्पृशत्।।3.66.7।। Aranya Kanda,66,8,महर्षिर्यो वसिष्ठस्तु यः पितुर्नः पुरोहितः। अह्ना पुत्रशतं जज्ञे तथैवास्य पुनर्हतम्।।3.66.8।। Aranya Kanda,66,9,या चेयं जगतां माता देवी लोकनमस्कृता। अस्याश्च चलनं भूमेर्दृश्यते सत्यसंश्रव।।3.66.9।। Aranya Kanda,66,10,यौ धर्मौ जगतां नेत्रौ यत्र सर्वं प्रतिष्ठितम्। आदित्यचन्द्रौ ग्रहणमभ्युपेतौ महाबलौ।।3.66.10।। Aranya Kanda,66,11,सुमहान्त्यपि भूतानि देवाश्च पुरुषर्षभ। न दैवस्य प्रमुञ्चन्ति सर्वभूतानि देहिनः।।3.66.11।। Aranya Kanda,66,12,शक्रादिष्वपि देवेषु वर्तमानौ नयानयौ। श्रूयेते नरशार्दूल न त्वं शोचितुमर्हसि।।3.66.12।। Aranya Kanda,66,13,नष्टायामपि वैदेह्यां हृतायामपि चानघ शोचितुं नार्हसे वीर यथान्यः प्राकृतस्तथा।।3.66.13।। Aranya Kanda,66,14,त्वव्दिधा न हि शोचन्ति सततं सत्यदर्शिनः। सुमहत्स्वपि कृच्छ्रेषु रामानिर्विण्णदर्शनाः।।3.66.14।। Aranya Kanda,66,15,तत्त्वतो हि नरश्रेष्ठ बुद्ध्या समनुचिन्तय। बुध्द्या युक्ता महाप्राज्ञा विजानन्ति शुभाशुभे।।3.66.15।। Aranya Kanda,66,16,अदृष्टगुणदोषाणामध्रुवाणां तु कर्मणाम्। नान्तरेण क्रियां तेषां फलमिष्टं प्रवर्तते।।3.66.16।। Aranya Kanda,66,17,त्वमेव हि पुरा राम मामेवं बहुशोऽन्वशाः। अनुशिष्याद्धि को नु त्वामपि साक्षाद्बृहस्पतिः।।3.66.17।। Aranya Kanda,66,18,बुद्धिश्च ते महाप्राज्ञ देवैरपि दुरन्वया। शोकेनाभिप्रसुप्तं ते ज्ञानं सम्बोधयाम्यहम्।।3.66.18।। Aranya Kanda,66,19,दिव्यं च मानुषं च त्वमात्मनश्च पराक्रमम्। इक्ष्वाकुवृषभावेक्ष्य यतस्व द्विषतां वधे।।3.66.19।। Aranya Kanda,66,20,किं तेन सर्वनाशेन कृतेन पुरुषर्षभ। तमेव त्वं रिपुं पापं विज्ञायोद्धर्तुमर्हसि।।3.66.20।। Aranya Kanda,67,1,पूर्वजोऽप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम्। सारग्राही महासारं प्रतिजग्राह राघवः।।3.67.1।। Aranya Kanda,67,2,सन्निगृह्य महाबाहुः प्रवृत्तं कोपमात्मनः। अवष्टभ्य धनुश्चित्रं रामो लक्ष्मणमब्रवीत्।।3.67.2।। Aranya Kanda,67,3,किं करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण। केनोपायेन गच्छेयं सीतामिति विचिन्तय।।3.67.3।। Aranya Kanda,67,4,तं तथा परितापार्तं लक्ष्मणो राममब्रवीत्। इदमेव जनस्थानं त्वमन्वेषितुमर्हसि।।3.67.4।। राक्षसैर्बहुभिः कीर्णं नानाद्रुमलतायुतम्। Aranya Kanda,67,5,सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि च।।3.67.5।। Aranya Kanda,67,6,गुहाश्च विविधा घोरा नानामृगगणाकुलाः। आवासाः किन्नराणां च गन्धर्वभवनानि च।।3.67.6।। Aranya Kanda,67,7,तानि युक्तो मया सार्धं त्वमन्वेषितुमर्हसि। त्वद्विधा बुद्धिसम्पन्ना महात्मानो नरर्षभ।।3.67.7।। आपत्सु न प्रकम्पन्ते वायुवेगैरिवाचलाः। Aranya Kanda,67,8,इत्युक्तस्तद्वनं सर्वं विचचार सलक्ष्मणः।।3.67.8।। क्रुद्धो रामश्शरं घोरं सन्धाय धनुषि क्षुरम्। Aranya Kanda,67,9,ततः पर्वतकूटाभं महाभागं द्विजोत्तमम्।।3.67.9।। ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम्। Aranya Kanda,67,10,तं दृष्ट्वा गिरिशृङ्गाभं रामो लक्ष्मणमब्रवीत्।।3.67.10।। अनेन सीता वैदेही भक्षिता नात्र संशयः। Aranya Kanda,67,11,गृध्ररूपमिदं रक्षो व्यक्तं भवति कानने।।3.67.11।। Aranya Kanda,67,12,भक्षयित्वा विशालाक्षीमास्ते सीतां यथासुखम्। एनं वधिष्ये दीप्तास्यैर्घोरैर्बाणैरजिह्मगैः।।3.67.12।। Aranya Kanda,67,13,इत्युक्त्वाभ्यपतद्गृध्रं सन्धाय धनुषि क्षुरम्। क्रुद्धो रामस्समुद्रान्तां कम्पयन्निव मेदिनीम्।।3.67.13।। Aranya Kanda,67,14,तं दीनं दीनया वाचा सफेनं रुधिरं वमन्। अभ्यभाषत पक्षी तु रामं दशरथात्मजम्।।3.67.14।। Aranya Kanda,67,15,यामोषधिमिवायुष्मन्नन्वेषसि महावने। सा देवी मम च प्राणा रावणेनोभयं हृतम्।।3.67.15।। Aranya Kanda,67,16,त्वया विरहिता देवी लक्ष्मणेन च राघव। ह्रियमाणा मया दृष्टा रावणेन बलीयसा।।3.67.16।। Aranya Kanda,67,17,सीतामभ्यवपन्नोऽहं रावणश्च रणे मया। विध्वंसितरथश्चात्र पातितो धरणीतले।।3.67.17।। Aranya Kanda,67,18,एतदस्य धनुर्भग्नमेतदस्य शरावरम्। अयमस्य रथो राम भग्नसाङ्ग्रामिको मया।।3.67.18।। Aranya Kanda,67,19,अयं तु सारथिस्तस्य मत्पक्षनिहतो युधि। परिश्रान्तस्य मे पक्षौ छित्त्वा खड्गेन रावणः।।3.67.19।। Aranya Kanda,67,20,सीतामादाय वैदेहीमुत्पपात विहायसम्। रक्षसा निहतं पूर्वं न मां हन्तुं त्वमर्हसि।।3.67.20।। Aranya Kanda,67,21,रामस्तस्य तु विज्ञाय बाष्पपूर्णमुखस्तदा। द्विगुणीकृततापार्तस्सीतासक्तां प्रियां कथाम्।।3.67.21।। Aranya Kanda,67,22,गृध्रराजं परिष्वज्य परित्यज्य महद्धनुः। निपपातावशो भूमौ रुरोद सहलक्ष्मणः।।3.67.22।। Aranya Kanda,67,23,एकमेकायने दुर्गे निश्श्वसन्तं कथञ्चन। समीक्ष्य दुःखिततरो रामस्सौमित्रिमब्रवीत्।।3.67.23।। Aranya Kanda,67,24,राज्यं भ्रष्टं वने वासस्सीता नष्टा हतो द्विजः। ईदृशीयं ममालक्ष्मीर्निर्दहेदपि पावकम्।।3.67.24।। Aranya Kanda,67,25,सम्पूर्णमपि चेदद्य प्रविशेयं महोदधिम्। सोऽपि नूनं ममालक्ष्म्या विशुष्येत्सरितांपतिः।।3.67.25।। Aranya Kanda,67,26,नास्त्यभाग्यतरो लोके मत्तोऽस्मिन्सचराचरे। येनेयं महती प्राप्ता मया व्यसनवागुरा।।3.67.26।। Aranya Kanda,67,27,अयं पितृवयस्यो मे गृध्रराजो जरान्वितः। शेते विनिहतो भूमौ मम भाग्यविपर्ययात्।।3.67.27।। Aranya Kanda,67,28,इत्येवमुक्त्वा बहुशो राघवस्सहलक्ष्मणः। जटायुषं च पस्पर्श पितृस्नेहं विदर्शयन्।।3.67.28।। Aranya Kanda,67,29,निकृत्तपक्षं रुधिरावसिक्तं स गृध्रराजं परिरभ्य रामः। क्व मैथिली प्राणसमा ममेति विमुच्य वाचं निपपात भूमौ।।3.67.29।। Aranya Kanda,68,1,रामस्सम्प्रेक्ष्य तं गृध्रं भुवि रौद्रेण पातितम्। सौमित्रिं मित्रसम्पन्नमिदं वचनमब्रवीत्।।3.68.1।। Aranya Kanda,68,2,ममायं नूनमर्थेषु यतमानो विहङ्गमः। राक्षसेन हतस्संख्ये प्राणांस्त्यक्ष्यति दुस्त्यजान्।।3.68.2।। Aranya Kanda,68,3,अयमस्य शरीरेऽस्मिन्प्राणो लक्ष्मण विद्यते। तथा हि स्वरहीनोऽयं विक्लबस्समुदीक्ष्यते।।3.68.3।। Aranya Kanda,68,4,जटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः। सीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः।।3.68.4।। Aranya Kanda,68,5,किं निमित्तोऽहरत्सीतां रावणस्तस्य किं मया। अपराद्धं तु यं दृष्ट्वा रावणेन हृता प्रिया।।3.68.5।। Aranya Kanda,68,6,कथं तच्चन्द्रसङ्काशं मुखमासीन्मनोहरम्। सीतया कानि चोक्तानि तस्मिन्काले द्विजोत्तम।।3.68.6।। Aranya Kanda,68,7,कथं वीर्यः कथं रूपः किं कर्मा स च राक्षसः। क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः।।3.68.7।। Aranya Kanda,68,8,तमुद्वीक्ष्याथ दीनात्मा विलपन्तमनन्तरम्। वाचातिसन्नया रामं जटायुरिदमब्रवीत्।।3.68.8।। Aranya Kanda,68,9,हृता सा राक्षसेन्द्रेण रावणेन विहायसा। मायामास्थाय विपुलां वातदुर्दिनसङ्कुलाम्।।3.68.9।। Aranya Kanda,68,10,परिश्रान्तस्य मे तात पक्षौ छित्वा स राक्षसः। सीतामादाय वैदेहीं प्रयातो दक्षिणां दिशम्।।3.68.10।। Aranya Kanda,68,11,उपरुध्यन्ति मे प्राणा दृष्टिर्भ्रमति राघव। पश्यामि वृक्षान्सौवर्णानुशीरकृतमूर्धजान्।।3.68.11।। Aranya Kanda,68,12,येन याति मुहूर्तेन सीतामादाय रावणः। विप्रणष्टं धनं क्षिप्रं तत्स्वामी प्रतिपद्यते।।3.68.12।। विन्दो नाम मुहूर्तोऽयं स च काकुत्स्थ नाबुधत्। Aranya Kanda,68,13,त्वत्प्रियां जानकीं हृत्वा रावणो राक्षसेश्वरः।।3.68.13।। झषवद्बडिशं गृह्य क्षिप्रमेव विनश्यति। Aranya Kanda,68,14,न च त्वया व्यथा कार्या जनकस्य सुतां प्रति।।3.68.14।। वैदेह्या रंस्यसे क्षिप्रं हत्वा तं राक्षसं रणे। Aranya Kanda,68,15,असम्मूढस्य गृध्रस्य रामं प्रत्यनुभाषतः।।3.68.15।। आस्यात्सुस्राव रुधिरं म्रियमाणस्य सामिषम्। Aranya Kanda,68,16,पुत्रो विश्रवसस्साक्षाद्भ्राता वैश्रवणस्य च।।3.68.16।। इत्युक्त्वा दुर्लभान्प्राणान्मुमोच पतगेश्वरः। Aranya Kanda,68,17,ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः।।3.68.17।। त्वक्त्वा शरीरं गृध्रस्य जग्मुः प्राणा विहायसम्। Aranya Kanda,68,18,स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा।।3.68.18।। विक्षिप्य च शरीरं स्वं पपात धरणीतले। Aranya Kanda,68,19,तं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम्।।3.68.19।। रामस्सुबहुभिर्दुःखैर्दीनस्सौमित्रिमब्रवीत्। Aranya Kanda,68,20,बहूनि रक्षसां वासे वर्षाणि वसता सुखम्।।3.68.20।। अनेन दण्डकारण्ये विशीर्णमिह पक्षिणा। Aranya Kanda,68,21,अनेकवार्षिको यस्तु चिरकालसमुत्थितः।।3.68.21।। सोऽयमद्य हतश्शेते कालो हि दुरतिक्रमः। Aranya Kanda,68,22,पश्य लक्ष्मण गृध्रोऽयमुपकारी हतश्च मे।।3.68.22।। सीतामभ्यवपन्नो वै रावणेन बलीयसा। Aranya Kanda,68,23,गृध्रराज्यं परित्यज्य पितृपैतामहं महत्।।3.68.23।। मम हेतोरयं प्राणान्मुमोच पतगेश्वरः। Aranya Kanda,68,24,सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः।।3.68.24।। शूराश्शरण्यास्सौमित्रे तिर्यग्योनिगतेष्वपि। Aranya Kanda,68,25,सीताहरणजं दुःखं न मे सौम्य तथाविधम्।।3.68.25।। यथा विनाशे गृध्रस्य मत्कृते च परन्तप। Aranya Kanda,68,26,राजा दशरथश्श्रीमान्यथा मम महायशाः।।3.68.26।। पूजनीयश्च मान्यश्च तथाऽयं पतगेश्वरः। Aranya Kanda,68,27,सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम्।।3.68.27।। गृध्रराजं दिधक्षामि मत्कृते निधनं गतम्। Aranya Kanda,68,28,नाथं पतगलोकस्य चितामारोप्य राघव।।3.68.28।। इमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा। Aranya Kanda,68,29,या गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः।।3.68.29।। Aranya Kanda,68,30,अपरावर्तिनां या च या च भूमिप्रदायिनाम्। मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान्।।3.68.30।। गृध्रराज महासत्त्व संस्कृतश्च मया व्रज। Aranya Kanda,68,31,एवमुक्त्वा चितां दीप्तामारोप्य पतगेश्वरम्।।3.68.31।। ददाह रामो धर्मात्मा स्वबन्धुमिव दुःखितः। Aranya Kanda,68,32,रामोऽथ सहसौमित्रिर्वनं गत्वा स वीर्यवान्।।3.68.32।। स्थूलान्हत्वा महारोहीननुतस्तार तं द्विजम्। Aranya Kanda,68,33,रोहिमांसानि चोत्कृत्य पेशीकृत्य महायशाः।।3.68.33।। शकुनाय ददौ रामो रम्ये हरितशाद्वले। Aranya Kanda,68,34,यत्तत्प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः।।3.68.34।। तत्स्वर्गगमनं तस्य पित्र्यं रामो जजाप ह। Aranya Kanda,68,35,ततो गोदावरीं गत्वा नदीं नरवरात्मजौ।।3.68.35।। उदकं चक्रतुस्तस्मै गृध्रराजाय तावुभौ। Aranya Kanda,68,36,शास्त्रदृष्टेन विधिना जले गृध्राय राघवौ।।3.68.36।। स्नात्वा तौ गृध्रराजाय उदकं चक्रतुस्तदा। Aranya Kanda,68,37,स गृध्रराजः कृतवान्यशस्करं सुदुष्करं कर्म रणे निपातितः। महर्षिकल्पेन च संस्कृतस्तदा जगाम पुण्यां गतिमात्मनश्शुभाम्।।3.68.37।। Aranya Kanda,68,38,कृतोदकौ तावपि पक्षिसत्तमे स्थिरां च बुद्धिं प्रणिधाय जग्मतुः। प्रवेश्य सीताधिगमे ततो मनो वनं सुरेन्द्रविव विष्णुवासवौ।।3.68.38।। Aranya Kanda,69,1,कृत्वैवमुदकं तस्मै प्रस्थितौ रामलक्ष्मणौ। अवेक्षन्तौ वने सीतां पश्चिमां जग्मतुर्दिशम्।।3.69.1।। Aranya Kanda,69,2,तौ दिशं दक्षिणां गत्वा शरचापासिधारिणौ। अविप्रहतमैक्ष्वाकौ पन्थानं प्रतिपेदतुः।।3.69.2।। Aranya Kanda,69,3,गुल्मैर्वृक्षैश्च बहुभिर्लताभिश्च प्रवेष्टितम्। आवृतं सर्वतो दुर्गं गहनं घोरदर्शनम्।।3.69.3।। Aranya Kanda,69,4,व्यतिक्रम्य तु वेगेन व्यालसिंहनिषेवितम्। सुभीमं तन्महारण्यं व्यतियातौ महाबलौ।।3.69.4।। Aranya Kanda,69,5,ततः परं जनस्थानातत्रिक्रोशं गम्य राघवौ। क्रौञ्चारण्यं विविशतुर्गहनं तौ महौजसौ।।3.69.5।। Aranya Kanda,69,6,नानामेघघनप्रख्यं प्रहृष्टमिव सर्वतः। नानापक्षिगणैर्युक्तं नानाव्यालमृगैर्युतम्।।3.69.6।। Aranya Kanda,69,7,दिदृक्षमाणौ वैदेहीं तद्वनं तौ विचिक्यतुः। तत्र तत्रावतिष्ठन्तौ सीताहरणकर्शितौ।।3.69.7।। Aranya Kanda,69,8,ततः पूर्वेण तौ गत्वा त्रिक्रोशं भ्रातरौ तदा। क्रौञ्चारण्यमतिक्रम्य मतङ्गाश्रममन्तरा।।3.69.8।। Aranya Kanda,69,9,दृष्ट्वा तु तद्वनं घोरं बहुभीममृगद्विजम्। ननासत्त्वसमाकीर्णं सर्वं गहनपादपम्।।3.69.9।। Aranya Kanda,69,10,ददृशाते तु तौ तत्र दरीं दशरथात्मजौ। पातालसमगम्भीरां तमसा नित्यसंवृताम्।।3.69.10।। Aranya Kanda,69,11,आसाद्य तौ नरव्याघ्रौ दर्यास्तस्याविदूरतः। ददृशाते महारूपां राक्षसीं विकृताननाम्।।3.69.11।। Aranya Kanda,69,12,भयदामल्पसत्त्वानां बीभत्सां रौद्रदर्शनाम्। लम्बोदरीं तीक्ष्णदंष्ट्रां करालीं परुषत्वचम्।।3.69.12।। Aranya Kanda,69,13,भक्षयन्तीं मृगान्भीमान्विकटां मुक्तमूर्धजाम्। प्रैक्षेतां तौ ततस्तत्र भ्रातरौ रामलक्ष्मणौ।।3.69.13।। Aranya Kanda,69,14,सा समासाद्य तौ वीरौ व्रजन्तं भ्रातुरग्रतः। एहि रंस्यावहेत्युक्त्वा समालम्बत लक्ष्मणम्।।3.69.14।। Aranya Kanda,69,15,उवाच चैनं वचनं सौमित्रिमुपगूह्य सा। अहं त्वयोमुखी नाम लब्धा ते त्वमसि प्रियः।।3.69.15।। Aranya Kanda,69,16,नाथ पर्वतकूटेषु नदीनां पुलिनेषु च। आयुश्शेषमिमं वीर त्वं मया सह रंस्यसे।।3.69.16।। Aranya Kanda,69,17,एवमुक्तस्तु कुपितः खड्गमुद्धृत्य लक्ष्मणः। कर्णनासास्तनं तस्या निचकर्तारिसूदनः।।3.69.17।। Aranya Kanda,69,18,कर्णनासे निकृत्ते तु विस्वरं सा विनद्य च। यथागतं प्रदुद्राव राक्षसी भीमदर्शना।।3.69.18।। Aranya Kanda,69,19,तस्यां गतायां गहनं व्रजन्तौ वनमोजसा। आसेदतुरमित्रघ्नौ भ्रातरौ रामलक्ष्मणौ।।3.69.19।। Aranya Kanda,69,20,लक्ष्मणस्तु महातेजास्सत्त्ववान् शीलवान् शुचिः। अब्रवीत्प्राञ्जलिर्वाक्यं भ्रातरं दीप्ततेजसम्।।3.69.20।। Aranya Kanda,69,21,स्पन्दते च दृढं बाहुरुद्विग्नमिव मे मनः। प्रायशश्चाप्यनिष्टानि निमित्तान्युपलक्षये।।3.69.21।। Aranya Kanda,69,22,तस्मात्सज्जीभवार्य त्वं कुरुष्व वचनं हितम्। ममैव हि निमित्तानि सद्यश्शंसन्ति सम्भ्रमम्।।3.69.22।। Aranya Kanda,69,23,एष वञ्चुलको नाम पक्षी परमदारुणः। आवयोर्विजयं युद्धे शंसन्निव विनर्दति।।3.69.23।। Aranya Kanda,69,24,तयोरन्वेषतोरेवं सर्वं तद्वनमोजसा। संजज्ञे विपुलः शब्दो प्रभञ्जन्निव तद्वनम्।।3.69.24।। Aranya Kanda,69,25,संवेष्टितमिवात्यर्थं गगनं मातरिश्वना। वनस्य तस्य शब्दोऽभूद्दिवमापूरयन्निव।।3.69.25।। Aranya Kanda,69,26,तं शब्दं काङ्क्षमाणस्तु रामः कक्षे सहानुजः। ददर्श सुमहाकायं राक्षसं विपुलोदरम्।।3.69.26।। Aranya Kanda,69,27,आसेदतुस्ततस्तत्र तावुभौ प्रमुखे स्थितम्। विवृद्धमशिरोग्रीवं कबन्धमुदरे मुखम्।।3.69.27।। Aranya Kanda,69,28,रोमभिर्निचितैस्तीक्ष्णैर्महागिरिमिवोछ्रितम्। नीलमेघनिभं रौद्रं मेघस्तनितनिस्वनम्।।3.69.28।। Aranya Kanda,69,29,अग्निज्वालानिकाशेन ललाटस्थेन दीप्यता। महापक्ष्मेण पिङ्गेन विपुलेनायतेन च।।3.69.29।। Aranya Kanda,69,30,एकेनोरसि घोरेण नयनेनाशुदर्शिना। महादंष्ट्रोपपन्नं तल्लेलिहानं महामुखम्।।3.69.30।। Aranya Kanda,69,31,भक्षयन्तं महाघोरानृक्षसिंहमृगद्विपान्। घोरौ भुजौ विकुर्वाणमुभौ योजनमायतौ।।3.69.31।। Aranya Kanda,69,32,कराभ्यां विविधान्गृह्यऋक्षान्पक्षिगणान्मृगान्। आकर्षन्तं विकर्षन्तमनेकान्मृगयूथपान्।।3.69.32।। स्थितमावृत्य पन्थानं तयोर्भ्रात्रोः प्रपन्नयोः। Aranya Kanda,69,33,अथ तौ समभिक्रम्य क्रोशमात्रे ददर्शतुः।।3.69.33।। Aranya Kanda,69,34,महान्तं दारुणं भीमं कबन्धं भुजसंवृम्। कबन्धमिव संस्थानादतिघोरप्रदर्शनम्।।3.69.34।। Aranya Kanda,69,35,स महाबाहुरत्यर्थं प्रसार्य विपुलौ भुजौ। जग्राह सहितावेव राघवौ पीडयन्बलात्।।3.69.35।। Aranya Kanda,69,36,खड्गिनौ दृढधन्वानौ तिग्मतेजोवपुर्धरौ। भ्रातरौ विवशं प्राप्तौ कृष्यमाणौ महाबलौ।।3.69.36।। Aranya Kanda,69,37,तत्र धैर्येण शूरस्तु राघवो नैव विव्यथे। बाल्यादनाश्रयत्वाच्च लक्ष्मणस्त्वतिविव्यथे।।3.69.37।। उवाच स विषण्णस्सन्राघवं राघवानुजः। Aranya Kanda,69,38,पश्य मां वीर विवशं राक्षसस्य वशं गतम्।।3.69.38।। मयैकेन विनिर्युक्तः परिमुञ्चस्व राघव। Aranya Kanda,69,39,मां हि भूतबलिं दत्वा पलायस्व यथासुखम्।।3.69.39।। अधिगन्तासि वैदेहीमचिरेणेति मे मतिः। Aranya Kanda,69,40,प्रतिलभ्य च काकुत्स्थ पितृपैतामहीं महीम्।।3.69.40।। तत्र मां राम राज्यस्थस्स्मर्तुमर्हसि सर्वदा। Aranya Kanda,69,41,लक्ष्मणेनैवमुक्तस्तु रामस्सौमित्रिमब्रवीत्।।3.69.41।। मा स्म त्रासं कृथा वीर न हि त्वादृग्विषीदति। Aranya Kanda,69,42,एतस्मिन्नन्तरे क्रूरो भ्रातरौ रामलक्ष्मणौ।।3.69.42।। पप्रच्छ घननिर्घोषः कबन्धो दानवोत्तमः। Aranya Kanda,69,43,कौ युवां वृषभस्कन्धौ महाखड्गधनुर्धरौ।।3.69.43।। घोरं देशमिमं प्राप्तौ मम भक्षावुपस्थितौ। Aranya Kanda,69,44,वदतं कार्यमिह वां किमर्थं चागतौ युवाम्।।3.69.44।। इमं देशमनुप्राप्तौ क्षुधार्तस्येह तिष्ठतः। Aranya Kanda,69,45,सबाणचापखड्गौ च तीक्ष्णशृङ्गाविवर्षभौ।।3.69.45।। ममास्यमनुसम्प्राप्तौ दुर्लभं जीवितं पुनः। Aranya Kanda,69,46,तस्य तद्वचनं श्रुत्वा कबन्धस्य दुरात्मनः।।3.69.46।। उवाच लक्ष्मणं रामो मुखेन परिशुष्यता। Aranya Kanda,69,47,कृच्छ्रात् कृच्छ्रतरं प्राप्य दारुणं सत्यविक्रमः।।3.69.47।। व्यसनं जीवितान्ताय प्राप्तमप्राप्य तां प्रियाम्। Aranya Kanda,69,48,कालस्य सुमहद्वीर्यं सर्वभूतेषु लक्ष्मण।।3.69.48।। त्वां च मां च नरव्याघ्र व्यसनैः पश्य मोहितौ। Aranya Kanda,69,49,नातिभारोस्ति कालस्य सर्वभूतेषु लक्ष्मण।।3.69.49।। Aranya Kanda,69,50,शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे। कालाभिपन्नास्सीदन्ति यथा वालुकसेतवः।।3.69.50।। Aranya Kanda,69,51,इति ब्रुवाणो दृढसत्यविक्रमो महायशा दाशरथिः प्रतापवान्। अवेक्ष्य सौमित्रिमुदग्रपौरुषं स्थिरां तदा स्वां मतिमात्मनाऽकरोत्।।3.69.51।। Aranya Kanda,70,1,तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ। बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यमब्रवीत्।।3.70.1।। Aranya Kanda,70,2,तिष्ठतः किं नु मां दृष्ट्वा क्षुधार्तं क्षत्रियर्षभौ। आहारार्थं तु सन्दिष्टौ दैवेन गतचेतसौ।।3.70.2।। Aranya Kanda,70,3,तच्छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा। उवाचाऽर्तिं समापन्नो विक्रमे कृतलक्षणः।।3.70.3।। Aranya Kanda,70,4,त्वां च मां च पुरा तूर्णमादत्ते राक्षसाधमः। तस्मादसिभ्यामस्याशु बाहू छिन्दावहै गुरू।।3.70.4।। Aranya Kanda,70,5,भीषणोऽयं महाकायो राक्षसो भुजविक्रमः। लोकं ह्यतिजितं कृत्वा ह्यावां हन्तुमिहेच्छति।।3.70.5।। Aranya Kanda,70,6,निश्चेष्टानां वधो राजन्कुत्सितो जगतीपतेः। क्रतुमध्योपनीतानां पशूनामिव राघव।।3.70.6।। Aranya Kanda,70,7,एतत्सञ्जल्पितं श्रुत्वा तयोः क्रुद्धस्तु राक्षसः। विदार्याऽस्यं तदा रौद्रस्तौ भक्षयितुमारभत्।।3.70.7।। Aranya Kanda,70,8,ततस्तौ देशकालज्ञौ खड्गाभ्यामेव राघवौ। अच्छिन्दतां सुसंविग्नौ बाहू तस्यांसदेशतः।।3.70.8।। Aranya Kanda,70,9,दक्षिणो दक्षिणं बाहुमसक्तमसिना ततः। चिच्छेद रामो वेगेन सव्यं वीरस्तु लक्ष्मणः।।3.70.9।। Aranya Kanda,70,10,स पपात महाबाहुश्छिन्नबाहुर्महास्वनः। खं च गां च दिशश्चैव नादयञ्जलदो यथा।।3.70.10।। Aranya Kanda,70,11,स निकृत्तौ भुजौ दृष्ट्वा शोणितौघपरिप्लुतः। दीनः पप्रच्छ तौ वीरौ कौ युवामिति दानवः।।3.70.11।। Aranya Kanda,70,12,इति तस्य ब्रुवाणस्य लक्ष्मणश्शुभलक्षणः। शशंस राघवं तस्य कबन्धस्य महात्मनः।।3.70.12।। Aranya Kanda,70,13,अयमिक्ष्वाकुदायादो रामो नाम जनैश्श्रुतः। अस्यैवावरजं विद्दि भ्रातरं मां च लक्ष्मणम्।।3.70.13।। Aranya Kanda,70,14,अस्य देवप्रभावस्य वसतो विजने वने। रक्षसाऽपहृता पत्नी यामिच्छन्ताविहागतौ।।3.70.14।। Aranya Kanda,70,15,त्वं तु को वा किमर्थं वा कबन्धसदृशो वने। आस्येनोरसि दीप्तेन भग्नजङ्घो विचेष्टसे।।3.70.15।। Aranya Kanda,70,16,एवमुक्तः कबन्धस्तु लक्ष्मणेनोत्तरं वचः। उवाच परमप्रीत स्तदिन्द्रवचनं स्मरन्।।3.70.16।। Aranya Kanda,70,17,स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि चाप्यहम्। दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ।।3.70.17।। Aranya Kanda,70,18,विरूपं यच्च मे रूपं प्राप्तं ह्यविनयाद्यथा। तन्मे शृणु नरव्याघ्र तत्त्वतश्शंसतस्तव।।3.70.18।। Aranya Kanda,71,1,पुरा राम महाबाहो महाबलपराक्रम। रूपमासीन्ममा चिन्त्यं त्रिषु लोकेषु विश्रुतम्।।3.71.1।। यथा सोमस्य शक्रस्य सूर्यस्य च यथा वपुः। Aranya Kanda,71,2,सोऽहं रूपमिदं कृत्वा लोकवित्रासनं महत्।।3.71.2।। ऋषीन्वनगतान्राम त्रासयामि ततस्ततः। Aranya Kanda,71,3,ततस्स्थूलशिरा नाम महर्षिः कोपितो मया।।3.71.3।। सञ्चिन्वन्विविधं वन्यं रूपेणानेन धर्षितः। Aranya Kanda,71,4,तेनाहमुक्तः प्रेक्ष्यैवं घोरशापाभिधायिना।।3.71.4।। एतदेव नृशंसं ते रूपमस्तु विगर्हितम्। Aranya Kanda,71,5,स मया याचितः क्रुद्धश्शापस्योन्तो भवेदिति।।3.71.5।। अभिशापकृतस्येति तेनेदं भाषितं वचः। Aranya Kanda,71,6,यदा छित्त्वा भुजौ रामस्त्वां दहेद्विजने वने।।3.71.6।। तदा त्वं प्राप्स्यसे रूपं स्वमेव विपुलं शुभम्। Aranya Kanda,71,7,श्रिया विराजितं पुत्रं दनोस्त्वं विद्धि लक्ष्मण।।3.71.7।। इन्द्रकोपादिदं रूपं प्राप्तमेवं रणाजिरे। Aranya Kanda,71,8,अहं हि तपसोग्रेण पितामहमतोषयम्।।3.71.8।। दीर्घमायुस्स मे प्रादात्ततो मां विभ्रमोऽस्पृशत्। Aranya Kanda,71,9,दीर्घमायुर्मया प्राप्तं किं मे शक्रः करिष्यति।।3.71.9।। इत्येवं बुद्धिमास्थाय रणे शक्रमधर्षयम्। Aranya Kanda,71,10,तस्य बाहुप्रयुक्तेन वज्रेण शतपर्वणा।।3.71.10।। सक्थिनी चैव मूर्धा च शरीरे सम्प्रवेशितम्। Aranya Kanda,71,11,स मया याच्यमानस्सन्नानयद्यमसादनम्।।3.71.11।। पितामहवचस्सत्यं तदस्त्विति ममाब्रवीत्। Aranya Kanda,71,12,अनाहारः कथं शक्तो भग्नसक्थिशिरोमुखः।।3.71.12।। वज्रेणाभिहतः कालं सुदीर्घमपि जीवितुम्। Aranya Kanda,71,13,एवमुक्तस्तु मे शक्रो बाहू योजनमायतौ।।3.71.13।। प्रादादास्यं च मे कुक्षौ तीक्ष्णदंष्ट्रमकल्पयत्। Aranya Kanda,71,14,सोऽहं भुजाभ्यां दीर्घाभ्यां संकृष्यास्मिन्वने चरान्।।3.71.14।। सिंहव्दिपमृगव्याघ्रान् भक्षयामि समन्ततः। Aranya Kanda,71,15,स तु मामब्रवीदिन्द्रो यदा रामस्सलक्ष्मणः।।3.71.15।। छेत्स्यते समरे बाहू तदा स्वर्गं गमिष्यसि। Aranya Kanda,71,16,अनेन वपुषा राम वनेऽस्मिन्राजसत्तम।।3.71.16।। यद्यत्पश्यामि सर्वस्य ग्रहणं साधु रोचये। Aranya Kanda,71,17,अवश्यं ग्रहणं रामो मन्येऽहं समुपैष्यति।।3.71.17।। इमां बुद्धिं पुरस्कृत्य देहन्यासकृतश्रमः। Aranya Kanda,71,18,स त्वं रामोऽसि भद्रं ते नाहमन्येन राघव।।3.71.18।। शक्यो हन्तुं यथातत्त्वमेवमुक्तं महर्षिणा। Aranya Kanda,71,19,अहं हि मतिसाचिव्यं करिष्यामि नरर्षभ।।3.71.19।। मित्रं चैवोपदेक्ष्यामि युवाभ्यां संस्कृतोऽग्निना। Aranya Kanda,71,20,एवमुक्तस्तु धर्मात्मा दनुना तेन राघवः।।3.71.20।। इदं जगाद वचनं लक्ष्मणस्योपशृण्वतः। Aranya Kanda,71,21,रावणेन हृता भार्या मम सीता यशस्स्विनी।।3.71.21।। निष्क्रान्तस्य जनस्थानात्सहभ्रात्रा यथासुखम्। Aranya Kanda,71,22,नाममात्रं तु जानामि न रूपं तस्य रक्षसः।।3.71.22।। निवासं वा प्रभावं वा वयं तस्य न विद्महे। Aranya Kanda,71,23,शोकार्तानामनाथानामेवं विपरिधावताम्।।3.71.23।। कारुण्यं सदृशं कर्तुमुपकारे च वर्तताम्। Aranya Kanda,71,24,काष्ठान्यादाय शुष्काणि काले भग्नानि कुञ्जरैः।।3.71.24।। धक्ष्यामस्त्वां वयं वीर श्वभ्रे महति कल्पिते। Aranya Kanda,71,25,स त्वं सीतां समाचक्ष्व येन वा यत्र वा हृता।।3.71.25।। कुरु कल्याणमत्यर्थं यदि जानासि तत्त्वतः। Aranya Kanda,71,26,एवमुक्तस्तु रामेण वाक्यं दनुरनुत्तमम्।।3.71.26।। प्रोवाच कुशलो वक्तुं वक्तारमपि राघवम्। Aranya Kanda,71,27,दिव्यमस्ति न मे ज्ञानं नाभिजानामि मैथिलीम्।।3.71.27।। यस्तां ज्ञास्यति तं वक्ष्ये दग्धस्स्वं रूपमास्थितः। Aranya Kanda,71,28,अदग्धस्य तु विज्ञातुं शक्तिरस्ति न मे प्रभो।।3.71.28।। राक्षसं तं महावीर्यं सीता येन हृता तव। Aranya Kanda,71,29,विज्ञानं हि मम भ्रष्टं शापदोषेण राघव।।3.71.29।। स्वकृतेन मया प्राप्तं रूपं लोकविगर्हितम्। Aranya Kanda,71,30,किं तु यावन्न यात्यस्तं सविता श्रान्तवाहनः।।3.71.30।। तावन्मामवटे क्षिप्त्वा दह राम यथाविधि। Aranya Kanda,71,31,दग्धस्त्वयाहमवटे न्यायेन रघुनन्धन।।3.71.31।। वक्ष्यामि तमहं वीर यस्तं ज्ञास्यति राक्षसम्। Aranya Kanda,71,32,तेन सख्यं च कर्तव्यं न्याय्यवृत्तेन राघव।।3.71.32।। कल्पयिष्यति ते प्रीतस्साहाय्यं लघुविक्रमः। Aranya Kanda,71,33,न हि तस्यास्त्यविज्ञातं त्रिषु लेकेषु राघव।।3.71.33।। सर्वान्परिसृतो लोकान्पुरासौ कारणान्तरे। Aranya Kanda,72,1,एवमुक्तौतु तौ वीरौ कबन्धेन नरेश्वरौ। गिरिप्रदरमासाद्य पावकं विससर्जतुः।।3.72.1।। Aranya Kanda,72,2,लक्ष्मणस्तु महोल्काभिर्ज्वलिताभिस्समन्ततः। चितामादीपयामास सा प्रजज्वाल सर्वतः।।3.72.2।। Aranya Kanda,72,3,तच्छरीरं कबन्धस्य घृतपिण्डोपमं महत्। मेदसा पच्यमानस्य मन्दं दहति पावकः।।3.72.3।। Aranya Kanda,72,4,स विधूय चितामाशु विधूमोऽग्निरिवोत्थितः। अरजे वाससी बिभ्रन्मालां दिव्यां महाबलः।।3.72.4।। Aranya Kanda,72,5,ततश्चिताया वेगेन भास्वरो विमलाम्बरः। उत्पपाताशु संहृष्टस्सर्वप्रत्यङ्गभूषणः।।3.72.5।। Aranya Kanda,72,6,विमाने भास्वरे तिष्ठन्हंसयुक्ते यशस्करे। प्रभया च महातेजा दिशो दश विराजयन्।।3.72.6।। Aranya Kanda,72,7,सोऽन्तरिक्षगतो रामं कबन्धो वाक्यमब्रवीत्। शृणु राघव तत्त्वेन यथा सीतामवाप्स्यसि।।3.72.7।। Aranya Kanda,72,8,राम षड्युक्तयो लोके याभिस्सर्वं विमृश्यते। परिमृष्टो दशान्तेन दशाभागेन सेव्यते।।3.72.8।। Aranya Kanda,72,9,दशाभागगतो हीनस्त्वं हि राम सलक्ष्मणः। यत्कृते व्यसनं प्राप्तं त्वया दारप्रधर्षणम्।।।3.72.9।। Aranya Kanda,72,10,तदवश्यं त्वया कार्यस्ससुहृत्सुहृदां वर। अकृत्वा हि न ते सिद्धिमहं पश्यामि चिन्तयन्।।3.72.10।। Aranya Kanda,72,11,श्रूयतां राम वक्ष्यामि सुग्रीवो नाम वानरः। भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्रसूनुना।।3.72.11।। Aranya Kanda,72,12,ऋश्यमूके गिरिवरे पम्पापर्यन्तशोभिते। निवसत्यात्मवान्वीरश्चतुर्भिस्सह वानरैः।।3.72.12।। Aranya Kanda,72,13,वानरेन्द्रो महावीर्यस्तेजोवानमितप्रभः। सत्यसन्धो विनीतश्च धृतिमान्मतिमान्महान्।।3.72.13।। Aranya Kanda,72,14,दक्षः प्रगल्भो द्युतिमान्महाबलपराक्रमः। भ्रात्रा विवासितो राम राज्यहेतोर्महाबलः।।3.72.14।। Aranya Kanda,72,15,स ते सहायो मित्रं च सीतायाः परिमार्गणे। भविष्यति हिते राम मा च शोके मनः कृथाः।।3.72.15।। Aranya Kanda,72,16,भवितव्यं हि यच्चापि न तच्छक्यमिहान्यथा। कर्तुमिक्ष्वाकुशार्दूल कालो हि दुरतिक्रमः।।3.72.16।। Aranya Kanda,72,17,गच्छ श्रीघ्रमितो राम सुग्रीवं तं महाबलम्। वयस्यं तं कुरु क्षिप्रमितो गत्वाऽद्य राघव।।3.72.17।। अद्रोहाय समागम्य दीप्यमाने विभावसौ। Aranya Kanda,72,18,स च ते नावमन्तव्यस्सुग्रीवो वानराधिपः।।3.72.18।। कृतज्ञः कामरूपी च सहायार्थी च वीर्यवान्। Aranya Kanda,72,19,शक्तौह्यद्य युवां कर्तुं कार्यं तस्य चिकीर्षितम्।।3.72.19।। कृतार्थो वाऽकृतार्थो वा कृत्यं तव करिष्यति। Aranya Kanda,72,20,स ऋक्षरजसः पुत्रः पम्पामटति शङ्कितः।।.3.72.20।। भास्करस्यौरसः पुत्रो वालिना कृतकिल्बिषः। Aranya Kanda,72,21,सन्निधायायुधं क्षिप्रमृष्यमूकालयं कपिम्।।3.72.21।। कुरु राघव सत्येन वयस्यं वनचारिणम्। Aranya Kanda,72,22,स हि स्थानानि सर्वाणि कार्त्स्न्येन कपिकुञ्जरः।।3.72.22।। नरमांसाशिनां लोके नैपुण्यादधिगच्छति। Aranya Kanda,72,23,न तस्याविदितं लोकेकिञ्चिदस्ति हि राघव।।3.72.23।। यावत्सूर्यः प्रतपति सहस्रांशुररिन्दम। Aranya Kanda,72,24,स नदीर्विपुलान्शैलान् गिरिदुर्गाणि कन्दरान्।।3.72.24।। अन्वीक्ष्य वानरैस्सार्धं पत्नीं तेऽधिगमिष्यति। Aranya Kanda,72,25,वानरांश्च महाकायान्प्रेषयिष्यति राघव।।3.72.25।। Aranya Kanda,72,26,दिशो विचेतुं तां सीतां त्वद्वियोगेन शोचतीम्। स ज्ञास्यति वरारोहां निर्मलां रावणालये।।3.72.26।। Aranya Kanda,72,27,स मेरुशृङ्गाग्रगतामनिन्दितां प्रविश्य पातालतलेऽपि वा श्रिताम्। प्लवङ्गमानां प्रवरस्तव प्रियां निहत्य रक्षांसि पुनः प्रदास्यति।।3.72.27।। Aranya Kanda,73,1,निदर्शयित्वा रामाय सीतायाः प्रतिपादने। वाक्यमन्वर्थमर्थज्ञः कबन्धः पुनरब्रवीत्।।3.73.1।। Aranya Kanda,73,2,एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः। प्रतीचीं दिशमाश्रित्य प्रकाशन्ते मनोरमाः।।3.73.2।। Aranya Kanda,73,3,जम्बूप्रियालपनसप्लक्षन्यग्रोधतिन्धुकाः। अश्वत्थाः कर्णिकाराश्च चूताश्चान्ये च पादापाः।।3.73.3।। Aranya Kanda,73,4,धन्वना नागवृक्षाश्च तिलका नक्तमालकाः। नीलाशोकाः कदम्बाश्च करवीराश्च पुष्पिताः।।3.73.4।। अग्निमुख्या अशोकाश्च सुरक्ताः पारिभद्रकाः। Aranya Kanda,73,5,तानारुह्याथवा भूमौ पातयित्वा च तान्बलात्।।3.73.5।। फलान्यमृतकल्पानि भक्षयन्तौ गमिष्यथः। Aranya Kanda,73,6,तदतिक्रम्य काकुत्स्थ वनं पुष्पितपादपम्।।3.73.6।। नन्दनप्रतिमं चान्यत्कुरवो ह्युत्तरा इव। Aranya Kanda,73,7,सर्वकालफला यत्र पादपास्तु मधुस्रवाः।।3.73.7।। सर्वे च ऋतवस्तत्र वने चैत्ररथे यथा। Aranya Kanda,73,8,फलभारानतास्तत्र महाविटपधारिणः।।3.73.8।। शोभन्ते सर्वतस्तत्र मेघपर्वतसन्निभाः। Aranya Kanda,73,9,तानारुह्याथवा भूमौ पातयित्वा यथासुखम्।।3.73.9।। फलान्यमृतकल्पानि लक्ष्मणस्ते प्रदास्यति। Aranya Kanda,73,10,चङ्क्रमन्तौ वरान्देशान्शैलाच्छैलं वनाद्वनम्।।3.73.10।। ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथः। Aranya Kanda,73,11,अशर्करामविभ्रंशां समतीर्थामशैवलाम्।।3.73.11।। राम सञ्जातवालूकां कमलोत्पलशालिनीम्। Aranya Kanda,73,12,तत्र हंसाः प्लवाः क्रौञ्चाः कुरराश्चैव राघव।।3.73.12।। वल्गुस्वना विकूजन्ति पम्पासलिलगोचराः। Aranya Kanda,73,13,नोद्विजन्ते नरान्दृष्ट्वा वधस्याकोविदाश्शुभाः।।3.73.13।। घृतपिण्डोपमान् स्थूलांस्तान्द्विजान्भक्षयिष्यथः। Aranya Kanda,73,14,रोहितान्वक्रतुण्डांश्च नडमीनांश्च राघव।।3.73.14।। Aranya Kanda,73,15,पम्पायामिषुभिर्मत्स्यांस्तत्र राम वरान्हतान्। निस्त्वक्पक्षानयस्तप्तानकृशानेककण्टकान्।।3.73.15।। तव भक्त्या समायुक्तो लक्ष्मणस्सम्प्रदास्यति। Aranya Kanda,73,16,भृशते खादतो मत्स्यान्पम्पायाः पुष्पसञ्चये।।3.73.16।। Aranya Kanda,73,17,पद्मगन्धि शिवं वारि सुखशीतमनामयम्। उद्धृत्य सतताक्लिष्टं रौप्यस्फाटिकसन्निभम्।।3.73.17।। असौ पुष्करपर्णेन लक्ष्मणः पाययिष्यति। Aranya Kanda,73,18,स्थूलान्गिरिगुहाशय्यान्वराहान्वनचारिणः।।3.73.18।। Aranya Kanda,73,19,अपां लोभादुपावृत्तान्वृषभानिव नर्दतः। रूपावनितांश्च पम्पायांद्रक्ष्यसि त्वं नरोत्तम।।3.73.19।। Aranya Kanda,73,20,सायाह्ने विचरन्राम विटपीन्माल्यधारिणः। शीतोदकं च पम्पाया दृष्ट्वा शोकं विहास्यसि।।3.73.20।। Aranya Kanda,73,21,सुमनोभिश्चितांस्तत्र तिलकान्नक्तमालकान्। उत्पलानि च फुल्लानि पङ्कजानि च राघव।।3.73.21।। Aranya Kanda,73,22,न तानि कश्चिन्माल्यानि तत्रारोपयिता नरः। न च वै म्लानतां यान्ति न च शीर्यन्ति राघव।।3.73.22।। Aranya Kanda,73,23,मतङ्गशिष्यास्तत्राऽसन्नृषयस्सुसमाहिताः। तेषां भाराभितप्तानां वन्यमाहरतां गुरोः।।3.73.23।। Aranya Kanda,73,24,ये प्रपेतुर्महीं तूर्णं शरीरात्स्वेदबिन्दवः। तानि जातानि माल्यानि मुनीनां तपसा तदा।।3.73.24।। स्वेदबिन्दुसमुत्थानि न विनश्यन्ति राघव। Aranya Kanda,73,25,तेषां गतानामद्यापि दृश्यते परिचारिणी।।3.73.25।। श्रमणी शबरी नाम काकुत्स्थ चिरजीविनी। Aranya Kanda,73,26,त्वां तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम्।।3.73.26।। दृष्ट्वा देवोपमं राम स्वर्गलोकं गमिष्यति। Aranya Kanda,73,27,ततस्तद्राम पम्पायास्तीरमासाद्य पश्चिमम्।।3.73.27।। आश्रमस्थानमतुलं गुह्यं काकुत्स्थ पश्यसि। Aranya Kanda,73,28,न तत्राक्रमितुं नागाश्शक्नुवन्ति तमाश्रमम्।।3.73.28।। Aranya Kanda,73,29,विविधास्तत्र वै नागा वने तस्मिंश्च पर्वते। ऋषेस्तत्र मतङ्गस्य विधानात्तच्च काननम्।।3.73.29।। Aranya Kanda,73,30,तस्मिन्नन्दनसङ्काशे देवारण्योपमे वने। नानाविहगसङ्कीर्णे रंस्यसे राम निर्वृतः।।3.73.30।। Aranya Kanda,73,31,ऋष्यमूकश्च पम्पायाः पुरस्तात्पुष्पितद्रुमः। सुदुःखारोहणो नाम शिशुनागाभिरक्षितः।।3.73.31।। उदारो ब्रह्मणा चैव पूर्वकाले विनिर्मितः। Aranya Kanda,73,32,शयानः पुरुषो राम तस्य शैलस्य मूर्धनि।।3.73.32।। यत्स्वप्ने लभते वित्तं तत्प्रबुद्धोऽधिगच्छति। Aranya Kanda,73,33,नत्वेनं विषमाचार पापकर्माऽधिरोहति।।3.73.33।। Aranya Kanda,73,34,यस्तु तं विषमाचारः पापकर्माऽधिरोहति। तत्रैव प्रहऱन्त्येनं सुप्तमादाय राक्षसाः।।3.73.34।। Aranya Kanda,73,35,तत्रापि शिशुनागानामाक्रन्धश्श्रूयते महान्। क्रीडतां राम पम्पायां मतङ्गारण्यवासिनाम्।।3.73.35।। Aranya Kanda,73,36,सिक्ता रुधिरधाराभिस्संहृत्य परमद्विपाः। प्रचरन्ति पृथक्कीर्णा मेघवर्णास्तरस्विनः।।3.73.36।। Aranya Kanda,73,37,ते तत्र पीत्वा पानीयं विमलं शीतमव्ययम्। निर्वृतास्संविगाहन्ते वनानि वनगोचराः।।3.73.37।। Aranya Kanda,73,38,ऋक्षांश्च द्वीपिनश्चैव नीलकोमलकप्रभान्। रुरूनपेतापजयान् दृष्ट्वा शोकं जयिष्यसि।।3.73.38।। Aranya Kanda,73,39,राम तस्य तु शैलस्य महती शोभते गुहा। शिलापिधाना काकुत्स्थ दुःखं चास्याः प्रवेशनम्।।3.73.39।। Aranya Kanda,73,40,तस्या गुहायाः प्राग्द्वारे महान्शीतोदको ह्रदः। फलमूलान्वितो रम्यो नानामृगसमावृतः।।3.73.40।। Aranya Kanda,73,41,तस्यां वसति सुग्रीवश्चतुर्भिस्सह वानरैः। कदाचिच्छिखरे तस्य पर्वतस्यावतिष्ठते।।3.73.41।। Aranya Kanda,73,42,कबन्धस्त्वनुशास्यैवं तावुभौ रामलक्ष्मणौ। स्रग्वी भास्करवर्णाभः खे व्यरोचत वीर्यवान्।।3.73.42।। Aranya Kanda,73,43,तं तु खस्थं महाभागं कबन्धं रामलक्ष्मणौ। प्रस्थितौ त्वं व्रजस्वेति वाक्यमूचतुरन्तिके।।3.73.43।। Aranya Kanda,73,44,गम्यतां कार्यसिद्ध्यर्थमिति तावब्रवीत्स च। सुप्रीतौ तावनुज्ञाप्य कबन्धः प्रस्थितस्तदा।।3.73.44।। Aranya Kanda,73,45,स तत्कबन्धः प्रतिपद्य रूपं वृतश्श्रिया भास्करतुल्यदेहः। निदर्शयन्राममवेक्ष्य खस्थः सख्यं कुरुष्वेति तदाभ्युवाच।।3.73.45।। Aranya Kanda,74,1,तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वने। प्रतस्थतुर्दिशं गृह्य प्रतीचीं नृवरात्मजौ।।3.74.1।। Aranya Kanda,74,2,तौ शैलेष्वाचितानेकान् क्षौद्रकल्पफलान्द्रुमान्। वीक्षन्तौ जग्मतुर्ध्रष्टुं सुग्रीवं रामलक्ष्मणौ।।3.74.2।। Aranya Kanda,74,3,कृत्वा च शैलपृष्ठे तु तौ वासं रामलक्ष्मणौ। पम्पायाः पश्चिमं तीरं राघवावुपतस्थतुः।।3.74.3।। Aranya Kanda,74,4,तौ पुष्करिण्याः पम्पायास्तीरमासाद्य पश्चिमम्। अपश्यतां ततस्तत्र शबर्या रम्यमाश्रमम्।।3.74.4।। Aranya Kanda,74,5,तौ तमाश्रममासाद्य द्रुमैर्बहुभीरावृतम्। सुरम्यमभिवीक्षन्तौ शबरीमभ्युपेयतुः।।3.74.5।। Aranya Kanda,74,6,तौ च दृष्ट्वा तदा सिद्धा समुत्थाय कृताञ्जलिः। रामस्य पादौ जग्राह लक्ष्मणस्य च धीमतः।।3.74.6।। Aranya Kanda,74,7,पाद्यमाचमनीयं च सर्वं प्रादाद्यथाविधि। तामुवाच ततो रामश्श्रमणीं संशितव्रताम्।।3.74.7।। Aranya Kanda,74,8,कच्चित्ते निर्जिता विघ्नाः कच्चित्ते वर्धते तपः। कच्चित्ते नियतः क्रोध आहारश्च तपोधने।।3.74.8।। Aranya Kanda,74,9,कच्चित्ते नियमाः प्राप्ताः कच्चित्ते मनसः सुखम्। कच्चित्ते गुरुशुश्रूषा सफला चारुभाषिणि।।3.74.9।। Aranya Kanda,74,10,रामेण तापसी पृष्टा सा सिद्धा सिद्धसम्मता। शशंस शबरी वृद्धा रामाय प्रत्युपस्थिता।।3.74.10।। Aranya Kanda,74,11,अद्य प्राप्ता तपस्सिद्धिस्तव संदर्शनान्मया। अद्य मे सफलं तप्तं गुरवश्च सुपूजिताः।।3.74.11।। Aranya Kanda,74,12,अद्य मे सफलं जन्म स्वर्गश्चैव भविष्यति। त्वयि देववरे राम पूजिते पुरुषर्षभ।।3.74.12।। Aranya Kanda,74,13,चक्षुषा तव सौम्येन पूतास्मि रघुनन्दन। गमिष्याम्यक्षयान्लोकांस्त्वत्प्रसादादरिन्दम।।3.74.13।। Aranya Kanda,74,14,चित्रकूटं त्वयि प्राप्ते विमानैरतुलप्रभैः। इतस्ते दिवमारूढा यानहं पर्यचारिषम्।।3.74.14।। Aranya Kanda,74,15,तैश्चाहमुक्ता धर्मज्ञैर्महाभागैर्महर्षिभिः। आगमिष्यति ते रामस्सुपुण्यमिममाश्रमम्।।3.74.15।। Aranya Kanda,74,16,स ते प्रतिग्रहीतव्यस्सौमित्रिसहितोतिथिः। तं च दृष्ट्वा वरान्लोकानक्षयांस्त्वं गमिष्यसि।।3.74.16।। Aranya Kanda,74,17,मया तु विविधं वन्यं सञ्चितं पुरुषर्षभ। तवार्थे पुरुषव्याघ्र पम्पायास्तीरसम्भवम्।।3.74.17।। Aranya Kanda,74,18,एवमुक्तस्स धर्मात्मा शबर्या शबरीमिदम्। राघवः प्राह विज्ञाने तां नित्यमबहिष्कृताम्।।3.74.18।। Aranya Kanda,74,19,दनोस्सकाशात्तत्त्वेन प्रभावं ते महात्मनः। श्रुतं प्रत्यक्षमिच्छामि सन्द्रष्टुं यदि मन्यसे।।3.74.19।। Aranya Kanda,74,20,एतत्तु वचनं श्रुत्ता रामवक्त्राद्विनिस्सृतम्। शबरी दर्शयामास तावुभौ तद्वनं महत्।।3.74.20।। Aranya Kanda,74,21,पश्य मेघघनप्रख्यं मृगपक्षिसमाकुलम्। मतङ्गवनमित्येव विश्रुतं रघुनन्दन।।।3.74.21।। Aranya Kanda,74,22,इह ते भावितात्मानो गुरवो मे महावने। जुहवाञ्चक्रिरे तीर्थं मन्त्रवन्मन्त्रपूजितम्।।3.74.22।। Aranya Kanda,74,23,इयं प्रत्यक्थ्सली वेदिर्यत्र ते मे सुसत्कृताः। पुष्पोपहारं कुर्वन्ति श्रमादुद्वेपिभिः करैः।।3.74.23।। Aranya Kanda,74,24,तेषां तपःप्रभावेण पश्याद्यापि रघूद्वह। द्योतयन्ति दिशस्सर्वाश्श्रिया वेद्योऽतुलप्रभाः।।3.74.24।। Aranya Kanda,74,25,अशक्नुवद्भिस्तैर्गन्तुमुपवासश्रमालसैः। चिन्तितेऽभ्यागतान्पश्य सहितान्सप्तसागरान्।।3.74.25।। Aranya Kanda,74,26,कृताभिषेकैस्तैर्न्यस्ता वल्कलाः पादपेष्विह। अद्यापि नावशुष्यन्ति प्रदेशे रघुनन्दन।।3.74.26।। Aranya Kanda,74,27,देवकार्याणि कुर्वद्भिर्यानीमानि कृतानि वै। पुष्पैःकुवलयैस्सार्धं म्लानत्वं नोपयान्तिवै।।3.74.27।। Aranya Kanda,74,28,कृत्स्नं वनमिदं दृष्टं श्रोतव्यं च श्रुतं त्वया। तदिच्छाम्यभ्यनुज्ञाता त्यक्तुमेतत्कलेबरम्।।3.74.28।। Aranya Kanda,74,29,तेषामिच्छाम्यहं गन्तुं समीपं भावितात्मनाम्। मुनीनामाश्रमो येषामहं च परिचारिणी।।3.74.29।। Aranya Kanda,74,30,धर्मिष्ठं तु वचश्श्रुत्वा राघवस्सहलक्ष्मणः। प्रहर्षमतुलं लेभे आश्चर्यमिति तत्त्वतः।।3.74.30।। Aranya Kanda,74,31,तामुवाच ततो रामश्श्रमणीं संशितव्रताम्। अर्चितोऽहं त्वया भक्त्या गच्छकामं यथासुखम्।।3.74.31।। Aranya Kanda,74,32,इत्युक्ता जटिला वृद्धा चीरकृष्णाजिनाम्बरा। तस्मिन्मुहूर्ते शबरी देहं जीर्णं जिहासती।।3.74.32।। Aranya Kanda,74,33,अनुज्ञाता तु रामेण हुत्वात्मानं हुताशने। ज्वलत्पावकसङ्काशा स्वर्गमेव जगाम सा।।3.74.33।। Aranya Kanda,74,34,दिव्याभरणसंयुक्ता दिव्यमाल्यानुलेपना। दिव्याम्बरधरा तत्र बभूव प्रियदर्शना।।3.74.34।। विराजयन्ती तं देशं विद्युत्सौदामिनी यथा। Aranya Kanda,74,35,यत्र ते सुकृतात्मानो विहरन्ति महर्षयः।।3.74.35।। तत्पुण्यं शबरी स्थानं जगामात्मसमाधिना। Aranya Kanda,75,1,दिवं तु तस्यां यातायां शबर्यां स्वेन तेजसा। लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः।।3.75.1।। Aranya Kanda,75,2,स चिन्तयित्वा धर्मात्मा प्रभावं तं महात्मनाम्। हितकारिणमेकाग्रं लक्ष्मणं राघवोऽब्रवीत्।।3.75.2।। Aranya Kanda,75,3,दृष्टोऽयमाश्रमस्सौम्य बह्वाश्चर्यो महात्मनाम्। विश्वस्तमृगशार्दूलो नानाविहगसेवितः।।3.75.3।। Aranya Kanda,75,4,सप्तानां च समुद्राणामेषु तीर्थेषु लक्ष्मण। उपस्पृष्टं च विधिवत्पितरश्चापि तर्पिताः।।3.75.4।। Aranya Kanda,75,5,प्रणष्टमशुभं तत्तत्कल्याणं समुपस्थितम्। तेन तत्त्वेन हृष्टं मे मनो लक्ष्मण सम्प्रति।।3.75.5।। हृदये हि नरव्याघ्र शुभमाविर्भविष्यति। Aranya Kanda,75,6,तदागच्छ गमिष्यामि पम्पां तां प्रियदर्शनाम्।।3.75.6।। Aranya Kanda,75,7,ऋष्यमूको गिरिर्यत्र नातिदूरे प्रकाशते। यस्मिन्वसति धर्मात्मा सुग्रीवोंऽशुमतस्सुतः।।3.75.7।। नित्यं वालिभयात्त्रस्तश्चतुर्भिस्सह वानरैः। Aranya Kanda,75,8,अभित्वरे च तं द्रष्टुं सुग्रीवं वानरर्षभम्।।3.75.8।। तदधीनं हि मे सौम्य सीतायाः परिमार्गणम्। Aranya Kanda,75,9,एवं ब्रुवाणं तं धीरं रामं सौमित्रिरब्रवीत्।।3.75.9।। गच्छावस्त्वरितं तत्र ममापि त्वरते मनः। Aranya Kanda,75,10,आश्रमात्तु तत स्तस्मान्निष्क्रम्य स विशाम्पतिः।।3.75.10।। आजगाम ततः पम्पां लक्ष्मणेन सह प्रभुः। Aranya Kanda,75,11,स ददर्श ततः पुण्यामुदारजनसेविताम्।।3.75.11।। Aranya Kanda,75,12,नानाद्रुमलताकीर्णां पम्पां पानीयवाहिनीम्। पद्मैस्सौगन्धिकैस्ताम्रां शुक्लां कुमुदमण्डलैः।।3.75.12।। नीलां कुवलयोद्घाटैर्बहुवर्णां कुथामिव। Aranya Kanda,75,13,स तामासाद्य वै रामो दूरादुदकवाहिनीम्।।3.75.13।। मतङ्गसरसं नाम ह्रदं समवगाहत। Aranya Kanda,75,14,अरविन्दोत्पलवतीं पद्मसौगन्धिकायुताम्।।3.75.14।। Aranya Kanda,75,15,पुष्पिताम्रवणोपेतां बर्हिणोद्घुष्टनादिताम्। तिलकैर्बीजपूरैश्च धवैश्शुक्लद्रुमैस्तथा।।3.75.15।। Aranya Kanda,75,16,पुष्पितैः करवीरैश्च पुन्नागैश्च सुपुष्पितैः। मालतीकुन्दगुल्मैश्च भाण्डीरैर्निचुलैस्तथा।।3.75.16।। Aranya Kanda,75,17,अशोकैस्सप्तपर्णैश्च केतकैरतिमुक्तकैः। अन्यैश्च विविधैर्वृक्षैः प्रमदामिव भूषिताम्।।3.75.17।। Aranya Kanda,75,18,समीक्षमाणौ पुषपाढ्यं सर्वतो विपुलद्रुमम्। कोयष्टिकैश्चार्जुनकैश्शतपत्रैश्च कीरकैः।।3.75.18।। Aranya Kanda,75,19,एतैश्चान्यैश्च विहगैर्नादितं तु वनं महत्। ततो जग्मतुरव्यग्रौ राघवौ सुसमाहितौ।।3.75.19।। तद्वनं चैव सरसः पश्यन्तै शकुनैर्युतम्। Aranya Kanda,75,20,स ददर्श ततः पम्पां शीतवारिनिधिं शुभाम्।।3.75.20।। तिलकाशोकपुन्नागवकुलोद्दालकाशिनीम्। Aranya Kanda,75,21,स रामो विविधान्वृक्षान्सरांसि विविधानि च।।3.75.21।। पश्यन्कामाभिसन्तप्तो जगाम परमं ह्रदम्। Aranya Kanda,75,22,पुष्पितोपवनोपेतां सालचम्पकशोभिताम्।।3.75.22।। Aranya Kanda,75,23,षट्पदौघसमाविष्टां श्रीमतीमतुलप्रभाम्। स्फटिकोपमतोयाढ्यां श्लक्ष्णवालुकसन्तताम्।।3.75.23।। Aranya Kanda,75,24,स तां दृष्ट्वा पुनः पम्पां पद्मसौगन्घिकैर्युताम्। इत्युवाच तदा वाक्यं लक्ष्मणं सत्यविक्रमः।।3.75.24।। Aranya Kanda,75,25,अस्यास्तीरे तु पूर्वोक्तः पर्वतो धातुमण्डितः। ऋष्यमूक इति ख्यातः पुण्यः पुष्पितपादपः।।3.75.25।। Aranya Kanda,75,26,हरेः ऋक्षरजोनाम्नः पुत्रस्तस्य महात्मनः। अध्यास्ते तं महावीर्यस्सुग्रीव इति विश्रुतः।।3.75.26।। Aranya Kanda,75,27,सुग्रीवमभिगच्छ त्वं वानरेन्द्रं नरर्षभ। इत्युवाच पुनर्वाक्यं लक्ष्मणं सत्यविक्रमम्।।3.75.27।। Aranya Kanda,75,28,राज्यभ्रष्टेन दीनेन तस्यामासक्तचेतसा। कथं मया विना शक्यं सीतां लक्ष्मण जीवितुम्।।3.75.28।। Aranya Kanda,75,29,इत्येवमुक्त्वा मदनाभिपीडितः स लक्ष्मणं वाक्यमनन्यचेतसम्। विवेश पम्पां नलिनीं मनोरमां रघूत्तमश्शोकविषादयन्त्रितः।।3.75.29।। Aranya Kanda,75,30,ततो महद्वर्त्म सुदूरसङ्क्रमं क्रमेण गत्वा प्रविलोकयन्वनम्। ददर्श पम्पां शुभदर्शकाननामनेकनानाविधपक्षिजालकाम्।।3.75.30।। Kishkindha Kanda,1,1,स तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम्। रामस्सौमित्रि सहितो विललापाकुलेन्द्रियः।।4.1.1।। Kishkindha Kanda,1,2,तस्य दृष्ट्वैव तां हर्षादिन्द्रियाणि चकम्पिरे। स कामवशमापन्नस्सौमित्रिमिदमब्रवीत्।।4.1.2।। Kishkindha Kanda,1,3,सौमित्रे शोभते पम्पा वैदूर्यविमलोदका। फुल्लपद्मोत्पलवती शोभिता विविधैर्द्रुमैः।।4.1.3।। Kishkindha Kanda,1,4,सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम्। यत्र राजन्ति शैला वा द्रुमास्सशिखरा इव।।4.1.4।। Kishkindha Kanda,1,5,मां तु शोकाभिसन्तप्तं माधवः पीडयन्ति वै। भरतस्य च दुःखेन वैदेह्या हरणेन च।।4.1.5।। Kishkindha Kanda,1,6,शोकार्तस्यापि मे पम्पा शोभते चित्रकानना। व्यवकीर्णा बहुविधैः पुष्पैश्शीतोदका शिवा।।4.1.6।। Kishkindha Kanda,1,7,नलिनैरपि सञ्छन्ना ह्यत्यर्थशुभदर्शना। सर्पव्यालानुचरिता मृगद्विजसमाकुला।।4.1.7।। Kishkindha Kanda,1,8,अधिकं प्रविभात्येतन्नीलपीतं तु शाद्वलम्। द्रुमाणां विविधैः पुष्पैः परिस्तोमैरिवार्पितम्।।4.1.8।। Kishkindha Kanda,1,9,पुष्पभारसमृद्धानि शिखराणि समन्ततः। लताभिः पुष्पिताग्राभिरुपगूढानि सर्वशः।।4.1.9।। Kishkindha Kanda,1,10,सुखानिलोऽयं सौमित्रे कालः प्रचुरमन्मथः। गन्धवान्सुरभिर्मासो जातपुष्पफलद्रुमः।।4.1.10।। Kishkindha Kanda,1,11,पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम्। सृजतां पुष्पवर्षाणि तोयं तोयमुचामिव।।4.1.11।। Kishkindha Kanda,1,12,प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः। वायुवेगप्रचलिताः पुष्पैरवकिरन्ति गाम्।।4.1.12।। Kishkindha Kanda,1,13,पतितैः पतमानैश्च पादपस्थैश्च मारुतः। कुसुमैः पश्य सौमित्रे क्रीडन्निव समन्ततः।।4.1.13।। Kishkindha Kanda,1,14,विक्षिपन्विविधाश्शाखा नगानां कुसुमोत्कचाः। मारुतश्चलितस्थानैष्षट्पदैरनुगीयते।।4.1.14।। Kishkindha Kanda,1,15,मत्तकोकिलसन्नादैर्नर्तयन्निव पादपान्। शैलकन्दरनिष्क्रान्तः प्रगीत इव चानिलः।।4.1.15।। Kishkindha Kanda,1,16,तेन विक्षिपताऽत्यर्थं पवनेन समन्ततः। अमी संसक्तशाखाग्रा ग्रथिता इव पादपाः।।4.1.16।। Kishkindha Kanda,1,17,स एष सुखसंस्पर्शो वाति चन्दनशीतलः। गन्धमभ्यवहन्पुण्यं श्रमापनयनोऽनिलः।।4.1.17।। Kishkindha Kanda,1,18,अमी पवनविक्षिप्ता विनदन्तीव पादपाः। षट्पदैरनुकूजन्तो वनेषु मधुगन्धिषु।।4.1.18।। Kishkindha Kanda,1,19,गिरिप्रस्थेषु रम्येषु पुष्पवद्भिर्मनोरमैः। संसक्तशिखराश्शैला विराजन्ते महाद्रुमैः।।4.1.19।। Kishkindha Kanda,1,20,पुष्पसञ्छन्नशिखरा मारुतोत्क्षेपचञ्चलाः। अमी मधुकरोत्तंसाः प्रगीता इव पादपाः।।4.1.20।। Kishkindha Kanda,1,21,सुपुष्पितांस्तु पश्येमान्कर्णिकारांत्समन्ततः। हाटकप्रतिसञ्छन्नान्नरान्पीताम्बरानिव।।4.1.21।। Kishkindha Kanda,1,22,अयं वसन्तस्सौमित्रे नानाविहगनादितः। सीतया विप्रहीनस्य शोकसन्दीपनो मम।।4.1.22।। Kishkindha Kanda,1,23,मां हि शोकसमाक्रान्तं सन्तापयति मन्मथः। हृष्टः प्रवदमानश्च ममाह्वयति कोकिलः।।4.1.23।। Kishkindha Kanda,1,24,एष दात्यूहको हृष्टो रम्ये मां वननिर्झरे। प्रणदन्मन्मथाविष्टं शोचयिष्यति लक्ष्मण।।4.1.24।। Kishkindha Kanda,1,25,श्रुत्वैतस्य पुरा शब्दमाश्रमस्था मम प्रिया। मामाहूय प्रमुदिताः परमं प्रत्यनन्दत।।4.1.25।। Kishkindha Kanda,1,26,एवं विचित्राः पतगा नानारावविराविणः। वृक्षगुल्मलताः पश्य सम्पतन्ति समन्ततः।।4.1.26।। Kishkindha Kanda,1,27,विमिश्रा विहगाः पुम्भिरात्मव्यूहाभिनन्दिताः। भृङ्गराजप्रमुदितास्सौमित्रे मधुरस्वनाः।।4.1.27।। Kishkindha Kanda,1,28,दात्यूहरतिविक्रन्दैः पुंस्कोकिलरुतैरपि। स्वनन्ति पादपाश्चेमे ममानङ्गप्रदीपनाः।।4.1.28।। Kishkindha Kanda,1,29,अशोकस्तबकाङ्गारष्षट्पदस्वननिःस्वनः। मां हि पल्लवताम्रार्चिर्वसन्ताग्निः प्रधक्ष्यति।।4.1.29।। Kishkindha Kanda,1,30,न हि तां सूक्ष्मपक्ष्माक्षीं सुकेशीं मृदुभाषिणीम्। अपश्यतो मे सौमित्रे जीवितेऽस्ति प्रयोजनम्।।4.1.30।। Kishkindha Kanda,1,31,अयं हि दयितस्तस्याः कालो रुचिरकाननः। कोकिलाकुलसीमान्तो दयिताया ममानघ।।4.1.31।। Kishkindha Kanda,1,32,मन्मथाऽयाससम्भूतो वसन्तगुणवर्धितः। अयं मां धक्ष्यति क्षिप्रं शोकाग्निर्नचिरादिव।।4.1.32।। Kishkindha Kanda,1,33,अपश्यतस्तां दयितां पश्यतो रुचिरद्रुमान्। ममायमात्मप्रभवो भूयस्त्वमुपयास्यति।।4.1.33।। Kishkindha Kanda,1,34,अदृश्यमाना वैदेही शोकं वर्धयते मम। दृश्यमानो वसन्तश्च स्वेदसंसर्गदूषकः।।4.1.34।। Kishkindha Kanda,1,35,मां ह्यद्य मृगशाबाक्षी चिन्ताशोकबलात्कृतम्। सन्तापयति सौमित्रे क्रूरश्चैत्रवनानिलः।।4.1.35।। Kishkindha Kanda,1,36,अमी मयूराश्शोभन्ते प्रनृत्यन्तस्ततस्ततः। स्वैः पक्षैः पवनोद्धूतैर्गवाक्षैः स्फाटिकैरिव।।4.1.36।। Kishkindha Kanda,1,37,शिखिनीभिः परिवृतास्ते एते मदमूर्छिताः। मन्मथाभिपरीतस्य मम मन्मथवर्धनाः।।4.1.37।। Kishkindha Kanda,1,38,पश्य लक्ष्मण नृत्यन्तं मयूरमुपनृत्यति। शिखिनी मन्मथार्तैषा भर्तारं गिरिसानुनि।।4.1.38।। Kishkindha Kanda,1,39,तामेव मन्मथाविष्टो मयूरोऽप्युपधावति। वितत्य रुचिरौ पक्षौ रुतैरुपहसन्निव।।4.1.39।। Kishkindha Kanda,1,40,मयूरस्य वने नूनं रक्षसा न हृता प्रिया। तस्मान्नृत्यति रम्येषु वनेषु सह कान्तया।।4.1.40।। Kishkindha Kanda,1,41,मम त्वयं विना वासः पुष्पमासे सुदुस्सहः। पश्य लक्ष्मण संरागः तिर्यग्योनिगतेष्वपि। यदेषा शिखिनी कामाद्भर्तारं रमतेऽन्तिके।।4.1.41।। Kishkindha Kanda,1,42,मामप्येवं विशालाक्षी जानकी जातसम्भ्रमा। मदनेनाभिवर्तेत यदि नाऽपहृता भवेत्।।4.1.42।। Kishkindha Kanda,1,43,पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे। पुष्पभारसमृद्धानां वनानां शिशिरात्यये।।4.1.43।। Kishkindha Kanda,1,44,रुचिराण्यपि पुष्पाणि पादपानामतिश्रिया। निष्फलानि महीं यान्ति समं मधुकरोत्करैः।।4.1.44।। Kishkindha Kanda,1,45,नदन्ति कामं शकुना मुदितास्सङ्घशः कलम्। आह्वयन्त इवान्योन्यं कामोन्मादकरा मम।।4.1.45।। Kishkindha Kanda,1,46,वसन्तो यदि तत्रापि यत्र मे वसति प्रिया। नूनं परवशा सीता सापि शोचत्यहं यथा।।4.1.46।। Kishkindha Kanda,1,47,नूनं न तु वसन्तोऽतं देशं स्पृशति यत्र सा। कथं ह्यसितपद्माक्षी वर्तयेत्सा मया विना।।4.1.47।। Kishkindha Kanda,1,48,अथवा वर्तते तत्र वसन्तो यत्र मे प्रिया। किं करिष्यति सुश्रोणी सा तु निर्भर्त्सिता परैः।।4.1.48।। Kishkindha Kanda,1,49,श्यामा पद्मपलाशाक्षी मृदुपूर्वाभिभाषिणी। नूनं वसन्तमासाद्य परित्यक्ष्यति जीवितम्।।4.1.49।। Kishkindha Kanda,1,50,दृढं हि हृदये बुद्धिर्मम सम्परिवर्तते। नालं वर्तयितुं सीता साध्वी मद्विरहं गता।।4.1.50।। Kishkindha Kanda,1,51,मयि भावस्तु वैदेह्यास्तत्त्वतो विनिवेशितः। ममापि भावस्सीतायां सर्वथा विनिवेशितः।।4.1.51।। Kishkindha Kanda,1,52,एष पुष्पवहो वायुस्सुखस्पर्शो हिमावहः। तां विचिन्तयतः कान्तां पावकप्रतिमो मम।।4.1.52।। Kishkindha Kanda,1,53,सदा सुखमहं मन्ये यं पुरा सह सीतया। मारुतस्स विना सीतां शोकं वर्धयते मम।।4.1.53।। Kishkindha Kanda,1,54,तां विना विहङ्गो यः पक्षी प्रणदितस्तदा। वायसः पादपगतः प्रहृष्टमभिनर्दति।।4.1.54।। Kishkindha Kanda,1,55,एष वै तत्र वैदेह्या विहगः प्रतिहारकः। पक्षी मां तु विशालाक्ष्यास्समीपमुपनेष्यति।।4.1.55।। Kishkindha Kanda,1,56,शृणु लक्ष्मण सन्नादं वने मद्विवर्धनम्। पुष्पिताग्रेषु वृक्षेषु द्विजानामुपकूजताम्।।4.1.56।। Kishkindha Kanda,1,57,विक्षिप्तां पवनेनैतामसौ तिलकमञ्जरीम्। षट्पदस्सहसाऽभ्येति मदोद्धूतामिव प्रियाम्।।4.1.57।। Kishkindha Kanda,1,58,कामिनामयमत्यन्तमशोकश्शोकवर्धनः। स्तबकैः पवनोत्क्षिप्तैस्तर्जयन्निव मां स्थितः।।4.1.58।। Kishkindha Kanda,1,59,अमी लक्ष्मण दृश्यन्ते चूताः कुसुमशालिनः। विभ्रमोत्सिक्तमनसः साङ्गरागा नरा इव।।4.1.59।। Kishkindha Kanda,1,60,सौमित्रे पश्य पम्पायाश्चित्रासु वनराजिषु। किन्नरा नरशार्दूल विचरन्ति ततस्ततः।।4.1.60।। Kishkindha Kanda,1,61,इमानि शुभगन्धीनि पश्य लक्ष्मण सर्वशः। नलिनानि प्रकाशन्ते जले तरुणसूर्यवत्।।4.1.61।। Kishkindha Kanda,1,62,एषा प्रसन्नसलिला पद्मनीलोत्पलायुता। हंसकारण्डवाकीर्णा पम्पा सौगन्धिकान्विता।।4.1.62।। Kishkindha Kanda,1,63,जले तरुणसूर्याभैष्षट्पदाहतकेसरैः। पङ्कजैश्शोभते पम्पा समन्तादभिसंवृता।।4.1.63।। Kishkindha Kanda,1,64,चक्रवाकयुता नित्यं चित्रप्रस्तवनान्तरा। मातङ्गमृगयूथैश्च शोभते सलिलार्थिभिः।।4.1.64।। Kishkindha Kanda,1,65,पवनाहतवेगाभिरूर्मिभिर्विमलेऽम्भसि। पङ्कजानि विराजन्ते ताड्यमानानि लक्ष्मण।।4.1.65।। Kishkindha Kanda,1,66,पद्मपत्रविशालाक्षीं सततं पङ्कजप्रियाम्। अपश्यतो मे वैदेहीं जीवितं नाभिरोचते।।4.1.66।। Kishkindha Kanda,1,67,अहो कामस्य वामत्वं यो गतामपि दुर्लभाम्। स्मारयिष्यति कल्याणीं कल्याणतरवादिनीम्।।4.1.67।। Kishkindha Kanda,1,68,शक्यो धारयितुं कामो भवेदभ्यागतो मया। यदि भूयो वसन्तो मां न हन्यात्पुष्पितद्रुमः।।4.1.68।। Kishkindha Kanda,1,69,यानि स्म रमणीयानि तया सह भवन्ति मे। तान्येवारमणीयानि जायन्ते मे तया विना।।4.1.69।। Kishkindha Kanda,1,70,पद्मकोशपलाशानि द्रष्टुं दृष्टिर्हि मन्यते। सीताया नेत्रकोशाभ्यां सदृशानीति लक्ष्मण।।4.1.70।। Kishkindha Kanda,1,71,पद्मकेसरसंसृष्टो वृक्षान्तरविनिस्सृतः। निश्श्वास इव सीताया वाति वायुर्मनोहरः।।4.1.71।। Kishkindha Kanda,1,72,सौमित्रे पश्य पम्पाया दक्षिणे गिरिसानुनि। पुष्पितां कर्णिकारस्य यष्टिं परमशोभनाम्।।4.1.72।। Kishkindha Kanda,1,73,अधिकं शैलराजोऽयं धातुभिः सुविभूषितः। विचित्रं सृजते रेणुं वायुवेगविघट्टितम्।।4.1.73।। Kishkindha Kanda,1,74,गिरिप्रस्थास्तु सौमित्रे सर्वतस्सम्प्रपुष्पितैः। निष्पत्रैस्सर्वतो रम्यैः प्रदीप्ता इव किंशुकैः।।4.1.74।। Kishkindha Kanda,1,75,पम्पातीररुहाश्चेमे संसक्ता मधुगन्धिनः। मालतीमल्लिकाषण्डाः करवीराश्च पुष्पिताः।।4.1.75।। Kishkindha Kanda,1,76,केतक्यस्सिन्दुवाराश्च वासन्त्यश्च सुपुष्पिताः। माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च सर्वशः।।4.1.76।। Kishkindha Kanda,1,77,चिरिबिल्वा मधूकाश्च वञ्जुला वकुलास्तथा। चम्पकास्तिलकाश्चैव नागवृक्षास्सुपुष्पिताः।।4.1.77।। नीपाश्च वरणाश्चैव खर्जूराश्च सुपुष्पिता। Kishkindha Kanda,1,78,पद्मकाश्चैव शोभन्ते नीलाशोकाश्च पुष्पिताः। लोध्राश्च गिरिपृष्ठेषु सिंहकेसरपिञ्जराः।।4.1.78।। Kishkindha Kanda,1,79,अङ्कोलाश्च कुरण्टाश्च चूर्णकाः पारिभद्रकाः। चूताः पाटलयश्चैव कोविदाराश्च पुष्पिताः।।4.1.79।। Kishkindha Kanda,1,80,मुचुकुन्दार्जुनाश्चैव दृश्यन्ते गिरिसानुषु। केतकोद्दालकाश्चैव शिरीषाः शिंशुपा धवाः।।4.1.80।। Kishkindha Kanda,1,81,शाल्मल्यः किंशुकाश्चैव रक्ताः कुरवकास्तथा।।4.1.81।। त्रिनिशा नक्तमालाश्च चन्दनास्स्यन्दनास्तथा। Kishkindha Kanda,1,8283,पुष्पितान्पुष्पिताग्राभिर्लताभिः परिवेष्टितान्। द्रुमान्पश्येह सौमित्रे पम्पाया रुचिरान्बहून्।।4.1.8283।। Kishkindha Kanda,1,84,वातविक्षिप्तविटपान्यथाऽसन्नान्द्रुमानिमान्। लतास्समनुवर्तन्ते मत्ता इव वरस्त्रियः।।4.1.84।। Kishkindha Kanda,1,85,पादपात्पादपं गच्छन् शैलाच्छैलं वनाद्वनम्। वाति नैकरसास्वादस्सम्मोदित इवानिलः।।4.1.85।। Kishkindha Kanda,1,86,केचित्पर्याप्तकुसुमाः पादपा मधुगन्धिनः। केचिन्मुकुलसंवीताः श्यामवर्णा इवाबभुः।।4.1.86।। Kishkindha Kanda,1,87,इदं मृष्टमिदं स्वादु प्रफुल्लमिदमित्यपि। रागयुक्तो मधुकरः कुसुमेष्वेव लीयते।।4.1.87।। Kishkindha Kanda,1,88,निलीय पुनरुत्पत्य सहसाऽन्यत्र गच्छति। मधुलुब्धो मधुकरः पम्पातीरद्रुमेष्वसौ।।4.1.88।। Kishkindha Kanda,1,89,इयं कुसुमसङ्घातैरुपस्तीर्णा सुखाकृता। स्वयं निपतितैर्भूमिश्शयनप्रस्तरैरिव।।4.1.89।। Kishkindha Kanda,1,90,विविधा विविधैः पुष्पैस्तैरेव नगसानुषु। विकीर्णै पीतरक्ताहि सौमित्रे प्रस्तराः कृताः।।4.1.90।। Kishkindha Kanda,1,91,हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसम्भवम्। पुष्पमासे हि तरवस्सङ्घर्षादिव पुष्पिताः।।4.1.91।। Kishkindha Kanda,1,92,आह्वयन्त इवान्योन्यं नगाष्षट्पदनादिताः। कुसुमोत्तंसविटपाश्शोभन्ते बहु लक्ष्मण।।4.1.92।। Kishkindha Kanda,1,93,एष कारण्डवः पक्षी विगाह्य सलिलं शुभम्। रमते कान्तया सार्धं काममुद्दीपयन्मम।।4.1.93।। Kishkindha Kanda,1,94,मन्दाकिन्यास्तु यदिदं रूपमेवं मनोहरम्। स्थाने जगति विख्याता गुणास्तस्या मनोरमाः।।4.1.94।। Kishkindha Kanda,1,95,यदि दृश्येत सा साध्वी यदि चेह वसेमहि। स्पृहयेयं न शक्राय नायोध्यायै रघूत्तम।।4.1.95।। Kishkindha Kanda,1,96,नह्येवं रमणीयेषु शाद्वलेषु तया सह। रमतो मे भवेच्चिन्ता न स्पृहाऽन्येषु वा भवेत्।।4.1.96।। Kishkindha Kanda,1,97,अमी हि विविधैः पुष्पैस्तरवो रुचिरच्छदाः। काननेऽऽस्मिन्विना कान्तां चिन्तामुत्पादयन्ति मे।।4.1.97।। Kishkindha Kanda,1,98,पश्य शीतजलां चेमां सौमित्रे पुष्करायुताम्। चक्रवाकानुचरितां कारण्डव निषेविताम्।।4.1.98।। Kishkindha Kanda,1,99,प्लवैः क्रौञ्चैश्च सम्पूर्णां महामृगनिषेविताम्। अधिकं शोभते पम्पा विकूजद्भिःर्विहङ्गमैः।।4.1.99।। Kishkindha Kanda,1,100,दीपयन्तीव मे कामं विविधा मुदिता द्विजाः। श्यामां चन्द्रमुखीं स्मृत्वा प्रियां पद्मनिभेक्षणाम्।।4.1.100।। Kishkindha Kanda,1,101,पश्य सानुषु चित्रेषु मृगीभिस्सहितान्मृगान्। मां पुनर्मृगशाबाक्ष्या वैदेह्या विरहीकृतम्।।4.1.101।। व्यथयन्तीव मे चित्तं सञ्चरन्तस्ततस्ततः। Kishkindha Kanda,1,102,अस्मिन्सानुनि रम्ये हि मत्तद्विजगणायुते। पश्येयं यदि तां कान्तां ततस्स्वस्ति भवेन्मम।।4.1.102।। Kishkindha Kanda,1,103,जीवेयं खलु सौमित्रे मया सह सुमध्यमा। सेवते यदि वैदेही पम्पायाः पवनं सुखम्।।4.1.103।। Kishkindha Kanda,1,104,पद्मसौगन्धिकवहं शिवं शोकविनाशनम्। धन्या लक्ष्मण सेवन्ते पम्पोपवनमारुतम्।।4.1.104।। Kishkindha Kanda,1,105,श्यामा पद्मपलाशाक्षी प्रिया विरहिता मया। कथं धारयति प्राणान्विवशा जनकात्मजा।।4.1.105।। Kishkindha Kanda,1,106,किन्नु वक्ष्यामि राजानं धर्मज्ञं सत्यवादिनम्। सीताया जनकं पृष्टः कुशलं जनसंसदि।।4.1.106।। Kishkindha Kanda,1,107,या मामनुगता मन्दं पित्रा प्रव्राजितं वनम्। सीता सत्पथमास्थाय क्व नु सा वर्तते प्रिया।।4.1.107।। Kishkindha Kanda,1,108,तया विहीनः कृपणः कथं लक्ष्मण धारये। या मामनुगता राज्याद्भ्रष्टं विगतचेतसम्।।4.1.108।। Kishkindha Kanda,1,109,तच्चार्वञ्चितपद्माक्षं सुगन्धि शुभमव्रणम्। अपश्यतो मुखं तस्यास्सीदतीव मनो मम।।4.1.109।। Kishkindha Kanda,1,110,स्मितहास्यान्तरयुतं गुणवन्मधुरं हितम्। वैदेह्या वाक्यमतुलं कदा श्रोष्यामि लक्ष्मण।।4.1.110।। Kishkindha Kanda,1,111,प्राप्य दुखं वने श्यामा मां मन्मथविकर्शितम्। नष्टदुःखेव हृष्टेव साध्वी साध्वभ्यभाषत।।4.1.111।। Kishkindha Kanda,1,112,किं नु वक्ष्यामि कौसल्यामयोध्यायां नृपात्मज। क्व सा स्नुषेति पृच्छन्तीं कथं चापि तु मनस्विनीम्।।4.1.112।। Kishkindha Kanda,1,113,गच्छ लक्ष्मण पश्य त्वं भरतं भ्रातृवत्सलम्। न ह्यहं जीवितु शक्तस्तामृते जनकात्मजाम्।।4.1.113।। Kishkindha Kanda,1,114,इति रामं महात्मानं विलपन्तमनाथवत्। उवाच लक्ष्मणो भ्राता वचनं युक्तमव्ययम्।।4.1.114।। Kishkindha Kanda,1,115,संस्तम्भ राम भद्रं ते मा शुचः पुरुषोत्तम। नेदृशानां मतिर्मन्दा भवत्यकलुषात्मनाम्।।4.1.115।। Kishkindha Kanda,1,116,स्मृत्वा वियोगजं दुःखं त्यज स्नेहं प्रिये जने। अतिस्नेहपरिष्वङ्गाद्वर्तिरार्द्रापि दह्यते।।4.1.116।। Kishkindha Kanda,1,117,यदि गच्छति पातालं ततोऽभ्यधिकमेव वा। सर्वथा रावणस्तावन्न भविष्यति राघव।।4.1.117।। Kishkindha Kanda,1,118,प्रवृत्तिर्लभ्यतां तावत्तस्य पापस्य रक्षसः। ततो हास्यति वा सीतां निधनं वा गमिष्यति।।4.1.118।। Kishkindha Kanda,1,119,यदि यातिदितेर्गर्भं रावणस्सह सीतया। तत्राप्येनं हनिष्यामि न चेद्दास्यति मैथिलीम्।।4.1.119।। Kishkindha Kanda,1,120,स्वास्थ्यं भद्रं भजस्वार्य त्यज्यतां कृपणा मतिः। अर्थो हि नष्टकार्यार्थैर्नायत्नेनाधिगम्यते।।4.1.120।। Kishkindha Kanda,1,121,उत्साहो बलवानार्य नास्त्युत्साहात्परं बलम्। सोत्साहस्यास्ति लोकेऽस्मिन् न किञ्चिदपि दुर्लभम्।।4.1.121।। Kishkindha Kanda,1,122,उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु। उत्साहमात्रमाश्रित्य सीतां प्रतिलभेमहि।।4.1.122।। Kishkindha Kanda,1,123,त्यज्यतां कामवृत्तत्वं शोकं सन्न्यस्य पृष्ठतः। महात्मानं कृतात्मानमात्मानं नावबुध्यसे।।4.1.123।। Kishkindha Kanda,1,124,एवं सम्बोधितस्तत्र शोकोपहतचेतनः। त्यज्य शोकञ्च मोहञ्च ततो धैर्यमुपागमत्।।4.1.124।। Kishkindha Kanda,1,125,सोऽभ्यतिक्रामदव्यग्रस्तामचिन्त्यपराक्रमः। रामः पम्पां सुरुचिरां रम्यपारिप्लवद्रुमाम्।।4.1.125।। Kishkindha Kanda,1,126,निरीक्षमाणस्सहसा महात्मा सर्वं वनं निर्झरकन्दराश्च। उद्विग्नचेतास्सह लक्ष्मणेन विचार्य दुःखोपहतः प्रतस्थे।।4.1.126।। Kishkindha Kanda,1,127,तं मत्तमातङ्गविलासगामी गच्छन्तमव्यग्रमना महात्मा। स लक्ष्मणो राघवमप्रमत्तो ररक्ष धर्मेण बलेन चैव।।4.1.127।। Kishkindha Kanda,1,128,तावृष्यमूकस्य समीपचारी चरन्ददर्शाद्भुतदर्शनीयौ। शाखामृगाणामधिपस्तरस्वी वितत्रसे नैव चिचेष्ट किञ्चित्।।4.1.128।। Kishkindha Kanda,1,129,स तौ महात्मा गजमन्दगामी शाखामृगस्तत्र चरञ्चरन्तौ। दृष्ट्वा विषादं परमं जगाम चिन्तापरीतो भयभारमग्नः।।4.1.129।। Kishkindha Kanda,1,130,तमाश्रमं पुण्यसुखं शरण्यं सदैव शाखामृगसेवितान्तम्। त्रस्ताश्च दृष्ट्वा हरयोऽभिजग्मुर्महौजसौ राघवलक्ष्मणौ तौ।।4.1.130।। Kishkindha Kanda,2,1,तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ। वरायुधधरौ वीरौ सुग्रीवश्शङ्कितोऽभवत्4.2.1।। Kishkindha Kanda,2,2,उद्विग्नहृदयस्सर्वा दिशस्समवलोकयन्। न व्यतिष्ठत कस्मिंश्चिद्देशे वानरपुङ्गवः। 4.2.2।। Kishkindha Kanda,2,3,नैव चक्रे मनः स्थातुं वीक्षमाणो महाबलौ। कपेः परमभीतस्य चित्तं व्यवससाद ह4.2.3।। Kishkindha Kanda,2,4,चिन्तयित्वा स धर्मात्मा विमृश्य गुरुलाघवम्। सुग्रीवः परमोद्विग्नस्सर्वैरनुचरैस्सह4.2.4।। Kishkindha Kanda,2,5,ततस्स सचिवेभ्यस्तु सुग्रीवः प्लवगाधिपः। शशंस परमोद्विग्नः पश्यंस्तौ रामलक्ष्मणौ4.2.5।। Kishkindha Kanda,2,6,एतौ वनमिदं दुर्गं वालिप्रणिहितौ ध्रुवम्। छद्मना चीरवसनौ प्रचरन्ताविहागतौ4.2.6।। Kishkindha Kanda,2,7,ततस्सुग्रीवसचिवा दृष्ट्वा परमधन्विनौ। जग्मुर्गिरितटात्तस्मादन्यच्छिखरमुत्तमम्4.2.7।। Kishkindha Kanda,2,8,ते क्षिप्रमधिगम्याथ यूथपा यूथपर्षभम्। हरयो वानरश्रेष्ठं परिवार्योपतस्थिरे4.2.8।। Kishkindha Kanda,2,9,एकमेकायनगताः प्लवमाना गिरेर्गिरिम्। प्रकम्पयन्तो वेगेन गिरीणां शिखराण्यपि4.2.9।। Kishkindha Kanda,2,10,ततश्शाखामृगास्सर्वे प्लवमाना महाबलाः। बभञ्जुश्च नगांस्तत्र पुष्पितान्दुर्गसंश्रितान्4.2.10।। Kishkindha Kanda,2,11,आप्लवन्तो हरिवरास्सर्वतस्तं महागिरिम्। मृगमार्जारशार्दूलांस्त्रासयन्तो ययुस्तदा4.2.11।। Kishkindha Kanda,2,12,ततस्सुग्रीवसचिवाः पर्वतेन्द्रं समाश्रिताः। सङ्गम्य कपिमुख्येन सर्वे प्राञ्जलय स्थिताः।।4.2.12।। Kishkindha Kanda,2,13,ततस्तं भयसंविग्नं वालिकिल्बिषशङ्कितम्। उवाच हनुमान्वाक्यं सुग्रीवं वाक्यकोविदः4.2.13।। Kishkindha Kanda,2,14,सम्भ्रमस्त्यज्यतामेष सर्वैर्वालिकृते महान्। मलयोऽयं गिरिवरो भयं नेहास्ति वालिनः4.2.14।। Kishkindha Kanda,2,15,यस्मादुद्विग्नचेतास्त्वं प्रद्रुतो हरिपुङ्गव। तं क्रूरदर्शनं क्रूरं नेह पश्यामि वालिनम्4.2.15।। Kishkindha Kanda,2,16,यस्मात्तव भयं सौम्य पूर्वजात्पापकर्मणः। स नेह वाली दुष्टात्मा न ते पश्याम्यहं भयम्4.2.16।। Kishkindha Kanda,2,17,अहो शाखामृगत्वं ते व्यक्तमेव प्लवङ्गम। लघुचित्ततयाऽत्मानं न स्थापयसि यो मतौ4.2.17।। Kishkindha Kanda,2,18,बुद्धिविज्ञानसम्पन्न इङ्गितैस्सर्वमाचर। न ह्यबुद्धिं गतो राजा सर्वभूतानि शास्ति हि4.2.18।। Kishkindha Kanda,2,19,सुग्रीवस्तु शुभं वाक्यं श्रुत्वा सर्वं हनूमतः। ततश्शुभतरं वाक्यं हनूमन्तमुवाच ह4.2.19।। Kishkindha Kanda,2,20,दीर्घबाहू विशालाक्षौ शरचापासिधारिणौ। कस्य न स्याद्भयं दृष्ट्वा ह्येतौ सुरसुतोपमौ4.2.20।। Kishkindha Kanda,2,21,वालिप्रणिहितावेतौ शङ्केऽहं पुरुषोत्तमौ। राजानो बहुमित्राश्च विश्वासो नात्र हि क्षमः4.2.21।। Kishkindha Kanda,2,22,अरयश्च मनुष्येण विज्ञेयाश्छद्मचारिणः। विश्वस्तानामविश्वस्तारन्ध्रेषु प्रहरन्ति हि4.2.22।। Kishkindha Kanda,2,23,कृत्येषु वाली मेधावी राजानो बहुदर्शिनः। भवन्ति परहन्तारस्ते ज्ञेयाः प्राकृतैर्नरैः4.2.23।। Kishkindha Kanda,2,24,तौ त्वया प्राकृतेनैव गत्वा ज्ञेयौ प्लवङ्गम। इङ्गितानां प्रकारैश्च रूपव्याभाषणेन च4.2.24।। Kishkindha Kanda,2,25,लक्षयस्व तयोर्भावं प्रहृष्टमनसौ यदि। विश्वासयन्प्रशंसाभिरिङ्गितैश्च पुनः पुनः4.2.25।। ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुङ्गव । प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ4.2.26।। Kishkindha Kanda,2,26,लक्षयस्व तयोर्भावं प्रहृष्टमनसौ यदि। विश्वासयन्प्रशंसाभिरिङ्गितैश्च पुनः पुनः4.2.25।। ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुङ्गव । प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ4.2.26।। Kishkindha Kanda,2,27,शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं प्लवङ्गम। व्याभाषितैर्वा विज्ञेया स्याद्दुष्टाऽदुष्टता तयोः4.2.27।। Kishkindha Kanda,2,28,इत्येवं कपिराजेन सन्दिष्टो मारुतात्मजः। चकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ4.2.28।। Kishkindha Kanda,2,29,तथेति सम्पूज्य वचस्तु तस्य तत्कपेस्सुभीमस्य दुरासदस्य च। महानुभावो हनुमान्ययौ तदा स यत्र रामोऽतिबलश्च लक्ष्मणः4.2.29।। Kishkindha Kanda,3,1,वचो विज्ञाय हनुमान् सुग्रीवस्य महात्मनः। पर्वतादृश्यमूकात्तु पुप्लुवे यत्र राघवौ।।4.3.1।। Kishkindha Kanda,3,2,कपिरूपं परित्यज्य हनुमान्मारुतात्मजः। भिक्षुरूपं ततो भेजे शठबुद्धितया कपिः4.3.2।। Kishkindha Kanda,3,3,ततस्स हनुमान्वाचा श्लक्ष्णया सुमनोज्ञया। विनीतवदुपागम्य राघवौ प्रणिपत्य च।।4.3.3।। आबभाषे तदा वीरौ यथावत्प्रशशंस च। Kishkindha Kanda,3,4,सम्पूज्य विधिवद्वीरौ हनुमान्मारुतात्मजः। उवाच कामतो वाक्यं मृदु सत्यपराक्रमौ4.3.4।। Kishkindha Kanda,3,5,राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ। देशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ4.3.5।। त्रासयन्तौ मृगगणानन्यांश्च वनचारिणः4.3.6।। Kishkindha Kanda,3,6,राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ। देशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ4.3.5।। त्रासयन्तौ मृगगणानन्यांश्च वनचारिणः4.3.6।। Kishkindha Kanda,3,7,पम्पातीररुहान्वृक्षान् वीक्षमाणौ समन्ततः। इमां नदीं शुभजलां शोभयन्तौ तपस्विनौ4.3.7।। धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवाससौ। निःश्वसन्तौ वरभुजौ पीडयन्ताविमाः प्रजा:4.3.8।। Kishkindha Kanda,3,8,पम्पातीररुहान्वृक्षान् वीक्षमाणौ समन्ततः। इमां नदीं शुभजलां शोभयन्तौ तपस्विनौ4.3.7।। धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवाससौ। निःश्वसन्तौ वरभुजौ पीडयन्ताविमाः प्रजा:4.3.8।। Kishkindha Kanda,3,9,सिंहविप्रेक्षितौ वीरौ महाबलविक्रमौ। शक्रचापनिभे चापे गृहीत्वा शत्रुसूदनौ4.3.9।। श्रीमन्तौ रूपसम्पन्नौ वृषभश्रेष्ठविक्रमौ। हस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ4.3.10।। Kishkindha Kanda,3,10,सिंहविप्रेक्षितौ वीरौ महाबलविक्रमौ। शक्रचापनिभे चापे गृहीत्वा शत्रुसूदनौ4.3.9।। श्रीमन्तौ रूपसम्पन्नौ वृषभश्रेष्ठविक्रमौ। हस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ4.3.10।। Kishkindha Kanda,3,11,प्रभया पर्वतेन्द्रोऽयं युवयोरवभासितः। राज्यार्हावमरप्रख्यौ कथं देशमिहागतौ4.3.11।। Kishkindha Kanda,3,12,पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ। अन्योन्यसदृशौ वीरौ देवलोकादिवागतौ4.3.12।। यदृच्छयेव सम्प्राप्तौ चन्द्रसूर्यौ वसुन्धराम्। विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ4.3.13।। सिंहस्कन्धौ महोत्साहौ समदाविव गोवृषौ। Kishkindha Kanda,3,13,पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ। अन्योन्यसदृशौ वीरौ देवलोकादिवागतौ4.3.12।। यदृच्छयेव सम्प्राप्तौ चन्द्रसूर्यौ वसुन्धराम्। विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ4.3.13।। सिंहस्कन्धौ महोत्साहौ समदाविव गोवृषौ। Kishkindha Kanda,3,14,आयताश्च सुवृत्ताश्च बाहवः परिघोपमाः। सर्वभूषणभूषार्हाः किमर्थं न विभूषिताः4.3.14।। Kishkindha Kanda,3,15,उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम्। ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम्4.3.15।। Kishkindha Kanda,3,16,इमे च धनुषी चित्रे श्लष्णे चित्रानुलेपने। प्रकाशेते यथेन्द्रस्य वज्रे हेमविभूषिते4.3.16।। Kishkindha Kanda,3,17,सम्पूर्णा निशितैर्बाणै स्तूणाश्च शुभदर्शनाः4.3.17।। जीवितान्तकरैर्घोरै श्श्वसद्भिरिव पन्नगैः।। Kishkindha Kanda,3,18,महाप्रमाणौ विस्तीर्णौ तप्तहाटकभूषितौ4.3.18।। खडगावेतौ विराजेते निर्मुक्ताविवपन्नगौ।। Kishkindha Kanda,3,19,एवं मां परिभाषन्तं कस्माद्वै नाभिभाषथः4.3.19।। सुग्रीवो नाम धर्मात्मा कश्चिद्वानरयूथपः। वीरो विनिकृतो भ्रात्रा जगद्भ्रमति दुःखितः4.3.20।। Kishkindha Kanda,3,20,एवं मां परिभाषन्तं कस्माद्वै नाभिभाषथः4.3.19।। सुग्रीवो नाम धर्मात्मा कश्चिद्वानरयूथपः। वीरो विनिकृतो भ्रात्रा जगद्भ्रमति दुःखितः4.3.20।। Kishkindha Kanda,3,21,प्राप्तोऽहं प्रेषितस्तेन सुग्रीवेण महात्मना। राज्ञा वानरमुख्यानां हनुमान्नाम वानरः4.3.21।। Kishkindha Kanda,3,22,युवाभ्यां सह धर्मात्मा सुग्रीवस्सख्यमिच्छति। तस्य मां सचिवं वित्तं वानरं पवनात्मजम्4.3.22।। भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रियकाम्यया। ऋष्यमूकादिह प्राप्तं कामगं कामरूपिणम्4.3.23।। Kishkindha Kanda,3,23,युवाभ्यां सह धर्मात्मा सुग्रीवस्सख्यमिच्छति। तस्य मां सचिवं वित्तं वानरं पवनात्मजम्4.3.22।। भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रियकाम्यया। ऋष्यमूकादिह प्राप्तं कामगं कामरूपिणम्4.3.23।। Kishkindha Kanda,3,24,एवमुक्त्वा तु हनुमांस्तौ वीरौ रामलक्ष्मणौ। वाक्यज्ञौ वाक्यकुशलः पुनर्नोवाच किञ्चन4.3.24।। Kishkindha Kanda,3,25,एतच्छ्रुत्वा वचन्तस्य रामो लक्ष्मणमब्रवीत्। प्रहृष्टवदनश्श्रीमान्भ्रातरं पार्श्वतः स्थितम्4.3.25।। Kishkindha Kanda,3,26,सचिवोऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः। तमेव काङ्क्षमाणस्य ममान्तिकमुपागतः4.3.26।। Kishkindha Kanda,3,27,तमभ्यभाष सौमित्रे सुग्रीवसचिवं कपिम्। वाक्यज्ञं मधुरैर्वाक्यैस्स्नेहयुक्तमरिन्दम।।4.3.27।। Kishkindha Kanda,3,28,नानृग्वेदविनीतस्य नायजुर्वेद्धारिणः। नासामवेदविदुषश्शक्यमेवं विभाषितुम्4.3.28।। Kishkindha Kanda,3,29,नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम्। बहु व्याहरताऽनेन न किञ्चिदपशब्दितम्4.3.29।। Kishkindha Kanda,3,30,न मुखे नेत्रयोर्वापि ललाटे च भ्रुवोस्तथा। अन्येष्वपि च गात्रेषु दोषस्संविदितः क्वचित्4.3.30।। Kishkindha Kanda,3,31,अविस्तरमसन्दिग्धमविलम्बितमद्रुतम्। उरस्थं कण्ठगं वाक्यं वर्तते मध्यमे स्वरे4.3.31।। Kishkindha Kanda,3,32,संस्कारक्रमसम्पन्नामद्रुतामविलम्बिताम्। उच्चारयति कल्याणीं वाचं हृदयहारिणीम्4.3.32।। Kishkindha Kanda,3,33,अनया चित्रया वाचा त्रिस्थानव्यञ्जनस्थया। कस्य नाराध्यते चित्तमुद्यतासेररेरपि4.3.33।। Kishkindha Kanda,3,34,एवं विधो यस्य दूतो न भवेत्पार्थिवस्य तु। सिद्ध्यन्ति हि कथं तस्य कार्याणां गतियोऽनघ4.3.34।। Kishkindha Kanda,3,35,एवं गुणगणैर्युक्ता यस्य स्युः कार्यसाधकाः। तस्य सिध्यन्ति सर्वाऽर्था दूतवाक्यप्रचोदिताः4.3.35।। Kishkindha Kanda,3,36,एवमुक्तस्तु सौमित्रिस्सुग्रीवसचिवं कपिम्। अभ्यभाषत वाक्यज्ञो वाक्यज्ञं पवनात्मजम्4.3.36।। Kishkindha Kanda,3,37,विदितौ नौ गुणा विद्वंत्सुग्रीवस्य महात्मनः। तमेव चाऽवां मार्गावस्सुग्रीवं प्लवगेश्वरम्4.3.37।। Kishkindha Kanda,3,38,यथा ब्रवीषि हनुमान्सुग्रीववचनादिह। तत्तथा हि करिष्यावो वचनात्तव सत्तम4.3.38।। Kishkindha Kanda,3,39,तत्तस्य वाक्यं निपुणं निशम्य प्रहृष्टरूपः पवनात्मजः कपिः। मनस्समाधाय जयोपपत्तौ सख्यं तदा कर्तुमियेष ताभ्याम्4.3.39।। Kishkindha Kanda,4,1,ततः प्रहृष्टौ हनुमान्कृत्यवानिति तद्वचः। श्रुत्वा मधुरसम्भाषं सुग्रीवं मनसा गतः4.4.1।। Kishkindha Kanda,4,2,भव्यो राज्यागमस्तस्य सुग्रीवस्य महात्मनः। यदयं कृत्यवान्प्राप्तः कृत्यं चैतदुपागतम्4.4.2।। Kishkindha Kanda,4,3,ततः परमसंहृष्टो हनुमान् प्लवगर्षभः। प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः4.4.3।। Kishkindha Kanda,4,4,किमिर्थं त्वं वनं घोरं पम्पाकाननमण्डितम्। आगतस्सानुजो दुर्गं नानाव्याळमृगायुतम्4.4.4।। Kishkindha Kanda,4,5,तस्य तद्वचनं श्रुत्वा लक्ष्मणो रामचोदितः। आचचक्षे महात्मानं रामं दशरथात्मजम्4.4.5।। Kishkindha Kanda,4,6,राजा दशरथो नाम द्युतिमान्धर्मवत्सलः। चातुर्वर्ण्यं स्वधर्मेण नित्यमेवाभ्यपालयत्4.4.6।। Kishkindha Kanda,4,7,न द्वेष्टा विद्यते तस्य न च स द्वेष्टि कञ्चन। स च सर्वेषु भूतेषु पितामह इवापरः4.4.7।। अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः। Kishkindha Kanda,4,8,तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः।।4.4.8।। शरण्यस्सर्वभूतानां पितुर्निर्देशपारगः। Kishkindha Kanda,4,9,वीरो दशरथस्यायं पुत्राणां गुणवत्तमः।।4.4.9।। राजलक्षणसम्पन्नस्सम्युक्तो राजसम्पदा। राज्याद्भ्रष्टो वने वस्तुं मया सार्धमिहागतः4.4.10।। Kishkindha Kanda,4,11,भार्यया च महातेजास्सीतयाऽनुगतो वशी। दिनक्षये महातेजाः प्रभयेव दिवाकरः4.4.11।। Kishkindha Kanda,4,12,अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः। कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः4.4.12।। Kishkindha Kanda,4,13,सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः। ऐश्वर्येण च हीनस्य वनवासाश्रितस्य च4.4.13।। रक्षसाऽपहृता भार्या रहिते कामरूपिणा। तच्च न ज्ञायते रक्षः पत्नी येनास्य सा हृता4.4.14।। Kishkindha Kanda,4,14,सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः। ऐश्वर्येण च हीनस्य वनवासाश्रितस्य च4.4.13।। रक्षसाऽपहृता भार्या रहिते कामरूपिणा। तच्च न ज्ञायते रक्षः पत्नी येनास्य सा हृता4.4.14।। Kishkindha Kanda,4,15,दनुर्नाम दितेः पुत्रश्शापाद्राक्षसतां गतः। आख्यातस्तेन सुग्रीवस्समर्थो वानरर्षभः4.4.15।। Kishkindha Kanda,4,16,स ज्ञास्यति महावीर्यस्तव भार्यापहारिणम्। एवमुक्त्वा दनुस्स्वर्गं भ्राजमानो गतस्सुखम्4.4.16।। Kishkindha Kanda,4,17,एतत्ते सर्वमाख्यातं यथा तथ्येन पृच्छतः। अहं चैव हि रामश्च सुग्रीवं शरणं गतौ4.4.17।। Kishkindha Kanda,4,18,एष दत्त्वा च वित्तानि प्राप्य चानुत्तमं यशः। लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति4.4.18।। Kishkindha Kanda,4,19,पिता यस्य पुरा ह्यासीच्छरण्यो धर्मवत्सलः। तस्य पुत्रश्शरण्यश्च सुग्रीवं शरणं गतः4.4.19।। Kishkindha Kanda,4,20,सर्वलोकस्य धर्मात्मा शरण्यश्शरणं पुरा। गुरुर्मे राघवस्सोऽयं सुग्रीवं शरणं गतः4.4.20।। Kishkindha Kanda,4,21,यस्य प्रसादे सततं प्रसीदेयुरिमाः प्रजाः। स रामो वानरेन्द्रस्य प्रसादमभिकाङ्क्षते। 4.4.21।। Kishkindha Kanda,4,22,येन सर्वगुणोपेताः पृथिव्यां सर्वपार्थिवाः। मानितास्सततं राज्ञा सदा दशरथेन वै4.4.22 तस्यायं पूर्वजः पुत्रस्त्रिषु लोकेषु विश्रुतः। सुग्रीवं वानरेन्द्रं तु रामश्शरणमागतः4.4.23।। Kishkindha Kanda,4,23,येन सर्वगुणोपेताः पृथिव्यां सर्वपार्थिवाः। मानितास्सततं राज्ञा सदा दशरथेन वै4.4.22 तस्यायं पूर्वजः पुत्रस्त्रिषु लोकेषु विश्रुतः। सुग्रीवं वानरेन्द्रं तु रामश्शरणमागतः4.4.23।। Kishkindha Kanda,4,24,शोकाभिभूते रामे तु शोकार्ते शरणं गते। कर्तुमर्हति सुग्रीवः प्रसादं हरियूधपः4.4.24।। Kishkindha Kanda,4,25,एवं ब्रुवाणं सौमित्रिं करुणं साश्रुलोचनम्। हनुमान्प्रत्युवाचेदं वाक्यं वाक्यविशारदः4.4.25।। Kishkindha Kanda,4,26,ईदृशा बुद्धिसम्पन्ना जितक्रोधा जितेन्द्रियाः। द्रष्टव्या वानरेन्द्रेण दिष्ट्या दर्शनमागताः4.4.26।। Kishkindha Kanda,4,27,स हि राज्यात्परिभ्रष्टः कृतवैरश्च वालिना। हृतदारो वने त्यक्तो भ्रात्रा विनिकृतो भृशम्4.4.27।। Kishkindha Kanda,4,28,करिष्यति स साहाय्यं युवयोर्भास्करात्मजः। सुग्रीवस्सह चास्माभि स्सीतायाः परिमार्गणे4.4.28।। Kishkindha Kanda,4,29,इत्येवमुक्त्वा हनुमान् श्लक्ष्णं मधुरया गिरा। बभाषे सोऽभिगच्छेम सुग्रीवमिति राघवम्4.4.29।। Kishkindha Kanda,4,30,एवं ब्रुवाणं धर्मात्मा हनुमन्तं स लक्ष्मणः। प्रतिपूज्य यथान्यायमिदं प्रोवाच राघवम्4.4.30।। Kishkindha Kanda,4,31,कपिः कथयते हृष्टो यथाऽयं मारुतात्मजः। कृत्यवांत्सोऽपि सम्प्राप्तः कृतकृत्योऽसि राघव4.4.31।। Kishkindha Kanda,4,32,प्रसन्नमुखवर्णश्च व्यक्तं हृष्टश्च भाषते। नानृतं वक्ष्यते वीरो हनुमान्मारुतात्मजः4.4.32।। Kishkindha Kanda,4,33,ततस्स तु महाप्राज्ञो हनुमान्मारुतात्मजः। जगामादाय तौ वीरौ हरिराजाय राघवौ4.4.33।। Kishkindha Kanda,4,34,भिक्षुरूपं परित्यज्य वानरं रूपमास्थितः। पृष्ठमारोप्य तौ वीरौ जगाम कपिकुञ्जरः4.4.34।। Kishkindha Kanda,4,35,स तु विपुलयशाः कपिप्रवीरः पवनसुतः कृतकृत्यवत्प्रहृष्टः। गिरिवरमुरुविक्रमः प्रयात स्स शुभमतिस्सह रामलक्ष्मणाभ्याम्4.4.35।। Kishkindha Kanda,5,1,ऋश्यमूकात्तु हनुमान्गत्वा तु मलयं गिरिम्। आचचक्षे तदा वीरौ कपिराजाय राघवौ4.5.1।। Kishkindha Kanda,5,2,अयं रामो महाप्राज्ञ स्सम्प्राप्तो दृढविक्रमः। लक्ष्मणेन सह भ्रात्रा रामोऽयं सत्यविक्रमः4.5.2।। Kishkindha Kanda,5,3,इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः। धर्मे निगदितश्चैव पितुर्निर्देशपारगः4.5.3।। Kishkindha Kanda,5,4,तस्यास्य वसतोऽरण्ये नियतस्य महात्मनः। रावणेन हृता भार्या स त्वां शरणमागतः4.5.4।। Kishkindha Kanda,5,5,राजसूयाश्वमेधैश्च वह्निर्येनाभितर्पितः। दक्षिणाश्च तथोत्सृष्टा गावश्शतसहस्रशः4.5.5।। तपसा सत्यवाक्येन वसुधा येन पालिता। स्त्री हेतोस्तस्य पुत्रोऽयं रामस्त्वां शरणं गतः4.5.6।। Kishkindha Kanda,5,6,राजसूयाश्वमेधैश्च वह्निर्येनाभितर्पितः। दक्षिणाश्च तथोत्सृष्टा गावश्शतसहस्रशः4.5.5।। तपसा सत्यवाक्येन वसुधा येन पालिता। स्त्री हेतोस्तस्य पुत्रोऽयं रामस्त्वां शरणं गतः4.5.6।। Kishkindha Kanda,5,7,भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ। प्रतिगृह्यार्चयस्वैतौ पूजनीयतमावुभौ4.5.7।। Kishkindha Kanda,5,8,श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्टमानसः। भयं चराघवाद्घोरं प्रजहौ विगतज्वरः।।4.5.8।। सकृत्वा मानुषं रूपं सुग्रीवः प्लवगर्षभः। दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम्4.5.9।। Kishkindha Kanda,5,10,भवान्धर्मविनीतश्च विक्रान्तस्सर्ववत्सलः। आख्याता वायुपुत्रेण तत्त्वतो मे भवद्गुणाः4.5.10।। Kishkindha Kanda,5,11,तन्ममैवैष सत्कारो लाभश्चैवोत्तमः प्रभो। यत्त्वमिच्छसि सौहार्दं वानरेण मया सह4.5.11।। Kishkindha Kanda,5,12,रोचते यदि वा सख्यं बाहुरेष प्रसारितः। गृह्यतां पाणिना पाणिर्मर्यादा बध्यतां ध्रुवा4.5.12।। Kishkindha Kanda,5,13,एतत्तु वचनं श्रुत्वा सुग्रीवेण सुभाषितम्। सम्प्रहृष्टमना हस्तं पीडयामास पाणिना4.5.13।। हृद्यं सौहृदमालम्ब्यपर्यष्वजत पीडितम्। Kishkindha Kanda,5,14,ततो हनूमान्सन्त्यज्य भिक्षुरूपमरिन्दमः।।4.5.14।। काष्ठयोस्स्वेन रूपेण जनयामास पावकम्। दीप्यमानं ततो वह्निं ह्निं पुष्पैरभ्यर्च्य सत्कृतम्4.5.15।। तयोर्मध्येऽथ सुप्रीतो निदधे सुसमाहितः। Kishkindha Kanda,5,16,ततोऽग्निं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम्।।4.5.16।। सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ। Kishkindha Kanda,5,17,ततस्सुप्रीतमनसौ तावुभौ हरिराघवौ4.5.17।। अन्योन्यमभिवीक्षन्तौ न तृप्तिमुपजग्मतुः। Kishkindha Kanda,5,18,त्वं वयस्योऽसि मे हृद्यो ह्येकं दुःखं सुखं च नौ4.5.18।। सुग्रीवो राघवं वाक्यमित्युवाच प्रहृष्टवत्। Kishkindha Kanda,5,19,ततस्सुपर्णबहुलां छित्वा शाखां सुपुष्पिताम्4.5.19।। सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः। Kishkindha Kanda,5,20,लक्ष्मणायाथ संहृष्टो हनूमान् प्लवगर्षभः4.5.20।। शाखां चन्दनवृक्षस्य ददौ परमपुष्पिताम्। Kishkindha Kanda,5,21,ततः प्रहृष्टस्सुग्रीवः श्लक्ष्णं मधुरया गिरा4.5.21।। प्रत्युवाच तदा रामं हर्षव्याकुललोचनः। Kishkindha Kanda,5,22,अहं विनिकृतो राम चरामीह भयार्दितः4.5.22।। हृतभार्यो वने त्रस्तो दुर्गमेतदुपाश्रितः। Kishkindha Kanda,5,23,सोऽहं त्रस्तो वने भीतो वसाम्युद्भ्रान्तचेतनः4.5.23।। वालिना निकृतो भ्रात्रा कृतवैरश्च राघव। Kishkindha Kanda,5,24,वालिनो मे महाभाग भयार्तस्याभयं कुरु4.5.24।। कर्तुमर्हसि काकुत्स्थ भयं मे न भवेद्यथा। Kishkindha Kanda,5,25,एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः4.5.25।। प्रत्यभाषत काकुत्स्थ: सुग्रीवं प्रहसन्निव। Kishkindha Kanda,5,26,उपकारफलं मित्रं विदितं मे महाकपे4.5.26।। वालिनं तं वधिष्यामि तव भार्यापहारिणम्। Kishkindha Kanda,5,27,अमोघास्सूर्यसङ्काशा ममैते निशिताश्शराः4.5.27।। तस्मिन्वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः। कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसन्निभाः4.5.28।। तीक्ष्णाग्रा ऋजुपर्वाणस्सरोषा भुजगा इव। Kishkindha Kanda,5,28,अमोघास्सूर्यसङ्काशा ममैते निशिताश्शराः4.5.27।। तस्मिन्वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः। कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसन्निभाः4.5.28।। तीक्ष्णाग्रा ऋजुपर्वाणस्सरोषा भुजगा इव। Kishkindha Kanda,5,29,तमद्य वालिनं पश्य तीक्ष्णैराशीविषोपमैः4.5.29।। शरैर्विनिहतं भूमौ विकीर्णमिव पर्वतम्। Kishkindha Kanda,5,30,स तु तद्वचनं श्रुत्वा राघवस्यात्मनो हितम्4.5.30।। सुग्रीवः परमप्रीतस्सुमहद्वाक्यमब्रवीत्। Kishkindha Kanda,5,31,तव प्रसादेन नृसिंह राघव प्रियां च राज्यं च समाप्नुयामहम्। तथा कुरु त्वं नरदेव वैरिणं यथा निहंस्यद्य रिपुंममाग्रजम्4.5.31।। Kishkindha Kanda,5,32,सीता कपीन्द्रक्षणदाचराणां राजीवहेमज्वलनोपमानि। सुग्रीवरामप्रणयप्रसङ्गे वामानि नेत्राणि समं स्फुरन्ति4.5.32।। Kishkindha Kanda,6,1,पुनरेवाब्रवीत्प्रीतो राघवं रघुनन्दनम्। अयमाख्याति मे राम सचिवो मन्त्रिसत्तमः4.6.1।। हनुमान्यन्निमित्तं त्वं निर्जनं वनमागतः। लक्ष्मणेन सह भ्रात्रा वसतश्च वने तव4.6.2।। रक्षसाऽपहृता भार्या मैथिली जनकात्मजा। त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता4.6.3।। अन्तरप्रेप्सुना तेन हत्वा गृध्रं जटायुषम्4.6.4।। Kishkindha Kanda,6,2,पुनरेवाब्रवीत्प्रीतो राघवं रघुनन्दनम्। अयमाख्याति मे राम सचिवो मन्त्रिसत्तमः4.6.1।। हनुमान्यन्निमित्तं त्वं निर्जनं वनमागतः। लक्ष्मणेन सह भ्रात्रा वसतश्च वने तव4.6.2।। रक्षसाऽपहृता भार्या मैथिली जनकात्मजा। त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता4.6.3।। अन्तरप्रेप्सुना तेन हत्वा गृध्रं जटायुषम्4.6.4।। Kishkindha Kanda,6,3,पुनरेवाब्रवीत्प्रीतो राघवं रघुनन्दनम्। अयमाख्याति मे राम सचिवो मन्त्रिसत्तमः4.6.1।। हनुमान्यन्निमित्तं त्वं निर्जनं वनमागतः। लक्ष्मणेन सह भ्रात्रा वसतश्च वने तव4.6.2।। रक्षसाऽपहृता भार्या मैथिली जनकात्मजा। त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता4.6.3।। अन्तरप्रेप्सुना तेन हत्वा गृध्रं जटायुषम्4.6.4।। Kishkindha Kanda,6,4,पुनरेवाब्रवीत्प्रीतो राघवं रघुनन्दनम्। अयमाख्याति मे राम सचिवो मन्त्रिसत्तमः4.6.1।। हनुमान्यन्निमित्तं त्वं निर्जनं वनमागतः। लक्ष्मणेन सह भ्रात्रा वसतश्च वने तव4.6.2।। रक्षसाऽपहृता भार्या मैथिली जनकात्मजा। त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता4.6.3।। अन्तरप्रेप्सुना तेन हत्वा गृध्रं जटायुषम्4.6.4।। Kishkindha Kanda,6,5,भार्यावियोगजं दुःखं न चिरात्त्वं विमोक्ष्यसे। अहं तामानयिष्यामि नष्टां वेदश्रुतीमिव।।4.6.5।। Kishkindha Kanda,6,6,रसातले वा वर्तन्तीं वर्तन्ती वा नभस्थले अहमानीय दास्यामि तव भार्यामरिन्दम।।।4.6.6।। Kishkindha Kanda,6,7,इदं तथ्यं मम वचस्त्वमवेहि च राघव। न शक्या सा जरयितुं सेन्द्रैरपि स्सुरासुरैः4.6.7।। तव भार्या महाबाहो भक्ष्यं विषकृतं यथा। त्यज शोकं महाबाहो तां कान्तामानयामि ते4.6.8।। Kishkindha Kanda,6,8,इदं तथ्यं मम वचस्त्वमवेहि च राघव। न शक्या सा जरयितुं सेन्द्रैरपि स्सुरासुरैः4.6.7।। तव भार्या महाबाहो भक्ष्यं विषकृतं यथा। त्यज शोकं महाबाहो तां कान्तामानयामि ते4.6.8।। Kishkindha Kanda,6,9,अनुमानात्तु जानामि मैथिली सा न संशयः। ह्रियमाणा मया दृष्टा रक्षसा क्रूरकर्मणा4.6.9।। क्रोशन्ती राम रामेति लक्ष्मणेति च विस्वरम्। स्फुरन्ती रावणस्याङ्के पन्नगेन्द्रवधूर्यथा4.6.10।। Kishkindha Kanda,6,10,अनुमानात्तु जानामि मैथिली सा न संशयः। ह्रियमाणा मया दृष्टा रक्षसा क्रूरकर्मणा4.6.9।। क्रोशन्ती राम रामेति लक्ष्मणेति च विस्वरम्। स्फुरन्ती रावणस्याङ्के पन्नगेन्द्रवधूर्यथा4.6.10।। Kishkindha Kanda,6,11,आत्मना पञ्चमं मां हि दृष्ट्वा शैलतटे स्थितम्। उत्तरीयं तया त्यक्तं शुभान्याभरणानि च4.6.11।। Kishkindha Kanda,6,12,तान्यस्माभिगृहीतानि निहितानि च राघव। आनयिष्याम्यहं तानि प्रत्यभिज्ञातुमर्हसि4.6.12।। Kishkindha Kanda,6,13,तमब्रवीत्ततो रामस्सुग्रीवं प्रियवादिनम्। आनयस्व सखे शीघ्रं किमर्थं प्रविलम्बसे4.6.13।। Kishkindha Kanda,6,14,एवमुक्तस्तु सुग्रीवश्शैलस्य गहनां गुहाम्। प्रविवेश ततशशीघ्रं राघवप्रियकाम्यया4.6.14।। Kishkindha Kanda,6,15,उत्तरीयं गृहीत्वा तु शुभान्याभरणानि च। इदं पश्येति रामाय दर्शयामास वानरः4.6.15।। Kishkindha Kanda,6,16,ततो गृहीत्वा वासस्तु श्शुभान्याभरणानि च। अभवद्बाष्पसंरुद्धो नीहारेणेव चन्द्रमाः4.6.16।। Kishkindha Kanda,6,17,सीतास्नेहप्रवृत्तेन स तु बाष्पेण दूषितः। हा प्रियेति रुदन्धैर्यमुत्सृज्य न्यपतत्क्षितौ4.6.17।। Kishkindha Kanda,6,18,हृदि कृत्वा तु बहुशस्तमलङ्कारमुत्तमम्। निशश्वास भृशं सर्पो बिलस्थ इव रोषितः।।4.6.18।। Kishkindha Kanda,6,19,अविच्छिन्नाश्रुवेगस्तु सौमित्रिं वीक्ष्य पार्श्वतः। परिदेवयितुं दीनं रामस्समुपचक्रमे4.6.19।। Kishkindha Kanda,6,20,पश्य लक्ष्मण वैदेह्या सन्त्यक्तं ह्रियमाणया। उत्तरीयमिदं भूमौ शरीराद्भूषणानि च4.6.20।। Kishkindha Kanda,6,21,शाद्वलिन्यां ध्रुवं भूमौ सीतया ह्रियमाणया। उत्सृष्टं भूषणमिदं तथारूपं हि दृश्यते4.6.21।। Kishkindha Kanda,6,22,एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत्। नाहं जानामि केयूरे नाहं जानामि कुण्डले4.6.22।। नूपुरे त्वभिजानामि नित्यं पादाभिवन्दनात्। Kishkindha Kanda,6,23,ततस्तु राघवो वाक्यं सुग्रीवमिदमब्रवीत्4.6.23।। ब्रूहि सुग्रीव कं देशं ह्रियन्ती लक्षिता त्वया। रक्षसा रौद्ररूपेण मम प्राणैः प्रिया प्रिया4.6.24।। Kishkindha Kanda,6,24,ततस्तु राघवो वाक्यं सुग्रीवमिदमब्रवीत्4.6.23।। ब्रूहि सुग्रीव कं देशं ह्रियन्ती लक्षिता त्वया। रक्षसा रौद्ररूपेण मम प्राणैः प्रिया प्रिया4.6.24।। Kishkindha Kanda,6,25,क्व वा वसति तद्रक्षो महद्व्यसनदं मम। यन्निमित्तमहं सर्वान्नाशयिष्यामि राक्षसान्4.6.25।। Kishkindha Kanda,6,26,हरता मैथिलीं येन मां च रोषयता भृशम्। आत्मनो जीवितान्ताय मृत्युद्वारमपावृतम्4.6.26।। Kishkindha Kanda,6,27,मम दयिततरा हृता वनान्ता द्रजनिचरेण विमथ्य येन सा। कथय मम रिपुं तमद्य वै प्लवगपते यमसादनं नयामि4.6.27।। Kishkindha Kanda,7,1,एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरः। अब्रवीत्प्राञ्जलिर्वाक्यं सबाष्पं बाष्पगद्गदः।।4.7.1।। Kishkindha Kanda,7,2,न जाने निलयं तस्य सर्वथा पापरक्षसः। सामर्थ्यं विक्रमं वापि दौष्कुलेयस्य वा कुलम्4.7.2।। Kishkindha Kanda,7,3,सत्यं ते प्रतिजानामि त्यज शोकमरिन्दम। करिष्यामि तथा यत्नं यथा प्राप्स्यसि मैथिलीम्4.7.3।। Kishkindha Kanda,7,4,रावणं सगणं हत्वा परितोष्यात्मपौरुषम्। तथाऽस्मि कर्ता न चिराद्यथा प्रीतो भविष्यसि4.7.4।। Kishkindha Kanda,7,5,अलं वैक्लब्यमालम्ब्य धैर्यमात्मगतं स्मर। त्वद्विधानां न सदृशमीदृशं बुद्धिलाघवम्।।4.7.5।। Kishkindha Kanda,7,6,मयाऽपि व्यसनं प्राप्तं भार्याविरहजं महत्। नाहमेवं हि शोचामि न च धैर्यं परित्यजे4.7.6।। Kishkindha Kanda,7,7,नाहं तामनुशोचामि प्राकृतो वानरोऽपि सन्। महात्मा च विनीतश्च किं पुनर्धृतिमान्भवान्4.7.7।। Kishkindha Kanda,7,8,बाष्पमापतितं धैर्यान्निग्रहीतुं त्वमर्हसि। मर्यादां सत्त्वयुक्तानां धृतिं नोत्स्रष्टुमर्हसि4.7.8।। Kishkindha Kanda,7,9,व्यसने वाऽर्थकृच्छ्रे वा भये वा जीवितान्तके। विमृशन्वै स्वया बुद्ध्या धृतिमान्नावसीदति4.7.9।। Kishkindha Kanda,7,10,बालिशस्तु नरो नित्यं वैक्लब्यं योऽनुवर्तते। स मज्जत्यवशश्शोके भाराक्रान्तेव नौर्जले4.7.10।। Kishkindha Kanda,7,11,एषोऽञ्जलिर्मया बद्धः प्रणयात्त्वां प्रसादये। पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि4.7.11।। Kishkindha Kanda,7,12,ये शोकमनुवर्तन्ते न तेषां विद्यते सुखम्। तेजश्च क्षीयते तेषां न त्वं शोचितुमर्हसि4.7.12।। Kishkindha Kanda,7,13,शोकेनाभिप्रपन्नस्य जीविते चापि संशयः। स शोकं त्यज राजेन्द्र धैर्यमाश्रय केवलम्4.7.13।। Kishkindha Kanda,7,14,हितं वयस्यभावेन ब्रूमि नोपदिशामि ते। वयस्यतां पूजयन्मे न त्वं शोचितुमर्हसि4.7.14।। Kishkindha Kanda,7,15,मधुरं सान्त्वित स्तेन सुग्रीवेण स राघवः। मुखमश्रुपरिक्लिन्नं वस्त्रान्तेन प्रमार्जयत्4.7.15।। Kishkindha Kanda,7,16,प्रकृतिस्थस्तु काकुत्स्थस्सुग्रीववचनात्प्रभुः। सम्परिष्वज्य सुग्रीवमिदं वचनमब्रवीत्4.7.16।। Kishkindha Kanda,7,17,कर्तव्यं यद्वयस्येन स्निग्धेन च हितेन च। अनुरूपं च युक्तं च कृतं सुग्रीव तत्त्वया4.7.17।। Kishkindha Kanda,7,18,एष च प्रकृतिस्थोऽहमनुनीतस्त्वया सखे। दुर्लभो हीदृशो बन्धुरस्मिन्काले विशेषतः4.7.18।। Kishkindha Kanda,7,19,किं तु यत्नस्त्वया कार्यो मैथिल्याः परिमार्गणे। राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः4.7.19।। Kishkindha Kanda,7,20,मया च यदनुष्ठेयं विस्रब्धेन तदुच्यताम्। वर्षास्विव च सुक्षेत्रे सर्वं सम्पद्यते तव4.7.20।। Kishkindha Kanda,7,21,मया च यदिदं वाक्यमभिमानात्समीरितम्। तत्त्वया हरिशार्दूल तत्त्वमित्युपधार्यताम्4.7.21।। Kishkindha Kanda,7,22,अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन। एतत्ते प्रतिजानामि सत्येनैव च ते शपाम्यहमं।।4.7.22।। Kishkindha Kanda,7,23,ततः प्रहृष्टस्सुग्रीवो वानरैस्सचिवैस्सह। राघवस्य वचश्श्रुत्वा प्रतिज्ञातं विशेषतः4.7.23।। Kishkindha Kanda,7,24,एवमेकान्तसम्पृक्तौ ततस्तौ नरवानरौ। उभावन्योन्यसदृशं सुखं दुःखमभाषताम्4.7.24।। Kishkindha Kanda,7,25,महानुभावस्य वचो निशम्य हरिर्नृपाणामृषभस्य तस्य। कृतं स मेने हरिवीरमुख्य स्तदा स्वकार्यं हृदयेन विद्वान्4.7.25।। Kishkindha Kanda,8,1,परितुष्टस्तु सुग्रीवस्तेन वाक्येन वानरः। लक्ष्मणस्याग्रतो राममिदं वचनमब्रवीत्4.8.1।। Kishkindha Kanda,8,2,सर्वथाऽहमनुग्राह्यो देवतानां न संशयः। उपपन्न गुणोपेतस्सखा यस्य भवान्मम4.8.2।। Kishkindha Kanda,8,3,शक्यं खलु भवेद्राम सहायेन त्वयाऽनघ। सुरराज्यमपि प्राप्तुं स्वराज्यं किं पनः प्रभो 4.8.3।। Kishkindha Kanda,8,4,सोऽहं सभाज्यो बन्धूनां सुहृदां चैव राघव। यस्याग्निसाक्षिकं मित्रं लब्धं राघववंशजम्4.8.4।। Kishkindha Kanda,8,5,अहमप्यनुरूपस्ते वयस्यो ज्ञास्यसे शनैः। न तु वक्तुं समर्थोऽहं स्वयमात्मगतान्गुणान्4.8.5।। Kishkindha Kanda,8,6,महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम्। निश्चला भवति प्रीतिर्धैर्यमात्मवतामिव4.8.6।। Kishkindha Kanda,8,7,रजतं वा सुवर्णं वा वस्त्राण्याभरणानि च। अविभक्तानि साधूनामवगच्छन्ति साधवः4.8.7।। Kishkindha Kanda,8,8,आढ्यो वापि दरिद्रो वा दुःखितस्सुखितोऽपि वा। निर्दोषो वा सदोषो वा वयस्यः परमा गतिः4.8.8।। Kishkindha Kanda,8,9,धनत्यागस्सुखत्यागो देहत्यागोऽपि वा पुनः। वयस्यार्थे प्रवर्तन्ते स्नेहं दृष्टवा तथाविधम्4.8.9।। Kishkindha Kanda,8,10,तत्तथेत्यब्रवीद्रामस्सुग्रीवं प्रियवादिनम्। लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः4.8.10।। Kishkindha Kanda,8,11,ततो रामं स्थितं दृष्ट्वा लक्ष्मणं च महाबलम्। सुग्रीवस्सर्वतश्चक्षुर्वने लोलमपातयत्4.8.11।। Kishkindha Kanda,8,12,स ददर्श ततस्सालमविदूरे हरीश्वरः। सुपुष्पमीषत्पत्राढ्यं भ्रमरैरुपशोभितम्4.8.12।। Kishkindha Kanda,8,13,तस्यैकां पर्णबहुलां भङ्क्त्वा शाखां सुपुष्पिताम्। सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः4.8.13।। Kishkindha Kanda,8,14,तावासीनौ ततो दृष्ट्वा हनूमानपि लक्ष्मणम्। सालशाखां समुत्पाट्य विनीतमुपवेशयत्4.8.14।। Kishkindha Kanda,8,15,सुखोपविष्टं रामं तु प्रसन्नमुदधिं यथा। फलपुष्पसमाकीर्णे तस्मिन् गिरिवरोत्तमे4.8.15।। ततः प्रहृष्टस्सुग्रीवश्लक्ष्णं मधुरया गिरा। उवाच प्रणयाद्रामं हर्षव्याकुलिताक्षरम्4.8.16।। Kishkindha Kanda,8,16,सुखोपविष्टं रामं तु प्रसन्नमुदधिं यथा। फलपुष्पसमाकीर्णे तस्मिन् गिरिवरोत्तमे4.8.15।। ततः प्रहृष्टस्सुग्रीवश्लक्ष्णं मधुरया गिरा। उवाच प्रणयाद्रामं हर्षव्याकुलिताक्षरम्4.8.16।। Kishkindha Kanda,8,17,अहं विनिकृतो भ्रात्रा चराम्येष भयार्दितः। ऋष्यमूकं गिरिवरं हृतभार्यस्सुदुःखितः4.8.17।। Kishkindha Kanda,8,18,सोऽहं त्रस्तो भये मग्नो वसाम्युद्भ्रान्तचेतनः। वालिना निकृतो भ्रात्रा कृतवैरश्च राघव4.8.18।। Kishkindha Kanda,8,19,वालिनो मे भयार्तस्य सर्वलोकाभयङ्कर। ममापि त्वमनाथस्य प्रसादं कर्तुमर्हसि4.8.19।। Kishkindha Kanda,8,20,एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः। प्रत्युवाच स काकुत्स्थस्सुग्रीवं प्रहसन्निव4.8.20।। Kishkindha Kanda,8,21,उपकारफलं मित्रमपकारोऽरिलक्षणम्। अद्यैव तं हनिष्यामि तव भार्यापहारिणम्4.8.21।। Kishkindha Kanda,8,22,इमे हि मे महावेगा पत्रिणस्तिग्मतेजसः। कार्तिकेयवनोद्भूताश्शरा हेमविभूषिताः4.8.22।। कङ्कपत्रपरिच्छन्ना महेन्द्राशनिसन्निभाः। सुपर्वाणस्सुतीक्ष्णाग्रास्सरोषा भुजगा इव4.8.23।। Kishkindha Kanda,8,23,इमे हि मे महावेगा पत्रिणस्तिग्मतेजसः। कार्तिकेयवनोद्भूताश्शरा हेमविभूषिताः4.8.22।। कङ्कपत्रपरिच्छन्ना महेन्द्राशनिसन्निभाः। सुपर्वाणस्सुतीक्ष्णाग्रास्सरोषा भुजगा इव4.8.23।। Kishkindha Kanda,8,24,भ्रातृसंज्ञममित्रं ते वालिनं कृतकिल्बिषम्। शरैर्विनिहतं पश्य विकीर्णमिव पर्वतम्4.8.24।। Kishkindha Kanda,8,25,राघवस्य वचश्श्रुत्वा सुग्रीवो वाहिनीपतिः। प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत्4.8.25।। Kishkindha Kanda,8,26,राम शोकाभिभूतोऽहं शोकार्तानां भवान्गतिः। वयस्य इति कृत्वा हि त्वय्यहं परिदेवये4.8.26।। Kishkindha Kanda,8,27,त्वं हि पाणिप्रदानेन वयस्यो मेऽग्निसाक्षिकम्। कृतः प्राणैर्बहुमतस्सत्येनापि शपामि ते4.8.27।। Kishkindha Kanda,8,28,वयस्य इति कृत्वा च विस्रब्धः प्रवदाम्यहम्। दुःखमन्तर्गतं यन्मे मनो हरति नित्यशः4.8.28।। Kishkindha Kanda,8,29,एतावदुक्त्वा वचनं बाष्पदूषितलोचनः। बाष्पोपहतया वाचा नोच्चैश्शक्नोति भाषितुम्4.8.29।। Kishkindha Kanda,8,30,बाष्पवेगं तु सहसा नदीवेगमिवागतम्। धारयामास धैर्येण सुग्रीवो रामसन्निधौ4.8.30।। Kishkindha Kanda,8,31,सन्निगृह्य तु तं बाष्पं प्रमृज्य नयने शुभे। विनिश्श्वस्य च तेजस्वी राघवं वाक्यमब्रवीत्4.8.31।। Kishkindha Kanda,8,32,पुराऽहं वालिना राम राज्यात्स्वादवरोपितः। परुषाणि च संश्राव्य निर्धूतोऽस्मि बलीयसा4.8.32।। Kishkindha Kanda,8,33,हृता भार्या च मे तेन प्राणेभ्योऽपि गरीयसी। सुहृदश्च मदीया ये संयता बन्धनेषु ते4.8.33।। Kishkindha Kanda,8,34,यत्नवांश्च सुदुष्टात्मा मद्विनाशाय राघव। बहुशस्तत्प्रयुक्ताश्च वानरा निहता मया4.8.34।। Kishkindha Kanda,8,35,शङ्कया त्वेतया चेह दृष्ट्वा त्वामपि राघव। नोपसर्पाम्यहं भीतो भये सर्वे हि बिभ्यति4.8.35।। Kishkindha Kanda,8,36,केवलं हि सहाया मे हनुमत्प्रमुखास्त्विमे। अतोऽहं धारयाम्यद्य प्राणान् कृच्छ्रगतोऽपि सन्4.8.36।। Kishkindha Kanda,8,37,एते हि कपयस्स्निग्धा मां रक्षन्ति समन्ततः। सह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति च स्थिते4.8.37।। Kishkindha Kanda,8,38,सङ्क्षेपस्त्वेष मे राम किमुक्त्वा विस्तरं हि ते। स मे ज्येष्ठो रिपुर्भ्राता वाली विश्रुतपौरुषः4.8.38।। Kishkindha Kanda,8,39,तद्विनाशाद्धि मे दुःखं प्रणष्टं स्यादनन्तरम्। सुखं मे जीवितं चैव तद्विनाशनिबन्धनम्4.8.39।। Kishkindha Kanda,8,40,एष मे राम शोकान्तश्शोकार्तेन निवेदितः। दुःखितस्सुखितो वापि सख्युर्नित्यं सखा गतिः4.8.40।। Kishkindha Kanda,8,41,श्रुत्वैतद्वचनं रामस्सुग्रीवमिदमब्रवीत्। किं निमित्तमभूद्वैरं श्रोतुमिच्छामि तत्त्वतः4.8.41।। Kishkindha Kanda,8,42,सुखं हि कारणं श्रुत्वा वैरस्य तव वानर। अनन्तरं विधास्यामि सम्प्रधार्य बलाबलम्4.8.42।। Kishkindha Kanda,8,43,बलवान् हि ममामर्षश्श्रुत्वा त्वामवमानितम्। वर्तते हृदयोत्कम्पी प्रावृड्वेग इवाम्भसः4.8.43।। Kishkindha Kanda,8,44,हृष्टः कथय विस्रब्धो यावदारोप्यते धनुः। सृष्टश्च हि मया बाणो निरस्तश्च रिपुस्तव4.8.44।। Kishkindha Kanda,8,45,एवमुक्तस्तु सुग्रीवः काकुत्स्थेन महात्मना। प्रहर्षमतुलं लेभे चतुर्भिस्सह वानरैः4.8.45।। Kishkindha Kanda,8,46,ततः प्रहृष्टवदनस्सुग्रीवो लक्ष्मणाग्रजे। वैरस्य कारणं तत्त्वमाख्यातुमुपचक्रमे4.8.46।। Kishkindha Kanda,9,1,वाली नाम मम भ्राता ज्येष्ठश्शत्रुनिषूदनः। पितुर्बहुमतो नित्यं ममापि च तथा पुरा4.9.1।। Kishkindha Kanda,9,2,पितर्युपरतेऽस्माकं ज्येष्ठोऽयमिति मन्त्रिभिः। कपीनामीश्वरो राज्ये कृतः परमसम्मतः4.9.2।। Kishkindha Kanda,9,3,राज्यं प्रशासतस्तस्य पितृपैतामहं महत्। अहं सर्वेषु कालेषु प्रणतः प्रेष्यवत् स्थितः4.9.3।। Kishkindha Kanda,9,4,मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः। तेन तस्य महद्वैरं स्त्रीकृतं विश्श्रुतं पुरा4.9.4।। Kishkindha Kanda,9,5,स तु सुप्तजने रात्रौ किष्किन्धाद्वारमागतः। नर्दति स्म सुसंरब्धो वालिनं चाह्वयद्रणे4.9.5।। Kishkindha Kanda,9,6,प्रसुप्तस्तु मम भ्राता नर्दितं भैरवस्वनम्। श्रुत्वा न ममृषे वाली निष्पपात जवात्तदा4.9.6।। Kishkindha Kanda,9,7,स तु वै निस्सृतः क्रोधात्तं हन्तुमसुरोत्तमम्। वार्यमाणस्तत स्त्रीभिर्मया च प्रणतात्मना4.9.7।। Kishkindha Kanda,9,8,स तु निर्धूय ताः सर्वा निर्जगाम महाबलः। ततोऽहमपि सौहार्दान्निस्सृतो वालिना सह4.9.8।। Kishkindha Kanda,9,9,स तु मे भ्रातरं दृष्ट्वा मां च दूरादवस्थितम्। असुरो जातसन्त्रासः प्रदुद्राव ततो भृशम्4.9.9।। Kishkindha Kanda,9,10,तस्मिन् द्रवति सन्त्रस्ते ह्यावां द्रुततरं गतौ। प्रकाशश्च कृतो मार्गश्चन्द्रेणोद्गच्छता तदा4.9.10।। Kishkindha Kanda,9,11,स तृणैरावृतं दुर्गं धरण्या विवरं महत्। प्रविवेशासुरो वेगादावामासाद्य विष्ठितौ4.9.11।। Kishkindha Kanda,9,12,तं प्रविष्टं रिपुं दृष्ट्वा बिलं रोषवशं गतः। मामुवाच तदा वाली वचनं क्षुभितेन्द्रियः4.9.12।। Kishkindha Kanda,9,13,इह त्वं तिष्ठ सुग्रीव बिलद्वारि समाहितः। यावत्तत्र प्रविश्याहं निहन्मि सहसा रिपुम्4.9.13।। Kishkindha Kanda,9,14,मया त्वेतद्वचश्श्रुत्वा याचितस्स परन्तपः। शापयित्वा तु मां पद्भ्यां प्रविवेश बिलं महत्4.9.14।। Kishkindha Kanda,9,15,तस्य प्रविष्टस्य बिलं साग्रस्संवत्सरो गतः। स्थितस्य मम बिलद्वारि स कालो व्यत्यवर्तत4.9.15।। Kishkindha Kanda,9,16,अहं तु नष्टं ज्ञात्वा तं स्नेहादागतसम्भ्रमः। भ्रातरं न च पश्यामि पापाशङ्कि च मे मनः4.9.16।। Kishkindha Kanda,9,17,अथ दीर्घस्य कालस्य बिलात्तस्माद्विनिस्सृतम्। सफेनं रुधिरं रक्तमहं दृष्ट्वा सुदुःखितः।।4.9.17।। Kishkindha Kanda,9,18,नर्दतामसुराणां च ध्वनिर्मे श्रोत्रमागतः। निरस्तस्य च सङ्ग्रामे क्रोशतोनिस्स्वनो गुरोः4.9.18।। Kishkindha Kanda,9,19,अहं त्ववगतो बुद्ध्या चिह्नैस्तैर्भ्रातरं हतम्। पिधाय च बिलद्वारं शिलया गिरिमात्रया4.9.19।। शोकार्तश्चोदकं कृत्वा किष्किन्धामागतस्सखे। गूहमानस्य मे तत्त्वं यत्नतो मन्त्रिभिश्श्रुतम्4.9.20।। Kishkindha Kanda,9,20,अहं त्ववगतो बुद्ध्या चिह्नैस्तैर्भ्रातरं हतम्। पिधाय च बिलद्वारं शिलया गिरिमात्रया4.9.19।। शोकार्तश्चोदकं कृत्वा किष्किन्धामागतस्सखे। गूहमानस्य मे तत्त्वं यत्नतो मन्त्रिभिश्श्रुतम्4.9.20।। Kishkindha Kanda,9,21,ततोऽहं तैस्समागम्य सम्मतैरभिषेचितः। राज्यं प्रशासतस्तस्य न्यायतो मम राघव4.9.21।। आजगाम रिपुं हत्वा वाली तमसुरोत्तमम्।। Kishkindha Kanda,9,22,अभिषिक्तं तु मां दृष्ट्वा वाली संरक्तलोचनः। मदीयान्मन्त्रिणो बद्ध्वा परुषं वाक्यमब्रवीत्4.9.22।। Kishkindha Kanda,9,23,निग्रहेऽपि समर्थस्य तं पापं प्रति राघव। न प्रावर्तत मे बुद्धिर्भ्रातुर्गौरवयन्त्रिता4.9.23।। Kishkindha Kanda,9,24,हत्वा शत्रुं स मे भ्राता प्रविवेश पुरं तदा4.9.24।। मानयंस्तं महात्मानं यथावच्चाभ्यवादयम्। उक्ताश्च नाशिषस्तेन सन्तुष्टेनान्तरात्मना4.9.25।। Kishkindha Kanda,9,25,हत्वा शत्रुं स मे भ्राता प्रविवेश पुरं तदा4.9.24।। मानयंस्तं महात्मानं यथावच्चाभ्यवादयम्। उक्ताश्च नाशिषस्तेन सन्तुष्टेनान्तरात्मना4.9.25।। Kishkindha Kanda,9,26,नत्वा पादावहं तस्य मकुटेनास्पृशं प्रभो अपि वाली मम क्रोधान्न प्रसादं चकार सः4.9.26।। Kishkindha Kanda,10,1,ततः क्रोधसमाविष्टं सम्रब्धं तमुपागतम्। अहं प्रसादयाञ्चक्रे भ्रातरं प्रियकाम्यया4.10.1 Kishkindha Kanda,10,2,दिष्ट्यासि कुशली प्राप्तो निहतश्च त्वया रिपुः। अनाथस्य हि मे नाथस्त्वमेकोऽनाथनन्दनः4.10.2।। Kishkindha Kanda,10,3,इदं बहुशलाकं ते पूर्णचन्द्रमिवोदितम्। छत्रं सवालव्यजनं प्रतीच्छस्व मया धृतम्4.10.3।। Kishkindha Kanda,10,4,आर्तश्चाथ बिलद्वारि स्थितस्संवत्सरं नृप। दृष्ट्वाऽहं शोणितं द्वारि बिलाच्चापि समुत्थितम्4.10.4।। शोकसंविग्नहृदयो भृशं व्याकुलितेन्द्रियः। अपिधाय बिलद्वारं शैलशृङ्गेण तत्तथा4.10.5।। तस्माद्देशादपाक्रम्य किष्किन्धां प्राविशं पुनः। Kishkindha Kanda,10,5,आर्तश्चाथ बिलद्वारि स्थितस्संवत्सरं नृप। दृष्ट्वाऽहं शोणितं द्वारि बिलाच्चापि समुत्थितम्4.10.4।। शोकसंविग्नहृदयो भृशं व्याकुलितेन्द्रियः। अपिधाय बिलद्वारं शैलशृङ्गेण तत्तथा4.10.5।। तस्माद्देशादपाक्रम्य किष्किन्धां प्राविशं पुनः। Kishkindha Kanda,10,6,विषादात्विह मां दृष्ट्वा पौरैर्मन्त्रिभिरेव च4.10.6।। अभिषिक्तो न कामेन तन्मेत्वं क्षन्तुमर्हसि। Kishkindha Kanda,10,7,त्वमेव राजा मानार्हस्सदा चाहं यथा पुरम्4.10.7।। राजभावनियोगोऽयं मम त्वद्विरहात्कृतः। सामात्यपौरनगरं स्थितं निहतकण्टकम्4.10.8।। Kishkindha Kanda,10,8,त्वमेव राजा मानार्हस्सदा चाहं यथा पुरम्4.10.7।। राजभावनियोगोऽयं मम त्वद्विरहात्कृतः। सामात्यपौरनगरं स्थितं निहतकण्टकम्4.10.8।। Kishkindha Kanda,10,9,न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम्। मा च रोषं कृथास्सौम्य मयि शत्रुनिबर्हण4.10.9।। Kishkindha Kanda,10,10,याचे त्वां शिरसा राजन्मया बद्धोऽयमञ्जलिः। बलादस्मिन् समागम्य मन्त्रिभिः पुरवासिभिः4.10.10।। राजभावे नियुक्तोऽहं शून्यदेशजिगीषया। Kishkindha Kanda,10,11,स्निग्धमेवं ब्रुवाणं मां स तु निर्भर्त्स्य वानरः4.10.11।। धिक्त्वामिति च मा मुक्त्वा बहु तत्तदुवाच ह। Kishkindha Kanda,10,12,प्रकृतीश्च समानीय मुन्त्रिणश्चैव सम्मतान्4.10.12।। मामाह सुहृदां मध्ये वाक्यं परमगर्हितम्। Kishkindha Kanda,10,13,विदितं वो यथा रात्रौ मायावी स महासुरः4.10.13।। मां समाह्वयत क्रूरो युद्धाकाङ्क्षी सुदुर्मतिः। Kishkindha Kanda,10,14,तस्य तद्वचनं श्रुत्वा निस्सृतोऽहं नृपालयात्4.10.14।। अनुयातश्च मां तूर्णमयं भ्राता सुदारुणः। Kishkindha Kanda,10,15,स तु दृष्ट्वैव मां रात्रौ सद्वितीयं महाबलः4.10.15।। प्राद्रवद्भयसन्त्रस्तो वीक्ष्यावां समुपागतौ। अनुद्रुतश्च वेगेन प्रविवेश महाबिलम्4.10.16।। Kishkindha Kanda,10,16,स तु दृष्ट्वैव मां रात्रौ सद्वितीयं महाबलः4.10.15।। प्राद्रवद्भयसन्त्रस्तो वीक्ष्यावां समुपागतौ। अनुद्रुतश्च वेगेन प्रविवेश महाबिलम्4.10.16।। Kishkindha Kanda,10,17,तं प्रविष्टं विदित्वा सुघोरं सुमहद्बिलम्। अयमुक्तोऽथ मे भ्राता मया तु क्रूरदर्शनः4.10.17।। Kishkindha Kanda,10,18,अहत्वा नास्ति मे शक्तिः प्रतिगन्तुमितः पुरीम्। बिलद्वारि प्रतीक्ष त्वं यावदेनं निहन्म्यहम्4.10.18।। Kishkindha Kanda,10,19,स्थितोऽयमिति मत्वा तु प्रविष्टोऽहं दुरासदम्। तं च मे मार्गमाणस्य गतस्संवत्सरस्तदा4.10.19।। Kishkindha Kanda,10,20,स तु दृष्टो मया शत्रुरनिर्वेदाद्भयावहः। निहतश्च मया तत्र सोऽसुरो बन्धुभिस्सह।।4.10.20।। Kishkindha Kanda,10,21,तस्यास्यात्तु प्रवृत्तेन रुधिरौघेण तद्बिलम्। पूर्णमासीद्दुराक्रामं स्तनतस्तस्य भूतले4.10.21।। Kishkindha Kanda,10,22,सूदयित्वा तु तं शत्रुं विक्रान्तं दुन्दुभेस्सुतम्। निष्क्रामन्नेव पश्यामि बिलस्य पिहितं मुखम्4.10.22।। Kishkindha Kanda,10,23,विक्रोशमानस्य तु मे सुग्रीवेति पुनः पुनः। यदा प्रतिवचो नास्ति ततोऽहं भृशदुःखितः4.10.23।। Kishkindha Kanda,10,24,पादप्रहारैस्तु मया बहुभिस्तद्विदारितम्। ततोऽहं तेन निष्क्रम्य यथा पुरमुपागतः4.10.24।। Kishkindha Kanda,10,25,अत्रानेनास्मि संरुद्धो राज्यं प्रार्थयताऽत्मनः। सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम्।।4.10.25।। Kishkindha Kanda,10,26,एवमुक्त्वा तु मां तत्र वस्त्रेणैकेन वानरः। निर्वासयामास तदा वाली विगतसाध्वसः4.10.26।। Kishkindha Kanda,10,27,तेनाहमपविद्धश्च हृतदारश्च राघव। तद्भयाच्छ महीकृत्स्ना क्रान्तेयं सवनार्णवा4.10.27।। Kishkindha Kanda,10,28,ऋष्यमूकं गिरिवरं भार्याहरणदुःखितः। प्रविष्टोऽस्मि दुराधर्षं वालिनः कारणान्तरे4.10.28।। Kishkindha Kanda,10,29,एतत्ते सर्वमाख्यातं वैरानुकथनं महत्। अनागसा मया प्राप्तं व्यसनं पश्य राघव4.10.29।। Kishkindha Kanda,10,30,वालिनस्तु भयार्तस्य सर्वलोकभयङ्कर। कर्तुमर्हसि मे वीर प्रसादं तस्य निग्रहात्4.10.30।। Kishkindha Kanda,10,31,एवमुक्तस्स तेजस्वी धर्मज्ञो धर्मसंहितम्। वचनं वक्तुमारेभे सुग्रीवं प्रहसन्निव4.10.31।। Kishkindha Kanda,10,32,अमोघास्सूर्यसङ्काशा ममैते निशिता श्शराः। तस्मिन्वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः4.10.32।। Kishkindha Kanda,10,33,यावत्तं नाभिपश्यामि तव भार्यापहारिणम्। तावत्स जीवेत्पापात्मा वाली चारित्रदूषकः4.10.33।। Kishkindha Kanda,10,34,आत्मानुमानात्पश्यामि मग्नं त्वां शोकसागरे। त्वामहं तारयिष्यामि कामं प्राप्स्यसि पुष्कलम्4.10.34।। Kishkindha Kanda,10,35,तस्य तद्वचनं श्रुत्वा हर्षपौरुषवर्धनम्। सुग्रीवः परमप्रीतस्सुमहद्वाक्यमब्रवीत्4.10.35।। Kishkindha Kanda,11,1,रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम्। सुग्रीवः पूजयाञ्चक्रे राघवं प्रशशंस च4.11.1।। Kishkindha Kanda,11,2,असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैश्शरैः। त्वं दहेः कुपितो लोकान्युगान्त इव भास्करः4.11.2।। Kishkindha Kanda,11,3,वालिनः पौरुषं यत्तद्यच्च वीर्यं धृतिश्च या। तन्ममैकमनाश्श्रुत्वा विधत्स्व यदनन्तरम्4.11.3।। Kishkindha Kanda,11,4,समुद्रात्पश्चिमात्पूर्वं दक्षिणादपि चोत्तरम्। क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः4.11.4।। Kishkindha Kanda,11,5,अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि। ऊर्ध्वमुत्क्षिप्य तरसा प्रतिगृह्णाति वीर्यवान्4.11.5।। Kishkindha Kanda,11,6,बहवस्सारवन्तश्च वनेषु विविधा द्रुमाः। वालिना तरसा भग्ना बलं प्रथयताऽत्मनः4.11.6।। Kishkindha Kanda,11,7,महिषो दुन्दुभिर्नाम कैलासशिखरप्रभः। बलं नागसहस्रस्य धारयामास वीर्यवान्4.11.7।। Kishkindha Kanda,11,8,वीर्योत्सेकेन दुष्टात्मा वरदानाच्च मोहितः। जगाम सुमहाकाय स्समुद्रं सरितां पतिम्।।4.11.8।। Kishkindha Kanda,11,9,ऊर्मिमन्तमभिक्रम्य सागरं रत्नसञ्चयम्। मह्यं युद्धं प्रयच्छेति तमुवाच महार्णवम्4.11.9।। Kishkindha Kanda,11,10,ततस्समुद्रो धर्मात्मा समुत्थाय महाबलः। अब्रवीद्वचनं राजन्नसुरं कालचोदितम्4.11.10।। Kishkindha Kanda,11,11,समर्थो नास्मि ते दातुं युद्धं युद्धविशारद। श्रूयतां चाभिधास्यामि यस्ते युद्धं प्रदास्यति4.11.11।। Kishkindha Kanda,11,12,शैलराजो महारण्ये तपस्विशरणं परम्। शङ्करश्वशुरो नाम्ना हिमवानिति विश्रुतः4.11.12।। गुहाप्रस्रवणोपेतो बहुकन्दरनिर्दरः। स समर्थस्तव प्रीतिमतुलां कर्तुमाहवे4.11.13।। Kishkindha Kanda,11,13,शैलराजो महारण्ये तपस्विशरणं परम्। शङ्करश्वशुरो नाम्ना हिमवानिति विश्रुतः4.11.12।। गुहाप्रस्रवणोपेतो बहुकन्दरनिर्दरः। स समर्थस्तव प्रीतिमतुलां कर्तुमाहवे4.11.13।। Kishkindha Kanda,11,14,तं भीत इति विज्ञाय समुद्रमसुरोत्तमः। हिमवद्वनमागच्छच्छरश्चापादिव च्युतः4.11.14।। ततस्तस्य गिरेश्श्वेता गजेन्द्रविप्रलाश्शिलाः। चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च4.11.15।। Kishkindha Kanda,11,15,तं भीत इति विज्ञाय समुद्रमसुरोत्तमः। हिमवद्वनमागच्छच्छरश्चापादिव च्युतः4.11.14।। ततस्तस्य गिरेश्श्वेता गजेन्द्रविप्रलाश्शिलाः। चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च4.11.15।। Kishkindha Kanda,11,16,ततश्श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः। हिमवानब्रवीद्वाक्यं स्वे एव शिखरे स्थितः4.11.16।। Kishkindha Kanda,11,17,क्लेष्टुमर्हसि मां न त्वं दुन्दुभे धर्मवत्सल। रणकर्मस्वकुशलस्तपस्विशरणं ह्यहम्4.11.17।। Kishkindha Kanda,11,18,तस्य तद्वचनं श्रुत्वा गिरिराजस्य धीमतः। उवाच दुन्दुभिर्वाक्यं क्रोधात्संरक्तलोचनः4.11.18।। Kishkindha Kanda,11,19,यदि युद्धेऽसमर्थस्त्वं मद्भयाद्वा निरुद्यमः। समाचक्ष्व प्रदद्यान्मे योऽद्य युद्धं युयुत्सतः4.11.19।। Kishkindha Kanda,11,20,हिमवानब्रवीद्वाक्यं श्रुत्वा वाक्यविशारदः। अनुक्तपूर्वं धर्मात्मा क्रोधात्तमसुरोत्तमम्4.11.20।। Kishkindha Kanda,11,21,वाली नाम महाप्राज्ञश्शक्रतुल्य पराक्रमः। अध्यास्ते वानरश्श्रीमान् किष्किन्धामतुलप्रभाम्4.11.21।। Kishkindha Kanda,11,22,स समर्थो महाप्राज्ञस्तव युद्धविशारदः। द्वन्द्वयुद्धं महद्दातुं नमुचेरिव वासवः4.11.22।। Kishkindha Kanda,11,23,तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि। स हि दुर्धर्षणो नित्यं शूरस्समरकर्मणि4.11.23।। Kishkindha Kanda,11,24,श्रुत्वा हिमवतो वाक्यं कोधाविष्टस्स दुन्दुभिः। जगाम तां पुरीं तस्य किष्किन्धां वालिनस्तदा4.11.24।। Kishkindha Kanda,11,25,धारयन्माहिषं रूपं तीक्ष्णशृङ्गो भयावहः। प्रावृषीव महामेघस्तोयपूर्णो नभस्स्थले4.11.25।। ततस्तु द्वारमागम्य किष्किन्धाया महाबलः। ननर्द कम्पयन्भूमिं दुन्दुभिर्दुन्दुभिर्यथा4.11.26।। Kishkindha Kanda,11,26,धारयन्माहिषं रूपं तीक्ष्णशृङ्गो भयावहः। प्रावृषीव महामेघस्तोयपूर्णो नभस्स्थले4.11.25।। ततस्तु द्वारमागम्य किष्किन्धाया महाबलः। ननर्द कम्पयन्भूमिं दुन्दुभिर्दुन्दुभिर्यथा4.11.26।। Kishkindha Kanda,11,27,समीपस्थान्द्रुमान्भञ्जन्वसुधां दारयन्खुरैः। विषाणेनोल्लिखन् दर्पात्तद्द्वारं द्विरदो यथा4.11.27।। Kishkindha Kanda,11,28,अन्तःपुरगतो वाली श्रुत्वा शब्दममर्षणः। निष्पपात सह स्त्रीभिस्ताराभिरिव चन्द्रमाः4.11.28।। Kishkindha Kanda,11,29,मितं व्यक्ताक्षरपदं तमुवाचाथ दुन्दुभिम्। हरीणामीश्वरो वाली सर्वेषां वनचारिणाम्4.11.29।। Kishkindha Kanda,11,30,किमर्थं नगरद्वारमिदं रुध्द्वा विनर्दसि। दुन्दुभे विदितो मेऽसि रक्षप्राणान्महाबल4.11.30।। Kishkindha Kanda,11,31,तस्य तद्वचनं श्रुत्वा वानरेन्द्रस्य धीमतः। उवाच दुन्दुभिर्वाक्यं रोषात्संरक्तलोचनः4.11.31।। Kishkindha Kanda,11,32,न त्वं स्त्रीसन्निधौ वीर वचनं वक्तुमर्हसि। मम युद्धं प्रयच्छाद्य ततो ज्ञास्यामि ते बलम्4.11.32।। Kishkindha Kanda,11,33,अथवा धारयिष्यामि क्रोधमद्य निशामिमाम्। गृह्यतामुदयस्स्वैरं कामभोगेषु वानर4.11.33।। Kishkindha Kanda,11,34,दीयतां सम्प्रदानं च परिष्वज्य च वानरान्। सर्वशाखामृगेन्द्र स्त्वं संसादय सुहृज्जनान्4.11.34।। Kishkindha Kanda,11,35,सुदृष्टां कुरु किष्किन्धां कुरुष्वात्मसमं पुरे। क्रीडस्व च सह स्त्रीभिरहं ते दर्पनाशनः4.11.35।। Kishkindha Kanda,11,36,यो हि मत्तं प्रमत्तं वा सुप्तं वा रहितं भृशम्। हन्यात्स भ्रूणहा लोके त्वद्विधं मदमोहितम्4.11.36।। Kishkindha Kanda,11,37,स प्रहस्याब्रवीन्मन्दं क्रोधात्तमसुरोत्तमम्। विसृज्य ताः स्त्रियस्सर्वास्ताराप्रभृतिकास्तदा4.11.37।। Kishkindha Kanda,11,38,मत्तोऽयमिति मा मंस्था यद्यभीतोऽसि संयुगे। मदोऽयं सम्प्रहारेऽस्मिन्वीरपानं समर्थ्यताम्4.11.38।। Kishkindha Kanda,11,39,तमेवमुक्त्वा सङ्कृद्धो मालामुत्क्षिप्य काञ्चनीम्। पित्रा दत्तां महेन्द्रेण युद्धाय व्यवतिष्ठत4.11.39।। Kishkindha Kanda,11,40,विषाणयोर्गृहीत्वा तं दुन्दुभिं गिरिसन्निभम्। आविध्यत तदा वाली विनदन्कपिकुञ्जरः4.11.40।। Kishkindha Kanda,11,41,वाली व्यापातयाञ्चक्रे ननर्द च महास्वनम्। श्रोत्राभ्यामथ रक्तं तु तस्य सुस्राव पात्यतः4.11.41।। Kishkindha Kanda,11,42,तयोस्तु क्रोधसंरम्भात्परस्परजयैषिणोः। युद्धं समभवद्घोरं दुन्दुभेर्वानरस्यच4.11.42।। Kishkindha Kanda,11,43,अयुद्ध्यत तदा वाली शक्रतुल्यपराक्रमः। मुष्टिभिर्जानुभिश्चैव शिलाभिः पादपैस्तथा4.11.43।। Kishkindha Kanda,11,44,परस्परं घ्नतो स्तत्र वानरासुरयोस्तदा। आसीदसुरो युद्धे शक्रसूनुर्व्यवर्धत4.11.44।। Kishkindha Kanda,11,45,व्यापारवीर्यधैर्यैश्च परिक्षीणं पराक्रमैः। तं तु दुन्दुभिमुद्यम्य धरण्यामभ्यपातयत्।।4.11.45।। युद्धे प्राणहरे तस्मिन्निष्पिष्टो दुन्दुभिस्तदा। पपात च महाकायः क्षितौ पञ्चत्वमागतः4.11.46।। Kishkindha Kanda,11,47,तं तोलयित्वा बाहुभ्यां गतसत्त्वमचेतनम्। चिक्षेप बलवान्वाली वेगेनैकेन योजनम्4.11.47।। Kishkindha Kanda,11,48,तस्य वेगप्रविद्धस्य वक्त्रात्क्षतजबिन्दवः। प्रपेतुर्मारुतोत्क्षिप्ता मतङ्गप्याश्रमं प्रति4.11.48।। Kishkindha Kanda,11,49,तान्दृष्ट्वा पतितांस्तस्य मुनिश्शोणितविप्रुषः। क्रुद्धस्तत्र महाभागश्चिन्तयामास कोन्वयम्4.11.49।। Kishkindha Kanda,11,50,येनाहं सहसा स्पृष्टश्शोणितेन दुरात्मना। कोऽयं दुरात्मा दुर्भुदि्घरकृतात्मा च बालिशः4.11.50।। Kishkindha Kanda,11,51,इत्युक्त्वाऽथ विनिष्क्रम्य ददर्श मुनिसत्तमः। महिषं पर्वताकारं गतासुं पतितं भुवि4.11.51।। Kishkindha Kanda,11,52,स तु विज्ञाय तपसा वानरेण कृतं हि तत्। उत्ससर्ज महाशापं क्षेप्तारं वालिनं प्रति4.11.52।। Kishkindha Kanda,11,53,इह तेनाप्रवेष्टव्यं प्रविष्टस्य वधो भवेत्। वनं मत्संश्रयं येन दूषितं रुधिरस्रवैः4.11.53।। Kishkindha Kanda,11,54,सम्भग्नाः पादपाश्चैमेक्षिपतेहासुरीं तनुम्। समन्तादाद्योजनं पूर्णमाश्रमं मामकं यदि4.11.54।। आगमिष्यति दुर्बुद्धिर्व्यक्तं स न भविष्यति। Kishkindha Kanda,11,55,ये चापि सचिवाः स्तस्य संश्रिता मामकं वनम्4.11.55।। न च तैरिह वस्तव्यं श्रुत्वा यान्तु यथासुखम्। Kishkindha Kanda,11,56,यदि तेऽपी ह तिष्ठन्ति शपिष्ये तानपि ध्रुवम्4.11.56।। वनेऽस्मिन्मामके नित्यं पुत्रवत्परिरक्षिते। पत्राङ्कुरविनाशाय फलमूलाभवाय च4.11.57।। Kishkindha Kanda,11,57,यदि तेऽपी ह तिष्ठन्ति शपिष्ये तानपि ध्रुवम्4.11.56।। वनेऽस्मिन्मामके नित्यं पुत्रवत्परिरक्षिते। पत्राङ्कुरविनाशाय फलमूलाभवाय च4.11.57।। Kishkindha Kanda,11,58,दिवसश्चास्य मर्यादा यं द्रष्टा श्वोऽस्मि वानरम्। बहुवर्षसहस्राणि स वै शैलो भविष्यति4.11.58।। Kishkindha Kanda,11,59,ततस्ते वानराश्श्रुत्वा गिरं मुनिसमीरिताम्। निश्चक्रमुर्वनात्तस्मात्तान्दृष्ट्वा वालिरब्रवीत्4.11.59।। Kishkindha Kanda,11,60,किं भवन्तस्समस्ताश्च मतङ्गवनवासिनः। मत्समीपमनुप्राप्ता अपि स्वस्ति वनौकसाम्4.11.60।। Kishkindha Kanda,11,61,ततस्ते कारणं सर्वं तदा शापं च वालिनः। शशंसुर्वानरास्सर्वे वालिने हेममालिने4.11.61।। Kishkindha Kanda,11,62,एतच्छ्रुत्वा तदा वाली वचनं वानरेरितम्। स महर्षिंतदाऽसाद्य याचते स्म कृताञ्जलिः4.11.62।। Kishkindha Kanda,11,63,महर्षिस्तमनादृत्य प्रविवेशाश्रमं तदा। शापधारणभीतस्तु वाली विह्वलतां गतः4.11.63।। Kishkindha Kanda,11,64,ततश्शापभयाद्भीत ऋश्यमूकं महागिरिम्। प्रवेष्टुं नेच्छति हरिर्द्रष्टुं वापि नरेश्वर4.11.64।। Kishkindha Kanda,11,65,तस्याप्रवेशं ज्ञात्वाऽहमिदं राम महावनम्। विचरामि सहामात्यो विषादेन विवर्जितः4.11.65।। Kishkindha Kanda,11,66,एषोऽस्थिनिचयस्तस्य दुन्दुभेस्सम्प्रकाशते। वीर्योत्सेकान्निरस्तस्य गिरिकूटोपमो महान्4.11.66।। Kishkindha Kanda,11,67,इमे च विपुलास्सालास्सप्त शाखावलम्बिनः। यत्रैकं घटते वाली निष्पत्रयितुमोजसा4.11.67।। Kishkindha Kanda,11,68,एतदस्यासमं वीर्यं मया राम प्रकीर्तितम्। कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप4.11.68।। Kishkindha Kanda,11,69,तथा ब्रुवाणं सुग्रीवं प्रहसन् लक्ष्मणोऽब्रवीत्। कस्मिन्कर्मणि निर्वृत्ते श्रद्दध्या वालिनो वधम्4.11.69।। Kishkindha Kanda,11,70,तमुवाचाथ सुग्रीवस्सप्त सालानिमान्पुरा। एवमेकैकशो वाली विव्याथाथ स चासकृत्। 4.11.70।। Kishkindha Kanda,11,71,रामोऽपिदारयेदेषां बाणेनैकेन च द्रुमम्। वालिनं निहतं मन्ये दृष्ट्वा रामस्य विक्रमम्4.11.71।। Kishkindha Kanda,11,72,हतस्य महिषस्यास्थि पादेनैकेन लक्ष्मण। उद्यम्याथ प्रक्षिपेच्चेत्तरसा द्वे धनुश्शते4.11.72।। Kishkindha Kanda,11,73,एवमुक्त्वा तु सुग्रीवो रामं रक्तान्तलोचनम्। ध्यात्वा मुहूर्तं काकुत्स्थं पुनरेव वचोऽब्रवीत्4.11.73।। Kishkindha Kanda,11,74,शूरश्च शूरघाती च प्रख्यातबलपौरुषः। बलवान्वानरो वाली संयुगेष्वपराजितः4.11.74।। Kishkindha Kanda,11,75,दृश्यन्ते चास्य कर्माणि दुष्कराणि सुरैरपि। यानि सञ्चिन्त्य भीतोऽहमृश्यमूकं समाश्रितः4.11.75।। Kishkindha Kanda,11,76,तमजय्यमधृष्यं च वानरेन्द्रममर्षणम्। विचिन्तयन्न मुञ्चामि ऋश्यमूकमहन्विमम्4.11.76।। Kishkindha Kanda,11,77,उद्विग्नश्शङ्कितश्चापि विचरामि महावने। अनुरक्तैः सहामात्यैर्हनुमत्प्रमुखैर्वरैः4.11.77।। Kishkindha Kanda,11,78,उपलब्धं च मे श्लाघ्यं सन्मित्रं मित्रवत्सल। त्वामहं पुरुषव्याघ्र हिमवन्तमिवाश्रितः4.11.78।। Kishkindha Kanda,11,79,किं तु तस्य बलज्ञोऽहं दुर्भ्रातुर्बलशालिनः। अप्रत्यक्षं तु मे वीर्यं समरे तव राघव4.11.79।। Kishkindha Kanda,11,80,न खल्वहं त्वां तुलये नावमन्ये न भीषये। कर्मभिस्तस्य भीमैस्तु कातर्यं जनितं मम4.11.80।। Kishkindha Kanda,11,81,कामं राघव ते वाणी प्रमाणं धैर्यमाकृतिः। सूचयन्ति परं तेजो भस्मच्छन्नमिवानलम्4.11.81।। Kishkindha Kanda,11,82,तस्य तद्वचनं श्रुत्वा सुग्रीवस्य महात्मनः। स्मितपूर्वमथो रामः प्रत्युवाच हरिं प्रभुः4.11.82।। Kishkindha Kanda,11,83,यदि न प्रत्ययोऽस्मासु विक्रमे तव वानर। प्रत्ययं समरे श्लाघ्यमहमुत्पादयामि ते4.11.83।। Kishkindha Kanda,11,84,एवमुक्त्वा तु सुग्रीवं सान्त्वं लक्ष्मणपूर्वजः। राघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया4.11.84।। तोलयित्वा महाबाहुश्चिक्षेप दशयोजनम्। असुरस्य तनुं शुष्कं पादाङ्गुष्ठेन वीर्यवान्4.11.85।। Kishkindha Kanda,11,85,एवमुक्त्वा तु सुग्रीवं सान्त्वं लक्ष्मणपूर्वजः। राघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया4.11.84।। तोलयित्वा महाबाहुश्चिक्षेप दशयोजनम्। असुरस्य तनुं शुष्कं पादाङ्गुष्ठेन वीर्यवान्4.11.85।। Kishkindha Kanda,11,86,क्षिप्तं दृष्ट्वा ततः कायं सुग्रीवः पुनरब्रवीत्। लक्ष्मणस्याग्रतो राममिदं वचनमर्थवत्4.11.86।। Kishkindha Kanda,11,87,आर्द्रस्समांसः प्रत्यग्रः क्षिप्तः कायः पुरा सखे4.11.87।। लघुस्सम्प्रति निर्मांस स्तृणभूतश्च राघव। परिश्रान्तेन मत्तेन भ्रात्रा मे वालिना तदा4.11.88।। क्षिप्तमेवं प्रहर्षेण भवता रघुनन्दन। Kishkindha Kanda,11,88,आर्द्रस्समांसः प्रत्यग्रः क्षिप्तः कायः पुरा सखे4.11.87।। लघुस्सम्प्रति निर्मांस स्तृणभूतश्च राघव। परिश्रान्तेन मत्तेन भ्रात्रा मे वालिना तदा4.11.88।। क्षिप्तमेवं प्रहर्षेण भवता रघुनन्दन। Kishkindha Kanda,11,89,नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाऽधिकम्। आर्द्रं शुष्कमिति ह्येतत्सुमहद्राघवान्तरम्4.11.89।। Kishkindha Kanda,11,90,स एव संशयस्तात तव तस्य च यद्बले4.11.90।। सालमेकं तु निर्भिद्या भवेद्व्यक्तिर्बलाबले। Kishkindha Kanda,11,91,कृत्वेदं कार्मुकं सज्यं हस्तिहस्त मिवाततम्4.11.91।। आकर्णपूर्णमायम्य विसृजस्व महाशरम्। Kishkindha Kanda,11,92,इमं हि सालं सहित स्त्वया शरो न संशयोऽत्रास्ति विदारयिष्यति। अलं विमर्शेन मम प्रियं ध्रुवं कुरुष्व राजात्मज शापितो मया4.11.92।। Kishkindha Kanda,11,93,यथा हि तेजस्सु वरस्सदा रवि र्यथा हि शैलो हिमवान्महाद्रिषु। यथा चतुष्पात्सु च केसरी वर स्तथा नरणामसि विक्रमे वरः4.11.93।। Kishkindha Kanda,12,1,एतच्च वचनं श्रुत्वा सुग्रीवेण सुभाषितम्। प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम्4.12.1।। Kishkindha Kanda,12,2,स गृहीत्वा धनुर्घोरं शरमेकं च मानदः। सालमुद्दिश्य चिक्षेप ज्यास्वनैः पूरयन्दिशः। 4.12.2।। Kishkindha Kanda,12,3,स विसृष्टो बलवता बाणस्स्वर्णपरिष्कृतः। भित्त्वा सालान् गिरिप्रस्थं सप्त भूमिं विवेश ह4.12.3।। Kishkindha Kanda,12,4,प्रविष्टश्च मुहूर्तेन धरां भित्त्वा महाजवः। निष्पत्य च पुनस्तूर्णं स्वतूणीं प्रविवेश ह4.12.4।। Kishkindha Kanda,12,5,तान्दृष्ट्वा सप्त निर्भिन्नान्सालान्वानरपुङ्गवः। रामस्य शरवेगेन विस्मयं परमं गतः4.12.5।। Kishkindha Kanda,12,6,स मूर्ध्ना न्यपतदभ्मौ प्रलम्बीकृतभूषणः। सुग्रीवः परमप्रीतो राघवाय कृताञ्जलिः4.12.6।। Kishkindha Kanda,12,7,इदं चोवाच धर्मज्ञं कर्मणा तेन हर्षितः। रामं सर्वास्त्रविदुषां श्रेष्ठं शूरमवस्थितम्4.12.7।। Kishkindha Kanda,12,8,सेन्द्रानपि सुरान्सर्वांस्त्वं बाणैः पुरुषर्षभ। समर्थस्समरे हन्तुं किं पुन र्वालिनं प्रभो 4.12.8।। Kishkindha Kanda,12,9,येन सप्तमहासाला गिरिर्भूमिश्च दारिताः। बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः4.12.9।। Kishkindha Kanda,12,10,अद्य मे विगतश्शोकः प्रीतिरद्य परा मम। सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम्4.12.10।। Kishkindha Kanda,12,11,तमद्यैव प्रियार्थं मे वैरिणं भ्रातृरूपिणम्। वालिनं जहि काकुत्स्थ मया बद्धोऽयमञ्जलिः4.12.11।। Kishkindha Kanda,12,12,ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम्। प्रत्युवाच महाप्राज्ञो लक्ष्मणानुगतं वचः4.12.12।। Kishkindha Kanda,12,13,अस्माद्गच्छेम किष्किन्धां क्षिप्रं गच्छ त्वमग्रतः। गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम्4.12.13।। Kishkindha Kanda,12,14,सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम्। वृक्षैरात्मानमावृत्य व्यतिष्ठन्गहने वने4.12.14।। Kishkindha Kanda,12,15,सुग्रीवो व्यनदद्घोरं वालिनोऽऽह्वानकारणात्। गाढं परिहितो वेगान्नादैर्भिन्दन्निवाम्बरम्4.12.15।। Kishkindha Kanda,12,16,तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली महाबलः। निश्चक्राम सुसंरब्धो भास्करोऽस्ततटादिव4.12.16।। Kishkindha Kanda,12,17,ततस्सुतुमुलं युद्धं वालिसुग्रीवयोरभूत्। गगने ग्रहयोर्घोरं बुधाङ्गारकयोरिव4.12.17।। Kishkindha Kanda,12,18,तलैरशनिकल्पैश्च वज्रकल्पैश्च मुष्टिभिः। जघ्नतुस्समरेऽन्योन्यं भ्रातरौ क्रोधमूर्छितौ4.12.18।। Kishkindha Kanda,12,19,ततो रामो धनुष्पाणिस्तावुभौ समुदीक्ष्यतु। अन्योन्यसदृशौ वीरावुभौ देवाविवाश्विनौ4.12.19।। Kishkindha Kanda,12,20,यन्नावगच्छत्सुग्रीवं वालिनं वापि राघवः। ततो न कृतवान्बुद्धिं मोक्तुमन्तकरं शरम्4.12.20।। Kishkindha Kanda,12,21,एतस्मिन्नन्तरे भग्नस्सुग्रीवस्तेन वालिना। अपश्यन्राघवं नाथमृश्यमूकं प्रदुद्रुवे4.12.21।। Kishkindha Kanda,12,22,क्लान्तो रुधिरसिक्ताङ्गः प्रहारैर्जर्झरीकृतः। वालिनाऽभिद्रुतः क्रोधात्प्रविवेश महावनम्4.12.22।। Kishkindha Kanda,12,23,तं प्रविष्टं वनं दृष्ट्वा वाली शापभयार्दितः। मुक्तो ह्यसि त्वमित्युक्त्वा स निवृत्तो महाद्युतिः4.12.23।। Kishkindha Kanda,12,24,राघवोऽसि सह भ्रात्रा सह चैव हनूमता। तदेव वनमागच्छत्सुग्रीवो यत्र वानरः4.12.24।। Kishkindha Kanda,12,25,तं समीक्ष्यागतं रामं सुग्रीवस्सहलक्ष्मणम्। ह्रीमान्दीनमुवाचेदं वसुधामवलोकयन्4.12.25।। Kishkindha Kanda,12,26,आह्वयस्वेति मामुक्त्वा दर्शयित्वा च विक्रमम्। वैरिणा घातयित्वा च किमिदानीं त्वया कृतम्4.12.26।। Kishkindha Kanda,12,27,तामेन वेलां वक्तव्यं त्वया राघव तत्त्वतः। वालिनं न निहन्मीति ततो नाहमितो व्रजे4.12.27।। Kishkindha Kanda,12,28,तस्य चैवं ब्रुवाणस्य सुग्रीवस्य महात्मनः। करुणं दीनया वाचा राघवः पुनरब्रवीत्4.12.28।। Kishkindha Kanda,12,29,सुग्रीव श्रूयातां तात क्रोधश्च व्यपनीयताम्। कारणं येन बाणोऽयं न मया स विसर्जितः4.12.29।। Kishkindha Kanda,12,30,अलङ्कारेण वेषेण प्रमाणेन गतेन च। त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम्4.12.30।। Kishkindha Kanda,12,31,स्वरेण वर्चसा चैव प्रेक्षितेन च वानर। विक्रमेण च वाक्यैश्च व्यक्तिं वां नोपलक्षये4.12.31।। Kishkindha Kanda,12,32,ततोऽहं रूपसादृश्यान्मोहितो वानरोत्तम। नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम्4.12.32।। Kishkindha Kanda,12,33,जीवितान्तकरं घोरं सादृश्यात्तु विशङ्कितः। मूलघातो न नौ स्याद्धि द्वयोरपि कृतो मया4.12.33।। Kishkindha Kanda,12,34,त्वयि वीरे विपन्ने हि अज्ञानाल्लाघवान्मया। मौढ्यं च मम बाल्यं च ख्यापितं स्यात्कपीश्वर4.12.34।। Kishkindha Kanda,12,35,दत्ताभयवधो नाम पातकं महदुच्यते। अहं च लक्ष्मणश्चैव सीता च वरवर्णिनी4.12.35।। त्वदधीना वयं सर्वे वनेऽस्मिन् शरणं भवान्। Kishkindha Kanda,12,36,तस्माद्युध्यस्व भूयस्त्वं मा मा शङ्केश्च वानर4.12.36।। एतन्मुहूर्ते सुग्रीव पश्य वालिनमाहवे। निरस्तमिषुणैकेन वेष्टमानं महीतले4.12.37।। Kishkindha Kanda,12,37,तस्माद्युध्यस्व भूयस्त्वं मा मा शङ्केश्च वानर4.12.36।। एतन्मुहूर्ते सुग्रीव पश्य वालिनमाहवे। निरस्तमिषुणैकेन वेष्टमानं महीतले4.12.37।। Kishkindha Kanda,12,38,अभिज्ञानं कुरुष्व त्वमात्मनो वानरेश्वर। येन त्वामभिजानीयां द्वन्द्वयुद्धमुपागतम्4.12.38।। Kishkindha Kanda,12,39,गजपुष्पीमिमां फुल्लामुत्पाट्य शुभलक्षणाम्। कुरु लक्ष्मण कण्ठेऽस्य सुग्रीवस्य महात्मनः।।4.12.39।। Kishkindha Kanda,12,40,ततो गिरितटे जातामुत्पाट्य कुसुमाकुलाम्। लक्ष्मणो गजपुष्पीं तां तस्य कण्ठे व्यसर्जयत्4.12.40।। Kishkindha Kanda,12,41,स तया शुशुभे श्रीमान् लतया कण्ठसक्तया। मालयेव बलाकानां ससन्ध्य इव तोयदः4.12.41।। Kishkindha Kanda,12,42,विभ्राजमानो वपुषा रामवाक्यसमाहितः। जगाम सह रामेण किष्किन्थां वालिपालिताम्4.12.42।। Kishkindha Kanda,13,1,ऋष्यमूकात्स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः। जगाम सहसुग्रीवो वालिविक्रमपालिताम्4.13.1।। Kishkindha Kanda,13,2,समुद्यम्य महच्चापं रामः काञ्चनभूषितम्। शरांश्चादित्यसङ्काशान्गृहीत्वा रणसाधकान्4.13.2।। Kishkindha Kanda,13,3,अग्रतस्तु ययौ तस्य राघवस्य महात्मनः। सुग्रीवः संहतग्रीवो लक्ष्मणश्च महाबलः4.13.3।। Kishkindha Kanda,13,4,पृष्ठतो हनुमान्वीरो नलो नीलश्च वानरः। तारश्चैव महातेजा हरियूथपयूथपः4.13.4।। Kishkindha Kanda,13,5,ते वीक्षमाणा वृक्षांश्च पुष्पभारावलम्बिनः। प्रसन्नाम्बुवहाश्चैव सरितस्सागरङ्गमाः4.13.5।। Kishkindha Kanda,13,6,कन्दराणि च शैलांश्च निर्दराणि गुहास्तथा। शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः4.13.6।। Kishkindha Kanda,13,7,वैढूर्यविमलै:पर्णै पद्मैश्चाकोशकुट्मलैः। शोभितांत्सजलान्मार्गे तटाकांश्च व्यलोकयन्4.13.7।। Kishkindha Kanda,13,8,कारण्डैस्सारसैर्हंसैर्वञ्जुलैर्जलकुक्कुटैः। चक्रवाकै स्तथा चान्यैश्शकुनैः रुपनादितान्4.13.8।। Kishkindha Kanda,13,9,मृदुशष्पाङ्कुराहारान्निर्भयान्वनगोचरान्। चरतस्सर्वतौऽपश्यन् स्थलीषु हरिणान् स्थितान्4.13.9।। Kishkindha Kanda,13,10,तटाकवैरिणश्चापि शुक्लदन्तविभूषितान्। घोरानेकचरान्वन्यान्द्विरदान्कूलघातिनः4.13.10।। Kishkindha Kanda,13,11,मत्तान्गिरितटोत्कृष्टान्पर्वतानिव जङ्गमान्। वारणान्वारिदप्रख्यान्महीरेणुसमुक्षितान्4.13.11।। Kishkindha Kanda,13,12,वने वनचरांश्चान्यान्खेचरांश्च विहङ्गमान्। पश्यन्तस्त्वरिता जग्मुस्सुग्रीववशवर्तिनः4.13.12।। Kishkindha Kanda,13,13,तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः। द्रुमषण्डं वनं दृष्ट्वा रामस्सुग्रीवमब्रवीत्4.13.13।। Kishkindha Kanda,13,14,एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते। मेघसङ्घातविपुलः पर्यन्तकदलीवृतः4.13.14।। Kishkindha Kanda,13,15,किमेतत् ज्ञातुमिच्छामि सखे कौतूहलं हि मे। कौतूहलापनयनं कर्तुमिच्छाम्यहं त्वया4.13.15।। Kishkindha Kanda,13,16,तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः। गच्छन्नेवाचचक्षेऽथ सुग्रीवस्तन्महद्वनम्4.13.16।। Kishkindha Kanda,13,17,एतद्राघव विस्तीर्णमाश्रमं श्रमनाशनम्। उद्यानवनसम्पन्नं स्वादुमूलफलोदकम्4.13.17।। Kishkindha Kanda,13,18,अत्र सप्तजना नाम मुनय स्संश्रितव्रताः। सप्तैवासन्नधशशीर्षा नियतं जलशायिनः4.13.18।। Kishkindha Kanda,13,19,सप्तरात्रकृताहारा वायुनाचलवासिनः। दिवं वर्षशतैर्याताः सप्तभिः सकलेबराः4.13.19।। Kishkindha Kanda,13,20,तेषामेवं प्रभावानां द्रुमप्राकारसंवृतम्। आश्रमस्सुदुराधर्ष अपि सेन्द्रैस्सुरासुरैः4.13.20।। Kishkindha Kanda,13,21,पक्षिणो वर्जयन्त्येतत्तथाऽन्ये वनचारिणः। विशन्ति मोहाद्येऽप्यत्र निवर्तन्ते न ते पुनः4.13.21।। Kishkindha Kanda,13,22,विभूषणरवास्तत्र श्रूयन्ते सकलाक्षराः। तूर्यगीतस्वनाश्चात्र गन्धो दिव्यश्च राघव4.13.22।। Kishkindha Kanda,13,23,त्रेताग्नयोऽपि दीप्यन्ते दूमो ह्यत्र प्रकाशते। वेष्टयन्निव वृक्षाग्रान्कपोताङ्गारुणो घनः4.13.23।। Kishkindha Kanda,13,24,एते वृक्षाः प्रकाशन्ते धूमसंसक्तमस्तकाः। मेघजालप्रतिच्छन्ना वैढूर्यगिरयो यथा4.13.24।। Kishkindha Kanda,13,25,कुरु प्रणामं धर्मात्मंस्तेषामुद्दिश्य राघव। लक्ष्मणेव सह भ्रात्रा प्रयन्तस्सयताञ्जलिः4.13.25।। Kishkindha Kanda,13,26,प्रणमन्ति हि ये तेषां मुनीनां भावितात्मनाम्। न तेषामशुभं किञ्चिच्छरीरे राम दृश्यते4.13.26।। Kishkindha Kanda,13,27,ततो रामस्सह भ्रात्रा लक्ष्मणेन कृताञ्जलिः। समुद्दिश्य महात्मानस्तानृषीनभ्यवादयत्4.13.27।। Kishkindha Kanda,13,28,अभिवाद्य तु धर्मात्मा रामो भ्राता च लक्ष्मणः। सुग्रीवो वानराश्चैव जग्मुसंहृष्टमानसाः4.13.28।। Kishkindha Kanda,13,29,ते गत्वा दूरमध्वानं तस्मात्सप्तजनाश्रमात्। ददृशुस्तां दुराधर्षां किष्किन्धां वालिपालिताम्4.13.29।। Kishkindha Kanda,13,30,ततस्तु रामानुजरामवानराः प्रगृह्य शस्त्राण्युदिताग्र्यतेजसः। पुरीं सुरेशात्मजवीर्यपालितां वधाय शत्रोः पुनरागतास्सह4.13.30।। Kishkindha Kanda,14,1,सर्वे ते त्वरितं गत्वा किष्किन्धां वालि पालिताम्। वृक्षैरात्मानमावृत्य व्यतिष्ठन् गहने वने4.14.1।। Kishkindha Kanda,14,2,विचार्य सर्वतो दृष्टिं कानने काननप्रियः। सुग्रीवो विपुलग्रीवः क्रोधमाहारयद्भृशम्4.14.2।। Kishkindha Kanda,14,3,ततस्स निनदं घोरं कृत्वा युद्धाय चाह्वयत्। परिवारैः परिवृतो नादैर्भिन्दन्निवाम्बरम्4.14.3।। गर्जन्निव महामेघो वायुवेगपुरस्सरः। Kishkindha Kanda,14,4,अथ बालार्कसदृशो दृप्तसिंहगतिस्तदा4.14.4।। दृष्ट्वा रामं क्रियादक्षं सुग्रीवो वाक्यमब्रवीत्। Kishkindha Kanda,14,5,हरिवागुरया व्याप्तां तप्तकाञ्चनतोरणाम्। प्राप्ताः स्म ध्वजयन्त्राढ्यां किष्किन्धां वालिनः पुरीम्।।4.14.5।। Kishkindha Kanda,14,6,प्रतिज्ञा या त्वया वीर कृता वालिवधे पुरा। सफलां कुरु तां क्षिप्रं लतां काल इवागतः4.14.6।। Kishkindha Kanda,14,7,एवमुक्तस्तु धर्मात्मा सुग्रीवेण स राघवः। तमेवोवाच वचनं सुग्रीवं शत्रुसूदनः4.14.7।। Kishkindha Kanda,14,8,कृताभिज्ञानचिह्नस्त्व मनया गजसाह्वया। लक्ष्मणेन समुत्पाट्य यैषा कण्ठे कृता तव4.14.8।। Kishkindha Kanda,14,9,शोभसेऽह्यधिकं वीर लतया कण्ठसक्तया। विपरीत इवाकाशे सूर्यो नक्षत्रमालया4.14.9।। Kishkindha Kanda,14,10,अद्य वालिसमुत्थं ते भयं वैरं च वानर। एकेनाहं प्रमोक्ष्यामि बाणमोक्षेण संयुगे4.14.10।। Kishkindha Kanda,14,11,मम दर्शय सुग्रीव वैरिणं भ्रातृरूपिणम्। वाली विनिहतो यावद्वने पांसुषु वेष्टते4.14.11।। Kishkindha Kanda,14,12,यदि दृष्टिपथं प्राप्तो जीवन्स विनिवर्तते। ततो दोषेण मा गच्छेत्सद्यो गर्हेच्च मा भवान्4.14.12।। Kishkindha Kanda,14,13,प्रत्यक्षं सप्त ते साला मया बाणेन दारिताः। तेनावेहि बलेनाद्य वालिनं निहतं मया4.14.13।। Kishkindha Kanda,14,14,अनृतं नोक्तपूर्वं मे वीर कृच्छ्रेऽपि तिष्टता। धर्मलोभपरीतेन न च वक्ष्ये कथञ्चन4.14.14।। Kishkindha Kanda,14,15,सफलां च करिष्यामि प्रतिज्ञां जहि सम्भ्रमम्। प्रसूतं कलमं क्षेत्रे वर्षेणेव शतक्रतुः4.14.15।। Kishkindha Kanda,14,16,तदाह्वाननिमित्तं त्वं वालिनो हेममालिनः। सुग्रीव कुरु तं शब्दं निष्पतेद्येन वानरः4.14.16।। Kishkindha Kanda,14,17,जितकाशी बलश्लाघी त्वया चाधर्षितः पुरा। निष्पतिष्यत्यसङ्गेन वाली स प्रियसंयुगः4.14.17।। Kishkindha Kanda,14,18,रिपूणां धर्षिण शूरा मर्षयन्ति न संयुगे। जानन्तस्तु स्वकं वीर्यं स्त्रीसमक्षं विशेषतः4.14.18।। Kishkindha Kanda,14,19,स तु रामवचश्श्रुत्वा सुग्रीवो हेमपिङ्गलः। ननर्द क्रूरनादेन विनिर्भिन्दन्निवाम्बरम्4.14.19।। Kishkindha Kanda,14,20,तस्य शब्देन वित्रस्ता गावो यान्ति हतप्रभाः। राजदोषपरामृष्टाः कुलस्त्रिय इवाकुलाः4.14.20।। Kishkindha Kanda,14,21,द्रवन्ति च मृगाश्शीघ्रं भग्ना इव रणे हयाः। पतन्ति च खगा भूमौ क्षीणपुण्या इव ग्रहाः4.14.21।। Kishkindha Kanda,14,22,ततस्सजीमूतगणप्रणादो नादं ह्यमुञ्चत्त्वरया प्रतीतः। सूर्यात्मजश्शौर्यविवृद्धतेजाः सरित्पतिर्वाऽनिलचञ्चलोर्मिः4.14.22।। Kishkindha Kanda,15,1,अथ तस्य निनादं तं सुग्रीवस्य महात्मनः। शुश्रावान्तः पुर गतो वाली भ्रातुरमर्षणः4.15.1।। Kishkindha Kanda,15,2,श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम्। मदश्चैकपदे नष्टः क्रोधश्चापतितो महान्4.15.2।। Kishkindha Kanda,15,3,स तु रोषपरीताङ्गो वाली सन्ध्याकनकप्रभः। उपरक्त इवादित्यस्सद्यो निष्प्रभतां गतः4.15.3।। Kishkindha Kanda,15,4,वाली दंष्ट्राकरालस्तु क्रोधाद्दीप्ताग्निसन्निभः। भात्युत्पतितपद्मस्तु समृणाळ इव ह्रदः4.15.4।। Kishkindha Kanda,15,5,शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः। वेगेन चरणन्यासैर्दारयन्निव मेदिनीम्4.15.5।। Kishkindha Kanda,15,6,तं तु तारा परिष्वज्य स्नेहाद्दर्शितसौहृदाः। उवाच त्रस्तसम्भ्रान्ता हितोदर्कमिदं वचः4.15.6।। Kishkindha Kanda,15,7,साधु क्रोधमिमं वीर नदीवेगमिवागतम्। शयनादुत्थितः काल्यं त्यज भुक्तामिव स्रजम्4.15.7।। Kishkindha Kanda,15,8,काल्यमेतेन सङ्ग्रामं करिष्यसि च वानर। वीर ते शत्रुबाहुल्यं फल्गुता वा न विद्यते4.15.8।। Kishkindha Kanda,15,9,सहसा तव निष्क्रामो मम तावन्न रोचते। श्रूयतां चाभिधास्यामि यन्निमित्तं निवार्यसे4.15.9।। Kishkindha Kanda,15,10,पूर्वमापतितः क्रोधात्स त्वामाह्वयते युधि। निष्पत्य च निरस्तस्ते हन्यमानो दिशो गतः4.15.10।। Kishkindha Kanda,15,11,त्वया तस्य निरस्तस्य पीडितस्य विशेषतः। इहैत्य पुनराह्वानं शङ्कां जनयतीव मे4.15.11।। Kishkindha Kanda,15,12,दर्पश्च व्यवसायश्च यादृशस्तस्य नर्दतः। निनादश्चापि संरम्भो नैतदल्पं हि कारणम्4.15.12।। Kishkindha Kanda,15,13,नासहायमहं मन्ये सुग्रीवं तमिहागतम्। अवष्टब्धसहायश्च यमाश्रित्यैष गर्जति4.15.13।। Kishkindha Kanda,15,14,प्रकृत्या निपुणश्चैव बुद्धिमांश्चैव वानरः। अपरीक्षितवीर्येण सुग्रीवस्सहनैष्यति।।4.15.14।। Kishkindha Kanda,15,15,पूर्वमेव मया वीर श्रुतं कथयतो वचः। अङ्गदस्य कुमारस्य वक्ष्यामित्वा हितं वचः4.15.15।। Kishkindha Kanda,15,16,अङ्गदस्तु कुमारोऽयं वनान्तमुपनिर्गतः। प्रवृत्तिस्तेन कथिता चारै राप्तैर्निवेदिता4.15.16।। Kishkindha Kanda,15,17,अयोध्याधिपतेः पुत्रौ शूरौ समरदुर्जयौ। इक्ष्वाकूणां कुले जातौ प्रथितौ रामलक्ष्मणौ4.15.17।। सुग्रीवप्रियकामार्थं प्राप्तौ तत्र दुरासदौ। Kishkindha Kanda,15,18,तव भ्रातुर्हि विख्यातस्सहायो रणकर्कशः। रामः परबलामर्दी युगान्ताग्निरिवोत्थितः4.15.18।। Kishkindha Kanda,15,19,निवासवृक्षः साधूनामापन्नानां परा गतिः। आर्तानां संश्रयश्चैव यशसश्चैकभाजनम्4.15.19।। Kishkindha Kanda,15,20,ज्ञानविज्ञानसम्पन्नो निदेशे निरतः पितुः। धातूनामिव शैलेन्द्रो गुणानामाकरो महान्4.15.20।। Kishkindha Kanda,15,21,तत्क्षमं न विरोधस्ते सह तेन महात्मना। दुर्जयेनाप्रमेयेन रामेण रणकर्मसु4.15.21।। Kishkindha Kanda,15,22,शूर वक्ष्यामि ते किञ्चिन्न चेच्छाम्यभ्यसूयितुम्। श्रूयतां क्रियतां चैव तव वक्ष्यामि यद्धितम्4.15.22।। Kishkindha Kanda,15,23,यौवराज्येन सुग्रीवं तूर्णं साध्वभिषेचय। विग्रहं मा कृथा वीर भ्रात्रा राजन्बलीयसा4.15.23।। Kishkindha Kanda,15,24,अहं हि ते क्षमं मन्ये तेन रामेण सौहृदम्। सुग्रीवेण च सम्प्रीतिं वैरमुत्सृज्य दूरतः4.15.24।। Kishkindha Kanda,15,25,लालनीयो हि ते भ्राता यवीयानेष वानरः। तत्र वा सन्निहस्थो वा सर्वथा बन्धुरेव ते4.15.25।। Kishkindha Kanda,15,26,न हि तेन समं बन्धुं भुवि पश्यामि कञ्चन4.15.26।। दानमानादिसत्कारैः कुरुष्व प्रत्यनन्तरम्। वैरमेतत्समुत्सृज्य तव पार्श्वे स तिष्ठतु4.15.27।। Kishkindha Kanda,15,27,न हि तेन समं बन्धुं भुवि पश्यामि कञ्चन4.15.26।। दानमानादिसत्कारैः कुरुष्व प्रत्यनन्तरम्। वैरमेतत्समुत्सृज्य तव पार्श्वे स तिष्ठतु4.15.27।। Kishkindha Kanda,15,28,सुग्रीवो विपुलग्रीवस्तवबन्धुस्सदा मतः। भ्रातृस्सौहृदमालम्ब नान्या गतिरिहास्ति ते4.15.28।। Kishkindha Kanda,15,29,यदि ते मत्प्रियं कार्यं यदि चावैषि मां हिताम्। याच्यमानः प्रयत्नेन साधु वाक्यं कुरुष्व मे4.15.29।। Kishkindha Kanda,15,30,प्रसीद पथ्यं शृणु जल्पितं हि मे न रोष मेवानुविधातुमर्हसि। क्षमो हि ते कोसलराजसूनुना न विग्रहश्शक्रसमानतेजसा4.15.30।। Kishkindha Kanda,15,31,तदा हि तारा हितमेव वाक्यं तं वालिनं पथ्यमिदं बभाषे। न रोचते तद्वचनं हि तस्य कालाभिपन्नस्य विनाशकाले4.15.31।। Kishkindha Kanda,16,1,तामेवं ब्रुवतीं तारां ताराधिपनिभाननाम्। वाली निर्भर्त्सयामास वचनं चेदमब्रवीत्4.16.1।। Kishkindha Kanda,16,2,गर्जतोऽस्य च सुसम्भ्रश्च भ्रातुः शत्रोर्विशेषतः। मर्षयिष्याम्यहं केन कारणेन वरानने4.16.2।। Kishkindha Kanda,16,3,अधर्षितानां शूराणां समरेष्वनिवर्तिनाम्। धर्षणामर्षणं भीरु मरणादतिरिच्यते4.16.3।। Kishkindha Kanda,16,4,सोढुं न च समर्थोऽहं युद्धकामस्य संयुगे। सुग्रीवस्य च सम्रम्भं हीनग्रीवस्य गर्जतः4.16.4।। Kishkindha Kanda,16,5,न च कार्यो विषादस्ते राघवं प्रति मत्कृते। धर्मज्ञश्च कृतज्ञश्च कथं पापं करिष्यति4.16.5।। Kishkindha Kanda,16,6,निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुगच्छसि। सौहृदं दर्शितं तारे मयि भक्ति: कृता त्वया4.16.6।। Kishkindha Kanda,16,7,प्रतियोत्स्याम्यहं गत्वा सुग्रीवं जहि सम्भ्रमम्। दर्पमात्रं विनेष्यामि न च प्राणैर्विमोक्ष्यते4.16.7।। Kishkindha Kanda,16,8,अहं ह्याजौस्थितस्यास्य करिष्यामि यथेप्सितम्। वृक्षैर्मुष्टिप्रहारैश्च पीडितः प्रतियास्यति4.16.8।। Kishkindha Kanda,16,9,न मे गर्वितमायस्तं सहिष्यति दुरात्मवान्। कृतं तारे सहांयत्वं सौहृदं दर्शितं मयि4.16.9।। Kishkindha Kanda,16,10,शापिताऽपि मम प्राणैर्निवर्तस्व जयेन च। अहं जित्वा निवर्तिष्ये तमहं भ्रातरं रणे4.16.10।। Kishkindha Kanda,16,11,तं तु तारा परिष्वज्य वालिनं प्रियवादिनी। चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम्4.16.11।। Kishkindha Kanda,16,12,ततः स्वस्त्ययनं कृत्वा मन्त्रविद्विजयैषिणी। अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता4.16.12।। Kishkindha Kanda,16,13,प्रविष्टायां तु तारायां सह स्त्रीभिस्स्वमालयम्। नगरान्निर्ययौ क्रुद्धो महासर्प इव श्वसन्4.16.13।। Kishkindha Kanda,16,14,स निश्श्वस्य महातेजा वाली परमरोषणः। सर्वतश्चारयन् दृष्टिं शत्रुदर्शनकाङ्क्षया4.16.14।। Kishkindha Kanda,16,15,स ददर्श ततश्श्रीमान् सुग्रीवं हेमपिङ्गलम्। सुसंवीतमवष्टब्धं दीप्यमानमिवानलम्4.16.15।। Kishkindha Kanda,16,16,स तं दृष्ट्वा महावीर्यं सुग्रीवं पर्यवस्थितम्। गाढं परिदधे वासो वाली परमरोषण:4.16.16।। Kishkindha Kanda,16,17,स वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान्। सुग्रीवमेवाभिमुखो ययौ योद्धुं कृतक्षणः4.16.17।। Kishkindha Kanda,16,18,श्लिष्टं मुष्टिं समुद्यम्य संरब्धतरमागतः। सुग्रीवोऽपि समुद्दिश्य वालिनं हेममालिनम्4.16.18।। Kishkindha Kanda,16,19,तं वाली क्रोधताम्राक्षस्सुग्रीवं रणपण्डितम्। आपतन्तं महावेगमिदं वचनमब्रवीत्4.16.19।। Kishkindha Kanda,16,20,एष मुष्टिर्मयाबद्धो गाढस्सन्निहिताङ्गुलिः। मया वेगविमुक्तस्ते प्राणानादाय यास्यति4.16.20।। Kishkindha Kanda,16,21,एवमुक्तस्तु सुग्रीवः क्रुद्धो वालिनमब्रवीत्। तवैव चा हरन्प्राणान्मुष्टिः पततु मूर्धनि4.16.21।। Kishkindha Kanda,16,22,ताडितस्तेन सङ्कृद्धस्समभिक्रम्य वेगितः। अभवच्छोणितोद्गारी सोत्पीड इव पर्वतः4.16.22।। Kishkindha Kanda,16,23,सुग्रीवेण तु निस्सङ्गं सालमुत्पाट्य तेजसा। गात्रेष्वभिहतो वाली वज्रेणेव महागिरिः4.16.23।। Kishkindha Kanda,16,24,स तु वाली प्रचलितस्सालताडनविह्वलः। गुरुभारसमाक्रान्तो नौ सार्थ इव सागरे4.16.24।। Kishkindha Kanda,16,25,तौ भीमबलविक्रान्तौ सुपर्णसमवेगिनौ। प्रवृद्धौ घोरवपुषौ चन्द्रसूर्याविवाम्बरे। परस्परममित्रघ्नौ च्छिद्रान्वेषणतत्परौ4.16.25।। Kishkindha Kanda,16,26,ततोऽवर्धत वाली तु बलवीर्यसमन्वितः। सूर्यपुत्रो महावीर्यस्सुग्रीवः परिहीयते4.16.26।। Kishkindha Kanda,16,27,वालिना भग्नदर्पस्तु सुग्रीवो मन्दविक्रमः। वालिनं प्रति सामर्षो दर्शयामास लाघवम्4.16.27।। Kishkindha Kanda,16,28,वृक्षैः स्सशाखै स्सशिखैर्वज्रकोटिनिभैर्नखैः4.16.28।। मुष्टिभिर्जानुभिः पद्भिर्बाहुभिश्च पुनः पुनः। तयोर्युद्धमभूद्घोरं वृत्रवासवयोरिव4.16.29।। Kishkindha Kanda,16,29,वृक्षैः स्सशाखै स्सशिखैर्वज्रकोटिनिभैर्नखैः4.16.28।। मुष्टिभिर्जानुभिः पद्भिर्बाहुभिश्च पुनः पुनः। तयोर्युद्धमभूद्घोरं वृत्रवासवयोरिव4.16.29।। Kishkindha Kanda,16,30,तौ शोणिताक्तौ युध्येतां वानरौ वनचारिणौ। मेघाविव महाशब्दै स्तर्जमानौ परस्परम्4.16.30।। Kishkindha Kanda,16,31,हीयमानमथोऽपश्यत्सुग्रीवं वानरेश्वरम्। वीक्षमाणं दिशश्चैव राघवस्स मुहुर्मुहुः4.16.31।। Kishkindha Kanda,16,32,ततो रामो महातेजा आर्तं दृष्ट्वा हरीश्वरम्। शरं च वीक्षते वीरो वालिनो वधकारणात् 4.16.32।। Kishkindha Kanda,16,33,ततो धनुषि सन्धाय शरमाशीविषोपमम्। पुरयामास तच्चापं कालचक्रमिवान्तकः4.16.33।। Kishkindha Kanda,16,34,तस्य ज्यातलघोषेण त्रस्ताः पत्ररथेश्वराः। प्रदुद्रुवुर्मृगाश्चैव युगान्त इव मोहिताः4.16.34।। Kishkindha Kanda,16,35,मुक्तस्तु वज्रनिर्घोष: प्रदीप्ताशनिसन्निभः। राघवेण महाबाणो वालिवक्षसि पातितः4.16.35।। Kishkindha Kanda,16,36,ततस्तेन महातेजा वीयौटत्सिक्तः कपीश्वरः। वेगेनाभिहतो वाली निपपात महीतले4.16.36।। Kishkindha Kanda,16,37,इन्द्रध्वज इवोद्धूतः पौर्णमास्यां महीतले। आश्वयुक्समये मासि गतश्रीको विचेतनः4.16.37।। Kishkindha Kanda,16,38,नरोत्तमः कालयुगान्तकोपमं शरोत्तमं काञ्चनरूप्यभुषितम्। ससर्ज दीप्तं तममित्रमर्दनं सधूममग्निं मुखतो यथा हरः4.16.38।। Kishkindha Kanda,17,1,ततश्शरेणाभिहतो रामेण रणकर्कशः। पपात सहसा वाली निकृत्त इव पादपः4.17.1।। Kishkindha Kanda,17,2,स भूमौ न्यस्तसर्वाङ्गस्तप्तकाञ्चनभूषणः। अपतद्देवराजस्य मुक्तरश्मिरिव ध्वजः4.17.2।। Kishkindha Kanda,17,3,तस्मिन्निपतिते भूमौ वानराणां गणेश्वरे। नष्टचन्द्रमिव व्योम न व्यराजत भूतलम्4.17.3।। Kishkindha Kanda,17,4,भूमौ निपतितस्यापि तस्य देहं महात्मनः। न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः4.17.4।। Kishkindha Kanda,17,5,शक्रदत्ता वरा माला काञ्चनी वज्रभूषिता। दधार हरिमुख्यस्य प्राणांस्तेज्शियं च सा4.17.5।। Kishkindha Kanda,17,6,स तया मालया वीरो हेमया हरियूथपः। सन्ध्यानुगतपर्यन्तः पयोधर इवाभवत्4.17.6।। Kishkindha Kanda,17,7,तस्य माला च देहश्च मर्मघाती च यश्शरः। त्रिधेव रचिता लक्ष्मीः पतितस्यापि शोभते4.17.7।। Kishkindha Kanda,17,8,तदस्त्रं तस्य वीरस्य स्वर्गमार्गप्रभावनम्। रामबाणासनक्षिप्तमावहत्परमां गतिम्4.17.8।। Kishkindha Kanda,17,11,तं तदा पतितं सङ्ख्ये गतार्चिषमिवानलम्। बहुमान्य च तं वीर वीक्षमाणं शनैरिव।4.17.9।। ययातिमिव पुण्यान्ते देवलोकादिहच्युतम्। आदित्यमिव कालेन युगान्ते भुवि पातितम्।4.17.10।। महेन्द्रमिव दुर्धर्षंमुपेन्द्रमिव दुस्सहम्। महेन्द्रपुत्रं पतितं वालिनं हेममालिनम्।।4.17.11।। Kishkindha Kanda,17,12,सिंहोरस्कं महाबाहुं दीप्तास्यं हरिलोचनम्। लक्ष्मणानुगतो रामो ददर्शोपससर्प च।।4.17.12।। Kishkindha Kanda,17,14,तं दृष्ट्वा राघवं वाली लक्ष्मणं च महाबलम्। अब्रवीत्प्रश्रितं वाक्यं परुषं धर्मसंहितम्4.17.13।। त्वं नराधिपतेः पुत्रः प्रथितः प्रियदर्शनः कुलीनस्सत्त्वसम्पन्न स्तेजस्वी चरितव्रतः।।4.17.14।। पराङ्मुखवधं कृत्वा कोऽत्र प्राप्तस्त्वया गुणः। यदहं युद्धसंरब्धश्शरेणोरसि ताडित:4.17.15।। Kishkindha Kanda,17,16,रामः करुणवेदी च प्रजानां च हिते रतः। सानुक्रोशो जितोत्साहस्समयज्ञो दृढव्रतः।।4.17.16।। Kishkindha Kanda,17,17,इति ते सर्वभूतानि कथयन्ति यशो भुवि।।4.17.17।। Kishkindha Kanda,17,18,दमश्शमः क्षमा धर्मो धृतिस्सत्यं पराक्रमः। पार्थिवानां गुणा राजन्दण्डश्चाप्यपराधिषु4.17.18।। Kishkindha Kanda,17,19,तान्गुणान्सम्प्रधार्याहमग्र्यं चाभिजनं तव। तारया प्रतिषिद्धोऽपि सुग्रीवेण समागतः4.17.19।। Kishkindha Kanda,17,20,न मामन्येन सम्रब्धं प्रमत्तं योद्धु मर्हसि। इति मे बुद्धिरुत्पन्ना बभूवादर्शने तव4.17.20।। Kishkindha Kanda,17,21,न त्वां विनिहतात्मानं धर्मध्वजमधार्मिकम्। जाने पापसमाचारं तृणैः कूपमिवावृतम्4.17.21।। Kishkindha Kanda,17,22,सतां वेषधरं पापं प्रच्छन्नमिव पावकम्। नाहं त्वामभिजानामि धर्मच्छद्माभिसंवृतम्4.17.22।। Kishkindha Kanda,17,23,विषये वा पुरे वा ते यदा पापं करोम्यहम्। न च त्वामवजाने च कस्मात्त्वं हंस्यकिल्बिषम्4.17.23।। फलमूलाशनं नित्यं वानरं वनगोचरम्। मामिहाप्रतियुध्यन्तमन्येन च समागतम्4.17.24।। Kishkindha Kanda,17,24,विषये वा पुरे वा ते यदा पापं करोम्यहम्। न च त्वामवजाने च कस्मात्त्वं हंस्यकिल्बिषम्4.17.23।। फलमूलाशनं नित्यं वानरं वनगोचरम्। मामिहाप्रतियुध्यन्तमन्येन च समागतम्4.17.24।। Kishkindha Kanda,17,25,त्वं नराधिपतेः पुत्रः प्रतीतः प्रियदर्शनः। लिङ्गमप्यस्ति ते राजनन्दृश्यते धर्मसंहितम्4.17.25।। Kishkindha Kanda,17,26,कः क्षत्रियकुले जात्शृतवान्नष्टसंशयः। धर्मलिङ्गप्रतिच्छन्न क्रूरं कर्म समाचरेत्4.17.26।। Kishkindha Kanda,17,27,राम राजकुले जातो धर्मवानिति विश्रुतः।।4.17.27।। अभव्यो भव्यरूपेण किमर्थं परिधावसि। Kishkindha Kanda,17,28,साम दानं क्षमा धर्मस्सत्यं धृतिपराक्रमौ। पार्थिवानां गुणा राजन् दण्डश्चाप्यपराधिषु4.17.28।। Kishkindha Kanda,17,29,वयं वनचरा राम मृगा मूलफलाशना:। एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वरः4.17.29।। Kishkindha Kanda,17,30,भूमिर्हिरण्यं रूप्यं च विग्रहे कारणानि च। अत्र कस्ते वने लोभो मदीयेषु फलेषु वा4.17.30।। Kishkindha Kanda,17,31,नयश्च विनयश्चोभौ निग्रहानुग्रहावपि4.17.31।। राजवृत्तिरसङ्कीर्णा न नृपाः कामवृत्तयः। Kishkindha Kanda,17,32,त्वं तु कामप्रधानश्च कोपनश्चानवस्थितः4.17.32।। राजवृत्तेश्च सङ्कीणश्शरासनपरायणः। Kishkindha Kanda,17,33,न तेऽस्त्यपचितिर्धर्मे नार्थे बुद्धिरवस्थिता4.17.33।। इन्द्रियैः कामवृत्तस्सन्कृष्यसे मनुजेश्वर। Kishkindha Kanda,17,34,हत्वा बाणेन काकुत्स्थ मामिहानपराधिनम्4.17.34।। किं वक्ष्यसि सतां मध्ये कर्म कृत्वा जुगुप्सितम्। Kishkindha Kanda,17,35,राजहा ब्रह्महा गोघ्नश्चोरः प्राणिवधे रतः4.17.35।। नास्तिकः परिवेत्ता च सर्वे निरयगामिनः। Kishkindha Kanda,17,36,सूचकश्च कदर्यश्च मित्रघ्नो गुरुतल्पगः4.17.36।। लोकं पापात्मनामेते गच्छन्ते नात्र संशयः। Kishkindha Kanda,17,37,अधार्यं चर्म मे सद्भी रोमाण्यस्थि च वर्जितम्। अभक्ष्याणि च मांसानि त्वद्विधैर्धर्मचारिभिः4.17.37।। Kishkindha Kanda,17,38,पञ्च पञ्च नखा भक्ष्या ब्रह्मक्षत्रेण राघव4.17.38।। शल्यक श्श्वाविधो गोधा शशः कूर्मश्च पञ्चमः। Kishkindha Kanda,17,39,चर्म चास्थि च मे राजन् नस्पृशन्ति मनीषिणः4.17.39।। अभक्ष्याणि च मांसानि सोऽहं पञ्चनखो हतः। Kishkindha Kanda,17,40,तारया वाक्यमुक्तोऽहं सत्यं सर्वज्ञया हितम्4.17.40।। तदतिक्रम्य मोहेन कालस्य वशमागतः। Kishkindha Kanda,17,41,त्वया नाथेन काकुत्स्थ न सनाथा वसुन्धरा। प्रमदा शीलसम्पन्ना धूर्तेन पतिना यथा4.17.41।। Kishkindha Kanda,17,42,शठो नैकृतिकः क्षुद्रो मिथ्याप्रश्रितमानसः। कथं दशरथेन त्वं जातः पापो महात्मना4.17.42।। Kishkindha Kanda,17,43,छिन्नचारित्रकक्ष्येण सतां धर्मातिवर्तिना। त्यक्तधर्माङ्कुशेनाहं निहतो रामहस्तिना4.17.43।। Kishkindha Kanda,17,44,अशुभं चाप्ययुक्तं च सतां चैव विगर्हितम्। वक्ष्यसे चेदृशं कृत्वा सद्भिस्सह समागतः4.17.44।। Kishkindha Kanda,17,45,उदासीनेषु योऽस्मासु विक्रमऽस्ते प्रकाशितः। अपकारिषु ते राजन्नहि पश्यामि विक्रमम्4.17.45।। Kishkindha Kanda,17,46,दृश्यमानस्तु युद्ध्येथा मया यदि नृपात्मज। अद्य वैवस्वतं देवं पश्येस्त्वं निहतो मया4.17.46।। Kishkindha Kanda,17,47,त्वयाऽदृश्येन तु रणे निहतोऽहं दुरासदः। प्रसुप्तः पन्नगेनेव नरः पानवशं गतः4.17.47।। Kishkindha Kanda,17,48,मामेव यदि पूर्वं त्वमेतदर्थमचोदयः4.17.48।। मैथिलीमहमेकाह्ना तव चानीतवान्भवेत्। सुग्रीवप्रियकामेन यदहं निहतस्त्वया। कण्ठे बद्ध्वा प्रदद्यां ते निहतं रावणं रणे4.17.49।। Kishkindha Kanda,17,49,मामेव यदि पूर्वं त्वमेतदर्थमचोदयः4.17.48।। मैथिलीमहमेकाह्ना तव चानीतवान्भवेत्। सुग्रीवप्रियकामेन यदहं निहतस्त्वया। कण्ठे बद्ध्वा प्रदद्यां ते निहतं रावणं रणे4.17.49।। Kishkindha Kanda,17,50,न्यस्तां सागरतोये वा पाताले वापि मैथिलीम्। आनयेयं तवादेशाच्छ्वेतामश्वतरीमिव4.17.50।। Kishkindha Kanda,17,51,युक्तं यत्प्राप्नुयाद्राज्यं सुग्रीवस्स्वर्गते मयि। अयुक्तं यदधर्मेण त्वयाऽहं निहतो रणे4.17.51।। Kishkindha Kanda,17,52,काममेवं विधो लोकः कालेन विनियुज्यते। क्षमं चेद्भवता प्राप्तमुत्तरं साधु चिन्त्यताम्4.17.52।। Kishkindha Kanda,18,1,इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम्। परुषं वालिना रामो निहतेन विचेतसा4.18.1।। Kishkindha Kanda,18,2,तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम्। उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम्4.18.2।। धर्मार्थगुणसम्पन्नं हरीश्वरमनुत्तमम्। अधिक्षिप्तस्तदा रामः पश्चाद्वालिनमब्रवीत्4.18.3।। Kishkindha Kanda,18,3,तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम्। उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम्4.18.2।। धर्मार्थगुणसम्पन्नं हरीश्वरमनुत्तमम्। अधिक्षिप्तस्तदा रामः पश्चाद्वालिनमब्रवीत्4.18.3।। Kishkindha Kanda,18,4,धर्ममर्थं च कामं च समयं चापि लौकिकम्। अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे4.18.4।। Kishkindha Kanda,18,5,अपृष्ट्वा बुद्धिसम्पन्नान्वृद्धानाचार्यसम्मतान्। सौम्य वानरचापल्यात्किं मावक्तुमिहेच्छसि4.18.5।। Kishkindha Kanda,18,6,इक्ष्वाकूणामियं भूमिस्सशैलवनकानना। मृगपक्षिमनुष्याणां निग्रहप्रग्रहावपि4.18.6।। Kishkindha Kanda,18,7,तां पालयति धर्मात्मा भरतस्सत्यवागृजुः। धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः4.18.7।। Kishkindha Kanda,18,8,नयश्च विनयश्चोभौ यस्मिन्सत्यं च सुस्थितम्। विक्रमश्च यथा दृष्टस्स राजा देशकालवित्4.18.8।। Kishkindha Kanda,18,9,तस्य धर्मकृतादेशा वयमन्ये च पार्थिवाः। चरामो वसुधां कृत्स्नां धर्मसन्तानमिच्छवः4.18.9।। Kishkindha Kanda,18,10,तस्मिन्नृपतिशार्दूले भरते धर्मवत्सले। पालयत्यखिलां भूमिं कश्चरेद्धर्मनिग्रहम्4.18.10।। Kishkindha Kanda,18,11,ते वयं धर्मविभ्रष्टं स्वधर्मे परमे स्थिताः। भरताज्ञां पुरस्कृत्य निगृह्णीमो यथाविधि4.18.11।। Kishkindha Kanda,18,12,त्वं तु संक्लिष्टधर्मा च कर्मणा च विगर्हितः। कामतन्त्रप्रधानश्च न स्थितो राजवर्त्मनि4.18.12।। Kishkindha Kanda,18,13,ज्येष्ठो भ्राता पिता चैव यश्च विद्यां प्रयच्छति। त्रयस्ते पितरो ज्ञेया धर्म्ये च पथि वर्तिनः4.18.13।। Kishkindha Kanda,18,14,यवीयानात्मनः पुत्रशशिष्यश्चापि गुणोदितः। पुत्रवत्ते त्रयश्चिन्त्या धर्मश्चेदत्रकारणम्4.18.14।। Kishkindha Kanda,18,15,सूक्ष्मः परमदुरजेयस्सतां धर्मः प्लवङ्गम। हृदिस्थस्सर्वभूतानामात्मा वेद शुभाशुभम्4.18.15।। Kishkindha Kanda,18,16,चपलश्चपलैस्सार्धं वानरैरकृतात्मभिः। जात्यन्ध इव जात्यन्धैर्मन्त्रयन् प्रेक्षसे नु किम्4.18.16।। Kishkindha Kanda,18,17,अहं तु व्यक्ततामस्य वचनस्य ब्रवीमि ते। न हि मां केवलं रोषात्त्वं विगर्हितुमर्हसि4.18.17।। Kishkindha Kanda,18,18,तदेतत्कारणं पश्य यदर्थं त्वं मया हतः। भ्रातुर्वर्तसि भार्यायां त्यक्त्वा धर्मं सनातनम्4.18.18।। Kishkindha Kanda,18,19,अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः। रुमायां वर्तसे कामात्स्नुषायां पापकर्मकृत्4.18.19।। Kishkindha Kanda,18,20,तद्व्यतीतस्य ते धर्मात्कामवृत्तस्य वानर। भ्रातृभार्यावमर्शेऽस्मिन्दण्डोऽयं प्रतिपादितः4.18.20।। Kishkindha Kanda,18,21,न हि धर्मविरुद्धस्य लोकवृत्तादपेयुषः। दण्डादन्यत्र पश्यामि निग्रहं हरियूथप4.18.21। Kishkindha Kanda,18,22,न हि ते मर्षये पापं क्षत्रियोऽहं कुलोद्भवः। औरसीं भगिनीं वापि भार्यां वाप्यनुजस्य यः4.18.22।। प्रचरेत नरः कामात्तस्य दण्डो वधः स्मृतः। Kishkindha Kanda,18,23,भरतस्तु महीपालो वयं त्वादेशवर्तिनः4.18.23।। त्वं तु धर्मादतिक्रान्तः कथं शक्यं उपेक्षितुम्। Kishkindha Kanda,18,24,गुरूर्धर्मव्यतिक्रान्तं प्राज्ञो धर्मेण पालयन्4.18.24।। भरतः कामवृत्तानां निग्रहे पर्यवस्थितः। Kishkindha Kanda,18,25,वयं तु भरतादेश विधिं कृत्वा हरीश्वर। त्वद्विधान्भिन्नमर्यादान्नियन्तुपर्यवस्थिताः4.18.25।। Kishkindha Kanda,18,26,सुग्रीवेण च मे सख्यं लक्ष्मणेन यथा तथा। दारराज्यनिमित्तं च निःश्रेयसि रत स्स मे4.18.26।। प्रतिज्ञा च मया दत्ता तदा वानरसन्निधौ। प्रतिज्ञा च कथं शक्या मद्विधेनानवेक्षितुम्4.18.27।। Kishkindha Kanda,18,27,सुग्रीवेण च मे सख्यं लक्ष्मणेन यथा तथा। दारराज्यनिमित्तं च निःश्रेयसि रत स्स मे4.18.26।। प्रतिज्ञा च मया दत्ता तदा वानरसन्निधौ। प्रतिज्ञा च कथं शक्या मद्विधेनानवेक्षितुम्4.18.27।। Kishkindha Kanda,18,28,तदेभिः कारणैस्सर्वैर्महद्भिर्धर्मसंहितैः4.18.28।। शासनं तप यद्युक्तं तद्भवाननुमन्यताम्। Kishkindha Kanda,18,29,सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः4.18.29।। वयस्यस्योपकर्तव्यं धर्ममेवानुपश्यतः। Kishkindha Kanda,18,30,शक्यं त्वयाऽपि तत्कार्यं धर्ममेवानुपश्यता4.18.30।। श्रूयते मनुना गीतौ श्लोकौ चारित्रवत्सलौ। गृहीतौ धर्मकुशलैस्तत्तथा चरितं हरे4.18.31।। Kishkindha Kanda,18,31,शक्यं त्वयाऽपि तत्कार्यं धर्ममेवानुपश्यता4.18.30।। श्रूयते मनुना गीतौ श्लोकौ चारित्रवत्सलौ। गृहीतौ धर्मकुशलैस्तत्तथा चरितं हरे4.18.31।। Kishkindha Kanda,18,32,राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः। निर्मलास्स्वर्गमायान्ति सन्तस्सुकृतिनो यथा4.18.32।। Kishkindha Kanda,18,33,शासनाद्वाऽपिमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते। राजात्वशासन्पापस्य तदवाप्नोति किल्बिषम्4.18.33।। Kishkindha Kanda,18,34,आर्येण मम मान्धात्रा व्यसनं घोरमीप्सितम्। श्रमणेन कृते पापे यथा पापं कृतं त्वया4.18.34।। Kishkindha Kanda,18,35,अन्यैरपि कृतं पापं प्रमत्तैर्वसुधाधिपैः। प्रायश्चित्तं च कुर्वन्ति तेन तच्छाम्यते रजः4.18.35।। Kishkindha Kanda,18,36,तदलं परितापेन धर्मतः परिकल्पितः। वधो वानरशार्दूल न वयं स्ववशे स्थिता:।।4.18.36।। Kishkindha Kanda,18,37,शृणु चाप्यपरं भूयः कारणं हरिपुङ्गव। यच्छ्रुत्वा हेतुमद्वीर न मन्युं कर्तुमर्हसि4.18.37।। Kishkindha Kanda,18,38,न मे तत्र मनस्तापो न मन्युर्हरिपुङ्गव। वागुराभिश्च पाशैश्च कूटैश्च विविधैर्नराः4.18.38।। प्रतिच्छन्नाश्च दृश्याश्च गृह्णन्ति सुबहून्मृगान्। Kishkindha Kanda,18,39,प्रधावितान्वा वित्रस्तान्विस्रब्धांश्चापि निष्ठितान्4.18.39।। प्रमत्तानप्रमत्तान्वा नरा मांसार्थिनो भृशम्। विध्यन्ति विमुखांश्चापि न च दोषोऽत्र विद्यते4.18.40।। Kishkindha Kanda,18,40,प्रधावितान्वा वित्रस्तान्विस्रब्धांश्चापि निष्ठितान्4.18.39।। प्रमत्तानप्रमत्तान्वा नरा मांसार्थिनो भृशम्। विध्यन्ति विमुखांश्चापि न च दोषोऽत्र विद्यते4.18.40।। Kishkindha Kanda,18,41,यान्ति राजर्षयश्चात्र मृगयां धर्मकोविदाः। तस्मात्त्वं निहतो युद्धे मया बाणेन वानर4.18.41।। अयुध्यन्प्रतियुध्यन्वा यस्माच्छाखामृगो ह्यसि। Kishkindha Kanda,18,42,दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च4.18.42।। राजानो वानरश्रेष्ठ प्रदातारो न संशयः। Kishkindha Kanda,18,43,तान्न हिंस्यान्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत्4.18.43।। देवा मानुषरूपेण चरन्त्येते महीतले। Kishkindha Kanda,18,44,त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितः4.18.44।। प्रदूषयसि मां धर्मे पितृपैतामहे स्थितम्। Kishkindha Kanda,18,45,एवमुक्तस्तु रामेण वाली प्रव्यथितो भृशम्4.18.45।। न दोषं राघवे दध्यौ धर्मेऽधिगतनिश्चयः। Kishkindha Kanda,18,46,प्रत्युवाच ततो रामं प्राञ्जलिर्वानरेश्वरः।।4.18.46।। यत्त्वमात्थ नरश्रेष्ठ तदेवं नात्र संशयः। Kishkindha Kanda,18,47,प्रतिवक्तुं प्रकृष्टे हि नापकृष्टस्तु शक्नुयात्4.18.47।। यदयुक्तं मया पूर्वं प्रमादाद्वाक्यमप्रियम्। तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव। Kishkindha Kanda,18,48,तदयुक्तं मया पूर्वं प्रमादादुक्तमप्रियम् । तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव ।। 4.18.48 ।। Kishkindha Kanda,18,49,त्वं हि दृष्टार्थतत्त्वज्ञ: प्रजानां च हिते रतः। कार्यकारणसिद्धौ च प्रसन्ना बुद्धिरव्यया4.18.49।। Kishkindha Kanda,18,50,मामप्यगतधर्माणं व्यतिक्रान्तपुरस्कृतम्। धर्मसंहितया वाचा धर्मज्ञ परिपालय4.18.50।। Kishkindha Kanda,18,51,न त्वात्मानमहं शोचे न तारां न च बान्धवान्। यथा पुत्रं गुणज्येष्ठमङ्गदं कनकाङ्गदम् 4.18.51।। Kishkindha Kanda,18,52,स ममादर्शनाद्दीनो बाल्यात्प्रभृति लालितः। तटाक इव पीताम्बुरुपशोषं गमिष्यति4.18.52।। Kishkindha Kanda,18,53,बालश्चाकृतबुद्धिश्च एकपुत्रश्च मे प्रियः। तारेयो राम भवता रक्षणीयो महाबलः4.18.53।। Kishkindha Kanda,18,54,सुग्रीवे चाङ्गदे चैव विधत्स्व मतिमुत्तमाम्। त्वं हि शास्ता च गोप्ता च कार्याकार्यविधौ स्थितः4.18.54।। Kishkindha Kanda,18,55,या ते नरपते वृत्तिर्भरते लक्ष्मणे च या। सुग्रीवे चाङ्गदे राजंस्तां त्वमाधातुमिहासि4.18.55।। Kishkindha Kanda,18,56,मद्दोषकृतदोषां तां यथा तारां तपस्विनीम्। सुग्रीवो नावमन्येत तथाऽवस्थातुमर्हसि4.18.56।। Kishkindha Kanda,18,57,त्वया ह्यनुगृहीतेन राज्यं शक्यमुपासितुम्4.18.57।। त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना। शक्यं दिवं चार्जयितुं वसुधां चापि शासितुम्4.18.58।। Kishkindha Kanda,18,58,त्वया ह्यनुगृहीतेन राज्यं शक्यमुपासितुम्4.18.57।। त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना। शक्यं दिवं चार्जयितुं वसुधां चापि शासितुम्4.18.58।। Kishkindha Kanda,18,59,त्वत्तोऽहं वधमाकाङ्क्षन्वार्यमाणोऽपि तारया। सुग्रीवेण सह भ्रात्रा द्वन्द्वयुद्धमुपागतः4.18.59।। इत्युक्त्वा सन्नतो रामं विरराम हरीश्वरः। Kishkindha Kanda,18,60,स तमाश्वासयद्रामो वालिनं व्यक्तदर्शनम्4.18.60।। सामसम्पन्नया वाचा धर्मतत्त्वार्थयुक्तया। Kishkindha Kanda,18,61,न सन्तापस्त्वया कार्य एतदर्थं प्लवङ्गम4.18.61।। न वयं भवता चिन्त्या नाप्यात्मा हरिसत्तम। वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः4.18.62।। Kishkindha Kanda,18,62,न सन्तापस्त्वया कार्य एतदर्थं प्लवङ्गम4.18.61।। न वयं भवता चिन्त्या नाप्यात्मा हरिसत्तम। वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः4.18.62।। Kishkindha Kanda,18,63,दण्ड्ये यः पातयेद्दण्डं दण्ड्यो यश्चापि दण्ड्यते। कार्यकारणसिद्धार्था वुभौ तौ नावसीदतः4.18.63।। Kishkindha Kanda,18,64,तद्भवान्दण्डसंयोगादस्माद्विगतकल्मषः। गतस्स्वां प्रकृतिं धर्म्यं धर्मदृष्टेन वर्त्मना4.18.64।। Kishkindha Kanda,18,65,त्यज शोकं च मोहं च भयं च हृदये स्थितम्। त्वया विधानं हर्यग्र्य न शक्यमतिवर्तितुम्4.18.65।। Kishkindha Kanda,18,66,यथा त्वय्यङ्गदो नित्यं वर्तते वानरेश्वर। तथा वर्तेत सुग्रीवे मयि चापि न संशयः4.18.66।। Kishkindha Kanda,18,67,स तस्य वाक्यं मधुरं महात्मन स्समाहितं धर्मपथानुवर्तिनः। निशम्य रामस्य रणावमर्दिनो वचस्सुयुक्तं निजगाद वानरः4.18.67।। Kishkindha Kanda,18,68,शराभितप्तेन विचेतसा मया प्रदूषितस्त्वं यदजानता प्रभो। इदं महेन्द्रोपम भीमविक्रम प्रसादितस्त्वं क्षम मे नरेश्वर4.18.68।। Kishkindha Kanda,19,1,स वानरमहाराजश्शयानश्शरविक्षतः। प्रत्युक्तो हेतुमद्वाक्यैर्नोत्तरं प्रत्यपद्यत4.19.1।। Kishkindha Kanda,19,2,अश्मभिः प्रविभिन्नाङ्गः पादपैराहतो भृशम्। रामबाणेन चाक्रान्तो जीवितान्ते मुमोह सः4.19.2।। Kishkindha Kanda,19,3,तं भार्या बाणमोक्षेण रामदत्तेन संयुगे। हतं प्लवगशार्दूलं तारा शुश्राव वालिनम्4.19.3।। Kishkindha Kanda,19,4,सा सपुत्राप्रियं श्रुत्वा वधं भर्तुस्सुदारुणम्। निष्पपात भृशं तस्माद्विविधा गिरिगह्वरात्4.19.4।। Kishkindha Kanda,19,5,ये त्वङ्गदपरीवारा वानरा भीमविक्रमाः। ते सकार्मुकमालोक्य रामं त्रस्ताः प्रदुद्रुवुः4.19.5।। Kishkindha Kanda,19,6,सा ददर्श ततस्त्रस्तान्हरीनापततो भृशम्। यूथादिव परिभ्रष्टान्मृगान्निहतयूथपान्4.19.6।। Kishkindha Kanda,19,7,तानुवाच समासाद्य दुःखितान्दुखिता सती। रामवित्रासितान्सर्वाननुबद्धानिवेषुभिः4.19.7।। Kishkindha Kanda,19,8,वानराः राजसिंहस्य यस्य यूयं पुरस्सराः। तं विहाय सुसन्त्रस्ताः कस्माद्द्रवथ दुर्गताः4.19.8।। Kishkindha Kanda,19,9,राज्यहेतोस्स चेद्भ्राता भ्रात्रा रौद्रेण पातितः। रामेण प्रहितैरौद्रैर्मार्गणैर्दूरपातिभिः4.19.9।। Kishkindha Kanda,19,10,कपिपत्न्या वचश्श्रुत्वा कपयः कामरूपिणः। प्राप्तकालमविक्लिष्टमूचुर्वचनमङ्गनाम्4.19.10।। Kishkindha Kanda,19,11,जीवपुत्रे निवर्तस्व पुत्रं रक्षस्व चाङ्गदम्। अन्तको रामरूपेण हत्वा नयति वालिनम्4.19.11।। Kishkindha Kanda,19,12,क्षिप्तान् वृक्षान्समाविध्य विपुलाश्च शिलास्तथा। वाली वज्रसमैर्बाणै रामेण विनिपातितः4.19.12।। Kishkindha Kanda,19,13,अभिद्रुतमिदं सर्वं विद्रुतं प्रसृतं बलम्। अस्मिन् प्लवगशार्दूले हते शक्रसमप्रभे4.19.13।। Kishkindha Kanda,19,14,रक्ष्यतां नगरद्वारमङ्गदश्चाभिषिच्यताम्। पदस्थं वालिनः पुत्रं भजिष्यन्ति प्लवङ्गमाः4.19.14।। Kishkindha Kanda,19,15,अथवाऽरुचितं स्थानमिह ते रुचिरानने। आविशन्ति हि दुर्गाणि क्षिप्रमन्यानि वानराः4.19.15।। Kishkindha Kanda,19,16,अभार्याश्च सभार्याश्च सन्त्यत्र वनचारिणः। लुब्धेभ्यो विप्रयुक्तेभ्यस्तेभ्यो नस्तुमुलं भयम्4.19.16।। Kishkindha Kanda,19,17,अल्पान्तरगतानां तु श्रुत्वा वचनमङ्गना। आत्मनः प्रतिरूपं सा बभाषे चारुहासिनी4.19.17।। Kishkindha Kanda,19,18,पुत्रेण मम किं कार्यं राज्येनच किमात्मना। कपिसिंहे महाभागे तस्मिन्भर्तरि नश्यति4.19.18।। Kishkindha Kanda,19,19,पादमूलं गमिष्यामि तस्यैवाहं महात्मनः। योऽसौ रामप्रयुक्तेन शरेण विनिपातितः4.19.19।। Kishkindha Kanda,19,20,एवमुक्त्वा प्रदुद्राव रुदन्ती शोककर्शिता। शिरश्चोरश्च बाहुभ्यां दुःखेन समभिध्नती4.19.20।। Kishkindha Kanda,19,21,आव्रजन्ती ददर्शाथ पतिं निपतितं भुवि। हन्तारं दानवेन्द्राणां समरेष्वनिवर्तिनम्4.19.21।। Kishkindha Kanda,19,22,क्षेप्तारं पर्वतेन्द्राणां वज्राणामिव वासवम्। महावातसमाविष्टं महामेघौघनिस्स्वनम्4.19.22।। Kishkindha Kanda,19,23,क्रतुल्यपराक्रान्तं वृष्टवेवोपरतं घनम्। नर्दन्तं नर्दतां भीमं शूरं शूरेण पातितम्4.19.23।। शार्दूलेनामिषस्यार्थे मृगराजं यथाहतम्। Kishkindha Kanda,19,24,अर्चितं सर्वलोकस्य सपताकं सवेदिकम्4.19.24।। नागहेतोस्सुपर्णेन चैत्यमुन्मथितं यथा। Kishkindha Kanda,19,25,अवष्टभ्य च तिष्ठन्तं ददर्श धनुरुत्तम्4.19.25।। रामं रामानुजं चैव भर्तुश्चैवानुजं शुभा। Kishkindha Kanda,19,26,तावतीत्य समासाद्य भर्तारं निहतं रणे4.19.26।। समीक्ष्य व्यथिता भूमौ सम्भ्रान्ता निपपात ह। Kishkindha Kanda,19,27,सुप्त्वेव पुनरुत्थाय आर्यपुत्रेति शोचती4.19.27।। रुरोद सा पतिं दृष्ट्वा संवीतं मृत्युदामभिः। Kishkindha Kanda,19,28,तामवेक्ष्य तु सुग्रीवः क्रोशन्तीं कुररीमिव। विषादमगमत्कष्टं दृष्ट्वा चाङ्गदमागतम्4.19.28।। Kishkindha Kanda,20,1,रामचापविसृष्टेन शरेणान्तकरेण तम्। दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना4.20.1।। सा समासाद्य भर्तारं पर्यष्वजत भामिनी। Kishkindha Kanda,20,2,इषुणाऽभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम्4.20.2।। वानरेन्द्र महेन्द्राभं शोकसन्तप्तमानसा। तारा तरुमिवोन्मूलं पर्यदेवयदातुरा4.20.3।। Kishkindha Kanda,20,3,इषुणाऽभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम्4.20.2।। वानरेन्द्र महेन्द्राभं शोकसन्तप्तमानसा। तारा तरुमिवोन्मूलं पर्यदेवयदातुरा4.20.3।। Kishkindha Kanda,20,4,रणे दारुण विक्रान्त प्रवीर प्लवतां वर। किं दीनामपुरोभागामद्य त्वं नाभिभाषसे।।4.20.4।। Kishkindha Kanda,20,5,उत्तिष्ठ हरिशार्दूल भजस्व शयनोत्तमम्। नैवंविधाश्शेरते हि भूमौ नृपतिसत्तमाः4.20.5।। Kishkindha Kanda,20,6,अतीव खलु ते कान्ता वसुधा वसुधाधिप। गतासुरपि यां गात्रैर्मां विहाय निषेवसे4.20.6।। Kishkindha Kanda,20,7,व्यक्तमन्या त्वया वीर धर्मत: सम्प्रवर्तिता। किष्किन्धेव पुरी रम्या स्वर्गमार्गे विनिर्मिता4.20.7।। Kishkindha Kanda,20,8,यान्यस्माभिस्त्वया सार्धं वनेषु मधुगन्धिषु। विहृतानि त्वया काले तेषामुपरमः कृतः4.20.8।। Kishkindha Kanda,20,9,निरानन्दा निराशाऽहं निमग्ना शोकसागरे। त्वयि पञ्चत्वमापन्ने महायूथपयूथपे4.20.9।। Kishkindha Kanda,20,10,हृदयं सुस्थिरं मह्यं दृष्ट्वा विनिहतं पतिम्। यन्न शोकाभिसन्तप्तं स्फुटतेऽद्य सहस्रधा4.20.10।। Kishkindha Kanda,20,11,सुग्रीवस्य त्वया भार्या हृता स च विवासितः। यत्तु त्तस्य त्वया व्युष्टिः प्राप्तेयं प्लवगाधिप4.20.11।। Kishkindha Kanda,20,12,निश्श्रेयसपरा मोहात्त्वया चाहं विगर्हिता। यैषाऽब्रुवं हितं वाक्यं वानरेन्द्र हितैषिणी4.20.12।। Kishkindha Kanda,20,13,रूपयौवनदृप्तानां दक्षिणानां च मानद। नूनमप्सरसामार्य चित्तानि प्रमथिष्यसि4.20.13।। Kishkindha Kanda,20,14,कालो निस्संशयो नूनं जीवितान्तकरस्तव। बलाद्येनावपन्नोऽसि सुग्रीवस्यावशो वशम्4.20.14।। Kishkindha Kanda,20,15,वैधव्यं शोकसन्तापं कृपणं कृपणा सती। अदुःखोपचिता पूर्वं वर्तयिष्याम्यनाथवत्।।4.20.15।। Kishkindha Kanda,20,16,लालितश्चाङ्गदो वीरस्सुकुमारस्सुखोचितः। वर्त्स्यते कामवस्थां मे पितृव्ये क्रोधमूर्छिते।।4.20.16।। Kishkindha Kanda,20,17,कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम्। दुर्लभं दर्शनं वत्स तव तस्य भविष्यति।।4.20.17।। Kishkindha Kanda,20,18,समाश्वासय पुत्रं त्वं सन्देशं सन्दिशस्व मे। मूर्ध्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्यसि4.20.18।। Kishkindha Kanda,20,19,रामेण हि महत्कर्म कृतं त्वामभिनिघ्नता। आनृण्यं च गतं तस्य सुग्रीवस्य प्रतिश्रवे4.20.19।। Kishkindha Kanda,20,20,सकामो भव सुग्रीव रुमां त्वं प्रतिपत्स्यसे। भुङ्क्षव राज्यमनुद्विग्नश्शस्तो भ्राता रिपुस्तव4.20.20।। Kishkindha Kanda,20,21,किं मामेवं विलपतीं प्रेम्णा त्वं नाभिभाषसे। इमाः पश्य वरा बह्वीर्भार्यास्ते वानरेश्वर4.20.21।। Kishkindha Kanda,20,22,तस्या विलपितं श्रुत्वा वानर्यस्सर्वतश्च ताः। परिगृह्याङ्गदं दीनं दुःखार्ता परिचुक्रुशुः4.20.22।। Kishkindha Kanda,20,23,किमङ्गदं साङ्गदवीरबाहो विहाय यास्यद्य चिरप्रवासम्। न युक्तमेवं गुणसन्निकृष्टं विहाय पुत्रं प्रियपुत्र गन्तुम्4.20.23।। Kishkindha Kanda,20,24,किमप्रियं ते प्रिय चारुवेष मया कृतं नाथ सुतेन वा ते। सहाङ्गदां मां प्रविहाय वीर यत्प्रस्थितो दीर्घ मितः प्रवासम्4.20.24।। Kishkindha Kanda,20,25,यद्यप्रियं किञ्चिदसम्प्रधार्य कृतं मया स्यात्तव दीर्घबाहो। क्षमस्व मे तद्धरिवंशनाथ व्रजामि मूर्ध्ना तव वीर पादौ।।4.20.25।। Kishkindha Kanda,21,1,ततो निपतितां तारां च्युतां तारामिवाम्बरात्। शनैराश्वासयामास हनुमान्हरियूथपः4.21.1।। Kishkindha Kanda,21,2,गुणदोषकृतं जन्तुस्स्वकर्म फलहेतुकम्। अव्यग्रस्तदवाप्नोति सर्वं प्रेत्य शुभाशुभम्4.21.2।। Kishkindha Kanda,21,3,शोच्या शोचसि कं शोच्यं दीनं दीनाऽनुकम्पसे। कस्य कोवाऽनुशोच्योऽस्ति देहेऽस्मिन् बुद्बुदोपमे4.21.3।। Kishkindha Kanda,21,4,अङ्गदस्तु कुमारोऽयं द्रष्टव्यो जीवपुत्रया। अयत्यां च विधेयानि समर्थान्यस्य चिन्तय4.21.4।। Kishkindha Kanda,21,5,जानास्यनियतामेवं भूतानामागतिं गतिम्। तस्माच्छुभं हि कर्तव्यं पण्डितेनैह लौकिकम्।।4.21.5।। Kishkindha Kanda,21,6,यस्मिन्हरिसहस्राणि प्रयुतान्यर्बुदानि च। वर्तयन्ति कृतांशानि सोऽयं दिष्टान्तमागतः4.21.6।। Kishkindha Kanda,21,7,यदयं न्यायदृष्टार्थस्सामदानक्षमापरः। गतो धर्मजितां भूमिं नैनं शोचितुमर्हसि4.21.7।। Kishkindha Kanda,21,8,सर्वे हि हरिशार्दूलाः पुत्रश्चायं तवाङ्गदः। इदं हर्यृक्षपतिराज्यं च त्वत्सनाथमनिन्दिते4.21.8।। Kishkindha Kanda,21,9,ताविमौ शोकसन्तप्तौ शनैः प्रेरय भामिनि। त्वया परिगृहीतोऽयमङ्गदश्शास्तु मेदिनीम्4.21.9।। Kishkindha Kanda,21,10,सन्ततिश्च यथा दृष्टा कृत्यं यच्चापि साम्प्रतम्। राज्ञस्तत्क्रियतां सर्वमेष कालस्य निश्चयः4.21.10।। Kishkindha Kanda,21,11,संस्कार्यो हरिराजश्च अङ्गदश्चाभिषिच्यताम्। सिंहासनगतं पुत्रं पश्यन्ती शान्तिमेष्यसि4.21.11।। Kishkindha Kanda,21,12,सा तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता। अब्रवीदुत्तरं तारा हनूमन्तमवस्थितम्4.21.12।। Kishkindha Kanda,21,13,अङ्गदप्रतिरूपाणां पुत्राणामेकतश्शतम्। हतस्याप्यस्य वीरस्य गात्रसंश्लेषणं वरम्4.21.13।। Kishkindha Kanda,21,14,न चाहं हरिराजस्य प्रभवाम्यङ्गदस्य वा। पितृव्यस्तस्य सुग्रीवस्सर्वकार्येष्वनन्तरः4.21.14।। Kishkindha Kanda,21,15,न ह्येषाबुद्धिरास्थेया हनूमन्नङ्गदं प्रति। पिता हि बन्धुः पुत्रस्य न माता हरिसत्तम4.21.15।। Kishkindha Kanda,21,16,न हि मम हरिराजसंश्रयात् क्षमतरमस्ति परत्र चेह वा। अभिमुखहतवीरसेवितं शयनमिदं मम सेवितुं क्षमम्4.21.16।। Kishkindha Kanda,22,1,वीक्षमाणस्तु मन्दासुस्सर्वतो मन्दमुच्छ्वसन्। आदावेव तु सुग्रीवं ददर्शत्वात्मजाग्रतः4.22.1।। Kishkindha Kanda,22,2,तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरः। आभाष्य व्यक्तया वाचा सस्नेहमिदमब्रवीत्4.22.2।। Kishkindha Kanda,22,3,सुग्रीव दोषेण न मां गन्तुमर्हसि किल्बिषात्। कृष्यमाणं भविष्येण बुद्धिमोहेन मां बलात्4.22.3।। Kishkindha Kanda,22,4,युगपद्विहितं तात न मन्ये सुखमावयोः। सौहार्द भ्रातृयुक्तं हि तदिदं तात नान्यथा4.22.4।। Kishkindha Kanda,22,5,प्रतिपद्य त्वमद्यैव राज्यमेषां वनौकसाम्। मामप्यद्यैव गच्छन्तं विद्धि वैवस्वतक्षयम्4.22.5।। Kishkindha Kanda,22,6,जीवितं च हि राज्यं च श्रियं च विपुलामिमाम्। प्रजहाम्येष वै तूर्णं महच्चागर्हितं यशः4.22.6।। Kishkindha Kanda,22,7,अस्यां त्वहमवस्थायां वीर वक्ष्यामि यद्वचः। यद्यप्यसुकरं राजन्कर्तुमेव तदर्हसि4.22.7 Kishkindha Kanda,22,8,सुखार्हं सुखसंवृद्धं बालमेनमबालिशम्। बाष्पपूर्णमुखं पश्य भूमौ पतितमङ्गदम्4.22.8।। Kishkindha Kanda,22,9,मम प्राणैः प्रियतरं पुत्रं पुत्रमिवौरसम्। मया हीनमहीनार्थं पर्वतः परिपालय4.22.9।। Kishkindha Kanda,22,10,त्वमेवास्य हि दाता च परित्राता च सर्वशः। भयेष्वभयदश्चैव यथाऽहं प्लवगेश्वर।।4.22.10।। Kishkindha Kanda,22,11,एष तारात्मज श्रीमांस्त्वया तुल्यपराक्रमः। रक्षसां च वधे तेषामग्रतस्ते भविष्यति4.22.11।। Kishkindha Kanda,22,12,अनुरूपाणि कर्माणि विक्रम्य बलवान्रणे। करिष्यत्येष तारेयस्तरस्वी तरुणोऽङ्गदः4.22.12।। Kishkindha Kanda,22,13,सुषेणदुहिता चेयमर्थसूक्ष्मविमनिश्चये। औत्पातिके च विविधे सर्वतः परिनिष्ठिता4.22.13।। Kishkindha Kanda,22,14,यदेषा साध्विति ब्रूयात्कार्यं तन्मुक्तसंशयम्। न हि तारामतं किञ्चिदन्यथा परिवर्तते4.22.14।। Kishkindha Kanda,22,15,राघवस्य च ते कार्यं कर्तव्यमविशङ्कया। स्यादधर्मो ह्यकरणे त्वां च हिंस्याद्विमानितः4.22.15।। Kishkindha Kanda,22,16,इमां च मालामाधत्स्व दिव्यां सुग्रीव काञ्चनीम्। उदारा श्रीस्थिता ह्यास्यां सम्प्रजह्यान्मृते मयि4.22.16।। Kishkindha Kanda,22,17,इत्येवमुक्तस्सुग्रीवो वालिना भ्रातृसौहृदात्। हर्षं त्यक्त्वा पुनर्दीनो ग्रहग्रस्त इवोडुराट्4.22.17।। Kishkindha Kanda,22,18,तद्वालिवचनाच्छान्तः कुर्वन्युक्तमतन्द्रितः। जग्राह सोऽभ्यनुज्ञातो मालां तां चैव काञ्चनीम्4.22.18।। Kishkindha Kanda,22,19,तां मालां काञ्चनीम् दत्त्वा दृष्ट्वाचैवात्मजं स्थितम्। संसिद्धः प्रेत्यभावाय स्नेहादङ्गदमब्रवीत्4.22.19।। Kishkindha Kanda,22,20,देशकालौ भजस्वाद्य क्षममाणः प्रियाप्रिये। सुखदुःख सह: काले सुग्रीववशगो भव4.22.20।। Kishkindha Kanda,22,21,यथा हि त्वं महाबाहो लालितस्सततं मया। न तथा वर्तमानं त्वां सुग्रीवो बहुमंस्यते।।4.22.21।। Kishkindha Kanda,22,22,माऽस्यामित्रैर्गतं गच्छेर्मा शत्रुभिररिन्दम। भर्तुरर्थपरो दान्तः सुग्रीववशगो भव4.22.22।। Kishkindha Kanda,22,23,न चातिप्रणयः कार्यः कर्तव्योऽप्रणयश्च ते। उभयं हि महान्दोष स्तस्मादन्तरदृग्भव4.22.23।। Kishkindha Kanda,22,24,इत्युक्त्वाऽथ विवृत्ताक्षः शरसम्पीडितो भृशम्। विवृतैर्दशनै र्भीमैर्बभूवोत्क्रान्तजीवितः4.22.24।। Kishkindha Kanda,22,25,ततो विचुक्रुशुस्तत्र वानरा हरियूथपाः। परिदेवयमानास्ते सर्वे प्लवगपुङ्गवा:4.22.25।। Kishkindha Kanda,22,26,किष्किन्धा ह्यद्य शून्याऽसीत्स्वर्गते वानराधिपे। उद्यानानि च शून्यानि पर्वताः काननानि च4.22.26।। हते प्लवगशार्दूले निष्प्रभा वानराः कृताः। Kishkindha Kanda,22,27,यस्य वेगेन महता काननानि वनानि च। पुष्पौघेणानुबध्यन्ते करिष्यति तदद्य कः4.22.27।। Kishkindha Kanda,22,28,येन दत्तं महद्युद्धं गन्धर्वस्य महात्मनः4.22.28।। गोलभस्य महाबाहोर्दशवर्षाणि पञ्च च। नैव रात्रौ न दिवसे तद्युद्धमुपशाम्यति4.22.29।। Kishkindha Kanda,22,29,येन दत्तं महद्युद्धं गन्धर्वस्य महात्मनः4.22.28।। गोलभस्य महाबाहोर्दशवर्षाणि पञ्च च। नैव रात्रौ न दिवसे तद्युद्धमुपशाम्यति4.22.29।। Kishkindha Kanda,22,30,ततस्तु षोडशे वर्षे गोलभो विनिपातितः। हत्वा तं दुर्विनीतं तु वाली दंष्ट्राकरालवान्4.22.30।। सर्वाऽभयङ्करोऽस्माकं कथमेष निपातितः। Kishkindha Kanda,22,31,हते तु वीरे प्लवगाधिपे तदा प्लवङ्गमास्तत्र न शर्म लेभिरे। वनेचराः सिंहयुते महावने यथा हि गावो निहते गवां पतौ4.22.31।। Kishkindha Kanda,23,1,ततस्समुपजिघ्रन्ती कपिराजस्य तन्मुखम्। पतिं लोकाच्च्युतं तारा मृतं वचनमब्रवीत्4.23.1।। Kishkindha Kanda,23,2,शेषे त्वं विषमे दुःखमकृत्वा वचनं मम। उपलोपचिते वीर सुदुःखे वसुधातले4.23.2।। Kishkindha Kanda,23,3,मत्तः प्रियतरा नूनं वानरेन्द्र मही तव। शेषे हि तां परिष्वज्य मां च न प्रतिभाषसे4.23.3।। Kishkindha Kanda,23,4,सुग्रीवस्य वशं प्राप्तो विधिरेषभवत्यहो। सुग्रीव एव विक्रान्तो वीर साहसिकप्रिय4.23.4।। Kishkindha Kanda,23,5,ऋक्षवानरमुख्यास्त्वां बलिनः पर्युपासते। एषां विलपितं कृच्छ्रमङ्गदस्य च शोचतः4.23.5।। मम चेमा गिरः श्रुत्वा किं त्वं न प्रतिबुध्यसे। Kishkindha Kanda,23,6,इदं तच्छूरशयनं यत्र शेषे हतो युधि। शायिता निहता यत्र त्वयैव रिपवः पुरा4.23.6।। Kishkindha Kanda,23,7,विशुद्धसत्त्वाभिजन प्रिययुद्ध मम प्रिय। मामनाथां विहायैकां गतस्त्वमसि मानद4.23.7।। Kishkindha Kanda,23,8,शूराय न प्रदातव्या कन्या खलु विपश्चिता। शूरभार्यां हतां पश्य सद्यो मां विधवां कृताम्4.23.8।। Kishkindha Kanda,23,9,अवभग्नश्च मे मानो भग्ना मे शाश्वती गतिः4.23.9।। अगाधे च निमग्नाऽस्मि विपुले शोकसागरे। Kishkindha Kanda,23,10,अश्मसारमयं नूनमिदं मे हृदयं दृढम्4.23.10।। भर्तारं निहतं दृष्ट्वा यन्नाद्य शतधा कृतम्। Kishkindha Kanda,23,11,सुहृच्चैव हि भर्ता च प्रकृत्या मम च प्रियः। आहवे च पराक्रान्तश्शूरः पञ्चत्वमागतः4.23.11।। Kishkindha Kanda,23,12,पतिहीना तु या नारी कामं भवतु पुत्रिणी। धनधान्यैस्सुपूर्णाऽपि विधवेत्युच्यते बुधैः4.23.12।। Kishkindha Kanda,23,13,स्वगात्रप्रभवे वीर शेषे रुधिरमण्डले। क्रिमिरागपरिस्तोमे त्वमात्मशयने यथा4.23.13।। Kishkindha Kanda,23,14,रेणुशोणितसंवीतं गात्रं तव समन्ततः। परिरब्धुं न शक्नोमि भुजाभ्यां प्लवगर्षभ 4.23.14।। Kishkindha Kanda,23,15,कृतकृत्योऽद्य सुग्रीवो वैरेऽस्मिन्नतिदारुणे। यस्य रामविमुक्तेन हृतमेकेषुणा भयम्4.23.15।। Kishkindha Kanda,23,16,शरेण हृदि लग्नेन गात्रसंस्पर्शने तव। वार्यामि त्वां निरीक्षन्ती त्वयि पञ्चत्वमागते4.23.16।। Kishkindha Kanda,23,17,उद्ववर्ह शरं नीलस्तस्य गात्रगतं तदा। गिरिगह्वरसंलीनं दीप्तमाशीविषं यथा4.23.17।। Kishkindha Kanda,23,18,तस्य निष्कृष्यमाणस्य बाणस्य च बभौ द्युतिः। अस्तमस्तकसंरुद्धो रश्मिर्दिनकरादिव4.23.18।। Kishkindha Kanda,23,19,पेतुः क्षतजधारास्तु व्रणेभ्यस्तस्य सर्वशः। ताम्रगैरिकसम्पृक्ता धारा इव धराधरात्4.23.19।। Kishkindha Kanda,23,20,अवकीर्णं विमार्जन्ती भर्तारं रणरेणुना। अस्रैर्नयनजैश्शूरं सिषेचास्त्रसमाहतम्4.23.20।। Kishkindha Kanda,23,21,रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम्। उवाच तारा पिङ्गाक्षं पुत्रमङ्गदमङ्गना4.23.21।। Kishkindha Kanda,23,22,अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम्। सम्प्रसक्तस्य वैरस्य गतोऽन्तः पापकर्मणा4.23.22।। Kishkindha Kanda,23,23,बालसूर्योदयतनुं प्रयान्तं यमसदनम्। अभिवादय राजानं पितरं पुत्र मानदम्4.23.23।। Kishkindha Kanda,23,24,एवमुक्तस्समुत्थाय जग्राह चरणौ पितुः। भुजाभ्यां पीनवृत्ताभ्यामङ्गदोऽहमिति ब्रुवन्4.23.24।। Kishkindha Kanda,23,25,अभिवादयमानं त्वामङ्गदं त्वं यथा पुरा। दीर्घायुर्भव पुत्रेति किमर्थं नाभिभाषसे4.23.25।। Kishkindha Kanda,23,26,अहं पुत्रसहाया त्वामुपासे गतचेतसम्। सिंहेन निहतं सद्यो गौस्सवत्सेव गोवृषम्4.23.26।। Kishkindha Kanda,23,27,इष्ट्वा सङ्ग्रामयज्ञेन रामप्रहरणाम्भसि। अस्मिन्नवभृथे स्नातः कथं पत्न्या मया विना4.23.27।। Kishkindha Kanda,23,28,या दत्ता देवराजेन तव तुष्टेन संयुगे। शातकुम्भमयीं मालां तां ते पश्यामि नेह किम्4.23.28।। Kishkindha Kanda,23,29,राज्यश्रीर्न जहाति त्वां गतासुमपि मानद। सूर्यस्यावर्तमानस्य शैलराजमिव प्रभा4.23.29।। Kishkindha Kanda,23,30,न मे वचः पथ्यमिदं त्वया कृतं न चास्मि शक्ता हि निवारणे तव। हता सपुत्राऽस्मि हतेन संयुगे सह त्वया श्रीर्विजहाति मामिह4.23.30।। Kishkindha Kanda,24,1,तां चाश्रुवेगेन दुरासदेन त्वभिप्लुतां शोकमहार्णवेन। पश्यंस्तदा वाल्यनुजस्तरस्वी भ्रातुर्वधेनाप्रतिमेन तेपे4.24.1।। Kishkindha Kanda,24,2,स बाष्पपूर्णेन मुखेन वीक्ष्य क्षणेन निर्विण्णमना मनस्वी। जगाम रामस्य शनैस्समीपं भृत्यैर्वृतसम्परिदूयमानः4.24.2।। Kishkindha Kanda,24,3,स तं समासाद्य गृहीतचाप मुदात्तमाशीविषतुल्यबाणम्। यशस्विनं लक्षणलक्षिताङ्ग मवस्थितं राघव मित्युवाच4.24.3।। Kishkindha Kanda,24,4,यथा प्रतिज्ञातमिदं नरेन्द्र कृतं त्वया दृष्टफलं च कर्म। ममाद्य भोगेषु नरेन्द्रपुत्र मनो निवृत्तं सहजीवितेन4.24.4।। Kishkindha Kanda,24,5,अस्यां महिष्यां तु भृशं रुदन्त्या पुरे च विक्रोशति दुःखतप्ते। हतेऽग्रजे संशयितेऽङ्गदे च न राम राज्ये रमते मनो मे4.24.5।। Kishkindha Kanda,24,6,क्रोधादमर्षादतिविप्रधर्षा द्भ्रातुर्वधो मेऽनुमतः पुरस्तात्। हते त्विदानीं हरियूथपेऽस्मिन् सुतीव्रमिक्ष्वाकुकुमार तप्स्ये।।4.24.6।। Kishkindha Kanda,24,7,श्रेयोऽद्य मन्ये मम शैलमुख्ये तस्मिन्निवासश्चिरमृश्यमूके। यथा तथा वर्तयतस्स्ववृत्त्या नेमं निहत्य त्रिदिवस्य लाभः4.24.7।। Kishkindha Kanda,24,8,न त्वां जिघांसामि चरेति यन्मा मयं महात्मा मतिमानुवाच। तस्यैव तद्राम वचोऽनुरूप मिदं पुनः कर्म च मेऽनुरूपम्4.24.8।। Kishkindha Kanda,24,9,भ्राता कथं नाम महागुणस्य भ्रातुर्वधं राघव रोचयेत। राज्यस्य दुःखस्य च वीर सारं विचिन्तयन्कामपुरस्कृतऽस्सन्4.24.9।। Kishkindha Kanda,24,10,वधो हि मे मतो नासीत्स्वमाहात्म्याव्यतिक्रमात्। ममाऽसीद्बुद्धिदौरात्म्यात्प्राणहारी व्यतिक्रमः4.24.10।। Kishkindha Kanda,24,11,द्रुमशाखावभग्नोऽहं मुहुर्तं परिनिष्टनन्। सान्त्वयित्वा त्वनेनोक्तो न पुनः कर्तुमर्हसि4.24.11।। Kishkindha Kanda,24,12,भ्रातृत्वमार्यभावश्च धर्मश्चानेन रक्षितः। मया क्रोधश्च कामश्च कपित्वं च प्रदर्शितम्4.24.12।। Kishkindha Kanda,24,13,अचिन्तनीयं परिवर्जनीय मनीप्सनीयं स्वनवेक्षणीयम्। प्राप्तोऽस्मि पाप्मानमिमं नरेन्द्र भ्रातुर्वधात्त्वाष्ट्रवधादिवेन्द्र:4.24.13।। Kishkindha Kanda,24,14,पाप्मानमिन्द्रस्य मही जलं च वृक्षाश्च कामं जगृहुः स्त्रियश्च। को नाम पाप्मानमिमं क्षमेत शाखामृगस्य प्रतिपत्तुमिच्छेत्।।4.24.14।। Kishkindha Kanda,24,15,नार्हामि सम्मानमिमं प्रजानां न यौवराज्यं कुत एव राज्यम्। अधर्मयुक्तं कुलनाशयुक्त मेवंविधं राघव कर्म कृत्वा4.24.15।। Kishkindha Kanda,24,16,पापस्य कर्ताऽस्मि विगर्हितस्य क्षुद्रस्य लोकापकृतस्य चैव। शोको महान्मामभिवर्ततेऽयं वृष्टेर्यथा निम्नमिवाम्बुवेगः4.24.16।। Kishkindha Kanda,24,17,सोदर्यघातापरगात्रवालः सन्तापहस्ताक्षिशिरोविषाणः। एनोमयो मामभिहन्ति हस्ती दृप्तो नदीकूलमिव प्रवृद्धः।।4.24.17।। Kishkindha Kanda,24,18,अंहो बतेदं नृवराविषह्यं निवर्तते मे हृदि साधुवृत्तम्। विवर्णमग्नौ परितप्यमानं किट्टं यथा राघव जातरूपम्4.24.18।। Kishkindha Kanda,24,19,महाबलानां हरियूथपाना मिदं कुलं राघव मन्निमित्तम्। अस्याङ्गदप्यापि च शोकतापा दर्धस्थितप्राणमितीव मन्ये।।4.24.19।। Kishkindha Kanda,24,20,सुतस्सुलभ्यस्सुजनस्सुवश्यः कुतस्तु पुत्रस्सदृशोऽङ्गदेन। न चापि विद्येत स वीर देशो यस्मिन्भवेत्सोदरसन्निकर्षः4.24.20।। Kishkindha Kanda,24,21,यद्यङ्गदो वीरवरार्ह जीवेत् जीवेच्छ माता परिपालनार्थम्। विना तु पुत्रं परितापदीना तारा न जीवेदिति निश्चितं मे4.24.21।। Kishkindha Kanda,24,22,सोऽहं प्रवेक्ष्याम्यतिदीप्तमग्निं भ्रात्रा च पुत्रेण च सख्यमिच्छन्। इमे विचेष्यन्ति हरिप्रवीरा स्सीतां निदेशे तव वर्तमानाः4.24.22।। Kishkindha Kanda,24,23,कृत्स्नं तु ते सेत्स्यति कार्यमेत न्मय्यप्रतीते मनुजेन्द्रपुत्र कुलस्य हन्तारमजीवनार्हं रामानुजानीहि कृतागसं माम्4.24.23।। Kishkindha Kanda,24,24,इत्येवमार्तस्य रघुप्रवीरः श्रुत्वा वचो वाल्यनुजस्य तस्य। सञ्जातबाष्पः परवीरहन्ता रामो मुहूर्तं विमना बभूव4.24.24।। Kishkindha Kanda,24,25,तस्मिन् क्षणेऽभीक्ष्णमवेक्ष्यमाणः क्षितिक्षमावान्भुवनस्य गोप्ता। रामो रुदन्तीं व्यसने निमग्नां समुत्सुकः सोऽथ ददर्श ताराम्4.24.25।। Kishkindha Kanda,24,26,तां चारुनेत्रां कपिसिंहनाथां पतिं समाश्लिष्य तदा शयानाम्। उत्थापयामासुरदीनसत्त्वां मन्त्रिप्रधानाः कपिवीरपत्नीम्4.24.26।। Kishkindha Kanda,24,27,सा विस्फुरन्ती परिरभ्यमाणा भर्तुस्सकाशादपनीयमाना। ददर्श रामं शरचापपाणिं स्वतेजसा सूर्यमिव ज्वलन्तम्4.24.27।। Kishkindha Kanda,24,28,सुसंवृतं पार्थिपलक्षणैश्च तं चारुनेत्रं मृगशाबनेत्रा। अदृष्टपूर्वं पुरुषप्रधान मयं स काकुत्स्थ इति प्रजज्ञे4.24.28।। Kishkindha Kanda,24,29,तस्येन्द्रकल्पस्य दुरासदस्य महानुभावस्य समीपमार्या। आर्ताऽतितूर्णं व्यसनाभिपन्ना जगाम तारा परिविह्वलन्ती4.24.29।। Kishkindha Kanda,24,30,सा तं समासाद्य विशुद्धसत्त्वा शोकेन सम्भ्रान्तशरीरभावा। मनस्विनी वाक्यमुवाच तारा रामं रणोत्कर्षणलब्धलक्षम्4.24.30।। Kishkindha Kanda,24,31,त्वमप्रमेयश्च दुरासदश्च जितेन्द्रियश्चोत्तमधार्मिकश्च। अक्षय्यकीर्तिश्च विचक्षणश्च क्षितिक्षमावान्क्षतजोपमाक्षः4.24.31।। Kishkindha Kanda,24,32,त्वमात्तबाणासनबाणपाणि र्महाबलस्संहननोपपन्नः। मनुष्यदेहाभ्युदयं विहाय दिव्येन देहाभ्युदयेन युक्तः।।4.24.32।। Kishkindha Kanda,24,33,येनैक बाणेन हतः प्रियो मे तेनैव मां त्वं जहि सायकेन। हता गमिष्यामि समीपमस्य न मामृते राम रमेत वाली4.24.33।। Kishkindha Kanda,24,34,स्वर्गेऽपि पद्मामलपत्रनेत्र स्समेत्य सम्प्रेक्ष्य च मामपश्यन्। न ह्येष उच्चावचताम्रचूडा विचित्रवेषाप्सरसोऽभजिष्यत्।।4.24.34।। Kishkindha Kanda,24,35,स्वर्गेऽपि शोकं च विवर्णतां च मया विना प्राप्प्यति वीर वाली। रम्ये नगेन्द्रस्य तटावकाशे विदेहकन्यारहितो यथा त्वम्4.24.35।। Kishkindha Kanda,24,36,त्वं वेत्थ यावद्वनिताविहीनः प्राप्नोति दुःखं पुरुषः कुमारः। तत्त्वं प्रजानन् जहि मां न वाली दुःखं ममादर्शनजं भजेत4.24.36।। Kishkindha Kanda,24,37,यच्चापि मन्येत भवान्महात्मा स्त्रीघातदोषो न भवेत्तु मह्यम्। आत्मेयमस्येति च मां जहि त्वं न स्त्रीवधस्स्यान्मनुजेन्द्रपुत्र।।4.24.37।। Kishkindha Kanda,24,38,शास्त्रप्रयोगाद्विविधाच्च वेदा दात्माह्यनन्यः पुरुषस्य दाराः। दाराप्रदानान्नहि दानमन्य त्प्रदृश्यते ज्ञानवतां हि लोके4.24.38।। Kishkindha Kanda,24,39,त्वं चापि मां तस्य मम प्रियस्य प्रदास्य से धर्ममवेक्ष्य वीर अनेन दानेन न लप्स्यसे त्व मधर्मयोगं मम वीर घातात्4.24.39।। Kishkindha Kanda,24,40,आर्तामनाथामपनीयमाना मेवं विधामर्हसि मां निहन्तुम्। अहं हि मातङ्गविलासगामिना प्लवङ्गमानामृषभेण धीमता4.24.40।। विना वरार्होत्तमहेममालिना चिरं न शक्ष्यामि नरेन्द्र जीवितुम्। इत्येवमुक्तस्तु विभुर्महात्मा तारां समाश्वास्य हितं बभाषे4.24.41।। Kishkindha Kanda,24,41,आर्तामनाथामपनीयमाना मेवं विधामर्हसि मां निहन्तुम्। अहं हि मातङ्गविलासगामिना प्लवङ्गमानामृषभेण धीमता4.24.40।। विना वरार्होत्तमहेममालिना चिरं न शक्ष्यामि नरेन्द्र जीवितुम्। इत्येवमुक्तस्तु विभुर्महात्मा तारां समाश्वास्य हितं बभाषे4.24.41।। Kishkindha Kanda,24,42,मा वीरभार्ये विमतिं कुरुष्व लोको हि सर्वो विहितो विधात्रा। तं चैव सर्वं सुखदुःखयोगं लोकोऽब्रवीत्तेन कृतं विधात्रा।।4.24.42।। Kishkindha Kanda,24,43,त्रयोऽहि लोका विहितं विधानं नातिक्रमन्ते वशगा हि तस्य। प्रीतिं परां प्राप्स्यसि तां तथैव पुत्रस्तु ते प्राप्स्यति यौवराज्यम्। धात्रा विधानं विहितं तथैव न शूरपत्नयः परिदेवयन्ति4.24.43।। Kishkindha Kanda,24,44,आश्वासिता तेन तु राघवेण प्रभावयुक्तेन परन्तपेन। सा वीरपत्नी ध्वनता मुखेन सुवेषरूपा विरराम तारा4.24.44।। Kishkindha Kanda,25,1,सुग्रीवं चैव तारां च साङ्गदं सहलक्ष्मणः। समानशोकः काकुत्स्थ स्सान्त्वयन्निदमब्रवीत्।।4.25.1।। Kishkindha Kanda,25,2,न शोकपरितापेन श्रेयसा युज्यते मृतः। यदत्रानन्तरं कार्यं तत्समाधातुमर्हथ4.25.2।। Kishkindha Kanda,25,3,लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम्। न कालादुत्तरं किञ्चित्कर्म शक्यमुपासितुम्4.25.3।। Kishkindha Kanda,25,4,नियतिः कारणं लोके नियतिः कर्मसाधनम्। नियतिस्सर्वभूतानां नियोगेष्विह कारणम्4.25.4।। Kishkindha Kanda,25,5,न कर्ता कस्यचित्कश्चिन्नियोगे चापिनेश्वरः। स्वभावे वर्तते लोकस्तस्य कालः परायणम्4.25.5।। Kishkindha Kanda,25,6,न कालः कालमत्येति न कालः परिहीयते। स्वभावं च समासाद्य न कश्चिदतिवर्तते4.25.6।। Kishkindha Kanda,25,7,न कालस्यास्ति बन्धुत्वं न हेतुर्न पराक्रमः। न मित्रज्ञातिसम्बन्धः कारणं नात्मनो वशः4.25.7।। Kishkindha Kanda,25,8,किं तु कालपरीणामो द्रष्टव्यस्साधु पश्यता। धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः4.25.8।। Kishkindha Kanda,25,9,इतस्स्वां प्रकृतिं वाली गतःप्राप्तः क्रियाफलम्। धर्मार्थकाम संयोगैः पवित्रं प्लवगेश्वरः4.25.9।। Kishkindha Kanda,25,10,स्वधर्मस्य च संयोगाज्जितस्तेन महात्मना। स्वर्गः परिगृहीतश्च प्राणानपरिरक्षता4.25.10।। Kishkindha Kanda,25,11,एषा वै नियतिश्शेष्ठा यां गतो हरियूथपः। तदलं परितापेन प्राप्तकालमुपास्यताम्4.25.11।। Kishkindha Kanda,25,12,वचनान्ते तु रामस्य लक्ष्मणः परवीरहा। अवदत्प्रश्रितं वाक्यं सुग्रीवं गतचेतसम्4.25.12।। Kishkindha Kanda,25,13,कुरु त्वमस्य सुग्रीव प्रेतकार्यमनन्तरम्। ताराङ्गदाभ्यां सहितो वालिनो दहनं प्रति।।4.25.13।। Kishkindha Kanda,25,14,समाज्ञापय काष्ठानि शुष्कानि च बहूनि च। चन्दनादीनि दिव्यानि वालिसंस्कारकारणात्4.25.14।। Kishkindha Kanda,25,15,समाश्वासय चैनं त्वमङ्गदं दीनचेतसम्। मा भूर्बालिशबुद्धिस्त्वं त्वदधीनमिदं पुरम्4.25.15।। Kishkindha Kanda,25,16,अङ्गदस्त्वानयेन्माल्यं वस्त्राणि विविधानि च। घृतं तैलमथो गन्धान्यच्चात्र समनन्तरम्4.25.16।। Kishkindha Kanda,25,17,त्वं तार शिबिकां शीघ्रमादायागच्छ सम्भ्रमात्। त्वरा गुणवती युक्ता ह्यस्मिन्काले विशेषतः4.25.17।। Kishkindha Kanda,25,18,सज्जीभवन्तु प्लवगाश्शिबिकावाहनोचिताः। समर्था बलिनश्चैव निर्हरिष्यन्ति वालिनम्।।4.25.18।। Kishkindha Kanda,25,19,एवमुक्त्वा तु सुग्रीवं सुमित्रानन्दवर्धनः। तसौ भ्रातृसमीपस्थो लक्ष्मणः परवीरहा4.25.19।। Kishkindha Kanda,25,20,लक्ष्मणस्य वचश्श्रुत्वा तारस्सम्भ्रान्तमानसः। प्रविवेश गुहां शीघ्रं शिबिकासक्तमानसः4.25.20।। Kishkindha Kanda,25,21,आदाय शिबिकां तारस्स तु पर्यापतत्पुनः। वानरैरुह्यमानां तां शूरैरुद्वहनोचितैः4.25.21।। Kishkindha Kanda,25,22,दिव्यां भद्रासनयुतां शिबिकां स्यन्दनोपमाम्। पक्षिकर्मभिराचित्रां द्रुमकर्मविभूषिताम्4.25.22।। आचितां चित्रपत्तीभि स्सुनिविष्टां समन्ततः। विमानमिव सिद्धानां जालवातायनान्विताम्4.25.23।। सुनियुक्तां विशालां च सुकृतां विश्वकर्मणा। दारुपर्वतकोपेतां चारुकर्मपरिष्कृताम्4.25.24।। वराभरणहारैश्च चित्रमाल्योपशोभिताम्। गुहागहनसञ्छन्नां रक्तचन्दनभूषिताम्4.25.25।। पुष्पौघैस्समभिच्छन्नां पद्ममालाभिरेव च। तरुणादित्यवर्णाभिर्भ्राजमानाभिरावृताम्4.25.26।। Kishkindha Kanda,25,23,दिव्यां भद्रासनयुतां शिबिकां स्यन्दनोपमाम्। पक्षिकर्मभिराचित्रां द्रुमकर्मविभूषिताम्4.25.22।। आचितां चित्रपत्तीभि स्सुनिविष्टां समन्ततः। विमानमिव सिद्धानां जालवातायनान्विताम्4.25.23।। सुनियुक्तां विशालां च सुकृतां विश्वकर्मणा। दारुपर्वतकोपेतां चारुकर्मपरिष्कृताम्4.25.24।। वराभरणहारैश्च चित्रमाल्योपशोभिताम्। गुहागहनसञ्छन्नां रक्तचन्दनभूषिताम्4.25.25।। पुष्पौघैस्समभिच्छन्नां पद्ममालाभिरेव च। तरुणादित्यवर्णाभिर्भ्राजमानाभिरावृताम्4.25.26।। Kishkindha Kanda,25,24,दिव्यां भद्रासनयुतां शिबिकां स्यन्दनोपमाम्। पक्षिकर्मभिराचित्रां द्रुमकर्मविभूषिताम्4.25.22।। आचितां चित्रपत्तीभि स्सुनिविष्टां समन्ततः। विमानमिव सिद्धानां जालवातायनान्विताम्4.25.23।। सुनियुक्तां विशालां च सुकृतां विश्वकर्मणा। दारुपर्वतकोपेतां चारुकर्मपरिष्कृताम्4.25.24।। वराभरणहारैश्च चित्रमाल्योपशोभिताम्। गुहागहनसञ्छन्नां रक्तचन्दनभूषिताम्4.25.25।। पुष्पौघैस्समभिच्छन्नां पद्ममालाभिरेव च। तरुणादित्यवर्णाभिर्भ्राजमानाभिरावृताम्4.25.26।। Kishkindha Kanda,25,25,दिव्यां भद्रासनयुतां शिबिकां स्यन्दनोपमाम्। पक्षिकर्मभिराचित्रां द्रुमकर्मविभूषिताम्4.25.22।। आचितां चित्रपत्तीभि स्सुनिविष्टां समन्ततः। विमानमिव सिद्धानां जालवातायनान्विताम्4.25.23।। सुनियुक्तां विशालां च सुकृतां विश्वकर्मणा। दारुपर्वतकोपेतां चारुकर्मपरिष्कृताम्4.25.24।। वराभरणहारैश्च चित्रमाल्योपशोभिताम्। गुहागहनसञ्छन्नां रक्तचन्दनभूषिताम्4.25.25।। पुष्पौघैस्समभिच्छन्नां पद्ममालाभिरेव च। तरुणादित्यवर्णाभिर्भ्राजमानाभिरावृताम्4.25.26।। Kishkindha Kanda,25,26,ईदृशीं शिबिकां दृष्ट्वा रामो लक्ष्मणमब्रवीत्। क्षिप्रं विनीयतां वाली प्रेतकार्यं विधीयताम्4.25.26।। Kishkindha Kanda,25,27,ततो वालिनमुद्यम्य सुग्रीवश्शिबिकां तदा। आरोपयत विक्रोशन्नङ्गदेन सहैव तु4.25.27।। Kishkindha Kanda,25,28,आरोप्य शिबिकां चैव वालिनं गतजीवितम्। अलङ्कारैश्च विविधैर्माल्यैर्वस्त्रैश्च भूषितम्4.25.28।। Kishkindha Kanda,25,29,आज्ञापयत्तदा राजा सुग्रीव प्लवगेश्वरः। और्ध्वदैहिकमार्यस्य क्रियतामनुरूपतः।।4.25.29।। Kishkindha Kanda,25,30,विश्राणयन्तो रत्नानि विविधानि बहून्यपि। अग्रतः प्लवगा यान्तु शिबिका समनन्तरम्4.25.30।। Kishkindha Kanda,25,31,राज्ञामृद्दिविशेषा हि दृश्यन्ते भुवि यादृशाः। तादृशैरिह कुर्वन्तु वानरा भर्तृसत्क्रियाम्4.25.31।। Kishkindha Kanda,25,32,तादृशं वालिनः क्षिप्रं प्राकुर्वन्नौर्ध्वदैहिकम्। अङ्गदं परिगृह्याऽशु तारप्रभृतयस्तदा4.25.32।। क्रोशन्तः प्रययुस्सर्वे वानरा हतबान्धवाः। Kishkindha Kanda,25,33,ततः प्रणिहिताः सर्वा वानर्योस्य वशानुगाः4.25.33।। चुक्रुशु र्वीर वीरेति भूयः क्रोशन्ति ताः स्त्रीयः। Kishkindha Kanda,25,34,ताराप्रभृतयस्सर्वा वानर्यो हरियूथपाः। अनुजग्मुर्हि भर्तारं क्रोशन्त्यः करुणस्वनाः4.25.34।। Kishkindha Kanda,25,35,तासां रुदितशब्देन वानरीणां वनान्तरे। वनानि गिरयश्चैव विक्रोशन्तीव सर्वतः4.25.35।। Kishkindha Kanda,25,36,पुलिने गिरिनद्यास्तु विविक्ते जलसंवृते4.25.36।। चितां चक्रुस्सुबहवो वानराश्शोककर्शिता:। Kishkindha Kanda,25,37,अवरोप्य ततस्स्कन्धाच्छिबिकां वाहनोचिताः। तस्थुरेकान्तमाश्रित्य सर्वे शोकसमन्विता:4.25.37।। Kishkindha Kanda,25,38,ततस्तारा पतिं दृष्ट्वा शिबिकातलशायिनम्4.25.38।। आरोप्याङ्के शिरस्तस्य विललाप सुदुःखिता। Kishkindha Kanda,25,39,हा वानर महाराज हा नाथ मम वत्सल4.25.39।। हा महार्ह महाबाहो हा मम प्रिय पश्य माम्। जनं न पश्यसीमं त्वं कस्माच्छोकाभिपीडितम्।4.25.40।। Kishkindha Kanda,25,40,हा वानर महाराज हा नाथ मम वत्सल4.25.39।। हा महार्ह महाबाहो हा मम प्रिय पश्य माम्। जनं न पश्यसीमं त्वं कस्माच्छोकाभिपीडितम्।4.25.40।। Kishkindha Kanda,25,41,प्रहृष्टमिव ते वक्त्रं गतासोरपि मानद आस्तार्कसमवर्णं च लक्ष्यते जीवतो यथा4.25.41।। Kishkindha Kanda,25,42,एष त्वां रामरूपेण कालः कर्षति वानर। येन स्म विधवास्सर्वाः कृता एकेषुणा वने4.25.42।। Kishkindha Kanda,25,43,इमास्तास्तव राजेन्द्र वानर्योवल्लभास्सदा। पादैर्विकृष्ट मध्वानमागताः किं न बुध्यसे4.25.43।। Kishkindha Kanda,25,44,तवेष्टा ननु नामैता भार्याश्चन्द्रनिभाननाः। इदानीं नेक्षसे कस्तात्सुग्रीवं प्लवगेश्वरम्4.25.44।। Kishkindha Kanda,25,45,एते हि सचिवा राजं स्तारप्रभृतयस्तव। पुरवासी जनश्चायं परिवार्यासतेऽनघ4.25.45।। Kishkindha Kanda,25,46,विसर्जयैतान् प्लवगान्यथोचितमरिन्दम। ततः क्रीडामहे सर्वा वनेषु मदनोत्कटाः4.25.46।। Kishkindha Kanda,25,47,एवं विलपतीं तारां पतिशोकपरिप्लुताम्। उत्थापयन्ति स्म तदा वानर्यश्शोककर्शिताः4.25.47।। Kishkindha Kanda,25,48,सुग्रीवेण ततस्सार्धंमङ्गदः पितरं रुदन्। चितामारोपयामास शोकेनाभिहतेन्द्रियः4.25.48।। Kishkindha Kanda,25,49,ततोऽग्निं विधिवद्दत्त्वा सोऽपसव्यं चकार ह। पितरं दीर्घमध्वानं प्रस्थितं व्याकुलेन्द्रियः4.25.49।। Kishkindha Kanda,25,50,संस्कृत्य वालिनं ते तु विधिपूर्वं प्लवङ्गमाः। आजग्मुरुदकं कर्तुं नदीं शुभजलां शिवाम्4.25.50।। Kishkindha Kanda,25,51,ततस्ते सहितास्तत्र ह्यङ्गदं स्थाप्य चाग्रतः। सुग्रीवतारासहितास्सिषिचुर्वालिने जलम्4.25.51।। Kishkindha Kanda,25,52,सुग्रीवेणेव दीनेन दीनो भूत्वा महाबलः। समानशोकः काकुत्स्थ: प्रेतकार्याण्यकारयत्4.25.52।। Kishkindha Kanda,26,1,ततश्शोकाभिसन्तप्तं सुग्रीवं क्लिन्नवाससम्। शाखामृगमहामात्राः परिवार्योपतस्थिरे4.26.1।। Kishkindha Kanda,26,2,अभिगम्य महाबाहुं राममक्लिष्टकारिणम्। स्थिताः प्राञ्जलयस्सर्वे पितामहमिवर्षयः4.26.2।। Kishkindha Kanda,26,3,ततः काञ्चनशैलाभ स्तरुणार्कनिभाननः। अब्रवीत्प्राञ्जलिर्वाक्यं हनूमान्मारुतात्मजः4.26.3।। Kishkindha Kanda,26,4,भवत्प्रसादात्सुग्रीवः पितृपैतामहं महत्। वानराणां सुदुष्प्रापं प्राप्तो राज्यमिदं प्रभो4.26.4।। Kishkindha Kanda,26,5,भवता समनुज्ञातः प्रविश्य नगरं शुभम्4.26.5।। संविधास्यति कार्याणि सर्वाणि ससुहृज्जनः। स्नातोऽयं विविधैर्गन्धैरौषधैश्च यथाविधि4.26.6।। Kishkindha Kanda,26,6,भवता समनुज्ञातः प्रविश्य नगरं शुभम्4.26.5।। संविधास्यति कार्याणि सर्वाणि ससुहृज्जनः। स्नातोऽयं विविधैर्गन्धैरौषधैश्च यथाविधि4.26.6।। Kishkindha Kanda,26,7,अर्चयिष्यति रत्नैश्च माल्यैश्च त्वां विशेषतः। इमां गिरिगुहां रम्यामभिगन्तुमितोऽर्हसि4.26.7।। कुरुष्व स्वामिसम्बन्धं वानरान्सम्प्रहर्षय। Kishkindha Kanda,26,8,एवमुक्तो हनुमता राघवः परवीरहा4.26.8।। प्रत्युवाच हनूमन्तं बुद्धिमान्वाक्यकोविदः। Kishkindha Kanda,26,9,चतुर्दश समास्सौम्य ग्रामं वा यदि वा पुरम्4.26.9।। न प्रवेक्ष्यामि हनुमन्पितुर्निर्देशपालकः। Kishkindha Kanda,26,10,सुसमृद्धां गुहां रम्यां सुग्रीवो वानरर्षभः4.26.10।। प्रविष्टो विधिवद्वीरः क्षिप्रं राज्येऽभिषिच्यताम्। Kishkindha Kanda,26,11,एवमुक्त्वा हनूमन्तं रामस्सुग्रीवमब्रवीत्4.26.11।। वृत्तज्ञो वृत्तसम्पन्नमुदारबलविक्रमम्। Kishkindha Kanda,26,12,इममप्यङ्गदं वीर यौवराज्येऽभिषेचय4.26.12।। ज्येष्ठस्य स सुतो ज्येष्ठस्सदृशो विक्रमेण ते। अङ्गदोऽयमदीनात्मा यौवराज्यस्य भाजनम्4.26.13।। Kishkindha Kanda,26,13,इममप्यङ्गदं वीर यौवराज्येऽभिषेचय4.26.12।। ज्येष्ठस्य स सुतो ज्येष्ठस्सदृशो विक्रमेण ते। अङ्गदोऽयमदीनात्मा यौवराज्यस्य भाजनम्4.26.13।। Kishkindha Kanda,26,14,पूर्वोऽयं वार्षिको मासः श्रावणस्सलिलागमः। प्रवृत्तास्सौम्य चत्वारो मासा वार्षिकसज्ञिकाः4.26.14।। Kishkindha Kanda,26,15,नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम्। अस्मिन्वत्स्याम्यहं सौम्य पर्वते सह लक्ष्मणः4.26.15।। Kishkindha Kanda,26,16,इयं गिरिगुहा रम्या विशाला युक्तमारुता। प्रभूतसलिला सौम्य प्रभूतकमलोत्पला4.26.16।। Kishkindha Kanda,26,17,कार्तिके समनुप्राप्ते त्वं रावणवधे यत। एष नस्समयस्सौम्य प्रविश त्वं स्वमालयम्4.26.17।। अभिषिक्तस्व राज्ये च सुहृदस्सम्प्रहर्षय। Kishkindha Kanda,26,18,इति रामाभ्यनुज्ञातस्सुग्रीवो वानराधिपः4.26.18।। प्रविवेश पुरीं रम्यां किष्किन्धां वालिपालिताम्। Kishkindha Kanda,26,19,तं वानरसहस्राणि प्रविष्टं वानरेश्वरम्4.26.19।। अभिवाद्य प्रविष्टानि सर्वतः पर्यवारयन्। Kishkindha Kanda,26,20,ततः प्रकृतयस्सर्वा दृष्ट्वा हरिगणेश्वरम्4.26.20।। प्रणम्य मूर्ध्ना पतिता वसुधायां समाहिताः। Kishkindha Kanda,26,21,सुग्रीवः प्रकृतीस्सर्वास्सम्भाष्योत्थाप्य वीर्यवान्4.26.21।। भ्रातुरन्तःपुरं सौम्यं प्रविवेश महाबलः। Kishkindha Kanda,26,22,प्रविश्य त्वभिनिष्क्रान्तं सुग्रीवं प्लवगेश्वरम्4.26.22।। अभ्यषिञ्चन्त सुहृदस्सहस्राक्षमिवामराः। Kishkindha Kanda,26,23,तस्य पाण्डुरमाजह्रुश्छत्रं हेमपरिष्कृतम्4.26.23।। शुक्ले च वालव्यजने हेमदण्डे यशस्करे। तथा सर्वाणि रत्नानि सर्वबीजौषधीरपि4.26.24 सक्षीराणां च वृक्षाणां प्ररोहान्कुसुमानि च। शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम्4.26.25।। सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च। चन्दनानि च दिव्यानि गन्धांश्च विविधान्बहून्4.26.26।। अक्षतं जातरूपं च प्रियङ्गुमधुसर्पिषी। दधि चर्म च वैयाघ्रं वाराही चाप्युपानहौ4.26.27।। समालम्भनमादाय रोचनां समनश्शिलाम्। आग्मुस्तत्र मुदिता वराः कन्यास्तु षोडश4.26.28।। Kishkindha Kanda,26,24,तस्य पाण्डुरमाजह्रुश्छत्रं हेमपरिष्कृतम्4.26.23।। शुक्ले च वालव्यजने हेमदण्डे यशस्करे। तथा सर्वाणि रत्नानि सर्वबीजौषधीरपि4.26.24 सक्षीराणां च वृक्षाणां प्ररोहान्कुसुमानि च। शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम्4.26.25।। सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च। चन्दनानि च दिव्यानि गन्धांश्च विविधान्बहून्4.26.26।। अक्षतं जातरूपं च प्रियङ्गुमधुसर्पिषी। दधि चर्म च वैयाघ्रं वाराही चाप्युपानहौ4.26.27।। समालम्भनमादाय रोचनां समनश्शिलाम्। आग्मुस्तत्र मुदिता वराः कन्यास्तु षोडश4.26.28।। Kishkindha Kanda,26,25,तस्य पाण्डुरमाजह्रुश्छत्रं हेमपरिष्कृतम्4.26.23।। शुक्ले च वालव्यजने हेमदण्डे यशस्करे। तथा सर्वाणि रत्नानि सर्वबीजौषधीरपि4.26.24 सक्षीराणां च वृक्षाणां प्ररोहान्कुसुमानि च। शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम्4.26.25।। सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च। चन्दनानि च दिव्यानि गन्धांश्च विविधान्बहून्4.26.26।। अक्षतं जातरूपं च प्रियङ्गुमधुसर्पिषी। दधि चर्म च वैयाघ्रं वाराही चाप्युपानहौ4.26.27।। समालम्भनमादाय रोचनां समनश्शिलाम्। आग्मुस्तत्र मुदिता वराः कन्यास्तु षोडश4.26.28।। Kishkindha Kanda,26,26,तस्य पाण्डुरमाजह्रुश्छत्रं हेमपरिष्कृतम्4.26.23।। शुक्ले च वालव्यजने हेमदण्डे यशस्करे। तथा सर्वाणि रत्नानि सर्वबीजौषधीरपि4.26.24 सक्षीराणां च वृक्षाणां प्ररोहान्कुसुमानि च। शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम्4.26.25।। सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च। चन्दनानि च दिव्यानि गन्धांश्च विविधान्बहून्4.26.26।। अक्षतं जातरूपं च प्रियङ्गुमधुसर्पिषी। दधि चर्म च वैयाघ्रं वाराही चाप्युपानहौ4.26.27।। समालम्भनमादाय रोचनां समनश्शिलाम्। आग्मुस्तत्र मुदिता वराः कन्यास्तु षोडश4.26.28।। Kishkindha Kanda,26,27,तस्य पाण्डुरमाजह्रुश्छत्रं हेमपरिष्कृतम्4.26.23।। शुक्ले च वालव्यजने हेमदण्डे यशस्करे। तथा सर्वाणि रत्नानि सर्वबीजौषधीरपि4.26.24 सक्षीराणां च वृक्षाणां प्ररोहान्कुसुमानि च। शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम्4.26.25।। सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च। चन्दनानि च दिव्यानि गन्धांश्च विविधान्बहून्4.26.26।। अक्षतं जातरूपं च प्रियङ्गुमधुसर्पिषी। दधि चर्म च वैयाघ्रं वाराही चाप्युपानहौ4.26.27।। समालम्भनमादाय रोचनां समनश्शिलाम्। आग्मुस्तत्र मुदिता वराः कन्यास्तु षोडश4.26.28।। Kishkindha Kanda,26,28,तस्य पाण्डुरमाजह्रुश्छत्रं हेमपरिष्कृतम्4.26.23।। शुक्ले च वालव्यजने हेमदण्डे यशस्करे। तथा सर्वाणि रत्नानि सर्वबीजौषधीरपि4.26.24 सक्षीराणां च वृक्षाणां प्ररोहान्कुसुमानि च। शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम्4.26.25।। सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च। चन्दनानि च दिव्यानि गन्धांश्च विविधान्बहून्4.26.26।। अक्षतं जातरूपं च प्रियङ्गुमधुसर्पिषी। दधि चर्म च वैयाघ्रं वाराही चाप्युपानहौ4.26.27।। समालम्भनमादाय रोचनां समनश्शिलाम्। आग्मुस्तत्र मुदिता वराः कन्यास्तु षोडश4.26.28।। Kishkindha Kanda,26,29,ततस्ते वानरश्रेष्ठं यथाकालं यथाविधि। रत्नैर्वस्त्रैश्च भक्ष्यैश्च तोषयित्वा द्विजर्षभान्4.26.29।। Kishkindha Kanda,26,30,ततः कुशपरिस्तीर्णं समिद्धं जातवेदसम्। मन्त्रपूतेन हविषा हुत्वा मन्त्रविदो जनाः4.26.30।। Kishkindha Kanda,26,31,ततो हेमप्रतिष्ठाने वरास्तरणसंवृते। प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते4.26.31।। प्राङ्मुखं विविधैर्मन्त्रै: स्थापयित्वा वरासने। नदीनदेभ्यस्संहृत्य तीर्थेभ्यश्च समन्ततः4.26.32।। आहृत्य च समुद्रेभ्यस्सर्वेभ्यो वानरर्षभाः। अपः कनककुम्भेषु निधाय विमलाश्शुभाः4.26.33।। शुभैर्वृषभशृङ्गैश्च कलशैश्चापि काञ्चनैः। शास्त्रदृष्टेन विधिना महर्षिविहितेन च4.26.34।। गजो गवाक्षो गवयश्शरभो गन्धमादनः। मैन्दश्च द्विविदश्चैव हनुमान्जाम्बवान्नलः4.26.35।। अभ्यषिञ्चन्त सुग्रीवं प्रसन्नेन सुगन्धिना। सलिलेन सहस्राक्षं वसवो वासवं यथा4.26.36।। Kishkindha Kanda,26,32,ततो हेमप्रतिष्ठाने वरास्तरणसंवृते। प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते4.26.31।। प्राङ्मुखं विविधैर्मन्त्रै: स्थापयित्वा वरासने। नदीनदेभ्यस्संहृत्य तीर्थेभ्यश्च समन्ततः4.26.32।। आहृत्य च समुद्रेभ्यस्सर्वेभ्यो वानरर्षभाः। अपः कनककुम्भेषु निधाय विमलाश्शुभाः4.26.33।। शुभैर्वृषभशृङ्गैश्च कलशैश्चापि काञ्चनैः। शास्त्रदृष्टेन विधिना महर्षिविहितेन च4.26.34।। गजो गवाक्षो गवयश्शरभो गन्धमादनः। मैन्दश्च द्विविदश्चैव हनुमान्जाम्बवान्नलः4.26.35।। अभ्यषिञ्चन्त सुग्रीवं प्रसन्नेन सुगन्धिना। सलिलेन सहस्राक्षं वसवो वासवं यथा4.26.36।। Kishkindha Kanda,26,33,ततो हेमप्रतिष्ठाने वरास्तरणसंवृते। प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते4.26.31।। प्राङ्मुखं विविधैर्मन्त्रै: स्थापयित्वा वरासने। नदीनदेभ्यस्संहृत्य तीर्थेभ्यश्च समन्ततः4.26.32।। आहृत्य च समुद्रेभ्यस्सर्वेभ्यो वानरर्षभाः। अपः कनककुम्भेषु निधाय विमलाश्शुभाः4.26.33।। शुभैर्वृषभशृङ्गैश्च कलशैश्चापि काञ्चनैः। शास्त्रदृष्टेन विधिना महर्षिविहितेन च4.26.34।। गजो गवाक्षो गवयश्शरभो गन्धमादनः। मैन्दश्च द्विविदश्चैव हनुमान्जाम्बवान्नलः4.26.35।। अभ्यषिञ्चन्त सुग्रीवं प्रसन्नेन सुगन्धिना। सलिलेन सहस्राक्षं वसवो वासवं यथा4.26.36।। Kishkindha Kanda,26,34,ततो हेमप्रतिष्ठाने वरास्तरणसंवृते। प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते4.26.31।। प्राङ्मुखं विविधैर्मन्त्रै: स्थापयित्वा वरासने। नदीनदेभ्यस्संहृत्य तीर्थेभ्यश्च समन्ततः4.26.32।। आहृत्य च समुद्रेभ्यस्सर्वेभ्यो वानरर्षभाः। अपः कनककुम्भेषु निधाय विमलाश्शुभाः4.26.33।। शुभैर्वृषभशृङ्गैश्च कलशैश्चापि काञ्चनैः। शास्त्रदृष्टेन विधिना महर्षिविहितेन च4.26.34।। गजो गवाक्षो गवयश्शरभो गन्धमादनः। मैन्दश्च द्विविदश्चैव हनुमान्जाम्बवान्नलः4.26.35।। अभ्यषिञ्चन्त सुग्रीवं प्रसन्नेन सुगन्धिना। सलिलेन सहस्राक्षं वसवो वासवं यथा4.26.36।। Kishkindha Kanda,26,35,ततो हेमप्रतिष्ठाने वरास्तरणसंवृते। प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते4.26.31।। प्राङ्मुखं विविधैर्मन्त्रै: स्थापयित्वा वरासने। नदीनदेभ्यस्संहृत्य तीर्थेभ्यश्च समन्ततः4.26.32।। आहृत्य च समुद्रेभ्यस्सर्वेभ्यो वानरर्षभाः। अपः कनककुम्भेषु निधाय विमलाश्शुभाः4.26.33।। शुभैर्वृषभशृङ्गैश्च कलशैश्चापि काञ्चनैः। शास्त्रदृष्टेन विधिना महर्षिविहितेन च4.26.34।। गजो गवाक्षो गवयश्शरभो गन्धमादनः। मैन्दश्च द्विविदश्चैव हनुमान्जाम्बवान्नलः4.26.35।। अभ्यषिञ्चन्त सुग्रीवं प्रसन्नेन सुगन्धिना। सलिलेन सहस्राक्षं वसवो वासवं यथा4.26.36।। Kishkindha Kanda,26,36,ततो हेमप्रतिष्ठाने वरास्तरणसंवृते। प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते4.26.31।। प्राङ्मुखं विविधैर्मन्त्रै: स्थापयित्वा वरासने। नदीनदेभ्यस्संहृत्य तीर्थेभ्यश्च समन्ततः4.26.32।। आहृत्य च समुद्रेभ्यस्सर्वेभ्यो वानरर्षभाः। अपः कनककुम्भेषु निधाय विमलाश्शुभाः4.26.33।। शुभैर्वृषभशृङ्गैश्च कलशैश्चापि काञ्चनैः। शास्त्रदृष्टेन विधिना महर्षिविहितेन च4.26.34।। गजो गवाक्षो गवयश्शरभो गन्धमादनः। मैन्दश्च द्विविदश्चैव हनुमान्जाम्बवान्नलः4.26.35।। अभ्यषिञ्चन्त सुग्रीवं प्रसन्नेन सुगन्धिना। सलिलेन सहस्राक्षं वसवो वासवं यथा4.26.36।। Kishkindha Kanda,26,37,अभिषिक्ते तु सुग्रीवे सर्वे वानरपुङ्गवाः। प्रचुक्रुशुर्महात्मानो हृष्टा स्तत्र सहस्रशः 4.26.37।। Kishkindha Kanda,26,38,रामस्य तु वचः कुर्वन्सुग्रीवो हरिपुङ्गवः। अङ्गदं सम्परिष्वज्य यौवराज्येऽभ्यषेचयत्4.26.38।। Kishkindha Kanda,26,39,अङ्गदे चाभिषिक्ते तु सानुक्रोशाः प्लवङ्गमाः। साधु साध्विति सुग्रीवं महात्मानोऽभ्यपूजयन्4.26.39।। Kishkindha Kanda,26,40,रामं चैव महात्मानं लक्ष्मणं च पुनः पुनः। प्रीताश्च तुष्टुवुस्सर्वे तादृशे तत्र वर्तिते4.26.40।। Kishkindha Kanda,26,41,हृष्टपुष्टजनाकीर्णा पताकाध्वजशोभिता। बभूव नगरी रम्या किष्किन्धा गिरिगह्वरे4.26.41।। Kishkindha Kanda,27,1,अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम्। आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम्4.27.1।। Kishkindha Kanda,27,3,शार्दूलमृगसङ्घुष्टं सिंहैर्भीमरवैर्वृतम्। नानागुल्मलतागूढं बहुपादपसङ्कुलम्4.27.2।। ऋक्षवानरगोपुच्छैर्मार्जारैश्च निषेवितम्। मेघराशिनिभं शैलं नित्यं शुचिजलाशयम्।।4.27.3।। Kishkindha Kanda,27,4,तस्य शैलस्य शिखरे महतीमायतां गुहाम्। प्रत्यगृह्णत वासार्थं रामस्सौमित्रिणा सह4.27.4।। Kishkindha Kanda,27,5,कृत्वा च समयं रामस्सुग्रीवेण सहानघः। कालयुक्तं महद्वाक्यमुवाच रघुनन्दनः4.27.5।। विनीतं भ्रातरं भ्राता लक्ष्मणं लक्ष्मिवर्धनम्। Kishkindha Kanda,27,6,इयं गिरिगुहा रम्या विशाला युक्तमारुता। अस्यां वत्स्याम सौमित्रे वर्षरात्रमरिन्दम4.27.6।। Kishkindha Kanda,27,7,गिरिशृङ्गमिदं रम्यमुन्नतं पार्थिवात्मज4.27.7।। श्वेताभिः कृष्णताम्राभिश्शिलाभिरुपशोभितम्। नानाधातुसमाकीर्णं दरीनिर्झरशोभितम्4.27.8।। विविधैर्वृक्षषण्डैश्च चारुचित्रलतायुतम्। नानाविहगसङ्घुष्टं मयूररवनादितम्4.27.9।। मालतीकुन्दगुल्मैश्च सिन्धुवारैश्शिरीषकैः। कदम्बार्जुनसर्जैश्च पुष्पितैरुपशोभितम्4.27.10।। Kishkindha Kanda,27,8,गिरिशृङ्गमिदं रम्यमुन्नतं पार्थिवात्मज4.27.7।। श्वेताभिः कृष्णताम्राभिश्शिलाभिरुपशोभितम्। नानाधातुसमाकीर्णं दरीनिर्झरशोभितम्4.27.8।। विविधैर्वृक्षषण्डैश्च चारुचित्रलतायुतम्। नानाविहगसङ्घुष्टं मयूररवनादितम्4.27.9।। मालतीकुन्दगुल्मैश्च सिन्धुवारैश्शिरीषकैः। कदम्बार्जुनसर्जैश्च पुष्पितैरुपशोभितम्4.27.10।। Kishkindha Kanda,27,9,गिरिशृङ्गमिदं रम्यमुन्नतं पार्थिवात्मज4.27.7।। श्वेताभिः कृष्णताम्राभिश्शिलाभिरुपशोभितम्। नानाधातुसमाकीर्णं दरीनिर्झरशोभितम्4.27.8।। विविधैर्वृक्षषण्डैश्च चारुचित्रलतायुतम्। नानाविहगसङ्घुष्टं मयूररवनादितम्4.27.9।। मालतीकुन्दगुल्मैश्च सिन्धुवारैश्शिरीषकैः। कदम्बार्जुनसर्जैश्च पुष्पितैरुपशोभितम्4.27.10।। Kishkindha Kanda,27,10,गिरिशृङ्गमिदं रम्यमुन्नतं पार्थिवात्मज4.27.7।। श्वेताभिः कृष्णताम्राभिश्शिलाभिरुपशोभितम्। नानाधातुसमाकीर्णं दरीनिर्झरशोभितम्4.27.8।। विविधैर्वृक्षषण्डैश्च चारुचित्रलतायुतम्। नानाविहगसङ्घुष्टं मयूररवनादितम्4.27.9।। मालतीकुन्दगुल्मैश्च सिन्धुवारैश्शिरीषकैः। कदम्बार्जुनसर्जैश्च पुष्पितैरुपशोभितम्4.27.10।। Kishkindha Kanda,27,11,इयं च नलिनी रम्या फ़ुल्लपङ्कजमण्डिता। नातिदूरे गुहायानौ भविष्यति नृपात्मज4.27.11।। Kishkindha Kanda,27,12,प्रागुदक्प्रवणे देशे गुहा साधु भविष्यति। पश्चाच्चैवोन्नता सौम्य निवातेयं भविष्यति4.27.12।। Kishkindha Kanda,27,13,गुहाद्वारे च सौमित्रे शिला समतला शुभा। श्लक्ष्णा चैवायता चैव भिन्नाञ्जनचयोपमा4.27.13।। Kishkindha Kanda,27,14,गिरिशृङ्गमिदं तात पश्य चोत्तरतः शुभम्। भिन्नाञ्जनचयाकारमम्भोधरमिवोत्थितम्4.27.14।। Kishkindha Kanda,27,15,दक्षिणस्यामपि दिशि स्थितं श्वेतमिवापरम्। कैलासशिखरप्रख्यं नानाधातुविभूषितम्4.27.15।। Kishkindha Kanda,27,16,प्राचीनवाहिनीं चैव नदीं भृशमकर्दमाम्। गुहायाः पूर्वतः पश्य त्रिकूटे जाह्नवीमिव4.27.16।। चन्दनैस्तिलकैस्तालैस्तमालैरतिमुक्तकैः। पद्मकैः सरलैश्चैव अशोकैश्चैव शोभिताम्4.27.17।। Kishkindha Kanda,27,17,प्राचीनवाहिनीं चैव नदीं भृशमकर्दमाम्। गुहायाः पूर्वतः पश्य त्रिकूटे जाह्नवीमिव4.27.16।। चन्दनैस्तिलकैस्तालैस्तमालैरतिमुक्तकैः। पद्मकैः सरलैश्चैव अशोकैश्चैव शोभिताम्4.27.17।। Kishkindha Kanda,27,18,वानीरैस्तिमिशैश्चैव वकुलैः केतकैर्धवैः। हिन्तालैस्तिनिशैर्नीपैर्वेत्रकैः कृतमालकैः4.27.18।। तीरजैश्शोभिता भाति नानारूपै स्ततस्ततः। वसनाभरणोपेता प्रमदेवाभ्यलङ्कृता4.27.19।। Kishkindha Kanda,27,19,वानीरैस्तिमिशैश्चैव वकुलैः केतकैर्धवैः। हिन्तालैस्तिनिशैर्नीपैर्वेत्रकैः कृतमालकैः4.27.18।। तीरजैश्शोभिता भाति नानारूपै स्ततस्ततः। वसनाभरणोपेता प्रमदेवाभ्यलङ्कृता4.27.19।। Kishkindha Kanda,27,20,शतशः पक्षिसङ्घैश्च नानानादैर्विनादिता। एकैकमनुरक्तैश्च चक्रवाकैरलङ्कृता।।4.27.20।। Kishkindha Kanda,27,21,पुलिनैरतिरम्यैश्च हंससारससेवितैः। प्रहसन्तीवभात्येषा नारी सर्वविभूषिता।।4.27.21।। Kishkindha Kanda,27,22,क्वचिन्नीलोत्पलैश्छन्ना भाति रक्तोत्पलैः क्वचित्। क्वचिदाभाति शुक्लैश्च दिव्यैः कुमुदकुट्मलैः4.27.22।। Kishkindha Kanda,27,23,पारिप्लवशतैर्जुष्टा बर्हिक्रौञ्चविनादिता। रमणीया नदी सौम्य मुनिसङ्घैर्निषेविता4.27.23।। Kishkindha Kanda,27,24,पश्य चन्दनवृक्षाणां पङ्क्तीस्सुरचिता इव। ककुभानां च दृश्यन्ते मनसेवोदितास्समम्4.27.24।। Kishkindha Kanda,27,25,अहो सुरमणीयोऽयं देशश्शत्रुनिषूदन। दृढं रंस्याव सौमित्रे साध्वत्र निवसावहै4.27.25।। Kishkindha Kanda,27,26,इतश्च नातिदूरे सा किष्किन्धा चित्रकानना। सुग्रीवस्य पुरी रम्या भविष्यति नृपात्मज4.27.26।। Kishkindha Kanda,27,27,गीतवादित्रनिर्घोषश्श्रूयते जयतां वर। नर्दतां वानराणां च मृदङ्गाडम्बरै स्सह4.27.27।। Kishkindha Kanda,27,28,लब्ध्वा भार्यां कपिवरः प्राप्य राज्यं सुहृद्वृतः। ध्रुवं नन्दति सुग्रीवस्सम्प्राप्य महतीं श्रियम्4.27.28।। Kishkindha Kanda,27,29,इत्युक्त्वा न्यवसत्तत्र राघवस्सहलक्ष्मणः। बहुदृश्यदरीकुञ्जे तस्मिन्प्रस्रवणे गिरौ4.27.29।। Kishkindha Kanda,27,30,सुसुखेऽपि बहुद्रव्ये तस्मिन्हि धरणीधरे। वसतस्तस्य रामस्य रतिरल्पापिना भवेत्4.27.30।। Kishkindha Kanda,27,31,हृतां हि भार्यां स्मरतः प्राणेभ्योऽपि गरीयसीम्। उदयाभ्युदितं दृष्ट्वा शशाङ्कं च विशेषतः4.27.31।। Kishkindha Kanda,27,32,आविवेश न तं निद्रा निशासु शयनं गतम्। तत्समुत्थेन शोकेन बाष्पोपहतचेतसम्4.27.32।। Kishkindha Kanda,27,33,तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम्। तुल्यदुःखोऽब्रवीद्भ्राता लक्ष्मणोऽनुनयन्वचः4.27.33।। Kishkindha Kanda,27,34,अलं वीर व्यथां गत्वा न त्वं शोचितुमर्हसि। शोचतो व्यवसीदन्ति सर्वार्था विदितं हि ते4.27.34।। Kishkindha Kanda,27,35,भवान्क्रियापरो लोके भवान् देवपरायणः। आस्तिको धर्मशीलश्च व्यवसायी च राघव4.27.35।। न ह्यव्यवसितश्शत्रुं राक्षसं तं विशेषतः। समर्थस्त्वं रणे हन्तुं विक्रमैर्जिह्मकारिणम्4.27.36।। Kishkindha Kanda,27,36,भवान्क्रियापरो लोके भवान् देवपरायणः। आस्तिको धर्मशीलश्च व्यवसायी च राघव4.27.35।। न ह्यव्यवसितश्शत्रुं राक्षसं तं विशेषतः। समर्थस्त्वं रणे हन्तुं विक्रमैर्जिह्मकारिणम्4.27.36।। Kishkindha Kanda,27,37,समुन्मूलय शोकं त्वं व्यवसायं स्थिरं कुरु। ततस्सपरिवारं तं निर्मूलं कुरु राक्षसम्।।4.27.37।। Kishkindha Kanda,27,38,पृथिवीमपि काकुत्स्थ ससागरवनाचलाम्। परिवर्तयितुं शक्तः किमङ्गपुन रावणम्4.27.38।। Kishkindha Kanda,27,39,शरत्कालं प्रतीक्षस्व प्रावृट्कालोऽयमागतः। ततस्सराष्ट्रं सगणं रावणं त्वं वधिष्यसि4.27.39।। Kishkindha Kanda,27,40,अहं तु खलु ते वीर्यं प्रसुप्तं प्रतिबोधये। दीप्सैराहुतिभिः काले भस्मच्छन्नमिवानलम्4.27.40।। Kishkindha Kanda,27,41,लक्ष्मणस्य तु तद्वाक्यं प्रतिपूज्य हितं शुभम्। राघवस्सुहृदं स्निग्धमिदं वचनमब्रवीत्।।4.27.41।। Kishkindha Kanda,27,42,वाच्यं यदनुरक्तेन स्निग्धेन च हितेन च। सत्यविक्रमयुक्तेन तदुक्तं लक्ष्मण त्वया4.27.42।। Kishkindha Kanda,27,43,एष शोकः परित्यक्तस्सर्वकार्यावसादकः। विक्रमेष्वप्रतिहतं तेजः प्रोत्साहयाम्यहम्।।4.27.43।। Kishkindha Kanda,27,44,शरत्कालं प्रतीक्षिष्ये स्थितोऽस्मि वचने तव। सुग्रीवस्य नदीनां च प्रसादमनुपालयन्4.27.44।। Kishkindha Kanda,27,45,उपकारेण वीरस्तु प्रतीकारेण युज्यते। अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः4.27.45।। Kishkindha Kanda,27,46,अथैव मुक्तःप्रणिधाय लक्ष्मणः कृताञ्जलिस्तत्प्रतिपूज्य भाषितम्। उवाच रामं स्वभिरामदर्शनं प्रदर्शयन्दर्शनमात्मनश्शुभम्4.27.46।। Kishkindha Kanda,27,47,यथोक्तमेतत्तव सर्वमीप्सितं नरेन्द्र कर्ता न चिराद्धरीश्वरः। शरत्प्रतीक्षः क्षमतामिमं भवान् जलप्रपातं रिपुनिग्रहे धृतः4.27.47।। Kishkindha Kanda,27,48,नियम्य कोपं प्रतिपाल्यतां शरत् क्षमस्व मासां श्चतुरो मया सह। वसाचलेऽस्मिन्मृगराजसेविते संवर्धयन् शत्रुवधे समुद्यमम्4.27.48।। Kishkindha Kanda,28,1,स तदा वालिनं हत्वा सुग्रीवमभिषिच्य च। वसन्माल्यवतः पृष्ठे रामो लक्ष्मणमब्रवीत्4.28.1।। Kishkindha Kanda,28,2,अयं स कालस्सम्प्राप्तस्समयोऽद्य जलागमः। सम्पश्य त्वं नभो मेघैस्संवृतं गिरिसन्निभैः4.28.2।। Kishkindha Kanda,28,3,नवमासधृतं गर्भं भास्करस्य गभस्तिभिः। पीत्वा रसं समुद्राणां द्यौः प्रसूते रसायनम्4.28.3।। Kishkindha Kanda,28,4,शक्यमम्बरमारुह्य मेघसोपानपङ्क्तिभिः। कुटजार्जुनमालाभिरलङ्कर्तुं दिवाकरम्4.28.4।। Kishkindha Kanda,28,5,सन्ध्यारागोत्थितैस्ताम्रैरन्तेष्वधिक पाण्डरैः। स्निग्धैरभ्रपटच्छेदैर्बद्धव्रणमिवाम्बरम्4.28.5।। Kishkindha Kanda,28,6,मन्दमारुत निश्वासं सन्ध्याचन्दनरञ्जितम्। आपाण्डुजलदं भाति कामातुरमिवाम्बरम्4.28.6।। Kishkindha Kanda,28,7,एषा घर्मपरिक्लिष्टा नववारिपरिप्लुता। सीतेव शोकसन्तप्ता मही बाष्पं विमुञ्चति4.28.7।। Kishkindha Kanda,28,8,मेघोदरविनिर्मुक्ताः कह्लारसुखशीतलाः। शक्यमञ्जलिभिः पातुं वाताः केतकिगन्धिनः4.28.8।। Kishkindha Kanda,28,9,एष फुल्लार्जुनश्शैलः केतकैरधिवासितः। सुग्रीव इव शान्तारिर्धाराभिरभिषिच्यते4.28.9।। Kishkindha Kanda,28,10,मेघकृष्णाजिनधरा: धारायज्ञोपवीतिनः। मारुतापूरितगुहाः प्राधीता इव पर्वताः4.28.10।। Kishkindha Kanda,28,11,कशाभिरिव हैमीभिर्विद्युद्भिरिवताडितम्। अन्तस्त्सतनिर्घोषं सवेदनमिवाम्बरम्4.28.11।। Kishkindha Kanda,28,12,नीलमेघाश्रिता विद्युत्स्फुरन्ती प्रतिभाति मा। स्फुरन्ती रावणस्याङ्के वैदेहीव तपस्विनी4.28.12।। Kishkindha Kanda,28,13,इमास्ता मन्मथवतां हिताः प्रतिहता दिशः। अनुलिप्ता इव घनैर्नष्टग्रहनिशाकराः4.28.13।। Kishkindha Kanda,28,14,चिद्बाष्पाभिसंरुद्धान् वर्षागमसमुत्सुकान्। कुटजान्पश्य सौमित्रे पुष्पितान्गिरिसानुषु4.28.14।। मम शोकाभिभूतस्य कामसन्दीपनान् स्थितान्। Kishkindha Kanda,28,15,रजः प्रशान्तं सहिमोऽद्य वायु र्निदाघदोषप्रसराः प्रशान्ताः। स्थिता हि यात्रा वसुधाधिपानां प्रवासिनो यान्ति नरास्स्वदेशान्4.28.15।। Kishkindha Kanda,28,16,सम्प्रस्थिता मानसवासलुब्धाः प्रियान्विताः सम्प्रति चक्रवाकाः। अभीक्ष्णवर्षोदकविक्षतेषु यानानि मार्गेषु न सम्पतन्ति4.28.16।। Kishkindha Kanda,28,17,क्वचित्प्रकाशं क्वचिदप्रकाशं नभः प्रकीर्णाम्बुधरं विभाति। क्वचित्क्वचित्पर्वतसन्निरुद्धं रूपं यथा शान्तमहार्णवस्य4.28.17।। Kishkindha Kanda,28,18,व्यामिश्रितं सार्जकदम्बपुष्पै र्नवं जलं पर्वतधातुताम्रम्। मयूरकेकाभिरनुप्रयातं शैलापगाश्शीघ्रतरं वहन्ति4.28.18।। Kishkindha Kanda,28,19,रसाकुलं षट्पदसन्निकाशं प्रभुज्यते जम्बुफलं प्रकामम्। अनेकवर्णं पवनावधूतं भूमौ पतत्याम्रफलं विपक्वम्4.28.19।। Kishkindha Kanda,28,20,विद्युत्पताकास्सबलाकमालाः शैलेन्द्रकूटाकृतिसन्निकाशाः। गर्जन्ति मेघाः समुदीर्णनादाः मत्ता गजेन्द्रा इव संयुगस्थाः4.28.20।। Kishkindha Kanda,28,21,वर्षोदकाप्यायितशाद्वलानि प्रवृत्तनृत्तोत्सवबर्हिणानि। वनानि निर्वृष्टवलाहकानि पश्यापराह्णेष्वधिकं विभान्ति4.28.21।। Kishkindha Kanda,28,22,समुद्वहन्त स्सलिलातिभारं बलाकिनो वारिधरा नदन्तः। महत्सु शृङ्गेषु महीधराणां विश्रम्य विश्रम्य पुनः प्रयान्ति4.28.22।। Kishkindha Kanda,28,23,मेघाभिकामा परिसम्पतन्ती सम्मोदिता भाति बलाकपङ्क्तिः। वातावधूता वरपौण्डरीकी लम्बेव माला रचिताम्बरस्य4.28.23।। Kishkindha Kanda,28,24,बालेन्द्रगोपान्तरचित्रितेन विभाति भूमिर्नवशाद्वलेन। गात्रानुपृक्तेन शुकप्रभेण नारीव लाक्षोक्षितकम्बलेन4.28.24।। Kishkindha Kanda,28,25,निद्रा शनैः केशवमभ्युपैति द्रुतं नदी सागरमभ्युपैति। हृष्टा बलाका घनमभ्युपैति कान्ता सकामा प्रियमभ्युपैति4.28.25।। Kishkindha Kanda,28,26,जाता वनान्ताश्शिखिसम्प्रनृत्ता जाताः कदम्बाः सकदम्बशाखाः। जाता वृषा गोषु समानकामा जाता मही सस्यवनाभिरामा4.28.26।। Kishkindha Kanda,28,27,वहन्ति वर्षन्ति नदन्ति भान्ति ध्यायन्ति नृत्यन्ति समाश्वसन्ति। नद्यो घना मत्तगजा वनान्ताः प्रियाविहीनाश्शिखिनः प्लवङ्गमाः4.28.27।। Kishkindha Kanda,28,28,प्रहर्षिताः केतकपुष्पगन्ध माघ्राय हृष्टा वननिर्झरेषु। प्रपातशब्दाकुलिता गजेन्द्रा स्सार्धं मयूरै स्समदा नदन्ति4.28.28।। Kishkindha Kanda,28,29,धारानिपातैरभिहन्यमानाः कदम्बशाखासु विलम्बमानाः। क्षणार्जितं पुष्परसावगाढं शनैर्मदं षट्चरणास्त्यजन्ति4.28.29।। Kishkindha Kanda,28,30,अङ्गारचूर्णोत्करसन्निकाशैः फलैस्सुपर्याप्तरसैस्समृद्धैः। जम्बूद्रुमाणां प्रविभान्ति शाखाः निलीयमाना इव षट्पदौघैः4.28.30।। Kishkindha Kanda,28,31,तटित्पताकाभिरलङ्कृताना मुदीर्णगम्भीरमहारवाणाम्। विभान्ति रूपाणि बलाहकानां रणोद्यतानामिव वानरणानाम्4.28.31।। Kishkindha Kanda,28,32,मार्गानुगश्शैलवनानुसारी सम्प्रस्थितो मेघरवं निशम्य। युद्धाभिकामः प्रतिनादशङ्की मत्तो गजेन्द्रः प्रतिसन्निवृत्तः4.28.32।। Kishkindha Kanda,28,33,क्वचित्प्रगीता इव षट्पदौघैः क्वचित्प्रनृत्ता इव नीलकण्ठैः। क्वचित्प्रमत्ता इव वारणेन्द्रै र्विभान्त्यनेकाश्रयिणो वनान्ताः4.28.33।। Kishkindha Kanda,28,34,कदम्बसर्जार्जुनकन्दलाढ्या वनान्तभूमिर्नववारिपूर्णा। मयूरमत्ताभिरुतप्रनृत्तै रापानभूमिप्रतिमा विभाति4.28.34।। Kishkindha Kanda,28,35,मुक्तासकाशं सलिलं पतद्वै सुनिर्मलं पत्रपुटेषु लग्नम्। हृष्टा विवर्णच्छदना विहङ्गा स्सुरेन्द्रदत्तं तृषिताः पिबन्ति4.28.35।। Kishkindha Kanda,28,36,षट्पादतन्त्रीमधुराभिधानं प्लवङ्गमोदीरितकण्ठतालम्। आविष्कृतं मेघमृदङ्गनादै र्वनेषु सङ्गीतमिव प्रवृत्तम्4.28.36।। Kishkindha Kanda,28,37,क्वचित्प्रनृत्तै: क्वचिदुन्नदद्भिः क्वचिच्च वृक्षाग्रनिषण्णकायैः। व्यालम्बबर्हाभरणैर्मयूरै र्वनेषु सङ्गीतमिव प्रवृत्तम्4.28.37।। Kishkindha Kanda,28,38,स्वनैर्घनानां प्लवगाः प्रबुद्धाः विहाय निद्रां चिरसन्निरुद्धाम्। अनेकरूपाकृतिवर्णनादाः नवाम्बुधाराभिहता नदन्ति4.28.38।। Kishkindha Kanda,28,39,नद्यस्समुद्वाहितचक्रवाका स्तटानि शीर्णान्यपवाहयित्वा। दृप्ता नवप्राभृतपूर्णभोगाः द्रुतं स्वभर्तारमुपोपयान्ति4.28.39।। Kishkindha Kanda,28,40,नीलेषु नीला: प्रविभान्ति सक्ताः मेघेषु मेघा नववारिपूर्णाः। दवाग्निदग्धेषु दवाग्निदग्धा श्शैलेषु शैला इव बद्धमूलाः4.28.40।। Kishkindha Kanda,28,41,प्रहृष्टसन्नादितबर्हिणानि सशक्रगोपाकुलशाद्वलानि। चरन्ति नीपार्जुनवासितानि गजास्सुरम्याणि वनान्तराणि4.28.41।। Kishkindha Kanda,28,42,नवाम्बुधाराहतकेसराणि द्रुतं परित्यज्य सरोरुहाणि। कदम्बपुष्पाणि सकेसराणि नवानि हृष्टा भ्रमराः पतन्तिः4.28.42।। Kishkindha Kanda,28,43,मत्ता गजेन्द्रा मुदिता गवेन्द्रा वनेषु विश्रान्ततरा मृगेन्द्रा। रम्या नगेन्द्रा निभृता नरेन्द्राः प्रक्रीडितो वारिधरैस्सुरेन्द्रः4.28.43।। Kishkindha Kanda,28,44,मेघास्समुद्धूतसमुद्रनादाः महाजलौघैर्गगनावलम्बाः। नदीस्तटाकानि सरांसि वापी र्महीं च कृत्स्नामपवाहयन्ति4.28.44।। Kishkindha Kanda,28,45,वर्षप्रवेगा विपुलाः पतन्ति प्रवान्ति वातास्समुदीर्णघोषाः। प्रणष्टकूलाः प्रवहन्ति शीघ्रं नद्योजलैर्विप्रतिपन्नमार्गाः4.28.45।। Kishkindha Kanda,28,46,नरैर्नरेन्द्रा इव पर्वतेन्द्रा स्सुरेन्द्रदत्तै: पवनोपनीतैः। घनाम्बुकुम्भैरभिषिच्यमाना रूपं श्रियं स्वामिव दर्शयन्ति4.28.46।। Kishkindha Kanda,28,47,घनोपगूढं गगनं सतारं न भास्करो दर्शनमभ्युपैति। नवैर्जलौघैर्धरणी विसृप्ता तमो विलिप्ता न दिशः प्रकाशाः4.28.47।। Kishkindha Kanda,28,48,महान्ति कूटानि महीधराणां धाराभिधौतान्यधिकं विभान्ति। महाप्रमाणैर्विपुलैः प्रपातै र्मुक्ताकलापैरिव लम्बमानैः4.28.48।। Kishkindha Kanda,28,49,शैलोपलप्रस्खलमानवेगा श्शैलोत्तमानां विपुलाः प्रपाताः। गुहासु सन्नादितबर्हिणासु हारा विकीर्यन्त इवावभान्ति4.28.49।। Kishkindha Kanda,28,50,शीघ्रप्रवेगा विपुलाः प्रपाताः निर्धौतशृङ्गोपतला गिरीणाम्। मुक्ताकलापप्रतिमाः पतन्तो महागुहोत्सङ्गतलैर्ध्रियन्ते4.28.50।। Kishkindha Kanda,28,51,सुरतामर्दविच्छिन्नास्स्वर्गस्त्रीहारमौक्तिकाः। पतन्ति चातुला दिक्षु तोयधारास्समन्तत:4.28.51।। Kishkindha Kanda,28,52,निलीयमानैर्विहगैर्निमीलद्भिश्च पङ्कजैः। विकसन्त्या च मालत्या गतोऽस्तं ज्ञायते रविः4.28.52।। Kishkindha Kanda,28,53,वृत्ता यात्रा नरेन्द्राणां सेना प्रतिनिवर्तते। वैराणि चैव मार्गाश्च सलिलेन समीकृताः4.28.53।। Kishkindha Kanda,28,54,मासि प्रोष्ठपदे ब्रह्म ब्राह्मणानां विवक्षताम्। अयमध्यायसमयस्सामगानामुपस्थितः4.28.54।। Kishkindha Kanda,28,55,निवृत्तकर्मायतनो नूनं सञ्चितसञ्चयः। आषाढीमभ्युपगतो भरतः कोसलाधिपः4.28.55।। Kishkindha Kanda,28,56,नूनमापूर्यमाणायास्सर्वव्या वर्धते रयः। मां समीक्ष्य समायान्तमयोध्याया इव स्वनः4.28.56।। Kishkindha Kanda,28,57,इमास्फीतगुणा वर्षास्सुग्रीवस्सुखमश्नुते। विजितारिः सदारश्च राज्ये महति च स्थितः4.28.57।। Kishkindha Kanda,28,58,अहं तु हृतदारश्च राज्याच्य महतश्च्युतः। नदीकूलमिव क्लिन्नमवसीदामि लक्ष्मण।।4.28.58।। Kishkindha Kanda,28,59,शोकश्च मम विस्तीर्णो वर्षाश्च भृशदुर्गमाः। रावणश्च महान् शत्रुरपारं प्रतिभाति मे4.28.59।। Kishkindha Kanda,28,60,अयात्रां चैव दृष्ट्वेमां मार्गांश्च भृशदुर्गमान्। प्रणते चैव सुग्रीवे न मया किञ्चिदीरितम्4.28.60।। Kishkindha Kanda,28,61,अपि चातिपरिक्लिष्टं चिराद्दारैस्समागतम्। आत्मकार्यगरीयस्त्वाद्वक्तुं नेच्छामि वानरम्4.28.61।। Kishkindha Kanda,28,62,स्वयमेव हि विश्रम्य ज्ञात्वा कालमुपागतम्। उपकारं च सुग्रीवो वेत्स्यते नात्र संशयः4.28.62।। Kishkindha Kanda,28,63,तस्मात्कालप्रतीक्षोऽहं स्थितोऽस्मि शुभलक्षण। सुग्रीवस्य नदीनां च प्रसादममनुपालयन्4.28.63।। Kishkindha Kanda,28,64,उपकारेण वीरस्तु प्रतीकारेण युज्यते। अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः4.28.64।। Kishkindha Kanda,28,65,अथैवमुक्तः प्रणिधाय लक्ष्मणः कृताञ्जलिस्तत्प्रतिपूज्य भाषितम्। उवाच रामं स्वभिरामदर्शनं प्रदर्शयन्दर्शनमात्मनश्शुभम्4.28.65।। Kishkindha Kanda,28,66,यथोक्तमेतत्तव सर्वमीप्सितं नरेन्द्र कर्ता नचिराद्धरीश्वरः। शरत्प्रतीक्षः क्षमतामिमं भवान् जलप्रपातं रिपुनिग्रहे धृतः4.28.66।। Kishkindha Kanda,29,1,समीक्ष्य विमलं व्योम गतविद्युद्वलाहकम्। सारसाकुलसङ्घुष्टं रम्यज्योत्स्नानुलेपनम्4.29.1।। समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसङ्ग्रहम्। अत्यर्थमसतां मार्गमेकान्तगतमानसम्4.29.2।। निर्वृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा। प्राप्तवन्तमभिप्रेतान्सर्वानेव मनोरथान्4.29.3।। स्वां च पत्नीमभिप्रेतां तारां चापि समीप्सिताम्। विहरन्तमहोरात्रं कृतार्थं विगतज्वरम्4.29.4।। क्रीडन्तमिव देवेशं नन्दनेऽप्सरसां गणैः। मन्त्रिषु न्यस्तकार्यं च मन्त्रिणामनवेक्षकम्4.29.5।। उत्सन्नराज्यसन्देशं कामवृत्तमवस्थितम्। निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित्4.29.6।। प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैः। वाक्यविद्वाक्य तत्त्वज्ञं हरीशं मारुतात्मजः4.29.7।। हितं तत्त्वं च पथ्यं च सामधर्मार्थनीतिमत्। प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम्। हरीश्वरमुपागम्य हनूमान्वाक्यमब्रवीत्4.29.8।। Kishkindha Kanda,29,2,समीक्ष्य विमलं व्योम गतविद्युद्वलाहकम्। सारसाकुलसङ्घुष्टं रम्यज्योत्स्नानुलेपनम्4.29.1।। समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसङ्ग्रहम्। अत्यर्थमसतां मार्गमेकान्तगतमानसम्4.29.2।। निर्वृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा। प्राप्तवन्तमभिप्रेतान्सर्वानेव मनोरथान्4.29.3।। स्वां च पत्नीमभिप्रेतां तारां चापि समीप्सिताम्। विहरन्तमहोरात्रं कृतार्थं विगतज्वरम्4.29.4।। क्रीडन्तमिव देवेशं नन्दनेऽप्सरसां गणैः। मन्त्रिषु न्यस्तकार्यं च मन्त्रिणामनवेक्षकम्4.29.5।। उत्सन्नराज्यसन्देशं कामवृत्तमवस्थितम्। निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित्4.29.6।। प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैः। वाक्यविद्वाक्य तत्त्वज्ञं हरीशं मारुतात्मजः4.29.7।। हितं तत्त्वं च पथ्यं च सामधर्मार्थनीतिमत्। प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम्। हरीश्वरमुपागम्य हनूमान्वाक्यमब्रवीत्4.29.8।। Kishkindha Kanda,29,3,समीक्ष्य विमलं व्योम गतविद्युद्वलाहकम्। सारसाकुलसङ्घुष्टं रम्यज्योत्स्नानुलेपनम्4.29.1।। समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसङ्ग्रहम्। अत्यर्थमसतां मार्गमेकान्तगतमानसम्4.29.2।। निर्वृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा। प्राप्तवन्तमभिप्रेतान्सर्वानेव मनोरथान्4.29.3।। स्वां च पत्नीमभिप्रेतां तारां चापि समीप्सिताम्। विहरन्तमहोरात्रं कृतार्थं विगतज्वरम्4.29.4।। क्रीडन्तमिव देवेशं नन्दनेऽप्सरसां गणैः। मन्त्रिषु न्यस्तकार्यं च मन्त्रिणामनवेक्षकम्4.29.5।। उत्सन्नराज्यसन्देशं कामवृत्तमवस्थितम्। निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित्4.29.6।। प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैः। वाक्यविद्वाक्य तत्त्वज्ञं हरीशं मारुतात्मजः4.29.7।। हितं तत्त्वं च पथ्यं च सामधर्मार्थनीतिमत्। प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम्। हरीश्वरमुपागम्य हनूमान्वाक्यमब्रवीत्4.29.8।। Kishkindha Kanda,29,4,समीक्ष्य विमलं व्योम गतविद्युद्वलाहकम्। सारसाकुलसङ्घुष्टं रम्यज्योत्स्नानुलेपनम्4.29.1।। समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसङ्ग्रहम्। अत्यर्थमसतां मार्गमेकान्तगतमानसम्4.29.2।। निर्वृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा। प्राप्तवन्तमभिप्रेतान्सर्वानेव मनोरथान्4.29.3।। स्वां च पत्नीमभिप्रेतां तारां चापि समीप्सिताम्। विहरन्तमहोरात्रं कृतार्थं विगतज्वरम्4.29.4।। क्रीडन्तमिव देवेशं नन्दनेऽप्सरसां गणैः। मन्त्रिषु न्यस्तकार्यं च मन्त्रिणामनवेक्षकम्4.29.5।। उत्सन्नराज्यसन्देशं कामवृत्तमवस्थितम्। निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित्4.29.6।। प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैः। वाक्यविद्वाक्य तत्त्वज्ञं हरीशं मारुतात्मजः4.29.7।। हितं तत्त्वं च पथ्यं च सामधर्मार्थनीतिमत्। प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम्। हरीश्वरमुपागम्य हनूमान्वाक्यमब्रवीत्4.29.8।। Kishkindha Kanda,29,5,समीक्ष्य विमलं व्योम गतविद्युद्वलाहकम्। सारसाकुलसङ्घुष्टं रम्यज्योत्स्नानुलेपनम्4.29.1।। समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसङ्ग्रहम्। अत्यर्थमसतां मार्गमेकान्तगतमानसम्4.29.2।। निर्वृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा। प्राप्तवन्तमभिप्रेतान्सर्वानेव मनोरथान्4.29.3।। स्वां च पत्नीमभिप्रेतां तारां चापि समीप्सिताम्। विहरन्तमहोरात्रं कृतार्थं विगतज्वरम्4.29.4।। क्रीडन्तमिव देवेशं नन्दनेऽप्सरसां गणैः। मन्त्रिषु न्यस्तकार्यं च मन्त्रिणामनवेक्षकम्4.29.5।। उत्सन्नराज्यसन्देशं कामवृत्तमवस्थितम्। निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित्4.29.6।। प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैः। वाक्यविद्वाक्य तत्त्वज्ञं हरीशं मारुतात्मजः4.29.7।। हितं तत्त्वं च पथ्यं च सामधर्मार्थनीतिमत्। प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम्। हरीश्वरमुपागम्य हनूमान्वाक्यमब्रवीत्4.29.8।। Kishkindha Kanda,29,6,समीक्ष्य विमलं व्योम गतविद्युद्वलाहकम्। सारसाकुलसङ्घुष्टं रम्यज्योत्स्नानुलेपनम्4.29.1।। समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसङ्ग्रहम्। अत्यर्थमसतां मार्गमेकान्तगतमानसम्4.29.2।। निर्वृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा। प्राप्तवन्तमभिप्रेतान्सर्वानेव मनोरथान्4.29.3।। स्वां च पत्नीमभिप्रेतां तारां चापि समीप्सिताम्। विहरन्तमहोरात्रं कृतार्थं विगतज्वरम्4.29.4।। क्रीडन्तमिव देवेशं नन्दनेऽप्सरसां गणैः। मन्त्रिषु न्यस्तकार्यं च मन्त्रिणामनवेक्षकम्4.29.5।। उत्सन्नराज्यसन्देशं कामवृत्तमवस्थितम्। निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित्4.29.6।। प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैः। वाक्यविद्वाक्य तत्त्वज्ञं हरीशं मारुतात्मजः4.29.7।। हितं तत्त्वं च पथ्यं च सामधर्मार्थनीतिमत्। प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम्। हरीश्वरमुपागम्य हनूमान्वाक्यमब्रवीत्4.29.8।। Kishkindha Kanda,29,7,समीक्ष्य विमलं व्योम गतविद्युद्वलाहकम्। सारसाकुलसङ्घुष्टं रम्यज्योत्स्नानुलेपनम्4.29.1।। समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसङ्ग्रहम्। अत्यर्थमसतां मार्गमेकान्तगतमानसम्4.29.2।। निर्वृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा। प्राप्तवन्तमभिप्रेतान्सर्वानेव मनोरथान्4.29.3।। स्वां च पत्नीमभिप्रेतां तारां चापि समीप्सिताम्। विहरन्तमहोरात्रं कृतार्थं विगतज्वरम्4.29.4।। क्रीडन्तमिव देवेशं नन्दनेऽप्सरसां गणैः। मन्त्रिषु न्यस्तकार्यं च मन्त्रिणामनवेक्षकम्4.29.5।। उत्सन्नराज्यसन्देशं कामवृत्तमवस्थितम्। निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित्4.29.6।। प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैः। वाक्यविद्वाक्य तत्त्वज्ञं हरीशं मारुतात्मजः4.29.7।। हितं तत्त्वं च पथ्यं च सामधर्मार्थनीतिमत्। प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम्। हरीश्वरमुपागम्य हनूमान्वाक्यमब्रवीत्4.29.8।। Kishkindha Kanda,29,8,समीक्ष्य विमलं व्योम गतविद्युद्वलाहकम्। सारसाकुलसङ्घुष्टं रम्यज्योत्स्नानुलेपनम्4.29.1।। समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसङ्ग्रहम्। अत्यर्थमसतां मार्गमेकान्तगतमानसम्4.29.2।। निर्वृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा। प्राप्तवन्तमभिप्रेतान्सर्वानेव मनोरथान्4.29.3।। स्वां च पत्नीमभिप्रेतां तारां चापि समीप्सिताम्। विहरन्तमहोरात्रं कृतार्थं विगतज्वरम्4.29.4।। क्रीडन्तमिव देवेशं नन्दनेऽप्सरसां गणैः। मन्त्रिषु न्यस्तकार्यं च मन्त्रिणामनवेक्षकम्4.29.5।। उत्सन्नराज्यसन्देशं कामवृत्तमवस्थितम्। निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित्4.29.6।। प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैः। वाक्यविद्वाक्य तत्त्वज्ञं हरीशं मारुतात्मजः4.29.7।। हितं तत्त्वं च पथ्यं च सामधर्मार्थनीतिमत्। प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम्। हरीश्वरमुपागम्य हनूमान्वाक्यमब्रवीत्4.29.8।। Kishkindha Kanda,29,9,राज्यं प्राप्तं यशश्चैव कौली श्रीरभिवर्धिता। मित्राणां सङ्ग्रहश्शेषस्तं भवान्कर्तुमर्हति4.29.9।। Kishkindha Kanda,29,10,यो हि मित्रेषु कालज्ञस्सततं साधु वर्तते4.29.10।। तस्य राज्यं च कीर्तिश्च प्रतापश्चाभि वर्धते। Kishkindha Kanda,29,11,यस्य कोशश्च दण्डश्च मित्राण्यात्मा च भूमिप4.29.11।। समवेतानि सर्वाणि स राज्यं महदश्नुते। Kishkindha Kanda,29,12,तद्भवान्वृत्तसम्पन्नः स्थितः पथि निरत्यये4.29.12।। मित्रार्थमभिनीतार्थं यथावत्कर्तुमर्हति। Kishkindha Kanda,29,13,सन्त्यज्य सर्वकर्माणि मित्रार्थे योऽनुवर्तते4.29.13।। सम्भ्रमाद्धि कृतोत्साहस्सोऽनर्थैर्नावरुध्यते। Kishkindha Kanda,29,14,यस्तु कालव्यतीतेषु मित्रकार्येषु वर्तते4.29.14।। स कृत्वा महतोऽप्यर्थान्न मित्रार्थेन युज्यते। Kishkindha Kanda,29,15,यदिदं मित्रकार्यं वीर नोमित्रकार्यमरिन्दम 4.29.15।। क्रियतां राघवस्यैतद्वैदेह्याः परिमार्गणम्। तदिदं वीर कार्यं ते कालातीतमरिन्दम 4.29.16।। Kishkindha Kanda,29,16,यदिदं मित्रकार्यं वीर नोमित्रकार्यमरिन्दम 4.29.15।। क्रियतां राघवस्यैतद्वैदेह्याः परिमार्गणम्। तदिदं वीर कार्यं ते कालातीतमरिन्दम 4.29.16।। Kishkindha Kanda,29,17,न च कालमतीतं ते निवेदयति कालवित्। त्वरमाणोऽपि सन्प्राज्ञस्तव राजन्वशानुगः4.29.17।। Kishkindha Kanda,29,18,कुलस्य हेतुः स्फीतस्य दीर्घबन्धुश्च राघवः। अप्रमेयप्रभावश्च स्वयं चाप्रतिमो गुणैः4.29.18।। Kishkindha Kanda,29,19,तस्य त्वं कुरु वै कार्यं पूर्वं तेन कृतं तव। हरीश्वर कपिश्रेष्ठानाज्ञापयितुमर्हसि4.29.19।। Kishkindha Kanda,29,20,न हि तावद्भवेत्कालो व्यतीतश्चोदनादृते। चोदितस्य हि कार्यस्य भवेत्कालव्यतिक्रमः4.29.20।। Kishkindha Kanda,29,21,अकर्तुरपि कार्यस्य भवान्कर्ता हरीश्वर किं पुनः प्रतिकर्तुस्ते राज्येन च धनेन च4.29.21।। Kishkindha Kanda,29,22,शक्तिमानपिविक्रान्तो वानरर्क्षगणेश्वर। कर्तुं दाशरथेः प्रीतिमाज्ञायां किन्न सज्जसे4.29.22।। Kishkindha Kanda,29,23,कामं खलु शरैश्शक्तस्सुरासुरमहोरगान्। वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञां हि काङ्क्षते4.29.23।। Kishkindha Kanda,29,24,प्राणत्यागाविशङ्केन कृतं तेन तवप्रियम्। तस्य मार्गाम वैदेहीं पृथिव्यामपि चाम्बरे4.29.24।। Kishkindha Kanda,29,25,देवदानव गन्धर्वा नसुरास्समरुद्गणाः। न च यक्षा भयं तस्य कुर्युः किमुत राक्षसाः4.29.25।। Kishkindha Kanda,29,26,तदेवं शक्तियुक्तस्य पूर्वं प्रियकृतस्तव। रामस्यार्हसि पिङ्गेश कर्तुं सर्वात्मना प्रियम्4.29.26।। Kishkindha Kanda,29,27,नाधस्तादवनौ नाप्सु गतिर्नोपरि चाम्बरे। कस्यचित्सज्जतेऽस्माकं कपीश्वर तवाज्ञया4.29.27।। Kishkindha Kanda,29,28,तदाज्ञापय कः किं ते कुतो वापि व्यवस्यतु। हरयोऽह्यप्रधृष्यास्ते सन्ति कोट्यग्रतोऽनघ4.29.28।। Kishkindha Kanda,29,29,तस्य तद्वचनं श्रुत्वा काले साधु निवेदनम्। सुग्रीवस्सत्त्वसम्पन्नश्चकार मतिमुत्तमाम्4.29.29।। Kishkindha Kanda,29,30,स सन्दिदेशाभिमतं नीलं नित्यकृतोद्यमम्। दिक्षु सर्वासु सर्वेषां सैन्यानामुपसङ्ग्रहे4.29.30।। Kishkindha Kanda,29,31,यथा सेना समग्रा मे यूथपालाश्च सर्वशः। समागच्छन्त्यसङ्गेन सेनाग्राणि तथा कुरु4.29.31।। Kishkindha Kanda,29,32,ये त्वन्तपालाः प्लवगाश्शीघ्रगा व्यवसायिनः। समानयन्तु ते सैन्यं त्वरिताश्शासनान्मम4.29.32।। स्वयं चानन्तरं सैन्यं भवानेवानुपश्यतु। Kishkindha Kanda,29,33,त्रिपञ्चरात्रादूर्ध्वं यः प्राप्नुयान्नेह वानरः। तस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा4.29.33।। Kishkindha Kanda,29,34,हरींश्च वृद्धानुपयातु साङ्गदो भवान्ममाज्ञामधिकृत्य निश्चिताम्। इति व्यवस्थां हरिपुङ्गवेश्वरो विधाय वेश्म प्रविवेश वीर्यवान्4.29.34।। Kishkindha Kanda,30,1,गुहं प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः। वर्षरात्रोषितो रामः कामशोकाभिपीडितः4.30.1।। पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम्। शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम्4.30.2।। कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम्। बुद्ध्वा कालमतीतं च मुमोह परमातुरः4.30.3।। Kishkindha Kanda,30,2,गुहं प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः। वर्षरात्रोषितो रामः कामशोकाभिपीडितः4.30.1।। पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम्। शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम्4.30.2।। कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम्। बुद्ध्वा कालमतीतं च मुमोह परमातुरः4.30.3।। Kishkindha Kanda,30,3,गुहं प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः। वर्षरात्रोषितो रामः कामशोकाभिपीडितः4.30.1।। पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम्। शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम्4.30.2।। कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम्। बुद्ध्वा कालमतीतं च मुमोह परमातुरः4.30.3।। Kishkindha Kanda,30,4,स तु संज्ञामुपागम्य मुहूर्तान्मतिमान्पुनः। मनस्स्थामपि वैदेहीं चिन्तयामास राघवः4.30.4।। Kishkindha Kanda,30,5,आसीनः पर्वतस्याग्रे हेमधातुविभूषिते। शारदं गगनं दृष्ट्वा जगाम मनसा प्रियाम्4.30.5।। Kishkindha Kanda,30,6,दृष्ट्वा च विमलं व्योम गतविद्युद्वलाहकम्। सारसारावसङ्घुष्ठं विललापार्तया गिरा4.30.6।। Kishkindha Kanda,30,7,सारसारावसन्नादैस्सारसारवनादिनी। याऽऽश्रमे रमते बाला साऽद्य मे रमते कथम्4.30.7।। Kishkindha Kanda,30,8,पुष्पितांश्चासनान् दृष्ट्वा काञ्चनानिव निर्मलान्। कथं सा रमते बाला पश्यन्ती मामपश्यती4.30.8।। Kishkindha Kanda,30,9,या पुरा कलहंसानां स्वरेण कलभाषिणी। बुध्यते चारुसर्वाङ्गी साऽद्य मे बुद्ध्यते कथम्4.30.9।। Kishkindha Kanda,30,10,निस्वनं चक्रवाकानां निशम्य नहचारिणाम्। पुण्डरीकविशालाक्षी कथमेषा भविष्यति4.30.10।। Kishkindha Kanda,30,11,सरांसि सरितो वापीः काननानि वनानि च। तां विना मृगशाबाक्षीं चरन्नाद्य सुखं लभे4.30.11।। Kishkindha Kanda,30,12,अपि तां मद्वियोगाच्छ सौकुमार्याच्च भामिनीम्। सुदूरं पीडयेत्कामश्शरद्गुणनिरन्तरः4.30.12।। Kishkindha Kanda,30,13,एवमादि नरश्रेष्ठो विललाप नृपात्मजः। विहङ्ग इव सारङ्गस्सलिलं त्रिदशेश्वरात्4.30.13।। Kishkindha Kanda,30,14,ततश्चञ्चूर्य रम्येषु फलार्थी गिरिसानुषु। ददर्श पर्युपावृत्तो लक्ष्मीवान्लक्ष्मणोऽग्रजम्4.30.14।। Kishkindha Kanda,30,15,तं चिन्तया दुस्सहया परीतं विसंज्ञमेकं विजने मनस्वी। भ्रातुर्विषादात्परितापदीनः समीक्ष्य सौमित्रिरुवाच रामम्4.30.15।। Kishkindha Kanda,30,16,किमार्य कामस्य वशंगतेन किमात्मपौरुष्यपराभवेन। अयं सदा संह्रियते समाधिः किमत्र योगेन निवर्तितेन4.30.16।। Kishkindha Kanda,30,17,क्रियाभियोगं मनसः प्रसादं समाधियोगानुगतं च कालम्। सहायसामर्थ्यमदीनसत्त्वः स्वकर्म हेतुं च कुरुष्व हेतुम्4.30.17।। Kishkindha Kanda,30,18,न जानकी मानव वंशनाथ त्वया सनाथा सुलभा परेण। न चाग्निचूडां ज्वलितामुपेत्य न दह्यते वीर वरार्ह कच्छित्4.30.18।। Kishkindha Kanda,30,19,सलक्षणं लक्ष्मणमप्रधृष्यं स्वभावजं वाक्यमुवाच रामः। हितं च पथ्यं च नयप्रसक्तं ससाम धर्मार्थसमाहितं च4.30.19।। Kishkindha Kanda,30,20,निस्संशयं कार्यमवेक्षितव्यं क्रियाविशेषोऽह्यनुवर्तितव्यः। ननु प्रवृत्तस्य दुरासदस्य कुमार कार्यस्य फलं च चिन्त्यम्4.30.20।। Kishkindha Kanda,30,21,अथ पद्मपलाशाक्षीं मैथिलीमनुचिन्तयन्। उवाच लक्ष्मणं रामो मुखेन परिशुष्यता4.30.21।। Kishkindha Kanda,30,22,तर्पयित्वा सहस्राक्षस्सलिलेन वसुन्धराम्। निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः4.30.22।। Kishkindha Kanda,30,23,स्निग्धगम्भीरनिर्घोषाश्शैलद्रुमपुरोगमाः। विसृज्य सलिलं मेघाः परिश्रान्ता नृपात्मज4.30.23।। Kishkindha Kanda,30,24,नीलोत्पलदलश्यामाश्श्यामीकृत्वा दिशो दश। विमदा इव मातङ्गाश्शान्तवेगाः पयोधराः4.30.24।। Kishkindha Kanda,30,25,जलगर्भा महामेघा कुटजार्जुनगन्धिनः। चरित्वा विरतास्सौम्य वृष्टिवातास्समुद्यताः4.30.25।। Kishkindha Kanda,30,26,घनानां वारणानां च मयूराणां च लक्ष्मण। नादः प्रस्रवणानां च प्रशान्तस्सहसाऽनघ4.30.26।। Kishkindha Kanda,30,27,अभिवृष्टा महामेघैर्निर्मलाश्चित्रसानवः। अनुलिप्ता इवाऽभान्ति गिरयश्चित्रदीप्तिभिः4.30.27।। Kishkindha Kanda,30,28,शाखासु सप्तच्छदपादपानां प्रभासु तारार्कनिशाकराणाम्। लीलासु चैवोत्तम वारणानां श्रियं विभज्याद्य शरत्प्रवृत्ता4.30.28।। Kishkindha Kanda,30,29,सम्प्रत्यनेकाश्रय चित्रशोभा लक्ष्मीश्शरत्कालगुणोपनीता। सूर्याग्रहस्तप्रतिबोधितेषु पद्माकरेष्वभ्यधिकं विभाति4.30.29।। Kishkindha Kanda,30,30,सप्तच्छदानां कुसुमोपगन्धी षट्पादबृन्दैरनुगीयमानः। मत्तद्विपानां पवनोऽनुसारी दर्पं विनेष्यन्नधिकं करोति।।4.30.30।। Kishkindha Kanda,30,31,अभ्यागतैश्चारुविशालपक्षै स्सरःप्रियैः पद्मरजोवकीर्णैः। महानदीनां पुलिनोपयातैः क्रीडन्ति हंसास्सह चक्रवाकैः4.30.31।। Kishkindha Kanda,30,32,मदप्रगल्भेषु च वारणेषु गवां समूहेषु च दर्पितेषु। प्रसन्नतोयासु च निम्नगासु विभाति लक्ष्मीर्बहुधा विभक्ता4.30.32।। Kishkindha Kanda,30,33,नभस्समीक्ष्याम्बुधरैर्विमुक्तं विमुक्तबर्हाभरणा वनेषु। प्रियास्वसक्ता विनिवृत्तशोभा गतोत्सवा ध्यानपरा मयूराः4.30.33।। Kishkindha Kanda,30,34,मनोज्ञगन्धैः प्रियकैरनल्पैः पुष्पातिभारावनताग्रशाखैः। सुवर्णगौरैर्नयनाभिरामै रुद्योतितानीव वनान्तराणि4.30.34।। Kishkindha Kanda,30,35,प्रियान्वितानां नलिनीप्रियाणां वने रतानां कुसुमोद्धतानाम्। मदोत्कटानां मदलालसानां गजोत्तमानां गतयोऽद्य मन्दाः4.30.35।। Kishkindha Kanda,30,36,व्यभ्रं नभश्शस्त्रविधौतवर्णं कृशप्रवाहानि नदीजलानि। कह्लारशीताः पवनाः प्रवान्ति तमोविमुक्ताश्च दिशः प्रकाशाः4.30.36।। Kishkindha Kanda,30,37,सूर्यातपक्रामणनष्टपङ्का भूमिश्चिरोदधाटितसान्द्ररेणुः। अन्योन्यवैरेणसमायुताना मुद्योगकालोऽद्य नराधिपानाम्4.30.37।। Kishkindha Kanda,30,38,शरद्गुणाप्यायितरूपशोभाः प्रहर्षिताः पांशुसमुत्क्षिताङ्गाः। मदोत्कटास्सम्प्रति युद्धलुब्धा वृषा गवां मध्यगता नदन्ति4.30.38।। Kishkindha Kanda,30,39,समन्मथं तीव्रगतानुरागाः कुलान्विता मन्दगतिं करिण्यः। मदान्वितं सम्परिवार्य यान्तं वनेषु भर्तारमनुप्रयान्ति4.30.39।। Kishkindha Kanda,30,40,त्यक्त्वा वराण्यात्मविभूषणानि बर्हाणि तीरोपगता नदीनाम्। निर्भर्त्स्यमाना इव सारसौघैः प्रयान्ति दीना विमदा मयूराः4.30.40।। Kishkindha Kanda,30,41,वित्रास्य कारण्डवचक्रवाका न्महारवैर्भिन्नकटा गजेन्द्राः। सरस्सु बद्धाम्बुजभूषणेषु विक्षोभ्य विक्षोभ्य जलं पिबन्ति4.30.41।। Kishkindha Kanda,30,42,व्यपेतपङ्कासु सवालुकासु प्रसन्नतोयासु सगोकुलासु। ससारसारावनिनादितासु नदीषु हृष्टा निपतन्ति हंसाः4.30.42।। Kishkindha Kanda,30,43,नदीघनप्रस्रवणोदकाना मतिप्रवृद्धानिलबर्हिणानाम्। प्लवङ्गमानां च गतोत्सवानां द्रुतं रवास्सम्प्रति सम्प्रणष्टाः4.30.43।। Kishkindha Kanda,30,44,अनेकवर्णास्सुविनष्टकाया नवोदितेष्वम्बुधरेषु नष्टाः। क्षुधार्दिता घोरविषा बिलेभ्य श्चिरोषिता विप्रसरन्ति सर्पाः4.30.44।। Kishkindha Kanda,30,45,चञ्चच्चन्द्रकरस्पर्शहर्षोन्मीलिततारका। अहो रागवती सन्ध्या जहाति स्वयमम्बरम्4.30.45।। Kishkindha Kanda,30,46,रात्रिश्शशाङ्कोदितसौम्यवक्त्रा तारागणोन्मीलितचारुनेत्रा। ज्योत्स्नांशुकप्रावरणा विभाति नारीव शुक्लांशुकसंवृताङ्गी4.30.46।। Kishkindha Kanda,30,47,विपक्वशालिप्रसवानि भुक्त्वा प्रहर्षिता सारसचारुपङ्क्तिः। नभस्समाक्रामति शीघ्रवेगाः वातावधूता ग्रथितेव माला4.30.47।। Kishkindha Kanda,30,48,सुप्तैकहंसं कुमुदैरुपेतं महाह्रदस्थं सलिलं विभाति। घनैर्विमुक्तं निशि पूर्णचन्द्रं तारागणाकीर्णमिवान्तरिक्षम्4.30.48।। Kishkindha Kanda,30,49,प्रकीर्णहंसाकुलमेखलानां प्रबुद्धपद्मोत्पलमालिनीनाम्। वाप्युत्तमानामधिकाऽद्य लक्ष्मी र्वराङ्गनानामिव भूषितानाम्4.30.49।। Kishkindha Kanda,30,50,वेणुस्वनव्यञ्जिततूर्यमिश्रः प्रत्यूषकालानिलसम्प्रवृद्धः। सम्मूर्छितो गर्गरगोवृषाणा मन्योन्यमापूरयतीव शब्दः4.30.50।। Kishkindha Kanda,30,51,नवैर्नदीनां कुसुमप्रभासै र्व्याधूयमानैर्मृदुमारुतेन। धौतामलक्षौमपटप्रकाशैः कूलानि काशैरुपशोभितानि4.30.51।। Kishkindha Kanda,30,52,वनप्रचण्डा मधुपानशौण्डाः प्रियान्विताष्षट्चरणाः प्रह्रृष्टाः। वनेषु मत्ताः पवनानुयात्रां कुर्वन्ति पद्मासनरेणुगौराः4.30.52।। Kishkindha Kanda,30,53,जलं प्रसन्नं कुमुदं प्रभासं क्रौञ्चस्वनश्शालिवनं विपक्वम्। मृदुश्च वायुर्विमलश्च चन्द्र श्शंसन्ति वर्षव्यपनीतकालम्4.30.53।। Kishkindha Kanda,30,54,मीनोपसन्दर्शितमेखलानां नदीवधूनां गतयोऽद्य मन्दाः। कान्तोपभुक्तालसगामिनीनां प्रभातकालेष्विव कामिनीनाम्4.30.54।। Kishkindha Kanda,30,55,सचक्रवाकानि सशैवलानि काशैर्दुकूलैरिव संवृतानि। सपत्रलेखानि सरोचनानि वधूमुखानीव नदीमुखानि4.30.55।। Kishkindha Kanda,30,56,प्रफुल्लबाणासनचित्रितेषु प्रहृष्टषट्पादनिकूजितेषु। गृहीतचापोद्यतचण्डदण्डः प्रचण्डचारोऽद्य वनेषु कामः4.30.56।। Kishkindha Kanda,30,57,लोकं सुवृष्ट्या परितोषयित्वा नदीस्तटाकानि च पूरयित्वा। निष्पन्नसस्यां वसुधां च कृत्वा त्यक्त्वा नभस्तोयधराः प्रणष्टाः4.30.57।। Kishkindha Kanda,30,58,दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः। नवसङ्गमसव्रीडा जघनानीव योषितः4.30.58।। Kishkindha Kanda,30,59,प्रसन्नसलिलास्सौम्य कुररीभिर्विनादिताः। चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः4.30.59।। Kishkindha Kanda,30,60,असनास्सप्तपर्णाश्च कोविदाराश्च पुष्पिताः। दृश्यन्ते बन्धुजीवाश्च श्यामाश्च गिरिसानुषु4.30.60।। Kishkindha Kanda,30,61,हंससारसचक्राह्वैः कुररैश्च समन्ततः। पुलिनान्यवकीर्णानि नदीनां पश्य लक्ष्मण4.30.61।। Kishkindha Kanda,30,62,अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज। उद्योगसमयस्सौम्य पार्थिवानामुपस्थितः4.30.62।। Kishkindha Kanda,30,63,इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज न च पश्यामि सुग्रीवमुद्योगं वा तथाविधम्4.30.63।। Kishkindha Kanda,30,64,चत्वारो वार्षिका मासा गता वर्षशतोपमाः। मम शोकाभिभूतस्य सौम्य सीतामपश्यतः4.30.64।। Kishkindha Kanda,30,65,चक्रवाकीव भर्तारं पृष्ठतोऽनुगता वनम्। विषमं दण्डकारण्यमुद्यानमिव याऽगता4.30.65।। Kishkindha Kanda,30,66,प्रियाविहीने दुःखार्ते हृतराज्ये विवासिते। कृपां न कुरुते राजा सुग्रीवो मयि लक्ष्मण4.30.66।। Kishkindha Kanda,30,67,अनाथो हृतराज्योऽयं रावणेन च धर्षितः। दीनो दूरगृहः कामी मां चैव शरणं गतः4.30.67।। इत्येतैः कारणैस्सौम्य सुग्रीवस्य दुरात्मनः। अहं वानरराजस्य परिभूतः परन्तप4.30.68।। Kishkindha Kanda,30,68,अनाथो हृतराज्योऽयं रावणेन च धर्षितः। दीनो दूरगृहः कामी मां चैव शरणं गतः4.30.67।। इत्येतैः कारणैस्सौम्य सुग्रीवस्य दुरात्मनः। अहं वानरराजस्य परिभूतः परन्तप4.30.68।। Kishkindha Kanda,30,69,स कालं परिसङ्ख्याय सीतायाः परिमार्गणे। कृतार्थस्समयं कृत्वा दुर्मतिर्नावबुध्यते4.30.69।। Kishkindha Kanda,30,70,त्वं च किष्किन्धां प्रविश्य ब्रूहि वानरपुङ्गवम्। मूर्खं ग्राम्यसुखे सक्तं सुग्रीवं वचनान्मम4.30.70।। Kishkindha Kanda,30,71,अर्थिनामुपपन्नानां पूर्वं चाप्युपकारिणाम्। आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः4.30.71।। Kishkindha Kanda,30,72,शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम्। सत्येन प्रतिगृह्णाति स वीरः पुरुषोत्तमः4.30.72।। Kishkindha Kanda,30,73,कृतार्था ह्यकृतार्थानां मित्राणां न भवन्ति ये। तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते4.30.73।। Kishkindha Kanda,30,74,नूनं काञ्चनपृष्ठस्य विकृष्टस्य मया रणे। द्रष्टुमिच्छति चापस्य रूपं विद्युद्गणोपमम्4.30.74।। Kishkindha Kanda,30,75,घोरं ज्यातलनिर्घोषं क्रुद्धस्य मम संयुगे। निर्घोषमिव वज्रस्य पुनस्संश्रोतुमिच्छसि4.30.75।। Kishkindha Kanda,30,76,काममेवंगतेऽप्यस्य परिज्ञाते पराक्रमे। त्वत्सहायस्य मे वीर न चिन्ता स्यान्नृपात्मज4.30.76।। Kishkindha Kanda,30,77,यदर्थमयमारम्भः कृतः परपुरञ्जयः। समयं नाभिजानाति कृतार्थः प्लवगेश्वरः4.30.77।। Kishkindha Kanda,30,78,वर्षासमयकालं तु प्रतिज्ञाय हरीश्वरः। व्यतीतांश्चतुरो मासान्विहरन्नावबुध्यते4.30.78।। Kishkindha Kanda,30,79,सामात्यपरिषत्क्रीडन्पानमेवोपसेवते। शोकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम्4.30.79।। Kishkindha Kanda,30,80,उच्यतां गच्छ सुग्रीवस्त्वया वत्स महाबल। मम रोषस्य यद्रूपं ब्रूयाश्चैवमिदं वचः4.30.80।। Kishkindha Kanda,30,81,न च सङ्कुचितः पन्था येन वाली हतो गतः। समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः4.30.81।। Kishkindha Kanda,30,82,एक एव रणे वाली शरेण निहतो मया। त्वां तु सत्यादतिक्रान्तं हनिष्यामि सबान्धवम्4.30.82।। Kishkindha Kanda,30,83,तदेवं विहिते कार्ये यद्धितं पुरुषर्षभ। तत्तद्भ्रूहि नरश्रेष्ठत्वर कालव्यतिक्रमः4.30.83।। Kishkindha Kanda,30,84,कुरुष्व सत्यं मयि वानरेश्वर प्रतिश्रुतं धर्ममवेक्ष्य शाश्वतम्। मा वालिनं प्रेत्य गतो यमक्षयं त्वमद्य पश्येर्मम चोदितैश्शरैः4.30.84।। Kishkindha Kanda,30,85,स पूर्वजं तीव्रविवृद्धकोपं लालप्यमानं प्रसमीक्ष्य दीनम्। चकार तीव्रां मतिमुग्रतेजा हरीश्वरे मानववंशनाथः4.30.85।। Kishkindha Kanda,31,1,स कामिनं दीनमदीनसत्त्वं शोकाभिपन्नं समुदीर्णकोपम्। नरेन्द्रसूनुर्नरदेवपुत्रं रामानुजः पूर्वजमित्युवाच4.31.1।। Kishkindha Kanda,31,2,न वानरः स्थास्यति साधुवृत्ते न मंस्यते कर्मफलानुषङ्गान्। न भोज्यते वानरराज्यलक्ष्मीं तथाहि नाभिक्रमतेऽस्य बुद्धिः4.31.2।। Kishkindha Kanda,31,3,मतिक्षयाद्ग्राम्यसुखेषु सक्त स्तव प्रसादाप्रतिकारबुद्धिः। हतोऽग्रजं पश्यतु वीर तस्य न राज्यमेवं विगुणस्य देयम्4.31.3।। Kishkindha Kanda,31,4,न धारये कोपमुदीर्णवेगं निहन्मि सुग्रीवमसत्यमद्य। हरिप्रवीरैस्सह वालिपुत्रो नरेन्द्रपत्न्या विचयं करोतु4.31.4।। Kishkindha Kanda,31,5,तमात्तबाणासनमुत्पतन्तं निवेदितार्थं रणचण्डकोपम्। उवाच रामः परवीरहन्ता स्ववेक्षितं सानुनयं च वाक्यम्4.31.5।। Kishkindha Kanda,31,6,न हि वै त्वद्विधो लोके पापमेवं समाचरेत्। पापमार्येण यो हन्ति स वीरः पुरुषोत्तमः4.31.6।। Kishkindha Kanda,31,7,नेदमत्र त्वया ग्राह्यं साधुवृत्तेन लक्ष्मण। तां प्रीतिमनुवर्तस्व पूर्ववृत्तं च सङ्गतम्4.31.7।। Kishkindha Kanda,31,8,सामोपहितया वाचा रूक्षाणि परिवर्जयन्। वक्तुमर्हसि सुग्रीवं व्यतीतं कालपर्यये4.31.8।। Kishkindha Kanda,31,9,सोऽग्रजेनानुशिष्टार्थो यथावत्पुरुषर्षभः। प्रविवेश पुरीं वीरो लक्ष्मणः परवीरहा4.31.9।। Kishkindha Kanda,31,11,ततश्शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः। लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः4.31.10।। शक्रबाणासनप्रख्यं धनुः कालान्तकोपमः। प्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमानिव।।4.31.11।। Kishkindha Kanda,31,12,यथोक्तकारी वचनमुत्तरं चैव सोत्तरम्। बृहस्पतिसमो बुद्ध्या मत्वा रामानुजस्तदा4.31.12।। कामक्रोधसमुत्थेन भ्रातुः कोपाग्निना वृतः। प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस्तदा4.31.13।। Kishkindha Kanda,31,13,यथोक्तकारी वचनमुत्तरं चैव सोत्तरम्। बृहस्पतिसमो बुद्ध्या मत्वा रामानुजस्तदा4.31.12।। कामक्रोधसमुत्थेन भ्रातुः कोपाग्निना वृतः। प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस्तदा4.31.13।। Kishkindha Kanda,31,14,सालतालाश्वकर्णांश्च तरसा पातयन्बहून्। पर्यस्यन्गिरिकूटानि द्रुमानन्यांश्च वेगतः4.31.14।। शिलाश्च शकलीकुर्वन्पद्भ्यां गज इवाशुगः। दूरामेकपदं त्यक्त्वा ययौ कार्यवशाद्द्रुतम्4.31.15।। Kishkindha Kanda,31,15,सालतालाश्वकर्णांश्च तरसा पातयन्बहून्। पर्यस्यन्गिरिकूटानि द्रुमानन्यांश्च वेगतः4.31.14।। शिलाश्च शकलीकुर्वन्पद्भ्यां गज इवाशुगः। दूरामेकपदं त्यक्त्वा ययौ कार्यवशाद्द्रुतम्4.31.15।। Kishkindha Kanda,31,16,तामपश्यद्बलाकीर्णां हरिराजमहापुरीम्। दुर्गामिक्ष्वाकुशार्दूलः किष्किन्धां गिरिसङ्गटे4.31.16।। Kishkindha Kanda,31,17,रोषात्प्रस्फुरमाणोष्ठ स्सुग्रीवं प्रति लक्ष्मणः। ददर्श वानरान्भीमाकनिष्किन्धाया बहिश्चरान्4.31.17।। Kishkindha Kanda,31,18,तं दृष्ट्वा वानरास्सर्वे लक्ष्मणं पुरुषर्षभम्। शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान्4.31.18।। जगृहुः कुञ्जरप्रख्या वानराः पर्वतान्तरे। Kishkindha Kanda,31,19,तान्गृहीतप्रहरणान्सर्वान्दृष्ट्वा तु लक्ष्मणः4.31.19।। बभूव द्विगुणं क्रुद्धो बह्विन्धन इवानलः। Kishkindha Kanda,31,20,तं ते भयपरीताङ्गाः क्रुद्धं दृष्ट्वा प्लवङ्गमाः4.31.20।। कालमृत्युयुगान्ताभं शतशो विद्रुता दिशः। Kishkindha Kanda,31,21,ततस्सुग्रीवभवनं प्रविश्य हरिपुङ्गवाः4.31.21।। क्रोधमागमनं चैव लक्ष्मणस्य न्यवेदयन्। Kishkindha Kanda,31,22,तारया सहितः कामी सक्तः कपिवृषो रहः4.31.22।। न तेषां कपिवीराणां शुश्राव वचनं तदा। Kishkindha Kanda,31,23,ततस्सचिवसन्दिष्टा हरयो रोमहर्षणाः। गिरिकुञ्जर मेघाभा नगर्या निर्ययुस्तदा।।4.31.23।। Kishkindha Kanda,31,24,नखदंष्ट्रायुधा घोरास्सर्वे विकृतदर्शनाः4.31.24।। सर्वे शार्दूलदर्पाश्च सर्वे च विकृताननाः। Kishkindha Kanda,31,25,दशनागबलाः केचित्केचिद्दशगुणोत्तराः4.31.25।। केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः। Kishkindha Kanda,31,26,कृत्स्नांहि कपिभिर्व्याप्तां द्रुमहस्सैर्महाबलैः4.31.26।। अपश्यल्लक्ष्मणः क्रुद्धः किष्किन्धां तां दुरासदाम्। Kishkindha Kanda,31,27,ततस्ते हरयस्सर्वे प्राकारपरिघान्तरात्4.31.27।। निष्क्रम्योदग्रसत्त्वास्तु तस्थुराविष्कृतं तदा। Kishkindha Kanda,31,28,सुग्रीवस्य प्रमादं च पूर्वजं चार्तमात्मवान्4.31.28।। बुद्ध्वा कोपवशं वीरः पुनरेव जगाम सः। Kishkindha Kanda,31,29,स दीर्घोष्णमहोच्छवासः कोपसंरक्तलोचनः4.31.29।। बभूव नरशार्दूल स्सधूम इव पावकः। Kishkindha Kanda,31,30,बाणशल्यस्फुरज्जिह्वस्सायकासनभोगवान्4.31.30।। स्वतेजोविषसङ्घातः पञ्चास्य इव पन्नगः। Kishkindha Kanda,31,31,तं दीप्तमिव कालाग्निं नागेन्द्रमिव कोपितम्4.31.31।। समासाद्याङ्गदस्त्रासाद्विषादमगमद्भृशम्। Kishkindha Kanda,31,32,सोऽङ्गदं रोषताम्राक्षस्सन्दिदेश महायशाः4.31.32।। सुग्रीवः कथ्यतां वत्स ममागमनमित्युत। Kishkindha Kanda,31,33,एष रामानुजः प्राप्तस्वत्सकाशमरिन्दम4.31.33।। भ्रातुर्व्यसनसन्तप्तो द्वारि तिष्ठति लक्ष्मणः। तस्य वाक्यं यदि रुचिः क्रियतां साधु वानर4.31.34।। इत्युक्त्वा शीघ्रमागच्छ वत्स वाक्यमरिन्दम। Kishkindha Kanda,31,34,एष रामानुजः प्राप्तस्वत्सकाशमरिन्दम4.31.33।। भ्रातुर्व्यसनसन्तप्तो द्वारि तिष्ठति लक्ष्मणः। तस्य वाक्यं यदि रुचिः क्रियतां साधु वानर4.31.34।। इत्युक्त्वा शीघ्रमागच्छ वत्स वाक्यमरिन्दम। Kishkindha Kanda,31,35,लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टोऽङ्गदोऽब्रवीत्। पितुस्समीपमागम्य सौमित्रिरयमागतः4.31.35।। Kishkindha Kanda,31,36,अथाङ्गदस्तस्य वचो निशम्य सम्भ्रान्तभावः परिदीनवक्त्रः। निपत्य तूर्णं नृपतेस्तरस्वी ततः रुमायाश्चरणौ ववन्दे4.31.36।। Kishkindha Kanda,31,37,संङ्गृह्य पादौ पितुरग्र्यतेजाः जग्राह मातुः पुनरेव पादौ। पादौ रुमायाश्च निपीडयित्वा निवेदयामास ततस्तमर्थम्4.31.37।। Kishkindha Kanda,31,38,स निद्रामदसंवीतो वानरो न विबुद्धवान्। बभूव मदमत्तश्च मदनेन च मोहितः4.31.38।। Kishkindha Kanda,31,39,ततः किलकिलां चक्रुर्लक्ष्मणं प्रेक्ष्य वानराः। प्रसादयन्तस्तं क्रुद्धं भयमोहितचेतसः4.31.39।। Kishkindha Kanda,31,40,ते महौघनिभं दृष्ट्वा वज्राशनिसमस्वनम्। सिंहनादं समं चक्रुर्लक्ष्मणस्य समीपतः4.31.40।। Kishkindha Kanda,31,41,तेन शब्देन महता प्रत्यबुध्यत वानरः। मदविह्वलताम्राक्षो व्याकुलस्रग्विभूषणः4.31.41।। Kishkindha Kanda,31,42,अथाङ्गदवचः श्रुत्वा तेनैव च समागतौ। मन्त्रिणौ वानरेन्द्रस्य सम्मतौ दारदर्शिनौ4.31.42।। प्लक्षश्चैव प्रभावश्च मन्त्रिणावर्थधर्मयोः। वक्तुमुच्चावचं प्राप्तं लक्ष्मणं तौ शशंसतुः4.31.43।। Kishkindha Kanda,31,43,अथाङ्गदवचः श्रुत्वा तेनैव च समागतौ। मन्त्रिणौ वानरेन्द्रस्य सम्मतौ दारदर्शिनौ4.31.42।। प्लक्षश्चैव प्रभावश्च मन्त्रिणावर्थधर्मयोः। वक्तुमुच्चावचं प्राप्तं लक्ष्मणं तौ शशंसतुः4.31.43।। Kishkindha Kanda,31,44,प्रसादयित्वा सुग्रीवं वचनैस्सामनिश्चितैः। आसीनं पर्युपासीनौ यथा शक्रं मरुत्पतिम्4.31.44।। Kishkindha Kanda,31,45,सत्यसन्धौ महाभागौ भ्रातरौ रामलक्ष्मणौ। वयस्यभावं सम्प्राप्तौ राज्यार्हौ राज्यदायिनौ4.31.45।। Kishkindha Kanda,31,46,तयोरेको धनुष्पाणिर्द्वारि तिष्ठति लक्ष्मणः। यस्य भीताः प्रवेपन्तो नादान्मुञ्चन्ति वानराः4.31.46।। Kishkindha Kanda,31,47,स एष राघवभ्राता लक्ष्मणो वाक्यसारथिः। व्यवसायरथः प्राप्तस्तस्य रामस्य शासनात्4.31.47।। Kishkindha Kanda,31,48,अयं च दयितो राजंस्ताराया स्तनयोऽङ्गदः। लक्ष्मणेन सकाशं ते प्रेषितस्त्वरयाऽनघ4.31.48।। Kishkindha Kanda,31,49,सोऽयं रोषपरीताक्षो द्वारि तिष्ठति वीर्यवान्। वानरान्वानरपते चक्षुषा प्रदहन्निव4.31.49।। Kishkindha Kanda,31,50,तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रस्सहबन्धुभिः। गच्छ शीघ्रं महाराज रोषो ह्यस्य निवर्त्यताम्4.31.50।। Kishkindha Kanda,31,51,यदाह रामो धर्मात्मा तत्कुरुष्व समाहितः। राजं स्तिष्ठस्व समये भव सत्यप्रतिश्रवाः4.31.51।। Kishkindha Kanda,32,1,अङ्गदस्य वचश्श्रुत्वा सुग्रीवस्सचिवैस्सह। लक्ष्मणं कुपितं श्रुत्वा मुमोचासनमात्मवान्4.32.1।। Kishkindha Kanda,32,2,सचिवानब्रवीद्वाक्यं निश्चित्य गुरुलाघवम्। मन्त्रज्ञान्मन्त्रकुशलो मन्त्रेषु परिनिष्ठितान्4.32.2।। Kishkindha Kanda,32,3,न मे दुर्व्याहृतं किञ्चिन्नापि मे दुरनुष्ठितम्। लक्ष्मणो राघवभ्राता क्रुद्धः किमिति चिन्तये4.32.3।। Kishkindha Kanda,32,4,असुहृद्भिर्ममामित्रैर्नित्यमन्तरदर्शिभिः। मम दोषानसम्भूतान् श्रावितो राघवानुजः4.32.4।। Kishkindha Kanda,32,5,अत्र तावद्यथाबुद्धि सर्वैरेव यथाविधि। भावस्य निश्चयस्तावद्विज्ञेयो निपुणं शनैः4.32.5।। Kishkindha Kanda,32,6,न खल्वस्ति मम त्रासो लक्ष्मणान्नापि राघवात्। मित्रं त्वस्थानकुपितं जनयत्येव सम्भ्रमम्4.32.6।। Kishkindha Kanda,32,7,सर्वथा सुकरं मित्रं दुष्करं परिपालनम्। अनित्यत्वाच्छ चित्तानां प्रीतिरल्पेपि भिद्यते4.32.7।। Kishkindha Kanda,32,8,अतो निमित्तं त्रस्तोहं रामेण तु महात्मना। यन्मयोपकृतं शक्यं प्रतिकर्तुं न तन्मया4.32.8।। Kishkindha Kanda,32,9,सुग्रीवेणैवमुक्तस्तु हनुमान्हरिपुङ्गवः। उवाच स्वेन तर्केण मध्ये वानरमन्त्रिणाम्4.32.9।। Kishkindha Kanda,32,10,सर्वथा नैतदाश्चर्यं यस्त्वं हरिगणेश्वर। न विस्मरसि सुस्निग्धमुपकार कृतं शुभम्4.32.10।। Kishkindha Kanda,32,11,राघवेण तु वीरेण भयमुत्सृज्य दूरतः। त्वत्प्रियार्थं हतो वाली शक्रतुल्यपराक्रमः4.32.11।। Kishkindha Kanda,32,12,सर्वथा प्रणयात्कृद्धो राघवो नात्र संशयः। भ्रातरं सम्प्रहितवान्लक्ष्मणं लक्ष्मिवर्धनम्4.32.12।। Kishkindha Kanda,32,13,त्वं प्रमत्तो न जानीषे कालं कालविदां वर। फुल्लसप्तच्छदश्यामा प्रवृत्ता तु शरच्छिवा4.32.13।। Kishkindha Kanda,32,14,निर्मलग्रहनक्षत्रा द्यौः प्रनष्टवलाहका। प्रसन्नाश्च दिशस्सर्वास्सरितश्च सरांसि च4.32.14।। Kishkindha Kanda,32,15,प्राप्तमुद्योगकालं तु नावैषि हरिपुङ्गव। त्वं प्रमत्त इति व्यक्तं लक्ष्मणोऽयमिहागतः4.32.15।। Kishkindha Kanda,32,16,आर्तस्य हृतदारस्य पुरुषं पुरुषान्तरात्। वचनं मर्षणीयं ते राघवस्य महात्मनः4.32.16।। Kishkindha Kanda,32,17,कृतापराधस्य हि ते नान्यत्पश्याम्यहं क्षमम्। अन्तरेणाञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनात्4.32.17।। Kishkindha Kanda,32,18,नियुक्तैर्मन्त्रिभिर्वाच्यो ह्यवश्यं पार्थिवो हितम्। अत एव भयं त्यक्त्वा ब्रवीम्यवधृतं वचः4.32.18।। Kishkindha Kanda,32,19,अभिक्रुद्धस्समर्थो हि चापमुद्यम्य राघवः। सदेवासुरगन्धर्वं वशे स्थापयितुं जगत्4.32.19।। Kishkindha Kanda,32,20,न स क्षमः कोपयितुं यः प्रसाद्यः पुनर्भवेत्। पूर्वोपकारं स्मरता कृतज्ञेन विशेषतः4.32.20।। Kishkindha Kanda,32,21,तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रस्ससुहृज्जनः। राजंस्तिष्ठस्व समये भर्तुर्भार्येव तद्वशः4.32.21।। Kishkindha Kanda,32,22,न रामरामानुजशासनं त्वया कपीन्द्र युक्तं मनसाऽप्यपोहितुम्। मनो हि ते ज्ञास्यति मानुषं बलं स राघवस्यास्य सुरेन्द्रवर्चसः4.32.22।। Kishkindha Kanda,33,1,अथ प्रतिसमादिष्टो लक्ष्मणः परवीरहा। प्रविवेश गुहां घोरां किष्किन्धां रामशासनात्।।4.33.1।। Kishkindha Kanda,33,2,द्वारस्था हरयस्तत्र महाकाया महाबलाः। बभूवुर्लक्ष्मणं दृष्ट्वा सर्वे प्राञ्जलय स्थिताः।।4.33.2।। Kishkindha Kanda,33,3,निश्वसन्तं तु तं दृष्ट्वा क्रुद्धं दशरथात्मजम्। बभूवुर्हरयस्त्रस्ता न चैनं पर्यवारयन्।।4.33.3।। Kishkindha Kanda,33,4,स तां रत्नमयीं श्रीमान्दिव्यां पुष्पितकाननाम्। रम्यां रत्नसमाकीर्णां ददर्श महतीं गुहाम्।।4.33.4।। Kishkindha Kanda,33,5,हर्म्यप्रासादसम्बाधां नानापण्योपशोभिताम्। सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभिताम्।।4.33.5।। Kishkindha Kanda,33,6,देवगन्धर्वपुत्रैश्च वानरैः कामरूपिभिः। दिव्यमाल्याम्बरधरै श्शोभितां प्रियदर्शनैः।।4.33.6।। Kishkindha Kanda,33,7,चन्दनागरुपद्मानां गन्धैस्सुरभिगन्धिनाम्। मैरेयाणां मधूनां च सम्मोदितमहापथाम्।।4.33.7।। Kishkindha Kanda,33,8,विन्ध्यमेरुगिरिप्रख्यै: प्रासादैर्नैकभूमिभिः। ददर्श गिरिनद्यश्च विमलास्तत्र राघवः।।4.33.8।। Kishkindha Kanda,33,9,अङ्गदस्य गृहं रम्यं मैन्दस्य द्विविधस्य च। गवयस्य गवाक्षस्य गजस्य शरभस्य च।।4.33.9।। Kishkindha Kanda,33,10,विद्युन्मालेश्च सम्पाते स्सूर्याक्षस्य हनूमतः। वीरबाहो स्सुबाहोश्च नलस्य च महात्मनः।।4.33.10।। Kishkindha Kanda,33,11,कुमुदस्य सुषेणस्य तारजाम्बवतोस्तथा। दधिवक्त्रस्य नीलस्य सुपाटलसुनेत्रयोः।।4.33.11।। Kishkindha Kanda,33,12,एतेषां कपिमुख्यानां राजमार्गे महात्मनाम्। ददर्श गृहमुख्यानि महासाराणि लक्ष्मणः।।4.33.12।। Kishkindha Kanda,33,13,पाण्डुराभ्रप्रकाशानि दिव्यमाल्ययुतानि च। प्रभूतधनधान्यानि स्त्रीरत्नै श्शोभितानि च।।4.33.13।। Kishkindha Kanda,33,14,पाण्डुरेण तु सालेन परिक्षिप्तं दुरासदम्। वानरेन्द्रगृहं रम्यं महेन्द्रसदनोपमम्।।4.33.14।। Kishkindha Kanda,33,15,शुक्लैः प्रासादशिखरैः कैलासशिखरोपमैः। सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभितम्।।4.33.15।। Kishkindha Kanda,33,16,महेन्द्रदत्तैश्श्रीमद्भिर्नीलजीमूतसन्निभैः। दिव्यपुष्पफलैर्वृक्षैशीतच्छायैर्मनोरमैः।।4.33.16।। Kishkindha Kanda,33,17,हरिभिस्संवृतद्वारं बलिभिश्शस्त्रपाणिभिः। दिव्यमाल्यावृतं शुभ्रं तप्तकाञ्चनतोरणम्।।4.33.17।। Kishkindha Kanda,33,18,सुग्रीवस्य गृहं रम्यं प्रविवेश महाबलः। अवार्यमाणस्सौमित्रिर्महाभ्रमिव भास्करः।।4.33.18।। Kishkindha Kanda,33,19,स सप्त कक्ष्या धर्मात्मा नानाजनसमाकुलाः। प्रविश्य सुमहद्गगुप्तं ददर्शान्तःपुरं महत्।।4.33.19।। Kishkindha Kanda,33,20,हैमराजतपर्यङ्कैर्बहुभिश्च वरासनैः। महार्हास्तरणोपेतैस्तत्र तत्रोपशोभितम्।।4.33.20।। Kishkindha Kanda,33,21,प्रविशन्नेव सततं शुश्राव मधुरस्वरम्। तन्त्रीगीतसमाकीर्णं समगीतपदाक्षरम्।।4.33.21।। Kishkindha Kanda,33,22,बह्वीश्च विविधाकारा रूपयौवनगर्विताः। स्त्रियस्सुग्रीवभवने ददर्श सुमहाबलः।।4.33.22।। Kishkindha Kanda,33,23,दृष्ट्वाऽभिजनसम्पन्नाश्चित्रमाल्यकृतस्रजः। फलमाल्यकृतव्यग्रा भूषणोत्तमभूषिताः।।4.33.23।। Kishkindha Kanda,33,24,नातृप्तान्नापि चाव्यग्रान्नानुदात्तपरिच्छदान्। सुग्रीवानुचरांश्चापि लक्षयामास लक्ष्मणः।।4.33.24।। Kishkindha Kanda,33,25,कूजितं नूपुराणां च काञ्चीनां निनदं तथा। सन्निशम्य तत श्रीमान्सौमित्रिर्लज्जितोऽभवत्।।4.33.25।। Kishkindha Kanda,33,26,रोषवेगप्रकुपितशश्रुत्वा चाभरणस्वनम्। चकार ज्यास्वनं वीरो दिशश्शब्देन पूरयन्।।4.33.26।। Kishkindha Kanda,33,27,चारित्रेण महाबाहुरपकृष्ट स्सलक्ष्मणः। तस्थावेकान्तमाश्रित्य रामकोपसमन्वितः।।4.33.27।। Kishkindha Kanda,33,28,तेन चापस्वनेनाथ सुग्रीवः प्लवगाधिपः। विज्ञायाऽगमनं त्रस्त स्सञ्चचाल वरासनात्।।4.33.28।। Kishkindha Kanda,33,29,अङ्गदेन यथा मह्यं पुरस्तात्प्रतिवेदितम्। सुव्यक्तमेष सम्प्राप्त स्सौमित्रिर्भ्रातृवत्सलः।।4.33.29।। Kishkindha Kanda,33,30,अङ्गदेन समाख्यातं ज्यास्वनेन च वानरः। बुबुधे लक्ष्मणं प्राप्तं मुखं चास्यव्यशुष्यत।।4.33.30।। Kishkindha Kanda,33,31,ततस्तारां हरिश्रेष्ठस्सुग्रीवः प्रियदर्शनाम्। उवाच हितमव्यग्रस्त्रास सम्भ्रान्तमानसः।।4.33.31।। Kishkindha Kanda,33,32,किन्नु तत्कारणं सुभ्रु प्रकृत्या मृदुमानसः। सरोष इव सम्प्राप्तो येनायं राघवानुजः।।4.33.32।। Kishkindha Kanda,33,33,किं पश्यसि कुमारस्य रोषस्थानमनिन्दिते। न खल्वकारणे कोपमाहरेन्नरसत्तमः।।4.33.33।। Kishkindha Kanda,33,34,यदस्य कृतमस्माभिर्बुध्यसे किञ्चिदप्रियम्। तदबुद्ध्या सम्प्रधार्याशु क्षिप्रमर्हसि भाषितुम्।।4.33.34।। Kishkindha Kanda,33,35,अथवा स्वयमेवैनं द्रष्टुमर्हसि भामिनि। वचनै स्सान्त्वयुक्तैश्च प्रसादयितुमर्हसि।।4.33.35।। Kishkindha Kanda,33,36,त्वद्दर्शन विशुद्धात्मा न स कोपं करिष्यति। न हि स्त्रीषु महात्मानः क्वचित्कुर्वन्ति दारुणम्।।4.33.36।। Kishkindha Kanda,33,37,त्वया सान्त्वैरुपक्रान्तं प्रसन्नेन्द्रियमानसम्। ततः कमलपत्राक्षं द्रक्ष्याम्यहमरिन्दमम्।।4.33.37।। Kishkindha Kanda,33,38,सा प्रस्खलन्ती मदविह्वलाक्षी प्रलम्बकाञ्चीगुण हेमसूत्रा। सलक्षणा लक्ष्मणसन्निधानं जगाम तारा नमिताङ्गयष्टिः।।4.33.38।। Kishkindha Kanda,33,39,स तां समीक्ष्यैव हरीशपन्तीं तस्थावुदासीनतया महात्मा। अवाङ्मुखोऽभून्मनुजेन्द्रपुत्रः स्त्रीसन्निकर्षाद्विनिवृत्तकोपः।।4.33.39।। Kishkindha Kanda,33,40,सा पानयोगाद्विनिवृत्तलज्जा दृष्टिप्रसादाच्च नरेन्द्रसूनोः। उवाच तारा प्रणयप्रगल्भं वाक्यं महार्थं परिसान्त्वपूर्वम्।।4.33.40।। Kishkindha Kanda,33,41,किं कोपमूलं मनुजेन्द्रपुत्र कस्ते न सन्तिष्ठति वाङ्निदेशे। क श्शुष्कवृक्षं वनमापतन्तं दवाग्निमासीदति निर्विशङ्कः।।4.33.41।। Kishkindha Kanda,33,42,स तस्या वचनं श्रुत्वा सान्त्वपूर्वमशङ्कितम्। भूयः प्रणयदृष्टार्थं लक्ष्मणो वाक्यमब्रवीत्।।4.33.42।। Kishkindha Kanda,33,43,किमयं कामवृत्तस्ते लुप्तधर्मार्थसङ्ग्रहः। भर्ता भर्तृहिते युक्ते न चैनमवबुद्ध्यसे।।4.33.43।। Kishkindha Kanda,33,44,न चिन्तयति राज्यार्थं नास्मान् शोकपरायणान्। सामात्यपरिषत्तारे पानमेवोपसेवते।।4.33.44।। Kishkindha Kanda,33,45,स मासांश्चतुरः कृत्वा प्रमाणं प्लवगेश्वरः। व्यतीतां स्तान्मदव्यग्रो विहरन्नावबुध्यते।।4.33.45।। Kishkindha Kanda,33,46,न हि धर्मार्थसिद्ध्यर्थं पानमेवं प्रशस्यते। पानादर्थश्च धर्मश्च कामश्च परिहीयते।।4.33.46।। Kishkindha Kanda,33,47,धर्मलोपो महांस्तावत्कृते ह्यप्रतिकुर्वतः। अर्थलोपश्च मित्रस्य नाशे गुणवतो महान्।।4.33.47।। Kishkindha Kanda,33,48,मित्रं ह्यर्थगुणश्रेष्ठं सत्यधर्मपरायणम्। तद्द्वयं तु परित्यक्तं न तु धर्मे व्यवस्थितम्।।4.33.48।। Kishkindha Kanda,33,49,तदेवं प्रस्तुते कार्ये कार्यमस्माभिरुत्तरम्। यत्कार्यं कार्यतत्त्वज्ञे तदुदाहर्तुमर्हसि।।4.33.49।। Kishkindha Kanda,33,50,सा तस्य धर्मार्थसमाधियुक्तं निशम्य वाक्यं मधुरस्वभावम्। तारा गतार्थे मनुजेन्द्रकार्ये विश्वासयुक्तं तमुवाच भूयः।।4.33.50।। Kishkindha Kanda,33,51,न कोपकालः क्षितिपालपुत्र न चाति कोप स्स्वजने विधेयः। त्वदर्थकामस्य जनस्य तस्य प्रमादमप्यर्हसि वीर सोढुम्।।4.33.51।। Kishkindha Kanda,33,52,कोपं कथं नाम गुणप्रकृष्टः कुमार कुर्यादपकृष्टसत्त्वे। कस्त्वद्विधः कोपवशं हि गच्छे त्सत्त्वावरुद्धस्तपसः प्रसूतिः।।4.33.52।। Kishkindha Kanda,33,53,जानामि रोषं हरिवीरबन्धो र्जानामि कार्यस्य च कालसङ्गम्। जानामि कार्यं त्वयि यत्कृतं न स्तच्चापि जानामि यदत्र कार्यम्।।4.33.53।। Kishkindha Kanda,33,54,तच्चापि जानामि यथविषह्यं बलं नरश्रेष्ठ शरीरजस्य। जानामि यस्मिंश्च जनेऽवबद्धं कामेन सुग्रीवमसक्तमद्य।।4.33.54।। Kishkindha Kanda,33,55,न कामतन्त्रे तव बुद्धिरस्ति त्वं वै यथा मन्युवशं प्रपन्नः। न देशकालौ हि न चार्थधर्मा ववेक्षते कामरतिर्मनुष्यः।।4.33.55।। Kishkindha Kanda,33,56,तं कामवृत्तं मम सन्निकृष्टं कामाभियोगाच्च निवृत्तलज्जम्। क्षमस्व तावत्परवीरहन्त स्त्वद्भ्रातरं वानरवंशनाथम्।।4.33.56।। Kishkindha Kanda,33,57,महर्षयो धर्मतपोऽभिकामाः कामानुकामाः प्रतिबद्धमोहाः। अयं प्रकृत्या चपलः कपिस्तु कथं न सज्जेत सुखेषु राजा।।4.33.57।। Kishkindha Kanda,33,58,इत्येवमुक्त्वा वचनं महार्थं सा वानरी लक्ष्मणमप्रमेयम्। पुन स्सखेदं मदविह्वलञ्च भर्तुर्हितं वाक्यमिदं बभाषे।।4.33.58।। Kishkindha Kanda,33,59,उद्योगस्तु चिराज्ञप्त स्सुग्रीवेण नरोत्तम। कामस्यापि विधेयेन तवार्थप्रतिसाधने।।4.33.59।। Kishkindha Kanda,33,60,आगता हि महावीर्या हरयः कामरूपिणः। कोटीशतसहस्राणि नानानगनिवासिनः।।4.33.60।। Kishkindha Kanda,33,61,तदागच्छ महाबाहो चारित्रं रक्षितं त्वया। अच्छलं मित्रभावेन सतां दारावलोकनम्।।4.33.61।। Kishkindha Kanda,33,62,तारया चाभ्यनुज्ञातस्त्वरया चापि चोदितः। प्रविवेश महाबाहुरभ्यन्तरमरिन्दमः।।4.33.62।। Kishkindha Kanda,33,63,तत स्सुग्रीवमासीनं काञ्चने परमासने। महार्हास्तरणोपेते ददर्शादित्यसन्निभम्।।4.33.63।। Kishkindha Kanda,33,64,दिव्याभणचित्राङ्गं दिव्यरूपं यशस्विनम्। दिव्यमाल्याम्बरधरं महेन्द्रमिव दुर्जयम्।।4.33.64।। Kishkindha Kanda,33,65,दिव्याभरणमालाभिः प्रमदाभि स्समावृतम्। संरब्धतररक्ताक्षो बभूवान्तकसन्निभः।।4.33.65।। Kishkindha Kanda,34,1,तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम्। सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः।।4.34.1।। Kishkindha Kanda,34,2,क्रुद्धं निश्श्वसमानं तं प्रदीप्तमिव तेजसा। भ्रातुर्व्यसनसन्तप्तं दृष्ट्वा दशरथात्मजम्।।4.34.2।। Kishkindha Kanda,34,3,उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम्। महान्महेन्द्रस्य यथा स्वलङ्कृत इव ध्वजः।।4.34.3।। Kishkindha Kanda,34,4,उत्पतन्तमनूत्पेतू रुमाप्रभृतयः स्त्रियः। सुग्रीवं गगने पूर्णचन्द्रं तारागणा इव।।4.34.4।। Kishkindha Kanda,34,5,संरक्तनयनः श्रीमान्विचचाल कृताञ्जलिः। बभूवावस्थितस्तत्र कल्पवृक्षो महानिव।।4.34.5।। Kishkindha Kanda,34,6,रुमाद्वितीयं सुग्रीवं नारीमध्यगतं स्थितम्। अब्रवील्लक्ष्मणः क्रुद्धस्सतारं शशिनं यथा।।4.34.6।। Kishkindha Kanda,34,7,सत्त्वाभिजनसम्पन्नस्सानुक्रोशो जितेन्द्रियः। कृतज्ञस्सत्यवादी च राजा लोके महीयते।।4.34.7।। Kishkindha Kanda,34,8,यस्तु राजा स्थितोऽधर्मे मित्राणामुपकारिणाम्। मिथ्या प्रतिज्ञां कुरुते को नृशंसतरस्ततः।।4.34.8।। Kishkindha Kanda,34,9,शतमश्वानृते हन्ति सहस्रं तु गवानृते। आत्मानं स्वजनं हन्ति पुरुषः पुरुषानृते।।4.34.9।। Kishkindha Kanda,34,10,पूर्वं कृतार्थो मित्राणां न तत्प्रतिकरोति यः। कृतघ्नस्सर्वभूतानां स वध्यः प्लवगेश्वर।।4.34.10।। Kishkindha Kanda,34,11,गीतोऽयं ब्रह्मणा श्लोक स्सर्वलोकनमस्कृतः। दृष्ट्वा कृतघ्नं क्रुद्धेन तन्निबोध प्लवङ्गम।।4.34.11।। Kishkindha Kanda,34,12,ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा। निष्कृतिर्विहिता सद्भि: कृतघ्ने नास्ति निष्कृतिः।।4.34.12।। Kishkindha Kanda,34,13,अनार्यस्त्वं कृतघ्नश्च मिथ्यावादी च वानर। पूर्वं कृतार्थो रामस्य न तत्प्रतिकरोषि यत्।।4.34.13।। Kishkindha Kanda,34,14,ननु नाम कृतार्थेन त्वया रामस्य वानर। सीताया मार्गणे यत्नः कर्तव्यः कृतमिच्छता।।4.34.14।। Kishkindha Kanda,34,15,स त्वं ग्राम्येषु भोगेषु सक्तो मिथ्याप्रतिश्रवः। न त्वां रामो विजानीते सर्पं मण्डूकराविणम्।।4.34.15।। Kishkindha Kanda,34,16,महाभागेन रामेण पापः करुणवेदिना। हरीणां प्रापितो राज्यं त्वं दुरात्मा महात्मना।।4.34.16।। Kishkindha Kanda,34,17,कृतं चेन्नाभिजानीषे रामस्याक्लिष्टकर्मणः। सद्यस्त्वं निशितैर्भावार्हतो द्रक्ष्यसि वालिनम्।।4.34.17।। Kishkindha Kanda,34,18,न च सङ्कुचितः पन्था येन वाली हतो गतः। समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः।।4.34.18।। Kishkindha Kanda,34,19,न नूनमिक्ष्वाकुवरस्य कार्मुक च्युतान् शरान्पश्यसि वज्र सन्निभान्। तत स्सुखं नाम निषेवसे सुखी। न रामकार्यं मनसाऽप्यवेक्षसे।।4.34.19।। Kishkindha Kanda,35,1,तथा ब्रुवाणं सौमित्रिं प्रदीप्तमिव तेजसा। अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना।।4.35.1।। Kishkindha Kanda,35,2,नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति। हरीणामीश्वरश्श्रोतुं तव वक्त्राद्विशेषतः।।4.35.2।। Kishkindha Kanda,35,3,नैवाकृतज्ञस्सुग्रीवो न शठो नापि दारुणः। नैवानृतकथो वीर न जिह्मश्च कपीश्वरः।।4.35.3।। Kishkindha Kanda,35,4,उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः। रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे।।4.35.4।। Kishkindha Kanda,35,5,रामप्रसादात्कीर्तिञ्च कपिराज्यं च शाश्वतम्। प्राप्तवानिह सुग्रीवो रुमां मां च परन्तप ।।4.35.5।। Kishkindha Kanda,35,6,सुदुःखं शयितः पूर्वं प्राप्येदं सुखमुत्तमम्। प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः।।4.35.6।। Kishkindha Kanda,35,7,घृताच्यां किल संसक्तो दशवर्षाणि लक्ष्मण। अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः।।4.35.7।। Kishkindha Kanda,35,8,स हि प्राप्तं न जानीते कालं कालविदां वरः। विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः।।4.35.8।। Kishkindha Kanda,35,9,देहधर्मं गतस्यास्य परिश्रान्तस्य लक्ष्मण। अवितृप्तस्य कामेषु कामं क्षन्तुमिहार्हसि।।4.35.9।। Kishkindha Kanda,35,10,न च रोषवशं तात गन्तुमर्हसि लक्ष्मण। निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा।।4.35.10।। Kishkindha Kanda,35,11,सत्त्वयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ। अविमृश्य न रोषस्य सहसा यान्ति वश्यताम्।।4.35.11।। Kishkindha Kanda,35,12,प्रसादये त्वां धर्मज्ञ सुग्रीवार्थे समाहिता। महान्रोषसमुत्पन्न स्संरम्भस्त्यज्यतामयम्।।4.35.12।। Kishkindha Kanda,35,13,रुमां मां कपि राज्यं च धनधान्यवसूनि च। रामप्रियार्थं सुग्रीवस्त्यजेदिति मतिर्मम।।4.35.13।। Kishkindha Kanda,35,14,समानेष्यति सुग्रीव स्सीतया सह राघवम्। शशाङ्कमिव रोहिण्या निहत्वा रावणं रणे।।4.35.14।। Kishkindha Kanda,35,15,शतकोटिसहस्राणि लङ्कायां किल राक्षसाः। आयुतानि च षट्त्रिंशत्सहस्राणि शतानि च।।4.35.15।। Kishkindha Kanda,35,16,अहत्वा तांश्च दुर्धर्षान्राक्षसान्कामरूपिणः। न शक्यो रावणो हन्तुं येन सा मैथिली हृता।।4.35.16।। Kishkindha Kanda,35,17,ते न शक्या रणे हन्तुमसहायेन लक्ष्मण। रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः।।4.35.17।। Kishkindha Kanda,35,18,एवमाख्यातवान्वाली स ह्यभिज्ञो हरीश्वरः। आगमस्तु न मे व्यक्तश्श्रवात्तस्माद्ब्रवीम्यहम्।।4.35.18।। Kishkindha Kanda,35,19,त्वत्सहायनिमित्तं वै प्रेषिता हरिपुङ्गवाः। आनेतुं वानरान्युद्धे सुबहून्हरियूधपान्।।4.35.19।। Kishkindha Kanda,35,20,तांश्च प्रतीक्षमाणोऽयं विक्रान्तात्सुमहाबलान्। राघवस्यार्थसिध्यर्थं न निर्याति हरीश्वरः।।4.35.20।। Kishkindha Kanda,35,21,कृता तु संस्था सौमित्रे सुग्रीवेण पुरा यथा। अद्य तैर्वानरैस्सर्वैरागन्तव्यं महाबलैः।।4.35.21।। Kishkindha Kanda,35,22,ऋक्षकोटिसहस्राणि गोलाङ्गूलशतानि च। अद्य त्वामुपयास्यन्ति जहि कोपमरिन्दम। कोट्योऽनेकास्तु काकुत्स्थ कपीनां दीप्ततेजसाम्।।4.35.22।। Kishkindha Kanda,35,23,तव हि मुखमिदं निरीक्ष्य कोपात् क्षतजनिभे नयने निरीक्षमाणाः। हरिवरवनिता न यान्ति शान्तिं प्रथमभयस्य हि शङ्कितास्तु सर्वाः।।4.35.23।। Kishkindha Kanda,36,1,इत्युक्तस्तारया वाक्यं प्रश्रितं धर्मसंहितम्। मृदुस्वभावस्सौमित्रिः प्रतिजग्राह तद्वचः।।4.36.1।। Kishkindha Kanda,36,2,तस्मिन्प्रतिगृहीते तु वाक्ये हरिगणेश्वरः। लक्ष्मणात्सुमहत्त्रासं वस्त्रं क्लिन्नमिवात्यजत्।।4.36.2।। Kishkindha Kanda,36,3,ततः कण्ठगतं माल्यं चित्रं बहुगुणं महत्। चिच्छेद विमदश्चासीत्सुग्रीवो वानरेश्वरः।।4.36.3।। Kishkindha Kanda,36,4,स लक्ष्मणं भीमबलं सर्ववानरसत्तमः। अब्रवीत्प्रश्रितं वाक्यं सुग्रीव स्सम्प्रहर्षयन्।।4.36.4।। Kishkindha Kanda,36,5,प्रणष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम्। रामप्रसादात्सौमित्रे पुन: प्राप्तमिदं मया।।4.36.5।। Kishkindha Kanda,36,6,कश्शक्तस्तस्य देवस्य ख्यातस्य स्वेन कर्मणा। तादृशं विक्रमं वीर प्रतिकर्तुमरिन्दम।।4.36.6।। Kishkindha Kanda,36,7,सीतां प्राप्स्यति धर्मात्मा वधिष्यति च रावणम्। सहायमात्रेण मया राघव स्स्वेन तेजसा।।4.36.7।। Kishkindha Kanda,36,8,सहायकृत्यं किं तस्य येन सप्त महाद्रुमाः। शैलश्च वसुधा चैव बाणेनैकेन दारिताः।।4.36.8।। Kishkindha Kanda,36,9,धनुर्विष्फारयानस्य यस्य शब्देन लक्ष्मण। सशैला कम्पिता भूमिस्सहायै: किन्नु तस्य वै।।4.36.9।। Kishkindha Kanda,36,10,अनुयात्रां नरेन्द्रस्य करिष्येऽहं नरर्षभ। गच्छतो रावणं हन्तुं वैरिणं सपुरस्सरम्।।4.36.10।। Kishkindha Kanda,36,11,यदि किञ्चिदतिक्रान्तं विश्वासात्प्रणयेन वा। प्रेष्यस्य क्षमितव्यं मे न कश्चिन्नापराध्यति।।4.36.11।। Kishkindha Kanda,36,12,ति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः। अभवल्लक्ष्मणः प्रीतः प्रेम्णा चैवमुवाच ह।।4.36.12।। Kishkindha Kanda,36,13,सर्वथा हि मम भ्राता सनाथो वानरेश्वर। त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः।।4.36.13।। Kishkindha Kanda,36,14,यस्ते प्रभाव स्सुग्रीव यच्च ते शौचमार्जवम्। अर्हस्त्वं कपिराज्यस्य श्रियं भोक्तुमनुत्तमाम्।।4.36.14।। Kishkindha Kanda,36,15,सहायेन तु सुग्रीव त्वया रामः प्रतापवान्। वधिष्यति रणे शत्रूनचिरान्नात्र संशयः।।4.36.15।। Kishkindha Kanda,36,16,धर्मज्ञस्य कृतज्ञस्य सङ्ग्रामेष्वनिवर्तिनः। उपपन्नं च युक्तं च सुग्रीव तव भाषितम्।।4.36.16।। Kishkindha Kanda,36,17,दोषज्ञस्सति सामर्थ्ये कोऽन्यो भाषितुमर्हति। वर्जयित्वा मम ज्येष्ठं त्वां च वानरसत्तम।।4.36.17।। Kishkindha Kanda,36,18,सदृशश्चासि रामस्य विक्रमेण बलेन च। सहायो दैवतैर्दत्तश्चिराय हरिपुङ्गव।।4.36.18।। Kishkindha Kanda,36,19,किं तु शीघ्रमितो वीर निष्क्रम त्वं मया सह। सान्त्वयस्व वयस्यं च त्वं भार्याहरणकर्शितम्।।4.36.19।। Kishkindha Kanda,36,20,यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम्। मया त्वं परुषाण्युक्तस्तच्चत्वं क्षन्तु मर्हसि।।4.36.20।। Kishkindha Kanda,37,1,एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना। हनूमन्तं स्थितं पार्श्वे सचिवन्त्विदमब्रवीत्।।4.37.1।। Kishkindha Kanda,37,2,महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च। मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः।।4.37.2।। Kishkindha Kanda,37,3,तरुणादित्यवर्णेषु भ्राजमानेषु सर्वतः। पर्वतेषु समुद्रान्ते पश्चिमायां च ये दिशि।।4.37.3।। Kishkindha Kanda,37,4,आदित्यभवने चैव गिरौ सन्ध्याभ्रसन्निभे। पद्मातालवनं भीमं संश्रिता हरिपुङ्गवाः।।4.37.4।। Kishkindha Kanda,37,5,अञ्जनाम्बुदसङ्काशाः कुञ्जरप्रतिमौजसः। अञ्जने पर्वते चैव ये वसन्ति प्लवङ्गमाः।।4.37.5।। Kishkindha Kanda,37,6,मनश्शिला गुहावासा वानराः कनकप्रभाः। मेरुपार्श्वगताश्चैव ये धूम्रगिरिं संश्रिताः।।4.37.6।। Kishkindha Kanda,37,7,तरुणादित्यवर्णाश्च पर्वते ये महारुणे। पिबन्तो मधुमैरेयं भीमवेगाः प्लवङ्गमाः।।4.37.7।। Kishkindha Kanda,37,8,वनेषु च सुरम्येषु सुगन्धिषु महत्सु च। तापसानां च रम्येषु वनान्तेषु समन्ततः।।4.37.8।। Kishkindha Kanda,37,9,तांस्तां स्त्वमानय क्षिप्रं पृथिव्यां सर्ववानरान्। सामदानादिभि: स्सर्वैराशु प्रेषय वानरान्।।4.37.9।। Kishkindha Kanda,37,10,प्रेषिताः प्रथमं ये च मयादूता महाजवाः। त्वरणार्थं तु भूयस्त्वं हरीन् सम्प्रेषयापरान्।।4.37.10।। Kishkindha Kanda,37,11,ये प्रसक्ताश्च कामेषु दीर्घसूत्राश्च वानराः। इहाऽनयस्व तान् सर्वान् शीघ्रं तु मम शासनात्।।4.37.11।। Kishkindha Kanda,37,12,अहोभिर्दशभिर्ये च नागच्छन्ति ममाज्ञया। हन्तव्यास्ते दुरात्मानो राजशासनदूषकाः।।4.37.12।। Kishkindha Kanda,37,13,शतान्यथ सहस्राणां कोट्यश्च मम शासनात्। प्रयान्तु कपिसिंहानां दिशो मम मते स्थिताः।।4.37.13।। Kishkindha Kanda,37,14,मेघपर्वतसङ्काशाश्छादयन्त इवाम्बरम्। घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनादितः।।4.37.14।। Kishkindha Kanda,37,15,ते गतिज्ञा गतिं ज्ञात्वा पृथिव्यां सर्ववानराः। आनयन्तु हरीन् सर्वांस्त्वरिता शसनान्मम।।4.37.15।। Kishkindha Kanda,37,16,तस्य वानर राजस्य श्रुत्वा वायुसुतो वचः। दिक्षु सर्वासु विक्रान्तान्प्रेषयामास वानरान्।।4.37.16।। Kishkindha Kanda,37,17,ते पदं विष्णुविक्रान्तं पतत्रिज्योतिरध्वगाः। प्रयाताः प्रहिता राज्ञा हरयस्तत्क्षणेन वै।।4.37.17।। Kishkindha Kanda,37,18,ते समुद्रेषु गिरिषु वनेषु च सरस्सु च। वानरा वानरान्सर्वान्रामहेतोरचोदयन्।।4.37.18।। Kishkindha Kanda,37,19,मृत्युकालोपमस्याऽज्ञां राजराजस्य वानराः। सुग्रीवस्याययु श्श्रुत्वा सुग्रीवभयदर्शिनः।।4.37.19।। Kishkindha Kanda,37,20,ततस्तेऽञ्जनसङ्काशा गिरेस्तस्मान्महाजवाः। तिस्रः कोट्यः प्लवङ्गानां निर्ययुर्यत्र राघवः।।4.37.20।। Kishkindha Kanda,37,21,अस्तं गच्छति यत्रार्कस्तस्मिन्गिरिवरे स्थिताः। सन्तप्त हेममहाभासस्तस्मात्कोट्यो दश च्युताः।।4.37.21।। Kishkindha Kanda,37,22,कैलासशिखरेभ्यश्च सिंहकेसरवर्चसाम्। ततः कोटिसहस्राणि वानराणामुपागमन्।।4.37.22।। Kishkindha Kanda,37,23,फलमूलेन जीवन्तो हिमवन्तमुपाश्रिताः। तेषां कोटिसहस्राणां सहस्रं समवर्तत।।4.37.23।। Kishkindha Kanda,37,24,अङ्गारकसमानानां भीमानां भीमकर्मणाम्। विन्ध्याद्वानरकोटीनां सहस्राण्यपतन्द्रुतम्।।4.37.24।। Kishkindha Kanda,37,25,क्षीरोदवेलानिलयास्तमालवनवासिनः। नारिकेलाशनाश्चैव तेषां सङ्ख्या न विद्यते।।4.37.25।। Kishkindha Kanda,37,26,वनेभ्यो गह्वरेभ्यश्च सरिद्भ्यश्च महाजवा। आगच्छद्वानरी सेना पिबन्तीव दिवाकरम्।।4.37.26।। Kishkindha Kanda,37,27,ये तु त्वरयितुं याता वानरास्सर्ववानरान्। ते वीरा हिमवच्छैलं ददृशुस्तं महाद्रुमम्।।4.37.27।। Kishkindha Kanda,37,28,तस्मिन्गिरिवरे रम्ये यज्ञो माहेश्वरः पुरा। सर्वदेवमनस्तोषो बभौ दिव्यो मनोहरः।।4.37.28।। Kishkindha Kanda,37,29,अन्ननिष्यन्दजातानि मूलानि च फलानि च। अमृतास्वादकल्पानि ददृशुस्तत्र वानराः।।4.37.29।। Kishkindha Kanda,37,30,तदन्नसम्भवं दिव्यं फलमूलं मनोहरम्। यः कश्चित्सकृदश्नाति मासं भवति तर्पितः।।4.37.30।। Kishkindha Kanda,37,31,तानि मूलानि दिव्यानि फलानि च फलाशनाः। औषधानि च दिव्यानि जगृहुर्हरियूथपाः।।4.37.31।। Kishkindha Kanda,37,32,तस्माच्च यज्ञायतनात्पुष्पाणि सुरभीणि च। आनिन्युर्वानरा गत्वा सुग्रीवप्रियकारणात्।।4.37.32।। Kishkindha Kanda,37,33,ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान्। सञ्चोदयित्वा त्वरिता यूथानां जग्मुरग्रतः।।4.37.33।। Kishkindha Kanda,37,34,ते तु तेन मुहूर्तेन यूथपाश्शीघ्रगामिनः। किष्किन्धां त्वरया प्राप्ता स्सुग्रीवो यत्र वानरः।।4.37.34।। Kishkindha Kanda,37,35,ते गृहीत्वौषधीस्सर्वाः फलमूलं च वानराः। तं प्रतिग्राहयामासुर्वचनं चेदमब्रुवन्।।4.37.35।। Kishkindha Kanda,37,36,सर्वे परिगताश्शैलास्समुद्राश्च वनानि च। पृथिव्यां वानरास्सर्वे शासनादुपयान्ति ते।।4.37.36।। Kishkindha Kanda,37,37,एवं श्रुत्वा ततो हृष्ट स्सुग्रीवः प्लवगाधिपः। प्रतिजग्राह तत्प्रतीतस्तेषां सर्वमुपायनम्।।4.37.37।। Kishkindha Kanda,38,1,प्रतिगृह्य च तत्सर्वमुपायनमुपाहृतम्। वानरान्सान्त्वयित्वा च सर्वानेव व्यसर्जयत्।।4.38.1।। Kishkindha Kanda,38,2,विसर्जयित्वा स हरीन् शूरांस्तान्कृतकर्मणः। मेने कृतार्थमात्मानं राघवं च महाबलम्।।4.38.2।। Kishkindha Kanda,38,3,स लक्ष्मणो भीमबलं सर्ववानरसत्तमम्। अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं सम्प्रहर्षयन्।।4.38.3।। किष्किन्धाया विनिष्क्राम यदि ते सौम्य रोचते। Kishkindha Kanda,38,4,तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम्।।4.38.4।। Kishkindha Kanda,38,5,सुग्रीवः परमप्रीतो वाक्यमेतदुवाच ह। एवं भवतु गच्छाव: स्थेयं त्वच्छासने मया।।4.38.5।। Kishkindha Kanda,38,6,तमेवमुक्त्वा सुग्रीवो लक्ष्मणं शुभलक्षणम्। विसर्जयामास तदा तारामन्याश्च योषितः।।4.38.6।। Kishkindha Kanda,38,7,एतेत्युच्चैर्हरिवरान्सुग्रीवस्समुदाहरत्। तस्य तद्वचनं श्रुत्वा हरयश्शीघ्रमाययुः।।4.38.7।। बद्धाञ्जलिपुटास्सर्वे ये स्युः स्त्रीदर्शनक्षमाः। Kishkindha Kanda,38,8,तानुवाच ततः प्राप्तान्राजाऽर्कसदृशप्रभः।।4.38.8।। उपस्थापयत क्षिप्रं शिबिकां मम वानराः। Kishkindha Kanda,38,9,श्रुत्वा तु वचनं तस्य हरयश्शीघ्रविक्रमाः।।4.38.9।। समुपस्थापयामासुश्शिबिकां प्रियदर्शनाम्। Kishkindha Kanda,38,10,तामुपस्थापितां दृष्ट्वा शिबिकां वानराधिपः।।4.38.10।। लक्ष्मणाऽरुह्यतां शीघ्रमिति सौमित्रिमब्रवीत्। Kishkindha Kanda,38,11,इत्युक्त्वा काञ्चनं यानं सुग्रीवस्सूर्यसन्निभम्।।4.38.11।। बृहद्भिर्हरिभिर्युक्तमारुरोह सलक्ष्मणः। Kishkindha Kanda,38,12,पाण्डुरेणातपत्रेण म्रियमाणेन मूर्धनि।।4.38.12।। Kishkindha Kanda,38,13,शुक्लैश्च वालव्यजनैर्धूयमानैस्समन्ततः। शङ्खभेरीनिनादैश्च हरिभिश्चाभिवन्दितः।।4.38.13।। निर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम्। Kishkindha Kanda,38,14,स वानरशतैस्तीक्ष्णैर्बहुभि श्शस्त्रपाणिभिः।।4.38.14।। परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः। Kishkindha Kanda,38,15,स तं देशमनुप्राप्य श्रेष्ठं रामनिषेवितम्।।4.38.15।। अवातरन्महातेजा श्शिबिकायास्सलक्ष्मणः। Kishkindha Kanda,38,16,आसाद्य च ततो रामं कृताञ्जलिपुटोऽभवत्।।4.38.16।। कृताञ्जलौ स्थिते तस्मिन्वानराश्चाभवंस्तथा। Kishkindha Kanda,38,17,तटाकमिव तं दृष्ट्वा रामः कुड्मलपङ्कजम्।।4.38.17।। वानराणां महत्सैन्यं सुग्रीवे प्रीतिमानभूत्। Kishkindha Kanda,38,18,पादयोः पतितं मूर्ध्ना तमुत्थाप्य हरीश्वरम्।।4.38.18।। प्रेम्णा च बहुमानाच्च राघवः परिषस्वजे। Kishkindha Kanda,38,19,परिष्वज्य च धर्मात्मा निषीदेति ततोऽब्रवीत्।।4.38.19।। निषण्णं तं ततो दृष्ट्वा क्षितौ रामोऽब्रवीद्वचः। Kishkindha Kanda,38,20,धर्ममर्थं च कामं च यस्तु काले निषेवते।।4.38.20।। विभज्य सततं वीर स्स राजा हरिसत्तम। Kishkindha Kanda,38,21,हित्वा धर्मं तथाऽर्थं च कामं यस्तु निषेवते।।4.38.21।। स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते। Kishkindha Kanda,38,22,अमित्राणां वधे युक्तो मित्राणां सङ्ग्रहे रतः।।4.38.22।। त्रिवर्गफलभोक्ता तु राजा धर्मेण युज्यते। Kishkindha Kanda,38,23,उद्योगसमयस्त्वेषप्राप्तश्शत्रुविनाशन।।4.38.23।। सञ्चिन्त्यतां हि पिङ्गेश हरिभिस्सह मन्त्रिभिः। Kishkindha Kanda,38,24,एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत्।।4.38.24।। Kishkindha Kanda,38,25,प्रणष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम्। त्वत्प्रसादान्महाबाहो पुनःप्राप्तमिदं मया।।4.38.25।। Kishkindha Kanda,38,26,तव देव प्रसादाच्च भ्रातुश्च जयतां वर। कृतं न प्रतिकुर्याद्यः पुरुषाणां स दूषकः।।4.38.26।। Kishkindha Kanda,38,27,एते वानरमूख्याश्च शतशश्शत्रुसूदन। प्राप्ताश्चादाय बलिनः पृथिव्यां सर्ववानरान्।।4.38.27।। Kishkindha Kanda,38,28,ऋक्षाश्चावहिताश्शूरा गोलाङ्गूलाश्च राघव। कान्तारवनदुर्गाणामभिज्ञा घोरदर्शनाः।।4.38.28।। Kishkindha Kanda,38,29,देवगन्धर्वपुत्राश्च वानराः कामरूपिणः। स्वैस्स्वै: परिवृतास्सैन्यैर्वर्तन्ते पथि राघव।।4.38.29।। Kishkindha Kanda,38,30,शतैश्शतसहस्रैश्च वर्तन्ते कोटिभिश्च प्लवङ्गमाः। अयुतैश्चावृता वीराश्शङ्कुभिश्च परन्तप ।।4.38.30।। Kishkindha Kanda,38,31,अर्बुदैरर्बुदशतैर्मध्यैश्चान्त्यैश्च वानराः। समुद्रैश्च परार्धैश्च हरयो हरियूथपाः।।4.38.31।। Kishkindha Kanda,38,32,आगमिष्यन्ति ते राजन्महेन्द्रसमविक्रमाः। मेरुमन्दरसङ्काशा विन्ध्य मेरुकृतालयाः।।4.38.32।। Kishkindha Kanda,38,33,ते त्वामभिगमिष्यन्ति राक्षसं ये सबान्धवम्। निहत्य रावणं सख्ये ह्यानयिष्यन्ति मैथिलीम्।।4.38.33।। Kishkindha Kanda,38,34,ततस्तमुद्योगमवेक्ष्य बुद्धिमा न्हरिप्रवीरस्य निदेशवर्तिनः। बभूव हर्षाद्वसुधाधिपात्मजः प्रबुद्धनीलोत्पलतुल्यदर्शनः।।4.38.34।। Kishkindha Kanda,39,1,इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः। बाहुभ्यां सम्परिष्वज्य प्रत्युवाच कृताञ्जलिम्।।4.39.1।। Kishkindha Kanda,39,2,यदिन्द्रो वर्षते वर्षं न तच्चित्रं भवेत्क्वचित्। आदित्यो वा सहस्रांशुः कुर्याद्वितिमिरं नभः।।4.39.2।। Kishkindha Kanda,39,3,चन्द्रमा रश्मिभिः कुर्यात्पृथिवीं सौम्य निर्मलाम्। त्वद्विधो वाऽपि मित्राणां प्रतिकुर्यात्परन्तप ।।4.39.3।। Kishkindha Kanda,39,4,एवं त्वयि न तच्चित्रं भवेद्यत्सौम्य शोभनम्। जानाम्यहं त्वां सुग्रीव सततं प्रियवादिनम्।।4.39.4।। Kishkindha Kanda,39,5,त्वत्सनाथ: सखे सङ्ख्ये जेताऽस्मि सकलानरीन्। त्वमेव मे सुहृतन्मित्रं साहाय्यं कर्तुमर्हसि।।4.39.5।। Kishkindha Kanda,39,6,जहारात्मविनाशाय वैदेहीं राक्षसाधमः। वञ्चयित्वा तु पौलोमीमनुह्लादो यथा शचीम्।।4.39.6।। Kishkindha Kanda,39,7,न चिरात्तं हनिष्यामि रावणं निशितैश्शरैः। पौलोम्याः पितरं दृप्तं शतक्रतुरिवाऽहवे।।4.39.7।। Kishkindha Kanda,39,8,एतस्मिन्नन्तरे चैव रजस्समभिवर्तत। उष्णां तीव्रां सहस्रांशोश्छादयद्गगने प्रभाम्।।4.39.8।। Kishkindha Kanda,39,9,दिशः पर्याकुलाश्चासन्रजसा तेन मूर्छता। चचाल च मही सर्वा सशैलवनकानना।।4.39.9।। Kishkindha Kanda,39,10,ततो नगेन्द्रसङ्काशैस्तीक्ष्णदंष्ट्रैर्महाबलैः। कृत्स्ना सञ्छादिता भूमिरसङ्ख्येयैः प्लवङ्गमैः।।4.39.10।। Kishkindha Kanda,39,11,निमेषान्तरमात्रेण ततस्तैर्हरियूथपैः। कोटीशतपरीवारैः कामरूपिभिरावृता।।4.39.11।। Kishkindha Kanda,39,12,नादेयैः पार्वतीयैश्च सामुद्रैश्च महाबलैः। हरिभिर्मेघनिर्ह्रादैरन्यैश्च वनचारिभिः।।4.39.12।। Kishkindha Kanda,39,13,तरुणादित्यवर्णैश्च शशिगौरैश्च वानरैः। पद्मकेसरवर्णैश्च श्वेतैर्मेरुकृतालयैः।।4.39.13।। Kishkindha Kanda,39,14,कोटीसहस्रैर्दशभिः श्रीमान्परिवृतस्तदा। वीरश्शतवलिर्नाम वानरः प्रत्यदृश्यत।।4.39.14।। Kishkindha Kanda,39,15,ततः काञ्चनशैलाभस्ताराया वीर्यवान्पिता। अनेकैर्दशसाहस्रैः कोटिभिः प्रत्यदृश्यत।।4.39.15।। Kishkindha Kanda,39,16,तथाऽपरेण कोटीनां सहस्रेण समन्वितः। पिता रुमाया सम्प्राप्तस्सुग्रीवश्वशुरो विभुः।।4.39.16।। Kishkindha Kanda,39,17,पद्मकेसरसङ्काशस्तरुणार्कनिभाननः। बुद्धिमान्वानरश्रेष्ठस्सर्ववानरसत्तमः।।4.39.17।। Kishkindha Kanda,39,18,अनेकैर्बहुसाहस्रैर्वानराणां समन्वितः। पिता हनुमतश्रशीमान्केसरी प्रत्यदृश्यत।।4.39.18।। Kishkindha Kanda,39,19,गोलाङ्गूलमहाराजो गवाक्षो भीमविक्रमः। वृतः कोटिसहस्रेण वानराणामदृश्यत।।4.39.19।। Kishkindha Kanda,39,20,ऋक्षाणां भीमवेगानां धूम्रश्शत्रुनिबर्हणः। वृतः कोटिसहस्राभ्यां द्वाभ्यां समभिवर्तत।।4.39.20।। Kishkindha Kanda,39,21,महाचलनिभैर्घोरै: पनसो नाम यूथपः। आजगाम महावीर्यस्तिसृभिः कोटिभिर्वृतः।।4.39.21।। Kishkindha Kanda,39,22,नीलाञ्जनचयाकारो नीलो नामाऽथ यूथपः। अदृश्यत महाकायः कोटिभिर्दशभिर्वृतः।।4.39.22।। Kishkindha Kanda,39,23,ततः काञ्चनशैलाभो गवयो नाम यूथपः। आजगाम महावीर्यः पञ्चभि: कोटिभिर्वृतः।।4.39.23।। Kishkindha Kanda,39,24,दरीमुखश्च बलवान्यूथपोऽभ्याययौ तदा। वृतः कोटिसहस्रेण सुग्रीवं समुपस्थितः।।4.39.24।। Kishkindha Kanda,39,25,मैन्दश्च द्विविदश्चोभावश्विपुत्रौ महाबलौ। कोटिकोटिसहस्रेण वानराणामदृश्यताम्।।4.39.25।। Kishkindha Kanda,39,26,गजश्च बलवान् वीर: कोटिभिस्तिसृभिर्वृतः। आजगाम महातेजा सुग्रीवस्य समीपतः।।4.39.26।। Kishkindha Kanda,39,27,ऋक्षराजो महातेजा जाम्बवान्नाम नामतः। कोटिभिर्दशभिः प्राप्तः सुग्रीवस्य वशे स्थितः।।4.39.27।। Kishkindha Kanda,39,28,रुमण्वान्नाम विक्रान्तो वानरो वानरेश्वरम्। आययौ बलवांस्तूर्णं कोटीशतसमावृतः।।4.39.28।। Kishkindha Kanda,39,29,ततः कोटिसहस्राणां सहस्रेण शतेन च। पृष्ठतोऽनुगतः प्राप्तो हरिभिर्गन्धमादनः।।4.39.29।। Kishkindha Kanda,39,30,ततः पद्मसहस्रेण वृतश्शङ्कुशतेन च। युवराजोऽङ्गदः प्राप्तः पितृतुल्यपराक्रमः।।4.39.30।। Kishkindha Kanda,39,31,ततस्ताराद्युतिस्तारो हरिर्भीमपराक्रमः। पञ्चभिर्हरिकोटीभिर्दूरतः प्रत्यदृश्यत।।4.39.31।। Kishkindha Kanda,39,32,इन्द्रजानुः कपिर्वीरो यूथपः प्रत्यदृश्यत। एकादशानां कोटीनामीश्वरस्तैस्समावृतः।।4.39.32।। Kishkindha Kanda,39,33,ततो रम्भस्त्वनुप्राप्तस्तरुणादित्यसन्निभः। अयुतेनावृतश्चैव सहस्रेण शतेन च।।4.39.33।। Kishkindha Kanda,39,34,ततो यूथपतिर्वीरो दुर्मुखो नाम वानरः। प्रत्यदृश्यत कोटीभ्यां द्वाभ्यां परिवृतो बली।।4.39.34।। Kishkindha Kanda,39,35,कैलासशिखराकारैर्वानरैर्भीमविक्रमैः। वृतः कोटिसहस्रेण हनुमान्प्रत्यदृश्यत।।4.39.35।। Kishkindha Kanda,39,36,नलश्चापि महावीर्यस्संवृतो द्रुमवासिभिः। कोटीशतेन सम्प्राप्तस्सहस्रेण शतेन च।।4.39.36।। Kishkindha Kanda,39,37,ततो दधिमुखश्रीमान्कोटिभिर्दशभिर्वृतः। सम्प्राप्तोऽभिमतस्तस्य सुग्रीवस्य महात्मनः।।4.39.37।। Kishkindha Kanda,39,38,शरभः कुमुदो वह्निर्वानरो रंह एव च। एते चान्ये च बहवो वानराः कामरूपिणः।।4.39.38।। Kishkindha Kanda,39,39,आवृत्य पृथिवीं सर्वां पर्वतांश्च वनानि च। यूथपा स्समनुप्राप्ता स्तेषां संख्या न विद्यते।।4.39.39।। आगताश्च विशिष्टाश्च पृथिव्यां सर्ववानराः। Kishkindha Kanda,39,40,आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः। अभ्यवर्तन्त सुग्रीवं सूर्यमभ्रगणा इव।।4.39.40।। Kishkindha Kanda,39,41,कुर्वाणा बहुशब्दांश्च प्रहृष्टा बाहुशालिनः। शिरोभिर्वानरेन्द्राय सुग्रीवाय न्यवेदयन्।।4.39.41।। Kishkindha Kanda,39,42,अपरे वानरश्रेष्ठास्सङ्गम्य च यथोचितम्। सुग्रीवेण समागम्य स्थिताः प्राञ्जलय स्तदा।।4.39.42।। Kishkindha Kanda,39,43,सुग्रीवस्त्वरितो रामे सर्वांस्तां वानररर्षभान्। निवेदयित्वा धर्मज्ञः स्थितः प्राञ्जलिरब्रवीत्।।4.39.43।। Kishkindha Kanda,39,44,यथासुखं पर्वतनिझरेषु वनेषु सर्वेषु च वानरेन्द्राः। निवेशयित्वा विधिवद्बलानि बलं बलज्ञः प्रतिपत्तुमीष्टे।।4.39.44।। Kishkindha Kanda,40,1,अथ राजा समृद्धार्थस्सुग्रीवः प्लवगेश्वरः। उवाच नरशार्दूलं रामं परबलार्दनम्।।4.40.1।। Kishkindha Kanda,40,2,आगता विनिविष्टाश्च बलिनः कामरूपिणः। वानरा वारणेन्द्रभा: ये मद्विषयवासिनः।।4.40.2।। Kishkindha Kanda,40,3,त इमे बहुविक्रान्तैर्हरिभिर्भीमविक्रमैः। आगता वानरा घोरा दैत्यदानवसन्निभाः।।4.40.3।। Kishkindha Kanda,40,4,ख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः। पराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः।।4.40.4।। Kishkindha Kanda,40,5,पृथिव्यम्बुचरा राम नानानगनिवासिनः। कोट्यग्रश इमे प्राप्ता वानरास्तव किङ्कराः।।4.40.5।। Kishkindha Kanda,40,6,निदेशवर्तिनस्सर्वे सर्वे गुरुहिते रताः। अभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिन्दम।।4.40.6।। Kishkindha Kanda,40,7,त इमे बहुसाहस्रैरनीकै भीमविक्रमैः। आगता वानरा घोरा दैत्यदानवसन्निभा:।।4.40.7।। Kishkindha Kanda,40,8,यन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम्। तत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि।।4.40.8।। Kishkindha Kanda,40,9,काममेषामिदं कार्यं विदितं मम तत्त्वतः। तथापि तु यथातत्त्वमाज्ञापयितुमर्हसि।।4.40.9।। Kishkindha Kanda,40,10,इति ब्रुवाणं सुग्रीवं रामो दशरथात्मजः। बाहुभ्यां सम्परिष्वज्य इदं वचनमब्रवीत्।।4.40.10।। Kishkindha Kanda,40,11,ज्ञायतां मम वैदेही यदि जीवति वा न वा। स च देशो महाप्राज्ञ यस्मिन्वसति रावणः।।4.40.11।। Kishkindha Kanda,40,12,अधिगम्य तु वैदेहीं निलयं रावणस्य च। प्राप्तकालं विधास्यामि तस्मिन्काले सह त्वया।।4.40.12।। Kishkindha Kanda,40,13,नाहमस्मिन् प्रभुः कार्ये वानरेश न लक्ष्मणः। त्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर।।4.40.13।। Kishkindha Kanda,40,14,त्वमेवाऽज्ञापय विभो मम कार्यविनिश्चयम्। त्वं हि जानासि यत्कार्यं मम वीर न संशयः।।4.40.14।। Kishkindha Kanda,40,15,सुहृद्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित्। भवानस्मध्दिते युक्त स्सुकृतार्थोऽर्थवित्तमः।।4.40.15।। Kishkindha Kanda,40,16,एवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम्। अब्रवीद्रामसान्निध्ये लक्ष्मणस्य च धीमतः।।4.40.16।। शैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरः। Kishkindha Kanda,40,17,सोमसूर्यात्मजै स्सार्धं वानरैर्वानरोत्तम।।4.40.17।। Kishkindha Kanda,40,18,देशकालनयैर्युक्तः कार्या कार्यविनिश्चये। वृतश्शतसहश्रेण वानराणां तरस्विनाम्।।4.40.18।। अधिगच्छ दिशं पूर्वां सशैलवनकाननाम्। Kishkindha Kanda,40,19,तत्र सीतां च वैदेहीं निलयं रावणस्य च।।4.40.19।। मार्गध्वं गिरिशृङ्गेषु वनेषु च नदीषु च। Kishkindha Kanda,40,20,नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा।।4.40.20।। Kishkindha Kanda,40,21,कालिन्दीं यमुनां रम्यां यामुनं च महागिरिम्। सरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम्।।4.40.21।। Kishkindha Kanda,40,22,महीं कालमहीं चैव शैलकाननशोभिताम्। ब्रह्ममालान्विदेहांश्च मालवान्कालिकोसलान्।।4.40.22।। Kishkindha Kanda,40,23,मागधांश्च महाग्रामान्पुण्ड्रांन्वङ्गां स्तथैव च। पत्तनं कोशकाराणां भूमिं च रजताकराम्।।4.40.23।। Kishkindha Kanda,40,24,सर्वमेतद्विचेतव्यं मृगयद्भिस्ततस्ततः। रामस्य दयितां भार्यां सीतां दशरथस्नुषाम्।।4.40.24।। Kishkindha Kanda,40,25,समुद्रमवगाढांश्च पर्वतान्पत्तनानि च। मन्दरस्य च ये कोटिं संश्रिताः केचिदायताम्।।4.40.25।। Kishkindha Kanda,40,26,कर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकाः। घोरलोहमुखाश्चैव जवनाश्चैकपादकाः।।4.40.26।। Kishkindha Kanda,40,27,अक्षया बलवन्तश्च पुरुषाः पुरुषादकाः। किराताः कर्ण चूडाश्च हेमाङ्गा: प्रियदर्शनाः।।4.40.27।। Kishkindha Kanda,40,28,आममीनाशनास्तत्र किराता द्वीपवासिनः। अन्तर्जलचरा घोरा नरव्याघ्रा इति शृताः।।4.40.28।। Kishkindha Kanda,40,29,एतेषामाश्रयास्सर्वे विचेयाः कावनौकसः। गिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च।।4.40.29।। Kishkindha Kanda,40,30,रत्नवन्तं यवद्वीपं सप्तराज्योपशोभितम्। सुवर्णरूप्यकं चैव सुवर्णाकरमण्डितम्।।4.40.30।। Kishkindha Kanda,40,31,यवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः। दिवं स्पृशति शृङ्गेण देवदानवसेवितः।।4.40.31।। Kishkindha Kanda,40,32,एतेषां गिरिदुर्गेषु प्रपातेषु वनेषु च। मार्गध्वं सहितास्सर्वे रामपत्नीं यशस्विनीम्।।4.40.32।। Kishkindha Kanda,40,33,ततो रक्तजलं शोणमगाधं शीघ्रगामिनम्। गत्वा पारं समुद्रस्य सिद्धचारणसेवितम्।।4.40.33।। Kishkindha Kanda,40,34,तस्य तीर्थेषु रम्येषु विचित्रेषु वनेषु च। रावण स्सह वैदेह्या मार्गितव्यस्ततस्ततः।।4.40.34।। Kishkindha Kanda,40,35,तत स्समुद्रद्वीपांश्च सुभीमान्द्रष्टुमर्हथ। ऊर्मिमन्तं समुद्रं च क्रोशन्तमनिलोद्धतम्।।4.40.35।। Kishkindha Kanda,40,36,तत्रासुरा महाकायाश्छायां गृह्णन्ति नित्यशः। ब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः।।4.40.36।। Kishkindha Kanda,40,37,तं कालमेघप्रतिमं महोरगनिषेवितम्। अभिगम्य महानादं तीर्थेनैव महोदधिम्।।4.40.37।। Kishkindha Kanda,40,38,ततो रक्तजलं भीमं लोहितं नाम सागरम्। गत्वा प्रेक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम्।।4.40.38।। Kishkindha Kanda,40,39,गृहं च वैनतेयस्य नानारत्नविभूषितम्। तत्र कैलाससङ्काशं विहितं विश्वकर्मणा।।4.40.39।। Kishkindha Kanda,40,40,तत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः। शैलशृङ्गेषु लम्बन्ते नानारूपा भयावहाः।।4.40.40।। Kishkindha Kanda,40,41,ते पतन्ति जले नित्यं सूर्यस्योदयनं प्रति। निहता ब्रह्मतेजोभिरहन्यहनि राक्षसाः।।4.40.41।। अभितप्ताश्च सूर्येण लम्बन्ते स्म पुनः पुनः। Kishkindha Kanda,40,42,ततः पाण्डुरमेघाभं क्षीरोदं नाम सागरम्।।4.40.42।। गत्वा द्रक्ष्यथ दुर्धर्षा मुक्ताहारमिवोर्मिभिः। Kishkindha Kanda,40,43,तस्य मध्ये महान् श्वेतो ऋषभो नाम पर्वतः।।4.40.43।। Kishkindha Kanda,40,44,दिव्यगन्धैः कुसुमितै राजितैश्च नगैर्वृतः। सरश्च राजतैः पद्मैर्ज्वलितैर्हेमकेसरैः।।4.40.44।। नाम्ना सुदर्शनं नाम राजहंसैस्समाकुलम्। Kishkindha Kanda,40,45,विबुधाश्चारणा यक्षाः किन्नराश्चाप्सरोगणाः।।4.40.45।। हृष्टास्समभिगच्छन्ति नलिनीं तां रिरंसवः। Kishkindha Kanda,40,46,क्षीरोदं समतिक्रम्य तदा द्रक्ष्यथ वानराः।।4.40.46।। जलोदं सागरं शीघ्रं सर्वभूतभयावहम्। Kishkindha Kanda,40,47,तत्र तत्कोपजं तेजः कृतं हयमुखं महत्।।4.40.47।। अस्याहुस्तन्महावेगमोदनं सचराचरम्। Kishkindha Kanda,40,48,तत्र विक्रोशतां नादो भूतानां सागरौकसाम्।।4.40.48।। श्रूयते च समर्थानां दृष्ट्वा तद्बडबामुखम्। Kishkindha Kanda,40,49,स्वादूदस्योत्तरे देशे योजनानि त्रयोदश।।4.40.49।। जातरूपशिलो नाम महान्कनकपर्वतः। Kishkindha Kanda,40,50,तत्र चन्द्रप्रतीकाशं पन्नगं धरणीधरम्।।4.40.50।। Kishkindha Kanda,40,51,पद्मपत्रविशालाक्षं ततो द्रक्ष्यथ वानराः। आसीनं पर्वतस्याग्रे सर्वभूतनमस्कृतम्।।4.40.51।। सहस्रशिरसं देवमनन्तं नीलवाससम्। Kishkindha Kanda,40,52,त्रिशिराः काञ्चनः केतुस्तालस्तस्य महात्मनः।।4.40.52।। स्थापितः पर्वतस्याग्रे विराजति सवेदिकः। Kishkindha Kanda,40,53,पूर्वस्यां दिशि निर्माणं कृतं तत् त्रिदशेश्वरैः।।4.40.53।। Kishkindha Kanda,40,54,ततः परं हेममय श्श्रीमानुदयपर्वतः। तस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायता।।4.40.54।। जातरूपमयी दिव्या विराजति सवेदिका। Kishkindha Kanda,40,55,सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः।।4.40.55।। जातरूपमयैर्दिव्यै श्शोभते सूर्यसन्निभैः। Kishkindha Kanda,40,56,तत्र योजनविस्तारमुच्छ्रितं दशयोजनम्।।4.40.56।। शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम्। Kishkindha Kanda,40,57,तत्रपूर्वं पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे।।4.40.57।। द्वितीयं शिखरे मेरोश्चकार पुरुषोत्तमः। Kishkindha Kanda,40,58,त्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः।।4.40.58।। दृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम्। Kishkindha Kanda,40,59,तत्र वैखानसा नाम वालखिल्या महर्षयः।।4.40.59।। प्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः। Kishkindha Kanda,40,60,अयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते।।4.40.60।। यस्मिं स्तेजश्च चक्षुश्च सर्वप्राणभृतामपि। Kishkindha Kanda,40,61,शैलस्य तस्य शृङ्गेषु कन्दरेषु वनेषु च।।4.40.61।। रावणस्सह वैदेह्या मार्गितव्यस्ततस्ततः। Kishkindha Kanda,40,62,काञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः।।4.40.62।। आविष्टा तेजसा सन्ध्या पूर्वा रक्ता प्रकाशते। Kishkindha Kanda,40,63,पूर्वमेतत्कृतं द्वारं पृथिव्या भुवनस्य च।।4.40.63।। सूर्यस्योदयनं चैव पर्वा ह्येषा दिगुच्यते। Kishkindha Kanda,40,64,तस्य शैलस्य पृष्ठेषु निर्झरेषु गुहासु च।।4.40.64।। रावण स्सह वैदेह्या मार्गितव्यस्ततस्ततः। Kishkindha Kanda,40,65,ततः परमगम्या स्याद्दिक्पूर्वा त्रिदशावृता।।4.40.65।। रहिता चन्द्रसूर्याभ्यामदृश्या तिमिरावृता। Kishkindha Kanda,40,66,शैलेषु तेषु सर्वेषु कन्दरेषु वनेषु च।।4.40.66।। ये च नोक्ता मया देशा विचेया तेषु जानकी। Kishkindha Kanda,40,67,एतावद्वानरैश्शक्यं गन्तुं वानरपुङ्गवाः।।4.40.67।। अभास्करममर्यादं न जानीमस्ततः परम्। Kishkindha Kanda,40,68,अधिगम्य तु वैदेहीं निलयं रावणस्य च।।4.40.68।। मासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम्। Kishkindha Kanda,40,69,ऊर्ध्वं मासान्न वस्तव्यं वसन्वध्यो भवेन्मम।।4.40.69।। सिद्धार्थास्सन्निवर्तध्वमधिगम्य तु मैथिलीम्। Kishkindha Kanda,40,70,महेन्द्रकान्तां वनषण्डमण्डितां दिशं चरित्वा निपुणेन वानराः। अवाप्य सीतां रघुवंशजप्रियां ततो निवृत्तास्सुखिनो भविष्यथ।।4.40.70।। Kishkindha Kanda,41,1,ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम्। दक्षिणां प्रेषयामास वानरानभिलक्षितान्।।4.41.1।। Kishkindha Kanda,41,2,नील मग्निसुतं चैव हनुमन्तं च वानरम्। पितामहसुतं चैव जाम्बवन्तं महाबलम्।।4.41.2।। Kishkindha Kanda,41,3,सुहोत्रं च शरारिं च शरगुल्मं तथैव च। गजं गवाक्षं गवयं सुषेणमृषभं तथा।।4.41.3।। Kishkindha Kanda,41,4,मैन्दं च द्विविदं चैव विजयं गन्धमादनम्। उल्कामुखमसङ्गं च हुताशनसुतावुभौ।।4.41.4।। Kishkindha Kanda,41,5,अङ्गदप्रमुखान्वीरान्वीर: कपिगणेश्वरः। वेगविक्रमसम्पन्नान्सन्दिदेश विशेषवित्।।4.41.5।। Kishkindha Kanda,41,6,तेषामग्रेसरं चैव महाबलमथाङ्गदम्। विधाय हरिवीराणामादिशद्दक्षिणां दिशम्।।4.41.6।। Kishkindha Kanda,41,7,ये केचन समुद्देशास्तस्यां दिशि सुदुर्गमाः। कपीशः कपिमुख्यानां स तेषां तानुदाहरत्।।4.41.7।। Kishkindha Kanda,41,8,सहस्रशिरसं विन्ध्यं नानाद्रुमलतायुतम्। नर्मदां च नदीं रम्यां महोरगनिषेविताम्।।4.41.8।। Kishkindha Kanda,41,9,ततो गोदावरीं रम्यां कृष्णवेणीं महानदीम्। वरदां च महाभागां महोरगनिषेविताम्।।4.41.9।। Kishkindha Kanda,41,10,मेखलामुत्कलां चैव दशार्णनगराण्यपि। आश्ववन्तीमवन्तीं च सर्वामेवानुपश्यत।।4.41.10।। Kishkindha Kanda,41,11,विदर्भानृषिकांश्चैव रम्यान्माहिषकानपि। तथा वङ्गान्कलिङ्गांश्च कौशिकांश्च समन्ततः।।4.41.11।। Kishkindha Kanda,41,12,अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहाम्। नदीं गोदावरीं चैव सर्वमेवानुपश्यत।।4.41.12।। तथैवान्ध्रांश्च पुण्ड्रांश्च चोलान्पाण्ड्यांत्स केरलान्। Kishkindha Kanda,41,13,अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः।।4.41.13।। Kishkindha Kanda,41,14,विचित्रशिखर श्श्रीमांश्चित्रपुष्पितकाननः। सचन्दनवनोद्देशो मार्गितव्यो महागिरिः।।4.41.14।। Kishkindha Kanda,41,15,ततस्तामापगां दिव्यां प्रसन्नसलिलां शिवाम्। तत्र द्रक्ष्यथ कावेरीं विहितामप्सरोगणैः।।4.41.15।। Kishkindha Kanda,41,16,तस्यासीनं नगस्याग्रे मलयस्य महौजसम्। द्रक्ष्यथाऽदित्यसङ्काशमगस्त्यमृषिसत्तमम्।।4.41.16।। Kishkindha Kanda,41,17,ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना। ताम्रपर्णीं ग्राहजुष्टां तरिष्यथ महानदीम्।।4.41.17।। Kishkindha Kanda,41,18,सा चन्दनवनैर्दिव्यै प्रच्छन्ना द्वीपशालिनी। कान्तेव युवति: कान्तां समुद्रमवगाहते।।4.41.18।। Kishkindha Kanda,41,19,ततो हेममयं दिव्यं मुक्तामणिविभूषितम्। युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः।।4.41.19।। Kishkindha Kanda,41,20,ततस्समुद्रमासाद्य सम्प्रधार्यार्थनिश्चयम्। अगस्त्येनान्तरे तत्र सागरे विनिवेशितः।।4.41.20।। Kishkindha Kanda,41,21,चित्रनानानगः श्रीमान्महेन्द्र: पर्वतोत्तमः। जातरूपमयः श्रीमानवगाढो महार्णवम्।।4.41.21।। Kishkindha Kanda,41,22,नानाविधैर्नगै स्सर्वैलताभिश्चोपशोभितम्। देवर्षियक्षप्रवरैरप्सरोभिश्च सेवितम्।।4.41.22।। Kishkindha Kanda,41,23,सिद्धचारणसङ्घैश्च प्रकीर्णं समनोरमम्। तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु।।4.41.23।। Kishkindha Kanda,41,24,द्वीपस्तस्यापरे पारे शतयोजनमायतः। अगम्यो मानुषैर्दीप्तस्तं मार्गध्वं समन्ततः।।4.41.24।। Kishkindha Kanda,41,25,तत्र सर्वात्मना सीता मार्गितव्या विशेषतः। स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः।।4.41.25।। राक्षसाधिपतेर्वासस्सहस्राक्षसमद्युतेः। Kishkindha Kanda,41,26,दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी।।4.41.26।। अङ्गारकेति विख्याता छायामाकृष्य भोजिनी। Kishkindha Kanda,41,27,एवं निस्संशयान्कृत्वा संशयान्नष्टसंशयाः।।4.41.27।। मृगयध्वं नरेन्द्रस्य पत्नीममिततेजसः। Kishkindha Kanda,41,28,तमतिक्रम्य लक्ष्मीवान्समुद्रे शतयोजने।।4.41.28।। गिरिः पुष्पितको नाम सिद्धचारणसेवितः। Kishkindha Kanda,41,29,चन्द्रसूर्यांशुसङ्काशस्सागराम्बुसमावृतः।।4.41.29।। भ्राजते विपुलैश्शृङ्गैरम्बरं विलिखन्निव। Kishkindha Kanda,41,30,तस्यैकं काञ्चनं शृङ्गं सेवतेऽयं दिवाकरः।।4.41.30।। Kishkindha Kanda,41,31,श्वेतं राजतमेकं च सेवतेऽयं निशाकरः। न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः।।4.41.31।। Kishkindha Kanda,41,32,प्रणम्य शिरसा शैलं तं विमार्गत वानराः। तमतिक्रम्य दुर्धर्ष स्सूर्यवान्नाम पर्वतः।।4.41.32।। अध्वना दुर्विगाहेन योजनानि चतुर्दश। Kishkindha Kanda,41,33,ततस्तमप्यतिक्रम्य वैद्युतो नाम पर्वतः।।4.41.33। सर्वकामफलैर्वृक्षै स्सर्वकालमनोहरैः। Kishkindha Kanda,41,34,तत्र भुक्त्वा वरार्हाणि मूलानि च फलानि च।।4.41.34।। मधूनि पीत्वा मुख्यानि परं गच्छत वानराः। Kishkindha Kanda,41,35,तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतः।।4.41.35।। अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा। Kishkindha Kanda,41,36,तत्र योजनविस्तारमुच्छ्रितं दशयोजनम्।।4.41.36।। शरणं काञ्चनं दिव्यं नानारत्नविभूषितम्। Kishkindha Kanda,41,37,तत्र भोगवती नाम सर्पाणामालयः पुरी।।4.41.37।। Kishkindha Kanda,41,38,विशालकक्ष्या दुर्धर्षा सर्वतः परिरक्षिता। रक्षिता पन्नगैर्घोरैस्तीक्ष्णदष्ट्रैरैर्महाविषैः।।4.41.38।। सर्पराजो महाप्राज्ञो यस्यां वसति वासुकिः। Kishkindha Kanda,41,39,निर्याय मार्गितव्या च सा च भोगवती पुरी।।4.41.39।। तत्र चानन्तरा देशा ये केचन सुसम्वृताः। Kishkindha Kanda,41,40,तं च देशमतिक्रम्य महानृषभसंस्थितः।।4.41.40।। सर्वरत्नमयः श्रीमान् ऋषभो नाम पर्वतः। Kishkindha Kanda,41,41,गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम्।।4.41.41।। दिव्यमुत्पद्यते यत्र तच्चैवाग्निसमप्रभम्। Kishkindha Kanda,41,42,न तु तच्चन्दनं दृष्टवा स्प्रष्टव्यं च कदाचन।।4.41.42।। रोहिता नाम गन्धर्वा घोरा रक्षन्ति तद्वनम्। Kishkindha Kanda,41,43,तत्र गन्धर्वपतयः पञ्च सूर्यसमप्रभाः।।4.41.43।। Kishkindha Kanda,41,44,शैलूषो ग्रामणी श्शिग्रु श्शुभ्रो बभ्रुस्तथैव च। रविसोमाग्निवपुषां निवासः पुण्यकर्मणाम्।।4.41.44।। Kishkindha Kanda,41,45,अन्ते पृथिव्या दुर्धर्षास्तत्र स्वर्गजितः स्थिताः। ततः परं न वस्सेव्यः पितृलोक स्सुदारुणः।।4.41.45।। Kishkindha Kanda,41,46,राजधानी यमस्यैषा कष्टेन तमसा वृता। एतावदेव युष्माभिर्वीरा वानरपुङ्गवाः।।4.41.46।। शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः। Kishkindha Kanda,41,47,सर्वमेतत्समालोक्य यच्चान्यदपि दृश्यते।।4.41.47।। गतिं विदित्वा वैदेह्या स्सन्निवर्तितुमर्हथ। Kishkindha Kanda,41,48,यस्तु मासान्निवृत्तोऽग्रे दृष्टा सीतेति वक्ष्यति।।4.41.48।। मत्तुल्यविभवो भोगै स्सुखं स विहरिष्यति। Kishkindha Kanda,41,49,ततः प्रियतरो नास्ति मम प्राणाद्विशेषतः।।4.41.49।। कृतापराधो बहुशो मम बन्धुर्भविष्यति। Kishkindha Kanda,41,50,अमितबलपराक्रमा भवन्तो विपुलगुणेषु कुलेषु च प्रसूताः। मनुजपतिसुतां यथा लभध्वं तदधिगुणं पुरुषार्थमारभध्वम्।।4.41.50।। Kishkindha Kanda,42,1,अथ प्रस्थाप्य सुग्रीवस्तान्हरीन्दक्षिणां दिशम्। अब्रवीन्मेघसङ्काशं सुषेणं नाम यूथपम्।।4.42.1।। Kishkindha Kanda,42,2,तारायाः पितरं राजा श्वशुरं भीमविक्रमम्। अब्रवीत्प्राञ्जलिर्वाक्यमभिगम्य प्रणम्य च।।4.42.2।। Kishkindha Kanda,42,3,मरीचिपुत्रं मारीचमर्चिष्मन्तं महाकपिम्। वृतं कपिवरै श्शूरैर्महेन्द्रसदृशद्युतिम्।।4.42.3।। Kishkindha Kanda,42,4,बुद्धिविक्रमसम्पन्नं वैनतेयसमद्युतिम्। मरीचिपुत्रान्मारीचानर्चिर्मालान्महाबलान्।।4.42.4।। ऋषिपुत्रांश्चतांत्सर्वान्प्रतीचीमादिशद्दिशम्। Kishkindha Kanda,42,5,द्वाभ्यां शतसहस्राभ्यां कपीनां कपिसत्तमाः।।4.42.5।। सुषेणप्रमुखा यूयं वैदेहीं परिमार्गतः। Kishkindha Kanda,42,6,सुराष्ट्रान्सहबाह्लीकान् श्चन्द्रचित्रांस्तथैव च।।4.42.6।। Kishkindha Kanda,42,7,स्फीताञ्जनपदान्रम्यान्विपुलानि पुराणि च। पुन्नागगहनं कुक्षिं वकुलोद्दालकाकुलम्।।4.42.7।। तथा केतकषण्डांश्च मार्गध्वं हरियूथपाः। Kishkindha Kanda,42,8,प्रत्यक्स्रोतोगमाश्चैव नद्यश्शीतजलाश्शिवाः।।4.42.8।। Kishkindha Kanda,42,9,तापसानामरण्यानि कान्तारा गिरयश्च ये। तत्रस्थलीं मरुप्रायामत्युच्चशिरसश्शिलाः।।4.42.9।। Kishkindha Kanda,42,10,गिरिजालावृतां दुर्गां मार्गित्वा पश्चिमां दिशम्। ततः पश्चिममासाद्य समुद्रं द्रष्टुमर्हथ।।4.42.10।। तिमिनक्रायुतजलमक्षोभ्यमथ वानराः। Kishkindha Kanda,42,11,ततः केतकषण्डेषु तमालगहनेषु च।।4.42.11।। कपयो विहरिष्यन्ति नारिकेलवनेषु च। Kishkindha Kanda,42,12,तत्र सीतां च मार्गध्वं निलयं रावणस्य च।।4.42.12।। Kishkindha Kanda,42,13,वेलातलनिविष्टेषु पर्वतेषु वनेषु च। मुरचीपत्तनं चैव रम्यं चैव जटीपुरम्।।4.42.13।। Kishkindha Kanda,42,14,अवन्तीमङ्गलोपां च तथा चालक्षितं वनम्। राष्ट्राणि च विशालानि पत्तनानि ततस्ततः।।4.42.14।। Kishkindha Kanda,42,15,सिन्धुसागरयोश्चैव सङ्गमे तत्र पर्वतः। महान्हेमगिरिर्नाम शतशृङ्गो महाद्रुमः।।4.42.15।। Kishkindha Kanda,42,16,तस्य प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः। तिमिमत्स्यगजांश्चैव नीडान्यारोपयन्ति ते।।4.42.16।। Kishkindha Kanda,42,17,तानि नीडानि सिंहानां गिरिशृङ्गगताश्च ये। दृप्तास्तृप्ताश्च मातङ्गास्तोयदस्वननिस्वनाः।।4.42.17।। विचरन्ति विशालेऽस्मिंस्तोयपूर्णे समन्ततः। Kishkindha Kanda,42,18,तस्य शृङ्गं दिवस्पर्शं काञ्चनं चित्रपादपम्।।4.42.18।। सर्वमाशु विचेतव्यं कपिभिः कामरूपिभिः। Kishkindha Kanda,42,19,कोटिं तत्र समुद्रे तु काञ्चनीं शतयोजनाम्।।4.42.19।। दुर्दर्शां पारियात्रस्य गतां द्रक्ष्यथ वानराः। Kishkindha Kanda,42,20,कोट्यस्तत्र चतुर्विंशद्गन्धर्वाणां तपस्विनाम्।।4.42.20।। वसन्त्यग्निनिकाशानां घोराणां कामरूपिणाम्। Kishkindha Kanda,42,21,पावकार्चिः प्रतीकाशास्समवेतास्सहस्रशः।।4.42.21।। नात्यासादयितव्यास्ते वानरैर्भीमविक्रमैः। Kishkindha Kanda,42,22,नादेयं च फलं तस्माद्देशात्किञ्चित् प्लवङ्गमैः।।4.42.22।। Kishkindha Kanda,42,23,दुरासदा हि ते वीरा स्सत्त्ववन्तो महाबलाः। फलमूलानि ते तत्र रक्षन्ते भीमविक्रमाः।।4.42.23।। Kishkindha Kanda,42,24,तत्र यत्नश्च कर्तव्यो मार्गितव्या च जानकी। न हि तेभ्यो भयं किञ्चित्कपित्वमनुवर्तताम्।।4.42.24।। Kishkindha Kanda,42,25,तत्र वैढूर्यवर्णाभो वज्रसंस्थानसंस्थितः। नानाद्रुमलताकीर्णो वज्रो नाम महागिरिः।।4.42.25।। Kishkindha Kanda,42,26,श्रीमान्समुदितस्तत्र योजनानां शतं समम्। गुहास्तत्र विचेतव्या प्रयत्नेन प्लवङ्गमाः ।।4.42.26।। Kishkindha Kanda,42,27,चतुर्भागे समुद्रस्य चक्रवान्नाम पर्वतः। तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा।।4.42.27।। Kishkindha Kanda,42,28,तत्र पञ्चजनं हत्वा हयग्रीवं च दानवम्। आजहार ततश्चक्रं शङ्खं च पुरुषोत्तमः।।4.42.28।। Kishkindha Kanda,42,29,तस्य सानुषु चित्रेषु विशालासु गुहासु च। रावण स्सह वैदेह्या मार्गितव्यस्तत स्ततः।।4.42.29।। Kishkindha Kanda,42,30,योजनानां चतुष्षष्टिर्वराहो नाम पर्वतः। सुवर्णशृङ्गस्सुश्रीमा नगाधे वरुणालये।।4.42.30।। Kishkindha Kanda,42,31,तत्र प्राग्ज्योतिषं नाम जातरूपमयं पुरम्। यस्मिन्वसति दुष्टात्मा नरको नाम दानवः।।4.42.31।। Kishkindha Kanda,42,32,तत्र सानुषु चित्रेषु विशालासु गुहासु च। रावणस्सह वैदेह्या मार्गितव्यस्ततस्ततः।।4.42.32।। Kishkindha Kanda,42,33,तमतिक्रम्य शैलेन्द्रं काञ्चनान्तरनिर्दरः। पर्वत स्सर्वसौवर्णो धाराप्रस्रवणायुतः।।4.42.33।। Kishkindha Kanda,42,34,तं गजाश्च वराहाश्च सिंह व्याघ्राश्च सर्वतः। अभिगर्जन्ति सततं तेन शब्देन दर्पिताः।।4.42.34।। Kishkindha Kanda,42,35,यस्मिन्हरिहय्शीमान्महेन्द्रः पाकशासनः। अभिषिक्तः सुरै राजा मेघवान्नाम पर्वतः।।4.42.35।। Kishkindha Kanda,42,36,तमतिक्रम्य शैलेन्द्रं महेन्द्रपरिपालितम्। षष्टि र्गिरिसहस्राणि काञ्चनानि गमिष्यथ।।4.42.36।। Kishkindha Kanda,42,37,तरुणादित्यवर्णानि भ्राजमानानि सर्वतः। जातरूपमयैर्वृक्षै शोभितानि सुपुष्पितैः।।4.42.37।। Kishkindha Kanda,42,38,तेषां मध्ये स्थितो राजा मेरुरुत्तरपर्वतः। आदित्येन प्रसन्नेन शैलो दत्तवरः पुरा।।4.42.38।। Kishkindha Kanda,42,39,तेनैव मुक्तश्शैलेन्द्रस्सर्व एव त्वदाश्रयाः। मत्प्रसादाद्भविष्यन्ति दिवा रात्रं च काञ्चनाः।।4.42.39।। Kishkindha Kanda,42,40,त्वयि ये चापि वत्स्यन्ति देवगन्धर्वदानवाः। ते भविष्यन्ति रक्ताश्च प्रभया काञ्चनप्रभाः।।4.42.40।। Kishkindha Kanda,42,41,विश्वे देवाश्च मरूतो वसवश्च दिवौकसः। आगम्य पश्चिमां सन्ध्यां मेरुमुत्तमपर्वतम्।।4.42.41।। Kishkindha Kanda,42,42,आदित्यमुपतिष्ठन्ति तैश्च सूर्योऽभिपूजितः। अदृश्यस्सर्वभूतानामस्तं गच्छतिपर्वतम्।।4.42.42।। Kishkindha Kanda,42,43,योजनानां सहस्राणि दश तानि दिवाकरः। मुहूर्तार्धेन तं शीघ्रमभियाति शिलोच्चयम्।।4.42.43।। Kishkindha Kanda,42,44,शृङ्गे तस्य महद्दिव्यं भवनं सूर्यसन्निभम्। प्रासादगणसम्बाधं विहितं विश्वकर्मणा।।4.42.44।। Kishkindha Kanda,42,45,शोभितं तरुभिश्चित्रैर्नानापक्षिसमाकुलैः। निकेतं पाशहस्तस्य वरुणस्य महात्मनः।।4.42.45।। Kishkindha Kanda,42,46,अन्तरा मेरुमस्तं च तालो दशशिरा महान्। जातरूपमय्शीमान्भ्राजते चित्रवेदिकः।।4.42.46।। Kishkindha Kanda,42,47,तेषु सर्वेषु दुर्गेषु सरस्सु च सरित्सु च। रावणस्सह वैदेह्या मार्गितव्यस्तत स्ततः।।4.42.47।। Kishkindha Kanda,42,48,यत्र तिष्ठति धर्मज्ञस्तपसा स्वेन भावितः। मेरुसावर्णिरित्येव ख्यातो वै ब्रह्मणा समः।।4.42.48।। Kishkindha Kanda,42,49,प्रष्टव्यो मेरुसावर्णिर्महर्षिः सूर्यसन्निभः। प्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिलीं प्रति।।4.42.49।। Kishkindha Kanda,42,50,एताव ज्जीवलोकस्य भास्करो रजनीक्ष्ये। कृत्वा वितिमिरं सर्वमस्तं गच्छति पर्वतम्।।4.42.50।। Kishkindha Kanda,42,51,एतावद्वानरैश्शक्यं गन्तुं वानरपुङ्गवाः। अभास्करममर्यादं न जानीमस्ततः परम्।।4.42.51।। Kishkindha Kanda,42,52,अधिगम्य तु वैदेहीं निलयं रावणस्य च। अस्त पर्वतमासाद्य पूर्णे मासे निवर्तत।।4.42.52।। Kishkindha Kanda,42,53,ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम। सहैव शूरो युष्माभिश्श्वशुरो मे गमिष्यति।।4.42.53।। Kishkindha Kanda,42,54,श्रोतव्यं सर्वमेतस्य भवद्भिर्दिष्टकारिभिः। गुरुरेष महाबाहुश्श्वशुरो मे महाबलः।।4.42.54।। Kishkindha Kanda,42,55,भवन्तश्चापि विक्रान्ताः प्रमाणं सर्व कर्मसु। प्रमाणमेनं संस्थाप्य पश्यध्वं पश्चिमां दिशम्।।4.42.55।। Kishkindha Kanda,43,1,ततस्सन्दिश्य सुग्रीवश्श्वशुरं पश्चिमां दिशम्। वीरं शतवलिं नाम वानरं वानरर्षभः।।4.43.1।। Kishkindha Kanda,43,2,उवाच राजा धर्मज्ञस्सर्ववानरसत्तमम्। वाक्यमात्म हितं चैव रामस्य च हितं तथा।।4.43.2।। Kishkindha Kanda,43,3,वृतश्शतसहस्रेण त्वद्विधानां वनौकसाम्। वैवस्वतसुतैस्सार्धं प्रतिष्ठस्व स्वमन्त्रिभिः।।4.43.3।। Kishkindha Kanda,43,4,दिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसकाम्। सर्वतः परिमार्गध्वं रामपत्नीमनिन्दिताम्।।4.43.4।। Kishkindha Kanda,43,5,अस्मिन्कार्येविनिर्वृत्ते कृते दाशरथेः प्रिये। ऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः।।4.43.5।। Kishkindha Kanda,43,6,कृतं हि प्रियमस्माकं राघवेण महात्मना। तस्य चेत्प्रतिकारोऽस्ति सफलं जीवितं भवेत्।।4.43.6।। Kishkindha Kanda,43,7,अर्थिनः कार्यनिर्वृत्तिमकर्तुरपि यश्चरेत्। तस्य स्यात्सफलं जन्म किं पुनः पूर्वकारिणः।।4.43.7।। Kishkindha Kanda,43,8,एतां बुद्धिमवस्थाय दृश्यते जानकी यथा। तथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः।।4.43.8।। Kishkindha Kanda,43,9,अयं हि सर्वभूतानां मान्यस्तु नरसत्तमः। अस्मासु चागत: प्रीती रामः परपुरञ्जयः।।4.43.9।। Kishkindha Kanda,43,10,इमानि वनदुर्गाणि नद्यश्शैलान्तराणि च। भवन्तः परिमार्गन्तु बुद्धिविक्रमसम्पदा।।4.43.10।। Kishkindha Kanda,43,11,तत्र म्लेच्छान्पुलिन्दांश्च शूरसेनांस्तथैव च। प्रस्थलान्भरतांश्चैव कुरूंश्च सह मद्रकैः।।4.43.11।। Kishkindha Kanda,43,12,काम्बोजान्यवनां श्चैव शकानारट्टकानपि। बाह्लीकानृषिकां श्चैव पौरवानथ टङ्कणान्।।4.43.12।। Kishkindha Kanda,43,13,चीनान्परमचीनांश्च नीहारांश्च पुनः पुनः। अन्विष्यदरदांश्चैव हिमवन्तं तथैव च।।4.43.13।। Kishkindha Kanda,43,14,लोध्रपद्मकषण्डेषु देवदारुवनेषु च। रावणस्सह वैदेह्या मार्गितव्यस्ततस्ततः।।4.43.14।। Kishkindha Kanda,43,15,ततस्सोमाश्रमं गत्वा देवगन्धर्वसेवितम्। कालं नाम महासानुं पर्वतं तु गमिष्यथ।।4.43.15।। Kishkindha Kanda,43,16,महत्सु तस्य शैलस्य निर्दरेषु गुहासु च। विचिनुध्वं महाभागां रामपत्नींततस्ततः।।4.43.16।। Kishkindha Kanda,43,17,तमतिक्रम्य शैलेन्द्रं हेमगर्भं महागिरिम्। ततस्सुदर्शनं नाम गन्तुमर्हथ पर्वतम्।।4.43.17।। Kishkindha Kanda,43,18,ततो देवसखो नाम पर्वतः पतगालयः। नानापक्षिगणाकीर्णो विविधद्रुमभूषितः।।4.43.18।। Kishkindha Kanda,43,19,तस्य काननषण्डेषु निर्घरेषु गुहासु च। रावणस्सह वैदेह्या मार्गितव्यस्ततस्ततः।।4.43.19।। Kishkindha Kanda,43,20,तमतिक्रम्य चाकाशं सर्वतश्शतयोजनम्। अपर्वतनदीवृक्षं सर्वसत्त्वविवर्जितम्।।4.43.20।। Kishkindha Kanda,43,21,तं तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम्। कैलासं पाण्डुरं शैलं प्राप्य हृष्टा भविष्यथ।।4.43.21।। Kishkindha Kanda,43,22,तत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम्। कुबेरभवनं रम्यं निर्मितं विश्वकर्मणा।।4.43.22।। Kishkindha Kanda,43,23,विशाला नलिनी यत्र प्रभूतकमलोत्पला। हंसकारण्डवाकीर्णाप्सरोगणसेविता।।4.43.23।। Kishkindha Kanda,43,24,तत्र वैश्रवणो राजा सर्वभूतनमस्कृतः। धनदो रमते श्रीमान्गुह्यकैस्सह यक्षराट्।।4.43.24।। Kishkindha Kanda,43,25,तस्य चन्द्रनिकाशेषु पर्वतेषु गुहासु च। रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः।।4.43.25।। Kishkindha Kanda,43,26,क्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम्। अप्रमत्तै: प्रवेष्टव्यं दुष्प्रवेशं हि तत्स्मृतम्।।4.43.26।। Kishkindha Kanda,43,27,वसन्ति हि महात्मानस्तत्र सूर्यसमप्रभाः। देवैरप्यर्चिता स्सम्यग्देवरूपा महर्षयः।।4.43.27।। Kishkindha Kanda,43,28,क्रौञ्चस्य तु गुहाश्चान्या स्सानूनिशिखराणि च। निर्दराश्च नितम्बाश्च विचेतव्या स्ततस्ततः।।4.43.28।। कौञ्चस्य शिखरं चापि निरीक्ष्य च ततस्ततः। Kishkindha Kanda,43,29,अवृक्षं कामशैलं च मानसं विहगालयम्। न गतिस्तत्र भूतानां देवदानव रक्षसाम्।।4.43.29।। Kishkindha Kanda,43,30,स च सर्वैर्विचेतव्यस्ससानुप्रस्थभूधरः। क्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतः।।4.43.30।। Kishkindha Kanda,43,31,मयस्य भवनं यत्र दानवस्य स्वयं कृतम्।।4.43.31।। Kishkindha Kanda,43,32,मैनाकस्तु विचेतव्य स्ससानुप्रस्थकन्दरः। स्त्रीणामश्वमुखीनां तु निकेतास्तत्र तत्र तु।।4.43.32।। Kishkindha Kanda,43,33,तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम्। सिद्धा वैखानसास्तत्र वालखिल्याश्च तापसाः।।4.43.33।। Kishkindha Kanda,43,34,वन्द्यास्ते तु तपस्सिद्धास्तपसा वीतकल्मषाः। प्रष्टव्या चापि सीतायाः प्रवृत्तिर्विनयान्वितैः।।4.43.34।। Kishkindha Kanda,43,35,हेमपुष्करसञ्छन्नं तस्मिन् वैखानसं सरः। तरुणादित्यसङ्काशैर्हंसैर्विचरितं शुभैः।।4.43.35।। Kishkindha Kanda,43,36,औपवाह्यः कुबेरस्य सार्वभौम इति स्मृतः। गजः पर्येति तं देशं सदा सह करेणुभिः।।4.43.36।। Kishkindha Kanda,43,37,तत्सरस्समतिक्रम्य नष्टचन्द्रदिवाकरम्। अनक्षत्रगणं व्योम निष्पयोदमनादितम्।।4.43.37।। Kishkindha Kanda,43,38,गभस्तिभिरिवार्कस्य स तु देशः प्रकाशते। विश्राम्यद्भिस्तपस्सिद्धैर्देवकल्पैः स्वयंप्रभैः।।4.43.38।। Kishkindha Kanda,43,39,तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा। उभयोस्तीरयोस्तस्याः कीचका नाम वेणवः।।4.43.39।। ते नयन्ति परं तीरं सिद्धान्प्रत्यानयन्ति च। Kishkindha Kanda,43,40,उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रयाः।।4.43.40।। Kishkindha Kanda,43,41,ततः काञ्चनपद्माभिः पद्भिनीभिः कृतोदकाः। नीलवैडूर्यपत्राभिर्नद्यस्तत्र सहस्रशः।।4.43.41।। रक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः। Kishkindha Kanda,43,42,तरुणादित्यसङ्काशैर्भान्ति तत्र जलाशयाः।।4.43.42।। Kishkindha Kanda,43,43,महार्हमणिरत्नैश्च काञ्चनप्रभकेसरैः। निलोत्पलवनैश्चित्रै स्स देश स्सर्वतो वृतः।।4.43.43।। निस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः। Kishkindha Kanda,43,44,उद्भूतपुलिनास्तत्र जातरूपैश्च निम्नगाः। सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः।।4.43.44।। जातरूपमयैश्चापि हुताशनसमप्रभैः। Kishkindha Kanda,43,45,नित्यपुष्पफलास्तत्र नगाः पत्त्ररथाकुलाः।।4.43.45।। Kishkindha Kanda,43,46,दिव्यगन्धरसस्पर्शाः सर्वान्कामान् स्रवन्ति च। नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः।।4.43.46।। Kishkindha Kanda,43,47,मुक्ता वैढूर्यचित्राणि भूषणानि तथैव च। स्त्रीणां चाप्यनुरूपाणि पुरुषाणां तथैव च।।4.43.47।। Kishkindha Kanda,43,48,सर्वर्तुसुख सेव्यानि फलन्त्यन्ये नगोत्तमाः। महार्हाणि विचित्राणि हैमान्यन्ये नगोत्तमाः।।4.43.48।। Kishkindha Kanda,43,49,शयनानि प्रसूयन्ते चित्रास्तरणवन्ति च। मनःकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः।।4.43.49।। Kishkindha Kanda,43,50,पानानि च महार्हाणि भक्ष्याणि विविधानि च। स्त्रियश्च गुणसम्पन्ना रूपयौवनलक्षिताः।।4.43.50।। Kishkindha Kanda,43,51,गन्धर्वाः किन्नरास्सिद्धा नागा विद्याधरास्तथा। रमन्ते सततं स्तत्र नारीभिर्भास्करप्रभाः।।4.43.51।। Kishkindha Kanda,43,52,सर्वे सुकृतकर्माण स्सर्वे रतिपरायणाः। सर्वे कामार्थसहिता वसन्ति सहयोषितः।।4.43.52।। Kishkindha Kanda,43,53,गीतवादित्रनिर्घोष स्सोत्कृष्टहसितस्वनः। श्रूयते सततं तत्र सर्वभूतमनोहरः।।4.43.53।। Kishkindha Kanda,43,54,तत्र नामुदितः कश्चिन्नास्ति कश्चिदसत्प्रियः। अहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः।।4.43.54।। Kishkindha Kanda,43,55,समतिक्रम्य तं देशमुत्तरः पयसां निधिः। तत्र सोमगिरिर्नाम मध्ये हेममयो महान्।।4.43.55।। Kishkindha Kanda,43,56,इन्द्रलोकगता ये च ब्रह्मलोकगताश्च ये। देवास्तं समवेक्षन्ते गिरिराजं दिवं गताः।।4.43.56।। Kishkindha Kanda,43,57,स तु देशो विसूर्योऽपि तस्य भासा प्रकाशते। सूर्यलक्ष्म्याऽभिविज्ञेयस्तपतेव विवस्वता।।4.43.57।। Kishkindha Kanda,43,58,भगवानपि विश्वात्मा शम्भुरेकादशात्मकः। ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः।।4.43.58।। Kishkindha Kanda,43,59,न कथञ्चन गन्तव्यं कुरूणामुत्तरेण वः। अन्येषामपि भूतानां नातिक्रामति वै गतिः।।4.43.59।। Kishkindha Kanda,43,60,स हि सोमगिरिर्नाम देवानामपि दुर्गमः। तमालोक्य ततः क्षिप्रमुपावर्तितुमर्हथ।।4.43.60।। Kishkindha Kanda,43,61,एतावद्वानरैश्शक्यं गन्तुं वानरपुङ्गवाः। अभास्करममर्यादं न जानीमस्ततः परम्।।4.43.61।। Kishkindha Kanda,43,62,सर्वमेतद्विचेतव्यं यन्मया परिकीर्तितम्। यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः।।4.43.62।। Kishkindha Kanda,43,63,ततः कृतं दाशरथेर्महत्प्रियं महत्तरं चापि ततो मम प्रियम्। कृतं भविष्यत्यनिलानलोपमा विदेहजादर्शनजेन कर्मणा।।4.43.63।। Kishkindha Kanda,43,64,ततः कृतार्थाः सहितास्सबान्धवाः मयाऽर्चितास्सर्वगुणैर्मनोरमैः। चरिष्यथोर्वीं प्रति शान्तशत्रव स्सहप्रिया भूतधराः प्लवङ्गमाः।।4.43.64।। Kishkindha Kanda,44,1,विशेषेण तु सुग्रीवो हनूमत्यर्थमुक्तवान्। स हि तस्मिन्हरिश्रेष्ठे निश्चितार्थोऽर्थसाधने।।4.44.1।। Kishkindha Kanda,44,2,अब्रवीच्च हनूमन्तं विक्रान्तमनिलात्मजम्। सुग्रीवः परमप्रीतः प्रभु स्सर्ववनौकसाम्।।4.44.2।। Kishkindha Kanda,44,3,न भूमौ नान्तरिक्षे वा नाम्बरे नामरालये। नाप्सु वा गतिसङ्गं ते पश्यामि हरिपुङ्गव।।4.44.3।। Kishkindha Kanda,44,4,सासुरास्सहगन्धर्वास्सनागनरदेवताः। विदिता स्सर्वलोकास्ते ससागरधराधराः।।4.44.4।। Kishkindha Kanda,44,5,गतिर्वेगश्च तेजश्च लाघवं च महाकपे। पितुस्ते सदृशं वीर मारुतस्य महौजसः।।4.44.5।। Kishkindha Kanda,44,6,तेजसा वापि ते भूतं न समं भुवि न विद्यते। तद्यथा लभ्यते सीता तत्त्वमेवोपपादय।।4.44.6।। Kishkindha Kanda,44,7,त्वय्येव हनुम न्नस्ति बलं बुद्धिः पराक्रमः। देशकालानुवृत्तिश्च नयश्च नयपण्डित।।4.44.7।। Kishkindha Kanda,44,8,ततः कार्यसमासङ्गमवगम्य हनूमति। विदित्वा हनुमन्तं च चिन्तयामास राघवः।।4.44.8।। Kishkindha Kanda,44,9,सर्वथा निश्चितार्थोऽयं हनूमति हरीश्वरः। निश्चितार्थकरश्चापि हनूमान्कार्यसाधने।।4.44.9।। Kishkindha Kanda,44,10,तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः। भर्त्रा परिगृहीतस्य ध्रुवः कार्यफलोदयः।।4.44.10।। Kishkindha Kanda,44,11,तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम्। कृतार्थ इव संवृत्तः प्रहृष्टेन्द्रियमानसः।।4.44.11।। Kishkindha Kanda,44,12,ददौ तस्य ततः प्रीतस्स्वनामाङ्कोपशोभितम्। अङ्गुलीयमभिज्ञानं राजपुत्र्याः परन्तपः।।4.44.12।। Kishkindha Kanda,44,13,अनेन त्वां हरिश्रेष्ठ चिह्नेन जनकात्मजा। मत्सकाशादनुप्राप्तमनुद्विग्नाऽनुपश्यति।।4.44.13।। Kishkindha Kanda,44,14,व्यवसायश्च ते वीर सत्त्वयुक्तश्च विक्रमः। सुग्रीवस्य च सन्देशस्सिद्धिं कथयतीव मे।।4.44.14।। Kishkindha Kanda,44,15,स तद्गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि कृताञ्जलिः। वन्दित्वा चरणौ चैव प्रस्थितः प्लवगोत्तमः।।4.44.15।। Kishkindha Kanda,44,16,स तत्प्रकर्षन् हरीणां महद्बलं बभूव वीरः पवनात्मजः कपिः। गताम्बुदे व्योम्नि विशुद्धमण्डलः शशीव नक्षत्रगणोपशोभितः।।4.44.16।। Kishkindha Kanda,44,17,अतिबल बलमाश्रितस्तवाहं हरिवरविक्रम विक्रमैरनल्पैः। पवनसुत यथाऽभिगम्यते सा जनकसुता हनुमं स्तथा कुरुष्व।।4.44.17।। Kishkindha Kanda,45,1,सर्वांश्चाहूय सुग्रीवः प्लवगान् प्लवगर्षभः। समस्तानब्रवीद्भूयो रामकार्यर्थसिद्धये।।4.45.1।। एवमेतद्विचेतव्यं यन्मया परिकीर्तितम्। Kishkindha Kanda,45,2,तदुग्रशासनं भर्तुर्विज्ञाय हरिपुङ्गवाः।।4.45.2।। शलभा इव सञ्छाद्य मेदिनीं सम्प्रतस्थिरे। Kishkindha Kanda,45,3,रामः प्रस्रवणे तस्मिन्यवसत्सहलक्ष्मणः।।4.45.3।। प्रतीक्षमाणस्तं मासं यस्सीताधिगमे कृतः। Kishkindha Kanda,45,4,उत्तरां तु दिशं रम्यां गिरिराजसमावृताम्।।4.45.4।। प्रतस्थे सहसा वीरो हरिश्शतवलिस्तदा। Kishkindha Kanda,45,5,पूर्वां दिशं प्रतिययौ विनतो हरियूथपः।।4.45.5।। Kishkindha Kanda,45,6,ताराङ्गदादिसहितः प्लवङ्गो मारुतात्मजः। अगत्याचरितामाशां दक्षिणां हरियूथपः।।4.45.6।। Kishkindha Kanda,45,7,पश्चिमां तु भृशं घोरां सुषेणः प्लवगेश्वरः। प्रतस्थे हरिशार्दूलो दिशं वरुणपालिताम्।।4.45.7।। Kishkindha Kanda,45,8,ततस्सर्वा दिशो राजा चोदयित्वा यथातथम्। कपिसेनापतीन्मुख्यान्मुमोद सुखितस्सुखम्।।4.45.8।। Kishkindha Kanda,45,9,एवं सम्बोधितास्सर्वे राज्ञा वानरयूथपाः। स्वां स्वां दिशमभिप्रत्त्य त्वरिता सम्प्रतस्थिरे।।4.45.9।। Kishkindha Kanda,45,10,नदन्तश्चोन्नदन्तश्च गर्जन्तश्च प्लवङ्गमाः। क्ष्वेलन्तो धावमानाश्च विनदन्तो महाबलाः।।4.45.10।। Kishkindha Kanda,45,11,एवं सम्बोदितास्सर्वे राज्ञा वानरयूथपाः। आनयिष्यामहे सीतां हनिष्यामश्च रावणम्।।4.45.11।। Kishkindha Kanda,45,12,अहमेको हनिष्यामि रावणं प्राप्तमाहवे। ततश्चोन्मथ्य सहसा हरिष्ये जनकात्मजाम्।।4.45.12।। Kishkindha Kanda,45,13,वेपमानां श्रमेणाद्य भवद्भिः स्थीयतामिति। एक एवाहरिष्यामि पातालादपि जानकीम्।।4.45.13।। Kishkindha Kanda,45,14,वधिष्याम्यहं वृक्षान् दारयिष्याम्यहं गिरीन्। धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान्।।4.45.14।। Kishkindha Kanda,45,15,अहं योजनसङ्ख्यायाः प्लविता नात्र संशयः। शतं योजनसङ्ख्यायाश्शतं समधिकं ह्यहम्।।4.45.15।। Kishkindha Kanda,46,1,गतेषु वानरेन्द्रेषु रामस्सुग्रीवमब्रवीत्। कथं भवान्विजानीते सर्वं वै मण्डलं भुवः।।4.46.1।। Kishkindha Kanda,46,2,सुग्रीवस्तु ततो राममुवाच प्रणतात्मवान्। श्रूयतां सर्वमाख्यास्ये विस्तरेण नरर्षभ।।4.46.2।। Kishkindha Kanda,46,3,यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम्। परिकालयते वाली मलयं प्रति पर्वतम्।।4.46.3।। Kishkindha Kanda,46,4,तदा विवेश महिषो मलयस्य गुहां प्रति। विवेश वाली तत्रापि मलयं तज्जिघांसया।।4.46.4।। Kishkindha Kanda,46,5,ततोऽहं तत्र निक्षिप्तो गुहाद्वारि विनीतवत्। न च निष्क्रामते वाली तदा संवत्सरे गते4.46.5।। Kishkindha Kanda,46,6,ततः क्षतजवेगेन आपुपूरे तदा बिलम्। तदहं विस्मितो दृष्ट्वा भ्रातृशोकविषार्दितः।।4.46.6।। Kishkindha Kanda,46,7,अथाऽहं कृतबुद्धिस्तु सुव्यक्तं निहतो गुरुः। शिला पर्वतसङ्काशा बिलद्वारि मया कृता।।4.46.7।। अशक्नुव न्निष्क्रमितुं महिषो विनशेदिति। Kishkindha Kanda,46,8,ततोऽहमागां किष्किन्धां निराशस्तस्य जीविते।।4.46.8।। Kishkindha Kanda,46,9,राज्यं च सुमहत्प्राप्य तारया रुमया सह। मित्रैश्च सहितस्तत्र वसामि विगतज्वरः।।4.46.9।। Kishkindha Kanda,46,10,आजगाम ततो वाली हत्वा तं दानवर्षभम्। ततोऽहमददां राज्यं गौरवाद्भययन्त्रितः।।4.46.10।। Kishkindha Kanda,46,11,स मां जिघांसुर्दुष्टात्मा वाली प्रव्यथितेन्द्रियः। परिकालयते क्रोधाद्धावन्तं सचिवैस्सह।।4.46.11।। Kishkindha Kanda,46,12,ततोऽहं वालिना तेन साऽनुबद्धः प्रधावितः। नदीश्च विविधाः पश्यन्वनानि नगराणि च।।4.46.12।। Kishkindha Kanda,46,13,आदर्शतलसङ्काशा ततो वै पृथिवी मया। अलातचक्रप्रतिमा दृष्टा गोष्पदवत्तदा।।4.46.13।। Kishkindha Kanda,46,14,पूर्वां दिशं ततो गत्वा पश्यामि विविधान् द्रुमान्। पर्वतन्श्च नदी रम्यास्सरांसि विविधानि च।।4.46.14।। Kishkindha Kanda,46,15,उदयं तत्र पश्यामि पर्वतं धातुमण्डितम्। क्षीरोदं सागरं चैव नित्यमप्सरसालयम्।।4.46.15।। Kishkindha Kanda,46,16,परिकालयमानस्तु वालिनाऽभिद्रुत स्तदा। पुनरावृत्य सहसा प्रस्थितोऽहं तदा विभो।।4.46.16।। Kishkindha Kanda,46,17,पुनरावर्तमानस्तु वालिनाऽभिद्रुतोद्रुतम्। दिशस्तस्यास्ततो भूयः प्रस्थितो दक्षिणां दिशम्। विन्ध्यपादपसङ्कीर्णां चन्दनद्रुमशोभिताम्।।4.46.17।। Kishkindha Kanda,46,18,द्रुमशैलांस्ततः पश्यन्भूयो दक्षिणतोऽपराम्। पश्चिमां च दिशं प्राप्ता वालिना समभिद्रुतः।।4.46.18।। Kishkindha Kanda,46,19,सम्पश्यन्विविधान्देशानस्तं च गिरिसत्तमम्। प्राप्य चास्तं गिरिश्रेष्ठमुत्तरां सम्प्रधावितः।।4.46.19।। Kishkindha Kanda,46,20,हिमवन्तं च मेरुं च समुद्रं च तथोत्तरम्। यदा न विन्दं शरणं वालिना समभिद्रुतः।।4.46.20।। तदा मां बुद्धिसम्पन्नो हनूमान्वाक्यमब्रवीत्। Kishkindha Kanda,46,21,इदानीं मे स्मृतं राजन्यथा वाली हरीश्वरः।।4.46.21।। Kishkindha Kanda,46,22,मतङ्गेन तदा शप्तो ह्यस्मिन्नाश्रममण्डले। प्रविशेद्यदि वै वाली मूर्धाऽस्य शतधा भवेत्।।4.46.22।। तत्र वासस्सुखोऽस्माकं निरुद्विग्नो भविष्यति। Kishkindha Kanda,46,23,ततः पर्वतमासाद्य ऋष्यमूकं नृपात्मज।।4.46.23।। न विवेश तदा वाली मतङ्गस्य भयात्तदा। Kishkindha Kanda,46,24,एवं मया तदा राजन्प्रत्यक्षमुपलक्षितम्।।4.46.24।। पृथिवीमण्डलं कृत्स्नं गुहामस्यागतस्ततः। Kishkindha Kanda,47,1,दर्शनार्थं तु वैदेह्यास्सर्वतः कपियूधपाः। व्यादिष्टाः कपिराजेन यथोक्तं जग्मुरञ्जसा।।4.47.1।। Kishkindha Kanda,47,2,सरांसि सरित काक्षानाकाशं नगराणि च। नदीदुर्गांस्तथा शैलान्विचिन्वन्ति समन्ततः।।4.47.2।। Kishkindha Kanda,47,3,सुग्रीवेण समाख्यातास्सर्वे वानरयूथपाः। प्रदेशान्प्रविचिन्वन्ति सशैलवनकाननान्।।4.47.3।। Kishkindha Kanda,47,4,विचित्य दिवसं सर्वे सीताधिगमने धृताः। समायान्ति स्म मेदिन्यां निशाकालेषु वानराः।।4.47.4।। Kishkindha Kanda,47,5,सर्वर्तुकमान् देशेषु वानारास्सफलद्रुमान्। आसाद्य रजनीं शय्यां चक्रुस्सर्वेष्वहस्सु ते।।4.47.5।। Kishkindha Kanda,47,6,तदहः प्रथमं कृत्वा मासे प्रश्रवणं गताः। कपिराजेन सङ्गम्य निराशाः कपियूधपाः।।4.47.6।। Kishkindha Kanda,47,7,विचित्य तु दिशं पूर्वां यथोक्तां सचिवैस्सह। अदृष्ट्वा विनतस्सीतामाजगाम महाबलः।।4.47.7।। Kishkindha Kanda,47,8,उत्तरां च दिशं सर्वां विचित्य स महाकपिः। आगतस्सह सैन्येन वीरश्शतवलिस्तदा।।4.47.8।। Kishkindha Kanda,47,9,सुषेणः पश्चिमा माशां विचित्य सह वानरैः। समेत्य मासे सम्पूर्णे सुग्रीवमुपचक्रमे।।4.47.9।। Kishkindha Kanda,47,10,तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च। आसीनं सह रामेण सुग्रीवमिदमब्रवीत्।।4.47.10।। Kishkindha Kanda,47,11,विचिताः पर्वतास्सर्वे वनानि गहनानि च। निम्नगास्सागरान्ताश्च सर्वे जनपदाश्च ये।।4.47.11।। Kishkindha Kanda,47,12,गुहाश्च विचितास्सर्वास्त्वया याः परिकीर्तिताः। विचिताश्च महागुल्मा लताविततसन्तताः।।4.47.12।। Kishkindha Kanda,47,13,गहनेषु च देशेषु दुर्गेषु विषमेषु च। सत्त्वान्यतिप्रमाणानि विचितानि हतानि च।।4.47.13।। ये चैव गहना देशा विचितास्ते पुनः पुनः। Kishkindha Kanda,47,14,उदारसत्त्वाभिजनो महात्मा स मैथिलीं द्रक्ष्यति वानरेन्द्रः। दिशं तु यामेव गता तु सीता तामास्थितोवायुसुतो हनूमान्।।4.47.14।। Kishkindha Kanda,48,1,सह ताराङ्गदाभ्यां तु गत्वा स हनुमान्कपिः। सुग्रीवेण यथोद्दिष्टं तं देशमुपचक्रमे।।4.48.1।। Kishkindha Kanda,48,2,स तु दूरमुपागम्य सर्वैस्तै: कपिसत्तमैः। विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च।।4.48.2।। Kishkindha Kanda,48,3,पर्वताग्रान्नदीदुर्गान्सरांसि विपुलान्द्रुमान्। वृक्षषण्डांश्च विविधान्पर्वतान्घनपादपान्।।4.48.3।। Kishkindha Kanda,48,4,अन्वेषमाणास्ते सर्वे वानरास्सर्वतो दिशम्। न सीतां ददृशुर्वीरा मैथिलीं जनकात्मजाम्।।4.48.4।। Kishkindha Kanda,48,5,ते भक्षयन्तो मूलानि फलानि विविधानि च। अन्वेषमाणा दुर्धर्षान्यवसं स्तत्र तत्र ह।।4.48.5।। Kishkindha Kanda,48,6,स तु देशो दुरन्वेषो गुहागहनवान्महान्। निर्जलं निर्जनं शून्यं गहनं रोमहर्षणम्।।4.48.6।। Kishkindha Kanda,48,7,त्यक्त्वा तु तं तदा देशं सर्वे वै हरियूथपाः। तादृशान्यप्यरण्यानि विचित्य भृशपीडिताः।।4.48.7।। देशमन्यं दुराधर्षं विविशु श्चाकुतो भयाः। Kishkindha Kanda,48,8,यत्र वन्ध्यफला वृक्षा विपुष्पाः पर्णवर्जिताः।।4.48.8।। निस्तोयास्सरितो यत्र मूलं यत्र सुदुर्लभम्। Kishkindha Kanda,48,9,न सन्ति महिषा यत्र न मृगा न च हस्तिनः।।4.48.9।। शार्दूलाः पक्षिणो वापि ये चान्ये वनगोचराः। Kishkindha Kanda,48,10,न यत्रवृक्षा नौषध्यो न वल्ल्यो नापि वीरुधः।।4.48.10।। Kishkindha Kanda,48,11,स्निग्धपत्रास्स्थले यत्र पद्मिन्यः फुल्लपङ्कजाः। प्रेक्षणीयास्सुगन्धाश्च भ्रमरैश्चापिवर्जिताः।।4.48.11।। Kishkindha Kanda,48,12,कण्डुर्नाम महाभागस्सत्यवादी तपोधनः। महर्षिः परमामर्षी नियमैर्दुष्प्रधर्षणः।।4.48.12।। Kishkindha Kanda,48,13,तस्य तस्मिन्वने पुत्रो बालष्षोडशवार्षिकः। प्रणष्टो जीवितान्ताय क्रुद्धस्तत्र महामुनिः।।4.48.13।। Kishkindha Kanda,48,14,तेन धर्मात्मना शप्तं कृत्स्नं तत्रमहद्वनम्। अशरण्यं दुराधर्षं मृगपक्षिविवर्जितम्।।4.48.14।। Kishkindha Kanda,48,15,तस्य ते काननान्ताश्च गिरीणां कन्दराणि च। प्रभवनि नदीनां च विचिन्वन्ति समाहिताः।।4.48.15।। Kishkindha Kanda,48,16,तत्र चापि महात्मानो नापश्यञ्जनकात्मजाम्। हर्तारं रावणं वापि सुग्रीवप्रियकारिणः।।4.48.16।। Kishkindha Kanda,48,17,ते प्रविश्याऽशु तं भीमं लतागुल्मसमावृतम्। दद्दृशुः क्रूरकर्माणमसुरं सुरनिर्भयम्।।4.48.17।। Kishkindha Kanda,48,18,तं दृष्ट्वा वानरा घोरं स्थितं शैलमिवापरम्। गाढं परिहितास्सर्वे दृष्ट्वा तान्पर्वतोपममान्।।4.48.18।। Kishkindha Kanda,48,19,सोऽपि तान्वानरान्सर्वान् नष्टा स्स्थेत्यब्रवीद्बली। अभ्यधावत सङ्कृद्धो मुष्टिमुद्यम्य संहितम्।।4.48.19।। Kishkindha Kanda,48,20,तमापतन्तं सहसा वालिपुत्रोऽङ्गदस्तदा। रावणोऽयमिति ज्ञात्वा तलेनाभिजघान ह।।4.48.20।। Kishkindha Kanda,48,21,स वालिपुत्राभिहतो वक्त्राच्छोणितमुद्वमन्। असुरोऽभ्यपतद्भूमौ पर्यस्त इव पर्वतः।।4.48.21।। Kishkindha Kanda,48,22,तेऽपि तस्मिन्निरुच्छवासे वानरा जितकाशिनः। व्यचिन्वन्प्रायशस्तत्र सर्वं तद्गिरिगह्वरम्।।4.48.22।। Kishkindha Kanda,48,23,विचितं तु ततः कृत्वा सर्वे ते काननं पुनः। अन्यदेवापरं घोरं विविशुर्गिरिगह्वरम्।।4.48.23।। Kishkindha Kanda,49,1,अथाङ्गदस्तदा सर्वान्वानरानिदमब्रवीत्। परिश्रान्तो महाप्राज्ञस्समाश्वास्य शनैर्वचः।।4.49.1।। Kishkindha Kanda,49,2,वनानि गिरयो नद्यो दुर्गाणि गहनानि च। दर्यो गिरिगुहाश्चैव विचितानि समन्ततः।।4.49.2।। Kishkindha Kanda,49,3,तत्र तत्र सहास्माभिर्जानकी न च दृश्यते। तद्वा रक्षो हृता येन सीता सुरसुतोपमा।।4.49.3।। Kishkindha Kanda,49,4,कालश्च नो महान्यातस्सुग्रीवश्चोग्रशासनः। तस्माद्भवन्तस्सहिता विचिन्वन्तु समन्ततः।।4.49.4।। Kishkindha Kanda,49,5,विहाय तन्द्रीं शोकं च निद्रां चैव समुत्थिताम्। विचिनुध्वं यथा सीतां पश्यामो जनकात्मजाम्।।4.49.5।। Kishkindha Kanda,49,6,अनिर्वेदं च दाक्ष्यं च मनसश्चापराजयः। कार्यसिद्धिकराण्याहुस्तस्मादेतद्ब्रवीम्यहम्।।4.49.6।। Kishkindha Kanda,49,7,अद्यापि तद्वनं दुर्गं विचिन्वन्तु वनौकसः। खेदं त्यक्त्वा पुनस्सर्वैर्वनमेतद्विचीयताम्।।4.49.7।। Kishkindha Kanda,49,8,अवश्यं क्रियमाणस्य दृश्यते कर्मणः फलम्। अलं निर्वेदमागम्य न हि नो मीलनं क्षमम्।।4.49.8।। Kishkindha Kanda,49,9,सुग्रीवः कोपनो राजा तीक्ष्णदण्डश्च वानरः। भेतव्यं तस्य सततं रामस्य च महात्मनः।।4.49.9।। Kishkindha Kanda,49,10,हितार्थमेतदुक्तं वः क्रियतां यदि रोचते। उच्यतां वा क्षमं यन्नस्सर्वेषामेव वानराः।।4.49.10।। Kishkindha Kanda,49,11,अङ्गदस्य वचश्श्रुत्वा वचनं गन्धमादनः। उवाचाव्यक्तया वाचा पिपासाश्रमखिन्नया।।4.49.11।। Kishkindha Kanda,49,12,सदृशं खलु वो वाक्यमङ्गदो यदुवाच ह। हितं चैवानुकूलं च क्रियतामस्य भाषितम्।।4.49.12।। Kishkindha Kanda,49,13,पुनर्मार्गामहै शैलान्कन्दरांश्च दरीस्तथा। काननानि च शून्यानि गिरिप्रस्रवणानि च।।4.49.13।। Kishkindha Kanda,49,14,यथोद्दिष्टानि सर्वाणि सुग्रीवेण महात्मना। विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि सर्वशः।।4.49.14।। Kishkindha Kanda,49,15,ततस्समुत्थाय पुनर्वानरास्ते महाबलाः। विन्ध्यकाननसङ्कीर्णां विचेरुर्दक्षिणां दिशम्।।4.49.15।। Kishkindha Kanda,49,16,ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम्। शृङ्गवन्तं दरीमन्तमधिरुह्य च वानराः।।4.49.16।। Kishkindha Kanda,49,17,तत्र लोध्रवनं रम्यं सप्तपर्णवनानि च। व्यचिन्वंस्ते हरिवरास्सीता दर्शनकाङ्क्षिणः।।4.49.17।। Kishkindha Kanda,49,18,तस्याग्रमधिरूढास्ते श्रान्ता विपुलविक्रमाः। न पश्यन्ति स्म वैदेहीं रामस्य महिषीं प्रियाम्।।4.49.18।। Kishkindha Kanda,49,19,ते तु दृष्टिगतं कृत्वा तं शैलं बहुकन्दरम्। अवारोहन्त हरयो वीक्षमाणास्समन्ततः।।4.49.19।। Kishkindha Kanda,49,20,अवरुह्य ततो भूमिं श्रान्ता विगतचेतसः। स्थित्वा मुहूर्तं तत्राथ वृक्षमूलमुपाश्रिताः।।4.49.20।। Kishkindha Kanda,49,21,ते मुहूर्तं समाश्वस्ताः किञ्चिद्भग्नपरिश्रमाः। पुनरेवोद्यताः कृत्स्नां मार्गितुं दक्षिणां दिशम्।।4.49.21।। Kishkindha Kanda,49,22,हनुमत्प्रमुखास्ते तु प्रस्थिताः प्लवगर्षभाः। विन्ध्यमेवादितस्तावद्विचेरुस्ते समन्ततः।।4.49.22।। Kishkindha Kanda,50,1,सह ताराङ्गदाभ्यां तु सङ्गम्य हनुमान्कपिः। विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च।।4.50.1।। Kishkindha Kanda,50,2,सिंहशार्दूलजुष्टेषु शिलाश्च सरितस्तदा। विषमेषु नगेन्द्रस्य महाप्रस्रवणेषु च।।4.50.2।। Kishkindha Kanda,50,3,आसेदुस्तस्य शैलस्य कोटिं दक्ष्णिपश्चिमाम्। तेषां तत्रैव वसतां स कालो व्यत्यवर्तत।।4.50.3।। Kishkindha Kanda,50,4,स हि देशो दुरन्वेषो गुहागहनवान्महान्। तत्र वायुसुतस्सर्वं विचिनोति स्म पर्वतम्।।4.50.4।। Kishkindha Kanda,50,5,परस्परेण हनुमा नन्योन्यस्याविदूरतः। गजो गवाक्षो गवयश्शरभो गन्धमादनः।।4.50.5।। Kishkindha Kanda,50,6,मैन्दश्च द्विविदश्चैव सुषेणो जाम्बवान्नल:। अङ्गदो युवराजश्च तारश्च वनगोचरः।।4.50.6।। Kishkindha Kanda,50,7,गिरिजालावृतान्देशान्मार्गित्वा दक्षिणां दिशम्। विचिन्वन्तस्ततस्तत्र ददृशुर्विवृतं बिलम्।।4.50.7।। दुर्गमृक्षबिलं नाम दानवेनाभिरक्षितम्। Kishkindha Kanda,50,8,क्षुत्पिपासापरीताश्च श्रान्ताश्च सलिलार्थिनः।।4.50.8।। अवकीर्णं लतावृक्षैर्ददृशुस्ते महाबिलम्। Kishkindha Kanda,50,9,तत्र क्रौञ्चाश्च हंसाश्च सारसाश्च विनिष्क्रमन्।।4.50.9।। जलार्द्राश्चक्रवाकाश्च रक्ताङ्गा: पद्मरेणुभिः। Kishkindha Kanda,50,10,ततस्तद्बिलमासाद्य सुगन्धि दुरतिक्रमम्।।4.50.10।। विस्मयव्यग्रमनसो बभूवुर्वानरर्षभाः। Kishkindha Kanda,50,11,संञ्जातपरिशङ्कास्ते तद्बिलं प्लवगोत्तमाः।।4.50.11।। अभ्यपद्यन्त संहृष्टास्तेजोवन्तो महाबलाः। Kishkindha Kanda,50,12,नानासत्त्वसमाकीर्णं दैत्येन्द्रनिलयोपमम्।।4.50.12।। दुर्दर्शमतिघोरं च दुर्विगाहं च सर्वशः। Kishkindha Kanda,50,13,तत: पर्वतकूटाभो हनूमान्पवनात्मजः।।4.50.13।। अब्रवीद्वानरान्सर्वान्कान्तारवनकोविदः। Kishkindha Kanda,50,14,गिरिजालावृतान्देशान्मार्गित्वा दक्षिणां दिशम्।।4.50.14।। वयं सर्वे परिश्रान्ता न च पश्याम मैथिलीम्। Kishkindha Kanda,50,15,अस्माच्चापि बिलाद्धंसाः क्रौञ्चाश्च सह सारसैः।।4.50.15।। Kishkindha Kanda,50,16,जलार्द्राश्चक्रवाकाश्च निष्पतन्ति स्म सर्वशः। नूनं सलिलवानत्र कूपो वा यदि वा ह्रदः।।4.50.16।। तथा चेमे बिलद्वारि स्निग्धास्तिष्ठन्ति पादपाः। Kishkindha Kanda,50,17,इत्युक्त्वा तद्बिलं सर्वे विविशुस्तिमिरावृतम्।।4.50.17।। अचन्द्रसूर्यं हरयो ददृशू रोमहर्षणम्। Kishkindha Kanda,50,18,निशाम्य तस्मात् शिंहांश्च तांस्तांश्च मृगपक्ष्णिः।।4.50.18।। प्रविष्टा हरिशार्दूला बिलं तिमिरसंवृतम्। Kishkindha Kanda,50,19,न तेषां सज्जते चक्षुर्न तेजो न पराक्रमः।।4.50.19।। वायोरिव गतिस्तेषां दृष्टिस्तमसि वर्तते। Kishkindha Kanda,50,20,ते प्रविष्टास्तु वेगेन तद्बिलं कपिकुञ्जराः।।4.50.20।। प्रकाशमभिरामं च ददृशुर्देशमुत्तमम्। Kishkindha Kanda,50,21,ततस्तस्मिन्बिले दुर्गे नानापादपसङ्कुले।।4.50.21।। अन्योन्यं सम्परिष्वज्य जग्मुर्योजनमन्तरम्। Kishkindha Kanda,50,22,ते नष्टसंज्ञास्तृषितास्सम्भ्रान्तास्सलिलार्थिनः।।4.50.22।। परिपेतुर्बिले तस्मिन्कञ्चित्कालमतन्द्रिताः। Kishkindha Kanda,50,23,ते कृशा दीनवदनाः परिश्रान्ताः प्लवङ्गमाः।।4.50.23।। आलोकं ददृशुर्वीरा निराशा जीविते यदा। Kishkindha Kanda,50,24,ततस्तं देशमागम्य सौम्या वितिमिरं वनम्।।4.50.24।। Kishkindha Kanda,50,25,ददृशुः काञ्चनान्वृक्षान्दीप्तवैश्वानरप्रभान्। सालां स्तालांश्च पुन्नागान्ककुभान्वञ्जुलान्धवान्।।4.50.25।। Kishkindha Kanda,50,26,चम्पकान् नागवृक्षांश्च कर्णिकारांश्च पुष्पितान्। स्तबकैः काञ्चनैश्चित्रै रक्तै: किसलयैस्तथा।।4.50.26।। Kishkindha Kanda,50,27,आपीडैश्च लताभिश्च हेमाभरणभूषितान्। तरुणादित्यसङ्काशान्वैढूर्यकृतवेदिकान्।।4.50.27।। Kishkindha Kanda,50,28,विभ्राजमानान्वपुषा पादपांश्च हिरण्मयान्। नीलवैढूर्यवर्णाश्च पद्मिनीः पतगावृताः।।4.50.28।। महद्भि: काञ्चनैः पद्मैर्वृता बालार्कसन्निभैः। Kishkindha Kanda,50,29,जातरूपमयैर्मत्स्यैर्महद्भिश्च सकच्छपैः।।4.50.29।। नळिनीस्तत्र ददृशुः प्रसन्नसलिलावृताः। Kishkindha Kanda,50,30,काञ्चनानि विमानानि राजतानि तथैव च।।4.50.30।। Kishkindha Kanda,50,31,तपनीयगवाक्षाणि मुक्ताजालावृतानि च। हैमराजतभौमानि वैदूर्यमणिमन्ति च।।4.50.31।। ददृशुस्तत्र हरयो गृहमुख्यानि सर्वशः। Kishkindha Kanda,50,32,पुष्पितान्फलिनो वृक्षान्प्रवाळमणिसन्निभान्।।4.50.32।। काञ्चनभ्रमरांश्चैव मधूनि च समन्ततः। Kishkindha Kanda,50,33,मणिकाञ्चनचित्राणि शयनान्यासनानि च।।4.50.33।। Kishkindha Kanda,50,34,महार्हाणि चयानानि ददृशुस्ते समन्ततः। हैमराजतकांस्यानां भाजनानां च संञ्चयान्।।4.50.34।। Kishkindha Kanda,50,35,अगरूणां च दिव्यानां चन्दनानां च संञ्चायान्। शुचीन्यभ्यवहार्याणि मूलानि च फलानि च।।4.50.35।। Kishkindha Kanda,50,36,महार्हाणि च पानानि मधूनि रसवन्ति च। दिव्यानामम्बराणां च महार्हाणां च सञ्चयान्।।4.50.36।। कम्बलानां च चित्राणामजिनानां च सञ्चयान्। Kishkindha Kanda,50,37,तत्र तत्र च विन्यस्तान्दीप्तान्वैश्वानरप्रभान्।।4.50.37।। ददृशुर्वानराश्शुभ्राञ्जातरूपस्य सञ्चयान्। Kishkindha Kanda,50,38,तत्र तत्र विचिन्वन्तो बिले तस्मिन्महाबलाः।।4.50.38।। ददृशुर्वानराश्शूराः स्त्रियं काञ्चिददूरतः। Kishkindha Kanda,50,39,तां दृष्ट्वा भृशसन्त्रस्ताश्चीरकृष्णाजिनाम्बराम्।।4.50.39।। तापसीं नियताहारां ज्वलन्तीमिव तेजसा। Kishkindha Kanda,50,40,विस्मिता हरयस्तत्र व्यवतिष्ठन्त सर्वशः।।4.50.40।। पप्रच्छ हनुमांस्तत्र काऽसि त्वं कस्य वा बिलम्। Kishkindha Kanda,50,41,ततो हनूमान्गिरिसन्निकाशः कृताज्ञलिस्तामभिवाद्य वृद्धाम्। पप्रच्छ का त्वं भवनं बिलं च रत्नानि चेमानि वदस्व कस्य।।4.50.41।। Kishkindha Kanda,51,1,इत्युक्त्वा हनुमांस्तत्र पुनः कृष्णाजिनाम्बराम्। अब्रवीत्तां महाभागां तापसीं धर्मचारिणीम्।।4.51.1।। Kishkindha Kanda,51,2,इदं प्रविष्टास्सहसा बिलं तिमिरसंवृतम्। क्षुत्पिपासापरिश्रान्ताः परिखिन्नाश्च सर्वशः।।4.51.2।। Kishkindha Kanda,51,3,महद्धरण्या विवरं प्रविष्टाः स्म पिपासिताः। इमां स्त्वेवंविधान्भावान्विविधानद्भुतोपमान्।।4.51.3।। दृष्ट्वा वयं प्रव्यथितास्सम्भ्रान्ता नष्टचेतसः। Kishkindha Kanda,51,4,कस्यैते काञ्चना वृक्षास्तरुणादित्यसन्निभाः।।4.51.4।। Kishkindha Kanda,51,5,शुचीन्यभ्यवहार्याणि मूलानि च फलानि च। काञ्चनानि विमानानि राजतानि गृहाणि च।।4.51.5।। तपनीयगवाक्षाणि मणिजालावृतानि च। Kishkindha Kanda,51,6,पुष्पिताः फलवन्तश्च पुण्यास्सुरभिगन्धिनः।।4.51.6।। Kishkindha Kanda,51,7,इमे जाम्बूनदमयाः पादपाः कस्य तेजसा। काञ्चनानि च पद्मानि जातानि विमले जले।।4.51.7।। Kishkindha Kanda,51,8,कथं मत्स्याश्च सौवर्णा दृश्यन्ते सह कच्छपैः। आत्मानमनुभावं च कस्य चैतत्तपोबलम्।।4.51.8।। अजानतां न स्सर्वेषां सर्वमाख्यातुमर्हसि। Kishkindha Kanda,51,9,एवमुक्ता हनुमता तापसी धर्मचारिणी।।4.51.9।। प्रत्युवाच हनूमन्तं सर्वभूतहिते रता। Kishkindha Kanda,51,10,मयो नाम महातेजा मायावी वानरर्षभः।।4.51.10।। तेनेदं निर्मितं सर्वं मायया काञ्चनं वनम्। Kishkindha Kanda,51,11,पुरा दानवमुख्यानां विश्वकर्मा बभूव ह।।4.51.11।। येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम्। Kishkindha Kanda,51,12,स तु वर्षसहस्राणि तपस्तप्त्वा महावने।।4.51.12।। पितामहाद्वरं लेभे सर्वमौशनसं धनम्। Kishkindha Kanda,51,13,वनं विधाय बलवान्सर्वकामेश्वरस्तदा।।4.51.13।। उवास सुखितः कालं कञ्चिदस्मिन्महावने। Kishkindha Kanda,51,14,तमप्सरसि हेमायां सक्तं दानवपुङ्गवम्।।4.51.14।। विक्रम्यैवाशनिं गृह्य जघानेत्रः पुरन्दरः। Kishkindha Kanda,51,15,इदं च ब्रह्मणा दत्तं हेमायै वनमुत्तमम्।।4.51.15।। शाश्वता: कामभोगश्च गृहं चेदं हिरण्मयम्। Kishkindha Kanda,51,16,दुहिता मेरुसावर्णेरहं तस्यास्स्वयंप्रभा।।4.51.16।। इदं रक्षामि भवनं हेमाया वानरोत्तम। Kishkindha Kanda,51,17,मम प्रियसखी हेमा नृत्तगीतविशारदा।।4.51.17।। तया दत्तवरा चास्मि रक्षामि भवनोत्तमम्। Kishkindha Kanda,51,18,किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपश्यथ।।4.51.18।। कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम्। Kishkindha Kanda,51,19,इमान्यभ्यवहार्याणि मूलानि च फलानि च।।4.51.19।। भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुमर्हथ। Kishkindha Kanda,52,1,अथ तानब्रवीत्सर्वान्विश्रान्तान्हरियूथपान्। इदं वचनमेकाग्रा तापसी धर्मचारिणी।।4.52.1।। Kishkindha Kanda,52,2,वानरा यदि वः खेदः प्रनष्टः फलभक्षणात्। यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि कथ्यताम्।।4.52.2।। Kishkindha Kanda,52,3,तस्यास्तद्वचनं श्रुत्वा हनूमान्मारुतात्मजः। आर्जवेन यथातत्त्वमाख्यातुमुपचक्रमे।।4.52.3।। Kishkindha Kanda,52,4,राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः। रामो दाशरथिश्शीमान्प्रविष्टो दण्डकावनम्।।4.52.4।। Kishkindha Kanda,52,5,लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया। तस्य भार्या जनस्थानाद्रावणेन हृता बलात्।।4.52.5।। Kishkindha Kanda,52,6,वीरस्तस्य सखा राज्ञस्सुग्रीवो नाम वानरः। राजा वानरमुख्यानां येन प्रस्थापिता वयम्।।4.52.6।। Kishkindha Kanda,52,7,अगस्त्यचरितामाशां दक्षिणां यमरक्षिताम्। सहैभिर्वानरैर्घोरैरङ्गदप्रमुखैर्वयम्।।4.52.7।। Kishkindha Kanda,52,8,रावणं सहितास्सर्वे राक्षसं कामरूपिणम्। सीतया सह वैदेह्या मार्गध्वमिति चोदिताः।।4.52.8।। Kishkindha Kanda,52,9,विचित्य तु वयं सर्वे समग्रां दक्षिणां दिशम्। परित्रान्ता बुभुक्षिता वृक्षमूलमुपाश्रिताः।।4.52.9।। Kishkindha Kanda,52,10,विवर्णवदनास्सर्वे सर्वे ध्यानपरायणाः। नाधिगच्छामहे पारं मग्नाश्चिन्तामहार्णवे।।4.52.10।। Kishkindha Kanda,52,11,चारयन्तस्ततश्चक्षुर्दृष्टवन्तो वयं बिलम्। लतापादपसञ्च्छन्नं तिमिरेण समावृतम्।।4.52.11।। Kishkindha Kanda,52,12,अस्माद्धंसा जलक्लिन्नाः पक्षैस्सलिलविस्रवैः। कुररास्सारसाश्चैव निष्पतन्ति पतत्रिणः।।4.52.12।। Kishkindha Kanda,52,13,साध्वत्र प्रविशामेति मया तूक्ताः प्लवङ्गमाः। तेषामपि हि सर्वेषामनुमानमुपागतम्।।4.52.13।। Kishkindha Kanda,52,14,गच्छाम प्रविशामेति भर्तृकार्यत्वरान्विताः। ततो गाढं निपतिता गृह्य हस्तौ परस्परम्।।4.52.14।। Kishkindha Kanda,52,15,इदं प्रविष्टास्सहसा बिलं तिमिरसंवृतम्। एतन्नः कार्यमेतेन कृत्येन वयमागताः।।4.52.15।। त्वां चैवोपगतास्सर्वे परिद्यूना बुभुक्षिताः। Kishkindha Kanda,52,16,आतिथ्यधर्मदत्तानि मूलानि च फलानि च।।4.52.16।। अस्माभिरुपभुक्तानि बुभुक्षापरिपीडितैः। Kishkindha Kanda,52,17,यत्त्वया रक्षितास्सर्वे म्रियमाणा बुभुक्षया।।4.52.17।। ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः। Kishkindha Kanda,52,18,एवमुक्ता तु धर्मज्ञैर्वानरैस्तैस्स्वयंप्रभा।।4.52.18।। प्रत्युवाच ततस्सर्वानिदं वानरपुङ्गवान्। Kishkindha Kanda,52,19,सर्वेषां परितुष्टाऽस्मि वानराणां तरस्विनाम्।।4.52.19।। चरन्त्या मम धर्मेण न कार्यमिह केनचित्। Kishkindha Kanda,53,1,एवमुक्तश्शुभं वाक्यं तापस्या धर्मसंहितम्। उवाच हनुमान्वाक्यं तामनिन्दितचेष्टिताम्।।4.53.1।। Kishkindha Kanda,53,2,शरणं त्वां प्रपन्ना स्म सर्वे वै धर्मचारिणीं। यः कृतस्समयोऽस्माकं सुग्रीवेण महात्मना।।4.53.2।। स च कालो ह्यतिक्रान्तो बिले च परिवर्तताम्। Kishkindha Kanda,53,3,सा त्वमस्माद्बिलाद्घोरादुत्तारयितुमर्हसि।।4.53.3।। तस्मात्सुग्रीववचनादतिक्रान्तान्गतायुषः। Kishkindha Kanda,53,4,त्रातुमर्हसि नस्सर्वान्सुग्रीवभयकर्शितान्।।4.53.4।। Kishkindha Kanda,53,5,महच्चकार्यमस्माभिः कर्तव्यं धर्मचारिणि। तच्चापि न कृतं कार्यमस्माभिरिह वासिभिः।।4.53.5।। Kishkindha Kanda,53,6,एवमुक्ता हनुमता तापसी वाक्यमब्रवीत्। जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम्।।4.53.6।। Kishkindha Kanda,53,7,तपसस्तु प्रभावेन नियमोपार्जितेन च। सर्वानेव बिलादस्मादुद्धरिष्यामि वानरान्।।4.53.7।। Kishkindha Kanda,53,8,निमीलयत चक्षूंषि सर्वे वानरपुङ्गवाः। न हि निष्क्रमितुं शक्यमनिमीलितलोचनैः।।4.53.8।। Kishkindha Kanda,53,9,ततस्सम्मीलितास्सर्वे सुकुमाराङ्गुलैः करैः। सहसाऽपिदधुर्दृष्टिं हृष्टा गमनकाङ्क्षया।।4.53.9।। Kishkindha Kanda,53,10,वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा। निमेषान्तरमात्रेण बिलादुत्तारितास्तया।।4.53.10।। Kishkindha Kanda,53,11,ततस्तान्वानरान्सर्वांस्तापसी धर्मचारिणी। निस्सृतान्विषमात्तस्मात्समाश्वास्येदमब्रवीत्।।4.53.11।। Kishkindha Kanda,53,12,एष विन्ध्यो गिरिश्श्रीमान्नानाद्रुमलताकुलः। एष प्रस्रवणश्शैलस्सागरोऽयं महोदधिः।।4.53.12।। Kishkindha Kanda,53,13,स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः। इत्युक्त्वा तद्बिलं श्रीमत्प्रविवेश स्वयम्प्रभा।।4.53.13।। Kishkindha Kanda,53,14,ततस्ते ददृशुर्घोरं सागरं वरुणालयम्। अपारमभिगर्जन्तं घोरैरूर्मिभिरावृतम्।।4.53.14।। Kishkindha Kanda,53,15,मयस्य मायाविहितं गिरिदुर्गं विचिन्वताम्। तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः।।4.53.15।। Kishkindha Kanda,53,16,विन्ध्यस्य तु गिरेः पादे सम्प्रपुष्पितपादपे। उपविश्य महाभागाश्चिन्तामापेदिरे तदा।।4.53.16।। Kishkindha Kanda,53,17,ततः पुष्पातिभाराग्रान् लताशतसमावृतान्। द्रुमान्वासन्तिकान्दृष्टवा बभूवुर्भयशङ्किताः।।4.53.17।। Kishkindha Kanda,53,18,ते वसन्तमनुप्राप्तं प्रतिबुद्ध्वा परस्परम्। नष्टसन्देशकालार्था निपेतुर्धरणीतले।।4.53.18।। Kishkindha Kanda,53,19,ततस्तान्कपिवृद्धांस्तु शिष्टांश्चैव वनौकसः। वाचा मधुरयाऽभाष्य यथावदनुमान्य च।।4.53.19।। Kishkindha Kanda,53,20,स तु सिंहवृषस्कन्धः पीनायतभुजः कपिः। युवराजो महाप्राज्ञः अङ्गदो वाक्यमब्रवीत्।।4.53.20।। Kishkindha Kanda,53,21,शासनात्कपिराजस्य वयं सर्वे विनिर्गताः। मासः पूर्णो बिलस्थानां हरयः किं न बुद्ध्यते।।4.53.21।। Kishkindha Kanda,53,22,वयमाश्वयुजे मासि कालसङ्ख्याव्यवस्थिताः। प्रस्थितास्सोऽपि चातीतः किमतः कार्यमुत्तरम्।।4.53.22।। Kishkindha Kanda,53,23,भवन्तः प्रत्ययं प्राप्ताः नीतिमार्गविशारदाः। हितेष्वभिरता भर्तुर्निसृष्टास्सर्वकर्मसु।।4.53.23।। Kishkindha Kanda,53,24,कर्मस्वप्रतिमास्सर्वे दिक्षु विश्रुतपौरुषाः। मां पुरस्कृत्य निर्याताः पिङ्गाक्षप्रतिचोदिताः।।4.53.24।। Kishkindha Kanda,53,25,इदानीमकृतार्थानां मर्तव्यं नात्र संशयः। हरिराजस्य सन्देशमकृत्वा कस्सुखी भवेत्।।4.53.25।। Kishkindha Kanda,53,26,तस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम्। प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम्।।4.53.26।। Kishkindha Kanda,53,27,तीक्ष्णः प्रकृत्या सुग्रीवस्स्वामिभावे व्यवस्थितः। न क्षमिष्यति नस्सर्वानपराधकृतो गतान्।।4.53.27।। Kishkindha Kanda,53,28,अप्रवृत्तौ च सीतायाः पापमेव करिष्यति। तस्मात् क्षममिहाद्यैव गन्तुं प्रायोपवेशनम् हि नः।।4.53.28।। त्यक्त्वा पुत्रांश्च दारांश्च धनानि च गृहाणि च। Kishkindha Kanda,53,29,धृवं नो हिंसिता राजा सर्वान्प्रतिगतानितः।।4.53.29।। वधेनाप्रतिरूपेण श्रेयान्मृत्युरिहैव नः। Kishkindha Kanda,53,30,न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः।।4.53.30।। नरेन्द्रेणाभिषिक्तोऽस्मि रामेणाक्लिष्टकर्मणा। Kishkindha Kanda,53,31,स पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम्।।4.53.31।। घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः। Kishkindha Kanda,53,32,किं मे सुहृदभिर्व्यसनं पश्यद्भिर्जीवितान्तरे।।4.53.32।। इहैव प्रायमासिष्ये पुण्ये सागररोधसि। Kishkindha Kanda,53,33,एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम्।।4.53.33।। सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन्। Kishkindha Kanda,53,34,तीक्ष्णः प्रकृत्या सुग्रीवः प्रियासक्तश्च राघवः।।4.53.34।। Kishkindha Kanda,53,35,अदृष्टायां तु वैदेह्यां दृष्ट्वाऽस्मांश्त समागतान्। राघवप्रियकामार्थं घातयिष्यत्यसंशयम्।।4.53.35।। Kishkindha Kanda,53,36,न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः। इहैव सीतामन्विष्य प्रवृत्तिमुपलभ्य वा।।4.53.36।। नो चेद्गच्छाम तं वीरं गमिष्यामो यमक्षयम्। Kishkindha Kanda,53,37,प्लवङ्गमानां तु भयार्दितानां श्रुत्वा वचस्तार इदं बभाषे। अलं विषादेन बिलं प्रविश्य वसाम सर्वे यदि रोचते वः।।4.53.37।। Kishkindha Kanda,53,38,इदं हि मायाविहितं सुदुर्गमं प्रभूतवृक्षोदकभोज्यपेयकम्। इहास्ति नो नैव भयं पुरन्दरा न्न राघवाद्वानरराजतोऽपि वा।।4.53.38।। Kishkindha Kanda,53,39,श्रुत्वाऽङ्गदस्यापि वचोऽनुकूल मूचुश्च सर्वे हरयः प्रतीताः। यथा न हिंस्येम तथा विधान मसक्तमद्यैव विधीयतां नः।।4.53.39।। Kishkindha Kanda,54,1,तथा ब्रुवति तारे तु ताराधिपतिवर्चसि। अथ मेने हृतं राज्यं हनूमानङ्गदेन तत्।।4.54.1।। Kishkindha Kanda,54,2,बुद्ध्या ह्यष्टाङ्गया युक्तं चतुर्बलसमन्वितम्। चतुर्दशगुणं मेने हनूमान्वालिनस्सुतम्।।4.54.2।। Kishkindha Kanda,54,3,आपूर्यमाणं शश्वच्च तेजोबलपराक्रमैः। शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया।।4.54.3।। Kishkindha Kanda,54,4,बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः। शुश्रूषमाणं तारस्य शक्रस्येव पुरन्दरम्।।4.54.4।। Kishkindha Kanda,54,5,भर्तुरर्थे परिश्रान्तं सर्वशास्त्रविदांवरम्। अभिसन्धातुमारेभे हनूमानङ्गदं ततः।।4.54.5।। Kishkindha Kanda,54,6,स चतुर्णामुपायानां तृतीयमुपवर्णयन्। भेदयामास तान्सर्वान् वानरान्वाक्यसम्पदा।।4.54.6।। Kishkindha Kanda,54,7,तेषु सर्वेषु भिन्नेषु ततोऽभीषयदङ्गदम्। भीषणैर्भहुभिर्वाक्यै: कोपोपायसमन्वितैः।।4.54.7।। Kishkindha Kanda,54,8,त्वं समर्थतरः पित्रा युद्धे तारेय वै धुरम्। दृढं धारयितुं शक्तः कपिराज्यं यथा पिता।।4.54.8।। Kishkindha Kanda,54,9,नित्यमस्थिरचित्ता हि कपयो हरिपुङ्गव। नाज्ञाप्यं विषहिष्यन्ति पुत्रदारान्विना त्वया।।4.54.9।। Kishkindha Kanda,54,10,त्वां नैतेह्यनुयुञ्जेयु: प्रत्यक्षं प्रवदामि ते। यथायं जाम्बवान्नीलस्सुहोत्रश्च महाकपिः।।4.54.10।। Kishkindha Kanda,54,11,न ह्यहं ते इमे सर्वे सामदानादिभिर्गुणैः। दण्डेन वा त्वया शक्यास्सुग्रीवादपकर्षितम्।।4.54.11।। Kishkindha Kanda,54,12,विगृह्यासनमप्याहुर्दुर्बलेन बलीयसः। आत्मरक्षाकरस्तस्मान्न विगृह्णीत दुर्बलः।।4.54.12।। Kishkindha Kanda,54,13,यां चेमां मन्यसे धात्रीमेतद्बिलमिति श्रुतम्। एतल्लक्ष्मणबाणानामीषत्कार्यं विदारणे।।4.54.13।। Kishkindha Kanda,54,14,स्वल्पं हि कृतमिन्द्रेण क्षिपता ह्यशनिं पुरा। लक्ष्मणो निशितैर्बाणैर्भिन्ध्यात्पत्रपुटं यथा।।4.54.14।। Kishkindha Kanda,54,15,लक्ष्मणस्य च नाराचा बहवस्सन्ति तद्विधाः। वज्राशनिसमस्पर्शा गिरीणामपि दारणाः।।4.54.15।। Kishkindha Kanda,54,16,अवस्थाने यदैव त्वमासिष्यसि परन्तप। तदैव हरयस्सर्वे त्यक्ष्यन्ति कृतनिश्चयाः।4.54.16।। Kishkindha Kanda,54,17,स्मरन्तः पुत्रदाराणां नित्योद्विग्ना बुभुक्षिताः। खेदिता दुःखशय्याभिस्त्वां करिष्यन्ति पृष्ठतः।।4.54.17।। Kishkindha Kanda,54,18,स त्वं हीनस्सुहृद्भिश्च हितकामैश्च बन्धुभिः। तृणादपि भृशोद्विग्नस्स्पन्दमानाद्भविष्यसि।।4.54.18।। Kishkindha Kanda,54,19,न च जातु न हिंस्युस्त्वां घोरा लक्ष्मणसायकाः । अपवृत्तं जिघांसन्तो महावेगा दुरासदाः ।। 4.54.19 ।। Kishkindha Kanda,54,20,न च जातु न हिंस्युस्त्वा घोरा लक्ष्मणसायकाः। अपावृत्तं जिघांसन्तो महावेगा दुरासदाः।।4.54.20।। Kishkindha Kanda,54,21,अस्माभिस्तु गतं सार्धं विनीतवदुपस्थितम्। आनुपूर्व्यात्तु सुग्रीवो राज्ये त्वां स्थापयिष्यति।।4.54.21।। Kishkindha Kanda,54,22,धर्मकामः पितृव्यस्ते प्रीतिकामो दृढव्रतः। शुचिस्सत्यप्रतिज्ञश्च न त्वां जातु जिघांसति।।4.54.22।। Kishkindha Kanda,55,1,श्रुत्वा हनुमतो वाक्यं प्रश्रितं धर्मसंहितम्। स्वामिसत्कारसंयुक्तमङ्गदो वाक्यमब्रवीत्।।4.55.1।। Kishkindha Kanda,55,2,स्थैर्यमात्ममनश्शौचमानृशंस्यमथाऽर्जवम्। विक्रमश्चैव धैर्यं च सुग्रीवे नोपपद्यते।।4.55.2।। Kishkindha Kanda,55,3,भ्रातुर्ज्येष्ठस्य यो भार्यां जीवतो महिषीं प्रियाम्। धर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः।।4.55.3।। Kishkindha Kanda,55,4,कथं स धर्मं जानीते येन भ्रात्रा महात्मना। युद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम्।।4.55.4।। Kishkindha Kanda,55,5,सत्यात्पाणिगृहीतश्च कृतकर्मा महायशाः। विस्मृतो राघवो येन स कस्य तु कृतं स्मरेत्।।4.55.5।। Kishkindha Kanda,55,6,लक्ष्मणस्य भयाद्येन नाधर्मभयभीरुणा। आदिष्टा मार्गितुं सीतां धर्ममस्मिन्कथं भवेत्।।4.55.6।। Kishkindha Kanda,55,7,तस्मिन्पापे कृतघ्ने तु स्मृतिहीने चलात्मनि। आर्यः को विश्वसेज्जातु तत्कुलीनो जिजीविषुः।।4.55.7।। Kishkindha Kanda,55,8,राज्ये पुत्रः प्रतिष्ठाप्यस्सगुणो विगुणोऽपि वा। कथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति।।4.55.8।। Kishkindha Kanda,55,9,भिन्नमन्त्रोऽपराद्धश्च हीनशक्तिः कथं ह्यहम्। किष्किन्धां प्राप्य जीवेयमनाथ इव दुर्बलः।।4.55.9।। Kishkindha Kanda,55,10,पांशुदण्डेन हि मां बन्धने नोपपादयेत्। शठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात्।।4.55.10।। Kishkindha Kanda,55,11,बन्धनाद्वाऽवसादान्मे श्रेयः प्रायोपवेशनम्। अनुजानीत मां सर्वे गृहं गच्छन्तु वानराः।।4.55.11।। Kishkindha Kanda,55,12,अहं वः प्रतिजानामि नागमिष्याम्यहं पुरीम्। इहैव प्रायमासिष्ये श्रेयो मरणमेव मे।।4.55.12।। Kishkindha Kanda,55,13,अभिवादनपूर्वं हि राघवौ बलशालिनौ। अभिवादनपूर्वं तु राजा कुशलमेव च।।4.55.13।। वाच्यस्तातो यवीयान्मे सुग्रीवो वानरेश्वरः। Kishkindha Kanda,55,14,आरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे।।4.55.14।। मातरं चैव मे तारामाश्वासयितुमर्हथ। Kishkindha Kanda,55,15,प्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी।।4.55.15।। विनष्टमिह मां श्रुत्वा व्यक्तं हास्यति जीवितम्। Kishkindha Kanda,55,16,एतावदुक्त्वा वचनं वृद्धांस्तानभिवाद्य च।।4.55.16।। विवेश चाङ्गदो भूमौ रुदन्दर्भेषु दुर्मनाः। Kishkindha Kanda,55,17,तस्य संविशतस्तत्र रुदन्तो वानरर्षभाः।।4.55.17।। नयनेभ्यः प्रमुमुचुरुष्णं वै वारि दुःखिताः। Kishkindha Kanda,55,18,सुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम्।।4.55.18।। परिवार्याङ्गदं सर्वे व्यवसन्प्रायमासितुम्। Kishkindha Kanda,55,19,मतं तद्वालिपुत्रस्य विज्ञाय प्लवगर्षभाः।।4.55.19।। Kishkindha Kanda,55,20,उपस्पृश्योदकं तत्र प्राङ्मुखास्समुपाविशन्। दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः।।4.55.20।। मुमूर्षवो हरिश्रेष्ठा एतत् क्षममिति स्म ह। Kishkindha Kanda,55,21,रामस्य वनवासं च क्षयं दशरथस्य च।।4.55.21।। Kishkindha Kanda,55,22,जनस्थानवधं चैव वधं चैव जटायुषः। हरणं चैव वैदेह्या वालिनश्च वधं रणे।।4.55.22।। रामकोपं च वदतां हरीणां भयमागतम्। Kishkindha Kanda,55,23,स संविशद्भिबहुभिर्महीधरो महाद्रिकूटप्रतिमैः प्लवङ्गमैः। बभूव सन्नादितनिर्दरान्तरो भृशं नदद्भिर्जलदैरिवोल्बणैः।।4.55.23।। Kishkindha Kanda,56,1,उपविष्टास्तु ते सर्वे यस्मिन्प्रायं गिरिस्थले। हरयो गृध्रराजश्च तं देशमुपचक्रमे।।4.56.1।। Kishkindha Kanda,56,2,सम्पातिर्नाम नाम्ना तु चिरञ्जीवी विहङ्गमः। भ्राता जटायुषः श्रीमान्विख्यातबलपौरुषः।।4.56.2।। Kishkindha Kanda,56,3,कन्दरादभिनिष्क्रम्य स विन्ध्यस्य महागिरेः। उपविष्टान्हरीन्दृष्ट्वा हृष्टात्मा गिरमब्रवीत्।।4.56.3।। Kishkindha Kanda,56,4,विधिः किल नरं लोके विधानेनानुवर्तते। यथाऽयं विहितो भक्ष्यश्चिरान्मह्यमुपागतः।।4.56.4।। Kishkindha Kanda,56,5,परम्पराणां भक्षिष्ये वानराणां मृतं मृतम्। उवाचेदं वचः पक्षी तान्निरीक्ष्य प्लवङ्गमान्।।4.56.5।। Kishkindha Kanda,56,6,तस्य तद्वचनं श्रुत्वा भक्ष्यलुब्धस्य पक्षिणः। अङ्गदः परमायस्तो हनूमन्तमथाब्रवीत्।।4.56.6।। Kishkindha Kanda,56,7,पश्य सीतापदेशेन साक्षाद्वैवस्वतो यमः। इमं देशमनुप्राप्तो वानराणां विपत्तये।।4.56.7।। Kishkindha Kanda,56,8,रामस्य न कृतं कार्यं राज्ञो न च वचः कृतम्। हरीणामियमज्ञाता विपत्तिस्सहसागता।।4.56.8।। Kishkindha Kanda,56,9,वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा। गृध्राराजेन यत्तत्र श्रुतं वस्तदशेषतः।।4.56.9।। Kishkindha Kanda,56,10,तथा सर्वाणि भूतानि तिर्यग्योनिगतान्यपि। प्रियं कुर्वन्ति रामस्य त्यक्त्वा प्राणान्यथा वयम्।।4.56.10।। Kishkindha Kanda,56,11,अन्योऽन्यमुपकुर्वन्ति स्नेहकारुण्ययन्त्रिताः। तेन तस्योपकारार्थं त्यजताऽत्मानमात्मना।।4.56.11।। Kishkindha Kanda,56,12,प्रियं कृतं हि रामस्य धर्मज्ञेन जटायुषा। राघवार्थे परिश्रान्ता वयं सन्त्यक्तजीविताः।।4.56.12।। कान्ताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम्। Kishkindha Kanda,56,13,स सुखी गृध्रराजस्तु रावणेन हतो रणे।।4.56.13।। मुक्तश्च सुग्रीवभयाद्गतश्च परमां गतिम्। Kishkindha Kanda,56,14,जटायुषो विनाशेन राज्ञो दशरथस्य च।।4.56.14।। हरणेन च वैदेह्या स्संशयं हरयो गताः। Kishkindha Kanda,56,15,रामलक्ष्मणयोर्वासश्च अरण्ये सह सीतया।।4.56.15।। Kishkindha Kanda,56,16,राघवस्य च बाणेन वालिनश्च तथा वधः। रामकोपादशेषाणां रक्षसानां तथा वधः।।4.56.16।। कैकेय्या वरदानेन इदं च विकृतं कृतम्। Kishkindha Kanda,56,17,तदसुखमनुकीर्तितं वचो भुवि पतितांश्च समीक्ष्य वानरान्। भृशचलितमतिर्महामतिः कृपणमुदाहृतवान् स गृध्रराट्।।4.56.17।। Kishkindha Kanda,57,1,तत्तु श्रुत्वा तथा वाक्यमङ्गदस्य मुखोद्गतम्। अब्रवीद्वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः।।4.57.1।। Kishkindha Kanda,57,2,कोऽयं गिरा घोषयति प्राणैः प्रियतमस्य मे। जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः।।4.57.2।। Kishkindha Kanda,57,3,कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः। नामधेयमिदं भ्रातुश्चिरस्याद्य मया श्रुतम्।।4.57.3।। Kishkindha Kanda,57,4,इच्छेयं गिरिदुर्गाच्च भवद्भिरवतारितुम्। यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः।।4.57.4।। अतिदीर्घस्य कालस्य परितुष्टोऽस्मि परिकीर्तनात्। Kishkindha Kanda,57,5,तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः।।4.57.5।। भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः। Kishkindha Kanda,57,6,तस्यैव च मम भ्रातुस्सखा दशरथः कथम्।।4.57.6।। यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः। Kishkindha Kanda,57,7,सूर्यांशुदग्धपक्षत्वान्न शक्नोम्युपसर्पितुम्।।4.57.7।। इच्छेयं पर्वतादस्मादवतर्तु मरिन्दमाः। Kishkindha Kanda,57,8,शोकाद्भ्रष्टस्वरमपि श्रुत्वा ते हरियूथपाः। श्रद्दधुर्नैव तद्वाक्यं कर्मणा तस्य शङ्किताः।।4.57.8।। Kishkindha Kanda,57,9,ते प्रायमुपविष्टास्तु दृष्ट्वा गृध्रं प्लवङ्गमाः। चक्रुर्बुद्धिं तदा रौद्रां सर्वान्नो भक्षयिष्यति।।4.57.9।। Kishkindha Kanda,57,10,सर्वथा प्रायमासीनान्यदि नो भक्षयिष्यति। कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः।।4.57.10।। Kishkindha Kanda,57,11,एतां बुद्धिं ततश्चक्रुस्सर्वे ते वानरर्षभाः। अवतार्य गिरेश्शृङ्गाद्गृध्रमाहाङ्गदस्तदा।।4.57.11।। Kishkindha Kanda,57,13,बभूवर्क्षरजा नाम वानरेन्द्रः प्रतापवान्। ममार्यः पार्थिवः पक्षिन् धार्मिक स्तस्य चात्मजौ।।4.57.12। सुग्रीवश्चैव वाली च पुत्रावोघबलावुभौ। लोकेविश्रुतकर्माभूद्राजा वाली पिता मम।।4.57.13।। Kishkindha Kanda,57,14,राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः। रामो दाशरथिः श्रीमान्प्रविष्टो दण्डकावनम्।।4.57.14।। Kishkindha Kanda,57,15,लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया। पितुर्निदेशनिरतो धर्म्यं पन्थानमाश्रितः।।4.57.15।। Kishkindha Kanda,57,16,तस्य भार्या जनस्थानाद्रावणेन हृता बलात्। रामस्य तु पितुर्मित्रं जटायुर्नाम गृध्रराट्।।4.57.16।। ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा। Kishkindha Kanda,57,17,रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम्। परिश्रान्तश्च वृद्धश्च रावणेन हतो रणे।।4.57.17।। Kishkindha Kanda,57,18,एवं गृध्रो हतस्तेन रावणेन बलीयसा। संस्कृतश्चापि रामेण गतश्च गतिमुत्तमाम्।।4.57.18।। Kishkindha Kanda,57,19,ततो मम पितृव्येण सुग्रीवेण महात्मना। चकार राघवस्सख्यं सोऽवधीत्पितरं मम।।4.57.19।। Kishkindha Kanda,58,1,इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः। सबाष्पो वानरान्गृध्रः प्रत्युवाच महास्वनः।।4.58.1।। Kishkindha Kanda,58,2,यवीयान्मम भ्राता जटायुर्नाम वानराः। यमाख्यात हतं युद्धे रावणेन बलीयसा।।4.58.2।। Kishkindha Kanda,58,3,वृद्धभावादपक्षत्वाच्छृण्वंस्तदपि मर्षये। न हि मे शक्तिरस्त्यद्य भ्रातुर्वैरविमोक्षणे।।4.58.3।। Kishkindha Kanda,58,4,पुरा वृत्रवधे वृत्ते परस्परजयैषिणौ। आदित्यमुपयातौ स्वो ज्वलन्तं रश्मिमालिनम्।।4.58.4।। Kishkindha Kanda,58,5,आवृत्त्याऽकाशमार्गे तु जवेन स्म गतौ भृशम्। मध्यं प्राप्ते दिनकरे जटायुरवसीदति।।4.58.5।। Kishkindha Kanda,58,6,तमहं भ्रातरं दृष्ट्वा सूर्यरश्मिभिरर्दितम्। पक्षाभ्यां छादयामास स्नेहात्परमविह्वलः।।4.58.6।। Kishkindha Kanda,58,7,निर्दग्धपक्षः पतितो विन्ध्येऽहं वानरर्षभाः। अहमस्मिन्वसन्भ्रातुः प्रवृत्तिं नोपलक्षये।।4.58.7।। Kishkindha Kanda,58,8,जटायुषस्त्वेवमुक्तो भ्रात्रा सम्पातिना तदा। युवराजो महाप्राज्ञः प्रत्युवाचाङ्गदस्ततः।।4.58.8।। Kishkindha Kanda,58,9,जटायुषो यदि भ्राता श्रुतं ते गदितं मया। आख्या हि यदि जानासि निलयं तस्य रक्षसः।।4.58.9।। Kishkindha Kanda,58,10,अदीर्घदर्शिनं तं वै रावणं राक्षसाधिपम्। अन्तिके यदि वा दूरे यदि जानासि शंस नः।।4.58.10।। Kishkindha Kanda,58,11,ततोऽब्रवीन्महातेजा ज्येष्ठो भ्राता जटायुषः। आत्मानुरूपं वचनं वानरान्सम्प्रहर्षयन्।।4.58.11।। Kishkindha Kanda,58,12,निर्दग्धपक्षो गृध्रोऽहं हीनवीर्य: प्लवङ्गमाः। वाङ्मात्रेण तु रामस्य करिष्ये साह्यमुत्तमम्।।4.58.12।। Kishkindha Kanda,58,13,जानामि वारुणान्लोकान्विष्णोस्त्रै विक्रमानपि। महासुरविमर्दन्वा श्च ह्यमृतस्य च मन्थनम्।।4.58.13।। Kishkindha Kanda,58,14,रामस्य यदिदं कार्यं कर्तव्यं प्रथमं मया। जरया च हृतं तेजः प्राणाश्च शिथिला मम।।4.58.14।। Kishkindha Kanda,58,15,तरुणी रूपसम्पन्ना सर्वाभरणभूषिता। ह्रियमाणा मया दृष्टा रावणेन दुरात्मना।।4.58.15।। Kishkindha Kanda,58,16,क्रोशन्ती राम रामेति लक्ष्मणेति च भामिनी। भूषणान्यपविध्यन्ती गात्राणि च विधुन्वती।।4.58.16।। Kishkindha Kanda,58,17,सूर्यप्रभेव शैलाग्रे तस्याः कौशेयमुत्तमम्। असिते राक्षसे भाति यथा वा तटिदम्बुदे।।4.58.17।। Kishkindha Kanda,58,18,तां तु सीतामहं मन्ये रामस्य परिकीर्तनात्। श्रूयतां मे कथयतो निलयं तस्य रक्षसः।।4.58.18।। Kishkindha Kanda,58,19,पुत्रो विश्रवस स्साक्षाद्भ्राता वैश्रवणस्य च। अध्यास्ते नगरीं लङ्कां रावणो नाम राक्षसः।।4.58.19।। Kishkindha Kanda,58,20,इतो द्वीपस्समुद्रस्य सम्पूर्णे शतयोजने। तस्मिन्लङ्कापुरी रम्या निर्मिता विश्वकर्मणा।।4.58.20।। Kishkindha Kanda,58,21,जाम्बूनदमयैर्द्वारैश्चित्रैः काञ्चनवेदिकैः। प्रासादैर्हेमवर्णैश्च महद्भिः सुसमा कृता।।4.58.21।। प्राकारेणार्कवर्णेन महता च समान्विता। Kishkindha Kanda,58,22,तस्यां वसति वैदेही दीना कौशेयवासिनी।।4.58.22।। Kishkindha Kanda,58,23,रावणान्तःपुरे रुद्धा राक्षसीभिस्सुरक्षिता। जनकस्यात्मजां राज्ञस्तत्र द्रक्ष्यथ मैथिलीम्।।4.58.23।। Kishkindha Kanda,58,24,लङ्कायामथ गुप्तायां सागरेण समन्ततः। सम्प्राप्य सागरस्यान्तं सम्पूर्णं शतयोजनम्।।4.58.24।। Kishkindha Kanda,58,25,आसाद्य दक्षिणं तीरं ततो द्रक्ष्यथ रावणम्। तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवङ्गमाः।।4.58.25।। Kishkindha Kanda,58,26,ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ। आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः।।4.58.26।। Kishkindha Kanda,58,27,द्वितीयो बलिभोजानां ये च वृक्षफलाशिनः। भासास्तृतीयं गच्छन्ति क्रौञ्चाश्च कुररैस्सह।।4.58.27।। श्येनाश्चतुर्थं गच्छन्ति गृध्रा गच्छन्ति पञ्चमम्। Kishkindha Kanda,58,28,बलवीर्योपपन्नानां रूपयौवनशालिनाम्।।4.58.28।। Kishkindha Kanda,58,29,षष्ठस्तु पन्था हंसानां वैनतेयगतिः परा। वैनतेयाच्च नो जन्म सर्वेषां वानरर्षभाः।।4.58.29।। Kishkindha Kanda,58,30,इहस्थोऽहं प्रपश्यामि रावणं जानकीं तथा। अस्माकमपि सौवर्णं दिव्यं चक्षुर्बलं तथा।।4.58.30।। Kishkindha Kanda,58,31,तस्मादाहारवीर्येण निसर्गेण च वानराः। आयोजनशतात्साग्राद्वयं पश्याम नित्यशः।।4.58.31।। Kishkindha Kanda,58,32,अस्माकं विहिता वृत्तिर्निसर्गेण च दूरतः। विहिता पादमूले तु वृत्तिश्चरणयोधिनाम्।।4.58.32।। Kishkindha Kanda,58,33,गर्हितं तु कृतं कर्म येन स्म पशिताशिना। प्रतीकार्यं च मे तस्य वैरं भ्रातृकृतं भवेत्।।4.58.33।। Kishkindha Kanda,58,34,उपायो दृश्यतां कश्चिल्लङ्घने लवणाम्भसः। अभिगम्य तु वैदेहीं समृद्धार्था गमिष्यथ।।4.58.34।। Kishkindha Kanda,58,35,समुद्रं नेतुमिच्छामि भवद्भिर्वरुणालयम्। प्रदास्याम्युदकं भ्रातुस्स्वर्गतस्य महात्मनः।।4.58.35।। Kishkindha Kanda,58,36,ततो नीत्वा तु तं देशं तीरं नदनदीपतेः। निर्दग्धपक्षं सम्पातिं वानरास्सुमहौजसः।।4.58.36।। Kishkindha Kanda,58,37,पुनः प्रत्यानयित्वा च तं देशं पतगेश्वरम्। बभूवुर्वानरा हृष्टाः प्रवृत्तिमुपलभ्य ते।।4.58.37।। Kishkindha Kanda,59,1,ततस्तदमृतास्वादं गृध्रराजेन भाषितम्। निशम्य मुदिता हृष्टास्ते वचः प्लवगर्षभाः।।4.59.1।। Kishkindha Kanda,59,2,जाम्बवान् वानरश्रेष्ठस्सह सर्वैः प्लवङ्गमैः। भूतलात्सहसोत्थाय गृध्रराजानमब्रवीत्।।4.59.2।। Kishkindha Kanda,59,3,क्व सीता केन वा दृष्टा को वा हरति मैथिलीम्। तदाख्यातु भवात्सर्वं गतिर्भव वनौकसाम्।।4.59.3।। Kishkindha Kanda,59,4,को दाशरथि बाणानां वज्रवेगनिपातिनाम्। स्वयं लक्ष्मणमुक्तानां न चिन्तयति विक्रमम्।।4.59.4।। Kishkindha Kanda,59,5,स हरीन्प्रीतिसंयुक्तान्सीताश्रुतिसमाहितान्। पुनराश्वसयन्प्रीत: इदं वचनमब्रवीत्।।4.59.5।। Kishkindha Kanda,59,6,श्रूयतामिह वैदेह्या यथा मे हरणं श्रुतम्। येन चापि ममाऽख्यातं यत्र वायतलोचना।।4.59.6।। Kishkindha Kanda,59,7,अहमस्मिन्गिरौ दुर्गे बहुयोजनमायते। चिरान्निपतितो वृद्धः क्षीणप्राणपराक्रमः।।4.59.7।। Kishkindha Kanda,59,8,तं मामेवं गतं पुत्रस्सुपार्श्वोनाम नामतः। आहारेण यथाकालं बिभर्ति पततां वरः।।4.59.8।। Kishkindha Kanda,59,9,तीक्ष्णकामास्तु गन्धर्वास्तीक्ष्णकोपा भुजङ्गमाः। मृगाणां तु भयं तीक्ष्णं ततस्तीक्ष्णक्षुधा वयम्।।4.59.9।। Kishkindha Kanda,59,10,स कदाचित्क्षुधार्तस्य ममाहाराभिकाङ्क्षिणः। गतसूर्येऽहनि प्राप्तो मम पुत्रो ह्यनामिषः।।4.59.10।। Kishkindha Kanda,59,11,स मामाहारसंरोधात्पीडितं प्रीतिवर्धनः। अनुमान्य यथातत्त्वमिदं वचनमब्रवीत्।।4.59.11।। Kishkindha Kanda,59,12,अहं तात यथाकालमामिषार्थी खमाप्लुतः। महेन्द्रस्य गिरेर्द्वारमावृत्य सुसमास्थितः।।4.59.12।। Kishkindha Kanda,59,13,तत्र सत्त्वसहस्राणां सागरान्तरचारिणाम्। पन्थानमेकोऽध्यवसं सन्निरोद्धुमवाङ्मुखः।।4.59.13।। Kishkindha Kanda,59,14,तत्र कश्चिन्मया दृष्ट स्सूर्योदयसमप्रभाम्। स्त्रियमादाय गच्छन्वै भिन्नाञ्जनचयप्रभः।।4.59.14।। Kishkindha Kanda,59,15,सोऽहमभ्यवहारार्थी तौ दृष्ट्वा कृतनिश्चयः। तेन साम्ना विनीतेन पन्थानमभियाचितः।।4.59.15।। Kishkindha Kanda,59,16,न हि सामोपपन्नानां प्रहर्ता विद्यते क्वचित्। नीचेष्वपि जनः कश्चित्किमङ्ग बत मद्विधः।।4.59.16।। Kishkindha Kanda,59,17,स यातस्तेजसा व्योम सङ्क्षिपन्निव वेगतः। अथाऽहं खेचरैर्भूतैरभिगम्य सभाजितः।।4.59.17।। Kishkindha Kanda,59,18,दिष्ट्या जीवसि तातेति ह्यब्रुवन्मां महर्षयः। कथञ्चित्सकळत्रोऽसौ गतस्ते स्वस्त्यसंशयम्।।4.59.18।। Kishkindha Kanda,59,19,एव मुक्तस्ततोऽहं तैस्सिद्धै: परमशोभनैः। स च मे रावणो राजा रक्षसां प्रतिवेदितः।।4.59.19।। Kishkindha Kanda,59,20,हरन्दाशरथेर्भार्यां रामस्य जनकात्मजाम्। भ्रष्टाभरणकौशेयां शोकवेगपराजिताम्।।4.59.20।। रामलक्ष्मणयोर्नाम क्रोशन्तीं मुक्तमूर्धजाम्। Kishkindha Kanda,59,21,एष कालात्ययस्तावदिति कालविदां वरः।।4.59.21।। एतमर्थं समग्रं मे सुपार्श्वः प्रत्यवेदयत्। Kishkindha Kanda,59,22,तच्छृत्वाऽपि हि मे बुद्धिर्नासीत्काचित्पराक्रमे।।4.59.22।। अपक्षो हि कथं पक्षी कर्म किञ्चिदुपक्रमे। Kishkindha Kanda,59,23,यत्तु शक्यं मया कर्तुं वाग्बुद्धिगुणवर्तिना।।4.59.23।। श्रूयतां तत्प्रवक्ष्यामि भवतां पौरुषाश्रयम्। Kishkindha Kanda,59,24,वाङ्मतिभ्यां तु सर्वेषां करिष्यामि प्रियं हि वः।।4.59.24।। यद्धि दाशरथेः कार्यं मम तन्नात्र संशयः। Kishkindha Kanda,59,25,ते भवन्तो मतिश्रेष्ठा बलवन्तो मनस्विनः।।4.59.25।। प्रेषिताः कपिराजेन देवैरपि दुरासदाः। Kishkindha Kanda,59,26,रामलक्ष्मणबाणाश्च निशिताः कङ्कपत्रिणः।।4.59.26।। त्रयाणामपि लोकानां पर्याप्तास्त्राणनिग्रहे। Kishkindha Kanda,59,27,कामं खलु दशग्रीव स्तेजोबलसमन्वितः।।4.59.27।। भवतां तु समर्थानां न किञ्चिदपि दुष्करम्। Kishkindha Kanda,59,28,तदलं कालसङ्गेन क्रियतां बुद्धिनिश्चयः।।4.59.28।। न हि कर्मसु सज्जन्ते बुद्धिमन्तो भवद्विधाः। Kishkindha Kanda,60,1,ततः कृतोदकं स्नातं तं गृध्रं हरियूथपाः। उपविष्टा गिरौ रम्ये परिवार्य समन्ततः।।4.60.1।। Kishkindha Kanda,60,2,तमङ्गदमुपासीनं तैस्सर्वैर्हरिभिर्वृतम्। जनितप्रत्ययो हर्षात्सम्पातिः पुनरब्रवीत्।।4.60.2।। Kishkindha Kanda,60,3,कृत्वा निश्शब्दमेकाग्रा श्श्रुण्वन्तु हरयो मम। तत्वं सङ्कीर्तयिष्यामि यथा जानामि मैथिलीम्।।4.60.3।। Kishkindha Kanda,60,4,अस्य विन्ध्यस्य शिखरे पतितोऽस्मि पुरावने। सूर्यतपपरीताङ्गो निर्दग्धस्सूर्यरश्मिभिः।।4.60.4।। Kishkindha Kanda,60,5,लब्धसंज्ञस्तु षड्रात्राद्विवशो विह्वलन्निव। वीक्षमाणो दिशस्सर्वा नाभिजानामि किञ्चन।।4.60.5।। Kishkindha Kanda,60,6,ततस्तु सागरान् शैलान्नदीस्सर्वास्सरांसि च। वनानि च प्रदेशांश्च नीरीक्ष्य मतिरागता।।4.60.6।। Kishkindha Kanda,60,7,हृष्टपक्षिगणाकीर्णः कन्दरान्तरकूटवान्। दक्षिणस्योदधेस्तीरे विन्ध्योऽयमिति निश्चितः।।4.60.7।। Kishkindha Kanda,60,8,आसीच्चात्राश्रमं पुण्यं सुरैरपि सुपूजितम्। ऋषिर्निशाकरो नाम यस्मिन्नुग्रतपाभवत्।।4.60.8।। Kishkindha Kanda,60,9,अष्टौ वर्षसहस्राणि तेनास्मिन्नृषिणा विना। वसतो मम धर्मज्ञा स्वर्गते तु निशाकरे।।4.60.9।। Kishkindha Kanda,60,10,अवतीर्य तु विन्ध्याग्रात्कृच्छ्रेण विषमाच्छनैः। तीक्ष्णदर्भां वसुमतीं दुःखेन पुनरागतः।।4.60.10।। Kishkindha Kanda,60,11,तमृषिं द्रष्टुकामोऽस्मि दुःखेनाभ्यागतो भृशम्। जटायुषा मया चैव बहुशोऽभिगतो हि सः।।4.60.11।। Kishkindha Kanda,60,12,तस्याश्रमपदाभ्याशे ववुर्वातास्सुगन्धिनः। वृक्षो वापुष्पितः कश्चिदफलो वा न विद्यते।।4.60.12।। Kishkindha Kanda,60,13,उपेत्य चाश्रमं पुण्यं वृक्षमूलमुपाश्रितः। द्रष्टुकामः प्रतीक्षेऽहं भगवन्तं निशाकरम्।।4.60.13।। Kishkindha Kanda,60,14,अथापश्यमदूरस्थमृषिं ज्वलिततेजसम्। कृताभिषेकं दुर्धर्षमुपावृत्तमुदङ्मुखम्।।4.60.14।। Kishkindha Kanda,60,15,तमृक्षास्सृमरा व्याघ्रास्सिंहा नागास्सरीसृपाः। परिवार्योपगच्छन्ति धातारं प्राणिनो यथा।।4.60.15।। Kishkindha Kanda,60,16,ततः प्राप्तमृषिं ज्ञात्वा तानि सत्त्वानि वै ययुः। प्रविष्टे राजनि यथा सर्वं सामात्यकं बलम्।।4.60.16।। Kishkindha Kanda,60,17,ऋषिस्तु दृष्ट्वा मां प्रीतः प्रविष्टश्चाश्रमं पुनः। मुहूर्तमात्रान्निष्क्रम्य ततः कार्यमपृच्छत।।4.60.17।। Kishkindha Kanda,60,18,सौम्य वैकल्यतां दृष्ट्वा रोम्णां ते नावगम्यते। अग्निदग्धाविमौ पक्षौ व्रणाश्चापि शरीरके।।4.60.18।। Kishkindha Kanda,60,19,गृध्रौ द्वौ दृष्टपूर्वौ मे मातरिश्वसमौ जवे। गृध्राणां चैव राजानौ भ्रातरौ कामरूपिणौ।।4.60.19।। Kishkindha Kanda,60,20,ज्येष्ठो हि त्वं तु सम्पाते जटायुरनुजस्तव। मानुषं रूपमास्थाय गृह्णीतां चरणौ मम।।4.60.20।। Kishkindha Kanda,60,21,किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम्। दण्डोऽयंच कृतः केन सर्वमाख्याहि पृच्छतः।।4.60.21।। Kishkindha Kanda,61,1,ततस्तद्दारुणं कर्म दुष्करं सहसात्कृतम्। आचचक्षे मुनेस्सर्वं सूर्यानुगमनं तथा।।4.61.1।। Kishkindha Kanda,61,2,भगवन्व्रणयुक्तत्वाल्लज्जया व्याकुलेन्द्रियः। परिश्रान्तो न शक्नोमि वचनं परिभाषितुम्।।4.61.2।। Kishkindha Kanda,61,3,अहं चैव जटायुश्च सङ्घर्षाद्धर्पमोहितौ। आकाशं पतितौ वीरौ जिज्ञासन्तौ पराक्रमम्।।4.61.3।। Kishkindha Kanda,61,4,कैलासशिखरे बद्ध्वा मुनीनामग्रतः पणम्। रविस्स्यादनुयातव्यो यावदस्तं महागिरिम्।।4.61.4।। Kishkindha Kanda,61,5,अथाऽवां युगपत्प्राप्तावपश्याव महीतले। रथचक्रप्रमाणानि नगराणि पृथक्पृथक्।।4.61.5।। Kishkindha Kanda,61,6,क्वचिद्वादित्रघोषांश्च ब्रह्मघोषांश्च शुश्रुवः। गायन्तीश्चाङ्गना बह्वीः पश्यावो रक्तवाससः।।4.61.6।। Kishkindha Kanda,61,7,तूर्णमुत्पत्य चाकाशमादित्यपथमाश्रितौ। आवामालोकयावस्तद्वनं शाद्वलसन्निभम्।।4.61.7।। Kishkindha Kanda,61,8,उपलैरिव सञ्छन्ना दृश्यते भूश्शिलोच्चयैः। आपगाभिश्च संवीता सूत्रैरिव वसुन्धरा।।4.61.8।। Kishkindha Kanda,61,9,हिमवांश्चैव विन्ध्यश्च मेरुश्च सुमहान्नगः। भूतले सम्प्रकाशन्ते नागा इव जलाशये।।4.61.9।। Kishkindha Kanda,61,10,तीव्रस्स्वेदश्च खेदश्च भयं चासीत्तदाऽऽवयोः। समाविशति मोहश्च तमो मूर्छा च दारुणा।।4.61.10।। Kishkindha Kanda,61,11,न दिग्विज्ञायते याम्या नाग्नेयी न च वारुणी। युगान्ते नियतो लोको हतो दग्ध इवाग्निना।।4.61.11।। Kishkindha Kanda,61,12,मनश्च मे हतं भूयस्सन्निवर्त्यतु संश्रयम्। यत्नेन महता ह्यस्मिन्पुनस्सन्धाय चक्षुषी।।4.61.12।। Kishkindha Kanda,61,13,यत्नेन महता भूयो भास्करः प्रतिलोकितः। तुल्यः पृथ्वीप्रमाणेन भास्करः प्रतिभाति नौ।।4.61.13।। Kishkindha Kanda,61,14,जटायुर्मामनापृच्छ्य निपपात महीं ततः। तं दृष्ट्वा तूर्णमाकाशादात्मानं मुक्तवानहम्।।4.61.14।। Kishkindha Kanda,61,15,पक्षाभ्यां च मया गुप्तो जटायुर्न प्रदह्यते। प्रमादात्तत्र निर्दग्धः पतन्वायुपथादहम्।।4.61.15।। Kishkindha Kanda,61,16,आशङ्के तं निपतितं जनस्थाने जटायुषम्। अहं तु पतितो विन्ध्ये दग्धपक्षो जडीकृतः।।4.61.16।। Kishkindha Kanda,61,17,राज्येन हीनो भ्रात्रा च पक्षाभ्यां विक्रमेण च। सर्वथा मर्तुमेवेच्छन्पतिष्ये शिखराद्गीरेः।।4.61.17।। Kishkindha Kanda,62,1,एवमुक्ता मुनिश्रेष्ठ मरुदं दुःखितो भृशं। अथ ध्यात्वा मुहूर्तं तु भगवानिदमब्रवीत्।।4.62.1।। Kishkindha Kanda,62,2,पक्षौ तु ते प्रपक्षौ च पुनरन्यौभविष्यतः। प्राणाश्च चक्षुषी चैव विक्रमश्च बलं च ते।।4.62.2।। Kishkindha Kanda,62,3,पुराणे सुमहत्कार्यं भविष्यति मया श्रुतं। दृष्टं मे तपसा चैव श्रुत्वा च विदितं मम4.62.3।। Kishkindha Kanda,62,4,राजा दशरथो नाम कश्चिदिक्ष्वाकुनन्दनः। तस्य पुत्रो महातेजा रमोनाम भविष्यति।।4.62.4।। Kishkindha Kanda,62,5,अरण्यं च सह र्भात्रा लक्ष्मणेनगमिष्यति। अस्मिन्नर्थे नियुक्त स्सन्पित्रा सत्यपराक्रमः।।4.62.5।। Kishkindha Kanda,62,6,नैऋतो रावणो नाम तस्य भार्यां हरिष्यति। राक्षसेन्द्रो जनस्थनादवध्य स्सुरदानवैः4.62.6।। Kishkindha Kanda,62,7,सा च कामैः प्रलोभ्यन्ती भक्ष्यै:भोज्यैश्च मैथिली। नभोक्ष्यति महाभागा दुःखे मग्ना यशस्विनी।।4.62.7।। Kishkindha Kanda,62,8,परमान्नंतु वैदेह्या ज्ञात्वा दास्यति वा सः। यदन्नममृतप्रख्यं सुराणामपिदुर्लभम्4.62.8।। Kishkindha Kanda,62,9,तदन्नं मैथिलीप्राप्य विज्ञायेन्द्रादिदंत्विति। अग्रमुदृत्य रामाय भूतले निर्वपिष्यति।।4.62.9।। Kishkindha Kanda,62,10,यदि जीवति मे भर्ता लक्ष्मणेन सह प्रभुः। देवत्वं गच्छ्तो र्वापि तयो रन्नमिदंत्विति4.62.10।। Kishkindha Kanda,62,11,एष्यन्त्यन्वेषका स्तस्या रामदूताः प्लवांगमाः। आख़्येया राम महीषी त्वया तेभ्यो विहंगम4.62.11।। Kishkindha Kanda,62,12,सर्वथा हि नगन्तव्यमीदृशः क्व गमिष्यसि। देशकालौ प्रतीक्षस्व पक्षौ त्वं प्रतिपत्स्यसे4.62.12।। Kishkindha Kanda,62,13,नोत्सहेयमहंकर्तुमध्यैव त्वां सपक्षकम्। इहस्थ स्त्वं तु लोकानां हितं कार्यं करिष्यसि।।4.62.13।। Kishkindha Kanda,62,14,त्वयापि खलु तत्कार्यं तयोश्चनृपपुत्रयोः। ब्राह्मणानां सुराणां च मुनीनां वासवस्य च।।4.62.14।। Kishkindha Kanda,62,15,इच्छाम्यहमपिद्रष्टुं भ्रातरौ रामलक्ष्मणौ। नेच्छेचिरं धारयुतुं प्राणां स्त्यक्ष्ये कलेबरं। महर्षि स्त्वब्रवीदेवं दृष्टतत्वार्थदर्शनः।।4.62.15।। Kishkindha Kanda,63,1,एतैरन्यैश्च बहुभिर्वाक्यैर्वाक्यविशारदः। मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टस्स स्वमालयम्।।4.63.1।। Kishkindha Kanda,63,2,कन्दरात्तु विसर्पित्वा पर्वतस्य शनैश्शनैः। अहं विन्ध्यं समारुह्य भवतः प्रतिपालये।।4.63.2।। Kishkindha Kanda,63,3,अद्य त्वेतस्य कालस्य साग्रं वर्षशतं गतम्। देशकालप्रतीक्षोऽस्मि हृदि कृत्वा मुनेर्वचः।।4.63.3।। Kishkindha Kanda,63,4,महाप्रस्थानमासाद्य स्वर्गते तु निशाकरे। मां निर्दहति सन्तापो वितर्कैर्बहुभिर्वृतम्।।4.63.4।। Kishkindha Kanda,63,5,उत्थितां मरणे बुद्धिं मुनिवाक्यैर्निवर्तये। बुद्धिर्या तेन मे दत्ता प्राणानां रक्षणाय तु।।4.63.5।। सा मेऽपनयते दुःखं दीप्तेवाग्निशिखा तमः। Kishkindha Kanda,63,6,बुद्ध्यता च मया वीर्यं रावणस्य दुरात्मनः।।4.63.6।। पुत्रस्सन्तर्जितो वाग्भिर्न त्राता मैथिली कथम्। Kishkindha Kanda,63,7,तस्या विलपितं श्रुत्वा तौ च सीताविनाकृतौ।।4.63.7।। न मे दशरथस्नेहात्पुत्रेणोत्पादितं प्रियम्। Kishkindha Kanda,63,8,तस्य त्वेवं ब्रुवाणस्य सम्पातेर्वानरैस्सह।।4.63.8।। उत्पेततुस्तदा पक्षौ समक्षं वनचारिणाम्। Kishkindha Kanda,63,9,स दृष्ट्वा स्वां तनुं पक्षैरुद्गतैररुणच्छदैः।।4.63.9।। प्रहर्षमतुलं लेभे वानरांश्चेदमब्रवीत्। Kishkindha Kanda,63,10,ऋषेर्निशाकरस्यैव प्रभावादमितात्मन:।।4.63.10।। आदित्यरश्मिनिर्दग्धौ पक्षौ मे पुनरुपस्थितौ। Kishkindha Kanda,63,11,यौवने वर्तमानस्य ममासीद्यः पराक्रमः।।4.63.11।। तमेवाद्यावगच्छामि बलं पौरुषमेव च। Kishkindha Kanda,63,12,सर्वथा क्रियतां यत्न स्सीतामधिगमिष्यथ।।4.63.12।। पक्षलाभो ममायं वस्सिद्धिप्रत्ययकारकः। Kishkindha Kanda,63,13,इत्युक्त्वा स तान्हरीन् सर्वान्सम्पातिः पतगोत्तमः।।4.63.13।। उत्पपात गिरेश्शृङ्गाज्जिज्ञासुः खगमो गतिम्। Kishkindha Kanda,63,14,तस्य तद्वचनं श्रुत्वा प्रतिसंहृष्टमानसाः।।4.63.14।। बभूवुर्हरिशार्दूला विक्रमाभ्युदयोन्मुखाः। Kishkindha Kanda,63,15,अथ पवनसमानविक्रमाः प्लवगवराः प्रतिलब्धपौरुषाः। अभिजिदभिमुखा दिशं ययु र्जनकसुतापरिमार्गणोन्मुखाः।।4.63.15।। Kishkindha Kanda,64,1,आख्याता गृध्रराजेन समुत्प्लुत्य प्लवङ्गमाः। सङ्गताः प्रीतिसंयुक्ता विनेदुर्भीमविक्रमाः।।4.64.1।। Kishkindha Kanda,64,2,सम्पातेर्वचनं श्रुत्वा हरयो रावणक्षयम्। हृष्टास्सागरमाजग्मुस्सीतादर्शनकाङ्क्षिणः।।4.64.2।। Kishkindha Kanda,64,3,अभिक्रम्य तु तं देशं ददृशुर्भीमविक्रमाः। कृत्स्नं लोकस्य महतः प्रतिबिम्बमिव स्थितम्।।4.64.3।। Kishkindha Kanda,64,4,दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम्। सन्निवेशं ततश्चक्रुर्हरिवीरा महाबलाः।।4.64.4।। Kishkindha Kanda,64,5,सत्त्वैर्महद्भिर्विकृतैः क्रीडद्भिर्विविधैर्जले। व्यात्तास्यैस्सुमहाकायैरूर्मिभिश्च समाकुलम्।।4.64.5।। Kishkindha Kanda,64,6,प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतः। क्वचित्पर्वतमात्रैश्च जलराशिभिरावृतम्।।4.64.6।। Kishkindha Kanda,64,7,सङ्कुलं दानवेन्द्रैश्च पातालतलवासिभिः। रोमहर्षकरं दृष्ट्वा विषेदु: कपिकुञ्जराः।।4.64.7।। Kishkindha Kanda,64,8,आकाशमिव दुष्पारं सागरं प्रेक्षय वानराः। विषेदु स्सहसासर्वे कथं कार्यमिति ब्रुवन्।।4.64.8।। Kishkindha Kanda,64,9,विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात्। आश्वासयामास हरीन्भयार्तान् हरिसत्तमः।।4.64.9।। Kishkindha Kanda,64,10,तान्विषादेन महता विषण्णान्वानरर्षभान्। उवाच मतिमान्काले वालिसूनुर्महाबलः।।4.64.10।। Kishkindha Kanda,64,11,न विषादे मनः कार्यं विषादो दोषवत्तमः। विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः।।4.64.11।। Kishkindha Kanda,64,12,यो विषादं प्रसहते विक्रमे पर्युपस्थिते। तेजसा तस्य हीनस्य पुरुषार्थो न सिध्यति।।4.64.12।। Kishkindha Kanda,64,13,तस्यां रात्र्यां व्यतीतायामङ्गदो वानरैस्सह। हरिवृद्धैस्समागम्य पुनर्मन्त्रममन्त्रयत्।।4.64.13।। Kishkindha Kanda,64,14,सा वानराणां ध्वजिनी परिवार्याङ्गदं बभौ। वासवं परिवार्येव मरुतां वाहिनी स्थिता।।4.64.14।। Kishkindha Kanda,64,15,कोऽन्यस्तां वानरीं सेनां शक्त:स्तम्भयितुं भवेत्। अन्यत्र वालितनयादन्यत्र च हनूमतः।।4.64.15।। Kishkindha Kanda,64,16,ततस्तान्हरिवृद्धांश्च तच्च सैन्यमरिन्दमः। अनुमान्याङ्गदश्श्रीमान्वाक्यमर्थवदब्रवीत्।।4.64.16।। Kishkindha Kanda,64,17,क इदानीं महातेजा लङ्घयिष्यति सागरम्। कः करिष्यति सुग्रीवं सत्यसन्धमरिन्दमम्।।4.64.17।। Kishkindha Kanda,64,18,को वीरो योजनशतं लङ्घयेत प्लवङ्गमाः। इमांश्च यूथपान् सर्वान्मोक्षयेत्को महाभयात्।।4.64.18।। Kishkindha Kanda,64,19,कस्य प्रभावाद्धारांश्च पुत्रांश्चैव गृहाणि च। इतो निवृत्ताः पश्येम सिद्धार्थास्सुखिनो वयम्।।4.64.19।। Kishkindha Kanda,64,20,कस्य प्रसादाद्रामं च लक्ष्मणं च महाबलम्। अभिगच्छेम संहृष्टास्सुग्रीवं च वनौकसम्।।4.64.20।। Kishkindha Kanda,64,21,यदि कश्चित्समर्थो वस्सागरप्लवने हरिः। स ददा त्विह न शशीघ्रं पुण्यामभयदक्षिणाम्।।4.64.21।। Kishkindha Kanda,64,22,अङ्गदस्य वच श्शृत्वा न कश्चित् किञ्चिदब्रवीत्। स्तिमिते वा भवत्सर्वा सा तत्र हरिवाहिनी।।4.64.22।। Kishkindha Kanda,64,23,पुनरेवाङ्गदः प्राह तान्हरीन्हरिसत्तमः। सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः।।4.64.23।। व्यपदेश्य कुले जाताः पूजिताश्चाप्यभीक्ष्णशः। Kishkindha Kanda,64,24,न हि वो गमने सङ्गः कदाचित्कस्यचित्क्वचित्। ब्रुवध्वं यस्य या शक्तिः प्लवने प्लवगर्षभाः।।4.64.24।। Kishkindha Kanda,65,1,अथाङ्गदवचश्श्रुत्वा ते सर्वे वानरर्षभाः। स्वं स्वं गतौ समुत्साहमूचुस्तत्र यथाक्रमम्।।4.65.1।। Kishkindha Kanda,65,2,गजो गवाक्षो गवयश्शरभो गन्धमादनः। मैन्दश्च द्विविदश्चैव सुषेणो जाम्बवां स्तथा।।4.65.2।। Kishkindha Kanda,65,3,आबभाषे गजस्तत्र प्लवेयं दशयोजनम्। गवाक्षो योजननान्याह गमिष्यामीति विंशतिम्।।4.65.3।। Kishkindha Kanda,65,4,गवयो वानरस्तत्र वानरां स्तानुवाच ह। त्रिंशतं तु गमिष्यामि योजनानां प्लवङ्गमाः।।4.65.4।। Kishkindha Kanda,65,5,शरभस्तानुवाचाथ वानरान् वानरर्षभः। चत्वारिंशद्गमिष्यामि योजनानां प्लवङ्गमाः।।4.65.5।। Kishkindha Kanda,65,6,वानरस्तु महातेजा अब्रवीद्गन्धमादनः। योजनानां गमिष्यामि पञ्चाशत्तु न संशयः।।4.65.6।। Kishkindha Kanda,65,7,मैन्दस्तु वानरस्तत्र वानरांस्तानुवाच ह। योजनानां परं षष्टिमहं प्लवितुमुत्सहे।।4.65.7।। Kishkindha Kanda,65,8,ततस्तत्र महातेजा द्विविदः प्रत्यभाषत। गमिष्यामि न सन्देहस्सप्ततिं योजनान्यहम्।।4.65.8।। Kishkindha Kanda,65,9,सुषेणस्तु महातेजा:प्रोक्तवान्हरिसत्तमान्। अशीतिं योजनानां तु प्लवेयं प्लवगेश्वराः।।4.65.9।। Kishkindha Kanda,65,10,तेषां कथयतां तत्र सर्वांस्ताननुमान्य च। ततो वृद्धतमस्तेषां जाम्बवान्प्रत्यभाषत।।4.65.10।। Kishkindha Kanda,65,11,पूर्वमस्माकमप्यासीत्कश्चिद्गतिपराक्रमः। ते वयं वयसः पारमनुप्राप्तास्स्म साम्प्रतम्।।4.65.11।। Kishkindha Kanda,65,12,किन्तु नैवं गते शक्यमिदं कार्यमुपेक्षितुम्। यदर्थं कपिराजश्च रामश्च कृतनिश्चयौ।।4.65.12।। Kishkindha Kanda,65,13,साम्प्रतं कालभेदेन या गतिस्तां निबोधत। नवतिं योजनानां तु गमिष्यामि न संशयः।।4.65.13।। Kishkindha Kanda,65,14,तांश्च सर्वान्हरिश्रेष्ठाञ्जाम्बवान्पुनरब्रवीत्। न खल्वेतावदेवासीद्गमने मे पराक्रमः।।4.65.14।। Kishkindha Kanda,65,15,मया महाबलेश्चैव यज्ञे विष्णुस्सनातनः। प्रदक्षिणीकृतः पूर्वं क्रममाणस्त्रिविक्रमम्।।4.65.15।। Kishkindha Kanda,65,16,स इदानीमहं वृद्धः प्लवने मन्दविक्रमः। यौवने च तदाऽसीन्मे बलमप्रतिमं परैः।।4.65.16।। Kishkindha Kanda,65,17,सम्प्रत्येतावतीं शक्तिं गमने तर्कयाम्यहम्। नैतावता हि संसिद्धिः कार्यस्यास्य भविष्यति।।4.65.17।। Kishkindha Kanda,65,18,अथोत्तरमुदारार्थमब्रवीदङ्गदस्तदा। अनुमान्य तथा प्राज्ञो जाम्बवन्तं महाकपिम्।।4.65.18।। Kishkindha Kanda,65,19,अहमेतद्गमिष्यामि योजनानां शतं महत्। निवर्तने तु मे शक्तिस्स्यान्न वेति न निश्चितम्।।4.65.19।। Kishkindha Kanda,65,20,तमुवाच हरिश्रेष्ठं जाम्बवान्वाक्यकोविदः। ज्ञायते गमने शक्तिस्तव हर्यृक्षसत्तम।।4.65.20।। Kishkindha Kanda,65,21,कामं शतं सहस्रं वा न ह्येष विधिरुच्यते। योजनानां भवान् शक्तो गन्तुं प्रतिनिवर्तितुम्।।4.65.21।। Kishkindha Kanda,65,22,न हि प्रेषयिता तात स्वामी प्रेष्यः कथञ्चन। भवताऽयं जनस्सर्वः प्रेष्यः प्लवगसत्तम।।4.65.22।। Kishkindha Kanda,65,23,भवान्कळत्रमस्माकं स्वामिभावे व्यवस्थितः। स्वामी कळत्रं सैन्यस्य गतिरेषा परन्तप।।4.65.23।। Kishkindha Kanda,65,24,अपि चैतस्य कार्यस्य भवान्मूलमरिन्दम। तस्मात्कळत्रवत्तात प्रतिपाल्यस्सदा भवान्।।4.65.24।। Kishkindha Kanda,65,25,मूलमर्थस्य संरक्ष्यमेष कार्यविदां नयः। मूले सति हि सिद्ध्यन्ति गुणा फलो पुष्पोदयाः।।4.65.25।। Kishkindha Kanda,65,26,तद्भवानस्य कार्यस्य साधने सत्यविक्रम। बुद्धिविक्रमसम्पन्नो हेतुरत्र परन्तप।।4.65.26।। Kishkindha Kanda,65,27,गुरुश्च गुरुपुत्रश्च त्वं हि नः कपिसत्तम। भवन्तमाश्रित्य वयं समर्था ह्यर्थसाधने।।4.65.27।। Kishkindha Kanda,65,28,उक्तवाक्यं महाप्राज्ञं जाम्बवन्तं महाकपिः। प्रत्युवाचोत्तरं वाक्यं वालिसूनुरथाङ्गदः।।4.65.28।। Kishkindha Kanda,65,29,यदि नाहं गमिष्यामि नान्यो वानरपुङ्गवः। पुनः खल्विदमस्माभिः कार्यं प्रायोपवेशनम्।।4.65.29।। Kishkindha Kanda,65,30,न ह्यकृत्वा हरिपतेस्सन्देशं तस्य धीमतः। तत्रापि गत्वा प्राणानां पश्यामि परिरक्षणम्।।4.65.30।। Kishkindha Kanda,65,31,स हि प्रसादे चात्यर्थं कोपे च हरिरीश्वरः। अतीत्य तस्य सन्देशं विनाशो गमने भवेत्।।4.65.31।। Kishkindha Kanda,65,32,तद्यथा ह्यस्य कार्यस्य न भवत्यन्यथा गतिः। तद्भवानेव दृष्टार्थस्सञ्चिन्तयितु मर्हति।।4.65.32।। Kishkindha Kanda,65,33,सोऽङ्गदेन तदा वीरः प्रत्युक्तः प्लवगर्षभः। जाम्बवानुत्तरं वाक्यं प्रोवाचेदं ततोऽङ्गदम्।।4.65.33।। Kishkindha Kanda,65,34,अस्य ते वीर कार्यस्य न किञ्चित्परिहीयते। एष सञ्चोदयाम्येनं यः कार्यं साधयिष्यति।।4.65.34।। Kishkindha Kanda,66,1,अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम्। जाम्बवान्समुदीक्ष्यैवं हनूमन्तमथाब्रवीत्।।4.66.1।। Kishkindha Kanda,66,2,वीर वानरलोकस्य सर्वशास्त्रविदां वर। तूष्णीमेकान्तमाश्रित्य हनूमन्किं न जल्पसि।।4.66.2।। Kishkindha Kanda,66,3,हनूमन्हरिराजस्य सुग्रीवस्य समो ह्यसि। रामलक्ष्मणयोश्चापि तेजसा च बलेन च।।4.66.3।। Kishkindha Kanda,66,4,अरिष्टनेमिनः पुत्रो वैनतेयो महाबलः। गरुत्मानिति विख्यात उत्तमस्सर्वपक्षिणाम्।।4.66.4।। Kishkindha Kanda,66,5,बहुशो हि मया दृष्टः सागरे स महाबलः। भुजङ्गानुद्धरन्पक्षी महावेगो महायशाः।।4.66.5।। Kishkindha Kanda,66,6,पक्षयोर्यद्बलं तस्य तावद्भुजबलं तव। विक्रमश्चापि वेगश्च न ते तेनावहीयते।।4.66.6।। Kishkindha Kanda,66,7,बलं बुद्धिश्च तेजश्च सत्त्वं च हरिपुङ्गव। विशिष्टं सर्वभूतेषु किमात्मानं न बुध्यसे।।4.66.7।। Kishkindha Kanda,66,8,अप्सराप्सरसां श्रेष्ठा विख्याता पुञ्जिकस्थला। अञ्जनेति परिख्याता पत्नी केसरिणो हरेः।।4.66.8।। Kishkindha Kanda,66,9,विख्याता त्रिषु लोकेषु रूपेणाप्रतिमा भुवि। अभिशापादभूत्तात वानरी कामरूपिणी।।4.66.9।। Kishkindha Kanda,66,10,दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः। मानुषं विग्रहं कृत्वा रूपयौवनशालिनी।।4.66.10।। Kishkindha Kanda,66,11,विचित्रमाल्याभरणा महार्हक्षौमवासिनी। अचरत्पर्वतस्याग्रे प्रावृडम्बुदसन्निभे।।4.66.11।। Kishkindha Kanda,66,12,तस्या वस्त्रं विशालाक्ष्याः पीतं रक्तदशं शुभम्। स्थितायाः पर्वतस्याग्रे मारुतोऽपहरच्छनैः।।4.66.12।। Kishkindha Kanda,66,13,स ददर्श ततस्तस्या वृत्तावूरू सुसंहतौ। स्तनौ च पीनौ सहितौ सुजातं चारु चाननम्।।4.66.13।। Kishkindha Kanda,66,14,तां विशालायतश्रोणीं तनुमध्यां यशस्विनीम्। दृष्टवैव शुभसर्वाङ्गीं पवनः काममोहितः।।4.66.14।। Kishkindha Kanda,66,15,स तां भुजाभ्यां दीर्घाभ्यां पर्यष्वजत मारुतः। मन्मथाविष्टसर्वाङ्गो गतात्मा तामनिन्दिताम्।।4.66.15।। Kishkindha Kanda,66,16,सा तु तत्रैव सम्भ्रान्ता सुव्रता वाक्यमब्रवीत्। एकपत्नीव्रतमिदं को नाशयितुमिच्छति।।4.66.16।। Kishkindha Kanda,66,17,अञ्जनाया वच्शुत्वा मारुतः प्रत्यभाषत। न त्वां हिंसामि सुश्रोणि मा भूत्ते सुभगे भयम्।।4.66.17।। Kishkindha Kanda,66,18,मनसाऽस्मि गतो यत्त्वां परिष्वज्य यशस्विनीम्। वीर्यवान्बुद्धिसम्पन्न: पुत्रस्तव भविष्यति।।4.66.18।। Kishkindha Kanda,66,19,महासत्त्वो महातेजा महाबलपराक्रमः। लङ्घने प्लवने चैव भविष्यति हि मत्समः।।4.66.19।। Kishkindha Kanda,66,20,एवमुक्ता ततस्तुष्टा जननी ते महाकपे। गुहायां त्वां महाबाहो प्रजज्ञे प्लवगर्षभम्।।4.66.20।। Kishkindha Kanda,66,21,अभ्युत्थितं ततस्सूर्यं बालो दृष्ट्वा महावने। फलं चेति जिघृक्षुस्त्वमुत्प्लुत्याभ्युद्गतो दिवम्।।4.66.21।। Kishkindha Kanda,66,22,शतानि त्रीणि गत्वाऽथ योजनानां महाकपे। तेजसा तस्य निर्धूतो न विषादं ततोगतः।।4.66.22।। Kishkindha Kanda,66,23,तावदापपत स्तूर्णमन्तरिक्षं महाकपे। क्षिप्तमिन्द्रेण ते वज्रं कोपाविष्टेन धीमता।।4.66.23।। Kishkindha Kanda,66,24,तदा शैलाग्रशिखरे वामो हनुरभज्यत। ततो हि नामधेयं ते हनुमानिति कीर्त्यते।।4.66.24।। Kishkindha Kanda,66,25,तस्त्वावि निहतं दृष्ट्वा वायुर्गन्धवहस्स्वयम्। त्रैलोक्ये भृशसङ्कृद्धो न ववौ वै प्रभञ्जनः।।4.66.25।। Kishkindha Kanda,66,26,सम्भ्रान्ताश्च सूरास्सर्वे त्रैलोक्ये क्षुभिते सति। प्रसादयन्ति संक्रुद्धं मारुतं भुवनेश्वराः।।4.66.26।। Kishkindha Kanda,66,27,प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ। अशस्त्रवध्यतां तात समरे सत्यविक्रम।।4.66.27।। Kishkindha Kanda,66,28,वज्रस्य च निपातेन विरुजं त्वां समीक्ष्य च। सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम्।।4.66.28।। स्वच्छन्दतश्च मरणं तेभूयादिति वै प्रभो। Kishkindha Kanda,66,29,स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः।।4.66.29।। Kishkindha Kanda,66,30,मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः। त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः।।4.66.30।। Kishkindha Kanda,66,31,वयमद्य गतप्राणा भवान्नस्त्रातु साम्प्रतम्। दाक्ष्यविक्रमसम्पन्नः कपिराज इवापरः।।4.66.31।। Kishkindha Kanda,66,32,त्रिविक्रमे मया तात सशैलवनकानना। त्रिस्सप्तकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम्।।4.66.32।। Kishkindha Kanda,66,33,तथा चौषधयोऽस्माभिस्सञ्चिता देवशासनात्। निष्पन्नममृतं याभिस्तदासीन्नो महद्बलम्।।4.66.33।। Kishkindha Kanda,66,34,स इदानीमहं वृद्धः परिहीनपराक्रमः। साम्प्रतं कालमस्माकं भवान्सर्वगुणान्वितः।।4.66.34।। Kishkindha Kanda,66,35,तद्विजृम्भस्व विक्रान्त: प्लवतामुत्तमो ह्यसि। त्वद्वीर्यं द्रष्टुकामा हि सर्वा वानरवाहिनी।।4.66.35।। Kishkindha Kanda,66,36,उत्तिष्ठ हरिशार्दूल लङ्घयस्व महार्णवम्। परा हि सर्वभूतानां हनुमन्या गतिस्तव।।4.66.36।। Kishkindha Kanda,66,37,विषण्णा हरयस्सर्वे हनुमन्किमुपेक्षसे। विक्रमस्व महावेगो विष्णुस्त्रीन्विक्रमानिव।।4.66.37।। Kishkindha Kanda,67,1,तं दृष्ट्वा जृम्भमाणं ते क्रमितुं शतयोजनम्। वीर्येणापूर्यमाणं च सहसा वानरोत्तमम्।।4.67.1।। Kishkindha Kanda,67,2,सहसा शोकमुत्सृज्य प्रहर्षेण समन्विताः। विनेदुस्तुष्टुवुश्चापि हनूमन्तं महाबलम्।।4.67.2।। Kishkindha Kanda,67,3,प्रहृष्टा विस्मिताश्चैव वीक्षन्ते स्म समन्ततः। त्रिविक्रमकृतोत्साहं नारायणमिव प्रजाः।।4.67.3।। Kishkindha Kanda,67,4,संस्तूयमानो हनुमान्व्यवर्धत महाबलः। समाविध्य च लाङ्गूलं हर्षाद्बलमुपेयिवान्।।4.67.4।। Kishkindha Kanda,67,5,तस्य संस्तूयमानस्य सर्वैर्वानरपुङ्गवैः। तेजसापूर्यमाणस्य रूपमासीदनुत्तमम्।।4.67.5।। Kishkindha Kanda,67,6,यथा विजृम्भते सिंहो विवृद्धो गिरिगह्वरे। मारुतस्यौरसः पुत्रस्तथा सम्प्रति जृम्भते।।4.67.6।। Kishkindha Kanda,67,7,अशोभत मुखं तस्य जृम्भमाणस्य धीमतः। अम्बरीषमिवाऽदीप्तं विधूम इव पावकः।।4.67.7।। Kishkindha Kanda,67,8,हरीणामुत्थितो मध्यात्सम्प्रहृष्टतनूरुहः। अभिवाद्य हरीन्वृद्धान्हनुमानिदमब्रवीत्।।4.67.8।। Kishkindha Kanda,67,9,अरुजत्सर्वताग्राणि हुताशनसखोऽनिलः। बलवानप्रमेयश्च वायुराकाशगोचरः।।4.67.9।। Kishkindha Kanda,67,10,तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः। मारुतस्यौरसः पुत्रः प्लवनेनास्मि तत्समः।।4.67.10।। Kishkindha Kanda,67,11,उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम्। मेरुं गिरिमसङ्गेन परिगन्तुं सहस्रशः।।4.67.11।। Kishkindha Kanda,67,12,बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहे। समाप्लावयितुं लोकं सपर्वतनदीह्रदम्।।4.67.12।। Kishkindha Kanda,67,13,ममोरुजङ्घावेगेन भविष्यति समुत्थितः। सम्मूर्च्छितमहाग्राहस्समुद्रो वरुणालयः।।4.67.13।। Kishkindha Kanda,67,14,पन्नगाशनमाकाशे पतन्तं पक्षिसेविते। वैनतेयमहं शक्तः परिगन्तुं सहस्रशः।।4.67.14।। Kishkindha Kanda,67,15,उदयात्प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम्। अनस्तमितमादित्यमभिगन्तुं समुत्सहे।।4.67.15।। Kishkindha Kanda,67,16,ततो भूमिमसंस्पृश्य पुनरागन्तुमुत्सहे। प्रवेगेनैव महता भीमेन प्लवगर्षभाः।।4.67.16।। Kishkindha Kanda,67,17,उत्सहेयमतिक्रान्तुं सर्वानाकाशगोचरान्। सागरं क्षोभयिष्यामि दारयिष्यामि मेदिनीम्।।4.67.17।। Kishkindha Kanda,67,18,पर्वतांश्चूर्णयिष्यामि प्लवमानः प्लवङ्गमाः। हरिष्याम्यूरुवेगेन प्लवमानो महार्णवम्।।4.67.18।। Kishkindha Kanda,67,19,लतानां विविधं पुष्पं पादपानां च सर्वशः। अनुयास्यन्ति मामद्य प्लवमानं विहायसा।।4.67.19।। Kishkindha Kanda,67,20,भविष्यति हि मे पन्थास्स्वातेः पन्था इवाम्बरे। चरन्तं घोरमाकाशमुत्पतिष्यन्तमेव वा।।4.67.20।। द्रक्ष्यन्ति निपतिष्यन्तं च सर्वभूतानि वानराः। Kishkindha Kanda,67,21,महामेरुप्रतीकाशं मां द्रक्ष्यथ वानराः।।4.67.21।। दिवमावृत्य गच्छन्तं ग्रसमानमिवाम्बरम्। Kishkindha Kanda,67,22,विधमिष्यामि जीमूतान्कम्पयिष्यामि पर्वतान्।।4.67.22।। सागरं शोषयिष्यामि प्लवमानस्समाहितः। Kishkindha Kanda,67,23,वैनतेयस्य या शक्तिर्मम सा मारुतस्य वा।।4.67.23।। Kishkindha Kanda,67,24,ऋते सुपर्णराजानं मारुतं वा महाजवम्। न तद्भूतं प्रपश्यामि यन्मां प्लुतमनुव्रजेत्।।4.67.24।। Kishkindha Kanda,67,25,निमेषान्तरमात्रेण निरालम्बनमम्बरम्। सहसा निपतिष्यामि घनाद्विद्युदिवोत्थिता।।4.67.25।। Kishkindha Kanda,67,26,भविष्यति हि मे रूपं प्लवमानस्य सागरे। विष्णोर्विक्रममाणस्य पुरा त्रीन्विक्रमानिव।।4.67.26।। Kishkindha Kanda,67,27,बुद्ध्या चाहं प्रपश्यामि मनश्चेष्टा च मे तथा। अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवङ्गमाः।।4.67.27।। Kishkindha Kanda,67,28,मारुतस्य समो वेगे गरुडस्य समो जवे। अयुतं योजनानां तु गमिष्यामीति मे मतिः।।4.67.28।। Kishkindha Kanda,67,29,वासवस्य सवज्रस्य ब्रह्मणो वा स्वयम्भुवः। विक्रम्य सहसा हस्तादमृतं तदिहानये।।4.67.29।। लङ्कां वापि समुत्क्षिप्य गच्छेयमिति मे मतिः। Kishkindha Kanda,67,30,तमेवं वानरश्रेष्ठं गर्जन्तममितौजसम्।।4.67.30।। प्रहृष्टा हरयस्तत्र समुदैक्षन्त विस्मिताः। Kishkindha Kanda,67,31,तस्य तद्वचनं श्रुत्वा ज्ञातीनां शोकनाशनम्।।4.67.31।। उवाच परिसंहृष्टो जाम्बवान्हरिसत्तमः। Kishkindha Kanda,67,32,वीर केसरिणः पुत्र हनुमान्मारुतात्मज।।4.67.32।। ज्ञातीनां विपुलश्शोकस्त्वया तात प्रणाशितः। Kishkindha Kanda,67,33,तव कल्याणरुचयः कपिमुख्यास्समागताः।।4.67.33।। मङ्गलं कार्यसिद्ध्यर्थं करिष्यन्ति समाहिताः। Kishkindha Kanda,67,34,ऋषीणां च प्रसादेन कपिवृद्धमतेन च।।4.67.34।। गुरूणां च प्रसादेन प्लवस्व त्वं महार्णवम्। Kishkindha Kanda,67,35,स्थास्यामश्चैकपादेन यावदागमनं तव।।4.67.35।। त्वद्गतानि च सर्वेषां जीवनानि वनौकसाम्। Kishkindha Kanda,67,36,ततस्तु हरिशार्दूलस्तानुवाच वनौकसः।।4.67.36।। नेयं मम मही वेगं लङ्घने धारयिष्यति। Kishkindha Kanda,67,37,एतानीह नगस्यास्य शिलासङ्कटशालिनः।।4.67.37।। शिखराणि महेन्द्रस्य स्थिराणि सुमहान्ति च। Kishkindha Kanda,67,38,एषु वेगं करिष्यामि महेन्द्रशिखरेष्वहम्।।4.67.38।। नानाद्रुमविकीर्णेषु धातुनिष्यन्दशोभिषु। Kishkindha Kanda,67,39,एतानि मम निष्पेषं पादयोः प्लवतां वराः।।4.67.39।। प्लवतो धारयिष्यन्ति योजनानामितश्शतम्। Kishkindha Kanda,67,40,ततस्तं मारुतप्रख्यस्सहरिर्मारुतात्मजः।।4.67.40।। Kishkindha Kanda,67,41,आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः। वृतं नानाविधैः वृक्षैर्मृगसेवितशाद्वलम्।।4.67.41।। Kishkindha Kanda,67,42,लताकुसुमसम्बाधं नित्यपुष्पफलद्रुमम्। सिंहशार्दूलचरितं मत्तमातङ्गसेवितम्।।4.67.42।। मत्तद्विजगणोद्घुष्टं सलिलोत्पीडसङ्कुलम्। Kishkindha Kanda,67,43,महद्भिरुच्छ्रितं शृङ्गैर्महेन्द्रं स महाबलः।।4.67.43।। विचचार हरिश्रेष्ठो महेन्द्रसमविक्रमः। Kishkindha Kanda,67,44,पादाभ्यां पीडितस्तेन महाशैलो महात्मना।।4.67.44।। रराज सिंहाभिहतो महान्मत्त इव द्विपः। Kishkindha Kanda,67,45,मुमोच सलिलोत्पीडान्विप्रकीर्णशिलोच्चयः।।4.67.45।। वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः। Kishkindha Kanda,67,46,नानागन्धर्वमिथुनैः पानसंसर्गकर्कशैः।।4.67.46।। Kishkindha Kanda,67,47,उत्पतद्भिश्च विहगैर्विद्याधरगणैरपि। त्यज्यमानमहासानुस्सन्निलीनमहोरगः।।4.67.47।। चलशृङ्गशिलोद्घातस्तदाऽभूत्स महागिरिः। Kishkindha Kanda,67,48,निश्श्वसद्भिस्तदाऽर्तैस्तु भुजङ्गैरर्धनि:सृतैः।।4.67.48।। सपताक इवाभाति स तदा धरणीधरः। Kishkindha Kanda,67,49,ऋषिभिस्त्राससम्भ्रान्तैस्त्यज्यमानः शिलोच्चयः।।4.67.49।। सीदन्महति कान्तारे सार्थहीन इवाध्वगः। Kishkindha Kanda,67,50,सवेगवान् वेगसमाहितात्मा हरिप्रवीरः परवीरहन्ता। मनस्समाधाय महानुभावो जगाम लङ्कां मनसा मनस्वी।।4.67.50।। Sundara Kanda,1,1,ततो रावणनीतायाः सीतायाः शत्रुकर्शनः। इयेष पदमन्वेष्टुं चारणाचरिते पथि।।5.1.1।। Sundara Kanda,1,2,दुष्करं निष्प्रतिद्वन्द्वं चिकीर्षन् कर्म वानरः। समुदग्रशिरोग्रीवो गवांपतिरिवाबभौ।।5.1.2।। Sundara Kanda,1,3,अथ वैडूर्यवर्णेषु शाद्वलेषु महाबलः। धीरः सलिलकल्पेषु विचचार यथासुखम्।।5.1.3।। Sundara Kanda,1,4,द्विजान् वित्रासयन् धीमानुरसा पादपान् हरन्। मृगांश्च सुबहून्निघ्नन् प्रवृद्ध इव केसरी।।5.1.4।। Sundara Kanda,1,5,नीललोहितमांजिष्ठपत्रवर्णैः सितासितैः। स्वभावविहितैश्चित्रैर्धातुभिः समलङ्कृतम्।।5.1.5।। Sundara Kanda,1,6,कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः। यक्षकिन्नरगन्धर्वैर्देवकल्पैश्च पन्नगैः।।5.1.6।। Sundara Kanda,1,7,स तस्य गिरिवर्यस्य तले नागवरायुते। तिष्ठन् कपिवरस्तत्र ह्रदे नाग इवाबभौ।।5.1.7।। Sundara Kanda,1,8,स सूर्याय महेन्द्राय पवनाय स्वयंभुवे। भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम्।।5.1.8।। Sundara Kanda,1,9,अञ्जलिं प्राङ्मुखः कुर्वन् पवनायात्मयोनये। ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिशम्।।5.1.9।। Sundara Kanda,1,10,प्लवङ्गप्रवरैर्दृष्टः प्लवने कृतनिश्चयः। ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु।।5.1.10।। Sundara Kanda,1,11,निष्प्रमाणशरीरः सन् लिलङ्घयिषुरर्णवम्। बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम्।।5.1.11।। Sundara Kanda,1,12,स चचालाचलश्चापि मुहूर्तं कपिपीडितः। तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत्।।5.1.12।। Sundara Kanda,1,13,तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना। सर्वतः संवृतः शैलो बभौ पुष्पमयो यथा।।5.1.13।। Sundara Kanda,1,14,तेन चोत्तमवीर्येण पीड्यमानः स पर्वतः। सलिलं सम्प्रसुस्राव मदं मत्त इव द्विपः।।5.1.14।। Sundara Kanda,1,15,पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः। रीतीर्निर्वर्तयामास काञ्चनाञ्जनराजतीः।।5.1.15।। Sundara Kanda,1,16,मुमोच च शिलाः शैलो विशालाः समनःशिलाः। मध्यमेनार्चिषा जुष्टा धूमराजीरिवानलः।।5.1.16।। Sundara Kanda,1,17,गिरिणा पीड्यमानेन पीड्यमानानि सर्वतः। गुहाविष्टानि भूतानि विनेदुर्विकृतैः स्वरैः।।5.1.17।। Sundara Kanda,1,18,स महासत्त्वसन्नादः शैलपीडानिमित्तजः। पृथिवीं पूरयामास दिशश्चोपवनानि च।।5.1.18।। Sundara Kanda,1,19,शिरोभिः पृथुभिः सर्पा व्यक्तस्वस्तिकलक्षणैः। वमन्तः पावकं घोरं ददंशुर्दशनैः शिलाः।।5.1.19।। Sundara Kanda,1,20,तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः। जज्ज्वलुः पावकोद्दीप्ता बिभिदुश्च सहस्रधा।।5.1.20।। Sundara Kanda,1,21,यानि चौषधजालानि तस्मिन् जातानि पर्वते। विषघ्नान्यपि नागानां न शेकुः शमितुं विषम्।।5.1.21।। Sundara Kanda,1,22,भिद्यतेऽयं गिरिर्भूतैरिति मत्त्वा तपस्विनः। त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्री गणैः सह।।5.1.22।। Sundara Kanda,1,24,पानभूमिगतं हित्वा हैममासवभाजनम्। पात्राणि च महार्हाणि करकांश्च हिरण्मयान्।।5.1.23। लेह्यानुच्चावचान् भक्ष्यान् मांसानि विविधानि च। आर्षभाणि च चर्माणि खडगांश्च कनकत्सरून्।।5.1.24।। Sundara Kanda,1,25,कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाः। रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे।।5.1.25।। Sundara Kanda,1,26,हारनूपुरकेयूरपारिहार्यधराः स्त्रियः। विस्मिताः सस्मितास्तस्थुराकाशे रमणैः सह।।5.1.26।। Sundara Kanda,1,27,दर्शयन्तो महाविद्यां विद्याधरमहर्षयः। सहितास्तस्थुराकाशे वीक्षाञ्चक्रुश्च पर्वतम्।।5.1.27।। Sundara Kanda,1,28,शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मनाम्। चारणानां च सिद्धानां स्थितानां विमलेऽम्बरे।।5.1.28।। Sundara Kanda,1,29,एष पर्वतसङ्काशो हनुमान् मारुतात्मजः। तितीर्षति महावेगस्समुद्रं मकरालयम्।।5.1.29।। Sundara Kanda,1,30,रामार्थं वानरार्थं च चिकीर्षन् कर्म दुष्करम्। समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति।।5.1.30।। Sundara Kanda,1,31,इति विद्याधराः श्रुत्वा वचस्तेषां महात्मनाम्। तमप्रमेयं ददृशुः पर्वते वानरर्षभम्।।5.1.31।। Sundara Kanda,1,32,दुधुवे च स रोमाणि चकम्पे चाचलोपमः। ननाद सुमहानादं सुमहानिव तोयदः।।5.1.32।। Sundara Kanda,1,33,आनुपूर्व्येण वृत्तं च लाङ्गूलं लोमभिश्चितम्। उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम्।।5.1.33।। Sundara Kanda,1,34,तस्य लाङ्गूलमाविद्धमात्तवेगस्य पृष्ठतः। ददृशे गरुडेनेव ह्रियमाणो महोरगः।।5.1.34।। Sundara Kanda,1,35,बाहू संस्तम्भयामास महापरिघसन्निभौ। ससाद च कपिः कट्यां चरणौ सञ्चुकोच च।।5.1.35।। Sundara Kanda,1,36,संहृत्य च भुजौ श्रीमांस्तथैव च शिरोधराम्। तेजः सत्त्वं तथा वीर्यमाविवेश स वीर्यवान्।।5.1.36।। Sundara Kanda,1,37,मार्गमालोकयन्दूरादूर्ध्वं प्रणिहितेक्षणः। रुरोध हृदये प्राणानाकाशमवलोकयन्।।5.1.37।। Sundara Kanda,1,38,पद्भ्यां दृढमवस्थानं कृत्वा स कपिकुञ्जरः। निकुञ्च्य कर्णौ हनुमानुत्पतिष्यन् महाबलः।। वानरान् वानरश्रेष्ठ इदं वचनमब्रवीत्।।5.1.38।। Sundara Kanda,1,39,यथा राघवनिर्मुक्तः शरः श्वसनविक्रमः। गच्छेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम्।।5.1.39।। Sundara Kanda,1,40,न हि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम्। अनेनैव हि वेगेन गमिष्यामि सुरालयम्।।5.1.40।। Sundara Kanda,1,41,यदि वा त्रिदिवे सीतां न द्रक्ष्याम्यकृतश्रमः। बद्ध्वा राक्षसराजानमानयिष्यामि रावणम्।।5.1.41।। Sundara Kanda,1,42,सर्वथा कृतकार्योऽहमेष्यामि सह सीतया। आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम्।।5.1.42।। Sundara Kanda,1,43,एवमुक्त्वा तु हनुमान्वानरान्वानरोत्तमः।।5.1.43।। Sundara Kanda,1,44,उत्पपाताथ वेगेन वेगवानविचारयन्। सुपर्णमिव चात्मानं मेने स कपिकुञ्जरः।।5.1.44।। Sundara Kanda,1,45,समुत्पतति तस्मिंस्तु वेगात्ते नगरोहिणः। संहृत्य विटपान् सर्वान् समुत्पेतुः समन्ततः।।5.1.45।। Sundara Kanda,1,46,स मत्तकोयष्टिमकान् पादपान् पुष्पशालिनः। उद्वहन्नूरुवेगेन जगाम विमलेऽम्बरे।।5.1.46।। Sundara Kanda,1,47,ऊरुवेगोद्धता वृक्षा मुहूर्तं कपिमन्वयुः। प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः।।5.1.47।। Sundara Kanda,1,48,तमूरुवेगोन्मथिताः सालाश्चान्ये नगोत्तमाः। अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम्।।5.1.48।। Sundara Kanda,1,49,सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः। हनुमान् पर्वताकारो बभूवाद्भुतदर्शनः।।5.1.49।। Sundara Kanda,1,50,सारवन्तोऽथ ये वृक्षा न्यमज्जन् लवणाम्भसि। भयादिव महेन्द्रस्य पर्वता वरुणालये।।5.1.50।। Sundara Kanda,1,51,स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः। शुशुभे मेघसङ्काशः खद्योतैरिव पर्वतः।।5.1.51।। Sundara Kanda,1,52,विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः। अवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा।।5.1.52।। Sundara Kanda,1,53,लघुत्वेनोपपन्नं तद्विचित्रं सागरेऽपतत्। द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम्।।5.1.53।। ताराचितमिवाकाशं प्रबभौ स महार्णवः। Sundara Kanda,1,54,पुष्पौघेणानुबद्धेन नानावर्णेन वानरः। बभौ मेघ इवाकाशे विद्युद्गण विभूषितः।।5.1.54।। Sundara Kanda,1,55,तस्य वेगसमाधूतैः पुष्पैस्तोयमदृश्यत।।5.1.55।। ताराभिरभिरामाभिरुदिताभिरिवाम्बरम्। Sundara Kanda,1,56,तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ।।5.1.56।। पर्वताग्राद्विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ। Sundara Kanda,1,57,पिबन्निव बभौ चापि सोर्मिमालं महार्णवम्।।5.1.57।। पिपासुरिव चाकाशं ददृशे स महाकपिः। Sundara Kanda,1,58,तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः।।5.1.58।। नयने विप्रकाशेते पर्वतस्थाविवानलौ। Sundara Kanda,1,59,पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले।।5.1.59।। चक्षुषी सम्प्राकाशेते चन्द्रसूर्याविवोदितौ। Sundara Kanda,1,60,मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ।।5.1.60।। सन्ध्यया समभिस्पृष्टं यथा तत्सूर्यमण्डलम्। Sundara Kanda,1,61,लाङ्गूलं च समाविद्धं प्लवमानस्य शोभते।।5.1.61।। अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितम्। Sundara Kanda,1,62,लाङ्गूलचक्रेण महान् शुक्लदंष्ट्रोऽनिलात्मजः।।5.1.62।। व्यरोचत महाप्राज्ञः परिवेषीव भास्करः। Sundara Kanda,1,63,स्फिग्देशेनाभिताम्रेण रराज स महाकपिः।।5.1.63।। महता दारितेनेव गिरिर्गैरिकधातुना। Sundara Kanda,1,64,तस्य वानरसिंहस्य प्लवमानस्य सागरम्।।5.1.64।। कक्षान्तरगतो वायुर्जीमूत इव गर्जति। Sundara Kanda,1,65,खे यथा निपतत्युल्का ह्युत्तरान्ताद्विनिःसृता।।5.1.65।। दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः। Sundara Kanda,1,66,पतत्पतङ्गसङ्काशो व्यायतः शुशुभे कपिः।।5.1.66।। प्रवृद्ध इव मातङ्गः कक्ष्यया बध्यमानया। Sundara Kanda,1,67,उपरिष्टाच्छरीरेण छायया चावगाढया।।5.1.67।। सागरे मारुताविष्टा नौरिवासीत्तदा कपिः। Sundara Kanda,1,68,यं यं देशं समुद्रस्य जगाम स महाकपिः। स स तस्योरुवेगेन सोन्माद इव लक्ष्यते।।5.1.68।। Sundara Kanda,1,69,सागरस्योर्मिजालानामुरसा शैलवर्ष्मणाम्। अभिघ्नंस्तु महावेगः पुप्लुवे स महाकपिः।।5.1.69।। Sundara Kanda,1,70,कपिवातश्च बलवान् मेघवातश्च निःसृतः। सागरं भीमनिर्घोषं कम्पयामासतुर्भृशम्।।5.1.70।। Sundara Kanda,1,71,विकर्षन्नूर्मिजालानि बृहन्ति लवणाम्भसि। पुप्लुवे कपिशार्दूलो विकिरन्निव रोदसी।।5.1.71।। Sundara Kanda,1,72,मेरुमन्दरसङ्काशानुद्धतान् स महार्णवे। अत्यक्रामन्महावेगस्तरङ्गान् गणयन्निव।।5.1.72।। Sundara Kanda,1,73,तस्य वेगसमुद्धूतं जलं सजलदं तदा। अम्बरस्थं विबभ्राज शारदाभ्रमिवाततम्।।5.1.73।। Sundara Kanda,1,74,तिमिनक्रझषाः कूर्मा दृश्यन्ते विवृतास्तदा। वस्त्रापकर्षणेनेव शरीराणि शरीरिणाम्।।5.1.74।। Sundara Kanda,1,75,प्लवमानं समीक्ष्याथ भुजङ्गाः सागरालयाः। व्योम्नि तं कपिशार्दूलं सुपर्ण इति मेनिरे।।5.1.75।। Sundara Kanda,1,76,दशयोजनविस्तीर्णा त्रिंशद्योजनमायता। छाया वानरसिंहस्य जले चारुतराभवत्।।5.1.76।। Sundara Kanda,1,77,श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी। तस्य सा शुशुभे छाया वितता लवणाम्भसि।।5.1.77।। Sundara Kanda,1,78,शुशुभे स महातेजा महाकायो महाकपिः। वायुमार्गे निरालम्बे पक्षवानिव पर्वतः।।5.1.78।। Sundara Kanda,1,79,येनासौ याति बलवान् वेगेन कपिकुञ्जरः। तेन मार्गेण सहसा द्रोणीकृत इवार्णवः।।5.1.79।। Sundara Kanda,1,80,आपाते पक्षिसङ्घानां पक्षिराज इव व्रजन्। हनुमान् मेघजालानि प्रकर्षन् मारुतो यथा।।5.1.80।। Sundara Kanda,1,81,पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च। कपिनाकृष्यमाणानि महाभ्राणि चकाशिरे।।5.1.81।। Sundara Kanda,1,82,प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः। प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते।।5.1.82।। Sundara Kanda,1,83,प्लवमानं तु तं दृष्ट्वा प्लवङ्गं त्वरितं तदा। ववर्षुः पुष्पवर्षाणि देवगन्धर्वदानवाः।।5.1.83।। Sundara Kanda,1,84,तताप न हि तं सूर्यः प्लवन्तं वानरोत्तमम्। सिषेवे च तदा वायू रामकार्यार्थसिद्धये।।5.1.84।। Sundara Kanda,1,85,ऋषयस्तुष्टुवुश्चैनं प्लवमानं विहायसा। जगुश्च देवगन्धर्वाः प्रशंसन्तो महौजसम्।।5.1.85।। Sundara Kanda,1,86,नागाश्च तुष्टुवुर्यक्षा रक्षांसि विबुधाः खगाः। प्रेक्ष्य सर्वे कपिवरं सहसा विगतक्लमम्।।5.1.86।। Sundara Kanda,1,87,तस्मिन् प्लवगशार्दूले प्लवमाने हनूमति। इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः।।5.1.87।। Sundara Kanda,1,88,साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमत:। करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम्।।5.1.88।। Sundara Kanda,1,89,अहमिक्ष्वाकुनाथेन सगरेण विवर्धितः। इक्ष्वाकुसचिवश्चायं नावसीदितुमर्हति।।5.1.89।। Sundara Kanda,1,90,तथा मया विधातव्यं विश्रमेत यथा कपिः।।5.1.90।। शेषं च मयि विश्रान्तः सुखेनातिपतिष्यति। Sundara Kanda,1,91,इति कृत्वा मतिं साध्वींसमुद्र श्छन्नमम्भसि।।5.1.91।। हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम्। Sundara Kanda,1,92,त्वमिहासुरसंघानां पातालतलवासिनाम्।।5.1.92।। देवराज्ञा गिरिश्रेष्ठ परिघः सन्निवेशितः। Sundara Kanda,1,93,त्वमेषां जातवीर्याणां पुनरेवोत्पतिष्यताम्।।5.1.93।। पातालस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि। Sundara Kanda,1,94,तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैल वर्धितुम्।।5.1.94।। तस्मात्संचोदयामि त्वामुत्तिष्ठ गिरिसत्तम। Sundara Kanda,1,95,स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान्।।5.1.95।। हनूमान्रामकार्यार्थं भीमकर्मा खमाप्लुतः। Sundara Kanda,1,96,अस्य साह्यं मया कार्यमिक्ष्वाकुकुलवर्तिनः।।5.1.96।। मम हीक्ष्वाकवः पूज्याः परं पूज्यतमास्तव। Sundara Kanda,1,97,कुरु साचिव्यमस्माकं न नः कार्यमतिक्रमेत्।।5.1.97।। कर्तव्यमकृतं कार्यं सतां मन्युमुदीरयेत्। Sundara Kanda,1,98,सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि।।5.1.98।। अस्माकमतिथिश्चैव पूज्यश्च प्लवतां वरः। Sundara Kanda,1,99,चामीकरमहानाभ देवगन्धर्वसेवित।।5.1.99।। हनुमांस्त्वयि विश्रान्तस्ततः शेषं गमिष्यति। Sundara Kanda,1,100,काकुत्स्थस्यानृशंस्यं च मैथिल्याश्च विवासनम्।।5.1.100।। श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि। Sundara Kanda,1,101,हिरण्यनाभो मैनाको निशम्य लवणाम्भसः।।5.1.101।। उत्पपात जलात्तूर्णं महाद्रुमलतायुतः। Sundara Kanda,1,102,स सागरजलं भित्त्वा बभूवाभ्युत्थितस्तदा।।5.1.102।। यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः। Sundara Kanda,1,103,स महात्मा मुहूर्तेन सर्वतः सलिलावृतः।।5.1.103।। Sundara Kanda,1,104,दर्शयामास शृङ्गाणि सागरेण नियोजितः। आदित्योदयसङ्काशैरालिखद्भिरिवाम्बरम्। शातकुम्भमयैः शृङ्गैः सकिन्नरमहोरगैः।।5.1.104।। Sundara Kanda,1,105,तप्तजाम्बूनदैः शृङ्गैः पर्वतस्य समुत्थितैः।।5.1.105।। आकाशं शस्त्रसङ्काशमभवत्काञ्चनप्रभम्। Sundara Kanda,1,106,जातरूपमयैः शृङ्गैर्भ्राजमानैः स्वयंप्रभैः।।5.1.106।। आदित्यशतसङ्काशः सोऽभवद्गिरिसत्तमः। Sundara Kanda,1,107,तमुत्थितमसङ्गेन हनुमानग्रतः स्थितम्।।5.1.107।। मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः। Sundara Kanda,1,108,स तमुच्छ्र्रतमत्यर्थं महावेगो महाकपिः।।5.1.108।। उरसा पातयामास जीमूतमिव मारुतः। Sundara Kanda,1,109,स तथा पातितस्तेन कपिना पर्वतोत्तमः।।5.1.109।। बुद्ध्वा तस्य कपेर्वेगं जहर्ष च ननन्द च। Sundara Kanda,1,110,तमाकाशगतं वीरमाकाशे समुपस्थितः।।5.1.110।। Sundara Kanda,1,111,प्रीतो हृष्टमाना वाक्यमब्रवीत्पर्वतः कपिम्। मानुषं धारयन् रूपमात्मनः शिखरे स्थितः।।5.1.111।। Sundara Kanda,1,112,दुष्करं कृतवान्कर्म त्वमिदं वानरोत्तम। निपत्य मम शृङ्गेषु विश्रमस्व यथासुखम्।।5.1.112।। Sundara Kanda,1,113,राघवस्य कुले जातैरुदधिः परिवर्धितः। स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः।।5.1.113।। Sundara Kanda,1,114,कृते च प्रतिकर्तव्यमेष धर्मः सनातनः। सोऽयं त्वत्प्रतिकारार्थी त्वत्तः सम्मानमर्हति।।5.1.114।। Sundara Kanda,1,115,त्वन्निमित्तमनेनाहं बहुमानात्प्रचोदितः। तिष्ठ त्वं कपिशार्दूल मयि विश्रम्य गम्यताम्।।5.1.115।। Sundara Kanda,1,116,तव सानुषु विश्रान्तः शेषं प्रक्रमतामिति। योजनानां शतं चापि कपिरेष समाप्लुतः।।5.1.116।। Sundara Kanda,1,117,तदिदं गन्धवत्स्वादु कन्दमूलफलं बहु। तदास्वाद्य हरिश्रेष्ठ विश्रान्तोऽनु गमिष्यसि।।5.1.117।। Sundara Kanda,1,118,अस्माकमपि सम्बन्ध: कपिमुख्य त्वयास्ति वै। प्रख्यातस्त्रिषु लोकेषु महागुणपरिग्रहः।।5.1.118।। Sundara Kanda,1,119,वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज। तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर।।5.1.119।। Sundara Kanda,1,120,अतिथिः किल पूजार्हः प्राकृतोऽपि विजानता। धर्मं जिज्ञासमानेन किं पुनस्त्वादृशो महान्।।5.1.120।। Sundara Kanda,1,121,त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः। पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर।।5.1.121।। Sundara Kanda,1,122,पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः। तस्मात्त्वं पूजनीयो मे शृणु चाप्यत्र कारणम्।।5.1.122।। Sundara Kanda,1,123,पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन्। ते हि जग्मुर्दिशः सर्वा गरुडानिलवेगिनः।।5.1.123।। Sundara Kanda,1,124,ततस्तेषु प्रयातेषु देवसङ्घा: महर्षिभिः। भूतानि च भयं जग्मुस्तेषां पतनशङ्कया।5.1.124।। Sundara Kanda,1,125,ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः। पक्षान् चिच्छेद वज्रेण तत्र तत्र सहस्रशः।।5.1.125।। Sundara Kanda,1,126,स मामुपागतः क्रुद्धो वज्रमुद्यम्य देवराट्। ततोऽहं सहसा क्षिप्तः श्वसनेन महात्मना।।5.1.126।। Sundara Kanda,1,127,अस्मिन्लवणतोये च प्रक्षिप्तः प्लवगोत्तम। गुप्तपक्षसमग्रश्च तव पित्राभिरक्षितः।।5.1.127।। Sundara Kanda,1,128,ततोऽहं मानयामि त्वां मान्यो हि मम मारुतः। त्वया मे ह्येष सम्बन्धः कपिमुख्य महागुणः।।5.1.128।। Sundara Kanda,1,129,अस्मिन्नेवंगते कार्ये सागरस्य ममैव च। प्रीतिं प्रीतमनाः कर्तुं त्वमर्हसि महाकपे।।5.1.129।। Sundara Kanda,1,130,श्रमं मोक्षय पूजां च गृहाण कपिसत्तम। प्रीतिं च बहुमन्यस्व प्रीतोऽस्मि तव दर्शनात्।।5.1.130।। Sundara Kanda,1,131,एवमुक्तः कपिश्रेष्ठस्तं नगोत्तममब्रवीत्। प्रीतोऽस्मि कृतमातिथ्यं मन्युरेषोऽपनीयताम्।।5.1.131।। Sundara Kanda,1,132,त्वरते कार्यकालो मे अहश्चाप्यतिवर्तते। प्रतिज्ञा च मया दत्ता न स्थातव्यमिहान्तरे।।5.1.132।। Sundara Kanda,1,133,इत्युक्त्वा पाणिना शैलमालभ्य हरिपुङ्गवः। जगामाकाशमाविश्य वीर्यवान् प्रहसन्निव।।5.1.133।। Sundara Kanda,1,134,स पर्वतसमुद्राभ्यां बहुमानादवेक्षितः। पूजितश्चोपपन्नाभिराशीर्भिरनिलात्मजः।।5.1.134।। Sundara Kanda,1,135,अथोर्ध्वं दूरमुत्प्लुत्य हित्वा शैलमहार्णवौ। पितुः पन्थानमास्थाय जगाम विमलेऽम्बरे।।5.1.135।। Sundara Kanda,1,136,भूयश्चोर्ध्वं गतिं प्राप्य गिरिं तमवलोकयन्। वायुसूनुर्निरालम्बे जगाम विमलेऽम्बरे।।5.1.136।। Sundara Kanda,1,137,तद् द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम्। प्रशशंसुः सुराः सर्वे सिद्धाश्च परमर्षयः।।5.1.137।। Sundara Kanda,1,138,देवताश्चाभवन् हृष्टास्तत्रस्थास्तस्य कर्मणा। काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः।।5.1.138।। Sundara Kanda,1,139,उवाच वचनं धीमान् परितोषात्सगद्गदम्। सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः।।5.1.139।। Sundara Kanda,1,140,हिरण्यनाभ शैलेन्द्र परितुष्टोऽस्मि ते भृशम्। अभयं ते प्रयच्छामि तिष्ठ सौम्य यथासुखम्।।5.1.140।। Sundara Kanda,1,141,साह्यं कृतं ते सुमहद्विक्रान्तस्य हनूमतः। क्रमतो योजनशतं निर्भयस्य भये सति।।5.1.141।। Sundara Kanda,1,142,रामस्यैष हितायैव याति दाशरथेर्हरिः। सत्क्रियां कुर्वता तस्य तोषितोऽस्मि दृढं त्वया।।5.1.142।। Sundara Kanda,1,143,ततः प्रहर्षमगमद्विपुलं पर्वतोत्तमः। देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम्।।5.1.143।। Sundara Kanda,1,144,स वै दत्तवरः शैलो बभूवावस्थितस्तदा। हनुमांश्च मुहूर्तेन व्यतिचक्राम सागरम्।।5.1.144।। Sundara Kanda,1,145,ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। अब्रुवन् सूर्यसङ्काशां सुरसां नागमातरम्।।5.1.145।। Sundara Kanda,1,146,अयं वातात्मजः श्रीमान्प्लवते सागरोपरि। हनुमान्नाम तस्य त्वं मुहूर्तं विघ्नमाचर।।5.1.146।। Sundara Kanda,1,147,राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम्। दंष्ट्राकरालं पिङ्गाक्षं वक्त्रं कृत्वा नभः समम्।।5.1.147।। Sundara Kanda,1,148,बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम्। त्वां विजेष्यत्युपायेन विषादं वा गमिष्यति।।5.1.148।। Sundara Kanda,1,149,एवमुक्ता तु सा देवी दैवतैरभिसत्कृता। समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः।।5.1.149।। Sundara Kanda,1,150,विकृतं च विरूपं च सर्वस्य च भयावहम्। प्लवमानं हनूमन्तमावृत्येदमुवाच ह।।5.1.150।। Sundara Kanda,1,151,मम भक्षः प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ। अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम्।।5.1.151।। Sundara Kanda,1,152,एवमुक्तः सुरसया प्राञ्जलिर्वानरर्षभः। प्रहृष्टवदनः श्रीमानिदं वचनमब्रवीत्।।5.1.152।। Sundara Kanda,1,153,रामो दाशरथिर्नाम प्रविष्टो दण्डकावनम्। लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया।।5.1.153।। Sundara Kanda,1,154,अन्यकार्यविषक्तस्य बद्धवैरस्य राक्षसैः। तस्य सीता हृता भार्या रावणेन यशस्विनी।।5.1.154।। Sundara Kanda,1,155,तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात्। कर्तुमर्हसि रामस्य साह्यं विषयवासिनि।।5.1.155।। Sundara Kanda,1,156,अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम्। आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते।।5.1.156।। Sundara Kanda,1,157,एवमुक्ता हनुमता सुरसा कामरूपिणी। अब्रवीन्नातिवर्तेन्मां कश्चिदेष वरो मम।।5.1.157।। Sundara Kanda,1,158,तं प्रयान्तं समुद्वीक्ष्य सुरसा वाक्यमब्रवीत्। बलं जिज्ञासमाना वै नागमाता हनूमतः।।5.1.158।। Sundara Kanda,1,159,प्रविश्य वदनं मेऽद्य गन्तव्यं वानरोत्तम। वर एष पुरा दत्तो मम धात्रेति सत्वरा।।5.1.159।। व्यादाय विपुलं वक्त्रं स्थिता सा मारुतेः पुरः। Sundara Kanda,1,160,एवमुक्तः सुरसया क्रुद्धो वानरपुङ्गवः।।5.1.160।। अब्रवीत्कुरु वै वक्त्रं येन मां विषहिष्यसे। Sundara Kanda,1,161,इत्युक्त्वा सुरसां क्रुद्धो धशयोजनमायता।।5.1.161।। दशयोजनविस्तारो बभूव हनुमांस्तदा। Sundara Kanda,1,162,तं दृष्ट्वा मेघसङ्काशं दशयोजनमायतम्।।5.1.162।। चकार सुरसा चास्यं विंशद्योजनमायतम्। Sundara Kanda,1,163,हनुमांस्तु ततः क्रुद्धस्त्रिंशद्योजनमायतः।।5.1.163।। Sundara Kanda,1,164,चकार सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम्। बभूव हनुमावनीरः पञ्चाशद्योजनोच्छ्रितः।।5.1.164।। Sundara Kanda,1,165,चकार सुरसा वक्त्रं षष्टियोजनमायतम्। तथैव हनुमावनीरः सप्ततीयोजनोच्छ्रितः।।5.1.165।। Sundara Kanda,1,166,चकार सुरसा वक्त्रमशीतीयोजनायतम्। हनुमानचलप्रख्यो नवतीयोजनोच्छ्रितः।।5.1.166।। Sundara Kanda,1,167,चकार सुरसा वक्त्रं शतयोजनमायतम् तव सानुषु विश्रान्तः शेषं प्रक्रमतामिति। तद्दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः सुबुद्धिमान्। दीर्घजिह्वं सुरसया सुघोरं नरकोपमम्।।5.1.167।। सुसंक्षिप्यात्मनः कायं बभूवाङ्गुष्ठमात्रकः। Sundara Kanda,1,168,सोऽभिपत्याशु तद्वक्त्रं निष्पत्य च महाबलः। अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत्।।5.1.168।। Sundara Kanda,1,169,प्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायणि नमोऽस्तु ते। गमिष्ये यत्र वैदेही सत्यं चासीद्वरस्तव।।5.1.169।। Sundara Kanda,1,170,तं दृष्ट्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव। अब्रवीत्सुरसा देवी स्वेन रूपेण वानरम्।।5.1.170।। Sundara Kanda,1,171,अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम्। समानयस्व वैदेहीं राघवेण महात्मना।।5.1.171।। Sundara Kanda,1,172,तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम्। साधु साध्विति भूतानि प्रशशंसुस्तदा हरिम्।।5.1.172।। Sundara Kanda,1,173,स सागरमनाधृष्यमभ्येत्य वरुणालयम्। जगामाकाशमाविश्य वेगेन गरुडोपमः।।5.1.173।। Sundara Kanda,1,174,सेविते वारिधाराभिः पतगैश्च निषेविते। चरिते कैशिकाचार्यैरैरावतनिषेविते।।5.1.174।। Sundara Kanda,1,175,सिंहकुञ्जरशार्दूलपतगोरगवाहनैः। विमानैः सम्पतद्भिश्च विमलैः समलङ्कृते।।5.1.175।। Sundara Kanda,1,176,वज्राशनिसमाघातैः पावकैरुपशोभिते। कृतपुण्यैर्महाभागैः स्वर्गजिद्भिरलङ्कृते।।5.1.176।। Sundara Kanda,1,177,वहता हव्यमत्यर्धं सेविते चित्रभानुना। ग्रहनक्षत्रचन्द्रार्कतारागण विभूषिते।।5.1.177।। Sundara Kanda,1,178,महर्षिगणगन्धर्वनागयक्षसमाकुले। विविक्ते विमले विश्वे विश्वावसुनिषेविते।।5.1.178।। Sundara Kanda,1,179,देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे। विताने जीवलोकस्य वितते ब्रह्मनिर्मिते।।5.1.179।। Sundara Kanda,1,180,बहुशः सेविते वीरैर्विद्याधरगणैर्वरैः। जगाम वायुमार्गे तु गरुत्मानिव मारुतिः।।5.1.180।। Sundara Kanda,1,181,प्रदृश्यमानः सर्वत्रः हनुमान्मारुतात्मजः। भेजेऽम्बरं निरालम्बं लम्बपक्ष इवाद्रिराट्।।5.1.181।। Sundara Kanda,1,182,प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी। मनसा चिन्तयामास प्रवृद्धा कामरूपिणी।।5.1.182।। Sundara Kanda,1,183,अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता। इदं हि मे महत्सत्त्वं चिरस्य वशमागतम्।।5.1.183।। Sundara Kanda,1,184,इति सञ्चिन्त्य मनसा छायामस्य समाक्षिपत्। छायायां गृह्यमाणायां चिन्तयामास वानरः।।5.1.184।। Sundara Kanda,1,185,समाक्षिप्तोऽस्मि सहसा पङ्गूकृतपराक्रमः। प्रतिलोमेन वातेन महानौरिव सागरे।।5.1.185।। Sundara Kanda,1,186,तिर्यगूर्ध्वमधश्चैव वीक्षमाणस्ततः कपिः। ददर्श स महत्सत्त्वमुत्थितं लवणाम्भसि।।5.1.186।। Sundara Kanda,1,187,तद्धृष्ट्वा चिन्तयामास मारुतिर्विकृताननम्। कपिराजेन कथितं सत्त्वमद्भुतदर्शनम्।।5.1.187।। छायाग्राहि महावीर्यं तदिदं नात्र संशयः। Sundara Kanda,1,188,स तां बुद्ध्वार्थतत्त्वेन सिंहिकां मतिमान्कपिः।।5.1.188।। व्यवर्धत महाकायः प्रावृषीव वलाहकः। Sundara Kanda,1,189,तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः।।5.1.189।। वक्त्रं प्रसारयामास पातालान्तरसन्निभम्। Sundara Kanda,1,190,घनराजीव गर्जन्ती वानरं समभिद्रवत्।।5.1.190।। Sundara Kanda,1,191,स ददर्श ततस्तस्या विवृतं सुमहन्मुखम्। कायमात्रं च मेधावी मर्माणि च महाकपिः।।5.1.191।। Sundara Kanda,1,192,स तस्या विवृते वक्त्रे वज्रसंहननः कपिः। संक्षिप्य मुहुरात्मानं निष्पपात महाबलः।।5.1.192।। Sundara Kanda,1,193,आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः। ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा।।5.1.193।। Sundara Kanda,1,194,ततस्तस्या नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः। उत्पपाताथ वेगेन मनः सम्पातविक्रमः।।5.1.194।। Sundara Kanda,1,195,तां तु दृष्ट्वा च धृत्या च दाक्षिण्येन निपात्य च। स कपिप्रवरो वेगाद्ववृधे पुनरात्मवान्।।5.1.195।। Sundara Kanda,1,196,हृतहृत्सा हनुमतापपात विधुराम्भसि। तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम्।।5.1.196।। भूतान्याकाशचारीणि तमूचुः प्लवगोत्तमम्। Sundara Kanda,1,197,भीममद्य कृतं कर्म महत्सत्त्वं त्वया हतम्।।5.1.197।। साधयार्थमभिप्रेतमरिष्टं प्लवतां वर। Sundara Kanda,1,198,यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव।।5.1.198।। धृतिर्दृष्टिर्मतिर्दाक्ष्यं सः कर्मसु न सीदति। Sundara Kanda,1,199,स तैः सम्भावितः पूज्यः प्रतिपन्नप्रयोजनः।।5.1.199।। जगामाकाशमाविश्य पन्नगाशनवत्कपिः। Sundara Kanda,1,200,प्राप्तभूयिष्ठपारस्तु सर्वतः प्रतिलोकयन्।।5.1.200।। योजनानां शतस्यान्ते वनराजिं ददर्श सः। Sundara Kanda,1,201,ददर्श च पतन्नेव विविधद्रुमभूषितम्।।5.1.201।। द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च। Sundara Kanda,2,1,स सागरमनादृष्यमतिक्रम्य महाबलः। त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह।।5.2.1।। Sundara Kanda,2,2,ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान्। अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो यथा।।5.2.2।। Sundara Kanda,2,3,योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः। अनिःश्वसन् कपिस्तत्र न ग्लानिमधिगच्छति।।5.2.3।। Sundara Kanda,2,4,शतान्यहं योजनानां क्रमेयं सुबहून्यपि। किं पुनः सागरस्यान्तं संख्यातं शतयोजनम्।।5.2.4।। Sundara Kanda,2,5,स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः। जगाम वेगवान् लङ्कां लङ्घयित्वा महोदधिम्।।5.2.5।। Sundara Kanda,2,6,शाद्वलानि च नीलानि गन्धवन्ति वनानि च। गण्डवन्ति च मध्येन जगाम नगवन्ति च।।5.2.6।। Sundara Kanda,2,7,शैलांश्च तरुसंछन्नान् वनाराजीश्च पुष्पिताः। अभिचक्राम तेजस्वी हनुमान् प्लवगर्षभः।।5.2.7।। Sundara Kanda,2,8,स तस्मिन्नचले तिष्ठन्वनान्युपवनानि च। स नगाग्रे च तां लङ्कां ददर्श पवनात्मजः।।5.2.8।। Sundara Kanda,2,9,सरलान् कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान्। प्रियालून्मुचुलिन्दांश्च कुटजान् केतकानपि।।5.2.9।। Sundara Kanda,2,10,प्रियंङ्गून् गन्धपूर्णांश्च नीपान् सप्तच्छदांस्तथा। आसनान् कोविदारांश्च करवीरांश्च पुष्पितान्।।5.2.10।। Sundara Kanda,2,11,पुष्पभारनिबद्धांश्च तथा मुकुलितानपि। पादपान् विहगाकीर्णान् पवनाधूतमस्तकान्।।5.2.11।। Sundara Kanda,2,12,हंसकारण्डवाकीर्णा वापीः पद्मोत्मलायुताः। आक्रीडान् विविधान् रम्यावन् विविधांश्च जलाशयान्।।5.2.12।। Sundara Kanda,2,13,सन्ततान् विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैः। उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः।।5.2.13।। Sundara Kanda,2,14,समासाद्य च लक्ष्मीवान् लङ्कां रावणपालिताम्। परिखाभिः सपद्माभिः सोत्पलाभिरलङ्कृताम्।।5.2.14।। Sundara Kanda,2,15,सीतापहरणार्थेन रावणेन सुरक्षिताम्। समन्ताद्विचरद्भिश्च राक्षसैरुग्रधन्विभिः।।5.2.15।। Sundara Kanda,2,16,काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम्। गृहैश्च ग्रहसंकाशैः शारदाम्बुदसन्निभैः।।5.2.16।। Sundara Kanda,2,17,पाण्डुराभिः प्रतोलीभिरुच्चाभिरभिसंवृताम्। अट्टालकशताकीर्णां पताकाध्वजमालिनीम्।।5.2.17।। Sundara Kanda,2,18,तोरणैः काञ्चनैर्दिव्यैर्लतापङ्त्किविचित्रितैः। ददर्श हनुमान् लङ्कां दिवि देवपुरीं यथा।।5.2.18।। Sundara Kanda,2,19,गिरिमूर्ध्निं स्थितां लङ्कां पाण्डुरैर्भवनैः शुभैः। ददर्श स कपिश्रेष्ठः पुरमाकाशगं यथा।।5.2.19।। Sundara Kanda,2,20,पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा। प्लवमानमिवाकाशे ददर्श हनुमान् पुरीम्।।5.2.20।। Sundara Kanda,2,21,वप्रप्राकारजघनां विपुलाम्बुनवाम्बराम्। शतघ्नीशूलकेशान्तामट्टालकवतंसकाम्।।5.2.21।। Sundara Kanda,2,22,मनसेव कृतां लङ्कां निर्मितां विश्वकर्मणा। द्वारमुत्तरमासाद्य चिन्तयामास वानरः।।5.2.22।। Sundara Kanda,2,23,कैलासशिखरप्रख्यामालिखन्तीमिवाम्बरम्। डीयमानामिवाकाशमुच्छ्रितैर्भवनोत्तमैः।।5.2.23।। Sundara Kanda,2,24,सम्पूर्णां राक्षसैर्घोरैर्नागैर्भोगवतीमिव। अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा।।5.2.24।। Sundara Kanda,2,25,दंष्ट्रिभिर्बहुभिः शूरैः शूलपट्टसपाणिभिः। रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरिव।।5.2.25।। Sundara Kanda,2,26,तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः। रावणं च रिपुं घोरं चिन्तयामास वानरः।।5.2.26।। Sundara Kanda,2,27,आगत्यापीह हरयो भविष्यन्ति निरर्थकाः। न हि युद्धेन वै लङ्का शक्या जेतुं सुरैरपि।।5.2.27।। Sundara Kanda,2,28,इमां तु विषमां दुर्गां लङ्कां रावणपालिताम्। प्राप्यापि स महाबाहुः किं करिष्यति राघवः।।5.2.28।। Sundara Kanda,2,29,अवकाशो नसान्त्वस्य राक्षसेष्वभिगम्यते। न दानस्य न भेदस्य नैव युद्धस्य दृश्यते।।5.2.29।। Sundara Kanda,2,30,चतुर्णामेव हि गतिर्वानराणां महात्मनाम्। वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः।।5.2.30।। Sundara Kanda,2,31,यावज्जानामि वैदेहीं यदि जीवति वा न वा। तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम्।।5.2.31।। Sundara Kanda,2,32,ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः। गिरिशृङ्गे स्थितस्तस्मिन् रामस्याभ्युदये रतः।।5.2.32।। Sundara Kanda,2,33,अनेन रूपेण मया न शक्या रक्षसां पुरी। प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः।।5.2.33।। Sundara Kanda,2,34,उग्रौजसो महावीर्या बलवन्तश्च राक्षसाः। वञ्चनीया मया सर्वे जानकीं परिमार्गता।।5.2.34।। Sundara Kanda,2,35,लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्का पुरी मया। प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत्।।5.2.35।। Sundara Kanda,2,36,तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः। हनुमान् चिन्तयामास विनिश्चित्य मुहुर्मुहुः।।5.2.36।। Sundara Kanda,2,37,केनोपायेन पश्येयं मैथिलीं जनकात्मजाम्। अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना।।5.2.37।। Sundara Kanda,2,38,न विनश्येत्कथं कार्यं रामस्य विदितात्मनः। एकामेकश्च वश्येयं रहिते जनकात्मजाम्।।5.2.38।। Sundara Kanda,2,39,भूताश्चार्था विपद्यन्ते देशकालविरोधिताः। विक्लबं दूतमासाद्य तमः सूर्योदये यथा।।5.2.39।। Sundara Kanda,2,40,अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते। घातयन्ति हि कार्याणि दूताः पण्डितमानिनः।।5.2.40।। Sundara Kanda,2,41,न विनश्येत्कथं कार्यं वैक्लब्यं न कथं भवेत्। लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत्।।5.2.41।। Sundara Kanda,2,42,मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः। भवेद्व्यर्थमिदं कार्यं रावणानर्थमिच्छतः।।5.2.42।। Sundara Kanda,2,43,न हि शक्यं क्वचित् स्थातुमविज्ञातेन राक्षसैः। अपि राक्षसरूपेण किमुतान्येन केनचित्।।5.2.43।। Sundara Kanda,2,44,वायुरप्यत्र नाज्ञातश्चरेदिति मतिर्मम। न ह्य स्त्यविदितं किञ्चिद्राक्षसानां बलीयसाम्।।5.2.44।। Sundara Kanda,2,45,इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः। विनाशमुपयास्यामि भर्तुरर्थश्च हीयते।।5.2.45।। Sundara Kanda,2,46,तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः। लङ्कामभिपतिष्यामि राघवस्यार्थसिद्धये।।5.2.46।। Sundara Kanda,2,47,रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम्। विचिन्वन् भवनं सर्वं द्रक्ष्यामि जनकात्मजाम्।।5.2.47।। Sundara Kanda,2,48,इति सञ्चिन्त्य हनुमान् सूर्यस्यास्तमयं कपिः। आचकाङ्क्षे तदा वीरो वैदेह्या दर्शनोत्सुकः।।5.2.48।। Sundara Kanda,2,49,सूर्ये चास्तं गते रात्रौ देहं सङ्क्षिप्य मारुतिः। पृषदंशकमात्रः सन् बभूवाद्भुतदर्शनः।।5.2.49।। Sundara Kanda,2,50,प्रदोषकाले हनुमांस्तूर्णमुत्प्लुत्य वीर्यवान्। प्रविवेश पुरीं रम्यां सुविभक्तमहापथाम्।।5.2.50।। Sundara Kanda,2,51,प्रासादमालाविततां स्तम्भैः काञ्चनराजतैः। शातकुम्भमयैर्जालैर्गन्थर्वनगरोपमाम्।।5.2.51।। Sundara Kanda,2,52,सप्तभौमाष्टभौमैश्च स ददर्श महापुरीम्। तलैः स्फाटिकसंकीर्णैः कार्तस्वरविभूषितैः।।5.2.52।। Sundara Kanda,2,53,वैडूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः। तलैः शुशुभिरे तानि भवनान्यत्र रक्षसाम्।।5.2.53।। Sundara Kanda,2,54,काञ्चनानि च चित्राणि तोरणानि च रक्षसाम्। लङ्कामुद्योतयामासुः सर्वतः समलङ्कृताम्।।5.2.54।। Sundara Kanda,2,55,अचिन्त्यामद्भुताकारां दृष्टवा लङ्कां महाकपिः। आसीद्विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः।।5.2.55।। Sundara Kanda,2,56,स पाण्डुराविद्धविमानमालिनीं महार्हजाम्बूनदजालतोरणाम्। यशस्विनीं रावणबाहुपालितां क्षपाचरैर्भीमबलैः समावृताम्।।5.2.56।। Sundara Kanda,2,57,चन्द्रोऽपि साचिव्यमिवास्य कुर्वंस्तारागणैर्मध्यगतो विराजन्। ज्योत्स्नावितानेन वितत्य लोक मुत्तिष्ठते नैकसहस्ररश्मि:।।5.2.57।। Sundara Kanda,2,58,शङ्खप्रभं क्षीरमृणालवर्ण मुद्गच्छमानं व्यवभासमानम्। ददर्श चन्द्रं स हरिप्रवीरः पोप्लूयमानं सरसीव हंसम्।।5.2.58।। Sundara Kanda,3,1,स लम्बशिखरे लम्बे लम्बतोयदसन्निभे। सत्त्वमास्थाय मेधावी हनुमान् मारुतात्मजः।।5.3.1।। Sundara Kanda,3,2,निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः। रम्यकाननतोयाढ्यां पुरीं रावणपालिताम्।।5.3.2।। Sundara Kanda,3,3,शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम्। सागरोपमनिर्घोषां सागरानिलसेविताम्।।5.3.3।। Sundara Kanda,3,4,सुपुष्टबलसम्पुष्टां यथैव विटपावतीम्। चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम्।।5.3.4।। Sundara Kanda,3,5,भुजगाचरितां गुप्तां शुभां भोगवतीमिव। तां स विद्युद्घनाकीर्णां ज्योतिर्मार्गनिषेविताम्।।5.3.5।। Sundara Kanda,3,6,मन्दमारुतसञ्चारां यथेन्द्रस्यामरावतीम्। शातकुम्भेन महता प्राकारेणाभिसंवृताम्।।5.3.6।। Sundara Kanda,3,7,किङ्किणीजालघोषाभिः पताकाभिरलङ्कृताम्। आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान्।।5.3.7।। Sundara Kanda,3,8,विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः। जाम्बूनदमयैर्द्वारैर्वैडूर्यकृतवेदिकैः।।5.3.8।। Sundara Kanda,3,9,वज्रस्फटिकमुक्ताभिर्मणिकुट्टिमभूषितैः। तप्तहाटकनिर्यूहै राजतामलपाण्डुरैः।।5.3.9।। Sundara Kanda,3,10,वैढूर्यकृतसोपानैः स्फाटिकान्तरपांसुभिः। चारुसंजवनोपेतैः खमिवोत्पतितैः शुभैः।।5.3.10।। Sundara Kanda,3,11,क्रौञ्चबर्हिणसङ्घुष्टैः राजहंस निषेवितैः। तूर्याभरणनिर्घोषैः सर्वतः प्रतिनादिताम्।।5.3.11।। Sundara Kanda,3,12,वस्वौकसाराप्रतिमां तां वीक्ष्य नगरीं ततः। खमिवोत्पतितुं कामां जहर्ष हनुमान् कपिः।।5.3.12।। Sundara Kanda,3,13,तां समीक्ष्य पुरीं रम्यां राक्षसाधिपतेः शुभाम्। अनुत्तमामृद्धियुतां चिन्तयामास वीर्यवान्।।5.3.13।। Sundara Kanda,3,14,नेयमन्येन नगरी शक्या धर्षयितुं बलात्। रक्षिता रावणबलैरुद्यतायुधधारिभिः।।5.3.14।। Sundara Kanda,3,15,कुमुदाङ्गदयोर्वापि सुषेणस्य महाकपेः। प्रसिद्धेयं भवेद्भूमिर्मैन्दद्विविदयोरपि।।5.3.15।। Sundara Kanda,3,16,विवस्वतस्तनूजस्य हरेश्च कुशपर्वणः। ऋक्षस्य केतुमालस्य मम चैव गतिर्भवेत्।।5.3.16।। Sundara Kanda,3,17,समीक्ष्य तु महाबाहू राघवस्य पराक्रमम्। लक्ष्मणस्य च विक्रान्तमभवत् प्रीतिमान् कपिः।।5.3.17।। Sundara Kanda,3,18,तां रत्नवसनोपेतां कोष्ठागारावतंसकाम्। यन्त्रागारस्तनीमृद्धां प्रमदामिव भूषिताम्।।5.3.18।। Sundara Kanda,3,19,तां नष्टतिमिरां दीप्तैर्भास्वरैश्च महागृहैः। नगरीं राक्षसेन्द्रस्य स ददर्श महाकपिः।।5.3.19।। Sundara Kanda,3,20,थ सा हरिशार्दूलं प्रविशन्तं महाबलम्। नगरी स्वेन रूपेण ददर्श पवनात्मजम्।।5.3.20।। Sundara Kanda,3,21,सा तं हरिवरं दृष्ट्वा लङ्का रावणपालिता। स्वयमेवोत्थिता तत्र विकृताननदर्शना।।5.3.21।। Sundara Kanda,3,22,पुरस्तात्कपिवर्यस्य वायुसूनोरतिष्ठत। मुञ्चमाना महानादमब्रवीत्पवनात्मजम्।।5.3.22।। Sundara Kanda,3,23,कस्त्वं केन च कार्येण इह प्राप्तो वनालय। कथयस्वेह यत्तत्त्वं यावत्प्राणा धरन्ति ते।।5.3.23।। Sundara Kanda,3,24,न शक्यं खल्वियं लङ्का प्रवेष्टुं वानर त्वया। रक्षिता रावणबलैरभिगुप्ता समन्ततः।।5.3.24।। Sundara Kanda,3,25,अथ तामब्रवीद्वीरो हनुमानग्रतः स्थिताम्। कथयिष्यामि ते तत्त्वं यन्मां त्वं परिपृच्छसि।।5.3.25।। Sundara Kanda,3,26,का त्वं विरूपनयना पुरद्वारेऽवतिष्ठसि। किमर्थं चापि मां रुद्ध्वा निर्भर्त्सयसि दारुणा।।5.3.26।। Sundara Kanda,3,27,हनुमद्वचनं श्रुत्वा लङ्का सा कामरूपिणी। उवाच वचनं क्रुद्धा परुषं पवनात्मजम्।।5.3.27।। Sundara Kanda,3,28,अहं राक्षसराजस्य रावणस्य महात्मनः। आज्ञाप्रतीक्षा दुर्धर्षा रक्षामि नगरीमिमाम्।।5.3.28।। Sundara Kanda,3,29,न शक्या मामवज्ञाय प्रवेष्टुं नगरी त्वया। अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया।।5.3.29।। Sundara Kanda,3,30,अहं हि नगरी लङ्का स्वयमेव प्लवङ्गम। सर्वतः परिरक्षामि ह्येतत्ते कथितं मया।।5.3.30।। Sundara Kanda,3,31,लङ्काया वचनं श्रुत्वा हनुमान् मारुतात्मजः। यत्नवान्स हरिश्रेष्ठः स्थितश्शैल इवापरः।।5.3.31।। Sundara Kanda,3,32,स तां स्त्रीरूपविकृतां दृष्टवा वानरपुङ्गवः। आबभाषेऽथ मेधावी सत्त्ववान् प्लवगर्षभः।।5.3.32।। Sundara Kanda,3,33,द्रक्ष्यामि नगरीं लङ्कां साट्टप्राकारतोरणाम्। निर्विशङ्कमिमंलोकं पश्यन्त्यास्तवसांप्रतम्। इत्यर्थमिह संप्राप्तः परं कौतूहलं हि मे।।5.3.33।। Sundara Kanda,3,34,वनान्युपवनानीह लङ्कायाः काननानि च। सर्वतो गृहमुख्यानि द्रष्टुमागमनं हि मे।।5.3.34।। Sundara Kanda,3,35,तस्य तद्वचनं श्रुत्वा लङ्का सा कामरूपिणी। भूय एव पुनर्वाक्यं बभाषे परुषाक्षरम्।।5.3.35।। Sundara Kanda,3,36,मामनिर्जित्य दुर्बुद्धे राक्षसेश्वरपालितां। न शक्यमद्य ते द्रष्टुं पुरीयं वानराधम।।5.3.36।। Sundara Kanda,3,37,ततः स कपिशार्दूलस्तामुवाच निशाचरीम्। दृष्ट्वा पुरीमिमां भद्रे पुनर्यास्ये यथागतम्।।5.3.37।। Sundara Kanda,3,38,ततः कृत्वा महानादं सा वै लङ्का भयावहम्। तलेन वानरश्रेष्ठं ताडयामास वेगिता।।5.3.38।। Sundara Kanda,3,39,ततः स कपिशार्दूलो लङ्कया ताडितो भृशम्। ननाद सुमहानादं वीर्यवान् पवनात्मजः।।5.3.39।। Sundara Kanda,3,40,ततः संवर्तयामास वामहस्तस्य सोऽङ्गुलीः। मुष्टिनाऽऽभिजघानैनां हनुमान् क्रोधमूर्छितः।।5.3.40।। स्त्री चेति मन्यमानेन नातिक्रोधः स्वयं कृतः। Sundara Kanda,3,41,सा तु तेन प्रहारेण विह्वलाङ्गी निशाचरी।।5.3.41।। पपात सहसा भूमौ विकृताननदर्शना। Sundara Kanda,3,42,ततस्तु हनुमान् प्राज्ञस्तां दृष्ट्वा विनिपातिताम्।।5.3.42।। कृपां चकार तेजस्वी मन्यमानः स्त्रियं तु ताम्। Sundara Kanda,3,43,ततो वै भृशसंविग्ना लङ्का सा गद्गदाक्षरम्।।5.3.43।। उवाचागर्वितं वाक्यं हनूमन्तं प्लवङ्गमम्। Sundara Kanda,3,44,प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम ।।5.3.44।। समये सौम्य तिष्ठन्ति सत्त्ववन्तो महाबलाः। Sundara Kanda,3,45,अहं तु नगरी लङ्का स्वयमेव प्लवङ्गम।।5.3.45।। निर्जिताहं त्वया वीर विक्रमेण महाबल। Sundara Kanda,3,46,इदं तु तथ्यं शृणु वै ब्रुवन्त्या मे हरीश्वर।।5.3.46।। स्वयंभुवा पुरा दत्तं वरदानं यथा मम। Sundara Kanda,3,47,यदा त्वां वानरः कश्चिद्विक्रमाद्वशमानयेत्।।5.3.47।। तदा त्वया हि विज्ञेयं रक्षसां भयमागतम्। Sundara Kanda,3,48,स हि मे समयः सौम्य प्राप्तोऽद्य तव दर्शनात्।।5.3.48।। स्वयंभू विहितः सत्यो न तस्यास्ति व्यतिक्रमः। Sundara Kanda,3,49,सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः।।5.3.49।। रक्षसां चैव सर्वेषां विनाशः समुपागतः। Sundara Kanda,3,50,तत्प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम्।।5.3.50।। विधत्स्व सर्वकार्याणि यानि यानीह वाञ्छसि। Sundara Kanda,3,51,प्रविश्य शापोपहतां हरीश्वर शुभां पुरीं राक्षसमुख्यपालिताम्। यदृच्छया त्वं जनकात्मजां सतीं विमार्ग सर्वत्र गतो यथासुखम्।।5.3.51।। Sundara Kanda,4,1,स निर्जित्य पुरीं श्रेष्ठां लङ्कां तां कामरूपिणीम्। विक्रमेण महातेजा हनुमान् कपिसत्तमः।।5.4.1।। अद्वारेण च महाबाहुः प्राकारमभिपुप्लुवे। Sundara Kanda,4,2,प्रविश्य नगरीं लङ्कां कपिराजहितंकरः।।5.4.2।। चक्रेऽथ पादं सव्यं च शत्रूणां स तु मूर्धनि। Sundara Kanda,4,3,प्रविष्टः सत्त्वसम्पन्नो निशायां मारुतात्मजः।।5.4.3।। Sundara Kanda,4,4,स महापथमास्थाय मुक्तापुष्पविराजितम्। ततस्तु तां पुरीं लङ्कां रम्यामभिययौ कपिः।।5.4.4।। Sundara Kanda,4,5,हसितोत्कृष्टनिनदैस्तूर्यघोषपुरस्सरैः। वज्रांकुशनिकाशैश्च वज्रजालविभूषितैः।।5.4.5।। गृहमेघैः पुरी रम्या बभासे द्यौरिवाम्बुदैः। Sundara Kanda,4,6,प्रजज्वाल ततो लङ्का रक्षोगणगृहैः शुभैः।।5.4.6।। Sundara Kanda,4,7,सिताभ्रसदृशैश्चित्रैः पद्मस्वस्तिकसंस्थितैः। वर्धमानगृहैश्चापि सर्वतः सुविभूषिता।।5.4.7।। Sundara Kanda,4,8,तां चित्रमाल्याभरणां कपिराजहितङ्करः। राघवार्थं चरन् श्रीमान् ददर्श च ननन्द च।।5.4.8।। Sundara Kanda,4,9,भवनाद्भवनं गच्छन् ददर्श पवनात्मजः। विविधाकृतिरूपाणि भवनानि ततस्ततः।।5.4.9।। Sundara Kanda,4,10,शुश्राव मधुरं गीतं त्रिस्थानस्वरभूषितम्। स्त्रीणां मदसमृद्धानां दिवि चाप्सरसामिव।।5.4.10।। Sundara Kanda,4,11,"""शुश्राव काञ्चीनिनदं नूपुराणां च, निःस्वनम्। सोपाननिनदांश्चैव भवनेषु महात्मनाम्।।5.4.11।। अस्फोटितनिनादांश्च क्ष्वेलितांश्च ततस्ततः।""" Sundara Kanda,4,12,शुश्राव जपतां तत्र मन्त्रान् रक्षोगृहेषु वै।।5.4.12।। Sundara Kanda,4,13,स्वाध्यायनिरतांश्चैव यातुधानान् ददर्श सः। रावणस्तवसंयुक्तान् गर्जतो राक्षसानपि।।5.4.13।। Sundara Kanda,4,14,राजमार्गं समावृत्य स्थितं रक्षोबलं महत्। ददर्श मध्यमे गुल्मे रावणस्य चरान् बहून्।।5.4.14।। Sundara Kanda,4,15,दीक्षितान् जटिलान् मुण्डान् गोजिनाम्बरवाससः। दर्भमुष्टिप्रहरणानग्निकुण्डायुघांस्तथा।।5.4.15।। Sundara Kanda,4,16,कूटमुद्गरपाणींश्च दण्डायुधधरानपि। एकाक्षानेककर्णांश्च लम्बोदरपयोधरान्।।5.4.16।। Sundara Kanda,4,17,करालान् भुग्नवक्त्रांश्च विकटान् वामनांस्तथा। धन्विनः खङ्गिनश्चैव शतघ्नीमुसलायुधान्।।5.4.17।। Sundara Kanda,4,18,परिघोत्तमहस्तांश्च विचित्रकवचोज्ज्वलान्। नातिस्थूलान्नातिकृशान्नातिदीर्घातिह्रस्वकान्।।5.4.18।। नातिगौरान्नातिकृष्णान्नातिकुब्जान्न वामनान्। विरूपान् बहुरूपांश्च सुरूपांश्च सुवर्चसः।5.4.19।। ध्वजीन् पताकिनश्चैव ददर्श विविधायुधान्। Sundara Kanda,4,20,शक्तिवृक्षायुधांश्चैव पट्टिसाशनिधारिणः।।5.4.20।। Sundara Kanda,4,21,क्षेपणीपाशहस्तांश्च ददर्श स महाकपिः। स्रग्विणस्त्वनुलिप्तांश्च वराभरणभूषितान्।।5.4.21।। Sundara Kanda,4,22,नानावेषसमायुक्तान् यथास्स्वैरगतान् बहून्। तीक्ष्णशूलधरांश्चैव वज्रिणश्च महाबलान्।।5.4.22।। Sundara Kanda,4,23,शतसाहस्रमव्यग्रमारक्षं मध्यमं कपिः। रक्षोधिपतिनिर्दिष्टं ददर्शान्तःपुराग्रतः।।5.4.23।। Sundara Kanda,4,24,स तदा तद्गृहं दृष्ट्वा महाहाटकतोरणम्। राक्षसेन्द्रस्य विख्यातमद्रिमूर्ध्नि प्रतिष्ठितम्।।5.4.24।। Sundara Kanda,4,25,पुण्डरीकावतंसाभिः परिखाभिरलङ्कृतम्। प्राकारावृतमत्यन्तं ददर्श स महाकपिः।।5.4.25।। Sundara Kanda,4,26,त्रिविष्टपनिभं दिव्यं दिव्यनादनिनादितम्। वाजिहेषितसङ्घुष्टं नादितं भूषणैस्तथा।।5.4.26।। Sundara Kanda,4,27,रथैर्यानैर्विमानैश्च तथा हयगजैः शुभैः। वारणैश्च चतुर्थन्तैः श्वेताभ्रनिचयोपमैः।।5.4.27।। Sundara Kanda,4,28,भूषितं रुचिरद्वारं मत्तैश्च मृगपक्षिभिः। रक्षितं सुमहावीर्यैर्यातुधानैः सहस्रशः। राक्षसाधिपतेर्गुप्तमाविवेश महाकपिः।।5.4.28।। Sundara Kanda,4,29,सहेमजाम्बूनदचक्रवालं महार्हमुक्तामणिभूषितान्तम्। परार्थ्यकालागुरुचन्दनाक्तं स रावणान्तःपुरमाविवेश।।5.4.29।। Sundara Kanda,5,1,ततः स मध्यंगतमंशुमन्तं ज्योत्स्नावितानं महदुद्वमन्तम्। ददर्श धीमान् दिवि भानुमन्तं गोष्ठे वृषं मत्तमिव भ्रमन्तम्।।5.5.1।। Sundara Kanda,5,2,लोकस्य पापानि विनाशयन्तं महोदधिं चापि समेधयन्तम्। भूतानि सर्वाणि विराजयन्तं ददर्श शीतांशुमथाभियान्तम्।।5.5.2।। Sundara Kanda,5,3,या भाति लक्ष्मीर्भुवि मन्दरस्था तथा प्रदोषेषु च सागरस्था। तथैव तोयेषु च पुष्करस्था रराज सा चारुनिशाकरस्था।।5.5.3।। Sundara Kanda,5,4,हंसो यथा राजतपञ्जरस्थः सिंहो यथा मन्दरकन्दरस्थः। वीरो यथा गर्वितकुञ्जरस्थ चन्द्रोऽपि बभ्राज तथाम्बरस्थः।।5.5.4।। Sundara Kanda,5,5,स्थितः ककुद्मानिव तीक्ष्णशृङ्गो महाचलः श्वेत इवोच्चशृङ्गः। हस्तीव जाम्बूनदबद्धशृङ्गो रराज चन्द्रः परिपूर्णशृङ्गः।।5.5.5।। Sundara Kanda,5,6,विनष्टशीताम्बुतुषारपङ्को महाग्रहग्राहविनष्टपङ्कः। प्रकाशलक्ष्म्याश्रयनिर्मलाङ्क: रराज चन्द्रो भगवान् शशाङ्कः।।5.5.6।। Sundara Kanda,5,7,शिलातलं प्राप्य यथा मृगेन्द्रो महारणं प्राप्य यथा गजेन्द्रः। राज्यं समासाद्य यथा नरेन्द्र स्तथाप्रकाशो विरराज चन्द्रः।।5.5.7।। Sundara Kanda,5,8,प्रकाशचन्द्रोदयनष्टदोषः प्रवृत्तरक्षः पिशिताशदोषः। रामाभिरामेरितचित्तदोषः स्वर्गप्रकाशो भगवान् प्रदोषः।।5.5.8।। Sundara Kanda,5,9,तन्त्रीस्वनाः कर्णसुखाः प्रवृत्ताः स्वपन्ति नार्यः पतिभिः सुवृत्ताः। नक्तंचराश्चापि तथा प्रवृत्ता: विहर्तुमत्यद्भुतरौद्रवृत्ताः।।5.5.9।। Sundara Kanda,5,10,मत्तप्रमत्तानि समाकुलानि रथाश्वभद्रासनसङ्कुलानि। वीरश्रिया चापि समाकुलानि ददर्श धीमान् स कपिः कुलानि।।5.5.10।। Sundara Kanda,5,11,परस्परं चाधिकमाक्षिपन्ति भुजांश्च पीनानधिकं क्षिपन्ति। मत्तप्रलापानधिकं क्षिपन्ति मत्तानि चान्योन्यमधिक्षिपन्ति।।5.5.11।। Sundara Kanda,5,12,रक्षांसि वक्षांसि च विक्षिपन्ति गात्राणि कान्तासु च विक्षिपन्ति। रूपाणि चित्राणि च विक्षिपन्ति दृढानि चापानि च विक्षिपन्ति।।5.5.12।। Sundara Kanda,5,13,ददर्श कान्ताश्च समालभन्त्य स्तथा परास्तत्र पुनः स्वपन्त्यः। सुरूपवक्त्राश्च तथा हसन्त्यः क्रुद्धाः पराश्चापि विनिःश्वसन्त्य।।5.5.13।। Sundara Kanda,5,14,महागजैश्चापि तथा नदद्भि: सुपूजितैश्चापि तथा सुसद्भिः। रराज वीरैश्च विनिःश्वसद्भिः ह्रदो भुजङ्गैरिव निःश्वसद्भिः।।5.5.14।। Sundara Kanda,5,15,बुद्धिप्रधानान् रुचिराभिधानान् संश्रद्धधानान् जगतः प्रधानान्। नानाविधानान् रुचिराभिधानान् ददर्श तस्यां पुरि यातुधानान्।।5.5.15।। Sundara Kanda,5,16,ननन्द दृष्ट्वा स च तान् सुरूपान्नानागुणानात्मगुणानुरूपान्। विद्योतमानान्स तदानुरूपान् ददर्श कांश्चिच्च पुनर्विरूपान्।।5.5.16।। Sundara Kanda,5,17,ततो वरार्हाः सुविशुद्धभावा स्तेषां स्त्रियस्तत्र महानुभावाः। प्रियेषु पानेषु च सक्तभावा ददर्श तारा इव सुप्रभावाः।।5.5.17।। Sundara Kanda,5,18,श्रिया ज्वलन्तीस्त्रपयोपगूढा निशीथकाले रमणोपगूढाः। ददर्श काश्चित्प्रमदोपगूढा यथा विहङ्गाः कुसुमोपगूढाः।।5.5.18।। Sundara Kanda,5,19,अन्याः पुनर्हर्म्यतलोपविष्टा स्तत्र प्रियाङ्केषु सुखोपविष्टाः। भर्तुः प्रिया धर्मपरा निविष्टा ददर्श धीमान् मदनाभिविष्टाः।।5.5.19।। Sundara Kanda,5,20,अप्रावृताः काञ्चनराजिवर्णाः काश्चित्परार्थ्यास्तपनीयवर्णाः। पुनश्च काश्चिच्छशलक्ष्मवर्णाः कान्तप्रहीणा रुचिराङ्गवर्णाः।।5.5.20।। Sundara Kanda,5,21,ततः प्रियान् प्राप्य मनोभिरामाः सुप्रीतियुक्ताः प्रसमीक्ष्यरामाः। गृहेषु हृष्टाः परमाभिरामाः हरिप्रवीरः स ददर्श रामाः।।5.5.21।। Sundara Kanda,5,22,चन्द्रप्रकाशाश्च हि वक्त्रमालाः वक्राक्षिपक्ष्माश्च सुनेत्रमालाः। विभूषणानां च ददर्श मालाः शतह्रदानामिव चारुमालाः।।5.5.22।। Sundara Kanda,5,23,न त्वेव सीतां परमाभिजातां पथि स्थिते राजकुले प्रजाताम्। लतां प्रपुल्लामिव साधु जातां ददर्श तन्वीं मनसाभिजाताम्।।5.5.23।। Sundara Kanda,5,24,सनातने वर्त्मनि सन्निविष्टां रामेक्षणां तां मदनाभिविष्टाम्। भर्तुर्मनः श्रीमदनुप्रविष्टां स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम्।।5.5.24।। Sundara Kanda,5,25,उष्णार्दितां सानुसृतास्रकण्ठीम् पुरा वरार्होत्तमनिष्ककण्ठीम्। सुजातपक्ष्मामभिरक्तकण्ठीं वनेऽप्रवृत्तामिव नीलकण्ठीम्।।5.5.25।। Sundara Kanda,5,26,अव्यक्तरेखामिव चन्द्ररेखां पांसुप्रदिग्धामिव हेमरेखाम्। क्षतप्ररूढामिव बाणरेखां वायुप्रभिन्नामिव मेघरेखाम्।।5.5.26।। Sundara Kanda,5,27,सीतामपश्यन् मनुजेश्वरस्य रामस्य पत्नीं वदतां वरस्य। बभूव दुःखाभिहतश्चिरस्य प्लवङ्गमो मन्द इवाचिरस्य।।5.5.27।। Sundara Kanda,6,1,स निकामं विमानेषु निषण्णः कामरूपधृत्। विचचार पुनर्लङ्कां लाघवेन समन्वितः।।5.6.1।। Sundara Kanda,6,2,आससादाथ लक्ष्मीवान्राक्षसेन्द्रनिवेशनम्। प्राकारेणार्कवर्णेन भास्वरेणाभिसम्वृतम्।।5.6.2।। Sundara Kanda,6,3,रक्षितं राक्षसैर्घोरैः सिंहैरिव महद्वनम्। समीक्षमाणो भवनं चकाशे कपिकुञ्जरः।।5.6.3।। Sundara Kanda,6,4,रूप्यकोपहितै श्चित्रैस्तोरणैर्हेमभूषितैः। विचित्राभिश्च कक्ष्याभिर्द्वारैश्च रुचिरैर्वृतम्।।5.6.4।। Sundara Kanda,6,5,गजास्थितैर्महामात्रैः शूरैश्च विगतश्रमैः। उपस्थितमसंहार्यैः र्हयैः स्यन्दनयायिभिः।।5.6.5।। Sundara Kanda,6,6,सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्चनराजतैः। घोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः।।5.6.6।। Sundara Kanda,6,7,बहुरत्नसमाकीर्णं परार्थ्यसनभाजनम्। महारथसमावासं महारथमहास्वनम्।।5.6.7।। Sundara Kanda,6,8,दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः। विविधै र्बहुसाहस्रैः परिपूर्णं समन्ततः।।5.6.8।। Sundara Kanda,6,9,विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम्। मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समन्ततः।।5.6.9।। Sundara Kanda,6,10,मुदितप्रमदारत्नं राक्षसेन्द्रनिवेशनम्। वराभरणसंह्रादैः समुद्रस्वनन्निस्वनम्।।5.6.10।। Sundara Kanda,6,11,तद्राजगुणसम्पन्नं मुख्यैश्चागुरुचन्दनैः। महाजनैः समाकीर्णां सिंहैरिव महद्वनम्।।5.6.11।। Sundara Kanda,6,12,भेरीमृदङ्गाभिरुतं शङ्खघोषनिनादितम्। नित्यार्चितं पर्वहुतं पूजितं राक्षसैः सदा।।5.6.12।। Sundara Kanda,6,13,समुद्रमिव गम्भीरं समुद्रमिव निस्स्वनम्। महात्मनो महाद्वेश्म महारत्नपरिच्छदम्।।5.6.13।। महारत्नसमाकीर्णं ददर्श स महाकपिः। Sundara Kanda,6,14,विराजमानं वपुषा गजाश्वरथसङ्कुलम्।।5.6.14।। Sundara Kanda,6,15,लङ्काभरणमित्येव सोऽमन्यत महाकपिः। चचार हनुमांस्तत्र रावणस्य समीपतः।।5.6.15।। Sundara Kanda,6,16,गृहाद्गृहं राक्षसानामुद्यानानि च वानरः। वीक्षमाणोऽह्यसंत्रस्तः प्रासादांश्च चचार सः।।5.6.16।। Sundara Kanda,6,17,अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम्। ततोऽन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान्।।5.6.17।। Sundara Kanda,6,18,अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम्। विभीषणस्य च तदा पुप्लुवे स महाकपिः।।5.6.18।। Sundara Kanda,6,19,महोदरस्य च गृहं विरूपाक्षस्य चैव हि। विद्युज्जिह्वस्य भवनं विद्युन्मालेस्तथैव च।।5.6.19।। वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः। Sundara Kanda,6,20,शुकस्य च महातेजाः सारणस्य च धीमतः।।5.6.20।। तथा चेन्द्रजितो वेश्म जगाम हरियूथपः। Sundara Kanda,6,21,जम्बुमालेः सुमालेश्च जगाम हरिसत्तमः।।5.6.21।। Sundara Kanda,6,22,रश्मिकेतोश्च भवनं सूर्यकेतोस्तथैव च। वज्रकायस्य च तथा पुप्लुवे स महाकपिः।।5.6.22।। Sundara Kanda,6,23,धूम्राक्षस्य च सम्पातेर्भवनं मारुतात्मजः। विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च।।5.6.23।। Sundara Kanda,6,24,शुकनासस्य वक्रस्य शठस्य विकटस्य च। ब्रह्मकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः।।5.6.24।। Sundara Kanda,6,25,युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनः। विद्युज्जिह्वेन्द्रजिह्वानां तथा हस्तिमुखस्य च।।5.6.25।। कराळस्य पिशाचस्य शोणिताक्षस्य चैव हि। Sundara Kanda,6,26,भवनम् क्रममाणः णोऽसौ हनुमान्मारुतात्मजः।।5.6.26।। Sundara Kanda,6,27,तेषु तेषु महार्हेषु भवनेषु महायशाः। तेषामृद्धिमतामृद्धिं ददर्श स महाकपिः।।5.6.27।। Sundara Kanda,6,28,सर्वेषां समतिक्रम्य भवनानि समन्ततः। आससादाथ लक्ष्मीवान् राक्षसेद्रनिवेशनम्।।5.6.28।। Sundara Kanda,6,29,रावणस्योपशायिन्यो ददर्श हरिसत्तमः। विचरन्हरिशार्दूलो राक्षसीर्विकृतेक्षणाः।।5.6.29।। शूलमुद्गरहस्ताश्च शक्तितोमरधारिणी:। Sundara Kanda,6,30,ददर्श विविधान् गुल्मान् तस्य रक्षःपतेर्गृहे।।5.6.30।। राक्षसांश्च महाकायान्नानाप्रहरणोद्यतान्। Sundara Kanda,6,31,रक्तान् श्वेतान् सितांश्चैव हरींश्चापि महाजवान्।।5.6.31।। Sundara Kanda,6,32,कुलीनान् रूपसम्पन्नान् गजान्परगजारुजान्। निष्ठितान् गजशिक्षयामैरावतसमान्युधि।।5.6.32।। Sundara Kanda,6,33,निहन्त्रून् परसैन्यानां गृहे तस्मिन् ददर्श सः। क्षरतश्च यथा मेघान् स्रवतश्च यथा गिरीन्।।5.6.33।। मेघसन्ततिनिर्घोषान् दुर्धर्षान् समरे परैः। Sundara Kanda,6,34,सहस्रं वाहिनीस्तत्र जाम्बूनदपरिष्कृताः।।5.6.34।। Sundara Kanda,6,35,हेमजालपरिच्छन्नास्तरुणादित्यसन्निभाः। ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने।।5.6.35।। Sundara Kanda,6,36,शिबिका विविधाकाराः स कपिर्मारुतात्मजः। लतागृहाणि चित्राणि चित्रशालागृहाणि च।।5.6.36।। Sundara Kanda,6,37,क्रीडागृहाणि चान्यानि दारुपर्वतकानपि। कामस्य गृहकं रम्यं दिवागृहकमेव च।।5.6.37।। ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने। Sundara Kanda,6,38,स मन्दरगिरिप्रख्यं मयूरस्थानसङ्कुलम्।।5.6.38।। Sundara Kanda,6,39,ध्वजयष्टिभिराकीर्णं ददर्श भवनोत्तमम्। अनेकरत्नसङ्कीर्णं निधिजालं समन्ततः।।5.6.39।। धीरनिष्ठितकर्मान्तं गृहं भूतपतेरिव। Sundara Kanda,6,40,अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य च।।5.6.40।। विरराजाथ तद्वेश्म रश्मिमानिव रश्मिभिः। Sundara Kanda,6,41,जाम्बूनदमयान्येन शयनान्यासनानि च।।5.6.41।। भाजनानि च मुख्यानि ददर्श हरियूथपः। Sundara Kanda,6,42,मध्वासवकृतक्लेदं मणिभाजनसङ्कुलम्।।5.6.42।। Sundara Kanda,6,43,मनोरममसंबाधं कुबेरभवनं यथा। नूपुराणां च घोषेण काञ्चीनां निनदेन च।।5.6.43।। मृदङ्तलघोषैश्च घोषवद्भिर्विनादितम्। प्रासादसङ्घातयुतं स्त्रीरत्नशतसङ्कुलम्।।5.6.44। सुव्यूढकक्ष्यं हनुमान् प्रविवेश महागृहाम्। Sundara Kanda,7,1,स वेश्मजालं बलवान् ददर्श व्यासक्तवैडूर्यसुवर्णजालम्। यथा महत् प्रावृषि मेघजालं विद्युत्पिनद्धं सविहङ्गजालम्।।5.7.1।। Sundara Kanda,7,2,निवेशनानां विविधाश्च शालाः प्रधानशङ्खायुधचापशालाः। मनोहराश्चापि पुनर्विशालाः ददर्श वेश्माद्रिषु चन्द्रशालाः।।5.7.2।। Sundara Kanda,7,3,गृहाणि नानावसुराजितानि देवासुरैश्चापि सुपूजितानि। सर्वैश्च दोषैः परिवर्जितानि कपिर्ददर्श स्वबलार्जितानि।।5.7.3।। Sundara Kanda,7,4,तानि प्रयत्नाभिसमाहितानि मयेन साक्षादिव निर्मितानि। महीतले सर्वगुणोत्तराणि ददर्श लङ्काधिपतेर्गृहाणि।।5.7.4।। Sundara Kanda,7,5,ततो ददर्शोछ्रचितमेघरूपं मनोहरं काञ्चनचारुरूपम्। रक्षोऽधिपस्यात्मबलानुरूपं गृहोत्तमं ह्यप्रतिरूपरूपम्।।5.7.5।। Sundara Kanda,7,6,महीतले स्वर्गमिव प्रकीर्णं श्रिया ज्वलन्तं बहुरत्नकीर्णम्। नानातरूणां कुसुमावकीर्णं गिरेरिवाग्रं रजसावकीर्णम्।।5.7.6।। Sundara Kanda,7,7,नारीप्रवेकैरिव दीप्यमानं तटिद्भिरम्भोदवदर्च्यमानम्। हंसप्रवेकैरिव वाह्यमानं श्रिया युतं खे सुकृतां विमानम्।।5.7.7।। Sundara Kanda,7,8,यथा नगाग्रं बहुधातुचित्रं यथा नभश्च ग्रहचन्द्रचित्रम्। ददर्शयुक्तीकृतमेघचित्रं विमानरत्नं बहुरत्नचित्रम्।।5.7.8।। Sundara Kanda,7,9,मही कृता पर्वतराजिपूर्णा शैलाः कृता वृक्षवितानपूर्णाः। वृक्षाः कृताः पुष्पवितानपूर्णाः पुष्पं कृतं केसरपत्रपूर्णम्।।5.7.9।। Sundara Kanda,7,10,कृतानि वेश्मानि च पाण्डुराणि तथा सुपुष्पाण्यपि पुष्कराणि। पुनश्च पद्मानि सकेसराणि धन्यानि चित्राणि तथा वनानि।।5.7.10।। Sundara Kanda,7,11,पुष्पाह्वयं नामविराजमानं रत्नप्रभाभिश्च विवर्धमानम्। वेश्मोत्तमानामपि चोच्यमानं महाकपिस्तत्र महाविमानम्।।5.7.11।। Sundara Kanda,7,12,कृताश्च वैडूर्यमया विहङ्गाः रूप्यप्रवालैश्च तथा विहङ्गाः। चित्राश्च नानावसुभिर्भुजङ्गाः जात्यानुरूपास्तुरगाः शुभाङ्गाः।।5.7.12।। Sundara Kanda,7,13,प्रवालजाम्बूनदपुष्पपक्षाः सलीलमावर्जितजिह्मपक्षाः। कामस्य साक्षादिव भान्ति पक्षाः कृता विहङ्गाः सुमुखाः सुपक्षाः।।5.7.13।। Sundara Kanda,7,14,नियुज्यमानास्तु गजाः सुहस्ताः सकेसराश्चोत्पलपत्रहस्ताः। बभूवदेवी च कृता सुहस्ता लक्ष्मी स्तथा पद्मिनि पद्महस्ता।।5.7.14।। Sundara Kanda,7,15,इतीव तद्गृहमभिगम्य शोभनम् सविस्मयो नगमिव चारुशोभनम्। पुनश्च तत्परमसुगन्धि सुन्दरम् हिमात्यये नगमिव चारुकन्दरम्।।5.7.15।। Sundara Kanda,7,16,ततः स तां कपिरभिपत्य पूजितां चरन् पुरीं दशमुखबाहुपालिताम्। अदृश्य तां जनकसुतां सुपूजितां सुदुःखितः पतिगुणवेगवर्जिताम्।।5.7.16।। Sundara Kanda,7,17,ततस्तदा बहुविधभावितात्मनः कृतात्मनो जनकसुतां सुवर्त्मनः। अपश्यतोऽभवदतिदुःखितं मनः सुचक्षुषः प्रविचरतो महात्मनः।।5.7.17।। Sundara Kanda,8,1,स तस्य मध्ये भवनस्य संस्थितं महद्विमानं मणिवज्रचित्रितम्। प्रतप्तजाम्बूनदजालकृत्रिमं ददर्श वीरः पवनात्मजः कपिः।।5.8.1।। Sundara Kanda,8,2,तदप्रमेयाप्रतिकारकृत्रिमं कृतं स्वयं साध्विति विश्वकर्मणा। दिवं गतं वायुपथप्रतिष्ठितं व्यराजतादित्यपथस्य लक्ष्मवत्।।5.8.2।। Sundara Kanda,8,3,न तत्र किञ्चिन्न कृतं प्रयत्नतो न तत्र किञ्चिन्न महार्हरत्नवत्। न ते विशेषा नियताः सुरेष्वपि न तत्र किञ्चिन्न महाविशेषवत्।।5.8.3।। Sundara Kanda,8,4,तपः समाधानपराक्रमार्जितं मनः समाधानविचारचारिणम्। अनेकसंस्थानविशेषनिर्मितं ततस्ततस्तुल्यविशेषदर्शनम्।।5.8.4।। Sundara Kanda,8,5,विशेषमालम्ब्य विशेषसंस्थितं विचित्रकूटं बहुकूटमण्डितम्। मनोऽभिरामं शरदिन्दुनिर्मलं विचित्रकूटं शिखरं गिरेर्यथा।।5.8.5।। Sundara Kanda,8,6,वहन्ति यं कुण्डलशोभिताननाः महाशना व्योमचरा निशाचराः। विवृत्तविध्वस्तविशाललोचनाः महाजवा भूतगणाः सहस्रशः।।5.8.6।। Sundara Kanda,8,7,वसन्तपुष्पोत्करचारुदर्शनं वसन्तमासादपि कान्तदर्शनम्। स पुष्पकं तत्र विमानमुत्तमं ददर्श तद्वानरवीरसत्तमः।।5.8.7।। Sundara Kanda,9,1,तस्यालयवरिष्ठस्य मध्ये विपुलमायतं। ददर्श भवनश्रेष्ठं हनुमान्मारुतात्मजः।।5.9.1।। Sundara Kanda,9,2,अर्धयोजनविस्तीर्णमायतं योजनं हि तत्। भवनं राक्षसेन्द्रस्य बहुप्रासादसङ्कुलम्।।5.9.2।। Sundara Kanda,9,3,मार्गमाणस्तु वैदेहीं सीतामायतलोचनाम्। सर्वतः परिचक्राम हनूमानरिसूदनः।।5.9.3।। Sundara Kanda,9,4,उत्तमं राक्षसावासं हनुमानवलोकयन्। आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम्।।5.9.4।। Sundara Kanda,9,5,चतुर्विषाणैर्द्विरदैस्त्रिविषाणैस्तथैव च। परिक्षिप्तमसम्बाधं रक्ष्यमाणमुदायुधैः।।5.9.5।। Sundara Kanda,9,6,राक्षसीभिश्च पत्नीभी रावणस्य निवेशनम्। आहृताभिश्च विक्रम्य राजकन्याभिरावृतम्।।5.9.6।। Sundara Kanda,9,7,तन्नक्रमकराकीर्णं तिमिङ्गिलझषाकुलम्। वायुवेगसमाधूतं पन्नगैरिव सागरम्।।5.9.7।। Sundara Kanda,9,8,या हि वैश्रवणे लक्ष्मीर्या चेन्द्रे हरिवाहने। सा रावणगृहे सर्वा नित्यमेवानपायिनी।।5.9.8।। Sundara Kanda,9,9,या च राज्ञः कुबेरस्य यमस्य वरुणस्य च। तादृशी तद्विशिष्टा वा ऋद्धी रक्षोगृहेष्विह।।5.9.9।। Sundara Kanda,9,10,तस्य हर्म्यस्य मध्यस्थं वेश्म चान्यत्सुनिर्मितं। बहुनिर्यूहसङ्कीर्णं ददर्श पवनात्मजः।।5.9.10।। Sundara Kanda,9,11,ब्रह्मणोऽर्थे कृतं दिव्यं दिवि यद्विश्वकर्मणा। विमानं पुष्पकं नाम सर्वरत्नविभूषितम्।।5.9.11।। Sundara Kanda,9,12,परेण तपसा लेभे यत्कुबेरः पितामहात्। कुबेरमोजसा जित्वा लेभे तद्राक्षसेश्वरः।।5.9.12।। Sundara Kanda,9,13,ईहामृगसमायुक्त्तै: कार्तस्वरहिरमण्मयैः। सुकृतैराचितं स्तम्भैः प्रदीप्तमिव च श्रिया।।5.9.13।। Sundara Kanda,9,14,मेरुमन्दरसङ्काशैरुल्लिखद्भिरिवाम्बरं। कूटागारैश्शुभाकारैस्सर्वतस्समलङ्कृतम्।।5.9.14।। Sundara Kanda,9,15,ज्वलनार्कप्रतीकाशं सुकृतं विश्वकर्मणा। हेमसोपानसंयुक्तं चारुप्रवरवेदिकम्।।5.9.15।। Sundara Kanda,9,16,जालवातायनैर्युक्तं काञ्चनैः स्स्फाटिकैरपि। इन्द्रनीलमहानीलमणिप्रवरवेदिकम्।।5.9.16।। Sundara Kanda,9,17,विद्रुमेण विचित्रेण मणिभिश्च महाघनैः। निस्तुलाभिश्च मुक्ताभिस्तलेनाभिविराजितम्।।5.9.17।। Sundara Kanda,9,18,चन्दनेन च रक्तेन तपनीयनिभेन च। सुपुण्यगन्धिना युक्तमादित्यतरुणोपमम्।।5.9.18।। Sundara Kanda,9,19,कूटागारैर्वराकारैर्विविधैस्समलङ्कृतम्। विमानं पुष्पकं दिव्यमारुरोह महाकपिः।।5.9.19।। Sundara Kanda,9,20,तत्रस्थस्स तदा गन्धं पानभक्ष्यान्नसम्भवम्। दिव्यं सम्मूर्छितं जिघ्रद्रूपवन्तमिवानिलम्।।5.9.20।। Sundara Kanda,9,21,स गन्धस्तं महासत्त्वं बन्धुर्बन्धुमिवोत्तमम्। इत एहीत्युवाचेन तत्र यत्र स रावणः।।5.9.21।। Sundara Kanda,9,22,ततस्तां प्रस्थितश्शालां ददर्श महतीं शुभाम्। रावणस्य मनः कान्तां कान्तामिव वरस्त्रियम्।।5.9.22।। Sundara Kanda,9,23,मणिसोपानविकृतां हेमजालविभूषिताम्। स्फाटिकैरावृततलां दन्तान्तरितरूपिकाम्।।5.9.23।। Sundara Kanda,9,24,मुक्ताभिश्च प्रवालैश्च रूप्यचामीकरैरपि। विभूषितां मणिस्तम्भैस्सुबहुस्तम्भभूषिताम्।।5.9.24।। Sundara Kanda,9,25,नम्रैरृजुभिरत्युच्चैस्समन्तात्सुविभूषितैः। स्तम्भै: पक्षैरिवात्युच्चैर्दिवं संप्रस्थितामिव।।5.9.25।। Sundara Kanda,9,26,महत्या कुथयास्तीर्णां पृथिवीलक्षणाङ्कया। पृथिवीमिव विस्तीर्णां सराष्ट्रगृहमालिनीम्।।5.9.26।। Sundara Kanda,9,27,नादितां मत्तविहगैर्दिव्यगन्धाधिवासिताम्। परार्ध्यास्तरणोपेतां रक्षोधिपनिषेविताम्।।5.9.27।। Sundara Kanda,9,28,धूम्रामगरुधूपेन विमलां हंसपाण्डुराम्। चित्रां पुष्पोपहारेण कल्माषीमिव सुप्रभाम्।।5.9.28।। Sundara Kanda,9,29,मनस्संह्लादजननीं वर्णस्यापि प्रसादिनीम्। तां शोकनाशिनीं दिव्यां श्रियः सञ्जननीमिव।।5.9.29।। Sundara Kanda,9,30,इन्द्रियाणीन्द्रियार्थैस्तु पञ्च पञ्चभिरुत्तमैः। तर्पयामास मातेव तदा रावणपालिता।।5.9.30।। Sundara Kanda,9,31,स्वर्गोऽयं देवलोकोऽयमिन्द्रस्येयं पुरी भवेत्। सिद्धिर्वेयं परा हि स्यादित्यमन्यत मारुतिः।।5.9.31।। Sundara Kanda,9,32,प्रध्यायत इवापश्यत्प्रदीपांस्तत्र काञ्चनान्। धूर्तानिव महाधूतैर्देवनेन पराजितान्।।5.9.32।। Sundara Kanda,9,33,दीपानां च प्रकाशेन तेजसा रावणस्य च। अर्चिर्भिर्भूषणानां च प्रदीप्तेत्यभ्यमन्यत।।5.9.33।। Sundara Kanda,9,34,ततोऽपश्यत्कुथाऽऽसीनं नानावरायम्बरस्रजम्। सहस्रं वरनारीणां नानावेषविभूषितम्।।5.9.34।। Sundara Kanda,9,35,परिवृत्तेऽर्धरात्रे तु पाननिद्रावशं गतम्। क्रीडित्वोपरतं रात्रौ सुष्वाप बलवत्तदा।।5.9.35।। Sundara Kanda,9,36,तत्प्रसुप्तं विरुरुचे निश्शब्दान्तरभूषणम्। निःशब्दहंसभ्रमरं यथा पद्मवनं महत्।।5.9.36।। Sundara Kanda,9,37,तासां संवृतदन्तानि मीलिताक्षीणि मारुतिः। अपश्यत्पद्मगन्धीनि वदनानि सुयोषिताम्।।5.9.37।। Sundara Kanda,9,38,प्रबुद्धानीव पद्मानि तासां भूत्वा क्षपाक्षये। पुनस्संवृतपत्राणि रात्राविव बभुस्तदा।।5.9.38।। Sundara Kanda,9,39,इमानि मुखपद्मानि नियतं मत्तषट्पदाः। अम्बुजानीव फुल्लानि प्रार्थयन्ति पुनः पुनः।।5.9.39।। Sundara Kanda,9,40,इति चामन्यत श्रीमानुपपत्त्या महाकपिः। मेने हि गुणतस्तानि समानि सलिलोद्भवैः।।5.9.40।। Sundara Kanda,9,41,सा तस्य शुशुभे शाला ताभिस्त्रीभिर्विराजिता। शारदीव प्रसन्ना द्यौस्ताराभिरभिशोभिता।।5.9.41।। Sundara Kanda,9,42,स च ताभिः परिवृतश्शुशुभे राक्षसाधिपः। यथा ह्युडुपतिश्शीमांस्ताराभिरभिसंवृतः।।5.9.42।। Sundara Kanda,9,43,याश्च्यवन्तेऽम्बरात्ताराः पुण्यशेषसमावृताः। इमास्तास्सङ्गताः कृत्स्ना इति मेने हरिस्तदा।।5.9.43।। Sundara Kanda,9,44,ताराणामिव सुव्यक्तं महतीनां शुभार्चिषाम्। प्रभावर्णप्रसादाश्च विरेजुस्तत्र योषिताम्।।5.9.44।। Sundara Kanda,9,45,व्यावृत्तगुरुपीनस्रक्प्रकीर्णवरभूषणाः। पानव्यायामकालेषु निद्रापहृतचेतसः।।5.9.45।। Sundara Kanda,9,46,व्यावृत्ततिलकाः काश्चित्काश्चिदुद्भ्रन्तनूपुराः। पार्श्वे गलितहाराश्च काश्चित्परमयोषितः।।5.9.46।। Sundara Kanda,9,47,मुक्ताहाराऽवृताश्चान्याः काश्चिद्विस्रस्तवाससः। व्याविद्धरशनादामाः किशोर्य इव वाहिताः।।5.9.47।। Sundara Kanda,9,48,सुकुण्डलधराश्चान्या विच्छिन्नमृदितस्रजः। गजेन्द्रमृदिताः फुल्ला लता इव महावने।।5.9.48।। Sundara Kanda,9,49,चन्द्रांशुकिरणाभाश्च हाराः कासांचिदुत्कटाः। हंसा इव बभुस्सुप्ताः स्तनमध्येषु योषिताम्।।5.9.49।। Sundara Kanda,9,50,अपरासां च वैडूर्याः कादम्बा इव पक्षिणः। हेमसूत्राणि चान्यासां चक्रवाका इवाभवन्।।5.9.50।। Sundara Kanda,9,51,हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः। आपगा इव ता रेजुर्जघनैः पुलिनैरिव।।5.9.51।। Sundara Kanda,9,52,किङ्किणीजालसङ्कोशास्ता हैमविपुलाम्बुजाः। भावग्राहा यशस्तीराः सुप्ता नद्य इवाऽऽबभुः।।5.9.52।। Sundara Kanda,9,53,मृदुष्वङ्गेषु कासाञ्चित्कुचाग्रेषु च संस्थिताः। बभुर्वर्भूषणानीव शुभा भूषणराजयः।।5.9.53।। Sundara Kanda,9,54,अंशुकान्ताश्च कासाञ्चिन्मुखमारुतकम्पिताः। उपर्युपरि वक्त्राणां व्याधूयन्ते पुनः पुनः।।5.9.54।। Sundara Kanda,9,55,ताः पताका इवोद्धूताः पत्नीनां रुचिरप्रभाः। नानावर्णसुवर्णानां वक्त्रमूलेषु रेजिरे।।5.9.55।। Sundara Kanda,9,56,ववल्गुश्चात्र कासांचित्कुण्डलानि शुभार्चिषाम्। मुखमारुतसंसर्गान्मन्दं मन्दं सुयोषिताम्।।5.9.56।। Sundara Kanda,9,57,शर्कराऽसवगन्धैश्च प्रकृत्या सुरभिः सुखः। तासां वदननिश्वासस्सिषेवे रावणं तदा।।5.9.57।। Sundara Kanda,9,58,रावणाननशङ्काश्च काश्चिद्रावणयोषितः। मुखानि स्म सपत्नीनामुपाजिघ्रन्पुनः पुनः।।5.9.58।। Sundara Kanda,9,59,अत्यर्थं सक्तमनसो रावणे ता वरस्त्रियः। अस्वतन्त्राः सपत्नीनां प्रियमेवाऽचरंस्तदा।।5.9.59।। Sundara Kanda,9,60,बाहूनुपनिधायान्याः पारिहार्यविभूषितान्। अंशुकानि च रम्याणि प्रमदास्तत्र शिश्यिरे।।5.9.60।। Sundara Kanda,9,61,अन्या वक्षसि चान्यस्यास्तस्याः काचित्पुनर्भुजम्। अपरा त्वङ्कमन्यस्यास्तस्याश्चाप्यपरा भुजौ।।5.9.61।। Sundara Kanda,9,62,ऊरुपार्श्वकटीपृष्ठमन्योन्यस्य समाश्रिताः। परस्परनिविष्टाङ्ग्यो मदस्नेहवशानुगाः।।5.9.62।। Sundara Kanda,9,63,अन्योन्यभुजसूत्रेण स्त्रीमाला ग्रथिता हि सा। मालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदा।।5.9.63।। Sundara Kanda,9,64,लतानां माधवे मासि फुल्लानां वायुसेवनात्। अन्योन्य मालाग्रथितं संसक्तकुसुमोच्चयम्।।5.9.64।। Sundara Kanda,9,65,व्यतिवेष्टितसुस्कन्धमन्योन्यभ्रमराकुलम्। आसीद्वनमिवोद्धूतं स्त्रीवनं रावणस्य तत्।।5.9.65।। Sundara Kanda,9,66,उचितेष्वपि सुव्यक्तं न तासां योषितां तदा। विवेकः शक्य आधातुं भूषणाङ्गाम्बरस्रजाम्।।5.9.66।। Sundara Kanda,9,67,रावणे सुखसंविष्टे तास्त्रियो विविधप्रभाः। ज्वलन्तः काञ्चना दीपाः प्रैक्षन्तानिमिषा इव।।5.9.67।। Sundara Kanda,9,68,राजर्षिपितृदैत्यानां गन्धर्वाणां च योषितः। राक्षसानां च याः कन्यास्तस्य कामवशं गताः।।5.9.68।। Sundara Kanda,9,69,युद्धकामेन ताः सर्वा रावणेन हृताः स्त्रियः। समदा मदनेनैव मोहिताः काश्चिदागताः।।5.9.69।। Sundara Kanda,9,70,न तत्र काचित्प्रमदा प्रसह्य वीर्योपपन्नेन गुणेन लब्धा। न चान्यकामापि न चान्यपूर्वा विना वरार्हां जनकात्मजां ताम्।।5.9.70।। Sundara Kanda,9,71,न चाकुलीना न च हीनरूपा नादक्षिणा नानुपचारयुक्ता। भार्याभवत्तस्य न हीनसत्त्वा न चापि कान्तस्य न कामनीया।।5.9.71।। Sundara Kanda,9,72,बभूव बुद्धिस्तु हरीश्वरस्य यदीदृशी राघवधर्मपत्नी। इमा यथा राक्षसराजभार्याः सुजातमस्येति हि साधुबुद्धेः।।5.9.72।। Sundara Kanda,9,73,पुनश्च सोऽचिन्तयादात्तरूपो ध्रुवं विशिष्टा गुणतो हि सीता। अथायमस्यां कृतवान्महात्मा लङ्केश्वरः कष्टमनार्यकर्म।।5.9.73।। Sundara Kanda,10,1,तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम्। अवेक्षमाणो हनुमान् ददर्श शयनासनम्।।5.10.1।। Sundara Kanda,10,2,दान्तकाञ्चनचित्राङ्गैर्वैडूर्यैश्च वरासनैः। महार्हास्तरणोपेतैरुपपन्नं महाधनैः।।5.10.2।। Sundara Kanda,10,3,तस्य चैकतमे देशे सोऽग्य्रमालाविभूषितम्। ददर्श पाण्डुरं छत्रं ताराधिपतिसन्निभम्।।5.10.3।। Sundara Kanda,10,4,जातरूपपरिक्षिप्तं चित्रभानुसमप्रभम्। अशोकमालाविततं ददर्श परमासनम्।।5.10.4।। Sundara Kanda,10,5,वालव्यजनहस्ताभिर्वीज्यमानं समन्ततः। गन्धैश्च विविधैर्जुष्टं वरधूपेन धूपितम्।।5.10.5।। Sundara Kanda,10,6,परमास्तरणास्तीर्णमाविकाजिनसंवृतम्। दामभिर्वरमाल्यानां समन्तादुपशोभितम्।।5.10.6।। Sundara Kanda,10,7,तस्मिन् जीमूतसंकाशं प्रदीप्तोत्तमकुण्डलम्। लोहिताक्षं महाबाहुं महारजतवाससम्।।5.10.7।। Sundara Kanda,10,8,लोहितेनानुलिप्ताङ्गं चन्दनेन सुगन्धिना। सन्ध्यारक्तमिवाकाशे तोयदं सतटिद्गणम्।।5.10.8।। Sundara Kanda,10,9,वृतमाभरणैर्दिव्यैः सुरूपं कामरूपिणम्। सवृक्षवनगुल्माढ्यं प्रसुप्तमिव मन्दरम्।।5.10.9।। Sundara Kanda,10,10,क्रीडित्वोपरतं रात्रौ वराभरणभूषितम्। प्रियं राक्षसकन्यानां राक्षसानां सुखावहम्।।5.10.10।। Sundara Kanda,10,11,पीत्वाऽप्युपरतं चापि ददर्श स महाकपिः। भास्वरे शयने वीरं प्रसुप्तं राक्षसाधिपम्।।5.10.11।। Sundara Kanda,10,12,निःश्वसन्तं यथा नागं रावणं वानरर्षभः। आसाद्य परमोद्विग्नस्सोपासर्पत्सुभीतवत्।।5.10.12।। Sundara Kanda,10,13,अथाऽऽरोहणमासाद्य वेदिकाऽन्तरमाश्रितः। सुप्तं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः।।5.10.13।। Sundara Kanda,10,14,शुशुभे राक्षसेन्द्रस्य स्वपतः शयनोत्तमम्। गन्धहस्तिनि संविष्टे यथा प्रस्रवणं महत्।।5.10.14।। Sundara Kanda,10,15,काञ्चनाङ्गदसन्नध्दै च ददर्श स महात्मनः। विक्षिप्तौ राक्षसेन्द्रस्य भुजाविन्द्रध्वजोपमौ।।5.10.15।। Sundara Kanda,10,16,ऐरावतविषाणाग्रैरापीडनकृतव्रणौ। वज्रोल्लिखितपीनांसौ विष्णुचक्रपरिक्षतौ।।5.10.16।। Sundara Kanda,10,17,पीनौ समसुजातांसौ संगतौ बलसंयुतौ। सुलक्षणनखाङ्गुष्ठा स्वङ्गुलीतललक्षितौ।।5.10.17।। Sundara Kanda,10,18,संहतौ परिघाकारौ वृत्तौ करिकरोपमौ। विक्षिप्तौ शयने शुभ्रे पञ्चशीर्षाविवोरगौ।।5.10.18।। Sundara Kanda,10,19,शशक्षतजकल्पेन सुशीतेन सुगन्धिना। चन्दनेन परार्ध्येन स्वनुलिप्तौ स्वलङ्कृतौ।।5.10.19।। Sundara Kanda,10,20,उत्तमस्त्रीविमृदितौ गन्धोत्तमनिषेवितौ। यक्षपन्नगगन्धर्वदेवदानवराविणौ।।5.10.20।। Sundara Kanda,10,21,ददर्श स कपिस्तत्र बाहू शयनसंस्थितौ। मन्दरस्यांतरे सुप्तौ महाही रुषिताविव।।5.10.21।। Sundara Kanda,10,22,ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः। शुशुभेऽचलसङ्काशः शृङ्गाभ्यामिव मन्दरः।।5.10.22।। Sundara Kanda,10,23,चूतपुन्नागसुरभिर्वकुलोत्तमसंयुतः। मृष्टान्नरससंयुक्तः पानगन्धपुरस्कृतः।।5.10.23।। Sundara Kanda,10,24,तस्य राक्षससिंहस्य निश्चक्राम महामुखात्। शयानस्य विनिःश्वासः पूरयन्निव तद् गृहम्।।5.10.24।। Sundara Kanda,10,25,मुक्तामणिविचित्रेण काञ्चनेन विराजितम्। मकुटेनापवृत्तेन कुण्डलोज्वलिताननम्।।5.10.25।। Sundara Kanda,10,26,रक्तचन्दनदिग्धेन तथा हारेण शोभिना। पीनायतविशालेन वक्षसाऽभिविराजितम्।।5.10.26।। Sundara Kanda,10,27,पाण्डरेणापविद्धेन क्षौमेण क्षतजेक्षणम्। महार्हेण सुसंवीतं पीतेनोत्तमवाससा।।5.10.27।। Sundara Kanda,10,28,माषराशिप्रतीकाशं निश्श्वसन्तं भुजङ्गवत्। गाङ्गे महति तोयान्ते प्रसुप्तमिव कुञ्जरम्।।5.10.28।। Sundara Kanda,10,29,चतुर्भिः काञ्चनैर्दीपैद्धीप्यमानचतुर्दिशम्। प्रकाशीकृतसर्वाङ्गं मेघं विद्युद्गणैरिव।।5.10.29।। Sundara Kanda,10,30,पादमूलगताश्चापि ददर्श सुमहात्मनः। पत्नी: स प्रियभार्यस्य तस्य रक्षःपतेर्गृहे।।5.10.30।। Sundara Kanda,10,31,शशिप्रकाशवदनाश्चारुकुण्डलभूषिताः। अम्लानमाल्याभरणा ददर्श हरियूथपः।।5.10.31।। Sundara Kanda,10,32,नृत्तवादित्रकुशला राक्षसेन्द्रभुजाङ्कगाः। वराभरणधारिण्यो निषण्णा ददृशे हरिः।।5.10.32।। Sundara Kanda,10,33,वज्रवैडूर्यगर्भाणि श्रवणान्तेषु योषिताम्। ददर्श तापनीयानि कुण्डलान्यङ्गदानि च।।5.10.33।। Sundara Kanda,10,34,तासां चन्द्रोपमैर्वक्त्रैश्शुभैर्ललितकुण्डलैः। विरराज विमानं तन्नभस्तारागणैरिव।।5.10.34।। Sundara Kanda,10,35,मदव्यायामखिन्नास्ता राक्षसेन्द्रस्य योषितः। तेषु तेष्ववकाशेषु प्रसुप्तास्तनुमध्यमाः।।5.10.35।। Sundara Kanda,10,36,अङ्गहारैस्तथैवान्या कोमलैर्नृत्तशालिनी। विन्यस्तशुभसर्वाङ्गी प्रसुप्ता वरवर्णिनी।।5.10.36।। Sundara Kanda,10,37,काचिद्वीणां परिष्वज्य प्रसुप्ता सम्प्रकाशते। महानदीप्रकीर्णेव नलिनी पोतमाश्रिता।।5.10.37।। Sundara Kanda,10,38,अन्या कक्षगतेनैव मड्डुकेनासितेक्षणा। प्रसुप्ता भामिनी भाति बालपुत्रेव वत्सला।।5.10.38।। Sundara Kanda,10,39,पटहं चारुसर्वाङ्गी पीड्य शेते शुभस्तनी। चिरस्य रमणं लब्ध्वा परिष्वज्येव भामिनी।।5.10.39।। Sundara Kanda,10,40,काचिद्वंशं परिष्वज्य सुप्ता कमललोचना। रहः प्रियतमं गृह्य सकामेव च कामिनी।।5.10.40।। Sundara Kanda,10,41,विपञ्चीं परिगृह्यान्या नियता नृत्तशालिनी। निद्रावशमनुप्राप्ता सह कान्तेव भामिनी।।5.10.41।। Sundara Kanda,10,42,अन्या कनकसङ्काशैर्मृदुपीनैर्मनोरमैः। मृदङ्गं परिपीड्याङ्गैः प्रसुप्ता मत्तलोचना।।5.10.42।। Sundara Kanda,10,43,भुजपार्श्वान्तरस्थेन कक्षगेन कृशोदरी। पणवेव सहानिन्द्या सुप्ता मदकृतश्रमा।।5.10.43।। Sundara Kanda,10,44,डिण्डिमं परिगृह्यान्या तथैवासक्तडिण्डिमा। प्रसुप्ता तरुणं वत्समुपगूह्येव भामिनी।।5.10.44।। Sundara Kanda,10,45,काचिदाडम्बरं नारी भुजसंयोगपीडितम्। कृत्वा कमलपत्राक्षी प्रसुप्ता मदमोहिता।।5.10.45।। Sundara Kanda,10,46,कलशीमपविध्यान्या प्रसुप्ता भाति भामिनी। वसन्ते पुष्पशबला मालेव परिमार्जिता।।5.10.46।। Sundara Kanda,10,47,पाणिभ्यां च कुचौ काचित्सुवर्णकलशोपमौ। उपगूह्याबला सुप्ता निद्राबलपराजिता।।5.10.47।। Sundara Kanda,10,48,अन्या कमलपत्राक्षी पूर्णेन्दुसदृशानना। अन्यामालिङ्ग्य सुश्रोणीं प्रसुप्ता मदविह्वला।।5.10.48।। Sundara Kanda,10,49,आतोद्यानि विचित्राणि परिष्वज्य वरस्त्रियः। निपीड्य च कुचैस्सुप्ता कामिन्यः कामुकानिव।।5.10.49।। Sundara Kanda,10,50,तासामेकान्तविन्यस्ते शयानां शयने शुभे। ददर्श रूपसम्पन्नामपरां स कपिः स्त्रियम्।।5.10.50।। Sundara Kanda,10,51,मुक्तामणिसमायुक्तैर्भूषणैः सुविभूषिताम्। विभूषयन्तीमिव तत्स्वश्रिया भवनोत्तमम्।।5.10.51।। Sundara Kanda,10,52,गौरीं कनकवर्णाभामिष्टामन्तः पुरेश्वरीम्। कपिर्मन्दोदरीं तत्र शयानां चारुरूपिणीम्।।5.10.52।। Sundara Kanda,10,53,स तां दृष्ट्वा महाबाहुर्भूषितां मारुतात्मजः। तर्कयामास सीतेति रूपयौवनसम्पदा।।5.10.53। हर्षेण महता युक्तो ननन्द हरियूथपः। Sundara Kanda,10,54,आस्फोटयामास चुचुम्ब पुच्छं ननन्द चिक्रीड जगौ जगाम। स्तम्भानरोहन्निपपात भूमौ निदर्शयन् स्वां प्रकृतिं कपीनाम्।।5.10.54।। Sundara Kanda,11,1,अवधूय च तां बुद्धिं बभूवावस्थितस्तदा। जगाम चापरां चिन्तां सीतां प्रति महाकपिः।।5.11.1।। Sundara Kanda,11,2,न रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी। न भोक्तुं वाप्यलङ्कर्तुं न पानमुपसेवितुम्।।5.11.2।। Sundara Kanda,11,3,नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम्। न हि रामसमः कश्चिद्विद्यते त्रिदशेष्वपि।।5.11.3।। अन्येयमिति निश्चित्य पानभूमौ चचार सः। Sundara Kanda,11,4,क्रीडितेनापराः क्लान्ता गीतेन च तथाऽपराः।।5.11.4।। नृत्तेन चापराः क्लान्ताः पानविप्रहतास्तथा। Sundara Kanda,11,5,मुरजेषु मृदङ्गेषु पीठिकासु च संस्थिताः।।5.11.5।। तथाऽऽस्तरणमुख्येषु संविष्टाश्चापराः स्त्रियः। Sundara Kanda,11,6,अङ्गनानां सहस्रेण भूषितेन विभूषणैः।।5.11.6।। Sundara Kanda,11,7,रूपसल्लापशीलेन युक्तगीतार्थभाषिणा। देशकालाभियुक्तेन युक्तवाक्याभिधायिना।।5.11.7।। रताभिरतसंसुप्तं ददर्श हरियूथपः। Sundara Kanda,11,8,तासां मध्ये महाबाहुः शुशुभे राक्षसेश्वरः।।5.11.8।। गोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः। Sundara Kanda,11,9,स राक्षसेन्द्रः शुशुभे ताभिः परिवृतस्स्वयम्।।5.11.9।। करेणुभिर्यथाऽरण्ये परिकीर्णो महाद्विपः। Sundara Kanda,11,10,सर्वकामैरुपेतां च पानभूमिं महात्मनः।।5.11.10।। ददर्श हरिशार्दूलस्तस्य रक्षःपतेर्गृहे। Sundara Kanda,11,11,मृगाणां महिषाणां च वराहाणां च भागशः।।5.11.11।। तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः। Sundara Kanda,11,12,रौक्मेषु च विशालेषु भाजनेष्वर्धभक्षितान्।।5.11.12।। ददर्श हरिशार्दूलो मयूरान् कुक्कुटांस्तथा। Sundara Kanda,11,13,वराहवार्ध्राणसकान् दधिसौवर्चलायुतान्।।5.11.13।। शल्यान् मृगमयूरांश्च हनुमानन्ववैक्षत। Sundara Kanda,11,14,क्रकरान्विविधान् सिद्धांश्चकोरानर्धभक्षितान्।।5.11.14।। Sundara Kanda,11,15,महिषानेकशल्यांश्च छागांश्च कृतनिष्ठितान्। लेह्यानुच्चावचान्पेयान् भोज्यानि विविधानि च।।5.11.15।। Sundara Kanda,11,16,तथाऽऽम्ललवणोत्तंसैर्विविधैरागषाडबैः। हारनूपुरकेयूरैरपविद्धैर्महाधनैः।।5.11.16।। Sundara Kanda,11,17,पानभाजनविक्षिप्तैः फलैश्च विविधैरपि। कृतपुष्पोपहारा भूरधिकं पुष्यति श्रियम्।।5.11.17।। Sundara Kanda,11,18,तत्र तत्र च विन्यस्तै: सुश्लिष्टैश्शयनासनैः। पानभूमिर्विना वह्निं प्रदीप्तेवोपलक्ष्यते।।5.11.18।। Sundara Kanda,11,19,बहुप्रकारैर्विविधैर्वरसंस्कारसंस्कृतैः। मांसैः कुशलसम्पृक्तैः पानभूमिगतैः पृथक्।।5.11.19।। Sundara Kanda,11,20,दिव्याः प्रसन्ना विविधाः सुराः कृतसुरा अपि। शर्कराऽसवमाध्वीकपुष्पासवफलासवाः।।5.11.20।। वासचूर्णैश्च विविधैर्मृष्टास्तैस्तैः पृथक् पृथक्। Sundara Kanda,11,21,सन्तता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः।।5.11.21।। Sundara Kanda,11,22,हिरण्मयैश्च विविधैर्भाजनैः स्फाटिकैरपि। जाम्बूनदमयैश्चान्यैः करकैरभिसंवृता।।5.11.22।। Sundara Kanda,11,23,राजतेषु च कुम्भेषु जाम्बूनदमयेषु च। पानश्रेष्ठं तदा भूरि कपिस्तत्र ददर्श ह।।5.11.23।। Sundara Kanda,11,24,सोऽपश्यच्छातकुम्भानि सीधोर्मणिमयानि च। राजतानि च पूर्णानि भाजनानि महाकपिः।।5.11.24।। Sundara Kanda,11,25,क्वचिदल्पावशेषाणि क्वचित्पीतानि सर्वशः। क्वचिन्नैव प्रपीतानि पानानि स ददर्श ह।।5.11.25।। Sundara Kanda,11,26,क्वचिद् भक्ष्यांश्च विविधान् क्वचित्पानानि भागशः। क्वचिदन्नावशेषाणि पश्यन्वै विचचार ह।।5.11.26।। Sundara Kanda,11,27,क्वचित्प्रभिन्नैः करकैः क्वचिदालोलितैर्घटैः। क्वचित्संपृक्तमाल्यानि जलानि च फलानि च।।5.11.27।। Sundara Kanda,11,28,शयनान्यत्र नारीणां शुभ्राणि बहुधा पुनः। परस्परं समाश्लिष्य काश्चित्सुप्ता वराङ्गनाः।।5.11.28।। Sundara Kanda,11,29,काश्चिच्च वस्त्रमन्यस्यास्स्वपन्त्याः परिधाय च। आहृत्य चाबलाः सुप्ता निद्राबलपराजिताः।।5.11.29।। Sundara Kanda,11,30,तासामुच्छवासवातेन वस्त्रं माल्यं च गात्रजम्। नात्यर्थं स्पन्दते चित्रं प्राप्य मन्दमिवानिलम्।।5.11.30।। Sundara Kanda,11,31,चन्दनस्य च शीतस्य शीधोर्मधुरसस्य च। विविधस्य च माल्यस्य धूपस्य विविधस्य च।।5.11.31।। बहुधा मारुतस्तत्र गन्धं विविधमुद्वहन्। Sundara Kanda,11,32,स्नानानां चन्दनानां च धूपानां चैव मूर्छितः।।5.11.32।। प्रववौ सुरभिर्गन्धो विमाने पुष्पके तदा। Sundara Kanda,11,33,श्यामावदातास्तत्रान्याः काश्चित्कृष्णा वराङ्गनाः।।5.11.33।। काश्चित् काञ्चनवर्णाङ्ग्यः प्रमदा राक्षसालये। Sundara Kanda,11,34,तासां निद्रावशत्वाच्च मदनेन विमूर्छितम्।।5.11.34।। पद्मिनीनां प्रसुप्तानां रूपमासीद्यथैव हि। Sundara Kanda,11,35,एवं सर्वमशेषेण रावणान्तः पुरं कपिः।।5.11.35।। ददर्श सुमहातेजाः न ददर्श च जानकीम्। Sundara Kanda,11,36,निरीक्षमाणश्च तदा ताः स्त्रियः स महाकपिः।।5.11.36।। जगाम महतीं चिन्तां धर्मसाध्वसशङ्कितः। Sundara Kanda,11,37,परदारावरोधस्य प्रसुप्तस्य निरीक्षणम्।।5.11.37।। इदं खलु ममात्यर्थं धर्मलोपं करिष्यति। Sundara Kanda,11,38,न हि मे परदाराणां दृष्टिर्विषयवर्तिनी।।5.11.38।। अयं चात्र मया दृष्टः परदारापरिग्रहः। Sundara Kanda,11,39,तस्य प्रादुरभूच्चिन्ता पुनरन्या मनस्विनः।।5.11.39।। निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी। Sundara Kanda,11,40,कामं दृष्टा मया सर्वा विश्वस्ता रावणस्त्रियः।।5.11.40।। न हि मे मनसः किञ्चिद्वैकृत्यमुपजायते। Sundara Kanda,11,41,मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्तने।।5.11.41।। शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम्। Sundara Kanda,11,42,नान्यत्र हि मया शक्या वैदेही परिमार्गितुम्।।5.11.42।। स्त्रियो हि स्त्रीषु दृश्यन्ते सदा सम्परिमार्गणे। Sundara Kanda,11,43,यस्य सत्त्वस्य या योनिस्तस्यां तत्परिमार्ग्यते। न शक्या प्रमदा नष्टा मृगीषु परिमार्गितुम्।।5.11.43।। Sundara Kanda,11,44,तदिदं मार्गितं तावच्छुद्धेन मनसा मया।।5.11.44।। रावणान्तःपुरं सर्वं दृश्यते न तु जानकी। Sundara Kanda,11,45,देवगन्धर्वकन्याश्च नागकन्याश्च वीर्यवान्।।5.11.45।। अवेक्षमाणो हनुमान्नैवापश्यत जानकीम्। Sundara Kanda,11,46,तामपश्यन्कपिस्तत्र पश्यञ्श्चान्या परस्त्रियः।।5.11.46।। अपक्रम्य तदा वीरः प्रध्यातुमुपचक्रमे। Sundara Kanda,11,47,स भूयस्तु परं श्रीमान् मारुतिर्यत्नमास्थितः।।5.11.47।। आपानभूमिमुत्सृज्य तद्विचेतुं प्रचक्रमे। Sundara Kanda,12,1,स तस्य मध्ये भवनस्य मारुति र्लतागृहांश्चित्रगृहान्निशागृहान्। जगाम सीतां प्रति दर्शनोत्सुको न चैव तां पश्यति चारुदर्शनाम्।।5.12.1।। Sundara Kanda,12,2,स चिन्तयामास ततो महाकपिः प्रियामपश्यन्रघुनन्दनस्य ताम्। ध्रुवं हि सीता म्रियते यथा न मे विचिन्वतो दर्शनमेति मैथिली।।5.12.2।। Sundara Kanda,12,3,सा राक्षसानां प्रवरेण जानकी स्वशीलसंरक्ष्णतत्परा सती। अनेन नूनं प्रति दुष्टकर्मणा हता भवेदार्यपथे परे स्थिता।।5.12.3।। Sundara Kanda,12,4,विरूपरूपा विकृता विवर्चसो महानना दीर्घविरूपदर्शनाः। समीक्ष्य सा राक्षसराजयोषितो भयाद्विनष्टा जनकेश्वरात्मजा।।5.12.4।। Sundara Kanda,12,5,सीतामदृष्ट्वा ह्यनवाप्य पौरुषं विहृत्य कालं सह वानरैश्चिरम्। न मेऽस्ति सुग्रीवसमीपगा गतिः सुतीक्ष्णदण्डो बलवांश्च वानरः।।5.12.5।। Sundara Kanda,12,6,दृष्टमन्तःपुरं सर्वं दृष्टा रावणयोषितः। न सीता दृश्यते साध्वीवृथा जातो मम श्रमः।।5.12.6।। Sundara Kanda,12,7,किं नु मां वानराः सर्वे गतं वक्ष्यन्ति सङ्गताः। गत्वा तत्र त्वया वीर किं कृतं तद्वदस्व नः।।5.12.7।। Sundara Kanda,12,8,अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजाम्। ध्रुवं प्रायमुपैष्यन्ति कालस्य व्यतिवर्तने।।5.12.8।। Sundara Kanda,12,9,किं वा वक्ष्यति वृद्धश्च जाम्बवानाङ्गदश्च सः। गतं पारं समुद्रस्य वानराश्च समागताः।।5.12.9।। Sundara Kanda,12,10,अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम्। अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः।।5.12.10।। Sundara Kanda,12,11,करोति सफलं जन्तोः कर्म यत्तत्करोति सः। तस्मादनिर्वेदकृतं यत्नं चेष्टेऽहमुत्तमम्।।5.12.11।। भूयस्तावद्विचेष्यामि देशान्रावणपालितान्। Sundara Kanda,12,12,आपानशाला विचितास्तथा पुष्पगृहाणि च।।5.12.12।। Sundara Kanda,12,13,चित्रशालाश्च विचिता भूयः क्रीडागृहाणि च। निष्कुटान्तररथ्याश्च विमानानि च सर्वशः।।5.12.13।। Sundara Kanda,12,14,इति सञ्चिन्त्य भूयोऽपि विचेतुमुपचक्रमे। भूमीगृहांश्चैत्यगृहान् गृहातिगृहकानपि।।5.12.14।। Sundara Kanda,12,15,उत्पतन्निष्पतंश्चापि तिष्ठन्गच्छन् पुनः पुनः। अपावृण्वंश्च द्वाराणि कवाटान्यवघाटयन्।।5.12.15।। Sundara Kanda,12,16,प्रविशन्निष्पतंश्चापि प्रपतन्नुत्पतन्नपि। सर्वमप्यवकाशं स विचचार महाकपिः।।5.12.16।। Sundara Kanda,12,17,चतुरङ्गुलमात्रोऽपि नावकाशः स विद्यते। रावणान्तःपुरे तस्मिन् यं कपिर्न जगाम सः।।5.12.17।। Sundara Kanda,12,18,प्राकारान्तररथ्याश्च वेदिकाश्चैत्यसंश्रयाः। दीर्घिकाः पुष्करिण्यश्च सर्वं तेनावलोकितम्।।5.12.18।। Sundara Kanda,12,19,राक्षस्यो विविधाकारा विरूपा विकृतास्तथा। दृष्टा हनुमता तत्र न तु सा जनकात्मजा।।5.12.19।। Sundara Kanda,12,20,रूपेणाप्रतिमा लोके वरा विद्याधरस्त्रियः। दृष्टा हनुमता तत्र न तु राघवनन्दिनी।।5.12.20।। Sundara Kanda,12,21,नागकन्या वरारोहाः पूर्णचन्र्दनिभाननाः। दृष्टा हनुमता तत्र न तु सीता सुमध्यमा।।5.12.21।। Sundara Kanda,12,22,प्रमथ्य राक्षसेन्द्रेण नागकन्या बलाद्धृताः। दृष्टा हनुमता तत्र न सा जनकनन्दिनी।।5.12.22।। Sundara Kanda,12,23,सोऽपश्यंस्तां महाबाहुः पश्यंश्चान्या वरस्त्रियः। विषसाद मुहुर्धीमान् हनुमान् मारुतात्मजः।।5.12.23।। Sundara Kanda,12,24,उद्योगं वानरेन्द्राणां प्लवनं सागरस्य च। व्यर्थं वीक्ष्यानिलसुतश्चिन्तां पुनरुपागमत्।।5.12.24।। Sundara Kanda,12,25,अवतीर्य विमानाच्च हनुमान् मारुतात्मजः। चिन्तामुपजगामाथ शोकोपहतचेतनः।।5.12.25।। Sundara Kanda,13,1,विमानात्तु सुसम्क्रम्य प्राकारं हरियूथपः। हनुमान्वेगवानासीद्यथा विद्युद्घनान्तरे।।5.13.1।। Sundara Kanda,13,2,सम्परिक्रम्य हनुमान्रावणस्य निवेशनात्। अदृष्ट्वा जानकीं सीतामब्रवीद्वचनं कपिः।।5.13.2।। Sundara Kanda,13,3,भूयिष्ठं लोलिता लङ्का रामस्य चरता प्रियम्। न हि पश्यामि वैदेहीं सीतां सर्वाङ्गशोभनाम्।।5.13.3।। Sundara Kanda,13,4,पल्वलानि तटाकानि सरांसि सरितस्तथा। नद्योऽनूपवनान्ताश्च दुर्गाश्च धरणीधराः।।5.13.4।। लोलिता वसुधा सर्वा न तु पश्यामि जानकीम्। Sundara Kanda,13,5,इह सम्पातिना सीता रावणस्य निवेशने।।5.13.5।। आख्याता गृध्रराजेन न च पश्यामि तामहम्। Sundara Kanda,13,6,किं नु सीताऽथ वैदेही मैथिली जनकात्मजा।।5.13.6।। उपतिष्ठेत विवशा रावणं दुष्टचारिणम्। Sundara Kanda,13,7,क्षिप्रमुत्पततो मन्ये सीतामादाय रक्षसः।।5.13.7।। बिभ्यतो रामबाणानामन्तरा पतिता भवेत्। Sundara Kanda,13,8,अथवा ह्रियमाणायाः पथि सिद्धनिषेविते।।5.13.8।। मन्ये पतितमार्याया हृदयं प्रेक्ष्य सागरम्। Sundara Kanda,13,9,रावणस्योरुवेगेन भुजाभ्यां पीडितेन च।।5.13.9।। तया मन्ये विशालाक्ष्या त्यक्तं जीवितमार्यया। Sundara Kanda,13,10,उपर्युपरि वा नूनं सागरं क्रमतस्तदा।।5.13.10।। विवेष्टमाना पतिता सागरे जनकात्मजा। Sundara Kanda,13,11,अहो क्षुद्रेण वाऽनेन रक्षन्ती शीलमात्मनः।।5.13.11।। अबन्धुर्भक्षिता सीता रावणेन तपस्विनी। Sundara Kanda,13,12,अथवा राक्षसेन्द्रस्य पत्नीभिरसितेक्षणा।।5.13.12।। अदुष्टा दुष्टभावाभिर्भक्षिता सा भविष्यति। Sundara Kanda,13,13,सम्पूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम्।।5.13.13।। रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता। Sundara Kanda,13,14,हा राम लक्ष्मणेत्येवं हाऽयोध्ये चेति मैथिली।।5.13.14।। विलप्य बहु वैदेही न्यस्तदेहा भविष्यति। Sundara Kanda,13,15,अथवा निहिता मन्ये रावणस्य निवेशने।।5.13.15।। नूनं लालप्यते सीता पञ्जरस्थेव शारिका। Sundara Kanda,13,16,जनकस्य सुता सीता रामपत्नी सुमध्यमा।।5.13.16।। कथमुत्पलपत्राक्षी रावणस्य वशं व्रजेत्। Sundara Kanda,13,17,विनष्टा वा प्रणष्टा वा मृता वा जनकात्मजा।।5.13.17।। रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम्। Sundara Kanda,13,18,निवेद्यमाने दोषस्स्याद्दोषस्स्यादनिवेदने।।5.13.18।। कथं नु खलु कर्तव्यं विषमं प्रतिभाति मे। Sundara Kanda,13,19,अस्मिन्नेवंगते कार्ये प्राप्तकालं क्षमं च किम्।।5.13.19।। भवेदिति मतं भूयो हनुमान्प्रविचारयत्। Sundara Kanda,13,20,यदि सीतामदृष्ट्वाऽहं वानरेन्द्रपुरीमितः।।5.13.20।। गमिष्यामि ततः को मे पुरुषार्थो भविष्यति। Sundara Kanda,13,21,ममेदं लङ्घनं व्यर्थं सागरस्य भविष्यति।।5.13.21।। प्रवेशश्चैव लङ्कायाः राक्षसानां च दर्शनम्। Sundara Kanda,13,22,किं मां वक्ष्यति सुग्रीवो हरयो वा समागताः।।5.13.22।। किष्किन्धां समनुप्राप्तं तौ वा दशरथात्मजौ। Sundara Kanda,13,23,गत्वा तु यदि काकुत्स्थं वक्ष्यामि परमप्रियम्।।5.13.23।। न दृष्टेति मया सीता ततस्तक्ष्यति जीवितम्। Sundara Kanda,13,24,परुषं दारुणं क्रूरं तीक्ष्णमिन्द्रियतापनम्।।5.13.24।। सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति। Sundara Kanda,13,25,तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसम्।।5.13.25।। भृशानुरक्तो मेधावी न भविष्यति लक्ष्मणः। Sundara Kanda,13,26,विनष्टौ भ्रातरौ श्रुत्वा भरतोऽपि मरिष्यति।।5.13.26।। भरतं च मृतं दृष्ट्वा शत्रुघ्नो न भविष्यति। Sundara Kanda,13,27,पुत्रान्मृतान्समीक्ष्याथ न भविष्यन्ति मातरः।।5.13.27।। कौसल्या च सुमित्रा च कैकेयी च न संशयः। Sundara Kanda,13,28,कृतज्ञस्सत्यसन्धश्च सुग्रीवः प्लवगाधिपः।।5.13.28।। रामं तथा गतं दृष्ट्वा ततस्त्यक्ष्यति जीवितम्। Sundara Kanda,13,29,दुर्मना व्यथिता दीना निरानन्दा तपस्विनी।।5.13.29।। पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम्। Sundara Kanda,13,30,वालिजेन तु दुःखेन पीडिता शोककर्शिता।।5.13.30।। पञ्चत्वं च गते राज्ञि ताराऽपि न भविष्यति। Sundara Kanda,13,31,मातापित्रोर्विनाशेन सुग्रीवव्यसनेन च।।5.13.31।। कुमारोऽप्यङ्गदः कस्माद्धारयिष्यति जीवितम्। Sundara Kanda,13,32,भर्तृजेन तु दुःखेन ह्यभिभूता वनौकसः।।5.13.32।। शिरांस्यभिहनिष्यन्ति तलैर्मुष्टिभिरेव च। Sundara Kanda,13,33,सान्त्वेनानुप्रदानेन मानेन च यशस्विना।।5.13.33।। लालिताः कपिराजेन प्राणांस्त्यक्ष्यन्ति वानराः। Sundara Kanda,13,34,न वनेषु न शैलेषु न निरोधेषु वा पुनः।।5.13.34।। क्रीडामनुभविष्यन्ति समेत्य कपिकुञ्जराः। Sundara Kanda,13,35,सपुत्रदारास्सामात्या भर्तृव्यसनपीडिताः।।5.13.35।। शैलाग्रेभ्यः पतिष्यन्ति समेषु विषमेषु च। Sundara Kanda,13,36,विषमुद्बन्धनं वापि प्रवेशं ज्वलनस्य वा।।5.13.36।। उपवासमथो शस्त्रं प्रचरिष्यन्ति वानराः। Sundara Kanda,13,37,घोरमारोदनं मन्ये गते मयि भविष्यति।।5.13.37।। इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम्। Sundara Kanda,13,38,सोऽहं नैव गमिष्यामि किष्किन्धां नगरीमितः।।5.13.38।। न च शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिलीं विना। Sundara Kanda,13,39,मय्यगच्छति चेहस्थे धर्मात्मानौ महारथौ।।5.13.39।। आशया तौ धरिष्येते वानराश्च मनस्विनः। Sundara Kanda,13,40,हस्तादानो मुखादानो नियतो वृक्षमूलिकः।।5.13.40।। Sundara Kanda,13,41,वानप्रस्थो भविष्यामि ह्यदृष्ट्वा जनकात्मजाम्। सागरानूपजे देशे बहुमूलफलोदके।।5.13.41।। Sundara Kanda,13,42,चितां कृत्वा प्रवेक्ष्यामि समिद्धमरणीसुतम्। उपविष्टस्य वा सम्यग्लिङ्गिनीं साधयिष्यतः।।5.13.42।। शरीरं भक्षयिष्यन्ति वायसाः श्वापदानि च। Sundara Kanda,13,43,इदं महर्षिभिर्दृष्टं निर्याणमिति मे मतिः।।5.13.43।। सम्यगापः प्रवेक्ष्यामि न चेत्पश्यामि जानकीम्। Sundara Kanda,13,44,सुजातमूला सुभगा कीर्तिमाला यशस्विनी।।5.13.44।। प्रभग्ना चिररात्रीयं मम सीतामपश्यतः। Sundara Kanda,13,45,तापसो वा भविष्यामि नियतो वृक्षमूलिकः।।5.13.45।। नेतः प्रतिगमिष्यामि तामदृष्ट्वासितेक्षणाम्। Sundara Kanda,13,46,यदीतः प्रतिगच्छामि सीतामनधिगम्य ताम्।।5.13.46।। अङ्गदस्सह तैस्सर्वैर्वानरैर्न भविष्यति। Sundara Kanda,13,47,विनाशे बहवो दोषा जीवन् भद्राणि पश्यति।।5.13.47।। तस्मात्प्राणान् धरिष्यामि ध्रुवो जीवितसङ्गमः। Sundara Kanda,13,48,एवं बहुविधं दुःखं मनसा धरायन्मुहुः।।5.13.48।। नाध्यगच्छत्तदा पारं शोकस्य कपिकुञ्चरः। Sundara Kanda,13,49,रावणं वा वधिष्यामि दशग्रीवं महाबलम्।।5.13.49।। काममस्तु हृता सीता प्रत्याचीर्णं भविष्यति। Sundara Kanda,13,50,अथवैनं समुत्क्षिप्य उपर्युपरि सागरम्।।5.13.50।। रामायोपहरिष्यामि पशुं पशुपतेरिव। Sundara Kanda,13,51,इति चिन्तां समापन्नः सीतामनधिगम्य ताम्।।5.13.51।। ध्यानशोकपरीतात्मा चिन्तयामास वानरः। Sundara Kanda,13,52,यावत्सीतां हि पश्यामि रामपत्नीं यशस्विनीम्।।5.13.52।। तावदेतां पुरीं लङ्कां विचिनोमि पुनः पुनः। Sundara Kanda,13,53,सम्पातिवचनाच्चापि रामं यद्यानयाम्यहम्।।5.13.53।। अपश्यन् राघवो भार्यां निर्धहेत्सर्ववानरान्। Sundara Kanda,13,54,इहैव नियताहारो वत्स्यामि नियतेन्द्रियः।।5.13.54।। न मत्कृते विनश्येयुः सर्वे ते नरवानराः। Sundara Kanda,13,55,अशोकवनिका चेयं दृश्यते या महाद्रुमा।।5.13.55।। इमामधिगमिष्यामि न हीयं विचिता मया। Sundara Kanda,13,56,वसून्रुद्रांस्तथाऽदित्यानश्विनौ मरुतोऽपि च।।5.13.56।। नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः। Sundara Kanda,13,57,जित्वा तु राक्षसान् सर्वानिक्ष्वाकुकुलनन्दिनीम्।।5.13.57।। सम्प्रदास्यामि रामाय यथा सिद्धिं तपस्विने। Sundara Kanda,13,58,सः मुहूर्तमिव ध्यात्वा चिन्तावग्रथितेन्द्रियः।।5.13.58।। उदतिष्ठन्महातेजा हनुमान् मारुतात्मजः। Sundara Kanda,13,59,नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै। नमोऽस्तु रुद्रेंद्रयमानिलेभ्यो नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः।।5.13.59।। Sundara Kanda,13,60,स तेभ्यस्तु नमस्कृत्य सुग्रीवाय च मारुतिः। दिशस्सर्वास्समालोक्य ह्यशोकवनिकां प्रति।।5.13.60।। Sundara Kanda,13,61,स गत्वा मनसा पूर्वमशोकवनिकां शुभाम्। उत्तरं चिन्तयामास वानरो मारुतात्मजः।।5.13.61।। Sundara Kanda,13,62,ध्रुवं तु रक्षोबहुला भविष्यति वनाकुला। अशोकवनिका पुण्या सर्वसंस्कारसंस्कृता।।5.13.62।। Sundara Kanda,13,63,रक्षिणश्चात्र विहिता नूनं रक्षन्ति पादपान्। भगवानपि सर्वात्मा नातिक्षोभं प्रवाति वै।।5.13.63।। संक्षिप्तोऽयं मयाऽत्मा च रामार्थे रावणस्य च। Sundara Kanda,13,64,सिद्धिं मे संविधास्यन्ति देवाः सर्षिगणास्त्विह।।5.13.64।। Sundara Kanda,13,65,ब्रह्मा स्वयंभूर्भगवान् देवाश्चैव दिशन्तु मे। सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रभृत्।।5.13.65।। Sundara Kanda,13,66,वरुणः पाशहस्तश्च सोमादित्यौ तथैव च। अश्विनौ च महात्मानौ मरुतः शर्व एव च।।5.13.66।। Sundara Kanda,13,67,सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः। दास्यन्ति मम ये चान्ये ह्यदृष्टाः पथि गोचराः।।5.13.67।। Sundara Kanda,13,68,तदुन्नसं पाण्डुरदन्तमव्रणं शुचिस्मितं पद्मपलाशलोचनम्। द्रक्ष्ये तदार्यावदनं कदान्वहं प्रसन्नताराधिपतुल्यदर्शनम्।।5.13.68।। Sundara Kanda,13,69,क्षुद्रेण पापेन नृशंसकर्मणा सुदारुणालङ्कृतवेषधारिणा। बलाभिभूता ह्यबला तपस्विनी कथं नु मे दृष्टिपथेऽद्य सा भवेत्।।5.13.69।। Sundara Kanda,14,1,स मुहूर्तमिव ध्यात्वा मनसा चाधिगम्य ताम्। अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः।।5.14.1।। Sundara Kanda,14,2,स तु संहृष्टसर्वाङ्गः प्राकारस्थो महाकपिः। पुष्पिताग्रान्वसन्तादौ ददर्श विविधान् द्रुमान्।।5.14.2।। Sundara Kanda,14,3,सालानशोकान् भव्यांश्च चंपकांश्च सुपुष्पितान्। उद्दालकान्नागवृक्षांश्चूतान्कपिमुखानपि।।5.14.3।। Sundara Kanda,14,4,अथाम्रवणसञ्छन्नां लताशतसमावृताम्। ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम्।।5.14.4।। Sundara Kanda,14,5,स प्रविश्य विचित्रां तां विहगैरभिनादिताम्। राजतैः कांचनैश्चैव पादपैः सर्वतो वृताम्।।5.14.5।। Sundara Kanda,14,6,विहगैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम्। उदितादित्यसङ्काशां ददर्श हनुमान् कपिः।।5.14.6।। Sundara Kanda,14,7,वृतां नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः। कोकिलैर्भृङ्गराजैश्च मत्तैर्नित्यनिषेविताम्।।5.14.7।। Sundara Kanda,14,8,प्रहृष्टमनुजे काले मृगपक्षिसमाकुले। मत्तबर्हिणसङ्घुष्टां नानाद्विजगणायुताम्।।5.14.8।। Sundara Kanda,14,9,मार्गमाणो वरारोहां राजपुत्रीमनिन्दिताम्। सुखप्रसुप्तान्विहगान् बोधयामास वानरः।।5.14.9।। Sundara Kanda,14,10,उत्पतद्भिर्द्विजगणैः पक्षैः सालास्समाहताः। अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः।।5.14.10।। Sundara Kanda,14,11,पुष्पावकीर्णश्शुशुभे हनुमान् मारुतात्मजः। अशोकवनिकामध्ये यथा पुष्पमयो गिरिः।।5.14.11।। Sundara Kanda,14,12,दिशस्सर्वाः प्रधावन्तं वृक्षषण्डगतं कपिम्। दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे।।5.14.12।। Sundara Kanda,14,13,वृक्षेभ्यः पतितैः पुष्पैरवकीर्णा पृथग्विदैः। रराज वृक्षेभ्यः तत्र प्रमदेव विभूषिता।।5.14.13।। Sundara Kanda,14,14,तरस्विना ते तरवस्तरसाभिप्रकम्पिताः। कुसुमानि विचित्राणि ससृजुः कपिना तदा।।5.14.14।। Sundara Kanda,14,15,निर्धूतपत्रशिखराः शीर्णपुष्पफला द्रुमाः। निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः।।5.14.15।। Sundara Kanda,14,16,हनूमता वेगवता कम्पितास्ते नगोत्तमाः। पुष्पपर्णफलान्याशु मुमुचुः पुष्पशालिनः।।5.14.16।। Sundara Kanda,14,17,विहङ्गसङ्घैर्हीनास्ते स्कन्धमात्राश्रया द्रुमाः। बभूवुरगमाः सर्वे मारुतेव निर्धुताः।5.14.17।। Sundara Kanda,14,18,निर्धूतकेशी युवतिर्यथा मृदितवर्णका। निष्पीतशुभदन्तोष्ठी नखैर्दन्तैश्च विक्षता।।5.14.18।। Sundara Kanda,14,19,तथा लाङ्गूलहस्तैश्च चरणाभ्यां च मर्दिता। बभूवाशोकवनिका प्रभग्नवरपादपा।।5.14.19।। Sundara Kanda,14,20,महालतानां दामानि व्यथमत्तरसा कपिः। यथा प्रावृषि विन्ध्यस्य मेघजालानि मारुतः।।5.14.20।। Sundara Kanda,14,21,स तत्र मणिभूमीश्च राजतीश्च मनोरमाः। तथा काञ्चनभूमीश्च ददर्श विचरन्कपिः।।5.14.21।। Sundara Kanda,14,22,वापीश्च विविधाकाराः पूर्णाः परमवारिणा। महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः।।5.14.22।। Sundara Kanda,14,23,मुक्ताप्रवालसिकताः स्फाटिकान्तरकुट्टिमाः। काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभिताः।।5.14.23।। Sundara Kanda,14,24,फुल्लपद्मोत्पलवनाश्चक्रवाकोपकूजिताः। नत्यूहरुतसंघुष्टा हंससारसनादिताः।।5.14.24।। Sundara Kanda,14,25,दीर्घाभिर्द्रुमयुक्ताभिः सरद्भिश्च समन्ततः। अमृतोपमतोयाभिश्शिवाभिरुपसंस्कृताः।।5.14.25।। Sundara Kanda,14,26,लताशतैरवततास्सन्तानकुसुमावृताः। नानागुल्मावृतघनाः करवीरकृतान्तराः।।5.14.26।। Sundara Kanda,14,22,वापीश्च विविधाकाराः पूर्णाः परमवारिणा। महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः।।5.14.22।। Sundara Kanda,14,23,मुक्ताप्रवालसिकताः स्फाटिकान्तरकुट्टिमाः। काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभितैः।।5.14.23।। Sundara Kanda,14,27,ततोऽम्बुधरसङ्काशं प्रवृद्धशिखरं गिरिम्। विचित्रकूटं कूटैश्च सर्वतः परिवारितम्।।5.14.27।। Sundara Kanda,14,28,शिलागृहैरवततं नानावृक्षैः समावृतम्। ददर्श हरिशार्दूलो रम्यं जगति पर्वतम्।।5.14.28।। Sundara Kanda,14,29,ददर्श च नगात्तस्मान्नदीं निपतितां कपिः। अङ्कादिव समुत्पत्य प्रियस्य पतितां प्रियाम्।।5.14.29।। Sundara Kanda,14,30,जले निपतिताग्रैश्च पादपैरुपशोभिताम्। वार्यमाणामिव क्रुद्धां प्रमदां प्रियबन्धुभिः।।5.14.30।। Sundara Kanda,14,31,पुनरावृत्ततोयां च ददर्श स महाकपिः। प्रसन्नामिव कान्तस्य कान्तां पुनरुपस्थिताम्।।5.14.31।। Sundara Kanda,14,32,तस्या दूरात्सपद्मिन्यो नानाद्विजगणायुताः। ददर्श हरिशार्दूलो हनुमान् मारुतात्मजः।।5.14.32।। Sundara Kanda,14,33,कृत्रिमां दीर्घिकां चापि पूर्णां शीतेन वारिणा। मणिप्रवरसोपानां मुक्तासिकतशोभिताम्।।5.14.33।। Sundara Kanda,14,34,विविधैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम्। प्रासादैस्सुमहद्भिश्च निर्मितैर्विश्वकर्मणा।।5.14.34।। काननैः कृत्रिमैश्चापि सर्वतः समलङ्कृताम्। Sundara Kanda,14,35,ये केचित्पादपास्तत्र पुष्पोपगफलोपगाः।।5.14.35।। सच्छत्रास्सवितर्दीकास्सर्वे सौवर्णवैदिकाः। Sundara Kanda,14,36,लताप्रतानैर्बहुभिःपर्णैश्च बहुभिर्वृताम्।।5.14.36।। Sundara Kanda,14,37,काञ्चनीं शिंशुपामेकां ददर्श हरियूथपः। वृतां हेममयीभिस्तु वेदिकाभिस्समन्ततः।।5.14.37।। Sundara Kanda,14,38,सोऽपश्यद्भूमिभागांश्च गर्तप्रस्रवणानि च। सुवर्णवृक्षानपरान् ददर्श शिखिसन्निभान्।।5.14.38।। Sundara Kanda,14,39,तेषां द्रुमाणां प्रभया मेरोरिव दिवाकरः। अमन्यत तदा वीरः काञ्चनोऽस्मीति वानरः।।5.14.39।। Sundara Kanda,14,40,तां काञ्चनैस्तरुगणैर्मारुतेन च वीजिताम्। किङ्किणीशतनिर्घोषां दृष्ट्वा विस्मयमागमत्।।5.14.40।। Sundara Kanda,14,41,स पुष्पिताग्रां रुचिरां तरुणाङ्कुरपल्लवाम्। तामारुह्य महाबाहुश्शिंशुपां पर्णसंवृताम्।।5.14.41।। Sundara Kanda,14,42,इतो द्रक्ष्यामि वैदेहीं रामदर्शनलालसाम्। इतश्चेतश्च दुःखार्तां सम्पतन्तीं यदृच्छया।।5.14.42।। Sundara Kanda,14,43,अशोकवनिका चेयं दृढं रम्या दुरात्मनः। चम्पकैश्चन्दनैश्चापि वकुलैश्च विभूषिता।।5.14.43।। Sundara Kanda,14,44,इयं च नलिनी रम्या द्विजसङ्घनिषेविता। इमां सा राममहिषी नूनमेष्यति जानकी।।5.14.44।। Sundara Kanda,14,45,सा रामा राममहिषी राघवस्य प्रिया सती। वनसञ्चारकुशला नूनमेष्यति जानकी।।5.14.45।। Sundara Kanda,14,46,अथवा मृगशाबाक्षी वनस्यास्य विचक्षणा। वनमेष्यति साऽर्येह रामचिन्तानुकर्शिता।।5.14.46।। Sundara Kanda,14,47,रामशोकाभिसन्तप्ता सा देवी वामलोचना। वनवासे रता नित्यमेष्यते वनचारिणी।।5.14.47।। Sundara Kanda,14,48,वनेचराणां सततं नूनं स्पृहयते पुरा। रामस्य दयिता भार्या जनकस्यसुता सती।।5.14.48।। Sundara Kanda,14,49,सन्ध्याकालमनाः श्यामा ध्रुवमेष्यति जानकी। नदीं चेमां शुभजलां सन्ध्यार्थे वरवर्णिनी।।5.14.49।। Sundara Kanda,14,50,तस्याश्चाप्यनुरूपेयमशोकवनिका शुभा। शुभा या पार्थिवेन्द्रस्य पत्नी रामस्य सम्मता।।5.14.50।। Sundara Kanda,14,51,यदि जीवति सा देवी ताराधिपनिभानना। आगमिष्यति साऽवश्यमिमां शिवजलां नदीम्।।5.14.51।। Sundara Kanda,14,52,एवं तु मत्वा हनुमान्महात्मा प्रतीक्षमाणो मनुजेन्द्रपत्नीम्। अवेक्षमाणश्च ददर्श सर्वं सुपुष्पिते पर्णघने निलीनः।।5.14.52।। Sundara Kanda,15,1,स वीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीम्। अवेक्षमाणश्च महीं सर्वां तामन्ववैक्षत।।5.15.1।। Sundara Kanda,15,2,सन्तानकलताभिश्च पादपैरुपशोभिताम्। दिव्यगन्धरसोपेतां सर्वतस्समलङ्कृताम्।।5.15.2।। Sundara Kanda,15,3,तां स नन्दनसङ्काशां मृगपक्षिभिरावृताम्। हर्म्यप्रासादसम्बाधां कोकिलाकुलनिस्स्वनाम्।।5.15.3।। Sundara Kanda,15,4,काञ्चनोत्पलपद्माभिर्वापीभिरुपशोभिताम्। बह्वासनकुथोपेतां बहुभूमिगृहायुताम्।।5.15.4।। Sundara Kanda,15,5,सर्वर्तुकुसुमै रम्यां फलवद्भिश्च पादपैः। पुष्पितानामशोकानां श्रिया सूर्योदयप्रभाम्।।5.15.5।। Sundara Kanda,15,6,प्रदीप्तामिव तत्रस्थो मारुतिस्समुदैक्षत। निष्पत्रशाखां विहगैः क्रियमाणामिवासकृत्।।5.15.6।। Sundara Kanda,15,7,विनिष्पतद्भिः शतशश्चित्रैः पुष्पावतंसकैः। आमूलपुष्पनिचितैरशोकैश्शोकनाशनैः।।5.15.7।। Sundara Kanda,15,8,पुष्पभारातिभारैश्च स्पृशद्भिरिव मेदिनीम्। कर्णिकारैः कुसुमितैः किंशुकैश्च सुपुष्पितैः।।5.15.8।। Sundara Kanda,15,9,स देशः प्रभया तेषां प्रदीप्त इव सर्वतः। पुन्नागास्सप्तपर्णाश्च चम्पकोद्दालकास्तथा।।5.15.9।। विवृद्धमूला बहवश्शोभन्ते स्म सुपुष्पिताः। Sundara Kanda,15,10,शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः।।5.15.10।। नीलाञ्जननिभाः केचित्तत्राशोकास्सहस्रशः। Sundara Kanda,15,11,नन्दनं विविधोद्यानं चित्रं चैत्ररथं यथा।।5.15.11।। Sundara Kanda,15,12,अतिवृत्तमिवाचिन्त्यं दिव्यं रम्यं श्रिया वृतम्। वितीयमिव चाकाशं पुष्पज्योतिर्गणायुतम्।।5.15.12।। Sundara Kanda,15,13,पुष्परत्नशतैश्चित्रं द्वितीयं सागरं यथा। सर्वर्तुपुष्पैर्निचितं पादपैर्मधुगन्धिभिः।।5.15.13।। Sundara Kanda,15,14,नानानिनादैरुद्यानं रम्यं मृगगणैर्द्विजैः। अनेकगन्धप्रवहं पुण्यगन्धं मनोरमम्।।5.15.14।। Sundara Kanda,15,15,शैलेन्द्रमिव गन्धाढ्यं द्वितीयं गन्धमादनम्। अशोकवनिकायां तु तस्यां वानरपुङ्गवः।।5.15.15।। Sundara Kanda,15,16,स ददर्शाविदूरस्थं चैत्यप्रासादमुच्छ्रितम्। मथ्ये स्तम्भसहस्रेण स्थितं कैलासपाण्डुरम्।।5.15.16।। Sundara Kanda,15,17,प्रवालकृतसोपानं तप्तकाञ्चनवेदिकम्। मुष्णन्तमिव चक्षूंषि द्योतमानमिव श्रिया।।5.15.17।। विमलं प्रांशुभावत्वादुल्लिखन्तमिवाम्बरम्। Sundara Kanda,15,18,ततो मलिनसंवीतां राक्षसीभिस्समावृताम्।।5.15.18।। Sundara Kanda,15,19,उपवासकृशां दीनां निश्श्वसन्तीं पुनः पुनः। ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम्।।5.15.19।। Sundara Kanda,15,20,मन्दप्रख्यायमानेन रूपेण रुचिरप्रभाम्। पिनद्धां धूमजालेन शिखामिव विभावसोः।।5.15.20।। Sundara Kanda,15,21,पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससा। सपङ्कामनलङ्कारां विपद्मामिव पद्मिनीम्।।5.15.21।। Sundara Kanda,15,22,व्रीडितां दुःखसन्तप्तां परिम्लानां तपस्विनीम्। ग्रहेणाङ्गारकेणेव पीडितामिव रोहिणीम्।।5.15.22।। Sundara Kanda,15,23,अश्रुपूर्णमुखीं दीनां कृशामनशनेन च। शोकध्यानपरां दीनां नित्यं दुःखपरायणाम्।।5.15.23।। Sundara Kanda,15,24,प्रियं जनमपश्यन्तीं पश्यन्तीं राक्षसीगणम्। स्वगणेन मृगीं हीनां श्वगणाभिवृतामिव।।5.15.24।। Sundara Kanda,15,25,नीलनागाभया वेण्या जघनं गतयैकया। नीलया नीरदापाये वनराज्या महीमिव।।5.15.25।। सुखार्हां दुःखसन्तप्तां व्यसनानामकोविदाम्। Sundara Kanda,15,26,तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम्।।5.15.26।। तर्कयामास सीतेति कारणैरुपपादिभिः। Sundara Kanda,15,27,ह्रियमाणा तदा तेन रक्षसा कामरूपिणा।।5.15.27।। यथारूपा हि दृष्टा वै तथारूपेयमङ्गना। Sundara Kanda,15,28,पूर्णचन्द्राननां सुभ्रूं चारुवृत्तपयोधराम्।।5.15.28।। Sundara Kanda,15,29,कुर्वतीं प्रभयादेवीं सर्वा वितिमिरा दिशः। तां नीलकेशीं बिम्बोष्ठीं सुमध्यां सुप्रतिष्ठिताम्।।5.15.29।। सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा। Sundara Kanda,15,30,इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव।।5.15.30।। भूमौ सुतनुमासीनां नियतामिव तापसीम्। Sundara Kanda,15,31,निःश्वासबहुलां भीरुं भुजगेन्द्रवधूमिव।।5.15.31।। शोकजालेन महता विततेन न राजतीम्। Sundara Kanda,15,32,संसक्तां धूमजालेन शिखामिव विभावसोः।।5.15.32।। तां स्मृतीमिव सन्दिग्धामृद्धिं निपतितामिव। Sundara Kanda,15,33,विहतामिव च श्रद्धामाशां प्रतिहतामिव।।5.15.33।। सोपसर्गां यथा सिद्धिं बुद्धिं सकलुषामिव। Sundara Kanda,15,34,अभूतेनापवादेन कीर्तिं निपतितामिव।।5.15.34।। रामोपरोधव्यथितां रक्षोहरणकर्शिताम्। Sundara Kanda,15,35,अबलां मृगशाबाक्षीं वीक्षमाणां ततस्ततः।।5.15.35।। Sundara Kanda,15,36,बाष्पाम्बुपरिपूर्णेन कृष्णवक्राक्षिपक्ष्मणा। वदनेनाप्रसन्नेन निःश्वसन्तीं पुनः पुनः।।5.15.36।। Sundara Kanda,15,37,मलपङ्कधरां दीनां मण्डनार्हाममण्डिताम्। प्रभां नक्षत्रराजस्य कालमेघैरिवावृताम्।।5.15.37।। Sundara Kanda,15,38,तस्य संदिदिहे बुद्धिर्मुहुः सीतां निरीक्ष्य तु। आम्नायानामयोगेन विद्यां प्रशिथिलामिव।।5.15.38।। Sundara Kanda,15,39,दुःखेन बुबुधे सीतां हनुमाननलङ्कृताम्। संस्कारेण यथा हीनां वाचमर्थान्तरं गताम्।।5.15.39।। Sundara Kanda,15,40,तां समीक्षय विशालाक्षीं राजपुत्रीमनिन्दिताम्। तर्कयामास सीतेति कारणैरुपपादिभिः।।5.15.40।। Sundara Kanda,15,41,वैदेह्या यानि चाङ्गेषु तदा रामोऽन्वकीर्तयत्। तान्याभरणजालानि गात्रशोभीन्यलक्षयत्।।5.15.41।। Sundara Kanda,15,42,सुकृतौ कर्णवेष्टौ च श्वदंष्ट्रौ च सुसंस्थितौ। मणिविद्रुमचित्राणि हस्तेष्वाभरणानि च।।5.15.42।। श्यामानि चिरयुक्तत्वात्तथा संस्थानवन्ति च। Sundara Kanda,15,43,तान्यैवेतानि मन्येऽहं यानि रामोऽन्वकीर्तयत्।।5.15.43।। Sundara Kanda,15,44,तत्र यान्यवहीनानि तान्यहं नोपलक्षये। यान्यस्या नावहीनानि तानीमानि न संशयः।।5.15.44।। Sundara Kanda,15,45,पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम्। उत्तरीयं नगासक्तं तदा दृष्टं प्लवङ्गमैः।।5.15.45।। Sundara Kanda,15,46,भूषणानि च मुख्यानि दृष्टानि धरणीतले। अनयैवापविद्धानि स्वनवन्ति महान्ति च।।5.15.46।। Sundara Kanda,15,47,इदं चिरगृहीतत्वाद्वसनं क्लिष्टवत्तरम्। तथाऽपि नूनं तद्वर्णं तथा श्रीमद्यथेतरत्।।5.15.47।। Sundara Kanda,15,48,इयं कनकवर्णाङ्गी रामस्य महिषी प्रिया। प्रणष्टापि सती याऽस्य मनसो न प्रणश्यति।।5.15.48।। Sundara Kanda,15,49,इयं सा यत्कृते रामश्चतुर्भिः परितप्यते। कारुण्येनानृशंस्येन शोकेन मदनेन च।।5.15.49।। Sundara Kanda,15,50,स्त्री प्रणष्टेति कारुण्यादाश्रितेत्यानृशंस्यतः। पत्नी नष्टेति शोकेन प्रियेति मदनेन च।।5.15.50।। Sundara Kanda,15,51,अस्या देव्या यथा रूपमङ्गप्रत्यङ्गसौष्ठवम्। रामस्य च यथा रूपं तस्येयमसितेक्षणा।।5.15.51।। Sundara Kanda,15,52,अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम्। तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति।।5.15.52।। Sundara Kanda,15,53,दुष्करं कृतवान्रामो हीनो यदनया प्रभुः। धारयत्यात्मनो देहं न शोकेनावसीदति।।5.15.53।। Sundara Kanda,15,54,दुष्करं कुरुते रामो य इमां मत्तकाशिनीम्। सीतां विना महाबाहुर्मुहूर्तमपि जीवति।।5.15.54।। Sundara Kanda,16,1,प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुङ्गवः। गुणाभिरामं रामं च पुनश्चिन्तापरोऽभवत्।।5.16.1।। Sundara Kanda,16,2,स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः। सीतामाश्रित्य तेजस्वी हनूमान्विललाप ह।।5.16.2।। Sundara Kanda,16,3,मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया। यदि सीताऽऽपि दुःखार्ता कालो हि दुरतिक्रमः।।5.16.3।। Sundara Kanda,16,4,रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः। नात्यर्थं क्षुभ्यते देवी गङ्गेव जलदागमे।।5.16.4।। Sundara Kanda,16,5,तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम्। राघवोऽऽर्हति वैदेहीं तं चेयमसितेक्षणा।।5.16.5।। Sundara Kanda,16,6,तां दृष्ट्वा नवहेमाभां लोककान्तामिव श्रियम्। जगाम मनसा रामं वचनं चेदमब्रवीत्।।5.16.6।। Sundara Kanda,16,7,अस्या हेतोर्विशालाक्ष्या हतो वाली महाबलः। रावणप्रतिमो वीर्ये कबन्धश्च निपातितः।।5.16.7।। Sundara Kanda,16,8,विराधश्च हतः सङ्ख्ये राक्षसो भीमविक्रमः। वने रामेण विक्रम्य महेन्द्रेणेव शम्बरः।।5.16.8।। Sundara Kanda,16,9,चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्। निहतानि जनस्थाने शरैरग्निशिखोपमैः।।5.16.9।। Sundara Kanda,16,10,खरश्च निहतसङ्ख्ये त्रिशिराश्च निपातितः। दूषणश्च महातेजा रामेण विदितात्मना।।5.16.10।। Sundara Kanda,16,11,ऐश्वर्यं वानराणां च दुर्लभं वालिपालितम्। अस्या निमित्ते सुग्रीवः प्राप्तवान् लोकसत्कृतम्।।5.16.11।। Sundara Kanda,16,12,सागरश्च मया क्रान्तश्श्रीमान्नदनदीपतिः। अस्या हेतोर्विशालाक्ष्याः पुरी चेयमवेक्षिता।।5.16.12।। Sundara Kanda,16,13,यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत्। अस्याः कृते जगच्चापि युक्तमित्येव मे मतिः।।5.16.13।। Sundara Kanda,16,14,राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा। त्रैलोक्यराज्यं सकलं सीताया नाप्नुयात्कलाम्।।5.16.14।। Sundara Kanda,16,15,इयं सा धर्मशीलस्य मैथिलस्य महात्मनः। सुता जनकराजस्य सीता भर्तृदृढव्रता।।5.16.15।। Sundara Kanda,16,16,उत्थिता मेदिनीं भित्त्वा क्षेत्रे हलमुखक्षते। पद्मरेणुनिभैः कीर्णा शुभैः केदारपाम्सुभिः।।5.16.16।। Sundara Kanda,16,17,विक्रान्तस्यार्यशीलस्य संयुगेष्न्विवर्तिनः। स्नुषा दशरथस्यैषा ज्येष्ठा राज्ञो यशस्विनी।।5.16.17।। Sundara Kanda,16,18,धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः। इयं सा दयिता भार्या राक्षसीवशमागता।।5.16.18।। Sundara Kanda,16,19,सर्वान् भोगान्परित्यज्य भर्तृस्नेहबलात्कृता। अचिन्तयित्वा दुःखानि प्रविष्टा निर्जनं वनम्।।5.16.19।। Sundara Kanda,16,20,संतुष्टा फलमूलेन भर्तृशुश्रूषणे रता। या परां भजते प्रीतिं वनेऽऽपि भवने यथा।।5.16.20।। Sundara Kanda,16,21,सेयं कनकवर्णाङ्गी नित्यं सुस्मितभाषिणी। सहते यातनामेतामनर्थानामभागिनी।।5.16.21।। Sundara Kanda,16,22,इमां तु शीलसम्पन्नां द्रष्टुमर्हति राघवः। रावणेन प्रमथितां प्रपामिव पिपासितः।।5.16.22।। Sundara Kanda,16,23,अस्या नूनं पुनर्लाभाद्राघवः प्रीतिमेष्यति। राजा राज्यपरिभ्रष्टः पुनः प्राप्येव मेदिनीम्।।5.16.23।। Sundara Kanda,16,24,कामभोगैः परित्यक्ता हीना बन्धुजनेन च। धारयत्यात्मनो देहं तत्समागमकाङ्क्षिणी।।5.16.24।। Sundara Kanda,16,25,नैषा पश्यति राक्षस्यो नेमान्पुष्पफलद्रुमान्। एकस्थहृदया नूनं राममेवानुपश्यति।।5.16.25।। Sundara Kanda,16,26,भर्ता नाम परं नार्या भूषणं भूषणादपि। एषा तु रहिता तेन भूषणार्हा न शोभते।।5.16.26।। Sundara Kanda,16,27,दुष्करं कुरुते रामो हीनो यदनया प्रभुः। धारयत्यात्मनो देहं न दुःखेनावसीदति।।5.16.27।। Sundara Kanda,16,28,इमामसितकेशान्तां शतपत्रनिभेक्षणाम्। सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथितं मनः।।5.16.28।। Sundara Kanda,16,29,क्षतिक्षमा पुष्करसन्निभाक्षी या रक्षिता राघवलक्ष्मणाभ्याम्। सा राक्षसीभिर्विकृतेक्षणाभिः संरक्ष्यते सम्प्रति वृक्षमूले।।5.16.29।। Sundara Kanda,16,30,हिमहतनलिनीव नष्टशोभा व्यसनपरम्परया निपीड्यमाना। सहचररहितेव चक्रवाकी जनकसुता कृपणां दशां प्रपन्ना।।5.16.30।। Sundara Kanda,16,31,अस्या हि पुष्पावनताग्रशाखाः शोकं दृढं वै जनयन्त्यशोकाः। हिमव्यपायेन च शीतरश्मि रभ्युत्थितो नैकसहस्ररश्मि:।।5.16.31।। Sundara Kanda,16,32,इत्येवमर्थं कपिरन्ववेक्ष्य सीतेयमित्येव निविष्टबुद्धि:। संश्रित्य तस्मिन्निषसाद वृक्षे बली हरीणामृषभस्तरस्वी।।5.16.32।। Sundara Kanda,17,1,ततः कमुदषण्डाभो निर्मलं निर्मलोदयः। प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम्।।5.17.1।। Sundara Kanda,17,2,साचिव्यमिव कुर्वन् स प्रभया निर्मलप्रभः। चन्द्रमा रश्मिभिश्शीतैस्सिषेवे पवनात्मजम्।।5.17.2।। Sundara Kanda,17,3,स ददर्श ततः सीतां पूर्णचन्द्रनिभाननाम्। शोकभारैरिव न्यस्तां भारैर्नावमिवाम्भसि।।5.17.3।। Sundara Kanda,17,4,दिदृक्षमाणो वैदेहीं हनुमान्मारुतात्मजः। स ददर्शाविदूरस्था राक्षसीर्घोरदर्शनाः।।5.17.4।। Sundara Kanda,17,5,एकाक्षीमेककर्णां च कर्णप्रावरणां तथा। अकर्णां शङ्कुकर्णां च मस्तकोच्छ्वासनासिकाम्।।5.17.5।। Sundara Kanda,17,6,अतिकायोत्तमाङ्गीं च तनुदीर्घशिरोधराम्। ध्वस्तकेशीं तथाऽकेशीं केशकम्बलधारिणीम्।।5.17.6।। Sundara Kanda,17,7,लम्बकर्णललाटां च लम्बोदरपयोधराम्। लम्बोष्ठीं चुबुकोष्ठीं च लम्बास्यां लम्बजानुकाम्।।5.17.7।। Sundara Kanda,17,8,ह्रस्वां दीर्घां तथा कुब्जां विकटां वामनां तथा। करालां भुग्नवक्त्रां च पिङ्गाक्षीं विकृताननाम्।।5.17.8।। Sundara Kanda,17,9,विकृताः पिङ्गलाः कालीः क्रोधनाः कलहप्रियाः। कालायसमहाशूलकूटमुद्गरधारिणीः।।5.17.9।। Sundara Kanda,17,10,वराहमृगशार्दूलमहिषाजशिवामुखीः। गजोष्ट्रहयपादीश्च निखातशिरसोऽपराः।।5.17.10।। Sundara Kanda,17,11,एकहस्तैकपादाश्च खरकर्ण्यश्वकर्णिकाः। गोकर्णीर्हस्तिकर्णीश्च हरिकर्णीस्तथापराः।।5.17.11।। Sundara Kanda,17,12,अनासा अतिनासाश्च तिर्यङ्नासा विनासिकाः। गजसन्निभनासाश्च ललाटोच्छवासनासिकाः।।5.17.12।। Sundara Kanda,17,13,हस्तिपादा महापादा गोपादाः पादचूलिकाः। अतिमात्रशिरोग्रीवा अतिमात्रकुचोदरीः।।5.17.13।। Sundara Kanda,17,14,अतिमात्रास्यनेत्राश्च दीर्घजिह्वानखास्तथा। अजामुखीर्हस्तिमुखीर्गोमुखीस्सूकरीमुखीः।।5.17.14।। Sundara Kanda,17,15,हयोष्ट्रखरवक्त्राश्च राक्षसीर्घोरदर्शनाः। शूलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः।।5.17.15।। Sundara Kanda,17,16,कराला धूम्रकेशीश्च राक्षसीर्विकृताननाः। पिबन्ती: सततं पानं सदा मांससुराप्रियाः।।5.17.16।। Sundara Kanda,17,17,मांसशोणितदिग्धाङ्गीर्मांसशोणितभोजनाः। ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः।।5.17.17।। स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम्। Sundara Kanda,17,18,तस्याधस्ताच्च तां देवीं राजपुत्रीमनिन्दिताम्।।5.17.18।। लक्षयामास लक्ष्मीवान् हनुमान् जनकात्मजाम्। Sundara Kanda,17,19,निष्प्रभां शोकसन्तप्तां मलसङ्कुलमूर्धजाम्।।5.17.19।। क्षीणपुण्यां च्युतां भूमौ तारां निपतितामिव। Sundara Kanda,17,20,चारित्रव्यपदेशाढ्यां भर्तृदर्शनदुर्गताम्।।5.17.20।। भूषणैरुत्तमैर्हीनां भर्तृवात्सल्यभूषणाम्। Sundara Kanda,17,21,राक्षसाधिपसंरुद्धां बन्धुभिश्च विना कृताम्।।5.17.21।। वियूथां सिंहसंरुद्धां बद्धां गजवधूमिव। Sundara Kanda,17,22,चन्द्ररेखां पयोदान्ते शारदाभ्रैरिवावृताम्।।5.17.22।। क्लिष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम्। Sundara Kanda,17,23,सीतां भर्तृवशे युक्तामयुक्तां राक्षसीवशे।।5.17.23।। Sundara Kanda,17,24,अशोकवनिकामथ्ये शोकसागरमाप्लुताम्। ताभिः परिवृतां तत्र सग्रहामिव रोहिणीम्।।5.17.24।। ददर्श हनुमान् देवीं लतामकुसुमामिव। Sundara Kanda,17,25,सा मलेन च दिग्धाङ्गी वपुषा चाप्यलङ्कृता।।5.17.25।। मृणाली पङ्कदिग्धेव विभाति न विभाति च। Sundara Kanda,17,26,मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम्।।5.17.26।। Sundara Kanda,17,27,संवृतां मृगशाबाक्षीं ददर्श हनुमान् कपिः। तां देवीं दीनवदनामदीनां भर्तृतेजसा।।5.17.27।। रक्षितां स्वेन शीलेन सीतामसितलोचनाम्। Sundara Kanda,17,28,तां दृष्ट्वा हनुमान् सीतां मृगशाबनिभेक्षणाम्। मृगकन्यामिव त्रस्तां वीक्षमाणां समन्ततः।।5.17.28।। Sundara Kanda,17,29,दहन्तीमिव निःश्वासैर्वृक्षान् पल्लवधारिणः। संघातमिव शोकानां दुःखस्योर्मिमिवोत्थिताम्।।5.17.29।। Sundara Kanda,17,30,तां क्षमां सुविभक्ताङ्गी विनाभरणशोभिनीम्।।5.17.30।। प्रहर्षमतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम्। Sundara Kanda,17,31,हर्षजानि च सोऽश्रूणि तां दृष्ट्वा मदिरेक्षणाम्। मुमुचे हनुमांस्तत्र नमश्चक्रे च राघवम्।।5.17.31।। Sundara Kanda,17,32,नमस्कृत्वा च रामाय लक्ष्मणाय च वीर्यवान्। सीतादर्शनसंहृष्टो हनुमान् संवृतोऽभवत्।।5.17.32।। Sundara Kanda,18,1,तथा विप्रेक्ष्यमाणस्य वनं पुष्पितपादपम्। विचिन्वतश्च वैदेहीं किंचिच्छेषा निशाऽभवत्।।5.18.1।। Sundara Kanda,18,2,षडङ्गवेदविदुषां क्रतुप्रवरयाजिनाम्। शुश्राव ब्रह्मघोषांश्च स विरात्रे ब्रह्मरक्षसाम्।।5.18.2।। Sundara Kanda,18,3,अथ मङ्गलवादित्रशब्दैः श्रुतिमनोहरैः। प्राबुध्यत महाबाहुर्दशग्रीवो महाबलः।।5.18.3।। Sundara Kanda,18,4,विबुध्यतु यथाकालं राक्षसेन्द्रः प्रतापवान्। स्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयत्।।5.18.4।। Sundara Kanda,18,5,भृशं नियुक्तस्तस्यां च मदनेन मदोत्कटः। न स तं राक्षसः कामं शशाकात्मनि गूहितुम्।।5.18.5।। Sundara Kanda,18,6,स सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम्। तां नगैर्बहुभिर्जुष्टां सर्वपुष्पफलोपगैः।।5.18.6।। Sundara Kanda,18,7,वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम्। सदा मदैश्च विहगैर्विचित्रां परमाद्भुताम्।।5.18.7।। Sundara Kanda,18,8,ईहामृगैश्च विविधैर्जुष्टां दृष्टिमनोहरैः। वीधीः संप्रेक्षमाणश्च मणिकाञ्चनतोरणाः।।5.18.8।। Sundara Kanda,18,9,नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम्। अशोकवनिकामेव प्राविशत्संततद्रुमाम्।।5.18.9।। Sundara Kanda,18,10,अङ्गनाशतमात्रं तु तं व्रजन्तमनुव्रजत्। महेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः।।5.18.10।। Sundara Kanda,18,11,दीपिकाः काञ्चनीः काश्चिज्जगृहुस्तत्र योषितः। वालव्यजनहस्ताश्च तालवृन्तानि चापराः।।5.18.11।। Sundara Kanda,18,12,काञ्चनैरपि भृङ्गारैर्जह्रुः सलिलमग्रतः। मण्डलाग्रान् बृसीश्चापि गृह्यान्याः पृष्ठतो ययुः।।5.18.12।। Sundara Kanda,18,13,काचिद्रत्नमयीं स्थालीं पूर्णां पानस्य भामिनी। दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना।।5.18.13।। Sundara Kanda,18,14,राजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम्। सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ।।5.18.14।। Sundara Kanda,18,15,निद्रामदपरीताक्ष्यो रावणस्योत्तमाः स्त्रियः। अनुजग्मुः पतिं वीरं घनं विद्युल्लता इव।।5.18.15।। Sundara Kanda,18,16,व्याविद्धहारकेयूराः समामृदितवर्णकाः। समागळितकेशान्तास्सस्वेदवदनास्तथा।।5.18.16।। Sundara Kanda,18,17,घूर्णन्त्यो मदशेषेण निद्रया च शुभाननाः। स्वेदक्लिष्टाङ्गकुसुमास्सुमाल्याकुलमूर्धजाः।।5.18.17।। Sundara Kanda,18,18,प्रयान्तं नैऋतपतिं नार्यो मदिरलोचनाः। बहुमानाच्च कामाच्च प्रिया भार्यास्तमन्वयुः।।5.18.18।। Sundara Kanda,18,19,स च कामपराधीन: पतिस्तासां महाबलः। सीतासक्तमना मन्दो मन्दाञ्चितगतिर्बभौ।।5.18.19।। Sundara Kanda,18,20,ततः काञ्चीनिनादं च नूपुराणां च निस्वनम्। शुश्राव परमस्त्रीणां स कपिर्मारुतात्मजः।।5.18.20।। Sundara Kanda,18,21,तं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम्। द्वारदेशमनुप्राप्तं ददर्श हनुमान् कपिः।।5.18.21।। Sundara Kanda,18,22,दीपिकाभिरनेकाभिः समन्तादवभासितम्। गन्धतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः।।5.18.22।। Sundara Kanda,18,23,कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम्। समक्षमिव कन्दर्पमपविद्धशरासनम्।।5.18.23।। Sundara Kanda,18,24,मथितामृतफेनाभमरजोवस्त्रमुत्तमम्। सलीलमनुकर्षन्तं विमुक्तं सक्तमङ्गदे।।5.18.24।। Sundara Kanda,18,25,तं पत्रविटपे लीनः पत्रपुष्पघनावृतः। समीपमिव संक्रान्तं निध्यातुमुपचक्रमे।।5.18.25।। Sundara Kanda,18,26,अवेक्षमाणस्तु ततो ददर्श कपिकुञ्जरः। रूपयौवनसम्पन्ना रावणस्य वरस्त्रियः।।5.18.26।। Sundara Kanda,18,27,ताभिः परिवृतो राजा सुरूपाभिर्महायशाः। तन्मृगद्विजसङ्घुष्टं प्रविष्टः प्रमदावनम्।।5.18.27।। Sundara Kanda,18,28,क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः। तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः।।5.18.28।। Sundara Kanda,18,29,वृतः परमनारीभिस्ताराभिरिव चन्द्रमाः। तं ददर्श महातेजास्तेजोवन्तं महाकपिः।।5.18.29।। Sundara Kanda,18,30,रावणोऽयं महाबाहुरिति सञ्चिन्त्य वानरः। अवप्लुतो महातेजा हनुमान्मारुतात्मजः।।5.18.30।। Sundara Kanda,18,31,स तथाप्युग्रतेजाः सन्निर्धूतस्तस्य तेजसा। पत्रगुह्यान्तरे सक्तो हनुमान् संवृतोऽभवत्।।5.18.31।। Sundara Kanda,18,32,स तामसितकेशान्तां सुश्रोणीं संहतस्त्नीम्। दिदृक्षुरसितापाङ्गामुपावर्तत रावणः।।5.18.32।। Sundara Kanda,19,1,तस्मिन्नेव ततः काले राजपुत्री त्वनिन्दिता। रूपयौवनसम्पन्नं भूषणोत्तमभूषितम्।।5.19.1।। Sundara Kanda,19,2,ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम्। प्रावेपत वरारोहा प्रवाते कदली यथा।।5.19.2।। Sundara Kanda,19,3,आच्छाद्योदरमूरुभ्यां बाहुभ्यां च पयोधरौ। उपविष्टा विशालाक्षी रुदन्ती वरवर्णिनी।।5.19.3।। Sundara Kanda,19,4,दशग्रीवस्तु वैदेहीं रक्षितां राक्षसीगणैः। ददर्श सीतां दुःखार्तां नावं सन्नामिवार्णवे।।5.19.4।। Sundara Kanda,19,5,असंवृतायामासीनां धरण्यां संशितव्रताम्। छिन्नां प्रपतितां भूमौ शाखामिव वनस्पतेः।।5.19.5।। Sundara Kanda,19,6,मलमण्डनचित्राङ्गीं मण्डनार्हाममण्डिताम्। मृणाली पङ्कदिग्धेव विभाति न विभाति च।।5.19.6।। Sundara Kanda,19,7,समीपं राजसिंहस्य रामस्य विदितात्मनः। सङ्कल्पहयसंयुक्सैर्यान्तीमिव मनोरथैः।।5.19.7।। Sundara Kanda,19,8,शुष्यन्तीं रुदतीमेकां ध्यानशोकपरायणाम्। दुःखस्यान्तमपश्यन्तीं रामां राममनुव्रताम्।।5.19.8।। Sundara Kanda,19,9,वेष्टमानां तथाऽविष्टां पन्नगेन्द्रवधूमिव। धूप्यमानां ग्रहेणेव रोहिणीं धूमकेतुना।।5.19.9।। Sundara Kanda,19,10,वृत्तशीलकुले जातामाचारवति धार्मिके। पुनःसंस्कारमापन्नां जातामिव च दुष्कुले।।5.19.10।। Sundara Kanda,19,11,अभूतेनापवादेन कीर्तिं निपतितामिव। आम्नायानामयोगेन विद्यां प्रशिथिलामिव।।5.19.11।। Sundara Kanda,19,12,सन्नामिव महाकीर्तिं श्रद्धामिव विमानिताम्। पूजामिव परिक्षीणामाशां प्रतिहतामिव।।5.19.12।। Sundara Kanda,19,13,आयतीमिव विध्वस्तामाज्ञां प्रतिहतामिव। दीप्तामिव दिशं काले पूजामपहृतामिव।।5.19.13।। Sundara Kanda,19,14,पद्मिनीमिव विध्वस्तां हतशूरां चमूमिव। प्रभामिव तमोध्वस्तामुपक्षीणामिवापगाम्।।5.19.14।। Sundara Kanda,19,15,वेदीमिव परामृष्टां शान्तामग्निशिखामिव। पौर्णमासीमिव निशां राहुग्रस्तेन्दुमण्डलाम्।।5.19.15।। Sundara Kanda,19,16,उत्कृष्टपर्णकमलां वित्रासितविहङ्गमाम्। हस्तिहस्तपरामृष्टामाकुलां पद्मिनीमिव।।5.19.16।। Sundara Kanda,19,17,पतिशोकातुरां शुष्कां नदीं विस्रावितामिव। परया मृजया हीनां कृष्णपक्षनिशामिव।।5.19.17।। Sundara Kanda,19,18,सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम्। तप्यमानामिवोष्णेन मृणालीमचिरोद्धृताम्।।5.19.18।। Sundara Kanda,19,19,गृहीतामालितां स्तम्भे यूथपेन विनाकृताम्। निःश्वसन्तीं सुदुःखार्तां गजराजवधूमिव।।5.19.19।। Sundara Kanda,19,20,एकया दीर्घया वेण्या शोभमानामयत्नतः। नीलया नीरदापाये वनराज्या महीमिव।।5.19.20।। Sundara Kanda,19,21,उपवासेन शोकेन ध्यानेन च भयेन च। परिक्षीणां कृशां दीनामल्पाहारां तपोधनाम्।।5.19.21।। Sundara Kanda,19,22,आयाचमानां दुःखार्तां प्राञ्जलिं देवतामिव। भावेन रघुमुख्यस्य दशग्रीवपराभवम्।।5.19.22।। Sundara Kanda,19,23,समीक्षमाणां रुदतीमनिन्दितां सुपक्ष्मताम्रायतशुक्ललोचनाम्। अनुव्रतां राममतीव मैथिलीं प्रलोभयामास वधाय रावणः।।5.19.23।। Sundara Kanda,20,1,स तां परिवृतां दीनां निरानन्दां तपस्विनीम्। साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः।।5.20.1।। Sundara Kanda,20,2,मां दृष्ट्वा नागनासोरु गूहमाना स्तनोदरम्। अदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि।।5.20.2।। Sundara Kanda,20,3,कामये त्वां विशालाक्षि बहुमन्यस्व मां प्रिये। सर्वाङ्गगुणसम्पन्ने सर्वलोकमनोहरे।।5.20.3।। Sundara Kanda,20,4,नेह केचिन्मनुष्या वा राक्षसाः कामरूपिणः। व्यपसर्पतु ते सीते भयं मत्तः समुत्थितम्।।5.20.4।। Sundara Kanda,20,5,स्वधर्मो रक्षसां भीरु सर्वथैव न संशयः। गमनं वा परस्त्रीणां हरणं सम्प्रमथ्य वा।।5.20.5।। Sundara Kanda,20,6,एवं चैतदकामां तु न त्वां स्प्रक्ष्यामि मैथिलि। कामं कामः शरीरे मे यथाकामं प्रवर्तताम्।।5.20.6।। Sundara Kanda,20,7,देवि नेह भयं कार्यं मयि विश्वसि हि प्रिये। प्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा।।5.20.7।। Sundara Kanda,20,8,एकवेणी धराशय्या ध्यानं मलिनमम्बरम्। अस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते।।5.20.8।। Sundara Kanda,20,9,विचित्राणि च माल्यानि चन्दनान्यगरूणि च। विविधानि च वासांसि दिव्यान्याभरणानि च।।5.20.9।। Sundara Kanda,20,10,महार्हाणि च पानानि शयनान्यासनानि च। गीतं नृत्तं च वाद्यं च लभ मां प्राप्य मैथिलि।।5.20.10।। Sundara Kanda,20,11,स्त्रीरत्नमसि मैवं भूः कुरु गात्रेषु भूषणम्। मां प्राप्य हि कथं नु स्वास्त्वमनर्हा सुविग्रहे।।5.20.11।। Sundara Kanda,20,12,इदं ते चारु सञ्जातं यौवनं व्यतिवर्तते। यदतीतं पुनर्नैति स्रोतः शीघ्रमपामिव।।5.20.12।। Sundara Kanda,20,13,त्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वसृक्। न हि रूपोपमा त्वन्या तवास्ति शुभदर्शने।।5.20.13।। Sundara Kanda,20,14,त्वां समासाद्य वैदेहि रूपयौवनशालिनीम्। कः पुमानतिवर्तेत साक्षादपि पितामहः।।5.20.14।। Sundara Kanda,20,15,यद्यत्पश्यामि ते गात्रं शीतांशुसदृशानने। तस्मिंस्तस्मिन् पृथुश्रोणि चक्षुर्मम निबध्यते।।5.20.15।। Sundara Kanda,20,16,भव मैथिलि भार्या मे मोहमेनं विसर्जय। बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः।।5.20.16।। सर्वासामेव भद्रं ते ममाग्रमहिषी भव। Sundara Kanda,20,17,लोकेभ्यो यानि रत्नानि सम्प्रमथ्याहृतानि वै।।5.20.17।। तानि मे भीरु सर्वाणि राज्यं चैतदहं च ते। Sundara Kanda,20,18,विजित्य पृथिवीं सर्वां नानानगरमालिनीम्।।5.20.18।। जनकाय प्रदास्यामि तव हेतोर्विलासिनि। Sundara Kanda,20,19,नेह पश्यामि लोकेऽन्यं यो मे प्रतिबलो भवेत्। पश्य मे सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे।।5.20.19।। Sundara Kanda,20,20,असकृत्संयुगे भग्ना मया विमृदितध्वजाः।।5.20.20।। अशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः। Sundara Kanda,20,21,इच्छ मां क्रियतामद्य प्रतिकर्म तवोत्तमम्।।5.20.21।। Sundara Kanda,20,22,सप्रभाण्यवसज्यन्तां तवाङ्गे भूषणानि च। साधु पश्यामि ते रूपं संयुक्तं प्रतिकर्मणा।।5.20.22।। Sundara Kanda,20,23,प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने। भुंक्ष्व भोगान्यथाकामं पिब भीरु रमस्व च।।5.20.23।। Sundara Kanda,20,24,यथेष्टं च प्रयच्छ त्वं पृथिवीं वा धनानि च। ललस्व मयि विस्रब्धा धृष्टमाज्ञापयस्व च।।5.20.24।। Sundara Kanda,20,25,मत्प्रसादाल्ललन्त्याश्च ललन्तां बान्धवास्तव। ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशश्च मे।।5.20.25।। Sundara Kanda,20,26,किं करिष्यसि रामेण सुभगे चीरवाससा। निक्षिप्तविजयो रामो गतश्रीर्वनगोचरः।।5.20.26।। व्रती स्थण्डिलशायी च शङ्के जीवति वा न वा। Sundara Kanda,20,27,न हि वैदेहि रामस्त्वां द्रष्टुं वा प्युपलप्स्यते। पुरोबलाकैरसितैर्मेघैर्ज्योत्स्नामिवावृताम्।।5.20.27।। Sundara Kanda,20,28,न चापि मम हस्तात्त्वां प्राप्तुमर्हति राघवः।।5.20.28।। हिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव। Sundara Kanda,20,29,चारुस्मिते चारुदति चारुनेत्रे विलासिनि।।5.20.29।। मनो हरसि मे भीरु सुपर्णः पन्नगं यथा। Sundara Kanda,20,30,क्लिष्टकौशेयवसनां तन्वीमप्यनलङ्कृताम्।।5.20.30।। त्वां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम्। Sundara Kanda,20,31,अन्तःपुरनिवासिन्यः स्त्रियः सर्वगुणान्विताः।।5.20.31।। यावन्त्यो मम सर्वासामैश्वर्यम् कुरु जानकि। Sundara Kanda,20,32,मम ह्यसितकेशान्ते त्रैलोक्यप्रवराः स्त्रियः।।5.20.32।। तास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा। Sundara Kanda,20,33,यानि वैश्रवणे सुभ्रु रत्नानि च धनानि च।।5.20.33।। तानि लोकांश्च सुश्रोणि मां च भुङ्क्ष्व यथासुखम्। Sundara Kanda,20,34,न रामस्तपसा देवि न बलेन न विक्रमैः।।5.20.34।। न धनेन मया तुल्यस्तेजसा यशसापि वा। Sundara Kanda,20,35,पिब विहर रमस्व भुङ्क्ष्व भोगान् धननिचयं प्रदिशामि मेदिनीं च। मयि लल ललने यथासुखं त्वं त्वयि च समेत्य ललन्तु बान्धवास्ते।।5.20.35।। Sundara Kanda,20,36,कुसुमिततरुजालसन्ततानि भ्रमरयुतानि समुद्रतीरजानि। कनकविमलहारभूषिताङ्गी विहर मया सह भीरु काननानि।।5.20.36।। Sundara Kanda,21,1,तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः। आर्ता दीनस्वरा दीनं प्रत्युवाच शनैर्वचः।।5.21.1।। Sundara Kanda,21,2,दुःखार्ता रुदती सीता वेपमाना तपस्विनी। चिन्तयन्ती वरारोहा पतिमेव पतिव्रता।।5.21.2।। तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता। Sundara Kanda,21,3,निवर्तय मनो मत्तः स्वजने क्रियतां मनः।।5.21.3।। न मां प्रार्थयितुं युक्तं सुसिद्धिमिव पापकृत्। Sundara Kanda,21,4,अकार्यं न मया कार्यमेकपत्न्या विगर्हितम्।।5.21.4।। कुलं सम्प्राप्तया पुण्यं कुले महति जातया। Sundara Kanda,21,5,एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी।।5.21.5।। राक्षसं पृष्ठतः कृत्वा भूयो वचनमब्रवीत्। Sundara Kanda,21,6,नाहमौपयिकी भार्या परभार्या सती तव।।5.21.6।। साधु धर्ममवेक्षस्व साधु साधुव्रतं चर। Sundara Kanda,21,7,यथा तव तथान्येषां दारा रक्ष्या निशाचर।।5.21.7।। आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम्। Sundara Kanda,21,8,अतुष्टं स्वेषु दारेषु चपलं चलितेन्द्रियम्।।5.21.8।। नयन्ति निकृतिप्रज्ञं परदाराः पराभवम्। Sundara Kanda,21,9,इह सन्तो न वा सन्ति सतो वा नानुवर्तसे।।5.21.9।। तथाहि विपरीता ते बुद्धिराचारवर्जिता। Sundara Kanda,21,10,वचो मिथ्याप्रणीतात्मा पथ्यमुक्तं विचक्षणैः।।5.21.10।। राक्षसानामभावाय त्वं वा न प्रतिपद्यसे। Sundara Kanda,21,11,अकृतात्मानमासाद्य राजानमनये रतम्।।5.21.11।। समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च। Sundara Kanda,21,12,तथेयं त्वां समासाद्य लङ्का रत्नौघसङ्कुला।।5.21.12।। अपराधात्तवैकस्य नचिराद्विनशिष्यति। Sundara Kanda,21,13,स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः।।5.21.13।। अभिनन्दन्ति भूतानि विनाशे पापकर्मणः। Sundara Kanda,21,14,एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः।।5.21.14।। दिष्ट्यैतद्व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः। Sundara Kanda,21,15,शक्या लोभयितुं नाहमैश्वर्येण धनेन वा।।5.21.15।। अनन्या राघवेणाहं भास्करेण प्रभा यथा। Sundara Kanda,21,16,उपधाय भुजं तस्य लोकनाथस्य सत्कृतम्।।5.21.16।। कथं नामोपधास्यामि भुजमन्यस्य कस्य चित्। Sundara Kanda,21,17,अहमौपयिकी भार्या तस्यैव वसुधापतेः।।5.21.17।। व्रतस्नातस्य विप्रस्य विद्येव विदितात्मनः। Sundara Kanda,21,18,साधु रावण रामेण मां समानय दुःखिताम्।।5.21.18।। वने वाशितया सार्धं करेण्वेव गजाधिपम्। Sundara Kanda,21,19,मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता।।5.21.19।। वधं चानिच्छता घोरं त्वयासौ पुरुषर्षभः। Sundara Kanda,21,20,विदितः स हि धर्मज्ञः शरणागतवत्सलः।।5.21.20।। तेन मैत्री भवतु ते यदि जीवितुमिच्छसि। Sundara Kanda,21,21,प्रसादयस्व त्वं चैनं शरणागतवत्सलम्।।5.21.21।। मां चास्मै नियतो भूत्वा निर्यातयितुमर्हसि। Sundara Kanda,21,22,एवं हि ते भवेत्स्वस्ति सम्प्रदाय रघूत्तमे।।5.21.22।। अन्यथा त्वं हि कुर्वाणो वधं प्राप्स्यसि रावण। Sundara Kanda,21,23,वर्जयेद्वज्रमुत्सृष्टं वर्जयेदन्तकश्चिरम्।।5.21.23।। त्वद्विधं तु न सङ्कृद्धो लोकनाथः स राघवः। Sundara Kanda,21,24,रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम्।।5.21.24।। शतक्रतुविसृष्टस्य निर्घोषमशनेरिव। Sundara Kanda,21,25,इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगा: ।।5.21.25।। इषवो निपतिष्यन्ति रामलक्ष्मणलक्षणाः। Sundara Kanda,21,26,रक्षांसि परिनिघ्नन्तः पुर्यामस्यां समन्ततः।।5.21.26।। असंपातं करिष्यन्ति पतन्तः कङ्कवाससः। Sundara Kanda,21,27,राक्षसेन्द्रमहासर्पान् स रामगरुडो महान्।।5.21.27।। उद्धरिष्यति वेगेन वैनतेय इवोरगान्। Sundara Kanda,21,28,अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिन्दमः।।5.21.28।। असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः। Sundara Kanda,21,29,जनस्थाने हतस्थाने निहते रक्षसां बले।।5.21.29।। अशक्तेन त्वया रक्षः कृतमेतदसाधु वै। Sundara Kanda,21,30,आश्रमं तु तयोः शून्यं प्रविश्य नरसिंहयोः।।5.21.30।। गोचरं गतयोर्भ्रात्रोरपनीता त्वयाधम। Sundara Kanda,21,31,न हि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया।।5.21.31।। शक्यं संदर्शने स्थातुं शुना शार्दूलयोरिव। Sundara Kanda,21,32,तस्य ते विग्रहे ताभ्यां युगग्रहणमस्थिरम्।।5.21.32।। वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य विग्रहे। Sundara Kanda,21,33,क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह।।5.21.33।। तोयमल्पमिवादित्यः प्राणानादास्यते शरैः। Sundara Kanda,21,34,गिरिं कुबेरस्य गतोऽथ वालयं सभां गतो वा वरुणस्य राज्ञः। असंशयं दाशरथेर्न मोक्ष्यसे महाद्रुमः कालहतोऽशनेरिव।।5.21.34।। Sundara Kanda,22,1,सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः। प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम्।।5.22.1।। Sundara Kanda,22,2,यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा। यथा यथा प्रियं वक्ता परिभूतस्तथा तथा।।5.22.2।। Sundara Kanda,22,3,सन्नियच्छति मे क्रोधं त्वयि कामः समुत्थितः। द्रवतोऽमार्गमासाद्य हयानिव सुसारथिः।।5.22.3।। Sundara Kanda,22,4,वामः कामो मनुष्याणां यस्मिन् किल निबध्यते। जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते।।5.22.4।। Sundara Kanda,22,5,एतस्मात्कारणान्न त्वां घातयामि वरानने। वधार्हामवमानार्हां मिथ्याप्रव्रजिते रताम्।।5.22.5।। Sundara Kanda,22,6,परुषाणीह वाक्यानि यानि यानि ब्रवीषि माम्। तेषु तेषु वधो युक्तस्तव मैथिलि दारुणः।।5.22.6।। Sundara Kanda,22,7,एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः। क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत्।।5.22.7।। Sundara Kanda,22,8,द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः। ततः शयनमारोह मम त्वं वरवर्णिनि।।5.22.8।। Sundara Kanda,22,9,ऊर्ध्वं द्वाभ्यां तु मासाभ्यां भर्तारं मामनिच्छतीम्। मम त्वां प्रातराशार्थमालभन्ते महानसे।।5.22.9।। Sundara Kanda,22,10,तां तर्ज्यमानां सम्प्रेक्ष्य राक्षसेन्द्रेण जानकीम्। देवगन्धर्वकन्यास्ता विषेदुर्विकृतेक्षणाः।।5.22.10।। Sundara Kanda,22,11,ओष्ठप्रकारैरपरा वक्त्रनेत्रैस्तथापराः। सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा।।5.22.11।। Sundara Kanda,22,12,ताभिराश्वासिता सीता रावणं राक्षसाधिपम्। उवाचात्महितं वाक्यं वृत्तशौण्डीर्यगर्वितम्।।5.22.12।। Sundara Kanda,22,13,नूनं न ते जनः कश्चिदस्ति निःश्रेयसे स्थित:। निवारयति यो न त्वां कर्मणोऽस्माद्विगर्हितात्।।5.22.13।। Sundara Kanda,22,14,मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः। त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसापि कः।।5.22.14।। Sundara Kanda,22,15,राक्षसाधम रामस्य भार्याममिततेजसः। उक्तवानसि यत्पापं क्व गतस्तस्य मोक्ष्यसे।।5.22.15।। Sundara Kanda,22,16,यथा दृप्तश्च मातङ्गः शशश्च सद्दृशो युधि। तथा मातङ्गवद्रामस्त्वं नीच: शशवत् स्मृतः।।5.22.16।। Sundara Kanda,22,17,स त्वमिक्ष्वाकुनाथं वै क्षिपन्निह न लज्जसे। चक्षुषोर्विषयं तस्य न तावदुपगच्छसि।।5.22.17।। Sundara Kanda,22,18,इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले। क्षितौ न पतिते कस्मान्मामनार्य निरीक्षितः।।5.22.18।। Sundara Kanda,22,19,तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य च। कथं व्याहरतो मां ते न जिह्वा व्यवशीर्यते।।5.22.19।। Sundara Kanda,22,20,असन्देशात्तु रामस्य तपसश्चानुपालनात्। न त्वां कुर्मि दशग्रीव भस्म भर्मार्ह तेजसा।।5.22.20।। Sundara Kanda,22,21,नापहर्तुमहं शक्या त्वया रामस्य धीमतः। विधिस्तव वधार्थाय विहितो नात्र संशयः।।5.22.21।। Sundara Kanda,22,22,शूरेण धनदभ्रात्रा बलैः समुदितेन च। अपोह्य रामं कस्माद्धि दारचौर्यं त्वया कृतम्।।5.22.22।। Sundara Kanda,22,23,सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः। विवृत्य नयने क्रूरे जानकीमन्ववैक्षत।।5.22.23।। Sundara Kanda,22,24,नीलजीमूतसङ्काशो महाभुजशिरोधरः। सिंहसत्त्वगतिः श्रीमान् दीप्त जिह्वाग्रलोचनः।।5.22.24।। Sundara Kanda,22,25,चलाग्रमकुटप्रांशुश्चित्रमाल्यानुलेपनः। रक्तमाल्याम्बरधर तत्सङ्गदविभूषणः।।5.22.25।। Sundara Kanda,22,26,श्रोणिसूत्रेण महता मेचकेन सुसंवृतः। अमृतोत्पादनद्धेन भुजगेनेव मन्दरः।।5.22.26।। Sundara Kanda,22,27,ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः। शुशुभेऽचलसङ्काशः शृङ्गाभ्यामिव मन्दरः।।5.22.27।। Sundara Kanda,22,28,तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः। रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः।।5.22.28।। Sundara Kanda,22,29,स कल्पवृक्षप्रतिमो वसन्त इव मूर्तिमान्। श्मशानचैत्यप्रतिमो भूषितोऽपि भयङ्करः।।5.22.29।। Sundara Kanda,22,30,अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः। उवाच रावणः सीतां भुजङ्ग इव निःश्वसन्।।5.22.30।। Sundara Kanda,22,31,अनयेनाभिसम्पन्नमर्थहीनमनुव्रते। नाशयाम्यहमद्य त्वां सूर्यः सन्ध्यामिवौजसा।।5.22.31।। Sundara Kanda,22,32,इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः। सन्दिदेश ततः सर्वा राक्षसीर्घोरदर्शनाः।।5.22.32।। Sundara Kanda,22,33,एकाक्षीमेककर्णां च कर्णप्रावरणां तथा। गोकर्णीं हस्तिकर्णीं च लम्बकर्णीमकर्णिकाम्।।5.22.33।। Sundara Kanda,22,34,हस्तिपाद्यश्वपाद्यौ च गोपादीं पादचूलिकाम्। एकाक्षीमेकपादीं च पृथुपादीमपादिकाम्।।5.22.34।। Sundara Kanda,22,35,अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम्। अतिमात्रास्यनेत्रां च दीर्घजिह्वामजिह्विकाम्।।5.22.35।। अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम्। Sundara Kanda,22,36,यथा मद्वशगा सीता क्षिप्रं भवति जानकी।।5.22.36।। तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य च। Sundara Kanda,22,37,प्रतिलोमानुलोमैश्च सामदानादिभेदनैः।।5.22.37।। आवर्जयत वैदेहीं दण्डस्योद्यमनेन च। Sundara Kanda,22,38,इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः।।5.22.38।। काममन्युपरीतात्मा जानकीं पर्यतर्जयत्। Sundara Kanda,22,39,उपगम्य ततः शीघ्रं राक्षसी धान्यमालिनी।।5.22.39।। परिष्वज्य दशग्रीवमिदं वचनमब्रवीत्। Sundara Kanda,22,40,मया क्रीड महाराज सीतया किं तवानया।।5.22.40।। विवर्णया कृपणया मानुष्या राक्षसेश्वर। Sundara Kanda,22,41,नूनमस्या महाराज न दिव्यान् भोगसत्तमान्।।5.22.41।। विदधात्यमरश्रेष्ठस्तव बाहुबलार्जितान्। Sundara Kanda,22,42,अकामां कामयानस्य शरीरमुपतप्यते।।5.22.42।। इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना। Sundara Kanda,22,43,एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली।।5.22.43।। प्रहसन्मेघसङ्काशो राक्षसः स न्यवर्तत। Sundara Kanda,22,44,प्रस्थितः स दशग्रीवः कम्पयन्निव मेदिनीम्।।5.22.44।। ज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम्। Sundara Kanda,22,45,देवगन्धर्वकन्याश्च नागकन्याश्च सर्वतः।।5.22.45।। परिवार्य दशग्रीवं विविशुस्तं गृहोत्तमम्। Sundara Kanda,22,46,स मैथिलीं धर्मपरामवस्थितां प्रपेपमानां परिभर्त्स्य रावणः। विहाय सीतां मदनेन मोहितः स्वमेव वेश्म प्रविवेश भास्वरम्।।5.22.46।। Sundara Kanda,23,1,इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः। सन्दिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह।।5.23.1।। Sundara Kanda,23,2,निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते। राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः।।5.23.2।। Sundara Kanda,23,3,ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्छिताः। परं परुषया वाचा वैदेहीमिदमब्रुवन्।।5.23.3।। Sundara Kanda,23,4,पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः। दशग्रीवस्य भार्या त्वं सीते न बहुमन्यसे।।5.23.4।। Sundara Kanda,23,5,ततस्त्वेकजटा नाम राक्षसी वाक्यमब्रवीत्। आमन्त्य्र क्रोधाताम्राक्षी सीतां करतलोदरीम्।।5.23.5।। Sundara Kanda,23,6,प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिः। मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः।।5.23.6।। Sundara Kanda,23,7,पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः। नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः।।5.23.7।। Sundara Kanda,23,8,तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः। तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि।।5.23.8।। मयोक्तं चारुसर्वाङ्गिः वाक्यं किं नानुमन्यसे। Sundara Kanda,23,9,ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत्।।5.23.9।। विवर्त्य नयने कोपान्मार्जारसदृशेक्षणा। Sundara Kanda,23,10,येन देवास्त्रयस्त्रिंशद्देवराजश्च निर्जिताः।।5.23.10।। तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि। Sundara Kanda,23,11,ततस्तु प्रघसा नाम राक्षसी क्रोधमूर्छिता।।5.23.11।। भर्त्सयन्ती तदा घोरमिदं वचनमब्रवीत्। Sundara Kanda,23,12,वीर्योत्सिक्तस्य शूरस्य सङ्ग्रामेषु निवर्तिनः।।5.23.12।। बलिनो वीर्ययुक्तस्य भार्यात्वं किं न लप्स्यसे। Sundara Kanda,23,13,प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः।।5.23.13।। सर्वासां च महाभागां त्वामुपैष्यति रावणः। Sundara Kanda,23,14,समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम्।।5.23.14।। अन्तःपुरं समुत्सृज्य त्वामुपैष्यति रावणः। Sundara Kanda,23,15,अन्या तु विकटा नाम राक्षसी वाक्यमब्रवीत्।।5.23.15।। Sundara Kanda,23,16,असकृद्देवता युद्धे नागगन्धर्वदानवाः। निर्जिताः समरे येन स ते पार्श्वमुपागतः।।5.23.16।। Sundara Kanda,23,17,तस्य सर्वसमृद्धस्य रावणस्य महात्मनः। किमद्य राक्षसेन्द्रस्य भार्यात्वं नेच्छसेऽधमे।।5.23.17।। Sundara Kanda,23,18,ततस्तु दुर्मुखी नाम राक्षसी वाक्यमब्रवीत्। यस्य सूर्यो न तपति भीतो यस्य च मारुतः।।5.23.18।। न वाति स्मायतापाङ्गे किं त्वं तस्य न तिष्ठसि। Sundara Kanda,23,19,पुष्पवृष्टिं च तरवो मुमुचुर्यस्य वै भयात्।।5.23.19।। Sundara Kanda,23,20,शैलाश्च सुभ्रु पानीयं जलदाश्च यदेच्छति। तस्य नैरृतराजस्य राजराजस्य भामिनि ।।5.23.20।। किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि। Sundara Kanda,24,1,ततः सीतामुपागम्य राक्षस्यो विकृताननाः। परुषं परुषा नार्य ऊचुस्तां वाक्यमप्रियम्।।5.24.1।। Sundara Kanda,24,2,किं त्वमन्तःपुरे सीते सर्वभूतमनोहरे। महार्हशयनोपेते न वासमनुमन्यसे।।5.24.2।। Sundara Kanda,24,3,मानुषी मानुषस्यैव भार्यात्वं बहुमन्यसे। प्रत्याहर मनो रामान्न त्वं जातु भविष्यसि।।5.24.3।। Sundara Kanda,24,4,त्रैलोक्यवसुभोक्तारं रावणं राक्षसेश्वरम्। भर्तारमुपसङ्गम्य विहरस्व यथासुखम्।।5.24.4।। Sundara Kanda,24,5,मानुषी मानुषं तं तु राममिच्छसि शोभने। राज्याद्भ्र्रष्टमसिद्धार्थं विक्लबं त्वमनिन्दिते।।5.24.5।। Sundara Kanda,24,6,राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा। नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत्।।5.24.6।। Sundara Kanda,24,7,यदिदं लोकविद्विष्टमुदाहरथ सङ्गताः। नैतन्मनसि वाक्यं मे किल्बिषं प्रतिभाति वः।।5.24.7।। Sundara Kanda,24,8,न मानुषी राक्षसस्य भार्या भवितुमर्हति। कामं खादत मां सर्वा न करिष्यामि वो वचः।।5.24.8।। Sundara Kanda,24,9,दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः। तं नित्यमनुरक्तास्मि यथा सूर्यं सुवर्चला।।5.24.9।। Sundara Kanda,24,10,यथा शची महाभागा शक्रं समुपतिष्ठति। अरुन्धती वसिष्ठं च रोहिणी शशिनं यथा।।5.24.10।। Sundara Kanda,24,11,लोपामुद्रा यथागस्त्यं सुकन्या च्यवनं यथा। सावित्री सत्यवन्तं च कपिलं श्रीमती यथा।।5.24.11।। Sundara Kanda,24,12,सौदासं मदयन्तीव केशिनी सगरं यथा। नैषधं दमयन्तीव भैमी पतिमनुव्रता।।5.24.12।। तथाऽहमिक्ष्वाकुवरं रामं पतिमनुव्रता। Sundara Kanda,24,13,सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्छिताः।।5.24.13।। भर्त्सयन्ति स्म परुषैर्वाक्यै रावणचोदिताः। Sundara Kanda,24,14,अवलीनः स निर्वाक्यो हनूमान् शिंशुपाद्रुमे।।5.24.14।। यसीतां सन्तर्जयन्तीस्ता राक्षसीरशृणोत् कपिः। Sundara Kanda,24,15,तामभिक्रम्य सङ्कृद्धा वेपमानां समन्ततः।।5.24.15।। भृशं संलिलिहुर्दीप्तान् प्रलम्बान् दशनच्छदान्। Sundara Kanda,24,16,ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान्।।5.24.16।। नेयमर्हति भर्तारं रावणं राक्षसाधिपम्। Sundara Kanda,24,17,सा भर्त्स्यमाना भीमाभी राक्षसीभिर्वरानना।।5.24.17।। सबाष्पमप सर्पन्ती शिंशुपां तामुपागमत्। Sundara Kanda,24,18,ततस्तां शिंशुपां सीता राक्षसीभिः समावृता।।5.24.18।। अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता। Sundara Kanda,24,19,तां कृशां दीनवदनां मलिनाम्बरधारिणीम्।।5.24.19।। भर्त्सयाञ्चक्रिरे सीतां राक्षस्यस्तां समन्ततः। Sundara Kanda,24,20,ततस्तां विनता नाम राक्षसी भीमदर्शना।।5.24.20।। अब्रवीत्कुपिताकारा कराला निर्णतोदरी। Sundara Kanda,24,21,सीते पर्याप्तमेतावद्भर्तुः स्नेहो निदर्शितः।।5.24.21।। सर्वात्रातिकृतं भद्रे व्यसनायोपकल्पते Sundara Kanda,24,22,परितुष्टास्मि भद्रं ते मानुषस्ते कृतो विधिः।।5.24.22।। ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि। Sundara Kanda,24,23,रावणं भज भर्तारं भर्तारं सर्वरक्षसाम्।।5.24.23।। Sundara Kanda,24,24,विक्रान्तं रूपवन्तं च सुरेशमिव वासवम्। दक्षिणं त्यागशीलं च सर्वस्य प्रियदर्शनम्।।5.24.24।। Sundara Kanda,24,25,"""मानुषं कृपणं रामं त्यक्त्वा, रावणमाश्रय। दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता।।5.24.25।। अद्यप्रभृति सर्वेषां लोकानामीश्वरी भव।""" Sundara Kanda,24,26,अग्नेः स्वाहा यथा देवी शची वेन्द्रस्य शोभने।।5.24.26।। किं ते रामेण वैदेहि कृपणेन गतायुषा। Sundara Kanda,24,27,एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यसि।।5.24.27।। अस्मिन्मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम्। Sundara Kanda,24,28,अन्या तु विकटा नाम लम्बमानपयोधरा।।5.24.28।। अब्रवीत्कुपिता सीतां मुष्टिमुद्यम्य गर्जती। Sundara Kanda,24,29,बहून्यप्रियरूपाणि वचनानि सुदुर्मते।।5.24.29।। अनुक्रोशान्मृदुत्वाच्च सोढानि तव मैथिलि। Sundara Kanda,24,30,न च नः कुरुषे वाक्यं हितं कालपुरस्कृतम्।।5.24.30।। Sundara Kanda,24,31,आनीतासि समुद्रस्य पारमन्यैर्दुरासदम्। रावणान्तःपुरं घोरं प्रविष्टा चासि मैथिलि।।5.24.31।। Sundara Kanda,24,32,रावणस्य गृहे रुद्धामस्माभिस्तु सुरक्षिताम्। न त्वां शक्तः परित्रातुमपि साक्षात्पुरन्दरः।।5.24.32।। Sundara Kanda,24,33,कुरुष्व हितवादिन्या वचनं मम मैथिलि। अलमश्रुप्रपातेन त्यज शोकमनर्थकम्।।5.24.33।। Sundara Kanda,24,34,भज प्रीतिं च हर्षं च त्यजैतां नित्यदैन्यताम्। सीते राक्षसराजेन सह क्रीड यथासुखम्।।5.24.34।। Sundara Kanda,24,35,जानासि हि यथा भीरु स्त्रीणां यौवनमध्रुवम्। यावन्न ते व्यतिक्रामेत्तावत्सुखमवाप्नुहि।।5.24.35।। Sundara Kanda,24,36,उद्यानानि च रम्याणि पर्वतोपवनानि च। सह राक्षसराजेन चर त्वं मदिरेक्षणे।।5.24.36।। Sundara Kanda,24,37,स्त्री सहस्राणि ते सप्त वशे स्थास्यन्ति सुन्दरि। रावणं भज भर्तारं भर्तारं सर्वरक्षसाम्।।5.24.37।। Sundara Kanda,24,38,उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलि। यदि मे व्याहृतं वाक्यं न यथावत्करिष्यसि।।5.24.38।। Sundara Kanda,24,39,ततश्चण्डोदरी नाम राक्षसी क्रोधमूर्छिता। भ्रामयन्ती महच्छूलमिदं वचनमब्रवीत्।।5.24.39।। Sundara Kanda,24,40,इमां हरिणलोलाक्षीं त्रासोत्कम्पिपयोधराम्। रावणेन हृतां दृष्टवा दौहृदो मे महानभूत्।।5.24.40।। Sundara Kanda,24,41,यकृत्प्लीहमथोत्पीडं हृदयं च सबन्धनम्। आन्त्राण्यपि तथा शीर्षं खादेयमिति मे मतिः।।5.24.41।। Sundara Kanda,24,42,ततस्तु प्रघसा नाम राक्षसी वाक्यमब्रवीत्। कण्ठमस्या नृशंसायाः पीडयाम किमास्यते।।5.24.42।। Sundara Kanda,24,43,निवेद्यतां ततो राज्ञे मानुषी सा मृतेति ह। नात्र कश्चन संदेहः खादतेति स वक्ष्यति।।5.24.43।। Sundara Kanda,24,44,ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत्। विशस्येमां ततः सर्वाः समान् कुरुत पिण्डकान्।।5.24.44।। Sundara Kanda,24,45,विभजाम ततः सर्वा विवादो मे न रोचते। पेयमानीयतां क्षिप्रं लेह्यमुच्चावचं बहु।।5.24.45।। Sundara Kanda,24,46,ततः शूर्पणखा नाम राक्षसी वाक्यमब्रवीत्। अजामुख्या यदुक्तं हि तदेव मम रोचते।।5.24.46।। Sundara Kanda,24,47,सुरा चानीयतां क्षिप्रं सर्वशोकविनाशिनी। मानुषं मांसमास्वाद्य नृत्यामोऽथ निकुम्भिलाम्।।5.24.47।। Sundara Kanda,24,48,एवं संभर्त्स्यमाना सा सीता सुरसुतोपमा। राक्षसीभिः सुघोराभिर्दैर्यमुत्सृज्य रोदिति।।5.24.48।। Sundara Kanda,25,1,अथ तासां वदन्तीनां परुषं दारुणं बहु। राक्षसीनामासौम्यानां रुरोद जनकात्मजा।।5.25.1।। Sundara Kanda,25,2,एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी। उवाच परमत्रस्ता भाष्पग्द्गदया गिरा।।5.25.2।। Sundara Kanda,25,3,न मानुषी राक्षसस्य भार्या भवितुमर्हति। कामं खादत मां सर्वा न करिष्यामि वो वचः।।5.25.3।। Sundara Kanda,25,4,सा राक्षसीमध्यगता सीता सुरसुतोपमा। न शर्म लेभे दुःखार्ता रावणेन च तर्जिता।।5.25.4।। Sundara Kanda,25,5,वेपते स्माधिकं सीता विशन्ती वाङ्गमात्मनः। वने यूथपरिभ्रष्टा मृगी कोकैरिवार्दिता।।5.25.5।। Sundara Kanda,25,6,सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम्। चिन्तयामास शोकेन भर्तारं भग्नमानसा।।5.25.6।। Sundara Kanda,25,7,सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः। चिन्तयन्ती न शोकस्य तदान्तमधिगच्छति।।5.25.7।। Sundara Kanda,25,8,सा वेपमाना पतिता प्रवाते कदली यथा। राक्षसीनां भयत्रस्ता विवर्णवदनाभवत्।।5.25.8।। Sundara Kanda,25,9,तस्याः सा दीर्घविपुला वेपन्त्या सीतया तदा। ददृशे कम्पिनी वेणी व्यालीव परिसर्पती।।5.25.9।। Sundara Kanda,25,10,सा निःश्वसन्ती दुःखार्ता शोकोपहतचेतना। आर्ता व्यसृजदश्रूणि मैथिली विललाप च।।5.25.10।। Sundara Kanda,25,11,हा रामेति च दुःखार्ता हा पुनर्लक्ष्मणेति च। हा श्वश्रु मम कौसल्ये हा सुमित्रेति भामिनी।।5.25.11।। Sundara Kanda,25,12,लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतः। अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा।।5.25.12।। Sundara Kanda,25,13,यदहमेवं क्रूराभी राक्षसीभिरिहार्दिता। जीवामि हीना रामेण मुहूर्तमपि दुःखिता।।5.25.13।। Sundara Kanda,25,14,एषाल्पपुण्या कृपणा विनशिष्याम्यनाथवत्। समुद्रमध्ये नौः पूर्णा वायुवेगैरिवाहता।।5.25.14।। Sundara Kanda,25,15,भर्तारं तमपश्यन्ती राक्षसीवशमागता। सीदामि खलु शोकेन कूलं तोयहतं यथा।।5.25.15।। Sundara Kanda,25,16,तं पद्मदलपत्राक्षं सिंहविक्रान्तगामिनम्। धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम्।।5.25.16।। Sundara Kanda,25,17,सर्वथा तेन हीनाया रामेण विदितात्मना। तीक्ष्णं विषमिवास्वाद्य दुर्लभं मम जीवितम्।।5.25.17।। Sundara Kanda,25,18,कीदृशं तु महापापं मया जन्मान्तरे कृतम्। यनेदं प्राप्यते दुःखं मया घोरं सुदारुणम्।।5.25.18।। Sundara Kanda,25,19,जीवितं त्यक्तुमिच्छामि शोकेन महता वृता। राक्षसीभिश्च रक्षन्त्या रामो नासाद्यते मया।।5.25.19।। Sundara Kanda,25,20,धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम्। न शक्यं यत्परित्यक्तुमात्मच्छन्देन जीवितम्।।5.25.20।। Sundara Kanda,26,1,प्रसक्ताश्रुमुखीत्यवं ब्रुवन्ती जनकात्मजा। आधोगतमुखी बाला विलप्तुमुपचक्रमे।।5.26.1।। Sundara Kanda,26,2,उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती। उपावृत्ता किशोरीव विवेष्टन्ती महीतले।।5.26.2।। Sundara Kanda,26,3,राघवस्य प्रमत्तस्य रक्षसा कामरूपिणा। रावणेन प्रमथ्याहमानीता क्रोशती बलात्।।5.26.3।। Sundara Kanda,26,4,राक्षसीवशमापन्ना भर्त्स्यमाना सुदारुणम्। चिन्तयन्ती सुदुःखार्ता नाहं जीवितुमुत्सुहे।।5.26.4।। Sundara Kanda,26,5,न हि मे जीवितेनार्थो नैवार्थेर्न च भूषणैः। वसन्त्या राक्षसीमध्ये विना रामं महारथम्।।5.26.5।। Sundara Kanda,26,6,अश्मसारमिदं नूनमथवाप्यजरामरम्। हृदयं मम येनेदं न दुःखेनावशीर्यते।।5.26.6।। Sundara Kanda,26,7,धिङ्मामनार्यामसतीं याहं तेना विना कृता। मुहूर्तमपि रक्षामि जीवितं पापजीविता।।5.26.7।। Sundara Kanda,26,8,का च मे जीविते श्रद्धा सुखे वा तं प्रियं विना। भर्तारं सागरान्ताया वसुधायाः प्रियंवदम्।।5.26.8।। Sundara Kanda,26,9,भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्यहम्। न चाप्यहं चिरं दुःखं सहेयं प्रियवर्जिता।।5.26.9।। Sundara Kanda,26,10,चरणेनापि सव्येन न स्पृशेयं निशाचरम्। रावणं किं पुनरहं काममेयं विगर्हितम्।।5.26.10।। Sundara Kanda,26,11,प्रत्याख्यातं न जानाति नात्मानं नात्मनः कुलम्। यो नृशंसस्वभावेन मां प्रार्थयितुमिच्छति।।5.26.11।। Sundara Kanda,26,12,छिन्ना भिन्ना विभक्ता वा दीप्तेवाग्नौ प्रदीपिता। रावणं नोपतिष्ठेयं किं प्रलापेन वश्चिरम्।।5.26.12।। Sundara Kanda,26,13,ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः। सद्वृत्तो निरनुक्रोशश्शङ्के मद्भाग्यसङ्क्षयात्।।5.26.13।। Sundara Kanda,26,14,राक्षसानां सहस्राणि जनस्थाने चतुर्दश। येनैकेन निरस्तानि स मां किं नाभिपद्यते।।5.26.14।। Sundara Kanda,26,15,निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा। समर्थः खलु मे भर्ता रावणं हन्तुमाहवे।।5.26.15।। Sundara Kanda,26,16,विराधो दण्डकारण्ये येन राक्षसपुङ्गवः। रणे रामेण निहतस्स मां किं नाभिपद्यते।।5.26.16।। Sundara Kanda,26,17,कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा। न तु राघवबाणानां गतिरोधो भविष्यति ।।5.26.17।। Sundara Kanda,26,18,किन्नु तत्कारणं येन रामो दृढपराक्रमः। रक्षसापहृतां भार्यामिष्टां नाभ्यवपद्यते।।5.26.18।। Sundara Kanda,26,19,इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः। जानन्नपि हि तेजस्वी धर्षणं मर्षयिष्यति।।5.26.19।। Sundara Kanda,26,20,हृतेति योऽधिगत्वा मां राघवाय निवेदयेत्। गृध्रराजोऽपि स रणे रावणेन निपातितः।।5.26.20।। Sundara Kanda,26,21,कृतं कर्म महत्तेन मां तथाऽभ्यवपद्यता। तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा।।5.26.21।। Sundara Kanda,26,22,यदि मामिह जानीयाद्वर्तमानां स राघवः। अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसम्।।5.26.22।। Sundara Kanda,26,23,विधमेच्च पुरीं लङ्कां शोषयेच्च महोदधिम्। रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत्।।5.26.23।। Sundara Kanda,26,24,ततो निहतनाथानां राक्षसीनां गृहे गृहे। यथाहमेवं रुदती तथा भूयो न संशयः।।5.26.24।। Sundara Kanda,26,25,अन्विष्य रक्षसां लङ्कां कुर्याद्रामस्सलक्ष्मणः। न हि ताभ्यां रिपुर्दृष्टो मुहूर्तमपि जीवति।।5.26.25।। Sundara Kanda,26,26,चिताधूमाकुलपथा गृध्रमण्डलसङ्कुला। अचिरेण तु लङ्केयं श्मशानसदृशी भवेत्।।5.26.26।। Sundara Kanda,26,27,अचिरेणैव कालेन प्राप्स्याम्येव मनोरथम्। दुष्प्रस्थानोऽयामाख्याति सर्वेषां वो विपर्ययम्।।5.26.27।। Sundara Kanda,26,28,यादृशानीह दृश्यन्ते लङ्कायामशुभानि वै। अचिरेणैव कालेन भविष्यति हतप्रभा।।5.26.28।। Sundara Kanda,26,29,नूनं लङ्का हते पापे रावणे राक्षसाधमे। शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा।।5.26.29।। Sundara Kanda,26,30,पुण्योत्सवसमुत्था च नष्टभर्त्री सराक्षसी। भविष्यति पुरी लङ्का नष्टभर्त्री यथाङ्गना।।5.26.30।। Sundara Kanda,26,31,नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहे। श्रोष्यामि नचिरादेव दुःखार्तानामिह ध्वनिम्।।5.26.31।। Sundara Kanda,26,32,सान्थकारा हतद्योता हतराक्षसपुङ्गवा। भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः।।5.26.32।। Sundara Kanda,26,33,यदि नाम स शूरो मां रामो रक्तान्तलोचनः। जानीयाद्वर्तमानां हि रावणस्य निवेशने।।5.26.33।। Sundara Kanda,26,34,अनेन तु नृशंसेन रावणेनाधमेन मे। समयो यस्तु निर्दिष्टस्तस्य कालोऽयमागतः।।5.26.34।। स च मे विहितो मृत्युरस्मिन् दुष्टे न वर्तते। Sundara Kanda,26,35,अकार्यं ये न जानन्ति नैर्ऋताः पापकारिणः।।5.26.35।। Sundara Kanda,26,36,अधर्मात्तु महोत्पातो भविष्यति हि सांप्रतम्। नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः।।5.26.36।। Sundara Kanda,26,37,ध्रुवं मां प्रातराशार्थे राक्षसः कल्पयिष्यति। साहं कथं करिष्यामि तं विना प्रियदर्शनम्।।5.26.37।। रामं रक्तान्तनयनमपश्यन्ती सुदुःखिता। Sundara Kanda,26,38,यदि कश्चित् प्रदाता मे विषस्याद्य भवेदिह।।5.27.38।। क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना। Sundara Kanda,26,39,नाजानाज्जीवतीं रामस्स मां लक्ष्मणपूर्वजः।।5.26.39।। जानन्तौ तौ न कुर्यातां नोर्य्वां हि मम मार्गणम्। Sundara Kanda,26,40,नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः।।5.26.40।। देवलोकमितो यातस्त्यक्त्वा देहं महीतले। Sundara Kanda,26,41,धन्या देवास्सगन्धर्वाः सिद्धाश्च परमर्षयः।।5.26.41।। मम पश्यन्ति ये नाथं रामं राजीवलोचनम्। Sundara Kanda,26,42,अथवा न हि तस्यार्थो धर्मकामस्य धीमतः।।5.26.42।। मया रामस्य राजर्षेर्भार्यया परमात्मनः। Sundara Kanda,26,43,दृश्यमाने भवेत्प्रीति स्सौहृदं नास्त्यपश्यतः।।5.26.43।। नाशयन्ति कृतघ्नास्तु न रामो नाशयिष्यति। Sundara Kanda,26,44,किं नु मे न गुणाः केचित्किं वा भाग्यक्षयो मम।।5.26.44।। याहं सीदामि रामेण हीना मुख्येन भामिनी। Sundara Kanda,26,45,श्रेयो मे जीवितान्मर्तुं विहीनाया महात्मनः।।5.26.45।। रामादक्लिष्टचारित्राच्छूराच्छत्रुनिबर्हणात्। Sundara Kanda,26,46,अथवा न्यस्तशत्रौ तौ वने मूलफलाशिनौ।।5.26.46।। भ्रातरौ हि नरश्रेष्ठौ संवृत्तौ वनगोचरौ। Sundara Kanda,26,47,अथवा राक्षसेन्द्रेण रावणेन दुरात्मना।।5.26.47।। छद्मना घातितौ शूरौ भ्रातरौ रामलक्ष्मणौ। Sundara Kanda,26,48,साऽहमेवङ्गते काले मर्तुमिच्छामि सर्वथा।।5.26.48।। न च मे विहितो मृत्युरस्मिन् दुःखेऽपि वर्तते। Sundara Kanda,26,49,धन्याः खलु महात्मानो मुनयस्त्यक्तकिल्बिषाः।।5.26.49।। जितात्मनो महाभागा येषां न स्तः प्रियाप्रिये। Sundara Kanda,26,50,प्रियान्न संभवेद्दुःखमप्रियादधिकं भयम्।।5.26.50।। ताभ्यां हि ये वियुज्यन्ते नमस्तेषां महात्मनाम्। Sundara Kanda,26,51,साहं त्यक्ता प्रियार्हेण रामेण विदितात्मना।।5.26.51।। प्राणांस्त्यक्ष्यामि पापस्य रावणस्य गता वशम्। Sundara Kanda,27,1,इत्युक्तास्सीतया घोरं राक्षस्यः क्रोधमूर्छिताः। काश्चिज्जग्मुस्तदाख्यातुं रावणस्य तरस्विनः।।5.27.1।। Sundara Kanda,27,2,ततः सीतामुपागम्य राक्षस्यो घोरदर्शनाः। पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन्।।5.27.2।। Sundara Kanda,27,3,अद्येदानीं तवानार्ये सीते पापविनिश्चये। राक्षस्यो भक्षयिष्यन्ति मांसमेतद्यथासुखम्।।5.27.3।। Sundara Kanda,27,4,सीतां ताभिरनार्याभिर्दृष्टवा सन्तर्जितां तदा। राक्षसी त्रिजटा वृद्धा शयाना वाक्यमब्रवीत्।।5.27.4।। Sundara Kanda,27,5,आत्मानं खादतानार्या न सीतां भक्षयिष्यथ। जनकस्य सुतामिष्टां स्नुषां दशरथस्य च।।5.27.5।। Sundara Kanda,27,6,स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः। राक्षसानामभावाय भर्तुरस्या भवाय च।।5.27.6।। Sundara Kanda,27,7,एवमुक्तास्त्रिजटया राक्षस्यः क्रोधमूर्छिताः। सर्वा एवाब्रुवन्भीतास्त्रिजटां तामिदं वचः।।5.27.7।। Sundara Kanda,27,8,कथयस्व त्वया दृष्टः स्वप्नोऽयं कीदृशो निशि। तासां श्रुत्वा तु वचनं राक्षसीनां मुखाच्युतम्।।5.27.8।। उवच वचनं काले त्रिजटा स्वप्नसंश्रितम्। Sundara Kanda,27,9,गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम्।।5.27.9।। Sundara Kanda,27,10,युक्तां हंससहस्रेण स्वयमास्थाय राघवः। शुक्लमाल्याम्बरधरो लक्ष्मणेन सहागतः।।5.27.10।। Sundara Kanda,27,11,स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता। सागरेण परिक्षिप्तं श्वेतं पर्वतमास्थिता।।5.27.11।। Sundara Kanda,27,12,रामेण सङ्गता सीता भास्करेण प्रभा यथा। राघवश्च मया दृष्टश्चतुर्दष्ट्रं महागजम्।।5.27.12।। आरूढ श्शैलसङ्काशं चचार सहलक्ष्मणः। Sundara Kanda,27,13,ततस्तौ नरशार्दूलौ दीप्यमानौ स्वतेजसा।।5.27.13।। शुक्लमाल्याम्बरधरौ जानकीं पर्युपस्थितौ। Sundara Kanda,27,14,ततस्तस्य नगस्याग्रे ह्याकाशस्थस्य दन्तिनः।।5.27.14।। भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता। Sundara Kanda,27,15,भर्तुरङ्कात्समुत्पत्य ततः कमललोचना।।5.27.15।। चन्द्रसूर्यौ मया दृष्टा पाणिना परिमार्जती। Sundara Kanda,27,16,ततस्ताभ्यां कुमाराभ्यामास्थित: स गजोत्तमः।।5.27.16।। सीतया च विशालाक्ष्या लङ्काया उपरिस्थितः। Sundara Kanda,27,17,पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम्।।5.27.17।। इहोपयातः काकुत्स्थ स्सीतया सह भार्यया। Sundara Kanda,27,18,लक्ष्मणेन सह भ्रात्रा सीतया सह वीर्यवान्।।5.27.18।। Sundara Kanda,27,19,आरुह्य पुष्पकं दिव्यं विमानं सूर्यसन्निभम्। उत्तरां दिशमालोक्य जगाम पुरुषोत्तमः।।5.27.19।। Sundara Kanda,27,20,एवं स्वप्ने मया दृष्टो रामो विष्णुपराक्रमः। लक्ष्मणेन सह भ्रात्रा सीतया सह राघवः।।5.27.20।। Sundara Kanda,27,21,न हि रामो महातेजाश्शक्यो जेतुं सुरासुरैः। राक्षसैर्वापि चान्यैर्वा स्वर्गः पापजनैरिव।।5.27.21।। Sundara Kanda,27,22,रावणश्च मया दृष्टः क्षितौ तैलसमुक्षितः। रक्तवासाः पिबन्मत्तः करवीरकृतस्रजः।।5.27.22।। Sundara Kanda,27,23,विमानात्पुष्पकादद्य रावणः पतितो भुवि। कृष्यमाणः स्त्रिया दृष्टो मुण्डः कृष्णाम्बरः पुनः।।5.27.23।। Sundara Kanda,27,24,रथेन खरयुक्तेन रक्तमाल्यानुलेपनः। पिपंस्तैलं हसन्नृत्यन् भ्रान्तचित्ताकुलेन्द्रियः।।5.27.24।। Sundara Kanda,27,25,गर्दभेन ययौ शीघ्रं दक्षिणां दिशमास्थितः। पुनरेव मया दृष्टो रावणो राक्षसेश्वरः।।5.27.25।। पतितोऽ वाक्चिरा रा भूमौ गर्दभाद्भयमोहितः। Sundara Kanda,27,26,सहसोत्थाय संभ्रान्तो भयार्तो मदविह्वलः।।5.27.26।। Sundara Kanda,27,27,उन्मत्त इव दिग्वासा दुर्वाक्यं प्रलपन्बहु। दुर्गन्धं दुस्सहं घोरं तिमिरं नरकोपमम्।।5.27.27।। मलपङ्कं प्रविश्याशु मग्नस्तत्र स रावणः। Sundara Kanda,27,28,कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनी।।5.27.28।। काली कर्दमलिप्ताङ्गी दिशं याम्यां प्रकर्षति। Sundara Kanda,27,29,एवं तत्र मया दृष्टः कुम्भकर्णो निशाचरः।।5.27.29।। रावणस्य सुतास्सर्वे दृष्टास्तैलसमुक्षिताः। Sundara Kanda,27,30,वराहेण दशग्रीवश्शिंशुमारेण चेन्द्रजित्।।5.27.30।। उष्ट्रेण कुम्भकर्णश्च प्रयाता दक्षिणां दिशम्। Sundara Kanda,27,31,एकस्तत्र मया दृष्टः श्वेतच्छत्रो विभीषणः।।5.27.31।। शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः। Sundara Kanda,27,32,शङ्खदुन्धुभिनिर्घोषैर्नृत्तगीतैरलङ्कृतः।।5.27.32।। Sundara Kanda,27,33,आरुह्य शैलसङ्काशं मेघस्तनितनिस्स्वनम्। चतुर्दन्तं गजं दिव्यमास्ते तत्र विभीषणः।।5.27.33।। चतुर्भिस्सचिवैः सार्थं वैहायसमुपस्थितः। Sundara Kanda,27,34,समाजश्च मया दृष्टो गीतवादित्रनिःस्वनः।।5.27.34।। पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम्। Sundara Kanda,27,35,लङ्का चेयं पुरी रम्या सवाजिरथकुञ्जराः।।5.27.35।। सागरे पतिता दृष्टा भग्नगोपुरतोरणा। Sundara Kanda,27,36,लङ्का दृष्टा मया स्वप्ने रावणेनाभिरक्षिता।।5.27.36।। दग्धा रामस्य दूतेन वानरेण तरस्विना। Sundara Kanda,27,37,पीत्वा तैलं प्रनृत्ताश्च प्रहसन्त्यो महास्वनाः।।5.27.37।। लङ्कायां भस्मरूक्षायां सर्वा राक्षसस्त्रियः। Sundara Kanda,27,38,कुम्भकर्णादयश्चेमे सर्वे राक्षसपुङ्गवाः।।5.27.38।। रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदे। Sundara Kanda,27,39,अपगच्छत नश्यध्वं सीतामाप्नोति राघवः।।5.27.39।। घातयेत्परमामर्षी युष्मान्सार्थं हि राक्षसैः। Sundara Kanda,27,40,प्रियां बहुमतां भार्यां वनवासमनुव्रताम्।।5.27.40।। भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः। Sundara Kanda,27,41,तदलं क्रूरवाक्यैश्च सान्त्वमेवाभिधीयताम्।।5.27.41।। अभियाचाम वैदेहीमेतद्धि मम रोचते। Sundara Kanda,27,42,यस्यामेवंविधः स्वप्नो दुःखितायां प्रदृश्यते।।5.27.42।। सा दुःखैर्विविधैर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम्। Sundara Kanda,27,43,भर्त्सितामपि याचध्वं राक्षस्यः किं विवक्षया।।5.27.43।। राघवाद्धि भयं घोरं राक्षसानामुपस्थितम्। Sundara Kanda,27,44,प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा।।5.27.44।। अलमेषा परित्रातुं राक्षस्यो महतो भयात्। Sundara Kanda,27,45,अपि चास्या विशालाक्ष्या न किंचिदुपलक्षये।।5.27.45।। विरूपमपि चाङ्गेषु सुसूक्ष्ममपि लक्षणम्। Sundara Kanda,27,46,छायावैगुण्यमात्रं तु शङ्के दुःखमुपस्थितम्।।5.27.46।। अदुःखार्हामिमां देवीं वैहायसमुपस्थिताम्। Sundara Kanda,27,47,अर्थसिद्धिं तु वैदेह्याः पश्याम्यहमुपस्थिताम्।।5.27.47।। राक्षसेन्द्रविनाशं च विजयं राघवस्य च। Sundara Kanda,27,48,निमित्तभूतमेतत्तु श्रोतुमस्या महत्प्रियम्।।5.27.48।। दृश्यते च स्फुरच्चक्षुः पद्मपत्रमिवायतम्। Sundara Kanda,27,49,ईषच्छ हृषितो वास्या दक्षिणाया ह्यदक्षिणः।।5.27.49।। अकस्मादेव वैदेह्या बाहुरेकः प्रकम्पते। Sundara Kanda,27,50,करेणुहस्तप्रतिम स्सव्यश्चोरुरनुत्तमः।।5.27.50।। वेपमानः सूचयति राघवं पुरतः स्थितम्। Sundara Kanda,27,51,पक्षी च शाखानिलयं प्रविष्टः पुनः पुनश्चोत्तमसान्त्ववादी। सुस्वागतां वाचमुदीरयानः पुनः पुनश्चोदयतीव हृष्टः।।5.27.51।। Sundara Kanda,28,1,सा राक्षसेन्द्रस्य वचो निशम्य तद्रावणस्याप्रियमप्रियार्ता। सीता वितत्रास यथा वनान्ते सिंहाभिपन्ना गजराजकन्या।।5.28.1।। Sundara Kanda,28,2,सा राक्षसीमध्यगता च भीरु र्वाग्भिर्भृशं रावणतर्जिता च। कान्तारमध्ये विजने विसृष्टा बालेव कन्या विललाप सीता।।5.28.2।। Sundara Kanda,28,3,सत्यं बतेदं प्रवदन्ति लोके नाकालमृत्युर्भवतीति सन्तः। यत्राहमेवं परिभर्त्स्यमाना जीवामि दीना क्षणमप्यपुण्या।।5.28.3।। Sundara Kanda,28,4,सुखाद्विहीनं बहुदुःखपूर्ण मिदं तु नूनं हृदयं स्थिरं मे। विशीर्यते यन्न सहस्रधाऽद्य वज्राहतं शृङ्गमिवाचलस्य।।5.28.4।। Sundara Kanda,28,5,नैवास्ति दोषो मम नूनमत्र वध्याहमस्याप्रियदर्शनस्य। भावं न चास्याहमनुप्रदातु मलं द्विजो मन्त्रमिवाद्विजाय।।5.28.5।। Sundara Kanda,28,6,नूनं ममाङ्गान्यचिरादनार्यः शस्त्रैश्शितैश्छेत्स्यति राक्षसेन्द्रः। तस्मिननागच्छति लोकनाथे गर्भस्थजन्तोरिव शल्यकृन्तः।।5.28.6।। Sundara Kanda,28,7,दुःखं बतेदं मम दुःखिताया मासौ चिरायाधिगमिष्यतो द्वौ। बद्धस्य वध्यस्य तथा निशान्ते राजापराधादिव तस्करस्य।।5.28.7।। Sundara Kanda,28,8,हा राम हा लक्ष्मण हा सुमित्रे हा राममातः सह मे जनन्या। एषा विपद्याम्यहमल्पभाग्या महार्णवे नौरिव मूढवाता।।5.28.8।। Sundara Kanda,28,9,तरस्विनौ धारयता मृगस्य सत्त्वेन रूपं मनुजेन्द्रपुत्रौ। नूनं विशस्तौ मम कारणात्तौ सिंहर्षभौ द्वाविव वैद्युतेन।।5.28.9।। Sundara Kanda,28,10,नूनं स कालो मृगरूपधारी मामल्पभाग्यां लुलुभे तदानीम्। यत्रार्यपुत्रं विससर्ज मूढा रामानुजं लक्ष्मणपूर्वजं च।।5.28.10।। Sundara Kanda,28,11,हा राम सत्यव्रत दीर्घबाहो हा पूर्णचन्द्रप्रतिमानवक्त्र। हा जीवलोकस्य हितः प्रियश्च वध्यां न मां वेत्सि हि राक्षसानाम्।।5.28.11।। Sundara Kanda,28,12,अनन्य दैवत्वमियं क्षमा च भूमौ च शय्या नियमश्च धर्मे। पतिव्रतात्वं विफलं ममेदं कृतं कृतघ्नेष्विव मानुषाणाम्।।5.28.12।। Sundara Kanda,28,13,मोघो हि धर्मश्चरितो मयायं तथैकपत्नीत्वामिदं निरर्थम्। या त्वां न पश्यामि कृशा विवर्णा हीना त्वया सङ्गमने निराशा।।5.28.13।। Sundara Kanda,28,14,पितुर्निदेशं नियमेन कृत्वा वनान्निवृत्तश्चरितव्रतश्च। स्त्रीभिस्तु मन्ये विपुलेक्षणाभिस्त्वं रंस्यसे वीतभयः कृतार्थः।।5.28.14।। Sundara Kanda,28,15,अहं तु राम त्वयि जातकामा चिरं विनाशाय निबद्धभावा। मोघं चरित्वाथ तपो व्रतञ्च त्यक्ष्यामि धिग्जीवितमल्पभाग्याम्।।5.28.15।। Sundara Kanda,28,16,सा जीवितं क्षिप्रमहं त्यजेयं विषेण शस्त्रेण शितेन वापि। विषस्य दाता न हि मेऽस्ति कश्चि च्छस्त्रस्य वा वेश्मनि राक्षसस्य।।5.28.16।। Sundara Kanda,28,17,इतीव देवी बहुधा विलप्य सर्वात्मना राममनुस्मरन्ती। प्रवेपमाना परिशुष्कवक्त्रा नगोत्तमं पुष्पितमाससाद।।5.28.17।। Sundara Kanda,28,18,सा शोकतप्ता बहुधा विचिन्त्य सीताऽथ वेण्युद्ग्रथनं गृहीत्वा। उद्बुध्य वेण्युद्ग्रथनेन शीघ्रमहं गमिष्यामि यमस्य मूलम्।।5.28.18।। Sundara Kanda,28,19,उपस्थिता सा मृदुसर्वगात्री शाखां गृहत्वाऽध नगस्य तस्य। तस्यास्तु रामं प्रविचिन्तयन्त्या रामानुजं स्वं च कुलं शुभाङ्ग्या:।।5.28.19।। Sundara Kanda,28,20,शेकानिमित्तानि तथा बहूनि धैर्यार्जितानि प्रवराणि लोके। प्रादुर्निमित्तानि तदा बभूवुः पुरापि सिद्धान्युपलक्षितानि।।5.28.20।। Sundara Kanda,29,1,तथागतां तां व्यथितामनिन्दितां व्यपेतहर्षां परिदीनमानसाम्। शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टमिवोपजीविनः।।5.29.1।। Sundara Kanda,29,2,तस्याः शुभं वाममरालपक्ष्म राजीवृतं कृष्णविशालशुक्लम्। प्रास्पन्दतैकं नयनं सुकेश्या मीनाहतं पद्ममिवाभिताम्रम्।।5.29.2।। Sundara Kanda,29,3,भुजश्च चार्वञ्चितपीनवृत्तः परार्थ्यकालागरुचन्दनार्हः। अनुत्तमेनाध्युषितः प्रियेण चिरेण वामः समवेपताऽशु।।5.29.3।। Sundara Kanda,29,4,गजेन्द्रहस्तप्रतिमश्च पीन स्तयोर्द्वयोः सम्हतयोः सुजातः। प्रस्पन्दमानः पुनरूरुरस्या रामं पुरस्तात् स्थितमाचचक्षे।।5.29.4।। Sundara Kanda,29,5,शुभं पुनर्हेमसमानवर्ण मीषद्रजोध्वस्तमिवामलाक्ष्याः। वास स्स्थिताया श्शिखराग्रदन्त्याः किञ्चित्परिस्रंसत चारुगात्य्राः।।5.29.5।। Sundara Kanda,29,6,एतैर्निमित्तैरपरैश्च सुभ्रूः सम्बोधिता प्रागपि साधु सिद्धैः। वातातपक्लान्तमिव प्रणष्टं वर्षेण बीजं प्रतिसंजहर्ष।।5.29.6।। Sundara Kanda,29,7,तस्याः पुनर्बिम्बफलाधरोष्ठं स्वक्षिभ्रुकेशान्तमरालपक्ष्म। वक्त्रं बभासे सितशुक्लदंष्ट्रं राहोर्मुखाच्चन्द्र इव प्रमुक्तः।।5.29.7।। Sundara Kanda,29,8,सा वीतशोका व्यपनीततन्द्री शान्तज्वरा हर्षविबुद्धसत्त्वा। अशोभतार्या वदनेन शुक्ले शीतांशुना रात्रिरिवोदितेन।।5.29.8।। Sundara Kanda,30,1,हनुमानपि विक्रान्तः सर्वं शुश्राव तत्त्वतः। सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम्।।5.30.1।। Sundara Kanda,30,2,अवेक्षमाणस्तां देवीं देवतामिव नन्दने। ततो बहुविधां चिन्तां चिन्तयामास वानरः।।5.30.2।। Sundara Kanda,30,3,यां कपीनां सहस्राणि सुबहून्ययुतानि च। दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया।।5.30.3।। Sundara Kanda,30,4,चारेण तु सुयुक्तेन शत्रोश्शक्तिमवेक्षता। गूढेन चरता तावदवेक्षितमिदं मया।।5.30.4।। Sundara Kanda,30,5,राक्षसानां विशेषश्च पुरी चेयमवेक्षिता। राक्षसाधिपतेरस्य प्रभावो रावणस्य च।।5.30.5।। Sundara Kanda,30,6,युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः। समाश्वासयितुं भार्यां पतिदर्शनकाङ्क्षिणीम्।।5.30.6।। Sundara Kanda,30,7,अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम्। अदृष्टदुःखां दुःखार्तां दुःखस्यान्तमगच्छतीम्।।5.30.7।। Sundara Kanda,30,8,यद्यप्यहमिमां देवीं शोकोपहतचेतनाम्। अनाश्वास्य गमिष्यामि दोषवद्गमनं भवेत्।।5.30.8।। Sundara Kanda,30,9,गते हि मयि तत्रेयं राजपुत्री यशस्विनी। परित्राणमविन्दन्ती जानकी जीवितं त्यजेत्।।5.30.9।। Sundara Kanda,30,10,मया च स महाबाहुः पूर्णचन्द्रनिभाननः। समाश्यासयितुं न्याय्यस्सीतादर्शनलालसः।।5.30.10।। Sundara Kanda,30,11,निशाचरीणां प्रत्यक्षमनर्हं चाभिभाषितम्। कथन्नु खलु कर्तव्यमिदं कृच्छ्रगतो ह्यहम्।।5.30.11।। Sundara Kanda,30,12,अनेन रात्रिशेषेण यदि नाश्वास्यते मया। सर्वथा नास्ति सन्देहः परित्यक्ष्यति जीवितम्।।5.30.12।। Sundara Kanda,30,13,रामश्च यदि पृच्छेन्मां किं मां सीताब्रवीद्वचः। किमहं तं प्रति ब्रूयामसंभाष्य सुमध्यमाम्।।5.30.13।। Sundara Kanda,30,14,सीतासन्देशरहितं मामितस्त्वरयाऽगतम्। निर्दहेदपि काकुत्स्य क्रुद्धस्तीव्रेण चक्षुषा।।5.30.14।। Sundara Kanda,30,15,यदि चोद्योजयिष्यामि भर्तारं रामकारणात्। व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति।।5.30.15।। Sundara Kanda,30,16,अन्तरं त्वहमासाद्य राक्षसीनामिह स्थितः। शनैराश्वासयिष्यामि सन्तापबहुळामिमाम्।।5.30.16।। Sundara Kanda,30,17,अहं त्वतितनुश्चैव वानरश्च विशेषतः। वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम्।।5.30.17।। Sundara Kanda,30,18,यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम्। रावणं मन्यमाना मां सीता भीता भविष्यति।।5.30.18।। वानरस्य विशेषेण कथं स्यादभिभाषणम्। Sundara Kanda,30,19,अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत्।।5.30.19।। मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता। Sundara Kanda,30,20,सेयमालोक्य मे रूपं जानकी भाषितं तथा।।5.30.20।। रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासं गमिष्यति। Sundara Kanda,30,21,ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी।।5.30.21।। जानमाना विशालाक्षी रावणं कामरूपिणम्। Sundara Kanda,30,22,सीतया च कृते शब्दे सहसा राक्षसीगणा:। नानाप्रहरणो घोर: समेयादन्तकोपम:।।5.30.22।। Sundara Kanda,30,23,ततो मां सम्परिक्षिप्य सर्वतो विकृताननाः।।5.30.23।। वधे च ग्रहणे चैव कुर्युर्यत्नं यथाबलम्। Sundara Kanda,30,24,गृह्य शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम्।।5.30.24।। दृष्ट्वा विपरिधावन्तं भवेयुर्भयशङ्किताः। Sundara Kanda,30,25,मम रूपं च सम्प्रेक्ष्य वने विचरतो महत्।।5.30.25।। राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननाः। Sundara Kanda,30,26,ततः कुर्युस्समाह्वानं राक्षस्यो रक्षसामपि।।5.30.26।। राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने। Sundara Kanda,30,27,ते शूलशक्तिनिस्त्रिंशविविधायुधपाणयः।।5.30.27।। आपतेयुर्विमर्देऽस्मिन्वेगेनोद्वेगकारणात्। Sundara Kanda,30,28,समृद्धस्तैस्तु परितो विधमन् रक्षसां बलम्।।5.30.28।। शक्नुयां न तु संप्राप्तुं परं पारं महोदधेः। Sundara Kanda,30,29,मां वा गृह्णीयुराप्लुत्य बहवश्शीघ्रकारिणः।।5.30.29।। स्यादियं चागृहीतार्था मम च ग्रहणं भवेत्। Sundara Kanda,30,30,हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम्।।5.30.30।। विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम्। Sundara Kanda,30,31,उद्देशे नष्टमार्गेऽस्मिन् राक्षसैः परिवारिते।।5.30.31।। सागरेण परिक्षिप्ते गुप्ते वसति जानकी। Sundara Kanda,30,32,विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे।।5.30.32।। नान्यं पश्यामि रामस्य सहायं कार्यसाधने। Sundara Kanda,30,33,विमृशंश्च न पश्यामि यो हते मयि वानरः।।5.30.33।। शतयोजनविस्तीर्णं लङ्घयेत महोदधिम्। Sundara Kanda,30,34,कामं हन्तुं समर्थोऽस्मि सहस्राण्यपि रक्षसाम्।।5.30.34।। न तु शक्ष्यामि सम्प्राप्तुं परं पारं महोदधेः। Sundara Kanda,30,35,असत्यानि च युद्धानि संशयो मे न रोचते।।5.30.35।। कश्च निस्संशयं कार्यं कुर्यात्प्राज्ञः ससंशयम्। Sundara Kanda,30,36,प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे।।5.30.36।। एष दोषो महान्हि स्यान्मम सीताभिभाषणे। Sundara Kanda,30,37,भूताश्चार्था विनश्यन्ति देशकालविरोधिताः।।5.30.37।। विक्लबं दूतमासाद्य तमः सूर्योदये यथा। Sundara Kanda,30,38,अर्थानर्थान्तरे बुद्धिनिश्चितापि न शोभते।।5.30.38।। घातयन्ति हि कार्याणि दूताः पण्डितमानिनः। Sundara Kanda,30,39,न विनश्येत्कथं कार्यं वैक्लब्यं न कथं भवेत्।।5.30.39।। लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत्। Sundara Kanda,30,40,कथं नु खलु वाक्यं मे शृणुयान्नोद्विजेत वा। इति सञ्चिन्त्य हनुमांश्चकार मतिमान्मतिम्।।5.30.40।। Sundara Kanda,30,41,राममक्लिष्टकर्माणं सुबन्धुमनुकीर्तयन्।।5.30.41।। नैनामुद्वेजयिष्यामि तद्बन्धुगतमानसाम्। Sundara Kanda,30,42,इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः।।5.30.42।। Sundara Kanda,30,43,शुभानि धर्मयुक्तानि वचनानि समर्पयन्। श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम्।।5.30.43।। श्रद्धास्यति यथाहीयं तथा सर्वं समादधे। Sundara Kanda,30,44,इति स बहुविधं महानुभावो जगतिपतेः प्रमदामवेक्षमाणः। मधुरमवितथं जगाद वाक्यं द्रुमविटपान्तरमास्थितो हनूमान्।।5.30.44।। Sundara Kanda,31,1,एवं बहुविधां चिन्तां चिन्तयित्वा महाकपिः। संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह।।5.31.1।। Sundara Kanda,31,2,राजा दशरथो नाम रथकुञ्जरवाजिमान्। पुण्यशीलो महाकीर्तिरिक्ष्वाकूणां महायशाः।।5.31.2।। Sundara Kanda,31,3,राजर्षीणां गुणश्रेष्ठस्तपसा चर्षिभि स्समः। चक्रवर्तिकुले जातः पुरन्दरसमो बले।।5.31.3।। Sundara Kanda,31,4,अहिंसारतिरक्षुद्रो घृणी सत्यपराक्रमः। मुख्यश्चेक्ष्वाकुवंशस्य लक्ष्मीवान् लक्ष्मिवर्धनः।।5.31.4।। Sundara Kanda,31,5,पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभः। पृथिव्यां चतुरन्तायां विश्रुतस्सुखदस्सुखी।।5.31.5।। Sundara Kanda,31,6,तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः। रामो नाम विशेषज्ञः श्रेष्ठ स्सर्वधनुष्मताम्।।5.31.6।। Sundara Kanda,31,7,रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता। रक्षिता जीवलोकस्य धर्मस्य च परन्तपः।।5.31.7।। Sundara Kanda,31,8,तस्य सत्याभिसन्धस्य वृद्धस्य वचनात्पितुः। सभार्यस्सह च भ्रात्रा वीरः प्रव्राजितो वनम्।।5.31.8।। Sundara Kanda,31,9,तेन तत्र महारण्ये मृगयां परिधावता। राक्षसा निहताश्शूरा बहवः कामरूपिणः।।5.31.9।। Sundara Kanda,31,10,जनस्थानवधं श्रुत्वा हतौ च खरदूषणौ। ततस्त्वमर्षापहृता जानकी रावणेन तु।।5.31.10।। वञ्चयित्वा वने रामं मृगरूपेण मायया। Sundara Kanda,31,11,स मार्गमाणस्तां देवीं रामस्सीतामनिन्दिताम्।।5.31.11।। आससाद वने मित्रं सुग्रीवं नाम वानरम्। Sundara Kanda,31,12,तत स्स वालिनं हत्वा रामः परपुरञ्जयः।।5.31.12।। प्रायच्छत्कपिराज्यं तत्सुग्रीवाय महाबलः। Sundara Kanda,31,13,सुग्रीवेणापि सन्दिष्टा हरयः कामरूपिणः।।5.31.13।। दिक्षु सर्वासु तां देवीं विचिन्वन्ति सहस्रशः। Sundara Kanda,31,14,अहं सम्पातिवचनाच्छतयोजनमायतम्।।5.31.14।। अस्या हेतोर्विशालाक्ष्याः सागरं वेगवान्प्लुतः। Sundara Kanda,31,15,यथारूपां यथावर्णां यथालक्ष्मीवतीं च निश्चिताम्।।5.31.15।। अश्रौषं राघवस्याहं सेयमासादिता मया। Sundara Kanda,31,16,विररामैवमुक्त्वासौ वाचं वानरपुङ्गवः।।5.31.16।। जानकी चापि तच्छ्रुत्वा परं विस्मयमागता। Sundara Kanda,31,17,ततस्सा वक्रकेशान्ता सुकेशी केशसंवृतम्।।5.31.17।। उन्नम्य वदनं भीरुश्शिंशुपावृक्षमैक्षत। Sundara Kanda,31,18,निशम्य सीता वचनं कपेश्च दिशश्च सर्वाः प्रदिशश्च वीक्ष्य। स्वयं प्रहर्षं परमं जगाम सर्वात्मना राममनुस्मरन्ती ।।5.31.18।। Sundara Kanda,31,19,सा तिर्यगूर्ध्वं च तथाप्यधस्तान्निरीक्षमाणा तमचिन्त्यबुद्धिम्। ददर्श पिङ्गाधिपतेरमात्यं वातात्मजं सूर्यमिवोदयस्थम्।।5.31.19।। Sundara Kanda,32,1,ततश्शाखान्तरे लीनं दृष्ट्वा चलितमानसा। वेष्टितार्जुनवस्त्रं तं विद्युत्सङ्घातपिङ्गलम्।।5.32.1।। Sundara Kanda,32,2,सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम्। फुल्लाशोकोत्कराभासं तप्तचामीकरेक्षणम्।।5.32.2।। Sundara Kanda,32,3,मैथिली चिन्तयामास विस्मयं परमं गता। अहो भीममिदं रूपं वानरस्य दुरासदम्।।5.32.3।। दुर्निरीक्षमिति ज्ञात्वा पुनरेव मुमोह सा। Sundara Kanda,32,4,विललाप भृशं सीता करुणं भयमोहिता।।5.32.4।। Sundara Kanda,32,5,रामरामेति दुःखार्ता लक्ष्मणेति च भामिनी। रुरोद बहुधा सीता मन्दं मन्दस्वरा सती।।5.32.5।। Sundara Kanda,32,6,सा तं दृष्ट्वा हरिश्रेष्ठं विनीतवदुपस्थितम्। मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी।।5.32.6।। Sundara Kanda,32,7,सा वीक्षमाणा पृथुभुग्नवक्त्रं शाखामृगेन्द्रस्य यथोक्तकारम्। ददर्श पिङ्गाधिपते रमात्यं वातात्मजं बुद्धिमतां वरिष्ठम्।।5.32.7।। Sundara Kanda,32,8,सा तं समीक्ष्यैव भृशं विसंज्ञा गतासुकल्पेन बभूव सीता। चिरेण संज्ञां प्रतिलभ्य भूयो विचिन्तयामास विशालनेत्रा।।5.32.8।। Sundara Kanda,32,9,स्वप्ने मयाऽयं विकृतोऽद्य दृष्टश्शाखामृगश्शास्त्रगणैर्निषिद्धः। स्वस्त्यस्तु रामाय स लक्ष्मणाय तथा पितुर्मे जनकस्य राज्ञः।।5.32.9।। Sundara Kanda,32,10,स्वप्नोऽपि नायं नहि मेऽस्ति निद्रा शोकेन दुःखेन च पीडितायाः। सुखं हि मे नास्ति यतोऽस्मि हीना तेनेन्दुपूर्णप्रतिमाननेन।।5.32.10।। Sundara Kanda,32,11,रामेति रामेति सदैव बुद्ध्या विचिन्त्य वाचा ब्रुवती तमेव। तस्यानुरूपां च कथां तदर्थमेवं प्रपश्यामि तथा शृणोमि।।5.32.11।। Sundara Kanda,32,12,अहं हि तस्याद्य मनोभवेन सम्पीडिता तद्गतसर्वभावा। विचिन्तयन्ती सततं तमेव तथैव पश्यामि तथा शृणोमि।।5.32.12।। Sundara Kanda,32,13,मनोरथस्स्यादिति चिन्तयामि तथापि बुद्ध्या च वितर्कयामि। किं कारणं तस्य हि नास्ति रूपं सुव्यक्तरूपश्च वदत्ययं माम्।।5.32.13।। Sundara Kanda,32,14,नमोऽस्तु वाचस्पतये सवज्रिणे स्वयंभुवे चैव हुताशनाय च। अनेन चोक्तं यदिदं ममाग्रतो वनौकसा तच्छ तथास्तु नान्यथा।।5.32.14।। Sundara Kanda,33,1,सोऽवतीर्य द्रुमात्तस्माद्विद्रुमप्रतिमाननः। विनीतवेषः कृपणः प्रणिपत्योपसृत्य च।।5.33.1।। Sundara Kanda,33,2,तामब्रवीन्महातेजा हनूमान्मारुतात्मजः। शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा।।5.33.2।। Sundara Kanda,33,3,का नु पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि। द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिते।।5.33.3।। Sundara Kanda,33,4,किमर्थम् तव नेत्राभ्यां वारि स्रवति शोकजम्। पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम्।।5.33.4।। Sundara Kanda,33,5,सुराणामसुराणां वा नागगन्धर्वरक्षसाम्। यक्षाणां किन्नराणां वा का त्वं भवसि शोभने।।5.33.5।। Sundara Kanda,33,6,का त्वं भवसि रुद्राणां मरुतां वा वरानने। वसूनां हि वरारोहे देवता प्रतिभासि मे।।5.33.6।। Sundara Kanda,33,7,कि नु चन्द्रमसा हीना पतिता विबुधालयात्। रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठसर्वगुणान्विता।।5.33.7।। Sundara Kanda,33,8,का त्वं भवसि कल्याणि त्वमनिन्दितलोचने। कोपाद्वा यदि वा मोहाद्भर्तारमसितेक्षणे।।5.33.8।। वसिष्ठं कोपयित्वा त्वं नासि कल्याण्यरुन्धती। Sundara Kanda,33,9,को नु पुत्रः पिता भ्राता भर्ता वा ते सुमध्यमे।।5.33.9।। अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि। Sundara Kanda,33,10,रोदनादतिनिश्श्वासाद्भूमिसंस्पर्शनादपि।।5.33.10।। न त्वां देवीमहं मन्ये राज्ञ स्सर्वज्ञावधारणात्। Sundara Kanda,33,11,व्यञ्जनानि च ते यानि लक्षणानि च लक्षये।।5.33.11।। महिषी भूमिपालस्य राजकन्या च मे मता। Sundara Kanda,33,12,रावणेन जनस्थानाद्बलादपदहृता यदि।।5.33.12।। सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः। Sundara Kanda,33,13,यथा हि तव वै दैन्यं रूपं चाप्यतिमानुषम्।।5.33.13।। तपसा चान्वितो वेषस्त्वं राममहिषी ध्रुवम्। Sundara Kanda,33,14,सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता।।5.33.14।। उवाच वाक्यं वैदेही हनुमन्तं द्रुमाश्रितम्। Sundara Kanda,33,15,पृथिव्यां राजसिंहानां मुख्यस्य विदितात्मनः।।5.33.15।। स्नुषा दशरथस्याहं शत्रुसैन्यप्रतापिनः। Sundara Kanda,33,16,दुहिता जनकस्याहं वैदेहस्य महात्मनः।।5.33.16।। सीतेति नाम नाम्नाऽहं भार्या रामस्य धीमतः। Sundara Kanda,33,17,समा द्वादश तत्राहं राघवस्य निवेशने।।5.33.17।। भुञ्जाना मानुषान्भोगान्सर्वकामसमृद्धिनी। Sundara Kanda,33,18,तत्र त्रयोदशे वर्षे राज्येनेक्ष्वाकुनन्दनम्।।5.33.18।। अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे। Sundara Kanda,33,19,तस्मिन्सम्भ्रियमाणे तु राघवस्याभिषेचने।।5.33.19।। कैकयी नाम भर्तारं देवी वचनमब्रवीत्। Sundara Kanda,33,20,न पिबेयं न खादेयं प्रत्यहं मम भोजनम्।।5.33.20।। एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते। Sundara Kanda,33,21,यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम।।5.33.21।। तच्छेन्न वितथं कार्यं वनं गच्छतु राघवः। Sundara Kanda,33,22,स राजा सत्यवाग्देव्या वरदानमनुस्मरन्।।5.33.22।। मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम्। Sundara Kanda,33,23,ततस्तु स्थविरो राजा सत्ये धर्मे व्यवस्थितः।।5.33.23।। ज्येष्ठं यशस्विनं पुत्रं रुदन्राज्यमयाचत। Sundara Kanda,33,24,स पितुर्वचनं श्रीमानभिषेकात्परं प्रियम्।।5.33.24।। मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान्। Sundara Kanda,33,25,दद्यान्न प्रतिगृह्णीयान्न ब्रूयात्किञ्चिदप्रियम्।।5.33.25।। अपि जीवितहेतोर्वा रामस्सत्यपराक्रमः। Sundara Kanda,33,26,स विहायोत्तरीयाणि महार्हाणि महायशाः।।5.33.26।। विसृज्य मनसा राज्यं जनन्यै मां समादिशत्। Sundara Kanda,33,27,साहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी।।5.33.27।। न हि मे तेन हीनाया वासस्स्वर्गेऽपि रोचते। Sundara Kanda,33,28,प्रागेव तु महाभागस्सौमित्रिर्मित्रनन्दनः।।5.33.28।। पूर्वजस्यानुयात्रार्थे द्रुमचीरैरलङ्कृतः। Sundara Kanda,33,29,ते वयं भर्तुरादेशं बहुमान्य दृढव्रताः।।5.33.29।। प्रविष्टास्स्म पुरादृष्टं वनं गम्भीरदर्शनम्। Sundara Kanda,33,30,वसतो दण्डकारण्ये तस्याहममितौजसः।।5.33.30।। रक्षसाऽपहृता भार्या रावणेन दुरात्मना। Sundara Kanda,33,31,द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः।।5.33.31।। ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्तक्ष्यामि जीवितम्। Sundara Kanda,34,1,तस्यास्तद्वचनं श्रुत्वा हनुमान्हरिपुङ्गवः। दुःखाद्दुःखाभिभूताया स्सान्त्वमुत्तरमब्रवीत्।।5.34.1।। Sundara Kanda,34,2,अहं रामस्य सन्देशाद्देवि दूतस्तवागतः। वैदेहि कुशली रामस्त्वां च कौशलमब्रवीत्।।5.34.2।। Sundara Kanda,34,3,यो ब्रह्ममस्त्रं वेदांश्च वेद वेदविदांवरः। स त्वां दाशरथी रामो देवि कौशलमब्रवीत्।।5.34.3।। Sundara Kanda,34,4,लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः। कृतवान्शोकसन्तप्तश्शिरसा तेऽभिवादनम्।।5.34.4।। Sundara Kanda,34,5,सा तयोः कुशलं देवी निशम्य नरसिंहयोः। प्रीतिसंहृष्टसर्वाङ्गी हनुमन्तमथाब्रवीत्।।5.34.5।। Sundara Kanda,34,6,कल्याणी बत गाथेयं लौकिकी प्रतिभाति मा। एति जीवन्तमानन्दो नरं वर्षशतादपि।।5.34.6।। Sundara Kanda,34,7,तया समागते तस्मिन्प्रीतिरुत्पादिताऽद्भुता। परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः।।5.34.7।। Sundara Kanda,34,8,तस्यास्तद्वचनं श्रुत्वा हनुमान्हरियूथपः। सीतायाश्शोकदीनायास्समीपमुपचक्रमे।।5.34.8।। Sundara Kanda,34,9,यथा यथा समीपं स हनुमानुपसर्पति। तथा तथा रावणं सा तं सीता परिशङ्कते।।5.34.9।। Sundara Kanda,34,10,अहो धिग्दुष्कृतमिदं कथितं हि यदस्य मे। रूपान्तरमुपागम्य स एवायं हि रावणः।।5.34.10।। Sundara Kanda,34,11,तामशोकस्य शाखां सा विमुक्त्वा शोककर्शिता। तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत्।।5.34.11।। Sundara Kanda,34,12,हनुमानपि दुःखार्तां तां दृष्ट्वा भयमोहिताम्। अवन्दत महाबाहुस्ततस्तां जनकात्मजाम्।।5.34.12।। सा चैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत। Sundara Kanda,34,13,तं दृष्ट्वा वन्दमानं तु सीता शशिनिभानना।।5.34.13।। अब्रवीद्धीर्घमुच्छवस्य वानरं मधुरस्वरा। Sundara Kanda,34,14,मायां प्रविष्टो मायावी यदि त्वं रावणस्स्वयम्।।5.34.14।। उत्पादयसि मे भूयस्सन्तापं तन्न शोभनम्। Sundara Kanda,34,15,स्वं परित्यज्य रूपं यः परिव्राजकरूपध्रुत्। जनस्थाने मया दृष्टस्त्वं स एवासि रावणः।।5.34.15।। Sundara Kanda,34,16,उपवासकृशां दीनां कामरूप निशाचर। सन्तापयसि मां भूयस्सन्तप्तां तन्न शोभनम्।।5.34.16।। Sundara Kanda,34,17,अथवा नैतदेवं हि यन्मया परिशङ्कितम्।।5.34.17।। मनसो हि मम प्रीतिरुत्पन्ना तव दर्शनात्। Sundara Kanda,34,18,यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते।।5.34.18।। पृच्छामि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे। Sundara Kanda,34,19,गुणान्रामस्य कथय प्रियस्य मम वानर।।5.34.19।। चित्तं हरसि मे सौम्य नदीकूलं यथा रयः। Sundara Kanda,34,20,अहो स्वप्नस्य सुखता याहमेवं चिराहृता।।5.34.20।। प्रेषितं नाम पश्यामि राघवेण वनौकसम्। Sundara Kanda,34,21,स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम्।।5.34.21।। पश्येयं नावसीदेयं स्वप्नोऽपि मम मत्सरी। Sundara Kanda,34,22,नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम्।।5.34.22।। न शक्योऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम। Sundara Kanda,34,23,किन्नु स्याचित्तमोहोऽयं भवेद्वातगतिस्त्वियम्।।5.34.23।। उन्मादजो विकारो वा स्यादियं मृगतृष्णिका। Sundara Kanda,34,24,अथवा नायमुन्मादो मोहोऽप्युन्मादलक्षणः।।5.34.24।। सम्बुध्ये चाहमात्मानमियं चापि वनौकसम्। Sundara Kanda,34,25,इत्येवं बहुधा सीता सम्प्रधार्य बलाबलम्।।5.34.25।। रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम्। Sundara Kanda,34,26,एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा।।5.34.26।। न प्रतिव्याजहाराथ वानरं जनकात्मजा। Sundara Kanda,34,27,सीतायाश्चिन्तितं बुद्ध्वा हनुमान्मारुतात्मजः।।5.34.27।। श्रोत्रानुकूलैर्वचनैस्तदा तां संप्रहर्षयत्। Sundara Kanda,34,28,आदित्य इव तेजस्वी लोककान्तश्शशी यथा।।5.34.28।। Sundara Kanda,34,29,राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा। विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः।।5.34.29।। Sundara Kanda,34,30,सत्यवादी मधुरवाग्देवो वाचस्पतिर्यथा। रूपवान्सुभग श्रीमान् कन्दर्प इव मूर्तिमान्।।5.34.30।। Sundara Kanda,34,31,स्थानक्रोधः प्रहर्ता च श्रेष्ठो लोके महारथः। बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः।।5.34.31।। Sundara Kanda,34,32,अपकृष्याश्रमपदान्मृगरूपेण राघवम्। शून्ये येनापनीतासि तस्य द्रक्ष्यसि यत्फलम्।।5.34.32।। Sundara Kanda,34,33,न चिराद्रावणं संख्ये यो वधिष्यति वीर्यवान्। रोषप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः।।5.34.33।। Sundara Kanda,34,34,तेनाहं प्रेषितो दूत स्त्वत्सकाशमिहागतः। त्वद्वियोगेन दुःखार्त स्स त्वां कौशलमब्रवीत्।।5.34.34।। Sundara Kanda,34,35,लक्ष्मणश्च महातेजास्सुमित्रानन्दवर्धनः। अभिवाद्य महाबाहुस्स त्वां कौशलमब्रवीत्।।5.34.35।। Sundara Kanda,34,36,रामस्य च सखा देवि सुग्रीवो नाम वानरः। राजा वानरमुख्यानां स त्वां कौशलमब्रवीत्।।5.34.36।। Sundara Kanda,34,37,नित्यं स्मरति रामस्त्वां ससुग्रीव स्सलक्ष्मणः। दिष्ट्या जीवसि वैदेहि राक्षसीवशमागता।।5.34.37।। Sundara Kanda,34,38,नचिराद्द्रक्ष्यसे रामं लक्ष्मणं च महाबलम्। मध्ये वानरकोटीनां सुग्रीवं चामितौजसम्।।5.34.38।। Sundara Kanda,34,39,अहं सुग्रीवसचिवो हनुमान्नाम वानरः। प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम्।।5.34.39।। Sundara Kanda,34,40,कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः। त्वां द्रष्टुमुपयातोऽहं समाश्रित्य पराक्रमम्।।5.34.40।। Sundara Kanda,34,41,नाहमस्मि तथा देवि यथा मामवगच्छसि। विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम।।5.34.41।। Sundara Kanda,35,1,तां तु रामकथां श्रुत्वा वैदेही वानरर्षभात्। उवाच वचनं सान्त्वमिदं मधुरया गिरा।।5.35.1।। Sundara Kanda,35,2,क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम्। वानराणां नराणां च कथमासीत्समागमः।।5.35.2।। Sundara Kanda,35,3,यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर। तानि भूयस्समाचक्ष्व न मां शोकस्समाविशेत्।।5.35.3।। Sundara Kanda,35,4,कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम्। कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे।।5.35.4।। Sundara Kanda,35,5,एवमुक्तस्तु वैदेह्या हनुमान्मारुतात्मजः। ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे।।5.35.5।। Sundara Kanda,35,6,जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि। भर्तुः कमलपत्त्राक्षि संस्थानं लक्ष्मणस्य च।।5.35.6।। Sundara Kanda,35,7,यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै। लक्षितानि विशालाक्षि वदतश्शृणु तानि मे।।5.35.7।। Sundara Kanda,35,8,रामः कमलपत्त्राक्ष स्सर्वसत्त्वमनोहरः। रूपदाक्षिण्यसम्पन्नः प्रसूतो जनकात्मजे।।5.35.8।। Sundara Kanda,35,9,तेजसाऽदित्य सङ्काशः क्षमया पृथिवीसमः। बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः।।5.35.9।। Sundara Kanda,35,10,रक्षिता जीवलोकस्य स्वजनस्याभिरक्षिता। रक्षिता स्वस्य वृत्तस्य धर्मस्य च परन्तपः।।5.35.10।। Sundara Kanda,35,11,रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता। मर्यादानां च लोकस्य कर्ता कारयिता च सः।।5.35.11।। Sundara Kanda,35,12,अर्चिष्मानर्चितोऽत्यर्थं ब्रह्मचर्यव्रते स्थितः। साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम्।।5.35.12।। Sundara Kanda,35,13,राजविद्याविनीतश्च ब्राह्मणानामुपासिता। श्रुतवान्शीलसम्पन्नो विनीतश्च परन्तपः।।5.35.13।। Sundara Kanda,35,14,यजुर्वेदविनीतश्च वेदविद्भिस्सुपूजितः। धनुर्वेदे च वेदेषु वेदाङ्गेषु च निष्ठितः।।5.35.14।। Sundara Kanda,35,15,विपुलांसो महाबाहुः कम्बुग्रीवश्शुभाननः। गूढजत्रुस्सुताम्राक्षो रामो देवि जनै श्श्रुतः।।5.35.15।। Sundara Kanda,35,16,दुन्दुभिस्वननिर्घोष स्स्निग्धवर्णः प्रतापवान्। सम स्समविभक्ताङ्गो वर्णं श्यामं समाश्रितः।।5.35.16।। Sundara Kanda,35,17,त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः। त्रिताम्रस्त्रिषु च स्निग्धो गम्भीरस्त्रिषु नित्यशः।।5.35.17।। Sundara Kanda,35,18,त्रिवलीवांस्त्र्यवनतश्चतुर्व्यङ्गस्त्रिशीर्षवान्। चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतु स्समः।।5.35.18।। Sundara Kanda,35,19,चतुर्दशसमद्वन्द्वश्चतुर्दंष्ट्रश्चतुर्गतिः। महोष्ठहनुनासश्च पञ्चस्निग्धोऽष्टवंशवान्।।5.35.19।। Sundara Kanda,35,20,दशपद्मो दशबृहत्त्रिभिर्व्याप्तो द्विशुक्लवान्। षडुन्नतो नवतनुस्त्रिभिर्व्याप्नोति राघवः।।5.35.20।। Sundara Kanda,35,21,सत्यधर्मपरश्श्रीमान् सङ्ग्रहानुग्रहे रतः। देशकालविभागज्ञस्सर्वलोकप्रियंवदः।।5.35.21।। Sundara Kanda,35,22,भ्राता तस्य च द्वैमात्रस्सौमित्रिरपराजितः। अनुरागेण रूपेण गुणैश्चैव तथाविधः।।5.35.22।। Sundara Kanda,35,23,तावुभौ नरशार्दूलौ त्वद्दर्शनसमुत्सुकौ। विचिन्वन्तौ महीं कृत्स्नामस्माभिरभिसङ्गतौ।।5.35.23।। Sundara Kanda,35,24,त्वामेव मार्गमाणौ तौ विचरन्तौ वसुन्धराम्। ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम्।।5.35.24।। Sundara Kanda,35,25,ऋश्यमूकस्य पृष्ठे तु बहुपादपसङ्कुले। भ्रातुर्भयार्तमासीनं सुग्रीवं प्रियदर्शनम्।।5.35.25।। Sundara Kanda,35,26,वयं तु हरिराजं तं सुग्रीवं सत्यसङ्गरम्। परिचर्यामहे राज्यात्पूर्वजेनावरोपितम्।।5.35.26।। Sundara Kanda,35,27,ततस्तौ चीरवसनौ धनुः प्रवरपाणिनौ। ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ।।5.35.27।। Sundara Kanda,35,28,स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः। अवप्लुतो गिरेस्तस्य शिखरं भयमोहितः।।5.35.28।। Sundara Kanda,35,29,ततस्स शिखरे तस्मिन्वानरेन्द्रो व्यवस्थितः। तयोस्समीपं मामेव प्रेषयामास सत्वरम्।।5.35.29।। Sundara Kanda,35,30,तावहं पुरुषव्याघ्रौ सुग्रीववचनात्प्रभू। रूपलक्षणसम्पन्नौ कृताञ्जलिरुपस्थितः।।5.35.30।। Sundara Kanda,35,31,तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ। पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौ।।5.35.31।। Sundara Kanda,35,32,निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने। तयोरन्योन्यसल्लापाद्भृशं प्रीतिरजायत।।5.35.32।। Sundara Kanda,35,33,ततस्तौ प्रीतिसम्पन्नौ हरीश्वरनरेश्वरौ। परस्परकृताश्वासौ कथया पूर्ववृत्तया।।5.35.33।। Sundara Kanda,35,34,ततस्स सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः। स्त्रीहेतोर्वालिना भ्रात्रा निरस्तमुरुतेजसा।।5.35.34।। Sundara Kanda,35,35,ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः। लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत्।।5.35.35।। Sundara Kanda,35,36,स श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः। तदासीन्निष्प्रभोऽत्यर्थं ग्रहग्रस्त इवांशुमान्।।5.35.36।। Sundara Kanda,35,37,ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया। यान्याभरणजालानि पातितानि महीतले।।5.35.37।। Sundara Kanda,35,38,तानि सर्वाणि रामाय आनीय हरियूथपाः। संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव।।5.35.38।। Sundara Kanda,35,39,तानि रामाय दत्तानि मयैवोपहृतानि च। स्वनवन्त्यवकीर्णानि तस्मिन्विगतचेतसि।।5.35.39।। Sundara Kanda,35,40,तान्यङ्के दर्शनीयानि कृत्वा बहुविधं तव। तेन देवप्रकाशेन देवेन परिदेवितम्।।5.35.40।। Sundara Kanda,35,41,पश्यतस्तानि रुदतस्ताम्यतश्च पुनः पुनः। प्रादीपयन्दाशरथेस्तानि शोकहुताशनम्।।5.35.41।। Sundara Kanda,35,42,शयितं च चिरं तेन दुःखार्तेन महात्मना। मयापि विविधैर्वाक्यैः कृच्छ्रादुत्थापितः पुनः।।5.35.42।। Sundara Kanda,35,43,तानि दृष्ट्वा महाबाहुर्दर्शयित्वा मुहुर्मुहुः। राघवस्सह सौमित्रिस्सुग्रीवे स न्यवेदयत्।।5.35.43।। Sundara Kanda,35,44,स तवादर्शनादार्ये राघवः परितप्यते। महता ज्वलता नित्यमग्निनेवाग्निपर्वतः।।5.35.44।। Sundara Kanda,35,45,त्वत्कृते तमनिद्रा च शोकश्चिन्ता च राघवम्। तापयन्ति महात्मानमग्न्यगारमिवाग्नयः।।5.35.45।। Sundara Kanda,35,46,तवादर्शनशोकेन राघवः प्रविचाल्यते। महता भूमिकम्पेन महानिव शिलोच्चयः।।5.35.46।। Sundara Kanda,35,47,काननानि सुरम्याणि नदीः प्रस्रवणानि च। चरन्न रतिमाप्नोति त्वामपश्यन्नृपात्मजे।।5.35.47।। Sundara Kanda,35,48,स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः। समित्रबान्धवं हत्वा रावणं जनकात्मजे।।5.35.48।। Sundara Kanda,35,49,सहितौ रामसुग्रीवावुभावकुरुतां तदा। समयं वालिनं हन्तुं तव चान्वेषणं तथा।।5.35.49।। Sundara Kanda,35,50,ततस्ताभ्यां कुमाराभ्यां वीराभ्यां स हरीश्वरः। किष्किन्धां समुपागम्य वाली युद्धे निपातितः।।5.35.50।। Sundara Kanda,35,51,ततो निहत्य तरसा रामो वालिनमाहवे। सर्वर्क्षहरिसङ्घानां सुग्रीवमकरोत्पतिम्।।5.35.51।। Sundara Kanda,35,52,रामसुग्रीवयोरैक्यं देव्येवं समजायत। हनुमन्तं च मां विद्धि तयोर्दूतमिहागतम्।।5.35.52।। Sundara Kanda,35,53,स्वराज्यं प्राप्य सुग्रीवस्समानीय हरीश्वरान्। त्वदर्थं प्रेषयामास दिशो दश महाबलान्।।5.35.53।। Sundara Kanda,35,54,आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसा। अद्रिराजप्रतीकाशास्सर्वतः प्रस्थितौ महीम्।।5.35.54।। Sundara Kanda,35,55,ततस्ते मार्गमाणा वै सुग्रीववचनातुराः। चरन्ति वसुधां कृत्स्नां वयमन्ये च वानराः।।5.35.55।। Sundara Kanda,35,56,अङ्गदो नाम लक्ष्मीवान्वालिसूनुर्महाबलः। प्रस्थितः कपिशार्दूलस्त्रिभागबलसंवृतः।।5.35.56।। Sundara Kanda,35,57,तेषां नो विप्रणष्टानां विन्ध्ये पर्वतसत्तमे। भृशं शोकपरीतानामहोरात्रगणा गताः।।5.35.57।। Sundara Kanda,35,58,ते वयं कार्यनैराश्यात्कालस्यातिक्रमेण च। भयाच्च कपिराजस्य प्राणांस्त्यक्तुं व्यवस्थिताः।।5.35.58।। Sundara Kanda,35,59,विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च। अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं समुद्यताः।।5.35.59।। Sundara Kanda,35,60,दृष्ट्वा प्रायोपविष्टांश्च सर्वान्वानरपुङ्गवान्। भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः।।5.35.60।। Sundara Kanda,35,61,तव नाशं च वैदेहि वालिनश्च वधं तथा। प्रायोपवेशमस्माकं मरणं च जटायुषः।।5.35.61।। Sundara Kanda,35,62,तेषां नस्वामिसन्देशान्निराशानां मुमूर्षताम्। कार्यहेतोरिवायातश्शकुनिर्वीर्यवान्महान्।।5.35.62।। Sundara Kanda,35,63,गृध्रराजस्य सोदर्यः सम्पातिर्नाम गृध्रराट्। श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत्।।5.35.63।। Sundara Kanda,35,64,यवीयान्केन मे भ्राता हतः क्व च निपातितः। एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः।।5.35.64।। Sundara Kanda,35,65,अङ्गदोऽकथयत्तस्य जनस्थाने महद्वधम्। रक्षसा भीमरूपेण त्वामुद्दिश्य यथातथम्।।5.35.65।। Sundara Kanda,35,66,जटायुषो वधं श्रुत्वा दुःखितस्सोऽरुणात्मजः। त्वां शशंस वरारोहे वसन्तीं रावणालये।।5.35.66।। Sundara Kanda,35,67,तस्य तद्वचनं श्रुत्वा सम्पातेः प्रीतिवर्धनम्। अङ्गदप्रमुखास्तूर्णं ततस्सम्प्रस्थिता वयम्।।5.35.67।। Sundara Kanda,35,68,विन्ध्यादुत्थाय सम्प्राप्ता स्सागरस्यान्तमुत्तरम्। त्वद्धर्शनकृतोत्साहा हृष्टास्तुष्टाः प्लवङ्गमाः।।5.35.68।। Sundara Kanda,35,69,अङ्गदप्रमुखास्सर्वे वेलोपान्तमुपस्थिताः। चिन्तां जग्मुः पुनर्भीतास्त्वद्दर्शनसमुत्सुकाः।।5.35.69।। Sundara Kanda,35,70,अथाहं हरिसैन्यस्य सागरं प्रेक्ष्य सीदतः। व्यवधूय भयं तीव्रं योजनानां शतं प्लुतः।।5.35.70।। Sundara Kanda,35,71,लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला। रावणश्च मया दृष्टस्त्वं च शोकपरिप्लुता।।5.35.71।। Sundara Kanda,35,72,एतत्ते सर्वमाख्यातं यथावृत्तमनन्दिते। अभिभाषस्व मां देवि दूतो दाशरथेरहम्।।5.35.72।। Sundara Kanda,35,73,तं मां रामकृतोद्योगं त्वन्निमित्तमिहागतम्। सुग्रीवसचिवं देवि बुद्ध्यस्व पवनात्मजम्।।5.35.73।। Sundara Kanda,35,74,कुशली तव काकुत्स्थस्सर्वशस्त्रभृतां वरः। गुरोराराधने युक्तो लक्ष्मणश्च सुलक्षणः।।5.35.74।। Sundara Kanda,35,75,तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः। अहमेकस्तु सम्प्राप्त स्सुग्रीववचनादिह।।5.35.75।। Sundara Kanda,35,76,मयेयमसहायेन चरता कामरूपिणा। दक्षिणा दिगनुक्रान्ता त्वन्मार्गविचयैषिणा।।5.35.76।। Sundara Kanda,35,77,दिष्ट्याहं हरिसैन्यानां त्वन्नाशमनुशोचताम्। अपनेष्यामि सन्तापं तवाभिगमशंसनात्।।5.35.77।। Sundara Kanda,35,78,दिष्ट्या हि मम न व्यर्थं देवि सागरलङ्घनम्। प्राप्स्याम्यहमिदं दिष्ट्या त्वद्दर्शनकृतं यशः।।5.35.78।। Sundara Kanda,35,79,राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते। समित्रबान्धवं हत्वा रावणं राक्षसाधिपम्।।5.35.79।। Sundara Kanda,35,80,माल्यवान्नाम वैदेहि गिरीणामुत्तमो गिरिः। ततो गच्छति गोकर्णं पर्वतं केसरी हरिः।।5.35.80।। Sundara Kanda,35,81,स च देवर्षिभिर्दिष्टः पिता मम महाकपिः। तीर्थे नदीपतेः पुण्ये शम्बसादनमुद्धरत्।।5.35.81।। Sundara Kanda,35,82,तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि। हनुमानिति विख्यातो लोके स्वेनैव कर्मणा।।5.35.82।। Sundara Kanda,35,83,विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः। अचिराद्राघवो देवि त्वामितो नयिताऽनघे।।5.35.83।। Sundara Kanda,35,84,एवं विश्वासिता सीता हेतुभिश्शोककर्शिता। उपपन्नैरभिज्ञानैर्दूतं तमवगच्छति।।5.35.84।। Sundara Kanda,35,85,अतुलं च गता हर्षं प्रहर्षेण च जानकी। नेत्राभ्यां वक्रपक्ष्माभ्यां मुमोचानन्दजं जलम्।।5.35.85।। Sundara Kanda,35,86,चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम्। अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट्।।5.35.86।। Sundara Kanda,35,87,हनुमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा। अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम्।।5.35.87।। Sundara Kanda,35,88,एतत्ते सर्वमाख्यातं समाश्वसिहि मैथिलि। किं करोमि कथं वा ते रोचते प्रतियाम्यहम्।।5.35.88।। Sundara Kanda,35,89,हतेऽसुरे संयति शम्बसादने कपिप्रवीरेण महर्षिचोदनात्। ततोऽस्मि वायुप्रभवो हि मैथिलि प्रभावतस्तत्प्रतिमश्च वानरः।।5.35.89।। Sundara Kanda,36,1,भूय एव महातेजा हनूमान्पवनात्मजः। अब्रवीत्प्रश्रितं वाक्यं सीताप्रत्ययकारणात्।।5.36.1।। Sundara Kanda,36,2,वानरोऽहं महाभागे दूतो रामस्य धीमतः। रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम्।।5.36.2।। Sundara Kanda,36,3,प्रत्ययार्थं तवाऽनीतं तेन दत्तं महात्मना। समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि।।5.36.3।। Sundara Kanda,36,4,गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम्। भर्तारमिव सम्प्राप्ता जानकी मुदिताऽभवत्।।5.36.4।। Sundara Kanda,36,5,चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम्। अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट्।।5.36.5।। Sundara Kanda,36,6,ततस्सा ह्रीमती बाला भर्तृसन्देशहर्षिता। परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिम्।।5.36.6।। Sundara Kanda,36,7,विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम। येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम्।।5.36.7।। Sundara Kanda,36,8,शतयोजनविस्तीर्ण स्सागरो मकरालयः। विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः।।5.36.8।। Sundara Kanda,36,9,न हि त्वां प्राकृतं मन्ये वानरं वानरर्षभ। यस्य ते नास्ति सन्त्रासो रावणान्नापि सम्भ्रमः।।5.36.9।। Sundara Kanda,36,10,अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम्। यद्यसि प्रेषितस्तेन रामेण विदितात्मना।।5.36.10।। Sundara Kanda,36,11,प्रेषयिष्यति दुर्धर्षो रामो न ह्यपरीक्षितम्। पराक्रममविज्ञाय मत्सकाशं विशेषतः।।5.36.11।। Sundara Kanda,36,12,दिष्ट्या च कुशली रामो धर्मात्मा सत्यसङ्गरः। लक्ष्मणश्च महातेजास्सुमित्रानन्दवर्धनः।।5.36.12।। Sundara Kanda,36,13,कुशली यदि काकुत्स्थः किं नु सागरमेखलाम्। महीं दहति कोपेन युगान्ताग्निरिवोत्थितः।।5.36.13।। Sundara Kanda,36,14,अथवा शक्तिमन्तौ तौ सुराणामपि निग्रहे। ममैव तु न दुःखानामस्ति मन्ये विपर्ययः।।5.36.14।। Sundara Kanda,36,15,कच्चिन्न व्यथितो रामः कच्चिन्न परितप्यते। उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः।।5.36.15।। Sundara Kanda,36,16,कच्चिन्न दीन स्सम्भ्रान्तः कार्येषु न च मुह्यति। कच्चित्पुरुषकार्याणि कुरुते नृपतेस्सुतः।।5.36.16।। Sundara Kanda,36,17,द्विविधं त्रिविधोपायमुपायमपि सेवते। विजिगीषुस्सुहृत्कच्चिन्मित्रेषु च परन्तपः।।5.36.17।। Sundara Kanda,36,18,कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते। कच्चित्कल्याणमित्त्रश्च मित्रत्त्रैश्चापि पुरस्कृतः।।5.36.18।। Sundara Kanda,36,19,कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः। कच्चित्पुरुषकारं च दैवं च प्रतिपद्यते।।5.36.19।। Sundara Kanda,36,20,कच्चिन्न विगतस्नेहः प्रवासान्मयि राघवः। कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति वानर।।5.36.20।। Sundara Kanda,36,21,सुखानामुचितो नित्यमसुखानामनौचितः। दुःखमुत्तरमासाद्य कच्चिद्रामो न सीदति।।5.36.21।। Sundara Kanda,36,22,कौसल्यायास्तथा कच्चित्सुमित्रायास्तथैव च। अभीक्ष्णं श्रूयते कच्चित्कुशलं भरतस्य च।।5.36.22।। Sundara Kanda,36,23,मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः। कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति।।5.36.23।। Sundara Kanda,36,24,कच्चिदक्षौहिणीं भीमां भरतो भ्रातृवत्सलः। ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते।।5.36.24।। Sundara Kanda,36,25,वानराधिपतिश्शीमान्सुग्रीवः कच्चिदेष्यति। मत्कृते हरिभिर्वीरैर्वृतो दन्तनखायुधैः।।5.36.25।। Sundara Kanda,36,26,कच्चिच्छ लक्ष्मणश्शूरस्सुमित्रानन्दवर्धनः। अस्त्रविच्छरजालेन राक्षसान्विधमिष्यति।।5.36.26।। Sundara Kanda,36,27,रौद्रेण कच्चिदस्त्रेण ज्वलता निहतं रणे। द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम्।।5.36.27।। Sundara Kanda,36,28,कच्चिन्न तद्धेमसमानवर्णं तस्याननं पद्मसमानगन्धि। मया विना शुष्यति शोकदीनं जलक्षये पद्ममिवातपेन।।5.36.28।। Sundara Kanda,36,29,धर्मापदेशात्त्यजतश्च राज्यं मां चाप्यरण्यं नयतः पदातिम्। नासीद्व्यथा यस्य न भीर्न शोकः कच्चित्स धैर्यं हृदये करोति।।5.36.29।। Sundara Kanda,36,30,न चास्य माता न पिता च नान्यः स्नेहाद्विशिष्टोऽस्ति मया समो वा। तावत्त्वहं दूत जिजीविषेयं यावत्प्रवृत्तिं शृणुयां प्रियस्य।।5.36.30।। Sundara Kanda,36,31,इतीव देवी वचनं महार्थं तं वानरेन्द्रं मधुरार्थमुक्त्वा। श्रोतुं पुनस्तस्य वचोऽभिरामं रामार्थयुक्तं विरराम रामा।।5.36.31।। Sundara Kanda,36,32,सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः। शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत्।।5.36.32।। Sundara Kanda,36,33,न त्वामिहस्थां जानीते रामः कमललोचने। तेन त्वां नानयत्याशु शचीमिव पुरन्दरः।।5.36.33।। Sundara Kanda,36,34,श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः। चमूं प्रकर्षन्महतीं हर्यृक्षगणसङ्कुलाम्।।5.36.34।। Sundara Kanda,36,35,विष्टम्भयित्वा बाणौघैरक्षोभ्यं वरुणालयम्। करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम्।।5.36.35।। Sundara Kanda,36,36,तत्र यद्यन्तरा मृत्युर्यदि देवास्सहासुराः। स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति।।5.36.36।। Sundara Kanda,36,37,तवादर्शनजेनार्ये शोकेन स परिप्लुतः। न शर्म लभते रामस्सिंहार्दित इव द्विपः।।5.36.37।। Sundara Kanda,36,38,मलयेन च विन्ध्येन मेरुणा मन्दरेण च। दर्दुरेण च ते देवि शपे मूलफलेन च।।5.36.38।। Sundara Kanda,36,39,यथा सुनयनं वल्गु बिम्बोष्ठं चारु कुण्डलम् । मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम्।।5.36.39।। Sundara Kanda,36,40,क्षिप्रं द्रक्ष्यसि वैदेहि रामं प्रस्रवणे गिरौ। शतक्रतुमिवासीनं नागराजस्य मूर्धनि।।5.36.40।। Sundara Kanda,36,41,न मांसं राघवो भुङक्ते न चाऽपि मधु सेवते। वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम्।।5.36.41।। Sundara Kanda,36,42,नैव दंशान्न मशकान्न कीटान्न सरीसृपान्। राघवोऽपनयेद्गात्रात्त्वद्गतेनान्तरात्मना।।5.36.42।। Sundara Kanda,36,43,नित्यं ध्यानपरो रामो नित्यं शोकपरायणः। नान्यच्चिन्तयते किञ्चित्स तु कामवशं गतः।।5.36.43।। Sundara Kanda,36,44,अनिद्रस्सततं रामस्सुप्तोऽपि च नरोत्तमः। सीतेति मधुरां वाणीं व्याहरन्प्रतिबुध्यते।।5.36.44।। Sundara Kanda,36,45,दृष्ट्वा फलं वा पुष्पं वा यद्वाऽन्यत्सुमनोहरम्। बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते।।5.36.45।। Sundara Kanda,36,46,स देवि नित्यं परितप्यमान स्त्वामेव सीतेत्यभिभाषमाणः। धृतव्रतो राजसुतो महात्मा तवैव लाभाय कृतप्रयत्नः।।5.36.46।। Sundara Kanda,36,47,सा रामसङ्कीर्तनवीतशोका रामस्य शोकेन समानशोका। शरन्मुखे साम्बुदशेषचन्द्रा निशेव वैदेहसुता बभूव।।5.36.47।। Sundara Kanda,37,1,सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना। हनूमन्तमुवाचेदं धर्मार्थसहितं वचः।।5.37.1।। Sundara Kanda,37,2,अमृतं विषसंसृष्टं त्वया वानर भाषितम्। यच्च नान्यमना रामो यच्च शोकपरायणः ।।5.37.2।। Sundara Kanda,37,3,ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे। रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति।।5.37.3।। Sundara Kanda,37,4,विधिर्नूनमसंहार्यः प्राणिनां प्लवगोत्तम। सौमित्रिं मां च रामं च व्यसनै: पश्य मोहितान्।।5.37.4।। Sundara Kanda,37,5,शोकस्यास्य कदा पारं राघवोऽधिगमिष्यति। प्लवमानः परिश्रान्तो हतनौ स्सागरे यथा।।5.37.5।। Sundara Kanda,37,6,राक्षसानां वधं कृत्वा सूदयित्वा च रावणम्। लङ्कामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः।।5.37.6।। Sundara Kanda,37,7,स वाच्यस्संत्वरस्वेति यावदेव न पूर्यते। अयं संवत्सरः कालस्तावद्धि मम जीवितम्।।5.37.7।। Sundara Kanda,37,8,वर्तते दशमो मासो द्वौ तु शेषौ प्लवङ्गम। रावणेन नृशंसेन समयो यः कृतो मम।।5.37.8।। Sundara Kanda,37,9,विभीषणेन च भ्रात्रा मम निर्यातनं प्रति। अनुनीतः प्रयत्नेन न च तत्कुरुते मतिम्।।5.37.9।। Sundara Kanda,37,10,मम प्रतिप्रदानं हि रावणस्य न रोचते। रावणं मार्गते संख्ये मृत्युः कालवशं गतम्।।5.37.10।। Sundara Kanda,37,11,ज्येष्ठा कन्या नला नाम विभीषणसुता कपे। तया ममेदमाख्यातं मात्रा प्रहितया स्वयम्।।5.37.11।। Sundara Kanda,37,12,असंशयं हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः। अन्तरात्मा च मे शुद्धस्तस्मिंश्च बहवो गुणाः।।5.37.12।। Sundara Kanda,37,13,उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञता। विक्रमश्च प्रभावश्च सन्ति वानर राघवे।।5.37.13।। Sundara Kanda,37,14,चतुर्दशसहस्राणि राक्षसानां जघान यः। जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत् ।।5.37.14।। Sundara Kanda,37,15,न स शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः। अहं तस्य प्रभावज्ञा शक्रस्येव पुलोमजा ।।5.37.15।। Sundara Kanda,37,16,शरजालांशुमान्शूरः कपे रामदिवाकरः। शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति।।5.37.16।। Sundara Kanda,37,17,इति सञ्जल्पमानां तां रामार्थे शोककर्शिताम्। आश्रुसम्पूर्णनयनामुवाच वचनं कपिः।।5.37.17।। Sundara Kanda,37,18,श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः। चमूं प्रकर्षन्महतीं हर्यृक्षगणसङ्कुलाम्।।5.37.18।। Sundara Kanda,37,19,अथवा मोचयिष्यामि त्वामद्यैव वरानने। अस्माद्धुःखादुपारोह मम पृष्ठमनिन्दिते।।5.37.19।। Sundara Kanda,37,20,त्वां हि पृष्ठगतां कृत्वा सन्तरिष्यामि सागरम्। शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम् ।।5.37.20।। Sundara Kanda,37,21,अहं प्रस्रवणस्थाय राघवायाद्य मैथिलि। प्रापयिष्यामि शक्राय हव्यं हुतमिवानलः।।5.37.21।। Sundara Kanda,37,22,द्रक्ष्यस्यद्वैव वैदेहि राघवं सहलक्ष्मणम्। व्यवसायसमायुक्तं विष्णुं दैत्यवधे यथा।।5.37.22।। Sundara Kanda,37,23,त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम्। पुरन्दरमिवासीनं नागराजस्य मूर्धनि।।5.37.23।। Sundara Kanda,37,24,पृष्ठमारोह मे देवि मा विकाङ्क्षस्व शोभने। योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी।।5.37.24।। Sundara Kanda,37,25,कथयन्तीव चन्द्रेण सूर्येण च महार्चिषा। मत्पृष्ठमधिरुह्य त्वं तराकाशमहार्णवौ।।5.37.25।। Sundara Kanda,37,26,न हि मे सम्प्रयातस्य त्वामितो नयतोऽङ्गने। अनुगन्तुं गतिं शक्तास्सर्वे लङ्कानिवासिनः।।5.37.26।। Sundara Kanda,37,27,यथैवाहमिह प्राप्तस्तथैवाहमसंशयः। यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसम्।।5.37.27।। Sundara Kanda,37,28,मैथिली तु हरिश्रेष्ठाच्छ्रुत्वा वचनमद्भुतम्। हर्षविस्मितसर्वाङ्गी हनुमन्तमथाब्रवीत्।।5.37.28।। Sundara Kanda,37,29,हनुमन्दूरमध्वानं कथं मां वोढुमिच्छसि। तदेव खलु ते मन्ये कपित्वं हरियूथप।।5.37.29।। Sundara Kanda,37,30,कथं वाल्पशरीरस्त्वं मामितो नेतुमिच्छसि। सकाशं मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभ।।5.37.30।। Sundara Kanda,37,31,सीताया वचनं श्रुत्वा हनुमान्मारुतात्मजः। चिन्तयामास लक्ष्मीवान्नवं परिभवं कृतम्।।5.37.31।। Sundara Kanda,37,32,न मे जानाति सत्त्वं वा प्रभावं वाऽसितेक्षणा। तस्मात्पश्यतु वैदेही यद्रूपं मम कामतः।।5.37.32।। Sundara Kanda,37,33,इति सञ्चिन्त्य हनुमांस्तदा प्लवगसत्तमः। दर्शयामास वैदेह्यास्स्वरूपमरिमर्दनः।।5.37.33।। Sundara Kanda,37,34,स तस्मात्पादपाद्धीमानाप्लुत्य प्लवगर्षभः। ततो वर्धितुमारेभे सीताप्रत्ययकारणात्।।5.37.34।। Sundara Kanda,37,35,मेरुमन्दरसङ्काशो बभौ दीप्तानलप्रभः। अग्रतो व्यवतस्थे च सीताया वानरोत्तमः।।5.37.35।। Sundara Kanda,37,36,हरिः पर्वतसङ्काशस्ताम्रवक्त्रो महाबलः। वज्रदंष्ट्रनखो भीमो वैदेहीमिदमब्रवीत्।।5.37.36।। Sundara Kanda,37,37,सपर्वतवनोद्देशां साट्टप्राकारतोरणाम्। लङ्कामिमां सनाथां वा नयितुं शक्तिरस्ति मे।।5.37.37।। Sundara Kanda,37,38,तदवस्थाप्यतां बुद्धिरलं देवि विकाङ्क्षया। विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम्।।5.37.38।। Sundara Kanda,37,39,तं दृष्ट्वा भीमसङ्काशमुवाच जनकात्मजा। पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम्।।5.37.39।। Sundara Kanda,37,40,तव सत्त्वं बलं चैव विजानामि महाकपे। वायोरिव गतिं चैव तेजश्चाग्नेरिवाद्भुतम्।।5.37.40।। Sundara Kanda,37,41,प्राकृतोऽन्यः कथं चेमां भूमिमागन्तुमर्हति। उदधेरप्रमेयस्य पारं वानरपुङ्गव।।5.37.41।। Sundara Kanda,37,42,जानामि गमने शक्तिं नयने चापि ते मम। अवश्यं सम्प्रधार्याशु कार्यसिद्धिर्महात्मनः।।5.37.42।। Sundara Kanda,37,43,अयुक्तं तु कपिश्रेष्ठ मम गन्तुं त्वयाऽनघ। वायुवेगसवेगस्य वेगो मां मोहयेत्तव।।5.37.43।। Sundara Kanda,37,44,अहमाकाशमापन्ना ह्युपर्युपरि सागरम्। प्रपतेयं हि ते पृष्ठाद्भयाद्वेगेव गच्छतः।।5.37.44।। Sundara Kanda,37,45,पतिता सागरे चाहं तिमिनक्रझषाकुले। भवेयमाशु विवशा यादसामन्नमुत्तमम्।।5.37.45।। Sundara Kanda,37,46,न च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन। कलत्रवति सन्देहस्त्वय्यपि स्यादसंशयः।।5.37.46।। Sundara Kanda,37,47,ह्रियमाणां तु मां दृष्ट्वा राक्षसा भीमविक्रमाः। अनुगच्छेयुरादिष्टा रावणेन दुरात्मना।।5.37.47।। Sundara Kanda,37,48,तैस्त्वं परिवृतश्शूरैश्शूलमुद्गरपाणिभिः। भवेस्त्वं संशयं प्राप्तो मया वीर कलत्रवान्।।5.37.48।। Sundara Kanda,37,49,सायुधा बहवो व्योम्नि राक्षसास्त्वं निरायुधः। कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम्।।5.37.49।। Sundara Kanda,37,50,युध्यमानस्य रक्षोभिस्तव तैः क्रूरकर्मभिः। प्रपतेयं हि ते पृष्ठाद्भयार्ता कपिसत्तम।।5.37.50।। Sundara Kanda,37,51,अथ रक्षांसि भीमानि महान्ति बलवन्ति च। कथञ्चित्सांपराये त्वां जयेयुः कपिसत्तम।।5.37.51।। Sundara Kanda,37,52,अथवा युध्यमानस्य पतेयं विमुखस्य ते। पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः।।5.37.52।। Sundara Kanda,37,53,मां वा हरेयुस्त्वद्धस्ताद्विशसेयुरथापि वा। अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ।।5.37.53।। Sundara Kanda,37,54,अहं वापि विपद्येयं रक्षोभिरभितर्जिता। त्वत्प्रयत्नो हरिश्रेष्ठ भवेन्निष्फल एव तु।।5.37.54।। Sundara Kanda,37,55,कामं त्वमसि पर्याप्तो निहन्तुं सर्वराक्षसान्। राघवस्य यशो हीयेत्त्वया शस्तैस्तु राक्षसैः।।5.37.55।। Sundara Kanda,37,56,अथवाऽदाय रक्षांसि न्यसेयुस्सम्वृते हि माम्। यत्र ते नाभिजानीयुर्हरयो नापि राघवौ।।5.37.56।। Sundara Kanda,37,57,आरम्भस्तु मदर्थोऽयं ततस्तव निरर्थकः। त्वया हि सह रामस्य महानागमने गुणः।।5.37.57।। Sundara Kanda,37,58,मयि जीवितमायत्तं राघवस्य महात्मनः। भ्रात्रूणां च महाबाहो तव राजकुलस्य च।।5.37.58।। Sundara Kanda,37,59,तौ निराशौ मदर्थं तु शोकसन्तापकर्शितौ। सह सर्वर्क्षहरिभिस्त्यक्ष्यतः प्राणसङ्ग्रहम्।।5.37.59।। Sundara Kanda,37,60,भर्तुर्भक्तिं पुरस्कृत्य रामादन्यस्य वानर। न स्पृशामि शरीरं तु पुंसो वानरपुङ्गव।।5.37.60।। Sundara Kanda,37,61,यदहं गात्रसंस्पर्शं रावणस्य बलाद्गता। अनीशा किं करिष्यामि विनाथा विवशा सती।।5.37.61।। Sundara Kanda,37,62,यदि रामो दशग्रीवमिह हत्त्वा सबान्धवम्। मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत्।।5.37.62।। Sundara Kanda,37,63,श्रुता हि दृष्टाश्च मया पराक्रमा महात्मनस्तस्य रणावमर्दिनः। न देवगन्धर्वभुजङ्गराक्षसा भवन्ति रामेण समा हि संयुगे।।5.37.63।। Sundara Kanda,37,64,समीक्ष्य तं संयति चित्रकार्मुकम् महाबलं वासवतुल्यविक्रमम्। सलक्ष्मणं को विषहेत राघवं हुताशनं दीप्तमिवानिलेरितम्।।5.37.64।। Sundara Kanda,37,65,सलक्ष्मणं राघवमाजिमर्दनं दिशागजं मत्तमिव व्यवस्थितम्। सहेत को वानरमुख्य संयुगे युगान्तसूर्यप्रतिमं शरार्चिषम्।।5.37.65।। Sundara Kanda,38,1,ततस्स कपिशार्दूलस्तेन वाक्येन तोषितः। सीतामुवाच तच्छृत्वा वाक्यं वाक्यविशारदः।।5.38.1।। Sundara Kanda,38,2,युक्तरूपं त्वया देवि भाषितं शुभदर्शने। सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च।।5.38.2।। Sundara Kanda,38,3,स्त्रीत्वं न तु समर्थं हि सागरं व्यतिवर्तितुम्। मामधिष्ठाय विस्तीर्णं शतयोजनमायतम्।।5.38.3।। Sundara Kanda,38,4,द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते। रामादन्यस्य नार्हामि संस्पर्शमिति जानकि ।।5.38.4।। Sundara Kanda,38,5,एतत्ते सदृशं देवि पत्न्यास्तस्य महात्मनः। का ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम्।।5.38.5।। Sundara Kanda,38,6,श्रोष्यते चैव काकुत्स्थ: सर्वं निरवशेषतः। चेष्टितं यत्त्वया देवि भाषितं मम चाग्रतः।।5.38.6।। Sundara Kanda,38,7,कारणैर्बहुभिर्देवि रामप्रियचिकीर्षया। स्नेहप्रस्कन्नमनसा मयैतत्समुदीरितम्।।5.38.7।। Sundara Kanda,38,8,लङ्काया दुष्प्रवेशत्वाद्दुस्तरत्वान्महोदधेः। सामर्थ्यादात्मनश्चैव मयैतत्समुदीरितम्।।5.38.8।। Sundara Kanda,38,9,इच्छामि त्वां समानेतुमद्यैव रघुबन्धुना। गुरुस्नेहेन भक्त्या च नान्यथैतदुदाहृतम्।।5.38.9।। Sundara Kanda,38,10,यदि नोत्सहसे यातुं मया सार्थमनिन्दिते। अभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि यत्।।5.38.10।। Sundara Kanda,38,11,एवमुक्ता हनुमता सीता सुरसुतोपमा। उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम्।।5.38.11।। इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम्। Sundara Kanda,38,12,शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पुरा।।5.38.12।। Sundara Kanda,38,13,तापसाश्रमवासिन्याः प्राज्यमूलफलोदके। तस्मिन्सिद्धाश्रमे देशे मन्दाकिन्या विदूरतः।।5.38.13।। Sundara Kanda,38,14,तस्योपवनषण्डेषु नानापुष्पसुगन्धिषु। विहृत्य सलिले क्लिन्ना ममाङ्के समुपाविशमः।।5.38.14।। Sundara Kanda,38,15,ततो मांससमायुक्तो वायसः पर्यतुण्डयत्। तमहं लोष्टमुद्यम्य वारयामिस्म वायसम्।।5.38.15।। Sundara Kanda,38,16,दारयन्स च मां काकस्तत्त्रैव परिलीयते। न चाप्युपारमन्मांसाद्भक्षार्थि बलिभोजनः।।5.38.16।। Sundara Kanda,38,17,उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणि। स्रस्यमाने च वसने ततो दृष्टा त्वया ह्यहम्।।5.38.17।। Sundara Kanda,38,18,त्वयाऽपहसिता चाहं क्रुद्धा संलज्जिता तदा। भक्षगृध्नेन काकेन दारिता त्वामुपागता।।5.38.18।। Sundara Kanda,38,19,आसीनस्य च ते श्रान्ता पुनरुत्सङ्गमाविशम्। क्रुध्यन्ती च प्रहृष्टेन त्वयाऽहं परिसान्त्विता।।5.38.19।। Sundara Kanda,38,20,बाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती। लक्षिताऽहं त्वया नाथ वायसेन प्रकोपिता।।5.38.20।। Sundara Kanda,38,21,परिश्रमात्प्रसुप्ता च राघवाङ्केऽप्यहं चिरम्। पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः।।5.38.21।। Sundara Kanda,38,22,स तत्र पुनरेवाथ वायसस्समुपागमत्। ततस्सुप्तप्रबुद्धां मां रामस्याङ्कात्समुत्थिताम्।।5.38.22।। Sundara Kanda,38,23,वायसस्सहसागम्य विददार स्तनान्तरे। पुनः पुनरथोत्पत्य विददार स मां भृशम्।।5.38.23।। Sundara Kanda,38,24,ततस्समुक्षितो रामो मुक्तैश्शोणितबिन्दुभिः। वायसेन ततस्तेन बलवत्क्लिश्यमानया।।5.38.24।। स मया बोधितश्श्रीमान्सुखसुप्तः परन्तपः। Sundara Kanda,38,25,स मां दृष्ट्वा महाबाहुर्वितुन्नां स्तनयोस्तदा।।5.38.25।। आशीविष इव क्रुद्धश्वसन्वाक्यमभाषत। Sundara Kanda,38,26,केन ते नागनासोरु विक्षतं वै स्तनान्तरम्।।5.38.26।। कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना। Sundara Kanda,38,27,वीक्षमाणस्ततस्तं वै वायसं समुदैक्षत।।5.38.27।। नखैस्सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम्। Sundara Kanda,38,28,पुत्त्रः किल स शक्रस्य वायसः पततां वरः।।5.38.28।। धरान्तरगतश्शीघ्रं पवनस्य गतौ समः। Sundara Kanda,38,29,ततस्तस्मिन्महाबाहुः कोपसंवर्तितेक्षणः।।5.38.29।। वायसे कृतवान्क्रूरां मतिं मतिमतां वरः। Sundara Kanda,38,30,स दर्भं संस्तराद्गृह्य ब्राह्मेणास्त्रेण योजयत्।।5.38.30।। स दीप्त इव कालाग्निर्जज्वालाभिमुखो द्विजम्। Sundara Kanda,38,31,स तं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति।।5.38.31।। ततस्तं वायसं दर्भस्सोम्बरेऽनुजगाम ह। Sundara Kanda,38,32,अनुसृष्टस्तदा काको जगाम विविधां गतिम्।।5.38.32।। लोककाम इमं लोकं सर्वं वै विचचार ह। Sundara Kanda,38,33,स पित्रा च परित्यक्तस्सुरैश्च समहर्षिभिः।।5.38.33।। त्रीन्लोकान्सम्परिक्रम्य तमेव शरणं गतः। Sundara Kanda,38,34,स तं निपतितं भूमौ शरण्यश्शरणागतम्।।5.38.34।। वधार्हमपि काकुत्स्थ: कृपया पर्यपालयत्। Sundara Kanda,38,35,परिद्यूनं विषण्णं च स तमायान्तमब्रवीत्।।5.38.35।। मोघं कर्तुं न शक्यं तु ब्राह्ममस्त्रं तदुच्यताम्। Sundara Kanda,38,36,हिनस्तु दक्षिणाक्षि त्वच्छर इत्यथ सोऽब्रवीत्।।5.38.36।। Sundara Kanda,38,37,ततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम्। दत्त्वा स दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः।।5.38.37।। Sundara Kanda,38,38,स रामाय नमस्कृत्य राज्ञे दशरथाय च। विसृष्टस्तेन वीरेण प्रतिपेदे स्वमालयम्।।5.38.38।। Sundara Kanda,38,39,मत्कृते काकमात्रे तु ब्रह्मास्त्रं समुदीरितम्। कस्माद्यो मां हरेत्त्वत्तः क्षमसे तं महीपते।।5.38.39।। Sundara Kanda,38,40,स कुरुष्व महोत्साहः कृपां मयि नरर्षभ। त्वया नाथवती नाथ ह्यनाथा इव दृश्यते।।5.38.40।। Sundara Kanda,38,41,आनृशंस्यं परो धर्मस्तवत्त्त ऐव मया श्रुतः। जानामि त्वां महावीर्यं महोत्साहं महाबलम्।।5.38.41।। Sundara Kanda,38,42,अपारपारमक्षोभ्यं गाम्भीर्यात्सागरोपमम्। भर्तारं ससमुद्राया धरण्या वासवोपमम्।।5.38.42।। Sundara Kanda,38,43,एवमस्त्रविदां श्रेष्ठस्सत्यवान्बलवानपि। किमर्थमस्त्रं रक्षस्सु न योजयसि राघव।।5.38.43।। Sundara Kanda,38,44,न नागा नाऽपि गन्धर्वा नासुरा न मरुद्गणाः। रामस्य समरे वेगं शक्ताः प्रतिसमाधितुं।।5.38.44।। Sundara Kanda,38,45,तस्य वीर्यवतः कश्चिद्यद्यस्ति मयि सम्भ्रमः। किमर्थं न शरैस्तीक्ष्णै: क्षयं नयति राक्षसान्।।5.38.45।। Sundara Kanda,38,46,भ्रातुरादेशमादाय लक्ष्मणो वा परन्तपः। कस्य हेतोर्न मां वीरः परित्राति महाबलः।।5.38.46।। Sundara Kanda,38,47,यदि तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ। सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः।।5.38.47।। Sundara Kanda,38,48,ममैव दुष्कृतं किञ्चिन्महदस्ति न संशयः। समर्थावपि तौ यन्मां नावेक्षेते परन्तपौ।।5.38.48।। Sundara Kanda,38,49,वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम्। अथाब्रवीन्महातेजा हनुमान्मारुतात्मजः।।5.38.49।। Sundara Kanda,38,50,त्वच्छोकविमुखो रामो देवि सत्येन ते शपे। रामे दुःखाभिपन्ने च लक्ष्मणः परितप्यते।।5.38.50।। Sundara Kanda,38,51,कथञ्चिद्भवती दृष्टा न कालः परिदेवितुम्। इमं मुहूर्तं दुःखानां द्रक्ष्यस्यन्तमनिन्दिते।।5.38.51।। Sundara Kanda,38,52,तावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ। त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः।।5.38.52।। Sundara Kanda,38,53,हत्त्वा च समरे क्रूरं रावणं सहबान्धवम्। राघवस्त्वां विशालाक्षि नेष्यति स्वां पुरीं प्रति।।5.38.53।। Sundara Kanda,38,54,ब्रूहि यद्राघवो वाच्यो लक्ष्मणश्च महाबलः। सुग्रीवो वापि तेजस्वी हरयोऽपि समागताः।।5.38.54।। Sundara Kanda,38,55,इत्युक्तवति तस्मिंस्तु सीता सुरसुतोपमा। उवाच शोकसन्तप्ता हनुमन्तं प्लवङ्गमम्।।5.38.55।। Sundara Kanda,38,56,कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी। तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय।।5.38.56।। Sundara Kanda,38,57,स्रजश्च सर्वरत्नानि प्रिया याश्च वराङ्गनाः। ऐश्वर्यं च विशालायां पृथिव्यामपि दुर्लभम्।।5.38.57।। Sundara Kanda,38,58,पितरं मातरं चैव सम्मान्याभिप्रसाद्य च। अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः।।5.38.58।। Sundara Kanda,38,59,आनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम्। अनुगच्छति काकुत्स्थं भ्रातरं पालयन्वने।।5.38.59।। Sundara Kanda,38,60,सिंहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शिनः। पितृवद्वर्तते रामे मातृवन्मां समाचरन्।।5.38.60।। Sundara Kanda,38,61,ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः। वृद्धोपसेवी लक्ष्मीवान् शक्तो न बहुभाषिता।।5.38.61।। राजपुत्रः प्रियः श्रेष्ठः सदृशः श्वशुरस्य मे। Sundara Kanda,38,62,ममः प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः।।5.38.62।। नियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान्। Sundara Kanda,38,63,यं दृष्ट्वा राघवो नैव वृत्तमार्यमनुस्मरेत्।।5.38.63।। स ममार्थाय कुशलं वक्तव्यो वचनान्मम। Sundara Kanda,38,64,मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः।।5.38.64।। Sundara Kanda,38,65,यथा हि वानरश्रेष्ठ दुःखक्षयकरो भवेत्। त्वमस्मिन्कार्यनिर्योगे प्रमाणं हरिसत्तमः।।5.38.65।। Sundara Kanda,38,66,राघवस्त्वत्समारम्भान्मयि यत्नपरो भवेत्। इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः।।5.38.66।। Sundara Kanda,38,67,जीवितं धारयिष्यामि मासं दशरथात्मज। ऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते।।5.38.67।। Sundara Kanda,38,68,रावणेनोपरुद्धां मां निकृत्य पापकर्मणा। त्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम्।।5.38.68।। Sundara Kanda,38,69,ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम्। प्रदेयो राघवायेति सीता हनुमते ददौ।।5.38.69।। Sundara Kanda,38,70,प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम्। अङ्गुल्या योजयामास न ह्यस्य प्राभवद्भुजः।।5.38.70।। Sundara Kanda,38,71,मणिरत्नं कपिवरः प्रतिगृह्याभिवाद्य च। सीतां प्रदक्षिणं कृत्वा प्रणतः पार्व्शतः स्थितः।।5.38.71।। Sundara Kanda,38,72,हर्षेण महता युक्तः सीतादर्शनजेन सः। हृदयेन गतो रामं शरीरेण तु विष्ठितः।।5.38.72।। Sundara Kanda,38,73,मणिवरमुपगृह्य तं महार्हं जनकनृपात्मजया धृतं प्रभावात्। गिरिरिव पवनावधूतमुक्तः सुखितमनाः प्रतिसङ्क्रमं प्रपेदे।।5.38.73।। Sundara Kanda,39,1,मणिं दत्त्वा ततः सीता हनूमन्तमथाब्रवीत्। अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः।।5.39.1।। Sundara Kanda,39,2,मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति। वीरो जनन्या मम च राज्ञो दशरथस्य च।।5.39.2।। Sundara Kanda,39,3,स भूयस्त्वं समुत्साहे चोदितो हरिसत्तम। अस्मिन्कार्यसमारम्भे प्रचिन्तय यदुत्तरम्।।5.39.3।। Sundara Kanda,39,4,त्वमस्मिन्कार्यनिर्योगे प्रमाणं हरिसत्तम। हनुमन्यत्नमास्थाय दुःखक्षयकरो भव।।5.39.4।। तस्य चिन्तयतो यत्नो दुःखक्षयकरो भवेत्। Sundara Kanda,39,5,स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः।।5.39.5।। शिरसा वन्ध्य वैदेहीं गमनायोपचक्रमे। Sundara Kanda,39,6,ज्ञात्वा सम्प्रस्थितं देवी वानरं मारुतात्मजम्।।5.39.6।। बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत्। Sundara Kanda,39,7,कुशलं हनुमन्ब्रूयाः सहितौ रामलक्ष्मणौ।।5.39.7।। Sundara Kanda,39,8,सुग्रीवं च सहामात्यं वृद्धान् सर्वांश्च वानरान्। ब्रूयास्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम्।।5.39.8।। Sundara Kanda,39,9,यथा स च महाबाहुर्मां तारयति राघवः। अस्माद्धुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि।।5.39.9।। Sundara Kanda,39,10,जीवन्तीं मां यथा रामः सम्भावयति कीर्तिमान्। तत्तथा हनुमन्वाच्यं वाचा धर्ममवाप्नुहि।।5.39.10।। Sundara Kanda,39,11,नित्यमुत्साहयुक्ताश्च वाचश्रुत्वा त्वयेरिताः। वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये।।5.39.11।। Sundara Kanda,39,12,मत्सन्देशयुता वाचस्त्वत्तश्श्रुत्वा च राघवः। पराक्रमविधिं वीरो विधिवत्संविधास्यति।।5.39.12।। Sundara Kanda,39,13,सीताया वचनं श्रुत्वा हनुमान्मारुतात्मजः। शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत्।।5.39.13।। Sundara Kanda,39,14,क्षिप्रमेष्यति काकुत्स्थो हार्यृक्षप्रवरैर्वृतः। यस्ते युधि विजित्यारीन्शोकं व्यपनयिष्यति।।5.39.14।। Sundara Kanda,39,15,न हि पश्यामि मर्त्येषु नासुरेषु सुरेषु वा। यस्तस्य क्षिपतो बाणान्स्थातुमुत्सहतेऽग्रतः।।5.39.15।। Sundara Kanda,39,16,अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम्। स हि सोढुं रणे शक्तस्तव हेतोर्विशेषतः।।5.39.16।। Sundara Kanda,39,17,स हि सागरपर्यन्तां महीं शासितुमीहति। त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि।।5.39.17।। Sundara Kanda,39,18,तस्य तद्वचनं श्रुत्वा सम्यक्सत्यं सुभाषितम्। जानकी बहुमेनेऽथ वचनं चेदमब्रवीत्।।5.39.18।। Sundara Kanda,39,19,ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः। भर्तृस्नेहान्वितं वाक्यं सौहार्दादनुमानयत्।।5.39.19।। Sundara Kanda,39,20,यदि वा मन्यसे वीर वसैकाहमरिन्दम। कस्मिंश्चित्संवृते देशे विश्रान्तःश्वो गमिष्यसि।।5.39.20।। Sundara Kanda,39,21,मम चेदल्पभाग्याया सान्निध्यात्तव वानर। अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत्।।5.39.21।। Sundara Kanda,39,22,गते हि हरिशार्दूल पुनरागमनाय तु। प्राणानामपि सन्देहो मम स्यान्नात्र संशयः।।5.39.22।। Sundara Kanda,39,23,तवादर्शनजः शोको भूयो मां परितापयेत्। दुःखाद्धुःखपरामृष्टां दीपयन्निव वानर।।5.39.23।। Sundara Kanda,39,24,अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः। सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वरः।।5.39.24।। Sundara Kanda,39,25,कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम्। तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ।।5.39.25।। Sundara Kanda,39,26,त्रयाणामेव भूतानां सागरस्यास्य लङ्घने। शक्तिस्स्याद्वैनतेयस्य तव वा मारुतस्य वा।।5.39.26।। Sundara Kanda,39,27,तदस्मिन्कार्यनिर्योगे वीरैवं दुरतिक्रमे। किं पश्यसि समाधानं त्वं हि कार्यविदां वरः।।5.39.27।। Sundara Kanda,39,28,काममस्य त्वमेवैकः कार्यस्य परिसाधने। पर्याप्तः परवीरघ्न यशस्यस्ते फलोदयः।।5.39.28।। Sundara Kanda,39,29,बलैस्समग्रैर्यदि मां रावणं जित्य संयुगे। विजयी स्वपुरं यायात्तत्तस्य सदृशं भवेत्।।5.39.29।। Sundara Kanda,39,30,शरैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः। मां नयेद्यदि काकुत्स्थः तत्तस्य सदृशं भवेत्।।5.39.30।। Sundara Kanda,39,31,तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः। भवेदाहवशूरस्य तथा त्वमुपपादय।।5.39.31।। Sundara Kanda,39,32,तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम्। निशम्य हनुमान्शेषं वाक्यमुत्तरमब्रवीत्।।5.39.32।। Sundara Kanda,39,33,देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः। सुग्रीवस्सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः।।5.39.33।। Sundara Kanda,39,34,स वानरसहस्राणां कोटीभिरभिसंवृतः। क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः।।5.39.34।। Sundara Kanda,39,35,तस्य विक्रमसम्पन्नास्सत्त्ववन्तो महाबलाः। मनस्सङ्कल्पसम्पाता निदेशे हरयः स्थिताः।।5.39.35।। Sundara Kanda,39,36,येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः। न च कर्मसु सीदन्ति महत्स्वमिततेजसः।।5.39.36।। Sundara Kanda,39,37,असकृत्तैर्महोत्साहैस्ससागरधराधरा। प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः।।5.39.37।। Sundara Kanda,39,38,मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः। मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ।।5.39.38।। Sundara Kanda,39,39,अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः। न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः।।5.39.39।। Sundara Kanda,39,40,तदलं परितापेन देवि शोको व्यपैतु ते। एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः।।5.39.40।। Sundara Kanda,39,41,मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ। त्वत्सकाशं महासत्त्वौ नृसिंहावागमिष्यतः।।5.39.41।। Sundara Kanda,39,42,ततो वीरौ नरवरौ सहितौ रामलक्ष्मणौ। आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः।।5.39.42।। Sundara Kanda,39,43,सगणं रावणं हत्त्वा राघवो रघुनन्दनः। त्वामादाय वरारोहे स्वपुरीं प्रतियास्यति।।5.39.43।। Sundara Kanda,39,44,तदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी। नचिराद्द्रक्ष्यसे रामं प्रज्वलन्तमिवानलम्।।5.39.44।। Sundara Kanda,39,45,निहते राक्षसेन्द्रेऽस्मिन्सपुत्रामात्यबान्धवे। त्वं समेष्वसि रामेण शशाङ्केनेव रोहिणी।।5.39.45।। Sundara Kanda,39,46,क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि। रावणं चैव रामेण निहतं द्रक्ष्यसेऽचिरात्।।5.39.46।। Sundara Kanda,39,47,एवमाश्वास्य वैदेहीं हनुमान्मारुतात्मजः। गमनाय मतिं कृत्वा वैदेहीं पुनरब्रवीत्।।5.39.47।। Sundara Kanda,39,48,तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम्। लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपागतम्।।5.39.48।। Sundara Kanda,39,49,नखदंष्ट्रायुधान्वीरान्सिम्हशार्दूलविक्रमान्। वानरान्वारणेन्द्राभान्क्षिप्रं द्रक्ष्यसि सङ्गतान्।।5.39.49।। Sundara Kanda,39,50,शैलाम्बुदनिकाशानां लङ्कामलयसानुषु। नर्दतां कपिमुख्यानामार्ये यूधान्यनेकशः।।5.39.50।। Sundara Kanda,39,51,स तु मर्मणि घोरेण ताडितो मन्मथेषुणा। न शर्म लभते रामस्सिंहार्धित इव द्विपः।।5.39.51।। Sundara Kanda,39,52,मा रुदो देवि शोकेन माभूत्ते मनसोऽप्रियम्। शचीव पत्या शक्रेण भर्त्रा नाथवती ह्यसि।।5.39.52।। Sundara Kanda,39,53,रामाद्विशिष्टः कोऽन्योऽस्ति कश्चित्सौमित्रिणा समः। अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ।।5.39.53।। Sundara Kanda,39,54,नास्मिंश्चिरं वत्स्यसि देवि देशे रक्षोगणैरध्युषितेऽतिरौद्रे। न ते चिरादामगमनं प्रियस्य क्षमस्व मत्सङ्गमकालमात्रम्।।5.39.54।। Sundara Kanda,40,1,श्रुत्वा तु वचनं तस्य वायुसूनोर्महात्मनः। उवाचात्महितं वाक्यं सीता सुरसुतोपमा।।5.40.1।। Sundara Kanda,40,2,त्वां दृष्ट्वा प्रियवक्तारं सम्प्रहृष्यामि वानरः। अर्धसञ्जातसस्येव वृष्टिं प्राप्य वसुन्धरा।।5.40.2।। Sundara Kanda,40,3,यथा तं पुरुषव्याघ्रं गात्रैश्शोकाभिकर्शितैः। संस्पृशेयं सकामाहं तथा कुरु दयां मयि।।5.40.3।। Sundara Kanda,40,4,अभिज्ञानं च रामस्य दद्या हरिगणोत्तम। क्षिप्तामिषीकां काकस्य कोपादेकाक्षिशातनीम्।।5.40.4।। Sundara Kanda,40,5,मनश्शिलायास्तिलको गण्डपार्श्वे निवेशितः। त्वया प्रणष्टे तिलके तं किल स्मर्तुमर्हसि।।5.40.5।। Sundara Kanda,40,6,स वीर्यवान्कथं सीतां हृतां समनुमन्यसे। वसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपमः।।5.40.6।। Sundara Kanda,40,7,एष चूडामणिर्दिव्यो मया सुपरिरक्षितः। एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ।।5.40.7।। Sundara Kanda,40,8,एष निर्यातितश्श्रीमान्मया ते वारिसम्भवः। अतः परं न शक्ष्यामि जीवितुं शोकलालसा।।5.40.8।। Sundara Kanda,40,9,असह्यानि च दुःखानि वाचश्च हृदयच्छिदः। राक्षसीनां सुघोराणां त्वत्कृते मर्षयाम्यहम्।।5.40.9।। Sundara Kanda,40,10,धारयिष्यामि मासं तु जीवितं शत्रुसूदन। ऊर्ध्वं मासान्न जीविष्ये त्वया हीना नृपात्मज।।5.40.10।। Sundara Kanda,40,11,घोरो राक्षसराजोऽयं दृष्टिश्च न सुखा मयि। त्वां च श्रुत्वा विपद्यन्तं न जीवेयमहं क्षणम्।।5.40.11।। Sundara Kanda,40,12,वैदेह्या वचनं श्रुत्वा करुणं साश्रु भाषितम्। अथाब्रवीन्महातेजा हनुमान्मारुतात्मजः।।5.40.12।। Sundara Kanda,40,13,त्वच्छोकविमुखो रामो देवि सत्येन ते शपे। रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते।।5.40.13।। Sundara Kanda,40,14,कथञ्चिद्भवती दृष्टा न कालः परिशोचितुम्। इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि।।5.40.14।। Sundara Kanda,40,15,तावुभौ पुरुषव्याघ्रौ राजपुत्रावरिन्दमौ। त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः।।5.40.15।। Sundara Kanda,40,16,हत्त्वा च समरे क्रूरं रावणं सहबान्धवम्। राघवौ त्वां विशालाक्षि स्वां पुरीं प्रापयिष्यतः।।5.40.16।। Sundara Kanda,40,17,यत्तु रामो विजानीयादभिज्ञानमनिन्दिते। प्रीतिसञ्जननं तस्य भूयस्त्वं दातुमर्हसि।।5.40.17।। Sundara Kanda,40,18,साब्रवीद्दत्तमेवेति मयाभिज्ञानमुत्तमम्। एतदेव हि रामस्य दृष्ट्वा मत्केशभूषणम्।।5.40.18।। श्रद्धेयं हनुमन्वाक्यं तव वीर भविष्यति। Sundara Kanda,40,19,स तं मणिवरं गृह्य श्रीमान्प्लवगसत्तमः।।5.40.19।। प्रणम्य शिरसा देवीं गमनायोपचक्रमे। Sundara Kanda,40,20,तमुत्पातकृतोत्साहमवेक्ष्य हरिपुङ्गवम्।।5.40.20।। Sundara Kanda,40,21,वर्धमानं महावेगमुवाच जनकात्मजा। अश्रुपूर्णमुखी दीना बाष्पगद्गदया गिरा।।5.40.21।। Sundara Kanda,40,22,हनुमन्सिंहसङ्काशौ भ्रातरौ रामलक्ष्मणौ। सुग्रीवं च सहामात्यं सर्वान् ब्रूयाह्यनामयम्।।5.40.22।। Sundara Kanda,40,23,यथा च स महाबाहुर्मां तारयति राघवः। अस्माद्दु:खाम्बुसम्रोधात्त्वं समाधातुमर्हसि।।5.40.23।। Sundara Kanda,40,24,इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च। ब्रूयास्तु रामस्य गतस्समीपम् शिवश्च तेऽध्वाऽस्तु हरिप्रवीर।।5.40.24।। Sundara Kanda,40,25,स राजपुत्र्य्राप्रतिवेदितार्थः कपिः कृतार्थः परिहृष्टचेताः। अल्पावशेषं प्रसमीक्ष्य कार्यं दिशं ह्युदीचीं मनसा जगाम।।5.40.25।। Sundara Kanda,41,1,स च वाग्भिः प्रशस्ताभिर्गमिष्यन्पूजितस्तया। तस्माद्देशादपक्रम्य चिन्तयामास वानरः।।5.41.1।। Sundara Kanda,41,2,अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा। त्रीनुपायानतिक्रम्य चतुर्थ: इह विद्यते।।5.41.2।। Sundara Kanda,41,3,न साम रक्षस्सु गुणाय कल्पते न दानमर्थोपचितेषु युज्यते। न भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेव ममेह रोचते।।5.41.3।। Sundara Kanda,41,4,न चास्य कार्यस्य पराक्रमादृते विनिश्चयः कश्चिदिहोपपद्यते। हतप्रवीरा हि रणे हि राक्षसाः कथञ्चिदीयुर्यदिहाद्य मार्दवम्।।5.41.4।। Sundara Kanda,41,5,कार्ये कर्मणि निर्दिष्टे यो बहून्यपि साधयेत्। पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति।।5.41.5।। Sundara Kanda,41,6,न ह्येकस्साधको हेतुस्स्वल्पस्यापीह कर्मणः। यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने।।5.41.6।। Sundara Kanda,41,7,इहैव तावत्कृतनिश्चयो ह्यहं यदि व्रजेयं प्लवगेश्वरालयम्। परात्मसम्मर्दविशेषतत्त्ववित्ततः कृतं स्यान्मम भर्तृशासनम्।।5.41.7।। Sundara Kanda,41,8,कथं नु खल्वद्य भवेत्सुखागतं प्रसह्य युद्धं मम राक्षसैः सह। तथैव खल्वात्मबलं च सारवत्सम्मानयेन्मां च रणे दशाननः।।5.41.8।। Sundara Kanda,41,9,ततस्समासाद्य रणे दशाननं समन्त्रिवर्गं सबलप्रयायिनम्। हृदि स्थितं तस्य मतं बलं च वै सुखेन मत्त्वाऽहमितः पुनर्व्रजे।।5.41.9।। Sundara Kanda,41,10,इदमस्य नृशंसस्य नन्दनोपममुत्तमम्। वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम्।।5.41.10।। Sundara Kanda,41,11,इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः। अस्मिन्भग्ने ततः कोपं करिष्यति दशाननः।।5.41.11।। Sundara Kanda,41,12,ततो महत्साश्वमहारथद्विपं बलं समादेक्ष्यति राक्षसाधिपः। त्रिशूलकालायसपट्टिसायुधं ततो महद्युद्धमिदं भविष्यति।।5.41.12।। Sundara Kanda,41,13,अहं तु तैः संयति चण्डविक्रमै स्समेत्य रक्षोभिरसह्य विक्रमः। निहत्य तद्रावणचोदितं बलं सुखं गमिष्यामि कपीश्वरालयम्।।5.41.13।। Sundara Kanda,41,14,ततो मारुतवत्कृद्धो मारुतिर्भीमविक्रमः। ऊरुवेगेन महता द्रुमान्क्षेप्तुमथारभत्।।5.41.14।। Sundara Kanda,41,15,ततस्तु हनुमान्वीरो बभञ्ज प्रमदावनम्। मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम्।।5.41.15।। Sundara Kanda,41,16,तद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः। चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम्।।5.41.16।। Sundara Kanda,41,17,नानाशकुन्तविरुतैः प्रभिन्नैस्सलिलाशयैः। ताम्रैः किसलयैः क्लान्तै: क्लान्तद्रुमलतायुतम्।।5.41.17।। Sundara Kanda,41,18,न बभौ तद्वनं तत्र दावानलहतं यथा। व्याकुलावरणा रेजुर्विह्वला इव ता लताः।।5.41.18।। Sundara Kanda,41,19,लतागृहैश्चित्रगृहैश्च नाशितैर्महोरगैर्व्यालमृगैश्च निर्धुतैः। शिलागृहैरुन्मथितैस्तथा गृहैः प्रणष्टरूपं तदभून्महद्वनम्।।5.41.19।। Sundara Kanda,41,20,सा विह्वलाऽशोकलताप्रताना वनस्थली शोकलताप्रताना। जाता दशास्यप्रमदावनस्य कपेर्बलाद्धि प्रमदावनस्य।।5.41.20।। Sundara Kanda,41,21,स तस्य कृत्वार्थपतेर्महाकपिर्महद्व्यलीकं मनसो महात्मनः। युयुत्सुरेको बहुभिर्महाबलैश्शिया ज्वलंस्तोरणमास्थितः कपिः।।5.41.21।। Sundara Kanda,42,1,ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च। बभूवुस्त्राससम्भ्रान्तास्सर्वे लङ्कानिवासिनः।।5.42.1।। Sundara Kanda,42,2,विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षिणः। रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे।।5.42.2।। Sundara Kanda,42,3,ततो गतायां निद्रायां राक्षस्यो विकृताननाः। तद्वनं ददृशुर्भग्नं तं च वीरं महाकपिम्।।5.42.3।। Sundara Kanda,42,4,स ता दृष्ट्वा महाबाहुर्महासत्त्वो महाबलः। चकार सुमहद्रूपं राक्षसीनां भयावहम्।।5.42.4।। Sundara Kanda,42,5,ततस्तं गिरिसङ्काशमतिकायं महाबलम्। राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम्।।5.42.5।। Sundara Kanda,42,6,कोऽयं कस्य कुतो वायं किं निमित्तमिहागतः। कथं त्वया सहानेन संवादः कृत इत्युत।।5.42.6।। Sundara Kanda,42,7,आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम्। संवादमसितापाङ्गे त्वया किं कृतवानयम्।।5.42.7।। Sundara Kanda,42,8,अथाब्रवीन्महासाध्वी सीता सर्वाङ्गसुन्दरी। रक्षसां भीमरूपाणां विज्ञाने मम का गतिः।।5.42.8।। Sundara Kanda,42,9,यूयमेवाभिजानीत योऽयं यद्वा करिष्यति। अहिरेव ह्यहेः पादान्विजानाति न संशयः।।5.42.9।। Sundara Kanda,42,10,अहमप्यस्य भीतास्मि नैनं जानामि को न्वयं। वेद्मि राक्षसमेवैनं कामरूपिणमागतम्।।5.42.10।। Sundara Kanda,42,11,वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता दिशः। स्थिताः काश्चिद्गताः काश्चिद्रावणाय निवेदितुम्।।5.42.11।। Sundara Kanda,42,12,रावणस्य समीपे तु राक्षस्यो विकृताननाः। विरूपं वानरं भीममाख्यातुमुपचक्रमुः।।5.42.12।। Sundara Kanda,42,13,अशोकवनिकामध्ये राजन्भीमवपुः कपिः। सीतया कृतसंवादस्तिष्ठत्यमितविक्रमः।।5.42.13।। Sundara Kanda,42,14,न च तं जानकी सीता हरिं हरिणलोचना। अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छति।।5.42.14।। Sundara Kanda,42,15,वासवस्य भवेद्दूतो दूतो वैश्रवणस्य वा। प्रेषितो वापि रामेण सीतान्वेषणकाङ्क्षया।।5.42.15।। Sundara Kanda,42,16,तेन त्वद्भुतरूपेण यत्तत्तव मनोहरम्। नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम्।।5.42.16।। Sundara Kanda,42,17,न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः। यत्र सा जानकी सीता स तेन न विनाशितः।।5.42.17।। Sundara Kanda,42,18,जानकीरक्षणार्थं वा श्रमाद्वा नोपलभ्यते। अथवा कश्श्रमस्तस्य सैव तेनाभिरक्षिता।।5.42.18।। Sundara Kanda,42,19,चारुपल्लवपुष्पाढ्यं यं सीता स्वयमास्थिता। प्रवृद्धश्शिंशुपावृक्ष स्स च तेनाभिरक्षितः।।5.42.19।। Sundara Kanda,42,20,तस्योग्ररूपस्योग्र त्वं दण्डमाज्ञातुमर्हसि। सीता सम्भाषिता येन तद्वनं च विनाशितम्।।5.42.20।। Sundara Kanda,42,21,मनः परिगृहीतां तां तव रक्षोगणेश्वर। कस्सीतामभिभाषेत यो न स्यात्त्यक्तजीवितः।।5.42.21।। Sundara Kanda,42,22,राक्षसीनां वचश्त्रुत्वा रावणो राक्षसेश्वरः। हुताग्निरिव जज्वाल कोपसंवर्तितेक्षणः।।5.42.22।। Sundara Kanda,42,23,तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नास्रबिन्दवः। दीप्ताभ्यामिव दीपाभ्यां सार्चिष स्स्नेहबिन्दवः।।5.42.23।। Sundara Kanda,42,24,आत्मनस्सदृशान्शूरान्किङ्करान्नाम राक्षसान्। व्यादिदेश महातेजा निग्रहार्थं हनूमतः।।5.42.24।। Sundara Kanda,42,25,तेषामशीतिसाहस्रं किङ्कराणां तरस्विनाम्। निर्ययुर्भवनात्तस्मात्कूटमुद्गरपाणयः।।5.42.25।। Sundara Kanda,42,26,महोदरा महादंष्ट्रा घोररूपा महाबलाः। युद्धाभिमनसस्सर्वे हनुमद्ग्रहणोद्यताः।।5.42.26।। Sundara Kanda,42,27,ते कपीन्द्रं समासाद्य तोरणस्थमवस्थितम्। अभिपेतुर्महावेगाः पतङ्गा इव पावकम्।।5.42.27।। Sundara Kanda,42,28,ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः। आजघ्नुर्वानरश्रेष्ठं शरैश्चादित्यसन्निभैः।।5.42.28।। Sundara Kanda,42,29,मुद्गरैः पट्टिशैश्शूलैः प्रासतोमरशक्तिभिः। परिवार्य हनूमन्तं सहसा तस्थुरग्रतः।।5.42.29।। Sundara Kanda,42,30,हनुमानपि तेजस्वी श्रीमान्पर्वतसन्निभः। क्षितावाविध्य लाङ्गूलं ननाद च महास्वनम्।।5.42.30।। Sundara Kanda,42,31,स भूत्वा सुमहाकायो हनुमान्मारुतात्मजः। धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन्।।5.42.31।। Sundara Kanda,42,32,तस्यास्फोटितशब्देन महता सानुनादिना। पेतुर्विहङ्गा गगनादुच्चैश्चेदमघोषयत्।।5.42.32।। Sundara Kanda,42,33,जयत्यतिबलो रामो लक्ष्मणश्च महाबलः। राजा जयति सुग्रीवो राघवेणाभिपालितः।।5.42.33।। Sundara Kanda,42,34,दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः। हनुमान्शत्रुसैन्यानां निहन्ता मारुतात्मजः।।5.42.34।। Sundara Kanda,42,35,न रावणसहस्रं मे युद्धे प्रतिबलं भवेत्। शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः।।5.42.35।। Sundara Kanda,42,36,अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम्। समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम्।।5.42.36।। Sundara Kanda,42,37,तस्य सन्नादशब्देन तेऽभवन्भयशङ्किताः। ददृशुश्च हनूमन्तं सन्ध्यामेघमिवोन्नतम्।।5.42.37।। Sundara Kanda,42,38,स्वामिसन्देशनिश्शङ्कास्ततस्ते राक्षसाः कपिम्। चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः।।5.42.38।। Sundara Kanda,42,39,स तैः परिवृतश्शूरैस्सर्वतस्सुमहाबलः। आससादाऽयसं भीमं परिघं तोरणाश्रितम्।।5.42.39।। Sundara Kanda,42,40,स तं परिघमादाय जघान रजनीचरान्। स पन्नगमिवादाय स्फुरन्तं विनतासुतः।।5.42.40।। विचचाराम्बरे वीरः परिगृह्य च मारुतिः। Sundara Kanda,42,41,स हत्वा राक्षसान्वीरान्किङ्करान्मारुतात्मजः।।5.42.41।। युद्धाकाङ्क्षी पुनर्वीरस्तोरणं समुपाश्रितः। Sundara Kanda,42,42,ततस्तस्माद्भयान्मुक्ताः कतिचित्तत्र राक्षसाः।।5.42.42।। निहतान्किङ्करान्सर्वान्रावणायन्यवेदयन्। Sundara Kanda,42,43,स राक्षसानां निहतं महद्बलं निशम्य राजा परिवृत्तलोचनः। समादिदेशाप्रतिमं पराक्रमे प्रहस्तपुत्रं समरे सुदुर्जयम्।।5.42.43।। Sundara Kanda,43,1,ततस्स किङ्करान्हत्वा हनुमान्ध्यानमास्थितः। वनं भग्नं मया चैत्यप्रासादो न विनाशितः।।5.43.1।। Sundara Kanda,43,2,तस्मात्प्रासादमप्येवं भीमं विध्वंसयाम्यहं। इति सञ्चिन्त्य मनसा हनुमान्दर्शयन्बलम्।।5.43.2।। Sundara Kanda,43,3,चैत्यप्रासादमाप्लुत्य मेरुशृङ्गमिवोन्नतम्। आरुरोह कपिश्रेष्ठो हनुमान्मारुतात्मजः।।5.43.3।। Sundara Kanda,43,4,आरुह्य गिरिसङ्काशं प्रासादं हरियूथपः। बभौ स सुमहातेजाः प्रतिसूर्य इवोदितः।।5.43.4।। Sundara Kanda,43,5,संप्रधृष्य च दुर्धर्षं चैत्यप्रासादमुत्तमम्। हनुमान्प्रज्वलन्लक्ष्म्या पारियात्रोपमोऽभवत्।।5.43.5।। Sundara Kanda,43,6,स भूत्वा सुमहाकायः प्रभावान्मारुतात्मजः। धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन्।।5.43.6।। Sundara Kanda,43,7,तस्यास्फोटितशब्देन महता श्रोत्रघातिना। पेतुर्विहङ्गमास्तत्र चैत्यपालाश्च मोहिताः।।5.43.7।। Sundara Kanda,43,8,अस्त्रविज्जयतां रामो लक्ष्मणश्च महाबलः। राजा जयति सुग्रीवो राघवेणाभिपालितः।।5.43.8।। Sundara Kanda,43,9,दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः। हनुमान्शत्रुसैन्यानां निहन्ता मारुतात्मजः।।5.43.9।। Sundara Kanda,43,10,न रावणसहस्रं मे युद्धे प्रतिबलं भवेत्। शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः।।5.43.10।। Sundara Kanda,43,11,अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम्। समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम्।।5.43.11।। Sundara Kanda,43,12,एवमुक्त्वा विमानस्थश्चैत्यस्थान्हरियूथपः। ननाद भीमनिर्ह्रादो रक्षसां जनयन्भयम्।।5.43.12।। Sundara Kanda,43,13,तेन शब्देन महता चैत्यपालाश्शतं ययुः। गृहीत्वा विविधानस्त्रान्प्रासान्खङ्गान्परश्वथान्।।5.43.13।। विसृजन्तो महाकाया मारुतिं पर्यवारयन्। Sundara Kanda,43,14,ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः। आजघ्नुर्वानरश्रेष्ठं बाणैश्चादित्यसन्निभैः।।5.43.14।। Sundara Kanda,43,15,आवर्त इव गङ्गायास्तोयस्य विपुलो महान्। परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः।।5.43.15।। Sundara Kanda,43,16,ततो वातात्मजः क्रुद्धो भीम रूपं समास्थितः।।5.43.16।। Sundara Kanda,43,17,प्रासादस्य महन्तस्य स्तम्बं हेमपरिष्कृतम्। उत्पाटयित्वा वेगेन हनुमान्पवनात्मजः।।5.43.17।। ततस्तं भ्रामयामास शतधारं महाबलः। Sundara Kanda,43,18,तत्र चाग्निस्समभवत्प्रासादश्चाप्यदह्यत।।5.43.18।। Sundara Kanda,43,19,दह्यमानं ततो दृष्ट्वा प्रासादं हरियूथपः। स राक्षसशतं हत्त्वा वज्रेणेन्द्र इवासुरान्।।5.43.19।। अन्तरिक्षे स्थितश्श्तीमानिदं वचनमब्रवीत्। Sundara Kanda,43,20,मादृशानां सहस्राणि विसृष्टानि महात्मनाम्।।5.43.20।। Sundara Kanda,43,21,बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम्। अटन्ति वसुधां कृत्स्नां वयमन्ये च वानराः।।5.43.21।। Sundara Kanda,43,22,दशनागबलाः केचित्केचिद्दशगुणोत्तराः। केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः।।5.43.22।। Sundara Kanda,43,23,सन्ति चौघबलाः केचित्केचिद्वायुबलोपमाः। अप्रमेयबलाश्चान्ये तत्रासन्हरियूथपाः।।5.43.23।। Sundara Kanda,43,24,ईदृग्विधैस्तु हरिभिर्वृतो दन्तनखायुधैः। शतैश्शतसहस्रैश्च कोटीभिरयुतैरपि।।5.43.24।। आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः। Sundara Kanda,43,25,नेयमस्ति पुरी लङ्का न यूयं न च रावणः।5.43.25।। यस्मादिक्ष्वाकुनाथेन बद्धं वैरं महात्मना। Sundara Kanda,44,1,सन्दिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली। जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः।।5.44.1।। Sundara Kanda,44,2,रक्तमाल्याम्बरधरस्स्रग्वी रुचिरकुण्डलः। महान्विवृत्तनयनश्चण्डस्समरदुर्जयः।।5.44.2।। Sundara Kanda,44,3,धनुश्शक्रधनुः प्रख्यं महद्रुचिरसायकम्। विष्फारयाणो वेगेन वज्राशनिसमस्वनम्।।5.44.3।। Sundara Kanda,44,4,तस्य विष्फारघोषेण धनुषो महता दिशः। प्रदिशश्च नभश्चैव सहसा समपूर्यत।।5.44.4।। Sundara Kanda,44,5,रथेन खरयुक्तेन तमागतमुदीक्ष्य सः। हनुमान्वेगसम्पन्नो जहर्ष च ननाद च।।5.44.5।। Sundara Kanda,44,6,तं तोरणविटङ्कस्थं हनुमन्तं महाकपिम्। जम्बुमाली महाबाहुर्विव्याध निशितैश्शरैः।।5.44.6।। Sundara Kanda,44,7,अर्धचन्द्रेण वदने शिरस्येकेन कर्णिना। बाह्वोर्विव्याध नाराचैर्दशभिस्तं कपीश्वरम्।।5.44.7।। Sundara Kanda,44,8,तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम्। शरदीवाम्बुजं फुल्लं विद्धं भास्कररश्मिना।।5.44.8।। Sundara Kanda,44,9,तत्तस्य रक्तं रक्तेन रञ्जितं शुशुभे मुखम्। यथाकाशे महापद्मं सिक्तं चन्दनबिन्दुभिः।।5.44.9।। Sundara Kanda,44,10,चुकोप बाणाभिहतो राक्षसस्य महाकपिः। ततः पार्श्वेऽतिविपुलां ददर्श महतीं शिलाम्।।5.44.10।। Sundara Kanda,44,11,तरसा तां समुत्पाट्य चिक्षेप बलवद्भली। तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः।।5.44.11।। Sundara Kanda,44,12,विपन्नं कर्म तद्दृष्ट्वा हनुमांश्चण्डविक्रमः। सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान्।।5.44.12।। Sundara Kanda,44,13,भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम्। चिक्षेप सुबहून्बाणान्जम्बुमाली महाबलः।।5.44.13।। Sundara Kanda,44,14,सालं चतुर्भिश्चिच्छेद वानरं पञ्चभिर्भुजे। उरस्येकेन बाणेन दशभिस्तु स्तनान्तरे।।5.44.14।। Sundara Kanda,44,15,स शरैः पूरिततनु: क्रोधेन महता वृतः। तमेव परिघं गृह्य भ्रामयामास वेगितः।।5.44.15।। Sundara Kanda,44,16,अतिवेगोऽतिवेगेन भ्रामयित्वा बलोत्कटः। परिघं पातयामास जम्बुमालेर्महोरसि।।5.44.16।। Sundara Kanda,44,17,तस्य चैव शिरो नास्ति न बाहू न च जानुनी। न धनुर्न रथो नाश्वास्तत्रादृश्यन्त नेषवः।।5.44.17।। Sundara Kanda,44,18,स हतस्सहसा तेन जम्बुमाली महाबलः। पपात निहतो भूमौ चूर्णिताङ्गविभूषणः।।5.44.18।। Sundara Kanda,44,19,जम्बुमालिं च निहतं किङ्करांश्च महाबलान्। चुक्रोध रावणश्शुत्वा कोपसंरक्तलोचनः।।5.44.19।। Sundara Kanda,44,20,स रोषसंवर्तितताम्रलोचनः प्रहस्तपुत्त्रे निहते महाबले। अमात्यपुत्त्रानतिवीर्यविक्रमान् समादिदेशाशु निशाचरेश्वरः।।5.44.20।। Sundara Kanda,45,1,ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणस्सुताः। निर्ययुर्भवनात्तस्मात्सप्तसप्तार्चिवर्चसः।।5.45.1।। Sundara Kanda,45,2,महाबलपरीवारा धनुष्मन्तो महाबलाः। कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः।।5.45.2।। Sundara Kanda,45,3,हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः। तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः।।5.45.3।। Sundara Kanda,45,4,तप्तकाञ्चनचित्राणि चापान्यमितविक्रमाः। विस्फारयन्तस्संहृष्टास्तटित्वन्त इवाम्बुदाः।।5.45.4।। Sundara Kanda,45,5,जनन्यस्तु ततस्तेषां विदित्वा किङ्करान्हतान्। बभूवुश्शोकसम्भ्रान्तास्सबान्धवसुहृज्जनाः।।5.45.5।। Sundara Kanda,45,6,ते परस्परसङ्घर्षात्तप्तकाञ्चनभूषणाः। अभिपेतुर्हनूमन्तं तोरणस्थमवस्थितम्।।5.45.6।। Sundara Kanda,45,7,सृजन्तो बाणवृष्टिं ते रथगर्जितनिस्स्वनाः। वृष्टिमन्त इवांभोदा विचेरुर्नैऋताम्बुदाः।।5.45.7।। Sundara Kanda,45,8,अवकीर्णस्ततस्ताभिर्हनुमान्शरवृष्टिभिः। अभवत्संवृताकारश्शैलराडिव वृष्टिभिः।।5.45.8।। Sundara Kanda,45,9,स शरान्मोघयामास तेषामाशुचरः कपिः। रथवेगं च वीराणां विचरन्विमलेऽम्बरे।।5.45.9।। Sundara Kanda,45,10,स तैः क्रीडन्धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते। धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम्बरे।।5.45.10।। Sundara Kanda,45,11,स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम्। चकार हनुमान्वेगं तेषु रक्षस्सु वीर्यवान्।।5.45.11।। Sundara Kanda,45,12,तलेनाभ्यहनत्कांश्चित्पादैः कांश्चित्परन्तपः। मुष्टिनाभ्यहनत्कांश्चिन्नखैः कांश्चिद्व्यदारयत्।।5.45.12।। Sundara Kanda,45,13,प्रममाथोरसा कांश्चिदूरुभ्यामपरान्कपिः। केचित्तस्य निनादेन तत्रैव पतिता भुवि।।5.45.13।। Sundara Kanda,45,14,ततस्तेष्ववसन्नेषु भूमौ निपतितेषु च। तत्सैन्यमगमत्सर्वं दिशोदश भयार्दितम्।।5.45.14।। Sundara Kanda,45,15,विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः। भग्ननीडध्वजच्छत्रैर्भूश्च कीर्णाऽभवद्रथैः।।5.45.15।। Sundara Kanda,45,16,स्रवता रुधिरेणाथ स्रवन्त्यो दर्शिताः पथि। विविधैश्च स्वरैर्लङ्का ननाद विकृतं तदा।।5.45.16।। Sundara Kanda,45,17,स तान्प्रवृद्धान्विनिहत्य राक्षसान् महाबलश्चण्डपराक्रमः कपिः। युयुत्सुरन्यैः पुनरेव राक्षसै स्तमेव वीरोऽभिजगाम तोरणम्।।5.45.17।। Sundara Kanda,46,1,हतान्मन्त्रिसुतान् बुद्ध्वा वानरेण महात्मना। रावणस्संवृताकारश्चकार मतिमुत्तमाम्।।5.46.1।। Sundara Kanda,46,2,स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसम्। प्रघसं भासकर्णं च पञ्चसेनाग्रनायकान्।।5.46.2।। Sundara Kanda,46,3,सन्दिदेश दशग्रीवो वीरान्नयविशारदान्। हनुमद्ग्रहणव्यग्रान्वायुवेगसमान्युधि।।5.46.3।। Sundara Kanda,46,4,यात सेनाग्रगास्सर्वे महाबलपरिग्रहाः। सवाजिरथमातङ्गास्स कपिश्शास्यतामिति।।5.46.4।। Sundara Kanda,46,5,यत्नैश्च खलु भाव्यं स्यात्तमासाद्य वनालयम्। कर्म चापि समाधेयं देशकालाविरोधिनम्।।5.46.5।। Sundara Kanda,46,6,न ह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन्। सर्वथा तन्महद्भूतं महाबलपरिग्रहम्।।5.46.6।। Sundara Kanda,46,7,भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात्। सनागयक्षगन्धर्वा देवासुरमहर्षयः।।5.46.7।। Sundara Kanda,46,8,युष्माभिस्सहितैस्सर्वैर्मया सह विनिर्जिताः। तैरवश्यं विधातव्यं व्यलीकं किञ्चिदेव नः।।5.46.8।। Sundara Kanda,46,9,तदेव नात्र सन्देहः प्रसह्य परिगृह्यताम्। नावमान्यो भवद्भिश्च हरिर्धीरपराक्रमः।।5.46.9।। Sundara Kanda,46,10,दृष्टा हि हरयः पूर्वं मया विपुलविक्रमाः। वाली च सहसुग्रीवो जाम्बवांश्च महाबलः।।5.46.10।। Sundara Kanda,46,11,नीलस्सेनापतिश्चैव ये चान्ये द्विविदादयः। नैवं तेषां गतिर्भीमा न तेजो न पराक्रमः।।5.46.11।। न मतिर्न बलोत्साहौ न रूपपरिकल्पनम्। Sundara Kanda,46,12,महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम्।।5.46.12।। प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः। Sundara Kanda,46,13,कामं लोकास्त्रयस्सेन्द्रास्ससुरासुरमानवाः।।5.46.13।। भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे। Sundara Kanda,46,14,तथापि तु नयज्ञेन जयमाकाङ्क्षता रणे।।5.46.14।। आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला। Sundara Kanda,46,15,ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः।।5.46.15।। Sundara Kanda,46,16,समुत्पेतुर्महावेगा हुताशसमतेजसः। रथैर्मत्तैश्च मातङ्गैर्वाजिभिश्च महाजवैः।।5.46.16।। शस्त्रैश्च विविधैस्तीक्ष्णैस्सर्वैश्चोपचिता बलैः। Sundara Kanda,46,17,ततस्तं ददृशुर्वीरा दीप्यमानं महाकपिम्।।5.46.17।। Sundara Kanda,46,18,रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम्। तोरणस्थं महोत्साहं महासत्त्वं महाबलम्।।5.46.18।। Sundara Kanda,46,19,महामतिं महावेगं महाकायं महाबलम्। तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः।।5.46.19।। तै स्तै: प्रहरणैर्भीमैरभिपेतुस्ततस्ततः। Sundara Kanda,46,20,तस्य पञ्चायसास्तीक्ष्णाश्शिताः पीतमुखाश्शराः।।5.46.20।। शिरस्युत्पलपत्राभा दुर्धरेण निपातिताः। Sundara Kanda,46,21,स तैः पञ्चभिराविद्धश्शरैश्शिरसि वानरः।।5.46.21।। उत्पपात नदन् व्योम्नि दिशो दश विनादयन्। Sundara Kanda,46,22,ततस्तु दुर्धरो वीरस्सरथस्सज्यकार्मुकः।।5.46.22।। किरन् शरशतैस्तीक्ष्णैरभिपेदे महाबलः। Sundara Kanda,46,23,स कपिर्वारयामास तं व्योम्नि शरवर्षिणम्।।5.46.23।। वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः। Sundara Kanda,46,24,अर्ध्यमानस्ततस्तेन दुर्धरेणानिलात्मजः।।5.46.24।। चकार कदनं भूयो व्यवर्धत च वेगवान्। Sundara Kanda,46,25,स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः।।5.46.25।। निपपात महावेगो विद्युद्राशिर्गिराविव। Sundara Kanda,46,26,ततस्स मथिताष्टाश्वं रथं भग्नाक्षकूबरम्।।5.46.26।। विहाय न्यपतद्भूमौ दुर्धरस्त्यक्तजीवितः। Sundara Kanda,46,27,तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि।।5.46.27।। सञ्जातरोषौ दुर्धर्षावुत्पेतुररिन्दमौ। Sundara Kanda,46,28,स ताभ्यां सहसोत्पत्य विष्ठितो विमलेऽम्बरे।।5.46.28।। मुद्गराभ्यां महाबाहुर्वक्षस्यभिहतः कपिः। Sundara Kanda,46,29,तयोर्वेगवतोर्वेगं विनिहत्य महाबलः।।5.46.29।। निपपात पुनर्भूमौ सुपर्णसमविक्रमः। Sundara Kanda,46,30,स सालवृक्षमासाद्य तमुत्पाट्य च वानरः।।5.46.30।। तावुभौ राक्षसौ वीरौ जघान पवनात्मजः। Sundara Kanda,46,31,ततस्तांस्त्रीन्हतान्ज्ञात्वा वानरेण तरस्विना।।5.46.31।। Sundara Kanda,46,32,अभिपेदे महावेगः प्रसह्य प्रघसो हरिम्। भासकर्णश्च सङ्कृद्धश्शूलमादाय वीर्यवान्।।5.46.32।। Sundara Kanda,46,33,एकतः कपिशार्दूलं यशस्विनमवस्थितम्। पट्टिसेन शिताग्रेण प्रघसः प्रत्ययोधयत्।।5.46.33।। भासकर्णश्च शूलेन राक्षसः कपिसत्तमम्। Sundara Kanda,46,34,स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः।।5.46.34।। अभवद्वानरः क्रुद्धो बालसूर्यसमप्रभः। Sundara Kanda,46,35,समुत्पाट्य गिरेश्शृङ्गं समृगव्यालपादपम्।।5.46.35।। जघान हनुमान् वीरो राक्षसौ कपिकुञ्जरः। Sundara Kanda,46,36,ततस्तेष्ववसन्नेषु सेनापतिषु पञ्चसु।।5.46.36।। बलं तदवशेषं च नाशयामास वानरः। Sundara Kanda,46,37,अश्वैरश्वान् गजैर्नागान् योधैर्योधान् रथैरथान्।।5.46.37।। स कपिर्नाशयामास सहस्राक्ष इवासुरान्। Sundara Kanda,46,38,हतैर्नागैश्च तुरगैर्भग्नाक्षैश्च महारथैः।।5.46.38।। हतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः। Sundara Kanda,46,39,ततः कपिस्तान्ध्वजिनीपतीन् रणे निहत्य वीरान्सबलान्सवाहनान्। समीक्ष्य वीरः परिगृह्य तोरणं कृतक्षणः काल इव प्रजाक्षये।।5.46.39।। Sundara Kanda,47,1,सेनापतीन्पञ्च स तु प्रमापितान् हनूमता सानुचरान्सवाहनान्। समीक्ष्य राजा समरोद्धतोन्मुखं कुमारमक्षं प्रसमैक्षताग्रतः।।5.47.1।। Sundara Kanda,47,2,स तस्य दृष्ट्यर्पणसम्प्रचोदितः प्रतापवान्काञ्चनचित्रकार्मुकः। समुत्पपाताथ सदस्युदीरितो द्विजातिमुख्यैर्हविषेव पावकः।।5.47.2।। Sundara Kanda,47,3,ततो महद्बालदिवाकरप्रभं प्रतप्तजाम्बूनदजालसन्ततम्। रथं समास्थाय ययौ स वीर्यवान्महाहरिं तं प्रति नैरृतर्षभः।।5.47.3।। Sundara Kanda,47,4,ततस्तपस्सङ्ग्रहसञ्चयार्जितं प्रतप्तजाम्बूनदजालशोभितम्। पताकिनं रत्नविभूषितध्वजं मनोजवाष्टाश्ववरैः सुयोजितम्।।5.47.4।। Sundara Kanda,47,5,सुरासुराधृष्यमसङ्गचारिणं रविप्रभं व्योमचरं समाहितम्। सतूणमष्टासिनिबद्धबन्धुरं यथाक्रमावेशितशक्तितोमरम्।।5.47.5।। Sundara Kanda,47,6,विराजमानं प्रतिपूर्णवस्तुना सहेमदाम्ना शशिसूर्यवर्चसा। दिवाकराभं रथमास्थितस्ततस्स निर्जगामामरतुल्यविक्रमः।।5.47.6।। Sundara Kanda,47,7,स पूरयन्खं च महीं च साचलां तुरङ्गमातङ्गमहारथस्वनैः। बलैस्समेतैस्सहि तोरणस्थितं समर्थमासीनमुपागमत्कपिम्।।5.47.7।। Sundara Kanda,47,8,स तं समासाद्य हरिं हरीक्षणो युगान्तकालाग्निमिव प्रजाक्षये। अवस्थितं विस्मितजातसम्भ्रम स्समैक्षताक्षो बहुमानचक्षुषा।।5.47.8।। Sundara Kanda,47,9,स तस्य वेगं च कपेर्महात्मनः पराक्रमं चारिषु पार्थिवात्मजः। विचारयन्स्वं च बलं महाबलो हिमक्षये सूर्य इवाभिवर्धते।।5.47.9।। Sundara Kanda,47,10,स जातमन्युः प्रसमीक्ष्य विक्रमं स्थिरं स्थिरस्सम्यति दुर्निवारणम्। समाहितात्मा हनुमन्तमाहवे प्रचोदयामास शरैस्त्रिभि श्शितैः।।5.47.10।। Sundara Kanda,47,11,ततः कपिं तं प्रसमीक्ष्य गर्वितं जितश्रमं शत्रुपराजयोर्जितम्। अवैक्षताक्षस्समुदीर्णमानसस्सबाणपाणिः प्रगृहीतकार्मुकः।।5.47.11।। Sundara Kanda,47,12,स हेमनिष्काङ्गदचारुकुण्डल स्समाससादाऽशुपराक्रमः कपिम्। तयोर्बभूवाप्रतिमस्समागम स्सुरासुराणामपि सम्भ्रमप्रदः।।5.47.12।। Sundara Kanda,47,13,ररास भूमिर्न तताप भानुमा न्वनौ न वायुः प्रचाचल चाचलः। कपेः कुमारस्य च वीक्ष्य संयुगं ननाद च द्यौरुदधिश्च चुक्षुभे।।5.47.13।। Sundara Kanda,47,14,ततस्स वीरस्सुमुखान् पतत्रिणस्सुवर्णपुङ्खान्सविषानिवोरगान्। समाधिसम्योगविमोक्षतत्त्वविच्छरानथ त्रीन्कपिमूर्ध्न्यपातयत्।।5.47.14।। Sundara Kanda,47,15,स तै श्शरैर्मूर्ध्नि समं निपातितैः क्षरन्नसृग्दिग्धविवृत्तलोचनः। नवोदितादित्यनिभ श्शरांशुमान् व्यराजतादित्य इवांशुमालिकः।।5.47.15।। Sundara Kanda,47,16,ततस्स पिङ्गाधिपमन्त्रिसत्तमः समीक्ष्य तं राजवरात्मजं रणे। उदग्रचित्रायुधचित्रकार्मुकं जहर्ष चापूर्यत चाहवोन्मुखः।।5.47.16।। Sundara Kanda,47,17,स मन्दराग्रस्थ इवांशुमालिको विवृद्धकोपो बलवीर्यसंयुतः। कुमारमक्षं सबलं सवाहनं ददाह नेत्राग्निमरीचिभिस्तदा।।5.47.17।। Sundara Kanda,47,18,ततस्स बाणासनचित्रकार्मुक श्शरप्रवर्षो युधि राक्षसाम्बुदः। शरान्मुमोचाशु हरीश्वराचले वलाहको वृष्टिमिवाचलोत्तमे।।5.47.18।। Sundara Kanda,47,19,ततः कपिस्तं रणचण्डविक्रमं विवृद्धतेजोबलवीर्यसंयुतम्। कुमारमक्षं प्रसमीक्ष्य संयुगे ननाद हर्षाद् घनतुल्यविक्रमम्।।5.47.19।। Sundara Kanda,47,20,स बालभावाद्युधि वीर्यदर्पितः प्रवृद्धमन्युः क्षतजोपमेक्षणः। समाससादाप्रतिमं कपिं रणे गजो महाकूपमिवावृतं तृणैः।।5.47.20।। Sundara Kanda,47,21,स तेन बाणैः प्रसभं निपातितैश्चकार नादं घननादनिस्स्वनः। समुत्पपाताशु नभस्स मारुतिर्भुजोरुविक्षेपणघोरदर्शनः।।5.47.21।। Sundara Kanda,47,22,समुत्पतन्तं समभिद्रवद्बली स राक्षसानां प्रवरः प्रतापवान्। रथी रथिश्रेष्ठतमः किरन्शरैः पयोधरश्शैलमिवाश्मवृष्टिभिः।।5.47.22।। Sundara Kanda,47,23,स तान्शरांस्तस्य हरिर्विमोक्षयंश्चचार वीरः पथि वायुसेविते। शरान्तरे मारुतवद्विनिष्पतन्मनोजवस्संयति चण्डविक्रमः।।5.47.23।। Sundara Kanda,47,24,तमात्तबाणासनमाहवोन्मुखं खमास्तृणन्तं विशिखैश्शरोत्तमैः। अवैक्षताक्षं बहुमानचक्षुषा जगाम चिन्तां च स मारुतात्मजः।।5.47.24।। Sundara Kanda,47,25,ततश्शरैर्भिन्नभुजान्तरः कपिः कुमारवीरेण महात्मना नदन्। महाभुजः कर्मविशेषतत्त्ववि द्विचिन्तयामास रणे पराक्रमम्।।5.47.25।। Sundara Kanda,47,26,अबालवद्बालदिवाकरप्रभः करोत्ययं कर्म महन्महाबलः। न चास्य सर्वाहवकर्मशोभिनः प्रमापणे मे मतिरत्र जायते।।5.47.26।। Sundara Kanda,47,27,अयं महात्मा च महांश्च वीर्यत स्समाहितश्चातिसहश्च संयुगे। असंशयं कर्मगुणोदयादयं सनागयक्षैर्मुनिभिश्च पूजितः।।5.47.27।। Sundara Kanda,47,28,पराक्रमोत्साहविवृद्धमानस स्समीक्षते मां प्रमुखाग्रतःस्थितः। पराक्रमो ह्यस्य मनांसि कम्पयेत्सुरासुराणामपि शीघ्रगामिनः।।5.47.28।। Sundara Kanda,47,29,न खल्वयं नाभिभवेदुपेक्षितः पराक्रमो ह्यस्य रणे विवर्धते। प्रमापणं त्वेव ममाद्य रोचते न वर्धमानोऽग्निरुपेक्षितुं क्षमः।।5.47.29।। Sundara Kanda,47,30,इति प्रवेगं तु परस्य चिन्तयन्स्वकर्मयोगं च विधाय वीर्यवान्। चकार वेगं तु महाबलस्तदा मतिं च चक्रेऽस्य वधे महाकपिः।।5.47.30।। Sundara Kanda,47,31,स तस्य तानष्टहयान्महाजवान् समाहितान्भारसहान्विवर्तने। जघान वीरः पथि वायुसेविते तलप्रहारैः पवनात्मजः कपिः।।5.47.31।। Sundara Kanda,47,32,ततस्तलेनाभिहतो महारथ स्स तस्य पिङ्गाधिपमन्त्रिनिर्जितः। प्रभग्ननीडः परिमुक्तकूबरः पपात भूमौ हतवाजिरम्बरात्।।5.47.32।। Sundara Kanda,47,33,स तं परित्यज्य महारथो रथं सकार्मुकः खङ्गधरः खमुत्पतन्। तपोऽभियोगादृषिरुग्रवीर्यवान्विहाय देहं मरुतामिवालयम्।।5.47.33।। Sundara Kanda,47,34,ततः कपिस्तं विचरन्तमम्बरे पतत्रिराजानिलसिद्धसेविते। समेत्य तं मारुततुल्यविक्रमः क्रमेण जग्राह स पादयोर्दृढम्।।5.47.34।। Sundara Kanda,47,35,स तं समाविध्य सहस्रशः कपिर्महोरगं गृह्य इवाण्डजेश्वरः। मुमोच वेगात्पितृतुल्यविक्रमो महीतले संयति वानरोत्तमः।।5.47.35।। Sundara Kanda,47,36,स भग्नबाहूरुकटीशिरोधरः क्षरन्नसृङिनर्मथितास्थिलोचनः। सम्भग्नसन्धि: प्रविकीर्णबन्धनो हतः क्षितौ वायुसुतेन राक्षसः।।5.47.36।। Sundara Kanda,47,37,महाकपिर्भूमितले निपीड्य तं चकार रक्षोधिपतेर्महद्भयम्। महर्षिभिश्चक्रचरैर्महाव्रतै स्समेत्य भूतैश्च सयक्षपन्नगैः।।5.47.37।। सुरैश्च सेन्द्रैर्भृशजातविस्मयै र्हते कुमारे स कपिर्निरीक्षितः। Sundara Kanda,47,38,निहत्य तं वज्रिसुतोपमप्रभं कुमारमक्षं क्षतजोपमेक्षणम्। तमेव वीरोऽभिजगाम तोरणं कृतक्षणः काल इव प्रजाक्षये।।5.47.38।। Sundara Kanda,48,1,ततस्तु रक्षोधिपतिर्महात्मा हनूमताक्षे निहते कुमारे। मनस्समाधाय सदेवकल्पं समादिदेशेन्द्रजितं सरोषः।।5.48.1।। Sundara Kanda,48,2,त्वमस्त्रविच्छस्त्रविदां वरिष्ठस्सुरासुराणामपि शोकदाता। सुरेषु सेन्द्रेषु च दृष्टकर्मा पितामहाराधनसञ्चितास्त्रः।।5.48.2।। Sundara Kanda,48,3,तवास्त्रबलमासाद्य ससुराः समरुद्गणाः। न शेकुस्समरे स्थातुं सुरेश्वरसमाश्रिताः।।5.48.3।। Sundara Kanda,48,4,न कश्चित्त्रिषु लोकेषु संयुगेन गतश्रमः। भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः।।5.48.4।। देशकालविभागज्ञस्त्वमेव मतिसत्तमः। Sundara Kanda,48,5,न तेऽस्त्यशक्यं समरेषु कर्मणा न तेऽस्त्यकार्यं मतिपूर्वमन्त्रणे। न सोऽस्ति कश्चित्त्रिषु सङ्ग्रहेषु वै न वेद यस्तेऽस्त्रबलं बलं च ते।।5.48.5।। Sundara Kanda,48,6,ममानुरूपं तपसो बलं च ते पराक्रमश्चास्त्रबलं च संयुगे। न त्वां समासाद्य रणावमर्दे मनश्श्रमं गच्छति निश्चितार्थम्।।5.48.6।। Sundara Kanda,48,7,निहताः किङ्करास्सर्वे जम्बुमाली च राक्षसः। अमात्यपुत्रा वीराश्च पञ्च सेनाग्रयायिनः।।5.48.7।। बलानि सुसमृद्धानि साश्वनागरथानि च। Sundara Kanda,48,8,सहोदरस्ते दयितः कुमारोऽक्षश्च सूदितः।।5.48.8।। न हि तेष्वेव मे सारो यस्त्वय्यरिनिषूदन। Sundara Kanda,48,9,इदं हि दृष्ट्वा मतिमन्महद्बलं कपेः प्रभावं च पराक्रमं च। त्वमात्मनश्चापि समीक्ष्य सारं कुरुष्व वेगं स्वबलानुरूपम्।।5.48.9।। Sundara Kanda,48,10,बलावमर्थस्तयि सन्निकृष्टे यथा गते शाम्यति शान्तशत्रौ। तथा समीक्ष्यात्मबलं परं च समारभस्वास्त्रविदां वरिष्ठ।।5.48.10।। Sundara Kanda,48,11,न वीरसेना गणशोच्यवन्ति न वज्रमादाय विशालसारम्। न मारुतस्यास्य गतेः प्रमाणं न चाग्निकल्पः करणेन हन्तुम्।।5.48.11।। Sundara Kanda,48,12,तमेवमर्थं प्रसमीक्ष्य सम्यक् स्वकर्मसाम्याद्धि समाहितात्मा। स्मरंश्च दिव्यं धनुषोऽस्त्रवीर्यं व्रजाक्षतं कर्म समारभस्व।।5.48.12।। Sundara Kanda,48,13,न खल्वियं मतिश्श्रेष्ठा यत्त्वां सम्प्रेषयाम्यहम्। इयं च राजधर्माणां क्षत्रियस्य मतिर्मता।।5.48.13।। Sundara Kanda,48,14,नानाशस्त्रेषु सङ्ग्रामे वैशारद्यमरिन्दम। अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे।।5.48.14।। Sundara Kanda,48,15,ततः पितुस्तद्वचनं निशम्य प्रदक्षिणं दक्षसुतप्रभावः। चकार भर्तारमदीनसत्त्वो रणाय वीरः प्रतिपन्नबुद्धिः।।5.48.15।। Sundara Kanda,48,16,ततस्तै स्स्वगणैरिष्टैरिन्द्रजित् प्रतिपूजितः। युद्धोद्धतः कृतोत्साहस्सङ्ग्रामं प्रत्यपद्यत।।5.48.16।। Sundara Kanda,48,17,श्रीमान्पद्मपलाशाक्षो राक्षसाधिपतेस्सुतः। निर्जगाम महातेजास्समुद्र इव पर्वसु।।5.48.17।। Sundara Kanda,48,18,स पक्षिराजोपमतुल्यवेगैर्व्याळैश्चतुर्भिः सिततीक्षणदंष्ट्रैः। रथं समायुक्तमसहयवेगं समारुरोहेन्द्रजिदिन्द्रकल्पः।।5.48.18।। Sundara Kanda,48,19,स रथी धन्विनां श्रेष्ठः शस्त्रज्ञोस्त्रविदां वरः। रथेनाभिययौ क्षिप्रं हनुमान्यत्र सोऽभवत्।।5.48.19।। Sundara Kanda,48,20,स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च। निशम्य हरिवीरोऽसौ संप्रहृष्टतरोऽभवत्।।5.48.20।। Sundara Kanda,48,21,सुमहच्चापमादाय शितशल्यांश्च सायकान्। हनुमन्तमभिप्रेत्य जगाम रणपण्डितः।।5.48.21।। Sundara Kanda,48,22,तस्मिंस्ततः संयति जातहर्षे रणाय निर्गच्छति चापपाणौ। दिशश्च सर्वाः कलुषा बभूवु र्मृगाश्च रौद्रा बहुधा विनेदुः।।5.48.22।। Sundara Kanda,48,23,समागतास्तत्र तु नागयक्षा महर्षयश्चक्रचराश्च सिद्धाः। नभस्समावृत्य च पक्षिसङ्घा विनेदुरुच्चैः परमप्रहृष्टाः।।5.48.23।। Sundara Kanda,48,24,आयान्तं सरथं दृष्ट्वा तूर्णमिन्द्रजितं कपिः। विननाद महानादं व्यवर्धत च वेगवान्।।5.48.24।। Sundara Kanda,48,25,इन्द्रजित्तु रथं दिव्यमास्थितश्चित्रकार्मुकः। धनुर्विष्फारयामास तटिदूर्जितन्निस्स्वनम्।।5.48.25।। Sundara Kanda,48,26,ततस्समेतावतितीक्ष्णवेगौ महाबलौ तौ रणनिर्विशङ्कौ। कपिश्च रक्षोधिपतेस्तनूजः सुरासुरेन्द्राविव बद्धवैरौ।।5.48.26।। Sundara Kanda,48,27,स तस्य वीरस्य महारथस्य धनुष्मतः संयति सम्मतस्य। शरप्रवेगं व्यहनत्प्रवृद्ध श्चचार मार्गे पितुरप्रमेयः।।5.48.27।। Sundara Kanda,48,28,ततश्शरानायततीक्ष्णशल्यान् सुपत्रिणः काञ्चनचित्रपुङ्खान्। मुमोच वीरः परवीरहन्ता सुसन्नतान् वज्रनिपातवेगान्।।5.48.28।। Sundara Kanda,48,29,ततस्तु तत्स्यन्दननिस्स्वनं च मृदङ्गभेरीपटहस्वनं च। विकृष्यमाणस्य च कार्मुकस्य निशम्य घोषं पुनरुत्पपात।।5.48.29।। Sundara Kanda,48,30,शराणामन्तरेष्वाशु व्यवर्तत महाकपिः। हरिस्तस्याभिलक्ष्यस्य मोघयन्लक्ष्यसंग्रहम्।।5.48.30।। Sundara Kanda,48,31,शराणामग्रतस्तस्य पुनः समभिवर्तत। प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः।।5.48.31।। Sundara Kanda,48,32,तावुभौ वेगसम्पन्नौ रणकर्मविशारदौ। सर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम्।।5.48.32।। Sundara Kanda,48,33,हनुमतो वेद न राक्षसोऽन्तरं न मारुतिस्तस्य महात्मनोऽन्तरम्। परस्परं निर्विषहौ बभूवतुः समेत्य तौ देवसमानविक्रमौ।।5.48.33।। Sundara Kanda,48,34,ततस्तु लक्ष्ये स विहन्यमाने शरेष्वमोघेषु च संपतत्सु। जगाम चिन्तां महतीं महात्मा समाधिसंयोगसमाहितात्मा।।5.48.34।। Sundara Kanda,48,35,ततो मतिं राक्षसराजसूनु श्चकार तस्मिन् हरिवीरमुख्ये। अवध्यतां तस्य कपेस्समीक्ष्य कथं निगच्छेदिति निग्रहार्थम्।।5.48.35।। Sundara Kanda,48,36,ततः पैतामहं वीरः सोऽस्त्रमस्त्रविदां वरः। संदधे सुमहत्तेजा: तं हरिप्रवरं प्रति।।5.48.36।। Sundara Kanda,48,37,अवध्योऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित्। निजग्राह महाबाहुर्मारुतात्मजमिन्द्रजित्।।5.48.37।। Sundara Kanda,48,38,तेन बद्धस्ततोऽस्त्रेण राक्षसेन स वानरः। अभवन्निर्विचेष्टश्च पपात स महीतले ।।5.48.38।। Sundara Kanda,48,39,ततोऽथ बुद्ध्वा स तदस्त्रबन्धं प्रभोः प्रभावाद्विगतात्मवेगः। पितामहानुग्रहमात्मनश्च विचिन्तयामास हरिप्रवीरः।।5.48.39।। Sundara Kanda,48,40,तत स्स्वायम्बुवैर्मन्त्रैर्ब्रह्मास्त्रमभिमन्त्रितम्। हनुमांश्चिन्तयामास वरदानं पितामहात्।।5.48.40।। Sundara Kanda,48,41,न मेऽस्त्रबन्धस्य च शक्तिरस्ति विमोक्षणे लोकगुरोः प्रभावात्। इत्येव मत्वा विहितोऽस्त्रबन्धो मयात्मयोनेरनुवर्तितव्यः।।5.48.41।। Sundara Kanda,48,42,स वीर्यमस्त्रस्य कपिर्विचार्य पितामहानुग्रहमात्मनश्च। विमोक्षशक्तिं परिचिन्तयित्वा पितामहाज्ञामनुवर्तते स्म।।5.48.42।। Sundara Kanda,48,43,अस्त्रेणापि हि बद्धस्य भयं मम न जायते। पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च।।5.48.43।। Sundara Kanda,48,44,ग्रहणे चापि रक्षोभिर्महन्मे गुणदर्शनम्। राक्षसेन्द्रेण संवादस्तस्माद्गृह्णन्तु मां परे।।5.48.44।। Sundara Kanda,48,45,स निश्चितार्थः परवीरहन्ता समीक्ष्यकारी विनिवृत्तचेष्टः। परैः प्रसह्याभिगतैर्निगृह्य ननाद तैस्त्रै: परिभर्त्स्यमानः।।5.48.45।। Sundara Kanda,48,46,ततस्तं राक्षसा दृष्ट्वा निर्विचेष्टमरिंदमम्। बबन्धुश्शणवल्कैश्च द्रुमचीरैश्च संहतैः।।5.48.46।। Sundara Kanda,48,47,स रोचयामास परैश्च बन्धनं प्रसह्य वीरैरभिनिग्रहं च। कौतूहलान्मां यदि राक्षसेन्द्रो द्रष्टुं व्यवस्येदिति निश्चितार्थः।।5.48.47।। Sundara Kanda,48,48,स बद्धस्तेन वल्केन विमुक्तोऽस्त्रेण वीर्यवान्। अस्त्रबन्धः स चान्यं हि न बन्धमनुवर्तते।।5.48.48।। Sundara Kanda,48,49,अथेन्द्रजित्तु द्रुमचीरबद्धं विचार्य वीरः कपिसत्तमं तम्। विमुक्तमस्त्रेण जगाम चिन्तां नान्येन बद्धो ह्यनुवर्ततेऽस्त्रम्।।5.48.49।। Sundara Kanda,48,50,अहो महत्कर्म कृतं निरर्थकम्कं न राक्षसैर्मन्त्रगतिर्विमृष्टा। पुनश्च मन्त्रे विहतेऽस्त्रमन्यत्प्रवर्तते संशयिता स्स्मसर्वे।।5.48.50।। Sundara Kanda,48,51,अस्त्रेण हनुमान्मुक्तो नात्मानमवबुध्यत। कृष्यमाणस्तु रक्षोभि स्तौश्च बन्धैर्निपीडितः।।5.48.51।। Sundara Kanda,48,52,हन्यमानस्ततः क्रूरै राक्षसैः काष्ठमुष्टिभिः। समीपं राक्षसेन्द्रस्य प्राकृष्यत स वानरः।।5.48.52।। Sundara Kanda,48,53,अथेन्द्रजित्तं प्रसमीक्ष्य मुक्तमस्त्रेण बद्धं द्रुमचीरसूत्रैः। न्यदर्शयत्तत्र महाबलं तं हरिप्रवीरं सगणाय राज्ञे।।5.48.53।। Sundara Kanda,48,54,तं मत्तमिव मातङ्गं बद्धं कपिवरोत्तमम्। राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन्।।5.48.54।। Sundara Kanda,48,55,कोऽयं कस्य कुतोवात्र किं कार्यं को व्यपाश्रयः। इति राक्षसवीराणां तत्र सञ्जज्ञिरे कथाः।।5.48.55।। Sundara Kanda,48,56,हन्यतां दह्यतां वापि भक्ष्यतामिति चापरे। राक्षसास्तत्र सङ्क्रुद्धा: परस्परमथाब्रुवन्।।5.48.56।। Sundara Kanda,48,57,अतीत्य मार्गं सहसा महात्मा स तत्र रक्षोधिपपादमूले। ददर्श राज्ञः परिचारवृद्धान् गृहं महारत्नविभूषितं च।।5.48.57।। Sundara Kanda,48,58,स ददर्श महातेजा रावणः कपिसत्तमम्। रक्षोभिर्विकृताकारैः कृष्यमाणमितस्ततः।।5.48.58।। Sundara Kanda,48,59,राक्षसाधिपतिं चापि ददर्श कपिसत्तमः। तेजोबलसमायुक्तं तपन्तमिव भास्करम्।।5.48.59।। Sundara Kanda,48,60,सरोषसम्वर्तितताम्रदृष्टिर्दशाननस्तं कपिमन्ववेक्ष्य। अथोपविष्टान् कुलशीलवृद्धान् समादिशत्तं प्रति मन्त्रिमुख्यान्।।5.48.60।। Sundara Kanda,48,61,यथाक्रमं तैस्स कपिर्विपृष्टः कार्यार्थमर्धस्य च मूलमादौ। निवेदयामास हरीश्वरस्य दूतः सकाशादहमागतोऽस्मि।।5.48.61।। Sundara Kanda,49,1,ततस्स कर्मणा तस्य विस्मितो भीमविक्रमः। हनुमान्रोषताम्राक्षो रक्षोधिपमवैक्षत।।5.49.1।। Sundara Kanda,49,2,भ्राजमानं महार्हेण काञ्चनेन विराजता। मुक्ताजालावृतेनाथ मकुटेन महाद्युतिम्।।5.49.2।। Sundara Kanda,49,3,वज्रसंयोगसंयुक्तैर्महार्हमणिविग्रहैः। हैमैराभरणैश्चित्रैर्मनसेव प्रकल्पितैः।।5.49.3।। Sundara Kanda,49,4,महार्हक्षौमसंवीतं रक्तचन्दनरूषितम्। स्वानुलिप्तं विचित्राभिर्विविधाभिश्च भक्तिभिः।।5.49.4।। Sundara Kanda,49,5,विचित्रैर्दर्शनीयैश्च रक्ताक्षैर्भीमदर्शनैः। दीप्ततीक्ष्णमहादंष्ट्रैः प्रलम्बदशनच्छदैः।।5.49.5।। Sundara Kanda,49,6,शिरोभिर्दशभिर्वीरं भ्राजमानं महौजसम्। नानाव्यालसमाकीर्णैश्शिखरैरिव मन्दरम्।।5.49.6।। Sundara Kanda,49,7,नीलाञ्जनचयप्रख्यं हारेणोरसि राजता। पूर्णचन्द्राभवक्त्रेण सबलाकमिवाम्बुदम्।।5.49.7।। Sundara Kanda,49,8,बाहुभिर्बद्धकेयूरैश्चन्दनोत्तमरूषितैः। भ्राजमानाङ्गदैः पीनैः पञ्चशीर्षैरिवोरगैः।।5.49.8।। Sundara Kanda,49,9,महतिस्फाटिके चित्रे रत्नसंयोगसंस्कृते। उत्तमास्तरणास्तीर्णे सूपविष्टं वरासने।।5.49.9।। Sundara Kanda,49,10,अलङ्कृताभिरत्यर्थं प्रमदाभिः समन्ततः। वालव्यजनहस्ताभिरारात्समुपसेवितम्।।5.49.10।। Sundara Kanda,49,11,दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा। मन्त्रिभिर्मन्त्रतत्त्वज्ञैर्निकुम्भेन च मन्त्रिणा।।5.49.11।। Sundara Kanda,49,12,सुखोपविष्टं रक्षोभिश्चतुर्भिर्बलदर्पितैः। कृत्स्नं परिवृतं लोकं चतुर्भिरिव सागरैः।।5.49.12।। Sundara Kanda,49,13,मन्त्रिभिर्मन्त्रतत्त्वज्ञैरन्यैश्च शुभबुद्धिभिः। अन्वास्यमानं रक्षोभिः सुरैरिव सुरेश्वरम्।।5.49.13।। Sundara Kanda,49,14,अपश्यद्राक्षसपतिं हनुमानतितेजसम्। विष्ठितं मेरुशिखरे सतोयमिव तोयदम्।।5.49.14।। Sundara Kanda,49,15,स तैस्सम्पीड्यमानोऽपि रक्षोभिर्भीमविक्रमैः। विस्मयं परमं गत्वा रक्षोधिपमवैक्षत।।5.49.15।। Sundara Kanda,49,16,भ्राजमानं ततो दृष्ट्वा हनुमान्राक्षसेश्वरम्। मनसा चिन्तयामास तेजसा तस्य मोहितः।।5.49.16।। Sundara Kanda,49,17,अहो रूपमहो धैर्यमहो सत्त्वमहो द्युतिः। अहो राक्षसराजस्य सर्वलक्षणयुक्तता।।5.49.17।। Sundara Kanda,49,18,यद्यधर्मो न बलवान् स्यादयं राक्षसेश्वरः। स्यादयं सुरलोकस्य सशक्रस्यापि रक्षिता।।5.49.18।। Sundara Kanda,49,19,अस्य क्रूरैर्नृशंसैश्च कर्मभिर्लोककुत्सितैः। सर्वे बिभ्यति खल्वस्माल्लोकास्सामरदानवाः।।5.49.19।। अयं ह्युत्सहते क्रुद्धः कर्तुमेकार्णवं जगत्। Sundara Kanda,49,20,इति चिन्तां बहुविधामकरोन्मतिमान् हरिः।।5.49.20।। दृष्ट्वा राक्षसराजस्य प्रभावममितौजसः। Sundara Kanda,50,1,तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरत स्थितम्। कोपेन महताऽविष्टो रावणो लोकरावणः।।5.50.1।। शङ्काहृतात्मा दध्यौ स कपीन्द्रं तेजसावृतम्। Sundara Kanda,50,2,किमेष भगवान्नन्दी भवेत्साक्षादिहागतः।।5.50.2।। Sundara Kanda,50,3,येन शप्तोऽस्मि कैलासे मया सञ्चालिते पुरा। सोऽयं वानरमूर्तिस्स्यात्किंस्विद्बाणो महाऽसुरः।।5.50.3।। Sundara Kanda,50,4,स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम्। कालयुक्तमुवाचेदं वचोऽविपुलमर्थवत्।।5.50.4।। Sundara Kanda,50,5,दुरात्मा पृच्छ्यतामेष कुतः किं वात्र कारणम्। वनभङ्गे च कोऽस्यार्थो राक्षसीनां च तर्जने।।5.50.5।। Sundara Kanda,50,6,मत्पुरीमप्रधृष्यां वाऽगमने किं प्रयोजनम्। आयोधने वा किं कार्यं पृच्छयतामेष दुर्मतिः।।5.50.6।। Sundara Kanda,50,7,रावणस्य वचश्श्रुत्वा प्रहस्तो वाक्यमब्रवीत्। समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे।।5.50.7।। Sundara Kanda,50,8,यदि तावत्त्वमिन्द्रेण प्रेषितो रावणालयम्। तत्त्वमाख्याहि मा भूत्ते भयं वानर मोक्ष्यसे।।5.50.8।। Sundara Kanda,50,9,यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च। चाररूपमिदं कृत्वा प्रविष्टो नः पुरीमिमाम्।।5.50.9।। विष्णुना प्रेषितो वाऽपि दूतो विजयकाङ्क्षिणा। Sundara Kanda,50,10,न हि ते वानरं तेजो रूपमात्रं तु वानरम्।।5.50.10।। तत्त्वत: कथयस्वाद्य ततो वानर मोक्ष्यसे। Sundara Kanda,50,11,अनृतं वदतश्चापि दुर्लभं तव जीवितम्।।5.50.11।। अथवा यन्निमित्तस्ते प्रवेशो रावणालये। Sundara Kanda,50,12,एवमुक्तो हरिश्रेष्ठस्तदा रक्षोगणेश्वरम्।।5.50.12।। Sundara Kanda,50,13,अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य वा। धनदेन न मे सख्यं विष्णुना नास्मि चोदितः।।5.50.13।। जातिरेव मम त्वेषा वानरोऽहमिहागतः। Sundara Kanda,50,14,दर्शने राक्षसेन्द्रस्य दुर्लभे तदिदं मया।।5.50.14।। वनं राक्षसराजस्य दर्शनार्थे विनाशितम्। Sundara Kanda,50,15,ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः। रक्षणार्थं तु देहस्य प्रतियुद्धा मया रणे।।5.50.15।। Sundara Kanda,50,16,अस्त्रपाशैर्न शक्योऽहं बद्धुं देवासुरैरपि।।5.50.16।। पितामहादेष वरो मामाप्येषोऽभ्युपागतः। Sundara Kanda,50,17,राजानं द्रष्टुकामेन मयास्त्रमनुवर्तितम्।।5.50.17।। Sundara Kanda,50,18,विमुक्तो ह्यहमस्त्रेण राक्षसैस्त्वभिपीडितः। केनचिद्राजकार्येण सम्प्राप्तोऽस्मि तवान्तिकम्।।5.50.18।। Sundara Kanda,50,19,दूतोऽहमिति विज्ञेयो राघवस्यामितौजसः। श्रूयतां चापि वचनं मम पथ्यमिदं प्रभो।।5.50.19।। Sundara Kanda,51,1,तं समीक्ष्य महासत्त्वं सत्त्ववान्हरिसत्तमः। वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम्।।5.51.1।। Sundara Kanda,51,2,अहं सुग्रीवसंदेशादिह प्राप्तस्तवालयम्। राक्षसेन्द्र हरीशस्त्वां भ्राता कुशलमब्रवीत्।।5.51.2।। Sundara Kanda,51,3,भ्रातुश्शृणु समादेशं सुग्रीवस्य महात्मनः। धर्मार्थोपहितं वाक्यमिह चामुत्र च क्षमम्।।5.51.3।। Sundara Kanda,51,4,राजा दशरथो नाम रथकुञ्जरवाजिमान्। पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः।।5.51.4।। Sundara Kanda,51,5,ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः। पितुर्निदेशान्निष्क्रान्तः प्रविष्टो दण्डकावनम्।।5.51.5।। Sundara Kanda,51,6,लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया। रामो नाम महातेजा धर्म्यं पन्थानमास्थितः।।5.51.6।। Sundara Kanda,51,7,तस्य भार्या वने नष्टा सीता पतिमनुव्रता। वैदेहस्य सुता राज्ञो जनकस्य महात्मनः।।5.51.7।। Sundara Kanda,51,8,स मार्गमाणस्तां देवीं राजपुत्रः सहानुजः। ऋश्यमूकमनुप्राप्त: सुग्रीवेण समागतः।।5.51.8।। Sundara Kanda,51,9,तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम्। सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम्।।5.51.9।। Sundara Kanda,51,10,ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम्। सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः।।5.51.10।। Sundara Kanda,51,11,त्वया विज्ञातपूर्वश्च वाली वानरपुङ्गवः। रामेण निहतस्सङ्ख्ये शरेणैकेन वानरः।।5.51.11।। Sundara Kanda,51,12,स सीतामार्गणे व्यग्रस्सुग्रीवः सत्यसङ्गरः। हरीन् सम्प्रेषयामास दिशस्सर्वा हरीश्वरः।।5.51.12।। Sundara Kanda,51,13,तां हरीणां सहस्राणि शतानि नियुतानि च। दिक्षु सर्वासु मार्गन्ते ह्यधश्चोपरि चाम्बरे।।5.51.13।। Sundara Kanda,51,14,वैनतेयसमाः केचित्केचित्तत्रानिलोपमाः। असङ्गगतयशशीघ्रा हरिवीरा महाबलाः।।5.51.14।। Sundara Kanda,51,15,अहं तु हनुमान्नाम मारुतस्यौरसस्सुतः। सीतायास्तु कृते तूर्णं शतयोजनमायतम्।।5.51.15।। समुद्रं लङ्घयित्वैव तां दिदृक्षुरिहागतः। Sundara Kanda,51,16,भ्रमता च मया दृष्टा गृहे ते जनकात्मजा।।5.51.16।। Sundara Kanda,51,17,तद्भवान् दृष्टधर्मार्थस्तपःकृतपरिग्रहः। परदारान् महाप्राज्ञ नोपरोद्धुं त्वमर्हसि।।5.51.17।। Sundara Kanda,51,18,न हि धर्मविरुद्धेषु बह्वपायेषु कर्मसु। मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः।।5.51.18।। Sundara Kanda,51,19,कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम्। शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि।।5.51.19।। Sundara Kanda,51,20,न चापि त्रिषु लोकेषु राजन्विद्येत कश्चन। राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात्।।5.51.20।। Sundara Kanda,51,21,तत् त्रिकालहितं वाक्यं धर्म्यमर्थानुबन्धि च। मन्यस्व नरदेवाय जानकी प्रतिदीयताम्।।5.51.21।। Sundara Kanda,51,22,दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम्। उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः।।5.51.22।। Sundara Kanda,51,23,लक्षितेयं मया सीता तथा शोकपरायणा। गृह्य यां नाभिजानासि पञ्चास्यामिव पन्नगीम्।।5.51.23।। Sundara Kanda,51,24,नेयं जरयितुं शक्या सासुरैरमरैरपि। विषसंसृष्टमत्यर्थं भुक्तमन्नमिवौजसा ।।5.51.24।। Sundara Kanda,51,25,तपस्सन्तापलब्धस्ते योऽयं धर्मपरिग्रहः। न स नाशयितुं न्याय्य आत्मप्राणपरिग्रहः।।5.51.25।। Sundara Kanda,51,26,अवध्यतां तपोभिर्यां भवान् समनुपश्यति। आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान्।।5.51.26।। Sundara Kanda,51,27,सुग्रीवो न हि देवोऽयं नासुरो न च राक्षसः। न दानवो न गन्धर्वो न यक्षो न च पन्नगः।।5.51.27।। तस्मात्प्राणपरित्राणं कथं राजन्करिष्यसि। Sundara Kanda,51,28,न तु धर्मोपसंहारमधर्मफलसंहितम्।।5.51.28।। तदेव फलमन्वेति धर्मश्चाधर्मनाशन:। Sundara Kanda,51,29,प्राप्तं धर्मफलं तावद्भवता नात्र संशयः। फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे।।5.51.29।। Sundara Kanda,51,30,जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा।।5.51.30।। रामसुग्रीवसख्यं च बुध्यस्व हितमात्मनः। Sundara Kanda,51,31,कामं खल्वहमप्येकस्सवाजिरथकुञ्जराम्।।5.51.31।। लङ्कां नाशयितुं शक्तस्तस्यैष तु न निश्चयः। Sundara Kanda,51,32,रामेण हि प्रतिज्ञातं हर्यृक्षगणसन्निधौ।।5.51.32।। उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता। Sundara Kanda,51,33,अपकुर्वन् हि रामस्य साक्षादपि पुरन्दरः।।5.51.33।। न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः। Sundara Kanda,51,34,यां सीतेत्यभिजानासि येयं तिष्ठति ते वशे।।5.51.34।। कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम्। Sundara Kanda,51,35,तदलं कालपाशेन सीताविग्रहरूपिणा।।5.51.35।। स्वयं स्कन्धावसक्तेन क्षेममात्मनि चिन्त्यताम्। Sundara Kanda,51,36,सीतायास्तेजसा दग्धां रामकोपप्रपीडिताम्।।5.51.36।। दह्यमानामिमां पश्य पुरीं साट्टप्रतोलिकाम्। Sundara Kanda,51,37,स्वानि मित्राणि मन्त्रींश्च ज्ञातीन् भ्रात्रून् सुतान् हितान्।।5.51.37।। भोगान्दारांश्च लङ्कां च मा विनाशमुपानय। Sundara Kanda,51,38,सत्यं राक्षसराजेन्द्र शृणुष्व वचनं मम।।5.51.38।। रामदासस्य दूतस्य वानरस्य विशेषतः। Sundara Kanda,51,39,सर्वान् लोकान् सुसंहृत्य सभूतान् सचराचरान्।।5.51.39।। पुनरेव तथा स्रष्टुं शक्तो रामो महायशाः। Sundara Kanda,51,40,देवासुरनरेन्द्रेषु यक्षरक्षोगणेषु च।।5.51.40।। Sundara Kanda,51,41,विद्याधरेषु सर्वेषु गन्धर्वेषूरगेषु च। सिद्धेषु किन्नरेन्द्रेषु पतत्रिषु च सर्वतः।।5.51.41।। Sundara Kanda,51,42,सर्वभूतेषु सर्वत्र सर्वकालेषु नास्ति सः। यो रामं प्रतियुध्येत विष्णुतुल्यपराक्रमम्।।5.51.42।। Sundara Kanda,51,43,सर्वलोकेश्वरस्यैवं कृत्वा विप्रियमुत्तमम्। रामस्य राजसिंहस्य दुर्लभं तव जीवितम्।।5.51.43।। Sundara Kanda,51,44,देवाश्च दैत्याश्च निशाचरेन्द्र गन्धर्वविद्याधरनागयक्षाः। रामस्य लोकत्रयनायकस्य स्थातुं न शक्तास्समरेषु सर्वे।।5.51.44।। Sundara Kanda,51,45,ब्रह्मा स्वयम्भूश्चतुराननो वा रुद्रस्त्रिणेत्रस्त्रिपुरान्तको वा। इन्द्रो महेन्द्रस्सुरनायको वा त्रातुं न शक्ता युधि रामवध्यम्।।5.51.45।। Sundara Kanda,51,46,स सौष्ठवोपेतमदीनवादिनः कपेर्निशम्याप्रतिमोऽप्रियं वचः। दशाननः कोपविवृत्तलोचनः समादिशत्तस्य वधं महाकपेः।।5.51.46।। Sundara Kanda,52,1,तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः। आज्ञापयद्वधं तस्य रावणः क्रोधमूर्छितः।।5.52.1।। Sundara Kanda,52,2,वधे तस्य समाज्ञप्ते रावणेन दुरात्मना। निवेदितवतो दौत्यं नानुमेने विभीषणः।।5.52.2।। Sundara Kanda,52,3,तं रक्षोधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम्। विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः।।5.52.3।। Sundara Kanda,52,4,निश्चितार्थस्ततस्साम्ना पूज्यं शत्रुजिदग्रजम्। उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः।।5.52.4।। Sundara Kanda,52,5,क्षमस्व रोषं त्यज राक्षसेन्द्र प्रसीद मद्वाक्यमिदं शृणुष्व। वधं न कुर्वन्ति परावरज्ञा दूतस्य सन्तो वसुधाधिपेन्द्राः।।5.52.5।। Sundara Kanda,52,6,राजधर्मविरुद्धं च लोकवृत्तेश्च गर्हितम्। तव चासदृशं वीर कपेरस्य प्रमापणम्।।5.52.6।। Sundara Kanda,52,7,धर्मज्ञश्च कृतज्ञश्च राजधर्मविशारदः। परावरज्ञो भूतानां त्वमेव परमार्थवित्।।5.52.7।। Sundara Kanda,52,8,गृह्यन्ते यदि रोषेण त्वादृशोऽपि विचक्षणः। तत श्शास्त्रविपश्चित्त्वं श्रम एव हि केवलम्।।5.52.8।। Sundara Kanda,52,9,तस्मात्प्रसीद शत्रुघ्न राक्षसेन्द्र दुरासद। युक्तायुक्तं विनिश्चित्य दूतदण्डो विधीयताम्।।5.52.9।। Sundara Kanda,52,10,विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः। रोषेण महताविष्टो वाक्यमुत्तरमब्रवीत्।।5.52.10।। Sundara Kanda,52,11,न पापानां वधे पापं विद्यते शत्रुसूदन। तस्मादेनं वधिष्यामि वानरं पापचारिणम्।।5.52.11।। Sundara Kanda,52,12,अधर्ममूलं बहुदोषयुक्तमनार्यजुष्टं वचनं निशम्य। उवाच वाक्यं परमार्थतत्त्वं विभीषणो बुद्धिमतां वरिष्ठः।।5.52.12।। Sundara Kanda,52,13,प्रसीद लङ्केश्वर राक्षसेन्द्र धर्मार्थयुक्तं वचनं शृणुष्व। दूतानवध्यान् समयेषु राजन् सर्वेषु सर्वत्र वदन्ति सन्तः।।5.52.13।। Sundara Kanda,52,14,असंशयं शत्रुरयं प्रवृद्धः कृतं ह्यनेनाप्रियमप्रमेयम्। न दूतवध्यां प्रवदन्ति सन्तो दूतस्य दृष्टा बहवो हि दण्डाः।।5.52.14।। Sundara Kanda,52,15,वैरूप्यमङ्गेषु कशाभिघातो मौण्ड्यं तथा लक्षणसन्निपातः। एतान् हि दूते प्रवदन्ति दण्डान् वधस्तु दूतस्य न नः श्रुतोऽस्ति।।5.52.15।। Sundara Kanda,52,16,कथं च धर्मार्थविनीतबुद्धिः परावरप्रत्ययनिश्चितार्थः। भवद्विधः कोपवशे हि तिष्ठेत् कोपं नियच्छन्ति हि सत्त्ववन्तः।।5.52.16।। Sundara Kanda,52,17,न धर्मवादे न च लोकवृत्ते न शास्त्रबुद्धिग्रहणेषु चापि। विद्येत कश्चित्तव वीर तुल्य स्त्वंह्युत्तमस्सर्वसुरासुराणाम्।।5.52.17।। Sundara Kanda,52,18,शूरेण वीरेण निशाचरेन्द्र सुरासुराणामपि दुर्जयेन। त्वया प्रगल्भाः सुरदैत्यसङ्घा जिताश्च युद्धेष्वसकृन्नरेन्द्राः।।5.52.18।। Sundara Kanda,52,19,न चाप्यस्य कपेर्घाते कञ्चित्पश्याम्यहं गुणम्। तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः।।5.52.19।। Sundara Kanda,52,20,साधुर्वा यदि वाऽसाधुः परैरेष समर्पितः। ब्रुवन् परार्थं परवान्न दूतो वधमर्हति।।5.52.20।। Sundara Kanda,52,21,अपि चास्मिन् हते राजन्नान्यं पश्यामि खेचरम्। इह यः पुनरागच्छेत्परं पारं महोदधेः।।5.52.21।। Sundara Kanda,52,22,तस्मान्नास्य वधे यत्नः कार्य: परपुरञ्जय। भवान् सेन्द्रेषु देवेषु यत्नमास्थातुमर्हति।।5.52.22।। Sundara Kanda,52,23,अस्मिन्विनष्टे न हि वीरमन्यं पश्यामि यस्तौ वरराजपुत्रौ। युद्धाय युद्धप्रियदुर्विनीतावुद्योजयेद्धीर्घपथावरुद्धौ।।5.52.23।। Sundara Kanda,52,24,पराक्रमोत्साहमनस्विनां च सुरासुराणामपि दुर्जयेन। त्वया मनोनन्दन नैतानां युद्धायतिर्नाशयतुं न युक्ता।।5.52.24।। Sundara Kanda,52,25,हिताश्च शूराश्च समाहिताश्च कुलेषु जाताश्च महागुणेषु। मनस्विनश्शस्त्रभृतां वरिष्ठाः कोट्यग्रतस्ते सुभृताश्च योधाः।।5.52.25।। Sundara Kanda,52,26,तदेकदेशेन बलस्य तावत्केचित्तवाऽऽदेशकृतोऽभियान्तु तौ राजपुत्रौ विनिगृह्य मूढौ परेषु ते भावयितुं प्रभावम्।।5.52.26।। Sundara Kanda,53,1,तस्य तद्वचनं श्रुत्वा दशग्रीवो महात्मनः। देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत्।।5.53.1।। Sundara Kanda,53,2,सम्यगुक्तं हि भवता दूतवध्या विगर्हिता। अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः।।5.53.2।। Sundara Kanda,53,3,कपीनां किल लाङ्गूलमिष्टं भवति भूषणम्। तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु।।5.53.3।। Sundara Kanda,53,4,ततः पश्यन्त्विमं दीनमङ्गवैरूप्यकर्शितम्। समित्रज्ञातयस्सर्वे बान्धवाः ससुहृज्जनाः।।5.53.4।। Sundara Kanda,53,5,आज्ञापयद्राक्षसेन्द्रः पुरं सर्वं सचत्वरम्। लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम्।।5.53.5।। Sundara Kanda,53,6,तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्शिताः। वेष्टयन्ति स्म लाङ्गूलं जीर्णैः कार्पासकैः पटैः।।5.53.6।। Sundara Kanda,53,7,संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः। शुष्कमिन्धनमासाद्य वनेष्विव हुताशनः।।5.53.7।। Sundara Kanda,53,8,तैलेन परिषिच्याथ तेऽग्निं तत्राभ्यपातयन्। लाङ्गूलेन प्रदीप्तेन राक्षसांस्तानपातयत्।।5.53.8।। रोषामर्षपरीतात्मा बालसूर्यसमाननः। Sundara Kanda,53,9,लाङ्गूलं सम्प्रदीप्तं तु द्रष्टुं तस्य हनूमतः।।5.53.9।। सहस्त्रीबालवृद्धाश्च जग्मुः प्रीता निशाचराः। Sundara Kanda,53,10,स भूयः सङ्गतैः क्रूरैर्राक्षसैर्हरिसत्तमः।।5.53.10।। निबद्धः कृतवान्वीरस्तत्कालसदृशीं मतिम्। Sundara Kanda,53,11,कामं खलु न मे शक्ता निबद्धस्यापि राक्षसाः।।5.53.11।। छित्त्वा पाशान् समुत्पत्य हन्यामहमिमान्पुनः। Sundara Kanda,53,12,यदि भर्तुर्हितार्थाय चरन्तं भर्तृशासनात्।।5.53.12।। बध्नन्त्येते दुरात्मनो न तु मे निष्कृतिः कृता। Sundara Kanda,53,13,सर्वेषामेव पर्याप्तो राक्षसानामहं युधि।।5.53.13।। Sundara Kanda,53,14,किंतु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशम्। लङ्का चारयितव्या वै पुनरेव भवेदिति।।5.53.14।। Sundara Kanda,53,15,रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः। अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये।।5.53.15।। Sundara Kanda,53,16,कामं बद्धस्य मे भूयः पुच्छस्योद्दीपनेन च। पीडां कुर्वन्तु रक्षांसि न मेऽस्ति मनसश्श्रमः।।5.53.16।। Sundara Kanda,53,17,ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम्। परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम्।।5.53.17।। Sundara Kanda,53,18,शङ्खभेरीनिनादैस्तं घोषयन्तः स्वकर्मभिः। राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम्।।5.53.18।। Sundara Kanda,53,19,अन्वीयमानो रक्षोभिर्ययौ सुखमरिन्दमः। हनुमांश्चारयामास राक्षसानां महापुरीम्।।5.53.19।। Sundara Kanda,53,20,अथापश्यद्विमानानि विचित्राणि महाकपिः। संवृतान् भूमिभागांश्च सुविभक्तांश्च चत्वरान्।।5.53.20।। Sundara Kanda,53,21,वीथीश्च गृहसम्बाधाः कपिश्शृङ्गाटकानि च। तथा रथ्योपरथ्याश्च तथैव गृहकान्तरान्।।5.53.21।। गृहांश्च मेघसङ्काशान् ददर्श पवनात्मजः। Sundara Kanda,53,22,चत्वरेषु चतुष्केषु राजमार्गे तथैव च।।5.53.22।। घोषयन्ति कपिं सर्वे चारीक इति राक्षसाः। Sundara Kanda,53,23,स्त्रीबालवृद्धाः निर्जग्मुस्तत्र तत्र कुतूहलात्।।5.53.23।। तं प्रदीपितलाङ्गूलं हनुमन्तं दिदृक्षवः। Sundara Kanda,53,24,दीप्यमाने ततस्तत्र लाङ्गूलाग्रे हनूमतः।।5.53.24।। राक्षस्यस्ता विरूपाक्ष्य श्शंसुर्देव्यास्तदप्रियम्। Sundara Kanda,53,25,यस्त्वया कृतसंवाद स्सीते ताम्रमुखः कपिः।।5.53.25।। लाङ्गूलेन प्रदीप्तेन स एष परिणीयते। Sundara Kanda,53,26,श्रुत्वा तद्वचनं क्रूरमात्मापहरणोपमम्।।5.53.26।। वैदेही शोकसन्तप्ता हुताशनमुपागमत्। Sundara Kanda,53,27,मङ्गलाभिमुखी तस्य सा तदाऽसीन्महाकपेः।।5.53.27।। उपतस्थे विशालाक्षी प्रयता हव्यवाहनम्। Sundara Kanda,53,28,यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः। यदि चास्त्येकपत्नीत्वं शीतो भव हनूमतः।।5.53.28।। Sundara Kanda,53,29,यदि किञ्चिदनुक्रोशस्तस्य मय्यस्ति धीमतः।।5.53.29।। यदि वा भाग्यशेषो मे शीतो भव हनूमतः। Sundara Kanda,53,30,यदि मां वृत्तसम्पन्नां तत्समागमलालसाम्।।5.53.30।। स विजानाति धर्मात्मा शीतो भव हनूमतः। Sundara Kanda,53,31,यदि मां तारयेदार्यस्सुग्रीवः सत्यसङ्गरः।।5.53.31।। अस्माद्धुःखाम्बुसंरोधाच्छीतो भव हनूमतः। Sundara Kanda,53,32,ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखोऽनलः।।5.53.32।। जज्वाल मृगशाबाक्ष्या श्शंसन्निव शिवं कपेः। Sundara Kanda,53,33,हनुमज्जनकश्चापि पुच्छानलयुतोऽनिलः।।5.53.33।। ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः। Sundara Kanda,53,34,दह्यमाने च लाङ्गूले चिन्तयामास वानरः।।5.53.34।। प्रदीप्तोऽग्निरयं कस्मान्न मां दहति सर्वतः। Sundara Kanda,53,35,दृश्यते च महाज्वालः करोति न च मे रुजम्।।5.53.35।। शिशिरस्येव सङ्घातो लाङ्गूलाग्रे प्रतिष्ठितः। Sundara Kanda,53,36,अथवा तदिदं व्यक्तं यद्दृष्टं प्लवता मया।।5.53.36।। रामप्रभावादाश्चर्यं पर्वत स्सरितां पतौ। Sundara Kanda,53,37,यदि तावत्समुद्रस्य मैनाकस्य च धीमतः।।5.53.37।। रामार्थं सम्भ्रमस्तादृक्किमग्निर्न करिष्यति। Sundara Kanda,53,38,सीतायाश्चानृशंस्येन तेजसा राघवस्य च।।5.53.38।। पितुश्च मम सख्येन न मां दहति पावकः। Sundara Kanda,53,39,भूयस्स चिन्तयामास मुहूर्तं कपिकुञ्जरः।।5.53.39।। उत्पपाताथ वेगेन ननाद च महाकपिः। Sundara Kanda,53,40,पुरद्वारं ततश्श्रीमान् शैलशृङ्गमिवोन्नतम्।।5.53.40।। विभक्तरक्षस्सम्बाधमाससादानिलात्मजः। Sundara Kanda,53,41,स भूत्वा शैलसङ्काशः क्षणेन पुनरात्मवान्।।5.53.41।। ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत्। Sundara Kanda,53,42,विमुक्तश्चाभवछ्रचीमान् पुनः पर्वतसन्निभः।।5.53.42।। वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम्। Sundara Kanda,53,43,स तं गृह्य महाबाहुः कालायसपरिष्कृतम्।।5.53.43।। रक्षिणस्तान् पुनस्सर्वान्सूदयामास मारुतिः। Sundara Kanda,53,44,स तान्निहत्त्वा रणचण्डविक्रम स्समीक्षमाणः पुनरेव लङ्काम्। प्रदीप्तलाङ्गूलकृतार्चिमाली प्रकाशतादित्य इवार्चिमाली।।5.53.44।। Sundara Kanda,54,1,वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः।।5.54.1।। वर्धमानसमुत्साहः कार्यशेषमचिन्तयत्। Sundara Kanda,54,2,किन्नु खल्ववशिष्टं मे कर्तव्यमिह साम्प्रतम्।।5.54.2।। यदेषां रक्षसां भूयः सन्तापजननं भवेत्। Sundara Kanda,54,3,वनं तावत्प्रमथितं प्रकृष्टा राक्षसा हताः।।5.54.3। बलैकदेशः क्षपितश्शेषं दुर्गविनाशनम्। Sundara Kanda,54,4,दुर्गे विनाशिते कर्म भवेत्सुखपरिश्रमम्। अल्पयत्नेन कार्येऽस्मिन् मम स्यात्सफलश्श्रमः।।5.54.4।। Sundara Kanda,54,5,यो ह्ययं मम लाङ्गूले दीप्यते हव्यवाहनः। अस्य सन्तर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः।।5.54.5।। Sundara Kanda,54,6,ततः प्रदीप्तलाङ्गूलस्सविद्युदिव तोयदः। भवनाग्रेषु लङ्काया विचचार महाकपिः।।5.54.6।। Sundara Kanda,54,7,गृहाद्गृहं राक्षसानामुद्यानानि च वानरः। वीक्षमाणो ह्यसन्त्रस्तः प्रासादांश्च चचार सः।।5.54.7।। Sundara Kanda,54,8,अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम्। अग्निं तत्र स निक्षिप्य श्वसनेन समो बली।।5.54.8।। Sundara Kanda,54,9,ततोऽन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान्। मुमोच हनुमानग्निं कालानलशिखोपमम्।।5.54.9।। Sundara Kanda,54,10,वज्रदंष्ट्रस्य च तदा पुप्लुवे स महाकपिः। शुकस्य च महातेजास्सारणस्य च धीमतः।।5.54.10।। Sundara Kanda,54,11,तथा चेन्द्रजितो वेश्म ददाह हरियूथपः। जम्बुमाले स्सुमालेश्च ददाह भवनं ततः।।5.54.11।। Sundara Kanda,54,12,रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च। ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः।।5.54.12।। Sundara Kanda,54,13,युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः। विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च।।5.54.13।। Sundara Kanda,54,14,करालस्य पिशाचस्य शोणिताक्षस्य चैव हि। कुम्भकर्णस्य भवनं मकराक्षस्य चैव हि।।5.54.14।। Sundara Kanda,54,15,यज्ञशत्रोश्च भवनं ब्रह्मशत्रोस्तथैव च। नरान्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः।।5.54.15।। Sundara Kanda,54,16,वर्जयित्वा महातेजा विभीषणगृहं प्रति। क्रममाणः क्रमेणैव ददाह हरिपुङ्गवः।।5.54.16।। Sundara Kanda,54,17,तेषु तेषु महार्हेषु भवनेषु महायशाः। गृहेष्वृद्धिमतामृद्धिं ददाह स महाकपिः।।5.54.17।। Sundara Kanda,54,18,सर्वेषां समतिक्रम्य राक्षसेन्द्रस्य वीर्यवान्। आससादाथ लक्ष्मीवान् रावणस्य निवेशनम्।।5.54.18।। Sundara Kanda,54,19,ततस्तस्मिन्गृहे मुख्ये नानारत्नविभूषिते। मेरुमन्दरसङ्काशे सर्वमङ्गळशोभिते।।5.54.19।। Sundara Kanda,54,20,प्रदीप्तमग्निमुत्सृज्य लाङ्गूलाग्रे प्रतिष्ठितम्। ननाद हनुमान्वीरो युगान्तजलदो यथा।।5.54.20।। Sundara Kanda,54,21,श्वसनेन च संयोगादतिवेगो महाबलः। कालाग्निरिव जज्वाल प्रावर्धत हुताशनः।।5.54.21।। Sundara Kanda,54,22,प्रदीप्तमग्निं पवनस्तेषु वेश्मस्वचारयत्। अभूच्छ्वसनसंयोगादतिवेगो हुताशनः।।5.54.22।। Sundara Kanda,54,23,तानि काञ्चनजालानि मुक्तामणिमयानि च। भवनान्यवशीर्यन्त रत्नवन्ति महान्ति च।।5.54.23।। Sundara Kanda,54,24,संजज्ञे तुमुलश्शब्दो राक्षसानां प्रधावताम्। स्वगृहस्य परित्राणे भग्नोत्साहोर्जितश्रियाम्।।5.54.24।। नूनमेषोऽग्निरायातः कपिरूपेण हा इति। Sundara Kanda,54,25,क्रन्दन्त्यस्सहसा पेतुः स्तनन्धयधराः स्त्रियः।।5.54.25।। Sundara Kanda,54,26,काश्चिदग्निपरीतेभ्यो हर्मेभ्यो मुक्तमूर्धजाः। पतन्त्यो रेजिरेऽभ्रेभ्यस्सौदामन्य इवाम्बरात्।।5.54.26।। Sundara Kanda,54,27,वज्रविद्रुमवैदूर्यमुक्तारजतसंहितान्। विचित्रान्भवनाद्धातून् स्यन्दमानान्ददर्श सः।।5.54.27।। Sundara Kanda,54,28,नाग्निस्तृप्यति काष्ठानां तृणानां च यथा तथा। हनूमान् राक्षसेन्दाणां विशस्तानां न तृप्यति।।5.54.28।। Sundara Kanda,54,29,क्वचित्किंशुकसङ्काशाः क्वचिच्छाल्मलिसन्निभाः।।5.54.29।। क्वचित्कुङ्कुमसङ्काशाश्शिखा वह्नेश्चकाशिरे। Sundara Kanda,54,30,हनूमता वेगवता वानरेण महात्मना। लङ्कापुरं प्रदग्धं तद्रुद्रेण त्रिपुरं यथा।।5.54.30।। Sundara Kanda,54,31,ततस्तु लङ्कापुरपर्वताग्रे समुत्थितो भीमपराक्रमोऽग्निः। प्रसार्य चूडावलयं प्रदीप्तो हनूमता वेगवता विसृष्टः।।5.54.31।। Sundara Kanda,54,32,युगान्तकालानलतुल्यवेग स्समारुतोऽग्निर्ववृधे दिविस्पृक्। विधूमरश्मिर्भवनेषु सक्तो रक्षश्शरीराज्यसमर्पतार्चिः।।5.54.32।। Sundara Kanda,54,33,आदित्यकोटीसदृशस्सुतेजा लङ्कां समस्तां परिवार्य तिष्ठन्। शब्दैरनेकैरशनिप्ररूढैर्भिन्दन्निवाण्डं प्रबभौ महाग्निः।।5.54.33।। Sundara Kanda,54,34,तत्राम्बरादग्निरतिप्रवृद्धो रूक्षप्रभः किंशुकपुष्पचूडः। निर्वाणधूमाकुलराजयश्च नीलोत्पलाभाः प्रचकाशिरेऽभ्राः।।5.54.34।। Sundara Kanda,54,35,वज्री महेन्द्रस्त्रिदशेश्वरो वा साक्षाद्यमो वा वरुणोऽनिलो वा। रुद्रोऽग्निरर्को धनदश्च सोमो न वानरोऽयं स्वयमेव कालः।।5.54.35।। Sundara Kanda,54,36,किं ब्रह्मणस्सर्वपितामहस्य सर्वस्य धातुश्चतुराननस्य। इहाऽऽगतो वानररूपधारी रक्षोपसंहारकरः प्रकोपः।।5.54.36।। Sundara Kanda,54,37,किं वैष्णवं वा कपिरूपमेत्य रक्षोविनाशाय परं सुतेजः। अनन्तमव्यक्तमचिन्त्यमेकं स्वमायया साम्प्रतमागतं वा।।5.54.37।। Sundara Kanda,54,38,इत्येवमूचुर्बहवो विशिष्टा रक्षोगणास्तत्र समेत्य सर्वे। सप्राणिसङ्घां सगृहां सवृक्षां दग्धां पुरीं तां सहसा समीक्ष्य।।5.54.38।। Sundara Kanda,54,39,ततस्तु लङ्का सहसा प्रदग्धा सराक्षसा साश्वरथा सनागा। सपक्षिसङ्घा समृगा सवृक्षा रुरोद दीना तुमुलं सशब्दम्।।5.54.39।। Sundara Kanda,54,40,हा तात हा पुत्रक कान्त मित्र हा जीवितं भोगयुतं सुपुण्यम्। रक्षोभिरेवं बहुधा ब्रुवद्भि श्शब्दः कृतो घोरतरस्सुभीमः।।5.54.40।। Sundara Kanda,54,41,हुताशनज्वालसमावृता सा हतप्रवीरा परिवृत्तयोधा हनूमतः क्रोधबलाभिभूता बभूव शापोपहतेव लङ्का।।5.54.41।। Sundara Kanda,54,42,स सम्भ्रमत्रस्तविषण्णराक्षसां समुज्ज्वलज्ज्वालहुताशनाङ्किताम्। ददर्श लङ्कां हनुमान्महामनाः स्वयम्भूकोपोपहतामिवावनिम्।।5.54.42।। Sundara Kanda,54,43,भङ्क्त्वा वनं पादपरत्नसङ्कुलं हत्वा तु रक्षांसि महान्ति संयुगे। दग्ध्वा पुरीं तां गृहरत्नमालिनीं तस्थौ हनूमान्पवनात्मजः कपिः।।5.54.43।। Sundara Kanda,54,44,त्रिकूटशृङ्गाग्रतले विचित्रे प्रतिष्ठितो वानरराजसिंहः। प्रदीप्तलाङ्गूलकृतार्चिमाली व्यराजताऽऽदित्य इवांशुमाली।।5.54.44।। Sundara Kanda,54,45,स राक्षसांस्तान्सुबहूंश्च हत्वा वनं च भङ्क्त्वा बहुपादपं तत्। विसृज्य रक्षोभवनेषु चाग्निं जगाम रामं मनसा महात्मा।।5.54.45।। Sundara Kanda,54,46,ततस्तु तं वानरवीरमुख्यं महाबलं मारुततुल्यवेगम्। महामतिं वायुसुतं वरिष्ठं प्रतुष्टुवुर्देवगणाश्च सर्वे।।5.54.46।। Sundara Kanda,54,47,भङ्क्त्वा वनं महातेजा हत्वा रक्षांसि संयुगे। दग्ध्वा लङ्कापुरीं रम्यां रराज स महाकपिः।।5.54.47।। Sundara Kanda,54,48,तत्र देवास्सगन्धर्वास्सिद्धाश्च परमर्षयः। दृष्ट्वा लङ्कां प्रदग्धां तां विस्मयं परमं गताः।।5.54.48।। Sundara Kanda,54,49,तं दृष्ट्वा वानरश्रेष्ठं हनुमन्तं महाकपिम्। कालाग्निरिति सञ्चिन्त्य सर्वभूतानि तत्रसुः।।5.54.49।। Sundara Kanda,54,50,देवाश्च सर्वे मुनिपुङ्गवाश्च गन्धर्वविद्याधरनागयक्षाः। भूतानि सर्वाणि महान्ति तत्र जग्मुः परां प्रीतिमतुल्यरूपाम्।।5.54.50।। Sundara Kanda,55,1,लङ्कां समस्तां सन्दीप्य लाङ्गूलाग्निं महाबलः। निर्वापयामास तदा समुद्रे हरिसत्तमः।। सन्दीप्यमानां विध्वस्तां त्रस्तरक्षोगणां पुरीम्। आवेक्ष्य हनुमान् लङ्कां चिन्तयामास वानरः।।5.55.1।। Sundara Kanda,55,2,तस्याभूत्सुमहांस्त्रासः कुत्सा चात्मन्यजायत। लङ्कां प्रदहता कर्म किंस्वित्कृतमिदं मया।।5.55.2।। Sundara Kanda,55,3,धन्यास्ते पुरुषश्रेष्ठा ये बुद्ध्या कोपमुत्थितम्। निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा।।5.55.3।। Sundara Kanda,55,4,क्रुद्धः पापं न कुर्यात्कः क्रुद्धो हन्याद्गुरूनपि। क्रुद्धः परुषया वाचा नरस्साधूनधिक्षिपेत्।।5.55.4।। Sundara Kanda,55,5,वाच्यावाच्यं प्रकुपितो न विजानाति कर्हिचित्। नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित्।।5.55.5।। Sundara Kanda,55,6,यस्समुत्पतितं क्रोधं क्षमयैव निरस्यति। यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते।।5.55.6।। Sundara Kanda,55,7,धिगस्तु मां सुदुर्बुद्धिं निर्लज्जं पापकृत्तमम्। अचिन्तयित्वा तां सीतामग्निदं स्वामिघातुकम्।।5.55.7।। Sundara Kanda,55,8,यदि दग्धा त्वियं लङ्का नूनमार्याऽपि जानकी। दग्धा तेन मया भर्तुर्हितं कार्यमजानता।।5.55.8।। Sundara Kanda,55,9,यदर्थमयमारम्भस्तत्कार्यमवसादितम्। मया हि दहता लङ्कां न सीता परिरक्षिता।।5.55.9।। Sundara Kanda,55,10,ईषत्कार्यमिदं कार्यं कृतमासीन्न संशयः। तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः।।5.55.10।। Sundara Kanda,55,11,विनष्टा जानकी नूनं न ह्यदग्धः प्रदृश्यते। लङ्कायां कश्चिदुद्धेशस्सर्वा भस्मीकृता पुरी।।5.55.11।। Sundara Kanda,55,12,यदि तद्विहतं कार्यं मम प्रज्ञाविपर्ययात्। इहैव प्राणसंन्यासो ममापि ह्यद्य रोचते।।5.55.12।। Sundara Kanda,55,13,किमग्नौ निपताम्यद्य आहोस्विद्बडबामुखे। शरीरमाहो सत्त्वानां दद्मि सागरवासिनाम्।।5.55.13।। Sundara Kanda,55,14,कथं हि जीवता शक्यो मया द्रष्टुं हरीश्वरः। तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना।।5.55.14।। Sundara Kanda,55,15,मया खलु तदेवेदं रोषदोषात्प्रदर्शितम्। प्रथितं त्रिषु लोकेषु कपित्वमनवस्थितम्।।5.55.15।। Sundara Kanda,55,16,धिगस्तु राजसं भावमनीशमनवस्थितम्। ईश्वरेणापि यद्रागान्मया सीता न रक्षिता।।5.55.16।। Sundara Kanda,55,17,विनष्टायां तु सीतायां तावुभौ विनशिष्यतः। तयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति।।5.55.17।। Sundara Kanda,55,18,एतदेव वचश्श्रुत्वा भरतो भ्रातृवत्सलः। धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम्।।5.55.18।। Sundara Kanda,55,19,इक्ष्वाकुवंशे धर्मिष्ठे गते नाशमसंशयम्। भविष्यन्ति प्रजास्सर्वाश्शोकसन्तापपीडिताः।।5.55.19।। Sundara Kanda,55,20,तदहं भाग्यरहितो लुप्तधर्मार्थसङ्ग्रहः।।5.55.20।। रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः। Sundara Kanda,55,21,इति चिन्तयतस्तस्य निमित्तान्युपपेदिरे। पूर्वमप्युपलब्धानि साक्षात्पुनरचिन्तयत्।।5.55.21।। Sundara Kanda,55,22,अथवा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा। न नशिष्यति कल्याणी नाग्निरग्नौ प्रवर्तते।।5.55.22।। Sundara Kanda,55,23,न हि धर्मात्मनस्तस्य भार्याममिततेजसः। स्वचारित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः।।5.55.23।। Sundara Kanda,55,24,नूनं रामप्रभावेण वैदेह्यास्सुकृतेन च। यन्मां दहनकर्मायं नादहद्धव्यवाहनः।।5.55.24।। Sundara Kanda,55,25,त्रयाणां भरतादीनां भ्रात्रूणां देवता च या। रामस्य च मन: कान्ता सा कथं विनशिष्यति।।5.55.25।। Sundara Kanda,55,26,यद्वा दहनकर्मायं सर्वत्र प्रभुरव्ययः। न मे दहति लाङ्गूलं कथमार्यां प्रधक्ष्यति।।5.55.26। Sundara Kanda,55,27,पुनश्चाचिन्तयत्तत्र हनुमान्विस्मितस्तदा। हिरण्यनाभस्य गिरेर्जलमध्ये प्रदर्शनम्।।5.55.27।। Sundara Kanda,55,28,तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि। अपि सा निर्दहेदग्निं न तामग्निः प्रधक्ष्यति।।5.55.28।। Sundara Kanda,55,29,स तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम्। शुश्राव हनुमान्वाक्यं चारणानां महात्मनाम्।।5.55.29।। Sundara Kanda,55,30,अहो खलु कृतं कर्म दुष्करं हि हनूमता। अग्निं विसृजताऽभीक्ष्णं भीमं राक्षसवेश्मनि।।5.55.30।। Sundara Kanda,55,31,प्रपलायितरक्षः स्त्रीबालवृद्धसमाकुला। जनकोलाहलाध्माता क्रन्दन्तीवाद्रिकन्दरै: ।।5.55.31।। Sundara Kanda,55,32,दग्धेयं नगरी सर्वा साट्टप्राकारतोरणा। जानकी न च दग्धेति विस्मयोऽद्भुत एव नः।।5.55.32।। Sundara Kanda,55,33,स निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः। ऋषिवाक्यैश्च हनुमानभवत्प्रीतमानसः।।5.55.33।। Sundara Kanda,55,34,ततः कपिः प्राप्तमनोरथार्थस्तामक्षतां राजसुतां विदित्वा। प्रत्यक्षतस्तां पुनरेव दृष्टवा प्रतिप्रयाणाय मतिं चकार।।5.55.34।। Sundara Kanda,56,1,ततस्तु शिंशुपामूले जानकीं पर्युपस्थिताम्। अभिवाद्याब्रवीद्दिष्ट्या पश्यामि त्वामिहाक्षताम्।।5.56.1।। Sundara Kanda,56,2,ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः। भर्तृस्नेहान्वितं वाक्यं हनुमन्तमभाषत।।5.56.2।। Sundara Kanda,56,3,काममस्य त्वमेवैकः कार्यस्य परिसाधने। पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः।।5.56.3।। Sundara Kanda,56,4,शरैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः। मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत्।।5.56.4।। Sundara Kanda,56,5,तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः। भवत्याहवशूरस्य तथा त्वमुपपादय।।5.56.5।। Sundara Kanda,56,6,तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम्। निशम्य हनुमांस्तस्या वाक्यमुत्तरमब्रवीत्।।5.56.6।। Sundara Kanda,56,7,क्षिप्रमेष्यति काकुत्स्थः हर्यृक्षप्रवरैर्वृतः। यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति।।5.56.7।। Sundara Kanda,56,8,एवमाश्वास्य वैदेहीं हनुमान् मारुतात्मजः। गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत्।।5.56.8।। Sundara Kanda,56,9,ततस्स कपिशार्दूलः स्वामिसन्दर्शनोत्सुकः। आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः।।5.56.9।। Sundara Kanda,56,10,तुङ्गपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः। सोत्तरीयमिवाम्भोदैः शृंगान्तरविलम्बिभिः।।5.56.10।। Sundara Kanda,56,11,बोध्यमानमिव प्रीत्या दिवाकरकरैश्शुभैः। उन्मिषन्तमिवोद्धूतैर्लोचनैरिव धातुभिः।।5.56.11।। Sundara Kanda,56,12,तोयौघननिस्स्वनैर्मन्द्रैः प्राधीतमिव पर्वतम्। प्रगीतमिव विस्पष्टैर्नानाप्रस्रवणस्वनैः।।5.56.12।। Sundara Kanda,56,13,देवदारुभिरत्युच्चैरूर्ध्वबाहुमिव स्थितम्। प्रपातजलनिर्घोषैः प्राक्रुष्टमिव सर्वतः।।5.56.13।। Sundara Kanda,56,14,वेपमानमिव श्यामैः कम्पमानैश्शरद्वनैः। वेणुभिर्मारुतोद्धूतैः कूजन्तमिव कीचकैः।।5.56.14।। Sundara Kanda,56,15,निश्श्वसन्तमिवामर्षाद्घोरैराशीविषोत्तमैः। नीहारकृतगम्भीरैर्ध्यायन्तमिव गह्वरैः।।5.56.15।। Sundara Kanda,56,16,मेघपादनिभैः पादैः प्रक्रान्तमिव सर्वतः। जृंम्भमाणमिवाऽकाशे शिखरैरभ्रमालिभिः।।5.56.16।। Sundara Kanda,56,17,कूटैश्च बहुधा कीर्णैश्शोभितं बहुकन्दरैः। सालतालाश्वकर्णैश्च वंशैश्च बहुभिर्वृतम्।।5.56.17।। Sundara Kanda,56,18,लतावितानैर्विततैः पुष्पवद्भिरलङ्कृतम्। नानामृगगणाकीर्णं धातुनिष्यन्दभूषितम्।।5.56.18।। Sundara Kanda,56,19,बहुप्रस्रवणोपेतं शिलासञ्चयसङ्कटम्। महर्षियक्षगन्धर्वकिन्नरोरगसेवितम्।।5.56.19।। Sundara Kanda,56,20,लतापादपसङ्घातं सिंहाध्युषितकन्दरम्। व्याघ्रसङ्घसमाकीर्णं स्वादुमूलफलद्रुमम्।।5.56.20।। Sundara Kanda,56,21,तमारुरोह हनुमान् पर्वतं पवनात्मजः। रामदर्शनशीघ्रेण प्रहर्षेणाभिचोदितः।।5.56.21।। Sundara Kanda,56,22,तेन पादतलाक्रान्ता रम्येषु गिरिसानुषु। सघोषास्समशीर्यन्त शिलाश्चूर्णीकृतास्ततः।।5.56.22।। Sundara Kanda,56,23,स तमारुह्य शैलेन्द्रं व्यवर्धत महाकपिः। दक्षिणादुत्तरं पारं प्रार्थयन् लवणाम्भसः।।5.56.23।। Sundara Kanda,56,24,अधिरुह्य ततो वीरः पर्वतं पवनात्मजः। ददर्श सागरं भीमं मीनोरगनिषेवितम्।।5.56.24।। Sundara Kanda,56,25,स मारुत इवाऽकाशं मारुतस्यात्मसम्भवः। प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशम्।।5.56.25।। Sundara Kanda,56,26,स तदा पीडितस्तेन कपिना पर्वतोत्तमः। ररास सह तैर्भूतैः प्रविशन्वसुधातलम्।।5.56.26।। कम्पमानैश्च शिखरैः पतद्भिरपि च द्रुमैः। Sundara Kanda,56,27,तस्योरुवेगोन्मथिताः पादपाः पुष्पशालिनः।।5.56.27।। निपेतुर्भूतले रुग्णाश्शक्रायुधहता इव। Sundara Kanda,56,28,कन्दरान्तरसंस्थानां पीडितानां महौजसाम्।।5.56.28।। सिंहानां निनदो भीमो नभो भिन्दन् स शुश्रुवे। Sundara Kanda,56,29,त्रस्तव्यावृत्तवसना व्याकुलीकृतभूषणाः।।5.56.29।। विद्याधर्यः समुत्पेतुस्सहसा धरणीधरात्। Sundara Kanda,56,30,अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषाः।।5.56.30।। निपीडितशिरोग्रीवा व्यचेष्टन्त महाहयः। Sundara Kanda,56,31,किन्नरोरगन्धर्वयक्षविद्याधरास्तदा।।5.56.31।। पीडितं तं नगवरं त्यक्त्वा गगनमास्थिता:। Sundara Kanda,56,32,स च भूमिधरः श्रीमान्बलिना तेन पीडितः।।5.56.32।। सवृक्षशिखरोदग्रः प्रविवेश रसातलम्। Sundara Kanda,56,33,दशयोजनविस्तारस्त्रिंशद्योजनमुच्छ्रितः।।5.56.33।। धरण्यां समतां यातः स बभूव धराधरः। Sundara Kanda,56,34,स लिलङ्घयिषुर्भीमं सलीलं लवणार्णवम्।।5.56.34।। कल्लोलास्फालवेलान्तमुत्पपात नभो हरिः। Sundara Kanda,57,1,स चन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम्। तिष्यश्रवणकादम्बमभ्रशैवालशाद्वलम्।।5.57.1।। Sundara Kanda,57,2,पुनर्वसुमहामीनं लोहिताङ्गमहाग्रहम्। ऐरावतमहाद्वीपं स्वातिहंसविलोलितम्।।5.57.2।। Sundara Kanda,57,3,वातसङ्घातजातोर्मि चन्द्रांशुशिशिराम्बुमत्। भुजङ्गयक्षगन्धर्वप्रबुद्धकमलोत्पलम्।।5.57.3।। Sundara Kanda,57,4,हनुमान्मारुतगतिर्महानौरिव सागरम्। अपारमपरिश्रान्तः पुप्लुवे गगनार्णवम् ।।5.57.4।। Sundara Kanda,57,5,ग्रसमान इवाकाशं ताराधिपमिवोल्लिखन्। हरन्निव सनक्षत्रं गगनं सार्कमण्डलम्।।5.57.5।। Sundara Kanda,57,6,मारुतस्यात्मजः श्रीमान्कपिर्व्योमचरो महान्। हनुमान्मेघजालानि विकर्षन्निव गच्छति।।5.57.6।। Sundara Kanda,57,7,पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च। हरितारुणवर्णानि महाभ्राणि चकाशिरे।।5.57.7।। Sundara Kanda,57,8,प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः। प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते।।5.57.8।। Sundara Kanda,57,9,विविधाभ्रघनापन्नगोचरो धवलाम्बरः। दृश्यादृश्यतनुर्वीरस्तदा चन्द्रायतेऽम्बरे।।5.57.9।। Sundara Kanda,57,10,तार्क्ष्यायमाणो गगने बभासे वायुनन्दनः। दारयन्मेघबृन्दानि निष्पतंश्च पुनः पुनः।।5.57.10।। नदन्नादेन महता मेघस्वनमहास्वनः। Sundara Kanda,57,11,प्रवरान्राक्षसान् हत्वा नाम विश्राव्य चात्मनः।।5.57.11।। Sundara Kanda,57,12,आकुलां नगरीं कृत्वा व्यथयित्वा च रावणम्। अर्दयित्वा बलं घोरं वैदेहीमभिवाद्य च।।5.57.12।। आजगाम महातेजाः पुनर्मध्येन सागरम्। Sundara Kanda,57,13,पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान्।।5.57.13।। ज्यामुक्त इव नाराचो महावेगोऽभ्युपागतः। Sundara Kanda,57,14,स किञ्चिदनुसम्प्राप्तः समालोक्य महागिरिम्।।5.57.14।। महेन्द्रं मेघसङ्काशं ननाद हरिपुङ्गवः। Sundara Kanda,57,15,स पूरयामास कपिर्दिशो दश समन्ततः।।5.57.15।। नदन्नादेन महता मेघस्वनमहास्वनः। Sundara Kanda,57,16,स तं देशमनुप्राप्तः सुहृद्धर्शनलालसः।।5.57.16।। ननाद हरिशार्दूलो लाङ्गूलं चाप्यकम्पयत्। Sundara Kanda,57,17,तस्य नानद्यमानस्य सुपर्णचरिते पथि।।5.57.17।। फलतीवास्य घोषेण गगनं सार्कमण्डलम्। Sundara Kanda,57,18,ये तु तत्रोत्तरे तीरे समुद्रस्य महाबलाः।।5.57.18।। Sundara Kanda,57,19,पूर्वं संविष्ठिताश्शूरा वायुपुत्रदिदृक्षवः। महतो वातनुन्नस्य तोयदस्येव गर्जितम्।।5.57.19।। शुश्रुवुस्ते तदा घोषमूरुवेगं हनूमतः। Sundara Kanda,57,20,ते दीनमनसस्सर्वे शुश्रुवुः काननौकसः।।5.57.20।। वानरेन्द्रस्य निर्घोषं पर्जन्यनिनदोपमम्। Sundara Kanda,57,21,निशम्य नदतो नादं वानरास्ते समन्ततः।।5.57.21।। बभूवुरुत्सुकास्सर्वे सुहृद्धर्शनकाङ्क्षिणः। Sundara Kanda,57,22,जाम्बवान् स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः।।5.57.22।। उपामन्त्र्य हरीन् सर्वानिदं वचनमब्रवीत्। Sundara Kanda,57,23,सर्वथा कृतकार्योऽसौ हनुमान्नात्र संशयः।।5.57.23।। न ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत्। Sundara Kanda,57,24,तस्य बाहूरुवेगं च निनादं च महात्मनः।।5.57.24।। निशम्य हरयो हृष्टाः समुत्पेतुस्ततस्ततः। Sundara Kanda,57,25,ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि च।।5.57.25।। प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः। Sundara Kanda,57,26,ते प्रीताः पादपाग्रेषु गृह्य शाखाः सुविष्ठिताः।।5.57.26।। वासांसीव प्रशाखाश्च समाविध्यन्त वानराः। Sundara Kanda,57,27,गिरिगह्वरसंलीनो यथा गर्जति मारुतः।।5.57.27।। एवं जगर्ज बलवान् हनुमान्मारुतात्मजः। Sundara Kanda,57,28,तमभ्रघनसङ्काशमापतन्तं महाकपिम्।।5.57.28।। दृष्ट्वा ते वानरास्सर्वे तस्थुः प्राञ्जलयस्तदा। Sundara Kanda,57,29,ततस्तु वेगवांस्तस्य गिरेर्गिरिनिभः कपिः।।5.57.29।। निपपात महेन्द्रस्य शिखरे पादपाकुले। Sundara Kanda,57,30,हर्षेणापूर्यमाणोऽसौ रम्ये पर्वतनिर्झरे।।5.57.30।। छिन्नपक्ष इवाऽकाशात्पपात धरणीधरः। Sundara Kanda,57,31,ततस्ते प्रीतमनसस्सर्वे वानरपुङ्गवाः।।5.57.31।। Sundara Kanda,57,32,हनुमन्तं महात्मानं परिवार्योपतस्थिरे। परिवार्य च ते सर्वे परां प्रीतिमुपागताः।।5.57.32।। Sundara Kanda,57,33,प्रहृष्टवदना स्सर्वे तमरोगमुपागतम्। उपायनानि चादाय मूलानि च फलानि च।।5.57.33।। प्रत्यर्चयन् हरिश्रेष्ठं हरयो मारुतात्मजम्। Sundara Kanda,57,34,हनुमांस्तु गुरून् वृद्धाञ्जाम्बवत्प्रमुखांस्तदा।।5.57.34।। कुमारमङ्गदं चैव सोऽवन्दत महाकपिः। Sundara Kanda,57,35,स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः।।5.57.35।। दृष्टा सीतेति विक्रान्त स्संक्षेपेण न्यवेदयत्। Sundara Kanda,57,36,निषसाद च हस्तेन गृहीत्वा वालिनस्सुतम्।।5.57.36।। रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा। Sundara Kanda,57,37,हनुमानब्रवीद्धृष्टस्तदा तान्वानरर्षभान्।।5.57.37।। Sundara Kanda,57,38,अशोकवनिकासंस्था दृष्टा सा जनकात्मजा। रक्षमाणा सुघोराभी राक्षसीभिरनिन्दिता।।5.57.38।। Sundara Kanda,57,39,एकवेणीधरा बाला रामदर्शनलालसा। उपवासपरिश्रान्ता जटिला मलिना कृशा।।5.57.39।। Sundara Kanda,57,40,ततो दृष्टेति वचनं महार्थममृतोपमम्। निशम्य मारुतेस्सर्वे मुदिता वानराभवन्।।5.57.40।। Sundara Kanda,57,41,क्ष्वेलन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः। चक्रुः किलकिलामन्ये प्रतिगर्जन्ति चापरे।।5.57.41।। Sundara Kanda,57,42,केचिदुच्छ्रितलाङ्गूलाः प्रहृष्टाः कपिकुञ्जराः। आयताञ्चितदीर्घाणि लाङ्गूलानि प्रविव्यधुः।।5.57.42।। Sundara Kanda,57,43,अपरे च हनूमन्तं वानरा वारणोपमम्। आप्लुत्य गिरिशृङ्गेभ्यस्संस्पृशन्ति स्म हर्षिताः।।5.57.43।। Sundara Kanda,57,44,उक्तवाक्यं हनूमन्तमङ्गदस्तमथाब्रवीत्। सर्वेषां हरिवीराणां मध्ये वचनमुत्तमम्।।5.57.44।। Sundara Kanda,57,45,सत्त्वे वीर्ये न ते कश्चित्समो वानर विद्यते। यदवप्लुत्य विस्तीर्णं सागरं पुनरागतः।।5.57.45।। Sundara Kanda,57,46,अहो स्वामिनि ते भक्तिरहो वीर्यमहो धृतिः। दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी।।5.57.46।। दिष्ट्या त्यक्ष्यति काकुत्स्थ श्शोकं सीतावियोगजम्। Sundara Kanda,57,47,ततोऽङ्गदं हनूमन्तं जाम्बवन्तं च वानराः।।5.57.47।। परिवार्य प्रमुदिता भेजिरे विपुलाश्शिलाः। Sundara Kanda,57,48,श्रोतुकामास्समुद्रस्य लङ्घनं वानरोत्तमाः।।5.57.48।। Sundara Kanda,57,49,दर्शनं चापि लङ्कायास्सीताया रावणस्य च। तस्थुः प्राञ्जलयस्सर्वे हनुमद्वचनोन्मुखाः।।5.57.49।। Sundara Kanda,57,50,तस्थौ तत्राङ्गदः श्रीमान् वानरैर्बहुभिर्वृतः। उपास्यमानो विबुधैर्दिवि देवपतिर्यथा।।5.57.50।। Sundara Kanda,57,51,हनूमता कीर्तिमता यशस्विना तथाङ्गदेनाङ्गदबद्धबाहुना। मुदा तदाऽध्यासितमुन्नतं महन्महीधराग्रं ज्वलितं श्रियाभवत्।।5.57.51।। Sundara Kanda,58,1,ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः। हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम्।।5.58.1।। Sundara Kanda,58,2,तं ततः प्रीतिसंहृष्टः प्रीतिमन्तं महाकपिम्। जाम्बवान्कार्यवृत्तान्तमपृच्छदनिलात्मजम्।।5.58.2।। Sundara Kanda,58,3,कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते। तस्यां वा स कथंवृत्तः क्रूरकर्मा दशाननः।।5.58.3।। Sundara Kanda,58,4,तत्त्वतस्सर्वमेतन्नः प्रब्रूहि त्वं महाकपे। श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम्।।5.58.4।। Sundara Kanda,58,5,यश्चार्थस्तत्त्र वक्तव्यो गतैरस्माभिरात्मवान्। रक्षितव्यं च यत्तत्र तद्भवान्व्याकरोतु नः।।5.58.5।। Sundara Kanda,58,6,स नियुक्तस्ततस्तेन सम्प्रहृष्टतनूरुहः। प्रणम्य शिरसा देव्यै सीतायै प्रत्यभाषत।।5.58.6।। Sundara Kanda,58,7,प्रत्यक्षमेव भवतां महेन्द्राग्रात्खामाप्लुतः। उदधेर्दक्षिणं पारं काङ्क्षमाण स्समाहितः।।5.58.7।। Sundara Kanda,58,8,गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत्। काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम्।।5.58.8।। Sundara Kanda,58,9,स्थितं पन्धानमावृत्य मेने विघ्नं च तं नगम्। उपसङ्गम्य तं दिव्यं काञ्चनं नगसत्तमम्।।5.58.9।। कृता मे मनसा बुद्धिर्भेत्तव्योऽयं मयेति च। Sundara Kanda,58,10,प्रहतं च मया तस्य लाङ्गूलेन महागिरेः।।5.58.10।। शिखरं सूर्यसङ्काशं व्यशीर्यत सहस्रधा। Sundara Kanda,58,11,व्यवसायं च तं बुद्ध्वा स होवाच महागिरिः।।5.58.11। पुत्त्रेति मधुरां वाणीं मनः प्रह्लादयन्निव। Sundara Kanda,58,12,पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः।।5.58.12।। मैनाकमिति विख्यातं निवसन्तं महोदधौ। Sundara Kanda,58,13,पक्षवन्तः पुरा पुत्त्र बभूवुः पर्वतोत्तमाः।।5.58.13।। छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः। Sundara Kanda,58,14,श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः।।5.58.14।। चिच्छेद भगवान् पक्षान्वज्रेणैषां सहस्रशः। Sundara Kanda,58,15,अहं तु मोक्षितस्तस्मात्तव पित्रा महात्मना।।5.58.15।। मारुतेन तदा वत्स प्रक्षिप्तोऽस्मि महार्णवे। Sundara Kanda,58,16,रामस्य च मया साह्ये वर्तितव्यमरिन्दम।।5.58.16।। रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः। Sundara Kanda,58,17,एतच्छ्रुत्वा वचस्तस्य मैनाकस्य महात्मनः।।5.58.17।। Sundara Kanda,58,18,कार्यमावेद्य तु गिरेरुद्यतं च मनो मम। तेन चाहमनुज्ञातो मैनाकेन महात्मना।।5.58.18।। Sundara Kanda,58,19,स चाप्यन्तर्हितः शैलो मानुषेण वपुष्मता। शरीरेण महाशैलः शैलेन च महोदधौ।।5.58.19।। Sundara Kanda,58,20,उत्तमं जवमास्थाय शेषं पन्थानमास्थितः। ततोऽहं सुचिरं कालं वेगेनाभ्यागमं पथि।।5.58.20।। Sundara Kanda,58,21,ततः पश्याम्यहं देवीं सुरसां नागमातरम्। समुद्रमध्ये सा देवी वचनं मामभाषत।।5.58.21।। Sundara Kanda,58,22,मम भक्षः प्रदिष्टस्त्वममरैर्हरिसत्तम। अतस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे।।5.58.22।। Sundara Kanda,58,23,एवमुक्त स्सुरसया प्राञ्जलिः प्रणतः स्थितः। विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम्।।5.58.23।। Sundara Kanda,58,24,रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम्। लक्ष्मणेन सह भ्रात्रा सीतया च परन्तपः।।5.58.24।। Sundara Kanda,58,25,तस्य सीता हृता भार्या रावणेन दुरात्मना। तस्या स्सङ्काशं दूतोऽहं गमिष्ये रामशासनात्।।5.58.25।। Sundara Kanda,58,26,कर्तुमर्हसि रामस्य साहाय्यं विषये सती। अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम्।।5.58.26।। आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते। Sundara Kanda,58,27,एवमुक्ता मया सा तु सुरसा कामरूपिणी।5.58.27।। अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम। Sundara Kanda,58,28,एवमुक्तस्सुरसया दशयोजनमायतः।।5.58.28।। ततोर्थगुणविस्तारो बभूवाहं क्षणेन तु। Sundara Kanda,58,29,मत्प्रमाणानुरूपं च व्यादितं च मुखं तया।।5.58.29।। Sundara Kanda,58,30,तद्दृष्ट्वा व्यादितं चास्यं ह्रस्वं ह्यकरवं वपुः। तस्मिन्मुहूर्ते च पुनर्बभूवाङ्गुष्ठमात्रकः।।5.58.30।। Sundara Kanda,58,31,अभिपत्याशु तद्वक्त्रं निर्गतोऽहं ततः क्षणात्। अब्रवीत्सुरसा देवी स्वेन रूपेण मां पुनः।।5.58.31।। Sundara Kanda,58,32,अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम्। समानय च वैदेहीं राघवेण महात्मना।।5.58.32।। सुखी भव महाबाहो प्रीताऽस्मि तव वानर। Sundara Kanda,58,33,ततोऽहं साधु साध्विति सर्वभूतैः प्रशंसितः।।5.58.33।। ततोऽन्तरिक्षं विपुलं प्लुतोऽहं गरुडो यथा। Sundara Kanda,58,34,छाया मे निगृहीता च न च पश्यामि किंचन।।5.58.34।। Sundara Kanda,58,35,सोऽहं विहतवेगस्तु दिशो दश विलोकयन्। न किञ्चित्तत्र पश्यामि येन मेऽपहृता गतिः।।5.58.35।। Sundara Kanda,58,36,ततो मे बुद्धिरुत्पन्ना किन्नाम गगने मम। ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते।।5.58.36।। Sundara Kanda,58,37,अधोभागेन मे दृष्टि श्शोचता पातिता मया। ततोऽद्राक्षमहं भीमां राक्षसीं सलिलेशयाम्।।5.58.37।। Sundara Kanda,58,38,प्रहस्य च महानादमुक्तोऽहं भीमया तया। अवस्थितमसम्भ्रान्तमिदं वाक्यमशोभनम्।।5.58.38।। Sundara Kanda,58,39,क्वासि गन्ता महाकाय क्षुधिताया ममेप्सितः। भक्षः प्रीणय मे देहं चिरमाहारवर्जितम्।।5.58.39।। Sundara Kanda,58,40,बाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततः। अस्यप्रमाणादधिकं तस्याः कायमपूरयम्।।5.58.40।। Sundara Kanda,58,41,तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे। न च मां साधु बुबुधे मम वा विकृतं कृतम्।।5.58.41।। Sundara Kanda,58,42,ततोऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात्। तस्या हृदयमादाय प्रपतामि नभ:स्थलम्।।5.58.42।। Sundara Kanda,58,43,सा विसृष्टभुजा भीमा पपात लवणाम्भसि। मया पर्वतसङ्काशा निकृत्तहृदया सती।।5.58.43।। Sundara Kanda,58,44,शृणोमि खगतानां च सिद्धानां चारणैस्सह। राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता।।5.58.44।। Sundara Kanda,58,45,तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन्। गत्वा चाह महध्वानं पश्यामि नगमण्डितम्।।5.58.45।। दक्षिणं तीरमुदधेर्लङ्का यत्र च सा पुरी। Sundara Kanda,58,46,अस्तं दिनकरे याते रक्षसां निलयं पुरम्।।5.58.46।। प्रविष्टोऽहमविज्ञातो रक्षोभिर्भीमविक्रमैः। Sundara Kanda,58,47,तत्र प्रविशतश्चापि कल्पान्तघनसन्निभा।।5.58.47।। अट्टहासं विमुञ्चन्ती नारी काप्युत्थिता पुरः। Sundara Kanda,58,48,जिघांसन्तीं ततस्तां तु ज्वलदग्निशिरोरुहाम्।।5.58.48।। Sundara Kanda,58,49,सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम्। प्रदोषकाले प्रविशं भीतयाऽहं तयोदितः।।5.58.49।। Sundara Kanda,58,50,अहं लङ्कापुरी वीर निर्जिता विक्रमेण ते। यस्मात्तस्माद्विजेतासि सर्वरक्षांस्यशेषतः।।5.58.50।। Sundara Kanda,58,51,तत्राहं सर्वरात्रं तु विचिन्वन् जनकात्मजाम्। रावणान्तःपुरगतो न चापश्यं सुमध्यमाम्।।5.58.51।। Sundara Kanda,58,52,तत स्सीतामपश्यंस्तु रावणस्य निवेशने। शोकसागरमासाद्य न पारमुपलक्षये।।5.58.52।। Sundara Kanda,58,53,शोचता च मया दृष्टं प्राकारेण समावृतम्। काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम्।।5.58.53।। Sundara Kanda,58,54,स प्राकारमवप्लुत्य पश्यामि बहुपादपम्। अशोकवनिकामध्ये शिंशुपापादपो महान्।।5.58.54।। तमारुह्य च पश्यामि काञ्चनं कदलीवनम्। Sundara Kanda,58,55,अदूरे शिंशुपावृक्षात्पश्यामि वरवर्णिनीम्।।5.58.55।। Sundara Kanda,58,56,श्यामां कमलपत्राक्षीमुपवासकृशाननाम्। तदेकवासस्संवीतां रजोध्वस्तशिरोरुहाम्।।5.58.56।। Sundara Kanda,58,57,शोकसन्तापदीनाङ्गीं सीतां भर्तृहिते स्थिताम्। राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम्।।5.58.57।। मांसशोणितभक्षाभिर्व्याघ्रीभिर्हरिणीमिव। Sundara Kanda,58,58,सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः।।5.58.58।। Sundara Kanda,58,59,एकवेणीधरा दीना भर्तृचिन्तापरायणा। भूमिशय्या विवर्णाङ्गी पद्मिनीव हिमागमे।।5.58.59।। Sundara Kanda,58,60,रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया। कथञ्चिन्मृगशाबाक्षी तूर्णमासादिता मया।।5.58.60।। Sundara Kanda,58,61,तां दृष्ट्वा तादृशीं नारीं रामपत्नीं यशस्विनीम्। तत्रैव शिंशुपावृक्षे पश्यन्नहमवस्थितः।।5.58.61।। Sundara Kanda,58,62,ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम्। शृणोम्यधिकगम्भीरं रावणस्य निवेशने।।5.58.62।। Sundara Kanda,58,63,ततोऽहं परमोद्विग्नः स्वं रूपं प्रत्यसंहरम्। अहं तु शिंशुपावृक्षे पक्षीव गहने स्थितः।।5.58.63।। Sundara Kanda,58,64,ततो रावणदाराश्च रावणश्च महाबलः। तं देशं समनुप्राप्ता यत्र सीताऽभवत् स्थिता।।5.58.64।। Sundara Kanda,58,65,तं दृष्ट्वाथ वरारोहा सीता रक्षोगणेश्वरम्। सङ्कुच्योरूस्तनौ पीनौ बाहुभ्यां परिरभ्य च।।5.58.65।। Sundara Kanda,58,66,वित्रस्तां परमोद्विग्नां वीक्षमाणां ततस्ततः। त्राणं किञ्चिदपश्यन्तीं वेपमानां तपस्विनीम्।।5.58.66।। Sundara Kanda,58,67,तामुवाच दशग्रीवस्सीतां परमदुःखिताम्। अवाक्चिराः प्रपतितो बहुमन्यस्व मामिति।।5.58.67।। Sundara Kanda,58,68,यदि चेत्त्वं तु दर्पान्मां नाभिनन्दसि गर्विते। द्वौ मासावन्तरं सीते पास्यामि रुधिरं तव।।5.58.68।। Sundara Kanda,58,69,एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः। उवाच परमक्रुद्धा सीता वचनमुत्तमम्।।5.58.69।। Sundara Kanda,58,70,राक्षसाधम रामस्य भार्याममिततेजसः। इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च।।5.58.70।। अवाच्यं वदतो जिह्वा कथं न पतिता तव। Sundara Kanda,58,71,किञ्चिद्वीर्यं तवानार्य यो मां भर्तुरसन्निधौ।।5.58.71।। अपहृत्याऽऽगतः पाप ते नादृष्टो महात्मना। Sundara Kanda,58,72,न त्वं रामस्य सदृशो दास्येऽप्यस्य न युज्यसे।।5.58.72।। यज्ञीय स्सत्यवादी च रणश्लाघी च राघवः। Sundara Kanda,58,73,जानक्या परुषं वाक्यमेवमुक्तो दशाननः।।5.58.73।। जज्वाल सहसा कोपाच्चितास्थ इव पावकः। Sundara Kanda,58,74,विवृत्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम्।।5.58.74।। मैथिलीं हन्तुमारब्ध: स्त्रीभिर्हाहाकृतं तदा। Sundara Kanda,58,75,स्त्रीणां मध्यात्समुत्पत्य तस्य भार्या दुरात्मनः।।5.58.75।। वरा मन्दोदरी नाम तया स प्रतिषेधितः। Sundara Kanda,58,76,उक्तश्च मधुरां वाणीं तया स मदनार्दितः।।5.58.76।। सीतया तव किं कार्यं महेन्द्रसमविक्रमः। Sundara Kanda,58,77,देवगन्धर्वकन्याभिर्यक्षकन्याभिरेव च।।5.58.77।। सार्धं प्रभो रमस्वेह सीतया किं करिष्यसि। Sundara Kanda,58,78,ततस्ताभिस्समेताभिर्नारीभिस्स महाबलः।।5.58.78।। प्रसाद्य सहसा नीतो भवनं स्वं निशाचरः। Sundara Kanda,58,79,याते तस्मिन् दशग्रीवे राक्षस्यो विकृताननाः।।5.58.79।। सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैस्सुदारुणैः। Sundara Kanda,58,80,तृणवद्भाषितं तासां गणयामास जानकी।।5.58.80।। गर्जितं च तदा तासां सीतां प्राप्य निरर्थकम्। Sundara Kanda,58,81,वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः।।5.58.81।। रावणाय शशंसुस्ताः सीताध्यवसितं महत्। Sundara Kanda,58,82,ततस्तास्सहितास्सर्वा निहताशा निरुद्यमाः।।5.58.82।। परिक्षिप्य समन्तात्तां निद्रावशमुपागताः। Sundara Kanda,58,83,तासु चैव प्रसुप्तासु सीता भर्तृहिते रता।।5.58.83।। विलप्य करुणं दीना प्रशुशोच सुदुःखिता। Sundara Kanda,58,84,तासां मध्यात्समुत्थाय त्रिजटा वाक्यमब्रवीत्।।5.58.84।। Sundara Kanda,58,85,आत्मानं खादत क्षिप्रं न सीता विनशिष्यति। जनकस्यात्मजा साध्वी स्नुषा दशरथस्य च।।5.58.85।। Sundara Kanda,58,86,स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः। रक्षसां च विनाशाय भर्तुरस्या जयाय च।।5.58.86।। Sundara Kanda,58,87,अलमस्मात्परित्रातुं राघवाद्राक्षसीगणम्। अभियाचाम वैदेहीमेतद्धि मम रोचते।।5.58.87।। Sundara Kanda,58,88,यस्या ह्येवंविधस्स्वप्नो दुःखितायाः प्रदृश्यते। सा दुःखैर्विविधैर्मुक्ता सुखमाप्नोत्यनुत्तमम्।।5.58.88।। प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा। Sundara Kanda,58,89,ततस्सा ह्रीमती बाला भर्तुर्विजयहर्षिता।।5.58.89।। अवोचद्यदि तत्तथ्यं भवेयं शरणं हि वः। Sundara Kanda,58,90,तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम्। चिन्तयामास विक्रान्तो न च मे निर्वृतं मनः।।5.58.90।। Sundara Kanda,58,91,सम्भाषणार्थं च मया जानक्याश्चिन्तितो विधिः।।5.58.91।। इक्ष्वाकूणां हि वंशस्तु ततो मम पुरस्कृतः। Sundara Kanda,58,92,श्रुत्वा तु गदितां वाचं राजर्षिगणपूजिताम्।।5.58.92।। प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना। Sundara Kanda,58,93,कस्त्वं केन कथं चेह प्राप्तो वानरपुङ्गवः।।5.58.93।। का च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि। Sundara Kanda,58,94,तस्यास्तद्वचनं श्रुत्वा ह्यहमप्यब्रुवं वचः।।5.58.94।। Sundara Kanda,58,95,देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः। सुग्रीवो नाम विक्रान्तो वानरेन्द्रो महाबलः।।5.58.95।। Sundara Kanda,58,96,तस्य मां विद्धि भृत्यं त्वं हनुमन्तमिहागतम्। भर्त्राहं प्रेषितस्तुभ्यं रामेणाक्लिष्टकर्मणा।।5.58.96।। Sundara Kanda,58,97,इदं च पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम्। अङ्गुलीयमभिज्ञानमदात्तुभ्यं यशस्विनि।।5.58.97।। Sundara Kanda,58,98,तदिच्छामि त्वयाऽऽज्ञप्तं देवि किं करवाण्यहम्। रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम्।।5.58.98।। Sundara Kanda,58,99,एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी। आहरावणमुत्साद्य राघवो मां नयत्विति।।5.58.99।। Sundara Kanda,58,100,प्रणम्य शिरसा देवीं महमार्यामनिन्दिताम्। राघवस्य मनोह्लादमभिज्ञानमयाचिषम्।।5.58.100।। Sundara Kanda,58,101,अथ मामब्रवीत्सीता गृह्यतामयमुत्तमः। मणिर्येन महाबाहू रामस्त्वां बहुमन्यते।।5.58.101।। Sundara Kanda,58,102,इत्युक्त्वा तु वरारोहा मणिप्रवरमद्भुतम्। प्रायच्छत्परमोद्विग्ना वाचा मां सन्दिदेशह।।5.58.102।। Sundara Kanda,58,103,ततस्तस्यै प्रणम्याहं राजपुत्र्यै समाहितः। प्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः।।5.58.103।। Sundara Kanda,58,104,उक्तोऽहं पुनरेवेदं निश्चित्य मनसा तया। हनुमन्मम वृत्तान्तं वक्तुमर्हसि राघवे।।5.58.104।। Sundara Kanda,58,105,यथा श्रुत्वैव न चिरात्तावुभौ रामलक्ष्मणौ। सुग्रीवसहितौ वीरावुपेयातां तथा कुरु।।5.58.105।। Sundara Kanda,58,106,यद्यन्यथा भवेदेतद्द्वौ मासौ जीवितं मम। न मां द्रक्ष्यति काकुत्स्थो म्रिये साहमनाथवत्।।5.58.106।। Sundara Kanda,58,107,तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत। उत्तरं च मया दृष्टं कार्यशेषमनन्तरम्।।5.58.107।। Sundara Kanda,58,108,ततोऽवर्धत मे कायस्तदा पर्वतसन्निभः। युद्धकाङ्क्षी वनं तच्च विनाशयितुमारभे।।5.58.108।। Sundara Kanda,58,109,तद्भग्नं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम्। प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः।।5.58.109।। Sundara Kanda,58,110,मां च दृष्ट्वा वने तस्मिन् समागम्य ततस्ततः। ता स्समभ्यागताः क्षिप्रं रावणायाचचक्षिरे।।5.58.110।। Sundara Kanda,58,111,राजस्वनमिदं दुर्गं तव भग्नं दुरात्मना। वानरेण ह्यविज्ञाय तव वीर्यं महाबल।।5.58.111।। Sundara Kanda,58,112,दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः। वधमाज्ञापय क्षिप्रं यथासौ विलयं व्रजेत्।।5.58.112।। Sundara Kanda,58,113,तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः। राक्षसाः किङ्करा नाम रावणस्य मनोनुगाः।।5.58.113।। Sundara Kanda,58,114,तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम्। मया तस्मिन्वनोद्देशे परिघेण निषूदितम्।।5.58.114।। Sundara Kanda,58,115,तेषां तु हतशेषा ये ते गत्वा लघुविक्रमाः। निहतं च महत्सैन्यं रावणायाचचक्षिरे।।5.58.115।। Sundara Kanda,58,116,ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमाक्रमम्। तत्रस्थान्राक्षसान् हत्वा शतं स्तम्भेन वै पुनः।।5.58.116।। ललामभूतो लङ्कायास्स वै विध्वंसितो मया। Sundara Kanda,58,117,ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत्।।5.58.117।। राक्षसैर्बहुभिस्सार्धं घोररूपैर्भयानकैः। Sundara Kanda,58,118,तं महाबलसम्पन्नं राक्षसं रणकोविदम्।।5.58.118।। परिघेणातिघोरेण सूदयामि सहानुगम्। Sundara Kanda,58,119,तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्त्रान्महाबलान्।।5.58.119।। पदातिबलसम्पन्नान् प्रेषयामास रावणः। Sundara Kanda,58,120,परिघेणैव तान् सर्वान्नयामि यमसादनम्।।5.58.120।। Sundara Kanda,58,121,मन्त्रिपुत्त्रान्हतान्च्छृत्वा समरेऽलघुविक्रमान्। पञ्च सेनाग्रगाच्छ्रूरान्प्रेषयामास रावणः।।5.58.121।। Sundara Kanda,58,122,तानहं सहसैन्यान्वै सर्वानेवाभ्यसूदयम्। ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम्।।5.58.122।। बहुभी राक्षसैस्सार्धं प्रेषयामास रावणः। Sundara Kanda,58,123,तं तु मन्दोदरीपुत्त्रं कुमारं रणपण्डितम्।।5.58.123।। Sundara Kanda,58,124,सहसा खं समुत्क्रान्तं पादयोश्च गृहीतवान्। चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम्।।5.58.124।। Sundara Kanda,58,125,तमक्षमागतं भग्नं निशम्य स दशाननः। तत इन्द्रजितं नाम द्वितीयं रावणस्सुतम्।।5.58.125।। व्यादिदेश सुसंकृद्धो बलिनम् युद्धदुर्मदम्। Sundara Kanda,58,126,तच्चाप्यहं बलं सर्वं तं च राक्षसपुङ्गवम्।।5.58.126।। नष्टौजसं रणे कृत्वा परं हर्षमुपागमम्। Sundara Kanda,58,127,महतापि महाबाहुः प्रत्ययेन महाबलः।।5.58.127।। प्रेषितो रावणेनैव सह वीरैर्मदोत्कटैः। Sundara Kanda,58,128,सोऽविषह्यं हि मां बुद्ध्वा स्वं बलं चावमर्दितम्।।5.58.128।। ब्राह्मणास्त्रेण स तु मां प्राबध्नाच्छातिवेगितः। Sundara Kanda,58,129,रज्जुभिश्चाभिबध्नन्ति ततो मां तत्र राक्षसाः।।5.58.129।। रावणस्य समीपं च गृहीत्वा मामुपानयन्। Sundara Kanda,58,130,दृष्ट्वा सम्भाषितश्चाहं रावणेन दुरात्मना।।5.58.130।। पृष्टश्च लङ्कागमनं राक्षसानां च तं वधम्। Sundara Kanda,58,131,तत्सर्वं च मया तत्र सीतार्थमिति जल्पितम्।।5.58.131।। Sundara Kanda,58,132,अस्याहं दर्शनाकाङ्क्षी प्राप्तस्त्वद्भवनं विभो। मारुतस्यौरसः पुत्रो वानरो हनुमानहम्।।5.58.132।। Sundara Kanda,58,133,रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम्। सोऽहं दूत्येन रामस्य त्वत्सकाशमिहागतः।।5.58.133।। Sundara Kanda,58,134,सुग्रीवश्च महातेजास्सत्वां कुशलमब्रवीत्। धर्मार्थकामसहितं हितं पथ्यमुवाच च।।5.58.134।। Sundara Kanda,58,135,वसतो ऋश्यमूके मे पर्वते विपुलद्रुमे। राघवो रणविक्रान्तो मित्त्रत्वं समुपागतः।।5.58.135।। Sundara Kanda,58,136,तेन मे कथितं राज्ञा भार्या मे रक्षसा हृता। तत्र साहाय्यमस्माकं कार्यं सर्वात्मना त्वया।।5.58.136।। Sundara Kanda,58,137,मया च कथितं तस्मै वालिनश्च वधं प्रति। तत्र साहाय्यहेतोर्मे समयं कर्तुमर्हसि।।5.58.137।। Sundara Kanda,58,138,वालिना हृतराज्येन सुग्रीवेण महाप्रभुः। चक्रेऽग्निसाक्षिकं सख्यं राघवस्सह लक्ष्मणः।।5.58.138।। Sundara Kanda,58,139,तेन वालिनमुत्पाट्य शरेणैकेन संयुगे। वानराणां महाराजः कृतस्स प्लवतां प्रभुः।।5.58.139।। Sundara Kanda,58,140,तस्य साहाय्यमस्माभिः कार्यं सर्वात्मना त्विह। तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः।।5.58.140।। Sundara Kanda,58,141,क्षिप्रमानीयतां सीता दीयतां राघवाय च। यावन्न हरयो वीरा विधमन्ति बलं तव।।5.58.141।। Sundara Kanda,58,142,वानराणां प्रभावो हि न केन विदितः पुरा। देवतानां सङ्काशं च ये गच्छन्ति निमन्त्रिताः।।5.58.142।। Sundara Kanda,58,143,इति वानरराजस्त्वामाहेत्यभिहितो मया। मामैक्षत ततः क्रुद्धश्चक्षुषा प्रदहन्निव।।5.58.143।। Sundara Kanda,58,144,तेन वध्योऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा। मत्प्रभावमविज्ञाय रावणेन दुरात्मना।।5.58.144।। Sundara Kanda,58,145,ततो विभीषणो नाम तस्य भ्राता महामतिः। तेन राक्षसराजोऽसौ याचितो मम कारणात्।।5.58.145।। Sundara Kanda,58,146,नैवं राक्षसशार्दूल त्यज्यतामेष निश्चयः। राजशास्त्रव्यपेतो हि मार्गः संसेव्यते त्वया।।5.58.146।। Sundara Kanda,58,147,दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस। दूतेन वेदितव्यं च यथार्थं हितवादिना।।5.58.147।। Sundara Kanda,58,148,सुमहत्यपराधेऽपि दूतस्यातुलविक्रमः। विरूपकरणं दृष्टं न वधोऽस्तीति शास्त्रतः।।5.58.148।। Sundara Kanda,58,149,विभीषणेनैवमुक्तो रावणस्सन्दिदेश तान्। राक्षसानेतदेवास्य लाङ्गूलं दह्यतामिति।।5.58.149।। Sundara Kanda,58,150,ततस्तस्य वचः श्रुत्वा मम पुच्छं समन्ततः। वेष्टितं शणवल्कैश्च जीर्णैः कार्पासजैः पटैः।।5.58.150।। Sundara Kanda,58,151,राक्षसाः सिद्धसन्नाहास्ततस्ते चण्डविक्रमाः। तदाऽदह्यन्त मे पुच्छं निघ्नन्त: काष्ठमुष्टिभिः।।5.58.151।। बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः। Sundara Kanda,58,152,ततस्ते राक्षसाश्शूरा बद्धं मामग्निसंवृतम्।।5.58.152।। अघोषयन्राजमार्गे नगरद्वारमागताः। Sundara Kanda,58,153,ततोऽहं सुमहद्रूपं संक्षिप्य पुनरात्मनः।।5.58.153।। Sundara Kanda,58,154,विमोचयित्वा तं बन्धं प्रकृतिस्थः स्थितः पुनः। आयसं परिघं गृह्य तानि रक्षांस्यसूदयम्।।5.58.154।। Sundara Kanda,58,155,ततस्तन्नगरद्वारं वेगेनाप्लुतवानहम्। पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम्।।5.58.155।। दहाम्यहमसंभ्रान्तो युगान्ताग्निरिव प्रजाः। Sundara Kanda,58,156,विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते।।5.58.156।। लङ्कायां कश्चिदुद्धेशः सर्वा भस्मीकृता पुरी। Sundara Kanda,58,157,दहता च मया लङ्कां दग्धा सीता न संशयः।।5.58.157।। रामस्य हि महत्कार्यं मयेदं वितथीकृतम्। Sundara Kanda,58,158,इति शोकसमाविष्टश्चिन्तामहमुपागतः।।5.58.158।। Sundara Kanda,58,159,अथाहं वाचमश्रौषं चारणानां शुभाक्षराम्। जानकी न च दग्धेति विस्मयोदन्तभाषिणाम्।।5.58.159।। Sundara Kanda,58,160,ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम्। अदग्धा जानकीत्येवं निमित्तैश्चोपलक्षिता।।5.58.160।। Sundara Kanda,58,161,दीप्यमाने तु लाङ्गूले न मां दहति पावकः। हृदयं च प्रहृष्टं मे वातास्सुरभिगन्धिनः।।5.58.161।। Sundara Kanda,58,162,तैर्निमित्तैश्च दृष्टाथै: कारणैश्च महागुणैः। ऋषिवाक्यैश्च सिद्धार्थैरभवं हृष्टमानसः।।5.58.162।। Sundara Kanda,58,163,पुनर्दृष्ट्वा च वैदेहीं विसृष्टश्च तया पुनः। ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः।।5.58.163।। प्रतिप्लवनमारेभे युष्मद्धर्शनकांक्षया। Sundara Kanda,58,164,ततः पवनचन्द्रार्कसिद्धगन्धर्वसेवितम्।।5.58.164।। पन्थानमहमाक्रम्य भवतो दृष्टवानिह। Sundara Kanda,58,165,राघवस्य प्रभावेण भवतां चैव तेजसा।।5.58.165।। सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्ठितम्। Sundara Kanda,58,166,एतत्सर्वं मया तत्र यथावदुपपादितम्।।5.58.166।। अत्र यन्न कृतं शेषं तत्सर्वं क्रियतामिति। Sundara Kanda,59,1,एतदाख्याय तत्सर्वं हनुमान्मारुतात्मजः। भूयस्समुपचक्राम वचनं वक्तुमुत्तरम्।।5.59.1।। Sundara Kanda,59,2,सफलो राघवोद्योग स्सुग्रीवस्य च सम्भ्रमः। शीलमासाद्य सीताया मम च प्रवणं मनः।।5.59.2।। Sundara Kanda,59,3,तपसा निर्दहेल्लोकान्क्रुद्धो वा निर्दहेदपि। सर्वधातिप्रवृद्धोऽसौ रावणो राक्षसाधिपः ॥ 5.59.3 ॥ Sundara Kanda,59,4,तस्य तां स्पृशतो गात्रं तपसा न विनाशितम्। न तदग्निशिखा कुर्यात्संस्पृष्टा पाणिना सती।।5.59.4।। जनकस्यात्मजा कुर्याद्यत्क्रोधकलुषीकृता। Sundara Kanda,59,5,जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य महाहरीन्।।5.59.5।। Sundara Kanda,59,6,अस्मिन्नेवं गते कार्ये भवतां च निवेदिते। न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ।।5.59.6।। Sundara Kanda,59,7,अहमेकोऽपि पर्याप्तस्सराक्षसगणां पुरीम्। तां लङ्कां तरसा हन्तुं रावणं च महाबलम्।।5.59.7।। Sundara Kanda,59,8,किं पुन स्सहितो वीरैर्बलवद्भिः कृतात्मभिः। कृतास्त्रै: प्लवगैश्शूरैर्भवद्भिविजयैषिभिः।।5.59.8।। Sundara Kanda,59,9,अहं तु रावणं युद्धे ससैन्यं सपुरस्सरम्। सहपुत्त्रं वधिष्यामि सहोदरयुतं युधि।।5.59.9।। Sundara Kanda,59,10,ब्राह्ममैन्द्रं च रौद्रं च वायव्यं वारणं तथा। यदि शक्रजितोऽस्त्राणि दुर्निरीक्षाणि संयुगे।।5.59.10।। तान्यहं वधिष्यामि हनिष्यामि च राक्षसान्। Sundara Kanda,59,11,भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धि तम्।।5.59.11।। Sundara Kanda,59,12,मयातुला विसृष्टा हि शैलवृष्टिर्निरन्तरा। देवानपि रणे हन्यात्किं पुनस्तान्निशाचरान्।।5.59.12।। Sundara Kanda,59,13,सागरोऽप्यतियाद्वेलां मन्दरः प्रचलेदपि। न जाम्बवन्तं समरे कम्पयेदरिवाहिनी।।5.59.13।। Sundara Kanda,59,14,सर्वराक्षससङ्घानां राक्षसा ये च पूर्वकाः। अलमेको विनाशाय वीरो वालिसुतः कपिः।।5.59.14।। Sundara Kanda,59,15,पनसस्योरुवेगेन नीलस्य च महात्मनः। मन्दरोऽप्यवशीर्येत किंपुनर्युधि राक्षसाः।।5.59.15। Sundara Kanda,59,16,सदेवासुरयक्षेषु गन्धर्वोरगपक्षिषु। मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा।।5.59.16।। Sundara Kanda,59,17,अश्विपुत्रौ महाभागावेतौ प्लवगसत्तमौ। एतयोः प्रतियोद्दारं न पश्यामि रणाजिरे।।5.59.17।। Sundara Kanda,59,18,पितामहवरोत्सेकात्परमं दर्पमास्थितौ। अमृतप्राशिनावेतौ सर्ववानरसत्तमौ।।5.59.18।। Sundara Kanda,59,19,अश्विनोर्माननार्थं हि सर्वलोकपितामहः। सर्वावध्यत्वमतुलमनयोर्दत्तवान्पुरा।।5.59.19।। Sundara Kanda,59,20,वरोत्सेकेन मत्तौ च प्रमथ्य महतीं चमूम्। सुराणाममृतं वीरौ पीतवन्तौ प्लवङ्गमौ।।5.59.20।। Sundara Kanda,59,21,एतावेव हि सङ्कृद्धौ सवाजिरथकुञ्जराम्। लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः।।5.59.21।। Sundara Kanda,59,22,मयैव निहता लङ्का दग्धा भस्मीकृता पुनः। राजमार्गेषु सर्वत्र नाम विश्रावितं मया।।5.59.22।। Sundara Kanda,59,23,जयत्यतिबलो रामो लक्ष्मणश्च महाबलः। राजा जयति सुग्रीवो राघवेणाभिपालितः।।5.59.23।। Sundara Kanda,59,24,अहं कोसलराजस्य दासः पवनसम्भवः। हनुमानिति सर्वत्र नाम विश्रावितं मया।।5.59.24।। Sundara Kanda,59,25,अशोकवनिकामध्ये रावणस्य दुरात्मनः। अध स्ताच्छिंशुपावृक्षे साध्वी करुणमास्थिता।।5.59.25।। Sundara Kanda,59,26,राक्षसीभिः परिवृता शोकसंतापकर्शिता। मेघलेखापरिवृता चन्द्रलेखेव निष्प्रभा।।5.59.26।।। अचिन्तयन्ती वैदेही रावणं बलदर्पितम्। Sundara Kanda,59,27,पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी।।5.59.27।। Sundara Kanda,59,28,अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा। अनन्यचित्ता रामे च पौलोमीव पुरन्दरे।।5.59.28।। Sundara Kanda,59,29,तदेकवासस्संवीता रजोध्वस्ता तथैव च। शोकसन्तापदीनाङ्गी सीता भर्तृहिते रता।।5.59.29।। Sundara Kanda,59,30,सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः। राक्षसीभिर्विरूपाभिर्दृष्टा हि प्रमदावने।।5.59.30।। Sundara Kanda,59,31,एकवेणीधरा दीना भर्तृचिन्तापरायणा। अधश्शय्या विवर्णाङ्गी पद्मिनीव हिमागमे।।5.59.31।। रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया। Sundara Kanda,59,32,कथञ्चिन्मृगशाबाक्षी विश्वासमुपपादिता।।5.59.32।। Sundara Kanda,59,33,ततः संभाषिता चैव सर्वमर्थं च दर्शिता। रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता।।5.59.33।। Sundara Kanda,59,34,नियतस्समुदाचारो भक्तिर्भर्तरि चोत्तमा। यन्न हन्ति दशग्रीवं सा महात्मा कृतागसम्।।5.59.34।। Sundara Kanda,59,35,निमित्तमात्रं रामस्तु वधे तस्य भविष्यति। सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्शिता।।5.59.35।। प्रतिपत्पाठशीलस्य विद्येव तनुमतां गता। Sundara Kanda,59,36,एवमास्ते महाभागा सीता शोकपरायणा।।5.59.36।। यदत्र प्रतिकर्तव्यं तत्सर्वमुपपाद्यताम्। Sundara Kanda,60,1,तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत। अयुक्तं तु विना देवीं दृष्टवद्भिश्च वानराः।।5.60.1।। समीपं गन्तुमस्माभी राघवस्य महात्मनः। Sundara Kanda,60,2,दृष्टा देवी न चानीता इति तत्र निवेदनम्।।5.60.2।। अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः। Sundara Kanda,60,3,न हि नः प्लवने कश्चिन्नापि कश्चित्पराक्रमे।।5.60.3।। तुल्य स्सामरदैत्येषु लोकेषु हरिसत्तमाः। Sundara Kanda,60,4,तेष्वेवं हतवीरेषु राक्षसेषु हनूमता।।5.60.4।। किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम्। Sundara Kanda,60,5,तमेवं कृतसङ्कल्पं जाम्बवान् हरिसत्तमः।।5.60.5।। उवाच परमप्रीतो वाक्यमर्थवदर्थवित्। Sundara Kanda,60,6,न तावदेषा मतिरक्षमा नो यथा भवान् पश्यति राजपुत्र। यथा तु रामस्य मतिर्निविष्टा तथा भवान् पश्यतु कार्यसिद्धिम्।।5.60.6।। Sundara Kanda,61,1,ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः। अङ्गदप्रमुखा वीरा हनुमांश्च महाकपिः।।5.61.1।। Sundara Kanda,61,2,प्रीतिमन्तस्ततः सर्वे वायुपुत्रपरस्पराः। महेन्द्राद्रिं परित्यज्य पुप्लुवुः प्लवगर्षभाः।।5.61.2।। Sundara Kanda,61,3,मेरुमन्दरसङ्काशा मत्ता इव महागजाः। छादयन्त इवाकाशं महाकाया महाबलाः।।5.61.3।। Sundara Kanda,61,4,सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम्। हनूमन्तं महावेगं वहन्त इव दृष्टिभिः।।5.61.4।। Sundara Kanda,61,5,राघवे चार्थनिर्ववृत्तिं कर्तुं च परमं यशः। समाधाय समृद्धार्थाः सर्वेसिद्धिभिरुन्नता।।5.61.5।। Sundara Kanda,61,6,प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः। सर्वे रामप्रतीकारे निश्चितार्था मनस्स्विनः।।5.61.6।। Sundara Kanda,61,7,प्लवमानाः खमाप्लुत्य ततस्ते काननौकसः। नन्दनोपमयासेदुर्वनं द्रुमलतायुतम्।।5.61.7।। Sundara Kanda,61,8,यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम्। अधृष्यं सर्वभूतानां सर्वभूतमनोहरम्।।5.61.8।। Sundara Kanda,61,9,यद्रक्षति महावीर्य स्सदा दधिमुखः कपिः। मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः।।5.61.9।। Sundara Kanda,61,10,ते तद्वनमुपागम्य बभूवुः परमोत्कटाः। वानरा वानरेन्द्रस्य मनः कान्ततमं महत्।।5.61.10।। Sundara Kanda,61,11,ततस्ते वानरा हृष्टा दृष्टवा मधुवनं महत्। कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः।।5.61.11।। Sundara Kanda,61,12,ततः कुमारस्तान् वृद्धान् जाम्बवत्प्रमुखान् कपीन्। अनुमान्य ददौ तेषां विसर्गं मधुभिक्षणे।।5.61.12।। Sundara Kanda,61,13,ततश्चानुमता स्सर्वे सम्प्रहृष्टा वनौकसः। मुदिताः प्रेरिताश्चापि प्रनृत्यन्तोऽभवंस्तदा।।5.61.13।। Sundara Kanda,61,14,गायन्ति केचित्प्रणमन्ति केचिन्नृत्यन्ति केचित्प्रहसन्ति केचित्। पतन्ति केचिद्विचरन्ति केचित्ल्पवन्ति केचित्प्रलपन्ति केचित्।।5.61.14।। Sundara Kanda,61,15,परस्परं केचिदुपाश्रयन्ते परस्परं केचिदुपाक्रमन्ते। परस्परं केचिदुपब्रुवन्ते परस्परं केचिदुपारमन्ते।।5.61.15।। Sundara Kanda,61,16,द्रुमाद्द्रुमं केचिदभिद्रवन्ते क्षितौ नगाग्रान्निपतन्ति केचित्। महीतलात्केचिदुदीर्णवेगा महाद्रुमाग्राण्यभिसम्पतन्ति।।5.61.16।। Sundara Kanda,61,17,गायन्तमन्यः प्रहसन्नुपैति हसन्तमन्यः प्ररुदन्नुपैति। रुदन्तमन्यः प्रणुदन्नुपैति नुदन्तमन्यः प्रणदन्नुपैति।।5.61.17।। Sundara Kanda,61,18,समाकुलं तत्कपिसैन्यमासीन्मधुप्रसानोत्कटसत्त्वचेष्टम्। न चात्र कश्चिन्न बभूव मत्तो न चात्र कश्चिन्न बभूव तृप्तः।।5.61.18।। Sundara Kanda,61,19,ततो वनं तत्परिभक्ष्यमाणं द्रुमांश्च विध्वंसितपत्रपुष्पान्। समीक्ष्य कोपाद्धधिवक्रनामा निवारयामास कपिः कपींस्तान्।।5.61.19।। Sundara Kanda,61,20,स तैः प्रवृद्धैः परिभर्त्स्यमानो वनस्य गोप्ता हरिवीरवृद्धः। चकार भूयो मतिमुग्रतेजा वनस्य रक्षां प्रति वानरेभ्यः।।5.61.20।। Sundara Kanda,61,21,उवाच कांश्चित्परुषाणि धृष्टमसक्तमन्यांश्च तलैर्जघान। समेत्य कैश्चित्कलहं चकार तथैव साम्नोपजगाम कांश्चित्।।5.61.21।। Sundara Kanda,61,22,स तैर्मदात्संपरिवार्य वाक्यैर्भलाच्छ तेन प्रतिवार्यमाणैः। प्रधर्षितस्त्यक्तभयै स्समेत्य प्रकृष्यते चाप्यनवेक्ष्य दोषम्।।5.61.22।। Sundara Kanda,61,23,नखैस्तुदन्तो दशनैर्दशन्त स्तलैश्च पादैश्च समापयन्तः। मदात्कपिं तं कपय स्समग्रा महावनं निर्विषयं च चक्रुः।।5.61.23।। Sundara Kanda,62,1,तानुवाच हरिश्रेष्ठो हनुमान्वानरर्षभः। अव्यग्रमनसो यूयं मधु सेवत वानराः।।5.62.1।। अहमावारयिष्यामि युष्माकं परिपन्थिनः। Sundara Kanda,62,2,श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरोऽङ्गदः।।5.62.2।। प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु। Sundara Kanda,62,3,अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया।।5.62.3।। अकार्यमपि कर्तव्यं किमङ्ग पुनरीदृशम्। Sundara Kanda,62,4,अङ्गदस्य मुखाच्छ्रुत्वावचनं वानरर्षभाः।।5.62.4।। साधुसाध्विति संहृष्टा वानराः प्रत्यपूजयन्। Sundara Kanda,62,5,पूजयित्वाङ्गदं सर्वे वानरा वानरर्षभम्।।5.62.5।। जग्मुर्मधुवनं यत्र नदीवेग इव द्रुमम्। Sundara Kanda,62,6,ते प्रविष्टा मधुवनं पालानाक्रम्य वीर्यतः।।5.62.6।। Sundara Kanda,62,7,अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम्। पपुस्सर्वे मधु तदा रसवत्फलमाददुः।।5.62.7।। Sundara Kanda,62,8,उत्पत्य च ततस्सर्वे वनपालान् समागतान्। ताडयन्ति स्म शतश स्सक्तान्मधुवने तदा।।5.62.8।। Sundara Kanda,62,9,मधूनि द्रोणमात्राणि बाहुभिः परिगृह्य ते। पिबन्ति सहिता स्सर्वे निघ्नन्ति स्म तथापरे।।5.62.9।। Sundara Kanda,62,10,केचित्पीत्वा प्रविध्यन्ति मधूनि मधुपिङ्गलाः। मधूच्छिष्टेन केचिच्च जग्मुरन्योन्यमुत्कटाः।।5.62.10।। Sundara Kanda,62,11,अपरे वृक्षमूले तु शाखां गृह्य व्यवस्थिताः। अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते।।5.62.11।। Sundara Kanda,62,12,उन्मत्तभूताः प्लवगा मधुमत्ताश्च हृष्टवत्। क्षिपन्ति च तथान्योन्यं स्खलन्ति च तथाऽपरे।।5.62.12।। Sundara Kanda,62,13,केचित् क्ष्वेलां प्रकुर्वन्ति केचित् कूजन्ति हृष्टवत्। हरयोमधुना मत्ताः केचित्सुप्ता महीतले।।5.62.13।। Sundara Kanda,62,14,कृत्वा केचिद्धसन्त्यन्ये केचित्कुर्वन्ति चेतरत्। कृत्वा केचिद्वदन्त्यन्ये केचिद्बुध्यन्ति चेतरत्।।5.62.14।। Sundara Kanda,62,15,येऽप्यत्र मधुपाला स्स्युः प्रेष्या दधिमुखस्य तु। तेऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः।।5.62.15।। Sundara Kanda,62,16,जानुभिस्तु प्रकृष्टाश्च देवमार्गं प्रदर्शिताः। अब्रुवन् परमोद्विग्ना गत्वा दधिमुखं वचः।।5.62.16।। Sundara Kanda,62,17,हनूमता दत्तवरैर्हतं मधुवनं बलात्। वयं च जानुभिः कृष्टा देवमार्गं च दर्शिताः।।5.62.17।। Sundara Kanda,62,18,ततो दधिमुख: क्रुद्धो वनपस्तत्र वानरः। हतं मधुवनं श्रुत्वा सान्त्वयामास तान् हरीन्।।5.62.18।। Sundara Kanda,62,19,इहागच्छत गच्छामो वानरान् बलदर्पितान्। बलेन वारयिष्यामो मधु भक्षयतो वयम्।।5.62.19।। Sundara Kanda,62,20,श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः। पुनर्वीरा मधुवनं तेनैव सहसा ययुः।।5.62.20।। Sundara Kanda,62,21,मध्ये चैषां दधिमुखः प्रगृह्य तरसा तरुम्। समभ्यधावद्वेगेन ते च सर्वे प्लवङ्गमाः।।5.62.21।। Sundara Kanda,62,22,ते शिलाः पादपांश्चापि पर्वतांश्चापि वानराः। गृहीत्वाऽऽभ्यगमन् क्रुद्धा यत्र ते कपिकुञ्जराः।।5.62.22।। Sundara Kanda,62,23,ते स्वामिवचनं वीरा हृदयेष्ववसज्य तत्। त्वरया ह्यभ्यधावन्त सालतालशिलायुधाः।।5.62.23।। Sundara Kanda,62,24,वृक्षस्थांश्च तलस्थांश्च वानरान् बलदर्पितान्। अभ्यक्रामंस्ततो वीराः पालास्तत्र सहस्रशः।।5.62.24।। Sundara Kanda,62,25,अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुङ्गवाः। अभ्यधावन्त वेगेन हनुमत्प्रमुखास्तदा।।5.62.25।। Sundara Kanda,62,26,तं सवृक्षं महाबाहुमापतन्तं महाबलम्। आर्यकं प्राहरत्तत्र बाहुभ्यां कुपितोऽङ्गदः।।5.62.26।। Sundara Kanda,62,27,मदान्धश्च न वेदैनमार्यकोऽयं ममेति सः। अथैनं निष्पिपेषाशु वेगवद्वसुधातले।।5.62.27।। Sundara Kanda,62,28,स भग्नबाहूरुभुजो विह्वलश्शोणितोक्षितः। मुमोह सहसा वीरो मुहूर्तं कपिकुञ्जरः।।5.62.28।। Sundara Kanda,62,29,स समाश्वस्य सहसा सङ्कृद्धो राजमातुलः। वानरान्वारयामास दण्डेन मधुमोहितान्।।5.62.29।। Sundara Kanda,62,30,स कथञ्चिद्विमुक्तस्स्तैर्वानरैर्वानरर्षभः। उवाचैकान्तमाश्रित्य भृत्यान् स्वान् समुपागतान्।।5.62.30।। Sundara Kanda,62,31,एते तिष्ठन्तु गच्छामो भर्ता नो यत्र वानरः। सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति।।5.62.31।। Sundara Kanda,62,32,सर्वं चैवाङ्गदे दोषं श्रावयिष्यामि पार्थिवे। अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान्।।5.62.32।। Sundara Kanda,62,33,इष्टं मधुवनं ह्येतत्पार्थिवस्य महात्मनः। पितृपैतामहं दिव्यं देवैरपि दुरासदम्।।5.62.33।। Sundara Kanda,62,34,स वानरानिमान् सर्वान् मधुलुब्धान् गतायुषः। घातयिष्यति दण्डेन सुग्रीवस्ससुहृज्जनान्।।5.62.34।। Sundara Kanda,62,35,वध्या ह्येते दुरात्मानो नृपाज्ञापरिभाविनः। अमर्षप्रभवो रोषस्सफलो नो भविष्यति।।5.62.35।। Sundara Kanda,62,36,एवमुक्त्वा दधिमुखो वनपालान्महाबलः। जगाम सहसोत्पत्य वनपालैस्समन्वितः।।5.62.36।। Sundara Kanda,62,37,निमेषान्तरमात्रेण स हि प्राप्तो वनालयः। सहस्रांशुसुतो धीमान् सुग्रीवो यत्र वानरः।।5.62.37।। Sundara Kanda,62,38,रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव च। समप्रतिष्ठां जगतीमाकाशान्निपपात ह।।5.62.38।। Sundara Kanda,62,39,सन्निपत्य महावीर्यस्सर्वैस्तै: परिवारितः। हरिर्दधिमुखः पालैः पालानां परमेश्वरः।।5.62.39।। Sundara Kanda,62,40,स दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम्। सुग्रीवस्य शुभौ मूर्ध्ना चरणौ पत्यपीडयत्।।5.62.40।। Sundara Kanda,63,1,ततो मूर्ध्ना निपतितं वानरं वानरर्षभः। दृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाच ह।।5.63.1।। Sundara Kanda,63,2,उत्तिष्ठोत्तिष्ठ कस्मात्त्वं पादयोः पतितो मम। अभयं ते भवेद्वीर सर्वमेवाभिधीयताम्।।5.63.2।। Sundara Kanda,63,3,स तु विश्वासितस्तेन सुग्रीवेण महात्मना। उत्थाय सुमहाप्राज्ञो वाक्यं दधिमुखोऽब्रवीत्।।5.63.3।। Sundara Kanda,63,4,नैवर्क्षरजसा राजन्न त्वया नापि वालिना। वनं निसृष्टपूर्वं हि भक्षितं तच्च वानरैः।।5.63.4।। Sundara Kanda,63,5,एभिः प्रधर्षिताश्चैव वानरा वनरक्षिभिः। मधून्यचिन्तयित्वेमान् भक्षयन्ति पिबन्ति च।।5.63.5।। Sundara Kanda,63,6,शिष्टमत्रापविध्यन्ति भक्षयन्ति तथापरे। निवार्यमाणास्ते सर्वे भ्रुवो वै दर्शयन्ति हि।।5.63.6।। Sundara Kanda,63,7,इमे हि संरब्धतरास्तथा तैस्सम्प्रधर्षिताः। वारयन्तो वनात्तस्मात्क्रुद्धैर्वानरपुङ्गवैः।।5.63.7।। Sundara Kanda,63,8,ततस्तैर्बहुभिर्वीरैर्वानरैर्वानरर्षभ। संरक्तनयनैः क्रोधाद्धरयः प्रविचालिताः।।5.63.8।। Sundara Kanda,63,9,पाणिभिर्निहताः केचित्केचिज्जानुभिराहताः। प्रकृष्टाश्च यथाकामं देवमार्गं च दर्शिताः।।5.63.9।। Sundara Kanda,63,10,एवमेते हताश्शूरास्त्वयि तिष्ठति भर्तरि। कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते।।5.63.10।। Sundara Kanda,63,11,एवं विज्ञाप्यमानं तं सुग्रीवं वानरर्षभम्। अपृच्छत्तं महाप्राज्ञो लक्ष्मणः परवीरहा।।5.63.11।। Sundara Kanda,63,12,किमयं वानरो राजन् वनपः प्रत्युपस्थितः। कं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत्।।5.63.12।। Sundara Kanda,63,13,एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना। लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः।।5.63.13।। Sundara Kanda,63,14,आर्य लक्ष्मण सम्प्राह वीरो दधिमुखः कपिः। अङ्गदप्रमुखैर्वीरैर्भक्षितं मधु वानरैः।।5.63.14।। विचित्य दक्षिणामाशामागतैर्हरिपुङ्गवैः। Sundara Kanda,63,15,नैषामकृत्यानामीदृशस्स्यादुपक्रमः।।5.63.15।। Sundara Kanda,63,16,आगतैश्च प्रमथितं यथा मधुवनं हि तैः। धर्षितं च वनं कृत्स्नमुपयुक्तं च वानरैः।।5.63.16।। Sundara Kanda,63,17,वनं यदाऽभिपन्नास्ते साधितं कर्म वानरैः। दृष्टा देवी न सन्देहो न चान्येन हनूमता।।5.63.17।। Sundara Kanda,63,18,न ह्यन्यस्साधने हेतुः कर्मणोऽस्य हनूमतः। कार्यसिद्धिर्मतिश्चैव तस्मिन्वानरपुङ्गवे।।5.63.18।। व्यवसायश्च वीर्यं च श्रुतं चापि प्रतिष्ठितम्। Sundara Kanda,63,19,जाम्बवान्यत्र नेता स्यादङ्गदश्च महाबलः।।5.63.19।। हनुमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा। Sundara Kanda,63,20,अङ्गदप्रमुखैर्वीरैर्हतं मधुवनं किल।।5.63.20।। वारयन्तश्च सहितास्तदा जानुभिराहताः। Sundara Kanda,63,21,एतदर्थमयं प्राप्तो वक्तुं मधुरवागिह।।5.63.21।। नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः। Sundara Kanda,63,22,दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः।।5.63.22।। अभिगम्य तथा सर्वे पिबन्ति मधु वानराः। Sundara Kanda,63,23,न चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ।।5.63.23।। वनं दत्तवरं दिव्यं धर्षयेयुर्वनौकसः। Sundara Kanda,63,24,ततः प्रहृष्टो धर्मात्मा लक्ष्मणस्सह राघवः।।5.63.24।। Sundara Kanda,63,25,श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच्च्युताम्। प्राहृष्यत भृशं रामो लक्ष्मणश्च महाबलः।।5.63.25।। Sundara Kanda,63,26,श्रुत्वा दधिमुखस्येदं सुग्रीवस्सम्प्रहृष्य च। वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत।।5.63.26।। Sundara Kanda,63,27,प्रीतोऽस्मि सोऽहं यद्भुक्तं वनं तैः कृतकर्मभिः। मर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम्।।5.63.27।। Sundara Kanda,63,28,इच्छामि शीघ्रं हनुमत्प्रधानान् शाखामृगांस्तान् मृगराजदर्पान्। द्रष्टुं कृतार्थान् सह राघवाभ्यां श्रोतुं च सीताधिगमे प्रयत्नम्।।5.63.28।। Sundara Kanda,63,29,प्रीतिस्फीताक्षौ सम्प्रहृष्टौ कुमारौ दृष्ट्वा सिद्धार्थौ वानराणां च राजा। अङ्गैः संहृष्टैः कर्मसिद्धिं विदित्वा बाह्वोरासन्नां सोऽतिमात्रं ननन्द।।5.63.29।। Sundara Kanda,64,1,सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः। राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत्।।5.64.1।। Sundara Kanda,64,2,स प्रणम्य च सुग्रीवं राघवौ च महाबलौ। वानरैः सहितः शूरैर्दिवमेवोत्पपात ह।।5.64.2।। Sundara Kanda,64,3,स यथैवाऽगतः पूर्वं तथैव त्वरितं गतः। निपत्य गगनाद्भूमौतद्वनं प्रविवेश ह।।5.64.3।। Sundara Kanda,64,4,स प्रविष्टो मधुवनं ददर्श हरियूथपान्। विमदानुत्थितान्सर्वान् मेहमानान्मधूदकम्।।5.64.4।। Sundara Kanda,64,5,स तानुपागमद्वीरो बद्ध्वा करपुटाञ्जलिम्। उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम्।।5.64.5।। Sundara Kanda,64,6,सौम्य रोषो न कर्तव्यो यदेतत्परिवारितम्। अज्ञानाद्रक्षिभिः क्रोधाद्भवन्तः प्रतिषेधिताः।।5.64.6।। Sundara Kanda,64,7,युवराजस्त्वमीशश्च वनस्यास्य महाबल। मौर्ख्यात्पूर्वं कृतो दोषस्तं भवान् क्षन्तुमर्हति।।5.64.7।। Sundara Kanda,64,8,आख्यातं हि मया गत्वा पितृव्यस्य तवानघ। इहोपयातं सर्वेषामेतेषां वनचारिणाम्।।5.64.8।। Sundara Kanda,64,9,स त्वदागमनं श्रुत्वा सहैभिर्हरियूथपैः। प्रहृष्टो न तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम्।।5.64.9।। Sundara Kanda,64,10,प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः। शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः।।5.64.10।। Sundara Kanda,64,11,श्रुत्वा दधिमुखस्येदं वचनं श्लक्ष्णमङ्गदः। अब्रवीत्तान् हरिश्रेष्ठो वाक्यं वाक्यविशारदः।।5.64.11।। Sundara Kanda,64,12,शङ्के श्रुतोऽयं वृत्तान्तो रामेण हरियूथपाः। तत्क्षमं नेह नः स्थातुं कृते कार्ये परन्तपाः।।5.64.12।। Sundara Kanda,64,13,पीत्वा मधु यथाकामं विश्रान्ता वनचारिणः। किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः।।5.64.13।। Sundara Kanda,64,14,सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूथपाः। तथास्मि कर्ता कर्तव्ये भवद्भिः परवानहम्।।5.64.14।। Sundara Kanda,64,15,नाज्ञापयितुमीशोऽहं युवराजोऽस्मि यद्यपि। अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया।।5.64.15।। Sundara Kanda,64,16,ब्रुवतश्चाङ्गदस्यैवं श्रुत्वा वचनमव्ययम्। प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः।।5.64.16।। Sundara Kanda,64,17,एवं वक्ष्यति को राजन् प्रभुस्सन्वानरर्षभ। ऐश्वर्यमदमत्तो हि सर्वोऽहमिति मन्यते।।5.64.17।। Sundara Kanda,64,18,तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित्। सन्नतिर्हि तवाख्याति भविष्यच्छुभयोग्यताम्।।5.64.18।। Sundara Kanda,64,19,सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः। स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः।।5.64.19।। Sundara Kanda,64,20,त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात्पदम्। क्वचिद्गन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते।।5.64.20।। Sundara Kanda,64,21,एवं तु वदतां तेषामङ्गदः प्रत्युवाच ह। बाढं गच्छाम इत्युक्त्वा खमुत्पेतुर्महाबलाः।।5.64.21।। Sundara Kanda,64,22,उत्पतन्तमनूत्पेतु स्सर्वे ते हरियूथपाः। कृत्वाकाशं निराकाशं यन्त्रोत्क्षिप्ता इवाचलाः।।5.64.22।। Sundara Kanda,64,23,तेऽम्बरं सहसोत्पत्य वेगवन्तः प्लवङ्गमाः। विनदन्तो महानादं घना वातेरिता यथा।।5.64.23।। Sundara Kanda,64,24,अङ्गदे ह्यननुप्राप्ते सुग्रीवो वानराधिपः। उवाच शोकोपहतं रामं कमललोचनम्।।5.64.24।। Sundara Kanda,64,25,समाश्वसिहि भद्रं ते दृष्टा देवी न संशयः। नागन्तुमिह शक्यं तैरतीते समये हि नः।।5.64.25।। Sundara Kanda,64,26,न मत्सकाशमागच्छेत्कृत्ये हि विनिपातिते। युवराजो महाबाहुः प्लवतां प्रवरोऽङ्गदः।।5.64.26।। Sundara Kanda,64,27,यद्यप्यकृतकृत्यानामीदृश स्स्यादुपक्रमः। भवेत्स दीनवदनो भ्रान्तविप्लुतमानसः।।5.64.27।। Sundara Kanda,64,28,पितृपैतामहं चैतत्पूर्वकैरभिरक्षितम्। न मे मधुवनं हन्यादहृष्टः प्लवगेश्वरः।।5.64.28।। कौसल्यासुप्रजा राम समाश्वसिहि सुव्रत। Sundara Kanda,64,29,दृष्टा देवी न सन्देहो न चान्येन हनूमता।।5.64.29।। न ह्यन्यः कर्मणो हेतुस्साधनेऽस्य हनूमतः। Sundara Kanda,64,30,हनूमति हि सिद्धिश्च मतिश्च मतिसत्तमः।।5.64.30।। व्यवसायश्च वीर्यं च सूर्ये तेज इव ध्रुवम्। Sundara Kanda,64,31,जाम्बवान्यत्र नेता स्यादङ्गदश्च बलेश्वरः। हनुमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा।।5.64.31।। Sundara Kanda,64,32,मा भूश्चिन्तासमायुक्तस्सम्प्रत्यमितविक्रमः।।5.64.32।। Sundara Kanda,64,33,ततः किलकिलाशब्दं शुश्रावासन्नमम्बरे। हनुमत्कर्मदृप्तानां नार्धतां काननौकसाम्।।5.64.33।। किष्किन्धामुपयातानां सिद्धिं कथयतामिव। Sundara Kanda,64,34,ततश्श्रुत्वा निनादं तं कपीनां कपिसत्तमः।।5.64.34।। आयताञ्चितलाङ्गूलस्सोऽभवद्धृष्टमानसः। Sundara Kanda,64,35,आजग्मुस्तेऽपि हरयो रामदर्शनकांक्षिणः।।5.64.35।। अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम्। Sundara Kanda,64,36,तेऽङ्गदप्रमुखा वीराः प्रहृष्ठाश्च मुदान्विताः।।5.64.36।। निपेतुर्हरिराजस्य समीपे राघवस्य च। Sundara Kanda,64,37,हनुमांश्च महाबाहुः प्रणम्य शिरसा ततः।।5.64.37।। नियतामक्षतां देवीं राघवाय न्यवेदयत्। Sundara Kanda,64,38,दृष्टा देवीति हनुमद्वदनादमृतोपमम्।।5.64.38।। आकर्ण्य वचनं रामो हर्षमाप सलक्ष्मणः। Sundara Kanda,64,39,निश्चितार्थं ततस्तस्मिन् सुग्रीवं पवनात्मजे।।5.64.39।। लक्ष्मणः प्रीतिमान् प्रीतं बहुमानादवैक्षत। Sundara Kanda,65,1,ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम्। प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम्।।5.65.1।। Sundara Kanda,65,2,युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च। प्रवृत्तिमथ सीतायाः प्रवक्तुमुपचक्रमुः।।5.65.2।। Sundara Kanda,65,3,रावणान्तः पुरे रोधं राक्षसीभिश्च तर्जनम्। रामे समनुरागं च यश्चायं समयः कृतः।।5.65.3।। एतदाख्यान्ति ते सर्वे हरयो रामसन्निधौ। Sundara Kanda,65,4,वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत्।।5.65.4।। Sundara Kanda,65,5,क्व सीता वर्तते देवी कथं च मयि वर्तते। एतन्मे सर्वमाख्यात वैदेहीं प्रति वानराः।।5.65.5।। Sundara Kanda,65,6,रामस्य गदितं श्रुत्वा हरयो रामसन्निधौ। चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम्।।5.65.6।। Sundara Kanda,65,7,श्रुत्वा तु वचनं तेषां हनुमान्मारुतात्मजः। प्रणम्य शिरसा देव्यै सीतायै तां दिशं प्रति।।5.65.7।। उवाच वाक्यं वाक्यज्ञस्सीताया दर्शनं यथा। Sundara Kanda,65,8,समुद्रं लङ्घयित्वाहं शतयोजनमायतम्।।5.65.8।। अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया। Sundara Kanda,65,9,तत्र लङ्केति नगरी रावणस्य दुरात्मनः।।5.65.9।। दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे। Sundara Kanda,65,10,तत्र दृष्टा मया सीता रावणान्तः पुरे सती।।5.65.10।। सन्न्यस्य त्वयि जीवन्ती रामा राम मनोरथम्। Sundara Kanda,65,11,दृष्टा मे राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः।।5.65.11।। राक्षसीभिर्विरूपाभी रक्षिता प्रमदावने। Sundara Kanda,65,12,दुःख मासाद्यते देवी तथाऽदुःखोचिता सती।।5.65.12।। Sundara Kanda,65,13,रावणान्तः पुरे रुद्धा राक्षसीभि स्सुरक्षिता। एकवेणीधरा दीना त्वयि चिन्तापरायणा।।5.65.13।। Sundara Kanda,65,14,अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे। रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया।।5.65.14।। देवी कथञ्चित्काकुत्स्थ त्वन्मना मार्गिता मया। Sundara Kanda,65,15,इक्ष्वाकुवंशविख्यातिं शनैः कीर्तयतानघ।।5.65.15।। सा मया नरशार्दूल विश्वासमुपपादिता। Sundara Kanda,65,16,तत स्सम्भाषिता देवी सर्वमर्थं च दर्शिता।।5.65.16।। Sundara Kanda,65,17,रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता। नियत स्समुदाचारो भक्तिश्चास्यास्तथा त्वयि।।5.65.17।। Sundara Kanda,65,18,एवं मया महाभागा दृष्टा जनकनन्दिनी। उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ।।5.65.18।। Sundara Kanda,65,19,अभिज्ञानं च मे दत्तं यथा वृत्तं तवान्तिके। चित्रकूटे महाप्राज्ञ वायसं प्रति राघव।।5.65.19।। Sundara Kanda,65,20,विज्ञाप्यश्च नरव्याघ्रो रामो वायुसुत त्वया। अखिलेनेह यद्धृष्टमिति मामाह जानकी।।5.65.20।। Sundara Kanda,65,21,अयं चास्मै प्रदातव्यो यत्नात्सुपरिरक्षितः। ब्रुवता वचनान्येवं सुग्रीवस्योपशृण्वतः।।5.65.21।। Sundara Kanda,65,22,एष चूडामणिश्श्रीमान् मया सुपरिरक्षितः। मनश्शिलायास्तिलको गण्डपार्श्वे निवेशितः।।5.65.22।। त्वया प्रणष्ठे तिलके तं किल स्मर्तुमर्हसि। Sundara Kanda,65,23,एष निर्यातितश्श्रीमान्मया ते वारि सम्भवः। एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ।।5.65.23।। Sundara Kanda,65,24,जीवितं धारयिष्यामि मासं दशरथात्मज।।5.65.24।। ऊर्ध्वं मासान्न जीवेयं रक्षसां वशमागता। Sundara Kanda,65,25,इति मामब्रवीत्सीता कृशाङ्गी धर्मचारिणी।।5.65.25।। रावणान्तः पुरे रुद्धा मृगीवोत्फुल्ललोचना। Sundara Kanda,65,26,एतदेव मयाख्यातं सर्वं राघव यद्यथा।।5.65.26।। सर्वथा सागरजले संतारः प्रविधीयताम्। Sundara Kanda,65,27,तौ जाताश्वासौ राजपुत्रौ विदित्वा तच्चाभिज्ञानं राघवाय प्रदाय। देव्या चाख्यातं सर्वमेवानुपूर्व्याद्वाचा सम्पूर्णं वायुपुत्त्र श्शशंस।।5.65.27।। Sundara Kanda,66,1,एवमुक्तो हनुमता रामो दशरथात्मज:। तं मणिं हृदये कृत्वा प्ररुरोद सलक्ष्मणः।।5.66.1।। Sundara Kanda,66,2,तं तु दृष्ट्वा मणिश्रेष्ठं राघव श्शोककर्शितः। नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत्।।5.66.2।। Sundara Kanda,66,3,यथैव धेनु स्स्रवति स्नेहाद्वत्सस्य वत्सला। तथा ममापि हृदयं मणिरत्नस्य दर्शनात्।।5.66.3।। Sundara Kanda,66,4,मणिरत्नमिदं दत्तं वैदेह्याश्श्वशुरेण मे। वधूकाले यथाबद्धमधिकं मूर्ध्नि शोभते।।5.66.4।। Sundara Kanda,66,5,अयं हि जलसम्भूतो मणिस्सज्जनपूजितः। यज्ञे परमतुष्टेन दत्तश्शक्रेण धीमता।।5.66.5।। Sundara Kanda,66,6,इमं दृष्ट्वा मणिश्रेष्ठं यथा तातस्य दर्शनम्। अद्यास्म्यवगतस्सौम्य वैदेहस्य तथा विभोः।।5.66.6।। Sundara Kanda,66,7,अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः। अस्याद्य दर्शने नाहं प्राप्तां तामिव चिन्तये।।5.66.7।। Sundara Kanda,66,8,किमाह सीता वैदेही ब्रूहि सौम्य पुनः पुनः। पिपासुमिव तोयेन सिञ्चन्ती वाक्यवारिणा।।5.66.8।। Sundara Kanda,66,9,इतस्तु किं दुःखतरं यदिमं वारिसम्भवम्। मणिं पश्यामि सौमित्रे वैदेहीमागतां विना।।5.66.9।। Sundara Kanda,66,10,चिरं जीवति वैदेही यदि मासं धरिष्यति। क्षणं सौम्य न जीवेयं विना तामसितेक्षणाम्।।5.66.10।। Sundara Kanda,66,11,नय मामपि तं देशं यत्र दृष्टा मम प्रिया। न तिष्ठेयं क्षणमपि प्रवृत्तिमुपलभ्य च।।5.66.11।। Sundara Kanda,66,12,कथं सा मम सुश्रोणी भीरुभीरु स्सती सदा। भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम्।।5.66.12।। Sundara Kanda,66,13,शारद स्तिमिरोन्मुक्तो नूनं चन्द्रं इवांबुधैः। आवृतं वदनं तस्या न विराजति राक्षसैः।।5.66.13।। Sundara Kanda,66,14,किमाह सीता हनुमंस्तत्त्वतः कथयाद्य मे। एतेन खलु जीविष्ये भेषजेनातुरो यथा।।5.66.14।। Sundara Kanda,66,15,मधुरा मधुरालापा किमाह मम भामिनी। मद्विहीना वरारोहा हनुमन् कथयस्व मे।।5.66.15।। Sundara Kanda,67,1,एवमुक्तस्तु हनुमान् राघवेण महात्मना। सीताया भाषितं सर्वं न्यवेदयत राघवे।।5.67.1।। Sundara Kanda,67,2,इदमुक्तवती देवी जानकी पुरुषर्षभ। पूर्व वृत्तमभिज्ञानं चित्रकूटे यथातथम्।।5.67.2।। Sundara Kanda,67,3,सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता। वायस स्सहसोत्पत्य विददार स्तनान्तरे।।5.67.3।। Sundara Kanda,67,4,पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज। पुनश्च किल पक्षी स देव्या जनयति व्यथाम्।।5.67.4।। Sundara Kanda,67,5,पुनः पुनरुपागम्य विददार भृशं किल। ततस्त्वं बोधितस्तस्याश्शोणितेन समुक्षितः।।5.67.5।। Sundara Kanda,67,6,वायसेन च तेनैव सततं बाध्यमानया। बोधितः किल देव्या त्वं सुखसुप्तः परन्तप।।5.67.6।। Sundara Kanda,67,7,तां तु दृष्ट्वा महाबाहो दारितां च स्तनान्तरे। आशीविष इव क्रुद्धो निश्वसन्नभ्यभाषथाः।।5.67.7।। Sundara Kanda,67,8,नखाग्रैः केन ते भीरु दारितं तु स्तनान्तरम्। कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना।।5.67.8।। Sundara Kanda,67,9,निरीक्षमाणस्सहसा वायसं समवैक्षथाः। नखै स्सरुधिरैस्तीक्ष्णैस्तामेवाभिमुखं स्थितम्।।5.67.9।। Sundara Kanda,67,10,सुतः किल स शक्रस्य वायसः पततां वरः। धरान्तरचरश्शीघ्रं पवनस्य गतौ समः।।5.67.10।। Sundara Kanda,67,11,ततस्तस्मिन्महाबाहो कोपसंवर्तितेक्षणः। वायसे त्वं कृथाः क्रूरां मतिं मतिमतां वर।।5.67.11।। Sundara Kanda,67,12,स दर्भं संस्तराद्गृह्य ब्रह्मास्त्रेण ह्ययोजयः। स दीप्त इव कालाग्निर्जज्वालाभिमुखः खगम्।।5.67.12।। Sundara Kanda,67,13,क्षिप्तवांस्त्वं प्रदीप्तं हि दर्भं तं वायसं प्रति। ततस्तु वायसं दीप्तस्स दर्भोऽनुजगाम ह।।5.67.13।। Sundara Kanda,67,14,स पित्रा च परित्यक्तस्सुरैश्च समहर्षिभिः। त्रीन् लोकान् सम्परिक्रम्य त्रातारं नाधिगच्छति।।5.67.14।। Sundara Kanda,67,15,पुनरेवागतस्त्रस्तस्त्वत्सकाशमरिंदम। स तं निपतितं भूमौ शरण्यश्शरणागतम्।।5.67.15।। वधार्हमपि काकुत्स्थ कृपया पर्यपालयः। Sundara Kanda,67,16,मोघमस्त्रं न शक्यं तु कर्तुमित्येव राघव।।5.67.16।। भवांस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम्। Sundara Kanda,68,1,अथाहमुत्तरं देव्या पुनरुक्त स्ससम्भ्रमम्। तव स्नेहान्नरव्याघ्र सौहार्दादनुमान्य वै।।5.68.1।। Sundara Kanda,68,2,एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया। यथा मामाप्नुयाच्छीघ्रं हत्वा रावणमाहवे।।5.68.2।। Sundara Kanda,68,3,यदि वा मन्यसे वीर वसैकाहमरिन्दम। कस्मिंश्चित्संवृते देशे विक्रान्तश्श्वो गमिष्यसि।।5.68.3।। Sundara Kanda,68,4,मम चाप्यल्पभाग्यायास्सान्निध्यात्तव वीर्यवन्। अस्य शोकविपाकस्य मुहूर्तं स्याद्विमोक्षणम्।।5.68.4।। Sundara Kanda,68,5,गते हि त्वयि विक्रान्ते पुनरागमनाय वै। प्राणानामपि सन्देहो मम स्यान्नात्र संशयः।।5.68.5।। Sundara Kanda,68,6,तवादर्शनजश्शोको भूयो मां परितापयेत्। दुःखाद्दुःखपराभूतां दुर्गतां दुःखभागिनीम्।।5.68.6।। Sundara Kanda,68,7,अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः। सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर।।5.68.7।। Sundara Kanda,68,8,कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम्। तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ।।5.68.8।। Sundara Kanda,68,9,त्रयाणामेव भूतानां सागरस्यास्य लङ्घने। शक्तिस्स्याद्वैनतेयस्य तव वा मारुतस्य वा।।5.68.9।। Sundara Kanda,68,10,तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे। किं पश्यसि समाधानं ब्रूहि कार्यविदां वरः।।5.68.10।। Sundara Kanda,68,11,काममस्य त्वमेवैकः कार्यस्य परिसाधने। पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः।।5.68.11।। Sundara Kanda,68,12,बलै स्समग्रैर्यदि मां हत्वा रावणमाहवे। विजयी स्वां पुरीं रामो नयेत्तत्स्याद्यशस्करम्।।5.68.12।। Sundara Kanda,68,13,यथाऽहं तस्य वीरस्य वनादुपधिना हृता। रक्षसा तद्भयादेव तथा नार्हति राघवः।।5.68.13।। Sundara Kanda,68,14,बलैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः। मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत्।।5.68.14।। Sundara Kanda,68,15,तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः। भवेदाहवशूरस्य तथा त्वमुपपादय।।5.68.15।। Sundara Kanda,68,16,तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम्। निशम्याहं तत श्शेषं वाक्यमुत्तरमब्रुवम्।।5.68.16।। Sundara Kanda,68,17,देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः। सुग्रीवस्सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः।।5.68.17।। Sundara Kanda,68,18,तस्य विक्रमसम्पन्नास्सत्त्ववन्तो महाबलाः। मन स्सङ्कल्पसम्पाता निदेशे हरयः स्थिताः।।5.68.18।। Sundara Kanda,68,19,येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः। न च कर्मसु सीदन्ति महत्स्वमिततेजसः।।5.68.19।। Sundara Kanda,68,20,असकृत्तैर्महाभागैर्वानरैर्बलदर्पितैः। प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः।।5.68.20।। Sundara Kanda,68,21,मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः। मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ।।5.68.21।। Sundara Kanda,68,22,अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः। न हि प्रकृष्टाः प्रेत्यन्ते प्रेष्यन्ते हीतरे जनाः।।5.68.22।। Sundara Kanda,68,23,तदलं परितापेन देवि मन्युर्व्यपैतु ते। एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः।।5.68.23।। Sundara Kanda,68,24,मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ। त्वत्सकाशं महाभागे नृसिंहावागमिष्यतः।।5.68.24।। Sundara Kanda,68,25,अरिघ्नं सिंहसङ्काशं क्षिप्रं द्रक्ष्यसि राघवम्। लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपस्थितम्।।5.68.25।। Sundara Kanda,68,26,नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान्। वानरान्वारणोन्द्राभान् क्षिप्रं द्रक्षसि सङ्गतान्।।5.68.26।। Sundara Kanda,68,27,शैलाम्बुदनिकाशानां लङ्कामलयसानुषु। नर्दतां कपिमुख्यानामचिराच्छ्रोष्यसि स्वनम्।।5.68.27।। Sundara Kanda,68,28,निवृत्तवनवासं च त्वया सार्धमरिन्दमम्। अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम्।।5.68.28।। Sundara Kanda,68,29,ततो मया वाग्भिरदीनभाषिणा शिवाभिरिष्टाभिरभिप्रसादिता। जगाम शान्तिं मम मैथिलात्मजा तवापि शोकेन तदाभिपीडिता।।5.68.29।। Yuddha Kanda,1,1,श्रुत्वा हनुमतो वाक्यं यथावदभिभाषितम् । रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ।।6.1.1।। Yuddha Kanda,1,2,कृतं हनुमता कार्यं सुमहद्भुवि दुर्लभम् । मनसापि यदन्येन न शक्यं धरणीतले ।।6.1.2।। Yuddha Kanda,1,3,न हि तं परिपश्यामि यस्तरेत महार्णवम् । अन्यत्र गरुडाद्वायोरन्यत्र च हनूमतः ।।6.1.3।। Yuddha Kanda,1,4,देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् । अप्रधृष्यां पुरीं लङ्कां रावणेन सुरक्षिताम् । प्रवष्ट स्सत्त्वमाश्रित्यश्वसन्को नाम निष्क्रमेत् ।।6.1.4।। Yuddha Kanda,1,5,को विशेत्सुदुराधर्षां राक्षसैश्च सुरक्षिताम् । यो वीर्यबलसम्पन्नो न समस्याद्धनूमतः ।।6.1.5।। Yuddha Kanda,1,6,भृत्यकार्यं हनुमता सुग्रीवस्य कृतंमहत् । स्वयं विधाय स्वबलं सदृशं विक्रमस्य च ।।6.1.6।। Yuddha Kanda,1,7,यो हि भृत्यो नियुक्तस्सन्भर्त्रा कर्मणि दुष्करे । कुर्यात्तदनुरागेण तमाहुः पुरुषोत्तमम् ।।6.1.7।। Yuddha Kanda,1,8,नियुक्तोय: परं कार्यं न कुर्यान्नृपतेः प्रियम् । भृत्योऽभृत्यस्समर्थोऽपि तमाहुर्मध्यमं नरम् ।।6.1.8।। Yuddha Kanda,1,9,नियुक्तो नृपतेः कार्यं न कुर्याद्यस्समाहितः । भृत्यो युक्तस्समर्थश्च तमाहुः पुरुषाधमम् ।।6.1.9।। Yuddha Kanda,1,10,तन्नियोगे नियुक्तेन कृतं कृत्यं हनूमता । न चात्मा लघुतां नीतस्सुग्रीवश्चापि तोषितः ।।6.1.10।। Yuddha Kanda,1,11,अहं च रघुवंशश्च लक्ष्मणश्च महाबलः । वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः ।।6.1.11।। Yuddha Kanda,1,12,इदं तु मम दीनस्य मनो भूयः प्रकर्षति । यदिहास्य प्रियाख्यातुर्न कुर्मि सदृशं प्रियम् ।।6.1.12।। Yuddha Kanda,1,13,एष सर्वस्वभूते परिष्वङ्गो हनूमतः । मया कालमिमं प्राप्य दत्तस्तस्य महात्मनः ।।6.1.13।। Yuddha Kanda,1,14,इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्तं परिषस्वजे । हनूमन्तं कृतात्मानं कृतकार्यमुपागतम् ।।6.1.14।। Yuddha Kanda,1,15,ध्यात्वा पुनरुवाचेदं वचनं रघुनन्दनः । हरीणामीश्वरस्यापि सुग्रीवस्योपशृण्वतः ।।6.1.15।। Yuddha Kanda,1,16,सर्वथा सुकृतं तावत्सीतायाः परिमार्गणम् । सागरं तु समासाद्य पुनर्नष्टं मनो मम ।।6.1.16।। Yuddha Kanda,1,17,कथं नाम समुद्रस्य दुष्पारस्य महाम्भसः । हरयो दक्षिणं पारं गमिष्यन्ति समागताः ।।6.1.17।। Yuddha Kanda,1,18,यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम । समुद्रपारगमने हरीणां किमिहोत्तरम् ।।6.1.18।। Yuddha Kanda,1,19,इत्युक्तवा शोकसम्भ्रान्तो राम श्शत्रुनिबर्हणः । हनूमन्तं महाबाहुस्ततो ध्यानमुपागमत् ।।6.1.19।। Yuddha Kanda,2,1,तंतुशोकपरिद्यूनंरामंदशरथात्मजम् । उवाचवचनंश्रीमान् सुग्रीवश्शोकनाशनम् ।।6.2.1।। Yuddha Kanda,2,2,किंत्वंसन्तप्यसेवीर यथान्यःप्राकृतस्तथा । मैवंभूस्त्यजसन्तापंकृतघ्नइवसौहृदम् ।।6.2.2।। Yuddha Kanda,2,3,सन्तापस्यचतेस्थानंनहिपश्यामिराघव । प्रवृत्तावुपलब्धायांज्ञातेचनिलयेरिपोः ।।6.2.3।। Yuddha Kanda,2,4,मतिमान्शास्त्रवित्प्राज्ञःपण्डितश्चासिराघव । त्यजेमांपापिकांबुद्धिंकृतात्मेवार्थदूषणीम् ।।6.2.4।। Yuddha Kanda,2,5,समुद्रंलङ्घयित्वातुमहानक्रसमाकुलम् । लङ्कामारोहयिष्यामोहनिष्यामश्चतेरिपुम् ।।6.2.5।। Yuddha Kanda,2,6,निरुत्साहस्यदीनस्यशोकपर्याकुलात्मनः । सर्वार्थाव्यवसीदन्तिव्यसनंचाधिगच्छति ।।6.2.6।। Yuddha Kanda,2,7,इमेशूरास्समर्थाश्चसर्वनोहरियूथपाः । त्वत्प्रियार्थंकृतोत्साहाःप्रवेष्टुमपिपावकम् । एषांहर्षेणजानामितर्कश्चास्मिन् दृढोमम ।।6.2.7।। Yuddha Kanda,2,8,विक्रमेणसमानेष्येसीतांहत्वायथारिपुम् । रावणंपापकर्माणंतथात्वंकर्तुमर्हसि ।।6.2.8।। Yuddha Kanda,2,9,सेतुरत्रयथाबध्येद्यथापश्येमतांपुरीम् । तस्यराक्षसराजस्यतथात्वंकुरुराघव ।।6.2.9।। Yuddha Kanda,2,10,दृष्टवातांतुपुरींलङ्कांत्रिकूटशिखरेस्थिताम् । हतंचरावणंयुद्धेदर्शनावधारय ।।6.2.10।। Yuddha Kanda,2,11,अबध्वासागरेसेतुंघोरेचतुवरुणालये । लङ्कांनमर्दितुंशक्यासेन्द्रैरपिसुरासुरैः ।।6.2.11।। Yuddha Kanda,2,12,सेतुर्बद्धस्समुद्रेचयावल्लङ्कास्समीपतः ।।6.2.12।। Yuddha Kanda,2,13,सर्वंतीर्णंचमेसैन्यंजितमित्युपधारय । इमेहिसमरेवीराहरयःकामरूपिण ।।6.2.13।। Yuddha Kanda,2,14,तदलंविक्लबांबुद्धिम् राजन सर्वार्थनाशनीम् । पुरुषस्यहिलोकेऽस्मिन् शोकश्शौर्यापकर्षणः ।।6.2.14।। Yuddha Kanda,2,15,यत्तुकार्यंमनुष्येणशौण्डीर्यमवलम्बता । अस्मिन् कालेमहाप्राज्ञसत्त्वमातिष्ठतेजसा ।।6.2.15।। Yuddha Kanda,2,16,शूराणांहिमनुष्याणांत्वद्विधानांमहात्मनाम् । विनष्टेवाप्रणष्टेवाशोकस्सर्वार्थनाशनः ।।6.2.16।। Yuddha Kanda,2,17,तत्त्वंबुद्धिमतांश्रेष्ठस्सर्वशास्त्रार्थकोविदः । मद्विधैस्सचिवैस्सार्थमरिंजेतुमिहार्हसि ।।6.2.17।। Yuddha Kanda,2,18,नहिपश्याम्यहंकंचित् त्रिषुलोकेषुराघव । गृहीतधनुषेयस्तेतिष्ठेदभिमुखोरणे ।।6.2.18।। Yuddha Kanda,2,19,वानरेषुसमासक्तंनतेकार्यंविपत्स्यते । अचिराद्द्रक्ष्यसेसीतांतीर्त्वासागरमक्ष्यम् ।।6.2.19।। Yuddha Kanda,2,20,तदलंशोकमालम्ब्यक्रोधमालम्बभूपते । निश्चेष्टाःक्षत्रियामन्दास्सर्वेचण्डस्यबिभ्यति ।।6.2.20।। Yuddha Kanda,2,21,लङ्घनार्थंचघोरस्यसमुद्रस्यनदींपतेः । सहास्माभिरिहोपेतस्सूक्ष्मबुद्धिर्विचारय ।।6.2.21।। Yuddha Kanda,2,22,लङ्घितेतस्यतैस्सैन्यंजितमित्युपधारय । सर्वंतीर्णंचमेसैन्यंजितमित्यवधार्यताम् ।।6.2.22।। Yuddha Kanda,2,23,इमेहिहरयश्शूरास्समरेकामरूपिणः । तानरीन्विधमिष्यन्तिशिलापादपवृष्टिभिः ।।6.2.23।। Yuddha Kanda,2,24,कथञ्चित्सन्तरिष्यामस्तेवयंवरुणालयम् । हतमित्येवतंमन्येयुद्धेशत्रुनिबर्हण ।।6.2.24।। Yuddha Kanda,2,25,किमुक्त्वाबहुधाचापिसर्वथाविजयीभवान् । निमित्तानिचपश्यामिमनोमेसम्प्रहृष्यति ।।6.2.25।। Yuddha Kanda,3,1,सुग्रीवस्यवचश्श्रुत्वाहेतुमत्परमार्थवत् । प्रतिजग्राहकाकुत्स्थोहनूमन्तमथाब्रवीत् ।।6.3.1।। Yuddha Kanda,3,2,तपसासेतुबन्धेनसागरोच्छोषणेनच । सर्वथासुसमर्थोऽस्मिसागरस्यास्यलङ्घने ।।6.3.2।। Yuddha Kanda,3,3,कतिदुर्गाणिदुर्गायालङ्कायाब्रूहितानिमे । ज्ञातुमिच्छामितत्सर्वंदर्शनादिववानर ।।6.3.3।। Yuddha Kanda,3,4,बलस्यपरिमाणंचद्वारदुर्गक्रियामपि । गुप्तिकर्मचलङ्कायारक्षसांसदनानिच ।।6.3.4।। Yuddha Kanda,3,5,यथासुखंयथावच्छलङ्कायामसिदृष्टवान् । सर्वमाचक्ष्वतत्त्वेनसर्वथाकुशलोह्यसि ।।6.3.5।। Yuddha Kanda,3,6,श्रुत्वारामस्यवचनंहनुमान्मारुतात्मजः । वाक्यंवाक्यविदांश्रेष्ठोरामंपुनरथाब्रवीत् ।।6.3.6।। Yuddha Kanda,3,7,श्रूयतांसर्वमाख्यास्येदुर्गकर्मविधानतः । गुप्तापुरीयथालङ्कारक्षिताचयथाबलैः ।।6.3.7।। Yuddha Kanda,3,8,राक्षसाश्चयथास्निग्धारावणस्यचतेजसा । परांसमृद्धिंलङ्कायास्सागरस्यचभीमताम् ।।6.3.8।। Yuddha Kanda,3,9,विभागंचबलौघस्यनिर्देशंवाहनस्यच । एवमुक्त्वाकपिश्रेष्ठःकथयामासतत्त्ववित: ।।6.3.9।। Yuddha Kanda,3,10,हृष्टप्रमुदितालङ्कामत्तद्विपसमाकुला । महतीरथसंपूर्णारक्षोगणसमाकुला ।।6.3.10।। Yuddha Kanda,3,11,दृढबद्धकवाटानिमहापरिघवन्तिच । द्वाराणिविपुलान्यस्याश्चत्वारिसुमहान्तिच ।।6.3.11।। Yuddha Kanda,3,12,तत्रेषूपलयन्त्राणिबलवन्तिमहान्तिच । आगतंपरसैन्यंतैस्तत्रप्रतिनिवार्यते ।।6.3.12।। Yuddha Kanda,3,13,द्वारेषुसंस्कृताभीमाःकालायसमयाश्शिताः । शतशोरचितावीरैश्शतघ्नयोरक्षसांगणै ।।6.3.13।। Yuddha Kanda,3,14,सौवर्णस्तुमहांस्तस्याःप्राकारोदुष्प्रधर्षणः । मणीविद्रुमवैदूर्यमुक्ताविरचितान्तरः ।।6.3.14।। Yuddha Kanda,3,15,सर्वतश्चमहाभीमाश्शीततोयवहाश्शुभाः । अगाधाग्राहवत्यश्चपरिखामीनसेविता ।।6.3.15।। Yuddha Kanda,3,16,द्वारेषुतासांचत्वारस्सङ्क्रमाःपरमायताः । यन्त्रैरुपेताबहुभिर्महद्भिर्गृहपङ्क्तिभिः ।।6.3.16।। Yuddha Kanda,3,17,त्रायन्तेसङ्क्रमास्तत्रपरसैन्यागतेसति । यन्त्रैस्तैरवकीर्यन्तेपरिखासुसमन्ततः ।।6.3.17।। Yuddha Kanda,3,18,एकस्त्वकम्प्योबलवान्सङ्क्रमस्सुमहादृढः । काञ्चनै र्बहुभिस्स्तम्भैर्वेदिकाभिश्चशोभितः ।।6.3.18।। Yuddha Kanda,3,19,स्वयंप्रकृतिमापन्नोयुयुत्सूराम रावण: । उत्थितश्चाप्रमत्तश्चबलानामनुदर्शने ।।6.3.19।। Yuddha Kanda,3,20,लङ्कापुनर्निरालम्बादेवदुर्गाभयावहा । नादेयंपार्वतंवान्यंकृत्रिमंचचतुर्विधम् ।।6.3.20।। Yuddha Kanda,3,21,स्थितापारेसमुद्रस्यदूरपारस्यराघव । नौपथोपिश्चनास्त्यत्रनिरादेशश्चसर्वशः ।।6.3.21।। Yuddha Kanda,3,22,शैलाग्रेरचितादुर्गासापुरैर्देवपुरोपमा । वाजिवारणासम्पूर्णालङ्कापरमदुर्जया ।।6.3.22।। Yuddha Kanda,3,23,परिखाश्चशतघ्नयश्चयन्त्राणिविविधानिच । शोभयन्तिपुरींलङ्कांरावणस्यदुरात्मनः ।।6.3.23।। Yuddha Kanda,3,24,अयुतंरक्षसामत्रपूर्वद्वारंसमाश्रितम् । शूलहस्तादुराधर्षास्सर्वेखङ्गाग्रयोधिनः ।।6.3.24।। Yuddha Kanda,3,25,नियुतंरक्षसामत्रदक्षिणद्वारमाश्रितम् । चतुरङ्गेणसैन्येनयोधास्तत्राप्यनुत्तमाः ।।6.3.25।। Yuddha Kanda,3,26,प्रयुतंरक्षसामत्रपश्चिमद्वारमाश्रितम् । चर्मखङ्गधरास्सर्वेतथासर्वास्त्रकोविदाः ।।6.3.26।। Yuddha Kanda,3,27,न्यर्बुदंरक्षसामत्राप्युत्तरद्वारमाश्रितम् । रथिनश्चाश्ववाहाश्चकुलपुत्त्रास्सुपूजिताः ।।6.3.27।। Yuddha Kanda,3,28,शतशोऽथसहस्राणिमध्यमंस्कन्धमाश्रिताः । यातुधानादुराधर्षास्साग्रकोटिश्चरक्षसाम् ।।6.3.28।। Yuddha Kanda,3,29,तेमयासङ्क्रमाभग्नाःपरिखाश्चावपूरिताः । दग्धाचनगरीलङ्काप्राकाराश्चावसादिताः ।।6.3.29।। बलैकदेशःक्षपितोराक्षसानांमहात्मनाम् । Yuddha Kanda,3,30,येनकेनतुमार्गेणतरामवरुणालयम् । हतेतिनगरीलङ्कावानरैरवधार्यताम् ।।6.3.30 ।। Yuddha Kanda,3,31,अङ्गदोद्विविदोमैन्दोजाम्बवान्पनसोऽनलः । नीलस्सेनापतिश्चेवबलशेषेणकिंतव ।।6.3.31।। Yuddha Kanda,3,32,प्लवमानाहिगत्वातांरावणस्यमहापुरीम् ।।6.3.32।। Yuddha Kanda,3,33,सपर्वतवनांभित्त्वासखातांचसप्रतोरणाम् । सप्राकारांसभवनामानयिष्यन्तिराघव ।।6.3.33।। Yuddha Kanda,3,34,एवमाज्ञापयक्षिप्रंबलानांसर्वसङ्ग्रहम् । मुहूर्तेनतुयुक्तेनप्रस्थानमभिरोचय ।।6.3.34।। Yuddha Kanda,4,1,श्रुत्वा हनुमतो वाक्यं यथावदनुपूर्वशः । ततोऽब्रवीन्महातेजा रामस्सत्यपराक्रमः ।।6.4.1।। Yuddha Kanda,4,2,यां निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः । क्षिप्रमेनां मथिष्यामि सत्यमेतद्ब्रवीमि ते ।।6.4.2।। Yuddha Kanda,4,3,अस्मिन् मुहूर्ते सुग्रीव प्रयाणमभिरोचये । युक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकर ।।6.4.3।। Yuddha Kanda,4,4,सीतां हृत्वा तु मे जातु क्वासौ यास्यति यास्यत: । सीता श्रुत्वाभियानं मे अशामेष्यति जीविते । जीवितान्तेऽ मृतं स्पृष्टवा पीत्वा विषमिवातुरः ।।6.4.4।। Yuddha Kanda,4,5,उत्तरा फल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते । अभिप्रायाम सुग्रीव सर्वानीकसमावृताः ।।6.4.5।। Yuddha Kanda,4,6,निमित्तानि च पश्यामि यानि प्रादुर्भवन्ति च । निहत्य रावणं सीतामानयिष्यामि जानकीम् ।।6.4.6।। Yuddha Kanda,4,7,उपरिष्टाद्धि नयनं स्फुरमाणमिदं मम । विजयं समनुप्राप्तं शंसतीव मनोरथम् ।।6.4.7।। Yuddha Kanda,4,8,ततो वानरराजेन लक्ष्मणेन सुपूजितः । उवाच रामो धर्मात्मा पुनरप्यर्धकोविदः ।।6.4.8।। Yuddha Kanda,4,9,अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम् । वृतश्शतसहस्रेण वानराणां तरस्विनाम् ।।6.4.9।। Yuddha Kanda,4,10,फलमूलवता नील शीतकाननवारिणा । पथा मधुमता चाशु सेनां सेनापते नय ।।6.4.10।। Yuddha Kanda,4,11,दूषयेयुर्दुरात्मनः पथि मूलफलोदकम् । राक्षसाः परिरक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः ।।6.4.11।। Yuddha Kanda,4,12,निम्नेषु वनदुर्गेषु वनेषु च वनौकसः । अभिप्लुत्याभिपश्येयुः परेषां निहितं बलम् ।।6.4.12।। Yuddha Kanda,4,13,यच्च फल्गु बलं किञ्चित्त दत्रैवोपपद्यताम् । एतद्धि कृत्यं घोरं नो विक्रमेण प्रयुज्यताम् ।।6.4.13।। Yuddha Kanda,4,14,सागरौघनिभं भीममग्रानीकं महाबलाः । कपिसिंहाः प्रकर्षस्तु शतशोऽथ सहस्रशः ।।6.4.14।। Yuddha Kanda,4,15,गजश्च गिरिसङ्काशो गवयश्च महाबलः । गवाक्षश्चाग्रतो यातु गवां दृप्तइवर्षभ: ।।6.4.15।। Yuddha Kanda,4,16,यातु वानरवाहिन्या वानरः प्लवतां वरः । पालयन्दक्षिणं पार्श्वमृषभो वानरर्षभः ।।6.4.16।। Yuddha Kanda,4,17,गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः । यातु वानरवाहिन्या स्सव्यं पार्श्वमधिष्ठितः ।।6.4.17।। Yuddha Kanda,4,18,यास्यामि बलमध्येऽहं बलौघमभिहर्षयन् । अधिरुह्य हनूमन्त मैरावत मिवेश्वरः ।।6.4.18।। Yuddha Kanda,4,19,अङ्गदेनैष संयातु लक्ष्मणश्चान्त कोपमः । सार्वभौमेन भूतेशो द्रविणाधिपतिर्यथा ।।6.4.19।। Yuddha Kanda,4,20,जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः । ऋक्षराजो महासत्त्वः कुक्षिं रक्षन्तु ते त्रयः ।।6.4.20।। Yuddha Kanda,4,21,राघवस्य वचश्श्रुत्वा सुग्रीवो वाहिनीपतिः । व्यादिदेश महावीर्यो वानरान्वानरर्षभ ः ।।6.4.21।। Yuddha Kanda,4,22,ते वानरगणास्सर्वे समुत्पत्य युयुत्सवः । गुहाभ्यश्शिखरेभ्यश्च अशु पुप्लुविरे तदा ।।6.4.22।। Yuddha Kanda,4,23,ततो वानरराजेन लक्ष्मणेन च पूजितः । जगाम रामोधर्मात्मा ससैन्यो दक्षिणां दिशम् ।।6.4.23 ।। Yuddha Kanda,4,24,शतैः शतसहस्रैश्च कोटिभिश्चायुतैरपि । वारणाभैश्च हरिभिर्ययौ परिवृतस्तदा ।।6.4.24।। Yuddha Kanda,4,25,तं यान्तमनुयान्ती सा महती हरिवाहिनी । दृप्ता: प्रमुदितास्सर्वे सुग्रीवेणाभिपालिताः ।।6.4.25।। Yuddha Kanda,4,26,आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः । क्षेवळन्तो निनदन्तस्ते जग्मुर्वै दक्षिणां दिशम् ।।6.4.26।। Yuddha Kanda,4,27,भक्ष्यन्त स्सुगन्धीनि मधूनि च फलानि च । उद्वहन्तो महावृक्षान् मञ्जरीपुञ्जधारिणः ।।6.4.27।। Yuddha Kanda,4,28,अन्योन्यं सहसा दृप्ता निर्वहान्ति क्षिपन्ति च । पतन्तश्पोत्पत्नत्यन्ये पातयन्त्यपरे परान् ।।6.4.28।। Yuddha Kanda,4,29,रावणो नो निहन्तव्यस्सर्वे च रजनीचराः । इति गर्जन्ति हरयो राघवस्य समीपतः ।।6.4.29।। Yuddha Kanda,4,30,पुरस्तादृषभो वीरो नील: कुमुद एव च । पन्थानं शोधयन्तिस्म वानरैर्बहुभि स्सह ।।6.4.30।। Yuddha Kanda,4,31,मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च । बलभिर्बहुभि र्भीमैर्वृताश्शत्रुनिबर्हणाः ।।6.4.31।। Yuddha Kanda,4,32,हरिश्शतवलिर्वीरः कोटीभिर्दशभिर्वृतः । सर्वामेको ह्यावष्टभ्य ररक्ष हरिवाहिनीम् ।।6.4.32।। Yuddha Kanda,4,33,कोटीशतपरीवारः केसरी पनसो गजः । अर्कश्चातिबल: पार्श्वमेकं तस्याभिरक्षति ।।6.4.33।। Yuddha Kanda,4,34,सुषेणो जाम्बवांश्चैव ऋक्षैर्बहुभिरावृतौ । सुग्रीवं पुरतः कृत्वा जघनं सम्ररक्षतुः ।।6.4.34।। Yuddha Kanda,4,35,तेषां सेनापतिर्वीरो नीलो वानरपुङ्गवः । सम्पतन्पततां श्रेष्ठस्तद्बलं पर्यपालयात् ।।6.4.35।। Yuddha Kanda,4,36,दरीमुखः प्रजङ्घश्च रम्भोऽथ रभसः कपिः । सर्वतश्च ययुर्वीरास्त्वरयन्तः प्लवङ्गमान् ।।6.4.36।। Yuddha Kanda,4,37,एवं ते हरिशार्दूला गच्छन्तो बलदर्पिताः । अपश्यंस्ते गिरिश्रेष्ठं सह्यं द्रुमालतायुतम् ।।6.4.37।। Yuddha Kanda,4,38,सरांसि च सुपुल्लानि तटाकानि वनानि च ।।6.4.38।। Yuddha Kanda,4,39,रामस्य शासनं ज्ञात्वा भीमकोपस्य भीतवत् । वर्जयन्नगराभ्याशां स्तथा जनपदानपि ।।6.4.39।। Yuddha Kanda,4,40,सागरौघनिभं भीमं तद्वानरबलं महत् । उत्ससर्प महाघोषं भीमघोषमिवार्णव: ।।6.4.40।। Yuddha Kanda,4,41,तस्यदाशरथे: पार्श्वे शूरास्ते कपिकुङजराः । तोर्णमापुप्लुवु स्सर्वे सदश्वा इव चोदिताः ।।6.4.41।। Yuddha Kanda,4,42,कपिभ्यामुह्यमानौ तौ शुशुभाते नरर्षभौ । महाद्भ्यामिव सम्स्पृष्टौ ग्रहाभ्यां चन्द्रभास्करौ ।।6.4.42।। Yuddha Kanda,4,43,ततो वानरराजेन लक्ष्मणेन सुपूजितः । जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् ।।6.4.43।। Yuddha Kanda,4,44,तमङ्गदगतो रामं लक्ष्मणश्शुभया गिरा । उवाच परिपूर्णार्थ: स्मृतिमान् प्रतिभानवान् ।।6.4.44।। Yuddha Kanda,4,45,हृतामवाप्य वैदेहीं क्षिप्रं हत्वा च रावणम् । समृद्धार्थस्समृद्धार्थमयोध्यां प्रतियास्यसि ।।6.4.45।। Yuddha Kanda,4,46,महान्ति च निमित्तानि दिवि भूमौ च राघव । शुभानि तव पश्यामि सर्वाण्येनार्थसिद्धये । अनुवाति शिवो वायु स्सेवां मृदुहित स्सुखः ।।6.4.46।। Yuddha Kanda,4,47,पूर्णवल्गुस्वराश्चेमे प्रवदन्ति मृगद्विजाः । प्रसन्नाश्च दिश स्सर्वा विमलश्च दिवाकरः ।।6.4.47।। Yuddha Kanda,4,48,उशना च प्रसन्नार्चिरनु त्वां भार्गवो गतः ।।6.4.48।। Yuddha Kanda,4,49,ब्रह्मराशिर्विशुद्धश्च शुद्दाश्च परमर्षयः । अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम् ।।6.4.49।। Yuddha Kanda,4,50,त्रिशङ्कुर्विमलो भाति राजर्षिस्सपुरोहितः । पितामहाः पुरोऽस्माकमिक्ष्वाकूणां महात्मनाम् ।।6.4.50।। Yuddha Kanda,4,51,विमले च प्रकाशेते विशाखे निरुपप्लुवे । नक्षत्र वरमस्माकमिक्ष्वाकूणां महात्मनाम् ।।6.4.51।। Yuddha Kanda,4,52,नैरृतं नैरृतानां च नक्षत्रमभिपीड्यते । मूलो मूलवता स्पृष्टो धूप्यते धूमकेतुना ।।6.4.52।। Yuddha Kanda,4,53,सर्वं चैतद्विनाशाय राक्षसानामुप स्थितम् । काले कालगृहीतानां नक्षत्र ग्रहपीडितम् ।।6.4.53।। Yuddha Kanda,4,54,प्रसन्ना स्सुरसाश्चापो वनानि फलवन्ति च । प्रवान्त्यभ्य नाधिकं गन्धान्यथर्तुकुसुमा द्रुमाः ।।6.4.54।। Yuddha Kanda,4,55,व्यूढानि कपिसैन्यानि प्रकाशन्तेऽधिकं प्रभो ।।6.4.55।। Yuddha Kanda,4,56,देवानामिव सैन्यानि सङ्ग्रामे तारकामये। एवमार्य । समीक्ष्यैतान्प्रीतो भवितुमर्हसि ।।6.4.56।। Yuddha Kanda,4,57,इति भ्रातरमाश्वास्य हृष्ट स्सौमित्रिरब्रवीत् । अथावृत्य महीं कृत्स्नां जगाम महती चमू: ।।6.4.57।। ऋक्षवानरशर्दूलैर्न खदंष्ट्रायुधैर्वुता । Yuddha Kanda,4,58,काराग्रैश्चरणाग्रैश्च वानरै रुत्थितं रजः । भीममन्तर्दधे लोकं निवार्य सवितुः प्रभाम् ।।6.4.58।। Yuddha Kanda,4,59,पर्वतवनाकाशां दक्षिणां हरिवाहिनी । छादयन्ती ययौ भीमा द्यामिवाम्बुदसन्ततिः ।।6.4.59।। Yuddha Kanda,4,60,उत्तरन्त्यां च सेनायां स्सततं बहुयोजनम् । नदीस्रोतांसि सर्वाणि सस्यन्दुर्विपरीतवत् ।।6.4.60।। Yuddha Kanda,4,61,सरांसि विमलाम्भांसि द्रुमाकीर्णांश्च पर्वता । समान् भूमिप्रदेशांश्च वनानि फलवन्ति च । मध्येन च समन्ताच्च तिर्यक्चाथश्च समाऽविशत् ।।6.4.61।। Yuddha Kanda,4,62,समावृत्य महीं कृत्स्नां जगाम महती चमूः । तेहृष्टवदना स्सर्वे जग्मुर्मारुतरंहसः ।।6.4.62।। Yuddha Kanda,4,63,हरयो राघवस्यार्थे समारोपितविक्रमाः ।।6.4.63।। Yuddha Kanda,4,64,हर्षंवीर्य बलोद्रेकान्दर्शयन्तः परस्परम् । यौवनोत्सेकजान्दर्पाद्विविधांश्चक्रुरध्वनि ।।6.4.64।। Yuddha Kanda,4,65,तत्र केचिद्द्रुतं जग्मुरुत्पेतुश्च तथापरे । केचित्किलकिलां चक्रुर्वानरा वनगोचराः ।।6.4.65।। Yuddha Kanda,4,66,प्रास्पोटयंश्च पुच्छानि सन्निजग्मु: पदान्यपि । भुजावनिक्षिप्य शैलांश्च द्रुमानन्ये बभञ्जिरे ।।6.4.66।। Yuddha Kanda,4,67,आरोहन्तश्च शृङ्गाणि गिरीणां गिरिगोचराः । महानादान्प्रमुञ्चन्ति क्ष्वेळ्वामन्ये प्रचक्रिरे ।।6.4.67।। Yuddha Kanda,4,68,ऊरुवेगैश्च ममृदुर्लताजालान्यनेकशः । जृम्भमाणाश्च विक्रान्ता विचिक्रीडुश्शिलाद्रुमै ः ।।6.4.68।। Yuddha Kanda,4,69,शतश्शतसहस्रैश्च कोटिभिश्च सहस्रशः । वानराणां सुघोराणां श्रीमत्परिवृता मही ।।6.4.69।। Yuddha Kanda,4,70,सा स्म याति दिवारात्रं महती हरिवाहिनी । प्रहृष्टमुदितास्सेना सुग्रीवेणाभिपालिताः ।।6.4.70।। Yuddha Kanda,4,71,वानरास्त्वरितं यान्ति सर्वे युद्धाभिनन्दिनः । प्रमोक्षयिषव स्सीतां मुहूर्तं क्वापि नावसन् ।।6.4.71।। Yuddha Kanda,4,72,ततः पादपसम्भाधं नानामृगसमायुताम । सह्यपर्वतमासेदुर्मलयञ्च महीधरम् ।।6.4.72।। Yuddha Kanda,4,73,काननानि विचित्राणि नदी: प्रस्रवणानि च । पश्यन्ननि ययौ रामस्सह्यस्य मलयस्य च ।।6.4.73।। Yuddha Kanda,4,74,वकुळान्स्तिलकांश्चूतानसोकान् सिन्धुवारकान् । करवीरांश्च तिनिशान् भजन्ति स्म प्लवङ्गगमाः ।।6.4.74।। Yuddha Kanda,4,75,अङ्कोलांश्च करञ्चांश्च प्लक्षन्यग्रोधतिन्दुकान् । जम्बुकामलकान्नापान्भजन्ति स्म प्लवङ्गमाः ।।6.4.75।। Yuddha Kanda,4,76,प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः । वायुवेगप्रचलिताः पुष्पैरवकिरन्ति तान् ।।6.4.76।। Yuddha Kanda,4,77,मारुतस्सुखसंस्पर्शो वाति चन्दनशीतलः । षटपदैरनुकूजद्भिर्वनेषु मधुगन्धिषु ।।6.4.77।। Yuddha Kanda,4,78,अधिकं शैलराजस्तु धातुभिस्सुविभूषितः । धातुभ्यःप्रसृतो रेणुर्वायुवेग विघट्टितः । सुमहद्वानरानीकं छादयामास सर्वतः ।।6.4.78।। Yuddha Kanda,4,79,गिरिप्रस्थेषु रम्येषु सर्वत सम्प्र पुष्पिताः । केतकस्सिन्दुवाराश्च वासन्त्यश्च मनोरमाः ।।6.4.79।। Yuddha Kanda,4,80,माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च पुष्पिताः । चिरिबिल्वा मधूकाश्च वञ्जुला प्रियकास्तथा ।।6.4.80।। Yuddha Kanda,4,81,सुफूर्जकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः । चूताः पाटलयकाश्चैव कोविदाराश्च पुष्पिताः ।।6.4.81।। Yuddha Kanda,4,82,मुचुलिन्दार्जुनाश्चैव शिंशुपाः कुटजास्तथा । धवा श्शाल्मलयश्चैव रक्ता: कुरवकास्तथा ।।6.4.82।। Yuddha Kanda,4,83,हिन्तालास्तिनिशाश्चैव चूर्णका नीपकास्तथा । नीलाशोकाश्च वरणा अङ्कोलाः पद्मकास्तथा ।।6.4.83।। Yuddha Kanda,4,84,प्लवमानै: प्लवंगैस्तु सर्वे पर्याकुलीकृतां ।।6.4.84।। Yuddha Kanda,4,85,वाप्यस्तस्मिन् गिरौ शिता: पल्वलानि तथैव च । चक्रवाकानुचरिताः कारण्डवनिषेविताः ।।6.4.85।। Yuddha Kanda,4,86,प्लवैः क्रौञ्चेश्च सङ्कीर्णा वराहमृग सेविताः । ऋक्षैस्तरक्षुभिस्सिम्हैश्शार्दूलैश्च भयावहैः ।।6.4.86।। Yuddha Kanda,4,87,व्यालैश्च बहुभिर्भीमै स्सेव्यमाना स्समन्ततः । पद्मैस्सौगन्दिकैः पुल्लैः कुमुदैश्चोत्पलैस्तथा ।।6.4.87।। वारिजैर्विविधैः पुष्पै रम्यास्तत्र जलाशयाः । Yuddha Kanda,4,88,तस्य सानुषु कूजन्ति नानाद्विजगणास्तथा ।।6.4.88।। Yuddha Kanda,4,89,स्नात्वा पीत्वोदकान्यत्र जले क्रीडन्ति वानराः । अन्योन्यं प्लावयन्ति स्म शैलमारुह्य वानराः ।।6.4.89।। Yuddha Kanda,4,90,फलान्य मृतगन्धीनि मूलानि कुसुमानि च । बभञ्जुर्वास्तत्र पादपानं मदोत्कटाः ।।6.4.90।। Yuddha Kanda,4,91,द्रोणमात्रप्रमाणानि लम्बमानानि वानराः । ययुः पिबन्त हृष्टास्ते मधूनि मधुपिङ्गलाः ।।6.4.91।। Yuddha Kanda,4,92,पादपानवभञ्जन्तो विकर्षन्त स्तथा लताः । विधमन्तो गिरिवरान्प्रययुः प्लवगर्षभाः ।।6.4.92।। Yuddha Kanda,4,93,वृक्षेभ्योऽन्ये तु कपयो नदन्तो मधुदर्पिताः । अन्ये वृक्षान्प्रपद्यन्ते प्रपिबन्त्यपि चापरे ।।6.4.93।। Yuddha Kanda,4,94,बभूव वसुधा तैस्तु सम्पूर्णा हरियूथपै: । यथा कलमकेदारैः पक्वैरिव वसुन्दरा ।।6.4.94।। Yuddha Kanda,4,95,महेन्द्रमथ सम्प्राप्य रामो राजीवलोचनः । अध्यारोहन्महाबाहुश्शिखरं द्रुमभूषितम् ।।6.4.95।। Yuddha Kanda,4,96,ततश्शिखरमारुह्य रामो दशरथात्मजः । कूर्ममीनसमाकीर्णमपश्यत्सलिलाकुलम् ।।6.4.96।। Yuddha Kanda,4,97,ते सह्यं समतिक्रम्य मलयं च महागिरिम् । आसेदुरानुपूर्व्येण समुद्रं भमनिस्स्वनम् ।।6.4.97।। Yuddha Kanda,4,98,अवरुह्य जगामाशु वेलावनमनुत्तमम् । रामो रमयतां श्रेष्ट स्ससुग्रीव स्सलक्ष्मणः ।।6.4.98।। Yuddha Kanda,4,99,अथ धौतोपलतलां तोयौघै स्सहसोत्थितैः । वेलामासाद्य विपुलान्रामो वचनमब्रवीत् ।।6.4.99।। Yuddha Kanda,4,100,एते वयमनुप्राप्ता स्सुग्रीव वरुणालयम् । इहेदानीं विचिन्ता साया नः पूर्वसमुत्थिता ।।6.4.100।। Yuddha Kanda,4,101,अतः परमतीरोऽयं सागर स्सरितां पतिः । न चायमनुपायेन शक्यस्तरितुमर्णवः ।।6.4.101।। Yuddha Kanda,4,102,तदिहैव निवेशोऽस्तु मन्त्रः प्रस्तूयतामिह । यथेदं वानरबलं परं पारमवाप्नुयात् ।।6.4.102।। Yuddha Kanda,4,103,इतीव स महाबाहुस्सीताहरणकर्शितः । रामस्सागरमासाद्य वासमाज्ञापयत्तदा ।।6.4.103।। Yuddha Kanda,4,104,सर्वा स्सेना निवेश्यन्तां वेलायां हरिपुङ्गव । सम्प्राप्तो मन्त्रकालो नस्सागरस्येह लङ्घने ।।6.4.104।। Yuddha Kanda,4,105,स्वां स्वां सेनां समुत्सृज्य मा च कश्चित्कुतो व्रजेत् । गच्छन्तु वानराश्शूराज्ञेयं छन्नं भयं च नः ।।6.4.105।। Yuddha Kanda,4,106,रामस्य वचनं श्रुत्वा सुग्रीव स्सहलक्ष्मणः । सेनां निवेशयततीरे सागरस्य द्रुमायुते ।।6.4.106।। Yuddha Kanda,4,107,विरराज समीपस्थं सागरस्य तु तद्बलम् । मधुपाण्डुजल श्रशीमान् द्वितीय इव सागरः ।।6.4.107।। Yuddha Kanda,4,108,वेलावनमुपागम्य ततस्ते हरिपुङ्गवाः । निविष्टाश्च परं पारं काङ्क्षमाणा महोदधेः ।।6.4.108।। Yuddha Kanda,4,109,तेषां निविशमानानां सैन्यसन्नाहनिस्स्वनः । अन्तर्धाय महानादमर्णवस्य प्रशुश्रुवे ।।6.4.109।। Yuddha Kanda,4,110,सा वानराणां ध्वजिनी सुग्रीवेणाभिपालिता । त्रिधा निविष्टा महती रामस्यार्थपराऽभवत् ।।6.4.110।। Yuddha Kanda,4,111,सा महार्णवमासाद्य हृष्टा वानरवाहिनी । वायुवेगसमाधूतं पश्यमाना महार्णवम् ।।6.4.111।। Yuddha Kanda,4,112,दूरपारमसम्बाधं रक्षोगणनिषेवितम् । पश्यन्तो वरुणावासं निषेदुर्हरियूथपाः ।।6.4.112।। Yuddha Kanda,4,113,चण्डनक्रग्राहं घोरं क्षपादौ दिवसक्ष्ये । हसन्तमिव फेनौघैर्नृत्यन्तमिव चोर्मिभिः ।।6.4.113।। Yuddha Kanda,4,114,चन्द्रोदये समुद्भूतं प्रतिचन्द्रसमाकुलम् । चण्डानिलमहाग्राहैः कीर्णं तिमितिमिङ्गिलैः ।।6.4.114।। Yuddha Kanda,4,115,दीप्तभोगैरिवाकीर्णं भुजङ्गैर्वरुणालयम् । अवगाढं महासत्त्वैर्नानाशैलसमाकुलम् । सुदुर्गं दुर्गमार्गं तमगाध मसुरालयम् ।।6.4.115।। Yuddha Kanda,4,116,मकरैर्नागभोगैश्च विगाढा वातलोलिताः । उत्पेतुश्च निपेतुश्च प्रवृद्धा जलराशयः ।।6.4.116।। Yuddha Kanda,4,117,अग्निचूर्णमिवाविद्धं भास्वराम्बुमहोरगम् । सुरारिविषयं घोरं पाताळविषमं सदा ।।6.4.117।। Yuddha Kanda,4,118,सागरं चाम्बरप्रख्यमम्बरं सागरोपमम् । सागरं चाम्बरं चेति निर्विशेष मदृश्यत ।।6.4.118।। Yuddha Kanda,4,119,सम्पृक्तं नभसाप्यम्भस्सम्पृक्तं च नभोऽम्भसा । तादृग्रूपेच दृश्यते तारारत्नसमाकुले ।।6.4.119।। Yuddha Kanda,4,120,समुत्पतितमेघस्य वीचिमालाकुलस्य च । विशेषो न द्वयोरासीत्सागरस्याम्बरस्य च ।।6.4.120।। Yuddha Kanda,4,121,अन्योन्यैराहता स्सक्ता स्सस्वनुर्भीमनिस्स्वनाः । ऊर्मयस्सिन्धुराजस्य महाभेर्य इवाहवे ।।6.4.121।। Yuddha Kanda,4,122,रत्नौघ जलसन्नादं विषक्तमिव वायुना । उत्पतन्तमिव क्रुद्धं यादोगणसमाकुलम् ।।6.4.122।। Yuddha Kanda,4,123,ददृशुस्ते महोत्साह वाताहतजलाशयम् । अनिलोद्धूतमाकाशे प्रवल्गन्त ममिवोर्मिभिः ।।6.4.123।। Yuddha Kanda,4,124,ततो विस्मयमापन्ना हरयो ददृशुर्हरयस्तदा । भ्रान्तोर्मिजालसन्नादं प्रलोलमिव सागरम् ।।6.4.124।। Yuddha Kanda,5,1,सातुनीलेनविधिवत्स्वारक्षासुसमाहिता । सागरस्योत्तरेतीरेसाधुसेनानिवेशिता ।।6.5.1।। Yuddha Kanda,5,2,मैन्दश्चद्विविदश्चोभौतत्रवानरपुङ्गवौ । विचेरतुश्चतांसेनांरक्षार्थंसर्वतोदिशम् ।।6.5.2।। Yuddha Kanda,5,3,निविष्टायांतुसेनायांतीरेनदनदीपतेः । पार्श्वस्थंलक्ष्मणंदृष्टवारामोवचनमब्रवीत् ।।6.5.3।। Yuddha Kanda,5,4,शोकश्चकिलकालेनगच्छताह्यपगच्छति । ममचापश्यतःकान्तामहन्यहनिवर्धते ।।6.5.4।। Yuddha Kanda,5,5,नमेदुःखंप्रियादूरेनमेदुःखंहृतेतिवा । एतदेवानुशोचामिवयोस्याह्यतिवर्तते ।।6.5.5।। Yuddha Kanda,5,6,वाहिवातयतःकान्तातांस्पृष्टवामामपिस्पृश । त्वयिमेगात्रसंस्पर्शश्चन्द्रेदृष्टिसमागमः ।।6.5.6।। Yuddha Kanda,5,7,तन्मेदहतिगात्राणिविषंपीतमिवाशये । हानाथेतिप्रियासामांह्रियमाणायदब्रवीत् ।।6.5.7।। Yuddha Kanda,5,8,तद्वियोगेन्धनवतातच्चिन्ताविपुलार्चिषा । रात्रिंदिवंशरीरंमेदह्यतेमदनाग्निना ।।6.5.8।। Yuddha Kanda,5,9,अवगाह्यर्णवंस्वप्स्येसौमित्रेभवताविना । कथञ्चित्प्रज्वलन्कामस्समांसुप्तंजलेदहेत् ।।6.5.9।। Yuddha Kanda,5,10,बह्वेतत्कामयानस्यशक्यमेतेनजीवितुम् । यदहंसाचवामोरूरेकांधरणिमाश्रितौ ।।6.5.10।। Yuddha Kanda,5,11,केदारस्येवकेदारस्सोदकस्यनिरूदकः । उपस्नेहेनजीवामिजीवन्तींयच्छृणोमिताम् ।।6.5.11।। Yuddha Kanda,5,12,कदानुखलुसुश्रोणींशतपत्त्रायतेक्षणाम् । विजित्यशत्रून्द्रक्ष्यामिसीतास्फीतामिवश्रियम् ।।6.5.12।। Yuddha Kanda,5,13,कदानुचारुबिम्बोष्ठंतस्याःपद्ममिवाननम् । ईषदुन्नम्यपास्यामिरसायनमिवातुरः ।।6.5.13।। Yuddha Kanda,5,14,तस्यात्तुसंहितौपीनौस्तनौतालफलोपमौ । कदानुखलुसोत्कम्पौश्लिष्यन्त्यामांभजिष्यत: ।।6.5.14।। Yuddha Kanda,5,15,सानूनमसितापाङ्गीरक्षोमध्यगतासती । मन्नाथानाथहीनेवत्रातारंनाधिगच्छति ।।6.5.15।। Yuddha Kanda,5,16,कथंजनकरजस्यदुहिताममचप्रिया । राक्षसीमध्यगाशेतेस्नुषादशरथस्यच ।।6.5.16।। Yuddha Kanda,5,17,कदाऽविक्षोभ्यरक्षांसिसाविधूयोत्पतिष्यति । विधूयजलदान्नीलान् शशिरेखाशरत्स्विव ।।6.5.17।। Yuddha Kanda,5,18,स्वभावतनुकानूनंशोकेनानशनेनच । भूयस्तनुतरासीतादेशकालविपर्ययात् ।।6.5.18।। Yuddha Kanda,5,19,कदानुराक्षसेन्द्रस्यनिधायोरसिसायकान् । सीतांप्रत्याहरिष्यामिशोकमुत्सृज्यमानसम् ।।6.5.19।। Yuddha Kanda,5,20,कदानुखलुमांसाध्वीसीतासुरसुतोपमा । सोत्कण्ठाकण्ठमालम्ब्यमोक्ष्यत्यानन्दजंजलम् ।।6.5.20।। Yuddha Kanda,5,21,कदाशोकमिमंघोरंमैथिलीविप्रयोगजम् । सहसाविप्रमोक्ष्यामिवासश्शुक्लेतरंयथा ।।6.5.21।। Yuddha Kanda,5,22,एवंविलपतस्तस्यतत्ररामस्यधीमतः । दिनक्षयान्मन्दवपुर्भास्करोऽस्तमुपागतः ।।6.5.22।। Yuddha Kanda,5,23,आश्वासितोलक्ष्मणेनरामस्सन्ध्यामुपासत । स्मरन्कमलपत्राक्षींसीतांशोकाकुलीकृतः ।।6.5.23।। Yuddha Kanda,6,1,लङ्कायांतुकृतंकर्मघोरंदृष्टवाभयावहम् । राक्षसेन्द्रोहनुमताशक्रेणेवमहात्मना ।।6.6.1।। अब्रवीद्राक्षसान् सर्वान्ह्रियाकिञ्चिदवाङ्मुखः । Yuddha Kanda,6,2,धर्षिताचप्रविष्टाचलङ्कादुष्प्रसहापुरी ।।6.6.2।। तेनवानरमात्रेणदृष्टासीताचजानकी । Yuddha Kanda,6,3,प्रासादोधर्षितश्चैत्यःप्रवराराक्षसाहताः ।।6.6.3।। आविलाचपुरीलङ्कासर्वाहनुमताकृता । Yuddha Kanda,6,4,किंकरिष्यामिभद्रंवोकिंवायुक्तमनन्तरम् ।।6.6.4।। उच्यतांनस्समर्थंयत्कृतंचसुकृतंभवेत् । Yuddha Kanda,6,5,मन्त्रमूलंचविजयंप्रवदन्तिमनस्विनः ।।6.6.5।। तस्मद्वैरोचयेमन्त्रंरामंप्रतिमहाबलाः । Yuddha Kanda,6,6,त्रिविधाःपुरुषालोकेउत्तमाधममध्यमाः ।।6.6.6।। तेषांतुसमवेतानांगुणदोषौवदाम्यहम् । Yuddha Kanda,6,7,मन्त्रिभिर्हितसंयुक्तैस्समर्थैर्मन्त्रनिर्णये ।।6.6.7।। Yuddha Kanda,6,8,मित्रैर्वापिसमानार्थैर्बान्धवैरपिवाधिकैः । सहितोमन्त्रियित्वायःकर्मारम्भान्प्रवर्तयेत् ।।6.6.8।। दैवेचकुरुतेयत्नंतमाहुःपुरुषोत्तमम् । Yuddha Kanda,6,9,कोऽर्थंविमृशेदेकोधर्मेप्रकुरुतेमनः ।।6.6.9।। कःकार्याणिकुरुतेतमाहुर्मध्यमंनरम् । Yuddha Kanda,6,10,गुणदोषौवनिशिचत्य त्यक्त्यादैवव्यपाश्रयम् ।।6.6.10।। करिष्यामीतियःकार्यमुपेक्षेत्सनराधमः । Yuddha Kanda,6,11,यथेमेपुरुषानित्यमुत्तमाधममध्यमाः ।।6.6.11।। वंमन्त्राऽहिविज्ञेयाउत्तमाधममध्यमः । Yuddha Kanda,6,12,ऐकमत्यमुपागम्यशास्त्रदृष्टेनचक्षुषा ।।6.6.12।। मन्त्रिणोयत्रनिरतास्तमाहुर्मन्त्रमुत्तमम् । Yuddha Kanda,6,13,बह्व्योऽपिमतीर्गत्वामन्त्रिणामर्थनिर्णये ।।6.6.13।। पुनर्यत्रैकतांप्राप्तस्समन्त्रोमध्यमस्स्मृतः । Yuddha Kanda,6,14,अन्योन्यमतिमास्थाययत्रसम्प्रतिभाष्यते ।।6.6.14।। नचैकमत्येश्रेयोऽस्तिमन्त्रस्सोऽधमउच्यत । Yuddha Kanda,6,15,तस्मात्सुमन्त्रितंसाधुभवन्तोमतिसत्तमा: ।।6.6.15।। कार्यंसम्प्रतिपद्यन्तामेतत्कृत्यंमतंमम । Yuddha Kanda,6,16,वानराणांहिधीराणांसहस्रैःपरिवारितः ।।6.6.16।। रामोऽभ्येतिपुरीलङ्कामस्माकमुपरोधकः । Yuddha Kanda,6,17,तरिष्यतिचसुव्यक्तंराघवस्सागरंसुखम् ।।6.6.17।। तरसायुक्तरूपेणसानुजस्सबलानुगः । Yuddha Kanda,6,18,समुद्रमुच्छोषयतिवीर्येणान्यत्करोतिवा ।।6.6.18।। Yuddha Kanda,6,19,अस्मिन्नेवंगतेकार्येविरुद्धेवानरैस्सह । हितंपुरेचसैन्येचसर्वसम्मन्त्रयतांमम ।।6.6.19।। Yuddha Kanda,7,1,इत्युक्ताराक्षसेन्द्रेणराक्षसास्तेमहाबलाः । ऊचुःप्रान्जलयःसर्वेरावणंराक्षसेश्वरम् ।।6.7.1।। Yuddha Kanda,7,2,द्विषत्पक्षमविज्ञायनीतिबाह्यास्त्वबुद्धयः । राजन्परिघशक्त्यृष्टिशूलपट्टिशकुन्तलम् ।।6.7.2।। Yuddha Kanda,7,3,इत्युक्ताराक्षसेन्द्रेणराक्षसास्तेमहाबलाः । ऊचुःप्रान्जलयःसर्वेरावणंराक्षसेश्वरम् ।।6.7.3।। द्विषत्पक्षमविज्ञायनीतिबाह्यास्त्वबुद्धयः । Yuddha Kanda,7,4,राजन्परिघशक्त्यृष्टिशूलपट्टिशकुन्तलम् ।।6.7.4।। Yuddha Kanda,7,5,सुमहन्नोबलंकस्माद्विषादंभजतेभवान् । त्वयाभोगवतींगत्वानिर्जिताःपन्नगायुधि ।।6.7.5।। Yuddha Kanda,7,6,कैलासशिखरावासीयक्षैर्बहुभिरावृतः । सुमहत्कदनंकृत्वावश्यस्तेधनदःकृतः ।।6.7.6।। Yuddha Kanda,7,7,समहेश्वरसख्येनश्लाघमानस्त्वयाविभो । निर्जितःसमरेरोषाल्लोकपालोमहाबलः ।।6.7.7।। Yuddha Kanda,7,8,विनिहत्यचयक्षौघान्विक्षोभ्यचविनिगृह्यच । त्वयाकैलासशिखराद्विमानमिदमाहृतम् ।।6.7.8।। Yuddha Kanda,7,9,मयेनदानवेन्द्रेणत्वद्भयात्सख्यमिच्छता । दुहितातवभार्यार्थेदत्ताराक्षसपुङ्गव ।।6.7.9।। Yuddha Kanda,7,10,दानवेन्द्रोमधुर्नामवीर्योत्सिक्तोदुरासदः । विगृह्यवशमानीतःकुम्भीनस्याःसुखावहः ।।6.7.10।। Yuddha Kanda,7,11,निर्जितास्तेमहाबाहोनागागत्वारसातलम् । वासुकिस्तक्षकःशङखोजटीचवशमाहृताः ।।6.7.11।। Yuddha Kanda,7,12,अक्षयाबलवन्तश्चशूरालब्धवराःपुनः । त्वयासंवत्सरंयुद्ध्वासमरेदानवाविभो ।।6.7.12।। Yuddha Kanda,7,13,स्वबलंसमुपाश्रित्यनीतावशमरिन्दम । मायाश्चाधिगतास्तत्रबह्व्योवैराक्षसाधिप ।।6.7.13।। Yuddha Kanda,7,14,शूराश्चबलवन्तश्चवरुणस्यसुतारणे । निर्जितास्तेमहाभागचतुर्विधबलानुगाः ।।6.7.14।। Yuddha Kanda,7,15,मृत्युदण्डमहाग्राहंशाल्मलिद्रुममण्डितम् । कालपाशमहावीचिंयमकिंकरपन्नगम् ।।6.7.15।। Yuddha Kanda,7,16,महाज्वरेणदुर्धर्षंयमलोकमहार्णवम् । अवगाह्यत्वयाराजन्यमस्यबलसागरम् ।।6.7.16।। Yuddha Kanda,7,17,जयश्चविपुलःप्राप्तोमृत्युश्चप्रतिषेधितः । सुयुद्धेनचतेसर्वेलोकास्तत्रसुतोषिताः ।।6.7.17।। Yuddha Kanda,7,18,क्षत्रियैर्बहुभिर्वीरैःशक्रतुल्यपराक्रमैः । आसीद्वसुमतीपूर्णामहद्भिरिवपादपैः ।।6.7.18।। Yuddha Kanda,7,19,तेषांवीर्यगुणोत्साहैर्नसमोराघवोरणे । प्रसह्यतेत्वयाराजन्हताःसमरदुर्जयाः ।।6.7.19।। Yuddha Kanda,7,20,तिष्ठवाकिंमहाराजश्रमे णतववानरान् । अयमेकोमहाबाहुरिन्द्रजित्क्षपयिष्यति ।।6.7.20।। Yuddha Kanda,7,21,अनेनहिमहाराजमहेश्वरमनुत्तमम् । इष्ट्वायज्ञंवरोलब्धोलोकेपरमदुर्लभः ।।6.7.21।। Yuddha Kanda,7,22,शक्तितोमरमीनंचविनिकीर्णान्त्रशैवलम् । गजकछपसम्बाधमश्वमण्डूकसंकुलम् ।।6.7.22।। Yuddha Kanda,7,23,रुद्रादित्यमहाग्राहंमरुद्वसुमहोरगम् । रथश्वगजतोयौघंपदातिपुलिनंमहत् ।।6.7.23।। Yuddha Kanda,7,24,अनेनहिसमासाद्यदेवानांबलसागरम् । गृहीतोदैवतपतिर्लङ्कांचापिप्रवेशितः ।।6.7.24।। Yuddha Kanda,7,25,पितामहनियोगाच्चमुक्तःशम्बरवृत्रहा । गतस्त्रिविष्टपम्राजन्सर्वदेवनमस्कृतः ।।6.7.25।। Yuddha Kanda,8,1,ततोनीलाम्बुदनिभ: प्रहस्तोनामराक्षसः । अब्रवीत्प्राञ्जलिर्वाक्यंशूरस्सेनापतिस्तदा ।।6.8.1।। Yuddha Kanda,8,2,देवदानवगन्धर्वाःपिशाचपतगोरगाः । नत्वांधर्षयितुंशक्याःकिंपुनर्वानरारणे ।।6.8.2।। Yuddha Kanda,8,3,सर्वेप्रमत्ताविश्वस्तावञ्चितास्स्महनूमता । नहिमेजीवतोगच्छेज्जीवन् सवनगोचरः ।।6.8.3।। Yuddha Kanda,8,4,सर्वांसागरपर्यन्तांसशैलवनकाननाम् । करोम्यवानरांभूमिमाज्ञापयतुमांभवान् ।।6.8.4।। Yuddha Kanda,8,5,रक्षांचैवविधास्यामिवानराद्रजनीचर । नागमिष्यतितेदुःखंकिञ्चिदात्मापराधजम् ।।6.8.5।। Yuddha Kanda,8,6,अब्रवीच्चसुसङ्कृद्धोदुर्मुखोनामराक्षसः । इदंनक्षमणीयंहिसर्वेषांनःप्रधर्षणम् ।।6.8.6।। Yuddha Kanda,8,7,अयंपरिभवोभूयःपुरस्यान्तःपुरस्यच । श्रीमतोराक्षसेन्द्रस्यवानरेणप्रधर्षणम् ।।6.8.7।। Yuddha Kanda,8,8,अस्मिन् मुहूर्तेगत्वैकोनिवर्तिष्यामिवानरान् । प्रविष्टान् सागरंभीममम्बरंवारसातलम् ।।6.8.8।। Yuddha Kanda,8,9,ततोऽब्रवीत्सुसङ्कृद्धोवज्रदंष्ट्रोमहाबलः । प्रगृह्यपरिघंघोरंमांसशोणितरूषितम् ।।6.8.9।। Yuddha Kanda,8,10,किंवोहनुमताकार्यंकृपणेनतपस्विना । रामेतिष्ठतिदुर्धर्षेससुग्रीवेऽपिसलक्ष्मणे ।।6.8.10।। Yuddha Kanda,8,11,अद्यरामंससुग्रीवंपरिघेणसलक्ष्मणम् । आगमिष्यामिहत्वैकोविक्षोभ्यहरिवाहिनीम् ।।6.8.11।। Yuddha Kanda,8,12,इदंममापरंवाक्यंशृणुराजन् यदीच्छसि । उपायकुशलोह्येवजयेच्छत्रूनतन्द्रितः ।।6.8.12।। Yuddha Kanda,8,13,कामरूपधराश्शूरास्सुभीमाभीमदर्शनाः । राक्षसावैसहस्राणिराक्षसाधिपनिश्चिताः ।।6.8.13।। Yuddha Kanda,8,14,काकुत्स्थमुपसङ्गम्यबिभ्रतोमानुषंवपुः । सर्वेह्यसम्भ्रमाभूत्वाब्रुवन्तुरघुसत्तमम् ।।6.8.14।। Yuddha Kanda,8,15,प्रेषिताभरतेनैवभ्रात्रातवयवीयसा । सहिसेनांसमुत्थाप्यक्षिप्रमेवोपयास्यति ।।6.8.15।। Yuddha Kanda,8,16,ततोवयमितस्तूर्णंशूलशक्तिगदाधराः । चापबाणासिहस्ताश्चत्वरितास्तत्रयामहे ।।6.8.16।। Yuddha Kanda,8,17,आकाशेगणशस्थ्सित्वाहत्वातांहरिवाहिनीम् । अश्मशस्त्रमहावृष्ट्याप्रापयामयमक्षयम् ।।6.8.17।। Yuddha Kanda,8,18,एवंचेदुपसर्पेतामनयंरामलक्ष्मणौ । अवश्यमपनीतेनजहतामेवजीवितम् ।।6.8.18।। Yuddha Kanda,8,19,कौम्भकर्णिस्ततोवीरोनिकुम्भोनामवीर्यवान् । अब्रवीत्परमक्रुद्धोरावणंलोकरावणम् ।।6.8.19।। Yuddha Kanda,8,20,सर्वेभवन्तस्तिष्ठन्तुमहाराजेनसङ्गताः । अहमेकोहनिष्यामिराघवंसहलक्ष्मणम् ।।6.8.20।। सुग्रीवञ्चहनूमन्तंसर्वांनेवचवानरान् । Yuddha Kanda,8,21,ततोवज्रहनुर्नामराक्षसःपर्वतोपमः ।।6.8.21।। क्रुद्ध: परिलिहन्सृक्कांजिह्वयावाक्यमब्रवीत् । Yuddha Kanda,8,22,स्वैरंकुर्वन्तुकर्माणिभवन्तोविगतज्वराः ।।6.8.22।। Yuddha Kanda,8,23,एकोऽहंभक्षयिष्यामितांसर्वांहरियूथपान् । स्वस्थाःक्रीडन्तुनिश्चिन्ताःपिबन्तुमधुवारुणीम् ।।6.8.23।। Yuddha Kanda,8,24,अहमेकोवधिष्यामिसुग्रीवंसहलक्ष्मणम् । साङ्गदंचहनूमन्तंरामंचरणकुञ्जरम् ।।6.8.24।। Yuddha Kanda,9,1,ततोनिकुम्भोरभसस्सूर्यशत्रुर्महाबलः । सुप्तघ्नोयज्ञहारक्षोमहापार्श्वमहोदरौ ।।6.9.1।। Yuddha Kanda,9,2,अग्निकेतुश्चदुर्धर्षोरश्मिकेतुश्चराक्षस: । इन्द्रजिच्चमहातेजाबलवान्रावणात्मजः ।।6.9.2।। Yuddha Kanda,9,3,प्रहस्तोऽथविरूपाक्षोवज्रदंष्ट्रोमहाबलः । धूम्राक्षश्चातिकायश्चदुर्मुखश्चैवराक्षसः ।।6.9.3।। Yuddha Kanda,9,4,परिघान्पट्टिशान्प्रासान्शक्तिशूलपरश्वधान् । चापानिचसबाणानिखङ्गांश्चविपुलान्शितान् ।।6.9.4।। Yuddha Kanda,9,5,प्रगृह्यपरमक्रुद्धास्समुत्पत्यचराक्षसाः । अब्रुवन्रावणंसर्वेप्रदीप्ताइवतेजसा ।।6.9.5।। Yuddha Kanda,9,6,अद्यरामंवधिष्यामस्सुग्रीवंसचलक्ष्मणम् । कृपणंचहनूमन्तंलङ्कायेनप्रधर्षिता ।।6.9.6।। Yuddha Kanda,9,7,तान्गृहीतायुधान् सर्वान्वारयित्वाविभीषणः । अब्रवीत्प्राञ्जलिर्वाक्यंपुनःप्रत्युपवेश्यतान् ।।6.9.7।। Yuddha Kanda,9,8,अप्युपायैस्त्रिभिस्तातयोऽर्थःप्राप्तुंनशक्यते । तस्यविक्रमकालांस्तान्युक्तानाहुर्मनीषिणः ।।6.9.8।। Yuddha Kanda,9,9,प्रमत्तेष्यभियुक्तेषुदैवेनप्रहतेषुच । विक्रमास्तातसिध्यन्तिपरीक्ष्यविधिनाकृताः ।।6.9.9।। Yuddha Kanda,9,10,अप्रमत्तंकथंतंतुविजिगीषुंबलेस्थितम् । जितरोषंदुराधर्षतंप्रधर्षयितुमिच्छथ ।।6.9.10।। Yuddha Kanda,9,11,समुद्रंलङ्घयित्वातुघोरंनदनदीपतिम् । गतिंहनूमतोलोकेकोविद्यात्तर्कयेतवा ।।6.9.11।। Yuddha Kanda,9,12,बलान्यपरिमेयानिवीर्याणिचनिशाचराः । परेषांसहसाऽवज्ञानकर्तव्याकथञ्चन ।।6.9.12।। Yuddha Kanda,9,13,किंचराक्षसराजस्यरामेणापकृतंपुरा । आजहारजनस्थानाद्यस्यभार्यांयशस्विनः ।।6.9.13।। Yuddha Kanda,9,14,खरोयद्यतिवृत्तस्तुरामेणनिहतोरणे । अवश्यंप्राणिनांप्राणारक्षितव्यायथाबलम् ।।6.9.14।। Yuddha Kanda,9,15,एतन्निमित्तंवैदेहीभयंनस्सुमहद्भवेत् । आहृतासापरित्याज्याकलहार्थेकृतेनकिम् ।।6.9.15।। Yuddha Kanda,9,16,नतुक्षमंवीर्यवतातेनधर्मानुवर्तिना । वैरंनिरर्थकंकर्तुंदीयतामस्यमैथिली ।।6.9.16।। Yuddha Kanda,9,17,यावन्नसगजांसाश्वांबहुरत्नसमाकुलाम् । पुरींदारयतेबाणैर्दीयतामस्यमैथिली ।।6.9.17।। Yuddha Kanda,9,18,यावत्सुघोरामहतीदुर्धर्षाहरिवाहिनी । नावस्कन्दतिनोलङ्कांतावत्सीताप्रदीयताम् ।।6.9.18।। Yuddha Kanda,9,19,विनश्येद्धिपुरीलङ्काशूरास्सर्वेचराक्षसाः । रामस्यदयितापत्नीनस्वयंनयदिदीयते ।।6.9.19।। Yuddha Kanda,9,20,प्रसादयेत्वांबन्धुत्वात्कुरुष्यवचनंमम । हितंतथ्यमहंब्रूमिदीयतामस्यमैथिली ।।6.9.20।। Yuddha Kanda,9,21,पुराशरत्सूर्यमरीचिसन्निभान्नवाग्रपुङ्खान् सुदृढान्नृपात्मजः । सृजत्यमोघान्विशिखान्वधायतेप्रदीयतांदशरधायमैथिली ।।6.9.21।। Yuddha Kanda,9,22,त्वजस्वकोपंसुखधर्मनाशनंभजस्वधर्मंरतिकीर्तिवर्धनम् । प्रसीदजीवेमसपुत्रबान्धवाःप्रदीयतांदाशरथायमैथिली ।।6.9.22।। Yuddha Kanda,9,23,विभीषणवच्शुत्वारावणोराक्षसेश्वराः । विसर्जयित्वातान्सर्वान्प्रविवेशस्वकंगृहम् ।।6.9.23।। Yuddha Kanda,10,1,ततःप्रत्युषसिप्राप्तेप्राप्तधर्मार्थनिश्चयः । राक्षसाधिपतेर्वेश्मभीमकर्माविभीषणः ।।6.10.1।। Yuddha Kanda,10,2,शैलाग्रचयसङ्काशंशैलशृङ्गमिवोन्नतम् । सुविभक्तमहाकक्षंमहाजनपरिग्रहम् ।।6.10.2।। Yuddha Kanda,10,3,मतिमद्भिर्महामात्रैरनुरक्तैरधिष्ठितम् । राक्षसैराप्तपर्याप्तैस्सर्वतःपरिरक्षितम् ।।6.10.3।। Yuddha Kanda,10,4,मत्तमातङ्गनिश्श्वासैर्व्याकुलीकृतमारुतम् । शङ्खघोषमहाघोषंतूर्यनादानुनादितम् ।।6.10.4।। Yuddha Kanda,10,5,प्रमदाजनसम्बाधंप्रजल्पितमहापथम् । तप्तकाञ्चननिर्यूहंभूषणोत्तमभूषितम् ।।6.10.5।। Yuddha Kanda,10,6,गन्धर्वाणामिवाऽवासमालयंमरुतामिव । रत्नसञ्चयसम्बाधंभवनंभोगिनामिव ।।6.10.6।। Yuddha Kanda,10,7,तंमहाभ्रमिवाऽदित्यस्तेजोविस्तृतरश्मिमान् । अग्रजस्यालयंवीरःप्रविवेशमहाद्युतिः ।।6.10.7।। Yuddha Kanda,10,8,पुण्यान्पुण्याहघोषांश्चवेदविद्भिरुदाहृतान् । शुश्रावसुमहातेजाभ्रातुर्विजयसंश्रितान् ।।6.10.8।। Yuddha Kanda,10,9,पूजितान् दधिपात्रैश्चसर्पिर्भिस्सुमनोक्षतैः । मन्त्रवेदविदोविप्रान्ददर्शसमहाबलः ।।6.10.9।। Yuddha Kanda,10,10,सपूज्यमानोरक्षोभिद्दीप्यमानस्स्वतेजसा । आसनस्थंमहाबाहुर्ववन्देधनदानुजम् ।।6.10.10।। Yuddha Kanda,10,11,सराजदृष्टिसम्पन्नमासनंहेमभूषितम् । जगामसमुदाचारंप्रयुज्याचारकोविदः ।।6.10.11।। Yuddha Kanda,10,12,सरावणंमहात्मानंविजनेमन्त्रिसन्निधौ । उवाचहितमत्यर्थंवचनंहेतुनिश्चितम् ।।6.10.12।। Yuddha Kanda,10,13,प्रसाद्यभ्रातरंजेष्ठंसान्त्वेनोपस्थितक्रमः । देशकालार्थसंवादिदृष्टलोकपरावरः ।।6.10.13।। Yuddha Kanda,10,14,यदाप्रभृतिवैदेहीसम्प्रास्तेमांपुरींतव । तदाप्रभृतिदृश्यन्तेनिमित्तान्यशुभानिनः ।।6.10.14।। Yuddha Kanda,10,15,सस्फुलिङ्गस्सधूमार्चिस्सधूमकलुषोदयः । मन्त्रसङ्घहुतोऽप्यग्निर्नसम्यगभिवर्थते ।।6.10.15।। Yuddha Kanda,10,16,अग्निष्ठेष्वग्निशलासुतथाब्रह्मस्थालीषुच । सरीसृपाणिदृश्यन्तेहन्येषुचपिपीलिकाः ।।6.10.16।। Yuddha Kanda,10,17,गवांसयांसिस्कन्नानिविमदावीरकुञ्जराः । दीनमश्वाःप्रहेषन्तेनचग्रासाभिनन्दिनः ।।6.10.17।। Yuddha Kanda,10,18,खरोष्ट्राश्वतराराजभनभिन्नरोमास्स्रवन्तिच । नस्वभावेऽवतिष्ठन्तिविधानैरपिचिन्तिताः ।।6.10.18।। Yuddha Kanda,10,19,वायसाःसङ्घशःक्रूराव्याहरन्तिसमन्ततः । समवेताश्चदृश्यन्तेविमानाग्रेषुसङ्घशः ।।6.10.19।। Yuddha Kanda,10,20,गृध्राश्चपरिलीयन्तेपुरीमुपरिपिण्डिताः । उपपन्नाश्चस्नध्येद्वेव्याहऱ्नत्यशिवंशिवाः ।।6.10.20।। Yuddha Kanda,10,21,क्रव्यादानांमृगाणांचपुरीद्वारेषुसङ्घशः । श्रूयन्तेविपुलाघोषास्सविस्फूर्जितनिस्स्वनाः ।।6.10.21।। Yuddha Kanda,10,22,तदेवंप्रस्तुतेकार्येप्रायश्चित्तमिदंक्षमम् । रोचतेयदिवैदेहीराघवायप्रदीयताम् ।।6.10.22।। Yuddha Kanda,10,23,इदंचयदिवामोहाल्लोभाद्वाव्याहृतंमया । तत्रापिचमहाराज नदोषंकर्तुमर्हसि ।।6.10.23।। Yuddha Kanda,10,24,अयंहिदोषस्सर्वस्यजनस्यास्योपलक्ष्यते । रक्षसांराक्षसीनांचपुरस्यान्तःपुरस्यच ।।6.10.24।। Yuddha Kanda,10,25,श्रावणेचास्यमन्त्रस्यनिवृत्तास्सर्वमन्त्रिणः । अवश्यंचमयावाच्यंयद्दृष्टमपिवाश्रुतम् ।।6.10.25।। सम्विधाययथान्यायंतद्भवान् कर्तुमर्हति । Yuddha Kanda,10,26,इतिस्ममन्त्रिणांमध्येभ्राताभ्रातरमूचिवान् । रावणंराक्षसांश्रेष्ठंपथ्यमेतद्विभीषणः ।।6.11.26।। Yuddha Kanda,10,27,हितंमहार्थंमृदुहेतुसंहितंव्यतीतकालायतिसम्प्रतिक्षमम् । निशम्यतद्वाक्यमुपस्थितज्वरःप्रसङ्गवानुत्तरमेतदब्रवीत् ।।6.10.27।। Yuddha Kanda,10,28,भयंनपश्यामिकुतश्चिदप्यहंनराघवःप्राप्स्यतिजातुमैथिलीम् । सुरैस्सहेन्द्रैरपिसङ्गरेकथंममाग्रतस्स्थास्यतिलक्ष्मणाग्रजः ।।6.10.28।। Yuddha Kanda,10,29,इत्येवमुक्त्वासुरसैन्यनाशनोमहाबलस्संयतिचण्डविक्रमः । दशाननोभ्रातरमाप्तवादिनंविसर्जयामासतदाविभीषणम् ।।6.10.29।। Yuddha Kanda,11,1,सबभूवकृशोराजामैथिलीकाममोहितः । असन्मानाच्चसुहृदांपापंपापेनकर्मणा ।।6.11.1।। Yuddha Kanda,11,2,अतीतसमयेकालेतस्मिन्वैयुधिरावणः । अमात्यैश्चसुहृद्भिश्चप्राप्तकालममन्यत ।।6.11.2।। Yuddha Kanda,11,3,सहेमजालविततंमणिविद्रुमभूषितम् । उपगम्यविनीताश्वमारुरोहमहारथम् ।।6.11.3।। Yuddha Kanda,11,4,तमास्थायरथश्रेष्ठंमहामेघसमस्वनम् । प्रययौरक्षसांश्रेष्ठोदशग्रीवस्सभांप्रति ।।6.11.4।। Yuddha Kanda,11,5,असिचर्मधरायोधास्सर्वायुधधरास्ततः । राक्षसाराक्षसेन्द्रस्यपुरस्तात्सम्प्रतस्थिरे ।।6.11.5।। Yuddha Kanda,11,6,नानाविकृतवेषाश्चनानाभूषणभूषिताः । पार्श्वतस्पृष्ठतश्चैनंपरिवार्यययुस्तत:।। 6.11.6।। Yuddha Kanda,11,7,रथैश्चातिरथाश्शीघ्रंमत्तैश्चवरवारणैः । अनूत्पेतुर्दशग्रीवमाक्रीडद्भिश्चवाजिभिः ।।6.11.7।। Yuddha Kanda,11,8,गदापरिघहस्ताश्चशक्तितोमरपाणयः । परश्वथधराश्चान्येतथाऽन्येशूलपाणयः ।।6.11.8।। Yuddha Kanda,11,9,ततस्तूर्यसहस्राणांसञ्जज्ञेनिस्स्वनोमहान् । तुमुलश्शङ्खशब्दश्चसभांगच्छतिरावणे ।।6.11.9।। Yuddha Kanda,11,10,सनेमिघोषेणमहान्सहसाऽभिनिनादयन् । राजमार्गंश्रियाजुष्टंप्रतिपेदेमहारथः ।।6.11.10।। Yuddha Kanda,11,11,विमलंचातपत्राणांप्रगृहीतमशोभत । पाण्डुरंराक्षसेन्द्रस्यपूर्णस्ताराधिपोयथा ।।6.11.11।। Yuddha Kanda,11,12,हेममञ्जरिगर्भेचशुद्धस्फटिकविग्रहे । चामरव्यजनेतस्यरेजतुस्सव्यदक्षिणे ।।6.11.12।। Yuddha Kanda,11,13,तेकृताञ्जलयस्सर्वेरथस्थंपृथिवीस्थिताः । राक्षसाराक्षसश्रेष्ठंशिरोभिस्तंववन्दिरे ।।6.11.13।। Yuddha Kanda,11,14,राक्षसैस्त्सूयमानस्सञ्जयाशीर्भिररिन्दमः । आससादमहातेजास्सभांविरचितांतदा ।।6.11.14।। Yuddha Kanda,11,15,सुवर्णरजतास्तीर्णांविशुद्धस्फटिकान्तराम् । विराजमानोवपुषारुक्मपट्टोत्तरच्छदाम् ।।6.11.15।। Yuddha Kanda,11,16,तांपिशाचशतै: षङ्भिरभिगुप्तांसदाप्रभाम् । प्रविवेशमहातेजास्सुकृतांविश्वकर्मणा ।।6.11.16।। Yuddha Kanda,11,17,तस्यांसवैडूर्यमयंप्रियकाजिनसम्वृतम् । महत्सोपाश्रयंभेजेरावणःपरमासनम् ।।6.11.17।। Yuddha Kanda,11,18,तत: शशासेश्वरवद्दूतान्लघुपराक्रमान् । समानयतमेक्षिप्रमिहैतान्राक्षसानिति ।। कृत्यमस्तिमहज्जानेकर्तव्यमितिशत्रुभिः ।।6.11.18।। Yuddha Kanda,11,19,राक्षसास्तद्वचश्श्रुत्वालङ्कायांपरिचक्रमुः ।।6.11.19।। Yuddha Kanda,11,20,अनुगेहमवस्थायविहारशयनेषुच । उद्यानेषुचरक्षांसिचोदयन्तोह्यभीतवत् ।।6.11.20।। Yuddha Kanda,11,21,तेरथान् रुचिरानेकेदृप्तानेकेपृथग्घयान् । नागानेकेऽधिरुरुहुर्जग्मुश्चैकेपदातयः ।।6.11.21।। Yuddha Kanda,11,22,सापुरीपरमाकीर्णारथकुञ्जरवाजिभिः । सम्पतद्भिर्विरुरुचेगरुत्मद्भिरिवाम्बरम् ।।6.11.22।। Yuddha Kanda,11,23,तेवाहनाव्यवस्थाप्ययानानिविविधानिच । सभांपद्भिःप्रविविशुस्सिंहागिरिगुहामिव ।।6.11.23।। Yuddha Kanda,11,24,राज्ञःपादौगृहीत्वातुराज्ञातेप्रतिपूजिताः । पीठेष्वन्येबृसीष्वन्येभूमौकेचिदुपाविशन् ।।6.11.24।। Yuddha Kanda,11,25,तेसमेत्यसभायांवैराक्षसाराजशासनात् । यथार्हमुपतस्थुस्तेरावणंराक्षसाधिपम् ।।6.11.25।। Yuddha Kanda,11,26,मन्त्रिणश्चयथामुख्यानिश्चयार्थेषुपण्डिताः । अमात्याश्चगुणोपेतास्सर्वज्ञाबुद्धिदर्शनाः ।।6.11.26।। Yuddha Kanda,11,27,समीयुस्तत्रशतशशूराश्चबहवस्तदा । सभायांहेमवर्णायांसर्वार्थस्यसुखायवै ।।6.11.27।। Yuddha Kanda,11,28,ततोमहात्माविपुलंसुयुग्यंरथम्वरंहेमविचित्रिताङ्गम् । शुभंसमास्थायययौयशस्वीविभीषणस्संसदमग्रजस्य ।।6.11.28।। Yuddha Kanda,11,29,सपूर्वजायावरजश्शशंसनामाथपश्चाश्चरणौववन्दे । शुकःप्रहस्तश्चतथैवतेभ्योददौयथार्हंपृथगासनानि ।।6.11.29।। Yuddha Kanda,11,30,सुवर्णनानामणिभूषणानांसुवाससांसंसदिराक्षसानाम् । तेषांपरार्घ्यागुरुचन्दनानांस्रजाश्चगन्धाःप्रववुस्समन्तात् ।।6.11.30।। Yuddha Kanda,11,31,नचुक्रुशुर्नानृतमाहकश्चित्सभापदोनापिजजल्पुरुच्चैः । संसिद्धार्थास्सर्वएवोग्रवीर्याभर्तुस्सर्वेददृशुश्चाननंते ।।6.11.31।। Yuddha Kanda,11,32,सरावणश्शस्त्रभृतांमनस्विनांमहाबलानांसमितौमनस्वी । तस्यांसभायांप्रभयाचकाशेमध्येवसूनामिववज्रहस्तेः ।।6.11.32।। Yuddha Kanda,12,1,सतांपरिषदंकृत्स्नांसमीक्ष्यसमितिञ्जयः । प्रचोदयामासतदाप्रहस्तंवाहिनीपतिम् ।।6.12.1।। Yuddha Kanda,12,2,सेनापतेयथातेस्युःकृतविद्याश्चतुर्विधाः । योधानगररक्षायांतथाव्यादेष्टुमर्हसि ।।6.12.2।। Yuddha Kanda,12,3,सप्रहस्तःप्रणीतात्माचिकीर्षन् राजशासनम् । विनिक्षिपद्बलंसर्वंबहिरन्तश्चमन्दिरे ।।6.12.3।। Yuddha Kanda,12,4,ततोविनिक्षिप्यबलंसर्वनगरगुप्तये । प्रहस्तःप्रमुखेराज्ञोनिषसादजगादच ।।6.12.4।। Yuddha Kanda,12,5,विहितंबहिरन्तश्चबलंबलवतस्तव । कुरुष्याविमनाःक्षिप्रंयदभिप्रेतमस्तुते ।।6.12.5।। Yuddha Kanda,12,6,प्रहस्तस्यवचश्श्रुत्वाराजाराज्यहितैषिणः । सुखेप्सुस्सुहृदांमध्येव्याजहारसरावणः ।।6.12.6।। Yuddha Kanda,12,7,प्रियाप्रियेसुखंदुःखंलाभालाभेहिताहिते । धर्मकामार्थकृच्छ्रेषुयूयमर्हथवेदितुम् ।।6.12.7।। Yuddha Kanda,12,8,सर्वकृत्यानियुष्माभिस्समारब्धानिसर्वथा । मन्त्रकर्मनियुक्तानिनजातुविफलानिमे ।।6.12.8।। Yuddha Kanda,12,9,ससोमग्रहनक्षत्रैर्मरुद्भिरिववासवः । भवद्भिरहमत्यर्थंवृतश्रियमवाप्नुयाम् ।।6.12.9।। Yuddha Kanda,12,10,अहंतुखलुसर्वान्वस्समर्थयितुमुद्यतः । कुम्भकर्णस्यतुस्वप्नान्नेममर्थमचोदयम् ।।6.12.10।। Yuddha Kanda,12,11,अयंहिसुप्तःषण्मासान्कुम्भकर्णोमहाबलः । सर्वशस्त्रभृतांमुख्यस्सइदानींसमुत्थितः ।।6.12.11।। Yuddha Kanda,12,12,इयंचदण्डकारण्याद्रामस्यमहिषीमया । रक्षोभिश्चरितोद्देशादानीताजनकात्मजा ।।6.12.12।। Yuddha Kanda,12,13,सामेवशय्यामारोढुमिच्छत्यलसगामिनी । त्रिषुलोकेषुचान्यामेनसीतासदृशीमता ।।6.12.13।। Yuddha Kanda,12,14,तनुमध्यापृथुश्रोणीशरदिन्दुनिभानना । हेमबिम्बनिभासौम्यामायेवमयनिर्मिता ।।6.12.14।। Yuddha Kanda,12,15,सुलोहिततलौश्लक्ष् णौचरणौसुप्रतिष्ठितौ । दृष्ट्वाताम्रनखौतस्यादीप्यतेमेशरीरजः ।।6.12.15।। Yuddha Kanda,12,16,हुताग्निरर्चिस्सङ्काशामेनांसौरीमिवप्रभाम् । उन्नसंविमलंवल्गुविपुलांचारुलोचनम् ।।6.12.16।। पश्यंस्तदवशस्तस्याःकामस्यवशमेयिवान् । Yuddha Kanda,12,17,क्रोधहर्षसमानेनदुर्वर्णकरणेनच ।।6.12.17।। शोकसन्तापनित्येनकामेनकलुषीकृतः । Yuddha Kanda,12,18,सातुसंवत्सरंकालंमामयाचतभामिनी ।।6.12.18।। Yuddha Kanda,12,19,प्रतीक्षमाणाभर्तारंराममायतलोचना । तन्मयाचारुनेत्रायःप्रतिज्ञातंवचश्शुभम् ।।6.12.19।। श्रान्तोऽहंसततंकामाद्यातोहयइवाध्वनि । Yuddha Kanda,12,20,कथंसागरमक्षोभ्यंतरिष्यन्तिवनौकसः ।।6.12.20।। बहुसत्त्वसमाकीर्णंतौवादशरथात्मजौ । Yuddha Kanda,12,21,अथवाकपिनैकेनकृतंनःकदनंमहत् ।।6.12.21।। दुर् ज्ञेयाःकार्यगतयोब्रूतयस्ययथामति । Yuddha Kanda,12,22,मानुष्यान्नोभयंनास्तितथापितुविमृश्यताम् ।।6.12.22।। Yuddha Kanda,12,23,तदादेवासुरेयुद्धेयुष्माभिस्सहितोऽजयम् । तेमेभवन्तश्चतथासुग्रीवप्रमुखान्हरीन् ।।6.12.23।। Yuddha Kanda,12,24,परेपारेसमुद्रस्यपुरस्कृत्यनृपात्मजौ । सीतायाःपदवींप्राप्यसम्प्राप्तौवरुणालयाम् ।।6.12.24।। Yuddha Kanda,12,25,अदेयाचयथासीतावध्यौदशरथात्मजौ । भवद्भिर्मन्त्र्यतांमन्त्रस्सुनीतंचाभिधीयताम् ।।6.12.25।। Yuddha Kanda,12,26,नहिशक्तिंप्रपश्यामिजगत्यन्यस्यकस्यचित् । सागरंवानरैस्तीर्वानिश्चयेनजयोमम ।।6.12.26।। Yuddha Kanda,12,27,तस्यकामपरीतस्यनिशम्यपरिदेवितम् । कुम्भकर्णःप्रचुक्रोधवचनंचेदमब्रवीत् ।।6.12.27।। Yuddha Kanda,12,28,यदातुरामस्यसलक्ष्मणस्यप्रसह्यसीताखलुसाइहाऽहृता । सकृत्समीक्ष्यैवसुनिश्चितंतदाभजेतचित्तंयमुनेवयामुनम् ।।6.12.28।। Yuddha Kanda,12,29,सर्वमेतन्महाराजकृतमप्रतिमंतव । विधीयेतसहास्माभिरादावेवास्यकर्मणः ।।6.12.29।। Yuddha Kanda,12,30,न्यायेनराजकार्याणियःकरोतिदशानन: । नससन्तप्यतेपश्चान्निश्चितार्थमतिर्नृपः ।।6.12.30।। Yuddha Kanda,12,31,अनुपायेनकर्माणिविपरीतानियानिच । क्रियमाणानिदुष्यन्तिहवींष्यप्रयतेष्विव ।।6.12.31।। Yuddha Kanda,12,32,यःपश्चात्पूर्वकार्याणिकर्माण्यभिचिकीर्षति । पूर्वंचापरकार्याणिनसवेदनयानयौ ।।6.12.32।। Yuddha Kanda,12,33,चपलस्यतुकृत्येषुप्रसमीक्ष्याधिकंबलम् । क्षिप्रमन्येप्रपद्यन्तेक्रौञ्चस्यखमिवद्विजाः ।।6.12.33।। Yuddha Kanda,12,34,त्वयेदंमहादारब्धंकार्यमप्रतिचिन्तितम् । दिष्ट्यात्वांनावधीद्रामोविषमिश्रमिवामिषम् ।।6.12.34।। Yuddha Kanda,12,35,तस्मात्त्वयासमारब्धंकर्मह्यप्रतिमंपरैः । अहंसमीकरिष्यामिहत्वाशत्रूंस्तवानघ ।।6.12.35।। Yuddha Kanda,12,36,अहमुत्सादयिष्यामिशत्रूंस्तवनिशाचर । यदिशक्रविवस्वन्तौयदिपावकमारुतौ ।।6.12.36।। तावहंयोधयिष्यामिकुबेरवरुणावपि । Yuddha Kanda,12,37,गिरिमात्रशरीरस्यमहापरिघयोधिनः । नर्दतस्तीक्ष्णदंष्ट्रस्यबिभीयाद्वैपुरन्दरः ।।6.12.37।। Yuddha Kanda,12,38,पुनर्मांसद्वितीयेनशरेणनिहनिष्यति । ततोऽहंतस्यपास्यामिरुधिरंकाममाश्वस ।।6.12.38।। Yuddha Kanda,12,39,वधेनवैदाशरथेस्सुखावहंजयंतवाहर्तुमहंयतिष्ये । हत्वाचरामंसहलक्ष्मणेनखादामिसर्वान्हरियूथमुख्यान् ।।6.12.39।। Yuddha Kanda,12,40,रमस्वकामम् पिबचाग्य्रवारुणींकुरष्वकार्याणिहितानिविज्वरः । मयातुरामेगमितेयमक्षयंचिरायसीतावशगाभविष्यति ।।6.12.40।। Yuddha Kanda,13,1,रावणंक्रुद्धमाज्ञायमहापार्श्वोमहाबलः । मुहूर्तमनुसञ्चिन्त्यप्राञ्जलिर्वाक्यमब्रवीत् ।।6.13.1।। Yuddha Kanda,13,2,यःखल्वपिवनंप्राप्यमृगव्यालनिषेवितम् । नपिबेन्मधुसम्प्राप्यसनरोबालिशोभवेत् ।।6.13.2।। Yuddha Kanda,13,3,ईश्वरस्येश्वरःकोऽस्तितवशत्रुनिबर्हण: । रमस्वसहवैदेह्याशत्रूनाक्रम्यमूर्धसु ।।6.13.3।। Yuddha Kanda,13,4,बलात्कुक्कुटवृत्तेनप्रवर्तस्वमहाबल: । आक्रम्याक्रम्यसीतांवैतांभुङ् क्ष्वचरमस्वच ।।6.13.4।। Yuddha Kanda,13,5,लब्धकामस्यतेपश्चादागमिष्यतियद्भयम् । प्राप्तमप्राप्तकालंवासर्वंप्रतिसहिष्यति ।।6.13.5।। Yuddha Kanda,13,6,कुम्भकर्णस्सहास्माभिरिन्द्रजिच्चमहाबलः । प्रतिषेधयितुंशक्तौसवज्रमपिवज्रिणम् ।।6.13.6।। Yuddha Kanda,13,7,उपप्रदानंसान्त्वंवाभेदंवाकुशलैःकृतम् । समतिक्रम्यदण्डेनसिद्धिमर्थेषुरोचये ।।6.13.7।। Yuddha Kanda,13,8,इहप्राप्तान्वयंसर्वान् शत्रूंस्तवमहाबल: । वशेशस्त्रप्रतापेनकरिष्यामोनसंशयः ।।6.13.8।। Yuddha Kanda,13,9,एवमुक्तस्तदाराजामहापार्श्वेनरावणः । तस्यसम्पूजयन्वाक्यमिदंवचनमब्रवीत् ।।6.13.9।। Yuddha Kanda,13,10,महापार्श्वनिबोधत्वंरहस्यंकिञ्चिदात्मन: । चिरवृत्तंतदाख्यास्येयदवाप्तंपुरामया ।।6.13.10।। Yuddha Kanda,13,11,पितामहस्यभवनंगच्छन्तींपुञ्जिकस्थलाम् । चञ्चूर्यमाणामद्राक्षमाकाशेऽग्निशिखामिव ।।6.13.11।। Yuddha Kanda,13,12,साप्रसह्यमयाभुक्ताकृताविवसनाततः । स्वयम्भूभवनंप्राप्तालोलितानलिनीयथा ।।6.13.12।। Yuddha Kanda,13,13,तच्चतस्यतदामन्येज्ञातमासीन्महात्मनः । अथसङ्कुपितोदेवोमामिदंवाक्यमब्रवीत् ।।6.13.13।। Yuddha Kanda,13,14,अद्यप्रभृतियामन्याबलान्नारींगमिष्यसि । तदातेशतधामूर्धाफलिष्यतिनसंशयः ।।6.13.14।। Yuddha Kanda,13,15,इत्यहंतस्यशापस्यभीतःप्रसभमेवताम् । नारोहयेबलात्सीतांवैदेहींशयनेशुभे ।।6.13.15।। Yuddha Kanda,13,16,सागरस्येनमेवेगोमारुतस्येवमेगतिः । नैतद्दाशरथिर्वेदह्यासादयतितेनमाम् ।।6.13.16।। Yuddha Kanda,13,17,कोहिसिंहमिवासीनंसुप्तंगिरिगुहाशये । क्रुद्धंमृत्युमिवाऽसीनंसम्भोधयितुमिच्छति ।।6.13.17।। Yuddha Kanda,13,18,नमत्तोनिशितान्बाणान्द्विजिह्वान्पन्नगानिव । रामःपश्यतिसङ्ग्रामेतेनमामभिगच्छति ।।6.13.18।। Yuddha Kanda,13,19,क्षिप्रंवज्रसमैर्बाणैश्शतथाकार्मुकच्युतैः । राममादीपयिष्यामिउल्काभिरिवकुञ्जरम् ।।6.13.19।। Yuddha Kanda,13,20,तच्चास्यबलमादास्येबलेनमहतावृतः । उदितस्सविताकालेनक्षत्राणामिवप्रभाम् ।।6.13.20।। Yuddha Kanda,13,21,नवासनेनापिसहस्रचक्षुषायुधाऽस्मिशक्योवरुणेनवापुनः । मयात्वियंबाहुबलेननिर्जितापुरापुरीवैश्रवणेनपालिता ।।6.13.21।। Yuddha Kanda,14,1,निशाचरेन्द्रस्यनिशम्यवाक्यंसकुम्भकर्णस्यचगर्जितानि । विभीषणोराक्षसराजमुख्यमुवाचवाक्यंहितमर्थयुक्तम् ।।6.14.1।। Yuddha Kanda,14,2,न्तरभोगराशिश्चिन्ताविषस्सुस्मिततीक्ष्णदंष्ट्रः । पञ्चाङ्गुलीपञ्चशिरोऽतिकायस्सीतामहाहिस्तवकेनराजन् ।।6.14.2।। Yuddha Kanda,14,3,यावन्नलङ्कांसमभिद्रवन्तिवलीमुखाःपर्वतकूटमात्राः । दष्ट्रायुधाश्चैवनखायुधाश्चप्रदीयतांदाशरथायमैथिली ।।6.14.3।। Yuddha Kanda,14,4,यावन्नगृह्णन्तिशिरांसिबाणारामेरिताराक्षसपुङ्गवानाम् । वज्रोपमावायुसमानवेगाःप्रदीयतांदाशरथायमैथिली ।।6.14.4।। Yuddha Kanda,14,5,नकुम्भकर्णेन्द्रजितौचराजंस्तथामहापार्श्वमहोदरौवा । निकुम्भकुम्भौचतथाऽतिकायःस्थातुंनशक्तायुधिराघवस्य ।।6.14.5।। Yuddha Kanda,14,6,जीवंस्तुरामस्यनमोक्ष्यसेत्वंगुप्तस्सवित्राप्यथवामरुद्भि: । नवासवस्याङ्कगतोनमृत्योर्नभोनपाताळमनुप्रविष्टः ।।6.14.6।। Yuddha Kanda,14,7,निशम्यवाक्यंतुविभीषणस्यततःप्रहस्तोवचनंबभाषे । ननोभयंविद्मनदैवतेभ्योनदानवेभ्योऽप्यथवाकुतश्चित् ।।6.14.7।। Yuddha Kanda,14,8,नयक्षगन्धर्वमहोरगेभ्योभयंनसंख्येपतगोरगेभ्यः । कथंनुरामाद्भविताभयंनोनरेन्द्रपुत्रात्समरेकदाचित् ।।6.14.8।। Yuddha Kanda,14,9,प्रहस्तवाक्यंत्वहितंनिशम्यविभीषणोराजहितानुकाङ्क्षी । ततोमहार्थंवचनंबभाषेधर्मार्थकामेषुनिविष्टबुद्धि:।। 6.14.9।। Yuddha Kanda,14,10,प्रहस्त: राजाचमहोदरश्चत्वंकुम्भकर्णश्चयथाऽर्थजातम् । ब्रवीतरामंप्रतितन्नशक्यंयथागतिस्स्वर्गमधर्मबुद्धेः ।।6.14.10।। Yuddha Kanda,14,11,वधस्तुरामस्यमयात्वयाचप्रहस्तसर्वैरपिराक्षसैर्वा । कथंभवेदर्थविशारदस्यमहार्णवंतर्तुमिवाप्लवस्य ।।6.14.11।। Yuddha Kanda,14,12,धर्मप्रधानस्यमहारथस्यइक्ष्वाकुवंशप्रभवस्यराज्ञः । पुरोस्यदेवाश्चतथाविधस्यकृत्येषुशक्तस्यभवन्तिमूढा ।।6.14.12।। Yuddha Kanda,14,13,तीक्ष्णानतायत्तवकङ्कपत्रादुरासदाराघवविप्रमुक्ताः । भित्वाशरीरंप्रविशन्तिबाणाःप्रहस्ततेनैवविकत्थसेत्वम् ।।6.14.13।। Yuddha Kanda,14,14,भित्त्वानतावत्प्रविशन्तिकायंप्राणान्तिकास्तेऽशनितुल्यवेगाः । शिताश्शराराघवविप्रमुक्ताःप्रहस्ततेनैवविकत्थसेत्वम् ।।6.14.14।। Yuddha Kanda,14,15,नरावणोनातिबलस्त्रिशीर्षोनकुम्भकर्णोऽस्यसुतोनिकुम्भः । नचेन्द्रजिद्दाशरधिंप्रसोढुंत्वंवारणेशक्रसमंसमर्थ:।। 6.14.15।। Yuddha Kanda,14,16,देवान्तकोवापिनरान्तकोवातथातिकायोऽतिरथोमहात्मा । आकम्पनश्चाद्रिसमानसारःस्थातुंनशक्तायुधिराघवस्य ।।6.14.16।। Yuddha Kanda,14,17,अयंचराजाव्यसनाभिभूतोमित्रैरमित्रप्रतिमैर्भवद्भि: । अन्वास्यतेराक्षसनाशनार्थेतीक्ष्णःप्रकृत्याह्यसीक्षयकारी ।।6.14.17।। Yuddha Kanda,14,18,अनन्तभोगेनसहस्रमूर्थ्नानागेनभीमेनमहाबलेव । बलात्परिक्षिप्तमिमंभवन्तोराजानमुत्क्षिप्यविमोचयन्तु ।।6.14.18।। Yuddha Kanda,14,19,यावद्धिकेशग्रहणातसुहृद्भि: समेत्यसर्वैःपरिपूर्णकामैः । निगृह्यराजापरिरक्षितव्योभूतैर्यथाभीमबलैर्गृहीतः ।।6.14.19।। Yuddha Kanda,14,20,सुवारिणाराघवसागरेणप्रच्छाद्यमानस्तरसाभवद्भि: । युक्तस्त्वयंतारयितुंसमेत्यकाकुत्स्थपातालमुखेपतन्सः ।।6.14.20।। Yuddha Kanda,14,21,इदंपुरस्यास्यसराक्षसस्यराज्ञश्चपथ्यंससुहृज्जनस्य । सम्यग्घिवाक्यंस्वमतंब्रवीमिनरेन्द्रपुत्रायददामपत्नीम् ।।6.14.21।। Yuddha Kanda,14,22,परस्यवीर्यंस्वबलंचबुध्वास्थानंक्षयंचैवतथैववृद्धिम् । तथास्वपक्षेप्यनुमृश्यबुध्वावदेत् क्षमंस्वामिहितंसमन्त्री ।।6.14.22।। Yuddha Kanda,15,1,बृहस्पतेस्तुल्यमतेर्वचस्तन्निशम्ययत्नेनविभीषणस्य । ततोमहात्मावचनंबभाषेतत्रेन्द्रजिन्नैरृतयूथमुख्यः ।।6.15.1।। Yuddha Kanda,15,2,किंनामतेतातकनिष्ठवाक्यमनर्थकंचेवेसुबसुभीतवच्च । अस्मिन्कुलेयोऽपिभवेन्नजातस्सोऽपीदृशंनैववदेन्नकुर्यात् ।।6.15.2।। Yuddha Kanda,15,3,सत्त्वेनवीर्येणपराक्रमेणशौर्येणधैर्येणचतेजसाच । एकःकुलेऽस्मिन्पुरुषोविमुक्तोविभीषणस्तातकनिष्ठएषः ।।6.15.3।। Yuddha Kanda,15,4,किंनामतौमानुषराजपुत्रावस्माकमेकेनहिराक्षसेन । सुप्राकृतेनापिरणेनिहन्तुमेतौशक्यौकुतोभीषयसेस्मभीरो ।।6.15.4।। Yuddha Kanda,15,5,त्रिलोकनाथोननुदेवराजश्शक्रोमयाभूमितलेनिविष्टः । भयार्पिताश्चापिदिशःप्रपन्नास्सर्वेतथादेवगणास्समग्राः ।।6.15.5।। Yuddha Kanda,15,6,ऐरावतोविस्वरमुन्नदन् सनिपातितोभूमितलेमयातु । विकृष्यदन्तौतुमयाप्रसह्यवित्रासितादेवगणास्समग्राः ।।6.15.6।। Yuddha Kanda,15,7,सोऽहंसुराणामपिदर्पहन्तादैत्योत्तमानामपिशोकदाता । कथंनरेन्द्रात्मजयोर्नशक्तोमनुष्ययोःप्राकृतयोस्सुवीर्यः ।।6.15.7।। Yuddha Kanda,15,8,अथेन्द्रकल्पस्यदुरासदस्यमहौजसस्तद्वचनंनिशम्य । ततोमहार्थवचनंबभाषेविभीषणश्शस्त्रभृतांवरिष्ठः ।।6.15.8।। Yuddha Kanda,15,9,नतातमन्त्रेतवनिश्चयोऽस्तिबालस्त्वमद्याप्यविपक्वबुद्धि: । तस्मात्त्वयाप्यात्मविनाशनायवचोऽर्धहीनंबहुविप्रलप्तम् ।।6.15.9।। Yuddha Kanda,15,10,पुत्रप्रवादेवतुरावणस्यत्वमिन्द्रजिन्मित्रमुखोऽसिशत्रुः । यस्येदृशंराघवतोविनाशंनिशम्यमोहादनुमन्यसेत्वम् ।।6.15.10।। Yuddha Kanda,15,11,त्वमेववध्यश्चसुदुर्मतिश्चसचापिवध्योयइहाऽनयत्त्वाम् । बालंदृढंसाहसिकंचयोऽद्यप्रावेशयन्मन्त्रकृतांसमीपम् ।।6.15.11।। Yuddha Kanda,15,12,मूढोऽप्रगल्भोऽविनयोपपन्नस्तीक्षणस्वभावोऽल्पमतिर्दुरात्मा । मूर्खस्त्वमत्यर्थसुदुर्मतिश्चत्वमिन्द्रजिद्बालतयाब्रवीषि ।।6.15.12।। Yuddha Kanda,15,13,कोब्रह्मदण्डप्रतिमप्रकाशानर्चिष्मतःकालनिकाशरूपान् । सहेतबाणान्यमदण्डकल्पान्समक्षमुक्तान्युधिराघवेण ।।6.15.13।। Yuddha Kanda,15,14,धनानिरत्नानिसुभूषणानिवासांसिदिव्यानिमणींश्च । चित्रान् सीतांचरामायनिवेद्यदेवींवसेमराजन् निहवीतशोकाः ।।6.15.14।। Yuddha Kanda,16,1,सुनिविष्टंहितंवाक्यमुक्तवन्तंविभीषणम् । अब्रवीत्परुषंवाक्यंरावणःकालचोदितः ।।6.16.1।। Yuddha Kanda,16,2,वसेत्सहसपत्नेनक्रुद्धेऽनाशीविषेणवा । नतुमित्रप्रवादेनसंवसेच्छत्रुसेविना ।।6.16.2।। Yuddha Kanda,16,3,जानामिशीलंज्ञातीनांसर्वलोकेषुराक्षस: । हृष्यन्तिव्यसनेष्वेतेज्ञातीनाज्ञातयस्सदा ।।6.16.3।। Yuddha Kanda,16,4,प्रथानंसाधनंवैद्यंधर्मशीलंचराक्षस: । ज्ञातयोह्यवमन्यन्तेशूरंपरिभवन्तिच ।।6.16.4।। Yuddha Kanda,16,5,नित्यमन्योन्यसम्हृष्टाव्यसनेष्वाततायिनः । प्रच्छन्नहृदयाघोराज्ञातयस्तुभयावहाः ।।6.16.5।। Yuddha Kanda,16,6,श्रूयन्तेहस्तिभिर्गीताश्श्लोकाःपद्मवनेक्वचित् । पाशहस्तान्नरान्द्रुष्टवाशृणुतान्गदतोमम ।।6.16.6।। Yuddha Kanda,16,7,नाग्निर्नान्यानिशस्त्राणिननःपाशाभयावहाः । घोरास्स्वार्थप्रयुक्तास्तुज्ञातयोनोभयावहाः ।।6.16.7।। Yuddha Kanda,16,8,उपायमेतेवक्ष्यन्तिग्रहणेनात्रसंशयः । कृत्स्नाद्भयाद् ज्ञातिभयंसुकष्टंविदितंचन ।।6.16.8।। Yuddha Kanda,16,9,विद्यतेगोषुसम्पन्नंविद्यतेब्राह्मणेदमः । विद्यतेस्त्रीषुचापल्यंविद्यतेज्ञातितोभयम् ।।6.16.9।। Yuddha Kanda,16,10,ततोनेष्टमिदंसौम्ययदहंलोकसत्कृतः । ऐश्वर्यमभिजातश्चज्ञातीनांमूर्ध्न्यवस्थितः ।।6.16.10।। Yuddha Kanda,16,11,यथापुष्करपत्रेषुपतितास्तोयबिन्दवः । नश्लेषमभिगच्छन्तितथाऽनार्येषुसङ्गतम् ।।6.16.11।। Yuddha Kanda,16,12,यथामधुकरस्तर्षाद्रसंविन्दन्नविद्यते । तथात्वमपितत्रैवतथानार्येषुसौहृदम् ।।6.16.12।। Yuddha Kanda,16,13,यथापूर्वंगजस्स्नात्वागृह्यहस्तेनवैरजः । दूषयत्यात्मनोदेहंतथानार्येषुसङ्गतम् ।।6.16.13।। Yuddha Kanda,16,14,यथाशरदिमेघानांसिञ्चतामपिगर्जताम् । नभवत्यम्बुसंक्लेदस्तथाऽनार्येषुसौहृदम् ।।6.16.14।। Yuddha Kanda,16,15,यथामधुकरस्तर्षात्काशपुष्पंपिबन्नपि । रसमत्रनविन्देततथानार्वेषुसौहृदम् ।।6.16.15।। Yuddha Kanda,16,16,अन्यस्त्वेवंविधंब्रूयाद्वाक्यमेतन्निशाचर: । अस्मिन्मुहूर्तेनभवेत्त्वांतुधिक्कुलपांसन ।।6.16.16।। Yuddha Kanda,16,17,इत्युक्तःपरुषंवाक्यंन्यायवादीविभीषणः । उत्पपातगदापाणिश्चतुर्भिस्सहराक्षसैः ।।6.6.17।। Yuddha Kanda,16,18,अब्रवीच्चतदावाक्यंजातक्रोधोविभीषणः । अन्तरिक्षगत्शीमान्भ्रातरंराक्षसाधिपम् ।।6.16.18।। Yuddha Kanda,16,19,सत्वंभ्राताऽसिमेराजन्ब्रूहिमांयद्यदिच्छसि । ज्येष्टोमान्यःपितृसमोनचधर्मपथेस्थितः ।।6.16.19।। इदंतुपरुषंवाक्यंनक्षमाम्यग्रजस्यते । Yuddha Kanda,16,20,सुनीतंहितकामेनवाक्यमुक्तंदशानन: । नगृह्णन्त्यकृतात्मानःकालस्यवशमागताः ।।6.16.20।। Yuddha Kanda,16,21,सुलभाःपुरुषराजन् सततंप्रियवादिनः । अप्रियस्यचपथ्यस्यवक्ताश्रोताचदुर्लभः ।।6.16.21।। Yuddha Kanda,16,22,बद्धंकालस्यपाशेनसर्वभूतापहारिणा । ननश्यन्तमुपेक्षेत्वांप्रदीप्तंशरणंयथा ।।6.16.22।। Yuddha Kanda,16,23,दीप्तपावकसङ्काशैश्शितैःकाञ्चनभूषणैः । नत्वामिच्छाम्यहंद्रष्टुंरामेणनिहतंशरैः ।।6.16.23।। Yuddha Kanda,16,24,शूराश्चबलवन्तश्चकृतास्त्राश्चरणाजिरे । कालाभिपन्नास्सीदन्तियथावालुकसेतव ।।6.16.24।। Yuddha Kanda,16,25,तन्मर्षयतुयच्चोक्तंगुरुत्वाद्धितमिच्छता ।।6.16.25।। Yuddha Kanda,16,26,अत्मानंसर्वथारक्षपुरींचेमांसराक्षसाम् । स्वस्तितेऽस्तुगमिष्यामिसुखीभवमयाविना ।।6.16.26।। Yuddha Kanda,16,27,निवार्यमाणस्यमयाहितैषिणानरोचतेतेवचनंनिशाचर: । परीतकालाहिगतायुषोनराहितंनगृह्णन्तिसुहृद्भिरीरितम् ।।6.16.27।। Yuddha Kanda,17,1,इत्युक्त्वापरुषंवाक्यंरावणंरावणानुजः । आजगाममुहूर्तेनयत्ररामस्सलक्ष्मणः ।।6.17.1।। Yuddha Kanda,17,2,तंमेरुशिखराकारंदीप्तामिवशतह्रदाम् । गगनस्थंमहीस्थास्तेददृशुसर्ववानराः ।।6.17.2।। Yuddha Kanda,17,3,येचाप्यनुचरास्तस्य चत्वारो भीमविक्रमा: । तेsपि सर्वायुधोपेता भूषणैश्चापि भूषिता ।।6.17.3।। Yuddha Kanda,17,4,स च मेघाचलप्रख्यो वज्रायुधसमप्रभः । वरायुधधरो वीरो दिव्याभरणभूषितः ।।6.17.4।। Yuddha Kanda,17,5,तमात्मपञ्चमंदृष्टवासुग्रीवोवाहिनीपति: । वानरैस्सहदुर्धर्षचिन्तयामासबुद्धिमान् ।।6.17.5।। Yuddha Kanda,17,6,चिन्तयित्वामुहूर्तंतुवानरांस्तानुवाचह । हनुमत्प्रमुखान्सर्वानिदंवचनमुत्तमम् ।।6.17.6।। Yuddha Kanda,17,7,एषसर्वायुधोपेतश्चतुर्भिस्सहराक्षसैः । राक्षसोऽभ्येतिपश्यध्वमस्मान्हन्तुंनसंशयः ।।6.17.7।। Yuddha Kanda,17,8,सुग्रीवस्यवचश्रुत्वासर्वेतेवानरोत्तमाः । सालानुद्यम्यशैलांश्चइदंवचनमब्रुवन् ।।6.17.8।। Yuddha Kanda,17,9,शीघ्रंव्यादिशनोराजन्वधायैषांदुरात्मनाम् । निपतन्तुहताश्चैतेधरण्यामल्पतेजसः ।।6.17.9।। Yuddha Kanda,17,10,तेषासम्भाषमाणानामन्योन्यंसविभीषणः । उत्तरंतीरमासाद्यखस्थएवव्यतिष्ठत ।।6.17.10।। Yuddha Kanda,17,11,उवाचमहाप्राज्ञस्स्वरेणमहतामहान् । सुग्रीवंतांश्चसम्प्रेक्ष्यसर्वान्वानरयूथपान् ।।6.17.11।। Yuddha Kanda,17,12,रावणोनामदुर्वृत्तोराक्षसोराक्षसेश्वरः । तस्याहमनुजोभ्राताविभीषणइतिश्रुतः ।।6.17.12।। Yuddha Kanda,17,13,तेनसीताजनस्थानाद्धृताहत्वाजटायुषम् । रुद्दाचविवशादीनाराक्षसीभिस्सुरक्षिता ।।6.17.13।। Yuddha Kanda,17,14,तमहंहेतुभिर्वाक्यैर्विविधैश्चन्यदर्शयम् । साधुनिर्यात्यतांसीतारामायेतिपुनःपुनः ।।6.17.14।। Yuddha Kanda,17,15,सचनप्रतिजग्राहरावणःकालचोदितः । उच्यमानंहितंवाक्यंविपरीतइवौषधम् ।।6.17.15।। Yuddha Kanda,17,16,सोऽहंपरुषितस्तेनदासवच्चावमानितः । त्यक्त्वापुत्रांश्चदारांश्चराघवंशरणंगतः ।।6.17.16।। Yuddha Kanda,17,17,सर्वलोकशरण्यायराघवायमहात्मने । निवेदयतमांक्षिप्रंविभीषणमुपस्थितम् ।।6.17.17।। Yuddha Kanda,17,18,एतत्तुवचनंश्रुत्वासुग्रीवोलघुविक्रमः । लक्ष्मणस्याग्रतोरामंसम्रब्धमिदमब्रवीत् ।।6.17.18।। Yuddha Kanda,17,19,रावणस्यानुजोभ्राताविभीषणइतिश्रुतः । चतुर्भिस्सहरक्षोभिर्भवन्तंशरणंगतः ।।6.17.19।। Yuddha Kanda,17,20,मन्त्रेव्यूहेनयेचारेयुक्तोभवितुमर्हसि । वानराणांचभद्रंतेपरेषांचपरन्तप ।।6.17.20।। Yuddha Kanda,17,21,अन्तर्धानगताह्येतेराक्षसाःकामरूपिणः । शूराश्चनिकृतिज्ञाश्चतेषांजातुनविश्वसेत् ।।6.17.21।। Yuddha Kanda,17,22,प्रणिधीराक्षसेन्द्रस्यरावणस्यभवेदयम् । अनुप्रविश्यसोऽस्मासुभेदंकुर्यान्नसंशयः ।।6.17.22।। Yuddha Kanda,17,23,अथवास्वयमेवैषछिद्रमासाद्यबुद्धिमान् । अनुप्रविश्यविश्वस्तेकदाचित्प्रहरेदपि ।।6.17.23।। Yuddha Kanda,17,24,मित्राटवीबलंचैवमौलभृत्यबलंतथा । सर्वमेतद्बलंग्राह्यंवर्जयित्वाद्विषद्बलम् ।।6.17.24।। Yuddha Kanda,17,25,प्रकृत्याराक्षसेन्द्रस्यभ्राताऽमित्रस्यतेप्रभो: । आगतश्चरिपोस्साक्षात्कथमस्मिन्हिविश्वसेत् ।।6.17.25।। Yuddha Kanda,17,26,रावणेनप्रणिहितंतमवेहिविभीषणम् । तस्याहंनिग्रहंमन्येक्षमंक्षमवतांवर ।।6.17.26।। Yuddha Kanda,17,27,राक्षसोजिह्मयाबुद्ध्यासंदिष्टोऽयमुपागतः । प्रहर्तुंमाययाच्छन्नोविश्वस्तेत्वयिराघव ।।6.17.27।। Yuddha Kanda,17,28,प्रविष्टश्शत्रुसैन्यंहिप्राप्तश्शत्रुरतर्कितः । निहन्यादन्तरंलब्ध्वाउलूकवायसानिव ।।6.17.28।। Yuddha Kanda,17,29,वध्यतामेषतीव्रेणदण्डेनसचिवैस्सह । रावणस्यनृशंसस्यभ्राताह्येषविभीषणः ।।6.17.29।। Yuddha Kanda,17,30,एवमुक्त्वातुतंरामंसम्रब्धोवाहिनीपतिः । वाक्यज्ञोवाक्यकुशलंततोमौनमुपागमत् ।।6.17.30।। Yuddha Kanda,17,31,सुग्रीवस्यतुतद्वाक्यंश्रुत्वारामोमहायशाः । समीपस्थानुवाचेदंहनुमत्प्रमुखान्हरीन् ।।6.17.31।। Yuddha Kanda,17,32,यदुक्तंकपिराजेनरावणावरजंप्रति । वाक्यंहेतुमदत्यर्थंचभवद्भिरपितच्छ्रुतम् ।।6.17.32।। Yuddha Kanda,17,33,सुहृदामर्थकृच्छेषुयुक्तंबुद्धिमतासदा । समर्थेनोपनिर्देष्टुंशाश्वतींभूतिमिच्छता ।।6.17.33।। Yuddha Kanda,17,34,इत्येवंपरिपृष्टास्तेस्वंस्वंमतमतन्द्रिताः । सोपचारंतदाराममूचुर्हितचिकीर्षवः ।।6.17.34।। Yuddha Kanda,17,35,अज्ञातंनास्तितेकिंचित्त्रिषुलोकेषुराघव: । आत्मानंसूचयन्राम: पृच्छस्यस्मान् सुहृत्तया ।।6.17.35।। Yuddha Kanda,17,36,त्वंहिसत्यव्रतश्शूरोधार्मिकोदृढविक्रमः । परीक्ष्यकारीस्मृतिमान्निसृष्टात्मासुहृत्सुच ।।6.17.36।। Yuddha Kanda,17,37,तस्मादेकैकशस्तावद्ब्रुवन्तुसचिवास्तव । हेतुतोमतिसम्पन्नास्समर्थाश्चपुन: पुनः ।।6.17.37।। Yuddha Kanda,17,38,इत्युक्तेराघवायाऽथमतिमानङ्गदोऽग्रतः । विभीषणपरीक्षार्थमुवाचवचनंहरिः ।।6.17.38।। Yuddha Kanda,17,39,शत्रोस्सकाशात्सम्प्राप्तस्सर्वथाशङ् क्यएवहि । विश्वासयोग्यस्सहसानकर्तव्योविभीषणः ।।6.17.39।। Yuddha Kanda,17,40,छादयित्वाऽत्मभावंहिचरन्तिशठबुद्धयः । प्रहरन्तिचरन्ध्रेषुसोऽनर्थस्सुमहान्भवेत् ।।6.17.40।। Yuddha Kanda,17,41,अर्थानर्थौविनिश्चित्यव्यवसायंभजेतह । गुणतस्सङ्ग्रहंकुर्याद्दोषतस्तुविसर्जयेत् ।।6.17.41।। Yuddha Kanda,17,42,यदिदोषोमहांस्तस्मिंस्त्यज्वतामविशङ्कितम् । गुणान्वापिबहून् ज्ञात्वासङ्ग्रहःक्रियतांनृप ।।6.17.42।। Yuddha Kanda,17,43,शरभस्त्वथनिश्चित्यसार्थंवचनमब्रवीत् । क्षिप्रमस्मिन्नरव्याघ्र चारःप्रतिविधीयताम् ।।6.17.43।। Yuddha Kanda,17,44,प्रणिधायहिचारेणयथावत्सूक्ष्मबुद्धिना । परीक्ष्यचततःकार्योयथान्यायंपरिग्रहः ।।6.17.44।। Yuddha Kanda,17,45,जाम्बवांस्त्वथसम्प्रेक्ष्यशास्त्रबुध्याविचक्षणः । वाक्यंविज्ञापयामासगुणवद्दोषवर्जितम् ।।6.17.45।। Yuddha Kanda,17,46,बद्धवैराच्चपापाच्चराक्षेसेन्द्राद्विभीषणः । अदेशकालेसम्प्राप्तस्सर्वथाशङ् क्यतामयम् ।।6.17.46।। Yuddha Kanda,17,47,ततोमैन्दस्तुसम्प्रेक्ष्यनयापनयकोविदः । वाक्यंवचनसम्पन्नोबभाषेहेतुमत्तरम् ।।6.17.47।। Yuddha Kanda,17,48,वजनंनामतस्यैषरावणस्यविभीषणः । पृच्छयतांमधुरेणायंशनैर्नरपतीश्वर ।।6.17.48।। Yuddha Kanda,17,49,भावमस्यतुविज्ञायतत्त्वतस्त्वंकरिष्यसि । यदिदुष्टोनदुष्टोवाबुद्धिपूर्वंनरर्षभ ।।6.17.49।। Yuddha Kanda,17,50,अथसंस्कारसम्पन्नोहनुमान् सचिवोत्तमः । उवाचवचनंश्लक्ष्णमर्थवन्मधुरंलघु ।।6.17.50।। Yuddha Kanda,17,51,नभवन्तंमतिश्रेष्ठंसमर्थंवदतांवरम् । अतिशाययितुंशक्तोबृहस्पतिरपिब्रुवन् ।।6.17.51।। Yuddha Kanda,17,52,नवादान्नपिसङ्घर्षान्नाधिक्यान्नचकामतः । वक्ष्यामिवचनंराजन्यथार्थंरामगौरवात् ।।6.17.52।। Yuddha Kanda,17,53,अर्थानर्थनिमित्तंहियदुक्तंसचिवैस्तव । तत्रदोषंप्रपश्यामिक्रियानह्युपपद्यते ।।6.17.53।। Yuddha Kanda,17,54,ऋतेनियोगात्सामर्थ्यमवबोद्धुंनशक्यते । सहसाविनियोगोहिदोषवान्प्रतिभातिमे ।।6.17.54।। Yuddha Kanda,17,55,चारप्रणिहितंयुक्तंयदुक्तंसचिवैस्तव । अर्थस्यासम्भवात्तत्रकारणंनोपयुज्यते ।।6.17.55।। Yuddha Kanda,17,56,अदेशकालेसम्प्राप्तइत्ययंयद्विभीषणः । विवक्षातत्रमेऽस्तीयंतांनिबोधयथामति ।।6.17.56।। Yuddha Kanda,17,57,सएषदेश: कालश्चभवतीतियथातथा । पुरुषात्पुरुषंप्राप्यतथादोषगुणावपि ।।6.17.57।। Yuddha Kanda,17,58,त्म्यंरावणेदृष्टवाविक्रमंचतथात्वयि । युक्तमागमनंह्यत्रसदृशंतस्यबुद्धितः ।।6.17.58।। Yuddha Kanda,17,59,अज्ञातरूपैःपुरुषैस्सराजन्पृच्छ् यतामिति । यदुक्तमत्रमेप्रेक्षाकाचिदस्तिसमीक्षिता ।।6.17.59।। Yuddha Kanda,17,60,पृच्छयमानोविशङ्केतसहसाबुद्धिमान्वचः । तत्रमित्रंप्रदुष्येतमिथ्यापृष्टंसुखागतम् ।।6.17.60।। Yuddha Kanda,17,61,अशक्यस्सहसाराजन्भावोबोद्धुंपरस्यवै । अन्तस्स्वभावैर्गीतैस्तैर्नैपुण्यंपश्यतांभृशम् ।।6.17.61।। Yuddha Kanda,17,62,नत्वस्यब्रुवतोजातुलक्ष्यतेदुष्टभावता । प्रसन्नंवदनंचापितस्मान्मेनास्तिसंशयः ।।6.17.62।। Yuddha Kanda,17,63,अशङ्कितमतिस्स्वस्थोनशठःपरिसर्पति । नचास्यदुष्टावाक्चापितस्मान्नास्तीहसंशयः ।।6.17.63।। Yuddha Kanda,17,64,आकारश्चाद्यमानोऽपिनशक्योविनिगूहितम् । बलाद्धिविवृणोत्येवभावमन्तर्गतंनृणाम् ।।6.17.64।। Yuddha Kanda,18,1,अथरामःप्रसन्नात्माशृत्वावायुसुतस्यह । प्रत्यभाषतदुर्धषश्रुतवानात्मनिस्थितम् ।।6.18.1।। Yuddha Kanda,18,2,ममापितुविवक्षाऽस्तिकाचित्प्रतिविभीषणम् । श्रोतुमिच्छामितत्सर्वंभवद्भिश्श्रेयसिस्थितैः ।।6.18.2।। Yuddha Kanda,18,3,मित्रभावेनसम्प्राप्तंनत्यजेयंकथञ्चन । दोषोयद्यपितस्यस्यात्सतामेतदगर्हितम् ।।6.18.3।। Yuddha Kanda,18,4,सुग्रीस्त्वथतद्वाक्यमाभाष्यचविमृश्यच । ततश्शुभतरंवाक्यमुवाचहरिपुङ्गवः ।।6.18.4।। Yuddha Kanda,18,5,सुदुष्टोवाप्यदुष्टोवाकिमेषरजनीचरः । ईदृशंव्यसनंप्राप्तंभ्रातरंयःपरित्यजेत् ।।6.18.5।। कोनामसभवेत्तस्ययमेषनपरित्यजेत् । Yuddha Kanda,18,6,वानराधिपतेर्वाक्यंश्रुत्वासर्वानुदीक्ष्यच ।।6.18.6।। Yuddha Kanda,18,7,ईषदुत्स्मयमानस्तुलक्ष्मणंपुण्यलक्षणम् । इतिहोवाचकाकुत्स्थोवाक्यंसत्यपराक्रमः ।।6.18.7।। Yuddha Kanda,18,8,अनधीत्यचशास्त्राणिवृद्धाननुपसेव्यच । नशक्यमीदृशंवक्तुंयदुवाचहरीश्वरः ।।6.18.8।। Yuddha Kanda,18,9,अस्तिसूक्ष्मतरंकिंचिद्यदत्रप्रतिभातिमे । प्रत्यक्षंलौकिकंचापिविद्यतेसर्वराजसु ।।6.18.9।। Yuddha Kanda,18,10,अमित्रास्तत्कुलीनाश्चप्रातिदेश्याश्चकीर्तिताः । व्यसनेषुप्रहर्तारस्तस्मादयमिहागतः ।।6.18.10।। Yuddha Kanda,18,11,अपापास्तत्कुलीनाश्चमानयन्तिस्वकान्हितान् । एषप्रायोनरेन्द्राणांशङ्कनीयस्तुशोभनः ।।6.18.11।। Yuddha Kanda,18,12,यस्तुदोषस्त्वयाप्रोक्तोह्यादानेऽरिबलस्यच । तत्रतेकीर्तयिष्यामियथाशास्त्रमिदंशृणु ।।6.18.12।। Yuddha Kanda,18,13,नवयंतत्कुलीनाश्चराज्यकाङ् क्षीचराक्षसः । पण्डिताहिभविष्यन्तितस्माद्ग्राह्योविभीषणः ।।6.18.13।। Yuddha Kanda,18,14,अव्यग्राश्चप्रहृष्टाश्चनभविष्यन्तिसङ्गता । प्रणादश्चमहानेषततोऽस्यभयमागतम् ।।6.18.14।। इतिभेदंगमिष्यन्तितस्माग्राह्योविभीषणः । Yuddha Kanda,18,15,नसर्वेभ्रातरस्तातभवन्तिभरतोपमाः । मद्विथावापितुःपुत्रास्सुहृदोनाभवद्विथाः ।।6.18.15।। Yuddha Kanda,18,16,एवमुक्तस्तुरामेणसुग्रीवस्सहलक्ष्मणः । उत्थायेदंमहाप्राज्ञःप्रणतोवाक्यमब्रवीत् ।।6.18.16।। Yuddha Kanda,18,17,रावणेनप्रणिहितंतमवेहिविभीषणम् । तस्याहंनिग्रहंमन्येक्षमंक्षमवतांवर ।।6.18.17।। Yuddha Kanda,18,18,राक्षसोजिह्मयाबुध्यासन्दिष्टोऽयमिहागतः । प्रहर्तुंत्वयिविश्वस्तेप्रच्छन्नोमयिवानघ ।।6.18.18।। Yuddha Kanda,18,19,लक्ष्मणेवामहाबाहो सवध्यस्सचिवैस्सहा । रावणस्यनृशंसस्यभ्राताह्येषविभीषणः ।। एवमुक्त्वारघुश्रेष्ठंसुग्रीवोवाहिनीपतिः । वाक्यज्ञोवाक्यकुशलंततोमौनमुपागमत् ।।6.18.19।। Yuddha Kanda,18,20,सुग्रीवस्यतुतद्वाक्यंरामश्रुत्वाविमृश्यच । ततश्शुभतरंवाक्यमुवाचहरिपुङ्गवम् ।।6.18.20।। Yuddha Kanda,18,21,सुदुष्टोवाप्यदुष्टोवाकिमेषरजनीचरः । सूक्ष्ममप्यहितंकर्तुंममाशक्तःकथञ्चन ।।6.18.21।। Yuddha Kanda,18,22,पिशाचानदानवान् यक्ष I नपृथिव्यांचैवराक्षसान् । अङ्गुल्यग्रेणतान् हन्यामिच्छन् हरिगणेश्वर ।।6.18.22।। Yuddha Kanda,18,23,श्रूयतेहिकपोतेनशत्रुश्शरणमागतः । अर्चितश्चयथान्यायंस्वैश्चमांसैर्निमन्त्रितः ।।6.18.23।। Yuddha Kanda,18,24,सहितंप्रतिजग्राहभार्याहर्तारमागतः । कपोतोवानरश्रेष्ठ: किंपुनर्मद्विधोजनः ।।6.18.24।। Yuddha Kanda,18,25,ऋषेःकण्वस्यपुत्रेणकण्डुनापरमर्षिणा । शृणुगाथांपुरागीतांधर्मिष्ठासत्यवादिना ।।6.18.25।। Yuddha Kanda,18,26,बद्धाञ्जलिपुटंदीनंयाचन्तंशरणागतम् । नहन्यदानृशंस्यार्थमपिशत्रुंपरन्तप ।।6.18.26।। Yuddha Kanda,18,27,आर्तोवायदिवादृप्तःपरेषांशरणांगतः । अरिःप्राणान्परित्यज्यरक्षितव्यःकृतात्मना ।।6.18.27।। Yuddha Kanda,18,28,सचेद्भयाद्वामोहाद्वाकामाद्वापिनरक्षति । स्वयाशक्त्यायथासत्त्वंतत्पापंलोकगर्हितम् ।।6.18.28।। Yuddha Kanda,18,29,विनष्टःपश्यतस्तस्यारक्षिणश्शरणागतः । आदायसुकृतंतस्यसर्वंगच्छेदरक्षित:।। 6.18.29।। Yuddha Kanda,18,30,एवंदोषोमहानत्रप्रपन्नानामरक्षणे । अस्वर्ग्यंचायशस्यंचबलवीर्यविनाशनम् ।।6.18.30।। Yuddha Kanda,18,31,करिष्यामियथार्थंतुकण्डोर्वचनमुत्तमम् । धर्मिष्ठंचयशस्यंचस्वर्ग्यंस्यात्तुफलोदये ।।6.18.31।। Yuddha Kanda,18,32,सकृदेवप्रपन्नायतवास्मीतिचयाचते । अभयंसर्वभूतेभ्योददाम्येतद्व्रतंमम ।।6.18.32।। Yuddha Kanda,18,33,अनयैनंहरिश्रेष्ठ: दत्तमस्याभयंमया । विभीषणोवासुग्रीव: यदिवारावणस्स्वयम् ।।6.18.33।। Yuddha Kanda,18,34,रामस्यतुवच्शुत्वासुग्रीवःप्लवगेश्वरः । प्रत्यभाषतकाकुत्स्थंसौहार्देनप्रचोदितः ।।6.18.34।। Yuddha Kanda,18,35,किमत्रचित्रंधर्मज्ञ: लोकनाथ: सुखावहा: । यत्त्वमार्यंप्रभाषेथास्सत्त्ववान् सत्पथेस्थितः ।।6.18.35।। Yuddha Kanda,18,36,ममचाप्यन्तरात्मायंशुद्धंवेत्तिविभीषणम् । अनुमानाच्चभावाच्चसर्वतस्सुपरीक्षितः ।।6.18.36।। Yuddha Kanda,18,37,तस्मात् क्षिप्रंसहास्माभिस्तुल्योभवतराघव: । विभीषणोमहाप्राज्ञस्सखित्वंचाभ्युपैतुनः ।।6.18.37।। Yuddha Kanda,18,38,ततस्तुसुग्रीववचोनिशम्यतद्दरीश्वरेणाभिहितंनरेश्वरः । विभीषणेनाशुजगामसङ्गमंपतत्त्रिराजेनयथापुरन्दरः ।।6.18.38।। Yuddha Kanda,19,1,राघवेणाभयेदत्तेसन्नतोरावणानुजः । विभीषणोमहाप्राज्ञोभूमिंसमवलोकयन् ।।6.19.1।। Yuddha Kanda,19,2,खात्पपातावनींहृष्टोभक्तेरनुचरैस्सह । सतरामस्यपरमात्मानिपपातविभीषणः ।।6.19.2।। Yuddha Kanda,19,3,पादयोश्शरणान्वेषीचतुर्भिस्सहराक्षसैः । अब्रवीच्चतदावाक्यंरामंप्रतिविभीषणः ।।6.19.3।। धर्मयुक्तंचयुक्तंचसाम्प्रतंसम्प्रहर्षणम् । Yuddha Kanda,19,4,अनुजोरावणस्याहंतेनचाप्यवमानितः । भवन्तंसर्वभूतानांशरण्यंशरणागतः ।।6.19.4।। Yuddha Kanda,19,5,परित्यक्तामयालङ्कमित्राणिचधनानिच । भवद्गतंहिमेराज्यंजीवितंचसुखानिच ।।6.19.5।। Yuddha Kanda,19,6,तथ्यतद्वचनंश्रुत्वारामोवचनमब्रवीत् ।।6.19.6।। Yuddha Kanda,19,7,वचसासान्त्वयित्वैनंलोचनाभ्यांपिबन्निव । आख्याहिममतत्त्वेनराक्षसानांबलाबलम् ।।6.19.7।। Yuddha Kanda,19,8,एवमुक्तंतदारक्षोरामेणाक्लिष्टकर्मणा । रावणस्यबलंसर्वमाख्यातुमुपचक्रमे ।।6.19.8।। Yuddha Kanda,19,9,अवध्यस्सर्वभूतानांगन्धर्वोरगरक्षसाम् । राजपुत्रदशग्रीवोवरदानात्स्वयंभुवः ।।6.19.9।। Yuddha Kanda,19,10,रावणानन्तरोभ्राताममज्येष्ठश्चवीर्यवान् । कुम्भकर्णोमहातेजाश्शक्रप्रतिबलोयुधि ।।6.19.10।। Yuddha Kanda,19,11,रामसेनापतिस्तस्यप्रहास्तोयदिवाश्रुतः । कैलासेयेनसङ्ग्रामेमणिभद्रःपराजितः ।।6.19.11।। Yuddha Kanda,19,12,बद्धगोधाङ्गुळित्रश्चअवध्यकवचोयुधि । धनुरादाययस्तिष्टन्नदृश्योभवतीन्द्रजित् ।।6.19.12।। Yuddha Kanda,19,13,सङ्ग्रामसमयव्यूहेतर्पयित्वाहुताशनम् । अन्तर्धानगतश्शत्रूनिन्द्रजिद् हन्तिराघव:।। 6.19.13।। Yuddha Kanda,19,14,महोदरमहापार्श्वौराक्षसश्चाप्यकम्पनः । अनीकस्थास्तुतस्यैतेलोकपालसमायुधि ।।6.19.14।। Yuddha Kanda,19,15,दशकोटिसहस्राणिरक्षसांकामरूपिणाम् । मांसशोणितभक्ष्याणांलङ्कापुरनिवासिनाम् ।।6.19.15।। Yuddha Kanda,19,16,सतैस्तुसहितोराजालोकपालानयोधयत् । सहदेवैस्तुतेभग्नारावणेनमहात्मना ।।6.19.16।। Yuddha Kanda,19,17,विभीषणवच: श्रुत्वारामोदृढपराक्रमः । अन्वीक्ष्यमनसासर्वमिदंवचनमब्रवीत् ।।6.19.17।। Yuddha Kanda,19,18,यानिकर्मापदानानिरावणस्यविभीषण: । अख्यातानिचतत्त्वेनह्यवगच्छामितान्यहम् ।।6.19.18।। Yuddha Kanda,19,19,अहंहत्वादशग्रीवंसप्रहस्तंसबान्धवम् । राजानंत्वांकरिष्यामिसत्यमेतद्ब्रवीमिते ।।6.19.19।। Yuddha Kanda,19,20,रसातलंवाप्रविशेत्पाताळंवापिरावणः । पितामहासकाशंवानमेजीवन्विमोक्ष्यते ।।6.19.20।। Yuddha Kanda,19,21,अहत्वारावणंसङ् ख्येसपुत्रजनबान्धवम् । अयोध्यांनप्रवेक्ष्यामित्रिभिस्तैर्भ्रातृभिश्शपे ।।6.19.21।। Yuddha Kanda,19,22,श्रुत्वातुवचनंतस्यरामस्याक्लिष्टकर्मणः । शिरसावन्द्यधर्मात्मावक्तुमेवोपचक्रमे ।।6.19.22।। Yuddha Kanda,19,23,राक्षसानांवधेसाह्यंलङ्कायाश्चप्रधर्षणे । करिष्यामियथाप्राणंप्रवेक्ष्यामिचवाहिनीम् ।।6.19.23।। Yuddha Kanda,19,24,इतिब्रुवाणांरामस्तुपरिष्वज्यविभीषणम् । अब्रवील्लक्ष्मणंप्रीतस्समुद्राज्जलमानय ।।6.19.24।। Yuddha Kanda,19,25,तेनचेमंमहाप्राज्ञमभिषिञ्चविभीषणम् । राजानंरक्षसांक्षिप्रंप्रसन्नेमयिमानद ।।6.19.25।। Yuddha Kanda,19,26,एवमुक्तस्तुसौमित्रिरभ्यषिञ्चद्विभीषणम् । मध्येवानरमुख्यानांराजानंरामशासनात् ।।6.19.26।। Yuddha Kanda,19,27,तंप्रसादंतुरामस्यदृष्टवासद्यःप्लवङ्गमाः । प्रचुक्रुशुर्महात्मानंसाधुसाध्वितिचाब्रुवन् ।।6.19.27।। Yuddha Kanda,19,28,अथाब्रवीद् हनूमांश्चसुग्रीवश्चविभीषणम् । कथंसागरमक्षोभ्यंतरामवरुणालयम् ।।6.19.28।। सैन्यैःपरिवृतास्सर्वेवानराणांमहौजसाम् । Yuddha Kanda,19,29,उपायंनाधिगच्छामोयथानदनदीपतिम् । तरामतरसासर्वेससैन्यावरुणालयम् ।।6.19.29।। Yuddha Kanda,19,30,एवमुक्तस्तुधर्मज्ञःप्रत्युवाचविभीषणः । समुद्रंराघवोराजाशरणंगन्तुमर्हति ।।6.19.30।। Yuddha Kanda,19,31,खानितस्सगरेणायमप्रमेयोमहोदधिः । कर्तुमर्हतिरामस्यज्ञाते: कार्यंमहामतिः ।।6.19.31।। Yuddha Kanda,19,32,एवंविभीषणेनोक्तोराक्षसेनविपश्चिता । अजगामाथसुग्रीवोयत्ररामस्सलक्ष्मणः ।।6.19.32।। Yuddha Kanda,19,33,ततश्चाख्यातुमारेभेविभीषणवचश्शुभम् । सुग्रीवोविपुलग्रीवोस्सागरस्योपवेशनम् ।।6.19.33।। Yuddha Kanda,19,34,प्रकृत्याधर्मशीलस्यराघवस्याप्यरोचत ।।6.19.34।। Yuddha Kanda,19,35,सलक्ष्मणंमहातेजास्सुग्रीवंचहरीश्वरम् । सत्क्रियार्थंक्रियादक्षंस्मितपूर्वमुवाचह ।।6.29.35।। Yuddha Kanda,19,36,विभीषणस्यमन्त्रोऽयंममलक्ष्मण रोचते । सुग्रीवःपण्डितोनित्यंभवान्मन्त्रविचक्षणः ।।6.19.36।। उभाभ्यांसम्प्रधार्यार्थंरोचतेयत्तदुच्यताम् । Yuddha Kanda,19,37,एवमुक्तौततोवीरावुभौसुग्रीवलक्ष्मणौ । समुदाचारसंयुक्तमिदंवचनमूचतुः ।।6.19.37।। Yuddha Kanda,19,38,किमर्थनौनरव्याघ्र: नरोचिष्यतिराघव: । विभीषणेनयच्चोक्तमस्मिन् कालेसुखावहम् ।।6.19.38।। Yuddha Kanda,19,39,अबध्वासागरेसेतुंघोरेऽस्मिन्वरुणालये । लङ्कानासादितुंशक्यासेन्द्रैरपिसुरासुरैः ।।6.19.39।। Yuddha Kanda,19,40,विभीषणस्यशूरस्ययथार्थंक्रियतांवचः ।।6.19.40।। Yuddha Kanda,19,41,अलंकालात्ययंकृत्वासागरोऽयंनियुज्यताम् । यथासैन्येनगच्छामपुरींरावणपालिताम् ।।6.19.41।। Yuddha Kanda,19,42,एवमुक्तःकुशास्तीर्नोतीरेनदनदीपतेः । संविवेशतदारामोवेद्यामिवहुताशनः ।।6.19.42।। Yuddha Kanda,20,1,ततोनिविष्टांध्वजिनींसुग्रीवेणाभिपालिताम् । ददर्शराक्षसोऽभ्येत्यशार्दूलोनामवीर्यवान् ।।6.20.1।। Yuddha Kanda,20,2,चारोराक्षसराजस्यरावणस्यदुरात्मनः । तांदृष्ट्वासर्वतोव्यग्रंप्रतिगम्यसराक्षसः ।।6.20.2।। प्रविश्यलङ्कांवेगेनरावणंवाक्यमब्रवीत् । Yuddha Kanda,20,3,एषवानरऋक्षौघोलङ्कांसमभिवर्तते । अगाधश्चाप्रमेयश्चद्वितीयइवसागरः ।।6.20.3।। Yuddha Kanda,20,4,पुत्रौदशरथस्येमौभ्रातरौरामलक्ष्मणौ ।।6.20.4।। Yuddha Kanda,20,5,उत्तमौरूपसम्पन्नौसीतायाःपदमागतौ । एतौसागरमासाद्यसन्निविष्टौमहाद्युती ।।6.20.5।। Yuddha Kanda,20,6,बलंचामाकाशमावृत्यसर्वतोदशयोजनम् । तत्त्वभूतंमहाराज क्षिप्रंवेदितुमर्हसि ।।6.20.6।। Yuddha Kanda,20,7,तवदूतामहाराजक्षिप्रमर्हन्त्यवेक्षितुम् । उपप्रदानंसान्त्वंवाभेदोवात्रप्रयुज्यताम् ।।6.20.7।। Yuddha Kanda,20,8,शार्दूलस्यवचश्श्रुत्वारावणोराक्षसेश्वरः । उवाचसहसाव्यग्रस्सम्प्रधार्यार्थमात्मनः ।।6.20.8।। शुकंनामतदारक्षोवाक्यमर्थविदांवरम् । Yuddha Kanda,20,9,सुग्रीवंब्रूहिगत्वाशुराजानंवचनान्मम । यथासन्देशमक्लीबंश्लक्ष्णयापरयागिरा ।।6.20.9।। Yuddha Kanda,20,10,त्वंवैमहाराजकुलप्रसूतोमहाबलश्चर् क्षरजस्सुतश्च । नकश्चिदार्थस्तवनास्त्यनर्थस्तथाहिमेभ्रातृसमोहरीश ।।6.20.10।। Yuddha Kanda,20,11,अहंयद्यहरंभार्यांराजपुत्रस्यधीमतः । किंतत्रतवसुग्रीव: किष्किन्धांप्रतिगम्यताम् ।।6.20.11।। Yuddha Kanda,20,12,नहीयंहरिभिर्लङ्काशक्याप्राप्तुंकथञ्चन । देवैरपिसगन्धर्वैःकिंपुनर्नरवानरैः ।।6.20.12।। Yuddha Kanda,20,13,सतथाराक्षसेन्द्रेणसन्दिष्टोरजनीचरः । शुकोविहङ्गमोभूत्वातूर्णमाप्लुत्यचाम्बरम् ।।6.20.13।। Yuddha Kanda,20,14,सगत्वादूरमध्वानमुपर्युपरिसागरम् । संस्थितोह्यम्बरेवाक्यंसुग्रीवमिदमब्रवीत् ।।6.20.14।। Yuddha Kanda,20,15,सर्वमुक्तंयथादिष्टंरावणेनदुरात्मना । तंप्रापयन्तंवचनंतूर्णमाप्लुत्यवानराः ।।6.20.15।। प्रापद्यन्तदिवंक्षिप्रंलोप्तुंहन्तुंचमुष्टिभि: । Yuddha Kanda,20,16,सतैःप्लवङ्गैःप्रसभंनिगृहीतोनिशाचरः । गगनाद्भूतलेचाशुपरिगृह्यनिपातितः ।।6.20.16।। Yuddha Kanda,20,17,वानरैःपीड्यमानस्तुशुकोवचनमब्रवीत् । नदूतान्घ्नन्तिकाकुत्स्थ वार्यन्तांसाधुवानराः ।।6.20.17।। Yuddha Kanda,20,18,यस्तुहित्वामतंभर्तुस्स्वमतंसम्प्रभाषते । अनुक्तवादीदूतस्सन् सदूतोवधमर्हति ।।6.20.18।। Yuddha Kanda,20,19,शुकस्यवचनंश्रुत्वारामस्तुपरिदेवितम् । उवाचमावधिष्टेतिघ्नतश्शाखामृगर्षभान् ।।6.20.19।। Yuddha Kanda,20,20,सचपत्रलघुर्भूत्वाहरिभिर्दर्शितेभये । अन्तरिक्षेस्थितोभूत्वापुनर्वचनमब्रवीत् ।।6.20.20।। Yuddha Kanda,20,21,सुग्रीव:स त्त्वसम्पन्न: महाबलपराक्रम: । किंमयाखलुवक्तव्योरावणोलोकरावणः ।।6.20.21।। Yuddha Kanda,20,22,सएवमुक्तःप्लवगाधिपस्तदाप्लवङ्गमानामृषभोमहाबलः । उवाचवाक्यंरजनीचरस्यचारंशुकंतूर्णमदीनसत्त्वः ।।6.20.22।। Yuddha Kanda,20,23,नमेऽसिमित्रंनतथानुकम्प्योनचोपकर्तापिनमेप्रियोऽसि । अरिश्चरामस्यसहानुबन्धस्ततोऽसिवालीववधार्हवध्यः ।।6.20.23।। Yuddha Kanda,20,24,निह्नन्म्यहंत्वांससुतंसबन्धुंसज्ञातिवर्गरजनीचरेश । लङ्काञ्चसर्वांमहताबलेनक्षिप्रंकरिष्यामिसमेत्यभस्म ।।6.20.24।। Yuddha Kanda,20,25,नमोक्षयसेरावण: राघवस्यसुरैस्सहेन्द्रैदपिमूढगुप्तः । अन्तर्हितस्सूर्यपथंगतोऽवा ।तथैवपातालमनुप्रविष्टः ।।6.20.25।। Yuddha Kanda,20,26,गिरीशपादम्बुजसङ्गतोवाहतोऽसिरामेणसहानुजस्त्वम् ।।6.20.26।। Yuddha Kanda,20,27,तस्यतेत्रिषुलोकेषुनपिशाचंनराक्षसम् । त्रातारमनुपश्यामिनगन्धर्वंनचासुरम् ।।6.20.27।। Yuddha Kanda,20,28,अवधीर्यजरावृद्दंगृध्रराजंजटायुषम् । किंनुतेरामसान्निध्येसकाशेलक्ष्मणस्यवा ।।6.20.28।। हृतासीताविशालाक्षीयांत्वंगृह्यनबुध्यसे । Yuddha Kanda,20,29,महाबलंमहात्मानंदुर्धर्षममरैरपि । नबुध्यसेरघुश्रेष्ठंयस्तेप्राणान्हरिष्यति ।।6.20.29।। Yuddha Kanda,20,30,ततोऽब्रवीद्वालिसुतस्त्वङ्गदोहरिसत्तमः । नायंदूतोमहाराजचारिकःप्रतिभातिमे ।।6.20.30।। Yuddha Kanda,20,31,तुलितंहिबलंसर्वमनेनात्रैवतिष्ठता । गृह्यतांमागमल्लङ्कामेतद्दिममरोचते ।।6.20.31।। Yuddha Kanda,20,32,ततोराज्ञासमादिष्टास्समुत्पत्यवलीमुखाः । जगृहुश्चबबन्धुश्चविलपन्तमनाथवत् ।।6.20.32।। Yuddha Kanda,20,33,शुकस्तुवानरैश्चण्डैस्तत्रतैस्सम्प्रपीडितः । व्याचुक्रोशमहात्मानंरामंदशरथात्मजम् ।।6.20.33।। Yuddha Kanda,20,34,लुप्येतेमेबलात्पक्षौभिद्येतेमेतथाऽक्षिणी ।।6.20.34।। Yuddha Kanda,20,35,यांचरात्रिंमरिष्यामिजायेरात्रिंचयामहम् । एतस्मिन्नन्तरेकालेयन्मयाह्यशुभंकृतम् ।।6.20.35।। सर्वंत्वमुपपद्येधाजह्यांचेद्यदिजीवितम् । Yuddha Kanda,20,36,नाघातयत्तदारामश्श्रुत्वातत्परिदेवनम् । वानरानब्रवीद्रामोमुच्यतांदूतआगतः ।।6.20.36।। Yuddha Kanda,21,1,ततस्सागरवेलायांदर्भानास्तीर्यराघवः । अञ्जलिंप्राङ्मुखःकृत्वाप्रतिशिश्येमहोदधेः ।।6.21.1।। बाहुंभुजगभोगाभमुपधायारिसूदनः । Yuddha Kanda,21,2,वरकाञ्चनकेयूरमुक्ताप्रवरभूषणैः ।।6.21.2।। Yuddha Kanda,21,3,भुजैःपरमनारीणामभिमृष्टमनेकदा ।।6.21.3।। Yuddha Kanda,21,4,चन्दनागुरुभिश्चैवपुरस्तादधिवासितम् । बालसूर्यप्रकाशैश्चन्दनैरुपशोभितम् ।।6.21.4।। Yuddha Kanda,21,5,शयनेचोत्तमाङ्गेनसीतायाश्शोभितंपुरा । तक्षकस्येवसम्भोगगङ्गाजलनिषेचितम् ।।6.21.5।। Yuddha Kanda,21,6,संयुगेयुगसङ्काशंशत्रूणांशोकवर्धनम् । सुहृदानन्दनंदीर्घंसागरान्तव्यपाश्रयम् ।।6.21.6।। Yuddha Kanda,21,7,असत्याचपुनस्सव्यंज्याघातविगतत्वचम् । दक्षिणोदक्षिणंबाहुंमहापरिघसन्निभम् ।।6.21.7।। Yuddha Kanda,21,8,गोसहस्रप्रदारंमुपधायमहत्भुजम् । अद्यमेमरणंवादतरणंसागरस्यवा ।।6.21.8।। Yuddha Kanda,21,9,तिरामोमतिंकृत्वामहाबाहुर्महोदधिम् । अधिशिश्येचविधिवत्प्रयतोनियतोमुनिः ।।6.21.9।। Yuddha Kanda,21,10,तस्यरामस्यसुप्तस्यकुशास्तीर्णेमहीतले । नियमादप्रमत्तस्यनिशास्तिस्रोऽतिचक्रमुः ।।6.21.10।। Yuddha Kanda,21,11,सत्रिरात्रोषितस्तत्रनयज्ञोधर्मवत्सलः । उपासततदारामस्सागरंसरितांपतिम् ।।6.21.11।। Yuddha Kanda,21,12,नचदर्शयतेरूपंमन्दोरामस्यसागरः । प्रयतेनापिरामेणयथार्हमभिपूजितः ।।6.21.12।। Yuddha Kanda,21,13,समुद्रस्यततःक्रुद्धोरामोरक्तान्तलोचनः । समीपस्थमुवाचेदंलक्ष्मणंशुभलक्ष्मणम् ।।6.21.13।। Yuddha Kanda,21,14,अवलेपस्समुद्रस्यनदर्शयतियत्स्वयम् । प्रशमश्चक्षमाचैवआर्जवंप्रियवादिता ।।6.21.14।। असामर्थ्यंफल्नात्येतेनिर्गुणेषुसतांगुणाः । Yuddha Kanda,21,15,आत्मप्रशंसिनंदृष्टंधृष्टंविपरिथावकम् । सर्वत्रोत्सृष्टदण्डंचलोकस्सत्कुरुतेनरम् ।।6.21.15।। Yuddha Kanda,21,16,नसाम्नाशक्यतेकीर्तिर्नसाम्नाशक्यतेयशः । प्राप्तुंलक्ष्मण लोकेऽस्मिन् ञ्जयोवारणमूर्धनि ।।6.21.16।। Yuddha Kanda,21,17,अद्यमद्बाणनिर्भग्नैर्मकरैर्मकरानिलयम् । निरुद्धतोयंसौमित्रेप्लवभदिःपश्यसर्वतः ।।6.21.17।। Yuddha Kanda,21,18,महाभोगानिमत्स्यानांकरिणांचकराह । भोगिनांपश्यनागानांमयाछिन्नानिलक्ष्मण ।।6.21.18।। Yuddha Kanda,21,19,सशङ्खशुक्तिजालंसमीनमकरंतथा । अद्ययुद्धेनमहतासमुद्रंपरिशोषये ।।6.21.19।। Yuddha Kanda,21,20,क्षमयाहिसमायुक्तंमामयंमकरालयः । असमर्थंविजानातिधिक् क्षमामीदृशेजने ।।6.21.20।। Yuddha Kanda,21,21,नदर्शयतिसाम्नामेसागरोरूपमात्मनः ।।6.21.21।। Yuddha Kanda,21,22,चापमानयसौमित्रेशरांश्चाशीविषोपमान् । सागरंशोषयिष्यामिपद् भ्यांयान्तुप्लवङ्गमाः ।।6.21.22।। Yuddha Kanda,21,23,अद्याक्षोभ्यमपिक्रुद्धःक्षोभयिष्यामिसागरम् । वेलासुकृतमर्यादंसहस्रोर्मिसमाकुलम् ।।6.21.23।। Yuddha Kanda,21,24,निर्मर्यादंकरिष्यामिसायायिकैर्वरुणालयम् । महार्णवंक्षोभयिष्येमहादानवसङ्कुलम् ।।6.21.24।। Yuddha Kanda,21,25,एवमुक्त्वाधनुष्पाणिःक्रोधविस्फारितेक्षणः । बभूवरामोदुर्धर्षोयुगान्तानगिरिवज्वलन् ।।6.21.25।। Yuddha Kanda,21,26,सम्पीड्यचधनुर्घोरंकम्पयित्वाशरैर्जगत् । मुमोचविशिखानुग्रान्वज्रानिवशतक्रतुः ।।6.21.26।। Yuddha Kanda,21,27,तेज्वलन्तोमहावेगास्तेजसासायकोत्तमाः । प्रविशन्तिसमुद्रस्यसलिलंत्रस्तपन्नगम् ।।6.21.27।। Yuddha Kanda,21,28,तोयवेगस्समुद्रस्यसनक्रमकरोमहान् । सम्बभूवमहाघोरस्समारुतरवस्तदा ।।6.21.28।। Yuddha Kanda,21,29,महोर्मिकुलाविततश्शङ्खजालसमावृतः । सधूमःपरिवृत्तोर्मिस्सहसासीन्महोदधिः ।।6.21.29।। Yuddha Kanda,21,30,व्यथिताःपन्नगाश्चासदनीप्तास्यादीप्तलोचनाः । दानवाश्चमहावीर्याःपाताळतलवासिनः ।।6.21.30।। Yuddha Kanda,21,31,ऊर्मयस्सिन्धुराजस्यसनक्रमकरास्तथा । विन्द्यमन्दरसङ्काशास्समुत्पेतुस्सहस्रशः ।।6.21.31।। Yuddha Kanda,21,32,आघूर्णिततरङ्गौघस्सम्भ्रान्तोरगराक्षसः । उद्वर्तितमहाग्राहस्संवृत्तस्सलिलाशयः ।।6.21.32।। Yuddha Kanda,21,33,ततस्तुतंराघवमुग्रवेगंप्रकर्षमाणंधनुरप्रमेयम् । सौमित्रिरुत्पत्यसमुच्छवसन्तंमामेतिचोक्त्वादनुराललम्बे ।।6.21.33।। Yuddha Kanda,22,1,अथोवाचरघुश्रेष्टस्सागरंदारुणंवचः । अद्यत्वांशोषयिष्यामिसपाताळंमहार्णव: ।।6.22.1।। Yuddha Kanda,22,2,शरनिर्दग्धतोयस्यपरिशुष्कस्यसागर: । मयाशोषितसत्त्वस्यपांसुरुत्पद्यतेमहान् ।।6.22.2।। Yuddha Kanda,22,3,मत्कार्मुकविसृष्टेवशरवर्षेणसागर । पारंतेऽद्यगमिष्यन्तिपदभिरेवप्लवङ्गमाः ।।6.22.3।। Yuddha Kanda,22,4,विचिन्वन्नाभिजानासिपौरुषंनापिविक्रमम् । दानवालयसन्तापंमत्तोनाधिगमिष्यसि ।।6.22.4।। Yuddha Kanda,22,5,ब्राह्मेणास्त्रेणसंयोज्यब्रह्मदण्डनिभम् शरम् । संयोज्यधनुषिश्रेष्ठविचकर्षमहाबलः ।।6.22.5।। Yuddha Kanda,22,6,तस्मिन्विविकृष्टेसहसाराघवेणशरासने । रोदसीसम्पफालेवपर्वताश्चचकम्पिरे ।।6.22.6।। Yuddha Kanda,22,7,तमश्चलोकमाव्रतेदिशश्चवचकाशिरे । प्रतिचुक्षुभिरेचाशुसरांसिसरितस्तथा ।।6.22.7।। Yuddha Kanda,22,8,तिर्यक्चसहानेक्षत्रैस्सङ्गतौचन्द्रभास्करौ । भास्करांशुभिरादीप्तंतमसाचसमावृतम् ।।6.22.8।। Yuddha Kanda,22,9,चकाशेतदाकाशमुल्काशतविदीपितम् । अन्तरिक्षाच्चनिर्घातानिर्जग्मुरतुलस्वनाः ।।6.22.9।। Yuddha Kanda,22,10,वपुस्फुरुश्चघनादिव्यादिविमारुतपङ् ख्कयः । बभञ्जचतदावृक्षान्जलदानुद्वहन्नपिः ।।6.22.10।। Yuddha Kanda,22,11,अरुजंश्चैनशैलाग्राशनिखराणिबभञ्जनः । दिविस्पृशोमहमेघास्सङ्गतास्समहास्वनाः ।।6.22.11।। मुमुचुर्वैद्युताननगींस्तेमहाशनयस्तदा । Yuddha Kanda,22,12,यानिभूतानिदृश्यानिचुक्रुशुश्चाशनेसमम् ।।6.22.12।। Yuddha Kanda,22,13,अदृश्यानिचभूतानिमुमुचुर्भैरवस्वनम् । शिशियरेचाभिभूतानिसन्त्रस्ताम्यद्विजन्तिच ।।6.22.13।। सम्प्रविव्यथिरेचापिवचपस्पन्दिरेभयात् । Yuddha Kanda,22,14,सहाभूतैस्सतोयोर्मिस्सनागस्सहराक्षसः ।।6.22.14।। Yuddha Kanda,22,15,सहसाऽभूत्ततोवेगाबदीमवेगोमहोदधिः । योजनंव्यतिचक्रामवेलामन्यत्रसम्ल्पवात् ।।6.22.15।। Yuddha Kanda,22,16,तंतदासमतिक्रान्तंनातिचक्रामराघवः । समुद्धतममित्रघ्नोरामोनदनदीपतिम् ।।6.22.16।। Yuddha Kanda,22,17,ततोमथ्यात्समुद्रस्यसागरस्स्वयमुत्थितः । उदयन् हिमहाशैलान्मेरोरिवदिवाकरः ।।6.22.17।। Yuddha Kanda,22,18,पन्नगैस्सहदीप्तास्यैस्समुद्रःप्रत्यदृश्यत । स्निग्धवैढूर्यसङ्काशोजाम्बूनदविभूषणः ।।6.22.18।। Yuddha Kanda,22,19,रक्तमाल्याम्बरधरःपद्मपत्रनिभेक्षणः । सर्वपुष्पमयींदिव्यांशिरसाधारयन् स्रजम् ।।6.22.19।। Yuddha Kanda,22,20,जातरूपमयैश्चैवतपनीयविभूषितैः । आत्मजानांचरत्नानांभूषितोभूषणोत्तमैः ।।6.22.20।। Yuddha Kanda,22,21,धातुभिर्मण्डितश्शैलोविविधैर्हिमवानिव । एकावलीमध्यगतंतरलंपाटलप्रभम् ।।6.22.21।। Yuddha Kanda,22,22,विपुलेनोरसा बिभ्रत्कौस्तुभस्य सहोदरम् । अघूर्णिततरङ्गौघःकालिकानिलसङ्गुलः ।।6.22.22।। Yuddha Kanda,22,23,गङ्गासिन्दुप्रधाननाभिरापगाभिस्समावृतः । देवतानांसरूपाभिर्नानारूपाभिरीश्वरः ।।6.22.23।। Yuddha Kanda,22,24,सागरस्समुपक्रम्यपूर्वमाम्नत्यरवीर्यवान् । अब्रवीत्प्राञ्जलिर्वाक्यंराघवंशरपाणिनम् ।।6.22.24।। Yuddha Kanda,22,25,पृथिवीवायुराकाशमापोज्योतिश्चराघव: । स्वभावेसौम्य तिष्ठन्तिशाश्वतंमार्गमाश्रिताः ।।6.22.25।। Yuddha Kanda,22,26,तत्स्वभावोममाप्येषयदगाधोऽहमप्लवः । विकारस्तुभवेद्गाधएतत्तेप्रवदाम्यहम् ।।6.22.26।। Yuddha Kanda,22,27,नकामान्नचलोभाद्वानभयातत्सापार्थिवात्मज: । ग्राहनकाकुलजलंस्तम्बयेयंकथञ्जन ।।6.22.27।। Yuddha Kanda,22,28,विधास्येराम: येनापिविषहिष्येह्यहंतथा । नग्राहाप्रहरिष्यन्तियावत्सेनातरिष्यति ।।6.22.28।। हरीणांतरणेरामकरिष्यामियथास्थलम् । Yuddha Kanda,22,29,तमब्रवीत्तदारामःउद्यतोहिनदीपते । अमोघोऽयंमहाबाणःकस्मिन् देशेनिपात्यताम् ।।6.22.29।। Yuddha Kanda,22,30,रामस्यवचनंश्रुत्वातंचदृष्टवामहाशरम् । महोदधिर्महातेजाराघवंवाक्यमब्रवीत् ।।6.22.30।। Yuddha Kanda,22,31,उत्तरेणावकाशोऽस्तिकश्चित्पुण्यतमोमम । द्रुमकुल्यइतिख्यातोलोकेयथाभवान् ।।6.22.31।। Yuddha Kanda,22,32,उग्रदर्शनकर्माणोबहवस्तत्रदस्यवः । आभीरप्रमुखाःपापाःपिबन्तिसलिलंमम ।।6.22.32।। Yuddha Kanda,22,33,तैस्तुसंस्पर्शनंपापैर्नसहेपापकर्मभिः । अमोघःक्रियतांराम: तत्रतेषुशरोत्तमः ।।6.22.33।। Yuddha Kanda,22,34,तस्यतद्वचनंश्रुत्वासागरस्यराघवः । मुमोचतंशरंदीप्तंवीरस्सागरदर्शनात् ।।6.22.34।। Yuddha Kanda,22,35,तेनतन्मरुकान्तारंपृथिव्याखलुविश्रुतम् । निपातितश्शरोयत्रवज्राशनिसमप्रभः ।।6.22.35।। Yuddha Kanda,22,36,ननादचतदातत्रवसुधाशल्यपीडिता । तस्माद्ब्राणमुखात्तोयमुत्पपातरसातलात् ।।6.22.36।। Yuddha Kanda,22,37,सबभूवतदाकूपोव्रणइत्येभिविश्रुतः । सततंचोत्थितंतोयंसमुद्रस्येनदृश्यते ।।6.22.37।। Yuddha Kanda,22,38,अवधारणशब्दश्चदारुणस्समपद्यत । तस्मात्तद्बाणनिपातेनत्वपःकुक्षिष्वशोषयत् ।।6.22.38।। Yuddha Kanda,22,39,विख्यातंत्रिषुलोकेषुमधुकान्तारमेवतत् ।।6.22.39।। Yuddha Kanda,22,40,मोक्षयित्वाततःकुक्षिंरामोदशरथात्मजः । वरंतस्मैददौविद्वान्मरवेऽमरविक्रमः ।।6.22.40।। Yuddha Kanda,22,41,पशव्यश्चाल्परोगश्चफलमूलरसायुतः । बहुस्नेहोबहुक्षीरस्सुगधनिर्विविधौषधः ।।6.22.41।। Yuddha Kanda,22,42,एवमेतैर्गुणैरुक्तोबहुभिस्संयुतोमरुः । रामस्यवरदानाच्चशिवःपन्थाबभूवह ।।6.22.42।। Yuddha Kanda,22,43,तस्मिन् दग्धेतदाकुक्षौसमुद्रस्सरितांपतिः । राघवंसर्वशास्त्रज्ञमिदंवचनमब्रवीत् ।।6.22.43।। Yuddha Kanda,22,44,अयंसौम्य: नलोनामतनयोविश्वकर्मणः । पित्रादत्तवरशीमान्प्रतिमोविश्वकर्मणाः ।।6.22.44।। Yuddha Kanda,22,45,एषसेतुंमहोत्साहःकरोतुमयिवानरः । तमहंधारयिष्यामियथाह्येषपितातथा ।।6.22.45।। Yuddha Kanda,22,46,एवमुक्त्वोदधिर्नष्टस्समुत्थायनलस्तदा । अब्रवीद्वानरश्रेष्ठोवाक्यंरामंमहाबलः ।।6.22.46।। Yuddha Kanda,22,47,अहंसेतुंकरिष्यामिविस्तीर्णेवरुणालये । पितुस्सामर्थ्यमास्थायतत्त्वमहामहोदधिः ।।6.22.47।। Yuddha Kanda,22,48,अयंहिसागरोभीमस्सेतुकर्मदिदृक्ष्याः । ददौदण्डभयाद्गाधंराघवायमहोदधिः ।।6.22.48।। Yuddha Kanda,22,49,मममातुर्वरोदत्तोमन्दरेविश्वकर्मणा । औरसस्तस्यपुत्रोऽहंसदृशोविश्वकर्मणा ।।6.22.49।। Yuddha Kanda,22,50,नचाप्यहमनुक्तोवःप्रब्रूयामात्मनोगुणान् । समर्थश्चाप्यहंसेतुंकर्तुंवैवरुणालये ।।6.22.50।। Yuddha Kanda,22,51,स्मारितोऽस्म्यहमेतेनतत्त्वमहामहोदधिः । काममद्वैवबध्नन्तुसेतुंवानरपुङ्गवाः ।।6.22.51।। Yuddha Kanda,22,52,ततोविसृष्टारामेणसर्वतोहरियूथपाः । अभिपेतुर्महारण्यंहृष्टाश्शतसहस्रशः ।।6.22.52।। Yuddha Kanda,22,53,तेनगान्नगसङ्काशाश्शाखामृगगणर्षभाः । बभञ्जुःवानरास्तत्रप्रचकर्षुश्चसागरम् ।।6.22.53।। Yuddha Kanda,22,54,तेसालैश्चाश्वकर्णैश्चधवैशैश्चवानराः । कुटजैरर्जुनैस्तालैस्तिलकैस्न्तिशैरपि ।।6.22.54।। Yuddha Kanda,22,55,बिल्वकैस्सप्तपर्णैश्चकर्णिकारैश्चसुपुष्पितैः । चूतैश्चाशोकवृक्षैश्चसागरंसमपूरयन् ।।6.22.55।। Yuddha Kanda,22,56,समूलांश्चविमूलांश्चपादपान् हरिसत्तमाः । इन्द्रकेतूनिवोद्यम्यप्रजह्रूर्वानरास्तरून् ।।6.22.56।। Yuddha Kanda,22,57,ताळानदाडिमगुल्मांश्चनारिकेळन्विभीतकान् । वकुलान्कदिरान्निम्बान्समाजह्रुस्समन्ततः ।।6.22.57।। Yuddha Kanda,22,58,हस्तिमतान्महाकायाःपाषाणांश्चमहाबलाः । पर्वतांश्चसमुत्पाट्ययन्स्सरैःपरिवहन्तिच ।।6.22.58।। Yuddha Kanda,22,59,प्रक्षिप्यमाणैरचलैस्सहसाजलमुद्दृतम् । समुत्ससर्पआकाशमवासर्पत्ततस्ततः ।।6.22.59।। Yuddha Kanda,22,60,समुद्रंक्षोभयामासुर्वानराश्चस्समन्ततः । सूत्राण्यन्येप्रगृह्णान्तिव्यायतंशतयोजनम् ।।6.22.60।। Yuddha Kanda,22,61,नलश्चक्रेमहासेतुंमध्येनदनदीपतेः । सतदाक्रियतेसेतुर्वानरैर्घोरकर्मभिः ।।6.22.61।। Yuddha Kanda,22,62,दण्डानन्येप्रगृह्णन्तिविचिन्वन्तितथापरे ।।6.22.62।। Yuddha Kanda,22,63,वानरैश्शतशस्तत्ररामस्याज्ञापुरस्सराः । मेघाभैःपर्वताग्रैश्चतृणैःकाष्ठैर्बबन्धिरे ।।6.22.63।। Yuddha Kanda,22,64,पुष्पिताग्रैश्चतरुभिस्सेतुंबध्नन्तिवानराः । पाषाणांश्चगिरिप्रख्यागनिरीणांशिखराणिच ।।6.22.64।। दृश्यन्तेपरिधावन्तोगृह्यदानवसन्निभाः । Yuddha Kanda,22,65,शिलानांक्षिप्यमाणानांशैलानांनिपात्यताम् । बभूवतुमुलश्शब्दस्तदातस्मिन्महोदधौ ।।6.22.65।। Yuddha Kanda,22,66,कृतानिप्रथमेनाह्नायोजनानिचतुर्दश । प्रहृष्टैर्गजसङ्काश्चैस्त्वरमाणैःप्लवङ्गमैः ।।6.22.66।। Yuddha Kanda,22,67,द्वितीयेनतथैचाह्नायोजनानितुविंशतिः । कृतानिप्लवगैस्तूर्णंभीमकायैर्महाबलैः ।।6.22.67।। Yuddha Kanda,22,68,अह्नातृतयेनतथायोजनानिकृतानिच । त्वरमाणैर्महाकायैरेकविंशतिरेवच ।।6.22.68।। Yuddha Kanda,22,69,चतुर्थेनतथाचाह्नाद्वाविंशतिरथासिवा । योजनानिमहावेगैःकृतानित्वरितस्तुतैः ।।6.22.69।। Yuddha Kanda,22,70,पञ्चमेनतथाचाह्नाप्लवगैःक्षिप्रकारिभिः । योजनानित्रयोविंशत्सुवेलमधिकृत्यवै ।।6.22.70।। Yuddha Kanda,22,71,सवानरवरश्रशीमान्विश्वकर्मात्माजोबली । बबन्धसागरेसेतुंयथाचाप्यतथापिता ।।6.22.71।। Yuddha Kanda,22,72,सनलेनकृतस्सेतुस्सागरेमकरालये । शुशुभेसुभगश्रशीमान् स्वातीपथइवाम्बरे ।।6.22.72।। Yuddha Kanda,22,73,ततोदेवस्सगन्धर्वास्सिद्दाश्चपरमर्षयः । आगम्यगगनेतस्थुर्द्रष्टुकामास्तदद्बुतम् ।।6.22.73।। Yuddha Kanda,22,74,दशयोजनविस्तीर्णंशतयोजनमायतम् । ददृशुर्देवगन्धर्वानलसेतुंसुदुष्करम् ।।6.22.74।। Yuddha Kanda,22,75,आप्लवन्तःप्लवन्तश्चगर्जन्तश्चप्लवङ्गमाः ।।6.22.75।। तदच्नित्यमसह्यंचह्यद्भुतंरोमहर्षणम् । ददृशुस्सर्वभूतानिसागरेसेतुबन्धनम् ।।622.76।। Yuddha Kanda,22,77,तानिकोटिसहस्राणिवानराणांमहौजसाम् । बध्नन्तस्सागरेसेतुंजुग्मुःपारंमहोदधेः ।।6.22.77।। Yuddha Kanda,22,78,विशालस्सुकृतश्रशीमान् सुभूमिस्सुसमाहितः । अशोभतमहान् सेतुस्सीमन्तइवसागरे ।।6.22.78।। Yuddha Kanda,22,79,ततःपारेसमुद्रस्यगदापाणिर्विभीषणः । परेषामभिघातार्थमतिष्ठत्सचिवैस्सहा ।।6.22.79।। Yuddha Kanda,22,80,सुग्रीवस्तुततःप्राहरामंसत्यपराक्रमम् । हनूमन्तंत्वमारोहअङ्गदंचापिलक्ष्मणः ।।6.22.80।। Yuddha Kanda,22,81,अयंहिविपुलोवीरसागरोमकरालयः । वैहायपौयुवामेतौवानरौतारयिष्यतः ।।6.22.81।। Yuddha Kanda,22,82,अग्रतस्तस्यसैन्यस्यश्रीमान्रामस्सलक्ष्मणः । जगामधन्वीधर्मात्मासुग्रीवेणसमन्वितः ।।6.22.82।। Yuddha Kanda,22,83,न्येमध्येनगच्छन्तिपार्श्वतोऽन्येप्लवङ्गमाः । सलिलंप्रपतन्तन्येमार्गमन्येनलेभिरे ।।6.22.83।। केचिद्वैहायसगतास्सुपर्णाइवपुप्लुवुः । Yuddha Kanda,22,84,घोषेणमहतातस्यसिन्धोर्घोषंसमुच्छ्रितम् । भीमन्तर्दधेभीमातरन्तीहरिवाहिनी ।।6.22.84।। Yuddha Kanda,22,85,वानराणांहिसातीर्णावाहिनीनलसेतुना । तीरेनिविविशेराज्ञाबहुमूलफलोदके ।।6.22.85।। Yuddha Kanda,22,86,तदद्बुतंराघवकर्मदुष्करंसमीक्ष्यदेवास्सहसिद्धचारणैः । उपेत्यरामसहसामहार्षिभिस्समभ्यषिञ्चन् सुशुभैर्जलैःपृथक् ।।6.2 2.86।। Yuddha Kanda,22,87,जयस्वशत्रून्नरदे व:मेदिनींससागरांपालयशाश्वतीस्समाः । इतीवरामंनरदेवसत्कृ तंशुभैर्वचोभिर्विविधैरपूजयन् ।।6.22.87।। Yuddha Kanda,23,1,निमित्तानिनिमित्ताज्ञोदृष्टवालक्ष्मणपूर्वजः । सौमित्रिंसम्परिष्वज्यइदंवचनमब्रवीत् ।।6.23.1।। Yuddha Kanda,23,2,निमित्तानिपरिगृह्योदकंशीतंवनानिफलवन्तिच । बलौघंसंविभज्येमंव्यूह्यतिष्ठेमलक्ष्मण ।।6.23.2।। Yuddha Kanda,23,3,लोकक्षयकरंभीमंभयंपश्याम्युपस्थितम् । निबर्हणंप्रवीराणामृक्षवानररक्षसाम् ।।6.23.3।। Yuddha Kanda,23,4,वाताश्चकलुषावान्तिकम्पतेचवसुन्धराः । पर्वताग्राणिवेपन्तेपतन्तिचमहीरुहाः ।।6.23.4।। Yuddha Kanda,23,5,मेघाःक्रव्यादसङ्काशाःपरुषाःपरुषस्वनाः । क्रूराःक्रूरंप्रवर्षन्तिमिश्रंशोणितबिन्दुभिः ।।6.23.5।। Yuddha Kanda,23,6,रक्तचन्दनसङ्काशासन्ध्यापरमदारुणा । ज्वलतःप्रपतत्येतदादित्यादग्निमण्डलम् ।।6.23.6।। Yuddha Kanda,23,7,दीनादीनस्वराःक्रूरास्सर्वतोमृगपक्षिणः । प्रत्यादित्यंविनर्धन्तिजनयन्तोमहाद्भयम् ।।6.23.7।। Yuddha Kanda,23,8,रजन्यामप्रकाशस्तुसन्तापयतिचन्द्रमाः । कृष्णरक्तांशुपर्यन्तोलोकक्षयइवोदितः ।।6.23.8।। Yuddha Kanda,23,9,ह्रस्वोरूक्षोऽप्रशस्तश्चपरिवेषस्सुलोहितः । आदित्येविमलेनीलंलक्ष्मलक्ष्मणदृश्यते ।।6.23.9।। Yuddha Kanda,23,10,रजसामहताचापिनक्षत्राणिहतानिच । युगान्तमिवलोकानांपश्यशंसन्तीवलक्ष्मण ।।6.23.10।। Yuddha Kanda,23,11,काकाश्श्येनास्तथानीचागृध्राःपरिपतन्तिच । शिवाश्चाप्यशिवान्नादान्नदन्तिसुमहाभयान् ।।6.23.11।। Yuddha Kanda,23,12,शैलैश्शूलैश्चखढगैश्चविसृष्टैःकपिराक्षसैः । भविष्यत्यावृताभूमिर्मांसशोणितकर्दमा ।।6.23.12।। Yuddha Kanda,23,13,क्षिप्रमद्यैवदुर्दर्षांपुरींरावणपालिताम् । अभियामजनेनैवसर्वतोहरिभिर्ववृताः ।।6.23.13।। Yuddha Kanda,23,14,इत्येवमुक्त्वाधर्मात्माधनवीसङ्ग्रामहर्षणः । प्रतस्थेपुरतोरामोलङ्कामभिमुखोविभुः ।।6.23.14।। Yuddha Kanda,23,15,सविभीषणसुग्रीवास्ततस्तेवानरर्षभाः । प्रतस्थिरेविनर्दन्तोनिश्चिताद्विषतांवधे ।।6.23.15।। Yuddha Kanda,23,16,राघवस्यप्रियार्थंतुसुतरांवीर्यशालिनाम् । हरीणांकर्मचेष्टाभिस्तुतोषरघुपुङ्गवः ।।6.23.16।। Yuddha Kanda,24,1,सावीरसमितीराज्ञाविरराजव्यवस्थिता । शशिनाशुभनक्षत्रापौर्णमासीवशारदी ।।6.24.1।। Yuddha Kanda,24,2,प्रचचालचवेगेनत्रस्ताचैववसुन्धरा । पीड्यमानाबलौघेनतेनसागरवर्चसा ।।6.24.2।। Yuddha Kanda,24,3,ततश्शुश्रुवुराक्रुष्टंलङ्कायांकाननौकसः । भेरीमृदङ्गसङ्घुष्टंतुमुलंरोमहर्षणम् ।।6.24.3।। Yuddha Kanda,24,4,बभूवुस्तेनघोषेणसंहृष्टाहरियूथपाः । अमृष्यमाणास्तंघोषंविनेदुर्घोषवत्तरम् ।।6.24.4।। Yuddha Kanda,24,5,राक्षसास्तुप्लवङ्गानांशुश्रुवुश्चाऽपिगर्जितम् । नर्दतामिवदृप्तानांमेघानामम्बरेस्वनम् ।।6.24.5।। Yuddha Kanda,24,6,दृष्टवादाशरथिर्लङ्कांचित्रध्वजपताकिनीम् । जगाममनसासीतंदूयमानेनचेतसा ।।6.24.6।। Yuddha Kanda,24,7,अत्रसामृगशाबाक्षीरावणेनोपरुध्यते । अभिभूताग्रहेणेवलोहिताङ्गेनरोहिणी ।।6.24.7।। Yuddha Kanda,24,8,दीर्घमुष्णंचनिश्वस्यसमुद्वीक्ष्यचलक्ष्मणम् । उवाचवचनंवीरस्तत्कालहितमात्मनः ।।6.24.8।। Yuddha Kanda,24,9,आलिखन्तीमिवाकाशमुत्थितांपश्यलक्ष्मण । मनसेवकृतांलङ्कांनगाग्रेविश्वकर्मणा ।।6.24.9।। Yuddha Kanda,24,10,विमानैर्बहुभिर्लङ्कासङ्कीर्णाभुविराजते । विष्णोःपदमिवाकाशंछादितंपाण्डुभिर्घनैः ।।6.24.10।। Yuddha Kanda,24,11,पुष्पितैश्शोभितालङ्कावनैश्चत्ररथोपमैः । नानापतगसङ्घुष्टै: फलपुष्पोपगैश्शुभैः ।।6.24.11।। Yuddha Kanda,24,12,पश्यमत्तविहाङ्गानिप्रलीनभ्रमराणिच । कोकिलाकुलषण्डानिदोधवीतिशिवोऽनिलः ।।6.24.12।। Yuddha Kanda,24,13,इतिदाशरथीरामोलक्ष्मणंसमभाषत । बलंचतद्वैविभजन् शास्त्रदृष्टेनकर्मणा ।।6.24.13।। Yuddha Kanda,24,14,शशासकपिसेनायांबलमादायवीर्यवान् । अङ्गदस्सहनीलेनतिष्ठेदुरसिदुर्जयः ।।6.24.14।। Yuddha Kanda,24,15,तिष्ठेद्वानरवाहिन्यावानरौघसमावृतः । आश्रित्यदक्षिणंपार्श्वमृषभोवानरर्षभ:।। 6.24.15।। Yuddha Kanda,24,16,गन्धहस्तीवदुर्धर्षस्तरस्वीगन्धमादनः । तिष्ठेद्वानरवाहिन्यास्सव्यंपार्श्वंसमाश्रित:।। 6.24.16।। Yuddha Kanda,24,17,मूर्ध्निस्थास्याम्यहंयुक्तोलक्ष्मणेनसमन्वितः । जाम्बवांश्चसुषेणश्चवेगदर्शीचवानरः ।।6.24.17।। ऋक्षमुख्यामहात्मानःकुक्षिंरक्षन्तुतेत्रयः । Yuddha Kanda,24,18,जघनंकपिसेनायाःकपिराजोऽभिरक्षतु । पश्चार्धमिवलोकस्यप्रचेतास्तेजसावृतः ।।6.24.18।। Yuddha Kanda,24,19,सुविभक्तमहाव्यूहामहावानररक्षिता । अनीकिनीसाविबभौयथाद्यौस्साभ्रसम्प्लवा ।।6.24.19।। Yuddha Kanda,24,20,प्रगृह्यगिरिशृङ्गाणिमहातश्चमहीरुहन् । लङ्कांविमर्दयिषवोरणे ।।6.24.20।। Yuddha Kanda,24,21,शिखरैर्विकिरामैनांलङ्कांमुष्टभिरेववा । इतिस्मदधिरेसर्वेमनांसिहरिपुङ्गवाः ।।6.24.21।। Yuddha Kanda,24,22,ततोरामोमहातेजास्सुग्रीवमिदमब्रवीत् । सुविभक्तानिसैन्यानिशुकएषविमुच्यताम् ।।6.24.22।। Yuddha Kanda,24,23,रामस्यतुवचश्श्रुत्वावानरेन्द्रोमहाबलः । मोचयामासतंदूतंशुकंरामस्यशासनात् ।।6.24.23।। Yuddha Kanda,24,24,मोचितोरामवाक्येनवानरैश्चनिपीडितः । शुकःपरमसन्त्रस्तोरक्षोधिपमुपागमत् ।।6.24.24।। Yuddha Kanda,24,25,रावणःप्रहसन्नेवशुकंवाक्यमुवाचह ।।6.24.25।। Yuddha Kanda,24,26,किमिमौतेसितौपक्षौलूनपक्षश्चदृश्यसे । कच्चिन्नानेकचित्तानांतेषांत्वंवशमागतः ।।6.24.26।। Yuddha Kanda,24,27,ततस्सभयसंविग्नस्तदाराज्ञाभिचोदितः । वचनंप्रत्युवाचेदंराक्षसाधिपमुत्तमम् ।।6.24.27।। Yuddha Kanda,24,28,सागरस्योत्तरेतीरेऽब्रवंतेवचनंतथा । यथासन्धेशमक्लिष्टंसान्त्वयन् श्लक्ष्णयागिरा ।।6.24.28।। Yuddha Kanda,24,29,क्रुद्धैस्सैरहमुत्प्लुतदृष्टमात्रःप्लवङ्गमैः । गृहीतोऽस्म्यपिचारब्दोहन्तुंलोप्तुंचमुष्टिभि ।।6.24.29।। Yuddha Kanda,24,30,नैवसम्भाषितुंशक्यास्सम्प्रश्नोऽत्रनलभ्यते । प्रकृत्याकोपनास्तीक्ष्णानानराराक्षसाधिप ।।6.24.30।। Yuddha Kanda,24,31,सचहन्ताविराधस्यकबन्धस्यखरस्यच । सुग्रीवसहितोरामस्सीताया: पदमागतः ।।6.24.31।। Yuddha Kanda,24,32,सकृत्वासागरेसेतुंतीर्त्वाचलवणोदधिम् । एषरक्षांसिनिर्दूयधन्वीतिष्ठतिराघवः ।।6.24.32।। Yuddha Kanda,24,33,ऋक्षवानरसङ्घानामनीकानिसहस्रशः । गिरिमेघनिकाशानांछादयन्तिवसुन्धराम् ।।6.24.33।। Yuddha Kanda,24,34,राक्षसानांबलौघस्यवानरेन्द्रबलस्यच । नैतयोर्विद्यतेसन्धिर्देवदानवयोरिव ।।6.24.34।। Yuddha Kanda,24,35,पुराप्राकारमायान्तिक्षिप्रमेकतरंकुरु । सीतांवास्मैप्रयच्छाशुसुयुद्धंवापिप्रदीयताम् ।।6.24.35।। Yuddha Kanda,24,36,शुकस्यवचनंश्रुत्वारावणोवाक्यमब्रवीत् । रोषसंरक्तनयनोनिर्दहन्निनचक्षुषा ।।6.24.36।। Yuddha Kanda,24,37,यदिमांप्रतियुध्येरन् देवगन्धर्वदानवाः । नैवसीतांप्रदास्यामिसर्वलोकभयादपि ।।6.24.37।। Yuddha Kanda,24,38,कदासमभिधावन्तिराघवंमामकाश्शराः । वसन्तेपुष्पितंमत्ताभ्रमराइवपादपम् ।।6.24.38।। Yuddha Kanda,24,39,कदातूणीयशैर्दीप्तैर्गणश: कार्मुकच्युतैः । शरैरादीपयाम्येनमुल्काभिरिवकुञ्जरम् ।।6.24.39।। Yuddha Kanda,24,40,तच्चास्यबलमादास्येबलेनमहतावृतः । ज्योतिषामिवसर्वेषांप्रभामुद्यन्दिवाकरः ।।6.24.40।। Yuddha Kanda,24,41,सागरस्येवमेवेगोमारुतस्येवमेगति: । नहिदाशरथिर्वेदतेनमांयोद्धुमिच्छति ।।6.24.41।। Yuddha Kanda,24,42,नमेतूणीशयान्बाणान् सविषानिवपन्नगान् । रामःपश्यतिसङ्ग्रामेतेनमांयोध्दुमिच्छति ।।6.24.42।। Yuddha Kanda,24,43,नजानातिपुरावीर्यममयुद्धेसराघवः । ममचापमयींवीणांशरकोणैःप्रवादिताम् ।।6.24.43।। Yuddha Kanda,24,44,ज्याशब्दतुमुलांघोरामार्तभीतमहास्वनाम् । नाराचतलसन्नादांतांममाहितवाहिनीम् ।।6.24.44।। अवगाह्यमहारङ्गंवादयिष्याम्यहंरणे । Yuddha Kanda,24,45,नवासवेनापिसहस्रचक्षुषायथास्मिशक्योवरुणेनवास्वयम् । यमेनवाधर्षयितुंशराग्निनामहाहवेवैश्रवणेनवापुन: ।। 6.24.45।। Yuddha Kanda,25,1,सबलेसागरंतीर्णेरामेदशरथात्मजे । अमात्यौरावणश्रीमानब्रवीच्छुकसारणौ ।।6.25.1।। Yuddha Kanda,25,2,समग्रंसागरंतीर्णंदुस्तरंवानरंबलम् । अभूतपूर्वंरामेणसागरेसेतुबन्धनम् ।।6.25.2।। Yuddha Kanda,25,3,सागरेसेतुबन्दंतुनश्रद्दध्यांकथञ्चन । अवश्यंचापिसङ् ख्येयंतन्मयावानरंबलम् ।।6.25.3।। Yuddha Kanda,25,4,भवन्तौवानरंसैन्यंप्रविश्यानुपलक्षितौ । परिमाणंचवीर्यंचयेचमुख्याःप्लवङ्घमाः ।।6.25.4।। Yuddha Kanda,25,5,मन्त्रिणोयेचरामस्यसुग्रीवस्यचसम्मता: । येपूर्वमभिवर्तन्तेयेचशूराःप्लवङ्गमाः ।।6.25.5।। Yuddha Kanda,25,6,सचसेतुर्यथाबद्धस्सागरेसलिलार्णवे । निवेशंचयधातेषांवानराणांमहात्मनाम् ।।6.25.6।। Yuddha Kanda,25,7,रामस्यव्यवसायंचवीर्यंप्रहरणानिच । लक्ष्मणस्यचवीर्यंतत्त्वतोज्ञातुमर्हथः ।।6.25.7।। Yuddha Kanda,25,8,कश्चसेनापतिस्तेषांवानराणांमहौजसाम् । तच्चज्ञात्वायथातत्त्वंशीघ्रमगन्तुमर्हथः ।।6.25.8।। Yuddha Kanda,25,9,इतिप्रतिसमादिष्टौराक्षसौशुकसारणौ । हरिरूपधरौवीरौप्रविष्टौवानरंबलम् ।।6.25.9।। Yuddha Kanda,25,10,ततस्तद्वानरंसैन्यमचिन्त्यंरोमहर्षणम् । सङ् ख्यातुंनाध्यगच्छेतांतदातौशुकसारणौ ।।6.25.10।। Yuddha Kanda,25,11,संस्थितंपर्वताग्रेषुनिर्दरेषुगुहासुच । समुद्रस्यचतीरेषुवनेषूपवनेषुच ।।6.25.11।। Yuddha Kanda,25,12,तरमाणंचतीर्णंचतर्तुकामंचसर्वशः । निविष्टंनिविश्चैवभीमनादंमहाबलम् ।।6.25.12।। तद्बलार्णवमक्षोभ्यंददृशातेनिशाचरौ । Yuddha Kanda,25,13,तौददर्शमहातेजाःप्रतिच्छन्नौचविभीषणः । आचचक्षेऽथरामायगृहीत्वाशुकसारणौ ।।6.25.13।। Yuddha Kanda,25,14,तस्यैमौराक्षसेन्द्रस्यमन्त्रिणौशुकसारणौ । लङ्कायस्समनुप्राप्तौचारौपरपुरञ्जय:।। 6.25.14।। Yuddha Kanda,25,15,तौदृष्टवाव्यथितौरामंनिराशौजीवितेतथा । कृताञ्जलिपुटौभीतौवचनंचेदमूचतुः ।।6.25.15।। Yuddha Kanda,25,16,आवामिहागतौसौम्य रावणप्रहितावुभौ । परिज्ञातुंबलंसर्वंतवेदंरघुनन्दन:।। 6.25.16।। Yuddha Kanda,25,17,तयोस्तद्वचनंश्रुत्वारामोदशरथात्मजः । अब्रवीत्प्रहसन्वाक्यंसर्वभूतहितेरतः ।।6.25.17।। Yuddha Kanda,25,18,यदिदृष्टंबलंसर्वंवयंवासुपरिक्षिताः । यथोक्तंवाकृतंकार्यछन्दतःप्रतिगम्यताम् ।।6.25.18।। Yuddha Kanda,25,19,अथकिञ्चिददृष्टंवाभूयस्तद्द्रष्टुमर्हथः । विभीषणोवाकात्स्नर्येनभूयस्सन्दर्शयिष्यति ।।6.25.19।। Yuddha Kanda,25,20,नचेदंग्रहणंप्राप्यभेत्तव्यंजीवितंप्रति । न्यस्तशस्त्रौगृहतौवानदूतौवधमर्हतः ।।6.25.20।। Yuddha Kanda,25,21,प्रच्छमानौविमुञ्चैतौचारौरात्रिंचरावुभौ । शत्रुपक्षस्यसततंविभीषण: विकर्षिणौ ।।6.25.21।। Yuddha Kanda,25,22,प्रविश्यनगरींलङ्कांभवद् भ्यांधनदानुजः । वक्तव्योरक्षसांराजायथोक्तंवचनंमम ।।6.25.22।। Yuddha Kanda,25,23,यद्बलंचसमाश्रित्यसीतांमेहृतवानपि । तद्दर्शययथाकामंससैन्यस्सहबान्धवः ।।6.25.23।। Yuddha Kanda,25,24,श्वःकाल्येनगरींलङ्कांसप्राकारांसतोरणाम् । रक्षसंचबलंपश्यशरैर्विध्वंसितंमया ।।6.25.24।। Yuddha Kanda,25,25,क्रोधंभीममहंमोक्ष्येससैन्येत्वयिरावण: । श्वःकाल्येवज्रवान्वज्रंदानवेष्विववासवः ।।6.25.25।। Yuddha Kanda,25,26,इतिप्रतिसमादिष्टौराक्षसौशुकसारणौ ।।6.25.26।। Yuddha Kanda,25,27,जयेतिप्रतिनन्द्यैतौराघवंधर्मवत्सलम् । आगम्यनगरींलङ्कामब्रूतांराक्षसाधिपम् ।।6.25.27।। Yuddha Kanda,25,28,विभीषणगृहीतौतुवधार्तौराक्षसेश्वर: । दृष्टवाधर्मात्मनामुक्तौरामेणामिततेजसा ।।6.25.28।। Yuddha Kanda,25,29,एकस्थानगतायत्रचत्वारःपुरुषर्षभाः । लोकपालसमाश्शूराःकृतास्त्रादृढविक्रमा ।।6.25.29।। Yuddha Kanda,25,30,रामोदाशरथि्शीमान् लक्ष्मणश्चविभीषणः । सुग्रीवश्चमहातेजामहेन्द्रसमविक्रमः ।।6.25.30।। Yuddha Kanda,25,31,एतेशक्ताःपुरीलङ्कांसप्राकारांसतोरणाम् । उत्पाट्यसङ्क्रमयितुंसर्वेतिष्ठन्तुवानराः ।।6.25.31।। Yuddha Kanda,25,32,यादृश्यंतस्यरामस्यरूपंप्रहरणानिच । वधिष्यतिपुरींलङ्कामेकस्तिष्ठन्तुतेत्रयः ।।6.25.32।। Yuddha Kanda,25,33,रामलक्ष्मणगुप्तासासुग्रीवेणचवाहिनी । बभूवदुर्दर्षतरासर्वैरपिसुरासुरैः ।।6.25.33।। Yuddha Kanda,26,1,तद्वचःपथ्यमक्लीबंसारणेनाभिभाषितम् । निशम्यरावणोराजाप्रत्यभाषतसारणम् ।।6.26.1।। Yuddha Kanda,26,2,यदिमामभियुञ्जीरन्देवगन्धर्वदानवाः । नैवसीतांप्रदास्यामिसर्वलोकभयादपि ।।6.26.2।। Yuddha Kanda,26,3,त्वंतुसौम्यपरित्रस्तोहरिभिर्निर्जितोभृशम् । प्रतिप्रदानमद्यैवसीतायास्साधुमन्यसे ।।6.26.3।। Yuddha Kanda,26,4,कोहिनामसपत्नोमांसमरेजेतुमर्हति । इत्युक्त्वापरुषंवाक्यंरावणोराक्षसाधिपः ।।6.26.4।। Yuddha Kanda,26,5,आरुरोहततश्रशीमान् प्रासादंहिमपाण्डुरम् । बहुतालसमुत्सेधंरावणोऽथदिदृक्ष्या ।।6.26.5।। Yuddha Kanda,26,6,ताभ्यांचराभ्यांसहितोरावणःक्रोधमूर्छितः । पश्यमानस्समुद्रंचपर्वतांश्चवनानिच ।।6.26.6।। ददर्शपृथिवीदेशंसुसम्पूर्णंप्लवङ्गमैः । Yuddha Kanda,26,7,तदपारमसंख्ख्येयंवानराणांमहद्बलं । अलोक्यरावणोराजापरिपप्रच्छसारणम् ।।6.26.7।। Yuddha Kanda,26,8,एषांवानरमुख्यानांकेशूराःकेमहाबलाः । केपूर्वमभिवर्तन्तेमहोत्साहास्समन्ततः ।।6.26.8।। Yuddha Kanda,26,9,केषांशृणोतिसुग्रीवःकेवायूथपयूथपाः । सारणाचक्ष्वतत्त्वेनकेप्रधानाःप्लवङ्गमाः ।।6.26.9।। Yuddha Kanda,26,10,सारणोराक्षसेन्द्रस्यवचनंपरिपृच्छतः । आचचक्षेऽथमुख्यज्ञोमुख्यांस्तांस्तुवनौकसः ।।6.26.10।। Yuddha Kanda,26,11,एषयोऽभिमुखोलङ्कांनर्दंस्तिष्ठतिवानरः । यूथपानांसहस्राणांशतेनपरिवारितः ।।6.26.11।। Yuddha Kanda,26,12,यस्यघोषेणमहतासप्राकारासतोरणा । लङ्काप्रवेपतेसर्वासशैलवनकानना ।।6.26.12।। Yuddha Kanda,26,13,सर्वशाखामृगेन्द्रस्यसुग्रीवस्यमहात्मनः । बलाग्रेतिष्ठतेवीरोनीलोनामैषयूथपः ।।6.26.13।। Yuddha Kanda,26,14,बाहूप्रगृह्ययःपद् भ्यांमहींगच्छतिवीर्यवान् । लङ्कामभिमुखःक्रोधादभीक्ष्णंचविजृम्भते ।।6.26.14।। Yuddha Kanda,26,15,गिरिशृङ्गप्रतीकाशःपद्मकिञ्जल्कसन्निभः । स्पोटयत्यभिसंरब्धोलाङ्गूलंचपुनःपुनः ।।6.26.15।। Yuddha Kanda,26,16,यस्यलाङ्गूलशब्देनस्वनन्तिप्रदिशोदश । एषवानरराजेनसुग्रीवेणाभिषेचितः ।।6.26.16।। Yuddha Kanda,26,17,यौवराज्येऽङ्गदोनामत्वामाह्वयतिसंयुगे ।।6.26.17।। Yuddha Kanda,26,18,वालिनस्सदृशःपुत्रस्सुग्रीवस्यसदाप्रियः । राघवार्थेपराक्रान्तश्शक्रार्थेवरुणोयथा ।।6.26.18।। Yuddha Kanda,26,19,एतस्यसामतिस्सर्वायद्दृष्टाजनकात्मजा । हनूमतावेगवताराघवस्यहितैषिणा ।।6.26.19।। Yuddha Kanda,26,20,बहूनिवानरेन्द्राणामेषयूथानिवीर्यवान् । परिगृह्याभियातित्वांस्वेनानीकेनमर्दितुम् ।।6.26.20।। Yuddha Kanda,26,21,अनुवालिसुतस्यापिबलेनमहताऽवृतः । वीरस्तिष्ठतिसङ्ग्रामेसेतुहेतुरयंनलः ।।6.26.21।। Yuddha Kanda,26,22,येतुविष्टभ्यगात्राणिक्ष्वेलयन्तिनदन्तिच । उत्थायचविजृम्भन्तेक्रोधेनहरिपुङ्गवाः ।।6.26.22।। Yuddha Kanda,26,23,एतेदुष्प्रसहाघोराश्चण्डाश्चण्डपराक्रमाः । अष्टौशतसहस्राणिदशकोटिशतानिच ।।6.26.23।। Yuddha Kanda,26,24,यएनमनुगच्छन्तिवीराश्चन्दनवासिनः । एषैवाशंसतेलङ्कांस्वेनानीकेनमर्दितुम् ।।6.26.24।। Yuddha Kanda,26,25,श्वेतोरजतसङ्काशश्चपलोभीमविक्रमः । बुद्धिमान्वानरश्शूरस्त्रिषुलोकेषुविश्रुतः ।।6.26.25।। Yuddha Kanda,26,26,तूर्णंसुग्रीवमागम्यपुनर्गच्छतिसत्वरः । विभजन्वानरींसेनामनीकानिप्रहर्षयन् ।।6.26.26।। Yuddha Kanda,26,27,यःपुरागोमतीतीरेरम्यंपर्येतिपर्वतम् । नाम्नासङ्कोचनोनामनानानगयुतोगिरिः ।।6.26.27।। Yuddha Kanda,26,28,तत्रराज्यंप्रशास्त्येषकुमुदोनामयूथपः । योऽसौशतसहस्राणिसहस्रंपरिकर्षति ।।6.26.28।। Yuddha Kanda,26,29,यस्यवालाबहुव्यामादीर्घलाङ्गूलमाश्रिता । ताम्रापीतास्सीताश्श्वेताःप्रकीर्णाघोरदर्शना ।।6.26.29।। Yuddha Kanda,26,30,अदीनोरोषणश्चण्डस्सङ्ग्राममभिकाङ् क्षति । एषोऽप्याशंसतेलङ्कांस्वेनानीकेनमर्दितुम् ।।6.26.30।। Yuddha Kanda,26,31,यस्त्वेषसिंहसङ्काशःकपिलोदीर्घलोचनः । निभृतःप्रेक्षतेलङ्कांदिधक्षन्निवचक्षुषा ।।6.26.31।। Yuddha Kanda,26,32,विन्ध्यंकृष्णगिरिंसह्यंपर्वतंचसुदर्शनम् । राजन्सततमध्यास्तेरम्भोनामयूथपः ।।6.26.32।। Yuddha Kanda,26,33,शतंशतसहास्राणांत्रिंशच्चहरिपुङ्गवाः । यमेतेवानराश्शूराश्चण्डाश्चण्डपराक्रमाः ।।6.26.33।। परिवार्यानुगच्छन्तिलङ्कांमर्दितुमोजसा । Yuddha Kanda,26,34,यस्तुकर्णौविवृणुतेजृम्बतेचपुनःपुनः । नचसंविजतेमृत्योर्नचयुद्धाद्विधावति ।।6.26.34।। Yuddha Kanda,26,35,प्रकम्पतेचरोषेणतिर्यक्चपुनरीक्षते । पश्यन् लाङ्गूलमपिचक्ष्वेळतेचमहाबलः ।।6.26.35।। Yuddha Kanda,26,36,महाजवोवीतभयोरम्यंसाल्वेयपर्वतम् । राजन्सततमध्यास्तेशरभोनामयूथपः ।।6.26.36।। Yuddha Kanda,26,37,एतस्यबलिनस्सर्वेविहारानामयूथपाः । राजन् शतसहस्राणिचत्वारिंशस्तथैवच ।।6.26.37।। Yuddha Kanda,26,38,यस्तुमेघइवाकाशंमहानावृत्यतिष्ठति । मध्येवानरवीराणांसूराणामिववासवः ।।6.26.38।। Yuddha Kanda,26,39,भेरीणामिवसन्नादोयस्यैषश्रूयतेमहान् । घोषश्शाखामृगेन्द्राणांसङ्ग्राममभिकाङ्क्षिताम् ।।6.26.39।। Yuddha Kanda,26,40,एषपर्वतमध्यास्तेपारियात्रमनुत्तमम् । युद्धेदुष्प्रसहोनित्यंपनसोनामयूथपः ।।6.26.40।। Yuddha Kanda,26,41,एनंशतसहस्राणांशतार्धंपर्युपासते । यूथपायूथपश्रेष्ठंयेषांयूथानिभागशः ।।6.26.41।। Yuddha Kanda,26,42,यस्तुभीमांप्रवल्गन्तींचमूंतिष्ठतिशोभयन् । स्थितांतीरेसमुद्रस्यद्वितीयइवसागरः ।।6.26.42।। Yuddha Kanda,26,43,एषदर्दरसङ्काशोविनतोनामयूथपः । पिबंश्चरतिपर्णासांनदीनामुत्तमांनदीम् ।।6.26.43।। Yuddha Kanda,26,44,षष्टिश्शतसहस्राणिबलमस्यप्लवङ्गमाः ।।6.26.44।। Yuddha Kanda,26,45,त्वामाह्वयतियुद्धायक्रोधनोनामयूधपः । विक्रान्ताबलवन्तश्चयथायूथानिभागशः ।।6.26.45।। Yuddha Kanda,26,46,यस्तुगैरिकवर्णाभंवपुःपुष्यतिवानरः । अवमत्यसदासर्वान्वानरान्बलदर्पितान् ।।6.26.46।। गवयोनामतेजस्वीत्वांक्रोधादभिवर्तते । Yuddha Kanda,26,47,एनंशतसहस्राणिसप्ततिःपर्युपासते । एषैवाशंसतेलङ्कांस्वेनानीकेनमर्दितुम् ।।6.26.47।। Yuddha Kanda,26,48,एतेदुष्प्रसहाघोराबलिनःकामरूपिणः । यूथपायूथपश्रेष्ठामेषांयूथानिभागशः ।।6.26.48।। Yuddha Kanda,27,1,तांस्तुतेऽहंप्रवक्ष्यामिप्रेक्षमाणस्ययूथपान् । राघवार्थेपराक्रान्तायेनरक्षन्तिजीवितम् ।।6.27.1।। Yuddha Kanda,27,2,स्निग्धायस्यबहुव्यामावालालाङ्गूलमाश्रिताः । ताम्राःपीतास्सिताश्श्वेताःप्रकीर्णाघोरकर्मणः ।।6.27.2।। Yuddha Kanda,27,3,प्रगृहीताःप्रकाशन्तेसूर्यस्येवमरीचयः । पृथिव्यांचानुकृष्यन्तेहरोनामैषयूथपः ।।6.27.3।। Yuddha Kanda,27,4,यंपृष्ठतोऽनुगच्छन्तिशतशोऽथसहस्रशः । द्रुमानुद्यम्यसहसालङ्कारोहणतत्पराः ।।6.27.4।। यूथपाहरिराजस्यकिङ्करास्समुपस्थिताः । Yuddha Kanda,27,5,नीलानिवमहामेघांस्तिष्ठतोयांस्तुपश्यसि ।।6.27.5।। Yuddha Kanda,27,6,असिताञ्जनसङ्काशान् युद्धेसत्यपराक्रमान् । असङ् ख्येयाननिर्देश्यान्परंपारमिवोदधेः ।।6.27.6।। Yuddha Kanda,27,7,पर्वतेषुचयेकेचिद्विषमेषुनदीषुच । एतेत्वामभिवर्तन्तेराजन्नृक्षास्सुदारुणाः ।।6.27.7।। Yuddha Kanda,27,8,एषांमध्येस्थितोराजन्भीमाक्षोभीमदर्शनः । पर्जन्यइवजीमूतैस्समन्तात्परिवारितः ।।6.27.8।। Yuddha Kanda,27,9,ऋक्षवन्तंगिरिश्रेष्ठमध्यास्तेनर्मदांपिबन् । सर्वऋक्षाणामधिपतिर्धूम्रोनामैषयूथपः ।।6.27.9।। Yuddha Kanda,27,10,यवीयानस्यतुभ्रातापश्यैनंपर्वतोपमम् । भ्रात्रासमानोरूपेणविशिष्टस्तुपराक्रमैः ।।6.27.10।। Yuddha Kanda,27,11,सएषजाम्बवान्नाममहायूथपयूथपः । प्रक्रान्तोगुरुवर्तीचसम्प्रहारेष्वमर्षण ।।6.27.11।। Yuddha Kanda,27,12,एतेनसाह्यंसुमहत्कृतंशक्रस्यधीमता । देवासुरेजाम्बवतालब्धाश्चबहवोवराः ।।6.27.12।। Yuddha Kanda,27,13,आरुह्यपर्वताग्रेभ्योमहाभ्रविपुला: शिलाः । मुञ्चन्तिविपुलाकारानमृत्योरुद्विजन्तिच ।।6.27.13।। Yuddha Kanda,27,14,राक्षसानांचसदृशाःपिशाचानांचरोमशाः । एतस्यसैन्याबहवोविचरन्त्यग्नितेजसः ।।6.27.14।। Yuddha Kanda,27,15,यंत्वेनमभिसम्रब्धंप्लवमानमिवस्थितम् । प्रेक्षन्तेवानरास्सर्वेस्थितायूथपयूथपम् ।।6.27.15।। Yuddha Kanda,27,16,एषराजन् सहस्राक्षंपर्युपास्तेहरीश्वरः । बलेनबलसम्पन्नोदम्भोनामैषयूथपः ।।6.27.16।। Yuddha Kanda,27,17,यःस्थितंयोजनेशैलंगच्छन्पार्श्वेनसेवते । ऊर्ध्वंतथैवकायेनगतःप्राप्नोतियोजनम् ।।6.27.17।। Yuddha Kanda,27,18,यस्मान्नपरमंरूपंचतुष्पादेषुविद्यते । श्रुतस्संन्नादनोनामवानराणांपितामहाः ।।6.27.18।। Yuddha Kanda,27,19,येनयुद्धंपुरादत्तंरणेशक्रस्यधीमता । पराजयश्चनप्राप्तस्सोऽयंयूथपयूथपः ।।6.27.19।। Yuddha Kanda,27,20,यस्यविक्रममाणस्यशक्रस्येवपराक्रमः । एषगन्धर्वकन्यायामुत्पन्नःकृष्णवर्त्मनः ।।6.27.20।। तदादेवासुरेयुद्धेसाह्यार्थंत्रिदिवौकसाम् Yuddha Kanda,27,21,यस्यवैश्रवणोराजाजम्बूमुपनिषेवते ।।6.27.21।। Yuddha Kanda,27,22,योराजापर्वतेन्द्राणांबहुकिन्नरसेविनाम् । विहारसुखदोनित्यंभ्रातुस्तेराक्षसाधिप ।।6.27.22।। Yuddha Kanda,27,23,तत्रैषवसतिश्रीमान्बलवान्वानरर्षभः । युद्धेष्वकत्थनोनित्यंक्रोधनोनामयूथपः ।।6.27.23।। Yuddha Kanda,27,24,वृतःकोटिसहस्रेणहरीणांसमुपस्थितः । एषैवाशंसतेलङ्कांस्वेनानीकेनमर्दितुम् ।।6.27.24।। Yuddha Kanda,27,25,योगङ्गामनुपर्येतित्रासयन्गजयूथपान् । हस्तिनांवानराणांचपूर्ववैरमनुस्मरन् ।।6.27.25।। Yuddha Kanda,27,26,एषयूथपतिर्नेतागच्छन् गिरिगुहाशयः । गजान्योधयतेवन्यान्गिरींश्चैवमहीरुहान् ।।6.27.26।। Yuddha Kanda,27,27,हरीणांवाहिनीमुख्योनदींहैमवतीमनु । उशीरबीजमाश्रित्यपर्वतंमन्दरोपमम् ।।6.27.27।। रमतेवानरश्रेष्ठोदिविशक्रइवस्वयम् । Yuddha Kanda,27,28,एनंशतसहस्राणांसहस्रमनुवर्तते । वीर्यविक्रमदृप्तानांनर्दतांबलशालिनाम् ।।6.27.28।। Yuddha Kanda,27,29,सएषनेताचैतेषांवानराणांमहात्मनाम् । सएषदुर्धरोराजन्प्रमाथीनामयूथपः ।।6.27.29।। Yuddha Kanda,27,30,वातेनेवोद्धतंमेघंयमेनमनुपश्यसि । अनीकमभिसंरब्धंवानराणांतरस्विनाम् ।।6.27.30।। Yuddha Kanda,27,31,उद्दूतमरुणाभासंपवनेनसमन्ततः । विवर्तमानंबहुधायत्रैतद्बहुळंरजः ।।6.27.31।। Yuddha Kanda,27,32,एतेऽसितमुखाघोरागोलाङ्गूलामहाबलाः । शतंशतहस्राणिदृष्ट्वावैसेतुबन्धनम् ।।6.27.32।। Yuddha Kanda,27,33,गोलाङ्गूलंमहावेगंगवाक्षंनामयूधपम् । परिवार्याभिवर्तन्तेलङ्कांमर्दितुमोजसा ।।6.27.33।। Yuddha Kanda,27,34,भ्रमराचरितायत्रसर्वकालफलद्रुमाः ।।6.27.34।। Yuddha Kanda,27,35,यंसूर्यस्तुल्यपर्णाभमनुपर्येतिपर्वतम् । यस्यभासासदाभान्तितद्वर्णामृगपक्षिणः ।।6.27.35।। Yuddha Kanda,27,36,यस्यप्रस्थंमहात्मानोनत्यजन्तिमहर्षयः । सर्वकालफलावृक्षास्सदाफलसमन्विताः ।।6.27.36।। Yuddha Kanda,27,37,मधूनिचमहार्हाणियस्मिन्पर्वतसत्तमे । तत्रैवरमतेराजन्रम्येकाञ्चनपर्वते ।।6.27.37।। मुख्योवानरमुख्यानांकेसरीनामयूथपः । Yuddha Kanda,27,38,षष्टिर्गिरिसहस्राणांरम्याःकाञ्चनपर्वता ।।6.27.38।। Yuddha Kanda,27,39,तेषांमध्येगिरिवरस्त्वमिवानघरक्षसाम् । तत्रैतेकपिलाश्श्वेतास्ताम्रास्यामधुपिङ्गलाः ।।6.27.39।। Yuddha Kanda,27,40,निवसन्त्युत्तमगिरौतीक्ष्णदंष्ट्रानखायुधाः । सिंहाइवचतुर्दंष्ट्राव्याघ्राइवदुरासदाः ।।6.27.40।। Yuddha Kanda,27,41,सर्वेवैश्वानरसमाज्वलिताशीविषोपमाः । सुदीर्घाञ्चितलाङ्गूलामत्तमातङ्गसन्निभाः ।।6.27.41।। Yuddha Kanda,27,42,महापर्वतसङ्काशामहाजीमूतनिस्स्वनाः । वृत्तपिङ्गलरक्ताक्षाभीमाभीमगतिस्वराः ।।6.27.42।। मर्दयन्तीवतेसर्वेतस्थुर्लङकासमीक्ष्यते । Yuddha Kanda,27,43,एषचैषामधिपतिर्मध्येतिष्ठतिवीर्यवान् ।।6.27.43।। Yuddha Kanda,27,44,जयार्थीनित्यमादित्यमुपतिष्ठतिबुद्धिमान् । नाम्नापृथिव्यांविख्यातोराजन् शतबलीतियः ।।6.27.44।। एषैवाशंसतेलङ्कांस्वेनानीकेनमर्दितुम् । Yuddha Kanda,27,45,विक्रान्तोबलवान् शूरःपौरुषेस्वेव्यवस्थितः । रामप्रियार्थंप्राणानांदयांनकुरुतेहरिः ।।6.27.45।। Yuddha Kanda,27,46,गजोगवाक्षोगवयोनलोनीलश्चवानरः । एकैकएवयोधानांकोटीभिर्दशभिर्वृतः ।।6.27.46।। Yuddha Kanda,27,47,तथाऽऽन्येवानरश्रेष्ठाविन्ध्यपर्वतवासिनः । नशक्यन्तेबहुत्वात्तुसङ् ख्यातुंलघुविक्रमाः ।।6.27.47।। Yuddha Kanda,27,48,सर्वेमहाराजमहाप्रभावास्सर्वेमहाशैलनिकाशकायाः । सर्वेसमर्थापृथिवींक्षणेनकर्तुंप्रविध्वस्तविकीर्णशैलाम् ।।6.27.48।। Yuddha Kanda,28,1,साराणस्यवचश्श्रुत्वारावणंराक्षसाधिपम् । बलमादिश्यतत्सर्वंशुकोवाक्यमथाब्रवीत् ।।6.28.1।। Yuddha Kanda,28,2,स्थितान्पश्यसियानेतान्मत्तानिवमहाद्विपान् । न्यग्रोधानिवगाङ्गेयान् सालान् हैमवतानिव ।।6.28.2।। Yuddha Kanda,28,3,एतेदुष्प्रसहाराजन्बलिनःकामरूपिणः । दैत्यदानवसङ्काशायुद्धेदेवपराक्रमाः ।।6.28.3।। Yuddha Kanda,28,4,एषांकोटिसहस्राणिनवपञ्चचसप्तच । तथाशङ्खुसहस्राणितथाबृन्दशतानिच ।।6.28.4।। Yuddha Kanda,28,5,एतेसुग्रीवसचिवाःकिष्किन्धानिलयास्सदा । हरयोदेवगन्धर्वैरुत्पन्नाःकामरूपिणः ।।6.28.5।। Yuddha Kanda,28,6,यौतौपश्यसितिष्ठन्तौकुमारौदेवरूपिणौ । मैन्दश्चद्विविदश्चोभौताभ्यांनास्तिसमोयुधि ।।6.28.6।। Yuddha Kanda,28,7,ब्राह्मणासममज्ञातावमृतप्राशिनापुभौ । आशंसेतेयुथालङ्कामेतौमर्दितुमोजसा ।।6.28.7।। Yuddha Kanda,28,8,यंतुपश्यसितिष्टन्तंप्रभिन्नमिवकुञ्जरम् । योबलात् क्षोभयेत् क्रुद्धस्समुद्रमपिवानरः ।।6.28.8।। Yuddha Kanda,28,9,एषोऽभिगन्तालङ्कायावैदेह्यास्तवचप्रभो: । एनंपश्यपुरादृष्टंवानरंपुनरागतम् ।।6.28.9।। Yuddha Kanda,28,10,ज्येष्ठःकेसरिणःपुत्त्रोवातात्मजइतिश्रुतः । हनूमानितिविख्यातोलङ्घितोयेनसागरः ।।6.28.10।। Yuddha Kanda,28,11,कामरूपीहरिश्रेष्टोबलरूपसमन्वितः । अनिवार्यगतिश्चैवयथासततगःप्रभुः ।।6.28.11।। Yuddha Kanda,28,12,उद्यन्तभास्करंदृष्टवाबालःकिलपिपासितः । त्रियोजनसहस्रंतुअध्वानमवतीर्यहि ।।6.28.12।। Yuddha Kanda,28,13,आदित्यमाहरिष्यामिनमेक्षुत्प्रतियास्यति । इतिसञ्चिन्त्यमनसापुरैषबलदर्पितः ।।6.28.13।। Yuddha Kanda,28,14,अनाधृष्यतमंदेवमपिदेवर्षिदानवैः । अनासाघैवपतितोभास्करोदयनेगिरौ ।।6.28.14।। Yuddha Kanda,28,15,पतितस्यकपेरस्यहनुरेकाशिलातले । किञ्चिद्भिन्नादृढहनोर्हनूमानेषतेनवै ।।6.28.15।। Yuddha Kanda,28,16,सत्यमागमयोगेनममैषविदितोहरिः । नास्यशक्यंबलंरूपंप्रभावोवाऽपिभाषितम् ।।6.28.16।। Yuddha Kanda,28,17,एषआशंसतेलङ्कामेकोमर्दितुमोजसा । येवजाज्वल्यतेऽपौवैधूमकेतुस्तवाद्यवै ।।6.28.17।। लङ्कायांनिहितश्चापिकथंविस्मरसेकपिम् । Yuddha Kanda,28,18,यश्चैषोऽनन्तरश्शूरश्श्यामःपद्मनिभेक्षणः । इक्ष्वाकूणामतिरथोलोकेविख्यातपौरुष ।।6.28.18।। Yuddha Kanda,28,19,यस्मिन्नचलतेधर्मोयोधर्मंनातिवर्तते । योब्राह्ममस्त्रंवेदांश्चवेदवेदविदांवरः ।।6.28.19।। Yuddha Kanda,28,20,योभिन्द्याद्गगनंबाणैःपर्वतांश्चापिदारयेत् । यस्यमृत्योरिवक्रोधश्शक्रस्येवपराक्रमः ।।6.28.20।। Yuddha Kanda,28,21,यस्यभार्याजनस्थानात्सीताचापिहृतात्वया । सएषरामस्त्वांयोद्धुंराजन्समभिवर्तते ।।6.28.21।। Yuddha Kanda,28,22,यस्यैषदक्षिणेपार्श्वेशुद्धजाम्बूनदप्रभः । विशालवक्षास्ताम्राक्षोनीलकुञ्जितमूर्धजः ।।6.28.22।। Yuddha Kanda,28,23,एषोऽस्यलक्ष्मणोनामभ्राताप्राणसमःप्रियः । नयेयुद्धेचकुशलस्सर्वशस्त्रभृतंवरः ।।6.28.23।। Yuddha Kanda,28,24,अमर्षीदुर्जयोजेताविक्रान्तोबुद्धिमान् बली । रामस्यदक्षिणोबाहुर्नित्यंप्राणोबहिश्चरः ।।6.28.24।। Yuddha Kanda,28,25,नह्येषराघवस्यार्थेजीवितंपरिरक्षति । एषैवाशंसतेयुद्धेनिहन्तुंसर्वराक्षसान् ।।6.28.25।। Yuddha Kanda,28,26,यस्तुसव्यमसौपक्षंरामस्याश्रित्यतिष्ठति । रक्षोगणपरिक्षिप्तोराजाह्येषविभीषणः ।।6.28.26।। Yuddha Kanda,28,27,श्रीमताराजराजेनलङ्कायामभिषेचितः । त्वामेवप्रतिसंरब्दोयुद्धायैषोऽभिवर्तते ।।6.28.27।। Yuddha Kanda,28,28,यंतुपस्यसितिष्ठन्तंमध्येगिरिमिवाचलम् । सर्वशाखामृगेन्द्राणांभर्तारममितौजसम् ।।6.28.28।। Yuddha Kanda,28,29,तेजयशसाबुद् ध्याज्ञानेनाभिजनेनच । यःकपीनतिबभ्राजहिमवानिवपर्वतान् ।।6.28.29।। Yuddha Kanda,28,30,किष्किन्धांयस्समध्यास्तेगुहांसगहनद्रुमाम् । दुर्गांपर्वतदुर्गस्तांप्रधानैस्सहयूथपैः ।।6.28.30।। Yuddha Kanda,28,31,यस्यैषाकाञ्चनीमालाशोभितेशतपुष्करा । कान्तादेवमनुष्याणांयस्यांलक्ष्मीप्रतिष्ठिता ।।6.28.31।। Yuddha Kanda,28,32,एतांचमालांतारांचकपिराज्यंचशाश्वतम् । सुग्रीवोवालिनंहत्वारामेणप्रतिपादितः ।।6.28.32।। Yuddha Kanda,28,33,शतंशतसहस्राणांकोटिमाहुर्मनीषिणः । शतंकोटिसहस्राणांशङ्कु: इत्यभिधीयते ।।6.28.33।। Yuddha Kanda,28,34,शतंशङ्कुसहस्राणांमहाशङ्कु: इतिस्मृतः ।।6.28.34।। Yuddha Kanda,28,35,महाशङ्कुसहस्राणांशतंबृन्दमिहोच्यते । शतंबृन्दसहस्राणांमहावृन्दमितिस्मृतम् ।।6.28.35।। Yuddha Kanda,28,36,महाबृन्दसहस्राणांशतंपद्ममिहोच्यते । शतंपद्मसहस्राणांमहापद्ममितिस्मृतिम् ।।6.28.36।। Yuddha Kanda,28,37,महापद्मसहस्राणांशतंखर्वमिहोच्यते । शतंखर्वसहस्राणांमहाखर्वमिवोच्यते ।।6.28.37।। Yuddha Kanda,28,38,महाखर्वसहस्राणांसमुद्रमभिधीयते । तंसमुद्रसाहस्रमोघइत्यभिधीयते ।।6.28.38।। शतमोघसहस्राणांमहौघइतिविश्रुतः । Yuddha Kanda,28,39,एवंकोटिसहस्रेणशङ्कूनांचशतेनच ।।6.28.39।। Yuddha Kanda,28,40,महाशङ्कुसहस्रेणतथाबृन्दशतेनच । महाबृन्दसहस्रेणतथापद्मशतेनच ।।6.28.40।। Yuddha Kanda,28,41,हापद्मसहस्रेणतथाखर्वशतेनच । समुद्रेणचतेनैवमहौघेनतथैवच ।।6.28.41।। Yuddha Kanda,28,42,एषकोटिमहौघेनसमुद्रसदृशेनच । विभीषणेनसचिवैःराक्षसैःपरिवारितः ।।6.28.42।। Yuddha Kanda,28,43,सुग्रीवोवानरेन्द्रस्त्वांयुद्धार्थममवर्तते । महाबलवृतोनित्यंमहाबलपराक्रमः ।।6.28.43।। Yuddha Kanda,28,44,इमांमहाराजसमीक्ष्यवाहिनीमुपस्थितांप्रज्वलितग्रहोपमाम् । ततःप्रयत्नःपरमोविधीयतांयथाजयस्स्यान्नपरैःपराजयः ।।6.28.44।। Yuddha Kanda,29,1,शुकेनतुसमाख्यातान्दृष्ट्वासहरियूथपान् । समीपस्थंचरामस्यभ्रातरंस्वंविभीषणम् ।।6.29.1।। Yuddha Kanda,29,2,लक्ष्मणंचमहावीर्यंभुजंरामस्यदक्षिणं । सर्ववानरराजंचसुग्रीवंभीमविक्रमम् ।।6.29.2।। Yuddha Kanda,29,3,अङ्गदंचापिबलिनंवज्रहस्तात्मजात्मजम् । हनूमन्तंचविक्रान्तंजाम्बवन्तंचदुर्जयम् ।।6.29.3।। Yuddha Kanda,29,4,सुषेणंकुमुदंनीलंनलंचप्लवगर्षभम् । गजंगवाक्षंशरभंमैन्दंचद्विविदंतथा ।।6.29.4।। Yuddha Kanda,29,5,किञ्चिदाविग्नहृदयोजातक्रोधश्चरावणः । भर्त्सयामासतौवीरौकथान्तेशुकसारणौ ।।6.29.5।। Yuddha Kanda,29,6,अधोमुखौतौप्रणतावब्रवीच्छुकसारणौ । रोषगद्गदयावाचासंरब्धंपरुषंवचः ।।6.29.6।। Yuddha Kanda,29,7,नतावत्सदृशंनामसचिवैरुपजीविभिः । विप्रियंनृपतेर्वक्तुंनिग्रहेप्रग्रहेप्रभोः ।।6.29.7।। Yuddha Kanda,29,8,रिपूणांप्रतिकूलानांयुद्धार्थमभिवर्तताम् । उभाभ्यांसदृशंनामवक्तुमप्रस्तवेस्तवम् ।।6.29.8।। Yuddha Kanda,29,9,आचार्यागुरवोवृद्धावृथावांपर्युपासिताः । सारंयद्राजशास्त्राणामनुजीव्यंनगृह्यते ।।6.29.9।। Yuddha Kanda,29,10,गृहीतोवानविज्ञातोभारोऽज्ञानस्यवाह्यते । ईदृशै: सचिवैर्युक्तोमूर्खैर्दिष्ट्यधराम्यहम् ।।6.29.10।। Yuddha Kanda,29,11,किंनुमृत्योर्भयंनास्तिवक्तुंमांपरुषंवचः । यस्यमेशासतोजिह्वाप्रयच्छतिशुभाशुभम् ।।6.29.11।। Yuddha Kanda,29,12,अप्येवदहनंस्पृष्टवावनेतिष्ठन्तिपादपाः । राजदोषपरामृष्टास्तिष्ठन्तेनापराधिनः ।।6.29.12।। Yuddha Kanda,29,13,हन्यामहंत्विमौपापौशत्रुपक्षप्रशंसकौ । यदिपूर्वोपकारैस्तुनक्रोधोमृदुतांव्रजेत् ।।6.29.13।। Yuddha Kanda,29,14,अपध्वंसतगच्छध्वंसन्निकर्षाद्इतोमम । नहिवांहन्तुमिच्छामिस्मराम्युपकृतानिवाम् ।।6.29.14।। हतावेवकृतघ्नौतौमयिस्नेहपराङ्मुखौ । Yuddha Kanda,29,15,एवमुक्तौतुसव्रीळौतावुभौशुकसारणौ । रावणंजयशब्देनप्रतिनन्द्याभिनिस्सृतौ ।।6.29.15।। Yuddha Kanda,29,16,अब्रवीत्सदशग्रीव: समीपस्थंमहोदरम् । उपस्तापयमेशीघ्रंचारान्नीतिविशारदान् ।।6.29.16।। Yuddha Kanda,29,17,महोदरस्तथोक्तस्तुशीघ्रमाज्ञापयच्चरान् ।।6.29.17।। Yuddha Kanda,29,18,ततश्चारास्संत्वरिताःप्राप्ताःपार्थिवशासनात् । उपस्थिताःप्राञ्जलयोवर्धयित्वाजयशिषाः ।।6.29.18।। Yuddha Kanda,29,19,तानब्रवीत्ततोवाक्यंरावणोराक्षसाधिपः । चारान्प्रत्यायितान् शूरान्भक्तान्विगतसाध्वसान् ।।6.29.19।। Yuddha Kanda,29,20,इतोगच्छतरामस्यव्यवसायंपरीक्षथ । मन्त्रिष्वभ्यन्तरायेऽस्यप्रीत्यातेनसमागताः ।।6.29.20।। Yuddha Kanda,29,21,कथंस्वपितिजागर्तिकिमन्यच्चकरिष्यति । विज्ञायनिपुणंसर्वमागन्तव्यमशेषतः ।।6.29.21।। Yuddha Kanda,29,22,चारेणविदितश्शत्रुःपण्डितैर्वसुधाधिपैः । युद्धेस्वल्पेनयत्नेनसमासाद्यनिरस्यते ।।6.29.22।। Yuddha Kanda,29,23,चारास्तुतेतथेत्युक्त्वाप्रहृष्टाराक्षसेश्वरम् । शार्दूलमग्रतःकृत्वाततश्चक्रुःप्रदक्षिणम् ।।6.29.23।। Yuddha Kanda,29,24,ततस्तेतंमहात्मानंचाराराक्षससत्तमम् । कृत्वाप्रदक्षिणंजग्मुर्यत्ररामस्सलक्ष्मणः ।।6.29.24।। Yuddha Kanda,29,25,तेसुवेलस्यशैलस्यसमीपेरामलक्ष्मणौ । प्रच्छन्नाददृशुर्गत्वाससुग्रीवविभीषणौ ।।6.29.25।। Yuddha Kanda,29,26,प्रेक्षमाणाश्चमूंतांतुबभूवुर्भयविक्लबाः । तेतुधर्मात्मनादृष्टाराक्षसेन्द्रेणराक्षसा ।।6.29.26।। Yuddha Kanda,29,27,विभीषणेनतत्रस्थानिगृहीतायदृच्छया । शार्दूलोग्राहितस्त्वेकःपापोऽयमितिराक्षसः ।।6.29.27।। Yuddha Kanda,29,28,मोचितस्सोऽपिरामेणवध्यमानःप्लवङ्गमैः । अनृशंस्येनरामेणमोचिताराक्षसाःपरे ।।6.29.28।। Yuddha Kanda,29,29,वानरैरर्दितास्तेतुविक्रान्तैर्लघुविक्रमैः । पुनर्लङ्कामनुप्राप्ताश्वसन्तोनष्टचेतसः ।।6.29.29।। Yuddha Kanda,30,1,ततस्तमक्षोभ्यबलंलङ्काधिपतयेचराः । सुवेलेराघवंशैलेनिविष्टंप्रत्यवेदयन् ।।6.30.1।। Yuddha Kanda,30,2,चाराणांरावणश्श्रुत्वाप्राप्तंरामंमहाबलम् । जातोद्वेगोऽभवत्किञ्चिच्छार्दूलंवाक्यमब्रवीत् ।।6.30.2।। Yuddha Kanda,30,3,अयथावच्चतेवर्णोदीनश्चासिनिशाचर । नासिकच्चिदमित्राणांक्रुद्धानांवशमागतः ।।6.30.3।। Yuddha Kanda,30,4,इतितेनानुशिष्टस्तुवाचंमन्दमुदीरयत् । तदाराक्षसशार्दूलंशार्दूलोभयविह्वलः ।।6.30.4।। Yuddha Kanda,30,5,नतेचारयितुंशक्याराजन्वानरपुङ्गवाः । विक्रान्ताबलवन्तश्चराघवेणचरक्षिताः ।।6.30.5।। Yuddha Kanda,30,6,नापिसम्भाषितुंशक्यास्सम्प्रश्नोऽत्रनलभ्यते । सर्वतोरक्ष्यतेपन्थावानरैःपर्वतोपमै ।।6.30.6।। Yuddha Kanda,30,7,प्रविष्टमात्रेज्ञातोऽहंबलेतस्मिन्नचारिते । बलाद्गृहीतोरक्षोभिर्बहुधाऽस्मिविचालितः ।।6.30.7।। Yuddha Kanda,30,8,जानुभिर्मुष्टिभिर्दन्तेस्तलैश्चाभिहतोभृशम् । परिणीतोऽस्मिहरिभिर्बलवद्भिरमर्षणैः ।।6.30.8।। Yuddha Kanda,30,9,परिणीयचसर्वत्रनीतोऽहंरामसंसदम् । रुधिरादिग्धसर्वाङ्गोविह्वलश्चलितेन्द्रियः ।।6.30.9।। Yuddha Kanda,30,10,हरिभिर्वध्यमानश्चयाचमानःकृताञ्जलिः । राघवेणपरित्रातोजीवामीतियदृच्छया ।।6.30.10।। Yuddha Kanda,30,11,एषशैलैश्शिलाभिश्चपूरयित्वामहार्णवम् । द्वारमाश्रित्यलङ्कायारामस्तिष्ठतिसायुधः ।।6.30.11।। Yuddha Kanda,30,12,गरुडव्यूहमास्थायसर्वतोहरिभिर्वृतः । मांविसृज्यमहातेजालङ्कामेवाभिवर्तते ।।6.30.12।। Yuddha Kanda,30,13,पुराप्राकारमायातिक्षिप्रमेकतरंकुरु । सीतांवास्मैप्रयच्छाशुयुद्धंवाप्रदीयताम् ।।6.30.13।। Yuddha Kanda,30,14,मनसातंतदाप्रेक्ष्यतच्छ्रुत्वाराक्षसाधिपः । शार्दूलंसुमहद्वाक्यमथोवाचसरावणः ।।6.30.14।। Yuddha Kanda,30,15,यदिमांप्रतियुध्येरन्देवगन्धर्वदानवाः । नैवसीतांप्रदास्यामिसर्वलोकभयादपि ।।6.30.15।। Yuddha Kanda,30,16,एवमुक्त्वामहातेजारावणःपुनरब्रवीत् । चरिताभवतासेनाकेऽत्रशूराःप्लवङ्गमाः ।।6.30.16।। Yuddha Kanda,30,17,कीदृशा: किंप्रभा: सौम्यवानरायेदुरासदाः । कस्यपुत्राश्चपौत्राश्चतत्त्वमाख्याहिराक्षस:।। 6.30.17।। Yuddha Kanda,30,18,तथात्रप्रतिपत्स्यामिज्ञात्वातेषांबलाबलम् । अवश्यंबलसङ् ख्यानंकर्तव्यंयुद्धमिच्छताम् ।।6.30.18।। Yuddha Kanda,30,19,अथैवमुक्तश्शार्दूलोरावणेनोत्तमश्चरः । इदंवचनमारेभेवक्तुंरावणसन्निधौ ।।6.30.19।। Yuddha Kanda,30,20,अथर्क्षरजसःपुत्रोयुधिराजासुदुर्जयः । गद्गदस्याथपुत्त्रोऽत्रजाम्बवानितिविश्रुतः ।।6.30.20।। Yuddha Kanda,30,21,गद्गदस्यैवपुत्त्रोऽन्योगुरुपुत्र: शतक्रतोः । कदनंयस्यपुत्रेणकृतमेकेनरक्षसाम् ।।6.30.21।। Yuddha Kanda,30,22,सुषेणश्चापिधर्मात्मापुत्रोधर्मस्यवीर्यवान् । सौम्यस्सोमात्मजश्चात्रराजन् दधिमुखःकपिः ।।6.30.22।। Yuddha Kanda,30,23,सुमुखोदुर्मुखश्चात्रवेगदर्शीचवानरः । मृत्युर्वानररूपेणनूनंसृष्टस्स्वयम्भुवा ।।6.30.23।। Yuddha Kanda,30,24,पुत्त्रोहुतवहस्याथनीलस्सेनापतिस्स्वयम् । अनिलस्यचपुत्त्रोऽत्रहनूमानितिविश्रुतः ।।6.30.24।। Yuddha Kanda,30,25,नप्ताशक्रस्यदुर्धर्षोबलवानङ्गदोयुवा । मैन्दश्चद्विविदश्चोभौबलिनावश्विसम्भवौ ।।6.30.25।। Yuddha Kanda,30,26,पुत्त्रावैवस्वतस्यात्रपञ्चकालान्तकोपमाः । गजोगवाक्षोगवयश्शरभोगन्धमादनः ।।6.30.26।। Yuddha Kanda,30,27,दशवानरकोट्यश्चशूराणांयुद्धकाङ्क्षिणाम् । श्रीमतांदेवपुत्त्राणांशेषंनाख्यातुमुत्सहे ।।6.30.27।। Yuddha Kanda,30,28,पुत्त्रोदशरथस्यैषसिंहसंहनोयुवा । दूषणोनिहतोयेनखरश्चत्रिशिरास्तथा ।।6.30.28।। Yuddha Kanda,30,29,नास्तिरामस्यसदृशोविक्रमेभुविकश्चन । विराधोनिहतोयेनकबन्धश्चान्तकोपमः ।।6.30.29।। Yuddha Kanda,30,30,वक्तुंनशक्तोरामस्यनरःकश्चिद्गुणान् क्षितौ । जनस्थानगतायेनयावन्तोराक्षसाहताः ।।6.30.30।। Yuddha Kanda,30,31,लक्ष्मणश्चात्रधर्मात्मामातङ्गानामिवर्षभः । यस्यबाणपथंप्राप्यनजीवेदपिवासवः ।।6.30.31।। Yuddha Kanda,30,32,श्वेतोज्योतिर्मुखश्चात्रभास्करस्यात्मसम्भवौ । वरुणस्यचपुत्त्रोऽन्योःहेमकूटःप्लवङ्गमः ।।6.30.32।। Yuddha Kanda,30,33,विश्वकर्मसुतोवीरोनलःप्लवगसत्तमः । विक्रान्तोबलवानत्रवसुपुत्रस्सदुर्धरः ।।6.30.33।। Yuddha Kanda,30,34,राक्षसानांवरिष्ठश्चतवभ्रातावीभीषणः । प्रतिगृह्यपुरींलङ्कांराघवस्यहितेरतः ।।6.30.34।। Yuddha Kanda,30,35,इतिसर्वंसमाख्यातंतवेदंवानरंबलम् । सुवेलेऽधिष्ठितंशैलेशेषकार्येभवान्गतिः ।।6.30.35।। Yuddha Kanda,31,1,ततस्तमक्षोभ्यबलंलङ्काधिपतयेचराः । सुवेलेराघवंशैलेनिविष्टंप्रत्यवेदयन् ।।6.31.1।। Yuddha Kanda,31,2,चाराणांरावणश्श्रुत्वाप्राप्तंरामंमहाबलम् । जातोद्वेगोऽभवत्किञ्चित्सचिवानिदमब्रवीत् ।।6.31.2।। Yuddha Kanda,31,3,मन्त्रिणश्शीघ्रमायान्तुसर्वेवैसुसमाहिताः । अयंनोमन्त्रकालोहिसम्प्रप्ताइतिराक्षसाः ।।6.31.3।। Yuddha Kanda,31,4,तस्यतद्वचनंश्रुत्वामन्त्रिणोऽभ्यागमन् द्रुतम् । ततस्समन्त्रयामासराक्षसैस्सचिवैस्सह ।।6.31.4।। Yuddha Kanda,31,5,मन्त्रयित्वासदुर्धर्षःक्षमंयत्समनन्तरम् । विसर्जयित्वासचिवान्प्रविवेशस्वमालयम् ।।6.31.5।। Yuddha Kanda,31,6,ततोराक्षसमाहूयविद्युज्जिह्वंमहाबलम् । मायाविदंमहामायःप्राविशद्यत्रमैथिली ।।6.31.6।। Yuddha Kanda,31,7,विद्युज्जिह्वंचमायाज्ञमब्रवीद्राक्षसाधिपः । मोहयिष्यावहेसीतांमाययाजनकात्मजाम् ।।6.31.7।। Yuddha Kanda,31,8,शिरोमायामयंगृह्यराघवस्यनिशाचर: । त्वंमांसमुतिष्ठस्वमहच्चसशरंधनुः ।।6.31.8।। Yuddha Kanda,31,9,एवमुक्तस्तथेत्याहविद्युज्जिह्वोनिशाचरः । दर्शयामासतांमायांसुप्रयुक्तांसरावणे ।।6.31.9।। तस्यतुष्टोऽभवद्राजाप्रददौचविभूषणम् । Yuddha Kanda,31,10,अशोकवनिकायांतुसीतादर्शनलालसः । वैरृतानामधिपतिस्संविवेशमहाबलः ।।6.31.10।। Yuddha Kanda,31,11,ततोदीनामदैन्यार्हांददर्शधनदानुजः ।।6.31.11।। Yuddha Kanda,31,12,अधोमुखींशोकपरामुपविष्टांमहीतले । भर्तारमेवध्यायन्तीमशोकवविकांगताम् ।।6.31.12।। Yuddha Kanda,31,13,उपास्यमानांघोराभीराक्षसीभिरितस्ततः । उपसृत्यततस्सीतांप्रहर्षंनामकीर्तयन् ।।6.31.13।। इदंचवचनंधृष्टमुवाचजनकात्मजाम् । Yuddha Kanda,31,14,सान्त्व्यमानामयाभद्रेयमुपाश्रित्यवल्गसे । खरहन्तासतेभर्ताराघवस्समरेहतः ।।6.31.14।। Yuddha Kanda,31,15,छिन्नंतेसर्वतोमूलंदर्पस्तेनिहतोमया । व्यसनेनात्मनस्सीते ममभार्याभविष्यसि ।।6.31.15।। Yuddha Kanda,31,16,विसृजेमांमतिंमूढे: किंमृतेनकरिष्यसि । भवस्वभद्रे: भार्याणांसर्वेसामीश्वरीमम ।।6.31.16।। Yuddha Kanda,31,17,अल्पपुण्ये: निवृत्तार्थे: मूढे: पण्डितमानिनि: । शृणुभर्तृवधंसीते: घोरंवृत्रवधंयथा ।।6.31.17।। Yuddha Kanda,31,18,समायातस्समुद्रान्तंमांहन्तुंकिलराघवः । वानरेन्द्रप्रणीतेनबलेनमहतावृतः ।।6.31.18।। Yuddha Kanda,31,19,सन्निविष्टस्समुद्रस्यपीड्यतीरमथोत्तरम् । बलेनमहतारामोव्रजत्यस्तंदिवाकरे ।।6.31.19।। Yuddha Kanda,31,20,अथाध्वनिपरिश्रान्तमर्धरात्रेस्थितंबलम् । सुखसुप्तंसमासाद्यचारित्रंप्रथमंचरैः ।।6.31.20।। Yuddha Kanda,31,21,तत्प्रहस्तप्रणीतेनबलेनमहतामम । बलमस्यहतंरात्रौयत्ररामस्सलक्ष्मणः ।।6.31.21।। Yuddha Kanda,31,22,पट्टसान्परिघांश्चक्रान्दण्डान्महायशान् । बाणजालानिशूलानिभास्वरान्कूटमुद्गरान् ।।6.31.22।। Yuddha Kanda,31,23,यष्टीश्चतोमरान् शक्तीश्चक्राणिमुसलानिच । उद्यम्योद्यम्यरक्षोभिर्वानरेषुनिपातितां ।।6.31.23।। Yuddha Kanda,31,24,अथसुप्तस्यरामस्यप्रहस्तेनप्रमाथिना । असक्तंकृतहस्तेनशिरश्छिन्नंमहासिना ।।6.31.24।। Yuddha Kanda,31,25,विभीषणस्समुत्पत्यनिगृहीतोयदृच्छया । दिशःप्रव्राजितस्सर्वैस्सर्लक्ष्मणःप्लवगैस्सहा ।।6.31.25।। Yuddha Kanda,31,26,सुग्रीवोग्रीनयासीतेभग्नयाप्लवगाधिपः । निरस्तहनुकश्शेतेहनुमान्राक्षसैर्हतः ।।6.31.26।। Yuddha Kanda,31,27,जाम्बवानथजानुभ्यामुत्पतन्निहतोयुधि । पट्टसैर्बहुभिश्छिन्नोनिकृत्तःपादपोयथा ।।6.31.27।। Yuddha Kanda,31,28,मैन्दश्चद्विविदश्चोभौनिहतौवानरर्षभौ ।।6.31.28।। Yuddha Kanda,31,29,निश्श्वसन्तौरुदन्तौचरुधिरेणसमुक्षितौ । असिनाव्यायतौछिन्नौमध्येह्यरिनिषूदनौ ।।6.31.29।। Yuddha Kanda,31,30,अनुतिष्ठतिमेदिन्यांपनसःपनसोयथा ।।6.31.30।। Yuddha Kanda,31,31,नाराचैर्बहुभिश्चिन्नश्शेतेदर्यांदरीमुखः । कुमुदस्तुमहातेजानिष्कूजन्सायकै: कृतः ।।6.31.31।। Yuddha Kanda,31,32,अङ्गदोबहुभिश्छिन्नश्शरैरासाद्यराक्षसैः । पतितोरुधिरोद्गारीक्षितौनिपतिताङ्गदः ।।6.31.32।। Yuddha Kanda,31,33,हरयोमथितानागैरथजातैस्तथापरे । शयितामृदिताश्चाश्वैर्यायुवेगैरिवाम्बुदाः ।।6.31.33।। Yuddha Kanda,31,34,प्रहृताश्चपरेत्रस्ताहस्यमानाजघन्यतः । अभिद्रुतास्तुरक्षोभिस्सिंहैरिवमहाद्विपाः ।।6.31.34।। Yuddha Kanda,31,35,सागरेपतिताःकेचित्केचिग्दगनमाश्रिताः । ऋक्षावृक्षानुपारूढावानरींवृत्तिमाश्रिताः ।।6.31.35।। Yuddha Kanda,31,36,सागरस्यचतीरेषुशैलेषुचवनेषुच । पिङ्गलास्तेविरूपाक्षैर्बहुभिर्बहवोहताः ।।6.31.36।। Yuddha Kanda,31,37,एवंतवहतोभर्ताससैन्योममसेनया । क्षतजार्द्रंरजोध्वस्तमिदंचस्याहृतंशिरः ।।6.31.37।। Yuddha Kanda,31,38,ततःपरमदुर्धर्षोरावणोराक्षसेश्वरः । सीतायामुपशन्त्यांराक्षसीमिदमब्रवीत् ।।6.31.38।। Yuddha Kanda,31,39,राक्षसंक्रूरकर्माणंविद्युज्जिह्वंत्वमानय । येनतद्राघवशिरस्सङ्ग्रामात्स्वयमाहृतम् ।।6.31.39।। Yuddha Kanda,31,40,विद्युज्जिह्वस्ततोगृह्यशिरस्तत्सशरासनम् । प्रणामंशिरसाकृत्वारावणस्याग्रतस्थितः ।।6.31.40।। Yuddha Kanda,31,41,तमब्रवीत्ततोराजारावणोराक्षसंस्थितम् । विद्युज्जिह्वंमहाजिह्वंसमीपपरिवर्तिनम् ।।6.31.41।। Yuddha Kanda,31,42,अग्रतःकुरुसीतायाश्शीघ्रंदाशरधेशशिरः । अवस्थांपश्चिमांभर्तुःकृपणासाधुपश्यतु ।।6.31.42।। Yuddha Kanda,31,43,एवमुक्तंतुतद्रक्षशशिरस्तत्प्रियदर्शनम् । उपनिक्षिप्यसीतायाःक्षिप्रमन्तरधीयत ।।6.31.43।। Yuddha Kanda,31,44,रावणश्चापिचिक्षेपभस्वरंकार्मुकंमहत् । त्रिषुलोकेषुविख्यातंसीतामिदमुवाचह ।।6.31.44।। Yuddha Kanda,31,45,इदंतुतवरामस्यकार्मुकंज्यासमायुतम् । इहप्रहस्तेनानीतंहत्वातंनिशिमानुषम् ।।6.31.45।। Yuddha Kanda,32,1,सासीतातच्छिरोदृष्टवातच्चकार्मुकमुत्तमम् । सुग्रीवप्रतिसंपर्गमाख्यातंचहनूमता ।।6.32.1।। Yuddha Kanda,32,2,नयनेमुखवर्णंचभर्तुस्तत्सदृशंमुखम् । केशान् केशान्तदेशंचतंचचूडामणिंशुभम् ।।6.32.2।। Yuddha Kanda,32,3,एतैस्सर्वेरभिज्ञानैरभिज्ञायसुदुःखिता । निजगर्हेचकैकेयींक्रोशन्तीकुररीयथा ।।6.32.3।। Yuddha Kanda,32,4,सकामाभवकैकेयीहतोऽयंकुलनन्दनः । कुलमुत्सादितंसर्वंत्वयाकलहशीलया ।।6.32.4।। Yuddha Kanda,32,5,आर्येणकिंतेकैकेयी कृतंरामेणविप्रियम् । यन्मयाचीरवसनस्त्वयाप्रस्थापितोवनम् ।।6.32.5।। Yuddha Kanda,32,6,एवमुक्त्वातुवैदेहीवेपमानातपस्विनी । जगामजगतींबालाछिन्नातुकदळीयथा ।।6.32.6।। Yuddha Kanda,32,7,सामुहूर्तात्समाश्वास्यप्रतिलभ्यचचेतनाम् । तच्छिरस्समुपाघ्रायविललासायतेक्षणा ।।6.32.7।। Yuddha Kanda,32,8,हाहताऽस्मिमहाबाहो वीरव्रतमनुव्रत । इमांतेपश्चिमावस्थांगताऽस्मिविधवाकृता ।।6.32.8।। Yuddha Kanda,32,9,प्रथमंमरणंनार्याभर्तुर्वैगुण्यमुच्यते । सुवृत्त: स्साधुवृत्तायास्सम्वृत्तस्त्वंममाग्रतः ।।6.32.9।। Yuddha Kanda,32,10,दुःखाद्दुःखंप्रपन्नायामग्नायाश्शोकसागरे । योहिमामुद्यतनिस्त्रातुंसोऽपित्वंविनिपातितः ।।6.32.10।। Yuddha Kanda,32,11,साश्वश्रूर्ममकौसल्यात्वयापुत्रेणराघव: । वत्सेनेवयथाधेनुर्विवत्सावत्सलाकृता ।।6.32.11।। Yuddha Kanda,32,12,आद्दिष्टंदीर्घमायुस्तेयैरचिन्त्यपराक्रम । अनृतंवचनंतेषामल्पायुरपिराघव ।।6.32.12।। Yuddha Kanda,32,13,अथवानश्यतिप्रज्ञाप्राज्ञस्यापिसतस्तव । पचत्येनंयथाकालोभूतानांप्रभवोऽह्ययम् ।।6.32.13।। Yuddha Kanda,32,14,अदृष्टंमृत्युमापन्नःकस्मात्त्वंनयशास्त्रवित् । व्यसनानामुपायज्ञःकुशलोह्यसिवर्जने ।।6.32.14।। Yuddha Kanda,32,15,तथात्वंसम्परिष्वज्यरौद्रयाऽतिनृशंसया । काळरात्य्राममाच्छिद्यहृतःकमललोचन:।। 6.32.15।। Yuddha Kanda,32,16,उपशेषेमहाबाहो: मांविहायतपस्विनीम् । प्रियामिवसमालशिष्यपृथिवींपुरुषर्षभ ।।6.32.16।। Yuddha Kanda,32,17,अर्चितंसततंयत्तद्गन्धमाल्यैर्मयातव । इदंतेमप्रतियंवीरधनुःकाञ्चानभूषणम् ।।6.32.17।। Yuddha Kanda,32,18,पित्रादशरथेनत्वंश्वशुरेणममानघ: । सर्वैश्चपितृभिस्सार्थंनूनंस्वर्गेसमागतः ।।6.32.18।। Yuddha Kanda,32,19,दिविनक्षत्रभूतस्त्वंमहात्कर्मकृतप्रियम् । पुण्यंराजर्षिवंशंत्वमात्मनस्समुपेक्षसे ।।6.32.19।। Yuddha Kanda,32,20,किंमांनप्रेक्षसेराजन् किंमांनप्रतिभाषसे । बालांबाल्येनसम्प्राप्तांभार्यांमांसहचारिणीम् ।।6.32.20।। Yuddha Kanda,32,21,संश्रुतंगृह्णतापाणिंचरिष्यामीतियत्त्वया । स्मरतन्ममकाकुत्स्थनयमामपिदुःखिताम् ।।6.32.21।। Yuddha Kanda,32,22,कस्मान्मामपहायत्वंगतोगतिमतांवर । अस्माल्लोकादमुंलोकंत्यक्त्वामामपिदुःखिताम् ।।6.32.22।। Yuddha Kanda,32,23,कल्याणैरुचितंयत्तत्परिष्वक्तंमयैवतु । क्रव्यादैस्तच्छरीरंतेमानंविपरिकृष्यते ।।6.32.23।। Yuddha Kanda,32,24,अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः । अग्निहोत्रेणसंस्कारंकेनत्वंनतुलप्स्यसे ।।6.32.24।। Yuddha Kanda,32,25,प्रव्रज्यामुपपन्नानांत्रयाणामेकमागतम् । परिप्रक्ष्यतिकौसल्यालक्ष्मणंशोकलालसा ।।6.32.25।। Yuddha Kanda,32,26,सतस्याःपरिपृच्छन्त्यावधंमित्रबलस्यते । तवचाख्यास्यतेनूनंनिशायांराक्षसैर्वधम् ।।6.32.26।। Yuddha Kanda,32,27,सात्वांसुप्तंहतंश्रुत्वामांचरक्षोगृहंगताम् । हृदयेनविदीर्णेननभविष्यतिराघव ।।6.32.27।। Yuddha Kanda,32,28,ममहेतोरनार्यायाह्यनर्हःपार्थिवात्म: । रामस्सागरमुततीर्यसत्त्ववान् गोष्पदेहतः ।।6.32.28।। Yuddha Kanda,32,29,अहंदाशरथेनोढामोहात्स्वकुलपांसनी । आर्यपुत्रस्यरामस्यभार्यामृत्युरजायत ।।6.32.29।। Yuddha Kanda,32,30,नूनमन्यांमयाजातिंवारितंदानमुत्तमम् । याहमद्येहशोचामिभार्यासर्वतिथेरपि ।।6.32.30।। Yuddha Kanda,32,31,साधुपातयमांक्षिप्रंरामस्योपरिरावण । समानयपतिंपन्त्याकुरुकल्याणमुत्तमम् ।।6.32.31।। Yuddha Kanda,32,32,शिरसामेशिरश्चास्यकायंकायेनयोजय । रावणानुगमिष्यामिगतिंभर्तुर्महात्मनः ।।6.32.32।। Yuddha Kanda,32,33,इतिसदुःखसन्तप्ताविललापायतेक्षणा । भर्तुश्शिरोधनुस्तत्रसमीक्ष्यचपुनःपुनः ।।6.32.33।। Yuddha Kanda,32,34,एवंलालप्यमानायांसीतायांतत्रराक्षसः । अभिचक्रामभर्तारमनीकस्थःकृताञ्जलिः ।।6.32.34।। Yuddha Kanda,32,35,विजयस्वार्यपुत्रेतिसोऽभिवाद्यप्रसाद्यच । न्यवेदयदनुप्राप्तंप्रहस्तंवाहिनीपतिम् ।।6.32.35।। Yuddha Kanda,32,36,अमात्यैस्सहितस्सर्वैःप्रहस्तस्समुपस्थितः । तेनदर्शनकामेनवयंप्रस्थापिताःप्रभो ।।6.32.36।। Yuddha Kanda,32,37,नूनमस्तिमहाराज राजभावात्क्षमान्वितं । किञ्चिदात्ययिकंकार्यंतेषांत्वंदर्शनंकुरु ।।6.32.37।। Yuddha Kanda,32,38,एतच्छ्रुत्वादशग्रीवोराक्षसप्रतिवेदितम् । अशोकन्विकांत्यक्त्वामन्त्रिणांदर्शनंययौ ।।6.32.38।। Yuddha Kanda,32,39,सतुसर्वंसमर्थ्यैवमन्त्रिभिःकृत्यमात्मनः । सभांप्रविश्यविदधेविदित्वारामविक्रमम् ।।6.32.39।। Yuddha Kanda,32,40,अन्तर्थानंतुतच्छीर्षंतच्चकार्मुकमुत्तमम् । जगामरावणस्यैवनिर्याणसमनन्तरम् ।।6.32.40।। Yuddha Kanda,32,41,राक्षसेन्द्रस्तुतैस्सार्धंमन्त्रिभिर्भीमविक्रमैः । समर्थयामासतदारामकार्यविनिश्चयम् ।।6.32.41।। Yuddha Kanda,32,42,अविदूरस्थितान्सर्वान्बलाध्यक्षाहनितैषिणः । अब्रवीत्कालसदृशोरावणोराक्षसाधिपः ।।6.32.42।। Yuddha Kanda,32,43,शीघ्रंभेरीनिनादेनस्फुटंकोणाहतेनमे । समानयध्वंसैन्यानिवक्तव्यंचनकारणम् ।।6.32.43।। Yuddha Kanda,32,44,ततस्तथेतिप्रतिगृह्यतद्वचोबलाधिपास्तेमहदात्मनोबलम् । समानयंश्चैवसमागमंचतेन्यवेदयन्भर्तरियुद्धकाङ्क्षिणि ।।6.32.44।। Yuddha Kanda,33,1,सीतांतुमोहितांदृष्टवासरमानामराक्षसी । आससादाथवैदेहींप्रियांप्रणयिनींसखी ।।6.33.1।। Yuddha Kanda,33,2,मोहितांराक्षसेन्द्रेणसीतांपरमदुःखिताम् । आश्वासयामासतदासरमामृदुभाषिणी ।।6.33.2।। Yuddha Kanda,33,3,साहितत्रकृतामित्रंसीतयारक्ष्यमाणया । रक्षन्तीरावणादिष्टासानुक्रोशादृढव्रता ।।6.33.3।। Yuddha Kanda,33,4,साददर्शसखीसीतांसरमानष्टचेतनाम् । उपावृत्त्योत्थितांध्वस्तांबडबामिवपांसुलाम् ।।6.33.4।। Yuddha Kanda,33,5,तांसमाश्वासयामाससखीस्नेहेनसुव्रता । समाश्वसिहिवैदेही माभूत्तेमवसोव्यथा ।।6.33.5।। Yuddha Kanda,33,6,उक्तायद्रावणेनत्वंप्रत्युक्तश्चस्वयंत्वया । सखीस्नेहेनतभदीरुमयासर्वंप्रतिश्रुतम् ।।6.33.6।। Yuddha Kanda,33,7,लीनयागहनेशून्येभयमुत्सृज्यरावणात् । तवहेतोर्विशालाक्षी नहिमेजीवितंप्रियम् ।।6.33.7।। Yuddha Kanda,33,8,ससम्भ्रान्तश्चनिष्क्रान्तोयत्कृतेराक्षसाधिपः । तच्चमेविदितंसर्वमभिनिष्क्रम्यमैथिलि:।। 6.33.8।। Yuddha Kanda,33,9,नशक्यंसौप्तिकंकर्तुंरामस्यविदितात्मनः । वधश्चपुरुषव्याघ्रेतस्मिन्नैवोपपद्यते ।।6.33.9।। Yuddha Kanda,33,10,नत्वेववानराहन्तुंशक्याःपादपयोधिपः । सुरादेवर्षभेणेवरामेणहिसुरक्षिताः ।।6.33.10।। Yuddha Kanda,33,11,दीर्घवृत्तभुज्शीमान्महोरस्कःप्रतापवान् । धन्वीसंहननोपेतोधर्मात्माभुविविश्रुतः ।।6.33.11।। Yuddha Kanda,33,12,विक्रान्तोरक्षितानित्यमात्मनश्चपरस्यच । लक्ष्मणेनसहभ्रात्राकुशलीनयशास्त्रवित् ।।6.33.12।। Yuddha Kanda,33,13,हन्तापरबलौघनामचिन्त्यबलपौरुषः । नहतोराघवश्रशीमान्सीते: शत्रुनिबर्हणः ।।6.33.13।। Yuddha Kanda,33,14,अयुक्तबुद्धिकृत्येनसर्वभूतविरोधिना । इहप्रमुक्तारौद्रेणमायामायाविदात्वयि ।।6.33.14।। Yuddha Kanda,33,15,शोकस्तेविगतस्सर्वःकल्याणंत्वामुपस्थितम् । ध्रुवंत्वांभजतेलक्ष्मीःप्रियंतेप्रीतिकरंशृणुः ।।6.33.15।। Yuddha Kanda,33,16,उत्तीर्यसागरंरामस्सहवानरसेनया । सन्निविष्टःसमुद्रस्यतीरमासाद्यदक्षिणम् ।।6.33.16।। Yuddha Kanda,33,17,दृष्टोमेपरिपूर्णार्थःकाकुत्स्थस्सहलक्ष्मणः । सहितैस्सागरान्तस्थैर्बलैस्तिष्ठतिरक्षितः ।।6.33.17।। Yuddha Kanda,33,18,अनेनप्रेषितायेचराक्षसालघुविक्रमाः । राघवस्तीर्णइत्येवप्रवृत्तिस्तैरिहाहृता ।।6.33.18।। Yuddha Kanda,33,19,सतांश्रुत्वाविशालाक्षी: प्रवृत्तिंराक्षसाधिपः । एषमन्त्रयतेसर्वैस्सचिवैस्सहरावणः ।।6.33.19।। Yuddha Kanda,33,20,इतिब्रुवाणासरमाराक्षसीसीतयासह । सर्वोद्योगेनसैन्यानांशब्दंशुश्रावभैरवम् ।।6.33.20।। Yuddha Kanda,33,21,दण्डनिर्घातवादिन्याश्रुत्वाभेर्यामहास्वनम् । उवाचसरमासीतामिदंमधुरभाषिणी ।।6.33.21।। Yuddha Kanda,33,22,सन्नाहजननीह्येषाभैरवाभीरु: भेरिका । भेरीनादंचगम्भीरंशृणुतोयदनिःस्वनम् ।।6.33.22।। Yuddha Kanda,33,23,कल्प्यन्तेमत्तमातङ्गायुज्यन्तेरथवाजिन । हृष्यन्तेतुरगारूढाःप्रासहस्तस्सहस्रशः ।।6.33.23।। Yuddha Kanda,33,24,तत्रतत्रचसन्नद्धास्सपततनिपदातयः । अपूर्यन्तेराजमार्गास्सैन्यैरद्भुतदर्शनैः ।।6.33.24।। वेगवभदिन्नदभदिश्चतोयौघैरिवसागरः । Yuddha Kanda,33,25,शस्त्राणांचप्रसन्नानांचर्मणांवर्मणांतथा ।।6.33.25।। Yuddha Kanda,33,26,रथवाजिगजानांचभूषितानांचराक्षसाम् । संभ्रमोराक्षसामेषहृषितानांतरस्विनाम् ।।6.33.26।। Yuddha Kanda,33,27,प्रभांविसृजतांपश्यनानावर्णांसमुत्थिताम् । वनंनिर्धहतोघर्मेयथारूपंविभावसोः ।।6.33.27।। Yuddha Kanda,33,28,घण्टानांशृणुनिर्घोषंरथानांशृणुनिःस्वनम् । हयानांहेषमाणानांशृणुतूर्यध्वनिंयथा ।।6.33.28।। Yuddha Kanda,33,29,उद्यतायुधहस्तानांराक्षसेन्द्रानुयायिनाम् । सम्भ्रमोरक्षसामेषतुमुलोरोमहर्षणः ।।6.33.29।। Yuddha Kanda,33,30,श्रीस्त्वांभजतिशोकघ्नीरक्षसांभयमागतम् । रामःकमलपत्राक्षोदैत्यानामिववासवः ।।6.33.30।। Yuddha Kanda,33,31,निर्जित्यजितक्रोधस्त्वामचिन्तपराक्रमः । रावणंसमरेहत्वाभर्तात्वाऽधिगमिष्यति ।।6.33.31।। Yuddha Kanda,33,32,विक्रमिष्यतिरक्षस्सुभर्तातेसहलक्ष्मणः । यथाशत्रुषुशत्रुघ्नोविष्णुनासहवासवः ।।6.33.32।। Yuddha Kanda,33,33,हिरामस्यक्षिप्रमङ्कागतांसतीम् । अहंद्रक्ष्यामिसिद्धार्धांत्वांशत्रौविनिपातिते ।।6.33.33।। Yuddha Kanda,33,34,अश्रूण्यानन्दजानित्वंवर्तयिष्यसिशोभने । समागम्यपरिष्वज्यतस्योरसिमहोरसः ।।6.33.34।। Yuddha Kanda,33,35,अचिरान्मोक्ष्यतेसीते देवितेजघनंगताम् । धृतामेताम्बहून्मासान्वेणींरामोमहाबलः ।।6.33.35।। Yuddha Kanda,33,36,तस्यदृष्टवामुखंदेवी पूर्णचन्द्रमिवोदितम् । मोक्ष्यसेशोकजंवारिनिर्मोकमिवपन्नगी ।।6.33.36।। Yuddha Kanda,33,37,रावणंसमरेहत्वानचिराद्धेवी: मैथिली: । त्वयासमग्रःप्रिययासुखार्होलप्स्यतेसुखम् ।।6.33.37।। Yuddha Kanda,33,38,समागतात्वंवीर्येणमोदिष्यसिमहात्मना । सुवर्षेणसमायुक्तायथासस्येनमेदिनी ।।6.33.38।। Yuddha Kanda,34,1,अथतांजातन्तापांतेनवाक्येनमोहिताम् । सरमाह्लादयामासमहींघौरीमिवाम्भसा ।।6.34.1।। Yuddha Kanda,34,2,ततस्तस्याहितंसख्याश्चिकीर्षन्तीसखीवचः । उवाचकालेकालज्ञास्मितपूर्वाभिभाषिणी ।।6.34.2।। Yuddha Kanda,34,3,उत्सहेयमहंगत्वात्वद्वाक्यमसितेक्षणे: । निवेद्यकुशलंरामेप्रतिच्छन्नानिवर्तितुम् ।।6.34.3।। Yuddha Kanda,34,4,नहिमेक्रममाणायानिरालम्बेविहायसि । समर्थोगतिमन्वेतुंपवनोगरुडोऽपिवा ।।6.34.4।। Yuddha Kanda,34,5,एवंब्रुवाणांतांसीतासरमांपुनरब्रवीत् । मधुरंश्लक्क्षणयावाचापूर्वशोकाभिपन्नया ।।6.34.5।। Yuddha Kanda,34,6,समर्थागगनंगन्तुमपिवात्वंरसातलम् । अवगच्छाम्यकर्तव्यंकर्तव्यंतेमदन्तरे ।।6.34.6।। Yuddha Kanda,34,7,मत्प्रियंयदिकर्तव्यंयदिबुद्धि: स्थिरातव । ज्ञातुमिच्छामितंगत्वाकिंकरोतीतिरावणः ।।6.34.7।। Yuddha Kanda,34,8,सहिमायाबलःक्रूरोरावणश्शत्रुरावणः । मांमोहयतिदुष्टात्मापीतामात्रेववारुणी ।।6.34.8।। Yuddha Kanda,34,9,तर्जापयतिमांनित्यंभर्त्सापयतिचासकृत् । राक्षसीभिस्सुघूराभिर्यामांरक्षन्तिनित्यशः ।।6.34.9।। Yuddha Kanda,34,10,उद्विग्नाशङ्किताचास्मिनस्वस्थंचमनोमम । तद्भयाच्चाहमुद्विग्नाअशोकवनिकांगता ।।6.34.10।। Yuddha Kanda,34,11,यदिनामकथातस्यनिश्चितंवापियद्भवेत् । निवेदयेथास्सर्वंतत्परोमेस्यादमनुग्रहः ।।6.34.11।। Yuddha Kanda,34,12,सात्वेवंब्रुवतींसीतांसरमावल्गुभाषिणी । उवाचवदनंतस्यास्स्पृशन्तीबाष्पविक्लबम् ।।6.34.12।। Yuddha Kanda,34,13,एषतेयद्यभिप्रायस्तदागच्छामिजानकी: । गृह्यशत्रोरभिप्रायमुपावृत्तांचपश्यमाम् ।।6.34.13।। Yuddha Kanda,34,14,एवमुक्त्वाततोगत्वासमीपंतस्यरक्षसः । शुश्रावकथितंतस्यरावणस्यसमन्त्रिणः ।।6.34.14।। Yuddha Kanda,34,15,साश्रुत्वानिश्चयंतस्यनिश्चयज्ञादुरात्मनः । पुनरेवागमत्क्षिप्रमशोकवनिकांशुभाम् ।।6.34.15।। Yuddha Kanda,34,16,साप्रविष्टाततस्तत्रददर्शजनकात्मजाम् । प्रतीक्षमाणांस्वामेवभ्रष्टपद्मामिवश्रियम् ।।6.34.16।। Yuddha Kanda,34,17,तांतुसीतापुनःप्राप्तांसरमांवल्गुभाषिणीम् । परिष्वज्यचसुस्निग्धंददौचस्वयमासनम् ।।6.34.17।। Yuddha Kanda,34,18,इहासीनासुखंसर्वमाख्याहिममतत्त्वतः । क्रूरस्यनिश्चयंतस्यरावणस्यदुरात्मनः ।।6.34.18।। Yuddha Kanda,34,19,एवमुक्तातुसरमासीतयावेपमानया । कथितंसर्वमाचष्टेरावणस्यसमन्त्रिणः ।।6.33.19।। Yuddha Kanda,34,20,जनन्याराक्षसेन्द्रोवैत्वन्मोक्षार्थंबृहद्वचः । अविद्धेनचवैदेहिमन्त्रिवृद्धेनबोधितः ।।6.33.20।। Yuddha Kanda,34,21,दीयतामभिसत्कृत्यमनुजेन्द्रायमैथिली । निदर्शनंतेपर्याप्तंजनस्थानेयदद्भुतम् ।।6.34.21।। Yuddha Kanda,34,22,लङ्घनंचसमुद्रस्यदर्शनंचहनूमतः । वधंचरक्षसांयुद्धेकःकुर्यान्मानुषोभुवि ।।6.34.22।। Yuddha Kanda,34,23,एवंसमन्त्रिवृद्धैश्चाविद्धेनबहुभाषितः । नत्वामुत्पनिहतेमोक्तुमर्थमर्थपरोयथा ।।6.34.23।। Yuddha Kanda,34,24,नोत्सहत्यमृतोमोक्तुंयुद्धेत्वामितिमैथिली: । सामात्यस्यनृशंसस्यनिश्चयोह्येषवर्तते ।।6.34.24।। Yuddha Kanda,34,25,तदेषासुस्थिराबुद्धिर्मृत्युलोभादुपस्थिता । भयान्नशक्तस्त्वांमोक्तुमनिरस्तस्संयुगे ।।6.34.25।। रक्षसानांचसर्वेषामात्मनश्चवधेनहि । Yuddha Kanda,34,26,निहत्यरावणंसङ् ख्येसर्वथानिशितैश्शरैः ।।6.34.26।। प्रतिनेष्यतिरामस्त्वामयोध्यामसितेक्षणे: । Yuddha Kanda,34,27,एतस्मिन्नन्तरेशब्दोभेरीशङ्खसमाकुलः ।।6.34.27।। श्रुतोवानरसैन्यानांकम्पयन् धरणीतलम् । Yuddha Kanda,34,28,श्रुत्वातुतद्वानरसैन्यशब्दंलङ्कागताराक्षसराजभृत्याः । नष्टौजसोदैन्यरीतचेष्टाःश्रेयोनपश्यन्तिनृपस्यदोषैः ।।6.34.28।। Yuddha Kanda,35,1,तेनशङ्खविमिश्रेणभेरीशब्देनराघवः । उपयातिमहाबाहूरामःपरपुरञ्जयः ।।6.35.1।। Yuddha Kanda,35,2,तंनिनादंनिशम्याथरावणोराक्षसेश्वरः । मुहूर्तंध्यानमास्थायसचिवानभ्युदैक्षत ।।6.35.2।। Yuddha Kanda,35,3,अथतान्सचिवांस्तत्रसर्वानाभाष्यरावणः । सभांसन्नादयन् सर्वामित्युवाचमहाबलः ।।6.35.3।। जगत्सन्तापन्क्रूरोगर्हयन्राक्षसेश्वरः । Yuddha Kanda,35,4,तरणंसागरस्यापिविक्रमंबलसञ्जियम् ।।6.35.4।। यदुक्तवन्तोरामस्यभवन्तस्तन्मयाश्रुतम् । Yuddha Kanda,35,5,भवतश्चाप्यहंवेमदियुद्धेसत्यपराक्रमान् ।।6.35.5।। तूषिकानीक्षतोऽन्योन्यंविदित्वारामविक्रमम् । Yuddha Kanda,35,6,ततस्तुसुमहाप्राज्ञोमाल्यवान्नामराक्षसः ।।6.35.6।। रावणस्यवचश्श्रुत्वामातुःपैतामहोऽब्रवीत् । Yuddha Kanda,35,7,विद्यास्वभिविनीतोयोराजाराजन्नयानुगः ।।6.35.7।। सशास्तिचिरमैश्वर्यमरींश्चकुरुतेवशे । Yuddha Kanda,35,8,सन्दधानोहिकालेनविगृह्णंश्चारिभिस्सह ।।6.35.8।। स्वपक्षवर्थनंकुर्वन्महदैश्वर्यमश्नुते । Yuddha Kanda,35,9,हीयमानेनकर्तव्योराज्ञासन्धिस्समेवच ।।6.35.9।। नशत्रुमवमन्येतज्यायान्कुर्वीतविग्रहम् । Yuddha Kanda,35,10,तन्मह्यंरोचतेसन्धिस्सहरामेणरावण ।।6.35.10।। यदर्थमभियुक्ता: स्मसीतातस्मैप्रदीयताम् । Yuddha Kanda,35,11,यस्यदेवर्षयस्सर्वेगन्धर्वाश्चजयैषिणः ।।6.35.11।। विरोथंमागमस्तेनसन्धिस्तेतेनरोचताम् । Yuddha Kanda,35,12,असृजद्भगवान्पक्षौद्वावेनहिपितामहः ।।6.35.12।। सुराणामसुराणांचधर्माधर्मौतदाश्रयौ । Yuddha Kanda,35,13,धर्मोहिश्रूयतेपक्षीह्यमराणांमहात्मनाम् ।।6.35.13।। अधर्मोरक्षसांपक्षोह्यसुराणांचराक्षस । Yuddha Kanda,35,14,धर्मोवैग्रसतेऽधर्मंततःकृतमभूद्युगम् ।।6.35.14।। अधर्मोग्रसतेधर्मंततस्तिष्यःप्रवर्तते । Yuddha Kanda,35,15,तत्त्वयाचरयालोकान्धर्मोपिविनिहतोमहान् ।।6.35.15।। अधर्मःप्रगृहीतश्चतेनास्मद्बलिनःपरे । Yuddha Kanda,35,16,सप्रमादावदिवृद्धस्तेऽधर्मोहिग्रसतेहिनः ।।6.35.16।। विवर्थयतिपक्षंचसुराणांसुरभावनः । Yuddha Kanda,35,17,विषयेषुप्रसक्तेनयत्किञ्चित्कारणात्वया ।।6.35.17।। ऋषीणामग्नकल्पानामुद्वेगोजनितोमहान् । Yuddha Kanda,35,18,तेषांप्रभावोदुर्धर्षःप्रदीप्तइवपावकः ।।6.35.18।। Yuddha Kanda,35,19,तपसाभावितात्मानोधर्मस्यानुग्रहेरताः । मुख्यर्यज्ञैर्यजन्त्येतेनित्यंतैस्सैर्द्विजातयः ।।6.35.19।। Yuddha Kanda,35,20,जुह्वत्यनगींश्चविधिवद्वेदांश्चोच्चैरधीयते । अभिभूयचरक्षांसिब्रह्मघोषानुदैरयन् ।।6.35.20।। दिशोऽपिविद्रुतास्सर्वेस्तनयित्नुरिवोष्णगे । Yuddha Kanda,35,21,ऋषीणामग्निकल्पानामग्निहोत्रासमुत्थितः ।।6.35.21।। अदत्तेरक्षसांतेजोधूमोव्याप्यदिशोदश । Yuddha Kanda,35,22,तेषुतेषुचदेशेषुपुण्येष्वेवदृढव्रतैः ।।6.35.22।। चर्यमाणंतपस्तीव्रंसन्तापयतिराक्षसान् । Yuddha Kanda,35,23,देवदानवयक्षेभ्योगृहीतश्चवरस्त्वया ।।6.35.23।। Yuddha Kanda,35,24,मनुषावानराऋक्षागोलाङ्गूलामहाबलाः । बलवन्तइहागम्यगर्जन्तीदृढविक्रमाः ।।6.35.24।। Yuddha Kanda,35,25,उत्पातान्विविधान्दृष्टवाघोरन्बहुविधांस्तथा । विनाशमनुपश्यामिसर्वेषांरक्षसामहम् ।।6.35.25।। Yuddha Kanda,35,26,खराभिस्न्तिताघोरामेघाःप्रतिभयङ्कराः । शोणितेनाभिवर्षन्तिलङ्कामुष्णेनसर्वतः ।।6.35.26।। Yuddha Kanda,35,27,रुदतांवाहनानांचप्रपवन्त्यौस्रबिन्दवः । ध्वजाध्वस्ताविवर्णाश्चनप्रभान्तियथापुरम् ।।6.35.27।। Yuddha Kanda,35,28,व्याळागोमायवोगृध्रावाश्यन्तिचसुभैरवम् । प्रविश्यलङ्कामनिशंसमवायांश्चकुर्वते ।।6.35.28।। Yuddha Kanda,35,29,काळिकाःपाण्डुरैर्दन्तै: प्रहसन्त्यग्रतःस्थिताः । स्त्रियस्स्वप्नेषुमुष्ण्नत्योगृहाणिप्रतिभाष्यच ।।6.35.29।। Yuddha Kanda,35,30,गृहाणांबलिकर्माणिश्वानःपर्युपभुञ्जते । खरागोषुप्रजायन्तेमूषकानकुलैस्सह ।।6.35.30।। Yuddha Kanda,35,31,मार्जाराद्वीपिभिस्सार्थंसूकराश्शुनकैस्सह । किन्नराराक्षसैश्चापिसमीयुर्मानुषैस्सह ।।6.35.31।। Yuddha Kanda,35,32,पाण्डुरारक्तपादाश्चविहङ्गाःकालचोदिताः । राक्षसानांविनाशायकपोताविचरन्तिच ।।6.35.32।। Yuddha Kanda,35,33,वीचीकूचीतिवाश्य्नत्यश्शारिकावेश्मसुस्थिताः । पतन्तिग्रथिताश्चापिनिर्जिताःकलहैषिणः ।।6.35.33।। Yuddha Kanda,35,34,पक्षिणश्चमृगास्सर्वेप्रत्यादित्यंरुदन्तिच । कराळोविकटोमुण्डःपुरुषःकष्णपिङ्गळः ।।6.35.34।। Yuddha Kanda,35,35,कालोगृहाणिसर्वेषांकालेकालेऽन्ववेक्षते । एतान्यन्यानिदुष्टानिनिमित्तान्युत्पतन्तिच ।।6.35.35।। Yuddha Kanda,35,36,विष्णुंमन्यामहेरामंमानुषंरूपमास्थितम् । नहिमानुषमात्रोऽसौराघवोदृढविक्रमः ।।6.35.36।। Yuddha Kanda,35,37,येनबद्धःसमुद्रेचसेतुःसपरमाद्भुतः । कुरुष्वनरराजेनसधनिंरामेणरावण ।।6.35.37।। ज्ञात्वावधार्यकर्माणिक्रियतामायतिक्षमम् । Yuddha Kanda,36,1,तत्तुमाल्यवतोवाक्यंहितमुक्तंदशाननः । नमर्षयतिदुष्टात्माकालस्यवशमागतः ।।6.36.1।। Yuddha Kanda,36,2,नबद् ध्वाभ्रुकुटींवक्त्रेक्रोधस्यवशमागतः । अमर्षात्परिवृत्ताक्षोमाल्यवन्तमथाब्रवीत् ।।6.36.2।। Yuddha Kanda,36,3,हितबुध्यायदहितंवचःपरुषमुच्यते । परपक्षंप्रनिश्यैवनैतच्च्रोत्रगतंमम ।।6.36.3।। Yuddha Kanda,36,4,मानुषंकृपणंराममेकंशाखामृगाश्रयम् । समर्थंमन्यसेकेनत्यक्तंपित्रावनालयम् ।।6.36.4।। Yuddha Kanda,36,5,रक्षसामीश्वरंमांचदेवानांचभयङ्करम् । हीनंमांमन्यसेकेनह्यहीनंसर्वविक्रमैः ।।6.36.5।। Yuddha Kanda,36,6,वीरद्वेषेणवाशङ्केपक्षपातेनवारिपोः । त्वयाहंपरुषाण्युक्तःपरप्रोत्साहनेनवा ।।6.36.6।। Yuddha Kanda,36,7,प्रभवन्तंपदस्थंहिपरुषंकोऽभिभाषते । पण्डितश्शास्त्रतत्त्वज्ञोविनाप्रोत्साहनाद्रिपोः ।।6.36.7।। Yuddha Kanda,36,8,आनीयचवनासतीतांपद्महीनामिवश्रियम् । किमर्थंप्रतिदास्यामिराघवस्यभयादहम् ।।6.36.8।। Yuddha Kanda,36,9,वृतंवानरकोटीभिस्ससुग्रीवंसलक्ष्मणम् । पश्यकैश्चिदहोभिस्त्वंराघवंनिहतंमया ।।6.36.9।। Yuddha Kanda,36,10,द्वन्द्वेयस्यनतिष्ठन्तिदैवतान्यपिसंयुगे । सकस्माद्रावणोयुद्धेभयमाहारयिष्यति ।।6.36.10।। Yuddha Kanda,36,11,द्विधाभज्येयमप्येवंननमेयंतुकस्यचित् । एषमेसहजोदोषस्स्वभावोदुरतिक्रमः ।।6.36.11।। Yuddha Kanda,36,12,यदितावत्समुद्रेतुसेतुर्बद्धोयदृच्छया । रामेणविस्मयःकोऽत्रयेवमेभयमागतम् ।।6.36.12।। Yuddha Kanda,36,13,सतुतीर्त्वार्णवंरामस्सहवानरसेनया । प्रतिजानामितेसत्यंनजीवन्प्रतियास्यति ।।6.36.13।। Yuddha Kanda,36,14,एवंब्रुवाणंसंरब्धंरुष्टंविज्ञायरावणम् । व्रीळितोमाल्यवान्वाक्यंनोत्तरंप्रत्यपद्यत ।।6.36.14।। Yuddha Kanda,36,15,जयाशिषाचराजानंवर्धयित्वायथोचितम् । माल्यवानभ्यनुज्ञातोजगामस्वंनिवेशनम् ।।6.36.15।। Yuddha Kanda,36,16,रावणस्तुसहामात्योमन्त्रयित्वाविमृश्यच । लङ्कायामतुलांगुप्तिंकारयामासराक्षसः ।।6.36.16।। Yuddha Kanda,36,17,व्यादिदेशसपूर्वस्यांप्रहस्तंद्वारिराक्षसम् । दक्षिणस्यांमहावीर्यौमहापार्श्वमहादरौ ।।6.36.17।। Yuddha Kanda,36,18,पश्चिमायामथोद्वारिपुत्रमिन्द्रजितंतदा । व्यादिदेशमयामायंबहूभीराक्षसैर्भहुभिर्वृतम् ।।6.36.18।। Yuddha Kanda,36,19,उतरस्यांपुरद्वारिव्यादिश्यशुकसारणौ । स्वयंचात्रगमिष्यामिमन्त्रिणस्तानुवाचह ।।6.36.19।। Yuddha Kanda,36,20,राक्षसांतुविरूपाक्षंमहावीर्यपराक्रमम् । मध्यमेऽस्थापयद्गुल्मेबहुभिस्सहराक्षसैः ।।6.36.20।। Yuddha Kanda,36,21,एवंविधानंलङ्कायांकृत्वाराक्षसपुङ्गवः । कृतकृत्यमिवात्मानंमन्यतेकालचोदितः ।।6.36.21।। Yuddha Kanda,36,22,विसर्जयामासततस्समन्त्रिणोविधानमाज्ञाप्यपुरस्यपुष्कलम् । जयाशिषामन्त्रिगणेनपूजितोविवेशचाऽन्तःपुरमृद्धिमन्महत् ।।6.36.22।। Yuddha Kanda,37,1,नरवानरराजौतौसतुवायुसुतःकपिः । जाम्बवानृक्षराजश्चराक्षसश्चविभीषणः ।।6.37.1।। Yuddha Kanda,37,2,अङ्गदोवालिपुत्रश्चसौमित्रिश्शरभःकपिः । सुषेणस्सहदायादोमैन्दोद्विविदएवच ।।6.37.2।। Yuddha Kanda,37,3,गजोगवाक्षःकुमुदोनलोऽथपनसस्तथा । अमित्रविषयंप्राप्तास्समवेतास्समर्धयन् ।।6.37.3।। Yuddha Kanda,37,4,इयंसालक्षयतेलङ्कापुरीरावणपालिता । सासुरोरगगन्धर्वैरमरैरपिदुर्जया ।।6.37.4।। Yuddha Kanda,37,5,कार्यसिद्धिंपुरस्कृत्यमन्द्रयध्वंविनिर्णये । नित्यंसन्निहितोह्यत्ररावणोराक्षसाधिपः ।।6.37.5।। Yuddha Kanda,37,6,तथातेषुब्रुवाणेषुरावणावरजोऽब्रवीत् । वाक्यमग्राम्यपदवत्पुष्कलार्धंविभीषणः ।।6.37.6।। Yuddha Kanda,37,7,अनलश्शरभश्चैवसम्पातिःप्रघसस्तथा । गत्वालङ्कांममामात्याःपुरींपुनरिहागताः ।।6.37.7।। Yuddha Kanda,37,8,भूत्वाशकुनयस्सर्वेप्रविष्टाश्चरिपोर्भलम् । विधानंविहितंयच्चतद्धृष्टवासमुपस्थिताः ।।6.37.8।। Yuddha Kanda,37,9,संविधानंयथाहुस्तेरावणस्यदुरात्मनः । राम तद्ब्रुवतस्सर्वंयथात्त्वेनमेशृणु ।।6.37.9।। Yuddha Kanda,37,10,पूर्वंप्रहस्तस्सबलोद्वारमासाद्यतिष्ठति । दक्षिणंचमहावीर्यौमहापार्श्वमहोदरौ ।।6.37.10।। Yuddha Kanda,37,11,इन्द्रजित्पश्चिमंद्वारंराक्षसैर्भहुभिर्वृतः । पट्टसासिधनुष्मद्भिश्शूलमुद्गरपाणिभिः ।।6.37.11।। नानाप्रहरणैश्शूरैरावृतोरावणात्मजः । Yuddha Kanda,37,12,राक्षसानांसहस्रैस्तुबहुभिश्शस्त्रपाणिभिः ।।6.37.12।। Yuddha Kanda,37,13,युक्तःपरमसंविग्नोराक्षर्भहुभिर्वृतः । उत्तरंनगरद्वारंरावणस्स्वयमास्थितः ।।6.37.13।। Yuddha Kanda,37,14,विरूपाक्षस्तुमहताशूलखडगधनुष्मता । बलेनराक्षसैस्सार्थंमध्यमंगुल्ममास्थितः ।।6.37.14।। Yuddha Kanda,37,15,एतानेवंविधान्गुल्मान् लङ्कायांसमुदीक्ष्यते । मामकामन्त्रिणस्सर्वेपुनशशीघ्रमिहागताः ।।6.37.15।। Yuddha Kanda,37,16,गजानांचसाहस्रंचरथानामयुतंपुरे । हयानामयुतेद्वेचसाग्राकोटीचरक्षसाम् ।।6.37.16।। Yuddha Kanda,37,17,विक्रान्ताबलवन्तश्चसंयुगेष्वाततायिनः । इष्टाराक्षसराजस्यनित्यमेतेनिशाचराः ।।6.37.17।। Yuddha Kanda,37,18,एकैकस्यात्रयुद्धार्थेराक्षसस्यविशाम्पते । परीवारस्सहस्राणांसहस्रमुपतिष्ठते ।।6.37.18।। Yuddha Kanda,37,19,एतांप्रवृत्तिंलङ्कायांमन्त्रिप्रोक्तांविभीषणः । एवमुक्त्वामहाबाहूराक्षसांस्तानदर्शयत् ।।6.37.19।। Yuddha Kanda,37,20,लङ्कायांसचिवैस्सर्वंरामायप्रत्यवेदयत् । रामंकमलपत्राक्षमिदमुत्तरमब्रवीत् ।।6.37.20।। रावणावरजःश्रीमान् रामप्रियचिकीर्षया । Yuddha Kanda,37,21,कुबेरंतुयदाराम रावणःप्रत्ययुध्यत ।।6.37.21।। Yuddha Kanda,37,22,षष्टिश्शतसहस्राणितदानिर्यान्तिरक्षसाः । राक्रमेणवीर्येणतेजसासत्त्वगौरवात् ।।6.37.22।। सदृशाय्येऽत्रदर्पेणरावणस्यदुरात्मनः । Yuddha Kanda,37,23,अत्रमन्युर्नकर्तव्योरोषयेत्वांनभीषये ।।6.37.23।। समर्थोह्यसिवीर्येणसुराणामपिनिग्रहे । Yuddha Kanda,37,24,तद्भवांश्चतुरङ्गेणबलेनमहातावृतः ।।6.37.24।। व्यूह्येदंवानरानीकंनिर्मथिष्यतिरावणम् । Yuddha Kanda,37,25,रावणावरजेवाक्यमेवंब्रुवतिराघवः ।।6.37.25।। शत्रूणांप्रतिघातार्थमिदंवचनमब्रवीत् । Yuddha Kanda,37,26,पूर्वद्वारेतुलङ्कायानीलोवानरपुङ्गवः ।।6.37.26।। प्रहस्तप्रतियोद्धास्याद्वानरैर्बहुभिर्वृतः । Yuddha Kanda,37,27,अङ्गदोवालिपुत्रस्तुबलेनमहतावृतः ।।6.37.27।। दक्षिणेबाधतांद्वारेमहापार्श्वमहोदरौ । Yuddha Kanda,37,28,हनुमान्पश्चिमद्वारंनिपीड्यपवनात्मजः ।।6.37.28।। प्रविशत्वप्रमेयात्माबहुभिःकपिभिर्वृतः । Yuddha Kanda,37,29,दैत्यदावनसङ्घानामृषीणांचमहात्मनाम् ।।6.37.29।। Yuddha Kanda,37,30,विप्रकारप्रियःक्षुद्रोवरदानबलान्वितः । परिक्रमतियःसर्वान्लोकान्सन्तापयन्प्रजाः ।।6.37.30।। Yuddha Kanda,37,31,तस्याहंराक्षसेन्द्रस्यस्वयमेववधेधृतः । उत्तरंनगरद्वारमहंसौमित्रिणासह ।।6.37.31।। निपीड्याभिप्रवेक्ष्यामिसबलोयत्ररावणः । Yuddha Kanda,37,32,वानरेन्द्रश्चबलवानृक्षराजश्चवीर्यवान् ।।6.37.32।। राक्षसेन्द्रानुजश्चैवगुलोभवतुमध्यम: । Yuddha Kanda,37,33,नचैवमानुषंरूपंकार्यंहरिभिराहवे ।।6.37.33।। एषाभवतुसंङञान् युद्धेऽस्मिन् वानरेबले । Yuddha Kanda,37,34,वानराएवनश्चिह्नंस्वजनेऽस्मिन् भविष्यति ।।6.37.34।। Yuddha Kanda,37,35,वयंतुमानुषेणैवसप्तयोत्प्यामहेपरान् । अहमेषममभ्रात्रालक्ष्मणेनमहौजसौ ।।6.37.35।। आत्मनापञ्चमश्चायंसखाममविभीषणः । Yuddha Kanda,37,36,सरामःकृत्यसिध्यर्थएवमुक्त्वाविभीषणम् ।।6.37.36।। Yuddha Kanda,37,37,सुवेलारोहणेबुद्धिश्चकारमतिमान्मतिम् । रमणीयतरंदृष्टवासुवेलस्यगिरेस्तटम् ।।6.37.37।। Yuddha Kanda,38,1,सतुकृत्वासुवेलस्यमतिमारोहणंप्रति । लक्ष्मणानुगतोरामःसुग्रीवमिदमब्रवीत् ।।6.38.1।। Yuddha Kanda,38,2,विभीषणंचधर्मज्ञमनुरक्तंनिशाचरम् । मन्त्रज्ञंचविधिज्ञंचश्लक्क्ष्णयापरयागिरा ।।6.38.2।। Yuddha Kanda,38,3,सुवेलंसाधुशैलेन्द्रमिमंधातुशतैश्चितम् । अध्यारोहामहेसर्वेवत्स्यामोऽत्रनिशामिमाम् ।।6.38.3।। Yuddha Kanda,38,4,लङ्कांचालोकयिष्यामोनिलयंतस्यरक्षसः । येनमेमरणान्तायहृताभार्यादुरात्मना ।।6.38.4।। Yuddha Kanda,38,5,येनधर्मोनविज्ञातोनतद्वृत्तंनकुलंतथा । राक्षस्यानीचयाबुद् ध्यायेनतद्गर्हितंकृतम् ।।6.38.5।। Yuddha Kanda,38,6,तस्मिन्मेवर्ततेरोषःकीर्तितेराक्षसाधमे । यस्यापराधाननीचस्यवधंद्रक्ष्यामिरक्षसाम् ।।6.38.6।। Yuddha Kanda,38,7,एकोहिकुरुतेपापंकालपाशवशंगतः । नीचेनात्मापचारेणकुलंतेनविनश्यति ।।6.38.7।। Yuddha Kanda,38,8,एवंसम्मन्त्रयन्नेवसक्रोधोरावणंप्रति । रामःसुवेलमासाद्यचित्रसानुमुपारुहत् ।।6.38.8।। Yuddha Kanda,38,9,पृष्ठतोलक्ष्मणश्चैवमन्वगच्छत्समाहितः । सशरंचापमुद्यम्यसुमहद्विक्रमेरतः ।।6.38.9।। अन्वारोहत्सुग्रीवस्सामात्यस्सविभीषणः । Yuddha Kanda,38,10,हनुमानङ्गदोनीलोमैन्दोद्विविदएवच ।।6.38.10।। Yuddha Kanda,38,11,गजोगवाक्षोगवयश्शरभोगन्धमादनः । पनसःकुमुदश्चैवहरोरम्भश्चयूथपः ।।6.38.11।। Yuddha Kanda,38,12,जाम्बवांश्चसुषेणश्चऋषभश्चमहामतिः । दुर्मुखश्चमहातेजास्तथाशतवलिःकपिः ।।6.38.12।। Yuddha Kanda,38,13,एतेचान्येचबहवोवानराशशीघ्रगामिनः । तेवायुवेगप्रवणास्तंगिरिगिरिचारिणः ।।6.38.13।। अध्यारोहन्तशतशस्सुवेलंयत्रराघवः । Yuddha Kanda,38,14,तेत्वदीर्घेणकालेनगिरिमारुह्यसर्वतः ।।6.38.14।। ददृशुशशिखरेतस्यविषक्तामिवखेपुरीम् । Yuddha Kanda,38,15,तांशुभांप्रवरद्वारांप्राकारपरिशोभिताम् ।।6.38.15।। लङ्कांराक्षससम्पूर्णांददृशुर्हरियूथपाः । Yuddha Kanda,38,16,प्राकारवरसंस्थैश्चतथानीलैश्चराक्षसैः ।।6.38.16।। ददृशुस्तेहरिश्रेष्ठाःप्राकारमपरंकृतम् । Yuddha Kanda,38,17,तेदृष्टवावानराःसर्वेराक्षसान् युद्धकाङ् क्षिणः ।।6.38.17।। मुमुचुर्विविधान्नादांतत्ररामस्यपश्यतः । Yuddha Kanda,38,18,ततोऽस्तमगमत्पूर्यःसन्ध्ययाप्रतिरञ्जितः ।।6.38.18।। पूर्णचन्द्रप्रदीप्ताचक्षपासमभिवर्तते । Yuddha Kanda,38,19,ततस्सरामोहरिवाहिनीपतिर्विभीषणेनप्रतिनन्द्यसत्कृतः । सलक्ष्मणोयूथपयूथसम्वृतस्सुवेलपृष्ठेन्यवसद्यथासुखम् ।।6.38.19।। Yuddha Kanda,39,1,तांरात्रिमुषितास्तत्रसुवेलेहरिपुङ्गवाः । लङ्कायांददृशुर्वीरावनान्युपवनानिच ।।6.39.1।। Yuddha Kanda,39,2,समसौम्यानिरम्याणिविशालान्यायतानिच । दृष्टिरम्याणितेदृष्टवाबभूवुर्जातविस्मयाः ।।6.39.2।। Yuddha Kanda,39,3,चम्पकाशोकपुन्नागसालतालसमाकुला । तमालवनसञ्छन्नानागमालासमावृता ।।6.39.3।। Yuddha Kanda,39,4,हिन्तालैरर्जुनैर्नीपैस्सप्तपर्णैश्चपुष्पितैः । तिलकैःकर्णिकारैश्चपाटलैश्चसमन्ततः ।।6.39.4।। Yuddha Kanda,39,5,शुशुभेपुष्पिताग्रैश्चलतापरिगतैर्द्रुमैः । लङ्काबहुविधैर्दिव्यैर्यथेन्द्रस्यामरावती ।।6.39.5।। Yuddha Kanda,39,6,विचित्रकुसुमोपेतैरक्तकोमलपल्लवैः । शाद्वलैश्चतथानीपैश्चित्राभिर्वनराजिभिः ।।6.39.6।। Yuddha Kanda,39,7,गन्धाढ्यान्यभिरम्याणिपुष्पाणिचफलानिच । धारयन्त्यगमास्तत्रभूषणानीवमानवाः ।।6.39.7।। Yuddha Kanda,39,8,तच्चैत्ररथसङ्काशंमनोज्ञंनन्दनोपमम् । वनंसर्वरर्तुकंरम्यंशुशुभेषटपदायुतम् ।।6.39.8।। Yuddha Kanda,39,9,नत्यूहकोयष्टिमकैर्नृत्यमानैश्चबर्हिभि । रुतंपरभृतानांचशुश्रुवुर्वन्निर्झरे ।।6.39.9।। Yuddha Kanda,39,10,नित्यमत्तविहङ्गानिभ्रमराचरितानिच । कोकिलाकुलषण्डानिविहगाभिरुतानिच ।।6.39.10।। Yuddha Kanda,39,11,भृङ्गराजाभिगीतानिभ्रमरैस्सेवितानिच । कोणालकविघुष्टानिसारसाभिरुतानिच ।।6.39.11।। Yuddha Kanda,39,12,विविशुस्तेततस्तानिवनान्युपवनानिच । हृष्टाःप्रमुदितावीराहरयःकामरूपिणः ।।6.39.12।। Yuddha Kanda,39,13,तेषांप्रविशतांतत्रवानराणांमहौजसाम् । पुष्पसंसर्गसुरभिर्ववौघ्राणसुखोऽनिलः ।।6.39.13।। Yuddha Kanda,39,14,अन्येतुहरिवीराणांयूथान्निष्क्रम्ययूथपाः । सुग्रीवेणाभ्यनुज्ञातालङ्कांजग्मुःपताकिनीम् ।।6.39.14।। Yuddha Kanda,39,15,वित्रासयन्तोविहगांस्त्रासयन्तोमृगद्विपान् । कम्पयन्तश्चतांलङ्कांनादैस्तेनदतांवराः ।।6.39.15।। Yuddha Kanda,39,16,कुर्वन्तस्तेमहावेगामहींचरणपीडिताम् । रजश्चसहसैवोर्थ्वंजगामचरणोत्थितम् ।।6.39.16।। Yuddha Kanda,39,17,ऋक्षास्सिंहावराहाश्चमहिषावारणामृगाः । तेनशब्देनवित्रस्ताजग्मुर्भीतादिशोदश ।।6.39.17।। Yuddha Kanda,39,18,शिखरंतत्त्रिकूटस्यप्रांशुचैकंदिविस्पृशम् । समन्तात्पुष्पसंञ्छन्नंमहारजतसन्निभम् ।।6.39.18।। Yuddha Kanda,39,19,शतयोजनविस्तीर्णंविमलंचारुदर्शनम् । श्लक्ष्णंश्रीमन्महच्छैवदुष्प्रापंशकुनैरपि ।।6.39.19।। मनसाऽपिदुरारोहंकिंपुनःकर्मणाजनैः । Yuddha Kanda,39,20,निविष्टातत्रशिखरेलङ्कारावणपालिता ।।6.39.20।। शतयोजनविस्तीर्णात्रिंशद्योजनमायता । Yuddha Kanda,39,21,सापुरीगोपुरैरुच्चैःपाण्डुराम्बुदसन्निभैः । काञ्चनेनचशालेनराजतेनचशोभते ।।6.39.21।। Yuddha Kanda,39,22,प्रासादैश्चविमानैश्चलङ्कापरमभूषिता । घनैरिवाऽतपापायेमध्यमंवैष्णवंपदम् ।।6.39.22।। Yuddha Kanda,39,23,यस्यांस्तम्भसहस्रेणप्रासादस्समलङ्कृतः । कैलासशिखराकारोदृश्यतेखमिवोललिखन् ।।6.39.23।। Yuddha Kanda,39,24,चैत्यस्सराक्षसेन्द्रस्यबभूवपुरभूषणम् । शतेनरक्षसांनित्यंयस्समग्रेणरक्ष्यते ।।6.39.24।। Yuddha Kanda,39,25,मनोज्ञांकाननवतींपर्वतैरुपशोभिताम् । नानाधातुविचित्रैश्चउद्यानैरुपशोभिताम् ।।6.39.25।। Yuddha Kanda,39,26,नानाविहङ्गासङ्घुष्टांनानामृगनिषेविताम् । नानाकुसुमसञ्छन्नांनानाराक्षससेविताम् ।।6.39.26।। Yuddha Kanda,39,27,तांसमृद्धांसमृद्धार्धांलक्ष्मीनान्लक्ष्मणाग्रजः । रावणस्यपुरींरामोददर्शसहवानरैः ।।6.39.27।। Yuddha Kanda,39,28,तांमहागृहसम्बाधांदृष्टवालक्ष्मणपूर्वजः । नगरीममरप्रख्योविस्मयंप्राप्यवीर्यवान् ।।6.39.28।। Yuddha Kanda,39,29,तांरत्नपूर्णांबहुसंविधानांप्रासादमालाभिरलङ्कृतांच । पुरींमहायन्त्रकवाटमुख्यांददर्शरामोमहताबलेन ।।6.39.29।। Yuddha Kanda,40,1,ततोरामस्सुवेलाग्रंयोजनद्वयमण्डलम् । अरुरोहससुग्रीवोहरियूधपसम्वृतः ।।6.40.1।। Yuddha Kanda,40,2,स्थित्वामुहूर्तंतत्रैवदिशोदशविलोकयन् । त्रिकूटशिखरेरम्येनिर्मितांविश्वकर्मणा ।।6.40.2।। ददर्शलङ्कांसुन्यस्तांरम्यकाननशोभिताम् । Yuddha Kanda,40,3,तस्यांगोपुरशृङ्गस्थंराक्षसेन्द्रंदुरासदम् ।।6.40.3।। Yuddha Kanda,40,4,श्वेतचामरपर्यन्तंविजयच्छत्रशोभितम् । रक्तचन्दनसंलिप्तंरत्नाभरणभूषितम् ।।6.40.4।। Yuddha Kanda,40,5,नीलजीमूतसङ्काशंहेमसञ्छादिताम्बरम् । ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसम् ।।6.40.5।। Yuddha Kanda,40,6,शशलोहितरागेणसंवीतंरक्तवाससा । सन्ध्यातपेनसंवीतंमेघराशिमिवाम्बरे ।।6.40.6।। Yuddha Kanda,40,7,पश्यतांवानरेन्द्राणांराघवस्यापिपश्यतः । दर्शनाद्राक्षसेन्द्रस्यसुग्रीवस्सहसोत्थितः ।।6.40.7।। Yuddha Kanda,40,8,क्रोधवेगेनसंयुक्तस्सत्त्वेनचबलेनच । अचलाग्रादथोत्थायपुप्लुवेगोपुरस्थले ।।6.40.8।। Yuddha Kanda,40,9,स्थित्वामुहूर्तंसम्प्रेक्ष्यनिर्भयेनान्तरात्मना । तृणीकृत्यचतद्रक्षस्सोऽब्रवीत्परुषंवचः ।।6.40.9।। Yuddha Kanda,40,10,लोकनाथस्यरामस्यसखादासोऽस्मिराक्षस । नमयामोक्ष्यसेऽद्यत्वंपार्थिवेन्द्रस्यतेजसा ।।6.40.10।। Yuddha Kanda,40,11,इत्युक्त्वासहसोत्पत्यपुप्लुवेतस्यचोपरि । आकृष्यमुकुटंचित्रंपातयित्वाऽपतद्भुवि ।।6.40.11।। Yuddha Kanda,40,12,समीक्ष्यतूर्णमायान्तमबभाषेनिशाचरः । सुग्रीवस्त्वपरोक्षम् मेहीनग्रीवोभविष्यसि ।।6.40.12।। Yuddha Kanda,40,13,इत्युक्त्वोत्थायतंक्षिप्रंबाहुभ्यामाक्षिपत्तले । कन्तुवत्तंसमुत्थायबाहुभ्यामाक्षिपद्धरि ।।6.40.13।। Yuddha Kanda,40,14,परस्परंस्वेदविदग्धगात्रौपरस्परंशोणितदिग्धदेहौ । परस्परंलशिष्टनिरुद्धचेष्टौपरस्परंशाल्मलिकिंशुकौयधा ।।6.40.14।। Yuddha Kanda,40,15,मुष्टिप्रहारैश्चतलप्रहारैररत्निघातैश्चकराग्रघातैः । तौचक्रतुर्युद्धमसह्यरूपंमहाबलौराक्षसवानरेन्द्रौ ।।6.40.15।। Yuddha Kanda,40,16,"""कृत्वानियुद्धंभृशमुग्रवेगौकालंचिर, गोपुरवेदिमध्ये । उत्क्षिप्यचोत्क्षिप्यविनम्यदेहौपादक्रमाद्गोपुरवेदिलग्नौ ।।6.40.16।।""" Yuddha Kanda,40,17,अन्योन्यमाविध्यवेदिलग्नौतौपेततुस्सालनिखातमध्ये । उत्पेततुर्भूतलमस्पृशन्तौस्थित्वामुहूर्तंत्वभिनिश्श्वसन्तौ ।।6.40.17।। Yuddha Kanda,40,18,आलिङ् ग्यचालिङ् ग्यचबाहुयोक्स्रैस्संयोजयामासतुराहवेतौ । सम्रम्भशिक्षाबलसम्प्रयुक्तौसंचेरतुस्सम्प्रतियुद्धमार्गैः ।।6.40.18।। Yuddha Kanda,40,19,शार्दूरसिंहाविवजातदर्पौगजेन्द्रपोताविवसम्प्रयुक्तौ । संहत्यचापीड्यचतावुरोभ्यांनिपेततुर्वैयुगपद्धरण्याम् ।।6.40.19।। Yuddha Kanda,40,20,उद्यम्यचान्योन्यमधिक्षिपन्तौसञ्चक्रमातेबहुयुद्धमार्गे: । व्यायामशिक्षाबलसम्प्रयुक्तौक्लमंनतौजग्मतुराशुवीरौ ।।6.40.20।। Yuddha Kanda,40,21,बाहूत्तमैर्वारणवारणाभैर्निवारयन्तौवरवारणाभौ । चिरेणकालेनतुसम्प्रयुक्तौसञ्चेरतुर्मण्डलमार्गमाशु ।।6.40.21।। Yuddha Kanda,40,22,तौपरस्परमासाद्ययत्तावन्योन्यसूदने । मार्जाराविवभक्ष्यार्थेऽवितस्थातेमुहुर्मुहुः ।।6.40.22।। Yuddha Kanda,40,23,मण्डलानिविचित्राणिस्थानानिविविधानिच । मूत्रकाणिचित्राणिगतप्रत्यागतानिच ।।6.40.23।। Yuddha Kanda,40,24,तिरच्शीनगतान्येवतथावक्रगतानिच । परिमोक्षंप्रहाराणांवर्जनंपरिधावनम् ।।6.40.24।। Yuddha Kanda,40,25,अभिद्रवणमाप्लावमावस्थानंसविग्रहम् । परावृत्तमपावृत्तमपद्रुतमवप्लुतम् ।।6.40.25।। Yuddha Kanda,40,26,उपन्यस्तपमन्यस्तंयुद्धमार्गविशारदौ । तौसञ्चेचेरतुरन्योन्यंवानरेन्द्रश्चरावणः ।।6.40.26।। Yuddha Kanda,40,27,एतस्मिन्नन्तरेरक्षोमायाबलमथात्मनः । आरब्धुमुपसंपेदेज्ञात्वातंवानराधिपः ।।6.40.27।। Yuddha Kanda,40,28,उत्पपाततदाकाशंजितकाशीजितक्लमः । रावणःस्थितएवात्रहरिराजेववञ्चितः ।।6.40.28।। Yuddha Kanda,40,29,अथहरिवरनाथःप्राप्यसङ्ग्रामकीर्तिंनिशिचरपतिमाजौयोजयित्वाश्रमेण । गगनमतिविशालंलङ्घयित्वार्कसूनुर्हरिगणमध्येरामपार्श्वंजगाम ।।6.40.29।। Yuddha Kanda,40,30,इतिससवितृसूनुस्तत्रतत्कर्मकृत्वापवनगतिरनीकंप्राविशत्ससम्प्रहृष्टः । रघुवरनृपसूनोद्वर्धयन्युद्धहर्षंतरुमृगगणमुख्यैःपूज्यमानोहरीन्द्रः ।।6.40.30।। Yuddha Kanda,41,1,अथतस्मिन्निमित्तानिदृष्टवालक्ष्मणपूर्वजः । सुग्रीवंसम्परिष्वज्यतथावचनमब्रवीत् ।।6.41.1।। Yuddha Kanda,41,2,असन्त्ऱ्यमयासार्थंतदिदंसाहसंकृतम् । एवंसाहसुक्तानिनकुर्वन्तिजनेश्वराः ।।6.41.2।। Yuddha Kanda,41,3,संशयेस्थाप्यमांचेदंबलंचसविभीषणम् । कष्टंकृतमिदंवीर साहसंसाहसप्रिय ।।6.41.3।। Yuddha Kanda,41,4,इदानींमाकृथावीर एवंविधमचिन्तितम् । त्वयिकिञ्चित्समापन्नेकिंकार्यंसीतयामम ।।6.41.4।। भरतेनमहाबाहो लक्ष्मणेनयवीयसा । शत्रुघ्नेनचशत्रुघ्नस्वशरीरेणवापुन:।। 6.41.5।। Yuddha Kanda,41,6,त्वयिचानागतेपूर्वमितिमेनिश्चितामतिः । जानतश्चापितेवीर्यंमहेन्द्रवरुणोसम ।।6.41.6।। Yuddha Kanda,41,7,हत्वाऽहंरावणंयुद्धेसपुत्रबलवाहनम् । अभिषिच्यचलङ्कायांविभीषणमथापिच ।।6.41.7।। भरतेराज्यमावेश्यत्यक्ष्येदेहंमहाबल । Yuddha Kanda,41,8,तमेवंवादिनंरामंसुग्रीवःप्रत्यभाषत ।।6.41.8।। Yuddha Kanda,41,9,तवभार्यापहर्तारंदृष्टवाराघव रावणम् । मर्षयामिकथंवीरजानपौरुषमात्मनः ।।6.41.9।। Yuddha Kanda,41,10,इत्येवंवादिनंवीरमभिनन्द्यचराघवः । लक्ष्मणंलक्षीसम्पन्नमिदंवचनमब्रवीत् ।।6.41.10।। Yuddha Kanda,41,11,परिगृह्योदकंशीतंवनानिफलवन्तिच । बलौघंसंविभज्येमंव्यूह्यतिष्ठेमलक्ष्मण ।।6.41.11।। Yuddha Kanda,41,12,लोकक्षयकरंभीमंभयंपश्याम्युपस्थितम् । निबर्हणंप्रवीराणामृक्षवानररक्षसाम् ।।6.41.12।। Yuddha Kanda,41,13,वाताश्चहिपरुषांवान्तिकम्पतेचवसुन्धरा । पर्वताग्राणिवेपन्तेपतन्तिधरणीधराः ।।6.41.13।। Yuddha Kanda,41,14,मेघाःक्रवादसङ्काशाःपरुषाःपरुषस्वनाः । क्रूराःक्रूरंप्रवर्षन्तिमिश्रंशोणितबिन्दुभिः ।।6.41.14।। Yuddha Kanda,41,15,रक्तचन्दनसङ्काशासन्ध्यापरमदारुणा । ज्वलच्चनिपतत्येतदादित्यादग्निमण्डलम् ।।6.41.15।। Yuddha Kanda,41,16,आदित्यमभिवाश्यन्तिजनयन्तोमहद्भयम् । दीनादीनस्वराःघोरानप्रशस्तामृगद्विजाः ।।6.41.16।। Yuddha Kanda,41,17,रजन्यामप्रकाशश्चसन्तापयतिचन्द्रमाः । कृष्णरक्तांशुपर्यन्तोयथालोकस्यसंक्ष्ये ।।6.41.17।। Yuddha Kanda,41,18,ह्रस्वोरूक्षोऽप्रशस्तश्चपरिवेषस्सुलोहितः । आदित्यमण्डलेनीलंलक्ष्मलक्ष्मण दृश्यते ।।6.41.18।। Yuddha Kanda,41,19,दृश्यन्तेनयथावच्छनक्षत्राण्यभिवर्तते । युगान्तमिवलोकस्यपश्यलक्ष्मण शंसति ।।6.41.19।। Yuddha Kanda,41,20,काकाश्येनास्तथागृध्रानीचैःपरिपतन्तिच । शिवाश्चाप्यशिवावाचःप्रवदन्तिमहास्वनाः ।।6.41.20।। Yuddha Kanda,41,21,क्षिप्रमद्यदुराधर्षांलङ्कांरावणपालिताम् । अभियामजवेनैवसर्वतोहरिभिर्वृताः ।।6.41.21।। Yuddha Kanda,41,22,शैलैःशूलैश्चखडगैश्चविमुक्स्सैःकपिराक्षसैः । भविष्यत्यावृताभूमिर्मांसशोणितकर्दमा ।।6.41.22।। Yuddha Kanda,41,23,इत्येवंतुवदवनीर्वोलक्ष्मणंलक्ष्मणाग्रजः । तस्मादवातरच्छीघ्रंपर्वताग्रान्महाबलः ।।6.41.23।। Yuddha Kanda,41,24,अवतीर्यचधर्मात्मातस्माच्छैलात्सराघवः । परैःपरमदुर्धर्षंददर्शबलमात्मनः ।।6.41.24।। Yuddha Kanda,41,25,सन्नह्यतुससुग्रीवःकपिराजबलंमहत् । कालज्ञोराघवःकालेसंयुगायाभ्यचोदयत् ।।6.41.25।। Yuddha Kanda,41,26,ततःकालेमहाबाहुर्बलेनमहतावृतः । प्रस्थितःपुरतोधवनीलङ्कामभिमुखःपुरीम् ।।6.41.26।। Yuddha Kanda,41,27,तंविभीषणसुग्रीवौहनूमाञ्जाम्बवान्नळ । ऋक्षराजस्तथानीलोलक्ष्मणश्चान्वयुस्तदा ।।6.41.27।। Yuddha Kanda,41,28,ततःपशचात्सुमहतीपृतनर् क्षवनौकसाम् । प्रच्छाद्यमहतींभूमिमनुयातिस्मराघवम् ।।6.41.28।। Yuddha Kanda,41,29,शैलशृङ्गाणिशतशःप्रवृद्धांश्चमहीरुहान् । जगृहुःकुञ्जरप्रख्यावानराःपरवारणाः ।।6.41.29।। Yuddha Kanda,41,30,तौत्वदीर्घेणकालेनभ्रातरौरामलक्ष्मणौ । रावणस्यपुरींलङ्कामसेदतुररिन्दमौ ।।6.41.30।। Yuddha Kanda,41,31,पताकामालिनींरम्यामुद्यानवनशोभिताम् । चित्रवप्रासुदुष्प्रापमुच्चैःप्राकारतोरणाम् ।।6.41.31।। Yuddha Kanda,41,32,तांसुरैरपिदुर्धर्षांरामवाक्यप्रचोदिताः । यथानिदेशंसम्पीड्यन्यविशन्तवनौकसः ।।6.41.32।। Yuddha Kanda,41,33,लङ्कायास्तूत्तरंद्वारंशैलशृङ्गमिवोन्नतम् । रामःसहानुजोधन्वीजुगोपचरुरोधच ।।6.41.33।। Yuddha Kanda,41,34,लङ्कामुपनिविष्टस्तुरामोदशरथात्मजः । लक्ष्मणानुचरोवीरःपुरींरावणपालिताम् ।।6.41.34।। Yuddha Kanda,41,35,उत्तरद्वारमासाद्ययत्रतिष्ठतिरावणः । नान्योरामाद्धितद् द्वारंसमर्थःपरिरक्षितुम् ।।6.41.35।। Yuddha Kanda,41,36,सायुथैराक्षसैर्भीमैरभिगुप्तंसमन्ततः । लघूनांत्रासजननंपाताळमिवदानवैः ।।6.41.36।। Yuddha Kanda,41,37,विन्यस्तानिचयोधानांबहूनिविविधानिच । ददर्शाऽयुधजालानितत्रैवकवचानिच ।।6.41.37।। Yuddha Kanda,41,38,पूर्वंतुद्वारमासाद्यनीलोहरिचमूपतिः । अतिष्ठत्सहमैन्देनद्विविदेनचवीर्यवान् ।।6.41.38।। Yuddha Kanda,41,39,अङ्गदोदक्षिणद्वारंजग्राहसुमहाबलः । ऋषभेणगवाक्षेणगजेनगवयेनच ।।6.41.39।। Yuddha Kanda,41,40,हनुमान् पश्चिमद्वारंररक्षबलवान्कपिः । प्रमाथिप्रषुभ्यांचवीरैरन्यैश्चसङ्गतः ।।6.41.40।। Yuddha Kanda,41,41,मध्यमेचस्वयंगुल्मेसुग्रीवस्समतिष्ठत । सहसर्वैर्हरिश्रेष्ठैस्सुपर्णश्वसनोपमैः ।।6.41.41।। Yuddha Kanda,41,42,वानराणांतुषटित्रंशत्कोट्यःप्रख्यातयूथपाः । निपीड्योपनिविष्टाश्चसुग्रीवोयत्रवानरः ।।6.41.42।। Yuddha Kanda,41,43,शासनेनतुरामस्यलक्ष्मणस्सविभीषणः । द्वारेद्वारेहरीणांतुकोटिंकोटिंन्यवेशयेत् ।।6.41.43।। Yuddha Kanda,41,44,पश्चिमेनतुरामस्यसुषेणःसहजाम्बवान् ।।6.41.44।। आदूरान्मध्यमेगुल्मेतस्थौबहुबलानुगः । Yuddha Kanda,41,45,तेतुवानरशार्धूलाःशार्दूलाइवदंष्ट्रिणः ।।6.41.45।। गृहीत्वाद्रुमशैलाग्रान्हृष्टायुद्धायतस्थिरे । Yuddha Kanda,41,46,सर्वेविकृतलाङ्गूलास्सर्वेदंष्ट्रानखायुधा:।। 6.41.46।। सर्वेविकृतचित्राङ्गास्सर्वेचविकृताननाः । Yuddha Kanda,41,47,दशनागबलाःकेचित्केचिद्धशगुणोत्तराः ।।6.41.47।। केचिन्नागसहस्रस्यबभूवुस्तुल्यविक्रमाः । Yuddha Kanda,41,48,सन्तिचौघबलाःकेचित्केचिच्छतगुणोत्तराः ।।6.41.48।। अप्रमेयबलाश्चान्येतत्रासन्हरियूथपाः Yuddha Kanda,41,49,अद्भुतश्चविचित्रश्चतेषामासीत्समागमः ।।6.41.49।। तत्रवानरसैन्यानांशलभानामिवोद्यमः । Yuddha Kanda,41,50,प्रतिपूर्णमिवाकाशंसञ्छन्नेवचमेदिनी ।।6.41.50।। लङ्कापुमनिविष्टैश्चसम्पतद्भिश्चवानरैः । Yuddha Kanda,41,51,शतंशतसहस्राणांपृथगृक्षवनौकसाम् ।।6.41.51।। लङ्काद्वाराङयुपाजग्मुरन्येयोद्धुंसमन्ततः । Yuddha Kanda,41,52,आवृतस्सगिरिस्सर्वैस्सैस्समन्तात् प्लवङ्गमैः ।।6.41.52।। अयुतानांसहस्रंचपुरींतामभ्यवर्तत । Yuddha Kanda,41,53,वानरैर्बलवद्भिश्चबभूवद्रुमपाणिभिः ।।6.41.53।। सम्वृतासर्वतोलङ्कादुष्प्रवेशाऽपिवायुना । Yuddha Kanda,41,54,राक्षसाविस्मयंजग्मुःसहसाऽभिनिपीडिताः ।।6.41.54।। वानरैर्मेघसङ्काशैश्शक्रतुल्यपराक्रमैः । Yuddha Kanda,41,55,महान् शब्दोऽभवत्तत्रबलौघस्याभिवर्ततः ।।6.41.55।। सागरस्येवभिन्नस्ययथास्यात्सलिलस्वनः । Yuddha Kanda,41,56,तेनशब्देनमहतासप्राकारासतोरणा ।।6.41.56।। लङ्काप्रचलितासर्वासशैलवनकानना । Yuddha Kanda,41,57,रामलक्ष्मणगुप्तासासुग्रीवेणचवाहिनी ।।6.41.57।। बभूवदुर्धर्षतरासर्वैरपिसुरासुरैः । Yuddha Kanda,41,58,राघवःसन्निवेश्यैवंस्वसैन्यंरक्षसांवधे ।।6.41.58।। Yuddha Kanda,41,59,सम्मन्त्ऱ्यमन्त्रिभिस्सार्थंनिश्चित्यचपुनःपुनः । आनन्तर्यमभिप्रेप्सुःक्रमयोगार्थतत्त्ववित् ।।6.41.59।। Yuddha Kanda,41,60,विभीषणस्यानुमतेराजधर्ममनुस्मरन् । अङ्गदंवालितनयंसमाहूयेदमब्रवीत् ।।6.41.60।। Yuddha Kanda,41,61,गत्वासौम्य दशग्रीवंब्रूहिमद्वचनात्कपे । लङ्घयित्वापुरींलङ्कांभयंत्यक्त्वागतव्यधः ।।6.41.61।। भ्रष्टश्रीक गतैश्वर्य मुमूर्षो नष्टचेतनः । Yuddha Kanda,41,62,ऋषीणांदेवतानांचगन्धर्वाप्सरसांतथा ।।6.41.62।। Yuddha Kanda,41,63,नागानामथयक्षाणांराज्ञांचरजनीचर । यच्चपापंकृतंमोहादवलिप्तेनराक्षस ।।6.41.63।। Yuddha Kanda,41,64,नूनंतेविगतोदर्पःस्वयम्भुवरदानजः । तस्यपापस्यसम्प्राप्ताव्युष्टिरद्यदुरसदा ।।6.41.64।। Yuddha Kanda,41,65,तस्यदण्डधरस्तेऽहंदाराहरकर्शितः । दण्डंधारयमाणस्तुलङ्काद्वारेव्यवस्थितः ।।6.41.65।। Yuddha Kanda,41,66,पदवींदेवतानांचमहर्षीणांचराक्षस । राजर्षीणांचसर्वेषांगमिष्यसिमयाहतः ।।6.41.66।। Yuddha Kanda,41,67,बलेनयेनवैसीतांमाययाराक्षसाधम । यामतिक्रामयित्वात्वंहृतवांस्तद्विदर्शय ।।6.41.67।। Yuddha Kanda,41,68,अराक्षसमिमंलोकंकर्तास्मिनिशितैःशरैः । नचेच्छरणमभ्येषितामादायतुमैथिलीम् ।।6.41.68।। Yuddha Kanda,41,69,धर्मात्माराक्षसश्रेष्ठःसम्प्राप्तोऽयंविभीषणः । लङ्कैश्वर्यंधृवंश्रीमानयंप्राप्नोत्यकण्डकम् ।।6.41.69।। Yuddha Kanda,41,70,नहिराज्यमधर्मेणभोक्तुंक्षणमपित्वया । शक्यंमूर्खसहायेनपापेनाविदितात्मना ।।6.41.70।। Yuddha Kanda,41,71,युध्यस्ववाधृतिंकृत्वाशौर्यमालम्ब्यराक्षस । मच्छरैस्त्वंरणेशान्तस्ततःशान्तोभविष्यसि ।।6.41.71।। Yuddha Kanda,41,72,यद्वाविशसिलोकांस्त्रीन्पक्षीभूतोमनोजवः । ममचक्षुष्पथंप्राप्यनजीवन्प्रतियास्यसि ।।6.41.72।। Yuddha Kanda,41,73,ब्रवीमित्वांहितंवाक्यंक्रियतामौर्ध्वदैहिकम् । सुदृष्टाक्रियतांलङ्काजीवितंतेमयिस्थितम् ।।6.41.73।। Yuddha Kanda,41,74,इत्युक्तःसतुतारेयोरामेणाक्लिष्टकर्मणा । जगामाकाशामाविश्यमूर्तिमानिवहव्यवाट् ।।6.41.74।। Yuddha Kanda,41,75,सोऽतिपत्यमुहूर्तेनश्रीमान्रावणमन्दिरम् । ददर्शासीनमव्यग्रंरावणंसचिवैःसह ।।6.41.75।। Yuddha Kanda,41,76,ततस्तस्य I विदूरेणनिपत्यसहरिपुङ्गवः । दीप्ताग्निसदृशस्तस्थावङ्गदःकनकाङ्गदः ।।6.41.76।। Yuddha Kanda,41,77,तद्रामवचनंसर्वमन्यूनाधिकमुत्तमम् । सामात्यंश्रावयामासनिवेद्यात्मानमात्मना ।।6.41.77।। Yuddha Kanda,41,78,दूतोऽहंकोशलेन्द्रस्यरामस्याक्लिष्टकर्मणः । वालिपुत्रोऽङ्गदोनामयदितेश्रोत्रमागतः ।।6.41.78।। Yuddha Kanda,41,79,अहत्वांराघवोरामःकौसल्यानन्दवर्धनः । निष्पत्यप्रतियुध्यस्वनृशंस पुरुषोभव ।।6.41.79।। Yuddha Kanda,41,80,हन्तास्मित्वांसहामात्यंसपुत्रज्ञातिबान्धवम् । निरुद्विग्नास्त्रयोलोकाभविष्यन्तिहतेत्वयि ।।6.41.80।। Yuddha Kanda,41,81,देवदानवयक्षाणांगन्धर्वोरगरक्षसाम् । शत्रुमद्योद्धरिष्यामित्वामृषीणांचकण्टकम् ।।6.41.81।। Yuddha Kanda,41,82,विभीषणस्यचैश्वर्यंभविष्यतिहतेत्वयि । नचेत्सत्कृत्यवैदेहींप्रणिपत्यप्रदास्यसि ।।6.41.82।। Yuddha Kanda,41,83,इत्येवंपरुषंवाक्यंब्रुवाणेहरिपुङ्गवे । अमर्षवशमापन्नोनिशाचरगणेश्वरः ।।6.41.83।। Yuddha Kanda,41,84,ततस्सरोषताम्राक्षश्शशापसचिवांन्नोस्तदा । गृह्यतामेषदुर्मेधावध्यतामितिचासकृत् ।।6.41.84।। Yuddha Kanda,41,85,रावणस्यवच्शुत्वादीप्ताग्निसमतेजसा । जगृहुस्तंततोघोराश्चत्वारोरजनीचराः ।।6.41.85।। Yuddha Kanda,41,86,ग्राहयामासतारेयस्स्वयमात्मनमात्मवान् । बलंदर्शयितुंवीरोयातुधानगणेतदा ।।6.41.86।। Yuddha Kanda,41,87,सतान्बाहुद्वयासक्तानादायपतगानिव । प्रासादंशैलसङ्कामुत्पपाताङ्गदस्तदा ।।6.41.87।। Yuddha Kanda,41,88,तेन्तरिक्षाद्विनिर्धूतास्तस्यवेगेनराक्षसाः । भूमौनिपतिताःसर्वेराक्षसेन्द्रस्यपश्यतः ।।6.41.88।। Yuddha Kanda,41,89,ततःप्रासादशिखरंशैलशृङ्गमिवोन्नतम् । ददर्शराक्षसेन्द्रस्यवालिपुत्रःप्रतापवान् ।।6.41.89।। Yuddha Kanda,41,90,तत्पफालपदाक्रान्तंदशग्रीवस्यपश्यतः । पुराहिमवतश्शृङ्गंवज्रिणेवविदारितम् ।।6.41.90।। Yuddha Kanda,41,91,भङ् क्त्वाप्रासादशिखरंनामविश्राव्यचात्मनः । विनद्यसुमहानादमुत्पपातविहायसम् ।।6.41.91।। Yuddha Kanda,41,92,व्यथयन्राक्षसान्सर्वान्हर्षयंश्चापिवानरान् । सवानराणांमध्येतुरामपार्श्वमुपागतः ।।6.41.92।। Yuddha Kanda,41,93,रावणस्तुपरंचक्रेक्रोधंप्रासादधर्षणात् । विनाशंचात्मनःपश्यन्निश्श्वासपरमोऽभवत् ।।6.41.93।। Yuddha Kanda,41,94,रामस्तुबहुभिर्हृष्टर्निनदद्भिःप्लवङ्गमैः । वृतोरिपुवधाकाङ्क्षीयुद्धायैवाभ्यवर्तत ।।6.41.94।। Yuddha Kanda,41,95,सुषेणस्तुमहावीर्योगिरिकूटोपमोहरिः । बहुभिःसम्वृतस्तत्रवानरैःकामरूपिभिः ।।6.41.95।। Yuddha Kanda,41,96,सचतुर्द्वाराणिसर्वाणिसुग्रीववचनात्कपिः । पर्यक्रामतदुर्धर्षोनक्षत्राणीवचन्द्रमाः ।।6.41.96।। Yuddha Kanda,41,97,तेषामक्षौहिणिशतंसमवेक्ष्यवनौकसाम् । लङ्कामुपनिविष्टानांसागरंचानिवर्तताम् ।।6.41.97।। Yuddha Kanda,41,98,राक्षसाविस्मयंजग्मुस्त्रासंजग्मुस्तथापरे । अपरेसमरोध्धर्षाद्धर्षमेवप्रपेदिरे ।।6.41.98।। Yuddha Kanda,41,99,कृत्स्नंहिकपिभिर्व्याप्तंप्राकारपरिखान्तरम् । ददृशूराक्षसादीनाःप्राकारंनानरीकृतम् ।।6.41.99।। हाहाकारंप्रकुर्वन्तिराक्षसाभयमोहिताः । Yuddha Kanda,42,1,ततस्तेराक्षसास्तत्रगत्वारावणमन्दिरम् । न्यवेदयन्पुरींरुद्धांरामेणसहवानरैः ।।6.42.1।। Yuddha Kanda,42,2,रुद्धांतुनगरींश्रुत्वाजातक्रोधोनिशाचरः । विधानंद्विगुणंश्रुत्वाप्रासादंसोऽध्यरोहत ।।6.42.2।। Yuddha Kanda,42,3,सददर्शावृतांलङ्कांसशैलवनकाननाम् । असङ्ख्येयैर्हरिगणैःसर्वतोयुद्धकाङ्क्षिभिः ।।6.42.3।। Yuddha Kanda,42,4,सदृष्ट्वावानरैःसर्वांवसुधांकवलीकृताम् । कथंक्षपयितव्याःस्युरितिचिन्तापरोऽभवत् ।।6.42.4।। Yuddha Kanda,42,5,सचिन्तयित्वासुचिरंधैर्यमालम्ब्यरावणः । राघवंहरियूथांश्चददर्शायतलोचनः ।।6.42.5।। Yuddha Kanda,42,6,राघवःसहसैन्येनमुदितोनामपुप्लुवे । लङ्कांददर्शगुप्तांवैसर्वतोराक्षसैर्वृताम् ।।6.42.6।। Yuddha Kanda,42,7,दृष्ट्वादाशरथिर्लङ्कांचित्रध्वजपताकिनीम् । जगामसहसासीतांदूयमानेनचेतसा ।।6.42.7।। Yuddha Kanda,42,8,अत्रसामृगशावाक्षीमत्कृतेजनकात्मजा । पीड्यतेशोकसन्तप्ताकृशास्थण्डिलशायिनी ।।6.42.8।। Yuddha Kanda,42,9,पीड्यमानांसधर्मात्मावैदेहीमनुचिन्तयन् । क्षिप्रमाज्ञापयामासवानरान्द्विषतांवधे ।।6.42.9।। Yuddha Kanda,42,10,एवमुक्तेतुवचनेरामेणाक्लिष्टकर्मणा । संघर्षमाणाःप्लवगाःसिम्हनादैरनादयन् ।।6.42.10।। Yuddha Kanda,42,11,शिखरैर्विकिरामैनांलङ्कांमुष्टिभिरेववा । इतिस्मदधिरेसर्वेमनांसिहरियूथपाः ।।6.42.11।। Yuddha Kanda,42,12,उद्यम्यगिरिशृङ्गाणिशिखराणिमहान्तिच । तरूंश्चोत्पाट्यविविधांस्तिष्ठन्तिहरियूथपाः ।।6.42.12।। Yuddha Kanda,42,13,प्रेक्षतोराक्षसेन्द्रस्यतान्यनीकानिभागशः । राघवप्रियकामार्थंलङ्कामारुरुहुस्तदा ।।6.42.13।। Yuddha Kanda,42,14,तेताम्रवक्त्राहेमाभारामार्थेत्यक्तजीविताः । लङ्कामेवाभ्यवर्तन्तसालतालशिलायुधाः ।।6.42.14।। Yuddha Kanda,42,15,तेद्रुमैःपर्वताग्रैश्चमुष्टिभिश्चप्लवङ्गमाः । प्राकाराग्राण्यरण्यानिममन्थुस्तोरणानिच ।।6.42.15।। Yuddha Kanda,42,16,पारिखाःपूरयन्तिस्मप्रसन्नसलिलायुताः । पांसुभिःपर्वताग्रैश्चतृणैःकाष्ठैश्चवानराः ।।6.42.16 ।। Yuddha Kanda,42,17,ततःसहस्रयूथाश्चकोटीयूथाश्चवानराः । कोटीशतयुताश्चान्येलङ्कामारुरुहुस्तदा ।।6.42.17।। Yuddha Kanda,42,18,काञ्चनानिप्रमृद्नन्तस्तोरणानिप्लवङ्गमाः । कैलासशिखराभानिगोपुराणिप्रमथ्यच ।।6.42.18।। Yuddha Kanda,42,19,आप्लवन्तःप्लवन्तश्चगर्जन्तश्चप्लवङ्गमाः । लङ्कांतामभिधावन्तिमहावारणसंनिभाः ।।6.42.19।। Yuddha Kanda,42,20,जयत्यतिबलोरामोलक्ष्मणश्चमहाबलः । राजाजयतिसुग्रीवोराघवेणाभिपालितः ।।6.42.20।। Yuddha Kanda,42,21,इत्येवंघोषयन्तश्चगर्जन्तश्चप्लवङ्गमाः । अभ्यधावन्तलङ्कायाःप्राकारंकामरूपिणः ।।6.42.21।। Yuddha Kanda,42,22,वीरबाहुःसुबाहुश्चनलश्चवनगोचरः । निपीड्योपनिविष्टास्तेप्राकारंहरियूथपाः । एतस्मिन्नन्तरेचक्रुःस्कन्धावारनिवेशनम् ।।6.42.22 ।। Yuddha Kanda,42,23,पूर्वद्वारंतुकुमुदःकोटीभिर्दशभिर्वृतः । आवृत्यबलवांस्तस्थौहरिभिर्जितकाशिभिः ।।6.42.23।। Yuddha Kanda,42,24,साहाय्यार्थंतुतस्यैवनिविष्टःप्रघसोहरिः । पनसश्चमहाबाहुर्वानरैर्बहुभिर्वृतः ।।6.42.24।। Yuddha Kanda,42,25,दक्षिणंद्वारमागम्यवीरःशतबलिःकपिः । आवृत्यबलवांस्तस्थौविंशत्याकोटिभिर्वृतः ।।6.42.25।। Yuddha Kanda,42,26,सुषेणःपश्चिमद्वारंगतस्तारापिताहरिः । आवृत्यबलवांस्तस्थौषष्टिकोटिभिरावृतः ।।6.42.26।। Yuddha Kanda,42,27,उत्तरंद्वारमासाद्यरामःसौमित्रिणासह । आवृत्यबलवांस्तस्थौसुग्रीवश्चहरीश्वरः ।।6.42.27।। Yuddha Kanda,42,28,गोलाङ्गूलोमहाकायोगवाक्षोभीमदर्शनः । वृतःकोट्यामहावीर्यस्तस्थौरामस्यपार्श्वतः ।।6.42.28।। Yuddha Kanda,42,29,ऋक्षाणांभीमवेगानांधूम्रःशत्रुनिबर्हणः । वृतःकोट्यामहावीर्यस्तस्थौरामस्यपार्श्वतः ।।6.42.29।। Yuddha Kanda,42,30,सन्नद्धस्तुमहावीर्योगदापाणिर्विभीषणः । वृतोयस्तैस्तुसचिवैस्तस्थौतत्रमहाबलः ।।6.42.30।। Yuddha Kanda,42,31,गजोगवाक्षोगवयःशरभोगन्धमादनः । समन्तात्परिधावन्तोररक्षुर्हरिवाहिनीम् ।।6.42.31।। Yuddha Kanda,42,32,ततःकोपपरीतात्मारावणोराक्षसेश्वरः । निर्याणंसर्वसैन्यानांद्रुतमाज्ञापयत्तदा ।।6.42.32।। Yuddha Kanda,42,33,एतच्छ्रुत्वाततोवाक्यंरावणस्यमुखोद्गतम् । सहसाभीमनिर्घोषमुद्घुष्टंरजनीचरैः ।।6.42.33।। Yuddha Kanda,42,34,ततःप्रचोदिताभेर्यश्चन्द्रपाण्डरपुष्कराः । हेमकोणाहताभीमाराक्षसानांसमन्ततः ।।6.42.34।। Yuddha Kanda,42,35,विनेदुश्चमहाघोषाःशङ्खाःशतसहस्रशः । राक्षसानांसुघोराणांमुखमारुतपूरिताः ।।6.42.35।। Yuddha Kanda,42,36,तेबभुःशुभनीलाङ्गाःसशङ्खारजनीचराः । विद्युन्मण्डलसन्नद्धाःसबलाकाइवाम्बुदाः ।।6.42.36।। Yuddha Kanda,42,37,निष्पतन्तिततःसैन्याहृष्टारावणचोदिताः । समयेपूर्यमाणस्यवेगाइवमहोदधेः ।।6.42.37।। Yuddha Kanda,42,38,ततोवानरसैन्येनमुक्तोनादःसमन्ततः । मलयःपूरितोयेनससानुप्रस्थकन्दरः ।।6.42.38।। Yuddha Kanda,42,39,शङ्खदुन्दुभिसंघुष्टःसिम्हनादस्तरस्विनाम् । पृथिवींचान्तरिक्षंचसागरंचैवनादयन् ।।6.42.39।। Yuddha Kanda,42,40,गजानांबृंहितैःसार्धंहयानांहेषितैरपि । रथानांनेमिघोषैश्चरक्षसाम्वदनस्वनः ।।6.42.40 ।। Yuddha Kanda,42,41,एतस्मिन्नन्तरेघोरःसङ्ग्रामःसमवर्तत । रक्षसांवानराणांचयथादेवासुरेपुरा ।।6.42.41।। Yuddha Kanda,42,42,तेगदाभिःप्रदीप्ताभिःशक्तिशूलपरश्वधैः । निजघ्नुर्वानरान्घोराःकथयन्तःस्वविक्रमान् ।।6.42.42।। Yuddha Kanda,42,43,राजाजयतिसुग्रीवइतिशब्दोमहानभूत् । राजन्जयजयेत्युक्त्वास्वस्वनामकथान्ततः ।।6.42.43।। Yuddha Kanda,42,44,तथावृक्षैर्महाकायाःपर्वताग्रैश्चवानराः । निजघ्नुस्तानिरक्षांसिनखैर्दन्तैश्चवेगिताः ।।6.42.44।। Yuddha Kanda,42,45,राक्षसास्त्वपरेभीमाःप्राकारस्थामहीगतान् । भिन्दिपालैश्चखड्गैश्चशूलैश्चैवव्यदारयन् ।।6.42.45।। Yuddha Kanda,42,46,वानराश्चापिसङ्क्रुद्धाःप्राकारस्थान्महीगताः । राक्षसान्पातयामासुःसमाप्लुत्यप्लवङ्गमाः ।।6.42.46।। Yuddha Kanda,42,47,ससम्प्रहारस्तुमुलोमांसशोणितकर्दमः । रक्षसांवानराणांचसम्बभूवाद्भुतोपमाः।।6.42.47।। Yuddha Kanda,43,1,युध्यतांतुततस्तेषांवानराणांमहात्मनाम् । रक्षसांसम्बभूवाथबलकोपस्सुदारुणः ।।6.43.1।। Yuddha Kanda,43,2,तेहयैःकाञ्चनापीडैर्ध्वश्चाग्निशिखोपमैः । रथैश्चादित्यसङ्काशैःकवचैश्चमनोरमैः ।।6.43.2।। Yuddha Kanda,43,3,निर्ययूराक्षसव्याघ्रानादयन्तोदिशोदश । राक्षसाभीमकर्माणोरावणस्यजयैषिणः ।।6.43.3।। Yuddha Kanda,43,4,वानराणामपिचमूर्बृहतीजयमिच्छताम् । अभ्यधावततांसेनांरक्षसांकामरूपिणम् ।।6.43.4।। Yuddha Kanda,43,5,एतस्मिन्नन्तरेतेषामन्योन्यमभिधावताम् । रक्षसांवानराणांचद्वन्द्वयुद्धमवर्तत ।।6.43.5।। Yuddha Kanda,43,6,अङ्गदेन्द्रजित्सार्धंवालिपुत्रेणराक्षसः । आयुध्यतमहातेजास्त्ऱ्यम्बकेणयथाऽन्तकः ।।6.43.6।। Yuddha Kanda,43,7,प्रजङ्घेनचसम्पातिर्नित्यंदुर्मर्षणोरणे । जम्बुमालिनमारब्धोहनुमानपिवानरः ।।6.43.7।। Yuddha Kanda,43,8,संगतस्तुमहाक्रोधोराक्षसोरावणानुजः । समरेतीक्ष्णवेगेनमित्रघ्नेनविभीषणः ।।6.43.8।। Yuddha Kanda,43,9,तपनेनगजस्सार्धंराक्षसेनमहाबलः । निकुम्भेनमहातेजानीलोऽपिसमयुध्यत ।।6.43.9।। Yuddha Kanda,43,10,वानरेन्द्रस्तुसुग्रीवःप्रघसेनसमागतः । सङ्गतःसमरेश्रीमान्विरूपाक्षेणलक्ष्मणः ।।6.43.10।। Yuddha Kanda,43,11,अग्निकेतुश्चसुदुर्धर्षोरश्मिकेतुश्चराक्षसः । सुप्तघ्नोयज्ञकोपश्चरामेणसहसङ्गताः ।।6.43.11।। Yuddha Kanda,43,12,वज्रमुष्टिस्तुमैन्देनद्विविदेनाशनिप्रभः । राक्षसाभ्यांसुघोराभ्यांकपिमुख्यौसमागतौ ।।6.43.12।। Yuddha Kanda,43,13,वीरःप्रतपनोघोरोराक्षसोरणदुर्धरः । समरेतीक्ष्णवेगेननळेनसमयुध्यत ।।6.43.13।। Yuddha Kanda,43,14,धर्मस्यपुत्रोबलवान्सुषेणइतिविश्रुतः । सविद्युन्मालिनासार्धमयुध्यतमहाकपिः ।।6.43.14।। Yuddha Kanda,43,15,वानराश्चापरेभीमाराक्षसैरपरैस्सह । द्वन्द्वंसमीयुस्सहसायुद्धायबहुभिस्सह ।।6.43.15।। Yuddha Kanda,43,16,तत्रासीत्सुमहद्युद्धंतुमुलंरोमहर्षणम् । रक्षसांवानराणांचवीराणांजयमिच्छताम् ।।6.43.16।। Yuddha Kanda,43,17,हरिराक्षसदेहेभ्यःप्रभूताःकेशशाद्वलाः । शरीरसङ्घाटावहाःप्रसुस्रुश्शोणितापगाः ।।6.43.17।। Yuddha Kanda,43,18,अजघानेन्द्रजित्क्रुद्धोवज्रेणेवशतक्रतुः । अङ्गदंगदयावीरंशत्रुसैन्यविदारणम् ।।6.43.18।। Yuddha Kanda,43,19,तस्यकाञ्चनचित्राङ्गंरथंसाश्वंससारथिम् । जघानसमरेश्रीमानङ्गदोवेगवान्कपिः ।।6.43.19।। Yuddha Kanda,43,20,सम्पातिस्तुत्रिभिर्भाणैःप्रजङ्घेनसमाहतः । निजघानश्वकर्णेनप्रजङ्घंरणमूर्धनि ।।6.43.20।। Yuddha Kanda,43,21,जम्बुमालीरथस्थस्तुरथशक्त्यामहाबलः । बिबेदसमरेक्रुद्धोहनूमन्तंस्तनान्तरे ।।6.43.21।। Yuddha Kanda,43,22,तस्यतंरथमास्थायहनूमान् मारुतात्मजः । प्रममाथतलेनाशुसहतेनैवरक्षसा ।।6.43.22।। Yuddha Kanda,43,23,नदन् प्रतपनोघोरोनलंसोप्यन्वधावत । नलःप्रतपनस्याशुपातयामासचक्षुषी ।।6.43.23।। Yuddha Kanda,43,24,भिन्नगात्रश्शरैस्तीक्ष्णैःक्षिप्रहस्तेनरक्षसा । ग्रसन्तमिवसैन्यानिप्रघसंवानराधिपः ।।6.43.24।। सुग्रीवस्सप्तपर्णेननिर्भिभेदजघानच । Yuddha Kanda,43,25,अग्निकेतुश्चदुर्धर्षोरश्मिकेतुश्चराक्षसः ।।6.43.25।। सुप्तघ्नोयज्ञकोपश्चरामंनिर्भिभिदुश्शरैः । Yuddha Kanda,43,26,तेषांचतुर्णांरामस्तुशिरांसिनिशितैश्शरैः । क्रुद्धश्चतुर्भिश्चिच्छेदघोरैरग्निशिखोपमैः ।।6.43.26।। Yuddha Kanda,43,27,वज्रमुष्टिस्तुमैन्देनमुष्टिनानिहतोरणे । पपातसरथस्साश्वःपुराट्टइवभूतले ।।6.43.27।। Yuddha Kanda,43,28,निकुम्बस्तुरणेनीलंनीलाञ्जनचयप्रभम् । निर्बिभेदशरैस्तीक्ष्णैःकरैर्मेघमिवांशुमान् ।।6.43.28।। Yuddha Kanda,43,29,पुनश्शरशतेनाथक्षिप्रहस्तोनिशाचरः । बिभेदसमरेनीलंनिकुम्भःप्रजहासच ।।6.43.29।। Yuddha Kanda,43,30,तस्यैवरथचक्रेणनीलोविष्णुरिवाहवे । शिरश्चिच्छेदसमरेनिकुम्भस्यचसारथेः ।।6.43.30।। Yuddha Kanda,43,31,वज्राशनिसमस्पर्शोद्विविदोऽप्यशनिप्रभम् । जघानगिरिशृङ्गेणमिषतांसर्वरक्षसाम् ।।6.43.31।। Yuddha Kanda,43,32,द्विदिधंवानरेन्द्रंतुनगयोधिनमाहवे । शरैरशनिसङ्काशैस्सविव्याधाशनिप्रभः ।।6.43.32।। Yuddha Kanda,43,33,सशरैरभिविद्धाङ्गोद्विविदःक्रोधमूर्छितः । सालेनसरथंसाश्वंनिजघानाशनिप्रभम् ।।6.43.33।। Yuddha Kanda,43,34,विद्युन्मालीरथस्थस्तुशरैःकाञ्चनभूषणैः । सुषेणंताडयामासननादचमुहुर्मुहुः ।।6.43.34।। Yuddha Kanda,43,35,तंरथस्थमथोदृष्टवासुषेणोवानरोत्तमः । गिरिशृङ्गेणमहतारथमाशुन्यपातयत् ।।6.43.35।। Yuddha Kanda,43,36,लाघवेनतुसंयुक्तोविद्युन्मालीनिशाचरः । अपक्रम्यरथात्तूर्णंगदापाणिःक्षितौस्थितः ।।6.43.36।। Yuddha Kanda,43,37,ततःक्रोधसमाविष्टःसुषेणोहरिपुङ्गवः । शिलांसुमहतींगृह्यनिशाचरमभिद्रवत् ।।6.43.37।। Yuddha Kanda,43,38,तमापतन्तंगदयाविद्युन्मालीनिशाचरः । वक्षस्यभिजघानाशुसुषेणंहरिपुङ्गवः ।।6.43.38।। Yuddha Kanda,43,39,गदाप्रहारंतंघोरमच्नित्यप्लवगोत्तमः । तांशिलांपातयामासतस्योरसिमहामृधे ।।6.43.39।। Yuddha Kanda,43,40,शिलाप्रहारभिहतोविद्युन्मालीनिशाचरः । निष्पिष्टहृदयोभूमौगतासुर्निपपातह ।।6.43.40।। Yuddha Kanda,43,41,एवंतैर्वानरैश्शूरैश्शूरास्तेरजनीचराः । द्वन्द्वेविमृदितास्तत्रदैत्याइवदिवौकसैः ।।6.43.41।। Yuddha Kanda,43,42,भग्नैखडगैर्गदाभिश्चशक्तितोमरपट्टसै: । अपविद्धैश्चाभिन्नैश्चरथैस्साङ्ग्रामिकैर्हयैः ।।6.43.42।। Yuddha Kanda,43,43,निहतैःकुञ्जरैर्मत्स्सैस्तथावानरराक्षसैः । चक्राक्षयुगदण्डैश्चभग्नैर्धरणिसंश्रितैः ।।6.43.43।। बभूवायोधनंघोरंगोमायुगणसेवितम् । Yuddha Kanda,43,44,कबन्धानिसमुत्पेतुर्दिक्षुवानररक्षसाम् ।।6.43.44।। विमर्देतुमुलेतस्मिन्देवासुररणोपमे । Yuddha Kanda,43,45,विदार्यमाणाहरिपुङ्गवैस्तदानिशाचराश्शोणितदिग्धगात्राः । पुनःसुयुद्धंतरसासमास्थितादिवाकरस्यास्तमयाभिकाङ्क्षिणः ।।6.43.45।। Yuddha Kanda,44,1,युध्यतामेनतेषांतुतदावानरराक्षसाम् । रविरस्तंगतोरात्रिःप्रवृत्ताप्राणहारिणी ।।6.44.1।। Yuddha Kanda,44,2,अन्योन्यंबद्धवैराणांघोराणांजयमिच्छताम् । सम्प्रवृत्तंनिशायुद्धंतदावानररक्षसाम् ।।6.44.2।। Yuddha Kanda,44,3,राक्षसोऽसीतिहरयोहरिश्चाऽसीतिराक्षसाः । अन्योन्यंसमरेजघ्नुस्तस्मिंस्तमसिदारुणे ।।6.44.3।। Yuddha Kanda,44,4,जहिदारयचैहीतिकथंविद्रवसीतिच । एवंसुतुमुलश्शब्दस्तस्मिंस्तमसिशुश्रुवे ।।6.44.4।। Yuddha Kanda,44,5,कालाःकाञ्चनसन्नाहास्तस्मिंस्तमसिराक्षसाः । सम्प्रदृश्यन्तशैलेन्द्रादीप्तौषधिवनाइव ।।6.44.5।। Yuddha Kanda,44,6,तस्मिंस्तमसिदुष्पारेराक्षसाःक्रोधमूर्छिताः । परिपेतुर्महावेगाभक्षयन्तःप्लवङ्गमान् ।।6.44.6।। Yuddha Kanda,44,7,तेहयान् काञ्चनापीडान् ध्वजांश्चाशीविषोपमान् । आप्लुत्यदशनैस्तीक्ष्णैर्भीमकोपाव्यदारयन् ।।6.44.7।। वानराबलिनोयुद्धेऽक्षोभयन् राक्षसींचमूम् । Yuddha Kanda,44,8,कुञ्जरान् कुञ्जरारोहान् पताकाध्वजिनोरथान् ।।6.44.8।। कर्षुश्चददंशुश्चदशनैःक्रोधमूर्छिताः । Yuddha Kanda,44,9,लक्ष्मणश्चापिरामश्चशरैराशीविषोपमैः ।।6.44.9।। दृश्यादृश्यानिरक्षांसिप्रवराणिनिजघ्नतुः । Yuddha Kanda,44,10,तुरङ्गखुरविध्वस्तंरथनेमिसमुत्थितम् ।।6.44.10।। रुरोधकर्णनेत्राणियुध्यतांधरणीरजः । Yuddha Kanda,44,11,वर्तमानेतथाघोरेसङ्ग्रामेरोमहर्षणे ।।6.44.11।। रुधिरोधामहाघोरानद्यस्तत्रप्रसुस्रुवुः । Yuddha Kanda,44,12,ततोभेरीमृदङ्गानांपणवानांचनिस्स्वनः ।।6.44.12।। शङ्खवेणुस्वनोन्मिश्रस्सम्भूवाद्भुतोपमः । Yuddha Kanda,44,13,हतानांस्तनमानानांराक्षसानांचनिःस्वनः ।।6.44.13।। शस्तानांवानराणांचसम्बभूवातिदारुणः । Yuddha Kanda,44,14,हतैर्वानरवीरैश्चशक्तिशूलपरश्वधैः ।।6.44.14।। Yuddha Kanda,44,15,निहतैःपर्वताकारैराक्षसैःकामरूपिभिः । शस्त्रपुष्पोपहाराचतत्रासीद्युद्धमेदिनी ।।6.44.15।। दुर् ज्ञेयादुर्निवेशाचशोणितास्रावकर्दमा । Yuddha Kanda,44,16,साबभूवनिशाघोराहरिराक्षसहारिणी ।।6.44.16।। कालरात्रीवभूतानांसर्वेषांदुरतिक्रमा । Yuddha Kanda,44,17,ततस्तेराक्षसास्तत्रतस्मिंस्तमसिदारुणे ।।6.44.17।। राममेवाभ्यवर्तन्तसम्हृष्टाश्शरवृष्टिभिः । Yuddha Kanda,44,18,"""तेषामापततांशब्दःक्रुद्धानामपिगर्जताम् ।।6.44.18।। उद्वर्तइवसत्त्व, नांसमुद्राणांप्रशुश्रुवे ।""" Yuddha Kanda,44,19,तेषांरामश्शरैःषडिभःषडजघाननिशाचरान् ।।6.44.19।। Yuddha Kanda,44,20,निमेषान्तरमात्रेणशितैरग्निशिखोपमैः । यमशत्रुश्चदुर्धर्षोमहापार्श्वमहोदरौ ।।6.44.20।। Yuddha Kanda,44,21,वज्रदंष्ट्रोमहाकायस्तौचोभौशुकसारणौ । तेतुरामेणबाणौघैस्सर्वेमर्मसुताडिताः ।।6.44.21।। युद्धादपसृतास्तत्रसावशेषायुषोऽभवन् । Yuddha Kanda,44,22,तत्रकाञ्चनचित्राङ्गैश्शरैरग्निशिखोपमैः ।।6.44.22।। दिशश्चकारविमलाःप्रदिशश्चमहारथः । Yuddha Kanda,44,23,येत्वन्येराक्षसाभीमारामस्याभिमुखेस्थिताः ।।6.44.23।। तेऽपिनष्टाःसमासाद्यपतङ्गाइवपावकम् । Yuddha Kanda,44,24,सुवर्णपुङ्खैर्विशिखैस्सपतद्भिस्सहस्रशः ।।6.44.24।। बभूवरजनीचित्राखद्योतैरिवशारदी । Yuddha Kanda,44,25,राक्षसानांचनिनदैर्हरीणांचापिनिस्स्वनैः ।।6.44.25।। साबभूवनिशाघोराभूयोघोरतरातदा । Yuddha Kanda,44,26,तेनशब्देनमहताप्रवृद्धेनसमन्ततः ।।6.44.26।। त्रिकूटःकन्दराकीर्णःप्रव्याहरदिवाचलः । Yuddha Kanda,44,27,गोलाङ्गूलामहाकायास्तमसातुल्यवर्चसः ।।6.44.27।। सम्परिष्वज्यबाहुभ्यांभक्षयन्रजनीचरान् । Yuddha Kanda,44,28,अङ्गदस्तुरणेशत्रूननिहन्तुंसमुपस्थितः ।।6.44.28।। रावणिंनिजघानाशुसारथिंचहयानपि । Yuddha Kanda,44,29,वर्तमानेतदाघोरेसङ्ग्रामेभृशदारुणे ।।6.44.29।। Yuddha Kanda,44,30,इन्द्रजित्तुरथंत्यक्त्वाहताश्वोहतसारथिः । अङ्गदेनमहामायस्तत्रैवान्तरधीयत ।।6.44.30।। Yuddha Kanda,44,31,तत्कर्मवालिपुत्रस्यसर्वेदेवास्सहर्षिभिः । तुष्टुवुःपूजनार्हस्यतौचोभौरामलक्ष्मणौ ।।6.44.31।। Yuddha Kanda,44,32,प्रभावंसर्वभूतानिविदुरिन्द्रजितोयुधि । तेनतेतंमहात्मानंतुष्टाःदृष्टवाप्रधर्षितम् ।।6.44.32।। Yuddha Kanda,44,33,ततःप्रहृष्टाःकपयस्ससुग्रीवविभीषणाः । साधुसाध्वितिनेदुश्चदृष्टवाशत्रुंप्रधर्षितम् ।।6.44.33।। Yuddha Kanda,44,34,इन्द्रजित्तुतदातेननिर्जितोभीमकर्मणा । संयुगेवालिपुत्रेणक्रोधंचक्रेसुदारुणम् ।।6.44.34।। Yuddha Kanda,44,35,सोऽन्तर्धानगतःपापोरावणीरणकर्कशः । अदृश्योनिशितान्बाणान्मुमोचाशनिवर्चसः ।।6.44.35।। Yuddha Kanda,44,36,सरामंलक्ष्मणंचैवघोरैर्नागमयैश्शरैः । बिभेदसमरेक्रुद्धःसर्वगात्रेषुराक्षसः ।।6.44.36।। Yuddha Kanda,44,37,माययासम्वृतस्तत्रमोहयन्राघवौयुधि । अदृश्यस्सर्वभूतानांकूटयोधीनिशाचरः ।।6.44.37।। बबन्धशरबन्धेनभ्रातरौरामलक्ष्मणौ । Yuddha Kanda,44,38,तेनतौपुरुषव्याघ्रौक्रुद्धेनाशीविषैश्शरैः ।।6.44.38।। सहसानिहतौवीरौतदाप्रैक्षन्तवानराः । Yuddha Kanda,44,39,प्रकाशरूपस्तुतदानशक्तस्तौबाधितुंराक्षसराजपुत्रः । मायांप्रयोक्तुंसमुपाजगामबबन्धतौराजसुतौदुरात्मा ।।6.44.39।। Yuddha Kanda,45,1,सतस्यगतिमन्विच्छन्राजपुत्रःप्रतापवान् । दिदेशातिबलोरामोदशवानरयूथपान् ।।6.45.1।। Yuddha Kanda,45,2,द्वौसुषेणस्यदायादौनीलंचप्लवगर्षपम् । अङ्गदंवालिपुत्रंचशरभंचतरस्विनम् ।।6.45.2।। Yuddha Kanda,45,3,विनतंजाम्बवन्तंचसानुप्रस्थंमहाबलम् । ऋषभंचर्षभस्कन्थमादिदेशपरन्तपः ।।6.45.3।। Yuddha Kanda,45,4,तेसम्प्रहृष्टाहरयोभीमानुद्यम्यपादपान् । आकाशंविविशुस्सर्वेमार्गमाणादिशोदशः ।।6.45.4।। Yuddha Kanda,45,5,तेषांवेगवतांवेगमिषुभिर्वेगवत्तरैः । अस्त्रवित्परमास्तैरैस्तुवारयामासरावणिः ।।6.45.5।। Yuddha Kanda,45,6,तंभीममार्गमाणादिशोदशःवेगाहरयोनाराचैःक्षतविग्रहाः । अन्धकारेनददृशुर्मेघैस्सूर्यमिवावृतम् ।।6.45.6।। Yuddha Kanda,45,7,रामलक्ष्मणयोरेवसर्वदेहभिदश्शरान् । भृशमावेशयामासरावणिस्समितिञ्जयः ।।6.45.7।। Yuddha Kanda,45,8,निरन्तरशीरीरौतुतावुभौरामलक्ष्मणौ । क्रुद्धेनेन्द्रजितावीरौपन्नगैश्शरतांगतैः ।।6.45.8।। Yuddha Kanda,45,9,तयोःक्षतजमार्गेणसुस्रावरुधिरंबहु । तावुभौचप्रकाशेतेपुष्पिताविवकिंशुकौ ।।6.45.9।। Yuddha Kanda,45,10,ततःपर्यन्तरक्ताक्षोभिन्नाञ्जनचयोपमः । रावणिर्भ्रातरौवाक्यमन्तर्धानगतोऽब्रवीत् ।।6.45.10।। Yuddha Kanda,45,11,युध्यमानमनालक्षयंशक्रोऽपित्रिदशेश्वरः । द्रष्टुमासादितुंवापिनशक्तःकिंपुनर्युवाम् ।।6.45.11।। Yuddha Kanda,45,12,प्रावृताविषुजालेनराघवौकङ्कपत्रिणा । एषरोषपरीतात्मानयामियमसादनम् ।।6.45.12।। Yuddha Kanda,45,13,एवमुक्त्वातुधर्मज्ञौभ्रातरौरामलक्ष्मणौ । निर्बिभेदशितैर्बाणैःप्रजहर्षननादच ।।6.45.13।। Yuddha Kanda,45,14,भिन्नाञ्जनचयश्यामोविष्फार्यविपुलंधनुः । भूयोभूयश्शरान्घोरान् विससर्जमहामृथे ।।6.45.14।। Yuddha Kanda,45,15,ततोमर्मसुमर्मज्ञोमज्जयननिशितान् शरान् । रामलक्ष्मणयोर्वीरोननदाचमुहुर्मुहुः ।।6.45.15।। Yuddha Kanda,45,16,बद्धौतुशरशब्देनतावुभौरणमूर्धनि । निमेषान्तरमात्रेणनशेकतुदीक्षितुम् ।।6.45.16।। Yuddha Kanda,45,17,ततोविभिन्नसर्वाङ्गौशरशल्याचितावुभौ । ध्वजाविवमहेन्द्रस्यरज्जुमुक्तौप्रकम्पितौ ।।6.45.17।। Yuddha Kanda,45,18,तौसम्प्रचलितौवीरौमर्मभेदेनकर्शितौ । निपेततुर्महेष्वासौजगत्यांजगतीपती ।।6.45.18।। Yuddha Kanda,45,19,तौवीरशयनेवीरौशयानौरुधिरोक्षितौ । शरवेष्टितसर्वाङ्गैवार्तौपरमपीडितौ ।।6.45.19।। Yuddha Kanda,45,20,नह्यविद्धंतयोर्गात्रेबभूवाङ्गुळमन्तरम् । नानिर्भिन्नंनचास्तब्दमाकराग्रादजिह्मगैः ।।6.45.20।। Yuddha Kanda,45,21,तौतुक्रूरेणनिहतौरक्षसाकामरूपिणा । असृक्सुस्रुवतुस्तीव्रंजलंप्रस्रवणाविव ।।6.45.21।। Yuddha Kanda,45,22,पपातप्रथमंरामोविद्धोमर्मसुमार्गणैः । क्रोधादिन्द्रजितायेनपुराशक्रोविनिर्जितः ।।6.45.22।। Yuddha Kanda,45,23,रुक्मपुङ्खैःप्रसन्नाग्रैरधोगतिभिराशुगैः । नाराचैरर्धनाराचैर्भल्लैरञ्जलिकैरपि ।।6.45.23।। विव्याधवत्सदन्तैश्चसिंहदंष्ट्रैःक्षुरैस्तथा । Yuddha Kanda,45,24,सवीरशयनेशिश्येविज्यमादायकार्मुकम् ।।6.45.24।। भिन्नमुष्टिपरीणाहंत्रिणतंरुक्मभूषितम् । Yuddha Kanda,45,25,बाणपातान्तरेरामंपतितंपुरुषर्षभम् ।।6.45.25।। सतत्रलक्ष्मणोदृष्टवानिराशोजीवितेऽभवत् । Yuddha Kanda,45,26,रामंकमलपत्राक्षंशरबन्धपरिक्षतम् ।।6.45.26।। शुशोचभ्रातरंदृष्टवापतितंधरणीतले । Yuddha Kanda,45,27,हरयश्चापितंदृष्टवासन्तापंपरमंगताः ।।6.45.27।। शोकार्ताश्चुक्रशुर्घोरमश्रुपूरितलोचनाः । Yuddha Kanda,45,28,बद्धौतुवीरौपतितौशयानौतेवानरास्सम्परिवार्यतस्थुः । समागतावायुसुतप्रमुख्याविषादमार्ताःपरमंचजग्मुः ।।6.45.28।। Yuddha Kanda,46,1,ततोद्यांपृथिवींचैववीक्षमाणावनौकसः । ददृशुःसन्ततौबाणैर्भ्रातरौरामलक्ष्मणौ ।।6.46.1।। Yuddha Kanda,46,2,वृष्टवेवोपरतेदेवेकृतकर्मणिराक्षसे । आजगामाथतंदेशंससुग्रीवोविभीषणः ।।6.46.2।। Yuddha Kanda,46,3,नीलद्विविदमैन्दाश्चसुषेणःकुमुदाङ्गदा: । तूर्णंहनुमतासार्धमन्वशोचन्तराघवौ ।।6.46.3।। Yuddha Kanda,46,4,अचेष्टौमन्दनिश्श्वासौशोणितौघपरिप्लुतौ । शरजालाचितौस्तब्दौशयानौशरतल्पयोः ।।6.46.4।। Yuddha Kanda,46,5,निःश्वसन्तौयथासर्पौनिश्चेष्टौमन्दविक्रमौ । रुधिरस्राद्विग्धाङ्गौतापनीयाविवध्वजौ ।।6.46.5।। Yuddha Kanda,46,6,तौवीरशयनेवीरौशयानौमन्दचेष्टितौ । यूथपैस्तै: परिवृतौबाष्पव्याकुललोचनैः ।।6.46.6।। Yuddha Kanda,46,7,राघवौपतितौदृष्टवाशरजालसमावृतौ । बभूवुर्वेर्व्यथितास्सर्वेवानरास्सविभीषणाः ।।6.46.7।। Yuddha Kanda,46,8,अन्तरिक्षंनिरीक्षन्तोदिशस्सर्वाश्चवानराः । नचैनंमाययाछन्नंददृशूरावणिःरणे ।।6.46.8।। Yuddha Kanda,46,9,तंतुमायाप्रतिच्छन्नंमाययैवविभीषणः । वीक्षमाणोददर्शाथभ्रातुःपुत्रमवस्थितम् ।।6.46.9।। Yuddha Kanda,46,10,तमप्रतिकर्माणमप्रतिद्वन्द्वमाहवे । ददर्शान्तर्हितंवीरंवरदानाद्विभीषणः ।।6.46.10।। तेजसायशसाचैवविक्रमेणचसम्युतम् । Yuddha Kanda,46,11,इन्द्रजित्त्वात्मनःकर्मतौशयानौसमीक्ष्यच ।।6.46.11।। उवाचपरमप्रीतोहर्षयन् सर्वनैरृतान् । Yuddha Kanda,46,12,दूषणस्यचहन्तारौखरस्यचमहाबलौ ।।6.46.12।। सादितौमामकैर्बाणैर्भ्रातरौरामलक्ष्मणौ । Yuddha Kanda,46,13,नेमौमोक्षयितुंशक्यावेतस्मादिषुबन्धनात् ।।6.46.13।। सर्वैरपिसमागम्यसर्षिसङ्घैस्सुरासुरैः । Yuddha Kanda,46,14,यत्कृतेचिन्तयानस्यशोकार्तस्यपितुर्मम ।।6.46.14।। Yuddha Kanda,46,15,अस्पृष्टवाशयनंगात्रैस्त्रियामायातिशर्वरी । त्स्नेयंयत्कृतेलङ्कानदीवर्षास्विवाकुला ।।6.46.15।। सोऽयंमूलहरोऽनर्थःसर्वेषांनिहतोमया । Yuddha Kanda,46,16,रामस्यलक्ष्मणस्यैवसर्वेषांचवनौकसाम् । विक्रमानिष्फलाःसर्वेयथाशरदितोयदाः ।।6.46.16।। Yuddha Kanda,46,17,एवमुक्त्वातुतान् सर्वान्राक्षसान्परिपार्श्वतः ।।6.46.17।। यूथपानपितान्सर्वांस्ताडयामासरावणिः । Yuddha Kanda,46,18,नीलंनवभिराहत्यमैन्दंचद्विविदंतथा ।।6.46.18।। त्रिभिस्त्रिभिरमित्रघ्नस्ततापप्रवरेषुभिः । Yuddha Kanda,46,19,जाम्बवन्तंमहेष्वासोविद् ध्वाबाणेनवक्षसि ।।6.46.19।। हनूमतोवेगवतोविससर्जशरान्दश । Yuddha Kanda,46,20,गवाक्षंशरभंचैवद्वावप्यमिततेजसौ ।।6.46.20।। द्वाभ्यांद्वाभ्यांमहावेगोविव्याधयुधिरावणिः । Yuddha Kanda,46,21,गोलाङ्गूलेश्वरंचैववालिपुत्रमथाङ्गदम् ।।6.46.21।। विव्याधबहुभिर्बाणैस्त्वरमाणोऽथरावणिः । Yuddha Kanda,46,22,तान्वानरवरान्भित्त्वाशरैरग्निशिखोपमैः ।।6.46.22।। ननादबलवांस्तत्रमहासत्त्वस्सरावणिः । Yuddha Kanda,46,23,तानर्धयित्वाबाणौघैस्त्रासयित्वाचवानरान् ।।6.46.23।। प्रजहासमहाबाहुर्वचनंचेदमब्रवीत् । Yuddha Kanda,46,24,शरशब्देनघोरेणमयाबद्धौचमूमुखे ।।6.46.24।। सहितौभ्रातरवेतौनिशामयतराक्षसाः । Yuddha Kanda,46,25,एवमुक्तास्तुतेसर्वेराक्षसाःकूटयोधिनः ।।6.46.25।। परंविस्मयामाजग्मुःकर्मणातेनहर्षिताः । Yuddha Kanda,46,26,विनेदुश्चमहानादान् सर्वेतेजलदोपमाः ।।6.46.26।। हतोरामइतिज्ञात्वारावणिंसमपूजयन् । Yuddha Kanda,46,27,निष्पन्दौतुतदादृष्टवाभ्रातरौरामलक्ष्मणौ ।।6.46.27।। वसुधायांनिरुच्छवासौहतावित्यन्वमन्यत । Yuddha Kanda,46,28,हर्षेणतुसमाविष्टइन्द्रजित्समितिञ्जयः ।।6.46.28।। प्रविवेशपुरींलङ्कांहर्षयन् सर्वनैर्वृतान् । Yuddha Kanda,46,29,रामलक्ष्मणयोर्दृष्टवाशरीरेसायकैश्चिते ।।6.46.29।। सर्वाणिचाङ्गोपाङ्गानिसुग्रीवंभयमाविशत् । Yuddha Kanda,46,33,पर्यवस्थापयात्मानमनाथंमांचवानर ।।6.46.33।। सत्यधर्माभिरक्तानांनास्तिमृत्युकृतंभयम् । Yuddha Kanda,46,34,एवमुक्त्वाततस्तस्यजलक्लन्नेनपाणिना ।।6.46.34।। सुग्रीवस्यशुभेनेत्रेप्रममार्जविभीषणः । Yuddha Kanda,46,35,ततस्सलिलमादायविद्ययापरिजप्यच ।।6.46.35।। सुग्रीवनेत्रेधर्मात्मासममार्जविभीषणः । Yuddha Kanda,46,36,विमृज्यवदनंतस्यकपिराजस्यधीमतः ।।6.46.36।। अब्रवीत्कालसम्प्राप्तसम्भ्रान्तमिदंवचः । Yuddha Kanda,46,37,नकालःकपिराजेन्द्रवैक्लब्यमवलम्बितुम् ।।6.46.37।। अतिस्नेहोऽप्यकालेऽस्मिन्मरणायोपकल्पते । Yuddha Kanda,46,38,तस्मादुत्सृज्यवैक्लब्यंसर्वकार्यविनाशनम् ।।6.46.38।। हितंरामपुरोगणांसैन्यानानुचिन्त्यताम् । Yuddha Kanda,46,39,अथवारक्ष्यतांरामोयावत्संज्ञाविपर्ययः ।।6.46.39।। लब्धसंज्ञौहिकाकुत्स्थौभयंनौव्यपनेष्यतः । Yuddha Kanda,46,40,नैतत्किञ्चनरामस्यनचरामोमुमूर्षति ।।6.46.40।। नह्येनंहास्यतेलक्ष्मीद्दुर्लभायागतायुषाम् । Yuddha Kanda,46,41,तस्मादाश्वासयात्मानंबलंचाश्वासयस्वकम् ।।6.46.41।। यावत्कार्याणिसर्वाणिपुनःसंस्थापयाम्यहम् । Yuddha Kanda,46,42,एतेहिफुल्लनयनास्त्रासादागतसाध्वसाः ।।6.46.42।। कर्णेकर्णेप्रकथिताहरयोहरिसत्तम । Yuddha Kanda,46,43,मांतुदृष्टवाप्रधावन्तमनीकंसम्प्रहर्षितुम् ।।6.46.43।। त्यजस्तुहरयस्त्रासंभुक्तपूर्वामिवस्रजम् । Yuddha Kanda,46,44,समाश्वास्यतुसुग्रीवंराक्षसेन्द्रोविभीषणः ।।6.46.44।। विद्रुतंवानरानीकंतत्समाश्वासयत्पुनः । Yuddha Kanda,46,45,इन्द्रजित्तुमहामायःसर्वसैन्यसमावृतः ।।6.46.45।। विवेशनगरींलङ्कांपितरंचाभ्युपागमत् । Yuddha Kanda,46,46,तत्ररावणमासाद्यअभिवाद्यकृताञ्जलिः ।।6.46.46।। आचचक्षेप्रियंपित्रेनिहतौरामलक्ष्मणौ । Yuddha Kanda,46,47,उत्पपातततोहृष्टःपुत्रंचपरिषस्वजे ।।6.46.47।। रावणोरक्षसांमध्येश्रुत्वाशत्रूनिपातितौ । Yuddha Kanda,46,48,उपाघ्रायचतंमूद् र्नेनंपप्रच्छप्रीतमानसः ।।6.46.48।। Yuddha Kanda,46,49,पृच्छतेचयथावृत्तंपित्रेतस्मैसर्वंन्यवेदयत् । यथातौशरबन्धेननिश्चेष्टौनिष्प्रभौकृतौ ।।6.46.49।। Yuddha Kanda,46,50,सहर्षवेगानुगतान्तरात्माश्रुत्वावचस्तस्यमहारथस्य । जहौज्वरंदाशरथेःसमुत्थितंप्रहृष्यवाचाऽभिननन्दपुत्रम् ।।6.46.50।। Yuddha Kanda,47,1,प्रतिप्रविष्टेलङ्कायांकृतार्थेरावणात्मजे । राघवंपरिवार्यार्तुरक्षुर्वानरर्षभाः ।।6.47.1।। Yuddha Kanda,47,2,हनुमानङ्गदोनीलःसुषेणःकुमुदोनलः । गजोगवाक्षोगवयश्शरभोगन्धमादनः ।।6.47.2।। Yuddha Kanda,47,3,जाम्बवानृषभःसुन्दोरम्भःशतवलिःपृथुः । व्यूढानीकाश्चयत्ताश्चद्रुमानादायसर्वतः ।।6.47.3।। Yuddha Kanda,47,4,वीक्षमाणादिशस्सर्वास्तिर्यगूर्ध्वंचवानराः । तृणेष्वपिचचेष्टत्सुराक्षसाइतिमेनिरे ।।6.47.4।। Yuddha Kanda,47,5,रावणश्चापिसम्हृष्टोविसृज्येन्द्रजितंसुतम् । अजुहावततस्सीताक्षिणीराक्षसीस्तदा ।।6.47.5।। Yuddha Kanda,47,6,राक्षस्यस्त्रिजटाचैवशासनात्समुपस्थिताः । ताउवाचततोहृष्टोराक्षसीराक्षसाधमः ।।6.47.6।। Yuddha Kanda,47,7,हताविन्द्रजिताख्यातवैदेह्यारामलक्ष्मणौ । पुष्पकंतत्समारोप्यदर्शयध्वंहतौरणे ।।6.47.7।। Yuddha Kanda,47,8,यदाश्रयादवष्टब्धामामुपतिष्ठति । सोऽस्याभर्तासहभ्रात्रानिहतोरणमूर्धनि ।।6.47.8।। Yuddha Kanda,47,9,निर्विशङ्कानिरुद्विग्नानिरपेक्षाचमैथिली । मामुपस्थास्यतेसीतासर्वाभरणभूषिता ।।6.47.9।। Yuddha Kanda,47,10,अद्यकालवशंप्राप्तंरणेरामंसलक्ष्मणम् । अवेक्ष्यविनिवृत्तासाचान्यांगतिमपश्यती ।।6.47.10।। निरपेक्षाविशालाक्षीमामुपस्थास्यतेस्वयम् । Yuddha Kanda,47,11,तस्यतद्वचनंश्रुत्वारावणस्यदुरात्मनः ।।6.47.11।। राक्षस्यस्तास्तथेत्युक्त्वाजग्मुर्वैयत्रपुष्पकम् । Yuddha Kanda,47,12,ततःपुष्पकमादायराक्षस्योरावणाज्ञया ।।6.47.12।। अशोकवनिकास्थांतांमैथिलींसमुपानयन् । Yuddha Kanda,47,13,तामादायतुराक्षस्योभर्तृशोकपराजिताम् ।।6.47.13।। सीतामारोपयामासुर्विमानंपुष्पकंतदा । Yuddha Kanda,47,14,ततःपुष्पकमारोप्यसीतांत्रिजटयासह ।।6.47.14।। जग्मुर्दर्शयितुंतस्यैराक्षस्योरामलक्ष्मणौ । Yuddha Kanda,47,15,रावणोऽकारयल्लङ्कांपताकाध्वजमालिनीम् ।।6.47.15।। Yuddha Kanda,47,16,प्राघोषयतहृष्टश्चलङ्कायांराक्षसेश्वरः । राघवोलक्ष्मणश्चैवहताविन्द्रजितारणे ।।6.47.16।। Yuddha Kanda,47,17,विमानेनापिगत्वातुसीतात्रिजटयासह । ददर्शवानराणांतुसर्वंसैन्यंनिपातितम् ।।6.47.17।। Yuddha Kanda,47,18,प्रहृष्टमनसश्चापिददर्शपिशिताशनान् । वानरांश्चातिदुःखार्तान्रामलक्ष्मणपार्श्वतः ।।6.47.18।। Yuddha Kanda,47,19,ततस्सीताददर्शोभौशयानौशरतल्पगौ । लक्ष्मणंचापिरामंचविसंज्ञौशरपीडितौ ।।6.47.19।। Yuddha Kanda,47,20,विध्वस्तकवचौवीरौविप्रविद्धशरासनौ । सायकैचशिन्नसर्वाङ्गौशरस्तम्बमयौक्षितौ ।।6.47.20।। Yuddha Kanda,47,21,तौदृष्टवाभ्रातरौतत्रप्रवीरौपुरुषर्षभौ । शयानौपुण्डरीकाक्षौकुमाराविवपावकी ।।6.47.21।। Yuddha Kanda,47,22,शरतल्पगतौवीरौतथाभूतानरर्षभौ । दुःखार्ताकरुणंसीतासुभृशंविललापह ।।6.47.22।। Yuddha Kanda,47,23,भर्तारमनवद्याङ्गीलक्ष्मणंचासितेक्षणा । प्रेक्ष्यपांसुषुचेष्टन्तौरुरोदजनकात्मजा ।।6.47.23।। Yuddha Kanda,48,1,भर्तारंनिहतंदृष्टवालक्ष्मणंचमहाबलम् । विललापभृशंसीताकरुणंशोककर्शिता ।।6.48.1।। Yuddha Kanda,48,2,ऊचुर्लक्षणिकायेमांपुत्रिण्यविधवेतिच । तेऽद्यसर्वेहतेरामेज्ञानिनोऽनृतवादिनः ।।6.48.2।। Yuddha Kanda,48,3,यज्वनोमहिषींयेमामूचुःपत्नींचसत्त्रिणः । तेऽद्यसर्वेहतेरामेज्ञानिनोऽनृतवादिनः ।।6.48.3।। Yuddha Kanda,48,4,ऊचुस्संश्रवणेयेमांद्विजाःकार्तान्तिकाश्शुभाम् । तेऽद्यसर्वेहतेरामेज्ञानिनोऽनृतवादिनः ।।6.48.4।। Yuddha Kanda,48,5,वीरपार्थिवपत्नीत्वांयेविदुर्भर्तृपूजिताम् । तेऽद्यसर्वेहतेरामेज्ञानिनोऽनृतवादिनः ।।6.48.5।। Yuddha Kanda,48,6,इमानिखलुपद्मानिपादयोर्यैःकुलस्त्रियः । अधिराज्येऽभिषिच्यन्तेनरेन्द्रैःपतिभिःसह ।।6.48.6।। Yuddha Kanda,48,7,वैधव्यंयान्तियैर्नार्योऽलक्षणैर्भाग्यदुर्लभाः । नात्मनन्तानिपश्यामिपश्यन्तीहतलक्षणा ।।6.48.7।। Yuddha Kanda,48,8,सत्यनामानिपद्मानिस्त्रीणामुक्तानिलक्षणैः । तान्यद्यनिहतेरामेवितथानिभवन्तिमे ।।6.48.8।। Yuddha Kanda,48,9,केशास्सूक्ष्मास्समानीलाभ्रुवौचासंहतेमम । वृत्तेचारोमकेजङ्घेदन्ताश्चाविरळामम ।।6.48.9।। Yuddha Kanda,48,10,शङ्खेनेत्रेकरौपादौगुल्फावूरूचमेचितौ । अनुवृत्तनखास्स्निग्धास्समाश्चाङ्गुलयोमम ।।6.48.10।। Yuddha Kanda,48,11,स्तनौचाविरळौमामकौमग्नचूचुकौ । मग्नाचोत्सङ्गिनीनाभःपार्श्वोरस्कंचमेचितम् ।।6.48.11।। Yuddha Kanda,48,12,ममवर्णोमणिनिभोमृदून्यङ्गरुहाणिच । प्रतिष्ठितांद्वादशभिर्मामूचुश्शुभलक्षणाम् ।।6.48.12।। Yuddha Kanda,48,13,समग्रयवमच्छ्रिद्रपाणिपादंचवर्णवत् । मन्दस्मितेत्येवचमांकन्यालाक्षणिनोद्विजाः ।।6.48.13।। Yuddha Kanda,48,14,आधिराज्येऽभिषेकोमेब्राह्मणैःपतिनासह । कृतान्तकुशलैरुक्तंतत्सर्वंवितथीकृतम् ।।6.48.14।। Yuddha Kanda,48,15,शोधयित्वाजनस्थानंप्रवृततिमुपलभ्यच । तीर्त्वासागरमक्षोभ्यंभ्रातरौगोष्पदेहतौ ।।6.48.15।। Yuddha Kanda,48,16,ननुवारुणमाग्नेयमैन्द्रंवायव्यमेवच । अस्त्रंब्रह्मशिरश्चैवप्रत्यपद्यताम् ।।6.48.16।। Yuddha Kanda,48,17,अदृश्यमानेनरणेमाययावासवोपमौ । ममनाथावनाथायानिहतौरामलक्ष्मणौ ।।6.48.17।। Yuddha Kanda,48,18,नहिदृष्टिपथंप्राप्यराघवस्यरणेरिपुः । जीवन्प्रन्तिवर्तेतयद्यपिस्यान्मनोजवः ।।6.48.18।। Yuddha Kanda,48,19,नकलस्यातिभारोऽस्तिकृतान्तश्चसुदुर्जयः । यत्ररामःसहभ्रात्राशेतेयुधिनिपातितः ।।6.48.19।। Yuddha Kanda,48,20,नशोचामितथारामंलक्ष्मणंचमहारथम् । वात्मानंजननींचापियथाश्वश्रूंतपस्विनीम् ।।6.48.20।। Yuddha Kanda,48,21,सातुचिन्तयतेनित्यंसमाप्तव्रतमागतम् । कदाद्रक्ष्यामिसीतांचलक्ष्मणंचसराघवम् ।।6.48.21।। Yuddha Kanda,48,22,परिदेवयमानांतांराक्षसीत्रिजटाब्रवीत् । माविषादंकृथादेवी भर्ताऽयंतवजीवति ।।6.48.22।। Yuddha Kanda,48,23,कारणानिचवक्ष्यामिमहान्तिसदृशानिच । यथेमौजीवतोदेवीभ्रातरौरामलक्ष्मणौ ।।6.48.23।। Yuddha Kanda,48,24,नहिकोपपरीतानिहर्षपर्युत्सुकानिच । भवन्तियुधियोधानांमुखानिनिहतेपतौ ।।6.48.24।। Yuddha Kanda,48,25,इदंविमानंवैदेही पुष्पकंनामनामतः । दिव्यंत्वांदारयन्नैवंयद्येतौगतजीवितौ ।।6.48.25।। Yuddha Kanda,48,26,हतवीरप्रधानाहिगतोत्साहानिरुद्यमा । सेनाभ्रमतिसङ् ख्येषुहतकर्णेवनौर्जले ।।6.48.26।। Yuddha Kanda,48,27,इयंपुनरसम्भ्रान्तानिरुद्विग्नातरस्विनी । सेनारक्षतिकाकुत्स्थौमयाप्रीत्यानिवेदितौ ।।6.48.27।। Yuddha Kanda,48,28,सात्वंभवसुविस्रब्धाअनुमानैस्सुखोदयैः । अहतौपश्यकाकुत्स्थौस्नेहादेतद्ब्र्रवीमिते ।।6.48.28।। Yuddha Kanda,48,29,अनृतंनोक्तपूर्वंमेनचवक्ष्येकदाचन । चारित्रसुखशीलत्वात् प्रविष्टाअसिमनःमम ।।6.48.29।। Yuddha Kanda,48,30,नेमौशक्यारणेजेतुंसेन्द्रैरपिसुरासुरैः । तादृशंदर्शनंदृष्टवामयाचावेदितंतव ।।6.48.30।। Yuddha Kanda,48,31,इदंचसुमहचचित्रंशरैःपश्यस्वमैथिलि । निस्संज्ञावप्युभावेतौनैवलक्ष्मीर्विमुञ्चति ।।6.48.31।। Yuddha Kanda,48,32,प्रायेणगतसत्त्वानांपुरुषाणांगतायुषाम् । दृश्यमानेषुवक्त्रेषुपरंभवतिवैकृतम् ।।6.48.32।। Yuddha Kanda,48,33,त्यजशोकंचमोहंचदुःखंचजनकात्मजे । रामलक्ष्मणयोरर्थेनाद्यशक्यमजीवितुम् ।।6.48.33।। Yuddha Kanda,48,34,शुत्वातुवचनंतस्याःसीतासुरसुतोपमा । कृताञ्जलिरुवाचेमामेवमस्त्वितिमैथिलि ।।6.48.34।। Yuddha Kanda,48,35,विमानंपुष्पकंतत्तुसन्निवर्त्यमनोजवम् । दीनात्रिजटयासीतालङ्कामेवप्रवेशिता ।।6.48.35।। Yuddha Kanda,48,36,ततस्त्रिजटयासार्थंपुष्पकादवरुह्यसा । अशोकवनिकामेवराक्षसीभिःप्रवेशिता ।।6.48.36।। Yuddha Kanda,48,37,प्रविश्यसीताबहुवृक्षषण्डांतांराक्षसेन्द्रस्यविहारभूमिम् । सम्प्रेक्ष्यसञ्चिन्त्यचराजपुत्रौपरंविषादंसमुपाजगाम ।।6.48.37।। Yuddha Kanda,49,1,घोरेणशरबन्धेनबद्धौदशरथात्मजौ । निःश्वसन्तौयथानागौशयानौरुधिरोक्षितौ ।।6.49.1।। Yuddha Kanda,49,2,सर्वेतेवानरश्रेष्ठास्ससुग्रीवामहाबलाः । परिवार्यमहात्मानौतस्थुश्शोकपरिप्लुताः ।।6.49.2।। Yuddha Kanda,49,3,एतस्मिन्नन्तरेरामःप्रत्यबुध्यतवीर्यवान् । स्थिरत्वात्सत्त्वयोगाच्चशरैस्सन्दानितोऽपिसन् ।।6.49.3।। Yuddha Kanda,49,4,ततोदृष्टवासरुधिरंनिषण्णंगाढमर्पितम् । भ्रातरंदीनवदनंपर्यदेवयदातुरः ।।6.49.4।। Yuddha Kanda,49,5,किंनुमेसीतयाकार्यंकिंकार्यंजीवितेनवा । शयानंयोऽद्यपश्यामिभ्रातरंयुधिनिर्जितम् ।।6.49.5।। Yuddha Kanda,49,6,शक्यासीतासमानारीमर्त्यलोकेविचिन्वता । नलक्ष्मणसमोभ्रातासचिवस्साम्पपरायिकः ।।6.49.6।। Yuddha Kanda,49,7,परित्यक्षाम्यहंप्राणान्वानराणांतुपश्याताम् । यदिपञ्चत्वमापन्नस्सुमित्रानन्दवर्धनः ।।6.49.7।। Yuddha Kanda,49,8,किंनुवक्ष्यामिकौसल्यांमातरंकिंनुकैकयीम् । कथमम्बांसुमित्रांचपुत्रदर्शनलालसाम् ।।6.49.8।। Yuddha Kanda,49,9,विवत्सांवेपमानांचक्रोशन्तींकुररीमिव । कथमाश्वासयिष्यामियदियास्यामितंविना ।।6.49.9।। Yuddha Kanda,49,10,कथंवक्ष्यामिशत्रुघ्नंभरतंचयशस्विनम् । मयासहवनंयातोविनातेनापुनमागतः ।।6.49.10।। Yuddha Kanda,49,11,उपालम्बंनशक्ष्यामिसोढुंबतसुमित्रया । इहैवदेहंत्यक्ष्यामिनहिजीवितुमुत्सहे ।।6.49.11।। Yuddha Kanda,49,12,धिङ्मांदुष्कृतकर्माणमनार्यंमत्कृतेह्यसौ । लक्ष्मणःपतितश्शेतेशरतल्पेगतासुवत् ।।6.49.12।। Yuddha Kanda,49,13,त्वंनित्यंसुविषण्णंमामाश्वासयसिलक्ष्मण । गतासुर्नाद्यशक्तोऽसिमामार्तमभिभाषितुम् ।।6.49.13।। Yuddha Kanda,49,14,येनाद्यबहवोयुद्धेनिहताराक्षसाविनिपातिताः । तस्यामेवाद्यशूरस्त्वंशेषेविनिहतःपरैः ।।6.49.14।। Yuddha Kanda,49,15,शयानःशरतल्पेऽस्मिन् सशोणितपरिप्लुतः । शरजालैचशितोभासिभास्करोऽस्तमिवव्रजन् ।।6.49.15।। Yuddha Kanda,49,16,बाणाभिहतमर्मत्वान्नशक्नोत्यभिभाषितुम् । रुजाचाब्रुवतोऽप्यस्यदृष्टिरागेणसूच्यते ।।6.49.16।। Yuddha Kanda,49,17,यथैवमांवनंयान्तमनुयातोमहाद्युतिः । अहमप्यनुयास्यामितथैवैनंयमक्ष्यम् ।।6.49.17।। Yuddha Kanda,49,18,इष्टबन्धुजनोनित्यंमांचनित्यमनुव्रतः । इमामद्यगतोऽवस्थांममानार्यस्यदुर्नयैः ।।6.49.18।। Yuddha Kanda,49,19,सुरुष्टेनापिवीरेणलक्ष्मणेननसंस्मरे । परुषंविप्रियंवापिश्रावितंनकदाचन ।।6.49.19।। Yuddha Kanda,49,20,विससर्जैकवेगेनपञ्चबाणशतानियः । इष्वस्त्रष्वधिकस्तस्मात्कार्तवीर्याच्चलक्ष्मणः ।।6.49.20।। Yuddha Kanda,49,21,अस्स्रैरस्त्राणियोहन्याच्छक्रस्यापिमहात्मनः । सोऽयमुर्व्यांहतश्शेतेमहार्हशयनोचितः ।।6.49.21।। Yuddha Kanda,49,22,तच्चमिथ्याप्रलप्तंमांप्रधक्ष्यतिनसंशयः । यन्मयानकृतोराजाराक्षसानांविभीषणः ।।6.49.22।। Yuddha Kanda,49,23,अस्मिन्मुहूर्तेसुग्रीव प्रतियातुमितोऽर्हसि । मत्वाहीनंराजन् रावणोऽभिद्रवेद्बली ।।6.49.23।। Yuddha Kanda,49,24,अङ्गदंतुपुरस्कत्यससैन्यस्सपरिच्छदम् । सागरंतरसुग्रीव नीलेनचनलेनच ।।6.49.24।। Yuddha Kanda,49,25,कृतंहनुमताकार्यंयदन्यैर्दुष्करंरणे । ऋक्षराजेनतुष्यामिगोलाङ्गूलाधिपेनच ।।6.49.25।। Yuddha Kanda,49,26,अङ्गदेनकृतंकर्ममैन्देनद्विविदेनच । युद्धंकेसरिणासङ् ख्येघोरंसम्पातिनाकृतम् ।।6.49.26।। Yuddha Kanda,49,27,गवयेनगवाक्षेणशरभेणगजेनच । अन्यैश्चहरिभिर्युद्धंमदर्थेत्यक्तजीवितैः ।।6.49.27।। Yuddha Kanda,49,28,नचातिक्रमितुंशक्यंदैवंसुग्रीव मानुषैः । यत्तुशक्यंवयस्येनसुहृदाचपरन्तप ।।6.49.28।। कृतंसुग्रीव तत्सर्वंभवताधर्मभीरुणा । Yuddha Kanda,49,29,मित्रकार्यंकृतमिदंभवद्भिर्वानरर्षभाः ।।6.49.29।। अनुज्ञातामयासर्वेयथेष्टंगन्तुमर्हथ । Yuddha Kanda,49,30,शुश्रुवुस्तस्यतेसर्वेवानराःपरिदेवनम् ।।6.49.30।। वर्तयाञ्चक्रूरश्रूणिनेत्रैःकृष्णेतरेक्षणाः । Yuddha Kanda,49,31,ततस्सर्वाण्यनीकानिस्थापयित्वाविभीषणः ।।6.49.31।। आजगामगदापाणिस्त्वरितंयत्रराघवः । Yuddha Kanda,49,32,तंदृष्टवात्वरितंयान्तंनीलाञ्जनचयोपमम् ।।6.49.32।। वानरादुद्रुवुस्सर्वेमन्यमानास्तुरावणिम् । Yuddha Kanda,50,1,अथोवाचमहातेजाहरिराजोमहाबलः । किमियंव्यथितासेनामूढवातेवनौर्जले ।।6.50.1।। Yuddha Kanda,50,2,सुग्रीवस्यवचश्श्रुत्वावालिपुत्रोऽङ्गदोऽब्रवीत् । नत्वंपश्यसिरामंचलक्ष्मणंचमहारथम् ।।6.50.2।। Yuddha Kanda,50,3,शरजालचितौवीरावुभौदशरथात्मजौ । शरतल्पेमहात्मानौशयानौरुधिरोक्षितौ ।।6.50.3।। Yuddha Kanda,50,4,अथाब्रवीद्वानरेन्द्रस्सुग्रीवःपुत्रमङ्गदम् । नानिमित्तमिदंमन्येभवितव्यंभयेनतु ।।6.50.4।। Yuddha Kanda,50,5,विषण्णवदनाह्येतेत्यक्तप्रहरणादिशः । प्रपलायन्तिहरयस्त्रासादुत्फुल्ललोचनाः ।।6.50.5।। Yuddha Kanda,50,6,अन्योन्यस्यनलज्जन्तेनिरीक्षन्तिपृष्ठतः । विप्रकर्षन्तिचान्योन्यंपतितंलङ्घयन्तिच ।।6.50.6।। Yuddha Kanda,50,7,एतस्मिन्नन्तरेवीरोगदापाणिर्विभीषणः । सुग्रीवंवर्धयामासराघवंचनिरैक्षत ।।6.50.7।। Yuddha Kanda,50,8,विभीषणंचसुग्रीवोदृष्टवावानरभीषणम् । ऋक्षराजंमहात्मानंसमीपस्थमुवाचह ।।6.50.8।। Yuddha Kanda,50,9,विभीषणोऽयंसम्प्राप्तोयंदृष्टवावानरर्षभाः । विद्रवन्तिपरितत्रसरावणात्मजशङ्कया ।।6.50.9।। Yuddha Kanda,50,10,शीघ्रमेतान् सुसन्त्रस्तान्बहुधाविप्रधावितान् । पर्यवस्थापयाख्याहिविभीषणमुपस्थितम् ।।6.50.10।। Yuddha Kanda,50,11,सुग्रीवेणैवमुक्तस्तुजाम्बवानृक्षपार्थिवः । वानरान्सान्त्वयामाससन्निरुध्यप्रधानतः ।।6.50.11।। Yuddha Kanda,50,12,तेनिवृत्ताःपुनःसर्वेवानरास्त्यक्तसम्भ्रमाः । ऋक्षराजवचश्श्रुत्वातंचदृष्टवाविभीषणम् ।।6.50.12।। Yuddha Kanda,50,13,विभीषणस्तुरामस्यदृष्टवागात्रंशरैश्चितम् । लक्ष्मणस्यचधर्मात्माबभूवव्यथितस्तदा ।।6.50.13।। Yuddha Kanda,50,14,जलक्लिन्नेनहस्तेनतयोर्नेत्रेप्रमृज्यच । शोकसम्पीडितमनारुरोदविललापच ।।6.50.14।। Yuddha Kanda,50,15,इमौतौसत्त्वसम्पन्नौविक्रान्तौप्रियसम्युगौ । इमामवस्थांगमितौराक्षसैःकूटयोधिभिः ।।6.50.15।। Yuddha Kanda,50,16,भ्रातुःपुत्रेणमेतेनदुष्पुत्रेणदुरात्मना । राक्षस्याजिह्मयाबुध्याचालितावृजुविक्रमौ ।।6.50.16।। Yuddha Kanda,50,17,शरैरिमावलंविद्धौरुधिरेणसमुक्षितौ । वसुधायामिमौसुप्तौदृश्येतेशल्यकाविव ।।6.50.17।। Yuddha Kanda,50,18,ययोर्वीर्यमुपाश्रित्यप्रतिष्ठाकाङ्क्षितामया । तावुभौदेहनाशायप्रसुप्तौपुरुषर्षभौ ।।6.50.18।। Yuddha Kanda,50,19,जीवन्नद्यविपन्नोऽस्मिनष्टराज्यमनोरथः । प्राप्तप्रतिज्ञश्चरिपुःसकामोरावणःकृतः ।।6.50.19।। Yuddha Kanda,50,20,एवंविलपमानंतंपरिष्वज्यविभीषणम् । सुग्रीवःसत्त्वसम्पन्नोहरिराजोऽब्रवीदिदम् ।।6.50.20।। Yuddha Kanda,50,21,राज्यंप्राप्स्यसिधर्मज्ञ लङ्कायांनात्रसंशयः । रावणस्सहपुत्रेणस्वकामंनेहलप्स्यते ।।6.50.21।। Yuddha Kanda,50,22,नरुजापीडितावेतावुभौराघवलक्ष्मणौ । त्यक्त्वामोहंवधिष्येतेसगणंरावणंरणे ।।6.50.22।। Yuddha Kanda,50,23,तमेवंसान्त्वयित्वातुसमाश्वास्यचराक्षसम् । सुषेणंश्वशुरंपार्श्वेसुग्रीवस्तमुवाचह ।।6.50.23।। Yuddha Kanda,50,24,सहशूरैर्हरिगणैर्लब्धसंज्ञावरिन्दमौ । गच्छत्वंभ्रातरंगृह्यकिष्किन्धांरामलक्ष्मणौ ।।6.50.24।। Yuddha Kanda,50,25,अहंतुरावणंहत्वासपुत्रंसहबान्धवम् । मैथिलीमानयिष्यामिशक्रोनष्टामिवश्रियम् ।।6.50.25।। Yuddha Kanda,50,26,श्रुत्वैतद्वानरेन्द्रस्यसुषेणोवाक्यमब्रवीत् । दैवासुरंमहद्युद्धमनुभूतंसुदारुणम् ।।6.50.26।। Yuddha Kanda,50,27,तदास्मदानवाशरसम्स्पर्शकोविदाः । निजघ्नुश्शस्त्रविदुषश्चादयन्तोमुहुर्मुहुः ।।6.50.27।। Yuddha Kanda,50,28,तानार्तान्नष्टसंज्ञांश्चगतासूंश्चबृहस्पतिः । विद्याभिर्मन्त्रयुक्ताभिरोषधीभिश्चिकित्सति ।।6.50.28।। Yuddha Kanda,50,29,तान्यौषधान्यानयितुंक्षीरोदंयान्तुसागरम् । जवेनवानराःशीघ्रंसम्पातिपनसादयः ।।6.50.29।। Yuddha Kanda,50,30,हरयस्तुविजानन्तिपार्वतीस्तामहौषधीः । सञ्जीवकरणींदिव्यांविशल्यांदेवनिर्मिताम् ।।6.50.30।। Yuddha Kanda,50,31,चन्द्रश्चनामद्रोणश्चक्षीरोदेसागरोत्तमे । अमृतंयत्रमथितंतत्रतेपरमौषधी ।।6.50.31।। Yuddha Kanda,50,32,तौतत्रविहितेदेवैःपर्वतौमहोदधौ । अयंवायुसुतोराजन् हनूमांस्तत्रगच्छतु ।।6.50.32।। Yuddha Kanda,50,33,एतस्मिन्नन्तरेवायुर्मेगांश्चापिसविद्युतः । पर्यस्यसागरेतोयंकम्पयननिवमेदिनीम् ।।6.50.33।। Yuddha Kanda,50,34,महतापक्षवातेनसर्ववदीपमहाद्रुमाः । निपेतुर्भग्नविटपाःसलिलेलवणाम्भसि ।।6.50.34।। Yuddha Kanda,50,35,अभवन् पन्नगास्त्रस्ताभोगिनस्तत्रवासिनः । शीघ्रंसर्वाणियादांसिजग्मुश्चलवणार्णवम् ।।6.50.35।। Yuddha Kanda,50,36,ततोमुहूर्तार्गरुडंवैनतेयंमहाबलम् । वानराददृशुःसर्वेज्वलन्तमिवपावकम् ।।6.50.36।। Yuddha Kanda,50,37,तमागतमभिप्रेक्ष्यनागास्तेसम्प्रदुद्रुवुः । यैस्तौसत्पुरुषौबद्धौशरभूतैर्महाबलौ ।।6.50.37।। Yuddha Kanda,50,38,ततस्सुपर्णःकाकुत्स्थौस्पृष्टवाप्रत्यभिनदनितः । विममर्शचपाणिभ्यांमुखेचन्द्रसमप्रभे ।।6.50.38।। Yuddha Kanda,50,39,वैनतेयेनसम्स्पृष्टास्तयोःसम्रुरुहुर्व्रणाः । सुवर्णेचतनूस्निग्धेतयोराशुबभूवतुः ।।6.50.39।। Yuddha Kanda,50,40,तेजोवीर्यंबलंचौजउत्साहश्चमहागुणाः । प्रदर्शनंचबुद्धिश्चस्मृतिश्चद्विगुणंतयोः ।।6.50.40।। Yuddha Kanda,50,41,तावुत्थाप्यमहातेजागरुडोवासवोपमौ । उभौतौसस्वजेहृष्टोरामश्चैनमुवाचह ।।6.50.41।। Yuddha Kanda,50,42,भवत्प्रसादाद् व्यसनंरावणिप्रभवंमहत् । आवामिहव्यतिक्रान्तौपूर्ववद् बलिनौकृतौ ।।6.50.42।। Yuddha Kanda,50,43,यथातातंदशरथंयथाऽजंचपितामहम् । तथाभवन्तमासाद्यहृदयंमेप्रसीदति ।।6.50.43।। Yuddha Kanda,50,44,कोभवान्रूपसम्पन्नोदिव्यस्रगनुलेपनः । वसानोविरजेवस्त्रदिव्याभरणभूषितः ।।6.50.44।। Yuddha Kanda,50,45,तमुवाचमहातेजावैनतेयोमहाबलः । पतत्त्रिराजःप्रीतात्माहर्षपर्याकुलेक्षणः ।।6.50.45।। Yuddha Kanda,50,46,अहंसखातेकाकुत्स्थ प्रियःप्राणोबहिश्चरः । गरुत्मानिहसम्प्राप्तोयुवयोःसाह्यकारणात् ।।6.50.46।। Yuddha Kanda,50,47,असुरावामहावीर्यावानरावामहाबलाः । सुराश्चापिसगन्ध्वर्वाःपुरस्कृत्यशतक्रतुम् ।।6.50.47।। Yuddha Kanda,50,48,नेमंमोक्षयितुंशक्ताश्शरबन्धंसुदारुणम् । मायाबलादिन्द्रजितानिर्मितंक्रूरकर्मणा ।।6.50.48।। Yuddha Kanda,50,49,एतेनागाःकाद्रवेयास्तीक्ष्णदंष्ट्राविषोल्बणाः । रक्षोमायाप्रभावेणशराभूत्वास्त्वदाश्रिताः ।।6.50.49।। Yuddha Kanda,50,50,सभाग्यश्चासिधर्मज्ञ राम सत्यपराक्रम । लक्ष्मणेनसहभ्रात्रासमरेरिपुघातिना ।।6.50.50।। Yuddha Kanda,50,51,इमंश्रुत्वातुवृत्तान्तंत्वरमाणोऽहमागतः । सहसायुवयोःस्नेहात्सखित्वमनुपालयन् ।।6.50.51।। Yuddha Kanda,50,52,मोक्षितौचमहाघोरादस्मात्सायकबन्धनात् । अप्रमादश्चकर्तव्योयुवाभ्यांनित्यमेवच ।।6.50.52।। Yuddha Kanda,50,53,प्रकृत्याराक्षसाःसर्वेसङ्ग्रामेकूटयोधिनः । शूराणांशुद्धभावानांभवतामरार्जवंबलम् ।।6.50.53।। Yuddha Kanda,50,54,तन्नविश्वसनीयंवोराक्षसानांरणाजिरे । एतेनैवोपमानेननित्यंजिह्माहिराक्षसाः ।।6.50.54।। Yuddha Kanda,50,55,एवमुक्त्वातदारामंसुपर्णस्सुमहाबलः । परिष्वज्यचसुहृत्स्निग्धमाप्रष्टुमुपचक्रमे ।।6.50.55।। Yuddha Kanda,50,56,सखे राघव धर्मज्ञ रिपूणामपिवत्सल । अभ्यनुज्ञातुमिच्छामिगमिष्यामियथामतम् ।।6.50.56।। Yuddha Kanda,50,57,नचकौतूहलंकार्यंसखित्वंप्रतिराघव । कृतकर्मारणेवीर सखित्वंप्रतिवेत्स्यसि ।।6.50.57।। Yuddha Kanda,50,58,बालवृद्धावशेषांतुकृत्वालङ्कांशरोर्मिभिः । रावणंचरिपुंहत्वासीतांत्वंसमुलप्स्यते ।।6.50.58।। Yuddha Kanda,50,59,इत्येवमुक्त्वावचनंसुपर्णश्शीघ्रविक्रमः । रामंचविरुजंकृत्वामध्येतेषांवनौकसाम् ।।6.5.59।। Yuddha Kanda,50,60,प्रदक्षिणंततःकृत्वापरिष्वज्यचवीर्यवान् । जगामाकाशमाविश्यसुपर्णःपवनोयथा ।।6.50.60।। Yuddha Kanda,50,61,विरुजौराघवौदृष्टवाततोवानरयूथपाः । सिंहनादांस्तदानेदुर्लङ्गूलंन्दुधुवुस्तदा ।।6.50.61।। Yuddha Kanda,50,62,ततोभेरीस्समाजघ्नुर्मृदङ्गांश्चाप्यनादयन् । दध्मुश्शङ्खान्सम्प्रहृष्टाःक्षेवलन्त्यपियथापुरम् ।।6.50.62।। Yuddha Kanda,50,63,आस्फोट्याःस्पोट्यविक्रान्ताःवानराःनगयोधिनः । द्रुमानुत्पट्यविविधांस्तस्थुश्शतसहस्रशः ।।6.50.63।। Yuddha Kanda,50,64,विसृजन्तोमहानादांस्त्रासयन्तोनिशाचरान् । लङ्काद्वाराण्युपाजग्मुर्युद्धकामाःप्लवङ्गमाः ।।6.50.64।। Yuddha Kanda,50,65,तेषांसुखीमस्तुमुलोनिनादोबभूवशाखामृगयूथपानाम् । क्षयेनिदाघस्ययथाघनानांनादस्सुभीमोनदतांनिशीथे ।।6.50.65।। Yuddha Kanda,51,1,तेषांसुतुमुलंशब्दंवानराणांतरस्विनाम् । नर्दतांराक्षसैस्सार्धंतदाशुश्रावरावणः ।।6.51.1।। Yuddha Kanda,51,2,स्निग्धगम्भीरनिर्घोषंश्रुत्वासनिनदंभृशम् । सचिवानांततस्तेषांमध्येवचनमब्रवीत् ।।6.51.2।। Yuddha Kanda,51,3,यथाऽसौसम्प्रहृष्टानांवानराणांसमुत्थितः । बहूनांसुमहान्नादोमेघनामिवगर्जिताम् ।।6.51.3।। Yuddha Kanda,51,4,व्यक्तंसुमहतीप्रीतिरेतेषांनात्रसंशयः । तथाहिविपुलैर्नादैश्चुक्षुभेवरुणालयः ।।6.51.4।। Yuddha Kanda,51,5,तौतुबद्धौशरैस्तीक्ष्णैर्भ्रातरौरामलक्ष्मणौ । अयंचसुमहान्नादशङ्कांजनयतीवमे ।।6.51.5।। Yuddha Kanda,51,6,एतत्तुवचनंचोक्त्वामन्त्रिणोराक्षसेश्वरः । उवाचनैरृतांस्तत्रसमीपपरिवर्तिनः ।।6.51.6।। Yuddha Kanda,51,7,ज्ञायतांतूर्णमेतेषांसर्वेषांचवनचारिणाम् । शोककालेसमुत्पन्नहर्षकारणमुत्थितम् ।।6.51.7।। Yuddha Kanda,51,8,तथोक्तास्तेनसम्भ्रान्ताःप्राकारमधिरुह्यच । ददृशुःपालितांसेनांसुग्रीवेणमहात्मना ।।6.51.8।। Yuddha Kanda,51,9,तौचमुक्तौसुघोरेणशरबन्धेनराघवौ । समुत्थितौमहाभागौविषेदुःप्रेक्ष्यराक्षसाः ।।6.51.9।। Yuddha Kanda,51,10,सन्त्रस्तहृदयाःसर्वेप्राकारात् वरुह्यते । विषण्णवदनाघोराराक्षसेन्द्रमुपस्थिता ।।6.51.10।। Yuddha Kanda,51,11,तदप्रियंदीनमुखारावणस्यनिशाचराः । कृत्स्नंनिवेदयामासुर्यथावद्वाक्यकोविदाः ।।6.51.11।। Yuddha Kanda,51,12,यौताविन्द्रजितायुद्धेभ्रातरौरामलक्ष्मणौ । निबद्धौशरबन्धेननिष्प्रकम्पभुजौकृतौ ।।6.51.12।। Yuddha Kanda,51,13,विमुक्तौशरबन्धेनदृश्येतेतौरणाजिरे । पाशानिवगजौछित्वागजेन्द्रसमविक्रमौ ।।6.51.13।। Yuddha Kanda,51,14,तच्छ्रुत्वावचनंतेषांराक्षसेन्द्रोमहाबलः । चिन्तारोषसमाक्रान्तोविषण्णवदनोऽभवत् ।।6.51.14।। Yuddha Kanda,51,15,घोरैर्दत्तवरैर्भद्धौशरैराशीविषोपमैः । अमोघैस्सूर्यसङ्काशैःप्रमथ्येन्द्रजितायुधि ।।6.51.15।। Yuddha Kanda,51,16,तदस्त्रबन्धमासाद्ययदिमुक्तौरिपूमम । संशयस्थमिदंसर्वमनुपश्याम्यहंबलम् ।।6.51.16।। Yuddha Kanda,51,17,निष्फलाःखलुसम्वृत्ताश्शराःवासुकितेजसः । अदत्तंयैस्तुसङ्ग्रामेरिपूणांजीवितंमम ।।6.51.17।। Yuddha Kanda,51,18,एवमुक्त्वातुसङ्क्रुद्धोनिश्श्वसन्नुरगोयथा । अब्रवीद्रक्षसांमध्येधूम्राक्षंनामराक्षसम् ।।6.51.18।। Yuddha Kanda,51,19,बलेनमहतायुक्तोराक्षसैर्भीमविक्रमः । त्वंवधायाभिनिर्याहिरामस्यसहवानरैः ।।6.51.19।। Yuddha Kanda,51,20,एवमुक्तस्तुधूम्राक्षोराक्षसेन्द्रेणधीमता । कृत्वाप्रणामंसम्हृष्टोनिर्जगामनृपालयत् ।।6.51.20।। Yuddha Kanda,51,21,अभिनिष्क्रम्यतदद्वारंबलाध्यक्षमुवाचह । त्वरयस्वबलंतूर्णंकिंचिरेणयुयुत्सतः ।।6.51.21।। Yuddha Kanda,51,22,धूम्राक्षवचनंश्रुत्वाबलाध्यक्षोबलानुगः । बलमुद्योजयामासरावणस्याज्ञयाद्रुतम् ।।6.51.22।। Yuddha Kanda,51,23,तेबद्धघण्टाबलिनोघोररूपानिशाचराः । विगर्जमानास्सम्हृष्टाधूम्राक्षंपर्यवारयन् ।।6.51.23।। Yuddha Kanda,51,24,विविधायुधहस्ताश्चशूलमुद्गरपाणयः । गदाभिःपट्टसैर्दण्डैरायसैर्मुसलैर्भृशम् ।।6.51.24।। Yuddha Kanda,51,25,परिघैर्भिण्डिवालैश्चभल्लैप्रासै: परश्वथै: । निर्ययूराक्षसादिभ्योनर्धन्तोजलदायथा ।।6.51.25।। Yuddha Kanda,51,26,रथैःकवचिनस्त्वन्येध्वजैश्चसमलङ्कृतैः । सुवर्णजालविहितैःखरैश्चविविधाननैः ।।6.51.26।। Yuddha Kanda,51,27,हयैःपरमशीघ्रैश्चगजैश्चैवमदोत्कटैः । निर्ययुर्नैरृतव्याघ्राव्याघ्राइवदुरासदाः ।।6.51.27।। Yuddha Kanda,51,28,वृकसिंहमुखैर्युक्तंखरैःकनकभूषणै: । आरुरोहरथंदिव्यंधूम्राक्षःखरनिस्स्वनः ।।6.51.28।। Yuddha Kanda,51,29,सनिर्यातोमहावीर्योधूम्राक्षोराक्षसैर्वृतः । प्रहसन्पश्चिमद्वारंहनुमान्यत्रयूथपः ।।6.51.29।। Yuddha Kanda,51,30,रथप्रवरमास्थायखरयुक्तंखरस्वनम् । प्रयान्तंतुमहाघोरंराक्षसंभीमदर्शनम् ।।6.51.30।। अन्तरिक्षगताःघोराशकुनाःप्रत्यषेधयन् । Yuddha Kanda,51,31,रथशीर्षेमहान्भीमोगृध्रश्चनिपपातह ।।6.51.31।। ध्वजाग्रेग्रथिताश्चैवनिपेतुःकुणपाशनाः । Yuddha Kanda,51,32,रुधिरार्द्रोमहान् श्वेतःकबन्धःपतितोभुवि ।।6.51.32।। Yuddha Kanda,51,33,विस्वरंचोत्सृजन्नादंधूम्राक्षस्यसमीपतः । ववर्षरुधिरंदेवस्सञ्चचालचमेदिनी ।।6.51.33।। Yuddha Kanda,51,34,प्रतिलोमंवनौवायुर्निर्घातसमनिस्वनः । तिमिरौघवृतास्तत्रदिशश्चनचकाशिरे ।।6.51.34।। Yuddha Kanda,51,35,सतूत्पातांस्तदादृष्टवाराक्षसानांभयावहान् । प्रादुर्भूतान्सुघोरांश्चधूम्राक्षोव्यथितोऽभवत् ।।6.51.35।। मुमुहूराक्षसाःसर्वेधूम्राक्षस्यपुरस्सराः । Yuddha Kanda,51,36,ततःसुभीमोबहुभिर्निशाचरैर्वृतोऽभिनिष्क्रम्यरणोत्सुकोबली । ददर्शतांराघवबाहुपालितांमहौघकल्पांबहुवानरींचमूम् ।।6.51.36।। Yuddha Kanda,52,1,धूम्राक्षंप्रेक्ष्यनिर्यान्तंराक्षसंभीमविक्रमम् । विनेदुर्वानरास्सर्वेप्रहृष्टायुद्धकाङ् क्षिणः ।।6.52.1।। Yuddha Kanda,52,2,तेषांसुतुमुलंयुद्धंसञ्जज्ञेकपिरक्षसाम् । अन्योन्यंपादपैर्घोरंनिघ्नतांशूलमुद्गरैः ।।6.52.2।। Yuddha Kanda,52,3,राक्षसैर्वानराघोराविनिकृत्तस्समन्ततः । वानरैराक्षसाश्चापिद्रुमैर्भूमिसमीकृताः ।।6.52.3।। Yuddha Kanda,52,4,राक्षसास्त्वभिसङ्क्रुद्धावानरान्निशितैश्शरैः । विव्यथुर्घोरसङ्काशैःकङ्कपत्रैरजिह्मगैः ।।6.52.4।। Yuddha Kanda,52,5,तेगदाभिश्चभीमाभिःपट्टसै: कूटमुद्गरैः । घोरैश्चपरिघैश्चित्रैस्त्रिशूलैश्चापिसंश्रितैः ।।6.52.5।। Yuddha Kanda,52,6,विदार्यमाणारक्षोभिर्वानरास्तेमहाबलाः । अमर्षाज्जनितोद्धर्षाश्चक्रुःकर्माण्यभीतवत् ।।6.52.6।। Yuddha Kanda,52,7,शरनिर्भिन्नगात्रास्तेशूलनिर्भिन्नदेहिनः । जगृहुस्तेद्रुमांस्तत्रशिलाश्चहरियूथपाः ।।6.52.7।। Yuddha Kanda,52,8,तेभीमवेगाहरयोनर्दमानास्ततस्ततः । ममन्थूराक्षसान्वीरान्नामानिचबभाषिरे ।।6.52.8।। Yuddha Kanda,52,9,तद्भभूवाद्भुतंघोरंयुद्धंवानररक्षसाम् । शिलाभिर्विविधाभिश्चबहुभिश्चैवपादपैः ।।6.52.9।। Yuddha Kanda,52,10,राक्षसामथिताःकेचिद्वानरैर्जितकाशिभिः । ववमूरुधिरंकेचिन्मुखैरुधिरभोजनाः ।।6.52.10।। Yuddha Kanda,52,11,पार्श्वेषुदारिताःकेचित्केचिद्राशीकृताद्रुमैः । शिलाभिश्चूर्णिताःकेचित्केचिद्धन्तैर्विदारिताः ।।6.52.11।। Yuddha Kanda,52,12,ध्वजैर्विमथितैर्भग्नैःखङ्गैश्चविनिपातितैः । रथैर्विध्वंसितैश्चापिपतितैःरजनीचरैः ।।6.52.12।। Yuddha Kanda,52,13,गजेन्द्रैःपर्वताकारैःपर्वताग्रैर्वनौकसाम् । मथितैर्वाजिभिःकीर्णंसारोहैर्वसुधातलम् ।।6.52.13।। Yuddha Kanda,52,14,वानरैर्भीमविक्रान्स्सैराप्लुत्याऽप्लुत्यवेगितैः । राक्षसाःकरजैस्तीक्ष्णैर्मुखेषुविनिर्तिताः ।।6.52.14।। Yuddha Kanda,52,15,विषण्णवदनाभूयोविप्रकीर्णशिरोरुहाः । मूढाश्शोणितगन्धेननिपेतुर्धरणीतले ।।6.52.15।। Yuddha Kanda,52,16,अन्येतुपरमसङ्कृक्रुद्धाराक्षसाभीमनिश्वना: । तलैरेवाभिधावन्तिवज्रस्पर्शसमैर्हरीन् ।।6.52.16।। Yuddha Kanda,52,17,वानरैरापतन्तस्तेवेगितावेगवत्तरैः । मुष्टिभिश्चरणैर्दन्स्सैःपादपैश्चावपोथिता ।।6.52.17।। Yuddha Kanda,52,18,सैन्यंतुविद्रुतंदृष्टवाधूम्राक्षोराक्षसर्षभः । रोषेणकदनंचक्रेवानराणांयुयुत्सताम् ।।6.52.18।। Yuddha Kanda,52,19,प्तासैःप्रमथिताःकेचिद्वानराश्शोणितस्रवाः । मुद्गरैराहताःकेचित्पातिताधरणीतले ।।6.52.19।। Yuddha Kanda,52,20,परिघैर्मथिताःकेचिद्भिण्डिवालैर्विदारिताः । पट्टसैराहता: केचिद्विह्वलन्तोगतासवः ।।6.52.20।। Yuddha Kanda,52,21,केचिद्विनिहताश्शूलैरुधिरार्द्रावनौकसः । केचिद्विद्रावितानष्टाःसङ्क्रुद्धैराक्षसैर्युधि ।।6.52.21।। Yuddha Kanda,52,22,विभिन्नहृदयाःकेचिदेकपार्श्वेनदारिताः । विदारितास्त्रिशूलैश्चकेचिदान्स्रैर्विनिःसृताः ।।6.52.22।। Yuddha Kanda,52,23,तत्सुभीमंमहायुद्धंहरिराक्षससङ्कुलम् । प्रबभौशब्दबहुलंशिलापादपसङ्कुलम् ।।6.52.23।। Yuddha Kanda,52,24,धनुर्ज्यातन्त्रिमधुरंहिक्कातालसमन्वितम् । मन्धस्न्तितसङ्गीतंतद्युद्धगान्धर्वमाबभौ ।।6.52.24।। Yuddha Kanda,52,25,धूम्राक्षस्तुधनुष्पाणिर्वानरान्रणमूर्धनि । हसन्विद्रावयामासदिशस्तुशरवृष्टिभिः ।।6.52.25।। Yuddha Kanda,52,26,धूम्राक्षेणार्दितंसैन्यंव्यथितंप्रेक्ष्यमारुतिः । अभ्यवर्ततसङ्क्रुद्धःप्रगृह्यविपुलांशिलाम् ।।6.52.26।। Yuddha Kanda,52,27,क्रोधाद् द्विद्द्विगुणताम्राक्षःपितृस्तुल्यपराक्रमः । शिलांतांपातयामासधूम्राक्षस्यरथंप्रति ।।6.52.27।। Yuddha Kanda,52,28,आपततनींशिलांदृष्टवागदामुद्यम्यसम्भ्रमात् । रथादाप्लुत्यवेगेनवसुधायांव्यतिष्ठत ।।6.52.28।। Yuddha Kanda,52,29,साप्रमथ्यरथंतस्यनिपपातशिलाभुवि । सचक्रकूबरसाश्वंसध्वजंसशरासनम् ।।6.52.29।। Yuddha Kanda,52,30,सभङ् क्त्वातुरथंतस्यहनुमान् मारुतात्मजः । रक्षसांकदनंचक्रेसस्कन्धविटपैर्द्रुमैः ।।6.52.30।। Yuddha Kanda,52,31,विभिन्नशिरसोभूत्वाराक्षसाश्शोणितोक्षिता: । द्रुमैःप्रमथिताश्चान्येनिपेतुर्धरणीतले ।।6.52.31।। Yuddha Kanda,52,32,विद्राव्यराक्षसंसैन्यंहनुमान्मारुतात्मजः । गिरिशशिखरमादायधूम्राक्षमभिदुद्रुवे ।।6.52.32।। Yuddha Kanda,52,33,तमापतन्तंधूम्राक्षोगदामुद्यम्यवीर्यवान् । विनर्दमानःसहसाहनूमन्तमभिद्रवत् ।।6.52.33।। Yuddha Kanda,52,34,तस्यक्रुद्धस्यरोषेणगदांतांबहुकण्टकाम् । पातयामासधूम्राक्षोमस्तकेऽथहनूमतः ।।6.52.34।। Yuddha Kanda,52,35,ताडितःसतयातत्रगदयाभीमरूपया । सकपिर्मारुतबलस्तंप्रहारमचिन्तयन् ।।6.52.35।। धूम्राक्षस्यशिरोमध्येगिरिशृङ्गमपातयत् । Yuddha Kanda,52,36,सविस्फारितसर्वाङ्गोगिरिशृङ्गेणताडितः । पपातसहसाभूमौविकीर्णइवपर्वतः ।।6.52.36।। Yuddha Kanda,52,37,धूम्राक्षंनिहतंदृष्टवाहतशेषानिशाचराः ।।6.52.37।। त्रस्ताःप्रविविशुर्लङ्कांवध्यमानाःप्लवङ्गमैः । Yuddha Kanda,52,38,सतुपवनसुतोनिहत्यशत्रून्क्षतजवहरिस्सरितश्चसन्निकीर्य । रिपुवधजनितश्रमोमहात्मामुदमगमत्कपिभिःसुपूज्यमानः ।।6.52.38।। Yuddha Kanda,53,1,धूम्राक्षंनिहतंश्रुत्वारावणोराक्षसेश्वरः । क्रोधेनमहताऽविष्टोनिश्श्वसन्नुरगोयथा ।।6.53.1।। Yuddha Kanda,53,2,दीर्घमुष्णंविनिश्श्वस्यक्रोधेनकलुषीकृतः । अब्रवीद्राक्षसंक्रूरंवज्रदंष्ट्रंमहाबलम् ।।6.53.2।। Yuddha Kanda,53,3,गच्छत्वंवीर निर्याहिराक्षसैःपरिवारितः । जहिदाशरथिंरामंसुग्रीवंवानरैःसह ।।6.53.3।। Yuddha Kanda,53,4,तथेत्युक्त्वाद्रुततरंमायावीराक्षसेश्वरम् । निर्जगामबलैस्सार्दंबहुभिःपरिवारितः ।।6.53.4।। Yuddha Kanda,53,5,नागैरश्वैःखरैरुष्ट्रैःसंयुक्तस्सुसमाहितः । पताकाध्वजचित्रैश्चरथैश्चसमलङ्कृतः ।।6.53.5।। Yuddha Kanda,53,6,ततोविचित्रकेयूरमुकुटैश्चविभूषितः । तनुत्राणिचसमावृत्यसधनुर्निर्ययौद्रुतम् ।।6.53.6।। Yuddha Kanda,53,7,पताकालङ्कृतंदीप्तंतप्तकाञ्चनभूषितम् । रथंप्रदक्षिणंकृत्वासमारोहच्चमूपतिः ।।6.53.7।। Yuddha Kanda,53,8,यष्टिभिस्तोमरैचशित्रैश्शूलैश्चमुसलैरपि । भिण्डिपालैश्चपाशैश्चशक्तिभिःपट्टसैरपि ।।6.53.8।। Yuddha Kanda,53,9,खडगैश्चक्रैर्गदाभिश्चनिशितैश्चपरश्वधैः । पदातयश्चनिर्यान्तिविविधाःशस्त्रपाणयः ।।6.53.9।। Yuddha Kanda,53,10,विचित्रवाससस्सर्वेदीप्ताराक्षसपुङ्गवाः । गजामदोत्कटाश्शूराश्चलन्तइवपर्वताः ।।6.53.10।। Yuddha Kanda,53,11,तेयुद्धकुशलैरूढास्तोमराङ्कुशपाणिभिः । अन्येलक्षणसंयुक्ताश्शूरारूढामहाबलाः ।।6.53.11।। Yuddha Kanda,53,12,तद्राक्षसबलंसर्वंविप्रस्थितमशोभत । प्रावृटकालेयथामेघानर्दमानास्सविद्युतः ।।6.53.12।। निस्सृतादक्षिणद्वारादङ्गदोयत्रयूथपः । Yuddha Kanda,53,13,तेषांनिष्क्रममाणानामशुभंसमजायत ।।6.53.13।। Yuddha Kanda,53,14,आकाशाद्विघनात्तीव्रादुल्काश्चाभ्यन्यपतंस्तदा । वमन्त्यःपावकज्वालाशशिवाघोरंववाशिरे ।।6.53.14।। Yuddha Kanda,53,15,व्याहरन्तमृगाघोरारक्षसांनिधनंतदा । समापतन्तोयोधास्तुप्रास्खलन् स्तत्रदारुणम् ।।6.53.15।। Yuddha Kanda,53,16,एतानौत्पातिकान् दृष्टवावज्रदंष्ट्रोमहाबलः । धैर्यमालम्भ्यतेजस्वीनिर्जगामरणोत्सुकः ।।6.53.16।। Yuddha Kanda,53,17,तांस्तुनिष्क्रमतोदृष्टवावानराजितकाशिनः । प्रणेदुस्सुमहानादान्पूरयांश्चदिशोदश ।।6.53.17।। Yuddha Kanda,53,18,ततःप्रवृत्तंतुमुलंहरीणांराक्षसैस्सह । घोराणांभीमरूपाणामन्योन्यवथकाङ् क्षिणाम् ।।6.53.18।। Yuddha Kanda,53,19,निष्पतन्तोमहोत्साहोभिन्नदेहशिरोधराः । रुधिरोक्षितसर्वाङ्गान्यपतन्थरणीतले ।।6.53.19।। Yuddha Kanda,53,20,केचिदन्योन्यमासाद्यशूराःपरिघपाणयः । चिक्षिपुर्विविधंशस्त्रंसमरेष्न्विवर्तिनः ।।6.53.20।। Yuddha Kanda,53,21,द्रुमाणांचशिलानांचशस्त्राणांचापिनिस्स्वनः ।।6.53.21।। श्रूयतेसुमहांस्तत्रघोरोहृदयभेदसः । Yuddha Kanda,53,22,रथनेमिस्वनस्तत्रधनुषश्चापिनिस्वसत् ।।6.53.22।। शङ्खभेरीमृदङ्गानांबभूवतुमुलःस्वनः । Yuddha Kanda,53,23,केचिदस्त्राणिसन्सृज्यबाहुयुद्धमकुर्वत । तलैश्चचरणैश्चापिमुष्टिभिश्चद्रुमैरपि ।।6.53.23।। Yuddha Kanda,53,24,जानुभिश्चहताःकेचिद्भिन्नदेहाश्चराक्षसाः । शिलाभिश्चूर्णिताःकेचिद्वानरैर्युद्धदुर्मदैः ।।6.53.24।। Yuddha Kanda,53,25,वज्रदंष्ट्रोभृशंबाणै: रणेवित्रासयन्हरीन् । चचारलोकसंहारेपाशहस्तइवान्तकः ।।6.53.25।। Yuddha Kanda,53,26,बलवन्तोऽस्त्रविदुषोनानाप्रहरणारणे । जघ्नुर्वानरसैन्यानिराक्षसाःक्रोधमूर्छिताः ।।6.53.26।। Yuddha Kanda,53,27,निघ्नतोराक्षसान्दृष्टवासर्वान्वालिसुतोरणे । क्रोधेनवदिगुणाविष्टःसंवर्तकइवानलः ।।6.53.27।। Yuddha Kanda,53,28,तान् राक्षसगणान्सर्वान्वृक्षमुद्यम्यवीर्यवान् । अङ्गदःक्रोधताम्राक्षःसिंहःक्षुद्रमृगानिव ।।6.53.28।। Yuddha Kanda,53,29,कारकदनंघोरंशक्रतुल्यपराक्रमः ।।6.53.29।। Yuddha Kanda,53,30,अङ्गदाभिहतास्तत्रराक्षसाभीमविक्रमाः । विभिन्नशिरसःपेतुर्विकृताइवपादपाः ।।6.53.30।। Yuddha Kanda,53,31,रथैरश्वैर्ध्वजैश्चित्रैश्शरैर्हरिरक्षसाम् । रुधिरेणसञ्छन्नाभूमिर्भयकरातदा ।।6.53.31।। Yuddha Kanda,53,32,हारकेयूरवस्स्रैश्चशत्रैश्चसमलङ्कृता । भूमिर्भातिरणेतत्रशारदीवयथानिशा ।।6.53.32।। Yuddha Kanda,54,1,बलस्यचविघातेनअङ्गदस्यजयेनच । राक्षसःक्रोधमाविष्टोवज्रदंष्ट्रोमहाबलः ।।6.54.1।। Yuddha Kanda,54,2,विष्पार्यचधनुर्घोरंशक्राशनिसमस्वनम् । वानराणामनीकानिप्राकिरच्छरवृष्टिभिः ।।6.54.2।। Yuddha Kanda,54,3,राक्षसाश्चापिमुख्यास्तेरथेषुसमवस्थिताः । नानाप्रहरणाश्शूराःप्रायुध्यन्तस्तदारणे ।।6.54.3।। Yuddha Kanda,54,4,वानराणांचशूरायेतेसर्वेप्लवगर्षभाः । आयुध्यन्तशिलाहस्तास्समवेतास्समन्ततः ।।6.54.4।। Yuddha Kanda,54,5,तत्रायुधसहस्राणितस्मिन्नायोधनेभृशम् । राक्षसाःकपिमुख्येषुपातयांचक्रिरेतदा ।।6.54.5।। Yuddha Kanda,54,6,वानराश्चापिरक्षस्सुगिरवृक्षान्महाशिलाः । प्रवीराःपातयामासुर्मत्तमातङ्गसन्निभाः ।।6.54.6।। Yuddha Kanda,54,7,शूराणांयुद्यमानानांसमरेष्न्विवर्तिनाम् । तद्राक्षसगणानांचसुयुद्धंसमवर्तत ।।6.54.7।। Yuddha Kanda,54,8,प्रभिन्नशिरसःकेचिछचिन्नैःपादैश्चबाहुभिः । शस्स्रैरर्दितदेहाभ्यरुधिरेणसमुक्षिताः ।।6.54.8।। Yuddha Kanda,54,9,हरयोराक्षसाश्चैवशेरतेगांसमाश्रिताः । कङ्कगृध्रवळैराढ्याश्चगोमायुगलसङ्कुलाः ।।6.54.9।। Yuddha Kanda,54,10,कबन्धानिसमुत्पेतुर्भीमाणांभीषणानिवै । भुजपाणिशिरश्छिन्नकायाश्चभूतले ।।6.54.10।। वानराराक्षसाश्चापिनिपेतुस्तत्रवैरणे । Yuddha Kanda,54,11,ततोवानरसैन्येनहन्यमानंनिशाचरम् ।।6.54.11।। प्राभज्यतबलंसर्वंवज्रदंष्ट्रस्यपश्यतः । Yuddha Kanda,54,12,राक्षसान्भयवित्रस्तान्हन्यमानान् प्लवङ्गमैः ।।6.54.12।। Yuddha Kanda,54,13,दृष्टवासरोषताम्राक्षोवज्रदंष्ट्रःप्रतापवान् । प्रविवेशधनुष्पाणिस्त्रासयन्हरिवाहिनीम् ।।6.54.13।। Yuddha Kanda,54,14,शरैर्विदारयामासकङ्कपत्रैरजिह्मगैः । बिभेदवानरांस्तत्रसप्ताष्टौनवपञ्चच ।।6.54.14।। विव्याधपरमक्रुद्धोवज्रदंष्ट्रःप्रतापवान् । Yuddha Kanda,54,15,त्रस्ताःसर्वेहरिगणाःशरैःसङ्कृत्तकन्दरा:।। 6.54.15।। अङ्गदंसम्प्रधावन्तिप्रजापतिमिवप्रजाः । Yuddha Kanda,54,16,ततोहरिगणान् भग्नान् दृष्टवावालिसुतस्तदा ।।6.54.16।। क्रोधेनवज्रदंष्ट्रंतमुदीक्षन्तमुदैक्षत । Yuddha Kanda,54,17,वज्रदंष्ट्रोऽङ्गदश्चोभौसङ्गतौहरिराक्षसौ ।।6.54.17।। चेरतुःपरमक्रुद्धौहरिमत्तगजाविव । Yuddha Kanda,54,18,ततश्शतसहस्रेणहरिपुत्रंमहाबलः ।।6.54.18।। जघानमर्मदेशेषुमातङ्गमिवतोमरैः । Yuddha Kanda,54,19,रुधिरोक्षितसर्वाङ्गोवालिसूनुर्महाबलः ।।6.54.19।। चिक्षेपवज्रदंष्ट्रायवृक्षंभीमपराक्रमः । Yuddha Kanda,54,20,दृष्टापतन्तंतंवृक्षमसम्भ्रान्तश्चराक्षसः ।।6.54.20।। चिच्छेदबहुधासोऽपिमथितःप्रादतद्भुवि । Yuddha Kanda,54,21,तंदृष्टवावज्रदंष्ट्रस्यविक्रमंप्लवगर्षभ ।।6.54.21।। प्रगृह्यविपुलंशैलंचिक्षेपचननादच । Yuddha Kanda,54,22,समापतन्तंदृष्टवासरथादाप्लुत्यवीर्यवान् ।।6.54.22।। गदापाणिरसम्भ्रान्तःपृथिव्यांसमतिष्ठत । Yuddha Kanda,54,23,साङ्गदेनगदाक्षिप्तागत्वातुरणमूर्धनि ।।6.54.23।। सचक्रकूबरंसाश्वंप्रममाथरथंतदा । Yuddha Kanda,54,24,ततोऽन्यच्छिखरंगृह्यविपुलंद्रुमभूषितम् ।।6.54.24।। वज्रदंष्ट्रस्यशिरसिपातयामाससाऽङ्गदः । Yuddha Kanda,54,25,अभवच्छोणितोद्गारीवज्रदंष्ट्रस्समूर्छितः ।।6.54.25।। मुहूर्तमभवन्मूढोगदामालिङ् ग्यनिश्श्वसन् । Yuddha Kanda,54,26,संलब्दसंज्ञोगदयावालिपुत्रमवस्थितम् ।।6.54.26।। जघानपरमक्रुद्धोवक्षोदेशेनिशाचरः । Yuddha Kanda,54,27,गदांत्यक्त्वाततस्तत्रमुष्टियुद्धमवर्तत ।।6.54.27।। अन्योन्यंजघ्नतुस्तत्रतावुभौहरिराक्षसौ । Yuddha Kanda,54,28,रुधिरोद्गारिणौतौतुप्रहारैर्जनितश्रमौ ।।6.54.28।। बभूवतुस्सुविक्रान्तावङ्गारकबुधाविव । Yuddha Kanda,54,29,ततःपरमतेजस्वीअङ्गदःप्लवगर्षभः ।।6.54.29।। उत्पाट्यवृक्षंस्थितवान् बहुपुष्पफलाञ्चितम् । Yuddha Kanda,54,30,जग्राहचार्षभंचर्मखडगंचविपुलंशुभम् ।।6.54.30।। किङ्किणाजालसञ्छन्नंचर्मणाचपरिष्कृतम् । Yuddha Kanda,54,31,चित्रांश्चरुचिरान्मार्गांश्चेरतुःकपिराक्षसौ ।।6.54.31।। जघ्नतुश्चतदान्योन्यंनिर्दयंजयकाङ् क्षिणौ । Yuddha Kanda,54,32,व्रणैस्सास्त्रैरशोभेतांपुष्पिताविवकिंशुकौ ।।6.54.32।। युध्यमानौपरिश्रान्तौजानुभ्यामवनींगतौ । Yuddha Kanda,54,33,निमेषान्तरमात्रेणअङ्गदःकपिकुञ्जरः ।।6.54.33।। उदतिष्ठतदीप्ताक्षोदण्डाहतइवोरगः । Yuddha Kanda,54,34,निर्मलेनसुधौतेनखड्डेनास्यमहच्छिरः ।।6.54.34।। जघानवज्रदंष्ट्रस्यवालिसूमर्महाबलः । Yuddha Kanda,54,35,रुधिरोक्षितगात्रस्यबभूवपतितंद्विधा ।।6.54.35।। सरोषपरिवृत्ताक्षंशुभंखडगहतंशिरः । Yuddha Kanda,54,36,वज्रदंष्ट्रंहतंदृष्टवाराक्षसाभयमोहिताः ।।6.54.36।। Yuddha Kanda,54,37,त्रस्ताह्यभ्यद्रवन् लङ्कांवध्यमानाःप्लवङ्गमैः । विषण्णवदना: दीनाह्रियाकिञ्चिदवाङ्मुखाः ।।6.54.37।। Yuddha Kanda,54,38,निहत्यतंवज्रधरप्रतापःसवालिसूनुःकपिसैन्यमध्ये । जगामहर्षंमहितोमहाबलःसहस्रनेत्रस्त्रिदशैरिवावृतः ।।6.54.38।। Yuddha Kanda,55,1,वज्रदंष्ट्रंहतंश्रुत्वावालिपुत्रेणरावणः । बलाध्यक्षमुवाचेदंकृताञ्जलिमुपस्थितम् ।।6.55.1।। Yuddha Kanda,55,2,शीघ्रंनिर्यान्तुदुर्धर्षाराक्षसाभीमविक्रमाः । अकम्पनंपुरस्कृत्यसर्वशस्त्रप्रकोविदम् ।।6.55.2।। Yuddha Kanda,55,3,एषशास्ताचगोप्ताचनेताचयुधिसत्तमः । भूतिकामश्चमेनित्यंनित्यंचसमरप्रियः ।।6.55.3।। Yuddha Kanda,55,4,एषजेष्यतिकाकत्स्थौसुग्रीवंचमहाबलम् । वानरांश्चापरान् घोरान् हनिष्यतिपरन्तपः ।।6.55.4।। Yuddha Kanda,55,5,परिगृह्यसःताम् I ज्ञाम् रावणस्यमहाबल । बलम् सम्प्रेरयामासःतदालघुपराक्रमः।। 6.55.5।। Yuddha Kanda,55,6,ततोनानाप्रहरणाभीमाक्षाभीमदर्शनाः । निष्पेतूराक्षसामुख्याबलाध्यक्षप्रचोदिताः ।।6.55.6।। Yuddha Kanda,55,7,रथमास्थायविपुलंतप्तकाञ्चनभूषणम् । मेघाभोमेघवर्णश्चमेघस्वनमहास्वनः ।।6.55.7।। राक्षसैःसम्वृतोघोरैस्तदानिर्यात्यकम्पनः । Yuddha Kanda,55,8,नहिकम्पयितुंशक्यःसुरैरपिमहामृधे ।।6.55.8।। अकम्पनस्ततस्तेषामादित्यइवतेजसा । Yuddha Kanda,55,9,तस्यनिर्धावमानस्यसम्रब्धस्ययुयुत्सया ।।6.55.9।। अकस्माद्दैन्यमागच्छद्धयानांरथवाहिनाम् । Yuddha Kanda,55,10,व्यस्फुरन्नयनंचास्यसव्यंयुद्धाभिनदनिनः ।।6.55.10।। विवर्णोमुखवर्णश्चगद्गदश्चाभवत्स्वनः । Yuddha Kanda,55,11,अभवत्सुदिनेकालेदुर्दिनंरूक्षमारुतम् ।।6.55.11।। ऊचुःखगमृगाःसर्वेवाचःक्रूराभयावहाः । Yuddha Kanda,55,12,ससिंहापचित्कन्धःशार्दूलसमविक्रमः ।।6.55.12।। तानुत्पातानचिन्स्सैवनिर्जगामरणाजिरम् । Yuddha Kanda,55,13,तथानिर्गच्छतस्तस्यरक्षसस्सहराक्षसैः ।।6.55.13।। बभूवसुमहान्नादःक्षोभयन्निवसागरम् । Yuddha Kanda,55,14,तेनशब्देनवित्रस्तावानराणांमहाचमूः ।।6.55.14।। द्रुमशैलप्रहाराणांयोद्धुंसमुपतिष्ठतं । Yuddha Kanda,55,15,तेषांयुद्धंमहारौद्रंसञ्जज्ञेकपिरक्षसाम् ।।6.55.15।। रामरावणयोरर्धेसमभित्यक्तजीविनाम् । Yuddha Kanda,55,16,सर्वेह्यतिबलाःशूराःसर्वेपर्वतसन्निभाः ।।6.55.16।। हरयोराक्षसाश्चैवपरस्परजिघांसवः । Yuddha Kanda,55,17,तेषांविवर्धतांशब्दःसंयुगेऽतितरस्विनाम् ।।6.55.17।। शुश्रुवेसुमहान् कोपादन्योन्यमभिगर्जताम् । Yuddha Kanda,55,18,रजश्चारुणवर्णाभंसुभीममभवद् भृशम् ।।6.55.18।। उद्धतंहरिरक्षोभिःसंरुरोधदिशोदश । Yuddha Kanda,55,19,अन्योन्यंरजसातेनकौशेयोद्धूतपाण्डुना ।।6.55.19।। सम्वृतानिचभूतानिददृशुर्नरणाजिरे । Yuddha Kanda,55,20,नध्वजोनपताकावाचर्मवातुरगोऽपिवा ।।6.55.20।। आयुधंस्यन्दनोवापिददृशेतेनरेणुना । Yuddha Kanda,55,21,शब्दश्चसुमहांस्तेषांनर्दतामभिधावताम् ।।6.55.21।। श्रूयतेतुमुलोयुद्धेनरूपाणिचकाशिरे । Yuddha Kanda,55,22,हरीनेवसुसंरुष्टाहरयोजघ्नुराहवे ।।6.55.22।। राक्षसाराक्षसांश्चापिनिजघ्नुस्तिमिरेतदा । Yuddha Kanda,55,23,तेपरांश्चविनिघ्नन्तःस्वांश्चवानरराक्षसाः ।।6.55.23।। रुधिरार्द्रांतदाचक्रुर्महींपङ्कानुलेपनाम् । Yuddha Kanda,55,24,ततस्तुरुधिरौघेणसिक्तंह्यपगतंरजः ।।6.55.24।। शरीरशवसङ्कीर्णाबभूवचवसुन्धरा । Yuddha Kanda,55,25,द्रुमशक्तिगदाप्रासैश्शिलापरिघतोमरैः ।।6.55.25।। हरयोराक्षसाश्चैवस्तूर्णंजघ्नुरन्योन्यमोजसा । Yuddha Kanda,55,26,बाहुभिःपरिघाकारैर्युध्यन्तःपर्वतोपमाः ।।6.55.26।। हरयोभीमकर्माणोराक्षसान्झघ्नुराहवे । Yuddha Kanda,55,27,राक्षसास्त्वभिसङ्क्रुद्धाःप्रासतोमरपाणयः ।।6.55.27।। कपीन्निजघ्निरेतत्रशस्त्रःपरमदारुणैः । Yuddha Kanda,55,28,अकम्पनस्सुसङ्क्रुद्धोराक्षसानांचमूपतिः ।।6.55.28।। सम्हर्षयतितान्सर्वान्राक्षसाभनिमविक्रमान् । Yuddha Kanda,55,29,हरयस्त्वपिरक्षांसिमहाद्रुममहाश्मभिः ।।6.55.29।। विदारयन्त्यभिक्रम्यशस्त्राण्याच्छिद्यवीर्यतः । Yuddha Kanda,55,30,एतस्मिन्नन्तरेवीराहरयःकुमुदोनलः ।।6.55.30।। मैन्दश्चपरमक्रुद्धाश्चक्रुर्वेगमनुत्तमम् । Yuddha Kanda,55,31,तेतुवृक्षैर्महावीराराक्षसानांचमूमुखे ।।6.55.31।। Yuddha Kanda,55,32,कदनंसुमहच्चक्रुर्लीलयाहरिपुङ्गवाः । ममन्थूराक्षसान् सर्वेवानरागणशोभृशम् ।।6.55.32।। Yuddha Kanda,56,1,तद्दृष्टवासुमहत्कर्मकृतंवानरतस्तमैः । क्रोधमाहारयामासयुधितीव्रमकम्पनः ।।6.56.1।। Yuddha Kanda,56,2,क्रोधमूर्चितरूपस्तुधून्वन्परमकार्मुकम् । दृष्टवातुकर्मशत्रूणांसारथिंवाक्यमब्रवीत् ।।6.56.2।। Yuddha Kanda,56,3,तत्त्त्वैतावत्त्वरितंरथंप्रापयसारथे । यत्रैतेबहवोघ्नन्तिसुबहून्राक्षसान्रणे ।।6.56.3।। Yuddha Kanda,56,4,एतेऽत्रबलवन्तोहिभीमकोपाश्चवानराः । द्रुमशैलप्रहरणास्तिष्ठन्तिप्रमुखेमम ।।6.56.4।। Yuddha Kanda,56,5,एतान्निहन्तुमिच्छामिसमरश्लाघिनोह्यहम् । एतैःप्रमथितंसर्वंदृश्यतेराक्षसांबलम् ।।6.56.5।। Yuddha Kanda,56,6,ततःप्रजवनाश्वेनरथेनरथिनांवरः । हरीनभ्यहनत्क्रोधाच्छरजालैकम्पनः ।।6.56.6।। Yuddha Kanda,56,7,नस्थातुंवानराश्शेकुःकिंपुनर्योद्धुमाहवे । अकम्पनशरैर्भग्नास्सर्वएवविदुद्रुवुः ।।6.56.7।। Yuddha Kanda,56,8,तान्मृत्युवशमापन्नानकम्पनवंशगतान् । समीक्ष्यहनुमान्ज्ञातीनुपतस्थेमहाबलः ।।6.56.8।। Yuddha Kanda,56,9,तंमहाप्लवगंदृष्टवासर्वेतेप्लवगयूथपा: । समेत्यसमरेवीरास्सहिताःपर्यवारयन् ।।6.56.9।। Yuddha Kanda,56,10,अवस्थितंहनूमन्तंतेदृष्टवाहरियूथपा: । बभूवुर्बलवन्तोहिबलवन्तंसमाश्रिताः ।।6.56.10।। Yuddha Kanda,56,11,अकम्पनस्तुशैलाभंहनूमन्तमवस्थितम् । महेन्द्रइवदाराभिश्शरैरभिववर्षह ।।6.56.11।। Yuddha Kanda,56,12,अचिन्तयित्वाबाणौघान् शरीरेपतितान्शितान् । अकम्पनवधार्थायमनोदध्रेमहाबलः ।।6.56.12।। Yuddha Kanda,56,13,सप्रहस्यमहातेजाहनुमान् मारुतात्मजः । अभिदुद्रावतद्रक्षःकम्पयन्निवमेदिनीम् ।।6.56.13।। Yuddha Kanda,56,14,तस्याभिनर्दमानस्यदीप्यमानस्यतेजसा । बभूवरूपंदुर्धर्षंदीप्तस्येवविभावसोः ।।6.56.14।। Yuddha Kanda,56,15,आत्मानंमप्रहरणंज्ञात्वाक्रोधसमन्वितः । शैलमुत्पाटयामासवेगेनहरिपुङ्गवः ।।6.56.15।। Yuddha Kanda,56,16,गृहीत्वातंमहाशैलंपाणिनैकेनमारुतिः । सविनद्यमहानादंभ्रामयामासवीर्यवान् ।।6.56.16।। Yuddha Kanda,56,17,ततस्तमभिदुद्रावराक्षसेन्द्रमकम्पनम् । पुराहिनमुचिंसङ् ख्येवज्रेणेवपुरन्दरः ।।6.56.17।। Yuddha Kanda,56,18,अकम्पनस्तुतद्दृष्टवागिरिशृङ्गंसमुद्यतम् । दूरादेवमहाबाणैरर्धचन्द्रैर्व्यदारयत् ।।6.56.18।। Yuddha Kanda,56,19,तत्पर्वताग्रमाकाशेरक्षोबाणविदारितम् । विकीर्णंपतितंदृष्टवाहनुमान्क्रोधमूर्छितः ।।6.56.19।। Yuddha Kanda,56,20,सोऽश्वकर्णंसमासाद्यरोषदर्पान्वितोहरिः । तूर्णमुत्पाटयामासमहागिरिमिवोच्छ्रितम् ।।6.56.20।। Yuddha Kanda,56,21,तंगृहीत्वामहास्कन्धंसोऽश्वकर्णंमहाद्युतिः । प्रहस्यपरयाप्रीत्याभ्रामयामासभूतले ।।6.56.21।। Yuddha Kanda,56,22,प्रधावन्नूरुवेगेनप्रभञ्जंस्तरसाद्रुमान् । हनूमान्परमक्रुद्धश्चरणैर्दारयत्क्षितम् ।।6.56.22।। Yuddha Kanda,56,23,गजांश्चसगजारोहान्सरथान्रथिनस्तथा । जघानहनुमान् भीमान् राक्षसांश्चपदातिगान् ।।6.56.23।। Yuddha Kanda,56,24,तमन्तकमिवक्रुद्धंसद्रुमंप्राणहारिणम् । हनूमन्तमभिप्रेक्ष्यराक्षसाविप्रदुद्रुवुः ।।6.56.24।। Yuddha Kanda,56,25,तमापतन्तंसङ्कृद्धंराक्षसानांभयावहम् । ददर्शाकम्पनोवीरश्चुक्षोधचननादच ।।6.56.25।। Yuddha Kanda,56,26,सचतुर्दशभिर्बाणैश्शितैर्देहविदारणैः । निर्बिभेदहनूमन्तंमहावीर्यमकम्पनः ।।6.56.26।। Yuddha Kanda,56,27,सतदाप्रतिविद्धस्तुबह्वीभिश्शरवृष्टभिः । हनूमान्ददृशेवीरःप्ररूढइवसानुमान् ।।6.56.27।। Yuddha Kanda,56,28,विरराजमहाकायोमहावीर्योमहामना: । पुष्पिताशोकसङ्काशोविधूमइवपावकः ।।6.56.28।। Yuddha Kanda,56,29,ततोऽन्यंवृक्षमुत्पाट्यकृत्वावेगमनुत्तमम् । शिरस्यभिजघानाशुराक्षसेन्द्रमकम्पनम् ।।6.56.29।। Yuddha Kanda,56,30,सवृक्षेणहतस्तेनसक्रोधेनमहात्मना । राक्षसोवानरेन्द्रेणपपातचममारच ।।6.56.30।। Yuddha Kanda,56,31,तंदृष्टवानिहतंभूमौराक्षसेन्द्रमकम्पनम् । व्यथिताराक्षसास्सर्वेक्षितिकम्पइवद्रुमाः ।।6.56.31।। Yuddha Kanda,56,32,त्यक्तप्रहरणास्सर्वेराक्षसास्तेपराजिताः । लङ्कामभिययुस्त्रस्तावानरास्तैभिद्रुताः ।।6.56.32।। Yuddha Kanda,56,33,तेमुक्तकेशाःसम्भ्रान्ताभग्नमानाःपराजिताः । स्रवच्छ्रमजलैरङ्गैश्श्वसन्तोविप्रदुद्रुवुः ।।6.56.33।। Yuddha Kanda,56,34,अन्योन्यंप्रममन्थुस्तेविविशुर्नगरंभयात् । पृष्ठतस्तेतुसम्मूढाःप्रेक्षमाणामुहुर्मुहुः ।।6.56.34।। Yuddha Kanda,56,35,तेषुलङ्कांप्रविष्टेषुराक्षसेषुमहाबलाः । समेत्यहरयस्सर्वेहनूमन्तमपूजयन् ।।6.56.35।। Yuddha Kanda,56,36,सोऽपिप्रहृष्टस्तान् सर्वान् हरीन् सम्प्रत्यपूजयत् । हनुमान्सत्त्वसम्पन्नोयथार्हमनुकूलतः ।।6.56.36।। Yuddha Kanda,56,37,विनेदुश्चयथाप्राणंहरयोजितकाशिनः । चकर्षुश्चपुनस्तत्रसप्राणानपिराक्षसान् ।।6.56.37।। Yuddha Kanda,56,38,सवीरशोभामभजन्महाकपिःसमेत्यरक्षांसिनिहत्यमारुतिः । महासुरंभीमममित्रनाशनःयथैवविष्णुर्बलिनंचमूमुखे ।।6.56.38।। Yuddha Kanda,56,39,अपूजयन्देवगणास्तदाकपिंस्वयंचरामोऽतिबलश्चलक्ष्मणः । तथैवसुग्रीवमुखाःप्लवङ्गमाविभीषणश्चैवमहाबलस्तथा ।।6.56.39।। Yuddha Kanda,57,1,अकम्पनवधंश्रुत्वाक्रुद्धोवैराक्षसेश्वरः । किञ्चिददीनमुखश्चापिसचिवांस्तानुदैक्षत ।।6.57.1।। Yuddha Kanda,57,2,सतुध्यात्वामुहूर्तंतुमन्त्रिभिस्संविचार्यच । ततस्तुरावणःपूर्वदिवसेराक्षसाधिपः ।।6.57.2।। पुरींपरिययौलङ्कांसर्वगुल्मानवेक्षितुम् । Yuddha Kanda,57,3,तांराक्षसगणैर्गुप्तांगुल्मैर्बहुभिरावृताम् ।।6.57.3।। ददर्शनगरींलङ्कांपताकाध्वजमालिनीम् । Yuddha Kanda,57,4,रुद्धांतुनगरींदृष्टवारावणोराक्षसेश्वरः ।।6.57.4।। उवाचात्महितंकालेप्रहस्तंयुद्धकोविदम् । Yuddha Kanda,57,5,पुरस्योपनिविष्टस्यसहसापीडितस्यवा ।।6.57.5।। नान्यंयुद्धात्प्रपश्यामिमोक्षंयुद्धविशारद । Yuddha Kanda,57,6,अहंवाकुम्भकर्णोवात्वंवासेनापतिर्मम ।।6.57.6।। इन्द्रजिद्वानिकुम्भोवावहेयुर्भारमीदृशम् । Yuddha Kanda,57,7,सत्वंबलमतश्शीघ्रमादायपरिगृह्यच ।।6.57.7।। विजयायाभिनिर्याहियत्रसर्वेवनौकसः । Yuddha Kanda,57,8,निर्याणायादेवतेनूनंचपलाहरिवाहिनी ।।6.57.8।। नर्दतांराक्षसेन्द्राणांश्रुत्वानादंद्रविष्यति । Yuddha Kanda,57,9,चपलाह्यविनीताश्चचलचित्ताश्चवानराः ।।6.57.9।। नसहिष्यन्तितेनादंसिंहनादमिवद्विपाः । Yuddha Kanda,57,10,विद्रुतेचबलेतस्मिन् रामःसौमित्रिणासह ।।6.57.10।। अवशस्तेनिरालम्बःप्रहस्तवशमेष्यति । Yuddha Kanda,57,11,आपत्संशयिताश्रेयोनात्रनिस्संशयीकृता ।।6.57.11।। प्रतिलोमानुलोमंवायद्वानोमन्यसेहितम् । Yuddha Kanda,57,12,रावणेनैवमुक्तस्तुप्रहस्तोवाहिनीपतिः ।।6.57.12।। राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना । Yuddha Kanda,57,13,राजन्मन्त्रितपूर्वंनःकुशलैस्सहमन्त्रिभिः ।।6.57.13।। विवादश्चापिनोवृत्तस्समवेक्ष्यपरस्परम् । Yuddha Kanda,57,14,प्रदानेनतुसीतायाःश्रेयोव्यवसितंमया ।।6.57.14।। अप्रदानेपुनर्युद्धंदृष्टमेत्तथैवनः । Yuddha Kanda,57,15,सोऽहंदानैश्चमानैश्चसततंपूजितस्त्वया ।।6.57.15।। सान्त्वैश्चविविधैःकालेकिंनकुर्यांहितंतव । Yuddha Kanda,57,16,नहिमेजीवितंरक्ष्यंपुत्रदारधनानिच ।।6.57.16।। त्वंपश्यमांजुहूषन्तंत्वदर्थेजीवितंयुधि । Yuddha Kanda,57,17,एवमुक्त्वातुभर्तारंरावणंवाहिनीपतिः ।।6.57.17।। उवाचेदंबलाध्यक्षान्प्रहस्तःपुरतःस्थितान् । Yuddha Kanda,57,18,मेशीघ्रंराक्षसानांमहाद्बलम् ।।6.57.18।। Yuddha Kanda,57,19,मद्भाणाब्दावेगेनहतानांशनिचरणाजिरे । अद्यहृष्यन्तुमांसादाःपक्षिणःकाननौकसां ।।6.57.19।। Yuddha Kanda,57,20,इत्युक्तास्तेप्रहस्तेनबलाध्यक्षा: कृतत्वरा: । बलमुद्योजयामासुस्तस्मिन्राक्षसमन्दिरे ।।6.57.20।। Yuddha Kanda,57,21,साबभूवमुहूर्तेननिग्मर्नानाविधायुधैः । लङ्काराक्षसवीरैस्तैर्गजैरिवसमाकुला ।।6.57.21।। Yuddha Kanda,57,22,हुताशनंतर्पयतांब्राह्मणांश्चनमस्यताम् । आज्यगन्धप्रतिवहःसुरभिर्मारुतोववौ ।।6.57.22।। Yuddha Kanda,57,23,स्रजश्चविविधाकाराजगृहुस्त्वभिमन्त्रिताः । सङ्ग्रामसज्जाःसम्हृष्टाधरायन्राक्षसास्तदा ।।6.57.23।। Yuddha Kanda,57,24,सधनुष्काःकवचिनोवेगादाप्लुत्यराक्षसाः । रावणंप्रेक्ष्यराजानंप्रहस्तंपर्यवारयन् ।।6.57.24।। Yuddha Kanda,57,25,अथामन्त्ऱ्यतुराजानंभेरीमाहत्यभैरवाम् । आरुरोहरथंयुक्तःप्रहस्तस्सज्जकल्पितम् ।।6.57.25।। Yuddha Kanda,57,26,हयैर्महाजवैर्युक्तंसम्यक्सूतसुसंयतम् । महाजलदनिर्घोषंसाक्षाच्चन्द्रार्कभास्वरम् ।।6.57.26।। Yuddha Kanda,57,27,उरगध्वजदुर्धर्षंसुवरूथंस्ववस्करम् । सुवर्णजालसंयुक्तंप्रहसन्तमिवश्रिया ।।6.57.27।। Yuddha Kanda,57,28,ततस्तंरथमास्थायरावणार्पितशासनः । लङ्कायानिर्ययौतूर्णंबलेनमहतावृतः ।।6.57.28।। Yuddha Kanda,57,29,ततोदुन्धुभिनिर्घोषःपर्जन्यनिनदोपमः । वादित्राणांचनिनदःपूरयन्निवमेदिनीम् ।।6.57.29।। शुश्रुवेशङ्खशब्दश्चप्रयातेवाहिनीपतौ । Yuddha Kanda,57,30,निनदन्तस्स्वरान्घोरान्राक्षसाजग्मुरग्रतः ।।6.57.30।। भीमरूपामहाकायाःप्रहस्तस्यपुरस्सराः । Yuddha Kanda,57,31,नरान्तकःकुम्भहनुर्महानादस्समुन्नतः ।।6.57.31।। प्रहस्तसचिवाह्येतेनिर्ययुःपरिवार्यतम् । Yuddha Kanda,57,32,व्यूढेनेवसुघोरेणपूर्वद्वारात्सनिर्ययौ ।।6.57.32।। गजयूथनिकाशेनबलेनमहतावृतः । Yuddha Kanda,57,33,सागरप्रतिमौघेनवृतस्तेनबलेनसः ।।6.57.33।। प्रहस्तोनिर्ययौक्रुद्धःकालान्तकयमोपमः । Yuddha Kanda,57,34,तस्यनिर्याणघोषेणराक्षसानांचनर्दताम् ।।6.57.34।। लङ्कायांसर्वभूतानिविनेदुर्विकृतैस्स्वरैः । Yuddha Kanda,57,35,व्यभ्रमाकाशमाविश्यमांसशोणितभोजनाः ।।6.57.35।। मण्डलान्यपसव्यानिखगाश्चक्रूरथंप्रति । Yuddha Kanda,57,36,सम्नत्यःपावकज्वालाःशिवाघोराववाशिरे ।।6.57.36।। अन्तरिक्षात्पपातोल्कावायुश्चपरुषंवनौ । Yuddha Kanda,57,37,अन्योन्यमभिसंरब्धाग्रहाश्चनचकाशिरे ।।6.57.37।। Yuddha Kanda,57,38,मेघाश्चखरनिर्घोषारथस्योपरिरक्षसः । ववृषंरुधिरंचास्यसिषिचुश्चपुरस्सरान् ।।6.57.38।। Yuddha Kanda,57,39,केतुर्मूर्धनिगृध्रोऽस्यनिलीनोदक्षिणामुखः । तुदन्नुभयतःपार्श्वंसमग्रामहरत्प्रभाम् ।।6.57.39।। Yuddha Kanda,57,40,सारथेर्भहुशश्चास्यसङ्ग्राममवगाहतः । प्रतोदोन्यपतद्धस्तात्सूतस्यहयसादिनः ।।6.57.40।। Yuddha Kanda,57,41,निर्याणश्रीश्चयाऽस्यासीद्भास्वरावसुदुर्लभाः । साननाशमुहूर्तेनसमेचस्खलिताहयाः ।।6.57.41।। Yuddha Kanda,57,42,प्रहस्तंत्वभिनिर्यान्तंप्रख्यातबलपौरुषम् । युधिनानाप्रहरणाकपिसेनाऽभ्यवर्तत ।।6.57.42।। Yuddha Kanda,57,43,अथघोषस्सुतुमुलोहरीणांसमजायत । वृक्षानारुजतांचैवगुर्वीरागृह्णतांशिलाः ।।6.57.43।। Yuddha Kanda,57,44,नदतांराक्षसानांचवानराणांचगर्जताम् । उभेप्रमुदितेसैन्येरक्षोगणवनौकसाम् ।।6.57.44।। Yuddha Kanda,57,45,वेगितानांसमर्थानामन्योन्यवधकाङ् क्षिणाम् । परस्परंचाह्वयतांनिनाद्शूयतेमहान् ।।6.57.45।। Yuddha Kanda,57,46,ततःप्रहस्तःकपिराजवाहिनीमभिप्रतस्थेविजयायदुर्मतिः । विवृद्धवेगंश्चविवेशतांचमूंयथामुमूर्षुश्शलभोविभावसुम् ।।6.57.46।। Yuddha Kanda,58,1,ततःप्रहस्तंनिर्यान्तंदृष्टवाभीमपराक्रमम् । उवाचसस्मितंरामोविभीषणमरिन्दमः ।।6.58.1।। Yuddha Kanda,58,2,कएषस्सुमहाकायोबलेनमहतावृतः । आचक्ष्वमेमहाबाहो वीर्यवन्तंनिशाचरम् ।।6.58.2।। Yuddha Kanda,58,3,राघवस्यवचश्श्रुत्वाप्रत्युवाचविभीषणः ।।6.58.3।। Yuddha Kanda,58,4,एषसेनापतिस्तस्यप्रहस्तोनामराक्षसः । लङ्कायांराक्षसेन्द्रस्यत्रिभागबलसम्वृतः ।।6.58.4।। वीर्यवानस्त्रविच्छूरःसुप्रख्याश्चपराक्रमे । Yuddha Kanda,58,5,ततःप्रहस्तंनिर्यान्तंभीमंभीमपराक्रमम् ।।6.58.5।। Yuddha Kanda,58,6,गर्जन्तंसुमहाकायंराक्षसैरभिसम्वृतम् । ददर्शमहतीसेनावानराणांबलीयसाम् ।।6.58.6।। अभिसञ्जातरोषाणांप्रहस्तमभिगर्जताम् । Yuddha Kanda,58,7,खडगशक्त्यृष्णिबाणाश्चशूलानिमुसलानिच ।।6.58.7।। Yuddha Kanda,58,8,गदाश्चपरिघाःप्रासाविविधाश्चपरिश्वधाः । नूंषिचविचित्राणिराक्षसानांजयैषिणाम् ।।6.58.8।। प्रगृहीतान्यशोभन्तवानरानभिधावताम् । Yuddha Kanda,58,9,जगृहुःपादपांश्चापिपुष्पितान्वानरर्षभाः ।।6.58.9।। शिलाश्चविपुलादीर्घायोद्धुकामाःप्लवङ्गमाः । Yuddha Kanda,58,10,तेषामन्योन्यमासाद्यसङ्ग्रामःसुमहानभूत् ।।6.58.10।। बहूनामश्मवृष्टिंचशरवर्षंचवर्षताम् । Yuddha Kanda,58,11,बहवोराक्षसायुद्धेबहून्वानरयूधपान् ।।6.58.11।। वानराराक्षसांश्चापिनिजघ्नुर्बहवोबहून् । Yuddha Kanda,58,12,शूलैःप्रमथिताःकेचित्केचिच्चपरमायुधैः ।।6.58.12।। परिघैराहताःकेचित्केचिच्छिन्नाःपरश्वधैः । Yuddha Kanda,58,13,निरुच्छवासाःकृता: केचित्पतिताधरणीतले ।।6.58.13।। विभिन्नहृदयाःकेचिदिषुसन्धानसन्दिताः । Yuddha Kanda,58,14,केचिव्दिधाकृताःखडगैःस्फुरन्तःपतिताभुवि ।।6.58.14।। वानराराक्षसैश्शूलैपार्श्वतश्चावदारिताः । Yuddha Kanda,58,15,वानरैश्चापिसङ्क्रुद्धैराक्षसौघाःसमन्ततः ।।6.58.15।। पादपैर्गिरिशृङ्गैश्चसम्पिष्टावसुधातले । Yuddha Kanda,58,16,वज्रस्पर्शतलैर्हस्स्सैर्मुष्टिभिश्चहताभृशम् ।।6.58.16।। वेमुश्शोणितमास्येभ्योविशीर्णदशनेक्षणाः । Yuddha Kanda,58,17,आर्तस्वनंचस्वनतांसिंहनादंचनर्दताम् ।।6.58.17।। बभूवतुमुलश्शब्दोहरीणांरक्षसांयुधि । Yuddha Kanda,58,18,वानराराक्षसाःक्रुद्धावीरमार्गमनुव्रताः ।।6.58.18।। विवृत्तनयनाःक्रूराश्चक्रुःकर्माण्यभीतवत् । Yuddha Kanda,58,19,नरान्तकःकुम्भहनुर्महानादस्समुन्नतः ।।6.58.19।। एतेप्रहस्तसचिवास्सर्वेजघ्नुर्वनौकसः । Yuddha Kanda,58,20,तेषामापततांशीघ्रंनिघ्नतांचापिवानरान् ।।6.58.20।। द्विविदोगिरिशृङ्गेणजघानैकंनरान्तकम् । Yuddha Kanda,58,21,दुर्मुखःपुनरुत्थायकपिस्सविपुलद्रुमम् ।।6.58.21।। राक्षसंक्षिप्रहस्तस्तुसमुन्नतमपोथयत् । Yuddha Kanda,58,22,जाम्बवांस्तुसुसङ्क्रुद्धःप्रगृह्यमहतींशिलाम् ।।6.58.22।। पातयामासतेजस्वीमहानादस्यवक्षसि । Yuddha Kanda,58,23,अथकुम्भहनुस्तत्रतारेणासाद्यवीर्यवान् ।।6.58.23।। वृक्षेणाभिहतोमूर्ध्निप्राणान्सन्त्याजयद्रणे । Yuddha Kanda,58,24,अमृष्यमाणस्तत्कर्मप्रहस्तोरथमाश्रितः ।।6.58.24।। चकारकदनंघोरंधनुष्पाणिर्वनौकसाम् । Yuddha Kanda,58,25,आवर्तइवसञ्जज्ञेसेनयोरुभयोस्तदा ।।6.58.25।। क्षुभितस्याप्रमेयस्यसागरस्येवनिस्स्वनः । Yuddha Kanda,58,26,महताहिशरौघेणप्रहस्तोयुद्धकोविदः ।।6.58.26।। अर्दयामाससङ्क्रुद्धोवानरान् परमाहवे । Yuddha Kanda,58,27,वानराणांशरीरैश्चराक्षसानांचमेदिनी ।।6.58.27।। बभून्विचिताघोराःपतितैरिवपर्वतै । Yuddha Kanda,58,28,सामहीरुधिरौघेणप्रच्छन्नासम्प्रकाशते ।।6.58.28।। सञ्छन्नामाधवेमासिपलाशैरिवपुष्पितैः । Yuddha Kanda,58,29,हतवीरौघवस्रांतुभग्नायुधमहाद्रुमाम् ।।6.58.29।। Yuddha Kanda,58,30,शोणितौघमहातोयांयमसागरगामिनीम् । यकृत् प्लीहमहापङ्कान्वििकीर्णान्त्रशैवलाम् ।।6.58.30।। Yuddha Kanda,58,31,भिन्नकायशिरोमीनामङ्गावयवशाद्वलाम् । गृध्रहंसगणाकीर्णांकङ्कसारससेविताम् ।।6.58.31।। Yuddha Kanda,58,32,मेदःफेनसमाकीर्णामार्तस्न्तितस्वनाम् । तांकापुरषुदुस्तारांयुद्धभूमिमयींनदीम् ।।6.58.32।। Yuddha Kanda,58,33,नदीमिवघनापायेहंससारससेविताम् । राक्षसाःकपिमुख्याश्चतेरुस्तांदुस्तरांनदीम् ।।6.58.33।। यथापद्मरजोध्वस्तांनळिनींगजयूथपाः । Yuddha Kanda,58,34,ततःसृजन्तंबाणौघान्प्रहस्तंस्यन्दनेस्थितम् ।।6.58.34।। ददर्शतरसानीलोनिघ्नन्तंप्लवङ्गमान् । Yuddha Kanda,58,35,उद्धूतइववायुःखेमहदभ्रबलंबलात् ।।6.58.35।। Yuddha Kanda,58,36,समीक्ष्याभिद्रुतंयुद्धेप्रहस्तोवाहिनीपतिः । रथेनादित्यवर्णेननीलमेवाभिदुद्रुवे ।।6.58.36।। Yuddha Kanda,58,37,सधनुर्धन्विनांश्रेष्ठोविकृष्यपरमाहवे ।।6.58.37।। नीलायव्यसृजद्बाणान्प्रहस्तोवाहिनीपतिः । Yuddha Kanda,58,38,तेप्राप्यविशिखानीलंविनिर्भिद्यसमाहिताः ।।6.58.38।। महींजग्मुर्महावेगारुषिताइवपन्नगाः । Yuddha Kanda,58,39,नीलःशरैरभिहतोनिशितैर्ज्वलनोपमैः ।।6.58.39।। Yuddha Kanda,58,40,सतंपरमदुर्धर्षमापतन्तंमहाकपिः । प्रहस्तंताडयामासवृक्षमुत्पाट्यवीर्यवान् ।।6.58.40।। Yuddha Kanda,58,41,सतेनाभिहतःक्रुद्धोनदन्राक्षसपुङ्गवः । ववर्षशरवर्षाणिप्लवङ्गानांचमूपतौ ।।6.58.41।। Yuddha Kanda,58,42,तस्यबाणगणान्घारान्राक्षसस्यमहाबलः । अपारयन्वारयितुंप्रत्यगृह्णान्निमीलितः ।।6.58.42।। Yuddha Kanda,58,43,यथैवगोवृषोवर्षंशारदंशीघ्रमागतम् । एवमेवप्रहस्तस्यशरवर्षंदुरासदम् ।।6.58.43।। निमीलिताक्षस्सहसानीलस्सेहेदुरासदान् । Yuddha Kanda,58,44,रोषितश्शरवर्षेणसालेनमहतामहान् । प्रजघानहयाननीलःप्रहस्तस्यमहाबलः ।।6.58.44।। Yuddha Kanda,58,45,ततन्सचापमुद्गृह्यप्रहस्तस्यमहाबलः । बभञ्जतरसानीलोननादचपुनःपुनः ।।6.58.45।। Yuddha Kanda,58,46,विधनुस्तुकृतस्तेनप्रहस्तोवाहिनीपतिः । प्रगृह्यमुसलंघोरंस्यन्दनादवपुप्लुवे ।।6.58.46।। Yuddha Kanda,58,47,तावुभौवाहिनीमुख्यौजातवैरौतरस्विनौ । स्थितौक्षतजगदिग्धाङ्गौप्रभिन्नाविवकुञ्जरौ ।।6.58.47।। Yuddha Kanda,58,48,उल्लिखन्तौसुतीक्ष्णाभिर्दंष्ट्राभिरितरेतरम् । सिंहशार्दूलसदृशौसिंहशार्दूलचेष्टितौ ।।6.58.48।। Yuddha Kanda,58,49,विक्रान्तविजयौवीरौसमरेष्न्विवर्तिनौ । काङ्क्षमाणौयशःप्राप्तुंवृत्रवासवयोस्सह ।।6.58.49।। Yuddha Kanda,58,50,आजघानतदानीलंललाटेमुसलेनसः । प्रहस्तःपरमायत्तस्ततस्सुस्रावशोणितम् ।।6.58.50।। Yuddha Kanda,58,51,ततःशोणितदिग्धाङ्गःप्रगृह्यसुमहातरुम् । प्रहस्तस्योरसिक्रुद्धोविससर्जमहाकपिः ।।6.58.51।। Yuddha Kanda,58,52,तमचिन्त्यप्रहारंसप्रगृह्यमुसलंमहत् । अभिदुद्रावबलिनंबलाननीलंप्लवङ्गमम् ।।6.58.52।। Yuddha Kanda,58,53,तमुग्रवेगंसंरब्धमापतन्तंमहाकपिः । ततस्सम्प्रेक्ष्यजग्राहमहावेगोमहाशिलाम् ।।6.58.53।। Yuddha Kanda,58,54,तस्ययुद्धाभिकामस्यमृथेमुसलयोधिन । प्रहस्तस्यशिलांनीलोमूर्ध्नितूर्णमपातयत् ।।6.58.54।। Yuddha Kanda,58,55,सातेनकपिमुख्येनविमुक्तामहतीशिला । बिभेदबहुधाघोराप्रहस्तस्यशिरस्तदा ।।6.58.55।। Yuddha Kanda,58,56,सगतासुर्गतश्रीकोगतसत्त्वोगतेन्द्रियः । पपातसहसाभूमौछिन्नमूलइवद्रुमः ।।6.58.56।। Yuddha Kanda,58,57,विभिन्नशिरसस्तस्यबहुसुस्रावशोणितम् । शरीरादपिसुस्रावगिरेःप्रस्रवणंयथा ।।6.58.57।। Yuddha Kanda,58,58,हतेप्रहस्तेनीलेनतदकम्प्यंमहाबलम् । राक्षसानामहृष्टानांलङ्कामभिजगामह ।।6.58.58।। Yuddha Kanda,58,59,नशेकुस्समवस्थातुंनिहतेवाहिनीपतौ । सेतुबन्धंसमासाद्यविशीर्णंसलिलंयथा ।।6.58.59।। Yuddha Kanda,58,60,हतेतस्मिंश्चमूमुख्येराक्षसास्तेनिरुद्यमाः । रक्षःपतिगृहंगत्वाध्यानमूकत्वमास्थिताः ।।6.58.60।। प्राप्ताश्शोकार्णवंतीव्रंनिस्सज्ञौइवतेऽभवन् । Yuddha Kanda,59,1,तस्मिन्हतेराक्षससैन्यपालेप्लवङ्गमानामृषभेणयुद्धे । भीमयुधंसागरतुल्यवेगंविदुद्रुवेराक्षसराजसैन्यम् ।।6.59.1।। Yuddha Kanda,59,2,गत्वाऽथरक्षोधिपतेश्शशंसुस्सेनापतिंपावकसूनुशस्तम् । तच्छापितेषांवचनंनिशम्यरक्षोधिपःक्रोधवशंजगाम ।।6.59.2।। Yuddha Kanda,59,3,सङ् ख्येप्रहस्तंनिहतंनिशम्यशोकार्दितःक्रोधपरीतचेताः । उवाचतान्राक्षसयूथमुख्यानिन्द्रोयथानिर्जरयोथमुख्यान् ।।6.59.3।। Yuddha Kanda,59,4,नावज्ञारिपवेकार्यायैरिन्द्रबलसूदनः । सूदितस्सैन्यपालोमेसानुयात्रस्सकुञ्जरः ।।6.59.4।। Yuddha Kanda,59,5,सोऽहंरिपुविनाशायविजयायाविचारयन् । स्वयमेवगमिष्यामिरणशीर्षंतदद्भुतम् ।।6.59.5।। Yuddha Kanda,59,6,अद्यतद्वानरानीकंरामंचसहलक्ष्मणम् । निर्दहिष्यामिबाणौघैर्वनंदीप्स्सैरिवानगिभिः ।।6.59.6।। Yuddha Kanda,59,7,सएवमुक्त्वाज्वलनप्रकाशंरथंतुरङ्गोत्तमराजयुक्तम् । प्रकाशमानंवपुषाज्वलन्तंसमारुरोहामरराजशत्रुः ।।6.59.7।। Yuddha Kanda,59,8,सशङ्खभेरीपणवप्रणादैरास्फोटितक्षेळ्वितसिंहनादैः । पुण्यैस्स्तवैश्चाप्यभिपूज्यमानस्तदाययौराक्षसराजमुख्य:।। 6.59.8।। Yuddha Kanda,59,9,सशैलजीमून्तिकाशरूपैर्मांसादनैःपावकदीप्तनेत्रैः । बभौवृतोराक्षसराजमुख्योभूतैर्वृतोरुद्रइवासुरेशः ।।6.59.9।। Yuddha Kanda,59,10,ततोनगर्यास्सहसामहौजानिष्क्रम्यतद्वानरसैन्यमुग्रम् । महार्णवाभ्रस्तनितंददर्शसमुद्यतंपादपशैलहस्तम् ।।6.59.10।। Yuddha Kanda,59,11,तद्राक्षसानीकमतिप्रचण्डमालोक्यरामोभुजगेन्द्रबाहुः । विभीषणंशस्त्रभृतांवरिष्ठमुवाचसेवानुगतःपृथुश्रीः ।।6.59.11।। Yuddha Kanda,59,12,नानापताकध्वजशस्त्रजुष्टंप्रासासिशूलायुथवज्रजुष्टम् । कस्येदमक्षोभ्यमभीरुजुष्टंमहेन्द्रोपमनागजुष्टम् ।।6.59.12।। Yuddha Kanda,59,13,ततस्तुरामस्यनिशम्यवाक्यंविभीषणंश्शक्रसमानवीर्यः । शशंसरामस्यबलप्रवेगंमहात्मनांराक्षसपुङ्गवानाम् ।।6.59.13।। Yuddha Kanda,59,14,योऽसौगजस्कन्धगतोमहात्मानवोदितार्कोपमताम्रवक्त्रः । प्रकम्पयन्नागशिरोऽभ्युपैतिह्यकम्पनंत्वेनमवेहिराजन् ।।6.59.14।। Yuddha Kanda,59,15,योऽसौरथस्थोमृगराजकेतुर्दून्वस्थिन्दनुश्शक्रधनुःप्रकाशम् । करीवभात्युग्रविवृत्तदंष्ट्रस्सइन्द्रजिन्नामवरप्रधानः ।।6.59.15।। Yuddha Kanda,59,16,यश्चैषव्निध्यास्तमहेन्द्रकल्पोधन्वीरथस्थोऽतिरथोतिवीरः । विष्पारयन् चापमतुल्यमानंनाम्नातिकायोऽतिविवृद्धकायः ।।6.59.16।। Yuddha Kanda,59,17,योऽसौनवार्कोदितताम्रचक्षुरारुह्यघण्टानिनदप्रणादम् । गजंखरंगर्जतिवैमहात्मामहोदरोनामसएषःवीरः ।।6.59.17।। Yuddha Kanda,59,18,योऽसौहयंकाञ्चनचित्रभाण्डमारुह्यसन्ध्याभ्रगिरिप्रकाशम् । प्रासंसमुद्यम्यमरीचिनद्धंपिशाचएषोऽशनितुल्यवेगः ।।6.59.18।। Yuddha Kanda,59,19,यश्चैषशूलंनिशितंप्रगृह्यविद्युत्प्रभंकिङ्करवज्रवेगम् । वृषेन्द्रमास्थायगिरिप्रकाशमायातियोऽसौत्रिशिरायशस्वी ।।6.59.19।। Yuddha Kanda,59,20,असौचजीमूतनिकाशरूपःकुम्भःपृथुव्यूढसुजातवक्षाः । समाहितःपन्नगराजकेतुर्विष्पारयन्यातिधनुर्विधून्वन् ।।6.59.20।। Yuddha Kanda,59,21,यश्चैषजाम्बूनदवज्रजुष्टंदीप्तंसधूमंपरिघंप्रगृह्य । आयातिरक्षोबलकेतुभूतःसोऽसौनिकुम्भोऽद्भुतघोरकर्मा ।।6.59.21।। Yuddha Kanda,59,22,यश्चैषचापासिशरौघजुष्टंपताकिनंपावकदीप्तरूपम् । रथंसमास्थायविभात्युदग्रोनरान्तकोऽसौनगशृङ्गयोधी ।।6.59.22।। Yuddha Kanda,59,23,यश्चैषनानाविधघोररूपैर्व्याघ्रोष्ट्रनागेन्द्रमृगाश्ववक्त्रै: । भूतैर्वृतोभातिविवृत्तनेत्स्रैसोऽसौसुराणामपिदर्पहन्ता ।।6.59.23।। Yuddha Kanda,59,24,त्रैतदिन्दुप्रतिमंविभातिछत्रंसितंसूक्ष्मशलाकमग्य्रम् । अत्रैषरक्षोधिपतिर्महात्माभूतैर्वृतोरुद्रइवावभाति ।।6.59.24।। Yuddha Kanda,59,25,असौकिरीटीचलकुण्डलास्योनगेन्द्रविन्ध्योपमभीमकायः । महेन्द्रवैवस्वतदर्पहन्तारक्षोधिपस्सूर्यइवावभाति ।।6.59.25।। Yuddha Kanda,59,26,प्रत्युवाचततोरामोविभीषणमरिन्दम् । अहोदीप्तमहातेजारावणोराक्षसेश्वरः ।।6.59.26।। Yuddha Kanda,59,27,आदित्यइवदुष्प्रेक्ष्योरश्मिभिर्भातिरावणः । सुव्यक्तंलक्ष्यतेह्यस्यरूपंतेजःसमावृतम् ।।6.59.27।। Yuddha Kanda,59,28,देवदानववीराणांवपुर्नैवंविधंभवेत् । यादृशंराक्षसेन्द्रस्यवपुरेतत्प्रकाशते ।।6.59.28।। Yuddha Kanda,59,29,सर्वेपर्वतसङ्काशास्सर्वेपर्वतयोधिनः । सर्वेदीप्तायुधधरायोधाश्चास्यमहोजस:।। 6.59.29।। Yuddha Kanda,59,30,भातिरक्षोराजोऽसौप्रदीप्त्तैर्भीमविक्रमैः । भूतैःपरिवृतस्तीक्ष्णैर्देहवद्भिरिवान्तकः ।।6.59.30।। Yuddha Kanda,59,31,दिष्ट्याऽयमद्यपापात्माममदृष्टिपथंगतः । अद्यक्रोधंविमोक्ष्यामिसीताहरणसम्भवम् ।।6.59.31।। Yuddha Kanda,59,32,एवमुक्त्वाततोरामोधनुरादायवीर्यवान् । लक्ष्मणानुचरस्तस्थौसमुद्धृत्यशरोत्तमम् ।।6.59.32।। Yuddha Kanda,59,33,ततःसरक्षोधिपतिर्महात्मारक्षांसितान्याहमहाबलानि । द्वारेषुचर्यागृहगोपुरेषुसुनिर्वृतास्तिष्ठतनिर्विशङ्काः ।।6.59.33।। Yuddha Kanda,59,34,हाऽगतंमांसहितंभवद्भिर्वनौकसश्छिद्रमिदंविदित्वा । शून्यापुरींदुष्प्रसहांप्रमथ्यप्रधर्षयेयुस्सहसासमेताः ।।6.59.34।। Yuddha Kanda,59,35,विसर्जयित्वासचिवांस्ततस्तान्गतेषुरक्षस्सुयथानियोगम् । व्यचारयद्वानरसागरौघंमहाझषःपूर्णमिवार्णवौघम् ।।6.59.35।। Yuddha Kanda,59,36,तमापतन्तंसहसासमीक्ष्यदीप्तेषुचापंयुधिराक्षसेन्द्रम् । महत्समुत्पाट्यमहीधराग्रंदुद्रावरक्षोधिपतिंहरीशः ।।6.59.36।। Yuddha Kanda,59,37,तच्छैलशृङ्गंबहुवृक्षसानुंप्रगृह्यचिक्षेपनिशाचराय । तमापतन्तंसहसासमीक्ष्यचिच्छेदबाणैस्तपनीयपुङ्खैः ।।6.59.37।। Yuddha Kanda,59,38,तस्मिन् प्रवृद्धोत्तमसानुवृक्षेशृङ्गेविकीर्णेपतितेपृथिव्याम् । महाहिकल्पंशरमन्तकाभंसमादधेराक्षसलोकनाथः ।।6.59.38।। Yuddha Kanda,59,39,सतंगृहीत्वाऽनिलतुल्यवेगंसविस्फुलिङ्गज्वलनप्रकाशम् । बाणंमहेन्द्राशनितुल्यवेगंचिक्षेपसुग्रीववधायरुष्टः ।।6.59.39।। Yuddha Kanda,59,40,ससायकोरावणबाहुमुक्तःशक्राशनिप्रख्यवपुश्शिताग्रः । सुग्रीवमासाद्यबिभेदवेगाद्गुहेरिताक्रौञ्चमिवोग्रशक्तिः ।।6.59.40।। Yuddha Kanda,59,41,ससायकार्तोविपरीतचेताःकूजन्पृथिव्यांनिपपातवीरः । तंप्रेक्ष्यभूमौपतितंविसंज्ञंनेदुःप्रहृष्टायुधियातुधानाः ।।6.59.41।। Yuddha Kanda,59,42,ततोगवाक्षोगवयस्सुदंष्ट्रस्त्वथर्षभोज्योतिमुखोनलश्च । शैलान् समुत्पाट्यविवृद्धकायाःप्रदुद्रुवुस्तंप्रतिराक्षसेन्द्रम् ।।6.59.42।। Yuddha Kanda,59,43,तेषांप्रहारान् सचकारमोघान् रक्षोधिपोबाणशतैःशिताग्रैः । तान्वानरेन्द्रानपिबाणजालैर्बिभेदजाम्बूनदचित्रपुङ्खैः ।।6.59.43।। Yuddha Kanda,59,44,तेवानरेन्द्रास्त्रिदशारिबाणैर्भिन्नानिपेतुर्भुविभीमकायाः । ततस्तुतद्वानरसैन्यमुग्रंप्रच्छादयामाससबाणजालैः ।।6.59.44।। Yuddha Kanda,59,45,तेवध्यमानाःपतिताःप्रवीरानानद्यमानाभयशल्यविद्धाः । शाखामृगारावणसायकार्ताजग्मुश्शरण्यंशरणंस्मरामम् ।।6.59.45।। Yuddha Kanda,59,46,ततोमहात्मासधनुर्धनुष्मानादायरामस्सहसाजगाम । तंलक्ष्मणःप्राञ्जलिरभ्युपेत्यउवाचवाक्यंपरमार्थयुक्तम् ।।6.59.46।। Yuddha Kanda,59,47,काममार्यस्सुपर्याप्तोवधायास्यदुरात्मनः । विधमिष्याम्यहंचैतमनुजानीहिमांविभो ।।6.59.47।। Yuddha Kanda,59,48,तमब्रवीन्महातेजारामस्सत्यपराक्रमः । गच्छयत्नपरश्चापिभवलक्ष्मण संयुगे ।।6.59.48।। Yuddha Kanda,59,49,रावणोहिमहावीर्योरणेऽद्भुतपराक्रमः । त्रैलोक्येनापिसङ्क्रुद्धोदुष्प्रसह्योनसंशयः ।।6.59.49।। Yuddha Kanda,59,50,तस्यच्छिद्राणिमार्गस्वस्वच्छिद्राणिचलक्ष्य । चक्षुषाधनुषायत्ना प्रक्षात्मानंसमाहितः ।।6.59.50।। Yuddha Kanda,59,51,राघवस्यवचश्श्रुत्वासपरिष्वज्याभिपूज्यच । अभिवाद्यतत् रामंययौसौमित्रिराहवम् ।।6.59.51।। Yuddha Kanda,59,52,सरावणंवारणहस्तबाहुंददर्शभीमोद्यतदीप्तचापम् । प्रच्छादयन्तंशरवृष्टिजालैस्तान्वानराभनिन्नविकीर्णदेहान् ।।6.59.52।। Yuddha Kanda,59,53,तमालोक्यमहातेजाहनूमान्मारुतात्मजः । निवार्यशरजालानिप्रदुद्रावसरावणम् ।।6.59.53।। Yuddha Kanda,59,54,रथंतस्यसमासाद्यबाहुमुद्यम्यदक्षिणम् । त्रासयन्रावणंधीमान्हनूमान्वाक्यमब्रवीत् ।।6.59.54।। Yuddha Kanda,59,55,देवदानवगन्धर्वायक्षाश्चसहराक्षैसैः । अवश्यंतुत्वयाभग्नावानरेभ्यस्तुतेभयम् ।।6.59.55।। Yuddha Kanda,59,56,एषमेदक्षिणोबाहुःपञ्चशाखःसमुद्यतः । विधमिष्यतितेदेहाद्भूतात्मानंचिरोषितम् ।।6.59.56।। Yuddha Kanda,59,57,श्रुत्वाहनुमतोवाक्यंरावणोभीमविक्रमः । संरक्तनयनःक्रोधादिदंवचनमब्रवीत् ।।6.59.57।। Yuddha Kanda,59,58,क्षिप्रंप्रहरनिःशङ्कंस्थिरांकीर्तिमवाप्नुहि । ततस्त्वांज्ञातविक्रान्तंनाशयिष्यामिवानर ।।6.59.58।। Yuddha Kanda,59,59,रावणस्यवचश्श्रुत्वावायुसूनुर्वचोऽब्रवीत् । प्रहृतंहिमयापूर्वमक्षंतवसुतंतव ।।6.59.59।। Yuddha Kanda,59,60,एवमुक्तोमहातेजारावणोराक्षसेश्वरः । आजघानानिलसुतंतलेनोरसिवीर्यवान् ।।6.59.60।। Yuddha Kanda,59,61,सतलाभिहतस्तेनचचालचमुहुर्मुहुः । स्थित्वामुहूर्तंतेजस्वीस्थैर्यंकृत्वामहामतिः ।।6.59.61।। आजघानाभिसङ्कृद्धस्तलेनैवामरद्विषम् । Yuddha Kanda,59,62,ततस्ततेनाभिहतोवानरेणमहात्मना ।।6.59.62।। दशग्रीवःसमाधूतोयथाभूमिचलेऽचलः । Yuddha Kanda,59,63,सङ्ग्रामेतंतथादृष्टवारावणंतलताडितम् ।।6.59.63।। ऋषयोवानराःसिद्धानेदुर्देवास्सहासुरैः । Yuddha Kanda,59,64,अथाऽश्वास्यमहातेजारावणोवाक्यमब्रवीत् ।।6.59.64।। साधुवानर वीर्येणश्लाघनीयोऽसिमेरिपुः । Yuddha Kanda,59,65,रावणेनैवमुक्तस्तुमारुतिर्वाक्यमब्रवीत् ।।6.59.65।। धिगस्तुममवीर्येणयस्त्वंजीवसिरावण । Yuddha Kanda,59,66,सकृत्तुप्रहरेदानींदुर्भुद्धे किंविकत्थसे ।।6.59.66।। ततस्त्वांमामिकामुष्टिर्नयिष्यतियमक्षयम् । Yuddha Kanda,59,67,तोमारतिवाक्येनकोधस्तस्यतदाऽज्वलत् ।।6.59.67।। Yuddha Kanda,59,68,संरक्तनयनोयत्नान्मुष्टिमुद्यम्यदक्षिणम् । पातयामासवेगेनवानरोरसिवीर्यवान् ।।6.59.68।। Yuddha Kanda,59,69,हनूमान् वक्षसिव्यूढेसञ्चचालहतःपुनः । विह्वलंतुतदादृष्टवाहनूमन्तंमहाबलम् ।।6.59.69।। रथेनातिरथशशीघ्रंनीलंप्रतिसमभ्यगात् । Yuddha Kanda,59,70,राक्षसानामधिपतिर्धशग्रीवःप्रतापवान् ।।6.59.70।। Yuddha Kanda,59,71,पन्नगप्रतिमैर्भीमैःपरमर्माभिभेदिभिः । शरैरादीपयामासनीलंहरिचमूपतिम् ।।6.59.71।। Yuddha Kanda,59,72,सशरौघसमायस्तोनीलःकपिचमूपतिः । करेणेकैनेशैलाग्रंरक्षोधिपतयेऽसृजत् ।।6.59.72।। Yuddha Kanda,59,73,हनूमानपितेजस्वीसमाश्वस्तोमहामनाः । विप्रेक्षमाणोयुद्धेप्सुस्सरोषमिदमब्रवीत् ।।6.59.73।। Yuddha Kanda,59,74,नीलेनसहसंयुक्तंरावणंराक्षसेश्वरम् । अन्येनयुद्यमानस्यनयुक्तमभिधावनम् ।।6.59.74।। Yuddha Kanda,59,75,रावणोऽपिमहातेजास्तंच्छृङ्गंसप्तभिःशरैः । आजघानसुतीक्ष्णाग्रैस्तद्विकीर्णंपपातह ।।6.59.75।। Yuddha Kanda,59,76,तद्विकीर्णंगिरेश्शृङ्गंदृष्टवाहरिचमूपतिः । कालानगिरिवजज्वालकोपेनपरवीरहा ।।6.59.76।। Yuddha Kanda,59,77,सोऽश्वकर्णान्धान् शालांश्चूताश्चापिसुपुष्पितान् । अन्यांश्चविविधान् वृक्षान्नीलश्चिक्षेपसंयुगे ।।6.59.77।। Yuddha Kanda,59,78,सतान्वृक्षान् समासाद्यप्रतिचिच्छेदरावणः । अभ्यवर्षत्सुघोरेणशरवर्षेणपावकिम् ।।6.59.78।। Yuddha Kanda,59,79,अभिवृष्टश्शरौघेणमेघेनेवमहाबलः । ह्रस्वंकृत्वाततोरूपंध्वजाग्रेनिपपातह ।।6.59.79।। Yuddha Kanda,59,80,पावकात्मजमालोक्यध्वजाग्रेसमवस्थितम् । जज्वालरावणःक्रोधात्ततोनीलोननादच ।।6.59.80।। Yuddha Kanda,59,81,ध्वजाग्रेधनुषश्चाग्रेकिरीटाग्रेचतंहरिम् । लक्ष्मणोऽथहनूमांश्चदृष्टवारामश्चविस्मिताः ।।6.59.81।। Yuddha Kanda,59,82,रावणोऽपिमहातेजाःकपिलाघवविस्मितः । अस्त्रमाहारयामासदीप्तमाग्नेयमद्भुतम् ।।6.59.82।। Yuddha Kanda,59,83,ततस्तेचुक्रुशुर्हृष्टालब्दलक्षाःप्लवङ्गमाः । नीललाघवसम्भ्रान्तंदृष्टवारावणमाहवे ।।6.59.83।। Yuddha Kanda,59,84,वानराणांचनादेवसंरब्दोरावणस्तदा । सम्भ्रमाविष्टहृदयोनकिञ्चित्प्रत्यपद्यत ।।6.59.84।। Yuddha Kanda,59,85,आग्नेयेनाधसंयुक्तंगृहीत्वारावणश्शरम् । ध्वजशीर्षस्थितंसीलमुदैक्षतनिशाचरः ।।6.59.85।। Yuddha Kanda,59,86,ततोऽब्रवीन्महातेजारावणोराक्षसेश्वरः । कपेलाघवयुक्तोऽसिमाययापरयाऽनया ।।6.59.86।। Yuddha Kanda,59,87,जीवितंखलुरक्षस्वयदिशक्तोऽपिवानर । तानितान्यात्मरूपाणिसृजसित्वमनेकशः ।।6.59.87।। Yuddha Kanda,59,88,तथापित्वांमयामुक्तस्सायोकोऽस्त्रप्रयोजितः । जीवितंपरिरक्षन्तंजीविताद्भ्रंशयिष्यति ।।6.59.88।। Yuddha Kanda,59,89,एवमुक्त्वामहाबाहूरावणोराक्षसेश्वरः । सन्धायबाणमस्त्रणचमूपतिमताडयत् ।।6.59.89।। Yuddha Kanda,59,90,सोऽस्त्रयुक्तेनबाणेननीलोवक्षसिताडितः । निर्धह्यमानस्सहसानिपपातमहीतले ।।6.59.90।। Yuddha Kanda,59,91,पितृमहात्म्यसंयोगात्मनश्चापितेजसा । जानुभ्यानुपतद्भूमौनतुप्राणैर्व्ययुज्यत ।।6.59.91।। Yuddha Kanda,59,92,विसंज्ञंवानरंदृष्टवादशग्रीवोरणोत्सुकः । रथेनाम्बुदनादेनसौमित्रिमभिदुद्रुवे ।।6.59.92।। Yuddha Kanda,59,93,आसाद्यरणमध्येतंवारयित्वास्थितोज्वलन् । धनुर्विष्फारयामासकम्पयन्निवमेदिनीम् ।।6.59.93।। Yuddha Kanda,59,94,तमाहसौमित्रिरदीनसत्त्वोविष्फारयन्तंधनुरप्रमेयम् । अभ्येहिमामद्यनिशाचरेन्द्रनवानरांस्त्वप्रतियोद्धुमर्हः ।।6.59.94।। Yuddha Kanda,59,95,सतस्यवाक्यंप्रतिपूर्णघोषंज्याशब्दमुग्रंचनिशम्यराजा । आसाद्यसौमित्रिमवस्थितंतंकोपान्वितोवाचमुवाचरक्षः ।।6.59.95।। Yuddha Kanda,59,96,दिष्ट्यासिमेराघव दृष्टिमार्गंप्राप्तोऽन्तगामीविपरीतबुद्धिः । अस्मिन् क्षणेयास्यसिमृत्युदेशंसम्पाद्यमानोममबाणजालैः ।।6.59.96।। Yuddha Kanda,59,97,तमाहसौमित्रिरविस्मयानोगर्जन्तमुद्वृत्तसिताग्रदंष्ट्रम् । राजन्नगर्जन्तिमहाप्रभावाविकत्थसेपापकृतांवरिष्ठ ।।6.59.97।। Yuddha Kanda,59,98,जानामिवीर्यंतवराक्षसेन्द्रबलंप्रतापंचपराक्रमंच । अवस्थितोऽहंशरचापपाणिरागच्छकिंमोघविकत्थनेन ।।6.59.98।। Yuddha Kanda,59,99,सएवमुक्तःकुपितस्ससर्जरक्षोथिपस्सप्तशरान् सुपुङ्खान् । तान्लक्ष्मणःकाञ्चनचित्रिपुङ्खैश्चिच्छेदबाणैर्निशिताग्रधारैः ।।6.59.99।। Yuddha Kanda,59,100,तान् प्रेक्षमाणस्सहसानिकृत्तानिकृत्तभोगानिवपन्नगेन्द्रान् । लङ्केश्वरःक्रोधवशंजगामससर्जचान्यान्निशितान्पृषत्कान् ।।6.59.100।। Yuddha Kanda,59,101,सबाणवर्षंतुववर्षतीव्रंरामानुजःकार्मुकसम्प्रयुक्तम् । क्षुरार्धचन्द्रोत्तमकर्णिभल्लैःशरांश्चचिच्छेदनचुक्षुभेच ।।6.59.101।। Yuddha Kanda,59,102,सबाणजालान्यथतानितानिमोघानिपश्यंस्त्रिदशारिराजः । विसिस्मियेलक्ष्मणलाघवेनपुनश्चबाणान्निशितान्मुमोच ।।6.59.102।। Yuddha Kanda,59,103,सलक्ष्मणश्चापिशरान् शिताग्रान्महेन्द्रतुल्योऽशनितुल्यवेगान् । सन्धायचापेज्वलनप्रकाशान् ससर्जरक्षोधिपतेर्वधाय ।।6.59.103।। Yuddha Kanda,59,104,सतान् प्रचिच्छेदहिराक्षसेन्द्रःछित्वाचतन्लक्ष्मणमाजघान । शरेणकालाग्निसमप्रभेणस्वयम्भुदत्तेनललाटदेशे ।।6.59.104।। Yuddha Kanda,59,105,सलक्ष्मणोरावणसायकार्तश्चचालचापंशिधिलंप्रगृह्य । पुनश्चसंज्ञांप्रतिलभ्यकृच्छ्राच्चिच्छेदचापंत्रिदशेन्द्रशत्रो ।।6.59.105।। Yuddha Kanda,59,106,निकृत्तचापंत्रिभिराजघानबाणैस्तदादाशरथिश्शिताग्रैः । ससायकार्तोविचचालराजाकृच्छ्राच्छसंज्ञांपुनराससाद ।।6.59.106।। Yuddha Kanda,59,107,सकृत्तचापःशरताडितश्चमेदार्द्रगात्रोरुधिरावसिक्तः । जग्राहशक्तिंस्वयमुग्रशक्तिस्स्वयम्भुदत्तांयुधिदेवशत्रुः ।।6.59.107।। Yuddha Kanda,59,108,सतांसधूमानलसन्निकाशांवित्रासनींसंयतिवानराणाम् । चिक्षेपशक्तिंतरसाज्वलन्तींसौमित्रयेराक्षसराष्ट्रनाथः ।।6.59.108।। Yuddha Kanda,59,109,तामापतन्तींभरतानुजोऽस्त्रैर्जघानबाणैश्चहुताग्निकल्पैः । तथापिसातस्यविवेशशक्तिर्भुजान्तरंदाशरथेर्विशालम् ।।6.59.109।। Yuddha Kanda,59,110,सशक्तिमान् शक्तिसमाहतःसन् प्रजज्वालमुहुःरघुप्रवीरः । तंविह्वलन्तंसहसाभ्युपेत्यजग्राहराजातरसाभुजाभ्याम् ।।6.59.110।। Yuddha Kanda,59,111,हिमवान् मन्दरोमेरुस्तैलोक्यंवासहामरैः । शक्यंभुजाभ्यामुद्धर्तुंनसङ् ख्येभरतानुजः ।।6.59.111।। Yuddha Kanda,59,112,शक्त्याब्राह्म्याहिसौमित्रिस्ताडितास्तुस्तनान्तरे । विष्णोरचिन्यन्त्यंस्वंभागमात्मानंप्रत्यनुस्मरत् ।।6.59.112।। Yuddha Kanda,59,113,ततोदानवदर्पघ्नंसौमित्रिंदेवकण्टकः । तंपीडयित्वाबाहुभ्यांनप्रभुर्लङ्घनेऽभवत् ।।6.59.113।। Yuddha Kanda,59,114,अथवायुसुतःक्रुद्धोरावणंसमभिद्रवत् । आजघानोरसिक्रुद्धोवज्रकल्पेनमुष्टिना ।।6.59.114।। Yuddha Kanda,59,115,तेनमुष्टिप्रहारेणरावणोराक्षसेश्वरः । जानुभ्यामपतद्भूमौचचालचपपातच ।।6.59.115।। Yuddha Kanda,59,116,अस्यैश्चनेत्रैश्श्रवणैःपपातरुधिरंबहु । विघूर्णमानोनिश्चेष्टोरथोपस्थउपाविशत् ।।6.59.116।। Yuddha Kanda,59,117,विसंज्ञोमूर्च्छ्रितश्चासीन्नचस्थानंसमालभत् । विसंज्ञंरावणंदृष्टवासमरेभीमविक्रमम् ।।6.59.117।। ऋषयोवानराश्चैवनेदुर्देवास्सवासवाः । Yuddha Kanda,59,118,हनूमानपितेजस्वीलक्ष्मणंरावणार्धितम् ।।6.59.118।। आनयद्राघवाभ्याशंबाहुभ्यांपरिगृह्यतम् । Yuddha Kanda,59,119,वायुसूनोःसुहृत्त्वेनभक्त्यापरमयाचसः ।।6.59.119।। शत्रूणामप्रकम्प्योऽपिलघुत्वमगमत्कपेः । Yuddha Kanda,59,120,तंसमुत्सृज्यसाशक्तिःसौमित्रिंयुधिदुर्जयम् ।।6.59.120।। रावणस्यरथेतस्मिन् स्थानंपुनरुपागता । Yuddha Kanda,59,121,आश्वस्तश्चनिशल्यश्चलक्ष्मणश्शत्रुसूदनः ।।6.59.121।। विष्णोर्भागममीमांस्यमात्मानंप्रत्यनुस्मरन् । Yuddha Kanda,59,122,रावणोऽपिमहातेजाःप्राप्यसंज्ञांमहाहवे ।।6.59.122।। आददेनिशितान् बाणान् जग्राहचमहद्धमः । Yuddha Kanda,59,123,निपातितमहावीरांद्रवन्तींवानरींचमूम् ।।6.59.123।। राघवस्तुरणेदृष्टवारावणंसमभिद्रवत् । Yuddha Kanda,59,124,अथैवमुपसङ्गम्यहनूमान्वाक्यमब्रवीत् ।।6.59.124।। Yuddha Kanda,59,125,ममपृष्ठंसमारुह्यराक्षसंशास्तुमर्हसि । विष्णुर्यथागरुत्मन्तंबलवन्तंसमाहितः ।।6.59.125।। Yuddha Kanda,59,126,तच्छ्रुत्वाराघवोवाक्यंवायुपुत्रेणभाषितम् । आरुरोहमहाशूरंबलवन्तंमहाकपिम् ।।6.59.126।। रथस्थंरावणंसङ् ख्येददर्शमनुजाधिपः । Yuddha Kanda,59,127,तमालोक्यमहातेजाःप्रदुद्रावसराघवः ।।6.59.127।। वैरोचनिवक्रुद्धोविष्णुरभ्युद्यतायुधः । Yuddha Kanda,59,128,ज्याशब्दमकरोत्तीव्रंवज्रनिष्पेषनिस्वनम् ।।6.59.128।। गिरागम्भीरयारामोराक्षसेन्द्रमुवाचह । Yuddha Kanda,59,129,तिष्ठतिष्ठममत्वंहिकृत्वाविप्रियमीदृशम् ।।6.59.129।। क्वनुराक्षसशार्दूल गतोमोक्षमवाप्स्यसि । Yuddha Kanda,59,130,यदीन्द्रवैवस्वतभास्करान्वास्वयम्भुवैश्वानरशंकरान्वा । गमिष्यसित्वंदशवादिशोवातथापिमेनाद्यगतोविमोक्ष्यसे ।।6.59.130।। Yuddha Kanda,59,131,यश्चैवशक्त्याभिहतस्त्वयाऽद्यइच्छन्विषादंसहसाभ्युपेत्य । सएषरक्षोगणराजमृत्युःसपुत्रपौत्रस्यतवाद्ययुद्धे ।।6.59.131।। Yuddha Kanda,59,132,एतेनचात्यद्भुतदर्शनानिशरैर्जवस्थानकृतालयानि । चतुर्धशान्यात्तवरायुधानिरक्षःसहस्राणिनिषूदितानि ।।6.59.132।। Yuddha Kanda,59,133,राघवस्यवचश्श्रुत्वाराक्षसेन्द्रोमहाबलः । वायुपुत्रंमहावेगंवहन्तंराघवंरणे ।।6.59.133।। Yuddha Kanda,59,134,रोषेणमहताविष्टःपूर्ववैरमनुस्मरन् । आजघानशरैर्दीप्स्सैःकालानलशिखोपमैः ।।6.59.134।। Yuddha Kanda,59,135,राक्षसेनाहवेतस्यताडितस्यापिसायकैः । स्वभावतेजोयुक्तस्यभूयस्तेजोऽभ्यवर्धत ।।6.59.135।। Yuddha Kanda,59,136,ततोरामोमहातेजारावणेनकृतव्रणम् । दृष्टवाप्लवगशार्दूलंक्रोधस्यवशमेयिवान् ।।6.59.136।। Yuddha Kanda,59,137,तस्याभिसङ्क्रम्यरथंसचक्रंसाश्वध्वजच्छत्रमहापताकम् । ससारथिंसाशनिशूलखडगंरामःप्रचिच्छेदशरैस्सुपुङ्खैः ।।6.59.137।। Yuddha Kanda,59,138,अथेन्द्रशत्रुंतरसाजघानबाणेनवज्राशनिसन्निभेन । भुजान्तरेव्यूढसुजातरूपेवज्रेणमेरुंभगवानिवेन्द्रः ।।6.59.138।। Yuddha Kanda,59,139,योवज्रपातशनिसन्निपातान्नचक्षुभेनापिचचालराजा । सरामबाणाभिहतोभृशार्तश्चचालचापंचमुमोचवीरः ।।6.59.139।। Yuddha Kanda,59,140,तंविह्वलन्तंप्रसमीक्ष्यरामस्समाददेदीप्तमथार्थचन्द्रम् । तेनार्कवर्णंसहसाकिरीटंचिच्छेदरक्षोधिपतेर्महात्मा ।।6.59.140।। Yuddha Kanda,59,141,तंनिर्विषाशीविषसन्निकाशंशान्तार्चिषंसूर्यमिवाप्रकाशम् । गतश्रियंकृत्तकिरीटकूटमुवाचरामोयुधिराक्षसेन्द्रम् ।।6.59.141।। Yuddha Kanda,59,142,कृतंत्वयाकर्ममहत्सुभीमंहतप्रवीरश्चकृतस्त्वयाऽहम् । तस्मात्परिश्रान्तइतिव्यवस्यन्नत्वांशरैर्मृत्युवशंनयामि ।।6.59.142।। Yuddha Kanda,59,143,गच्छानुजानामिरणार्धितस्त्वंप्रविश्यरात्रिंचरराजलङ्काम् । आश्वस्यनिर्याहिरथीचधन्वीतदाबलंप्रेक्ष्यसिमेरथस्थः ।।6.59.143।। Yuddha Kanda,59,144,सएवमुक्तोहतदर्पहर्षोनिकृत्तचापश्चहताश्वसूतः । शरार्दितःकृत्तमहाकिरीटोविवेशलङ्कांसहसास्मराजा ।।6.59.144।। Yuddha Kanda,59,145,प्रविष्टेरजनीचरेन्द्रेमहाबलेदाववदेवशत्रौ । हरीन् विशल्यान् सहलक्ष्मणेनचकाररामःपरमाहवाग्रे ।।6.59.145।। Yuddha Kanda,59,146,तस्मिन्प्रभन्नेत्रिदशेन्द्रशतौसुरासुराभूतगणादिशश्च । ससागरास्सर्षिमहोरगाश्चतथैवभूम्यम्बुचराश्चप्रहृष्टाः ।।6.59.146।। Yuddha Kanda,60,1,सप्रविश्यपुरींलङ्कांरामबाणभयार्धितः । भग्नदर्पस्तदाराजाबभूवव्यथितेन्द्रियः ।।6.60.1।। Yuddha Kanda,60,2,मातङ्गइवसिंहेनगरुडेनेवपन्नगः । अभिभूतोऽभवद्राजाराघवेणमहात्मना ।।6.60.2।। Yuddha Kanda,60,3,ब्रह्मदण्डप्रतीकानांविद्युत्सदृशवर्चसाम् । स्मरन्राघवबाणानांविव्यथेराक्षसेश्वरः ।।6.60.3।। Yuddha Kanda,60,4,नकाञ्चनमयंदिव्यमाश्रित्यपरमासनम् । विप्रेक्षमाणोरक्षांसिरावणोवाक्यमब्रवीत् ।।6.60.4।। Yuddha Kanda,60,5,सर्वंतत्खलुमेमोघंयत्तप्तंपरमंतपः । यत्समानोमहेन्द्रेणमानुषेणास्मिर्जितः ।।6.60.5।। Yuddha Kanda,60,6,इदंतद्ब्रह्मणोघोरंवाक्यंमामभ्युपस्थितम् । मानुषेभ्योविजानीहिभयंत्वमितितत्तथा ।।6.60.6।। Yuddha Kanda,60,7,देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः । अवध्यत्वंमयाप्राप्तंमानुषेभ्योनयाचितम् ।।6.60.7।। Yuddha Kanda,60,8,विदितंमानुषंमन्येरामंदशरथात्मजम् । इक्ष्वाकुकुलजातेनअनरण्येनयत्पुरा ।।6.60.8।। Yuddha Kanda,60,9,उत्पत्स्यतेहिमद्वंशेपुरुषोराक्षसाधनु । यस्त्वांसपुत्रंसामात्यंसबलंसाश्वसारथिम् ।।6.60.9।। निहनिष्यतिसङ्ग्रामेत्वांकुलाधम दुर्मते । Yuddha Kanda,60,10,शप्तोऽहंवेदवत्याचयदासाधर्षितापुरा ।।6.60.10।। सेयंसीतामहाभागाजाताजनकनन्दिनी । Yuddha Kanda,60,11,उमानन्दीश्वरश्चापिरम्भावरुणकन्यका ।।6.60.11।। यथोक्तास्तन्मयाप्राप्तंनमिथ्याऋषिभाषितम् Yuddha Kanda,60,12,एतदेवाभ्युपागम्ययत्नंकर्तुमहार्हथ ।।6.60.12।। राक्षसाश्चापितिष्ठन्तुचर्यागोपुरमूर्थसु । Yuddha Kanda,60,13,सचाप्रतिमगाम्भीर्योदेवदानवदर्पहा ।।6.60.13।। ब्रह्मशापाभिभूतस्तुकुम्भकर्णोविबोध्यताम् । Yuddha Kanda,60,14,सपराजितमात्मानंप्रहस्तंचनिषूदितम् ।।6.60.14।। ज्ञात्वारक्षोबलंभीममादिदेशमहाबलः । Yuddha Kanda,60,15,द्वारेषुयत्नःक्रियतांप्राकारश्चाधिरुह्यताम् ।।6.60.15।। निद्रावशसमाविष्टःकुम्भकर्णोविबोद्यताम् । Yuddha Kanda,60,16,सुखंस्वपितिनिश्चिन्तःकालोपहतचेतनः ।।6.60.16।। नवषट् सप्तचाष्टौचमासान् स्वपितिराक्षसः । Yuddha Kanda,60,17,मन्त्रयित्वाप्रसुप्तोऽयमितस्तुनवमेऽहनि ।।6.60.17।। तंतुबोधयतक्षिप्रंकुम्भकर्णंमहाबलम् । Yuddha Kanda,60,18,सतुसङ् ख्येमहाबाहुःककुदस्सर्वरक्षसाम् ।।6.60.18।। वानरान् राजपुत्रौचक्षिप्रमेवहनिष्यति Yuddha Kanda,60,19,एषःकेतुःपरंसङ् ख्येमुख्योवैसर्वरक्षसाम् ।।6.60.19।। कुम्भकर्णःसदाशेतेमूढोग्राम्यसुखेरतः । Yuddha Kanda,60,20,रामेणहिनिरस्तस्यसङ्ग्रामेऽस्मिन् सुदारुणे ।।6.60.20।। भविष्यतिनमेशोकःकुम्भकर्णेविबोधिते । Yuddha Kanda,60,21,किंकरिष्याम्यहंतेनशक्रतुल्यबलेनहि ।।6.60.21।। ईदृशेव्यसनेघोरेयोनसाह्यायकल्पते । Yuddha Kanda,60,22,तेतुतद्वचनंश्रुत्वाराक्षसेन्द्रस्यराक्षसाः ।।6.60.22।। जग्मुःपरमसम्भ्रान्ताःकुम्भकर्णनिवेशनम् । Yuddha Kanda,60,23,तांप्रविश्यमहाद्वारंसर्वतोयोजनायताम् ।।6.60.23।। Yuddha Kanda,60,24,कुम्भकर्णगुहांरम्यांसर्वगन्धप्रवाहिनीम् । कुम्भकर्णस्यनिःश्वासादवधूतामहाबलाः ।।6.60.24।। प्रतिष्ठमानाःकृच्छ्रेणयत्नात्प्रविविशुर्गुहाम् । Yuddha Kanda,60,25,तांप्रविश्यगुहांरम्यांशुभांकाञ्चनकुट्टिमाम् ।।6.60.25।। ददृशुर्नैरृतव्याघ्रंशयानंभीमविदर्शनम् । Yuddha Kanda,60,26,तेतुतंविकृतंसुप्तंविकीर्णमिवपर्वतम् ।।6.60.26।। कुम्भकर्णंमहानिद्रंसहिताःप्रत्यबोधयन् । Yuddha Kanda,60,27,ऊर्ध्वरोमाञ्चिततनुंश्वसन्तमिवपन्नगम् । भ्रामयन्तम् न्विश्श्वसैःशयानम् भीमविदर्शमम् ।।6.60.27।। Yuddha Kanda,60,28,भीमनासापुटंतंतुपातालोविपुलाननम् । शयनेन्यस्तसर्वाङ्गंमेदोरुधिरगन्धिनम् ।।6.60.28।। Yuddha Kanda,60,29,काञ्चनाङ्गदनद्धाङ्गंकिरीटिनमरिन्दमम् । ददृशुर्नैरृतव्याघ्रंकुम्भकर्णमरिन्दमम् ।।6.60.29।। Yuddha Kanda,60,30,ततश्चक्रुर्महात्मानंकुम्भकर्णाग्रतस्तदाचाग्रतः ।।6.60.30।। मांसानांमेरुसङ्काशंराशिंपरमतर्पणम् । Yuddha Kanda,60,31,मृगाणांमहिषाणांचवराहाणांचसञ्चयान् ।।6.60.31।। चक्रुर्नैरृतशार्दूलाराशिमन्नस्यचाद्भुतम् । Yuddha Kanda,60,32,ततश्शोणितकुम्भांश्चमद्यानिविविधानिच ।।6.60.32।। पुरस्तात्कुम्भकर्णस्यचक्रुस्त्रिदशशत्रवः । Yuddha Kanda,60,33,लिलिपुश्चपरार्ध्येनचन्दनेनपरन्तपम् ।।6.60.33।। दिव्यैराश्वासयामामासुर्माल्यैर्गन्धैस्सुगन्धिभिः । Yuddha Kanda,60,34,धूपंसुगन्धांश्चससृजुस्तुष्टवुश्चपरन्ततम् ।।6.60.34।। जलदाइवचानेदुर्यातुधानास्ततस्ततः । Yuddha Kanda,60,35,शङ्खांनापूरयामासुश्शशाङ्कसदृशप्रभान् ।।6.60.35।। तुमुलंयुगपच्छापिविनेदुश्चाप्यमर्षिताः । Yuddha Kanda,60,36,नेदुरास्फोटयामासुश्चिक्षिपुस्तेनिशाचराः ।।6.60.36।। कुम्भकर्णविबोधार्थंचक्रुस्तेविपुलंस्वनम् । Yuddha Kanda,60,37,सशङ्खभेरीपणवप्रणादमास्फोटितक्षेवळितसिंहनादम् । दिशोद्रवन्तस्त्रिदिवंकीरन्तःश्रुत्वाविहंगाःसहसानिपेतुः ।।6.60.37।। Yuddha Kanda,60,38,यदाभृशंतैर्निनदैर्महात्मानकुम्बकर्णोबुबुधेप्रसुप्तः । ततोमुसुण्ठीर्मुसलानिसर्वेरक्षोगणास्तेजगृहुर्गदाश्च ।।6.60.38।। Yuddha Kanda,60,39,तंशैलशृङ्गैर्मुसलैर्गदाभिर्वृक्षैस्तरैर्मुद्गरमुष्टिभिश्च । सुखप्रसुप्तंभुविकुम्भकर्णंरक्षांस्युदग्राणितदानिजघ्नुः ।।6.60.39।। Yuddha Kanda,60,40,तस्यनिःश्वासवातेनकुम्भकर्णस्यरक्षसः । राक्षसाबलवन्तोऽपिस्थातुनाशक्नुवन्पुरः ।।6.60.40।। Yuddha Kanda,60,41,ततःपरिहितागाढंराक्षसाभीमविक्रमाः । मृदङ्गपणवान् भेरीश्शङ्खकुम्भगणांस्तथा ।।6.60.41।। Yuddha Kanda,60,42,दशराक्षससाहस्रंयुगपत्पर्यवारयन् । नीलाञ्जनचयाकारंतेतुतंप्रत्यबोधयन् ।।6.60.42।। अभिघ्नन्तोनदन्तश्चनैवसंविविदेतुसः । Yuddha Kanda,60,43,यदाचैनंनशेकुस्तेप्रतिबोधयितुंतदा ।।6.60.43।। ततोगुरुतरंयत्नंदारुणंसमुपाक्रमन् । Yuddha Kanda,60,44,आश्वानुष्ट्रान् खरन्नागान् जघ्नुर्दण्डकशाङ्कुशैः ।।6.60.44।। भेरीशङ्खमृदङ्गांश्चसर्वप्राणैरवादयन् । Yuddha Kanda,60,45,निजघ्नुश्चास्यगात्राणिमहाकाष्ठकङ्करैः ।।6.60.45।। मुद्गरैर्मुसलैश्चापिसर्वप्राणसमुद्यतैः । Yuddha Kanda,60,46,तेननादेवमहतालङ्कासमभिपूरिता ।।6.60.46।। सपर्वतवनासर्वासोऽपिनैवप्रबुध्यते । Yuddha Kanda,60,47,ततस्सहस्रंभेरीणांयुगसत्समहन्यत ।।6.60.47।। मृष्टकाञ्चनकोणानामासक्तानांसमन्ततः । Yuddha Kanda,60,48,एवमप्यन्तिद्रिस्तुयदानैवप्रबुध्यत ।।6.60.48।। शापस्यवशमापन्नस्ततःक्रुद्धानिशाचराः । Yuddha Kanda,60,49,महाक्रोधसमाविष्टास्सर्वेभीमपराक्रमाः ।।6.60.49।। तद्रक्षोबोधयिष्यन्तश्चक्रुरन्येपराक्रमम् । Yuddha Kanda,60,50,अन्येभेरीस्समाजघ्नुरन्येचक्रुर्महास्वनम् ।।6.60.50।। केशानन्येप्रलुलुपुःकर्णावन्येदशन्तिच । Yuddha Kanda,60,51,उदकुम्बशतान्यन्येसमसिञ्चन्तकर्णयोः ।।6.60.51।। नकुम्भकर्णःपस्पन्देमहानिद्रावशंगतः । Yuddha Kanda,60,52,अन्येचबलिनस्तस्यकूटमुद्गरपाणयः ।।6.60.52।। मूर्ध्निवक्षसिगात्रेषुपातन् कूटमुद्गरान् । Yuddha Kanda,60,53,रज्जुबन्धनबद्धाभिश्शतघ्नीभिश्चसर्वशः ।।6.60.53।। वध्यमानोमहाकायोनप्राबुध्यतराक्षसः । Yuddha Kanda,60,54,वारणानांसहस्रंचशरीरेऽस्यप्रधावितम् ।।6.60.54।। कुम्बकर्णस्तदाबुद् ध्वास्पर्शंपरमबुध्यत । Yuddha Kanda,60,55,सपात्यमानैर्गिरिशृङ्गवृक्षैरचिन्तयंस्तान्विपुलान् प्रहारान् । निद्राक्ष्यात् क्षुद्भयपीडितश्चविजृम्भमाणस्सहसोत्पपाप ।।6.60.55।। Yuddha Kanda,60,56,सनागभोगाचलशृङ्गकल्पौविक्षिप्यबाहूगिरशृङ्गसारौ । निवृत्यवक्त्रंवडवामुखाभंनिशाचरोऽसौविकृतंजजृम्भे ।।6.60.56।। Yuddha Kanda,60,57,तस्यजाजृम्भमाणस्यवक्त्रंपातालसन्निभम् । ददृशेमेरुशृङ्गाग्रेदिवाकरइवोदितः ।।6.60.57।। Yuddha Kanda,60,58,सजृम्भमाणोऽतिबलःप्रद्धोनिशाचरः । निःश्वासश्चास्यसञ्जज्ञेपर्वतादिवमारुतः ।।6.60.58।। Yuddha Kanda,60,59,रूपमुत्तिष्ठतस्तस्यकुम्भकर्णस्यतद्बभौ । तपान्तेसबलाकस्यमेघस्येवविवर्षतः ।।6.60.59।। Yuddha Kanda,60,60,तस्यदीप्ताग्निसदृशेविद्युत्सदृशवर्चसी । ददृशातेमहानेत्रेदीप्ताविवमहाग्रहौ ।।6.60.60।। Yuddha Kanda,60,61,ततस्त्वदर्शयन् सर्वान्भक्ष्यांश्चविविधान् बहून् । वराहान्महिषांश्चैवबभक्षसमहाबलः ।।6.60.61।। Yuddha Kanda,60,62,आददुन्भुक्षितोमांसंशोणितंतृषितःपिबन् । मेदःकुम्भांश्चमद्यांश्चपपौशक्ररिपुस्तदा ।।6.60.62।। Yuddha Kanda,60,63,ततस्तृप्तइतिज्ञात्वासमुत्पेतुर्निशाचराः । शिरोभिश्चप्रणम्यैनंसर्वतःपर्यवारयन् ।।6.60.63।। Yuddha Kanda,60,64,निद्राविशदनेत्रस्तुकलुषीकृतलोचनः । चारयन् सर्वतोदृष्टिंतान् ददर्शनिशाचरान् ।।6.60.64।। Yuddha Kanda,60,65,ससर्वान् सान्त्वयामासनैरृतान् नैरृतर्षभः । बोधनाद्विस्मितश्चापिराक्षसानिदमब्रवीत् ।।6.60.65।। Yuddha Kanda,60,66,किमर्थमहमादृत्यभवद्भिःप्रतिबोधितः । कच्छित्सुकुशलंराज्ञोभयंवानेषनकिम् ।।6.60.66।। Yuddha Kanda,60,67,अथवाध्रुवमन्येभ्योभयंपरमुपस्थितम् । यदर्थमेवत्वरितैर्भवद्भिःप्रतिबोधितः ।।6.60.67।। Yuddha Kanda,60,68,अद्यराक्षसराजस्यभयमुत्पाटयाम्यहम् । दारयिष्येमहेन्द्रंवाशातयिष्येतथानलम् ।।6.60.68।। Yuddha Kanda,60,69,नह्यल्पकारणेसुप्तंबोधयिष्यतिमांगुरुः । तदाख्यातार्थतत्त्वेनमत्प्रबोधनकारणम् ।।6.60.69।। Yuddha Kanda,60,70,एवंब्रुवाणंसम्रब्धंकुम्भकर्णमरिन्दमम् । यूपाक्षःसचिवोराज्ञःकृताञ्जलिरभाषत ।।6.60.70।। Yuddha Kanda,60,71,ननोदेवकृतंकिञ्चिद्भयमस्तिकदाचन । मानुषान्नोभयंराजंस्तुमुलंसम्प्रबाधते ।।6.60.71।। Yuddha Kanda,60,72,नदैत्यदानवेभ्योवाभयमस्तिहितादृशम् । यादृशंमानुषंराजन् भयमस्मानुपस्थितम् ।।6.60.72।। Yuddha Kanda,60,73,वानरैःपर्वताकारैर्लङ्केयंपरिवारिता । सीताहरणसन्तप्ताद्रामान्नस्तुमुलंभयम् ।।6.60.73।। Yuddha Kanda,60,74,एकेनवानरेणेयंपूर्वंदग्धामहापुरी । कुमारोनिहतश्चाक्षस्सानुयात्रःसकुञ्जरः ।।6.60.74।। Yuddha Kanda,60,75,स्वयंरक्षोधिपश्चापिपौलस्त्योदेवकण्टकः । मृतेतिसंयुगेमुक्तोरामेणादित्यतेजसा ।।6.60.75।। Yuddha Kanda,60,76,यन्नदेवैःकृतोराजानापिदैत्यैर्नदानवैः । कृतःसइहरामेणविमुक्तःप्राणसंशयात् ।।6.60.76।। Yuddha Kanda,60,77,सयूपाक्ष्वचश्श्रुत्वाभ्रातुर्युधिपराभवम् । कुम्भकर्णोविवृत्ताक्षोयूपाक्षमिदमब्रवीत् ।।6.60.77।। Yuddha Kanda,60,78,सर्वमद्यैवयूपाक्षहरिसैन्यंसलक्ष्मणम् । राघवंचरणेजित्वाततोद्रक्ष्यामिरावणम् ।।6.60.78।। Yuddha Kanda,60,79,राक्षसांस्तर्पयिष्यामिहरीणांमांसशोणितैः । रामलक्ष्मणयोश्चापिस्वयंपास्यामिशोणितम् ।।6.60.79।। Yuddha Kanda,60,80,तत्तस्यवाक्यंब्रुवतोनिशम्यसगर्वितंरोषविवृद्धदोषम् । महोदरोनैरृतयोधमुख्यःकृताञ्जलिर्वाक्यमिदंबभाषे ।।6.60.80।। Yuddha Kanda,60,81,रावणस्यवचःश्रुत्वागुणदोषौविमृश्यच । पश्चादपिमहाबाहो शत्रून्युधिविजेष्यसि ।।6.60.81।। Yuddha Kanda,60,82,महोदरवचश्श्रुत्वाराक्षसैःपरिवारितः । कुम्भकर्णोमहातेजास्सम्प्रतस्थेमहाबलः ।।6.60.82।। Yuddha Kanda,60,83,सुप्तमुत्थाप्यभीमाक्षंभीमरूपपराक्रमम् । राक्षसास्त्वरिताजुग्मर्दशग्रीन्विवेशनम् ।।6.60.83।। Yuddha Kanda,60,84,ततोगत्वादशग्रीवमासीनंपरमासने । ऊचुर्बद्धाञ्जलिपुटास्सर्वएवनिशाचराः ।।6.60.84।। Yuddha Kanda,60,85,प्रबुद्धोऽयंकुम्भकर्णभ्रातातेराक्षसेश्वर । कथंतत्रैवनिर्यातुद्रक्ष्यसेतमिहागतम् ।।6.60.85।। Yuddha Kanda,60,86,रावणस्त्वब्रवीद्धृष्टोराक्षसांस्तानुपस्थितान् । द्रष्टुमेनमिहेच्छामियथान्यायंचपूज्यताम् ।।6.60.86।। Yuddha Kanda,60,87,तथेत्युक्त्वातुतेसर्वेपुनरागम्यराक्षसाः । कुम्भकर्णमिदंवाक्यमूचूरावणचोदिताः ।।6.60.87।। Yuddha Kanda,60,88,द्रष्टुंत्वांकांक्षतेराजासर्वराक्षसपुङ्गवः । गमनेक्रियतांबुद्धिर्भ्रातरंसम्प्रहर्षयः ।।6.60.88।। Yuddha Kanda,60,89,कुम्भकर्णस्तुदुर्धर्षोभ्रातुराज्ञायशासनम् । तथेत्युक्त्वामहावीर्यश्शयनादुत्पपातह ।।6.60.89।। Yuddha Kanda,60,90,प्रक्षाळ्यवदनंहृष्टस्स्नातःपरमभूषितः । पिपासुस्त्वरयामासपानंबलसमीरणम् ।।6.60.90।। Yuddha Kanda,60,91,ततस्तेत्वरितास्तत्रराक्षसारावणाज्ञया । मद्यकुम्भांश्चविविधान् क्षिप्रमेवोपहारयन् ।।6.60.91।। Yuddha Kanda,60,92,पीत्वाघटसहस्रेद्वेगमनायोपचक्रमे । ईषत्समुत्कटोमत्तस्तेजोबलसमन्वितः ।।6.60.92।। Yuddha Kanda,60,93,कुम्भकर्णोबभौहृष्टःकालान्तकयमोपमः । भ्रातुस्सभवनंगच्छन्रक्षोबलसमन्वितः ।।6.60.93।। कुम्भकर्णःपदन्यासैरकम्पयतमेन्दिीम् । Yuddha Kanda,60,94,सराजमार्गंवपुषाप्रकाशयन् सहस्ररश्मिर्धरणीमिवांशुभिः । जगामतत्राञ्जलिमालयावृतश्शतक्रतुर्गेहमिवस्वयम्भुवः ।।6.60.94।। Yuddha Kanda,60,95,तंराजमार्गस्थममित्रघातिनंवनौकसस्तेसहसाबहिस्स्थिताः । दृष्टवाऽप्रमेयंगिरिशृङ्गकल्पंवितत्रसुस्तेहरियूथपालाः ।।6.60.95।। Yuddha Kanda,60,96,केचिच्छरण्यंशरणंस्मरामंव्रजन्तिकेचिद् व्यथिताःपतन्ति । केचिद्धशस्मव्यथिताःपतन्तिकेचिद्भयार्ताभुविशेरतेस्म ।।6.60.96।। Yuddha Kanda,60,97,तमद्रिशृङ्गप्रतिमंकिरीटिनंस्पृशन्तमादित्यमिवाऽत्मतेजसा । वनौकसःप्रेक्ष्यविवृद्धमद्भुतं 3 भयार्धितादुद्रुविरेततस्ततः ।।6.60.97।। Yuddha Kanda,61,1,ततोरामोमहातेजाधनुरादायवीर्यवान् । किरीटिनंमहाकायंकुम्भकर्णंददर्श ह ।।6.61.1।। Yuddha Kanda,61,2,तंदृष्टवाराक्षसश्रेष्ठंपर्वताकारदर्शनम् । क्रममाणमिवाकाशंपुरानारायणंप्रभुम् ।।6.61.2।। Yuddha Kanda,61,3,सतोयाम्बुदसङ्काशंकाञ्चनाङ्गदभूषणम् । दृष्टवापुनःप्रदुद्रवावानराणांमहाचमूः ।।6.61.3।। Yuddha Kanda,61,4,विद्रुतांवाहिनींदृष्टवावर्धमानं च राक्षसम् । सविस्मयमिदंरामोविभीषणमुवाच ह ।।6.61.4।। Yuddha Kanda,61,5,कोऽसौपर्वतसङ्काशःकिरीटीहरिलोचनः । लङ्कायांदृश्यतेवीरःसविद्युदिवतोयदः ।।6.61.5।। Yuddha Kanda,61,6,पृथिव्यांकेतुभूतोऽसौमहानेकोऽत्रदृश्यते । यंदृष्टवावानरास्सर्वेविद्रवन्तिततस्ततः ।।6.61.6।। Yuddha Kanda,61,7,आचक्षवसुमहान् कोऽसौरक्षोवायदिवाऽसुरः । न मयैवंविधंभूतंदृष्टपूर्वंकदाचन ।।6.61.7।। Yuddha Kanda,61,8,संपृष्टोराजपुत्रेणरामेणाक्लिष्टकर्मणा । विभीषणोमहाप्राज्ञःकाकुत्थ्समिदमब्रवीत् ।।6.61.8।। Yuddha Kanda,61,9,येनवैवस्वतोयुद्धेवासवश्चपराजितः । सैषविश्रवसःपुत्रःकुम्भकर्णःप्रतापवान् ।।6.61.9।। अस्यप्रमाणसदृशोराक्षसाऽन्यो न विद्यते । Yuddha Kanda,61,10,एतेनदेवायुधिदानवाश्चयक्षाभुजङ्गाःपिशिताशनाश्च । गन्धर्वविद्याधरकिन्नरैश्चसहस्रशोराघवसम्प्रभग्नाः ।।6.61.10।। Yuddha Kanda,61,11,शूलपाणिंविरूपाक्षंकुम्भकर्णंमहाबलम् । हन्तुं न शेकुस्त्रिदशाःकालोऽयमितिमोहिताः ।।6.61.11।। Yuddha Kanda,61,12,प्रकृत्याह्येषतेजस्वीकुम्भकर्णोमहाबलः । अन्येषांराक्षसेन्द्राणांवरदानकृतंबलम् ।।6.61.12।। Yuddha Kanda,61,13,एतेनजातमात्रेणक्षुधार्तेनमहात्मना । भक्षितानिसहस्राणिसत्त्वानांसुबहून्यपि ।।6.61.13।। Yuddha Kanda,61,14,तेषुसंभक्षयमाणेषुप्रजाभयनिपीडिताः । यान्तिस्मशरणंशक्रंतमप्यर्थंन्यवेदयन् ।।6.61.14।। Yuddha Kanda,61,15,सकुन्भकर्णंकुपितोमहेन्द्रोजघानवज्रेणशितेनवज्री । सशक्रवज्राभिहतोमहात्माचचालकोपाच्चभृशंननाद ।।6.61.15।। Yuddha Kanda,61,16,तस्यनानद्यमानस्यकुम्भकर्णस्यरक्षसः । श्रुत्वानिनादंवित्रस्ताःभूमिभूयोवितत्रसे ।।6.61.16।। Yuddha Kanda,61,17,तत्रकोपान्महेन्द्रस्यकुम्भकर्णोमहाबलः । विकृष्यैरावताद्धन्तंजघानोरसिवासवम् ।।6.61.17।। Yuddha Kanda,61,18,कुम्भकर्णप्रहारार्तोविजज्वाल स वासवः । ततोविषेदुस्सहसादेवाब्रह्मर्षिदानवाः ।।6.61.18।। प्रजाभिस्सहशक्रश्चययौस्थानंस्वयम्भुवः । Yuddha Kanda,61,19,कुम्भकर्णस्यदौरात्म्यंशशंसुस्तेप्रजापतेः ।।6.61.19।। Yuddha Kanda,61,20,प्रजानांभक्षणंचापिधर्षणं च दिवौकसाम् । आश्रमध्वंसनंचापिपरस्त्रीहरणंभृशम् ।।6.61.20।। Yuddha Kanda,61,21,एवंप्रजायदित्वेषभक्षयिष्यतिनित्यशः । अचिरेणैवकालेनशून्योलोकोभविष्यति ।।6.61.21।। Yuddha Kanda,61,22,वासवस्यवचश्श्रुत्वासर्वलोकपितामहः । रक्षांस्यावाहयामासकुम्भकर्णंददर्श ह ।।6.61.22।। Yuddha Kanda,61,23,कुम्भकर्णंसमीक्ष्यैववितत्रासप्रजापतिः । दृष्टवाविश्वास्यचैवैनंस्वयम्भूरिदमब्रवीत् ।।6.61.23।। Yuddha Kanda,61,24,ध्रुवंलोकविनाशायपौलस्त्येनासिनिर्मितः । तस्मात्त्वमद्यप्रभृतिमृतकल्पःशयिष्यसे ।।6.61.24।। Yuddha Kanda,61,25,ब्रह्मशापाभिभूतोऽथनिपपाताग्रतःप्रभोः । ततःपरमसम्भ्रान्तोरावणोवाक्यमब्रवीत् ।।6.61.25।। Yuddha Kanda,61,26,विवृद्धःकाञ्चनोवृक्षःफलकालेनिकृत्यते । न नप्तारंस्वकंन्यायंशप्तुमेवंप्रजापते ।।6.61.26।। Yuddha Kanda,61,27,न मिथ्यावचनश्चत्वंस्वप्स्यत्येष न संशयः । कालस्तुक्रियतामस्यशयनेजागरेतथा ।।6.61.27।। Yuddha Kanda,61,28,रावणस्यवचश्श्रुत्वास्वयम्भूरिदमब्रवीत् । शयिताह्येषषण्मासानेकाहंजागरिष्यति ।।6.61.28।। Yuddha Kanda,61,29,एकेनाह्नात्वसौवीरश्चरन् भूमिंबुभुक्षितः । व्यात्तास्योभक्षयेल्लोकान् सङ्कृद्धइवपावकः ।।6.61.29।। Yuddha Kanda,61,30,सोऽसौव्यसमापन्नःकुम्भकर्णमबोधयत् । त्वत्पराक्रमभीतश्चराजासम्प्रतिरावणः ।।6.61.30।। Yuddha Kanda,61,31,स एषनिर्गतोवीरःशिबिराद्भीमविक्रमः । वानरान्भृशसङ्कृद्धोभक्षयन्परिधावति ।।6.61.31।। Yuddha Kanda,61,32,कुम्भकर्णंसमीक्ष्यैवहरयोऽद्यप्रविद्रुतुः । कथमेनंरणेक्रुद्धंवारयिष्यन्तिवानराः ।।6.61.32।। Yuddha Kanda,61,33,उच्यन्तांवानराःसर्वेयन्त्रमेतत्समुच्छ्रितम् । इतिविज्ञायहरयोभविष्यन्तीहनिर्भयाः ।।6.61.33।। Yuddha Kanda,61,34,विभीषणवचश्श्रुत्वाहेतुमत्सुमुखेरितम् । उवाचराघवोवाक्यंनीलंसेनापतिंतदा ।।6.61.34।। Yuddha Kanda,61,35,गच्छसैन्यानिसर्वाणिव्यूह्यतिष्ठस्वपावके । द्वाराण्यादायलङ्कायाश्चर्याश्चाप्यथसङ्क्रमान् ।।6.61.35।। Yuddha Kanda,61,36,शैलशृङ्गाणिवृक्षांश्चशिलाश्चाप्युपसंहर । तिष्ठन्तुसायुधास्सर्वेसायुधाश्शैलपाणयः ।।6.61.36।। Yuddha Kanda,61,37,राघवेणसमादिष्टोनीलोहरिचमूपतिः । शशासवानरानीकंयथावत्कपिकुञ्जरः ।।6.61.37।। Yuddha Kanda,61,38,ततोगवाक्षश्शरभोहनूमानङ्गदस्तथा । शैलशृङ्गाणिशैलाभागृहीत्वाद्वारमभ्ययुः ।।6.61.38।। Yuddha Kanda,61,39,रामवाक्यमुपश्रुत्य हरयो जितकाशिनः । पादपैरर्दयवनीरावानराःपरवाहिनीम् ।।6.61.39।। Yuddha Kanda,61,40,ततोहरीणांतदनीकमुग्रंरराजशैलोद्यतदीप्तहस्तम् । गिरेःसमीपानुगतंयथैवहन्महाम्भोधरजालमुग्रम् ।।6.61.40।। Yuddha Kanda,62,1,स तुराक्षसशार्दूलोनिद्रामदसमाकुलः । राजमार्गंश्रियाजुष्टंययौविपुलविक्रमः ।।6.62.1।। Yuddha Kanda,62,2,राक्षसानांसहस्रैश्चवृतःपरमदुर्जयः । गृहेभ्यःपुष्पवर्षेणकीर्यमाणस्तदाययौ ।।6.62.2।। Yuddha Kanda,62,3,स हेमजालविततंभानुभास्वरदर्शनम् । ददर्शविपुलंरम्यंराक्षसेन्द्रनिवेशनम् ।।6.62.3।। Yuddha Kanda,62,4,स तत्तदासूर्यइवाभ्रजालंप्रविश्यरक्षोधिपतेर्निवेशम् । ददर्शदूरेऽग्रजमासनस्थंस्वयम्भुवंशक्रवासनस्थम् ।।6.62.4।। Yuddha Kanda,62,5,भ्रातुस्सभवनंगच्छन्रक्षोगणसमन्विम् । कुम्भकर्णःपदन्यासैरकम्पयतमेदिनीम् ।।6.62.5।। Yuddha Kanda,62,6,सोऽभिगम्यगृहंभ्रातुःकक्ष्यामभिविगाह्य च । ददर्शोद्विगन्नमासीनंविमानेपुष्पकेगुरुम् ।।6.62.6।। Yuddha Kanda,62,7,अथदृष्टवादशग्रीवःकुम्भकर्णमुपस्थितम् । तूर्णमुत्थायसंहृष्टःसन्निकर्षमुपानयत् ।।6.62.7।। Yuddha Kanda,62,8,अथासीनस्यपर्यङ्केकुम्भकर्णोमहाबलः । भ्रातुर्ववन्देचरणौकिंकृत्यमितिचाब्रवीत् ।।6.62.8।। Yuddha Kanda,62,9,उत्पत्यचैनंमुदितोरावणःपरिषस्वजे । स भ्रात्रासम्परिष्वक्तोयथावच्छाभिनन्दितः ।।6.62.9।। कुम्भकर्णश्शुभंदिव्यंप्रतिपेदेवरासनम् । Yuddha Kanda,62,10,स तदासनमाश्रित्यकुम्भकर्णोमहाबलः ।।6.62.10।। संरक्तनयनःक्रोधाद्रावणंवाक्यमब्रवीत् । Yuddha Kanda,62,11,किमर्थमहमादृत्यत्वयाराजन्विबोधितः ।।6.62.11।। शंसकस्माद्भयंतेऽत्रकोऽद्यप्रेतोभविष्यति । Yuddha Kanda,62,12,भ्रातरंरावणःक्रुद्धंकुम्भकर्णमवस्थितम् ।।6.62.12।। ईषत्तुपरिवृत्ताभ्यांनेत्राभ्यांवाक्यमब्रवीत् । Yuddha Kanda,62,13,अद्यतेसुमहान्कालश्शयानस्यमहाबल ।।6.62.13।। सुखितस्त्वं न जानीषेममरामकृतंभयम् । Yuddha Kanda,62,14,एषदाशरथीरामःसुग्रीवसहितोबली ।।6.62.14।। समुद्रंसबलस्तीर्त्वामूलंनःपरिकृन्तति । Yuddha Kanda,62,15,हन्तपश्यस्वलङ्कायावनान्युपवनानि च ।।6.62.15।। सेतुनासुखमागम्यवानरैकार्णवीकृतम् । Yuddha Kanda,62,16,येराक्षसामुख्यतमाहतास्तेवानरैर्युधि ।।6.62.16।। Yuddha Kanda,62,17,वानराणांक्षयंयुद्धे न पश्यामिकदाचन । नचापिवानरायुद्धेजितपूर्वाःकदाचन ।।6.62.17।। Yuddha Kanda,62,18,तदेतद्भयमुत्पन्नंत्रायस्वेमांमहबल । नाशयत्वमिमानद्यतदर्थंबोधितोभवान् ।।6.62.18।। Yuddha Kanda,62,19,सर्वक्षपितकोशं च स त्वमभ्यवपद्यमाम् । त्रायस्वेमांपुरींलङ्कांबालवृद्धावशेषिताम् ।।6.62.19।। Yuddha Kanda,62,20,भ्रातुरर्थेमहाबाहो कुरुकर्मसुदुष्करम् । मयैवंनोक्तपूर्वोहिकश्चिद्भ्रातः परन्तप ।।6.62.20।। Yuddha Kanda,62,21,त्वय्यस्तिममस्नेहःपरासम्भावना च मे । दैवासुरेषुयुद्धेषुबहुशोराक्षसर्षभ ।।6.62.21।। त्वयादेवाःप्रतिव्यूह्यनिर्जिताश्चासुरायुधि । Yuddha Kanda,62,22,तदेतत्सर्वमातिष्ठवीर्यंभीमपराक्रम ।।6.62.22।। न हितेसर्वभूतेषुदृश्यतेसदृशोबली । Yuddha Kanda,62,23,कुरुष्वमेप्रियहितमेतदुत्तमंयथाप्रियंप्रियरणबान्धवप्रिय । स्वतेजसाविधमसपत्नवाहिनींशरद्घनंपवनइवोद्यतोमहान् ।।6.62.23।। Yuddha Kanda,63,1,तस्यराक्षसराजस्यनिशम्यपरिदेवितम् । कुम्भकर्णोबभाषेदंवचनंप्रजहास च ।।6.63.1।। Yuddha Kanda,63,2,दृष्टोदोषोहियोऽस्माभिःपुरामन्त्रन्वििर्णये । हितेष्वनभियुक्तेनसोऽयमासादितस्त्वया ।।6.63.2।। Yuddha Kanda,63,3,शीघ्रंखल्वभ्युपेतंत्वांफलंपापस्यकर्मणः । निरयेष्वेवपतनंयथादुष्कृतकर्मणः ।।6.63.3।। Yuddha Kanda,63,4,प्रथमंवैमहाराजकृत्यमेतदचिन्तितम् । केवलंवीर्यदर्पेणनानुबन्धोविचिन्तितः ।।6.63.4।। Yuddha Kanda,63,5,यःपश्चातूर्वकार्याणिकुर्यादैश्वर्यमास्थितः । पूर्वंचोत्तरकार्याणि न स वेदनयानया ।।6.63.5।। Yuddha Kanda,63,6,देशकालविहीनानिकर्माणिविपरीतवत् । क्रियमाणानिदुष्यन्तिहवींष्यप्रयतेष्विव ।।6.63.6।। Yuddha Kanda,63,7,त्रयाणांपञ्चधायोगंकर्मणांयःप्रपश्यति । सचिवैस्समयंकृत्वा स सभ्येवर्ततेपथि ।।6.63.7।। Yuddha Kanda,63,8,यथागमं च योराजासमयंविचिकीर्षति । बुध्यतेसचिवान्बध्यासुहृदश्चानुपश्यति ।।6.63.8।। Yuddha Kanda,63,9,धर्ममर्थं च कामं च सर्वान्वारक्षसांपते । भजतेपुरुषःकालेत्रीणिद्वन्द्वानिवापुनः ।।6.63.9।। Yuddha Kanda,63,10,त्रिषुचैतेषुयच्छ्रेष्ठंश्रुत्वातन्नावबुध्यते । राजावाराजमात्रोवाव्यर्थंतस्यबहुश्रुतम् ।।6.63.10।। Yuddha Kanda,63,11,उपप्रदानंसान्त्वं च भेदंकाले च विक्रमम् । योगं च रक्षसांश्रेष्ठतावुभौ च नयानयौ ।।6.63.11।। Yuddha Kanda,63,12,कालेधर्मार्थकामान्यस्सम्मन्त्ऱ्यसचिवैःसह । निषेवेतात्मवान्लोके न स व्यसनमाप्नुयात् ।।6.63.12।। Yuddha Kanda,63,13,हितानुबन्धमालोच्यकार्यात्कार्यमिहात्मनः । राजासहार्थतत्त्वज्ञैस्सचिवैर्बुस्सहिजीवति ।।6.63.13।। Yuddha Kanda,63,14,अनभिज्ञायशास्त्रार्थान् पुरुषाःपशुबुद्धयः । प्रागल्भ्याद्वक्तुमिच्छन्तिमन्त्रेष्वभ्यन्तरीकृताः ।।6.63.14।। Yuddha Kanda,63,15,अशास्त्रविदुषांतेषां न कार्यमभिहितंवचः । अर्थशास्त्रानभिज्ञानांविपुलांश्रियमिच्छताम् ।।6.63.15।। Yuddha Kanda,63,16,अहितं च हिताकारंधार्ष्ट्याज्जल्पन्तियेनराः । अवेक्ष्यमन्त्रबाह्यास्तेकर्तव्याःकृत्यदूषणा:।। 6.63.16।। Yuddha Kanda,63,17,विनाशयन्तोभर्तारंसहिताश्शत्रुभिर्बुधैः । विपरीतानिकृत्यानिकारयन्तीहमन्त्रिणः ।।6.63.17।। Yuddha Kanda,63,18,तान्भर्तामित्रसङ्काशानमित्रान्मन्त्रनिर्णये । व्यवहारेणजानीयात्सचिवानुपसम्हितान् ।।6.63.18।। Yuddha Kanda,63,19,चपलस्येहकृत्यानिसहसानुप्रधावतः । छिद्रमन्येप्रपद्यन्तेक्रौञ्चस्य ख मिवद्विजाः ।।6.63.19।। Yuddha Kanda,63,20,योहिशत्रुमवज्ञायनात्मानमभिरक्षति । अवाप्नोतिहिसोऽनर्थान् स्थानाच्चव्यवरोप्यते ।।6.63.20।। Yuddha Kanda,63,21,यदुक्तमिहतेपूर्वंक्रियतामनुजेन च । तदेवनोहितंवाक्यंयदिच्छसि च तत्कुरु ।।6.63.21।। Yuddha Kanda,63,22,तत्तुश्रुत्वादशग्रीवःकुम्भकर्णस्यभाषितम् । भ्रुकुटिंचैवसञ्चक्रेक्रुद्धश्चैनमभाषत ।।6.63.22।। Yuddha Kanda,63,23,मान्योगुरुवारिचार्यःकिमांत्वमनुशाससि । किमेवंवाक्छ्रमंकृत्वाकालेयुक्तंविधीयताम् ।।6.63.23।। Yuddha Kanda,63,24,विभ्रमाच्चित्तमोहाद्वाबलवीर्याश्रयेणवा । नाभिपन्नमिदानींयद्व्यर्थातस्यपुनःकथाः ।।6.63.24।। Yuddha Kanda,63,25,अस्मिन्कालेतुयद्युक्तंतदिदानींविधीयताम् । गतंतुनानुशोचन्तिगतंतुगतमेवहि ।।6.63.25।। Yuddha Kanda,63,26,ममापनयजंदोषंविक्रमेणसमीकुरु । यदिखल्वस्तिमेस्नेहोविक्रमंवाऽवगच्छसि ।।6.63.26।। यदिवकार्यंमेतत्तेहृदिकार्यतमंमतम् । Yuddha Kanda,63,27,स सुहृद्योविपन्नार्थंदीनमभ्यवपद्यते ।।6.63.27।। स बन्धुर्योऽपनीतेषुसाहाय्यायोपकल्पते । Yuddha Kanda,63,28,तमथैवंब्रुवाणंतुवचनंधीरदारुणम् ।।6.63.28।। रुष्टोऽयमितिविज्ञायशनैश्श्लक्षणमुवाच ह । Yuddha Kanda,63,29,अतीवहिसमालक्ष्यभ्रातरंक्षुभितेन्द्रियम् ।।6.63.29।। कुम्भकर्णश्शनैर्वाक्यंबभाषेपरिसान्त्वयन् । Yuddha Kanda,63,30,शृणुराजन्नवहितोममवाक्यमरिन्दम ।।6.63.30।। Yuddha Kanda,63,31,अलंराक्षसराजेन्द्र सन्तापमुपपद्यते । रोषं च सम्परित्यज्यस्वस्थोभवितुमर्हसि ।।6.63.31।। Yuddha Kanda,63,32,नैतन्मनसिकर्तव्यंमयिजीवतिपार्थिव । तमहंनाशयिष्यामियत्कृतेपरितप्यते ।।6.63.32।। Yuddha Kanda,63,33,अवश्यंतुहितंवाच्यंसर्वावस्थांतवमया । बन्धुभावादभिहितंभ्रातृस्नेहाच्छपार्थिव ।।6.63.33।। Yuddha Kanda,63,34,सदृशंयत्तुकालेऽस्मिन् कर्तुंस्निग्धेनबन्धुना । शत्रूणांकदनंपश्यक्रियमाणंमयारणे ।।6.63.34।। Yuddha Kanda,63,35,अद्यपश्यमहाबाहो मयासमरमूर्धनि । हतेरामेसहभ्रात्राद्रवन्तींहरिवाहिनीम् ।।6.63.35।। Yuddha Kanda,63,36,अद्यरामस्यतद्दृष्टवामयानीतंरणाच्छिरः । सुखीभवमहाबाहो सीताभवतुदुःखिता ।।6.63.36।। Yuddha Kanda,63,37,अद्यरामस्यपश्यन्तुनिधनंसुमहत्प्रियम् । लङ्कायांराक्षसाःसर्वेयेतेनिहतबान्धवाः ।।6.63.37।। Yuddha Kanda,63,38,अद्यशोकपरीतानांस्वबन्धुवधकारणात् । शत्रोर्युधिविनाशेनकरोम्यस्रप्रमार्जनम् ।।6.63.38।। Yuddha Kanda,63,39,अद्यपर्वतसङ्काशंससूर्यमिवतोयदम् । विकीर्णंपश्यसमरेसुग्रीवंप्लवगोत्तम ।।6.63.39।। Yuddha Kanda,63,40,कथं च राक्षसैरेभिर्मया च परिरक्षितः । जिघांसुभिर्दाशरथिं वध्यसे त्वमिहानघ ।।6.63.40।। Yuddha Kanda,63,41,मांनिहत्यकिलत्वांहिनिहनिष्यतिराघवः । नाहमात्मनिसन्तापंगच्छेयंराक्षसाधिप ।।6.63.41।। Yuddha Kanda,63,42,कामंवतिदानीमपिमांव्यादिशत्वंपरन्तप । न परःप्रेषणीयस्तेयुद्धायातुलविक्रम ।।6.63.42।। Yuddha Kanda,63,43,अहमुत्सादयिष्यामिशत्रूंस्तवमहाबल: । यदिशक्रोयदियमोयदिपावकमारुतौ ।।6.63.43।। तानहंयोधयिष्यामिकुबेरवरुणावपि । Yuddha Kanda,63,44,गिरिमात्रशरीरस्यशितशूलधरस्यमे ।।6.63.44।। नर्दतस्तीक्षणदंष्ट्रस्यबिभीयाच्चपुरन्दरः । Yuddha Kanda,63,45,अथवात्यक्तशस्त्रस्यमृद्नतस्तरसारिपून् ।।6.63.45।। न मेप्रतिमुखेस्थातुंकश्चित् शक्तोजिजीविषुः । Yuddha Kanda,63,46,नैवशक्त्या न गदयानासिनानिशितैश्शरैः ।।6.63.46।। हस्ताभ्यामेवसम्रब्दोहनिष्याम्यपिवज्रिणम् । Yuddha Kanda,63,47,यदिमेमुष्टिवेगं स राघवोऽद्यसहिष्यते ।।6.63.47।। ततःपाश्यन्तिबाणौघारुधिरंराघवस्यतु । Yuddha Kanda,63,48,चिन्तयाबाध्यसेराजन्किमर्थंमयितिष्ठति ।।6.63.48।। सोऽहंशत्रुविनाशाय तव निर्यातुमुद्यतः । Yuddha Kanda,63,49,मुञ्चरामाद्भयंराज न्हनिष्यामीहसम्युगे ।।6.63.49।। Yuddha Kanda,63,50,राघवंलक्ष्मणंचैवसुग्रीवं च महाबलम् । हनूमन्तं च रक्षोघ्नंलङ्कायेनप्रदीपिता ।।6.63.50।। Yuddha Kanda,63,51,हरींश्चापिहनियिष्यामिसंयुगेसमवास्थिवान् । असाधारणमिच्छामिनदातुंमहद्यशः ।।6.63.51।। Yuddha Kanda,63,52,तदिचेन्द्राद्भयं राजन्यदि चापिस्वयम्भुवः । ततोऽहंनाशयिष्यामिनैशंतमइवांशुमान् ।।6.63.52।। अपिदेवाश्शयिष्यन्तेक्रुद्धेमयिमहीतले । Yuddha Kanda,63,53,यमं च शमयिष्यामिभक्षयिष्यामिपावकम् ।।6.63.53।। आदित्यंपातयिष्यामिसनक्षत्रंमहीतले । Yuddha Kanda,63,54,शतक्रतुंवधिष्यामिपास्यामिवरुणालयम् ।।6.63.54।। पर्वतांश्चूर्णयिष्यामिदारयिष्यामिमेदिनीम् । Yuddha Kanda,63,55,दीर्घकालंप्रसुप्तस्यकुम्भकर्णस्यविक्रमम् ।।6.63.55।। Yuddha Kanda,63,56,अद्यपश्यन्तुभूतानिभक्ष्यमाणानिसर्वशः । नन्विदंत्रिदिवंसर्वमाहारस्य न पूर्यते ।।6.63.56।। Yuddha Kanda,63,57,वधेनतेदाशरथेःसुखार्हंसुखंसमाहर्तुमहंव्रजामि । निहत्यरामंसहलक्ष्मणेनखादामिन्हरियूथमुख्यान् ।।6.63.57।। Yuddha Kanda,64,1,तदुक्तमतिकायस्यबलिनोबाहुशालिनः । कुम्भकर्णस्यवचनंश्रुत्वोवाचमहोदरः ।।6.64.1।। Yuddha Kanda,64,2,कुम्भकर्णकुलेजातोधृष्टःप्राकृतदर्शनः । अवलिप्तो न शक्नोषिकृत्यंसर्वत्रवेदितुम् ।।6.64.2।। Yuddha Kanda,64,4,स्थानंवृद्धिं च हानि च देशकालविभागवित् । आत्मनश्चपरेषां च बुध्यतेराक्षसर्षभः ।।6.64.4।। Yuddha Kanda,64,5,यत्तुशक्यंबलवताकर्तुंप्राकृतबुद्धिना । अनुपासितवृद्धेनकःकुर्यात्तादृशंनरः ।।6.64.5।। Yuddha Kanda,64,6,यांस्तुधर्मार्थकामांस्त्वंब्रवीषिपृथगाश्रयान् । अवबोद्धुंस्वभावेतान्नहिलक्षणमस्तितान् ।।6.64.6।। Yuddha Kanda,64,7,कर्मचैवहिसर्वेषांकारणानांप्रयोजकम् । श्रेयःपापीयसांचात्रफलंभवतिकर्मणाम् ।।6.64.7।। Yuddha Kanda,64,8,निश्श्रेयसफलावेवधर्मार्थावितरावपि । अधर्मानर्थयोःप्राप्तिःफलं च प्रत्यवायिकम् ।।6.64.8।। Yuddha Kanda,64,9,ऐहलौकिकपारक्यंकर्मपुम्भिर्निषेव्यते । कर्माण्यपितुकल्यानिलभतेकाममास्थितः ।।6.64.9।। Yuddha Kanda,64,10,तत्रक्लुप्तमिदंराज्ञाहृदिकार्यंमतं च नः । शत्रौहिसाहसंयत्स्यात्किमिवात्रापनीयते ।।6.64.10।। Yuddha Kanda,64,11,एकस्यैवाभियानेतुहेतुर्यःकथितस्त्वया । तत्राप्यनुपपन्नंतेवक्ष्यामियदसाधु च ।।6.64.11।। Yuddha Kanda,64,12,येनपूर्वंजनस्थानेबहवोऽतिबलाहताः । राक्षसाराघवंतंत्वंकथमेकोजयिष्यसि ।।6.64.12।। Yuddha Kanda,64,13,येपुरानिर्जितास्तेनजनस्थानेमहौजसः । राक्षसांस्तान्पुरेसर्वान्भीतानद्यापिपश्यसि ।।6.64.13।। Yuddha Kanda,64,14,तंसिंहमिवसङ्क्रुद्धंरामंदशरथात्मजम् । सर्पंसुप्तमिवबुद्ध्यप्रबोधयितुमिच्छसि ।।6.64.14।। Yuddha Kanda,64,15,ज्वलन्तंतेजसानित्यंक्रोधेन च दुरासदम् । कस्तंमृत्युमिवासह्यमासादयितुमर्हति ।।6.64.15।। Yuddha Kanda,64,16,संशयस्थमिदंसर्वंशत्रोःप्रतिसमासने । एकस्यगमनंतत्र न हिमेरोचतेभृशम् ।।6.64.16।। Yuddha Kanda,64,17,हीनार्थस्तुसमृद्धार्थंकोरिपुंप्राकृतंयथा । निश्चित्यजीवितत्यागेवशमानेतुमिच्छति ।।6.64.17।। Yuddha Kanda,64,18,यस्यनास्तिमनुष्येषुसदृशोराक्षसोत्तम । कथमाशंससेयोद्धुंतुल्येनेन्द्रविवस्वतोः ।।6.64.18।। Yuddha Kanda,64,19,एवमुक्त्वातुसम्रब्दःकुम्भकर्णंमहोदरः । उवाचरक्षसांमध्येरावणंलोकरावणम् ।।6.64.19।। Yuddha Kanda,64,20,लब्ध्वापुनस्त्वंवैदेहींकिमर्थंसम्प्रजल्पसि । यदीच्छसितदासीतावशगातेभविष्यति ।।6.64.20।। Yuddha Kanda,64,21,दृष्टःकश्चदुपायोमेसीतोपस्थानकारकः । रुचितश्चेत्स्वयाबुध्याराक्षसेन्द्र तंशृणु ।।6.64.21।। Yuddha Kanda,64,22,अहंद्विजिह्वस्सम्ह्रादीकुम्भकर्णोवितर्दनः । पञ्चरामवधायैतेनिर्यान्त्वित्यवघोषय ।।6.64.22।। Yuddha Kanda,64,23,ततोगत्वावयंयुद्धंदास्यामस्तस्ययत्नतः । जेष्यामोयदितेशत्रून्नोपायैःकृत्यमस्तिनः ।।6.64.23।। Yuddha Kanda,64,24,अथजीवतिनश्शत्रुर्वयं च कृतसम्युगाः । ततस्तदभिपत्स्यामोमनसायत्समीक्षितम् ।।6.64.24।। Yuddha Kanda,64,25,वयंयुद्धादिहेष्यामोरुधिरेणसमुक्षिताः । विदार्यस्वतनुंबाणैरामनामाङ्कितैश्शितैः ।।6.64.25।। Yuddha Kanda,64,26,भक्षितोराघवोऽस्माभिर्लक्ष्मणश्चेतिवादिनः । तवपादौग्रहीष्यामस्त्वंनःकामंप्रपूरय ।।6.64.26।। Yuddha Kanda,64,27,ततोऽवघोषयपुरेगजस्कन्धेनपार्थिव । हतोरामस्सहभ्रात्राससैन्यइतिसर्वतः ।।6.64.27।। Yuddha Kanda,64,28,प्रीतोनामततोभूत्वाभृत्यानांत्वमरिन्दम । भोगांश्चपरिवारांश्चकामांश्चवसुदापय ।।6.64.28।। Yuddha Kanda,64,29,ततोमाल्यानिवासांसिवीराणामनुलेपनम् । पेयं च बहुयोधेभ्यस्स्वयं च मुदितःपिब ।।6.64.29।। Yuddha Kanda,64,30,ततोऽस्मिन् बहुलीभूतेकौलीनेसर्वतोगते । भक्षितस्ससुहृद्रामोराक्षसैरितिविश्रुते ।।6.64.30।। Yuddha Kanda,64,31,प्रविश्याश्वास्यचापित्वंसीतांरहसिसान्त्वय । धनधान्यैश्चकामैश्चरत्नैश्चानांप्रलोभय ।।6.64.31।। Yuddha Kanda,64,32,अनयोपधयाराजन् भयशोकानुबन्धया । अकामात्वद्वशंसीतानष्टनाथाभविष्यति ।।6.64.32।। Yuddha Kanda,64,33,ञ्जनीयम्हिभर्तारंविनष्टमवगम्यसा । नैराश्यात् स्त्रीलघुत्वाच्चत्वद्वशंप्रतिपत्स्यते ।।6.64.33।। Yuddha Kanda,64,34,सापुरासुखसम्वृद्धासुखार्हादुःखकर्शिता । त्वय्यधीनंसुखंज्ञात्वासर्वथोगमिष्यति ।।6.64.34।। Yuddha Kanda,64,35,एतत्सुनीतंममदर्शनेनरामंहिदृष्टवैभवेदनर्धः । इहैवतेसेत्स्यतिमोत्सुकोभूर्महानयुद्धेनसुखस्यलाभः ।।6.64.35।। Yuddha Kanda,64,36,अदृष्टसैन्योह्यनवाप्तसंशयोरिपूनयुद्धेनजयन् जनाधिप । यशश्चपुण्यं च महन्महीपतेश्रशियं च कीर्तिं च चिरं ।।6.64.36।। Yuddha Kanda,65,1,स तथोक्तस्तुनिर्भर्त्स्यकुम्भकर्णोमहोदरम् । अब्रवीद्राक्षसश्रेष्ठंभ्रातरंरावणंततः ।।6.65.1।। Yuddha Kanda,65,2,सोऽहंतवभयंघोरंवधात्तस्यदुरात्मनः । रामस्याद्यप्रमार्जामिनिर्वैरोहिसुखीभव ।।6.65.2।। Yuddha Kanda,65,3,गर्जन्ति न वृथाशूरानिर्जलाइवतोयदाः । पश्यसम्पद्यमानंतुगर्जितंयुधिकर्मणा ।।6.65.3।। Yuddha Kanda,65,4,न मर्षयन्तिचात्मानंसम्भावयतिनात्मना । अदर्शयित्वाशूरास्तुकर्मकुर्वन्तिदुष्करम् ।।6.65.4।। Yuddha Kanda,65,5,विक्लबानामबुद्धीनांराज्ञापण्डितमानिनाम् । श्रृण्वतासदितमिदंत्वाद्विधानांमहोदर ।।6.65.5।। Yuddha Kanda,65,6,युद्धेकापुरुषैर्नित्यंभवद्भिःप्रियवादिभि: । राजानमनुगच्छद्भिःसर्वंकृत्यमोद्धिसादितम् ।।6.65.6।। Yuddha Kanda,65,7,राजशेषाकृतालङ्काक्षीणःकोशोबलंहतम् । राजानमिममासाद्यसुहृचचिह्नममित्रकम् ।।6.65.7।। Yuddha Kanda,65,8,एषनिर्याम्यहंयुद्धमुद्यतश्शत्रुनिर्जये । दुर्नयंभवतामद्यसमीकर्तुंमिहाहवे ।।6.65.8।। Yuddha Kanda,65,9,एवमुक्तवतोवाक्यंकुम्भकर्णस्यधीमतः । प्रत्युवाचततोवाक्यंप्रहसन्राक्षसाधिपः ।।6.65.9।। Yuddha Kanda,65,10,महोदरोऽयंरामात्तुपरित्रस्तो न संशयः । न हिरोचयतेतात युद्धंयुद्धविशारद ।।6.65.10।। Yuddha Kanda,65,11,कश्चिन्मेत्वत्समोनास्तिसौहृदेनबलेन च । गच्छशत्रुवधायत्वंकुम्भकर्णजयाय च ।।6.65.11।। Yuddha Kanda,65,12,तस्मात्तुशत्रुनाशार्थंभवान्सम्बोधितोमया । अयंहिकालस्सुहृदांराक्षसानामरिन्दम ।।6.65.12।। Yuddha Kanda,65,13,तद्गच्छशूलमादायपाशहस्तइवान्तकः । वानरान्राजपुत्रौ च भक्ष्यादित्यतेजसा ।।6.65.13।। Yuddha Kanda,65,14,समालोक्यतुतेरूपंविद्रविष्यन्तिवानराः । रामलक्ष्मणयोश्चापिहृदयेप्रस्फुटिष्यतः ।।6.65.14।। Yuddha Kanda,65,15,एवमुक्त्वामहातेजाःकुम्भकर्णंमहाबलम् । पुनर्जातमिवात्मानंमेनेराक्षसपुङ्गवः ।।6.65.15।। Yuddha Kanda,65,16,कुम्भकर्णबलाभिज्ञोजानंस्तस्यपराक्रमम् । बभूवमुदितोराजाशशाङ्कइवनिर्मलः ।।6.65.16।। Yuddha Kanda,65,17,इत्येवमुक्तःसम्हृष्टोनिर्जगाममहाबलः । राज्ञस्तुवचनंश्रुत्वाकुम्भकर्णस्समुद्यत:।। 6.65.17।। Yuddha Kanda,65,18,आददेनिशितंशूलंवेगाच्छत्रुनिबर्हणम् । सर्वकालायसंदीप्तंतप्तकाञ्चनभूषणम् ।।6.65.18।। Yuddha Kanda,65,20,इन्द्राशनिसमंभीमंवज्रप्रतिमगौरवम् । देवदानवगन्धर्वयक्षपन्नगसूदनम् ।।6.65.19 ।। रक्तमाल्यंमहाधामंस्वतश्चोद्गतपावकम् । आदायनिशितंशूलंशत्रुशोणितरञ्जितम् ।।6.65.20।। कुम्भकर्णोमहातेजारावणंवाक्यमब्रवीत् । Yuddha Kanda,65,21,गमिष्याम्यहमेकाकीतिष्ठत्विहबलंमम ।।6.65.21।। अद्यतान् क्षुभितान् क्रुद्धोभक्षयिष्यामिवानरान् । Yuddha Kanda,65,22,कुम्भकर्णवचश्श्रुत्वारावणोवाक्यमब्रवीत् ।।6.65.22।। सैन्यैःपरिवृतोगच्छशूलमुद्गतपाणिभिः । Yuddha Kanda,65,23,वानराहिमहात्मानश्शीघ्रास्सव्यवसायिनः ।।6.65.23।। एकाकिनंप्रमत्तंवानयेयुद्धशनैःक्ष्यम् । Yuddha Kanda,65,24,तस्मात्परमदुर्धर्षै: सैन्यैःपरिवृतोव्रज ।।6.65.24।। रक्षसामहितंसर्वंशत्रुपक्षंनिषूदय । Yuddha Kanda,65,25,अथासनात्समुत्पत्यस्रजं मणिकृतान्तराम् ।।6.65.25।। आबबन्धमहातेजाःकुम्भकर्णस्यरावणः । Yuddha Kanda,65,26,अङ्गदान्यङ्गुलीवेष्टान्वराण्याभरणानि च ।।6.65.26।। हारं च श्शिसङ्काशमाबबन्दमहात्मनः । Yuddha Kanda,65,27,दिव्यानि च सुगन्धीनिमाल्यदामानिरावणः ।।6.65.27।। श्रोत्रिचासञ्जयामासश्रीमतीचास्यकुण्डले । Yuddha Kanda,65,28,काञ्चनाङ्गदकेयूरोनिष्काभरणभूषितः ।।6.65.28।। कुम्भकर्णोबृहत्कर्णस्सुहुतोऽग्निरिवाबभौ । Yuddha Kanda,65,29,श्रोणीसूत्रेणमहतामेचकेनव्यराजत ।।6.65.29।। अमृतोत्पादनेनद्धोभुजङ्गेनेवमन्दरः । Yuddha Kanda,65,30,स काञ्चनंभारसहंनिवातंविद्युत्प्रभंदीप्तमिवात्मभासा । आबध्यमानःकवचंरराजसन्ध्याभ्रसम्वीतराजः ।।6.65.30।। Yuddha Kanda,65,31,सर्वाभरणसर्वाङ्गश्शूलपाणिस्सराक्षसः । त्रिविक्रमकृतोत्साहोनारायणइवाबभौ ।।6.65.31।। Yuddha Kanda,65,32,भ्रातरंसम्परिष्वज्यकृत्वाचापिप्रदक्षिणम् । प्रणम्यशिरसातस्मैसम्प्रतस्थेमहाबलः ।।6.65.32।। Yuddha Kanda,65,33,निष्पतन्तंमहाकायंमहानादंमहाबलम् । तमाशीर्भिःप्रशस्ताभिःप्रेषयामासरावणः ।।6.65.33।। Yuddha Kanda,65,34,शङ्खदुन्दुभिनिर्घोषैस्सैन्यैश्चापिवरायुथैः । तंगजैश्चतुरङ्गैश्चस्यन्दनैश्चाम्बुदस्वनैः ।।6.65.34।। अनुजग्मुर्महात्मानं रथिनो रथिनां वरम् । Yuddha Kanda,65,35,सर्पैरुष्ट्रैःखरैरश्वैस्सिम्हद्विपमृगद्विजैः । अनुजग्मुश्चतंघोरंकुम्भकर्णंमहाबलम् ।।6.65.35।। Yuddha Kanda,65,36,स पुष्पवर्षैरवकीर्यमाणोधृतातपत्रःशितशूलपाणिः । मदोत्कटःशोणितगन्धमत्तोविनिर्ययौदावनदेवशत्रुः ।।6.65.36।। Yuddha Kanda,65,37,पदातयश्चबहवोमहानादामहाबलाः । अन्वयूराक्षसाभीमाभीमाक्षाश्शस्त्रपाणयः ।।6.65.37।। Yuddha Kanda,65,38,रक्ताक्षास्सुमहाकायानीलाञ्चनचयोपमाः । शूलानुद्यम्यखडगांश्चनिशितांश्चपरश्वधान् ।।6.65.38।। Yuddha Kanda,65,39,बहुव्यामांश्चपरिघान्गदाश्चमुसलानि च । तालस्कन्धांश्चविपुलान्क्षेपणीयान्दुरासदान् ।।6.65.39।। Yuddha Kanda,65,40,अथान्यद्वपुरादायदारुणंरोमहर्षणम् । निष्पपातमहातेजाःकुम्भकर्णोमहाबलः ।।6.65.40।। Yuddha Kanda,65,41,धनुःशतपरीणाहः स षट्छत्रसमुच्छ्रितः । रौद्रःशकटचक्राक्षोमहापर्वतसन्निभः ।।6.65.41।। Yuddha Kanda,65,42,सन्निपत्य च रक्षांसिदग्धशैलोपमामहान् । कुम्भकर्णोमहावक्त्रःप्रहसन्निदमब्रवीत् ।।6.65.42।। Yuddha Kanda,65,43,अद्यवानरमुख्यानांतानियूथानिभागश । निर्दहिष्यामिसङ्ख्रुद्धश्शलाभानिवपावकः ।।6.65.43।। Yuddha Kanda,65,44,नापराध्यन्तिमेकामंवानरा: वनचारिणः । जातिरस्मद्विधानांसापुरोद्यानविभूषणम् ।।6.65.44।। Yuddha Kanda,65,45,पुररोधस्यमूलंतुराघवस्सहलक्ष्मणः । हतेतस्मिन् हतंसर्वंतंवधिष्यामिसंयुगे ।।6.65.45।। Yuddha Kanda,65,46,एवंतस्यब्रुवाणस्यकुम्भकर्णस्यराक्षसाः । नादंचक्रुर्महाघोरंकम्पयन्तइवार्णवम् ।।6.65.46।। Yuddha Kanda,65,47,तस्यनिष्पततस्तूर्णंकुम्भकर्णस्यधीमतः । बभूवुर्घोररूपाणिनिमित्तानिसमन्ततः ।।6.65.47।। Yuddha Kanda,65,48,उल्काशनियुतामेघाबभूवुर्गर्धभारुणाः । ससागरवनाचैववसुधासमकम्पत ।।6.65.48।। Yuddha Kanda,65,49,घोररूपाश्शिवानेदुस्सज्वालकबलैर्मुखैः । मण्डलान्यपसव्यानिबबन्धुश्चविहङ्गमाः ।।6.65.49।। Yuddha Kanda,65,50,निष्पपात च गृध्रोमालेवाऽस्यपथिगच्छतः । प्रास्फुरन्नयनंचास्यसव्योबाहुश्चकम्पत ।।6.65.50।। Yuddha Kanda,65,51,निष्पपाततदाचोल्काज्वलन्तीभीमनिश्श्वना । आदित्योनिष्प्रभश्चासीन्नप्रवाति च ऽनिलः ।।6.65.51।। Yuddha Kanda,65,52,अचिन्तयन्महोत्पातानुदितान्रोमहर्षणान् । निर्ययौकुम्भकर्णस्तुकृतान्तबलचोदितः ।।6.65.52।। Yuddha Kanda,65,53,न लङ्घयित्वाप्राकारंपद्भ्यांपर्वतसन्निभः । ददर्शाभ्रघनप्रख्यंवानरानीकमद्भुतम् ।।6.65.53।। Yuddha Kanda,65,54,तेदृष्टवाराक्षसश्रेष्ठंवानराःपर्वतोपमम् । वायुनुन्नाइवघनाययुस्सर्वादिशस्तदा ।।6.65.54।। Yuddha Kanda,65,55,तद्वानरानीकमतिप्रचण्डंदिशोद्रवद्भिन्नमवाभ्रजालम् । स कुम्भकर्णस्समवेक्ष्यहर्षान्ननादभूयोघनवद्घनाभः ।।6.65.55।। Yuddha Kanda,65,56,तेतस्यघोरंनिनदंनिशम्ययथानिनादंदिविवारिदस्य । पेतुर्धरण्यांबहवःप्लवङ्गानिकृत्तमूलाइवशालवृक्षाः ।।6.65.56।। Yuddha Kanda,65,57,विपुलपरिघवान् स कुम्भकर्णोरिपुनिधनायविनिस्पृतोत्मा । कपिषणभयमाददत्सुभीमंप्रभुरिवदण्डवान्युगान्ते ।।6.65.57।। Yuddha Kanda,66,1,स लङ्घयित्वाप्राकारंगिरिकूटोपमोमहान् । निर्ययौनगरात्तूर्णंकुम्भकर्णोमहाबलः ।।6.66.1।। Yuddha Kanda,66,2,ननाद च महानादंसमुद्रमभिनादयन् । विजयन्निवनिर्घातन्विधमन्निवपर्वतान् ।।6.66.2।। Yuddha Kanda,66,3,तमवध्यंमघवतायमेनवरुणेनवा । प्रेक्ष्यभीमाक्षमायान्तंवानराविप्रदुद्रुवुः ।।6.66.3।। Yuddha Kanda,66,4,तांस्तुविप्रद्रुतान् दृष्टवाराजपुत्रोऽङ्गदोऽब्रवीत् । नलंनीलंगवाक्षं च कुमुदं च महाबलम् ।।6.66.4।। Yuddha Kanda,66,5,आत्मानमत्रविस्मृत्यवीर्याण्यभिजनानि च । क्वगच्छतभयत्रस्ताःप्राकृताहरयोयथा ।।6.66.5।। Yuddha Kanda,66,6,साधुसौम्या निवर्तध्वंकिप्राणान्परिरक्षथ । नालंयुद्धायवैरक्षोमहतीयंबिभीषका ।।6.66.6।। Yuddha Kanda,66,7,महतीमुथतितामेनांराक्षसानांबिभीषिकाम् । विक्रमाद्विधमिष्यामोनिवर्तध्वंप्लवङ्गमाः ।।6.66.7।। Yuddha Kanda,66,8,कृच्छ्रेणतुसमाश्वस्यसङ्गम्य च ततस्ततः । वृक्षाद्रिहस्ताहरयस्सम्प्रतस्थूरणाजिरम् ।।6.66.8।। Yuddha Kanda,66,9,तेनिवृत्यतुसङ्कृद्धाःकुम्भकर्णंवनौकसः । निर्जघ्नुःपरमक्रुद्धास्समदाइवकुञ्जराः ।।6.66.9।। Yuddha Kanda,66,10,प्रांशुभिर्गिरिशृङ्गैश्चशिलाभिश्चमहाबलः । पादपैःपुष्पिताग्रैश्चहन्यमानो न कम्पते ।।6.66.10।। Yuddha Kanda,66,11,तस्यगात्रेषुपतिताभिद्यन्तेशतशश्शिलाः । पादपाःपुष्पिताग्राश्चभग्नाःपेतुर्महीतले ।।6.66.11।। Yuddha Kanda,66,12,सोऽपिसैन्यानिसङ्क्रुद्धोवानराणांमहौजसाम् । ममन्थपरमायत्तोवनान्यग्निरिवोत्थितः ।।6.66.12।। Yuddha Kanda,66,13,लोहितार्द्रास्तुबहवश्शेरतेवानरर्षभाः । निरस्तांपतिताभूमौताम्रपुष्पाइवद्रुमाः ।।6.66.13।। Yuddha Kanda,66,14,लङ्घयन्तःप्रधावन्तोवानरानावलोकयन् । केचित्समुद्रेपतिताःकेचिद्गगनमास्थिताः ।।6.66.14।। Yuddha Kanda,66,15,वध्यमानास्तुतेवीराराक्षसेन च लीलया । सागरंयेनतेतीर्णाःपथातेनदुद्रुवुः ।।6.66.15।। Yuddha Kanda,66,16,तेस्थलानितदानिम्नंविवर्णमानाभयात् । ऋक्षावृक्षान् समारूढाःकेचित्पर्वतमाश्रिताः ।।6.66.16।। Yuddha Kanda,66,17,ममज्जुरर्णवेकेचिद्गुहाःकेचित्समाश्रिताः । निपेतुःकेचिदपरेकेचिन्नैवावतस्थिरे ।।6.66.17।। केचिद्भूमौनिपतिताःकेचित्सुप्तामृताइव । Yuddha Kanda,66,18,तान्समीक्ष्याङ्गदोभग्नान्वानरानिदमब्रवीत् ।।6.66.18।। अवतिष्ठतयुध्यामोनिवर्तध्वंप्लवङ्गमाः । Yuddha Kanda,66,19,भग्नानांवो न पश्यामिपरिगम्यमहीमिमाम् ।।6.66.19।। स्थानंसर्वेनिवर्तध्वंकिंप्राणान् परिरक्षथ । Yuddha Kanda,66,20,निरायुधानांद्रवतामसङ्गगतिपौरुषाः ।।6.66.20।। दाराह्युपहसिष्यन्ति स वैघातस्तुजीवताम् । Yuddha Kanda,66,21,कुलेषुजातास्सर्वेस्मविस्तीर्णेषुमहत्सु च ।।6.66.21।। Yuddha Kanda,66,22,क्वगच्छतभयत्रस्ताःहरयःप्राकृतायथा । अनार्याःखलुयद्भीतास्त्यक्त्वावीर्यंप्रधावत ।।6.66.22।। Yuddha Kanda,66,23,विकत्थनानिवोयानि तदावैजनसंसदि । तानिवःक्वनुयातानिसोदग्राणिम हितानि च ।।6.66.23।। Yuddha Kanda,66,24,भीरुप्रवादाश्श्रूयन्तेयस्तुजीवतिधिक्कृतः । मार्गस्सत्पुरुषैर्जष्टःसेव्यतांत्यज्यतांभयम् ।।6.66.24।। Yuddha Kanda,66,25,शयामहेऽनिहताःपृथिव्यामल्पजीविताः । दुष्प्रापंब्रह्मलोकंवाप्राप्नुयामोयुधिसूदिता ।।6.66.25।। Yuddha Kanda,66,26,सम्प्राप्नुयामःकीर्तिंवानिहत्वाशत्रुमाहवे । जीवितंवीरलोकस्यमोक्ष्यामोवसुवानराः ।।6.66.26।। Yuddha Kanda,66,27,न कुम्भकर्णःकाकुत्स्थंदृष्टवाजीवन् गमिष्यति । दीप्यमानमिवासाद्यपतङ्गोज्वलनंयथा ।।6.66.27।। Yuddha Kanda,66,28,लायनेनचोद्धिष्टाःप्राणान् रक्षामहेवयम् । एकेनबहवोभग्नायशोनाशंगमिष्यति ।।6.66.28।। Yuddha Kanda,66,29,एवंब्रुवाणंतंशूरमङ्गदंकनकाङ्गदम् । द्रवमाणास्ततोवाक्यमूचुःशूरुविगर्हितम् ।।6.66.29।। Yuddha Kanda,66,30,कृतंनःकदनंघोरंकुम्भकर्णेनरक्षसा । न स्थानकालोगच्छामोदयितंजीवितंहिनः ।।6.66.30।। Yuddha Kanda,66,31,एतावदुक्त्वावचनंसर्वेतेभेजिरेदिशः । भीमंभीमाक्षमायान्तंदृष्टवावानरयूथपाः ।।6.66.31।। Yuddha Kanda,66,32,द्रवमाणस्तुतेवीराअङ्गदेनवलीमुखाः । सान्त्वैश्चैहनुमानैश्चततस्सर्वेनिवर्तिताः ।।6.66.32।। Yuddha Kanda,66,33,प्रहर्षमुपनीताश्चवालिपुत्रेणधीमता । आज्ञाप्रतीक्षास्तस्थुश्चसर्वेवानरयूथपाः ।।6.66.33।। Yuddha Kanda,66,34,ऋषभशरभमैन्दधूम्रनीलाःकुमुदसुषेणगवाक्षरम्भताराः । द्विविदपनसवायुपुत्रमुख्यास्त्वरिततराभिमुखंरणं ।।6.66.34।। Yuddha Kanda,67,1,तेनिवृत्तामहाकायाश्श्रुत्वाङ्गदवचस्तदा । नैष्ठिकींबुद्धिमास्थायसर्वेसङ्ग्रामकाङ्क्षिणः ।।6.67.1।। Yuddha Kanda,67,2,समुदीरितवीर्यास्तेसमारोपितविक्रमाः । पर्यवस्थापितावाक्यैरङ्गदेनवलीमुखाः ।।6.67.2।। Yuddha Kanda,67,3,प्रयाताश्चगताहर्षंमरणेकृतश्चयाः । चक्रुस्सुतुमुलंयुद्धंवानरास्त्यक्तजीविताः ।।6.67.3।। Yuddha Kanda,67,4,अथवृक्षान्महाकायास्सानूनिसुमहान्ति च । वानरास्तूर्णमुद्यम्यकुम्भकर्णमभिद्रुताः ।।6.67.4।। Yuddha Kanda,67,5,कुम्भकर्णस्सङ्कृद्धोगदामुद्यम्यवीर्यवान् । अर्थयन्समहाकायस्समन्ताद् व्यक्षिपद्रिपून् ।।6.67.5।। Yuddha Kanda,67,6,शतानिसप्तचाष्टौ च सहस्राणि च वानराः । प्रकीर्णाःशेरतेभूमौकुम्भकर्णेनपोधिताः ।।6.67.6।। Yuddha Kanda,67,7,षोडशाष्टौ च दश च विंशत्रतिंशस्तथैव च । परिक्षिप्य च बाहुभ्यांखादन्विपरिधावति ।।6.67.7।। भक्ष्यन् भृशसङ्क्रुद्धोगरुडःपन्नगानिव । Yuddha Kanda,67,8,कृच्छ्रेणचसमाश्वस्ताःसङ्गम्यचततस्ततः ।।6.67.8।। वृक्षाद्रिहस्ताहरयस्तस्थुस्सङ्ग्राममूर्थनि । Yuddha Kanda,67,9,ततःपर्वतमुत्पाट्यद्विविदःप्लवगर्षभः ।।6.67.9।। दुद्रावगिरिशृङ्गाभंविलम्बइवतोयदः । Yuddha Kanda,67,10,तंसमुत्पत्यचिक्षेपकुम्भकर्णायवानरः ।।6.67.10।। तमप्राप्यमहाकायंतस्यसैन्येऽपतत्तधा । Yuddha Kanda,67,11,ममर्दाश्वान्गजांश्चापिरथांश्चापिनगोत्तमः ।।6.67.11।। तानिचान्यानिरक्षांसिएवंचान्यगदिरेःशिरः । Yuddha Kanda,67,12,तच्चैलवेगाभिहतंहताश्वंहतसारथि ।।6.67.12।। रक्षसांरुधिरक्लिन्नंबभूवायोधनंमहत् । Yuddha Kanda,67,13,रथिनोवानरेन्द्राणांशरैःकालान्तकोपमैः ।।6.67.13।। शिरांसिनर्दतांजह्रुस्सहसाभीमनिस्स्वना । Yuddha Kanda,67,14,वानराश्चमहात्मानस्समुत्पाट्यमहाद्रुमान् ।।6.67.14।। रथावश्वान्गजानुष्ट्रान्राक्षसानभ्यसूदयन् । Yuddha Kanda,67,15,हनुमान् शैलशृङ्गाणिशिलाश्चविविधान् द्रुमान् ।।6.67.15।। ववर्षकुम्भकर्णस्यशिरस्यम्बरमास्थितः । Yuddha Kanda,67,16,तानिपर्वतशृङ्गाणिशूलेन स बिभेद ह ।।6.67.16।। बभञ्जवृक्षवर्षं च कुम्भकर्णोमहाबलः । Yuddha Kanda,67,17,ततोहरीणांतदनीकमुग्रंदुद्रावशूलंनिशितंप्रगृह्य । तस्थौ स तस्यापततःपुरस्तान्महीधराग्रंहनुमान् प्रगृह्य ।।6.67.17।। Yuddha Kanda,67,18,स कुम्भकर्णंकुपितोजघानवेगेनशैलोत्तमभीमकायम् । स चक्षुभेतेनतदाभिभूतोमेदार्द्रगात्रोरुधिरावसिक्तः ।।6.67.18।। Yuddha Kanda,67,19,स शूलमासाद्यतटित्प्रकाशंगिरिर्यथाप्रज्वलिताग्रशृङ्गम् । बाह्वन्तरेमारुतिमाजघानगुहोऽचलंक्रौञ्चमिवोग्रशक्त्या ।।6.67.19।। Yuddha Kanda,67,20,शूलनिर्भिन्नमहाभुजान्तरःप्रविह्वलःशोणितमुद्वमन् मुखात् । ननादभीमंहनुमान् महाहवेयुगान्तमेघस्न्तितस्वनोपमम् ।।6.67.20।। Yuddha Kanda,67,21,ततोविनेदुःसहसाप्रहृष्टारक्षोगणास्तंव्यथितंसमीक्ष्य । प्लवङ्गमास्तुव्यथिताभयर्ताःप्रदुद्रुवुःसंयतिकुम्भकर्णात् ।।6.67.21।। Yuddha Kanda,67,22,ततस्तुनीलोबलवान् पर्यवस्थापयन्बलम् । प्रविचिक्षेपशैलाग्रंकुम्भकर्णायधीमते ।।6.67.22।। Yuddha Kanda,67,23,तदापतन्तंसम्प्रेक्ष्यमुष्टिनाभिजघान ह । मुष्टिप्रहाराभिहतंतच्छैलाग्रंव्यशीर्यत ।।6.67.23।। सविस्फुलिंगंसज्वालनिपपातमहेतले । Yuddha Kanda,67,24,ऋषभश्शरभोनीलोगवाक्षोगन्धमादनः ।।6.67.24।। पञ्चवानरशार्दूलाःकुम्बुकर्णमुपाद्रवन् । Yuddha Kanda,67,25,शैलैर्ववृक्षैस्तलैःपादैर्मुष्टिभिश्चमहाबलाः ।।6.67.25।। कुम्भकर्णंमहाकायंसर्वतोऽभिप्रदुद्रुवुः । Yuddha Kanda,67,26,स्पर्शानिवप्रहारांस्तान्वेद्वयानो न विव्यथे ।।6.67.26।। ऋषभंतुमहावेगंबाहुभ्यांपरिषस्वजे । Yuddha Kanda,67,27,कुम्भकर्णभुजाभ्यांतुपीडितोवानरर्षभः ।।6.67.27।। निपपातर्षभोभीमःप्रमुखाद्वान्तशोणितः । Yuddha Kanda,67,28,मुष्टिनाशरभंहत्वाजानुनानीलमाहवे ।।6.67.28।। Yuddha Kanda,67,29,आजघानगवाक्षंतुलेनेन्द्ररिपुस्तदा । पादेनाभ्यहनत्कृद्धस्तरसागन्धमादनम् ।।6.67.29।। Yuddha Kanda,67,30,दत्तप्रहारव्यथितामुमुहुश्शोणितोक्षिताः । निपेतुस्तेतुमेदिन्यांनिकृत्ताइवकिंशुकाः ।।6.67.30।। Yuddha Kanda,67,31,तेषुवानरमुख्येषुपातितेषुमहात्मसु । वानराणांसहस्राणिकुम्बकर्णंप्रदद्रुवुः ।।6.67.31।। Yuddha Kanda,67,32,तंशैलमिवशैलाभाःसर्वेतुप्लवगर्षभाः । समारुह्यसमुत्पत्यददंशुश्चमहाबलाः ।।6.67.32।। Yuddha Kanda,67,33,तंनखैर्धशनैश्चापिमुष्टिभिर्बाहुभिस्तथा । कुम्भकर्णंमहाबाहहुंतेजघ्नुःप्लवगर्षभाः ।।6.67.33।। Yuddha Kanda,67,34,स वानरसहस्त्रैरजितः पर्वतोपमैः । रराजराक्षसव्याघ्रोगिरिरात्मरुहैरिव ।।6.67.34।। Yuddha Kanda,67,35,बाहुभ्यांवानरान्सर्वान्प्रगृह्य स महाबलः । भक्ष्यामाससङ्क्रुद्धोगरुडःपन्नगानिव ।।6.67.35।। Yuddha Kanda,67,36,प्रक्षिप्ताःकुम्बकर्णेनवक्त्रेपातालसन्निभे । नासापुटाभ्यांनिर्जग्मुःकर्णाभ्यांचैववानराः ।।6.67.36।। Yuddha Kanda,67,37,भक्ष्यन्भृशसङ्क्रुद्धो हरीन् पर्वतसन्निभः । बभञ्जवानरान् सर्वान् सङ्क्रुद्धोराक्षसोत्तमः ।।6.67.37।। Yuddha Kanda,67,38,मांसशोणितसंक्लेदाकुर्वन् भूमिं स राक्षसः । चचारहरिनैन्येषुकालानगिरिवमूर्छितः ।।6.67.38।। Yuddha Kanda,67,39,वज्रहस्तोयथाशक्रःपाशहस्तइवान्तकः । शूलहस्तोबभौयुद्धेकुम्बकर्णोमहाबलः ।।6.67.39।। Yuddha Kanda,67,40,यथाशुष्काण्यरण्यानिग्रीष्मेदहतिपावकः । तथावानरसैन्यानिकुम्बकर्णोविनिर्दहत् ।।6.67.40।। Yuddha Kanda,67,41,ततस्तेवध्यमानास्तुहतयूथाविनायकाः । वानराभयसंविग्नाविनेदुर्विस्वरंभृशैः ।।6.67.41।। Yuddha Kanda,67,42,अनेकशोवध्यमानाःकुम्भकर्णेनवानराः । राघवंशरणंजग्मुर्व्यथिताःभिन्नचेतसः ।।6.67.42।। Yuddha Kanda,67,43,प्रभग्नान् वानरान् दृष्टवावज्रहस्तात्मजात्मजः । अभ्यधावतवेगेनकुम्भकर्णंमहाहवे ।।6.67.43।। Yuddha Kanda,67,44,शैलशृङ्गंमहद्गृह्यविनदंश्चमुहुर्मुहुः । त्रासयन्राक्षसान्सर्वान् कुम्भकर्णपदानुगान् ।।6.67.44।। चिक्षेपशैलशिखरंकुम्भकर्णस्यमूर्धनि । Yuddha Kanda,67,45,स तेनाभिहतोमूर्ध्निशैलेनेन्द्ररिपुस्तदा ।।6.67.45।। Yuddha Kanda,67,46,कुम्भकर्णःप्रजज्वालक्रोधेनमहतातदा । सोऽभ्यधावतवेगेनवालिपुत्रममर्षणम् ।।6.67.46।। Yuddha Kanda,67,47,कुम्भकर्णोमहानादस्त्रासयन् सर्ववानरान् । शूलंससर्जवैरोषादङ्गदेतुमहाबलः ।।6.67.47।। Yuddha Kanda,67,48,त मापतन्तंबुद्ध्वातुयुद्धमार्गविशारदः । लाघवान्मोचयामाबलवान् वानरर्षभः ।।6.67.48।। Yuddha Kanda,67,49,उत्पत्यचैनंतरसातलेनोरस्यताडयत् । स तेनाभिहतःकोपात्प्रमुमोहाचलोपमः ।।6.67.49।। Yuddha Kanda,67,50,स लब्दसंज्ञोबलवान्मुष्टिमावर्त्यराक्षसः । अपहास्तेनचिक्षेपविसंज्ञः स पपात ह ।।6.67.50।। Yuddha Kanda,67,51,तस्मिन् प्लवगशार्दूलेविसंज्ञेपतितेभुवि । तच्छूलंसमुपादायसुग्रीवमभिदुद्रुवे ।।6.67.51।। Yuddha Kanda,67,52,तमापतन्तंसम्प्रेक्ष्यकुम्भकर्णंमहाबलम् । उत्पपाततदावीरस्सुग्रीवोवानराधिपः ।।6.67.52।। Yuddha Kanda,67,53,स पर्वताग्रमुत्क्षिप्यसमाविध्यमहाबलः । अभिदुद्राववेगेनकुम्भकर्णंमहाबलम् ।।6.67.53।। Yuddha Kanda,67,54,तमापतन्तंसम्प्रेक्ष्यकुम्भकर्णःप्लवङ्गमम् । तस्थौविवृतसर्वाङ्गोवानरेन्द्रस्यसम्मुखः ।।6.67.54।। Yuddha Kanda,67,55,कपिशोणितदिग्धाङ्गंभक्ष्यन्तंप्लवङ्गमान् । कुम्भकर्णंस्थितंदृष्टवासुग्रीवोवाक्यमब्रवीत् ।।6.67.55।। Yuddha Kanda,67,57,त्वजतद्वानरानीकंप्राकृतैःकिंकरिष्यसि । सहस्वैकंनिपातंमेपर्वतस्यास्यराक्षस ।।6.67.57।। Yuddha Kanda,67,58,तद्वाक्यंहरिराजस्यसत्त्वधैर्यसमन्वितम् । श्रुत्वाराक्षसशार्दूलःकुम्भकर्णोऽब्रवीद्वचः ।।6.67.58।। Yuddha Kanda,67,59,प्रजापतेस्तुपौत्रस्त्वंतथैवरक्षरजस्सुतः । श्रुतपौरुषसम्पन्नःकस्माद्गर्जसिवानर ।।6.67.59।। Yuddha Kanda,67,60,स कुम्भकर्णस्यवचोनिशम्यव्याविध्यशैलंसहसामुमोच । तेनाजघानोरसिकुम्भकर्णंशैलेनवज्राशनिसन्निभेन ।।6.67.60।। Yuddha Kanda,67,61,तच्छैलशृङ्गंसहसाविकीर्णंभुजान्तरेतस्यतदाविशाले । ततोनिषेदुःसहसाप्लवङ्गारक्षोगणाश्चापिमुदाविनेदुः ।।6.67.61।। Yuddha Kanda,67,62,स शैलशृङ्गाभिहतश्चुकोपननादरोषाच्चविवृत्यवक्त्रम् । व्याविध्यशूलं च तटित्प्रकाशंचिक्षेपहर्यृक्षिपतेर्वधाय ।।6.67.62।। Yuddha Kanda,67,63,तत्कुम्भकर्णस्यभुजप्रविद्धंशूलंशितंकाञ्चनदामजुष्टम् । क्षिप्रंसमुत्पत्यनिगृह्यदोर्भ्यांबभञ्जवेगेनसुतोऽनिलस्य ।।6.67.63।। Yuddha Kanda,67,64,कृतंभारसहस्रस्यशूलंकालायसंमहत् । बभञ्जजानुमारोप्यतदाहृष्टःप्लवङ्गमः ।।6.67.64।। Yuddha Kanda,67,65,शूलंभग्नंहनुमतादृष्टवावानरवाहिनी । हृष्टाननादबहुशस्सर्वतश्चापिदुद्रुवे ।।6.67.65।। Yuddha Kanda,67,66,बभूवथपरित्रस्तोराक्षसोविमुखोऽभवत् । सिंहनादं च तेचक्रुःप्रहृष्टावनगोचराः ।।6.67.66।। मारुतिंपूजयाञ्चक्रुर्दृष्टवाशूलंतथागतम् । Yuddha Kanda,67,67,स तत्तथाभग्नमवेक्ष्यशूलंचुकोपरक्षोधिपतिर्महात्मा । उत्पाट्यलङ्कामलयात्सशृङ्गंजघानसुग्रीवमुपेत्यतेन ।।6.67.67।। Yuddha Kanda,67,68,स शैलशृङ्गाभिहतोविसंज्ञःपपातभूमौयुधिवानरेन्द्रः । तंप्रेक्ष्यभूमौपतितंविसंज्ञनेदुःप्रहृष्टास्त्वथयातुधानाः ।।6.67.68।। Yuddha Kanda,67,69,मभ्युपेत्याद्भुतघोरवीर्यं स कुम्भकर्णोयुधिवानरेन्द्रम् । जहारसुग्रीवमभिप्रगृह्ययथानिलोमेघमतिप्रचण्डः ।।6.67.69।। Yuddha Kanda,67,70,स तंमहामेघनिकाशरूपमुत्पाट्यगच्छन्युधिकुम्भकर्णः । रराजमेरुप्रतिमानरूपोमेरुर्यथाभ्युछ्रचितघोरशृङ्गः ।।6.67.70।। Yuddha Kanda,67,71,ततस्तमादायजगामवीरस्संस्तूयमानोयुधिराक्षसेन्द्रैः । शृण्वन्निनादंत्रिदिवालयानांप्लवङ्गराजग्रहविस्मितानाम् ।।6.67.71।। Yuddha Kanda,67,72,ततस्तमादायतदा स मेनेहरीन्द्रमिन्द्रोपममिन्द्रवीर्यः । अस्मिन् हतेसर्वमिदंहतंस्यात्सराघवंसैन्यमितीन्द्रशत्रुः ।।6.67.72।। Yuddha Kanda,67,73,विद्रुतांवाहिनींदृष्टवावानराणामितस्ततः । कुम्भकर्णेनसुग्रीवंगृहीतंचापिवानरम् ।।6.67.73।। हनुमांश्चिन्तयामासमतिमान् मारुतात्मजः । Yuddha Kanda,67,74,एवंगृहीतेसुग्रीवेकिंकर्तव्यंमयाभवेत् ।।6.67.74।। Yuddha Kanda,67,75,यद्वैन्यायंमयाकर्तुंतत्करिष्यामिसर्वधा । भूत्वापर्वतसङ्काशोनाशयिष्यामिराक्षसम् ।।6.67.75।। Yuddha Kanda,67,76,मयाहतेसंयतिकुम्भकर्णेमहाबलेमुष्टिविशीर्णदेहे । विमोचितेवानरपार्थिवे च भवन्तुहृष्टाःप्लवगास्समस्ताः ।।6.67.76।। Yuddha Kanda,67,77,अथवास्वयमप्येषमोक्षंप्राप्स्यतिपार्थिव । गृहीतोऽयंयदिभवेत्रिदशैस्सासुरोरगैः ।।6.67.77।। Yuddha Kanda,67,78,मन्ये न तावदात्मानंबुध्यतेवानराधिपः । शैलप्रहाराभिहतःकुम्भकर्णेनसंयुगे ।।6.67.78।। Yuddha Kanda,67,79,अयंमुहूर्तात्सुग्रीवोलब्दसंज्ञोमहाहवे । आत्मनोवानराणां च यत्पथ्यंतत्करिष्यति ।।6.67.79।। Yuddha Kanda,67,80,मयातुमोक्षितस्यास्यसुग्रीवस्यमहात्मनः । अप्रीतिश्चभवेत्कष्टाकीर्तिनाशश्चशाश्वतः ।।6.67.80।। Yuddha Kanda,67,81,तस्मान्मुहूर्तंकाङ्क्षिष्येविक्रमंपार्थिवस्यतु । भिन्नं च वानरानीकंतावदाश्वासयाम्यहम् ।।6.67.81।। Yuddha Kanda,67,82,इत्येवंचिन्तयित्वातुहनुमान्मारुतात्मजः । भूयःसंस्तम्भयामासवानराणांमहाचमूम् ।।6.67.82।। Yuddha Kanda,67,83,स कुम्भकर्णोऽथविवेशलङ्कांस्पुरन्तमादायमहाकपिंतम् । विमानचर्यागृहगोपुरस्थैःपुष्पाग्य्रवर्षैरवकीर्यमाणः ।।6.67.83 । Yuddha Kanda,67,84,लाजगन्धोदवर्षैस्तुसिच्यमानश्सनैश्शनैः । राजवीथ्यास्तुशीतत्वात्संज्ञांप्रापमहाबलः ।।6.67.84।। Yuddha Kanda,67,85,ततस्ससंज्ञामुपलभ्यकृच्छ्राद्बलीयसस्तस्यभुजान्तरस्थः । अवेक्षमाणःपुरसाजमार्गंविचिन्तयामासमुहुर्महात्मा ।।6.67.85।। Yuddha Kanda,67,86,एवंगृहीतेनकथंनुनामशक्यंमयासम्प्रतिकर्तुमद्य । तथाकरिष्यामियथाहरीणांभविष्यतीष्टं च हितं च कार्यम् ।।6.67.86।। Yuddha Kanda,67,87,ततःकराग्रैःसहसासमेत्यराजाहरीणाममरेन्द्रशत्रुम् । खरैश्चकर्णौदशनैश्चनासांददंशपार्श्वेषु च कुम्भकर्णम् ।।6.67.87।। Yuddha Kanda,67,88,स कुम्भकर्णोहृतकर्णनासोविदारितस्तेनरदैर्नखैश्च । रोषाभिभूतःक्षतजार्द्रगात्रःसुग्रीवमाविध्यपिपेषभूमौ ।।6.67.88।। Yuddha Kanda,67,89,स भूतलेभीमबलाभिपिष्टस्सुरारिभिस्स्सैरभिहन्यमानः । जगामखंवेगवदभ्युपेत्यपुनश्चरामेणसमाजगाम ।।6.67.89।। Yuddha Kanda,67,90,कर्णनासाविहीनस्तुकुम्भकर्णोमहाबलः । रराजशोणितैःसिक्तोगिरिःप्रस्रवणैरिव ।।6.67.90।। Yuddha Kanda,67,91,शोणितार्द्रोमहाकायोराक्षसोभीमविक्रमः । युद्धायाभिमुखोभीमोमनश्चक्रेनिशाचरः ।।6.67.91।। Yuddha Kanda,67,92,नीलाञ्जनचयप्रख्यःसस्नध्यइवतोयदः । अमर्षाच्छोणितोद्गारीशुशुभेरावणानुजीः ।।6.67.92।। Yuddha Kanda,67,93,गतेतुतस्मिन् सुरराजशत्रुःक्रोधात्प्रदुद्रावरणायभूयः । अनायुधोऽस्मीतिविचिन्त्यरौद्रोघोरंतदामुद्गरमाससाद ।।6.67.93।। Yuddha Kanda,67,94,ततस्सपुर्यास्ससहसामहात्मानिष्क्रम्यतद्वानरसैन्यमुग्रम् । बभक्षरक्षोयुधिकुम्भकर्णःप्रजायुगान्तानगिरिवप्रवृद्धः ।।6.67.94।। Yuddha Kanda,67,95,बुभुक्षितःशोणइतमांसगृध्नुःप्रविव्यतद्वानरसैन्यमुग्रम् । चखादरक्षांसिहरीन् पिशाचान् ऋक्षांश्चमोहाद्युधिकुम्भकर्णः । यथैवमृत्युर्हरतेयुगान्ते स भक्ष्यामासहरींश्चमुख्यान् ।।6.67.95।। Yuddha Kanda,67,96,एकंद्वौत्रीन् बहून् क्रुद्धोवानरान्सहराक्षसैः । समादायैकहस्तेनप्रचिक्षेपत्वरन्मुखे ।।6.67.96।। Yuddha Kanda,67,97,सम्प्रस्रवंस्तदामेदश्शोणिते च महाबलः । वध्यमानोनगेन्द्राग्रैर्भक्ष्यामासवानरान् ।।6.67.97।। Yuddha Kanda,67,98,तेभक्ष्यमाणाहरयोरामंजुग्मुस्तदागतिम् । कुम्भकर्णोभृशंक्रुद्धःकपीन् खादन् प्रधावति ।।6.67.98।। Yuddha Kanda,67,99,शतानिसप्तचाष्टौ च विंशत्रतिंशत्तथैव च । सम्परिष्वज्यबाहुभ्यांखादवनिपरिधावति ।।6.67.99।। Yuddha Kanda,67,100,मेदोवसाशोणितदिग्धगात्रःकरायवसक्तग्रथितान्त्रमालः । ववर्षशूलानिसतीक्षणदंष्ट्रःकालोयुगान्तस्थइववृद्धः ।।6.67.100।। Yuddha Kanda,67,101,तस्मिन् कालेसुमित्रायाःपुत्रःपरबलार्दनः । चकारलक्ष्मणःक्रुद्धोयुद्धंपरपुरञ्जयः ।।6.67.101।। Yuddha Kanda,67,102,स कुम्भकर्णस्यशरान् शरीरेसप्तवीर्यवान् । निचखादाददेचान्यावनिससर्ज च लक्ष्मणः ।।6.67.102।। Yuddha Kanda,67,103,पीड्यमानस्तदस्त्रंतुविशेषंतत्सराक्षसः । ततश्चुकोपबलवान्सुमित्रानन्दवर्दनः ।।6.67.103।। Yuddha Kanda,67,104,अथास्यकवचंशुभ्रंजाम्भूनदमयंशुभम् । प्रच्छादयामासशरैस्सन्ध्याभ्रमिवमारुतः ।।6.67.104।। Yuddha Kanda,67,105,नीलाञ्जनचयप्रख्यश्शरैःकाञ्चनभूषणैः । अपीड्यमानश्शुशुभेमेघैस्सूर्यइवांशुमान् ।।6.67.105।। Yuddha Kanda,67,106,ततस्सराक्षसोभीमस्सुमित्रानन्दवर्धनम् । सावज्ञमेवप्रोवाचवाक्यंमेघौघनिस्स्वनः ।।6.67.106।। Yuddha Kanda,67,107,अन्तकस्याप्यकष्टेन युधि जेतारमाहवे । युध्यतामामभीतेनख्यापितावीरतात्वया ।।6.67.107।। Yuddha Kanda,67,108,प्रगृहीतायुधस्येहमृत्योरिवमहामृधे । तिष्ठन्नप्रग्रतःपूज्यःकिमुयुद्धप्रदायकः ।।6.67.108।। Yuddha Kanda,67,109,ऐरावतंबलेनसमारूढोवृतःसर्वामरैःप्रभुः । नैवशक्रोऽपिसमरेस्थितपूर्वःकदाचन ।।6.67.109।। Yuddha Kanda,67,110,"""अद्यत्वयाहम्सौमित्रेबालेनापि , नापिपराक्रमैः । तोषितोगन्तुमिच्छामित्यामनुज्ञाप्यराघवम् ।।6.67.110।।""" Yuddha Kanda,67,111,यत्तुवीर्यबलोत्साहैस्तोषितोऽहंरणेत्वया । राममेवैकमिच्छामिहन्तुंयस्मिन् हतेहतम् ।।6.67.111।। Yuddha Kanda,67,112,रामेमयात्रनिहतेयेऽन्येस्थास्यन्तिसंयुगे । तानहंयोधयिष्यामिस्वबलेनप्रमाथिना ।।6.67.112।। Yuddha Kanda,67,113,इत्युक्तवाक्यंतद्रक्षःप्रोवाचस्तुतिसंहितम् । मृधेघोरतरंवाक्यंसौमित्रिःप्रहसन्निव ।।6.67.113।। Yuddha Kanda,67,114,यस्त्वंशक्रादिभिर्वरैरसह्यःप्राप्यपौरुषम् । तत्सत्यंनान्यथावीरदृष्टस्तेऽद्यपराक्रमः ।।6.67.114।। एषदाशरथीरामस्तिष्ठत्यद्रिरिवाचलः । Yuddha Kanda,67,115,इतिश्रुत्वाह्यनादृत्यलक्ष्मणं स निशाचरः ।।6.67.115।। Yuddha Kanda,67,116,अतिक्रम्य च सौमित्रिंकुम्भकर्णोमहाबलः । राममेवाभिदुद्रावकम्पयन्निवमेदिनीम् ।।6.67.116।। Yuddha Kanda,67,117,अथदाशरथींरामोरौद्रमस्त्रंप्रयोजयन् । कुम्भकर्णस्यहृदयेससर्जनिशितान् शरान् ।।6.67.117।। Yuddha Kanda,67,118,तस्यरामेणविद्धस्यसहसाभिप्रधावतः । अङ्गालमिश्राःक्रुद्धस्यमुखान्निश्चेरुरर्चिषः ।।6.67.118।। Yuddha Kanda,67,119,रामास्त्रविद्धोघोरंवैनदन्राक्षसपुङ्गवः । अभ्यधावतसङ्कृद्धोहरीन् निद्रावयन् रणे ।।6.67.119।। Yuddha Kanda,67,120,तस्योरसिनिमग्नास्तेशराबर्हिणवाससः । हस्ताच्छास्यपरिभ्रष्टागदाचोर्व्यांपपात ह ।।6.67.120।। Yuddha Kanda,67,121,आयुधानि च सर्वाणिविप्राकीर्यन्तभूतले । स निरायुधमात्मानंयदामेनेमहाबलः ।।6.67.121।। मुष्टिभ्यां च चरणाभ्यां च चकारकदनंमहत् । Yuddha Kanda,67,122,स बाणैरतिविद्धाङ्गःक्षतजेनसमुक्षितः ।।6.67.122।। रुधिरंपरिसुस्रावगिरिःप्रस्रवणंयथा । Yuddha Kanda,67,123,स तीव्रेण च कोपेनरुधिरेण च मूर्छितः ।।6.67.123।। वानरान्राक्षसानृक्षान्खादन्विपरिधावति । Yuddha Kanda,67,124,अथशृङ्गंसमाविध्यभीमंभीमपराक्रमः । चिक्षेपराममुद्धिश्यबलवानन्तकोपमः ।।6.67.124।। Yuddha Kanda,67,125,अप्राप्तमन्तरारामःसप्तभिस्तमजिह्मगैः । चिच्छेदगिरिशृङ्गंतंपुनःसन्धायकार्मुकम् ।।6.67.125।। Yuddha Kanda,67,126,ततस्तुरामोधर्मात्मातस्यशृङ्गंमहत्तदा ।।6.67.126।। शरैःकाञ्चनचित्राङ्गैश्चिच्छेदपुरुषर्षभः । Yuddha Kanda,67,127,तन्मेरुशिखराकारंद्योतमानमिवश्रिया ।।6.67.127।। द्वेशतेवानराणां च पतमानमपातयत् । Yuddha Kanda,67,128,तस्मिन् काले स धर्मात्मालक्ष्मणोराममब्रवीत् ।।6.67.128।। कुम्भकर्णवधेयुक्तोयोगान् परिमृशन्बहून् । Yuddha Kanda,67,129,नैवायंवानरान्राजन्नविजानातिराक्षसान् ।।6.67.129।। मत्तश्शोणितगन्धे न स्वान् परांश्चैवखादति । Yuddha Kanda,67,130,साध्वेनमधिरोहस्तुसर्वतोवानरर्षभाः ।।6.67.130।। यूथपाश्चयथामुख्यास्तिष्ठन्त्वस । Yuddha Kanda,67,131,अप्ययंदुर्मतिःकालेगुरुभारप्रपीडितः ।।6.67.131।। प्रपतन्राक्षसोभूमौनान्यान्हन्यात्ल्पवङ्गमान् । Yuddha Kanda,67,132,तस्यतद्वचनंश्रुत्वाराजपुत्रस्यधीमतः ।।6.67.132।। तेसमारुरुहुर्हृष्टाःकुम्भकर्णंप्लवङ्गमाः । Yuddha Kanda,67,133,कुम्भकर्णस्तुसङ्कृद्धस्समारूढःप्लवङ्गमैः ।।6.67.133।। व्यधूनयत्तान्वेगेनदुष्टहस्तीवहस्तिपान् । Yuddha Kanda,67,134,तान् न्दृष्टवानिर्धुतान्रामोदुष्टोऽयमितिराक्षसः ।।6.67.134।। समुत्पपातवेगेनधनुरुत्तममाददे । Yuddha Kanda,67,135,क्रोधरक्तेक्षणोवीरोनिर्दहन्निवचक्षुषा ।।6.67.135।। Yuddha Kanda,67,136,राघवोराक्षसंरोषाभिदुद्राववेगितः । यूथपान्हर्षयन्सर्वान्कुम्भकर्णभयार्दितान् ।।6.67.136।। Yuddha Kanda,67,137,स चापमादायभुजङ्गकल्पंधृढज्यमुग्रंतपनीयचित्रम् । हरीन् समाश्वास्यसमुत्पपातरामोनिबद्धोत्तमतूणबाणः ।।6.67.137।। Yuddha Kanda,67,138,स वानरगणैस्तैस्तुवृतःपरमदुर्जयः । लक्ष्मणानुचरोरामस्सम्प्रतस्थेमहाबलः ।।6.67.138।। Yuddha Kanda,67,139,स ददर्शमहात्मानंकिरीटिनमरिन्दमम् । शोणितावृतरक्ताक्षंकुम्भकर्णंमहाबलम् ।।6.67.139।। Yuddha Kanda,67,140,सर्वान् समभिधावन्तंयथारुष्टंदिशागजम् । मार्गमाणंहरीन्कक्रुद्धंराक्षसैःपरिवारितम् ।।6.67.140।। Yuddha Kanda,67,141,व्निध्यमन्दरसङ्काशंकाञ्चनाङ्गदभूषणम् । स्रवन्तंरुधिरंवक्त्राद्वर्षामेघमिवोथतितम् ।।6.67.141।। Yuddha Kanda,67,142,जिह्वयापरिलिह्यन्तंसृक्किणीशोणितेक्षणम् । मृद्नन्तंवानरानीकंकालान्तकयमोपमम् ।। 6.67.142।। Yuddha Kanda,67,143,तंदृष्टवाराक्षसश्रेष्ठंप्रदीप्तानलवर्चसम् । विस्फारयामासतदाकार्मुकंपुरुषर्षभः ।।6.67.143।। Yuddha Kanda,67,144,स तस्यचापनिर्घोषात्कुपितोराक्षसर्षभः । अमृष्यमाणस्तंघोषमभिदुद्रावराघवम् ।।6.67.144।। Yuddha Kanda,67,145,ततस्तुवातोद्धतमेघकल्पंभुजङ्गराजोत्तमभोगबाहुम् । तमापतन्तंधरणीराभमुवाचरामोकुम्भकर्णम् ।।6.67.145।। Yuddha Kanda,67,146,आगच्छरक्षोधिपमाविषादमवस्थितोऽहंप्रगृहीतचापः । अवेहिमांराक्षसवंशनाशनंयस्त्वंमुहूर्ताद्भविता ।।6.67.146।। Yuddha Kanda,67,147,रामोऽयमितिविज्ञायजहासविकृतस्वनम् । अभ्यधावतसङ्ककृद्धोहरीवनिद्रावयन्रणे ।।6.67.147।। Yuddha Kanda,67,148,पातयन्निवसर्वेषांहृदयनिवनौकसाम् । प्रहस्यविकृतंभीमंसमेघस्न्तितोपमम् ।।6.67.148।। कुम्भकर्णोमहातेजाराघवंवाक्यमब्रवीत् । Yuddha Kanda,67,149,नाहंविराधोविज्ञेयो न कबन्दःखरो न च । न वाली न च मारीचःकुम्भकर्णःसमागतः ।।6.67.149।। Yuddha Kanda,67,150,पश्यमेमुद्गरंभीमंसर्वकालायसंमहत् । अनेननिर्जितादेवादानवाश्चपुरामया ।।6.67.150।। Yuddha Kanda,67,151,विकर्णवासइतिमांनावज्ञातुंत्वमर्हसि । स्वल्पाऽपिहि न मेपीडार्णनासाविनाशनात् ।।6.67.151।। Yuddha Kanda,67,152,दर्शयेक्ष्वाकुशार्दूलवीर्यंगात्रेषुमेलघु । ततस्त्वांभक्षयिष्यामिदृष्टपौरुषविक्रमम् ।।6.67.152।। Yuddha Kanda,67,153,स कुम्भकर्णस्यवचोनिशम्यरामस्सुपुङ्खान् विससर्जन् । तैराहतोवज्रसमवेगैर्नचुक्षुभे न व्यथतेसुरारिः ।।6.67.153।। Yuddha Kanda,67,154,यैस्सायकैस्सालवरानिकृत्तावालीहतोवानरपुङ्गवश्च । तेकुम्भकर्णस्यतदाशरीरंवज्रोपमं न व्यधयांप्रचक्रुः ।।6.67.154।। Yuddha Kanda,67,155,स वारिधाराइवसायकास्तान् पिबन् शरीरेणमहेन्द्रशत्रुः । जघानरामस्यशरप्रवेगंव्याविध्यतंमुग्रवेगम् ।।6.67.155।। Yuddha Kanda,67,156,ततस्तुरक्षःक्षतजावलिप्तंवित्रासनंदेवमहचमूनाम् । व्याविध्यतंमुद्गरमुग्रवेगंनिद्रावयामासचमूंम् ।।6.67.156।। Yuddha Kanda,67,157,वायव्यमादायततोमहास्त्रंरामःप्रचिक्षेपनिशाचराय । समुद्गरंतेनजघानबाहुं स कृत्तबाहुस्तुमुलंनाद ।।6.67.157।। Yuddha Kanda,67,158,स तस्यबाहुर्गिरिशृङ्गकल्पःसमुद्गरोराघवबाणकृत्तः । पपाततस्मिन् हरिराजसैन्येजघानतांवानरवाहिनीं ।।6.17.158।। Yuddha Kanda,67,159,तेवानराभग्नहतावशेषाःपर्यन्तमाश्रित्यतदाविषण्णाः । प्रपीडिताङ्गाददृशुस्सुघोरंनरेन्द्ररक्षोधिपन्निपातम् ।।6.67.159।। Yuddha Kanda,67,160,स कुम्भकर्णोऽस्त्रनिकृत्तबाहुर्महासिकृत्ताग्रइवाचलेन्द्रः । उत्पाटयामासकरेणवृक्षंततोऽभिदुद्रावरणेनरेन्द्रम् ।।6.67.160।। Yuddha Kanda,67,161,स तस्यबाहुंसहतालवृक्षंसमुद्यतंपन्नगभोगकल्पम् । इन्द्रास्त्रयुक्तेनजघानरामोबाणेनजाम्भूनदचित्रितेन ।।6.67.161।। Yuddha Kanda,67,162,स कुम्भकर्णस्यभुजोनिकृत्तःपपातभूमौगिरिसन्निकाशः । विवेष्टमानोनिजाघनवृक्षान् शैलान्शिलावानरराक्षसांश्च ।।6.67.162।। Yuddha Kanda,67,163,तंछिन्नबाहुंसमवेक्ष्यरामःसमापतन्तंसहसानदन्तम् । द्वावर्धचन्द्रौनिशितौप्रगृह्यचिच्छेदपादौयुधिराक्षसस्य ।।6.67.163।। Yuddha Kanda,67,164,तौतस्यपादौप्रदिशोदिशश्चगिरेर्गुहाश्चैवमहार्णवं च । लङ्कां च सेनांकपिराक्षसानांविनादयन्तौविनिपेततुश्च ।।6.67.164।। Yuddha Kanda,67,165,निकृत्तबाहुद्विनिकृत्तपादोविदार्यवक्त्रंबडबामुखाभम् । दुद्रावरामंसहसाभिगर्जन् राहुर्यथाचन्द्रमिवान्तऽरिक्षे ।।6.67.165।। Yuddha Kanda,67,166,अपूरयत्तस्यमुखंशिताग्रैरामश्शरैर्हेमपिनद्धपुङ्खैः । स पूर्णवक्त्रो न शशाकवक्तुंचुकूजकृच्छ्रेणमुमूर्छचापि ।।6.67.166।। Yuddha Kanda,67,167,अथाददेसूर्यमरीचिकल्पं स ब्रह्मदण्डान्तककाकलकल्पम् । अरिष्टमैन्द्रंनिशितंसुपुङ्खंरामश्शरंमारुततुल्यवेगम् ।।6.67.167।। Yuddha Kanda,67,168,तंवज्रजाम्भूनदचारुपुङ्खंप्रदीप्तसूर्यज्वलनप्रकाशम् । महेन्द्रवज्राशनितुल्यवेगंरामःप्रचिक्षेपनिशाचराय ।।6.67.168।। Yuddha Kanda,67,169,स सायकोराघवबाहुचोदितोदिशस्स्वभासादशसम्प्रकाशयन् । विधूमवैश्वानरभीमदर्शनोजगामशक्राशनिवीर्यविक्रमः ।।6.67.169।। Yuddha Kanda,67,170,स तन्महापर्वतकूटसन्निभंविवृत्तदंष्ट्रंचलचारुकुण्डलम् । चकर्तरक्षोधिपतेश्शिरस्तदायथैववृत्रस्यपुरापुरन्दरः ।।6.67.170।। Yuddha Kanda,67,171,कुम्भकर्णशिरोभातिकुण्डलालङ्कृतंमहत् । आदित्येऽभ्युदितेरात्रौमध्यस्थइवचन्द्रमाः ।।6.67.171।। Yuddha Kanda,67,172,तद्रामबाणाभिहतंपपातरक्षःशिरःपर्वतसन्निकाशम् । बभञ्जचर्यागृहगोपुराणिप्राकारमुच्चंतमपातयच्च ।।6.67.172।। Yuddha Kanda,67,173,तच्चातिकायंहिमहत्प्रकाशंरक्षस्तदातोयनिधौपपात । ग्राहान्परान् मीनवरान्भुजङ्गान् ममर्दभूमिच तदाविवेश ।।6.67.173।। Yuddha Kanda,67,174,तस्मिन्हतेब्राह्मणदेवशत्रौमहाबलेसंयतिकुम्भकर्णे । चचालभूर्भूमिधराश्चसर्वेहर्षाच्चदेवास्तुमुलंविनेदुः ।।6.67.174।। Yuddha Kanda,67,175,ततस्तुदेवर्षिमहर्षिपन्नगाःसुराश्चभूतानिसुपर्णगुह्यकाः । सयक्षगन्धर्वगणानभोगताःप्रहर्षितारामपराक्रमेण ।।6.67.175।। Yuddha Kanda,67,176,ततस्तुतेतस्यवधेनभूरिणामनस्विनोनैरृतराजबान्धवाः । विनेदुरुच्चैर्व्यथितारघूत्तमंहरिंसमीक्ष्यैवयथासुरार्धिताः ।।6.67.176।। Yuddha Kanda,67,177,स देवलोकस्यतमोनिहत्यसूर्योयथाराहुमुखाद्विमुक्तः । तथाव्यभासीद्धरिसैन्यमध्येनिहत्यरामोयुधिकुम्भकर्णम् ।।6.67.177।। Yuddha Kanda,67,178,प्रहर्षमीयुर्भवश्चवानराःप्रबुद्धपद्मप्रतिमैरिवाननैः । अपूजयन् राघवमिष्टभागिनंहतेरिसौभीमबलेदुरासदम् ।।6.67.178।। Yuddha Kanda,68,1,कुम्भकर्णंहतंदृष्टवाराघवेणमहात्मना । राक्षसाराक्षसेन्द्रायरावणायन्यवेदयन् ।।6.68.1।। Yuddha Kanda,68,2,राजन् स कालसङ्काशस्संयुक्तःकालकर्मणा । विद्राव्यवानरींसेनांभक्षयित्वा च वानरान् ।।6.68.2।। Yuddha Kanda,68,3,प्रतपित्वा मुहूर्तंतुप्रशान्तोरामतेजसा । कायेनार्थप्रविष्टेनसमुद्रंभीमदर्शनम् ।।6.68.3।। Yuddha Kanda,68,4,निकृत्तकण्ठोरुभुजोविक्षरन्रुधिरंबहु । रुद्ध्वाद्वारंशरीरेणलङ्कायाःपर्वतोपमः ।।6.68.4।। Yuddha Kanda,68,5,कुम्भकर्णस्तवभ्राताकाकुत्स्थशरपीडितः । लगण्डभूतोविकृतोदावदग्धइवद्रुमः ।।6.68.5।। Yuddha Kanda,68,6,तंश्रुत्वाविनिहतंसङ्ख्येकुम्भकर्णंमहाबलम् । रावणश्शोकसन्तप्तोमुमोह च पपात च ।।6.68.6।। Yuddha Kanda,68,7,पितृव्यंनिहतंश्रुत्वादेवान्तकनरान्तकौ । त्रिशिराश्चातिकायश्चरुरुदुश्शोकपीडिताः ।।6.68.7।। Yuddha Kanda,68,8,भ्रातरंनिहतंश्रुत्वारामेणाक्लिष्टकर्मणा । महोदरमहापार्श्वौशोकाक्रान्तौबभूवतुः ।।6.68.8।। Yuddha Kanda,68,9,ततःकृच्छ्रात्समासाद्यसंज्ञांराक्षसपुङ्गवः । कुम्भकर्णवधाद्दीनोविललापकुलेन्द्रियः ।।6.68.9।। Yuddha Kanda,68,10,हावीर रिपुदर्पघ्न कुम्भकर्ण महाबल । त्वंमांविहायवैदैवाद्यातोऽसियमसादनम् ।।6.68.10।। Yuddha Kanda,68,11,ममशल्यमनुद्धृत्यबान्धवानांमहाबल । शत्रुसैन्यंप्रताप्यैकस्त्वंमांसन्त्यज्यगच्छसि ।।6.68.11।। Yuddha Kanda,68,12,इदानींखल्वहंनास्मियस्यमेदक्षिणोभुजः । पतितोयंसमाश्रित्य न बिभेमिसुरासुरान् ।।6.68.12।। Yuddha Kanda,68,13,कथमेवंविधोवीरोदेवदानवदर्पहा । कालाग्निरुद्राप्रतिमोरणेराघवेणवैहतः ।।6.68.13।। Yuddha Kanda,68,14,यस्यतेवज्रनिष्पेषो न कुर्वाद्व्यसनंसदा । स कथंरामबाणार्तंप्रसुप्तोऽसिमहीतले ।।6.68.14।। Yuddha Kanda,68,15,एतेदेवगणास्सार्थमृषिभिर्गगनेस्थिताः । निहतंत्वांरणेदृष्टवानिनदन्तिप्रहर्षिताः ।।6.68.15।। Yuddha Kanda,68,16,ध्रुवमद्यैवसंहृष्टालब्धलक्षाःप्लवङ्गमाः । आरोक्ष्यन्तीहदुर्गाणिलङ्काद्वाराणिसर्वशः ।।6.68.16।। Yuddha Kanda,68,17,राज्येननास्तिमेकार्यंकिंकरिष्यामिसीतया । कुम्भकर्णविहीनस्यजीवितेनास्तिमेमतिः ।।6.68.17।। Yuddha Kanda,68,18,यद्यहंभ्रातृहन्तारं न हन्मियुधिराघवम् । ननुमेमरणंश्रेयो न चेदंव्यर्थजीवितम् ।।6.68.18।। Yuddha Kanda,68,19,अद्यैवतंगमिष्यामिदेशंयत्रानुजोमम । न हिभ्रातृ़न् समुत्सृज्यक्षणंजीवितमुत्सहे ।।6.68.19।। Yuddha Kanda,68,20,देवाहिमांहसिष्यन्तिदृष्टवापूर्वापकारिणम् । कथमिन्द्रंजयिष्यामिकुम्भकर्ण हतेत्वयि ।।6.68.20।। Yuddha Kanda,68,21,तदिदंमामनुप्राप्तंविभीषणवचश्शुभम् । यदज्ञानान्मयातस्य न गृहीतंमहात्मनः ।।6.68.21।। Yuddha Kanda,68,22,विभीषणवचोयावत्कुम्भकर्णप्रहस्तयोः । विनाशोऽयंसमुत्पन्नोमांव्रीडयतिदारुणः ।।6.68.22।। Yuddha Kanda,68,23,तस्यायंकर्मणःप्राप्तोविपाकोममशोकदः । यन्मयाधार्मिकश्शमान् स निरस्तोविभीषणः ।।6.68.23।। Yuddha Kanda,69,1,एवंविलपमानस्यरावणस्यदुरात्मनः । श्रुत्वाशोकाभितप्तस्यत्रिशिरावाक्यमब्रवीत् ।।6.69.1।। Yuddha Kanda,69,2,एवमेवमहावीर्योहतोनस्तातमध्यमः । न तुसत्पुरुषाराजन्विलपन्तियथाभवान् ।।6.69.2।। Yuddha Kanda,69,3,नूनंत्रिभुवनस्यापिपर्याप्तस्त्वमसिप्रभो । स कस्मात्प्राकृतइवशोचस्यात्मानमीदृशम् ।।6.69.3।। Yuddha Kanda,69,4,ब्रह्मदत्ताऽस्तितेशक्तिःकवचस्सायकोधनुः । सहस्रखरसंयुक्तोरथोमेघस्वनोमहान् ।।6.69.4।। Yuddha Kanda,69,5,त्वयाऽसकृद्विशस्त्रेणविशस्तादेवदानवाः । स सर्वायुधसम्पन्नोराघवंशास्तुमर्हसि ।।6.69.5।। Yuddha Kanda,69,6,कामंतिष्ठमहाराजनिर्गमिष्याम्यहंरणम् । उद्धरिष्यामितेशत्रूंन्गरुडःपन्नगानिव ।।6.69.6।। Yuddha Kanda,69,7,शम्बरोदेवराजेननरकोविष्णुवायथा । तथाऽद्यशयितारामोमयायुधिनिपातितः ।।6.69.7।। Yuddha Kanda,69,8,श्रुत्वात्रिशिरसोवाक्यंरावणोराक्षसाधिपः । पुनर्जातमिवात्मानंमन्यतेकालचोदितः ।।6.69.8।। Yuddha Kanda,69,9,श्रुत्वात्रिशिरसोवाक्यंदेवान्तकनरान्तकौ । अतिकायश्चतेजस्वीबभूवुर्युद्धहर्षिताः ।।6.69.9।। Yuddha Kanda,69,10,ततोऽहमहमित्येवगर्जन्तोनैरृतर्षभाः । रावणस्यसुतावीराश्शक्रतुल्यपराक्रमाः ।।6.69.10।। Yuddha Kanda,69,11,अन्तरिक्षगतास्सर्वेसर्वेमायाविशारदाः । सर्वेत्रिदशदर्पघ्नास्सर्वे च रणदुर्जयाः ।।6.69.11।। Yuddha Kanda,69,12,सर्वेसुबलसम्पन्नास्सर्वेविस्तीर्णकीर्तयः । सर्वेसमरमासाद्य न श्रूयन्तेस्मपराजिताः ।।6.69.12।। देवैरपिसगन्धर्वैस्सकिन्नरमहोरगैः । Yuddha Kanda,69,13,सर्वेस्त्रविदुषोवीरास्सर्वेयुद्धविशारदाः ।।6.69.13।। सर्वेप्रसवरविज्ञानास्सर्वेलब्धवरास्तथा । Yuddha Kanda,69,14,सतैस्तथाभास्करतुल्यवर्चसैःपुस्त्रैर्वृतश्शत्रुबलप्रमार्दनैः । रराजराजामघवान्यथामरै ।र्वृतोमहादानवदर्पनाशनैः ।।6.69.14।। Yuddha Kanda,69,15,स पुत्रान् सम्परिष्वज्यभूषयित्वा च भूषणैः । आशीर्भिश्चप्रशस्ताभिःप्रेषयामाससम्युगे ।।6.69.15।। Yuddha Kanda,69,16,युद्धोन्मत्तं च मत्तं च भ्रातरौचापिरावणः । रक्षणार्थंकुमाराणांप्रेषयामाससंयुगे ।।6.69.16।। Yuddha Kanda,69,17,तेऽभिवाद्यमहात्मानंरावणंरिपुरावणम् । कृत्वाप्रदक्षिणंचैवमहाकायाःप्रतस्थिरे ।।6.69.17।। Yuddha Kanda,69,18,सर्वौषधीभिर्गन्धैश्चसमालभ्यमहाबलाः । निर्जग्मुर्नैरृतश्रेष्ठाषडेतेयुद्धकाङ्क्षिणः ।।6.69.18।। Yuddha Kanda,69,19,त्रिशिराश्चातिकायश्चदेवान्तकनरान्तकौ । महोदरमहापार्श्वौनिर्जग्मुःकालचोदिताः ।।6.69.19।। Yuddha Kanda,69,20,ततस्सुदर्शनंनागंनीलजीमूतसन्निभम् । ऐरावतकुलेजातमारुरोहमहोदरः ।।6.69.20।। Yuddha Kanda,69,21,सर्वायुधसमायुक्तंतूणीभिश्चस्वलङ्कृतम् । रराजगजमास्थायसवितेवास्तमूर्धनि ।।6.69.21।। Yuddha Kanda,69,22,हयोत्तमसमायुक्तंसर्वायुधसमाकुलम् । आरुरोहरथश्रेष्ठंत्रिशिरारावणात्मजः ।।6.69.22।। Yuddha Kanda,69,23,त्रिशिरारथमास्थायविरराजधनुर्धरः । सविद्युदुल्कश्शैलाग्रेस्सेन्द्रइवाम्बुदः ।।6.69.23।। Yuddha Kanda,69,24,त्रिभिःकिरीटैश्शुशुभेत्रिशिरास्सरथोत्तमे । हिमवानिशैलेन्द्रस्त्रिभिःकाञ्चनपर्वतैः ।।6.69.24।। Yuddha Kanda,69,25,अतिकायोऽपितितेजस्वीराक्षसेन्द्रसुतस्तदा । आरुरोहरथश्रेष्ठंश्रेष्ठस्सर्वधनुष्मताम् ।।6.69.25।। Yuddha Kanda,69,26,सुचक्राक्षंसुसंयुक्तंस्वनुकर्षंसुकूबरम् । तूणीबाणासनैर्दीप्तंप्रासासिपरिघाकुलम् ।।6.69.26।। Yuddha Kanda,69,27,सकाञ्चनविचित्रेणमकुटेनविराजता । भूषणैश्चबभौमेरुःप्रभाभिरिवभासयन् ।।6.69.27।। Yuddha Kanda,69,28,स रराजरथेतस्मिन् राजसूनुर्महाबलः । वृतोनैरृतशार्दूलैर्वज्रपाणिरिवामरैः ।।6.69.28।। Yuddha Kanda,69,29,हयमुच्चैश्श्रवःप्रख्यंश्वेतंकनकभूषणम् । मनोजवंमहाकायमारुरोहनरान्तकः ।।6.69.29।। Yuddha Kanda,69,30,गृहीत्वाप्रासमुल्काभंविरराजनरान्तकः । शक्तिमादायतेजस्वीगुहशशिखिगतोयथा ।।6.69.30।। Yuddha Kanda,69,31,देवान्ककस्समादायपरिघंवज्रभूषणम् । परिगृह्यगिरिंदोर्भ्यांवपुर्विष्णोर्विडम्बयन् ।।6.69.31।। Yuddha Kanda,69,32,महापार्श्वोमहाकायोगदामादायवीर्यवान् । विरराजगदापाणिःकुबेरइवसंयुगे ।।6.69.32।। Yuddha Kanda,69,33,तेप्रतस्थुर्महात्मानोऽमरावत्यास्सुराइव । तान् गजैश्चतुरङ्गैश्चरथैश्चाम्बुन्दिस्स्वनैः ।।6.69.33।। अनूत्पेतुर्महात्मानोराक्षसाःप्रवरायुधाः । Yuddha Kanda,69,34,तेविरेजुर्महात्मानःकुमारास्सूर्यवर्चसः ।।6.69.34।। किरीटिनश्रशियाजुष्टाग्रहादीप्ताइवाम्बरे । Yuddha Kanda,69,35,प्रगृहीताबभौतेषांशस्त्राणामावळिस्सिता ।।6.69.35।। शारदाभ्रप्रतीकाशाहंसावळिरिवाम्बरे । Yuddha Kanda,69,36,मरणंवापिनिश्चित्यशत्रूणांवापराजयम् ।।6.69.36।। इतिकृत्वामतिंवीरानिर्जग्मुस्संयुगार्थिनः । Yuddha Kanda,69,37,जगर्जुश्चप्रणेदुश्चचिक्षिपुश्चापिसायकान् ।।6.69.37।। जगृहुश्चमहात्मानोनिर्वातायुद्धदुर्मदाः । Yuddha Kanda,69,38,क्ष्वेळिडितास्फोटिनिनदैश्चचाल च वसुन्दरा ।।6.69.38।। रक्षसांसिंहनादैश्चसंस्फोटेवतदाम्बरम् । Yuddha Kanda,69,39,अभिनिष्क्रम्यमुदिताराक्षसेन्द्रामहाबलाः ।।6.69.39।। ददृशुर्वानरानीकंसमुद्यतशिलानगम् । Yuddha Kanda,69,40,हरयोपिमहात्मानोददृशुर्नेरृतम् ।।6.69.40।। Yuddha Kanda,69,41,हस्त्यश्वरथसम्बाधंकिङ्किणीशतनादितम् । नीलजीमूतसङ्काशंसमुद्यतमहायुधम् ।।6.69.41।। दीप्तानलरविप्रख्यैस्सर्वतोनैरृतैर्वृतम् । Yuddha Kanda,69,42,तद्दृष्टवाबलमायान्तंलब्धलक्षाःप्लवङ्गमाः ।।6.69.42।। Yuddha Kanda,69,43,समुद्यतमहाशैलास्सम्प्रणेदुर्महाबला । अमृष्यमाणारक्षांसिप्रतिनर्दन्तवानराः ।।6.69.43।। Yuddha Kanda,69,44,ततस्समुद्घुष्टरवंनिशम्य।रक्षोगणावानरयूथपानाम् । अमृष्यमाणाःपरहर्षमुग्रं।महाबलाःभीमतरंविनेदुः ।।6.69.44।। Yuddha Kanda,69,45,तेराक्षसबलंघोरंप्रविश्यहरियूथपाः । विचेरुरुद्यतैश्शैलैर्नगाश्शिखरिणोयथा ।।6.69.45।। Yuddha Kanda,69,46,केचिदाकाशमाविश्यकेचिदुर्व्यांप्लवङ्गमाः । रक्षस्सैन्येषुसङ्कृद्धाःश्चेरुर्द्रुमशिलायुधाः ।।6.69.46।। Yuddha Kanda,69,47,द्रुमांश्चविपुलस्कन्थान् गृह्यवानरपुङ्गवाः । तद्युद्धमभवद्घोरंरक्षोवानरसङ्कुलम् ।।6.69.47।। Yuddha Kanda,69,48,तेपादपशिलाश्शैलैश्चक्रुर्वृष्टिमनूपमाम् । बाणौघैर्वार्यमाणाश्चहरयोभीमविक्रमाः ।।6.69.48।। Yuddha Kanda,69,49,सिंहनादान्विनेदुश्चरणेराक्षसवानराः । शिलाभिश्चूर्णयामासुर्यातुधानान् प्लवङ्गमाः ।।6.69.49।। Yuddha Kanda,69,50,नर्जघ्नुस्संयुगेक्रुद्धाःकवचाभरणावृतान् । केचिद्रथगतावनीरान्गजवाजिगतानपि ।।6.69.50।। Yuddha Kanda,69,51,निर्जघ्नुस्सहसाऽप्लुत्ययातुधानान् प्लवङ्गमाः । शैलशृङ्गाचिताङ्गाश्चमुष्टिभिर्वान्तलोचनाः ।।6.69.51।। चेरुःपेतुश्चनेदुश्चतत्रराक्षसपुङ्गवाः । Yuddha Kanda,69,52,राक्षसाश्चशरैस्तीक्ष्णैर्बिदुःकपिकुञ्जरान् ।।6.69.52।। शूलमुद्गरखडगैश्चजघ्नुःप्रासैश्चशक्तिभिः । Yuddha Kanda,69,53,अन्योन्यंपातयामासुःपरस्परजयैषिणः ।।6.69.53।। रिपुशोणितदिग्धाङ्गास्तत्रवानरराक्षसाः Yuddha Kanda,69,54,ततश्शैलैश्चखडगैश्चविसृष्टैर्हरिराक्षसैः ।।6.69.54।। मुहूर्तेनावृताभूमिरभवच्छोणिताप्लुता । Yuddha Kanda,69,55,विकीर्णैःपर्वताकारैरक्षोभिररिमर्दनैः ।।6.69.55।। आसीद्वसुमतीपूर्णातदायुद्धमदान्वितैः । Yuddha Kanda,69,56,आक्षिप्ताःक्षिप्यमाणाश्चभग्नशूलाश्चवानरैः ।।6.69.56।। पुनरङ्गैस्तदाचक्रुरासन्नायुद्धमद्भुतम् । Yuddha Kanda,69,57,वानरान्वानरैरेवजघ्नुस्तेनैरृतर्षभाः ।।6.69.57।। राक्षसान्राक्षसैरेवजघ्नुस्तेवानराअपि । Yuddha Kanda,69,58,आक्षिप्य च शिलास्तेषांनिजघ्नाराक्षसाहरीन् ।।6.69.58।। तेषांचाछचिद्यशस्त्राणिजघ्नूरक्षांसिवानराः । Yuddha Kanda,69,59,निजघ्नुश्शैलशूलार्स्सैर्भिभिदुश्चपरस्परम् ।।6.69.59।। सिंहनादान्विनेदुश्चरणेराक्षसावानराः । Yuddha Kanda,69,60,छिन्नवर्णतनुत्राणाराक्षसावानरैर्हताः ।।6.69.60।। रुधिरंप्रसृतास्तत्ररससारमिवद्रुमाः । Yuddha Kanda,69,61,रथेन च रथंचापिवारणेनैववारणम् ।।6.69.61।। हयेन च हयंकेचिन्निजघ्नुर्वानरारणे । Yuddha Kanda,69,62,क्षुरप्रैरर्धचन्द्रैश्चभल्लैश्चनिशितैश्शरैः ।।6.69.62।। राक्षसावानरेन्द्राणांबिभिदुःपादपान् शिलाः । Yuddha Kanda,69,63,विकीर्णैपर्वताग्रैश्चद्रुमैछशिनैश्चसंयुगे ।।6.69.63।। हतैश्चकपिरक्षोभिर्दुर्गमावसुधाऽभवत् । Yuddha Kanda,69,64,तेवानरागर्वितहृष्टचेष्टास्सङ्ग्राममासाद्यभयंविम । युद्धंस्मसर्वेसहराक्षसैस्सैयुधाश्चक्रुरदीनसत्त्वाः ।।6.69.64।। Yuddha Kanda,69,65,तस्मिन्प्रवृत्तेतुमुलेविमर्देप्रहृष्यमाणेषुवलीमुखेषु । निपात्यमानेषु च राक्षसेषुमहर्षयोदेवगणाश्चनेदुः ।।6.69.65।। Yuddha Kanda,69,66,ततोहयंमारुततुल्यवेगमारुह्यशक्तिंनिशितांप्रगृह्य । नरान्तकोवानरराजसैन्यंमहार्णवंमीनइवाविवेश ।।6.69.66।। Yuddha Kanda,69,67,स वानरान् सप्तशतानिवीरःप्रासेनदीप्तेनन्वििर्बिभेद । एकःक्षणेनेन्द्ररिपुर्महात्माजघानसैन्यंहरिपुङ्गवानाम् ।।6.69.67।। Yuddha Kanda,69,68,ददृशुश्चमहात्मानंहयपृष्ठेप्रतिष्ठितम् । चरन्तंहरिसैन्येषुविद्याधरमहर्षयः ।।6.69.68।। Yuddha Kanda,69,69,स तस्यददृशेमार्गोमांसशोणितकर्दमः । पतितैःपर्वताकारैर्वानरैरभिसंवृतः ।।6.69.69।। Yuddha Kanda,69,70,यावद्विक्रमितुंबुधदिंचक्रुःप्लवगपुङ्गवाः । तावदेतानतिक्रम्यनिर्बिभेदनरान्तकः ।।6.69.70।। Yuddha Kanda,69,71,ददाहहरिसैन्यानिवनानीवविभावसुः । यावदुत्पाटयामासुर्वृक्षान्शैलान्वनौकसः ।।6.69.71।। तावत्प्रासहताःपेतुर्वज्रकृत्ताइवाचलाः । Yuddha Kanda,69,72,ज्वलन्तम्प्रासमुद्यम्यसङ्ग्रामान्तेनरान्तकः ।।6.69.72।। Yuddha Kanda,69,73,दिक्षुसर्वासुबलवान् विचचारनरान्तकः । प्रमृद्नन्सर्वतोयुद्धेप्रावृटकालेयथानिलः ।।6.69.73।। Yuddha Kanda,69,74,न शेकुर्भाषितुंवीरा न स्थातुंस्पन्दितुंभयात् । उत्पतन्तंस्थितंयान्तंसर्वान्विव्याधवीर्यवान् ।।6.69.74।। Yuddha Kanda,69,75,एकेनानन्तकल्पेनप्रासेनादित्यतेजसा । भग्नानिहरिसैन्यानिनिपेतुर्धरणीतले ।।6.69.75।। Yuddha Kanda,69,76,वज्रनिष्पेषदृशंप्रासस्याभिनिपातनम् । न शेकुर्वानरास्सोढुंतेविनेदुर्महास्वनम् ।।6.69.76।। Yuddha Kanda,69,77,पततांहरिवीराणांरूपाणिप्रचकाशिरे । वज्रभिन्नाग्रकूटानांशैलानांपततामिव ।।6.69.77।। Yuddha Kanda,69,78,येतुपूर्वंमहात्मानःकुम्भकर्णेनपातिताः । तेस्वस्थावानरश्रेष्ठास्सुग्रीवमुपतस्थिरे ।।6.69.78।। Yuddha Kanda,69,79,विप्रेक्षमाणस्सुग्रीवोददर्शहरिवाहिनीम् । नरान्तकभयत्रस्तांविद्रवन्तीमितस्ततः ।।6.69.79।। Yuddha Kanda,69,80,विद्रुतांवाहिनींदृष्टवा स ददर्शनरान्तकम् । गृहीतप्रासमायान्तंहयपृष्ठेप्रतिष्ठितम् ।।6.69.80।। Yuddha Kanda,69,81,अथोवाचमहातेजास्सुग्रीवोवानराधिपः । कुमारमङ्गदंवीरंशक्रतुल्यपराक्रमम् ।।6.69.81।। Yuddha Kanda,69,82,गच्छत्वंराक्षसंवीरोयोऽसौतुरगमास्थितः । क्षोभयन्तहरिबलंक्षिप्रंप्राणैर्वियोजय ।।6.69.82।। Yuddha Kanda,69,83,स भर्तुर्वचनंश्रुत्वानिष्पपाताङ्गदतः । अनीकान्मेघसङ्काशादंशुमानिववीर्यवान् ।।6.69.83।। Yuddha Kanda,69,84,शैलसङ्घातसङ्काशोहरीणामुत्तमोऽङ्गदः । रराजाङ्गदसन्नद्धस्सधातुरिवपर्वतः ।।6.69.84।। Yuddha Kanda,69,85,निरायुधोमहातेजाःकेवलंनखदंष्ट्रवान् । नरान्तकमभिक्रम्यवालिपुत्रोऽब्रवीद्वचः ।।6.69.85।। Yuddha Kanda,69,86,तिष्ठकिंप्राकृतैरेभिर्हरिभिस्त्वंकरिष्यसि । अस्मिन्वज्रसमस्पर्शंप्रासंक्षिपममोरसि ।।6.69.86।। Yuddha Kanda,69,87,अङ्गदस्यवचश्श्रुत्वाप्रचुक्रोधनरान्तकः । सन्दश्यदशनैरोष्ठंन्वििश्श्वस्यभुजङ्गवत् ।।6.69.87।। Yuddha Kanda,69,88,अभिगम्याङ्गदंक्रुद्धोवालिपुत्रंनरान्तकः । प्रासंसमाविध्यतदाङ्गदायसमुज्ज्वलन्तंसहसोत्ससर्ज । स वालिपुत्रोरसिवज्रकल्पेबभूवभग्नोन्यपतच्चभूमौ ।।6.69.88।। Yuddha Kanda,69,89,तंप्रासमालोक्यतदाविभग्नंसुपर्णकृत्तोरगभोगकल्पम् । तलंसमुद्यम्य स वालिपुत्रस्तुरङ्गमतस्यजघानमूर्ध्नि ।।6.69.89।। Yuddha Kanda,69,90,निमग्नतालुस्फ्सुटिताक्षितारोनिष्क्रान्तजिह्वोऽचलसन्निकाशः । स तस्यवाजीनिपपातभूमौतलप्रहारेणविशीर्णमूर्धा ।।6.69.90।। Yuddha Kanda,69,91,नरान्तकःक्रोधवशंजगामहतंतुरङ्गंपतितंनिरीक्ष्य । स मुष्टिमुद्यम्यमहाप्रभावोजघानशीर्षेयुधि वालिपुत्रम् ।।6.69.91।। Yuddha Kanda,69,92,अथाङ्गदोमुष्टिविशीर्णमूर्धासुस्रावतीव्रंरुधिरंभृशोष्णम् । मुहुर्विजज्वालमुमोहचापिसंज्ञांसमासाद्यविसिष्मिये च ।।6.69.92।। Yuddha Kanda,69,93,अथाङ्गदोमृत्युसमानवेगंसंवर्त्यमुष्टिंगिरिशृङ्गकल्पम् । निपातयामासतदामहात्मानरान्तकस्योरसिवालिपुत्रः ।।6.69.93।। Yuddha Kanda,69,94,स मुष्टिनिष्पिष्टविभिन्नवक्षाज्वालावमन्शोणितदिग्धगात्रः । नरान्तकोभूमितलेपपातयथाऽचलोवज्रनिपातभग्नः ।।6.69.94।। Yuddha Kanda,69,95,अथान्तरिक्षेत्रिदशोत्तमानांवनौकसांचैवमहाप्रणादः । बभूवतस्मिन्निहतेऽग्य्रवीर्येनरान्तकेवालिसुतेनसंख्ये ।।6.69.95।। Yuddha Kanda,70,1,नरान्तकंहतंदृष्टवाचुक्रुशुर्नैरृतर्षभाः । देवान्तकस्त्रिमूर्धा च पौलस्त्यश्चमहोदरः ।।6.70.1।। Yuddha Kanda,70,2,आरूढोमेघसङ्काशंवारणेन्द्रंमहोदरः । वालिपुत्रंमहावीर्यमभिदुद्राववीर्यवान् ।।6.70.2।। Yuddha Kanda,70,3,भ्रारातृव्यसनसन्तप्तस्तदादेवान्तकोबली । आदायपरिघंदीप्तमङ्गदंसमभिद्रवत् ।।6.70.3।। Yuddha Kanda,70,4,रथमादित्यसङ्काशंयुक्तंपरमवाजिभिः । आस्थायत्रिशिरावीरोवालिपुत्रमथाभ्ययात् ।।6.70.4।। Yuddha Kanda,70,5,स त्रिभिर्देवदर्पघ्नेर्नेरृतीन्द्रेरभिद्रुतः । वृक्षमुत्पाटयामासमहाविटपमङ्गदः ।।6.70.5।। Yuddha Kanda,70,6,देवान्तकायतंवीरच्शिक्षेपसहसाङ्गदः । महावृक्षंमहाशाखंशक्रोदीप्तमिवाशनिम् ।।6.70.6।। Yuddha Kanda,70,7,त्रिशिरास्तंप्रचिच्छेदशरैराशीविषोपमैः । स वृक्षंकृत्तमालोक्यउत्पपाततदाङ्गदः ।।6.70.7।। Yuddha Kanda,70,8,स ववर्षततोवृक्षान् शैलाश्चकपिकुञ्जरः । तान् प्रचिच्छेदसङ्कृद्धस्त्रिशिरानिशितैश्शरैः ।।6.70.8।। Yuddha Kanda,70,9,परिघाग्रेणतान् वृक्षान्बभञ्ज च महोदरः । त्रिशिराश्चाङ्गदंवीरमभिदुद्रावसायकैः ।।6.70.9।। Yuddha Kanda,70,10,गजेनसमभिद्रुत्यवालिपुत्रंमहोदरः । जघानोरसिसङ्कृद्धस्तोमरैर्वज्रसन्निभैः ।।6.70.10।। Yuddha Kanda,70,11,देवान्तकश्चसङ्कृद्धःपरिघेणतदाङ्गदम् । उपगम्याभिहत्याशुव्यपचक्रामवेगवान् ।।6.70.11।। Yuddha Kanda,70,12,सत्रिभिर्नैरृतश्रेष्ठैर्युगतपत्समभिद्रुतः । न विव्यथेमहातेजावालिपुत्रःप्रतापवान् ।।6.70.12।। Yuddha Kanda,70,13,स वेगवान्महावेगंकृत्वापरमदुर्जयः । तलेनभृशमुत्पत्यजघानास्यमहागजम् ।।6.70.13।। Yuddha Kanda,70,14,तस्यतेनप्रहारेणनागराजस्यसंयुगे । पेततुर्लोचनेतस्यविननाद स वारणः ।।6.70.14।। Yuddha Kanda,70,15,विषाणंचास्यसःनिष्कृष्यवालिपुत्रोमहाबलः । देवान्तकमभिप्लुत्यताडयामाससंयुगे ।।6.70.15।। Yuddha Kanda,70,16,स विह्वलस्तुतेजस्वीवातोद्धूतइवद्रुमः । लक्षारससवर्णं च सुस्रावरुधिरंमहत् ।।6.70.16।। Yuddha Kanda,70,17,अथाश्वस्यमहातेजाःकृच्छ्राद्देवान्तकोबली । आविध्यपरिघंवेगादाजघानतदाङ्गदम् ।।6.70.17।। Yuddha Kanda,70,18,परिघाभिहतश्चापिवानरेन्द्रात्मजस्तदा । जानुभ्यांपतितोबूमौपुनरेवोत्पपात ह ।।6.70.18।। Yuddha Kanda,70,19,तमुत्पतन्तंत्रिशिरास्त्रिभिर्बाणैरजिह्मगैः । घोरैर्हरिपतेःपुत्रेंललाटेऽभिजघान ह ।।6.70.19।। Yuddha Kanda,70,20,ततोऽङ्गदंपरिक्षिप्तंत्रिभिर्नैरृतपुङ्गवैः । हनूमानपिविज्ञायनीलश्चापिप्रतस्थतुः ।।6.70.20।। Yuddha Kanda,70,21,तश्चिक्षेपशैलाग्रंनीलस्त्रिशिरसेतदा । तद्रावणसुतोधीमाबनिभेदनिशितैश्शरैः ।।6.70.21।। Yuddha Kanda,70,22,तद्बाणशतनिर्भिन्नंविदारितशिलातलम् । सविस्फुलिंगंसज्वालंनिपपातगिरेशशिरः ।।6.70.22।। Yuddha Kanda,70,23,ततोजृम्भितमालोक्यहर्षाद्वेवान्तकस्तदा । परिघेणाभिदुद्रावमारुतात्मजमाहवे ।।6.70.23।। Yuddha Kanda,70,24,तमापतन्तमुत्प्लुत्यहनुमान्मारुतात्मजः । आजघानतदामूर्ध्निवज्रकल्पेनमुष्टिना ।।6.70.24।। Yuddha Kanda,70,25,शिरसिप्रहरवनीरस्तदावायुसुतोबली । नादेनाकम्पयच्चैवराक्षसान् स महाकपिः ।।6.70.25।। Yuddha Kanda,70,26,मुष्टिनिष्पिष्टविभिन्नमूर्धानिर्वान्तदन्ताक्षिविलम्बिजिव्वाः । देवान्तकोराक्षसराजसूनुर्गतासुरुत्व्यांसहसापपात ।।6.70.26।। Yuddha Kanda,70,27,तस्मिन्हतेराक्षसयोधमुख्येमहाबलेसंयतिदेवशत्रौ । क्रुद्धस्त्रिमूर्धानिशिताग्रमुग्रंववर्षनीलोरसिबाणवर्षम् ।।6.70.27।। Yuddha Kanda,70,28,महोदरस्तुसङ्कृद्धःकुञ्जरंपर्वतोपमम् । भूयस्समधिरुह्याशुमन्दरंरमशिमानिव ।।6.70.28।। Yuddha Kanda,70,29,ततोबाणमयंवर्षंनीलस्योरस्यपातयत् । गिरौवर्षंतडिच्चक्रचापवानिवतोयदः ।।6.70.29।। Yuddha Kanda,70,30,ततश्शरौघेरभिवर्ष्यमाणोविभिन्नगात्रःकपिसैन्यपालः । नीलोबभूवाथविसृष्टगात्रोविष्टम्भितस्तेनमहाबलेन ।।6.70.30।। Yuddha Kanda,70,31,ततस्तुनीलःप्रतिलभ्यसंज्ञांशैलंसमुत्पाट्यसवृक्षषंण्डम् । ततस्समुत्पत्यभृशोग्रवेशोमहादरंतेनजघानमूर्ध्नि ।।6.70.31।। Yuddha Kanda,70,32,तत: स्सशैलेद्रनिपातभग्नोमहोदरस्तेनमहाद्विपेन । विपोथितोभूमितलेगतासुःपपातवज्राभिहतोयथाद्रिः ।।6.70.32।। Yuddha Kanda,70,33,पितृव्यंनिहतंदृष्टवात्रिशिराश्चापमाददे । हनूमन्तं च सङ्कृद्धोविव्याथनिशितैश्शरैः ।।6.70.33।। Yuddha Kanda,70,34,स वायुसुनूःकुपितश्चिक्षेपशिखरंगिरेः । त्रिशिरास्तच्छरैस्तीक्ष्णैर्बिभेदबहुधाबली ।।6.70.34।। Yuddha Kanda,70,35,तद्व्यर्थंशिखरंदृष्टवाद्रुमवर्षंमहाकपिः । विससर्जरणेतस्मिन्रावणस्यसुतंप्रति ।।6.70.35।। Yuddha Kanda,70,36,तमापतन्तमाकाशेद्रुमवर्षंप्रतापवान् । त्रिशिरानिशितैर्बाणैश्चिच्छेद च ननाद च ।।6.70.36।। Yuddha Kanda,70,37,हनूमानुतोप्लुत्यहयंस्त्रीशिरसस्तदा । विददारनखैःक्रुद्धोनागेन्द्रंमृगराडिव ।।6.70.37।। Yuddha Kanda,70,38,अथशक्तिंसमादायकाळरात्रिमिवान्तकः । चिक्षेपानिलपुत्रायत्रिशिरारावणात्मजः ।।6.70.38।। Yuddha Kanda,70,39,दिवःक्षिप्तामिवोल्कांतांशक्तिंक्षिप्तामसङ्गताम् । गृहीत्वाहरिशार्दूलोबभञ्ज च ननाद च ।।6.70.39।। Yuddha Kanda,70,40,तांदृष्टवाघोरसङ्काशांशक्तिंभग्नांहनूमता । प्रहृष्टावानरगणाविनेदुर्जलदाइव ।।6.70.40।। Yuddha Kanda,70,41,तःखडगंसमुद्यम्यत्रिशिराराक्षसोत्तमः । निजघानतदाव्यूढेवायुपुत्रस्यवक्षसि ।।6.70.41।। Yuddha Kanda,70,42,खडगप्रहाराभिहतोहनुमान्मारुतात्मजः । आजघानतिशिरसंतलेनोरसिवीर्यवान् ।। 6.70.42।। Yuddha Kanda,70,43,सतलाभिहतस्तेनस्रस्तहस्तायुधोभुवि । निपपातमहातेजास्त्रिशिरास्त्यक्तचेतनः ।।6.70.43।। Yuddha Kanda,70,44,स तस्यपततःखङ्गंतमाच्छिद्यमहाकपिः । ननादगिरिसङ्काशस्त्रासयन् सर्वनैरृता ।।6.70.44।। Yuddha Kanda,70,45,अमृष्यमाणस्तंघोषमुत्पपातनिशाचरः । उत्पत्य च हनूमन्तंताडयामासमुष्टिना ।।6.70.45।। Yuddha Kanda,70,46,तेनमुष्टिप्रहोरेणसञ्चुकोपमहाकपिः । कुपितश्चनिजग्राहकिरीटेराक्षसर्षभम् ।।6.70.46।। Yuddha Kanda,70,47,स तस्यशीर्षाण्यसिनाशितेनकिरीटजुष्टानिसकुण्डलानि । क्रुद्धःप्रचिच्छेदसुतोऽनिलस्यत्वष्टुस्सुतस्येवशिरांसिशक्रः ।।6.70.47।। Yuddha Kanda,70,48,तान्यायताक्षाण्यगसन्निभानिप्रदीप्तवैश्वानरलोचनानि । पेतुशिरांसीन्द्ररिपोःर्धरण्यांज्योतींषिमुक्तानियथार्कमार्गात् ।।6.70.48।। Yuddha Kanda,70,49,तस्मिन् न्हतेदेवरिपौत्रिशीर्षेहनूमताशक्रपराक्रमेण । नेदुःप्लवंगाःप्रचचालभूमीरक्षांस्यथोदुद्रुविरेसमन्तात् ।।6.70.49।। Yuddha Kanda,70,50,हतंत्रिशिरसंदृष्टवातथैवचमहोदरं । हतौप्रेक्षयदुराधर्षौदेवान्तकनरान्तकौ ।।6.70.50।। चुकोपपरमामर्षीमत्तोराक्षसपुङ्गवः । Yuddha Kanda,70,51,जग्राहार्चिष्मतींघोरांगदांसर्वायसींशुभां ।।6.70.51।। Yuddha Kanda,70,52,हेमपट्टपरिक्षिप्तांमांसशोणितफेनिलाम् । विराजमानांवपुषांशत्रुशोणितरंजिताम् ।।6.70.52।। Yuddha Kanda,70,53,तेजसासंप्रदीप्ताग्रांरक्तमाल्यविभूषिताम् । ऐरावतमहापद्मसार्वभौमभयावहाम् ।।6.70.53।। Yuddha Kanda,70,54,गदामादायसङ्कृद्धोमत्तोराक्षसपुङ्गवः । हरीन् समभिदुद्रावयुगान्तानगिरिवज्वलन् ।।6.70.54।। Yuddha Kanda,70,55,अथर्षभस्समुत्पत्यवानरोरावणानुजम् । मत्तानीकमुपागम्यतस्थौतस्याग्रतोबली ।।6.70.55।। Yuddha Kanda,70,56,तंपुरस्तात् स्थितंदृष्टवावानरंपर्वतोपमम् । आजघानोरसिक्रुद्धोगदयावज्रकल्पया ।।6.70.56।। Yuddha Kanda,70,57,स तयाऽभिहतस्तेनगदयावानरर्षभः । भिन्नवक्षास्समाधूतस्सुस्रावरुधिरंबहु ।।6.70.57।। Yuddha Kanda,70,58,स संज्ञांप्राप्यसुचिरादृषभोवानरर्षभः । क्रुद्धोविस्फुरमाणौष्ठोमहापार्श्वमुदैक्षत ।।6.70.58।। Yuddha Kanda,70,59,स वेगवान् वेगवदभ्युपेत्यतंराक्षसंवानरवीरमुख्यः । सम्वर्त्यमुष्टिंसहसाजघानबाह्वन्तरेशैलनिकाशरूपः ।।6.70.59।। Yuddha Kanda,70,60,स कृत्तमूलस्सहसेववृक्षःक्षितौपपातक्षतजोक्षिताङ्गः । तांचास्यघोरांयमदण्डकल्पांगदांप्रगृह्याशुतदाननाद ।।6.70.60।। Yuddha Kanda,70,61,मुहूर्तमासीत्सगतासुकल्पःप्रत्यागतात्मासहसासुरारिः । उत्पत्यसन्ध्याभ्रसमानवर्णस्तंवारिराजात्मजमाजघान ।।6.70.61।। Yuddha Kanda,70,62,स मूर्भितोभूमितलेपपातमुहूर्तमुत्पत्यपुनस्ससंज्ञः । तामेवतस्याद्रिवराद्रिकल्पांगदांसमाविध्यजघानसङ्ख्ये ।।6.70.62।। Yuddha Kanda,70,63,सातस्यरौद्रासमुपेत्यदेहंरौद्रस्यदेवाध्वरविप्रशत्रोः । बिभेदवक्षःक्षतजं च भूरिसुस्रावधात्वम्भइवाद्रिराजः ।।6.70.63।। Yuddha Kanda,70,64,अभिदुद्राववेगेनगदांतस्यमहात्मनः । गृहीत्वातांगदांभीमामाविध्य च पुनःपुनः ।।6.70.64।। मत्तानीकंमहात्मानंजघानरणमूर्धनि । Yuddha Kanda,70,65,स स्वयागदयाभग्नोविदीर्णदशनेक्षणः ।।6.70.65।। निपपातततोमत्तोवज्राहतइवाचलः । Yuddha Kanda,70,66,विदीर्णनयनेभूमौगतसत्त्वेगतायुषि ।।6.70.66।। पतितेराक्षसेतस्मिन् विद्रुतंराक्षसंबलम् । Yuddha Kanda,71,1,स्वबलंव्यथितंदृष्टवातुमुलंरोमहर्षणम् । भ्रातृ़ंश्चनिहतान् दृष्टवाशक्रतुल्यपराक्रमान् ।।6.71.1।। Yuddha Kanda,71,2,पितृव्यौचापिसनृदृश्यसमरेसन्निघादितौ । युद्धोन्मत्तं च मत्तं च भ्रातरौराक्षसर्षभौ ।।6.71.2।। Yuddha Kanda,71,3,चुकोप च महातेजाब्रह्मदत्तवरोयुधि । अतिकायोऽद्रिसङ्काशोदेवदानवदर्पहा ।।6.71.3।। Yuddha Kanda,71,4,स भास्करसहस्रस्यसङ्घातमिवभास्वरम् । रथमास्थायशक्रारिरभिदुद्राववानरान् ।।6.71.4।। Yuddha Kanda,71,5,स विस्फार्यमहाचापंकिरीटीमृष्टकुण्डलः । नामविश्रावयामासननाद च महास्वनम् ।।6.71.5।। Yuddha Kanda,71,6,तेनसिंहप्रणादेननामविश्रावणेन च । ज्याशब्देन च भीमेनत्रासयामासवानरान् ।।6.71.6।। Yuddha Kanda,71,7,तेदृष्टवादेहमाहात्म्यंकुम्भकर्णोऽयमुथतितः । भयार्तावानरास्सर्वेसंश्रयन्तेपरस्परम् ।।6.71.7।। Yuddha Kanda,71,8,तेतस्यरूपमालोक्ययथाविष्टोस्त्रिविक्रमे । भयाद्वानरयूधास्तेविद्रवन्तिततस्ततः ।।6.71.8।। Yuddha Kanda,71,9,तेऽतिकायंसमासाद्यवानरामूढचेतसः । शरण्यंशरणंजग्मुर्लक्ष्मणाग्रजमाहवे ।।6.71.9।। Yuddha Kanda,71,10,तोऽतिकायंकाकुत्स्थोरथस्थंपर्वतोपमम् । ददर्शधवनिनंदूराद्गर्जन्तंकालमेघवत् ।।6.71.10।। Yuddha Kanda,71,11,स तंदृष्टवामहात्मानंराघवस्तुविसिस्मिये । वानरान् सान्त्वयित्वा च विभीषणमुवाच ह ।।6.71.11।। Yuddha Kanda,71,12,कोऽसौपर्वतसङ्काशोधनुष्मान्हरिलोचनः । युक्तेहयसहस्रेणविशालेस्यन्दनेस्थितः ।।6.71.12।। Yuddha Kanda,71,13,य एषनिशितैश्शूलैस्सुतीक्णैःप्रासमुद्गरैः । अर्चिष्मद्भिर्वृतोभातिभूतैरिवमहेश्वरः ।।6.71.13।। Yuddha Kanda,71,14,कालजिह्वाप्रकाशाभिर्यएषोऽतिविराजते । आवृतोरथशक्तीभिर्विद्युद्भिरिवतोयदः ।।6.71.14।। Yuddha Kanda,71,15,धनूंषिचास्यसज्जानिहेमपृष्ठानिसर्वशः । शोभयन्तिरथश्रेष्ठंशक्रचापमिवाम्बरम् ।।6.71.15।। Yuddha Kanda,71,16,क एषरक्षश्शार्दूलोरणभूमिविराजयन् । अभ्येतिरथिनांश्रेष्ठोरथेनादित्यतेजसा ।।6.71.16।। Yuddha Kanda,71,17,ध्वजशृङ्गप्रतिष्ठेनराहुणाभिविराजते । सूर्यरमशिनिभैर्बाणैर्दिशो दश विराजयन् ।।6.71.17।। Yuddha Kanda,71,18,त्रिणतंमेघसन्नादंहेमपृष्ठमलङ्कृतम् । शतक्रतुधनुःप्रख्यंधनुश्चास्यविराजते ।।6.71.18।। Yuddha Kanda,71,19,स ध्वजस्सपताकश्चसानुकर्षोमहारथः । चतुस्सादिसमायुक्तोमेघस्तनितानि ।।6.71.19।। Yuddha Kanda,71,20,विंशतिर्दशचाष्टौ च तूण्योऽस्यरथमास्थिताः । कार्मुकानि च भीमानिज्याश्चकाञ्चनपिङ्गळाः ।।6.71.20।। Yuddha Kanda,71,21,द्वौ च खडगौरथगतौपार्श्वस्थौपार्श्वशोभितौ । चतुर्हस्तत्सरुयुतौव्यक्तहस्तदशायतौ ।।6.71.21।। Yuddha Kanda,71,22,रक्तगण्ठगुणोधीरोमहापर्वतसन्निभः । कालःकालमहावक्त्रोमेघस्थइवभास्करः ।।6.71.22।। Yuddha Kanda,71,23,काञ्चनाङ्गदनद्धाभ्यांभूजाभ्यामेषशोभते । शृङ्गाभ्यामिवतुङ्गाभ्यांहिमवान् पर्वतोत्तमः ।।6.71.23।। Yuddha Kanda,71,24,कुण्डलाभ्यांतुयस्यैतद्भतध्भातिशुभेक्ष । पुनर्वस्वन्तरगतंपूर्णंभिंबमिवैंदवम् ।।6.71.24।। Yuddha Kanda,71,25,आचक्ष्वमेमहाबाहोत्वमेनंराक्षसोत्तमम् । यंदृष्टवावानरास्सर्वेभयार्ताविद्रुतादिशः ।।6.71.25।। Yuddha Kanda,71,26,स पृष्टोराजपुत्रेणरामेणामिततेजसा । आचचक्षेमहातेजारघवायविभीषणः ।।6.71.26।। Yuddha Kanda,71,27,दशग्रीवोमहातेजाराजावैश्रवणानुजः । भीमकर्मामहोत्साहोरावणोराक्षसाधिपः ।।6.71.27।। Yuddha Kanda,71,28,तस्यासीद्वीर्यवान्पुत्रोरावणप्रतिमोरणे । वृद्धसेवीश्रुतिधरस्सर्वास्त्रविदुषांवरः ।।6.71.28।। Yuddha Kanda,71,29,अश्वपृष्ठेरथेनागेखडगेधनुषिकर्षणे । भेदेसान्त्वे च दाने च नयेमन्त्रे च सम्मतः ।।6.71.29।। Yuddha Kanda,71,30,यस्यबाहूसमाश्रित्यलङ्कावसतिनिर्भया । तनयंधान्यमालिन्याअतिकायमिमंविदुः ।।6.71.30।। Yuddha Kanda,71,31,एतेनाराधितोब्रह्मोतपसाभावितात्मना । अस्त्राणिचाप्यवाप्तानिरिपवश्चपराजिताः ।।6.71.31।। Yuddha Kanda,71,32,सुरासुरैरवध्यत्वंदत्तमस्मैस्वयम्भुवा । एतच्चकवचंदिव्यंरधश्चैषोऽरभास्वरः ।।6.71.32।। Yuddha Kanda,71,33,एतेनशतशोदेवादानवाश्चपराजिताः । रक्षितानि च रक्षांसियक्षाश्चापिनिषूदिताः ।।6.71.33।। Yuddha Kanda,71,34,वज्रंविष्टम्भितंयेनबाणैरिन्द्रस्यधीमतः । पाशस्सलिलराजस्यरणेप्रतिहतस्तथा ।।6.71.34।। Yuddha Kanda,71,35,एषोऽतिकायोबलवान्राक्षसानामथर्षभः । रावणस्यतोधीमान्देवदानवदर्पहा ।।6.71.35।। Yuddha Kanda,71,36,तदस्मिन्क्रियतांयत्नःक्षिप्रंपुरुषपुंगव । पुरावानरसैन्यानिक्ष्यंनयतिसायकैः ।।6.71.36।। Yuddha Kanda,71,37,ततोतिकायोबलवान्प्रविश्यहरिवाहिनीम् । विष्फारयामासधनुर्ननाद च पुनःपुनः ।।6.71.37।। Yuddha Kanda,71,38,तंभीमवपुषंदृष्टवारथस्थंरथिनांवरम् । अभिपेतुर्महात्मानोयेप्रधानावनौकसः ।।6.71.38।। Yuddha Kanda,71,39,कुमुदोद्विविदोमैन्दोनीलश्शरभएव च । पादपैर्गिरिशृङ्गैश्चयुगपत्समभिद्रवन् ।।6.71.39।। Yuddha Kanda,71,40,तेषांवृक्षांश्चशैलांश्चशरैःकाञ्चनभूषणैः । अतिकायोमहातेजाश्चिच्छेदास्त्रविदांवरः ।।6.71.40।। Yuddha Kanda,71,41,तांश्चैवसर्वान् स हरीन् शरैस्सर्वायसैर्बली । विव्याथाभिमुखस्सङ्ख्येभीमकायोनिशाचर ।।6.71.41।। Yuddha Kanda,71,42,तेऽर्दितांबाणवर्षेणभिन्नगात्राःप्लवङ्गमाः । न शेकुरतिकायस्यप्रतिकर्तुंमहारणे ।।6.71.42।। Yuddha Kanda,71,43,तत् त्सैन्यंहरिवीराणांत्रासयामासराक्षसः । मृगयूथमिवक्रुद्धोहरिर्यौवनदर्पितः ।।6.71.43।। Yuddha Kanda,71,44,सराक्षसेन्द्रोहरिसैन्यमध्येनायुध्यमानंनिजघानकञ्चित् । उपेत्यरामंसधम: कलापी स गर्वितंवाक्यमिदंबभाषे ।।6.71.44।। Yuddha Kanda,71,45,रथेस्थितोहंशरचापपाणिर्नप्राकृतंकञ्चनयोधयामि । यस्यास्तिकश्चिद्व्यवसाययुक्तोददातुमेक्षिप्रमिहाद्ययुद्धम् ।।6.71.45।। Yuddha Kanda,71,46,तत्तस्यवाक्यंब्रुवतोनिशम्यचुकोपसौमित्रिरमित्रहन्ता । अमृष्यमाणश्चसमुत्पपातजग्राहचापं च ततस्स्मयित्वा ।।6.71.46।। Yuddha Kanda,71,47,क्रुद्धस्सौमित्रिरुत्पत्यतूणादाक्षिप्यसायकम् । पुरस्तादतिकायस्यविचकर्षमहद्धनुः ।।6.71.47।। Yuddha Kanda,71,48,पूरयन् स महींशैलानाकाशंसागरंदिशः । ज्याशब्दोलक्ष्मणस्योग्रस्त्रासयन् रजनीचरान् ।।6.71.48।। Yuddha Kanda,71,49,सौमित्रेश्चापनिर्घोषंश्रुत्वाप्रतिभयंतदा । विसिष्मियेमहातेजाराक्षसेन्द्रात्मजोबली ।।6.71.49।। Yuddha Kanda,71,50,अथातिकायःकुपितोदृष्टवालक्ष्मणमुत्थितम् । आदायनिशितंबाणमिदंवचनमब्रवीत् ।।6.71.50।। Yuddha Kanda,71,51,बालस्त्वमसिसौमित्रेविक्रमेष्वविचक्षणः । गच्छकिंकालसदृशंमांयोधयतुमिच्छसि ।।6.71.51।। Yuddha Kanda,71,52,न हिमद्बाहुसृष्टानामस्त्राणाहिमवानपि । सोढुमुत्सहतेवेगमन्तरिक्षमथोमही ।।6.71.52।। Yuddha Kanda,71,53,सुखप्रसुप्तंकालाग्निंविबोधयितुमिच्छसि । न्यस्यचापंनिवर्तस्वमाप्राणान् जहिमद्गतः ।।6.71.53।। Yuddha Kanda,71,54,अथवात्वंप्रतिष्टब्धो न निवर्तितुमिच्छसि । तिष्ठप्राणान् परित्यज्यगमिष्यसियमक्ष्यम् ।।6.71.54।। Yuddha Kanda,71,55,पश्यमेनिशितान्बाणानरिदर्पनिषूदनान् । ईश्वरायुधसङ्काशांस्तप्तकाञ्चनभूषणान् ।।6.71.55।। Yuddha Kanda,71,56,एषतेसर्पसंकाशोबाणःपास्यतिशोणितम् । मृगराजइवक्रुद्धोनागराजस्यशोणितम् ।।6.71.56।। इत्येवमुक्त्वासंक्रुद्धश्शरंधनुषिसंदधे । Yuddha Kanda,71,57,श्रुत्वातिकायस्यवचस्सरोषंसगर्वितंसम्यतिराजपुत्रः । स सञ्चुकोपातिबलोमनस्वीरुवाचवाक्यं च ततोमहार्थम् ।।6.71.57।। Yuddha Kanda,71,58,न वाक्यमात्रेणभवान् प्रधानो न कत्थनात्सत्पुरुषाभवन्ति । मयिस्थितेधन्विनिबाणपाणौनिदर्शयस्वात्मबलंदुरात्मन् ।।6.71.58।। Yuddha Kanda,71,59,कर्मणासूचयात्मानं न विकत्थितुमर्हसि । पौरुषेणतुयोयुक्तस्सतुशूरइतिस्मृतः ।।6.71.59।। Yuddha Kanda,71,60,सर्वायुधसमायुक्तोधन्वीत्वंरथमास्थितः । शरैर्वायदिवाप्यस्त्रैर्दर्शयस्वपराक्रमम् ।।6.71.60।। Yuddha Kanda,71,61,ततश्शिरस्तेनिशितैःपातयिष्याम्यहंशरैः । मारुतःकालसम्पक्वंवृन्तात्ताळफलंयथा ।।6.71.61।। Yuddha Kanda,71,62,अद्यतेमामकाबाणास्तप्तकाञ्चनभूषणाः । पास्यन्तिरुधिरंगात्राद्बाणशल्यान्तरोत्थितम् ।।6.71.62।। Yuddha Kanda,71,63,बालोऽयमितिविज्ञाय न मावज्ञातुमर्हसि । बालोवायदिवावृद्धोमृत्युंजानीहिसंयुगे ।।6.71.63।। बालेनविष्णुनालोकास्त्रयःक्रान्तास्त्रिविक्रमैः । Yuddha Kanda,71,64,लक्ष्मणस्यवचश्श्रुत्वाहेतुमत्परमार्थवत् ।।6.71.64।। अतिकायःप्रचुक्रोधबाणंचोत्तममाददे । Yuddha Kanda,71,65,ततोविद्याधराभूतादेवादैत्यामहर्षयः ।।6.71.65।। गुह्यकाश्चमहात्मानस्तद्युद्धंद्रष्टुमागमन् । Yuddha Kanda,71,66,तोऽतिकायःकुपितश्चापमारोप्यसायकम् ।।6.71.66।। लक्ष्मणायप्रचिक्षेपसङ्क्षिपन्निवचाम्बरम् । Yuddha Kanda,71,67,तमापतन्तंनिशितंशरमाशीविषोपमम् ।।6.71.67।। अर्धचन्द्रेणचिच्छेदलक्ष्मणःपरवीरहा । Yuddha Kanda,71,68,तंनिकृत्तंशरंदृष्टवाकृत्तभोगमिवोरगम् ।।6.71.68।। अतिकायोभृशंक्रुद्धःपञ्चबाणान् समाददे । Yuddha Kanda,71,69,तान्शरान् सम्प्रचिक्षेपलक्ष्मणायनिशाचरः ।।6.71.69।। तानप्राप्तान् शरैस्तीक्ष्णैश्चिच्छेदभरतानुजः । Yuddha Kanda,71,70,सतान् छित्त्वाशितैर्बाणैर्लक्ष्मणःपरवीरहा ।।6.71.70।। आददेनिशितंबाणंज्वलन्तमिवतेजसा । Yuddha Kanda,71,71,तमादायधनुश्श्रेष्ठेयोजयामासलक्ष्मणः ।।6.71.71।। विचकर्ष च वेगेनविससर्ज च वीर्यवान् । Yuddha Kanda,71,72,पूर्णायतविसृषेनशरेणनतपर्वणा ।।6.71.72।। ललाटेराक्षसश्रेष्ठमाजघान स वीर्यवान् । Yuddha Kanda,71,73,सललाटेशरोमग्नस्तस्यभीमस्यरक्षसः ।।6.71.73।। ददृशेशोणितेनाक्तःपन्नगेन्द्रइवाचले । Yuddha Kanda,71,74,राक्षसःप्रचकम्पे च लक्ष्मणेषुप्रपीडितः ।।6.71.74।। रुद्रबाणहतंघोरंयथात्रिपुरगोपुरम् । Yuddha Kanda,71,75,चिन्तयामासचाश्वास्यविमृश्य च महाबलः ।।6.71.75।। साधुबाणनिपातेनश्लाघनीयोऽसिमेरिपुः । Yuddha Kanda,71,76,विधायैवंविनम्यास्यंनियम्य च भुजावुभौ ।।6.71.76।। स रथोपस्थमास्थायरथेनप्रचचार ह । Yuddha Kanda,71,77,कंत्रीन्पञ्चसप्तेतिसायन्राक्षसर्षभः ।।6.71.77।। आददेसन्दधेचापिविचकर्षोत्ससर्ज च । Yuddha Kanda,71,78,तेबाणाःकालसङ्काशाराक्षसेन्द्रधुनुश्च्युताः ।।6.71.78।। हेमपुङ्खारविप्रख्याश्चक्रुर्दीप्तमिवाम्बरम् । Yuddha Kanda,71,79,तस्तान्राक्षसोत्सृष्टान्शरौघान्राघवानुजः ।।6.71.79।। असम्ब्रान्तःप्रचिच्छेदनिशितैर्बहुभिश्शरैः । Yuddha Kanda,71,80,तान् शरान्युधिसम्प्रेक्ष्यनिकृत्तान्रावणात्मजः ।।6.71.80।। चुकोपत्रिदशेन्द्रारिर्जग्राहनिशितंशरम् । Yuddha Kanda,71,81,ससन्धायमहातेजास्तंबाणंसहसोत्सृजत् ।।6.71.81।। तेनस्सौमित्रिमायान्तमाजघानस्तनान्तरे । Yuddha Kanda,71,82,अतिकायेनसौमित्रिस्ताडितोयुधिवक्षसि ।।6.71.82।। सुस्रावरुधिरंतीव्रंमदंमत्तइवद्विपः । Yuddha Kanda,71,83,सचकारतदात्मानंविशल्यंसहसाविभुः ।।6.71.83।। जग्राह च शरंतीक्ष्णमस्त्रेणापिचसन्दधे । Yuddha Kanda,71,84,आग्नेयेनतदाऽस्त्रेणयोजयामाससायकम् ।।6.71.84।। स जज्वालतदाबाणोधनुष्यस्यमहात्मनः । Yuddha Kanda,71,85,अतिकायोतितेजस्वीसौरमस्त्रंसमादधे ।।6.71.85।। तेनबाणंभुजङ्गाभंहेमपुङ्खमयोजयत् । Yuddha Kanda,71,86,तदस्त्रंज्वलितंघोरंलक्ष्मणश्शरमाहितम् ।।6.71.86।। अतिकायायचिक्षेपकालदण्डमिवान्तकः । Yuddha Kanda,71,87,आग्नेयेनाभिसंयुक्तंदृष्टवाबाणंनिशाचरः ।।6.71.87।। उत्ससर्जतदाबाणंदीप्तंसूर्यास्त्रयोजितम् । Yuddha Kanda,71,88,तावुभावम्बरेबाणावन्योन्यमभिजघ्नतुः ।।6.71.88।। तेजसासंप्रदीप्ताग्रौक्रुद्धाविवभुजंगमौ । Yuddha Kanda,71,89,तावन्योन्यंविनिर्दह्यपेततुर्धरणीतले ।।6.71.89।। Yuddha Kanda,71,90,निरर्चिषौभस्मकृतौ न भ्राजेतेशरोत्तमौ । तावुभौदीप्यमानौस्म न भ्राजेतेमहीतले ।।6.71.90।। Yuddha Kanda,71,91,ततोऽतिकायस्सङ्कृद्धस्त्वस्त्रमैषीकमुत्सृजत् । तत्प्रचिच्छेदसौमित्रिरस्त्रमैन्द्रेणवीर्यवान् ।।6.71.91।। Yuddha Kanda,71,92,ऐषीकंनिहतंदृष्टवारुषितोरावणात्मजः । याम्येनार्स्तेणसङ्कृद्धोयोजयामाससायकम् ।।6.71.92।। Yuddha Kanda,71,93,ततस्तदस्त्रंचिक्षेपलक्ष्मणायनिशाचरः । वायव्येनतदस्त्रेणनिजघान स लक्ष्मणः ।।6.71.93।। Yuddha Kanda,71,94,अथैनंशरधाराभिर्धाराभिरिवतोयदः । अभ्यवर्षत्सुसङ्कृद्धोलक्ष्मणोरावणात्मजम् ।।6.71.94।। Yuddha Kanda,71,95,तेऽतिकायंसमासाद्यकवचेवज्रभूषिते । भग्नाग्रशल्यास्सहसापेतुर्बाणामहीतले ।।6.71.95।। Yuddha Kanda,71,96,तान्मोघानभिसम्प्रेक्ष्यलक्ष्मणःपरवीरहा । अभ्यवर्षन्महेषूणांसहस्रेणमहायशाः ।।6.71.96।। Yuddha Kanda,71,97,स वृष्यमाणोबाणौघैरतिकायोमहाबलः । अवध्यकवचस्सङ्ख्येराक्षसोनैवविव्यथे ।।6.71.97।। Yuddha Kanda,71,98,शरंचाशीविषाकारंलक्ष्मणायव्यपासृजत् । स तेनविद्धस्सौमित्रिर्मर्मदेशेशरेण ह ।।6.71.98।। मुहूर्तमात्रंनिस्संज्ञोह्यभवच्छत्रुतापनः । Yuddha Kanda,71,99,ततःस्संज्ञामुपालभ्यचतुर्भिस्सायकोत्तमैः ।।6.71.99।। Yuddha Kanda,71,100,निजघानहयान्सङ्ख्येसारथिं च महाबलः । ध्वजस्योन्मथनंकृत्वाशरवर्षैररिन्दमः ।।6.71.100।। Yuddha Kanda,71,101,असम्भ्रान्तस्ससौमित्रिस्तान्शरानभिलक्षितान् । मुमोचलक्ष्मणोबाणान्वधार्थंतस्यरक्षसः ।।6.71.101।। Yuddha Kanda,71,102,न शशाकरुजंकर्तुंयुधितस्यनरोत्तमः । अथैनमभ्युपागम्यवायुर्वाक्यमुवाच ह ।।6.71.102।। Yuddha Kanda,71,103,ब्रह्मदत्तवरोह्येषअवध्यकवचावृतः । ब्राह्मेणास्त्रेणभ्निथ्येनमेषवध्योहिनान्यथा ।।6.71.103।। अवध्यएषह्यन्येषामस्त्राणांकवचीबली । Yuddha Kanda,71,104,ततस्तुवायोर्वचनंनिशम्यसौमित्रिरिन्द्रप्रतिमानवीर्यः । समाददेबाणममोघवेगंतद्ब्राह्ममस्त्रंसहसानियोज्य ।।6.71.104।। Yuddha Kanda,71,105,नियुज्यमानेसौमित्रिणाबाणवरेशिताग्रे । दिशश्चचन्द्रर्कमहाग्रहाश्चनभश्चतत्रासचचालचोर्वी ।।6.71.105।। Yuddha Kanda,71,106,तंब्रह्मणोऽस्त्रेणनियुज्यचापेशरंसुपुङ्खंयमदूतकल्पम् । सौमित्रिरिन्द्रारिसुतस्यतस्यससर्जबाणंयुधिवज्रकल्पम् ।।6.71.106।। Yuddha Kanda,71,107,तंलक्ष्मणोत्सृष्टममोघवेगंसमापतन्तंज्यलनप्रकाशम् । सुपर्णवज्रोत्तमचित्रपुङ्खंतदाऽतिकायस्समरेददर्श ।।6.71.107।। Yuddha Kanda,71,108,तंप्रेक्षमाणस्सहसाऽतिकायोजघानबाणैर्निशितैरनेकैः । स सायकस्तस्यसुपर्णवेगस्तदातिकायस्यजगामपार्श्वम् ।।6.71.108।। Yuddha Kanda,71,109,तमागतंप्रेक्ष्यतदातिकायोबाणंप्रदीप्तान्तककालकल्पम् । जघानक्त्यृष्टिगदाकुठारैशूलैर्हुलैश्चाप्यविपन्नचेता ।।6.71.109।। Yuddha Kanda,71,110,तान्यायुधान्यद्भुतविग्रहाणिमोघानिकृत्वा स शरोऽग्निदीप्तः । प्रगृह्यतस्यैवकिरीटजुष्टम् ततोऽतिकायस्यशिरोजहार ।।6.71.110।। Yuddha Kanda,71,111,तछचिरस्सशिरस्त्राणंलक्ष्मणेषुप्रपीडितम् । पपातसहसाभूमौशृङ्गंहिमवतोयथा ।।6.71.111।। Yuddha Kanda,71,112,तंभूमौनिपतितंदृष्टवाविक्षिप्तभूषणम् बभूवुर्व्यथितास्सर्वेहतशेषानिशाचराः ।।6.71.112।। Yuddha Kanda,71,113,तेविषण्णमुखादीनाःप्रहारजनितश्रमाः । विनेदुरुच्चैर्बहवस्सहसाविस्वरैस्स्वरैः ।।6.71.113।। Yuddha Kanda,71,114,ततस्तेत्वरितंयातानिरपेक्षानिशाचराः । पुरीमभिमुखाभीताद्रवन्तोनायकेहते ।।6.71.114।। Yuddha Kanda,71,115,प्रहर्षयुक्ताबहवस्तुवानराःप्रबुद्दपद्मप्रतिमाननास्तदा । अपूजयन्लक्ष्मणविष्टभागिनंहतेरिपौभीमबलेदुरासदे ।।6.71.115।। Yuddha Kanda,72,1,अतिकायंहतंश्रुत्वालक्ष्मणेनमहौजसा । उद्वेगमगमद्राजावचनंचेदमब्रवीत् ।।6.72.1।। Yuddha Kanda,72,2,धूम्राक्षःपरमामर्षीधन्वीशस्त्रभृतांवरः । अकम्पनःप्रहस्तश्चकुम्भुकर्णस्तथैव च ।।6.72.2।। Yuddha Kanda,72,3,एतेमहाबलावीराराक्षसायुद्धकाङ्क्षिणः । जेतारःपरसैन्यानांपरैर्नित्यापराजिताः ।।6.72.3।। Yuddha Kanda,72,4,निहतास्तेमहावीर्यारामेणाक्लिष्टकर्मणा । राक्षसास्सुमहाकायानानाशस्त्रविशारदाः ।।6.72.4।। अन्ये च बहवश्शूरामहात्मानोनिपातिताः । Yuddha Kanda,72,5,प्रख्यातबलवीर्येणपुत्रेणेन्द्रजितामम ।।6.72.5।। यौहितौभ्रातरौतदावीरौबद्धौदत्तवरैश्शरैः । Yuddha Kanda,72,6,यन्नशक्यंसुरैस्सर्वैरसुरैर्वामहाबलैः ।।6.72.6।। Yuddha Kanda,72,7,मोक्तुंतद्बन्धनंघोरंयक्षगन्धर्वकिन्नरैः । तन्नजानेप्रभावैर्वामाययामोहनेनवा ।।6.72.7।। शरबन्धाद्विमुक्तौतौभ्रातरौरामलक्ष्मणौ । Yuddha Kanda,72,8,येयोधानिर्गताश्शूराराक्षसाममशासनात् ।।6.72.8।। तेसर्वेनिहतायुद्धेवानरैस्सुमहाबलैः । Yuddha Kanda,72,9,तम्नपश्याम्यहंयुद्धेयोऽद्यरामंसलक्ष्मणम् ।।6.72.9।। शासयेत्सबलंवीरंससुग्रीवविभीषणम् । Yuddha Kanda,72,10,अहोसुबलवान् रामोमहदस्त्रबलं च वै ।।6.72.10।। यस्यविक्रममासाद्यराक्षसानिधनंगताः । Yuddha Kanda,72,11,अप्रमत्सैश्चसर्वत्रगुप्सैरक्ष्यापुरीवतियम् ।।6.72.11।। अशोकवनिकायांचयत्रसीताऽभिरक्ष्यते । Yuddha Kanda,72,12,निष्क्रामोवाप्रवेशोवाज्ञातव्यस्सर्वदैवनः ।।6.72.12।। यत्रयत्रभवेद्गुल्मस्तत्रतत्रपुनःपुनः । Yuddha Kanda,72,13,सर्वतश्चापितिष्ठध्वंस्स्वै: परिवृताबलैः ।।6.72.13।। द्रष्टव्यं च पदंतेषांवानराणांनिशाचराः । Yuddha Kanda,72,14,प्रदोषेवार्धरात्रेवाप्रत्यूषेवापिसर्वत ।।6.72.14।। Yuddha Kanda,72,15,नावज्ञातेषुकर्तव्यावानरेषुकदाचन । द्विषतांबलमुद्युक्तमापतकतिंस्थितंसदा ।।6.72.15।। Yuddha Kanda,72,16,ततस्तेराक्षसास्सर्वेश्रुत्वालङ्काधिपस्यतत् । वचनंसर्वमातिष्ठन् यथावत्तुमहाबलाः ।।6.72.16।। Yuddha Kanda,72,17,स तान् सर्वान् हिसन्दिश्यरावणोराक्षसाधिपः । मन्युशल्यंवहन् दीनःप्रविवेशस्वमालयम् ।।6.72.17।। Yuddha Kanda,73,1,ततोहतान्राक्षसपुङ्गवांस्तान् देवान्तकादित्रिशिरोतिकायान् । रक्षोगणास्तत्रहतावशिष्टास्तेरावणायत्वरिताश्शशंसुः ।।6.73.1।। Yuddha Kanda,73,2,ततोहतांस्तान् सहसानिशम्यराजामुमोहपरिप्लुताक्षः । पुत्रक्षयंभ्रातृवधं च घोरंविचिन्त्यराजाविपुलंप्रदध्यौ ।।6.73.2।। Yuddha Kanda,73,3,ततस्तुराजानमुदीक्ष्यदीनंशोकार्णवेसम्परिपुप्लुवानम् । रथर्षभोराक्षसराजसूनुस्तमिन्द्रजिद्वाक्यमिदंबभाषे ।।6.73.3।। Yuddha Kanda,73,4,न तात मोहंपरिगन्तुमर्हसियत्रेन्द्रजिजजीवतिराक्षसेन्द्र । नेन्द्रारिबाणाभिहतोहिकश्चित्प्राणान् समर्थस्समरेऽभिपातुम् ।।6.73.4।। Yuddha Kanda,73,5,पश्याद्यरामंसहलक्ष्मणेनमद्बाणनिर्भिन्नविकीर्णदेहम् । गतायुषंभूमितलेशयानंशितैश्शरैराचितसर्वगात्रम् ।।6.73.5।। Yuddha Kanda,73,6,इमांप्रतिज्ञांशृणुशक्रशत्रोःसुनिश्चितांपौरुषदैवयुक्ताम् । अद्यैवरामंसहलक्ष्मणेनसन्तर्पयिष्यामिशरैरमोघैः ।।6.73.6।। Yuddha Kanda,73,7,अद्येन्द्रवैवस्वतविष्णुमित्रसाध्याश्चवैश्वानरचन्द्रसूर्याः । द्रक्ष्यन्तुमेविक्रममप्रमेयंविष्णोरिवोग्रंबलियज्ञवाटे ।।6.73.7।। Yuddha Kanda,73,8,स एवमुक्त्वात्रिदशेन्द्रशत्रुरापृच्छयराजानमदीनसत्त्वः । समारुरोहानितुल्यवेगंरथंखरश्रेष्ठसमाधियुक्तम् ।।6.73.8।। Yuddha Kanda,73,9,तमास्थायमहातेजारथंहरिरथोपमम् । जगामसहसातत्रयत्रयुद्धमरिन्दमः ।।6.73.9।। Yuddha Kanda,73,10,तंप्रस्थितंमहात्मानमनुजग्मुर्महाबलाः । सम्हर्षमाणाबहनोधनुष्प्रवरपाणयः ।।6.73.10।। Yuddha Kanda,73,11,गजस्कन्धगताःकेचित्केचित्प्रवरवाजिभिः । व्याघ्रवृश्चिकमार्जारखरोरोष्ट्रैश्चभुजङ्गमैः ।।6.73.11।। Yuddha Kanda,73,12,वराहैश्श्वापदैस्सिंहैर्जम्बुकैःपर्वतोपमैः । काकहंसमयूरैश्चराक्षसाभीमविक्रमाः ।।6.73.12।। Yuddha Kanda,73,13,प्रासमुद्गरनिस्त्रिंशपरश्वथगदाधराः । भुशुण्डिमुद्गरायष्टिशतघ्नीपरिघायुधा ।।6.73.13।। Yuddha Kanda,73,14,स शङ्खनिनदैःपूर्णैर्भेरीणांचापिनिस्स्वनैः । जगामत्रिदशेन्द्रास्तूयमानोनिशाचरैः ।।6.73.14।। Yuddha Kanda,73,15,स शङ्खशशिवर्णेनछत्रेणरिपुसूदनः । रराजप्रतिपूर्णेननभश्चन्द्रमसायथा ।।6.73.15।। Yuddha Kanda,73,16,अवीज्यतततोवीरोहैमैर्हेमविभूषितैः । चारुचामरमुख्यैश्चमुख्यस्सर्वधनुष्मताम् ।।6.73.16।। Yuddha Kanda,73,17,स तुदृष्टवाविनिर्यान्तंबलेनमहातावृतम् । राक्षसाधिपतिश्रशीमान् रावणःपुत्रमब्रवीत् ।।6.73.17।। Yuddha Kanda,73,18,त्वमप्रतिरथःपुत्रत्वयावैवासवोजितः । किम्पुनर्मानुषंधृष्यंनिहनिष्यसिराघवम् ।।6.73.18।। तथोक्तोराक्षसेन्द्रेणप्रत्यगृह्णान्महाशिषः । Yuddha Kanda,73,19,तस्त्विन्द्रजितालङ्कासूर्यप्रतिमतेजसा ।।6.73.19।। रराजाप्रतिवीर्येणद्यौरिवार्केणभास्वता । Yuddha Kanda,73,20,सम्प्राप्यमहातेजायुद्धभूमिमरिन्दमः ।।6.73.20।। स्थापयामासरक्षांसिरथंप्रतिसमन्ततः । Yuddha Kanda,73,21,ततस्तुहुतभोक्तारंहुतभुक्सदृशप्रभः ।।6.73.21।। जुहावराक्षसश्रेष्ठोमन्त्रवद्विधिवत्तदा । Yuddha Kanda,73,22,सहविर्लाजसंस्कारैर्माल्यगन्धपुरस्कृतैः ।।6.73.22।। जुहुवेपावकंतत्रराक्षनेन्द्रःप्रतापवान् । Yuddha Kanda,73,23,शस्त्राणिशरपत्राणिसमिधोऽथविभीतकाः ।।6.73.23।। लोहितानि च वासांसिस्रुवंकार्ष्णायसंतथा । Yuddha Kanda,73,24,सतत्राग्निंसमास्तीर्यशरपत्रैस्सतोमरैः ।।6.73.24।। छागस्यकृष्णवर्णस्यगळंजग्राहजीवतः । Yuddha Kanda,73,25,सकृदेवसमिद्धस्यविधूमस्यमहार्चिषः ।।6.73.25।। बभूवुस्तानिलिङ्गानिविजयंयान्यदर्शयन् । Yuddha Kanda,73,26,प्रदक्षिणावर्तशिखस्तप्तकाञ्चनभूषणः ।।6.72.26।। हविस्तत्प्रतिजग्राहपावकस्स्वयमास्थितः । Yuddha Kanda,73,27,सोऽस्त्रमाहारयामासब्राह्ममिन्द्ररिपुस्तदा ।।6.73.27।। धनुश्चात्मरथंचैवसर्वंतत्राभ्यमन्त्रयत् । Yuddha Kanda,73,28,तस्मिन्नाहूयमानेस्त्रेहूयमाने च पावके ।।6.73.28।। सार्धंग्रहेन्दुनक्षत्रैर्वितत्रासनभस्थ्सलम् । Yuddha Kanda,73,29,स पावकंपावकदीप्ततेजाहुत्वामहेन्द्रप्रतिमप्रभावः । स चापबाणासिरथाश्वसूतःखेऽन्तर्दधेऽत्मानमचिन्त्यरूपः ।।6.73.29।। Yuddha Kanda,73,30,ततोहयरथाकीर्णंपताकाध्वजशोभितम् । निर्ययौराक्षसबलंनर्दमानंययुत्सया ।।6.73.30।। Yuddha Kanda,73,31,तेशरैर्बहुभिश्चित्रैस्तीक्ष्णवेगैरलङ्कृतैः । तोमरैरङ्कुशैश्चापिवानरान् जघ्नुराहवे ।।6.73.31।। Yuddha Kanda,73,32,रावणिस्तुततस्सङ्कृद्धस्तान्निरीक्ष्यनिशाचरान् । हृष्टाभवन्तोयुध्यन्तुवानराणांजिघांसया ।।6.73.32।। Yuddha Kanda,73,33,ततस्तेराक्षसास्सर्वेनर्धन्तोजयकाङ्क्षिणः । अभ्यवर्षंस्ततोघोरान्वानरान् शरवृष्टिभिः ।।6.73.33।। Yuddha Kanda,73,34,स तुनालीकनाराचैर्गदाभिर्मुसलैरपि । रक्षोभिस्सम्वृतस्सङ्ख्येवानरान् विचकर्त ह ।।6.73.34।। Yuddha Kanda,73,35,तेवध्यमानास्समरेवानराःपादपायुधाः । अभ्यवर्षन्तसहसारावणिंशैलपादपैः ।।6.73.35।। Yuddha Kanda,73,36,इन्द्रजित्तुतदाक्रुद्धोमहातेजामहाबलः । वानराणांशरीराणिव्यधमद्रावणात्मजः ।।6.73.36।। Yuddha Kanda,73,37,शरेणैकेन च हरीन्नवपञ्च च सप्त च । बिभेदसमरेक्रुद्धोराक्षसान् संप्रहर्षयन् ।।6.73.37।। Yuddha Kanda,73,38,स शरैस्सूर्यसङ्काशैश्शातकुम्भविभूषितैः । वानरान् समरेवीरःप्रममाथसुदुर्जयः ।।6.73.38।। Yuddha Kanda,73,39,तेभिन्नगात्रास्समरेवानराश्शरपीडिताः । पेतुर्मथितसङ्कल्पास्सुरैरिवमहासुराः ।।6.73.39।। Yuddha Kanda,73,40,तंतपन्तमिवादित्यंघोरैर्बाणगभस्तिभिः । अभ्यधावन्तसङ्कृद्धास्सम्युगेवानरर्षभाः ।।6.73.40।। Yuddha Kanda,73,41,ततस्तुवानरास्सर्वेभिन्नदेहाविचेतसः । व्यथिताविद्रवन्तिस्मरुधिरेणसमुक्षिताः ।।6.73.41।। Yuddha Kanda,73,42,रामस्यार्थेपराक्रम्यवानरास्त्यक्तजीविताः । नर्दन्तस्तेऽभिवृत्तास्तुसमरेसशिलायुधाः ।।6.73.42।। Yuddha Kanda,73,43,तेद्रुमैःपर्वताग्रैश्चशिलाभिश्चप्लवङ्गमाः । अभ्यवर्षन्तसमरेरावणिंपर्यवस्थिताः ।।6.73.43।। Yuddha Kanda,73,44,तद्रुमाणांशिलानां च वर्षंप्राणहरंमहत् । व्यपोहतमहातेजारावणिस्समितिंजयः ।।6.73.44।। Yuddha Kanda,73,45,ततःपावकसङ्काशैश्शरैराशीविषोपमैः । वानराणामनीकानिबिभेदसमरेप्रभुः ।।6.73.45।। Yuddha Kanda,73,46,अष्टादशशरैस्तीक्ष्णैस्सविदद्वागन्धमादनम् । विव्याथनवभिश्चैवनलंदूरादवस्थितम् ।।6.73.46।। Yuddha Kanda,73,47,सप्तभिस्तुमहावीर्योमैन्दंमर्मविदारणैः । पञ्चभिर्विशिखैश्चैवगजंविव्याथसंयुगे ।।6.73.47।। Yuddha Kanda,73,48,जाम्बवन्तंतुदशभिर्नीलंत्रिंशद्भिरेव च । सुग्रीवमृषभंचैवसोऽङ्गदंद्विविधंतथा ।।6.73.48।। घोरैर्दत्तवरैस्तीक्ष्णैर्निष्प्राणानकरोत्तदा । Yuddha Kanda,73,49,अन्यानपितदामुख्यान्वानरान् बहुभिश्शरैः ।।6.73.49।। अर्दयामाससङ्कृद्धःकालानगिरिवमूर्छितः । Yuddha Kanda,73,50,सशरैस्सूर्यसङ्काशैस्सुमुक्सैशशीघ्रगामिभिः ।।6.73.50।। वानराणामनीकानिनिर्ममन्थमहारणे । Yuddha Kanda,73,51,आकुलांवानरींसेनांशरजालेनमोहिताम् ।।6.73.51।। हृष्टस्सपरयाप्रीत्याददर्शक्षतजोक्षिताम् । Yuddha Kanda,73,52,वानरेवमहातेजाराक्षसेन्द्रात्मजोबली ।।6.73.52।। Yuddha Kanda,73,53,संसृज्यबाणवर्षं च शस्त्रवर्षं च दारुणम् । ममर्दवानरानीकमिन्द्रजित्त्वरितोबली ।।6.73.53।। Yuddha Kanda,73,54,स्वसैन्यमुत्सृज्यसमेत्यतूर्णंमहारणेवानरवाहिनीषु । अदृश्यमानश्शरजालमुग्रंववर्षनीलाम्बुधरोयथाम्बु ।।6.73.54।। Yuddha Kanda,73,55,तेशक्रजिद्बाणविशीर्णदेहामायाहताविस्वरमुन्नदन्तः । रणेनिपेतुर्हरयोऽद्रिकल्पायथेन्द्रवज्राभिहतानगेन्द्राः ।।6.73.55।। Yuddha Kanda,73,56,तेकेवलंसन्ददृशुशशिताग्रान्बाणान्रणेवानरवाहिनीषु । मायानिगूढंतुसुरेन्द्रशत्रुं न चावृतंराक्षसमभ्यपश्यन् ।।6.73.56।। Yuddha Kanda,73,57,ततस्सरक्षोधिपतिर्महात्मासर्वादिशोबाणगणैशशिताग्रैः । प्रच्छादयामासरविप्रकाशैर्विपादयामास च वानरेन्द्रान् ।।6.73.57।। Yuddha Kanda,73,58,स शूलनिस्त्रिंशपरश्वधानिव्याविध्यदीप्तानलसन्निभानि । सविस्फुलिङ्गोज्ज्वलपावकानिववर्षतीव्रंप्लवगेन्द्रसैन्ये ।।6.73.58।। Yuddha Kanda,73,59,ततोज्वलनसङ्काशैश्शरैर्वानरयूथपाः । ताडिताश्शक्रजिद्बाणैःप्रफुल्लाइवकिंशुकाः ।।6.73.59।। Yuddha Kanda,73,60,तेन्योन्यमभिसर्पन्तोनिनदन्तश्चविस्वरम् । राक्षसेन्द्रास्त्रनिर्भिन्नानिपेतुर्वानरर्षभाः ।।6.73.60।। Yuddha Kanda,73,61,उदीक्षमाणागगनंकेचिन्नेत्रेषुताडिताः । शरैर्विविशुरन्योन्यंपेतुश्चजगतीतले ।।6.73.61।। Yuddha Kanda,73,62,हनूमन्तं च सुग्रीवमङ्गदंगन्धमादनम् । जाम्बवन्तंसुषेणं च वेगदर्शिनमेव च ।।6.73.62।। Yuddha Kanda,73,63,मैन्दं च द्विविदंनीलंगवाक्षंगजगोमुभौ । केसरिंहरिलोमानंविद्युद्धंष्ट्रं च वानरम् ।।6.73.63।। Yuddha Kanda,73,64,सूर्याननंज्योतिमुखंतथादधिमुखंहरिम् । पावकाक्षनळंचैवकुमुदंचैववानरम् ।।6.73.64।। Yuddha Kanda,73,65,प्रसैश्शूलैश्शितैर्बाणैरिन्द्रजिन्मन्त्रसम्हितैः । विव्याधहरिशार्दूलान् सर्वांस्तान्राक्षसोत्तमः ।।6.73.65।। Yuddha Kanda,73,66,स वैगदाभिर्हरियूथमुख्यान्निर्भिद्यबाणैस्तपनीयवङ्खैः । ववर्षरामंशरवृष्टिजालैस्सलक्ष्मणंभास्कररमशिकल्पैः ।।6.73.66।। Yuddha Kanda,73,67,स बाणवर्षैरभिवृष्यमाणोधारानिपातानिवतानच्नित्य । समीक्षमाणःपरमाद्भुतश्रीरामतदालक्ष्मणमित्युवाच ।।6.73.67।। Yuddha Kanda,73,68,असौपुनर्लक्ष्मणराक्षसेन्द्रोब्रह्मास्त्रमाश्रित्यसुरेन्द्रशत्रुः । निपातयित्वाहरिसैन्यमुग्रमस्मान्शरैरर्दयतिप्रसक्तः ।।6.73.68।। Yuddha Kanda,73,69,स्वयम्भुवादत्तवरोमहात्मा । समाहितोन्तर्हितभीमकायः । कथंनुशक्योयुधिनष्टदेहोनिहन्तुमद्येन्द्रजिदुद्यतास्त्रः ।।6.73.69।। Yuddha Kanda,73,70,मन्येस्वयम्भुर्भगवानच्नित्योयस्यैतदस्त्रंप्रभवश्चयोऽस्य । बाणावपातास्त्वमिहाद्यधीमन्मयासहाव्यग्रमनास्सहस्व ।।6.73.70।। Yuddha Kanda,73,71,प्रच्छादयत्येषहिराक्षसेन्द्रस्सर्वाधिशस्सायकवृष्टिजालैः । एतच्चसर्वंपतिताग्य्रशूरं न भ्राजतेवानरराजसैन्यम्।। 6.73.71।। Yuddha Kanda,73,72,आवांतुदृष्टवापतितौविसंज्ञौनिवृत्तयुद्दौगतरोषहर्षे । ध्रुवंप्रवेक्ष्यत्यमरारिवासमसौसमादायरणाग्रलक्ष्मीम् ।।6.73.72।। Yuddha Kanda,73,73,ततस्तुताविन्द्रजिदस्त्रजालैर्भभूवतुस्तत्रतथाविशस्तौ । स चापितौतत्रविदर्शयित्वाननादहर्षाद्युधिराक्षसेन्द्रः ।।6.73.73।। Yuddha Kanda,73,74,सतत्तदावानरसैन्यमेवंरामं च सङ्ख्येसहलक्ष्मणेन । विषादयित्वासहसाविवेशपुरींदशग्रीवभुजाभिगुप्ताम् ।।6.73.74।। Yuddha Kanda,73,75,सन्स्तूयमानस्सतुयातुधानैः । पत्रे च सर्वंहृषितोऽभ्युवाच ।।6.73.75।। Yuddha Kanda,74,1,तयोस्तदासादितयोरणाग्रेमुमोहसैन्यंहरिपुङ्गवानाम् । सुग्रीवनीलाङ्गदजाम्बवन्तो न चापिकिञ्चित्प्रतिपेदिरेते ।।6.74.1।। Yuddha Kanda,74,2,ततोविषण्णंसमवेक्ष्यसैन्यंविभीषणोबुद्धिमतांवरिष्ठः । उवाचशाखमृगराजवीरानाश्वासयन्नप्रतिमैर्वचोभिः ।।6.74.2।। Yuddha Kanda,74,3,माभैष्टनास्त्यत्रविषादकालोयदार्यपुत्त्रौविवशौविषण्णौ । स्वयम्भुवोवाक्यमथोद्वहन्तौयत्सादिताविन्द्रजिदस्त्रजालैः ।।6.74.3।। Yuddha Kanda,74,4,तस्मैतुदत्तंपरमास्त्रमेतत्स्वयम्भुवाब्राह्मममोघवेगम् । तन्मानयन्तौयुधिराजपुत्रौनिपातितौकोऽत्रविषादकालः ।।6.74.4।। Yuddha Kanda,74,5,ब्राह्ममस्त्रंततोधीमान्मानयित्वातुमारुतिः । विभीषणवचश्श्रुत्वाहनूमांस्तमथाब्रवीत् ।।6.74.5।। Yuddha Kanda,74,6,एतस्मिन्निहतेसैन्येवानराणांतरस्विनाम् । योयोधारयतेप्राणांस्तंतमाश्वासयाव ।।6.74.6।। Yuddha Kanda,74,7,तावुभौयुगपवदीरौहनूमद्राक्षसोत्तमौ । उल्काहस्तौतदारात्रौरणशीर्षेविचेरतुः ।।6.74.7।। Yuddha Kanda,74,8,भिन्नलाङ्गूलहस्तोरुपादाङ्गुळशिरोधरैः । स्रवद्भिःक्षतजंगात्रैःप्रस्रवद्भिस्ततस्ततः ।।6.74.8।। Yuddha Kanda,74,9,पतितैःपर्वताकारैर्वानरैरभिसङ्कुलाम् । शस्सैश्चपतितैर्दीप्तैर्ददृशातेवसुन्धराम् ।।6.74.9।। Yuddha Kanda,74,10,सुग्रीवमङ्गदंनीलंशरभंगन्धमादनम् । गवाक्षं च सुषेणं च वेगदर्शिनमाहुकम् ।।6.74.10।। Yuddha Kanda,74,11,मैन्दंनळंज्योतिमुखंद्विविदंपनसंतथा । विभीषणोहनूमांश्चददृशातेहतान् रणे ।।6.74.11।। Yuddha Kanda,74,12,सप्तषष्टिर्हताःकोट्योवानराणांतरस्विनाम् । अह्नःपञ्चमशेषेणवल्लभेनस्वयम्भुवः ।।6.74.12।। Yuddha Kanda,74,13,सागरौघनिभंभीमंदृष्टवाबाणार्दितंबलम् । मार्गतेजाम्बवन्तंस्मिहनूमान् सविभीषणः ।।6.74.13।। Yuddha Kanda,74,14,स्वभावजरयायुक्तंवृद्धंशरशतैश्चितम् । प्रजापतिसुतंवीरंशाम्यन्तमिवपावकम् ।।6.74.14।। दृष्टवातमुपसङ्ग्रम्यपौलस्त्योवाक्यमब्रवीत् । Yuddha Kanda,74,15,च्चिदार्यशरैस्तीक्ष्णैर्नप्राणाध्वंसितास्तव ।।6.74.15।। Yuddha Kanda,74,16,विभीषणवचश्श्रुत्वाजाम्बवानृक्षपुङ्गवः । कृच्छ्रादभ्युग्दिरन्वाक्यमिदंवचनमब्रवीत् ।।6.74.16।। Yuddha Kanda,74,17,नैरृतेन्द्रमहावीर्यस्वरेणत्वाऽभिलक्ष्ये । पीड्यमानशशितैर्बाणैर्नत्वापश्यामिचक्षुषा ।।6.74.17।। Yuddha Kanda,74,18,अञ्जनासुप्रजायेनमातरिश्वा च नैरृत । हनुमान् वानरश्रेष्ठःप्राणान् धारयतेक्वचित् ।।6.74.18।। Yuddha Kanda,74,19,श्रुत्वाजाम्बवतोवाक्यमुवाचेदंविभीषणः । आर्यपुत्रावतिक्रम्यकस्मात्पृच्छसिमारुतिम् ।।6.74.19।। Yuddha Kanda,74,20,नैवराजनिसुग्रीवेनाङ्गदेनापिराघवे । आर्यसन्दर्शितस्स्नेहोयथावायुसुतेपरः ।।6.74.20।। Yuddha Kanda,74,21,विभीषणवचश्श्रुत्वाजाम्बवान्वाक्यमब्रवीत् । शृणुनैरृतशार्दूलयस्मात् पृच्छामिमारुतिम् ।।6.74.21।। Yuddha Kanda,74,22,तस्मिन्जीवतिवीरेतुहतमप्यहतंबलम् । हनूमत्युज्झितप्राणेजीवन्तोऽपिवयम् हृता ।।6.74.22।। Yuddha Kanda,74,23,धरतेमारुतिस्तातमारुतप्रतिमोयदि । वैश्वानरसमोवीर्वेजीविताशाततोभवेत् ।।6.74.23।। Yuddha Kanda,74,24,ततोवृद्धमुपागम्यनियमेनाभ्यवादयत् । गृह्यजाम्बवतःपादौहनूमान्मारुतात्मजः ।।6.74.24।। Yuddha Kanda,74,25,श्रुत्वाहनुमतोवाक्यंतदाऽपिव्यथितेन्द्रियः । पुनर्जातमिवात्मानंमन्यतेप्लवगोत्तमः ।।6.74.25।। Yuddha Kanda,74,26,ततोऽब्रवीन्महातेजाहनूमन्तं स जाम्बवान् । आगच्छहरिशार्दूल वानरांस्त्रातुमर्हसि ।।6.74.26।। Yuddha Kanda,74,27,नान्योवक्रमपर्याप्तस्त्वमेषांपरमस्सखा । त्वत्पराक्रमकालोऽयंनान्यंपश्यामिकथञ्चन ।।6.74.27।। Yuddha Kanda,74,28,ऋक्ष्वानरवीराणामनीकानिप्रहर्षय । शल्यौकुरुचाप्येतासादितौरामलक्ष्मणौ ।।6.74.28।। Yuddha Kanda,74,29,गत्वापरममध्वानमुपर्युपरिसागरम् । हिमवन्तंनगश्रेष्ठंहनुमन्गन्तुमर्हसि ।।6.74.29।। Yuddha Kanda,74,30,ततःकाञ्चनमत्युच्चमृषभंपर्वतोत्तमम् । कैलासशिखरंचापिद्रक्ष्यस्यरिनिषूदन ।।6.74.30।। Yuddha Kanda,74,31,तयोशशिखरयोर्मध्येप्रदीप्तमतुलप्रभम् । सर्यौषधियुतंवीर द्रक्ष्यस्यौषधिपर्यतम् ।।6.74.31।। Yuddha Kanda,74,32,तस्यवानरशार्दूल चतस्रो मूधि सम्भवाः । द्रक्ष्यस्योषधयोदीप्तादीपय्नत्योदिशोदश ।।6.74.32।। Yuddha Kanda,74,33,मृतसञ्जीवनींचैवविशल्यकरणीमपि । सुवर्णकरणींचैवसन्धानकरणींतथा ।।6.74.33।। Yuddha Kanda,74,34,तास्सर्वाहनुमन्गृह्वक्षिप्रमागन्तुमर्हसि । आश्वासयहरीन् प्राणैर्योज्यगन्धवहात्मज ।।6.74.34।। Yuddha Kanda,74,35,श्रुत्वाजाम्बवतोवाक्यंहनूमान् हरिपुङ्गवः । आपूर्यतबलोद्धर्षैस्तोयवेगैरिवार्णवः ।।6.74.35।। Yuddha Kanda,74,36,पर्वततटाग्रस्थःपीडयन् पर्वतोत्तमम् । हनूमान्दृश्यतेवीरोद्वितीयइवपर्वतः ।।6.74.36।। Yuddha Kanda,74,37,हरिपादविनिर्भग्नोनिषसाद स पर्वतः । न शशाकतदात्मानंसोढुंभृशनिपीडितः ।।6.74.37।। Yuddha Kanda,74,38,तस्यपेतुर्नगाभूमौहरिवेगाच्चजज्वलुः । शृङ्गाणि च व्यशीर्यन्तपीडितस्यहनूमता ।।6.74.38।। Yuddha Kanda,74,39,तस्मिन् सम्पीड्यमानेतुभग्नद्रुमशिलातले । न शेकुर्वानरास्स्थातुंघूर्णमानेनगोत्तमे ।।6.74.39।। Yuddha Kanda,74,40,साघूर्णितमहाद्वाराप्रभग्नगृहगोपुरा । लङ्कात्रासाकुलारात्रौप्रवृत्तेवाभवत्तदा ।।6.74.40।। Yuddha Kanda,74,41,पृथिवीधरसङ्काशोनिपीड्यधरणीधरम् । पृथिवींक्षोभयामाससार्णवांमारुतात्मजः ।।6.74.41।। Yuddha Kanda,74,42,आरुरोहतदातस्माद्धरिर्मलयपर्वतम् । मेरुमन्दरसङ्काशंनानाप्रस्रवणाकुलम् ।।6.74.42।। Yuddha Kanda,74,43,नानाद्रुमलताकीर्णंविकासिकमलोत्पलम् । सेवितंदेवगन्धर्वैष्षष्टियोजनमुच्छ्रितम् ।।6.74.43।। Yuddha Kanda,74,44,विद्याधरैर्मुनिगणैरप्सरोभिर्निषेवितम् । नानामृगगणाकीर्णंबहुकन्दरशोभितम् ।।6.74.44।। Yuddha Kanda,74,45,सर्वानाकुलयंस्तत्रयक्षगन्धर्वकिन्नरान् । हनुमान् मेघसङ्काशोववृधेमारुतात्मजः ।।6.74.45।। Yuddha Kanda,74,46,पद्भ्यांतुशैलमापीड्यबडबामुखवन्मुखम् । विवृत्योग्रंननादोच्चैस्त्रासयन्निवराक्षसान् ।।6.74.46।। Yuddha Kanda,74,47,तस्यनानद्यमानस्यश्रुत्वानिनदमद्भुतम् । लङ्कास्थाराक्षसास्सर्वे न शेकुस्स्पन्दितुंभयात् ।।6.74.47।। Yuddha Kanda,74,48,नमस्कृत्वाऽथरामायमारुतिर्भीमविक्रमः । राघवार्थेपरंकर्मसमीहतपरन्तपः ।।6.74.48।। Yuddha Kanda,74,49,स पुच्छमुद्यम्यभुजङ्गकल्पंविनम्यपृष्ठंश्रवणेनिकुञ्च्य । विवृत्यवक्त्रंबडबामुखाभमापुफ्लुवेव्योमनिचण्डवेगः ।।6.74.49।। Yuddha Kanda,74,50,सवृक्षषण्डांस्तरसाजहारशैलान् शिलाःप्राकृतवानरांश्च । बाहूरुवेगोद्धतसम्प्रणुन्नास्तेक्षीणवेगास्सलिलेनिपेतुः ।।6.74.50।। Yuddha Kanda,74,51,तौप्रसार्योरगभोगकल्पौभुजौभुजङ्गारिनिकाशवीर्यः । जगाममेरुंनगराजमग्य्रंदिशःप्रकर्षन्निववायुसूनुः ।।6.74.51।। Yuddha Kanda,74,52,स सागरंघूर्णितवीचिमालंतथाभृशंभ्रामितसर्वसत्त्वम् । समीक्षमाणस्सहसाजगामचक्रंयथाविष्णुकराग्रमुक्तम् ।।6.74.52।। Yuddha Kanda,74,53,स पर्वतान्वृक्षगवान् सरांसिनदीस्तटाकानिपुरोत्तमानि । स्फीतान् जनान्तानपिसम्प्रवीक्ष्यजगामवेगापतितृतुल्यवेगः ।।6.74.53।। Yuddha Kanda,74,54,आदित्यपथमाश्रित्यजगाम स गतक्लमः । हनूमांस्त्वरितोवीरःपितृतुल्यपराक्रमः ।।6.74.54।। Yuddha Kanda,74,55,जवेनमहतायुक्तोमारुतिर्मारुतोयथा । जगामहरिशार्दूलोदिशश्शब्देनपूरयन् ।।6.74.55।। Yuddha Kanda,74,56,स्म्मरन्जाम्बवतोवाक्यंमारुतिर्वातरंहसा । ददर्शसहसागत्वाहिमवन्तंमहाकपिः ।।6.74.56।। Yuddha Kanda,74,57,नानाप्रस्रवणोपेतंनानाकन्दरनिर्घरम् । श्वेताभ्रचयसङ्काशैशशिखरैश्चारुदर्शनैः ।।6.74.57।। शोभितंविविधैर्वृक्षैरगमत्पर्वतोत्तमम् । Yuddha Kanda,74,58,स तंसमासाद्यमहानगेन्द्रमतिप्रवृद्धोत्तमघोरशृङ्गम् । ददर्शपुण्यानिमहाश्रमाणिसुरर्षिसंघोत्तमसेवितानि ।।6.74.58।। Yuddha Kanda,74,59,स ब्रह्मकोशंरजतालयं च शक्रालयंरुद्रशरप्रमोक्षम् । हयाननंब्रह्मशिरश्चदीप्तंददर्शवैवस्वतकिङ्करांश्च ।।6.74.59।। Yuddha Kanda,74,60,वज्रालयंवैश्रवणालयं च सूर्यप्रभंसूर्यनिबन्धनंच । a. ब्रह्मासनंशङ्करकार्मुकं च ददर्शनाभिं च वसुन्धरायाः ।।6.74.60।। Yuddha Kanda,74,61,कैलासमग्य्रंहिमवच्छिलां च तथर्षभंकाञ्चनशैलमग्य्रम् । सन्दीप्तसर्वौषधिसन्प्रदीप्तंददर्शसर्वौषधिपर्वतेन्द्रम् ।।6.74.61।। Yuddha Kanda,74,62,स तंसमीक्ष्यानलरश्मिदीप्तंविसिष्मियेवासवदूतसूनुः । आवृत्यतंचौषधिपर्वतेन्द्रंतत्रौषधीनांविचयंचकार ।।6.74.62।। Yuddha Kanda,74,63,सयोजनसहस्राणिसमतीत्यमहाकपिः । दिव्यौषधिधरंशैलंव्यचरन्मारुतात्मजः ।।6.74.63।। Yuddha Kanda,74,64,महौषध्यस्ततस्सर्वास्तस्मिन् पर्वतसत्तमे । विज्ञायार्थिनमायान्तंततोजग्मुरदर्शनम् ।।6.74.64।। Yuddha Kanda,74,65,स तामहात्माहनुमानपश्यंश्चुकोपकोपाच्चभृशंननाद । अमृष्यमाणोऽनगिनिकाशचक्षुर्महीधरेन्द्रंतमुवाचवाक्यम् ।।6.74.65।। Yuddha Kanda,74,66,कीमेतदेवंसुविनिश्चितंतेयद्राघवेनासिकृतानुकम्प । पश्याद्यमद्बाहुबलाभिभूतोविकीर्णमात्मानमथोनगेन्द्र ।।6.74.66।। Yuddha Kanda,74,67,स तस्यशृङ्गंसनगंसनागंसकाञ्चनंधातुसहस्रजुष्टम् । विकीर्णकूटंज्वलिताग्रसानुंप्रगृह्यवेगात्सहसोन्ममाथ ।।6.74.67।। Yuddha Kanda,74,68,सतसमुत्पाट्यखमुत्पपातवित्रास्यलोकान् ससुरासुरेन्द्रान् । संस्तूयमानःखचरैरनेकैर्जगामवेगाद्गरुडोग्रवेगः ।।6.74.68।। Yuddha Kanda,74,69,स भास्कराध्वानमनुप्रपन्नस्तंभास्कराभंशिखरंप्रगृह्य । बभौतदाभास्करसन्निकाशोरवेस्समीपेप्रतिभास्कराभः ।।6.74.69।। Yuddha Kanda,74,70,स तेनशैलेनभृशंरराजशैलोपमोगन्धवहात्मजस्तु । सहस्रधारेणसपावकेनचक्रेणखेविष्णुरिवार्पितेन ।।6.74.70।। Yuddha Kanda,74,71,तंवानराःप्रेक्ष्यविनेदुरुच्चैस्सतानपिप्रेक्ष्यमुदाननाद । तेषांसमुध्घुष्टरवंनिशम्यलङ्कालयाभीमतरंविनेदुः ।।6.74.71।। Yuddha Kanda,74,72,ततोमहात्मानिपपाततस्मिन् शैलोत्तमेवानरसैन्यमथ्ये । हर्युत्तमेभ्यशशिरसाऽभिवाद्यविभीषणंतत्र स सस्वजे च ।।6.74.72।। Yuddha Kanda,74,73,तावप्युभौमानुषराजपुत्रौतंगन्धमाघ्रायमहौषधीनाम् । बभूवतुस्तत्रतदाविशल्यावुत्तस्थुरन्ये च हरिप्रवीराः ।।6.74.73।। Yuddha Kanda,74,74,सर्वेविशल्याविरुजाःक्षणेनहरिप्रवीराश्चहताश्चयेस्युः । गन्धेनतासांप्रवरौषधीनांसुप्तानिशान्तेष्विवसम्प्रबुद्धाः ।।6.74.74।। Yuddha Kanda,74,75,दाप्रभृतिलङ्कायांयुध्यन्तेहरिराक्षसाः । तदाप्रभृतिमानार्थमाज्ञयारावणस्य च ।।6.74.75।। Yuddha Kanda,74,76,येहन्यन्तेरणेतत्रराक्षसाःकपिकुञ्जरैः । हताहतास्तुक्षिप्यन्तेसर्वएवतुसागरे ।।6.74.76।। Yuddha Kanda,75,1,ततोऽब्रवीन्महातेजास्सुग्रीवोवानराधिपः । अर्थ्यंविज्ञापयंश्चापिहनूमन्तमिदंवचः ।।6.75.1।। Yuddha Kanda,75,2,यतोहतःकुम्भकर्णःकुमाराश्चनिषूदिताः । नेदानीमुपनिर्हारंरावणोदातुमर्हति ।।6.75.2।। Yuddha Kanda,75,3,येयेमहाबलास्सन्तिलघवश्चप्लवङ्गमाः । लङ्कामभ्युतन्त्याशुगृह्योल्काःप्लवगर्षभाः ।।6.75.3।। हरयोहरिसङ्काशाःप्रदग्धुंरावणालयम् । Yuddha Kanda,75,4,तोस्तंगतआदित्येरौद्रेतस्मिन्निशामुखे ।।6.75.4।। लङ्कामभिमुखास्सोल्काजग्मुस्तेप्लवगर्षभाः । Yuddha Kanda,75,5,उल्काहस्सैर्हरिगणैस्सर्वतस्समभिद्रुताः ।।6.75.5।। आरक्षस्थाविरूपाक्षास्सहसाविप्रदद्रुवुः । Yuddha Kanda,75,6,गोपुराट्टप्रतोलीषुचर्यासुविविधासु च ।।6.75.6।। प्रासादेषु च सम्हृष्टास्ससृजुस्तेहुताशनम् । Yuddha Kanda,75,7,तेषांगृहसहस्राणिददाहहुतभुक्तदा ।।6.75.7।। प्रासादाःपर्वताकाराःपतन्तिधरणीतले । Yuddha Kanda,75,8,अगुरुर्दह्यतेतत्रवरं च हरिचन्दनम् ।।6.75.8।। मौक्तिकामणयस्स्निग्धावज्रंचापिप्रवालकम् । Yuddha Kanda,75,9,क्षौमं च दह्यतेतत्रकौशेयंचापिशोभनं ।।6.75.9।। आविकंविविधंचौर्णंकाञ्चनंभाण्डमायुधम् । Yuddha Kanda,75,10,नानाविकृतसंस्थानंवाजिभाण्डपरिच्छदौ ।।6.75.10।। गजग्रैवेयकक्ष्याश्चरथभाण्डाश्चसम्स्कृताः । Yuddha Kanda,75,11,नुत्राणि च योधानांहस्त्यश्वानां व चर्म च ।।6.75.11।। खडगाधनूंषिज्वाबाणास्तोमराङ्कुशशक्तयः । Yuddha Kanda,75,12,रोमजंवालजंचर्मव्याघ्रजंचण्डजंबहु ।।6.75.12।। Yuddha Kanda,75,13,मुक्तामणिविचित्रांश्चप्रासादांश्चसमन्ततः । विविधानस्त्रसंयोगानग्निर्दहतितत्रवै ।।6.75.13।। Yuddha Kanda,75,14,नानाविधान्गृहच्छन्दान्धदाहहुतभुक्तदा । आवासान्राक्षसानां च सर्वेषांगृहगर्थिनाम् ।।6.75.14।। Yuddha Kanda,75,15,हेमचित्रतनुत्राणस्रग्दामाम्भरधारिणाम् । शीधुपानचलाक्षाणांमद्विह्वलगामिनाम् ।।6.75.15।। Yuddha Kanda,75,16,कान्तालम्बितवस्त्राणांशत्रुसञ्जातमन्युनाम् । गदाशूलासिहस्तानांखादतांपिबतामपि ।।6.75.16।। Yuddha Kanda,75,17,शयनेषुमहार्हेषुप्रसुप्तानांप्रियैस्सह । त्रस्तानांगच्छतांतूर्णंपुत्रानादायसर्वतः ।।6.75.17।। Yuddha Kanda,75,18,तेषांशतसहस्राणितदालङ्कानिवासिनाम् । अदहत्पावकस्तत्रजज्वाल च पुनःपुनः ।।6.75.18।। Yuddha Kanda,75,19,सारवन्तिमहार्हाणिगम्भीरगुणवन्ति च । हेमचन्द्रार्धचन्द्राणिचन्द्रशालोनतानि च ।।6.75.19।। Yuddha Kanda,75,20,तत्रचित्रगवाक्षाणिसाधिष्ठानानिसर्वशः । मणिविद्रुमचित्राणिस्पृशन्तीवदिवाकरम् ।।6.75.20।। Yuddha Kanda,75,21,क्रौञ्चबर्हिबवीणानांभूषणानां च निस्स्वनैः । नादितान्यचलाभानिवेश्मान्यग्निर्ददाह स ।।6.75.21।। Yuddha Kanda,75,22,ज्वलनेनपरीतानितोरणानिचकाशिरे । विद्युद्भिरिवनद्धानिमेघजालानिघर्मगे ।।6.75.22।। Yuddha Kanda,75,23,ज्वलनेनपरीतानिनिपेतुर्भवनान्वथ । वज्रिवज्रहतानीवशिखराणिमहागिरेः ।।6.75.23।। Yuddha Kanda,75,24,विमानेषुप्रसुस्ताश्चदह्यमानावराङ्गनाः । त्यक्ताभरणसर्वाङ्गाहाहेत्युच्चैर्विचुक्रुशुः ।।6.75.24।। Yuddha Kanda,75,25,तत्रचाग्निपरीतानिनिपेतुर्भवनान्यपि । वज्रिवज्रहतानीवशिखराणिमहागिरेः ।।6.75.25।। Yuddha Kanda,75,26,तानिनिर्दह्यमानानिदूरतःप्रचकाशिरे । हिमवच्छिखराणीवदीप्तौषदिवनानिच ।।6.75.26।। Yuddha Kanda,75,27,हर्म्याग्रैर्दह्यमानैश्चज्वालाप्रज्वलितैरपि । रात्रौसादृश्यतेलङ्कापुष्पितैरिवकिंशुकैः ।।6.75.27।। Yuddha Kanda,75,28,हस्त्यध्यक्षैर्गजैर्मुक्तेर्मुक्सैश्चैवतुरङ्गमैः । बभूवलङ्कालोकान्तेभ्रान्तग्राहइवार्णवः ।।6.75.28।। Yuddha Kanda,75,29,अश्वंमुक्तंगजोदृष्टवाक्वचिद्भीतोऽपसर्पति । भीतोभीतंगजंदृष्टवाक्वचिदश्वोनिवर्तते ।।6.75.29।। Yuddha Kanda,75,30,लङ्कायांदह्यमानायांशुशुभे स महार्णवः । छायासंसक्तसलिलोलोहितोदइवार्णवः ।।6.75.30।। Yuddha Kanda,75,31,साबभूवमुहूर्तेनहरिभिर्दीपितापुरी । लोकस्यास्यक्ष्येघोरेप्रदीप्तेववसुन्दरा ।।6.75.31।। Yuddha Kanda,75,32,नारीजनस्यधूमेनव्याप्तस्योच्चैर्विनेदुषः । स्वनोज्वलनतप्तस्यशुश्रुवेशतयोजनम् ।।6.75.32।। Yuddha Kanda,75,33,प्रदग्धकायानपरान् राक्षसान्निर्गतान् बहिः । सहसाभ्युत्पतन्तिस्महरयोऽथयुयुत्सवः ।।6.75.33।। Yuddha Kanda,75,34,उद्घुष्टंवानराणां च राक्षसानां च निस्स्वनः । दिशोदशसमुद्रं च पृथिवींचान्वनादयत् ।।6.75.34।। Yuddha Kanda,75,35,विशल्यौतुमहात्मानौतावुभौरामलक्ष्मणौ । असम्भ्रान्तौजगृहतुस्तदोभौधनुषीवरे ।।6.75.35।। Yuddha Kanda,75,36,ततोविस्फारयानस्यरामस्यधनुरुत्तमम् । बभूवतुमुलश्शब्दोराक्षसानांभयावहः ।।6.75.36।। Yuddha Kanda,75,37,अशोभततदारामोधनुर्विष्फारयन् महत् । भगवानिवसङ्कृद्धोभवोवेदमयंधनुः ।।6.75.37।। Yuddha Kanda,75,38,उद्घुष्टंवानराणां च राक्षसानां च निस्स्वनम् । ज्याशब्दस्तावुभौशब्दावतिरामस्यशुश्रुवे ।।6.75.38।। Yuddha Kanda,75,39,वानरोद्घुष्टघोषश्चराक्षसानां च निस्स्वनः । ज्याशब्दश्चापिरामस्यत्रयंव्याप्यदिशोदश ।।6.75.39।। Yuddha Kanda,75,40,तस्यकार्मुकमुक्सैश्चशरैस्तत्पुरगोपुरम् । कैलासशृङ्गप्रतिमंविशीर्णमपतद्भुवि ।।6.75.40।। Yuddha Kanda,75,41,ततोरामशरान् दृष्टवाविमानेषुगृहेषु च । सन्नाहोराक्षसेन्द्राणांतुमुलस्समपद्यत ।।6.75.41।। Yuddha Kanda,75,42,तेषांसन्नह्यमानानांसिंहनादं च कुर्वताम् । शर्वरीराक्षसेन्द्राणांरौद्रीवसमपद्यत ।।6.75.42।। Yuddha Kanda,75,43,आदिष्टावानरेन्द्रास्तेसुग्रीवेणमहात्मना । आसन्नद्वारमासाद्ययुध्यध्वंप्लवगर्षभाः ।।6.75.43।। Yuddha Kanda,75,44,यश्चवोवितथंकुर्वात्तत्रतत्रव्यवस्थितः । स हन्तव्योहिसंफ्लुत्यराजशासनदूषकः ।।6.75.44।। Yuddha Kanda,75,45,तेषुवानरमुखेषुदीप्तोल्कोज्ज्वलपाणिषु । स्थितेषुद्वारमासाद्यरावणंमन्युराविशत् ।।6.75.45।। Yuddha Kanda,75,46,तस्यजृम्भितविक्षेपाद्व्यामिश्रावैदिशोदश । रूपवानिवरुद्रस्यमन्युर्गात्रेष्वदृश्यत ।।6.75.46।। Yuddha Kanda,75,47,स निकुम्भं च कुम्भं च कुम्भकर्णात्मजावुभौ । प्रेषयामाससङ्कृद्धोराक्षससैर्बहुभिस्सह ।।6.75.47।। Yuddha Kanda,75,48,यूपाक्षश्शोणिताक्षश्चप्रजङ्घःकम्पनस्तथा । निर्ययुःकौम्भकर्णिभ्यांसहरावणशासनात् ।।6.75.48।। Yuddha Kanda,75,49,शशासचैवतान् सर्वान्राक्षसान् सुमहाबलान् । राक्षसागच्छताद्यैवसिंहनादं च नादयन् ।।6.75.49।। Yuddha Kanda,75,50,ततस्तुचोदितास्तेनराक्षसाज्वलितायुधाः । लङ्कायानिर्ययुर्वीराःप्रणदन्तःपुनःपुनः ।।6.75.50।। Yuddha Kanda,75,51,रक्षसांभूषणस्थाभिर्भाभिस्स्वाभिश्चसर्वशः । चक्रुस्तेसप्रभंव्योमहरयश्चाग्निभिस्सह ।।6.75.51।। Yuddha Kanda,75,52,तत्रताराधिपस्याभाताराणां च तथैव च । तयोराभरणासा च बलयोर्द्यामभासयन् ।।6.75.52।। Yuddha Kanda,75,53,चन्द्राभाभूषणाभा च गृहाणांसागरःपुनः । हरिराक्षससैन्यानिभ्राजयामाससर्वतः ।।6.75.53।। Yuddha Kanda,75,54,तत्रचोर्ध्वंप्रदीप्तानांगृहाणांसागरःपुनः । भाभिस्संसक्तसलिलश्चलोर्मिश्शुशुभेऽधिकम् ।।6.75.54।। Yuddha Kanda,75,55,पताकाध्वजसंसक्तमुत्तमासिपरश्वधम् । भीमाश्वरथमातङ्गंनानापततिसमाकुलम् ।।6.75.55।। Yuddha Kanda,75,56,दीप्तशूलगदाखडगप्रासतोमरकार्मुकम् । तद्राक्षसबलंघोरभीमंविक्रमपौरुषम् ।।6.75.56।। Yuddha Kanda,75,57,ददृशेज्वलितप्रासंकिङ्किणीशतनादितम् । हेमजालाचितभुजंव्यावेष्टितपरश्वथम् ।।6.75.57।। Yuddha Kanda,75,58,व्याघूर्णितमहाशस्त्रंबाणसंसक्तकार्मुकम् । गन्धमाल्यमधूत्सेकसम्मोदितमहानिलम् ।।6.75.58।। Yuddha Kanda,75,59,घोरंशूरजनाकीर्णंमहाम्बुदरनिस्स्वनम् । तद्दृष्टवाबलमायातंराक्षसानांसुदारुणं ।।6.75.59।। सञ्चचालप्लवङ्गानांबलमुच्चैर्ननाद च । Yuddha Kanda,75,60,जवेनाफ्लुत्य च पुनस्तद्बलंरक्षसांमहत् ।।6.75.60।। अभ्ययात्प्रत्यरिबलंपतङ्गाइवपावकम् । Yuddha Kanda,75,61,तेषांभुजपरामर्शव्यामृष्टपरिघाशनि ।।6.75.61।। राक्षसानांबलंश्रेष्ठंभूयस्तरमशोभत । Yuddha Kanda,75,62,तत्रोन्मत्ताइवोत्पेतुर्हरयोऽथयुयुत्सवः ।।6.75.62।। तरुशैलैरभिघ्नन्तोमुष्टिभिश्चनिशाचरान् । Yuddha Kanda,75,63,तथैवापततांतेषांकपीनामसिभिशशितैः ।।6.75.63।। शिरांसिसहसाजह्रूराक्षसाभीमदर्शना । Yuddha Kanda,75,64,दशनैर्हतकर्णाश्चमुष्टिनिष्कीर्णमस्तकाः ।।6.75.64।। शिलाप्रहारभग्नाङ्गाविचेरुस्तत्रराक्षसाः । Yuddha Kanda,75,65,तथैवाप्यपरेतेषांकपीनामभिलक्षिता ।।6.75.65।। प्रवीरानभितोजघ्नुर्घोररूपानिशाचराः । Yuddha Kanda,75,66,घ्नन्तमन्यंजघानान्यःपातयन्तमपातयत् ।।6.75.66।। गर्हमाणंजगर्हेऽन्योदशन्तमपरोऽदशत् । Yuddha Kanda,75,67,देहीत्यन्योददात्यन्योददामीत्यपरःपुनः ।।6.75.67।। किंक्लेशयसितिष्ठेतितत्रान्योन्यंबभाषिरे । Yuddha Kanda,75,68,विप्रलम्भितवस्त्रं च विमुक्तकवचायुधम् ।।6.75.68।। Yuddha Kanda,75,69,समुद्यतमहाप्रासंयष्टिशूलासिसङ्कुलम् । प्रावर्ततमहारौद्रंयुद्धंवानररक्षसाम् ।।6.75.69।। Yuddha Kanda,75,70,वानरान्दशसप्तेतिराक्षसाजघ्नुराहवे । राक्षसान्दशसप्तेतिवानराश्चाभ्यपातयन् ।।6.75.70।। Yuddha Kanda,76,1,प्रवृत्तेसङ्कुलेतस्मिन् घोरेवीरजनक्ष्ये । अङ्गदःकम्पनंवीरमाससादरणोत्सुकः ।।6.76.1।। Yuddha Kanda,76,2,आहूयसोङ्गदंकोपात्ताडयामासवेगितः । गदयाकम्पनःपूर्वं स चचालभृशाहतः ।।6.76.2।। Yuddha Kanda,76,3,स संज्ञांप्राप्यतेजस्वीचिक्षेपशिखरंगिरेः । अर्दितस्तत्प्रहारेणकम्पनःपतितोभुवि ।।6.76.3।। Yuddha Kanda,76,4,ततस्तुकम्पनंदृष्टवाशोणिताक्षोहतंरणे । रथेनाभ्यपतत् क्षिप्रंतत्राङ्गदमभीतवत् ।।6.76.4।। Yuddha Kanda,76,5,सोङ्गदंनिशितैर्बाणैस्तदाविव्याधवेगितः । शरीरदारणैस्तीक्ष्णैःकालाग्निसमविग्रहैः ।।6.76.5।। Yuddha Kanda,76,6,क्षुरक्षुरप्रैर्नाराचैर्वत्सदन्तैश्शिलीमुखैः । कर्णिशल्यविपाठैश्चबहुभिश्चशितैश्शरैः ।।6.76.6।। Yuddha Kanda,76,7,अङ्गदःप्रतिविद्धाङ्गोवालिपुत्रःप्रतापवान् । धनुरग्य्रंरथंबाणान्ममर्दतरसाबली ।।6.76.7।। Yuddha Kanda,76,8,शोणिताक्षस्ततःक्षिप्रमसिचर्मसमाददे । उत्पपातदिवंक्रुद्धोवेगवानविचारयन् ।।6.76.8।। Yuddha Kanda,76,9,तंक्षिप्रतरमाफ्लुत्यपरामृश्याङ्गदोबली । करेणतस्यतंखङ्गंसमाच्छिद्यननाद च ।।6.76.9।। Yuddha Kanda,76,10,तस्यांसफलकेखडगंनिजघानततोऽङ्गदः । यज्ञोपवीतवच्चैनंचिच्छेदकपिकुञ्जरः ।।6.76.10।। Yuddha Kanda,76,11,तंप्रगृह्यमहाखडगंविनद्य च पुनःपुनः । वालिपुत्रोऽभिदुद्रावरणशीर्षेपरानरीन् ।।6.76.11।। Yuddha Kanda,76,12,आयसींतुगदांप्रगृह्य स वीरःकनकाङ्गदः । शोणिताक्षस्समाविध्यतमेवानुपपात ह ।।6.76.12।। Yuddha Kanda,76,13,प्रजङ्घसहितोवीरोयूपाक्षस्तुततोबली । रथेनाभिययौक्रुद्दोवालिपुत्रंमहाबलम् ।।6.76.13।। Yuddha Kanda,76,14,तयोर्मध्येकपिश्रेष्ठश्शोणिताक्षप्रजङ्घयोः । विशाखयोर्मध्यगतःपूर्णचन्द्रइवाभवत् ।।6.76.14।। Yuddha Kanda,76,15,अङ्गदंपरिरक्षन्तौमैन्दोद्विविदएव च । तस्यतस्थतुरभ्याशेपरस्परदिदृक्ष्या ।।6.76.15।। Yuddha Kanda,76,16,भिपेतुर्महाकायाःप्रतियत्तामहाबलाः । राक्षसावानरान् रोषादसिचर्मगदाधराः ।।6.76.16।। Yuddha Kanda,76,17,त्रयाणांवानरेन्द्राणांत्रिभीराक्षसपुङ्गवैः । संसक्तानांमहद्युद्धमभवद्रोमहर्षणम् ।।6.76.17।। Yuddha Kanda,76,18,तेतुवृक्षान् समादायसम्प्रचिपुराहवे । खडगेनप्रतिचिच्छेदतान् प्रजङ्घोमहाबलः ।।6.76.18।। Yuddha Kanda,76,19,रथानश्वान् द्रुमैश्शैलैस्तेप्रचिक्षिपुराहवे । शरौघैःप्रतिचिच्छेदतान्यूपाक्षोनिशाचरः ।।6.76.19।। Yuddha Kanda,76,20,सृष्टाव्निविदमैन्दाभ्यांद्रुमानुत्पाट्यवीर्यवान् । बभञ्जगदयामध्येशोणिताक्षःप्रतापवान् ।।6.76.20।। Yuddha Kanda,76,21,उद्यम्यविपुलंखडगंपरमर्मनिकृन्तनम् । प्रजङ्घोवालिपुत्रायअभिदुद्राववेगितः ।।6.76.21।। Yuddha Kanda,76,22,तमभ्याशगतंदृष्टवावानरेन्द्रोमहाबलः । आजघानाश्वकर्णेनद्रुमेणातिबलस्तदा ।।6.76.22।। Yuddha Kanda,76,23,बाहुंचास्यसनिस्त्रिंशमाजघान स मुष्टिना । वालिपुत्रस्यघातेन स पपातक्षितावसिः ।।6.76.23।। Yuddha Kanda,76,24,तंदृष्टवापतितंभूमौखङ्गमुलसन्निभम् । मुष्टिंसम्वर्तयामासवज्रकल्पंमहाबलः ।।6.76.24।। Yuddha Kanda,76,25,स ललाटेमहावीर्यमङ्गदंवानरर्षभम् । आजघानमहातेजास्समुहूर्तंचचाल ह ।।6.76.25।। Yuddha Kanda,76,26,स संज्ञांप्राप्यतेजस्वीवालिपुत्रःप्रतापवान् । प्रजङ्घस्यशिरःकायातखङ्गेनपातयत्क्षितौ ।।6.76.26।। Yuddha Kanda,76,27,स यूपाक्षोऽश्रुपूर्णाक्षःपितृव्येनिहतेरणे । अवरुह्यरथात्क्षिप्रंक्षीणेषुखङ्गमाददे ।।6.76.27।। Yuddha Kanda,76,28,तमापतन्तंसम्प्रेक्ष्ययूपाक्षंद्विविदस्त्वरन् । आजघानोरसिक्रुद्धोजग्राह च बलाद्बली ।।6.76.28।। Yuddha Kanda,76,29,गृहीतंभ्रातरंदृष्टवाशोणिताक्षोमहाबलः । आजघानगदाग्रेणवक्षसिद्विविदंततः ।।6.76.29।। Yuddha Kanda,76,30,स गदाभिहतस्तेनसञ्चचालमहाबलः । उद्यता च पुनस्तस्यजहारद्विविदोगदाम् ।।6.76.30।। Yuddha Kanda,76,31,तस्मिन्नन्तरेमैन्दोवीरोवानरयूथपः । यूपाक्षंताडयामासतलेनोरसिवीर्यवान् ।।6.76.31।। Yuddha Kanda,76,32,तौशोणिताक्ष्यूपाक्षौप्लवङ्गाभ्यांतरस्विनौ । चक्रतुस्समरेतीव्रमाकर्षोत्पाटनंभृशम् ।।6.76.32।। Yuddha Kanda,76,33,द्विविदश्शोणिताक्षंतुविददारनखैर्मुखै । निष्पिपेष च वेगेनक्षितावाविध्यवीर्यवान् ।।6.76.33।। Yuddha Kanda,76,34,पाक्षमभिसङ्कृद्धो मैन्दो वानरयूथपः । पीडयामासबाहुभ्यांसपपातहतःक्षितौ ।।6.76.34।। Yuddha Kanda,76,35,हतप्रवीराव्यथिताराक्षसेन्द्रचमूस्तदा । जगामाभिमुखीसातुकुम्भकर्णसुतोयतः ।।6.76.35।। Yuddha Kanda,76,36,आपततनीं च वेगेनकुम्भस्तांसान्त्वयच्चमूम् । अथोत्कष्टंमहावीर्यैर्लब्धलक्ष्यैःप्लवङ्गमैः ।।6.76.36।। Yuddha Kanda,76,37,निपातितमहावीरांदृष्टवारक्षश्चमूंततः । कुम्भःप्रचक्रेतेजस्वीरणेकर्मसुदुष्करम् ।।6.76.37।। Yuddha Kanda,76,38,स धनुर्धन्विनांश्रेष्ठःप्रगृह्यसुसमाहितः । मुमोचाशीविषप्रख्यान्शरान्देहविदारणान् ।।6.76.38।। Yuddha Kanda,76,39,तस्यतच्छुशुभेभूयस्सशरंधनुरुत्तमम् । विद्युदैरावतार्चिष्मद्िद्वतीयेन्द्रधनुर्यथा ।।6.76.39।। Yuddha Kanda,76,40,आकर्णाकृष्टमुक्तेनजघानद्विविदंतदा । तेनहाटकपुङ्खेनपत्रतिणापत्त्रवाससा ।।6.76.40।। Yuddha Kanda,76,41,सहसाभिहतस्तेनविप्रमुक्तपदस्स्फुरन् । निपपाताद्रिकूटाभोविह्वलन् प्लवगोत्तमः ।।6.76.41।। Yuddha Kanda,76,42,मन्दस्तुभ्रातरंभग्नंदृष्टवातत्रमहाहवे । लभिदुद्राववेगेनप्रगृह्यमहतींशिलाम् ।।6.76.42।। Yuddha Kanda,76,43,तांशिलांतुप्रचिक्षेपराक्षसायमहाबलः । बिभेदतांशिलांकुम्भःप्रसन्नैःपञ्चभिश्शरैः ।।6.76.43।। Yuddha Kanda,76,44,सन्धायचान्यंसुमुखंशरमाशीविषोपमम् । आजघानमहातेजावक्षसिद्विविदाग्रजम् ।।6.76.44।। Yuddha Kanda,76,45,स तुतेनप्रहारेणमैन्दोवानरयूथपः । मर्मण्यभिहतस्तेनपपा त भुविमूर्छितः ।।6.76.45।। Yuddha Kanda,76,46,अङ्गदोमातुलौदृष्टवापथितौतुमहाबलौ । अभिदुद्राववेगेनकुम्भमुद्यतकार्मुकम् ।।6.76.46।। Yuddha Kanda,76,47,तमापतन्तंविव्याधकुम्भःपञ्चभिरायसैः । त्रिभिश्चान्यैश्शितैर्बाणैर्मातङ्गमिवतोमरैः ।।6.76.47।। Yuddha Kanda,76,48,सोऽङ्गदंविविधैभिर्बाणैःकुम्भोविव्याथवीर्यवान् । अकुण्ठधारैर्निशितैस्तीक्ष्णैःकनकभूषणैः ।।6.76.48।। Yuddha Kanda,76,49,अङ्गदःप्रतिविद्धाङ्गोवालिपुत्रो न कम्पते । शिलापादपवर्षाणितस्यमूर्ध्निववर्ष ह ।।6.76.49।। Yuddha Kanda,76,50,स प्रचिच्छेदतान् सर्वान् बिभेद च पुनश्शिलाः । कुम्भकर्णात्मजश्रशीमान् वालिपुत्त्रसमीरितान् ।।6.76.50।। Yuddha Kanda,76,51,आपतन्तं च ससम्प्रेक्ष्यकुम्भोवानरयूथपम् । भ्रुवोर्विव्याथबाणाभ्यामुल्काभ्यामिवकुञ्जरम् ।।6.76.51।। Yuddha Kanda,76,52,तस्यसुस्रावरुधिरंपिहितेचास्यलोचने । अङ्गदःपाणिनानेत्रेपिधायरुधिरोक्षिते ।।6.76.52।। सालमासन्नमेकेनपरिजग्राहपाणिवा । Yuddha Kanda,76,53,सम्पीड्यरसिचास्कन्धम् करेणाभिनिवेश्य च ।।6.76.53।। किञ्चिदभ्यवनम्यैनमुन्ममाथयथागजः । Yuddha Kanda,76,54,तमिन्द्रकेतुप्रतिमंवृक्षंमन्दरसन्निभम् ।।6.76.54।। समुत्सृजन्तंवेगेनपश्यतांसर्वरक्षसाम् । Yuddha Kanda,76,55,सबिभेदशितैर्बाणैस्सप्तभिःकायभेदनैः ।।6.76.55।। अङ्गदोविव्यधेऽभीक्षणंससादचमुमोह च । Yuddha Kanda,76,56,अङ्गदंव्यथितंदृष्टवासीदन्तमिवसागरम् ।।6.76.56।। दुरासदंहरिश्रेष्ठंरामायन्येन्यवेदयन् । Yuddha Kanda,76,57,रामस्तुव्यथितंश्रुत्वावालिपुत्त्रंरणाजरे ।।6.76.57।। व्यादिदेशहरिश्रेष्ठान्जाम्बवत्प्रमुखांस्ततः । Yuddha Kanda,76,58,तेतुवानरशार्दूलाश्श्रुत्वारामस्यशासनम् ।।6.76.58।। अभिपेतुस्सुसङ्कृद्धाःकुम्भमुद्यतकार्मुकम् । Yuddha Kanda,76,59,ततोद्रुमशिलाहस्ताःकोपसंरक्तलोचनाः ।।6.76.59।। रिरक्षिषन्तोऽभ्यपतन्नङ्गदंवानरर्षभाः । Yuddha Kanda,76,60,जाम्बवांश्चसुषेणश्चवेगदर्शी च वानरः ।।6.76.60।। कुम्भकर्णात्मजंवीरंक्रुद्धास्समभिदुद्रुवुः । Yuddha Kanda,76,61,समीक्ष्यापततस्तांस्तुवानरेन्द्रान् महाबलान् ।।6.76.61।। आववारशरौघेणनगेनेवजलाशयम् । Yuddha Kanda,76,62,तस्यबाणपथंप्राप्य न शेकुरतिवर्तितुम् ।।6.76.62।। वानरेन्द्रामहात्मानोवेलामिवमहादधिः । Yuddha Kanda,76,63,तांस्तुदृष्टवाहरिगणान् शरवृष्टिभिरर्दितान् ।।6.76.63।। Yuddha Kanda,76,64,अङ्गदंपृष्ठतःकृत्वाभ्रातृजंप्लवगेश्वरः । भिदुद्राववेगेनसुग्रीवःकुम्भमाहवे ।।6.76.64।। शैलसानुचरंनागंवेगवानिवकेसरी । Yuddha Kanda,76,65,उत्पाट्य च महाशैलनश्वकर्णान्दवान्बहून् ।।6.76.65।। अन्यांश्चविविधान्ववृक्षाचिक्षेपचिमहाबलः । Yuddha Kanda,76,66,तांछादयन्तीमाकाशंवृक्षवृष्टिंदुरासदाम् ।।6.76.66।। कुम्भकर्णात्मजश्शीघ्रंचिच्छेदनिशितैश्शरैः । Yuddha Kanda,76,67,अभिलक्षेणतीव्रेणकुम्भेननिशितैश्शरैः ।।6.76.67।। अचितास्तेद्रुमारेजुर्यथाघोराषतघ्नयः । Yuddha Kanda,76,68,द्रुमवर्षंतुसञ्छिन्नंदृष्टवाकुम्भोनवीर्यवान् ।।6.76.68।। वानराधिपति: शीमान्महासत्त्वो न विव्यथे । Yuddha Kanda,76,69,निर्भिद्यमानस्सहसासहमानश्चतान् शरान् ।।6.76.69।। कुम्भस्यधनुराक्षिप्यबभञ्जेन्द्रधनुष्प्रभम् । Yuddha Kanda,76,70,अवफ्लुत्यततश्शीघ्रंकृत्वाकर्मसुदुष्करम् ।।6.76.70।। अब्रवीत्कुपितःकुम्भंभग्नशृङ्गमिवद्विपम् । Yuddha Kanda,76,71,निकुम्भाग्रजवीर्यंतेबाणवेगवदद्भुतम् ।।6.76.71।। सन्नतिश्चप्रभावश्चतववारावणस्यवा । Yuddha Kanda,76,72,प्रह्लादबलिवृत्रघ्नकुभेरवरुणोपम ।।6.76.72।। एकस्त्वमनुजातोऽसिपितरंबलवृत्ततः । Yuddha Kanda,76,73,त्वामेवैकंमहाबाहुंचापहस्तमरिन्दमम् ।।6.76.73।। Yuddha Kanda,76,74,त्रिदशानातिवर्तन्तेजितेन्द्रियमिवाधयः । विक्रमस्वमहाबुद्धे कर्माणिममपश्यतः ।।6.76.74।। Yuddha Kanda,76,75,वरदानापतितृव्यस्तेसहतेदेवदानवान् । कुम्भकर्णस्तुवीर्येणसहते च सुरासुरान् ।।6.76.75।। Yuddha Kanda,76,82,ततःकुम्भस्तुसुग्रीवंबाहुभ्यांजगृहेतदा । गजाविवाहितमदौनिश्श्वसन्तौमुहुर्मुहु 76.81।। अन्योन्यगात्रग्रथितौकर्षन्तावितरेतरम् । सधूमांमुखतोज्वालांविसृजन्तौपरिश्रमात् ।।6.76.82।। Yuddha Kanda,76,77,महाविमर्दंसमरेमयासहतवाद्भुतम् । अद्यभूतानिपश्यन्तुशक्रशम्बरयोरिव ।।6.76.77।। Yuddha Kanda,76,78,कृतमप्रतिमंकर्मदर्शितंचास्त्रकौशलम् । पातिताहरिवीराश्चत्वयावैभीमविक्रमाः ।।6.76.78।। Yuddha Kanda,76,79,उपालम्भभयाच्चापिनासिवीरमयाहतः । कृतकर्मपरिश्रान्तोविश्रान्तःपश्यमेबलम् ।।6.76.79।। Yuddha Kanda,76,80,तेनसुग्रीववाक्येनसावमानेनमानितः । अग्नेराज्याहुतस्येवतेजस्तस्याभ्यवर्धत ।।6.76.80।। Yuddha Kanda,76,83,तयोःपादाभिघाताच्चनिमग्नाचाभवन्महि । व्याघूर्णिततरङ्गश्चचुक्षुभेवरुणालयः ।।6.76.83।। Yuddha Kanda,76,84,ततःकुम्भंसमुत्क्षिप्यसुग्रीवोलवणाम्भसि । पातयामासवेगेनदर्शयन्नुदधेस्तलम् ।।6.76.84।। Yuddha Kanda,76,85,ततःकुम्भनिपातेनजलराशिस्समुत्थितः । व्निध्यमन्दरसङ्काशोविससर्पसमन्ततः ।।6.76.85।। Yuddha Kanda,76,86,ततःकुम्भस्समुत्पत्यसुग्रीवमभिपद्य च । आजघानोरसिक्रुद्धोवज्रवेगेनमुष्टिना ।।6.76.86।। Yuddha Kanda,76,87,तस्यचचर्मच पुस्फोटबहुसुस्रावशोणितम् । स च मुष्टिर्महावेगःप्रतिजघ्नेऽस्थिमण्डले ।।6.76.87।। Yuddha Kanda,76,88,त्दावेगेनतत्रासीत्तेजःप्रज्वलितंमहत् । वज्रनिष्पेषसञ्जाताज्वालामेरोर्यथागिरेः ।।6.76.88।। Yuddha Kanda,76,89,स तत्राभिहतस्तेनसुग्रीवोवानरर्षभः । मुष्टिंसम्वर्तयामासवज्रकल्पंमहाबलः ।।6.76.89।। Yuddha Kanda,76,90,अर्चिस्सहस्रविकचरविमण्डलसप्रभम् । स मुष्टिंपातयामासकुम्भस्योरसिवीर्यवान् ।।6.76.90।। Yuddha Kanda,76,91,स तुतेनप्रहारेणविह्वलोभृशताडितः । निपपाततदाकुम्भोगतार्चिरिवपावकः ।।6.76.91।। Yuddha Kanda,76,92,मुष्टिनाभिहतस्तेननिपपाताशुराक्षसः । लोहिताङ्गइवाकाशाददीप्तरमशिर्यदृच्छया ।।6.76.92।। Yuddha Kanda,76,93,कुम्भस्यपततोरूपंभग्नस्योरसिमुष्टीना । बभौरुद्राभिपन्नस्ययथारूपंगवांपतेः ।।6.76.93।। Yuddha Kanda,77,1,निकुम्भोभ्रातरंदृष्टवासुग्रीवेणनिपातितम् । प्रदहन्निवकोपेनवानरेन्द्रमवैक्षत ।।6.77.1।। Yuddha Kanda,77,2,ततस्स्रग्दामसन्नद्धंदत्तपञ्चाङ्गुलंशुभम् । आददेपरिघंवीरोमहेन्द्रशिखरोपमम् ।।6.77.2।। Yuddha Kanda,77,3,हेमपट्टपरिक्षिप्तंवज्रविद्रुमभूषितम् । यमदण्डोपमंभीमंरक्षसांभयनाशनम् ।।6.77.3।। Yuddha Kanda,77,4,तमाविध्यमहातेजाश्शक्रध्वजसमंतदा । निननादविवृत्तास्योनिकुम्भोभीमविक्रमः ।।6.77.4।। Yuddha Kanda,77,5,उरोगतेननिष्केणभुजस्थैरङ्गदैरपि । कुण्डलाभ्यां च चित्राभ्यांमालया च विचित्रया ।।6.77.5।। Yuddha Kanda,77,6,निकुम्भोभूषणैर्भातितेनस्मपरिघेण च । यथेन्द्रधनुषामेघस्सविद्युत्स्तनयित्नुमान् ।।6.77.6।। Yuddha Kanda,77,7,परिघाग्रेणपुष्पोटवातग्रथनिर्महात्मनः । प्रजज्वालसघोषश्चविधूमइवपावकः ।।6.77.7।। Yuddha Kanda,77,8,नगर्याविटपावत्यागन्धर्वभवनोत्तमैः । सतारग्रहनक्षत्रंसचन्द्रंसमहाग्रहम् ।।6.77.8।। निकुम्भपरिघाघूर्णंभ्रमतीवनभस्थ्सलम् । Yuddha Kanda,77,9,दुरासदश्चसञ्जज्ञेपरिघाभरणप्रभः ।।6.77.9।। कपीनांसनिकुम्भाग्निर्युगान्ताग्निरिवोत्थितः । Yuddha Kanda,77,10,राक्षसावानराश्चापि न शेकुस्स्पन्दितुंभयात् ।।6.77.10।। हनूमांस्तुविवृत्योरस्तस्थौतस्याग्रतोबली । Yuddha Kanda,77,11,परिघोपमबाहुस्तुपरिघंभास्करप्रभम् ।।6.77.11।। बलीबलवतस्तस्यपातयामासवक्षसि । Yuddha Kanda,77,12,स्थिरेतस्योरसिव्यूढेपरिघश्शतधाकृतः ।।6.77.12।। विकीर्यमाणस्सहसाउल्काशतमिवाम्बरे । Yuddha Kanda,77,13,स तुतेनप्रहारेणविचचालमहाकपिः ।।6.77.13।। परिघेणसमाधूतोयथाभूमिचलेऽचलः । Yuddha Kanda,77,14,तथाभिहतस्तेनहनुमान् प्लवगोत्तमः ।।6.77.14।। मुष्टिंसम्वर्तयामासबलेनातिमहाबलः । Yuddha Kanda,77,15,तमुद्यम्यमहातेजानिकुम्भोरसिवीर्यवान् ।।6.77.15।। अभिचिक्षेपवेगेनवेगवान् वायुविक्रमः । Yuddha Kanda,77,16,ततःपुस्फोटचर्मास्यप्रसुस्राव च शोणितम् ।।6.77.16।। मुष्टिनातेनसञ्जज्ञेमेघेविद्युदिवोत्थिता । Yuddha Kanda,77,17,सःतुतेनप्रहारेणनिकुम्भोविचचाल ह ।।6.77.17।। स्वस्थश्चापिनिजग्राहहनूमन्तंमहाबलम् । Yuddha Kanda,77,18,चुक्रुशुस्तदासङ्ख्येभीमंलङ्कानिवासिनः ।।6.77.18।। निकुम्भेनोद्यतंदृष्टवाहनूमन्तंमहाबलम् । Yuddha Kanda,77,19,तदाह्रियमाणोऽपिकुम्भकर्णात्मजेन ह ।।6.77.19।। आजघानानिलसुतोवज्रकल्पेनमुष्टिना । Yuddha Kanda,77,20,आत्मानंमोक्षयित्वाथक्षितावभ्यवपद्यत ।।6.77.20।। हनूमानुन्ममाथाशुनिकुम्भंमारुतात्मजः । Yuddha Kanda,77,21,निक्षिप्यपरमायत्तोनिकुम्भंनिष्पिपेष ह ।।6.77.21।। उत्पत्यचास्यवेगेनपपातोरसिवीर्यवान् । Yuddha Kanda,77,22,परिगृह्य च बाहुभ्यांपरिवृत्यशिरोधराम् ।।6.77.22।। उत्पाटयामानशिरोभैरवंनदतोमहत् । Yuddha Kanda,77,23,अथनिनदतिसादितेनिकुम्भेपवनसुतेनरणेबभूवयुद्धम् । दशरथसुतराक्षसेन्द्रसून्वोर्भृशतरमागतरोषयोस्सुभीमम् ।।6.77.23।। Yuddha Kanda,78,1,निकुम्भंनिहतंश्रुत्वाकुम्भं च विनिपातितम् । रावणःपरमामर्षीप्रजज्वालानलोयथा ।।6.78.1।। Yuddha Kanda,78,2,नैरृतःक्रोधशोकाभ्यांद्वाभ्यांतुपरिमूर्छितः । खरपुत्रंविशालाक्षंमकराक्षमचोदयत् ।।6.78.2।। Yuddha Kanda,78,3,गच्छपुत्रऽमयाऽजाज्ञप्तोबलेनाभिसमवनितः । राघवंलक्ष्मणंचैवजहितांश्चवनौकसः ।।6.78.3।। Yuddha Kanda,78,4,रावणस्यवचश्श्रुत्वाशूरमानीखरात्मजः । बाढमित्यब्रवीद्धृष्टोमकराक्षोनिशाचरम् ।।6.78.4।। Yuddha Kanda,78,5,सोऽभिवाद्यदशग्रीवंकृत्वाचापिप्रदक्षिणम् । निर्जगामगृहाच्छुभ्राद्रावणस्याज्ञयाबली ।।6.78.5।। Yuddha Kanda,78,6,समीपस्थंबलाध्यक्षंखरपुत्रोऽब्रवीदिदम् । रथश्चानीयतांशीघ्रंसैन्यंत्वानीयतांत्वरात् ।।6.78.6।। Yuddha Kanda,78,7,तस्यतद्वचनंश्रुत्वाबलाध्यक्षोनिशाचरः । स्यन्दनं च बलंचैवसमीपंप्रत्यपादयत् ।6.78.7।। Yuddha Kanda,78,8,प्रदक्षिणंरथंकृत्वाआरुरोहनिशाचरः । सूतंसञ्चोदयामासशीघ्रंमेरथमावह ।।6.78.8।। Yuddha Kanda,78,9,अथतान्राक्षसान्सर्वान्मकराक्षोऽब्रवीदिदम् । यूयंसर्वेप्रयुध्यध्वंपुरस्तान्ममराक्षसाः ।।6.78.9।। Yuddha Kanda,78,10,अहंराक्षसराजेनरावणेनमहात्मना । आज्ञप्तःसमरेहन्तुंतावुभौरामलक्ष्मणौ ।।6.78.10।। Yuddha Kanda,78,11,अद्यरामंवधिष्यामिलक्ष्मणं च निशाचराः । शाखामृगं च सुग्रीवंवानरांश्चशरोत्तमैः ।।6.78.11।। Yuddha Kanda,78,12,अद्यशूलनिपातैश्चवानराणांमहाचमूम् । प्रदहिष्यामिसम्प्राप्तांशुष्केन्धनमिवानलः ।।6.78.12।। Yuddha Kanda,78,13,मकराक्षस्यतच्छ्रुत्वावचनंतेनिशाचराः । सर्वेनानायुधोपेताबलवन्तःसमाहिताः ।।6.78.13।। Yuddha Kanda,78,14,तेकामरूपिणस्सरेदंष्ट्रिणःपिङ्गलेक्षणा । मातङ्गाइवनर्दन्तोध्वस्तकेशाभयावहाः ।।6.78.14।। Yuddha Kanda,78,15,परिवार्यमहाकायामहाकायंखरात्मजम् । अभिजघ्नुस्ततोहृष्टाश्चालयन्तोवसुन्धराम् ।।6.78.15।। Yuddha Kanda,78,16,शङ्खभेरीसहस्राणामाहतानांसमन्ततः । क्ष्येळितास्फोटितानां च तत्रशब्दोमहानभूत् ।।6.78.16।। Yuddha Kanda,78,17,प्रभ्रष्टोऽथकरात्तस्यप्रतोदस्सारथेस्तदा । पपातसहसादैवाद्ध्वजस्तस्यतुरक्षसः ।।6.78.17।। Yuddha Kanda,78,18,तस्यतेरथसंयुक्ताहयाविक्रमवर्जिताः । चरणैराकुलैर्गत्वादीनाःसास्रमुखाययुः ।।6.78.18।। Yuddha Kanda,78,19,प्रवातिपवनस्तस्मिन् सपांसुःखरदारुणः । निर्याणेतस्यरौद्रस्यमकराक्षस्यदुर्मतेः ।।6.78.19।। Yuddha Kanda,78,20,तानिदृष्टवानिमित्तानिराक्षसावीर्यवत्तमाः । अचिन्त्यनिर्गतास्सर्वेयत्रतौरामलक्ष्मणौ ।।6.78.20।। Yuddha Kanda,79,1,निर्गतंमकराक्षंतेदृष्टवावानरपुङ्गवाः । आप्लुत्यसहसासर्वेयोद्धुकामाव्यवस्थिताः ।।6.79.1।। Yuddha Kanda,79,2,ततःप्रवृत्तंसुमहत्तद्युद्धंरोमहर्षणम् । निशाचरैःप्लवङ्गानांदेवानांदानवैरिव ।।6.79.2।। Yuddha Kanda,79,3,वृक्षशूलनिपातैश्चशिलापरिघपातनैः । अन्योन्यंमर्दयन्तिस्मतदाकपिनिशाचराः ।।6.79.3।। Yuddha Kanda,79,4,शक्तिखडगगदाकुन्तैस्तोमरैश्चनिशाचराः । पट्टसैर्भिण्ढिपालैश्चबाणपातैःसमन्ततः ।।6.79.4।। Yuddha Kanda,79,5,पाशमुद्गरदण्डैश्चनिखातैश्चापरेस्तथा । कदनंकपिसिंहानांचक्रुस्तेरजनीचराः ।।6.79.5।। Yuddha Kanda,79,6,बाणौघैरर्दिताश्चापिखरपुत्रेणवानराः । सम्भ्रान्तमनसस्सर्वेदुद्रुवुर्भयपीडिताः ।।6.79.6।। Yuddha Kanda,79,7,तान्दृष्टवाराक्षसास्सर्वेद्रवमाणान्वलीमुखान् । नेदुस्तेसिम्हवद्दृष्टाराक्षसाजितकाशिनः ।।6.79.7।। Yuddha Kanda,79,8,विद्रवत्सुतदातेषुवानरेषुसमन्ततः । रामस्तान्वारमायासशरवर्षेणराक्षसान् ।।6.79.8।। Yuddha Kanda,79,9,रितान्राक्षसान्दृष्टवामकराक्षोनिशाचरः । क्रोधानलसमाविष्टोवचनंचेदमब्रवीत् ।।6.79.9।। Yuddha Kanda,79,10,तिष्ठराम मयासार्धंद्वन्द्वयुद्धंददामिते । त्याजयिष्यामितेप्राणान् धनुर्मुक्सैशशितैश्शरैः ।।6.79.10।। Yuddha Kanda,79,11,यत्तदादण्डकारण्येपितरंहतवान्मम । तदग्रतःस्वकर्मस्थंदृष्टवारोषोऽभिवर्धते ।।6.79.11।। Yuddha Kanda,79,12,दह्यन्तेधृशमङ्गानिदुरात्मन्ममराघव । यन्मयासि न दृष्टस्त्वंतस्मिन् कालेमहावने ।।6.79.12।। Yuddha Kanda,79,13,दिष्ट्यासिदर्शनंराम ममत्वंप्राप्तवानिह । काङ्क्षितोऽसिक्षुधार्तस्यसिंहस्येवेतरोमृगः ।।6.79.13।। Yuddha Kanda,79,14,अद्यमद्बाणवेगेनप्रेतराडिवषयंगतः । येत्वयानिहताःशूराःसहतैश्चसमेष्यसि ।।6.79.14।। Yuddha Kanda,79,15,"""बहुनात्रकिमुक्तेनशृणुराम वचोमम । पश्यन्तुसकलालोकास्त्वा, मांचैवरणाजिरे ।।6.79.15।।""" Yuddha Kanda,79,16,अस्त्रैर्वागदयावापिबाहुभ्यांवामहाहवे । अभ्यस्तंयेनवाराम तेनैवयुधिवर्तताम् ।।6.79.16।। Yuddha Kanda,79,17,मकराक्ष्वचश्श्रुत्वारामोदशरथात्मजः । अब्रवीत्प्रहसन्वाक्यमुत्तरोत्तरवादिनम् ।।6.79.17।। Yuddha Kanda,79,18,कत्थसेकिंवृथारक्षो बहून्यसदृशानिते । न रणेशक्यतेजेतुंविनायुद्धेनवाग्भलात् ।।6.79.18।। Yuddha Kanda,79,19,चतुर्दशसहस्राणिरक्षसांत्वत्पिता च यः । त्रिशिरादूषणश्चापिदण्डकेनिहतामया ।।6.79.19।। Yuddha Kanda,79,20,स्वाशितास्तवमांसेनगृध्रगोमायुवायसाः । भविष्यन्त्यद्यवैपाप तीक्ष्णतुण्डनखाङ्कुराः ।।6.79.20।। Yuddha Kanda,79,21,राघवेणैवमुक्तस्तुमकराक्षोमहाबलः । बाणौघानमुचत्तस्मैराघवायरणाजिरे ।।6.79.21।। Yuddha Kanda,79,22,तान्शरान् शरवर्षेणरामश्चिच्छेदनैकधा । निपेतुर्भुवितेछिन्नारुक्मपुङ्खास्सहस्रशः ।।6.79.22।। Yuddha Kanda,79,23,तद्युद्धमभवत्तत्रसमेत्यान्योन्यमोजसा । खरराक्षसपुत्रस्यसूनोर्धशरथस्य च ।।6.79.23।। Yuddha Kanda,79,24,जीमूतयोरिवाकाशेशब्दोज्यातलयोस्तदा । धनुर्मुक्तःस्वनोत्कृष्टश्श्रूयते च रणाजिरे ।।6.79.24।। Yuddha Kanda,79,25,देवदानवगन्धर्वाःकिन्नराश्चमहोरगाः । अन्तरिक्षगतास्सर्वेद्रष्टुकामास्तदद्भुतम् ।।6.79.25।। Yuddha Kanda,79,26,विद्धमन्योन्यगात्रेषुद्विगुणंवर्धतेपरम् । कृतप्रतिकृतान्योन्यंकुरुतांतौरणाजिरे ।।6.79.26।। Yuddha Kanda,79,27,राममुक्तांस्तुबाणौघान् राक्षसस्त्वच्छिनद्रणे । रक्षोमुक्तांस्तुरामोवैनैकथाप्राच्छिनच्छरैः ।।6.79.27।। Yuddha Kanda,79,28,बाणौघैर्विततास्सर्वादिशश्चप्रदिशस्तथा । सञ्छन्नावसुधाचैवसमन्तान्नप्रकाशते ।।6.79.28।। Yuddha Kanda,79,29,तःक्रुद्धोमहाबाहुर्धनुच्शिच्छेदरक्षसः । अष्टाभिरथनाराचैस्सूतंविव्याधराघवः ।।6.79.29।। Yuddha Kanda,79,30,भित्त्वारथंशरैरामोहत्वाआश्वानपातयत् । विरथोवसुधास्थश्चमकराक्षोनिशाचरः ।।6.79.30।। Yuddha Kanda,79,31,तत्तिष्ठद्वसुधांरक्षश्शूलंजग्राहपाणिना । त्रासनंसर्वभूतानांयुगान्ताग्निसमप्रभम् ।।6.79.31।। Yuddha Kanda,79,32,दुरवापम् महच्छूलंरुद्रदत्तंभयङ्करम् । जाज्वल्यमानमाकाशेसंहारास्त्रमिवापरम् ।।6.79.32।। यंदृष्टवादेवताःसर्वाभयार्ताविद्रुतादिशः । Yuddha Kanda,79,33,विभ्राम्यतुमहच्छूलंप्रज्वलन्तन्निशाचरः ।।6.79.33।। स क्रोधाप्राहिणोत्तस्मैराघवायमहात्मने । Yuddha Kanda,79,34,तमापतन्तंज्वलितंखरपुत्रकराच्च्युतम् ।।6.79.34।। बाणैत्रिभिराकाशेशूलंचिच्छेदराघवः । Yuddha Kanda,79,35,सच्छन्नोनैकथाशूलोदिव्यहाटकमण्डितः ।।6.79.35।। व्यशीर्यतमहोल्केवरामबाणार्दितोभुवि । Yuddha Kanda,79,36,च्छूलंनिहतंदृष्टवारामेणाक्लिष्टकर्मणा ।।6.79.36।। साधुसावधितिभूतानिव्याहरन्तिनभोगताः । Yuddha Kanda,79,37,तंदृष्टवानिहतंशूलंमकराक्षोनिशाचरः ।।6.79.37।। मुष्टिमुद्यम्यकाकुत्स्थंतिष्ठतिष्ठेतिचाब्रवीत् । Yuddha Kanda,79,38,सःतंदृष्टवाऽपतन्तंवैप्रहस्यरघुनन्दनः ।।6.79.38।। पावकास्त्रंततोरामस्सन्दधेतुशरासने । Yuddha Kanda,79,39,तेनास्त्रणहतंरक्षःकाकुत्थ्सेनतदारणे ।।6.79.39।। सञ्चिन्नहृदयंतत्रपपात च ममार च । Yuddha Kanda,79,40,दृष्टवातेराक्षसास्सर्वेमकराक्षस्यपातनम् ।।6.79.40।। लङ्कामेवप्रधावन्तरामबाणभयार्दिताः । Yuddha Kanda,80,1,मकराक्षंहतंश्रुत्वारावणस्समितिञ्जयः । रोषेणमहताविष्टोदन्ताङ्कटकटाय्य च ।।6.80.1।। Yuddha Kanda,80,2,कोपितश्चतदातत्रकिंकार्यमितिचिन्तयन् । आदिदेशाथसङ्क्रुद्धोरणायेजितंसुतम् ।।6.80.2।। Yuddha Kanda,80,3,जहिवीर महावीर्यौभ्रातरौरामलक्ष्मणौ । अदृश्योदृश्यमानोवासर्वथात्वंबलाधिकः ।।6.80.3।। Yuddha Kanda,80,4,त्वमप्रतिमकर्माणमिन्द्रंजयसिसंयुगे । किंपुनर्मानुषौदृष्टवा न वधिष्यसिसंयुगे ।।6.80.4।। Yuddha Kanda,80,5,तथोक्तोराक्षसेन्द्रेणप्रतिगृह्यपितुर्वचः । यज्ञभूमौ स विधिवत् पावकंजुहवेन्द्रजित् ।।6.80.5।। Yuddha Kanda,80,6,जुह्वतश्चापितत्राग्निंरक्तोष्णीषधरास्त्रिरियः । आजग्मुस्तत्रसम्भ्रान्ताराक्षस्योयत्ररावणिः ।।6.80.6।। Yuddha Kanda,80,7,शस्त्राणिशरपत्राणिसमिधोऽथविभीतकाः । लोहितानि च वासांहिस्रुवंकार्ष्णायसंतथा ।।6.80.7।। Yuddha Kanda,80,8,सर्वतोऽग्निंसमास्तीर्यशरपत्रैस्सतोमरैः । छागस्यसर्वकृष्णस्यगळंजग्राहजीवतः ।।6.80.8।। Yuddha Kanda,80,9,सकृदेवसमिद्धस्यविधूमस्यमहार्चिषः । बभूवुस्तानिलिङ्गानिविजयंदर्शयन्ति च ।।6.80.9।। Yuddha Kanda,80,10,प्रदक्षिणावर्तशिखस्तप्तहाटकसन्निभः । हविस्तत्प्रतिजग्राहपावकस्स्वयमुत्थितः ।।6.80.10।। Yuddha Kanda,80,11,हुत्वाग्निंतर्पयित्वाथदेवदानवराक्षसान् । आरुरोहरथश्रेष्ठमन्तर्थानगतंशुभम् ।।6.80.11।। Yuddha Kanda,80,12,स वाजिभिश्चतुर्भिस्तुबाणैश्चनिशितैर्युतः । आरोपितमहाचापश्शुशुभेस्यन्दनोत्तमः ।।6.80.12।। Yuddha Kanda,80,13,जाज्वल्यमानोवपुषातपनीयपरिच्छदः । मृगैश्चन्द्रार्धचन्द्रैश्च स रथस्समलङ्कृतः ।।6.80.13।। Yuddha Kanda,80,14,जाम्बूनदमहाकम्बुर्दीप्तपावकसन्निभः । बभूवेन्द्रजितःकेतुर्वैदूर्यसमलङ्कृतः ।।6.80.14।। Yuddha Kanda,80,15,तेनचादित्यकल्पेनब्रह्मास्त्रण च पालितः । स बभूवदुराधर्षोरावणिस्सुमहाबलः ।।6.80.15।। Yuddha Kanda,80,16,सोऽभिनिर्यायनगरादिन्द्रजित्समितिञ्जयः । हत्वाग्निंराक्षसैर्मन्त्रैरन्तर्धानगतोऽब्रवीत् ।।6.80.16।। Yuddha Kanda,80,17,अद्यहत्वारणेयौतौमिथ्याप्रव्रजितौवने । जयंपित्रेप्रदास्यामिरावणायरणार्जितम् ।।6.80.17।। Yuddha Kanda,80,18,अद्यनिर्वानरमुर्वींहत्वारामंसलक्ष्मणम् । करिष्येपरमांप्रीतिमित्युक्त्वान्तरधीयत ।।6.80.18।। Yuddha Kanda,80,19,आपपातथसङ्कृद्धोदशग्रीवेणचोदितः । तीक्षणकार्मुकनाराचैस्तीक्षणस्त्विन्द्ररिपूरणे ।।6.80.19।। Yuddha Kanda,80,20,स ददर्शमहावीर्यौनागौत्रिशिरसानिव । सृजन्ताविषुजालानिवीरौवानरमध्यगौ ।।6.80.20।। Yuddha Kanda,80,21,इमौतावितिसञ्चिन्त्यसज्जंकृत्वा च कार्मुकम् । सन्ततानेषुधाराभिःपर्जन्यइववृष्टिमान् ।।6.80.21।। Yuddha Kanda,80,22,तुवैहायसंप्राप्यसरथोरामलक्ष्मणौ । आचक्षुर्विषयेतिष्ठवनिव्याधनिशितैश्शरैः ।।6.80.22।। Yuddha Kanda,80,23,तौतस्यशरवेगेनपरीतौरामलक्ष्मणौ । धनुषीसशरेकृत्वादिव्यमस्त्रंप्रचक्रतुः ।।6.80.23।। Yuddha Kanda,80,24,प्रच्छादयन्तौगगनंशरजालैर्महाबलौ । तमस्त्रःसूर्यसङ्काशैर्नैवपस्पृशतुश्शरैः ।।6.80.24।। Yuddha Kanda,80,25,स हिधूमान्धकारं च चक्रेप्रच्चादयन्नभः । दिशश्चान्तर्दधेश्रीमान्नीहारतमसावृताः ।।6.80.25।। Yuddha Kanda,80,26,नैवज्यातलनिर्घोषा न च नेमिखुरस्वनः । शुश्रुवेचरतस्तस्य न च रूपंप्रकाशते ।।6.80.26।। Yuddha Kanda,80,27,घनान्धकारेतिमिरेशरावर्षमिवाद्भुतम् । स ववर्षमहाबाहुर्नाराचशरवृष्टिभिः ।।6.80.27।। Yuddha Kanda,80,28,स रामंसूर्यसङ्काशैश्शरैर्धत्तवरोर्भृशम् । विव्याधसमरेक्रुद्धःसर्वगात्रेषुरावणिः ।।6.80.28।। Yuddha Kanda,80,29,तौहन्यमानौनाराचैर्धाराभिरिवपर्वतौ । हेमपुङ्खान्नरव्याघ्रौतिग्मान्मुमुचतुःशरान् ।।6.80.29।। Yuddha Kanda,80,30,अन्तरिक्षेसमासाद्यरावणिंकङ्कपत्रिणः । निकृत्यपतगाभूमौसेतुस्तेशोणितोक्षिताः ।।6.80.30।। Yuddha Kanda,80,31,अतिमात्रंशरौघेणपीड्यमानौनरोत्तमौ । तानिषून्पततोभल्लैरनेकैर्विचकर्ततुः ।।6.80.31।। Yuddha Kanda,80,32,यतोहिददृशातेतौशरान् निपतितान्शितान् । ततस्तुतौदाशरथीससृजातेऽस्त्रमुत्तमम् ।।6.80.32।। Yuddha Kanda,80,33,रावणिस्तुदिशस्सर्वारथेनातिरथोऽपतत् । विव्याधतौदाशरथीलघ्वस्त्रनिशितैःशरैः ।।6.80.33।। Yuddha Kanda,80,34,तेनातिविद्धौतौवीरौरुक्मपुङ्खैःसुसम्हतैः । बभूवतुर्धाशरथीपुष्पितामिवकिंशुकौ ।।6.80.34।। Yuddha Kanda,80,35,नास्यवेगगतिंकचशिन्न च रूपंधनुश्शरान् । न चान्यद्विदितंकिञ्चित्सूर्यस्येवाभ्रसम्प्लवे ।।6.80.35।। Yuddha Kanda,80,36,तेनविद्धाश्चहरयोनिहताश्चगतासवः । बभूवुःशतशस्तत्रपतिताधरणीतले ।।6.80.36।। Yuddha Kanda,80,37,लक्ष्मणस्तुततस्सुङ्क्रृद्धोभ्रातरंवाक्यमब्रवीत् । ब्राह्ममस्त्रंप्रयोक्ष्यामिवधार्थंसर्वरक्षसाम् ।।6.80.37।। Yuddha Kanda,80,38,तमुवाचततोरामोलक्ष्मणंशुभलक्षणम् । नैकस्यहेतोरक्षांसिपृथिव्यांहन्तुमर्हसि ।।6.80.38।। Yuddha Kanda,80,39,अयुध्यमानंप्रच्छन्नंप्राञ्जलिंशरणागतम् । पलायमानंमत्तंवा न हन्तुंत्वमिहार्हसि ।।6.80.39।। Yuddha Kanda,80,40,अस्यैवतुवधेयत्नंकरिष्यावोमहाभुज । आदेक्ष्यावोमहावेगावस्त्रानाशीविषोपमान् ।।6.80.40।। Yuddha Kanda,80,41,तमेनंमायिनंक्षुद्रमन्तर्हितरथंबलात् । राक्षसंनिहनिष्यन्तिदृष्टवावानरयूथपाः ।।6.80.41।। Yuddha Kanda,80,42,यद्येषभूमिंविशतेदिवंवारसातलंवापिनभस्स्थलंवा । एवंनिगूढोऽममास्त्रदग्धःपतिष्यतेभूमितलेगतासुः ।।6.80.42।। Yuddha Kanda,81,1,विज्ञायतुमनस्तस्यराघवस्यमहात्मनः । स निवृत्याहवात्तस्मात् प्रविवेशपुरींततः ।।6.81.1।। Yuddha Kanda,81,2,सोऽनुस्मृत्यवधंतेषांराक्षसानांतरस्विनाम् । क्रोधताम्रेक्षणश्शूरोनिर्जगामाहाद्युति: ।।6.81.2।। Yuddha Kanda,81,3,स पश्चिमेवद्वारेणनिर्ययौराक्षसैर्वृतः । इन्द्रजित्सुमहावीर्यःपौलस्त्योदेवकण्टकः ।।6.81.3।। Yuddha Kanda,81,4,इन्द्रजित्तुततोदृष्टवाभ्रातरौरामलक्ष्मणौ । रणायाभ्युद्यतौवीरौमायांप्रादुष्करोत्तदा ।।6.81.4।। Yuddha Kanda,81,5,इन्द्रजित्तुरथेस्थाप्यसीतांमायामयींतदा । बलेनमहतावृत्यतस्यावधमरोचयत् ।।6.81.5।। Yuddha Kanda,81,6,मोहनार्थंतुसर्वेषांबुद्धिंकृत्वासुदुर्मतिः । हन्तुंसीतांव्यवसितोवानराभिमुखोययौ ।।6.81.6।। Yuddha Kanda,81,7,तम्दृष्टवात्वभिनिर्यान्तंसर्वेतेकाननौकसः । उत्पेतुरभिसङ्क्रुद्धाश्शिलाहस्तायुयुत्सवः ।।6.81.7।। Yuddha Kanda,81,8,हनूमान् पुरतस्तेषांजगामकपिकुञ्जरः । प्रगृह्यसुमहच्छृङ्गंपर्वतस्यदुरासदम् ।।6.81.8।। Yuddha Kanda,81,9,स ददर्शहतानन्दांसीतामिन्द्रजितोरथे । एकवेणीधरांदीनामुपवासकृशाननाम् ।।6.81.9।। Yuddha Kanda,81,10,परिक्लिष्टैकवसनाममृजांराघवप्रियाम् । रजोमलाभ्यामालिप्तैस्सर्वगात्रैर्वरस्त्रियम् ।।6.81.10।। Yuddha Kanda,81,11,तांनिरीक्ष्यमुहूर्तंतुमैथिलीत्यध्यवस्यतु । बभूवाचिरदृष्टाहितेनसाजनकात्मजा ।।6.81.11।। Yuddha Kanda,81,12,अब्रवीत्तांतुशोकार्तांनिरानन्दांतपस्विनीम् । दृष्टवारथोस्थितांदृष्ट्वाराक्षसेन्द्रसुतश्रिताम् ।।6.81.12।। Yuddha Kanda,81,13,कंसमर्थितमस्येतिचिन्तयन्समहाकपिः । सहतैर्वानरश्रेष्ठैरभ्यधावतरावणिम् ।।6.81.13।। Yuddha Kanda,81,14,तद्वानरबलंदृष्टवारावणिःक्रोधमूर्छितः । कृत्वाविकोशंनिस्त्रिंशंमूर्ध्निसीतामकर्षयत् ।।6.81.14।। Yuddha Kanda,81,15,तांस्त्रियंपश्यतांतेषांताडयामासरावणि: । क्रोशन्तींरामरामेतिमाययायोजितांरथे ।।6.81.15।। Yuddha Kanda,81,16,गृहीतमूर्धजांदृष्टवाहनुमान् दैन्यमागतः । शोकजंवारिनेत्राभ्यामुत्सृजन्मारुतात्मजः ।।6.81.16।। Yuddha Kanda,81,17,तांदृष्टवाचारुसर्वाङ्गींरामस्यमहिषींप्रियाम् । अब्रवीत्पुरुषंवाक्यंक्रोधाद्रक्षोधिपात्मजम् ।।6.81.17।। Yuddha Kanda,81,18,दुरात्मन्नात्मनाशायकेशपक्षेपरामृशः । ब्रह्मर्षीणांकुलेजातोराक्षसींयोनिमाश्रितः ।।6.81.18।। Yuddha Kanda,81,19,धिक्त्वांपापसमाचारंयस्यतेमतिरिदृशी । नृशंसानार्य दुर्वृत्त क्षुद्र पापपराक्रम ।।6.81.19।। अनार्यस्येदृशंकर्मघृणातेनास्तिनिर्घृण । Yuddha Kanda,81,20,च्युतागृहाच्चराज्याच्चरामहस्ताच्चमैथिली ।।6.81.20।। किंतवैषापराद्धाहियदेनांहन्तुमिच्छसि । Yuddha Kanda,81,21,सीतांहत्वातु न चिरंजीविष्यसिकथञ्चन ।।6.81.21।। वधार्हकर्मणानेनममहस्तगतोह्यसि । Yuddha Kanda,81,22,येच स्त्रीघातिनांलोकालोकवध्यैषुकुसतिताः ।।6.81.22।। इहजीवितमुत्सृज्यप्रेत्यतान्प्रतिपत्स्यसे । Yuddha Kanda,81,23,तिब्रुवाणोहनुमान् सायुधैर्हरिभिर्वृतः ।।6.81.23।। अभ्यदावत् ससुङ्कृद्धोराक्षसेन्द्रसुतंप्रति । Yuddha Kanda,81,24,पतन्तंमहावीर्यंतदनीकंवनौकसाम् ।।6.81.24।। रक्षसांभीमकोपानामनीकंतुन्यवारयत् । Yuddha Kanda,81,25,सःतांबाणसहस्रेणविक्षोभ्यहरिवाहिनीम् ।।6.81.25।। हनूमन्तंहरिश्रेष्ठमिन्द्रजित् प्रत्युवाच ह । Yuddha Kanda,81,26,सुग्रीवस्त्वं च रामश्चयन्निमित्तमिहागताः ।।6.81.26।। तांवधिष्यामिवैदेहीमद्यैवतवपश्यतः । Yuddha Kanda,81,27,इमांहत्वाततोरामंलक्ष्मणंत्वां च वानर ।।6.81.27।। सुग्रीवं च वधिष्यामितंचानार्यंविभीषणम् । Yuddha Kanda,81,28,न हन्तव्याःस्त्रियश्चेतियद् ब्रवीषिप्लवङ्गम ।।6.81.28।। पीडाकरममित्राणांयत्स्यात्कर्तव्यमेवतत् । Yuddha Kanda,81,29,तमेवमुक्त्वारुदतींसीतांमयामयीं च ताम् ।।6.81.29।। शितधारेणखङ्गेननिजघानेन्द्रजित्स्वयम् । Yuddha Kanda,81,30,यज्ञोपवीतमार्गेणभिन्नातेनतपस्विनी ।।6.81.30।। सापृथिव्यांपृथुश्रोणीपपातप्रियदर्शना । Yuddha Kanda,81,31,त्तामिन्द्रजित् स्त्रियंहत्वाहनूमन्तमुवाच ह ।।6.81.31।। Yuddha Kanda,81,32,मयारामस्यपश्येमांकोपेन च । एषाविशस्तावैदेहीनिष्फलोवःपरिश्रमः ।।6.81.32।। Yuddha Kanda,81,33,ततःखडगेनमहताहत्वातामिन्द्रजित् स्वयम् । हृष्टस्सरथमास्थायननाद च महास्वनम् ।।6.81.33।। Yuddha Kanda,81,34,वानराश्शुश्रुवुश्शब्दमदूरेप्रत्यवस्थिताः । व्यादितास्यस्यनदतस्तद्दुर्गंसंश्रितस्यतु ।।6.81.34।। Yuddha Kanda,82,1,श्रुत्वातुभीमनिर्ह्रादंशक्राशनिसमस्वनम् । वीक्षमाणादिशस्सर्वादुद्रुवुर्वानरर्षभा: ।।6.82.1।। Yuddha Kanda,82,2,तानुवाचततःसर्वान्हनुमान् मारुतात्मजः । विषण्णवदनान्दीनांस्त्रस्तान्विद्रवतःपृथक् ।।6.82.2।। Yuddha Kanda,82,3,कस्माद्विषण्णवदनाविद्रवध्वंप्लवङ्गमाः । त्यक्तयुद्धसमुत्साहाश्शूरत्वंक्वनुवोगतम् ।।6.82.3।। Yuddha Kanda,82,4,पृष्ठतोऽनुव्रजध्वंमामग्रतोयन्तमाहवे । शूरैरनिजनोपेतैरयुक्तंहिनिवर्तितुम् ।।6.82.4।। Yuddha Kanda,82,5,एवमुक्तास्सुसङ्क्रुद्धावायुपुत्रेणधीमता । शैलशृङ्गान् द्रुमांश्चवजगृहुर्हृष्टमानसाः ।।6.82.5।। Yuddha Kanda,82,6,अभिपेतुश्चगर्जन्तोराक्षसान्वानरर्षभाः । परिवार्यहनूमन्तमन्वयुश्चमहाहवे ।।6.82.6।। Yuddha Kanda,82,7,स तैर्वानरमुख्यैश्चहनुमान्सर्वतोवृतः । हुताशनइवार्चिष्मानदहच्छत्रुवाहिनीम् ।।6.82.7।। Yuddha Kanda,82,8,स राक्षसानांकदनंचकारसुमहाकपिः । वृतोवानरसैन्येनकालान्तकयोमोपमः ।।6.82.8।। Yuddha Kanda,82,9,स तुकोपेनचाविष्टःशोकेन च महाकपिः । हनूमान्रावणिरथेमहतींपातयच्छिलाम् ।।6.82.9।। Yuddha Kanda,82,10,तामापतन्तींदृष्टवैवरथस्सारथिनातदा । विधेयाश्वसमायुक्तोविदूरमपवाहितः ।।6.82.10।। Yuddha Kanda,82,11,तमिन्द्रजितमप्राप्यरथस्थंसहसारथिम् । विवेशधरणींभित्त्वासाशिलाव्यर्थमुद्यता ।।6.82.11।। Yuddha Kanda,82,12,पतितायांशिलायांतुव्यथितारक्षसांचमूः । निपतन्त्या च शिलयाराक्षसामथिताभृशम् ।।6.82.12।। Yuddha Kanda,82,13,तमभ्यधावन् शतशोनदन्तःकाननौकसः । तेद्रुमांश्चमहाकायागिरिशृङ्गाणिचोद्यताः ।।6.82.13।। Yuddha Kanda,82,14,क्षिपनीन्द्रजितंसङ्ख्येवानराभीमविक्रमाः । वृक्षशैलमहावर्षंविसृजन्तःप्लवङ्गमाः ।।6.82.14।। शत्रूणांकदनंचक्रुर्नेदुश्चविविधैस्स्वनैः । Yuddha Kanda,82,15,वानरैसैर्महाभीमैर्घोररूपानिशाचराः ।।6.82.15।। वीर्यादभिहतावृक्षैर्व्यचेष्टन्तरणक्षितौ । Yuddha Kanda,82,16,स्वसैन्यमभिवीक्ष्याथवानरार्दितमिन्द्रजित् ।।6.82.16।। प्रगृहीतायुधःक्रुद्धःपरानभिमुखोययौ । Yuddha Kanda,82,17,सःशरौघानवसृजन्स्वसैन्येनाभिसम्वृतः ।।6.82.17।। जघानकपिशार्दूलान्सुबहून्दृष्टविक्रमः । Yuddha Kanda,82,18,शूलैःरशनिभिःखङ्गै: पट्टसै: कूटमुद्गरैः ।।6.82.18।। तेचाप्यनुचरास्तस्यवानरान्जघ्नुराहवे । Yuddha Kanda,82,19,स्कन्धविटपैश्शालैश्शिलाभिश्चमहाबलः ।।6.82.19।। हनूमान्कदनंचक्रेरक्षसांभीमकर्मणाम् । Yuddha Kanda,82,20,सनिवार्यपरानीकमब्रवीत्तान्वनौकसः ।।6.82.20।। हनूमान् सन्निवर्तध्वं न नस्साध्यमिदंबलम् । Yuddha Kanda,82,21,त्यक्त्वाप्राणान्विवेष्टन्तोरामप्रियचिकीर्षवः ।।6.82.21।। यन्निमित्तंहियुध्यामोहतासाजनकात्मजा । Yuddha Kanda,82,22,इममर्थंहिविज्ञाप्यरामंसुग्रीवमेव च ।।6.82.22।। तौयत्प्रतिविधास्येतेतत्करिष्यामहेवयम् । Yuddha Kanda,82,23,त्युक्त्वावानरश्रेष्ठोवारयन्सर्ववानरान् ।।6.82.23।। शनैश्शनैरसन्त्रस्तस्सबलस्सन्यवर्तत । Yuddha Kanda,82,24,ततःप्रेक्ष्यहनूमन्तंव्रजन्तंयत्रराघवः ।।6.82.24।। स होतुकामोदुष्टात्मागतश्चैत्यंनिकुम्भिलाम् । Yuddha Kanda,82,25,निकुम्भिलामधिष्ठायपावकंजुहवेन्द्रजित् ।।6.82.25।। Yuddha Kanda,82,26,यज्ञभूम्यांततोगत्वापावकस्तेनरक्षसा । हूयमानःप्रजज्वालमांसशोणितभुक्तदा ।।6.82.26।। Yuddha Kanda,82,27,सोऽर्चिःपिनद्धोददृशेहोमशोणिततर्पितः । सन्ध्यागतइवादित्यःसुतीव्रोऽग्नि: समुत्थितः ।।6.82.27।। Yuddha Kanda,83,1,राघवश्चापिविपुलंतंराक्षसवनौकसाम् । श्रुत्वासङ्ग्रामनिर्घोषंजाम्बवन्तमुवाच ह ।।6.83.1।। Yuddha Kanda,83,2,सौम्यनूनंहनुमताकृतंकर्मसुदुष्करम् । श्रूयते च यथाभीमस्सुमहावायुधस्वनः ।।6.83.2।। Yuddha Kanda,83,3,तद्गच्छकुरुसाहाय्यंस्वबलेनाभिसम्वृतः । क्षिप्रमक्षपतेतस्यकपिश्रेष्ठस्ययुध्यतः ।।6.83.3।। Yuddha Kanda,83,4,ऋक्षराक्षस्तथोक्तस्तुस्वेनानीकेनसम्वृतः । आगच्छत्पश्चिमद्वारंहनूमान्यत्रवानरः ।।6.83.4।। Yuddha Kanda,83,5,अथायान्तंहनूमन्तंददर्शर्क्षपतिपथि । वानरैःकृतसङ्ग्रामैश्श्वसद्भिरभिसम्वृतम् ।।6.83.5।। Yuddha Kanda,83,6,दृष्टापथिहनूमांश्चतदृक्षबलमुद्यतम् । नीलमेघनिभंभीमंसन्निवार्यन्यवर्तत ।।6.83.6।। Yuddha Kanda,83,7,स तेनसहसैन्येनसन्निकर्षंमहायशाः । शीघ्रमागम्यरामायदुःखितोवाक्यमब्रवीत् ।।6.83.7।। Yuddha Kanda,83,8,समरेयुध्यमानानामस्माकंप्रेक्षतांपुरः । जघानरुदतींसीतामिन्द्रजिद्रावणात्मजः ।।6.83.8।। Yuddha Kanda,83,9,उद्भ्रान्तचित्तस्तांदृष्टवाविषण्णोऽहमरिन्दमः । तदहंभवतोवृतंविज्ञापयितुमागतः ।।6.83.9।। Yuddha Kanda,83,10,तस्यतद्वचनंश्रुत्वाराघवश्शोकमूर्चितः । निपपाततदाभूमौछिन्नमूलंइवद्रुमः ।।6.83.10।। Yuddha Kanda,83,11,तंभूमौदेवसङ्काशंपतितंदृश्यराघवम् । अभिपेतुस्समुत्पत्यसर्वतःकपिसत्तमाः ।।6.83.11।। Yuddha Kanda,83,12,आसिञ्चन् सलिलैश्चैनंपद्मोत्पलसुगन्धिभिः । प्रदहन्तमानासाद्यंसहसाग्निमिवोद्यतम् ।।6.83.12।। Yuddha Kanda,83,13,तंलक्ष्मणोऽथबाहुभ्यांपरिष्वज्यसुदुःखितः । उवाचराममस्वस्थंवाक्यंहेत्वर्थसम्युतम् ।।6.83.13।। Yuddha Kanda,83,14,शुभेवर्त्मनितिष्ठन्तंत्वामार्यविजितेन्द्रियम् । अनर्थेभ्यो न शक्नोतित्रातुंधर्मोनिरर्थकः ।।6.83.14।। Yuddha Kanda,83,15,भूतानांस्थावाराणां च जङ्गमानां च दर्शनम् । यथास्ति न तथाधर्मस्तेननास्तीतिमेमतिः ।।6.83.15।। Yuddha Kanda,83,16,यथैवस्थावरंव्यक्तंजङ्गमं न तथाविधम् । नायमर्थस्तथायुक्तस्त्वद्विधो न विपद्यते ।।6.83.16।। Yuddha Kanda,83,17,यद्यधर्मोभवेद्भूतोरावणोनरकंव्रजेत् । भवांश्चधर्मसम्युक्तोनैवंव्यसनमाप्नुयात् ।।6.83.17।। Yuddha Kanda,83,18,तस्य च व्यसनाभावाद्व्यसनंचागतेत्वयि । धर्मोभवत्यधर्मश्चपरस्परविरोधिनौ ।।6.83.18।। Yuddha Kanda,83,19,धर्मेणोपलभेद्धर्ममधर्मंचाप्यधर्मतः । यद्यधर्मेणयुज्येयुर्येष्वधर्मःप्रतिष्ठितः ।।6.83.19।। Yuddha Kanda,83,20,यदिधर्मेणवियुज्येरन्नधर्मरुचयोजनाः । धर्मेणचरतांधर्मंचैषांधर्मफलंभवेत् ।।6.83.20।। Yuddha Kanda,83,21,यस्मादर्थाविवर्धन्तेयेष्वधर्मःप्रतिष्ठितः । क्लिश्यन्तेधर्मशीलाश्चतस्मादेतौनिरर्थकौ ।।6.83.21।। Yuddha Kanda,83,22,वध्यन्तेपापकर्माणोयद्यधर्मेणराघव । वधकर्महतोऽधर्मः स हतःकिंवधिष्यति ।।6.83.22।। Yuddha Kanda,83,23,अथवाविहितेनायंहन्यतेहन्तिवापरम् । विधिरालिप्यतेतेन न स पापेनकर्मणा ।।6.83.23।। Yuddha Kanda,83,24,अदृष्टप्रतिकारेणत्वव्यक्तेनासतासता । कथंशक्यंपरंप्राप्तुंधर्मेणारिविकर्षण ।।6.83.24।। Yuddha Kanda,83,25,यदिसत्स्यात्सतांमुख्यनासत्स्यत्तवकिञ्चन । त्वयायदीदृशंप्राप्तंतस्मात्सन्नोपपद्यते ।।6.83.25।। Yuddha Kanda,83,26,अथवादुर्बलःक्लीबोबलंधर्मोऽनुवर्तते । दुर्बलोहृतमर्यादो न सेव्यइतिमेमतिः ।।6.83.26।। Yuddha Kanda,83,27,बलस्ययदिचेद्धर्मोगुणभूतःपराक्रमे । धर्ममुत्सृज्यवर्तस्वयथाधर्मेतथाबले ।।6.83.27।। Yuddha Kanda,83,28,अथचेत्सत्यवचनंधर्म: किलपरन्तप । अनृतस्त्वय्यकरुणःकिं न बद्धस्त्वयापिता ।।6.83.28।। Yuddha Kanda,83,29,यदिधर्मोभवेद्भूतअधर्मोवापरन्तप । न स्महत्वामुनिंवज्रीकुर्यादिज्यांशतक्रतुः ।।6.83.29।। Yuddha Kanda,83,30,अधर्मसंश्रितोधर्मोविनाशयतिराघव । सर्वमेतद्यथाकामंकाकुत्स्थकुरुतेनरः ।।6.83.30।। Yuddha Kanda,83,31,ममचेदंमतंतातधरोऽयमितिराघव । धर्ममूलंत्वयाछिन्नंराज्यमुत्सृजतातदा ।।6.83.31।। Yuddha Kanda,83,32,अर्थेभ्योहिप्रवृद्धेभ्यःसम्वृत्तेभ्यस्ततस्ततः । क्रियाःसर्वाःप्रवर्तन्तेपर्वतेभ्यःइवापगाः ।।6.83.32।। Yuddha Kanda,83,33,अर्थेनहिविमुक्तस्यपुरुषस्याल्पचेतसः । विच्छिद्यन्तेक्रियास्सर्वाग्रीष्मेकुसरितोयथा ।।6.83.33।। Yuddha Kanda,83,34,सोऽयमर्थंपरित्यज्यसुखकामःसुखैधितः । पापमारभतेकर्तुंतदादोषःप्रवर्तते ।।6.83.34।। Yuddha Kanda,83,35,यस्यार्थास्तस्यमित्राणियस्यार्थास्यस्यबान्धवाः । यस्यार्थास्सपुमान्लोकेयस्यार्थाः स च पण्डितः ।।6.83.35।। Yuddha Kanda,83,36,यस्यार्थास्स च विक्रान्तोयस्यार्थास्स च बुद्धिमान् । यस्यार्थास्समहाभागोयस्यार्थास्समहागुणः ।।6.83.36।। Yuddha Kanda,83,37,अर्थस्यैतेपरित्यागेदोषाःप्रव्याहृतामया । राज्यमुत्सृजतावीरयेनबुद्धिस्त्वयाकृता ।।6.83.37।। Yuddha Kanda,83,38,यस्यार्थाःधर्मकामार्थास्तस्यसर्वंप्रदक्षिणम् । अधनेनार्थकामेननार्थश्शक्योविचिन्वता ।।6.83.38।। Yuddha Kanda,83,39,हर्षःकामश्चदर्पश्चधर्मःक्रोधश्शमोदमः । अर्थादेतानिसर्वाणिप्रवर्तन्तेनराधिप ।।6.83.39।। Yuddha Kanda,83,40,येषांनश्यत्ययंलोकश्चरतांधर्मचारिणाम् । तेऽर्थास्त्वयि न दृश्यन्तेदुर्दिनेषुयथाग्रहाः ।।6.83.40।। Yuddha Kanda,83,41,त्वयिप्रव्रजितेवीरगुरोश्चवचनेस्थिते । रक्षसापहृताभार्याप्राणैःप्रियतरातव ।।6.83.41।। Yuddha Kanda,83,42,तदद्यविपुलंवीरदुःखमिन्द्रजिताकृतम् । कर्मणाव्यपनेष्यामितस्मादुत्तिष्ठराघव ।।6.83.42।। Yuddha Kanda,83,43,उत्थिष्ठनरशार्दूलदीर्घबाहोधृतव्रत । किमात्मानंमहात्मानंमात्मानं न बुध्यसे ।।6.83.43।। Yuddha Kanda,84,1,राममाश्वासयानेतुलक्ष्मणेभ्रातृवत्सले । निक्षिप्यगुल्मान् स्वस्थानेतत्रागच्छद्विभीषणः ।।6.84.1 ।। Yuddha Kanda,84,2,नानाप्रहरणैर्वीरैश्चतुर्भिस्सचिवैर्वृत: । नीलाञ्जनचयाकारैर्मातङ्गैरिवयूथप ।।6.84.2।। Yuddha Kanda,84,3,राघवं च महात्मानमिक्ष्वाकुकुलनन्दनम् । ददर्शमोहमापन्नंलक्ष्मणस्याङ्गमाश्रितम् ।।6.84.3।। Yuddha Kanda,84,5,व्रीडितंशोकसन्तप्तंदृष्टवारामंविभीषणः । अन्तर्धुःखएनदीनात्माकिमेतदितिसोऽब्रवीत् ।।6.84.5।। Yuddha Kanda,84,6,विभीषणमुखंदृष्टवासुग्रीवंतांश्चवानरान् । लक्ष्मणोवाचमन्दार्थमिदंबाष्पपरिप्लुतः ।।6.84.6।। Yuddha Kanda,84,7,हताइन्द्रजितासीताइतिश्रुत्वैवराघवः । हनूमद्वचनात्सौम्यततोमोहमुपागतः ।।6.84.7।। Yuddha Kanda,84,8,कथयन्तंतुसौमित्रिंसन्निवार्यविभीषणः । पुष्कलार्थमिदंवाक्यंविसंज्ञंराममब्रवीत् ।।6.84.8।। Yuddha Kanda,84,9,मनुजेन्द्रार्थरूपेणयदुक्ततुहनूमता । तदयुक्तमहंमन्येसागरस्येवशोषणम् ।।6.84.9।। Yuddha Kanda,84,10,अभिप्रायंतुजानामिरावणस्यदुरात्मनः । सीतांप्रतिमहाबाहो न च घातंकरिष्यति ।।6.84.10।। Yuddha Kanda,85,1,त्तस्यतद्वचनंश्रुत्वाराघवश्शोककर्शितः । नोपधारयतेव्यक्तंयदुक्तंतेनरक्षसा ।।6.85.1।। Yuddha Kanda,85,2,ततोधैर्यमवष्टभ्यरामःपरपुरञ्जयः । विभीषणमुपासीनमुवाचकपिसन्निधौ ।।6.85.2।। Yuddha Kanda,85,3,नैरृताधिपतेवाक्यंयदुक्तंतेविभीषण । भूयस्तच्छ्रोतुमिच्छामिब्रूहियत्तेविवक्षितम् ।।6.85.3।। Yuddha Kanda,85,4,राघवस्यवचःश्रुत्वावाक्यंवाक्यविशारद. । यत्तत्पुनरिदंवाक्यंबभाषे स विभीषणः ।।6.85.4।। Yuddha Kanda,85,5,यथाज्ञप्तंमहाबाहोत्वयागुल्मनिवेशनम् । तत्तथाऽनुष्ठितंवीरत्वद्वाक्यसमनन्तरम् ।।6.85.5।। Yuddha Kanda,85,6,तान्यनीकानिसर्वाणिविभग्नानिसमन्ततः । विन्यस्तायूथपाश्चैवयथान्यायंविभागशः ।।6.85.6।। Yuddha Kanda,85,7,भूयस्तुममविज्ञाप्यंतच्छ्रुणुष्वमहायश: । त्वय्यकारणसन्तप्तेसन्तप्तहृदयावयम् ।।6.85.7।। Yuddha Kanda,85,8,त्यजराजन्निमंशोकंमिथ्यासन्तापमागतम् । तदियंत्यज्यतांचिन्ताशत्रुहर्षविवर्धिनी ।।6.85.8।। Yuddha Kanda,85,9,उद्यमःक्रियतांवीरहर्षःसमुपसेव्यताम् । प्राप्तव्यायदितेसीताहन्तव्याश्चनिशाचराः ।।6.85.9।। Yuddha Kanda,85,10,रघुनन्दनवक्ष्यामिश्रूयतांमेहितंवचः । साध्वयंयातुसौमित्रिर्बलेनमहतावृतः ।।6.85.10।। Yuddha Kanda,85,11,निकुम्भिलायांसम्प्राप्यहन्तुंरावणिमाहवे । धनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैः ।।6.85.11।। Yuddha Kanda,85,12,तेनवीरेणतपसावरदानात्स्वयम्भुवः । अस्त्रंब्रह्मशिरःप्राप्तंकामगाश्चतुरङ्गमाः ।।6.85.12।। Yuddha Kanda,85,13,स एषसहसैन्येनप्राप्तःकिलनिकुम्भिलाम् । यद्युततिष्ठेत्कृतंकर्महतान्सर्वांश्चविद्धिनः ।।6.85.13।। Yuddha Kanda,85,14,निकुम्भिलामसम्प्राप्तमहुताग्निं च योरिपुः । त्वामातायिनंहन्यादिन्द्रशत्रोस्सतेवधः ।।6.85.14।। Yuddha Kanda,85,15,वरोदत्तोमहाबाहो सर्वलोकेश्वरेणवै । इत्येवंविहितोराजन्वधस्तस्यैषधीमतः ।।6.85.15।। Yuddha Kanda,85,16,वधायेन्द्रजितोरामसन्दिशस्वमहाबल । हतेतस्मिन्हतंविद्धिरावणंससुहृज्जनम् ।।6.85.16।। Yuddha Kanda,85,17,विभीषणवच्श्रुत्वारामोवाक्यमथाब्रवीत् । जानामितस्यरौद्रस्यमायांसत्यपराक्रमः ।।6.85.17।। Yuddha Kanda,85,18,स हिब्रह्मास्त्रवित्प्राज्ञोमहामायोमहाबल. । करोत्यसंज्ञान् सङ्ग्रामेदेवान्सवरुणानपि ।।6.85.18।। Yuddha Kanda,85,19,तस्यान्तरिक्षेचरतःसरथस्यमहायशः । न गतिर्ज्ञायतेवीरसूर्यस्येवाभ्रसम्ल्पवे ।।6.85.19।। Yuddha Kanda,85,20,राघवस्तुरिपोर्ज्ञात्वामायावीर्यंदुरात्मनः । लक्ष्मणंकीर्तिसम्पन्नमिदंवचनमब्रवीत् ।।6.85.20।। Yuddha Kanda,85,21,यद्वानरेन्द्रस्यबलंतेनसर्वेणसम्वृतः । हनूमत्प्रमुखैश्चवयूथपैस्सहलक्ष्मण ।।6.85.21।। Yuddha Kanda,85,22,जाम्बवेनार्क्षपतिनासहसैन्येनसम्वृतः । जहितंराक्षससुतंमायाबलविशारदम् ।।6.85.22।। Yuddha Kanda,85,23,अयंत्वांसचिवैःसार्थंमहात्मारजनीचरः । अभिज्ञस्तस्यमायानांपृष्ठतोऽनुगमिष्यति ।।6.85.23।। Yuddha Kanda,85,24,राघवस्यवच्श्रुत्वालक्ष्मणस्सविभीषणः । जग्राहकार्मुकश्रेष्ठमत्यद्भुतपराक्रमः ।।6.85.24।। Yuddha Kanda,85,25,सन्नद्धःकवचीखङ्गीसशरोवामचापभृत् । रामपादावुपस्पृश्यहृष्टःसौमित्रिरब्रवीत् ।।6.85.25।। Yuddha Kanda,85,26,अद्यमत्कार्मुकोन्मुक्ताश्शरानिर्भिद्यरावणिम् । लङ्कामभितिष्यन्तिहंसाःपुष्करिणीमिव ।।6.85.26।। Yuddha Kanda,85,27,अद्यैवतस्यरौद्रस्यशरीरंमामकाश्शराः । विधमिष्यन्तिभित्त्वातंमहाचापगुणच्युताः ।।6.85.27।। Yuddha Kanda,85,28,एवमुक्त्वा स द्युतिमान् वचनंभ्रातुरग्रतः । स रावणिवधाकाङ्क्षीलक्ष्मणस्त्वरितोययौ ।।6.85.28।। Yuddha Kanda,85,29,सोऽभिवाद्यगुरोःपादौकृत्वाचापिप्रदक्षिणम् । निकुम्भिलामभिययौचैत्यंरावणिपालितम् ।।6.85.29।। Yuddha Kanda,85,30,विभीषणेनसहितोराजपुत्रःप्रतापवान् । कृतस्वस्त्ययनोभ्रात्रालक्ष्मणस्त्वरितोययौ ।।6.85.30।। Yuddha Kanda,85,31,वानराणांसहस्रैस्तुहनूमान् बहुभिर्वृतः । विभीषणश्चसामात्योतदालक्ष्मणमन्वगात् ।।6.85.31।। Yuddha Kanda,85,32,महताहरिसैन्येनसवेगमभिसंवृतः । ऋक्षराजबलंचैवददर्शपथिविष्ठितम् ।।6.85.32।। Yuddha Kanda,85,33,स गत्वादूरमध्वानंसौमित्रिर्मित्रनन्दनः । राक्षसेन्द्रबलंदूरादपश्यद्व्यूहमाश्रितम् ।।6.85.33।। Yuddha Kanda,85,34,स तंप्राप्यधनुष्पाणिर्मायायोगमरिन्दमः । तस्थौब्रह्मविधानेनविजेतुंरघुनन्दनः ।।6.85.34।। Yuddha Kanda,85,35,भीषणेनसहितोराजपुत्रःप्रतापवान् । अङ्गदेन च वीरेणतथानिलसुतेन च ।।6.85.35।। Yuddha Kanda,86,1,अथतस्यामवस्थायांलक्ष्मणंरावणानुजः । परेषामहितंवाक्यमर्थसाधकमब्रवीत् ।।6.86.1।। Yuddha Kanda,86,2,यदेतद्राक्षसानीकंमेघश्यामंविलोक्यते । एतदायोध्यतांशीघ्रंकपिभिपादपायुधैः ।।6.86.2।। Yuddha Kanda,86,3,अस्यानीकस्यमहतोभेदनेयतलक्ष्मण । राक्षसेन्द्रसुतोऽप्यत्रभिन्नेदृश्योभविष्यति ।।6.86.3।। Yuddha Kanda,86,4,सत्वमिन्द्राशनिप्रख्यैःशरैरवकिरन्परान् । अभिद्रवाशुयावद्वैनैतत्कर्मसमाप्यते ।।6.86.4।। Yuddha Kanda,86,5,ज हिवीरदुरात्मानंमायापरमधार्मिकम् । रावणिंक्रूरकर्माणंसर्वलोकभयावहम् ।।6.86.5।। Yuddha Kanda,86,6,विभीषणवच्श्रुत्वालक्ष्मणश्शुभलक्षणः । ववर्षशरवर्षाणिराक्षसेन्द्रसुतंप्रति ।।6.86.6।। Yuddha Kanda,86,7,ऋक्षाःशाखामृगाश्चैवद्रुमद्रिनखयोधिनः । अभ्यधावन्तसहितास्तदनीकमवस्थितम् ।।6.86.7।। Yuddha Kanda,86,8,राक्षसाश्चशितैर्भाणैरसिभिश्शक्तितोमरैः । उद्यदैससम् वर्तन्तसमरेकपिसैन्यजिघांसवः ।।6.86.8।। Yuddha Kanda,86,9,स सम्प्रहारस्तुमुलःसञ्जज्ञेकपिरक्षसाम् । शब्देनमहतालङ्कांनादयन्वैसमन्ततः ।।6.86.9।। Yuddha Kanda,86,10,शस्त्रश्चविविधाकारैश्शितैर्बाणैश्चपादपैः । उद्यतैर्गिरिशृङ्गैश्चघोरैराकाशमावृतम् ।।6.86.10।। Yuddha Kanda,86,11,तेराक्षसावानरेषुविकृताननबाहवः । निवेशयन्तःशस्त्राणिचक्रुस्तेसुमहद्भयम् ।।6.86.11।। Yuddha Kanda,86,12,तथैवसकलैर्वृक्षैर्गिरिशृङ्गैश्चवानराः । अभिजघ्नुजघ्नुश्चसमरेराक्षसर्षभान् ।।6.86.12।। Yuddha Kanda,86,13,ऋक्षवानरमुख्यैश्चमहाकायैर्महाबलैः । रक्षसांयुध्यमानानांमहद्भयमजायत ।।6.86.13।। Yuddha Kanda,86,14,स्वमनीकंविषण्णंतुश्रुत्वाशत्रुभिरर्दितम् । उदतिष्ठतदुर्दर्षः स कर्मण्यननुष्ठिते ।।6.86.14।। Yuddha Kanda,86,15,वृक्षान्धकारान्निर्गम्यजातक्रोधः स रावणिः । आरुरोहरथंसज्जंपूर्वयुक्तंसुसंयतम् ।।6.86.15।। Yuddha Kanda,86,16,स भीमकार्मुकधरःकालमेघसमप्रभ: । रक्तास्यनयनोकृद्धोमभौमृत्युरिवान्तकः ।।6.86.16।। Yuddha Kanda,86,17,दृष्टवैवतुरथस्थंतंपर्यवर्तततद्बलम् । रक्षसांभीमवेगानांलक्ष्मणेनयुयुत्सताम् ।।6.86.17।। Yuddha Kanda,86,18,तस्मिन् कालेतुहनूमानुद्यम्यसुदुरासदम् । धरणीधरसङ्काशोमहावृक्षमरिन्दमः ।।6.86.18।। Yuddha Kanda,86,19,स राक्षसानांतत्सैन्यंकालाग्निरिवनिर्दहन् । चकारबहुभिर्वक्षैर्निःसंज्ञंयुधिवानरः ।।6.86.19।। Yuddha Kanda,86,20,विध्वंसन्तंतरसादृष्टवैवपवनात्मजम् । राक्षसानांसहस्राणिहनूमन्तमवाकिरन् ।।6.86.20।। Yuddha Kanda,86,21,शितशूलधराश्शूलैरसिभिश्चासिपाणयः । शक्तिहस्ताश्चभिश्शक्तिपट्टसै: पट्टसायुधाः ।।6.86.21।। Yuddha Kanda,86,22,परिघैश्चगदाभिश्चकुन्तैश्चशुभदर्शनैः । शतशश्चशतघ्नीभिरायसैरपिमुद्गरैः ।।6.86.22।। Yuddha Kanda,86,23,घोरैःपरशुभिश्चैवभिदनिपालैश्चराक्षसाः । मुष्टिभिर्वज्रकल्पैश्चतलैरशनिसन्निभैः ।।6.86.23।। Yuddha Kanda,86,24,अभिजघ्नुःसमासाद्यसमन्तात्पर्वतोपमम् । तेषामपि च सङ्ग्रुद्धश्चकारकदनंमहत् ।।6.86.24।। Yuddha Kanda,86,25,स ददर्शकपिश्रेष्ठमचलोपममिन्द्रजित् । सूदमानमसन्त्रस्तममित्रान् पवनात्मजम् ।।6.86.25।। Yuddha Kanda,86,26,स सारथिमुवाचेदंयाहियत्रैषवानरः । क्षयमेवहिनःकुर्याद्राक्षसामुपेक्षितः ।।6.86.26।। Yuddha Kanda,86,27,इत्युक्तस्सारथिस्तेनययौयत्र न मारुतिः । वहन् परमदुर्धर्षंस्थितमिन्द्रजितंरथे ।।6.86.27।। Yuddha Kanda,86,28,सोऽभ्युपेत्यशरान्खङ्गान्पट्टसासिपरश्वधान् । अभ्यवर्षतदुर्धर्षःकपिमूर्थनिराक्षसः ।।6.86.28।। Yuddha Kanda,86,29,तानिशस्त्राणिघोराणिप्रतिगृह्य स मारुतिः । रोषेणमहताविष्टोवाक्यंचेदमुवाच ह ।।6.86.29।। Yuddha Kanda,86,30,युध्यस्वयदिशूरोऽसिरावणात्मजदुर्मते । वायुपुत्रंसमासाद्य न जीवन् प्रतियास्यसि ।।6.86.30।। Yuddha Kanda,86,31,बाहुभ्यांसम्प्रतियुध्यस्वयदिमेद्वन्द्वमाहवे । वेगंसहस्वदुर्बुद्धेततस्त्वंरक्षसांवरः ।।6.86.31।। Yuddha Kanda,86,32,हनूमन्तंजिघांसन्तंसमुद्यतशरासनम् । रावणात्मजमाचष्टे लक्ष्मणाय विभीषण: ।।6.86.32।। Yuddha Kanda,86,33,यस्सवासवनिर्जेतारावणस्यात्मसम्भवः । स एषरथमास्थायहनूमन्तंजिघांसति ।।6.86.33।। Yuddha Kanda,86,34,तमप्रतिमसंस्थानैश्शरैश्शत्रुनिवारणैः । जीवितान्तकरैर्घोरैःसौमित्रेरावणिंजहि ।।6.86.34।। Yuddha Kanda,87,1,एवमुक्त्वातुसौमित्रिंजातहर्षोविभीषणः । धनुष्पाणिंनमादायत्वरमाणोजगामसः ।।6.87.1।। Yuddha Kanda,87,2,अविदूरंततोगत्वाप्रविश्यतुमहद्वनम् । दर्शमामासतत्कर्मलक्ष्मणातविभीषणः ।।6.87.2।। Yuddha Kanda,87,3,नीलजीमूतसङ्काशंन्यग्रोधंभीमदर्शनम् । तेजस्वीरावणभ्रातालक्ष्मणायन्यवेदयत् ।।6.87.3।। Yuddha Kanda,87,4,इहोपहारंभूतानांबलवान्रावणात्मजः । उपहृत्यततःपश्चात्सङ्ग्राममभिवर्तते ।।6.87.4।। Yuddha Kanda,87,5,अदृश्टस्सर्वभूतानांततोभवतिराक्षसः । निहन्तिसमरेशत्रून् बध्नाति च शरोत्तमैः ।।6.87.5।। Yuddha Kanda,87,6,तमप्रविष्टंन्यग्रोधंबलिनंरावणात्मजम् । विध्वंसयशरैर्दीप्टै: सरथंसाश्वसारथिम् ।।6.87.6।। Yuddha Kanda,87,7,तथेत्युक्त्वामहातेजास्सौमित्रिर्मित्रनन्दनः । बभूवावस्थितस्तत्रचित्रंविस्फारयन्? धनुः ।।6.87.7।। Yuddha Kanda,87,8,स रथेनाग्निवर्णेनबलवान्रावणात्मजः । इन्द्रजित्कवचीखङ्गीसध्वजःप्रत्यदृश्यत ।।6.87.8।। Yuddha Kanda,87,9,तमुवाचमहातेजाःपौलस्त्यमपराजितम् । समह्वयेत्वांसमरेसम्यग्युद्धंप्रयच्छमे ।।6.87.9।। Yuddha Kanda,87,10,एवमुक्तोमहातेजामनस्वीरावणात्मजः । अब्रवीत्परुषंवाक्यंतत्रदृष्टवाविभीषणम् ।।6.87.10।। Yuddha Kanda,87,11,इहत्वंजातसम्वृद्धःसाक्षाद्भ्रातापितुर्मम । कथंद्रुह्यसिपुत्रस्यपितृव्योममराक्षस ।।6.87.11।। Yuddha Kanda,87,12,न ज्ञातित्वं न सौहार्धं न जातिस्तवदुर्मते । प्रमाणं न च सौदर्यं न धर्मोधर्मदूषण ।।6.87.12।। Yuddha Kanda,87,13,शोच्यस्त्वमसिदुर्बुद्धेनिन्दनीयश्चसाधुभिः । यस्त्वंस्वजनमुत्सृज्यपरभृत्यत्वमागतः ।।6.87.13।। Yuddha Kanda,87,14,नैतछचिथिलयाबुद्ध्यात्वंवेसतिमहदन्तरम् । क्व च स्वजनसम्वासःक्व च नीचपराश्रयः ।।6.87.14।। Yuddha Kanda,87,15,गुणवान्वापरजनःस्वजनोनिर्गुणोऽपिवा । निर्गुणःस्वजनःश्रेयान् यःपरःपरएवसः ।।6.87.15।। Yuddha Kanda,87,16,यसस्स्वपक्षंपरित्यज्यपरपक्षंनिषेवते । स स्वपक्षेक्ष्यंप्राप्तेपश्चास्त्तैरेवहन्यते ।।6.87.16।। Yuddha Kanda,87,17,निरनुक्रोशताचेयंयादृशीतेनिशाचर । स्वजनेनत्वयाशक्यंपौरुषंरावणानुज ।।6.87.17।। Yuddha Kanda,87,18,इत्युक्तोभ्रातृपुत्रेणप्रत्युवाचविभीषणः । अजानन्निवमछचीलंकिंराक्षसविकत्थसे ।।6.87.18।। Yuddha Kanda,87,19,राक्षसेन्द्रसुतासाधोपारुष्यंत्यजगौरवात् । कुलेयद्यप्यहंजातोरक्षसांक्रूरकर्मणाम् ।।6.87.19।। गुणोयःप्रथमोनृणंतन्मेशीलमराक्षसम् । Yuddha Kanda,87,20,न रमेदारुणेनाहं न चाधर्मेणवैरमे ।।6.87.20।। भ्रात्राविषशीलोऽपिकथंभ्रातानिरस्यते । Yuddha Kanda,87,21,धर्मात्प्रच्युतशीलंहिपुरुषंपापनिश्चयम् ।।6.87.21।। त्यक्त्वासुखमवाप्नोतिहस्तादाशीविषंयथा । Yuddha Kanda,87,22,परस्वहरणेयुक्तंपरदाराभिमर्शकम् ।।6.87.22।। त्याज्यमाहुर्दुरात्मानंवेश्मप्रज्वलितंयथा । Yuddha Kanda,87,23,परस्वानां च हरणंपरदाराभिमर्शनम् ।।6.87.23।। सुहृदामतिशङ्का च त्रयोदोषाःक्षयावहाः । Yuddha Kanda,87,24,महर्षीणांवधोघोरस्सर्वदेवैश्चविग्रहः ।।6.87.24।। Yuddha Kanda,87,25,अभिमानश्चदोषश्चवैरित्वंप्रतिकूलता । एतेदोषाममभ्रातुर्जीवितैश्वर्यनाशनाः ।।6.87.25।। गुणान्प्रच्छादयामासुःपर्वतानिवतोयदाः । Yuddha Kanda,87,26,दोषैरेतैःपरित्यक्तोमयाभ्रातापितातव ।।6.87.26।। नेयमस्तिपुरीलङ्का न च त्वं न च तेपिता । Yuddha Kanda,87,27,अतिमाननी च बालश्चदुर्विनीतश्चराक्षस । बद्धस्त्वंकालपाशेनब्रूहिमांयद्यदिच्छसि ।।6.87.27।। Yuddha Kanda,87,28,अद्यतेव्यसनंप्राप्तंकिंमांत्वामिहवक्ष्यसि । प्रवेष्टुं न त्वयाशक्यंन्यग्रोधंराक्षसाधम ।।6.87.28।। Yuddha Kanda,87,29,धर्षयित्वा च काकुत्स्थं न शक्यंजीवितुंत्वया । युध्यस्वनरदेवेनलक्ष्मणेनरणेसह ।।6.87.29।। हतस्त्वंदेवताकार्यंकरिष्यसियमक्षये । Yuddha Kanda,88,1,विभीषणवच्श्रुत्वारावणिःक्रोधमूर्छितः । अब्रवीत्परुषंवाक्यंवेगेनाभ्युत्पपात च ।।6.88.1।। Yuddha Kanda,88,2,उद्यतायुधनिस्त्रिंशोरथेसुसमलङ्कृते । कालाश्वयुक्तेमहतिस्थितःकालान्तकोपमः ।।6.88.2।। Yuddha Kanda,88,3,महाप्रमाणमुद्यम्यविपुलंवेगवद्धृढम् । धनुर्बीमंपरामृश्यशरांश्चामित्रनाशनान् ।।6.88.3।। Yuddha Kanda,88,4,तंददर्शमहेष्वासोरथस्थस्समलङ्कृतः । अलङ्कृतममित्रघ्नोराघवस्यानुजंबली ।।6.88.4।। Yuddha Kanda,88,5,हनुमत्पृष्ठरूढमुदस्थरविप्रभम् । उवाचैनंसमारब्ध: सौमित्रिंसविभीषणम् ।।6.88.5।। तांश्चवानरशार्दूलान् पश्यध्वंमेपराक्रमम् । Yuddha Kanda,88,6,अद्यमत्कार्मुकोत्सृष्टंशरवर्षंदुरासदम् ।।6.88.6।। मुक्तंवर्षमिवाकाशेवारयिष्यथसंयुगे । Yuddha Kanda,88,7,अद्यवोमामकाबाणामहाकार्मुनिस्सृताः ।।6.88.7।। विधमिष्यन्तिगात्राणितूलराशिमिवानलः । Yuddha Kanda,88,8,तीक्षणसायकनिर्भन्नान्शूलशक्त्यृष्टितोमरैः ।।6.88.8।। अद्यवोगमयिष्यामिसर्वानेनयमक्षयम् । Yuddha Kanda,88,9,क्षिपतश्शरवर्षाणिक्षिप्रहस्तस्यसम्युगे ।।6.88.9।। जीमूतस्येननदतःकःस्थास्यतिममाग्रतः । Yuddha Kanda,88,10,रात्रियुद्धेमयापूर्वंवज्राशनिसमैःशरैः ।।6.88.10।। शायितौस्थोमयाभूमौविसंज्ञौसपुरस्सरौ । Yuddha Kanda,88,11,स्मृतिर्नतेऽस्तिवामन्येव्यक्तंवायमसादनम् ।।6.88.11।। आशीविषमिवक्रुद्धंयन्मांयोद्धुव्यवत्थित: । Yuddha Kanda,88,12,तच्छ्रुत्वाराक्षसेन्द्रस्यगर्जितंलक्ष्मणस्तदा ।।6.88.12।। अभीतवदनःक्रुद्धोरावणिंवाक्यमब्रवीत् । Yuddha Kanda,88,13,उक्तश्चदुर्गमःपारःकार्याणांराक्षसत्वया ।।6.88.13।। कार्याणांकर्मणांपारंयोगच्छति स बुद्धिमान् । Yuddha Kanda,88,14,सत्वमर्थस्यहीनार्थोदुरवासस्यकेनचित् ।।6.88.14।। वाचाव्याहृत्यजानीषेकृतार्थोऽस्मीतिदुर्मते । Yuddha Kanda,88,15,अन्तर्धानगतेनाजौयस्त्वयाचरितस्तदा ।।6.88.15।। तस्कराचरितोमार्गःनैषवीरनिषेवितः । Yuddha Kanda,88,16,यथाबाणपथंप्राप्यस्थितोऽहंतवराक्षस ।।6.88.16।। दर्शयस्वाद्यतत्तेजोवाचात्वंकिंविकत्थसे । Yuddha Kanda,88,17,एवमुक्तोधनुर्भीमंपरामृश्यमहाबलः ।।6.88.17।। ससर्जनिशितान्बाणानिंद्रजित्समितिञ्जयः । Yuddha Kanda,88,18,तेनिसृष्टामहावेगाःशराःसर्पविषोपमाः ।।6.88.18।। सम्प्राप्यलक्ष्मणंपेतुःश्वसन्तइवपन्नगाः । Yuddha Kanda,88,19,रैरतिमहावेगैर्वेगवान्रावणात्मजः ।।6.88.19।। सौमित्रिमिन्द्रजिद्युद्धेविव्याधशुभलक्षणम् । Yuddha Kanda,88,20,सशरैरतिविद्धाङ्गोरुधिरेणसमुक्षितः ।।6.88.20।। शुशुभेलक्ष्मणःश्रीमान्विधूमइवपावकः । Yuddha Kanda,88,21,इन्द्रजित्त्वात्मनःकर्मप्रसमीक्ष्याधिगम्य च ।।6.88.21।। विनद्यसुमहानादमिदंवचनमब्रवीत् । Yuddha Kanda,88,22,पत्रिणःशितधारास्तेकरामत्कार्मुकच्युताः ।।6.88.22।। आदास्यन्तेऽद्यसौमित्रेजीवितंजीवितान्तकाः । Yuddha Kanda,88,23,अद्यगोमायुसङ्घाश्चश्येनसङ्घाश्चलक्ष्मण ।।6.88.23।। गृध्राश्चनिपतन्तुत्वांगतासुंनिहतंमया । Yuddha Kanda,88,24,क्षत्रबन्धुंसदानार्यंरामःपरमदुर्मतिः ।।6.88.24।। भक्तम्भ्रातरमद्यैवत्वांद्रक्ष्यतिहतंमया । Yuddha Kanda,88,25,विशस्तकवचंभूमौव्यपविद्धशराससनम् ।।6.88.25।। हृतोत्तमाङ्गंसौमित्रत्वामद्यनिहतंमया । Yuddha Kanda,88,26,इतिब्रुवाणंसङ्कृद्ध: परुषंरावणात्मजम् ।।6.88.26।। हेतुमद्वाक्यमत्यर्थंलक्ष्मणःप्रत्युवाच ह । Yuddha Kanda,88,27,वाग्बलंत्यजदुर्बुद्धेक्रूरकर्मासिराक्षस ।।6.88.27।। अथकस्माद्वदस्येतत्सम्पादयसुकर्मणा । Yuddha Kanda,88,28,कृत्वाकत्थसेकर्मकिमर्थमिहराक्षस ।।6.88.28।। कुरुतत्कर्मयेनाहंश्रद्धध्यांतवकत्थनम् । Yuddha Kanda,88,29,अनुक्त्वापरुषंवाक्यंकिञ्चिदप्यनवक्षिपन् ।।6.88.29।। अविकत्थन्वधिष्यामित्वांपश्यपुरुषाधम । Yuddha Kanda,88,30,इत्युक्त्वापञ्चनाराचानाकर्णापूरितान् शितान् ।।6.88.30।। निजघानमहावेगाल्लक्ष्मणोराक्षसोरसि । Yuddha Kanda,88,31,सुपत्रवाजिताबाणाज्वलिताइवपन्नगाः ।।6.88.31।। नैरृतोरस्यभासन्तसवितूरश्मयोयथा । Yuddha Kanda,88,32,सःशरैराहतस्तेनसरोषोरावणात्मजः ।।6.88.32।। सुप्रयुक्तैस्त्रिभिर्भाणैःप्रतिविव्याधलक्ष्मणम् । Yuddha Kanda,88,33,सःबभूवमहाभीमोनरराक्षससिंहयोः ।।6.88.33।। विमर्दस्तुमुलोयुद्धेपरस्परजयैषिणोः । Yuddha Kanda,88,34,उभौहिबलसम्पन्नावुभौविक्रमशालिनौ ।।6.88.34।। उभौपरमदुर्ज्ञेयावतुल्यबलतेजसौ । Yuddha Kanda,88,35,युयुधातेतदावीरौग्रहाविवनभोगतौ ।।6.88.35।। बलवृत्राविवाभीतौयुधितौदुष्प्रधर्षणौ । Yuddha Kanda,88,36,युयुधातेमहात्मानौतदाकेसरिणाविव ।।6.88.36।। Yuddha Kanda,88,37,बहूनवसृजन्तौहिमार्गणौघानवस्थितौ । नरराक्षससिम्होतौप्रहृष्टावभ्ययुध्यताम् ।।6.88.37।। Yuddha Kanda,89,1,ततश्शरान् दाशरथिस्सन्धायामित्रकर्शणः । ससर्जराक्षसेन्द्रायकृद्धस्सर्पइवश्वसन् ।।6.89.1।। Yuddha Kanda,89,2,तस्यज्यातलनिर्घोषं स श्रुत्वाराक्षसाधिपः । विवर्णवदनोभूत्वालक्ष्मणंसमुदैक्षत ।।6.89.2।। Yuddha Kanda,89,3,विषण्णवदनंदृष्टवाराक्षसंरावणात्मजे । सौमित्रिंयुद्धसंयुक्तंप्रत्युवाचविभीषणः ।।6.89.3।। Yuddha Kanda,89,4,निमित्तान्युपपश्यामियान्यस्मिन् रावणात्मजे । त्वरतेनमहाबाहोभग्नएष न संशयः ।।6.89.4।। Yuddha Kanda,89,5,ततस्सन्धायसौमित्रिश्शरानग्निशिखोपमान् । मुमोचनिशितांस्तस्मिन् सर्पानिवमहाविषान् ।।6.89.5।। Yuddha Kanda,89,6,शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतश्शरैः । मुहूर्तमभवन्मूक्षःसर्वसंक्षुभितेन्द्रियः ।।6.89.6।। Yuddha Kanda,89,7,उपलभ्यमुहूर्तेनसंज्ञांप्रत्यागतेन्द्रियः । ददर्शावस्थितंवीरंवीरोदशरथात्मजम् ।।6.89.7।। Yuddha Kanda,89,8,सोऽभिचक्रामसौमित्रिंरोषात्संरक्तलोचनः । अब्रवीच्चैनमासाद्यपुनस्सपरुषंवचः ।।6.89.8।। Yuddha Kanda,89,9,किं न स्मरसितद्युद्धेप्रथमेमत्पराक्रमम् । निबद्धस्त्वंसहभ्रात्रायदाभुविविचेष्टसे ।।6.89.9।। Yuddha Kanda,89,10,युवांखलुमहायुद्धेशक्रानिसमैश्शरैः । शायितौप्रथमंभूमौविसंज्ञौसपुरस्सरौ ।।6.89.10।। Yuddha Kanda,89,11,स्मृतिर्वानास्तितेमन्येव्यक्तंवायमसादनम् । गन्तुमिच्छसियस्मात्त्वमंधर्षयितुमिच्छसि ।।6.89.11।। Yuddha Kanda,89,12,यदितेप्रथमेयुद्धे न दृष्टोमत्पराक्रमः । अद्यतेदर्शयिष्यामितिष्ठेदानींव्यवस्थितः ।।6.89.12।। Yuddha Kanda,89,13,इत्युक्त्वासप्तभिर्भाणैरभिविव्याथलक्ष्मणम् । दशभिस्तुहनूमन्तंतीक्ष्णधाश्शरोत्तमैः ।।6.89.13।। Yuddha Kanda,89,14,ततःशरशतेनैवसुप्रयुक्तेनवीर्यवान् । क्रोथाव्दिगुणसम्रब्धोनिर्बिभेदविभीषणम् ।।6.89.14।। Yuddha Kanda,89,15,तद्दष्टवेन्द्रजिताकर्मकृतंरामानुजस्तदा । अचिन्तयित्वाप्रहसन्नैतत्किञ्चिदितिब्रुवन् ।।6.89.15।। Yuddha Kanda,89,16,मुमोच च शरान् घोरान् सम्गृह्यनरपुङ्गवः । अभीतवदनःक्रुद्धोरावणिंलक्ष्मणोयुधि ।।6.89.16।। Yuddha Kanda,89,17,नैवंरणगताःशूराःप्रहरन्तिनिशाचर । लघवश्चाल्पवीर्याश्चशरासुखास्तवहीमे ।।6.89.17।। Yuddha Kanda,89,18,नैवंशूरास्तुयुध्यन्तेसमरेजयकाङ्क्षिणः । इत्येवंतंब्रुवाणस्तुधन्वीशरैरभिववर्ष ह ।।6.89.18।। Yuddha Kanda,89,19,स्यबाणैस्सुविध्वस्तंकवचंकाञ्चनंमहत् । व्यशीर्यतरथोपस्थेताराजालमिव्बारात् ।।6.89.19।। Yuddha Kanda,89,20,विधूतवर्मानाराचैर्भभूव स कृतव्रणः । इन्द्रजित्समरेवीरःप्रत्यूषेभानुमानिव ।।6.89.20।। Yuddha Kanda,89,21,ततःशरसहस्रेणसङ्क्रुद्धोरावणात्मजः । बिभेदसमरेवीरोलक्ष्मणंभीमविक्रमः ।।6.89.21।। Yuddha Kanda,89,22,व्यशीर्यतमहद्धिव्यंकवचंलक्ष्मणस्य च । कृतप्रतिकृतान्योन्यंबभूवतुरभिद्रुतौ ।।6.89.22।। Yuddha Kanda,89,23,अभीक्ष्णंनिश्श्वसन्तौतौयुध्येतांतुमुलंयुधि । शरसङ्कृत्तसर्वाङ्गौसर्वतोरुधिरोक्षितौ ।।6.89.23।। Yuddha Kanda,89,24,सुदीर्घकालंतौवीरावन्योन्यनिशितैःशरैः । ततक्षतुर्महात्मानौरणकर्मविहारदौ ।।6.89.24।। Yuddha Kanda,89,25,बभूवतुश्चात्मजयेयत्तौभीमपराक्रमौ । तौशरौघैस्तदाकीर्णौनिकृत्तकवचध्वजौ ।।6.89.25।। सृजन्तौरुधिरंचोष्णंजलंप्रस्रवणाविव । Yuddha Kanda,89,26,शरवर्षंततोघोरंमुञ्चतोर्भीमनिःस्वनम् ।।6.89.26।। Yuddha Kanda,89,27,सासारयोरिवाकाशेनीलयोःकालमेघयोः । तयोरथमहान्कालोव्यत्ययाद्युध्यमानयोः ।।6.89.27।। न च तौयुद्धवैमुख्यंश्रमंवाप्युपजग्मतुः । Yuddha Kanda,89,28,अस्त्राण्यस्त्रविदांश्रेष्ठौदर्शयन्तौपुनःपुनः ।।6.89.28।। शरानुच्छावचाकारानन्तरिक्षेबबन्धतुः । Yuddha Kanda,89,29,न्यपेतदोषमस्यन्तौलघुचित्रं च सुष्ठु च ।।6.89.29।। उभौतुतुमुलंघोरंचक्रतुर्नरराक्षसौ । Yuddha Kanda,89,30,तयोःपृथक् पृथभगीमश्शुश्रुवेतलनिस्स्वनः ।।6.89.30।। प्रकम्पयन्जनंघोरोनिर्घातइवदारुणः । Yuddha Kanda,89,31,सतयोःभ्राजतेशब्दस्तदासमरयत्तयोः ।।6.89.31।। सुघोरयोर्निष्टनतोर्गगनेमेघयोरिव । Yuddha Kanda,89,32,सुवर्णपुङ्खैर्नाराचैर्बलवन्तौकृतव्रणौ ।।6.89.32।। प्रसुस्रुवातेरुधिरंकीर्तिमन्तौजयेधृतौ । Yuddha Kanda,89,33,तेगात्रयोर्निपतितारुक्मपुङ्खाःशरायुधि ।।6.89.33।। असृदगिग्धाविनिष्पेतुर्विविशुर्धरणीतलम् । Yuddha Kanda,89,34,अन्येसुनिशितैश्शस्त्रैराकाशेसञ्जघट्टिरे ।।6.89.34।। बभञ्जुश्चिच्छिदुश्चैवतयोर्बाणाःसहस्रशः । Yuddha Kanda,89,35,सबभूवरणेघोरस्तयोर्बाणमयश्चयः ।।6.89.35।। अग्निभ्यामिवदीप्ताभ्यांसत्रेकुशमयश्चयः । Yuddha Kanda,89,36,तयोःकृतव्रणौदेहौशुशुभातेमहात्मनोः ।।6.89.36।। सुपुष्पाविवनिष्पत्रौवनेशाल्मलिकिंशुकौ । Yuddha Kanda,89,37,चक्रतुस्तुमुलंघोरंसन्निपातंमुहुर्मुहुः ।।6.89.37।। इन्द्रजिल्लक्ष्मणश्चैवपरस्परवधैषिणौ । Yuddha Kanda,89,38,लक्ष्मणोरावणिंयुद्धेरावणिश्चापिलक्ष्मणम् ।।6.89.38।। अन्योन्यंतावभिघ्नन्तौ न श्रमंप्रतिपद्यताम् । Yuddha Kanda,89,39,बाणजालैश्शरीरस्थैरवगाढैस्तरस्विनौ ।।6.89.39।। शुशुभातेमहावीर्यौप्ररूढाविवपर्वतौ । Yuddha Kanda,89,40,तयोरुधिरसिक्तानिसम्वृतान्तिशरैर्भृशम् ।।6.89.40।। बभ्राजुःसर्वगात्राणिज्वलन्तइवपावकाः । Yuddha Kanda,89,41,तयोरथमहान् कालोव्यतीयाद्युध्यमानयोः ।।6.89.41।। न च तौयुद्धवैमुख्यंश्रमंवाप्युपजग्मतुः । Yuddha Kanda,90,1,युध्यमानौतुतौदृष्टवाप्रसक्तौनरराक्षसौ । प्रभिन्नाविवमातङ्गौपरस्परवधैषिणौ ।।6.90.1।। Yuddha Kanda,90,2,तौद्रष्टुकामस्सङ्ग्रामेपरस्परगतौबली । शूरस्सरावणभ्रातातस्थौसङ्ग्राममूर्धनि ।।6.90.2।। Yuddha Kanda,90,3,ततोविष्फारयामासमहद्धनुरवस्थितः । उत्ससर्ज च तीक्ष्णाग्रान् राक्षसेषुमहाशरान् ।।6.90.3।। Yuddha Kanda,90,4,तेशराःशिखिसम्पर्शानिपतन्तस्समाहिताः । राक्षसान् दारयामासुर्वज्राणीवमहागिरीन् ।।6.90.4।। Yuddha Kanda,90,5,विभीषणस्यानुचरास्तेपिशूलासिपट्टसै: । चिच्छिदुःसमरेवीरान्राक्षसान्राक्षसोत्तमाः ।।6.90.5।। Yuddha Kanda,90,6,राक्षसैस्स्सैःपरिवृतस्सतदातुविभीषणः । बभौमध्येप्रहृष्टानामाकलभानामिवद्विपः ।।6.90.6।। Yuddha Kanda,90,7,ततस्स्संञ्चोदयानोवैहरीन्रक्षोरणप्रियान् । उवाचवचनंकालेकालज्ञोरक्षसांवरः ।।6.90.7।। Yuddha Kanda,90,8,एकोऽयंराक्षसेन्द्रस्यपरायणमवस्थितः । एतच्छेषंबलंतस्यकिंतिष्ठतहरीश्वराः ।।6.90.8।। Yuddha Kanda,90,9,अस्मिंन्विनिहतेपापेराक्षसेरणमूर्थनि । रावणंवर्जयित्वातुशेषमस्यबलंहतम् ।।6.90.9।। Yuddha Kanda,90,10,प्रहस्तोनिहतोवीरोनिकुम्भश्चमहाबल. । कुम्भकर्णश्चकुम्भश्चधूम्राक्षश्चनिशाचरः ।।6.90.10।। Yuddha Kanda,90,11,जम्बुमालीमहामालीतीक्ष्णवेगोऽशनिप्रभः । सुप्तघ्नोयज्ञकोपश्चवज्रदंष्ट्रश्चराक्षसः ।।6.90.11।। Yuddha Kanda,90,12,सम्ह्रादीविकटोऽरिघ्नस्तपनोदमएव च । प्रघासःप्रघसश्चैवप्रजङ्घोजङ्घएव च ।।6.90.12।। Yuddha Kanda,90,13,अग्निकेतुश्चदुर्धर्षोरश्मिकेतुश्चवीर्यवान् । विद्युज्जिह्वाद्विजिह्वश्चसूर्यशत्रुश्चराक्षसः ।।6.90.13।। Yuddha Kanda,90,14,अकम्पनःसुपार्श्वश्चचक्रमाली च राक्षसः । कम्पनस्सत्त्ववन्तौतौदेवान्तकनरान्तकौ ।।6.90.14।। Yuddha Kanda,90,15,एतान्निहत्यातिबलान्बहून्राक्षससत्तमान् । बाहुभ्यांसागरंतीर्त्वालङ्घ्यतांगोष्पदं लघु ।6.90.15।। Yuddha Kanda,90,16,एतावदेवशेषंवोजेतव्यमिहवानराः । हतास्सर्वेसमागम्यराक्षसाबलदर्पिताः ।।6.90.16।। Yuddha Kanda,90,17,अयुक्तंनिधनंकर्तुंपुत्रस्यजनितुर्मम । घृणामपास्यरामार्थेनिहन्यांभ्रातुरात्मजम् ।।6.90.17।। Yuddha Kanda,90,18,हन्तुकामस्यमेबाष्पंचक्षुश्चैवनिरुध्यति । तमेवैषमहाबाहुर्लक्ष्मणश्शमयिष्यति ।।6.90.18।। वानराघ्नतसम्भूयभृत्यानस्यसमीपगान् । Yuddha Kanda,90,19,इतितेनातियशसाराक्षसेनाभिचोदिताः ।।6.90.19।। वानरेन्द्राजहृषिरेलाङ्गूलानि च विव्यधुः । Yuddha Kanda,90,20,ततस्तुकपिशार्दूलाःश्रवेन्तःश्चपुनःपुनः ।।6.90.20।। मुमुचुर्विविधान्नादान्मेघान् दृष्टवेवबर्हिणः । Yuddha Kanda,90,21,जाम्बवानपितैःसर्वैःसयूथ्यैरभिसम्वृतः ।।6.90.21।। तेऽश्मभिस्ताडयामासुर्नखैर्धन्स्सैश्चराक्षसान् । Yuddha Kanda,90,22,निघ्नन्तमृक्षाधिपतिंराक्षसास्तेमहाबलाः ।।6.90.22।। परिवव्रुर्भयंत्यक्त्वातमनेकविधायुथाः । Yuddha Kanda,90,23,शरैःपरशुभिस्तीक्ष्णैःपट्टिशैर्यष्टितोमरैः ।।6.90.23।। जाम्बवन्तंमृधेजघ्नुर्निघ्नन्तंराक्षसींचमूम् । Yuddha Kanda,90,24,स सम्प्रहारस्तुमुलःसञ्जज्ञेकपिरक्षसाम् ।।6.90.24।। देवासुराणांक्रुद्धानांयथाभीमोमहास्वनः । Yuddha Kanda,90,25,हनुमानपिसङ्क्रुद्धःसानुमुत्पाट्यपर्वतात् ।।6.90.25।। Yuddha Kanda,90,26,स लक्ष्मणंस्वयंपृष्ठादवरोप्यमहामनाः । रक्षसांकदनंचक्रेसमासाद्यसहस्रशः ।।6.90.26।। Yuddha Kanda,90,27,स दत्त्वातुमुलंयुद्धंपितृव्यस्येन्द्रजत् बली । लक्ष्मणंपरवीरघ्नःपुनरेवाभ्यधावत ।।6.90.27।। Yuddha Kanda,90,28,तौप्रयुद्दौतदावीरौमृधेलक्ष्मणराक्षसौ । शरौघानभिवर्षन्तौजघ्नतुस्तौपरस्परम् ।।6.90.28।। Yuddha Kanda,90,29,अभीक्षणमन्तर्धदतुश्शरजालैर्महाबलौ । चन्द्रादित्याविवोष्णान्तेयथामेघैस्तरस्विनौ ।।6.90.29।। Yuddha Kanda,90,30,न ह्यादानं न सन्धानंधनुषोवापरिग्रहः । न विप्रमोक्षोबाणानां न विकर्षो न विग्रहः ।।6.90.30।। Yuddha Kanda,90,31,न मुष्टिप्रतिसन्धानं न लक्ष्यप्रतिपादनम् । अदृश्यततयोस्तत्रयुध्यतोःपाणिलाघवात् ।।6.90.31।। Yuddha Kanda,90,32,चापवेगप्रयुक्स्सैश्चबाणजालैःसमन्ततः । अन्तरिकेऽभिसम्पन्ने न रूपाणिचकाशिरे ।।6.90.32।। Yuddha Kanda,90,33,लक्ष्मणोरावणिंप्राप्यरावणिश्चापिलक्ष्मणम् । अव्यवस्थाभवत्युग्राताभ्यामन्योन्यविग्रहे ।।6.90.33।। Yuddha Kanda,90,34,ताभामुभाभ्यांतरसाप्रसृष्टैर्विशिखैःशितैः । निरन्तरमिवाकाशंबभूवतमसावृतम् ।।6.90.34।। Yuddha Kanda,90,35,तैःपतभदिश्चबहुभिस्तयोःशरशतैःशितैः । दिशश्चप्रदिशश्चैवबभूवुःशरसङ्कुलाः ।।6.90.35।। Yuddha Kanda,90,36,तमसापिहितंसर्वमासीत्प्रतिभयंमहत् । अस्तंगतेसहस्रांशेसम्वृतेतमसा च वै ।।6.90.36।। रुधिरौघामहानद्यःप्रावर्तन्तसहस्रशः । Yuddha Kanda,90,37,क्रव्यादादारुणावाग्भिश्चिक्षिपुर्भीमनिःस्वनान् ।।6.90.37।। न तदानींवनौवायुर्न च जज्वालपावकः । Yuddha Kanda,90,38,स्व्स्त्वस्तुलोकेभ्यइतिजजल्पुस्तेमहर्षयः ।।6.90.38।। सम्पेतुश्चात्रसन्तप्तागन्धर्वाःसहचारणैः । Yuddha Kanda,90,39,अथराक्षससिंहस्यकृष्णान् कनकभूषणान् ।।6.90.39।। शरैश्चतुर्भिःसौमित्रिद्विव्याधचतुरोहयान् । Yuddha Kanda,90,40,ततोऽपरेणभल्लेनपीतेननिशितेन च ।।6.90.40।। Yuddha Kanda,90,41,सम्पूर्णायतमुक्तेनसुपत्रेणसुवर्चसा । महेन्द्राशनिकल्पेनसूतस्यविचरिष्यतः ।।6.90.41।। Yuddha Kanda,90,42,स तेनबाणाशनिनातलशब्दानुवादिना । लाघवाद्राघवःश्रीमान् शिरःकायादपाहरत् ।।6.90.42।। Yuddha Kanda,90,43,स यन्तरिमहातेजाहतेमन्दोदरीसुतः । स्वयंसारथ्यमकरोत्सुनश्चधनुरस्प ृशत् ।।6.90.43।। Yuddha Kanda,90,44,तदद्भुतमभूत्तत्रसामर्थ्यंपश्यतांयुधि । हयेषुव्यग्रहस्तं त विव्याधनिशितैःशरैः ।।6.90.44।। धनुष्यथपुनर्व्यग्रेहयेषुमुमुचेशरान् । Yuddha Kanda,90,45,छिद्रेषुतेषुबाणौघैर्विचरन्तमभीतवत् ।।6.90.45।। अर्धयामाससमरेसौमित्रिःशीघ्रकृत्तमः । Yuddha Kanda,90,46,निहतंसारथिंदृष्टवासमरेरावणात्मजः ।।6.90.46।। प्रजहौसमरोद्धर्षंविषण्णः स बभूव ह । Yuddha Kanda,90,47,विषण्णवदनंदृष्टवाराक्षसंहरियूथपाः ।।6.90.47।। ततःपरमसम्हृष्टालक्ष्मणंचाभ्यपूजयन् । Yuddha Kanda,90,48,ततःप्रमाथीरभसःशरभोगन्धमादनः ।।6.90.48।। अमृष्यमाणाश्चत्वारश्चक्रुर्वेगंहरीश्वराः । Yuddha Kanda,90,49,तेचास्यहयमुख्येषुतूर्णमुत्पत्यवानराः ।।6.90.49।। चतुर्षुसुमहावीर्यानिपेतुर्भीमविक्रमाः । Yuddha Kanda,90,50,तेषामधिष्ठितानांतैर्वानरैःपर्वतोपमैः ।।6.90.50।। मुखेभ्योरुधिरंरक्तंहयानांसमवर्तत । Yuddha Kanda,90,51,तेहयामथिताभग्नाव्यसवोधरणींगताः ।।6.90.51।। Yuddha Kanda,90,52,तेनिहत्यहयांस्तस्यप्रमथ्य च महारथम् । पुनरुत्पत्यवेगेनतस्थुर्लक्ष्मणपार्श्वतः ।।6.90.52।। Yuddha Kanda,90,53,स हताश्वादवप्लुत्यरथान्मथितसारथिः । शरवर्षेणसौमित्रिमभ्यधावतरावणिः ।।6.90.53।। Yuddha Kanda,91,1,स हताश्वोमहातेजाभूमौतिष्ठन्निशाचरः । इन्द्रजित्परमक्रुद्धस्सजज्वालतेजसा ।।6.91.1।। Yuddha Kanda,91,2,तौधवनिनौजिघांसन्तवन्योन्यमिषुभिर्भृशम् । विजयेनाभिनिष्क्रान्तौवनेगजवृषाविव ।।6.91.2।। Yuddha Kanda,91,3,निबर्हयन्तश्चान्योन्यंतेराक्ष्वनौकसः । भर्तारं न जहुर्युद्धेसम्पतन्तस्ततस्ततः ।।6.91.3।। Yuddha Kanda,91,4,ततस्तान् राक्षसान् सर्वान् हर्षयन् रावणात्मजः । स्तुवानोहर्षमाणश्चइदंवचनमब्रवीत् ।।6.91.4।। Yuddha Kanda,91,5,तमसाबहुलेनेमास्सम्सक्तांसर्वतोदिशः । नेहविज्ञायतेस्वोवापरोवारक्षसोत्तमाः ।।6.91.5।। Yuddha Kanda,91,6,धृष्टंभवन्तोयुध्यन्तुहरीणांमोहनायवै । अहंतुरथमास्थायआगमिष्यामिसंयुगे ।।6.91.6।। Yuddha Kanda,91,7,तथाभवन्तःकुर्वन्तुयथेमेहिवनौकसः । न युध्येयुर्दुरात्मानःप्रविष्टेनगरंमयि ।।6.91.7।। Yuddha Kanda,91,8,इत्युक्त्वारावणसुतोवञ्चयित्वावनौकसः । प्रविवेशपुरींलङ्कांरथहेतोरमित्रहा ।।6.91.8।। Yuddha Kanda,91,9,स रथंभूषयित्वाथरुचिरंहेमभूषितम् । प्रासासिशरसंयुक्तंयुक्तंपरमवाजिभिः ।।6.91.9।। Yuddha Kanda,91,10,अधिष्ठितंहयज्ञेनसूतेनाप्तोपदेशिना । आरुरोहमहातेजारावणिःसमतिञ्जियः ।।6.91.10।। Yuddha Kanda,91,11,स राक्षसगणैर्मुख्यैर्वृतोमन्दोदरीसुतः । निर्ययौनगरावदीरःकृतान्तबलचोदितः ।।6.91.11।। Yuddha Kanda,91,12,सोऽभिनिष्क्रम्यनगरादिन्द्रजित्परवीरहा । अभ्ययाज्ञवनैरश्वैर्लक्ष्मणंसविभीषणम् ।।6.91.12।। Yuddha Kanda,91,13,ततोरथस्थमालोक्यसौमत्रीरावणात्मजम् । वानराश्चमहावीर्याराक्षसश्चविभीषणः ।।6.91.13।। विस्मयंपरमंजग्मुर्लाघवात्तस्यधीमतः । Yuddha Kanda,91,14,रावणिश्चापिसङ्क्रुद्धोरणेवानरयूथपान् ।।6.91.14।। पातयामासबाणौघैःशतशोऽथसहस्रशः । Yuddha Kanda,91,15,मण्डलीकृतधनूरावणिःसमतिञ्जयः ।।6.91.15।। हरीनभ्यहनत्कृद्धःपरंलाघवमास्थितः । Yuddha Kanda,91,16,तेवध्यमानाहरयोनाराचैर्भीमविक्रमैः ।।6.91.16।। सौमित्रिंशरणंप्राप्ताःप्रजापतिमिवप्रजाः । Yuddha Kanda,91,17,ततःसमरकोपेनज्वलितोरघुनन्दनः ।।6.91.17।। चिच्छेदकार्मुकंतस्यदर्शयन् पाणिलाघवम् । Yuddha Kanda,91,18,सोन्यऽत्कार्मुकम् मादायसज्जंचक्रेत्वरन्निव ।।6.91.18।। तदप्यस्यत्रिभिर्बाणैर्लक्ष्मणोनिरकृन्तत । Yuddha Kanda,91,19,अथैवंछिन्नधन्वानमाशीविषविषोपमैः ।।6.91.19।। विव्याधोरसिसौमित्रीरावणिंपञ्चभिःशरैः । Yuddha Kanda,91,20,तेतस्यकायंनिर्भिद्यमहाकार्मुकनिस्सृताः ।।6.91.20।। निपेतुर्धरणींबाणारक्ताइवमहोरगाः । Yuddha Kanda,91,21,भिन्नवर्मारुधिरंवमन्वक्त्रेणरावणिः ।।6.91.21।। जग्राहकार्मुकश्रेष्ठंदृढज्यंबलवत्तरम् । Yuddha Kanda,91,22,सःलक्ष्मणंसमुद्धिश्यपरंलाघवमाश्रितः ।।6.91.22।। ववर्षशरवर्षाणिवर्षाणीवपुरन्दरः । Yuddha Kanda,91,23,मुक्तमिन्द्रजितातत्तुशरवर्षमरिन्दमः ।।6.91.23।। अवारयदसम्भ्रान्तोलक्ष्मणःसुदुरासदम् । Yuddha Kanda,91,24,संदर्शयामासतदारावणिंरघुनन्दनः ।।6.91.24।। असम्ब्रान्तोमहातेजेस्तदद्भुतमिवाभवत् । Yuddha Kanda,91,25,तस्तान् राक्षसान् सर्वांस्त्रिभिरेकैकमाहवे ।।6.91.25।। Yuddha Kanda,91,26,अविध्यत्परमक्रुद्धश्शीघ्रास्त्रंसम्प्रदर्शयन् । राक्षसेन्द्रसुतंचापिबाणौघैस्समताडयत् ।।6.91.26।। Yuddha Kanda,91,27,सोऽतिविद्धोबलवताशत्रुणाशत्रुघातिना । असक्तंप्रेषयामासलक्ष्मणायबहून् शरान् ।।6.91.27।। Yuddha Kanda,91,28,तानप्राप्तान् शितैर्भाणैश्चिच्छेदपरवीरहा । सारथेरस्य च रणेरथिवोरघुसत्तमः ।।6.91.28।। शिरोजहारधर्मात्माभल्लेनानतपर्वणा । Yuddha Kanda,91,29,सूतास्तेहयास्तत्ररथमूहुरविक्लबाः ।।6.91.29।। मण्डलान्यभिधावन्तस्तदद्भुतमिवाभवत् । Yuddha Kanda,91,30,अमर्षवशमापन्नःसौमित्रिर्दृढविक्रमः ।।6.91.30।। प्रत्यविद्ध्यद्धयांस्तस्यशरैर्वित्रासयन् रणे । Yuddha Kanda,91,31,अमर्षमाणस्तत्कर्मरावणस्यसुतोबली ।।6.91.31।। विव्याथदशभिर्बाणैस्सौमित्रिंतममर्षणम् । Yuddha Kanda,91,32,तेतस्यवज्रप्रतिमाःशरास्सर्पविषोपमाः ।।6.91.32।। विलयंजग्मुरागत्यकवचंकाञ्चनप्रभम् । Yuddha Kanda,91,33,अभ्येद्यकवचंमत्वालक्ष्मणंरावणात्मजः ।।6.91.33।। Yuddha Kanda,91,34,ललाटेलक्ष्मणंबाणैस्सुपुङ्खैस्त्रिभिरिन्द्रजित् । अविध्यत्परमक्रुद्धःशीघ्रमस्त्रंप्रदर्शयन् ।।6.91.34।। Yuddha Kanda,91,35,तैःपृषत्कैर्ललाटस्थैश्शुशुभेरघुनन्दनः । रणाग्रेसमरश्लाघीत्रिशृङ्गइवपर्वतः ।।6.91.35।। Yuddha Kanda,91,36,स तथाह्यर्दितोबाणैराक्षसेनतदामृधे । तमाशुप्रतिविव्याधलक्ष्मणःपञ्चभिःशरैः ।।6.91.36।। विकृष्वेन्द्रजितोयुद्धेवदनेशुभकुण्डले । Yuddha Kanda,91,37,लक्ष्मणेन्द्रजितौवीरौमहाबलशरासनौ ।।6.91.37।। अन्योन्यंजघ्नतुर्बाणैर्विशिखैर्मीविक्रमौ । Yuddha Kanda,91,38,ततःशोणितदिग्धाङ्गौलक्ष्मणेन्दजितावुभौ ।।6.91.38।। रणेतौराजतुर्वीरौपुष्पिताविवकिंशुकौ । Yuddha Kanda,91,39,तौपरस्परमभ्येत्यसर्वगात्रेषुधवनिनौ ।।6.91.39।। घोरैर्विव्यधतुर्भाणैःकृतभावावुभौजये । Yuddha Kanda,91,40,ततःसमरकोपेनसम्वृतोरावणात्मजः ।।6.91.40।। विभीषणंत्रिभिर्बाणैर्विव्याथवदनेशुभे । Yuddha Kanda,91,41,अयोमुखैस्त्रिभिर्विद्ध्वाराक्षसेन्द्रंविभीषणम् ।।6.91.41।। एकैकेनाभिविव्याथतान्सर्वान् हरियूथपान् । Yuddha Kanda,91,42,तस्मैदृढतरंक्रुद्धोजघानगदयाहयान् ।।6.91.42।। विभीषणोमहातेजारावणेस्सदुरात्मनः । Yuddha Kanda,91,43,पहताश्वादवाप्लुत्यरथान्निहतसारथे: ।।6.91.43।। रथशक्तिंमहातेजाःपितृव्यायमुमोच ह । Yuddha Kanda,91,44,तामापततनींसम्प्रेक्ष्यसुमित्रानन्दवर्धनः ।।6.91.44।। चिच्छेदनिशितैर्बाणैर्धशथापातयद्भुवि । Yuddha Kanda,91,45,तस्मैदृढतनुःक्रुद्धोहताश्वायविभीषणः ।।6.91.45।। वज्रस्पर्शसमान् पञ्चससर्जोरसिसायकान् । Yuddha Kanda,91,46,तेतस्यकायंभित्वातुरुक्मपुङ्खानिमित्तगाः ।।6.91.46।। बभूवुर्लोहितादिग्धारक्ताइवमहोरगाः । Yuddha Kanda,91,47,सःपितृव्यस्यसङ्क्रुद्धःइन्द्रजिच्छरमाददे ।।6.91.47।। उत्तमंरक्षसांमध्येयमदत्तंमहाबलम् । Yuddha Kanda,91,48,तंसमीक्ष्यमहातेजामहेषुंतेनसंहितम् ।।6.91.48।। लक्ष्मणोऽप्याददेबाणमद्यभदीमपराक्रमः । Yuddha Kanda,91,49,कुबेरेणस्वयंस्वप्नेयद्दत्तममितात्मना ।।6.91.49।। दुर्जयंदुर्विषह्यं च सेन्द्रैरपिसुरासुरैः । Yuddha Kanda,91,50,तयोस्तुधनुषीश्रेष्ठेबाहुभिःपरिघोपमैः ।।6.91.50।। विकृष्यमाणेबलवत् क्रौञ्चविवचुकूजतुः । Yuddha Kanda,91,51,ताभ्यांतुधनुषिश्रेष्ठेसंसितौसायकोत्तमौ ।।6.91.51।। विकृष्यमाणेवीराभ्यांभृशंजज्वलतुःश्रिया । Yuddha Kanda,91,52,तौभासयन्तावाकाशंधनुर्भ्यांविशिखौच्युतौ ।।6.91.52।। मुखेनमुखमाहत्यसन्निपेततुरोजसा । Yuddha Kanda,91,53,सन्निपातस्तयोश्चासीच्छरयोर्घोररूपयोः ।।6.91.53।। सधूमविस्फुलिङ्गश्चतज्जोऽनगिर्दारुणोऽभवत् । Yuddha Kanda,91,54,तौमहाग्रहसङ्काशावन्योन्यंसन्निपत्य च ।।6.91.54।। सङ्ग्रामेशतधायातौमेदिन्यांचैवपेततुः । Yuddha Kanda,91,55,शरौप्रतिहतौदृष्टवातावुभौरणमूर्धनि ।।6.91.55।। व्रीडितौजातरोषौ च लक्ष्मणेन्द्रजितौतदा । Yuddha Kanda,91,56,सुसंरर्ब्धस्तुसौमित्रिरस्त्रंवारुमाददे ।।6.91.56।। रौद्रंमहेन्द्रजिद्युद्धेऽप्यसृजद्युद्धनिष्ठितः । Yuddha Kanda,91,57,तेनतद्विहतंशस्त्रंवारुणंपरमाद्भुतम् ।।6.91.57।। Yuddha Kanda,91,58,ततःक्रुद्धोमहातेजाइन्द्रजित्समितिञ्जयः । आग्नेयंसन्दधेदीप्तं स लोकंसङ्क्षिपन्निव ।।6.91.58।। Yuddha Kanda,91,59,सौरेणास्त्रणतवदीरोलक्ष्मणःपर्यवारयत् । अस्त्रंनिवारितंदृष्टवारावणिःक्रोथमूर्छितः ।।6.91.59।। आददेनिशितंबाणमासुरंशत्रुदारुणम् । Yuddha Kanda,91,60,तस्माच्चापाद्विनिष्पेतुर्भास्वराःकूटमुद्गराः ।।6.91.60।। शूलानि च मुशुण्ड्यश्चगदाःखङ्गा: परश्वथा: । Yuddha Kanda,91,61,तद्दृष्टवालक्ष्मणःसङ्ख्येघोरमस्त्रंसुदारुणम् ।।6.91.61।। Yuddha Kanda,91,62,अवार्यंसर्वभूतानांसर्वशस्त्रविदारणम् । महेश्वरेणद्युतिमांस्तदस्त्रंप्रत्यवारयत् ।।6.91.62।। Yuddha Kanda,91,63,तयोःसमुतुलंयुद्धंसम्बभूवारोमहर्षणम् । गगनस्थानिभूतानिलक्ष्मणंपर्यवारयन् ।।6.91.63।। Yuddha Kanda,91,64,भैरवाभिरुतेभीमेयुद्धेवानरक्षसाम् । भूतैर्बहुभिराकाशंविस्मितैरावृतंबभौ ।।6.91.64।। Yuddha Kanda,91,65,ऋषयःपितरोदेवागन्धर्वगरुडोरगाः । शतक्रतुंपुरस्कृत्यररक्षुर्लक्ष्मणंरणे ।।6.91.65।। Yuddha Kanda,91,66,अथान्यंमार्गणश्रेष्ठंसन्दधेराघवानुजः । हुताशनसमस्पर्शंरावणात्मजदारणम् ।।6.91.66।। Yuddha Kanda,91,67,सुपत्रमनुवृत्ताङ्गंसुपर्वाणंसुसंस्थितम् । सुवर्णविकृतंवीरश्शरीरान्तकरंशरम् ।।6.91.67।। Yuddha Kanda,91,68,दुरावारंदुर्विषहंराक्षसानांभयावहम् । आशीविषविषप्रख्यंदेवसङ्घैःसमर्चितम् ।।6.91.68।। Yuddha Kanda,91,69,येनशक्रोमहातेजादानवानजत्प्रभुः । पुरादेवासुरेयुद्धेवीर्यवान् हरिवाहनः ।।6.91.69।। Yuddha Kanda,91,70,तदैन्द्रमस्त्रंसौमित्रिःसम्युगेष्वपराजितम् । शरश्रेष्ठंधनु: श्रेष्ठेविकर्षन्निदमिब्रवीत् ।।6.91.70।। लक्ष्मीवान् लक्ष्मणोवाक्यमर्थसाधकमात्मनः । Yuddha Kanda,91,71,धर्मात्मासत्यसन्धश्चरामोदाशरथिर्यति ।।6.91.71।। पौरुषेचाप्रतिद्वन्द्वःशरैनंजसिरावणिम् । Yuddha Kanda,91,72,इत्युक्त्वाबाणमाकर्णंविकृष्यतमजिह्मगम् ।।6.91.72।। लक्ष्मणःसमरेवीरःससर्जेन्द्रजितंप्रति । Yuddha Kanda,91,73,ऐन्द्रास्त्रेणसमायुज्यलक्ष्मणःपरवीरहा ।।6.91.73।। Yuddha Kanda,91,74,ततशिरःसशिरस्त्राणंश्रीमज्ज्वलितकुण्डलम् । प्रमथ्येन्द्रजितःकायात्पातयामासभूतले ।।6.91.74।। Yuddha Kanda,91,75,तद्राक्षसतनूजस्यभिन्नस्कन्धंशिरोमहत् । तपनीयनिभंभूमौददृशेरुधिरोक्षितम् ।।6.91.75।। Yuddha Kanda,91,76,हतः स निपपाताथधरण्यांरावणात्मजः । कवचीसशिरस्त्राणोविद्धस्थशरासनः ।।6.91.76।। Yuddha Kanda,91,77,चुक्रुशुस्तेततःसर्वेवानराःसविभीषणाः । हृष्यन्तोनिहतेतस्मिन् देवावृत्रवधेयथा ।।6.91.77।। Yuddha Kanda,91,78,अथान्तरिक्षेभूतानामृषीणां च महात्मनाम् । जज्ञेऽथजयसन्नादोगन्धर्वाप्सरसामपि ।।6.91.78।। Yuddha Kanda,91,79,पतितंतमभिज्ञायराक्षसीसामहाचमूः । वध्यमानादिशोभेजेहरिभिर्जितकाशिभिः ।।6.91.79।। Yuddha Kanda,91,80,वानरैर्वध्यमानास्तेशस्त्रानुत्सृज्यराक्षसाः । लङ्कामभिमुखास्सस्रुर्भ्रष्टसंज्ञाःप्रधाविताः ।।6.91.80।। Yuddha Kanda,91,81,दुद्रुवुर्भहुधाभीताराक्षसाश्शतशोदिशः । त्यक्त्वाप्रहरणान्सर्वेपट्टसासिपरश्वधान् ।।6.91.81।। Yuddha Kanda,91,82,केचिल्लङ्कांपरित्रस्ताःविष्टावानरार्दिताः । समुद्रेपतिताःकेचित्केचित्पर्वतमाश्रिताः ।।6.91.82।। Yuddha Kanda,91,83,हतमिन्द्रजितंदृष्टवाशयानं च रणक्षितौ । राक्षसानांसहस्रेषु न कश्चित्प्रत्यदृश्यत ।।6.91.83।। Yuddha Kanda,91,84,यथास्तङ्गतआदित्येनावतिष्ठन्तिरश्मयः । तथातस्मिन्निपतितेराक्षसास्तेगतादिशः ।।6.91.84।। Yuddha Kanda,91,85,शान्तरश्मिरिवादित्योनिर्वाणइवपावकः । बभूव स महाबाहुर्व्यपास्तगतजीवितः ।।6.91.85।। Yuddha Kanda,91,86,प्रशान्तपीडाबहुलोविनष्टारिःप्रहर्षवान् । बभूवलोकःपतितेराक्षसेन्द्रसुतोतदा ।।6.91.86।। Yuddha Kanda,91,87,हर्षं च शक्रोभगवान् सहसर्वैर्महर्षिभिः । जगामनिहतेतस्मिन्राक्षसेपापकर्मणि ।।6.91.87।। Yuddha Kanda,91,88,आकाशेचापिदेवानांशुश्रुवेदुन्दुभिस्वनः । नृत्यद्भिरप्सरोभिश्चगन्धर्वैश्चमहात्मभिः ।।6.91.88।। Yuddha Kanda,91,89,ववर्षुःपुष्पवर्षाणितदद्भुतमिवाभवत् । प्रशशंसुर्हतेतस्मिन्राक्षसेक्रूरकर्मणि ।।6.91.89।। Yuddha Kanda,91,90,शुद्धाआपोनभश्चैवजहृषुर्देवदानवाः । आजग्मुःपतितेतस्मिन्सर्वलोकभयावहे ।।6.91.90।। Yuddha Kanda,91,91,ऊचुश्चसहितास्तुष्टादेवगन्धर्वदानवाः । विज्वराश्शान्तकलुषाब्राह्मणाविचरन्त्विति ।।6.91.91।। Yuddha Kanda,91,92,ततोऽभ्यनन्दन्सम्हृष्टास्समरेहरियूथपाः । तमप्रतिबलंदृष्टवाहतंनैरृतपुङ्गवम् ।।6.91.92।। Yuddha Kanda,91,93,विभीषणोहनूमांश्चजाम्बवांश्चर्क्षयूथपः । विजयेनाभिनन्दन्तसुष्टुवुश्चापिलक्ष्मणम् ।।6.91.93।। Yuddha Kanda,91,94,क्ष्वेळन्तश्चप्लवन्तश्चगर्जन्तश्चप्लवङ्गमाः । लब्दलक्षारघुसुतंपरिवार्योपतस्थिरे ।।6.91.94।। Yuddha Kanda,91,95,लाङ्गूलानिप्रविध्यन्तस्स्फोटयन्तश्चवानराः । लक्ष्मणोजयतीत्येवंवाक्यंविश्रावयंस्तदा ।।6.91.95।। Yuddha Kanda,91,96,अन्योन्यं च समालशिष्यहरयोहृष्टमानसाः । चक्रुरुच्चावगुणाराघवाश्रयसजा: कथा: ।।6.91.96।। Yuddha Kanda,92,1,रुधिरक्लिन्नगात्रस्तुलक्ष्मणःशुभलक्षणः । बभूवहृष्टस्तंहत्वाशक्रजेतारमाहवे ।।6.92.1।। Yuddha Kanda,92,2,ततःसजाम्बवन्तंचहनूमन्तंचवीर्यवान् । संनिपत्यमहातेजास्तांश्चसर्वान्वनौकसः ।।6.92.2।। Yuddha Kanda,92,3,आजगामततःशीघ्रंयत्रसुग्रीवराघवौ । विभीषणमवष्टभ्यहनूमन्तंचलक्ष्मणः ।।6.92.3।। Yuddha Kanda,92,4,ततोराममभिक्रम्यसौमित्रिरभिवाद्य च । तस्थौभ्रातृसमीपस्थःशक्रस्येन्द्रानुजोयथा ।।6.92.4।। Yuddha Kanda,92,5,निष्टनन्निवचागत्यराघवायमहात्मने । आचचक्षेतदावीरोघोरमिन्द्रजितोवधम् ।।6.92.5।। Yuddha Kanda,92,6,रावणेस्तुशिरश्छिन्नंलक्ष्मणेनमहात्मना । न्यवेदयतरामायतदाहृष्टोविभीषणः ।।6.92.6।। Yuddha Kanda,92,7,श्रुत्वैवतुमहावीर्योलक्षणनेन्द्रजिद्वधम् । प्रहर्षमतुलंलेभेवाक्यंचेदमुवाच ह ।।6.92.7।। Yuddha Kanda,92,8,साधुलक्ष्मणतुष्टोऽस्मिकर्मचासुकरंकृतम् । रावणेर्हिविनाशेनजितमुत्यपधारय ।।6.92.8।। Yuddha Kanda,92,9,स तंशिरस्युपाघ्रायलक्ष्मणंकीर्तिवर्धनम् । लज्जमानंबलात्स्नेहादङ्गमारोप्यवीर्यवान् ।।6.92.9।। Yuddha Kanda,92,10,उपवेश्यतमुत्सङ्गेपरिष्वज्यावपीडितम् । भ्रातरंलक्ष्मणंस्निग्धंपुनःपुनरुदैक्षत ।।6.92.10।। Yuddha Kanda,92,11,शल्यसंपीडितंशस्तंनिःश्वसन्तंतुंलक्ष्मणम् । रामस्तुदुःखसन्तप्तंतंतुनिःश्वासपीडितम् ।।6.92.11।। Yuddha Kanda,92,12,मूर्ध्निचैनमुपाघ्रायभूयःसंस्पृश्य च त्वरन् । उवाचलक्ष्मणंवाक्यमाश्वास्यपुरुषर्षभः ।।6.92.12।। Yuddha Kanda,92,13,कृतंपरमकळ्याणंकर्मदुष्करकर्मणा । अद्यमन्येहतेपुत्रेरावणंनिहतंयुधि ।।6.92.13।। Yuddha Kanda,92,14,अद्याहंविजयीशत्रौहतेतस्मिन् दुरात्मनि । रावणस्यनृशंसस्यदिष्ट्यावीरत्वयारणे ।।6.92.14।। Yuddha Kanda,92,15,छिन्नोहिदक्षिणोबाहुः स हितस्यव्यपाश्रयः । विभीषणहनूमद्भ्यांकृतंकर्ममहद्रणे ।।6.92.15।। Yuddha Kanda,92,16,अहोरात्रैस्त्रिभिर्वीरःकथञ्चितवन्दिपातितः । विरमित्रःकृतोऽस्म्यद्यनिर्यास्यतिहिरावणः ।।6.92.16।। बलव्यूहेनमहताश्रुत्वापुत्त्रंनिपातितम् । Yuddha Kanda,92,17,तंपुत्रवधसन्तप्तंनिर्यान्तंराक्षसाधिपम् ।।6.92.17।। बलेनावृत्यमहतानिहनिष्यामिदुर्जयम् । Yuddha Kanda,92,18,त्वयालक्ष्मणनाथेनसीता च पृथिवी च मे ।।6.92.18।। न दुष्प्रापाहतेतस्मिन् शक्रजेतरिचाहवे । Yuddha Kanda,92,19,सतंभ्रातरमाश्वास्यपरिष्वज्य च राघवः ।।6.92.19।। रामःसुषेणंमुदितस्समाभाष्येदमब्रवीत् । Yuddha Kanda,92,20,सशल्योऽयंमहाप्राज्ञस्सौमित्रिर्मित्रवत्सलः ।।6.92.20।। यथाभवतिसुस्वस्थस्तथात्वंसमुपाचर । Yuddha Kanda,92,21,विशल्यःक्रियतांक्षिप्रंसौमित्रिस्सविभीषणः ।।6.92.21।। Yuddha Kanda,92,22,ऋक्ष्वानरसैन्यानांशूराणांद्रुमयोधिनाम् । येचाप्यन्येऽत्रयुध्यन्तिसशल्याव्रणिनस्तथा ।।6.92.22।। तेऽपिसर्वेप्रयत्नेनक्रियन्तांसुखिनस्तथा । Yuddha Kanda,92,23,एवमुक्तस्तुरामेणमहात्माहरियूथपः ।।6.92.23।। लक्ष्मणायदरौनस्तस्सुषेणःपरमौषधम् । Yuddha Kanda,92,24,स तस्यगन्धमाघ्रायविशल्यस्समपद्यत ।।6.92.24।। तदानिर्वेदनश्चैवसंरूढव्रणएव च । Yuddha Kanda,92,25,विभीषणमुखानां च सुहृदांराघवाज्नाया ।।6.92.25।। सर्ववानरमुख्यानांचिकित्सामकरोत्तदा । Yuddha Kanda,92,26,ततःप्रकृतिमापन्नोहृतशल्योगतव्यथ: ।।6.92.26।। सौमित्रिर्मुदितस्तत्र क्षणेन विगतज्वरः । Yuddha Kanda,92,27,तदैवरामःप्लवगाधिपस्तथाविभीषणश्चर्क्षपतिश्चजाम्बवान् । आवेक्ष्यसौमित्रिमरोगमुथतितंमुदाससैन्यास्सुचिरंजहर्षिरे ।।6.92.27।। Yuddha Kanda,93,1,ततःपौलस्त्यसचिवा्श्रुत्वाचेन्द्रजितोवधम् । आचचक्षुरभिज्ञायदशग्रीवायसव्यथा: ।।6.93.1।। Yuddha Kanda,93,2,युद्धेहतोमहाराजलक्ष्मणेनतवात्मजः । विभीषणसहायेनमिषतांनोमहाद्युतिः ।।6.93.2।। Yuddha Kanda,93,3,शूरंशूरेणसम्गम्यसम्युगेष्वपराजितः । लक्ष्मणेनहतश्शूरःपुत्रस्तेमहेन्द्रजित् ।।6.93.3।। गतस्सपरमान्लोकान्शरैस्सन्ताप्यलक्ष्मणम् । Yuddha Kanda,93,4,स तंप्रतिभयंश्रुत्वावधंपुत्रस्यदारुणम् ।।6.93.4।। घोरमिन्द्रजितःसङ्ख्येकश्मलंप्राविशन्महत् । Yuddha Kanda,93,5,उपलभ्यचिरात्संज्ञां राजाराक्षसपुङ्गव ।।6.93.5।। पुत्रशोकाकुलोदीनोविललापाकुलेन्द्रियः । Yuddha Kanda,93,6,हाराक्षसचमूमुख्यममवत्समहाबल ।।6.93.6।। जित्वेन्द्रंकथमद्यत्वंलक्ष्मणस्यवशंगतः । Yuddha Kanda,93,7,ननुत्वमिषुभिःक्रुद्धोभिन्द्याःकालान्तकावपि ।।6.93.7।। मन्दरस्यापिशृङ्गाणिकिंपुनर्लक्ष्मणंयुधि । Yuddha Kanda,93,8,अद्यवैनस्वतोराजाभूयोबहुमतोमम ।।6.93.8।। येनाद्यत्वंमहाबाहो संयुक्तःकालधर्मणा । Yuddha Kanda,93,9,एषपन्थाःसुयोधानांसर्वामरगणेष्वपि ।।6.93.9।। यःकृतेहन्यतेभर्तुस्सपुमान्स्वर्गमृच्छति । Yuddha Kanda,93,10,अद्यदेवगणास्सर्वेलोकपालामहर्षयः ।।6.93.10।। हतमिन्द्रजितंदृष्टवासुखंस्वप्स्यन्तिनिर्भयाः । Yuddha Kanda,93,11,अद्यलोकास्त्रय: कृत्स्नापृथिवी च सकानना ।।6.93.11।। एकेनेन्द्रजिताहीनाशून्येवप्रतिभातिमे । Yuddha Kanda,93,12,अद्यनैरृतकन्यानांश्रोष्याम्यन्तःपुरेरवम् ।।6.93.12।। करेणुसङ्घस्ययथानिनादंगिरिगह्वरे । Yuddha Kanda,93,13,यौवराज्यं च लङ्कां च रक्षांसि च परन्तप ।।6.93.13।। मातरंमां च भार्याश्चक्वगतोऽसिविहायनः । Yuddha Kanda,93,14,ममनामत्वयावीरगतस्ययमसादनम् ।।6.93.14।। प्रेतकार्याणिकार्याणिविपरीतेहिवर्तसे । Yuddha Kanda,93,15,स त्वंजीवतिसुग्रीवेलक्ष्मणेन च राघवे ।।6.93.15।। ममशल्यमनुद्धृत्यक्वगतोऽसिविहायनः । Yuddha Kanda,93,16,एवमादिविलापार्तंरावणंराक्षसाधिपम् ।।6.93.16।। आविवेशमहान् कोपःपुत्रव्यसनसम्भवः । Yuddha Kanda,93,17,प्रकृत्याकोपनंह्येनंपुत्रस्यपुनराधयः ।।6.93.17।। दीप्तंसन्दीपयामासुर्घर्मेऽर्कमिवरश्मयः । Yuddha Kanda,93,18,ललाटेभ्रुकुटीभिश्चसङ्गताभिर्व्यरोचत ।।6.93.18।। युगान्तेसहनक्रैस्तुमहोर्मिभिरिवोदधिः । Yuddha Kanda,93,19,कोपाद्विजृम्भमाणस्यवक्त्राद्व्यक्तमिवज्वलन् ।।6.93.19।। उत्पपातसधूमानगिर्वृत्रस्यवदनादिव । Yuddha Kanda,93,20,स पुत्रवधसन्तप्तश्शूरःक्रोधवशंगतः ।।6.93.20।। समीक्ष्यरावणोबुद्ध्यावैदेह्यारोचयद्वधम् । Yuddha Kanda,93,21,तस्यप्रकृत्यारक्ते च रक्तेक्रोथानगिनापि च ।।6.93.21।। रावणस्यमहाघोरेदीप्तेनेत्रेबभूवतुः । Yuddha Kanda,93,22,घोरंप्रकृत्यारूपंतत्तस्यक्रोधाग्निमूर्छितम् ।।6.93.22।। बभूवरूपंक्रुद्धस्यरुद्रस्येवदुरासदम् । Yuddha Kanda,93,23,तस्यक्रुद्धस्यनेत्राभ्यांप्रापतन्नाश्रृबिन्दवः ।।6.93.23।। दीपाभ्यामिवदीप्ताभ्यांसार्चिषस्स्नेहबिन्दवः । Yuddha Kanda,93,24,दन्तावनिदशतस्तस्यश्रूयतेदशनस्वनः ।।6.93.24।। यन्त्रस्यावेष्ट्यमाणस्य महतो दानवैरिव । Yuddha Kanda,93,25,कालानगिरिवसङ्क्रुद्धोयांयांदिशमवैक्षत ।।6.93.25।। तस्यांतस्यांभयत्रस्ताराक्षसास्सन्विलियलिरे । Yuddha Kanda,93,26,तमन्तकमिवक्रुद्धंचराचरचिखादिषुम् ।।6.93.26।। वीक्षमाणंदिशस्सर्वाराक्षसानोपचक्रमुः । Yuddha Kanda,93,27,ततःपरमसङ्क्रुद्धोरावणोराक्षसाधिपः ।।6.93.27।। अब्रवीद्रक्षसांमध्येसंस्तम्भयिषुराहवे । Yuddha Kanda,93,28,मयावर्षसहस्राणिचरित्वापरमंतपः ।।6.93.28।। तेषुतेष्ववकाशेषुस्वयम्भूःपरितोषितः । Yuddha Kanda,93,29,तस्यैवतपसोव्युष्ट्याप्रसादाच्छस्वयम्भुवः ।।6.93.29।। नासुरेभ्यो न देवेभ्योभयंममकदाचन । Yuddha Kanda,93,30,कवचंब्रह्मदत्तंमेयदादित्यसमप्रभम् ।।6.93.30।। देवासुरविमर्धेषु न भिन्नंवज्रमुष्टिभिः । Yuddha Kanda,93,31,तेनमामद्यसम्युक्तंरथस्थमिहसम्युगे ।।6.93.31।। प्रतीयात्कोऽद्यमामाजौसाक्षादपिपुरन्दरः । Yuddha Kanda,93,32,त्तदातिप्रसन्नेनसशरंकार्मुकंमहत् ।।6.93.32।। Yuddha Kanda,93,33,देवासुरविमर्धेषुममदत्तंस्वयम्भुवा । अद्यतूर्यशतैर्भीमंधनुरुत्थाप्यतांमम ।।6.93.33।। रामलक्ष्मणयोरेववधायपरमाहवे । Yuddha Kanda,93,34,स पुत्रवधसन्तप्तःक्रूरःक्रोधवशंगतः ।।6.93.34।। समीक्ष्यरावणोबुद्ध्यासीतांहन्तुंव्यवस्यत । Yuddha Kanda,93,35,प्रत्यवेक्ष्यताम्राक्षस्सुघोरोघोरदर्शनः ।।6.93.35।। दीनोदीनस्वरान्सर्वांस्तानुवाचनिशाचरान् । Yuddha Kanda,93,36,माययाममवत्सेनवञ्चनार्थंवनौकसाम् ।।6.93.36।। किञ्चिदेवहतंतत्रसीतेयमितिदर्शितम् । Yuddha Kanda,93,37,तदिदंतथ्यमेवाहंकरिष्येप्रियमात्मनः ।।6.93.37।। Yuddha Kanda,93,38,वैदेहींनाशयिष्यामिक्षत्रबन्धुमनुव्रताम् । इत्येवमुक्त्वासचिवान्खङ्गमाशुपरामृशत् ।।6.93.38।। Yuddha Kanda,93,39,उत्प्लुत्यगुणसम्पन्नंविमलाम्बरवर्चसम् । निष्पपात स वेगेनसभार्यःसचिवैर्वृतः ।।6.93.39।। Yuddha Kanda,93,40,रावणःपुत्रशोकेनभृशमाकुलचेतनः । सङ्क्रुद्धःखडगमादायसहसायत्रमैथिली ।।6.93.40।। Yuddha Kanda,93,41,व्रजन्तंराक्षसंप्रेक्ष्यसिंहनादंविचक्रुशुः । ऊचुश्चान्योन्यमालिङ्ग्यसङ्क्रुद्धंप्रेक्ष्यराक्षसम् ।।6.93.41।। Yuddha Kanda,93,42,अद्यैनंतावुभौदृष्टवाभ्रातरौप्रव्यधिष्यतः । लोकपालाहिचत्वारःक्रुद्धेनानेनतर्जिताः ।।6.93.42।। बहवःशत्रवश्चान्येसम्युगेष्वभिपातिताः । Yuddha Kanda,93,43,त्रिषुलोकेषुरत्नानिभुङक्तेचाहृत्यरावणः ।।6.93.43।। विक्रमे च बलेचैवनास्त्यस्यसदृशोभुवि । Yuddha Kanda,93,44,तेषांसञ्जल्पमानामशोकवनिकांगताम् ।।6.93.44।। अभिदुद्राववैदेहींरावणःक्रोधमूर्छितः । Yuddha Kanda,93,45,वार्यमाणःसुसङ्क्रुद्धःसुहृद्भिर्हितबुद्धिभिः ।।6.93.45।। अभ्यधावतसङ्क्रुद्धःखेग्रहोरोहिणीमिव । Yuddha Kanda,93,46,मैथिलीरक्ष्यमाणातुराक्षसीरनिन्दिता ।।6.93.46।। Yuddha Kanda,93,47,ददर्शराक्षसंक्रुद्धंनिस्त्रिंशवरधारिणम् । तंनिशाम्यसविस्त्रिंशंव्यथिताजनकात्मजा ।।6.93.47।। निवार्यमाणंबहुशःसुहृद्भिरनिवर्तिनम् । Yuddha Kanda,93,48,सीतादुःखसमाविष्टाविलपन्तीदमब्रवीत् ।।6.93.48।। Yuddha Kanda,93,49,यथायंमामभिक्रुद्धःसमभिद्रवतिस्वयम् । वधिष्यतिसनाथांमामनाथामिवदुर्मतिः ।।6.93.49।। Yuddha Kanda,93,50,बहुशश्चोदयामासभर्तारंमामनुव्रताम् । भार्याभवरमस्वेतिप्रत्याख्यातोध्रुवंमया ।।6.93.50।। Yuddha Kanda,93,51,सोऽयंमामनुपस्थानेव्यक्तंनैराश्यमागतः । क्रोधमोहसमाविष्टोनिहन्तुंमांसमुद्यतः ।।6.93.51।। Yuddha Kanda,93,52,अथवातौनरव्याघ्रौभ्रातरौरामलक्ष्मणौ । मन्निमित्तमनार्येणसमरेऽद्यनिपातितौ ।।6.93.52।। Yuddha Kanda,93,53,भैरवोहिमहान्नादोराक्षसानांश्रुतोमया । बहूनामिहहृष्टानांतथाविक्रोशतांप्रियम् ।।6.93.53।। Yuddha Kanda,93,54,अहोधिङ्मन्निमित्तोऽयंविनाशोराजपुत्रयोः । अथवापुत्रशोकेनअहत्यारामलक्ष्मणौ ।।6.93.54।। विधमिष्यतिमांरौद्रोराक्षसःपापनिश्चयः । Yuddha Kanda,93,55,हनूमतस्तुतद्वाक्यं न कृतंक्षुद्रयामया ।।6.93.55।। Yuddha Kanda,93,56,यद्यहंतस्यपृष्ठेवतदायासमनिर्जिता । नाद्यैवमनुशोचेयंभर्तुरङ्कगतासती ।।6.93.56।। Yuddha Kanda,93,57,मन्येतुहृदयंतस्याःकौसल्यायाःफलिष्यति । एकपुत्रायदापुत्रंविनष्टंश्रोष्यतेयुधि ।।6.93.57।। Yuddha Kanda,93,58,साहिजन्म च बाल्यं च यौवनं च महात्मनः । धर्मकार्याणिरूपं च रुदतीसंस्मरिष्यति ।।6.93.58।। Yuddha Kanda,93,59,निराशानिहतेपुत्रेदत्त्वाश्राद्धमचेतना । अग्निमावेक्ष्यतेनूनमापोवापिप्रवेक्ष्यति ।।6.93.59।। Yuddha Kanda,93,60,धिगस्तुकुब्जामसतींमन्थरांपापनिश्चयाम् । यन्निमित्तमिमंशोकंकौसल्याप्रतिपत्स्यते ।।6.93.60।। Yuddha Kanda,93,61,इत्येवंमैथिलींदृष्टवाविलपन्तींतपस्विनीम् । रोहिणीमिवचन्द्रेणविनाग्रहवशंगताम् ।।6.93.61।। Yuddha Kanda,93,62,एतस्मिन्नन्तरेतस्यअमात्यःशीलवान् शुचिः । सुपार्श्वोनाममेधावीरावणंरक्षसेश्वरम् ।।6.93.62।। निवार्यमाणःसचिवैरिदंवचनमब्रवीत् । Yuddha Kanda,93,63,कथंनामदशग्रीव साक्षद्वैश्रवणानुज ।।6.93.63।। हन्तुमिच्छसिवैदेहींक्रोधाद्धर्ममपास्य च । Yuddha Kanda,93,64,वेदविद्याव्रतस्नातःस्वकर्मनिरतस्तथा ।।6.93.64।। स्त्रियःकस्माद्वधंवीरमन्यसेराक्षसेश्वर । Yuddha Kanda,93,65,मैथिलींरूपसम्पन्नांप्रत्यवेक्षस्वपार्थिव ।।6.93.65।। तस्मिन्नेवसहास्माभिराहेवक्रोधमुत्सृज । Yuddha Kanda,93,66,अभ्युत्थानंत्वमद्यैवकृष्णपक्षचतुर्धशीम् ।।6.93.66।। कृत्वानिर्याह्यमावास्यांविजयायबलैर्वृतः । Yuddha Kanda,93,67,शूरःधीमान् रथीखडगीरथप्रवमास्थितः ।।6.93.67।। हत्वादाशरथिंरामंभवान् प्राप्स्यसिमैथिलीम् । Yuddha Kanda,94,1,स प्रविश्यसभांराजादीनःपरमदुःखितः । निषपादासनेमुख्येसिंहःक्रुद्धइवश्वसन् ।।6.94.1।। Yuddha Kanda,94,2,अब्रवीच्च स तान्सर्वान् बलमुख्यान् महाबलः । रावणःप्राञ्जलिर्वाक्यंपुत्रव्यसनकर्शितः ।।6.94.2।। Yuddha Kanda,94,3,सर्वेभवन्तस्सर्वेणहस्त्यश्वेनसमावृताः । निर्यान्तुरथसङ्घैश्चपादातैश्चोपशोभिताः ।।6.94.3।। Yuddha Kanda,94,4,एकंरामंपरिक्षिप्यसमरेहन्तुमर्हथ । वर्षन्तश्शरवर्षाणिप्रावृट् कालइवाम्बुदाः ।।6.94.4।। Yuddha Kanda,94,5,अथवाहंशरैस्तीक्ष्णैर्भिन्नगात्रंमहाहवे । भवद्भिःश्वोनिहन्तास्मिरामंलोकस्यपश्यतः ।।6.94.5।। Yuddha Kanda,94,6,इत्येतद्वाक्यमादायरक्षसेन्द्रस्यराक्षसाः । निर्ययुस्तेरथैःशीघ्रैर्नानानीकैश्चसंयुताः ।।6.94.6।। Yuddha Kanda,94,7,परिघान् पट्टसांश्चैवशरखङ्गपरश्वधान् । शरीरान्तकरान् सर्वेचिक्षिपुर्वानरान् प्रति ।।6.94.7।। वानराश्चद्रुमान्शैलान्राक्षसान्प्रतिचिक्षिपुः । Yuddha Kanda,94,8,स सङ्ग्रामोमहाभीमस्सूर्यस्यदयनंप्रति ।।6.94.8।। रक्षसांवानराणां च तुमुलस्समपद्यत । Yuddha Kanda,94,9,तेगदाभिश्चचित्राभिःप्रासैःखडगैःपरश्वधैः ।।6.94.9।। अन्योन्यंसमरेजघ्नुस्तदावानरराक्षसाः । Yuddha Kanda,94,10,एवंप्रवृत्तेसङ्ग्रामेह्यद्भुतंसुमहद्रजः ।।6.94.10।। रक्षसांवानराणां च शान्तंशोणितविस्रवैः । Yuddha Kanda,94,11,मातङ्गरथकूलाश्चवाजिमत्सास्यध्वजद्रुमाः ।।6.94.11।। शरीरसङ्घाटवहाःप्रसस्रुःशोणितापगाः । Yuddha Kanda,94,12,ततस्तेवानराःसर्वेशोणितौघपरिप्लुताः ।।6.94.12।। Yuddha Kanda,94,13,ध्वजवर्मरथानश्वान्नानाप्रहरणानि च । आप्लुत्याप्लुत्यसमरेवानरेन्द्राबभञ्चिरे ।।6.94.13।। Yuddha Kanda,94,14,केशान् कर्णललाटं च नासिकाश्चप्लवङ्गमाः । रक्षसांदशनैस्तीक्ष्णैर्नखैश्चापिव्यकर्तयन् ।।6.94.14।। Yuddha Kanda,94,15,एकैकंराक्षसंसङ्ख्येशतंवानरपुङ्गवाः । अभ्यधावन्तफलिनंवृक्षंशकुनयोयथा ।।6.94.15।। Yuddha Kanda,94,16,तदागदाभिर्गुर्वीभिःप्रासैःखडगैःपरश्वधैः । निर्जघ्नुर्वानरान्घोरान्राक्षसाःपर्वतोपमाः ।।6.94.16।। Yuddha Kanda,94,17,राक्षसैर्वध्यमानानांवानराणांमहाचमूः । शरण्यंशरणंयातारामंदशरथात्मजम् ।।6.94.17।। Yuddha Kanda,94,18,ततोरामोमहातेजाधनुरादायवीर्यवान् । प्रविश्यराक्षसंसैन्यंशरवर्षंववर्ष ह ।।6.94.18।। Yuddha Kanda,94,19,प्रविष्टंतुतदारामंमेघास्सूर्यमिवाम्बरे । नाथिजग्मुर्महाघोरानिर्दहन्तंशराग्निना ।।6.94.19।। Yuddha Kanda,94,20,कृतान्येवसुघोराणिरामेणरजनीचराः । ददृशुस्ते न वैरामंकर्माण्यसुकराणिते ।।6.94.20।। Yuddha Kanda,94,21,चालयन्तंमहासैन्यंविधमन्तंमहारथान् । ददृशुस्ते न वैरामंवातंवनगतंयथा ।।6.94.21।। Yuddha Kanda,94,22,छिन्नंभिन्नंशरैर्दग्धंप्रभन्नंशस्त्रपीडितम् । बलंरामेणददृशुर्नरामंशीघ्रकारिणम् ।।6.94.22।। Yuddha Kanda,94,23,प्रहरन्तंशरीरेषु न तेपश्यन्तिराघवम् । इन्द्रियार्थेषुतिष्ठन्तंभूतात्मानमिवप्रजाः ।।6.94.23।। Yuddha Kanda,94,24,एषहन्तिगजानीकमेषहन्तिमहारथान् । एषहन्तिशरैस्तीक्ष्णैःपदातीस्वाजिभिःसह ।।6.94.24।। Yuddha Kanda,94,25,इतितेराक्षसास्सर्वेरामस्यसदृशान्रणे । अन्योन्यंकुपिताजघ्नुस्सादृश्याद्राघवस्यते ।।6.94.25।। Yuddha Kanda,94,26,न तेददृशिरेरामंदहन्तमपिवाहिनीम् । मोहिताःपरमास्त्रणगान्धर्वेणमहात्मना ।।6.94.26।। Yuddha Kanda,94,27,तेतुरामसहस्राणिरणेपश्यन्तिराक्षसाः । पुनःपश्यन्तिकाकुत्स्थमेकमेवमहाहवे ।।6.94.27।। Yuddha Kanda,94,28,भ्रमन्तीकाञ्चनींकोटिंकार्मुकस्यमहात्मनः । अलातचक्रप्रतिमांददृशुस्ते न राघवम् ।।6.94.28।। Yuddha Kanda,94,29,शरीरनाभिसत्त्वार्चिश्शरारंनेमिकार्मुकम् । ज्याघोषतलनिर्घोषंतेजोबुधदिगुणप्रभम् ।।6.94.29।। Yuddha Kanda,94,30,दिव्यास्त्रगुणपर्यन्तंनिघ्नन्तंयुधिराक्षसान् । ददृशूरामचक्रंतत्कालचक्रमिवप्रजाः ।।6.94.30।। Yuddha Kanda,94,31,अनीकंदशसाहस्रंरथानांवातरम्हसाम् । अष्टादशसहस्राणिकुञ्जराणांतरस्विनाम् ।।6.94.31।। Yuddha Kanda,94,32,चतुर्दशसहस्राणिसारोहाणां च वाजिनाम् । पूर्णेशतसहस्रेद्वेराक्षसानांपदातिनाम् ।।6.94.32।। Yuddha Kanda,94,33,दिवसस्याष्टभागेनशरैरग्निशिखोपमैः । हतात्यान्येकेनरामेणरक्षसांकामरूपिणाम् ।।6.94.33।। Yuddha Kanda,94,34,तेहताश्वाहतरथाश्शान्ताविमथितध्वजाः । अभिपेतुःपुरींलङ्कांहतशेषानिशाचराः ।।6.94.34।। Yuddha Kanda,94,35,हतैर्गजपदात्यश्वैस्तद्बभूवरणाजिरम् । अक्रीडभूमिःक्रुद्धस्यरुद्रस्येवमहात्मनः ।।6.94.35।। Yuddha Kanda,94,36,ततोदेवास्कसगन्धर्वास्सिद्धाश्चपरमर्षयः । साधुसावधितिरामस्यतत्कर्मसमपूजयन् ।।6.94.36।। Yuddha Kanda,94,37,अब्रवीच्छतदारामःसुग्रीवंप्रत्यनन्तरम् । विभीषणं च धर्मात्माहनूमन्तं च वानरम् ।।6.94.37।। Yuddha Kanda,94,38,जाम्बवन्तंहरिश्रेष्ठंमैन्दंद्विविदमेव च । एतदस्त्रबलंदिव्यंममवात्ऱ्यम्बकस्यवा ।।6.94.38।। Yuddha Kanda,95,1,तानितानिसहस्राणिसारोहाणां च वाजिनाम् । रथानांत्वग्निवर्णानांसध्वजानांसहस्रशः ।।6.95.1।। Yuddha Kanda,95,2,राक्षसानांसहस्राणिगदापरिघयोधिनाम् । काञ्चनध्वजचित्राणांशूराणांकामरूपिणाम् ।।6.95.2।। Yuddha Kanda,95,3,निहतानिशरैर्दीस्तीक्ष्णैस्तप्तकाञ्चनभूषणैः । रावणेनप्रयुक्तानिरामेणाक्लिष्टकर्मणा ।।6.95.3।। Yuddha Kanda,95,4,दृष्टवाश्रुत्वा च सम्भ्रान्ताहतशेषानिशाचराः । राक्षसीश्चसमागम्यदीनाश्चिन्तापरिप्लुताः ।।6.95.4।। Yuddha Kanda,95,5,विधवाहतपुत्राश्चक्रोशन्त्योहतबान्दवाः । राक्षस्यःसहसङ्गम्यदुःखार्ताःपर्यदेवयन् ।।6.95.5।। Yuddha Kanda,95,6,कथंशूर्पणखावृद्धाकरालानिर्णतोदरी । आससादवनेरामंकन्दर्पमिवरूपिणम् ।।6.95.6।। Yuddha Kanda,95,7,सुकुमारंमहासत्त्वंसर्वभूतहितेरतम् । तंदृष्टवालोकनिन्द्यासाहीनरूपाप्रकामिता ।।6.95.7।। Yuddha Kanda,95,8,कथंसर्वगुणैर्हीनागुणवन्तंमहौजसम् । सुमुखंदुर्मुखीरामंकामयामासराक्षसी ।।6.95.8।। Yuddha Kanda,95,9,जनस्यास्याल्पभाग्यत्वाद्वलिनीश्वेतमूर्धजा । अकार्यमपहास्यं च सर्वलोकविगर्हितम् ।।6.95.9।। Yuddha Kanda,95,10,राक्षसानांविनाशायदूषणस्यखरस्य च । चकाराप्रतिरूपासाराघवस्यप्रधर्षणम् ।।6.95.10।। Yuddha Kanda,95,11,तन्निमित्तमिदंवैरंरावणेनकृतंमहत् । वधायसीतासासीतादशग्रीवेणरक्षसा ।।6.95.11।। Yuddha Kanda,95,12,न च सीतांदशग्रीवःप्राप्नोतिजनकात्मजाम् । बद्धंबलवतावैरमक्षयंराघवेण च ।।6.95.12।। Yuddha Kanda,95,13,वैदेहींप्रार्थयानंतंविराधंप्रेक्षयराक्षसम् । हतमेकेनरामेणपर्याप्तंतन्निदर्शनम् ।।6.95.13।। Yuddha Kanda,95,14,चतुर्धशसहस्राणिरक्षसांभीमकर्मणाम् । निहतानिजनस्थानेशरैरग्निशिखोपमैः ।।6.95.14।। Yuddha Kanda,95,15,खरश्चनिहतःसङ्ख्येदूषणस्त्रिशिरास्तथा । शरैरादितसङ्काशैःपर्याप्तंतन्निदर्शनम् ।।6.95.15।। Yuddha Kanda,95,16,हतोयोजनबाहुश्चकबन्दोरुदिराशनः । क्रोधान्नादंनदन् सोऽथपर्याप्तंतन्निदर्शनम् ।।6.95.16।। Yuddha Kanda,95,17,जघानबलिनंरामस्सहस्रनयनात्मजम् । वालिनंमेरुसङ्काशंपर्याप्तंतन्निदर्शनम् ।।6.95.17।। Yuddha Kanda,95,18,ऋष्यमूकेवसंश्चैवदीनोभग्नमनोरथः । सुग्रीवःप्रापितोराज्यंपर्याप्तंतन्निदर्शनम् ।।6.95.18।। Yuddha Kanda,95,19,धर्मार्थसहितंवाक्यंसर्वेषांरक्षसांहितम् । युक्तंविभीषणेनोक्तंमोहत्तस्य न रोचते ।।6.95.19।। Yuddha Kanda,95,20,विभीषणवचःकुर्याद्यदिस्मधनदानुजः । श्मशानभूतादुःखार्तानेयंलङ्काभविष्यति ।।6.95.20।। Yuddha Kanda,95,21,कुम्भकर्णंहतंश्रुत्वाराघवेणमहाबलम् । अतिकायं च दुर्मर्षंलक्ष्मणेनहतंतदा ।।6.95.21।। प्रियंचेन्द्रजितंपुत्रंरावणोनावबुध्यते । Yuddha Kanda,95,22,ममपुत्रोममभ्राताममभर्तारणेहतः ।।6.95.22।। इत्येषश्रूयतेशब्दोराक्षसीनांकुलेकुले । Yuddha Kanda,95,23,रथश्चाश्वाश्चनागाश्चहताःशतसहस्रशः ।।6.95.23।। रणेरामेणशूरेणहताश्चापिपदातयः । Yuddha Kanda,95,24,रुद्रोवायदिवाविष्णुर्महेन्द्रोवाशतक्रतुः ।।6.95.24।। हन्तिनोरामरूपेणयदिवास्वयमन्तकः । Yuddha Kanda,95,25,हतप्रवीरारामेणनिराशाजीवितेवयम् ।।6.95.25।। अपश्य्नत्योभयस्यान्तमनाथाविलपामहे । Yuddha Kanda,95,26,रामहस्ताद्धशग्रीवश्शूरोदत्तमहावरः ।।6.95.26।। इदंभयंमहाघोरंसमुत्पन्नं न बुध्यते । Yuddha Kanda,95,27,तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः ।।6.95.27।। उपसृष्टंपरित्रातुंशक्तारामेणसम्युगे । Yuddha Kanda,95,28,त्पताश्चापिदृश्यन्तेरावणस्यरणेरणे ।।6.95.28।। कथयन्तिहिरामेणरावणस्यनिबर्हणम् । Yuddha Kanda,95,29,पितामहेनप्रीतेनदेवदानवराक्षसैः ।।6.95.29।। रावणस्याभयंदत्तंमनुष्येभ्यो न याचितम् । Yuddha Kanda,95,30,तदिदंमानुषंमन्येप्राप्तंनिःसंशयंभयम् ।।6.95.30।। जीवितान्तकंघोरंरक्षसांरावणस्य च । Yuddha Kanda,95,31,पीड्यमानास्तुबलिनावरदानेनरक्षसा ।।6.95.31।। दीप्स्सैस्तपोभिर्विबुधाःपितामहमपूजयन् । Yuddha Kanda,95,32,देवतानांहितार्थायमहात्मावैपितामहः ।।6.95.32।। उवाचदेवताःसर्वाइदंतुष्टोमहद्वचः । Yuddha Kanda,95,33,अद्यप्रभृतिलोकांस्त्रीन् सर्वेदानवराक्षसाः ।।6.95.33।। भयेनप्रावृतानित्यंविचरिष्यन्तिशाश्वतम् । Yuddha Kanda,95,34,दैवतैस्तुसमागम्यसर्वैश्चेन्द्रपुरोगमैः ।।6.95.34।। वृषध्वजस्त्रिपुरहामहादेवःप्रसादितः । Yuddha Kanda,95,35,प्रसन्नस्तुमहादेवोदेवानेतद्वचोऽब्रवीत् ।।6.95.35।। उत्पत्स्यतिहितार्थंवोनारीरक्षःक्षयावहा । Yuddha Kanda,95,36,एषादेवैःप्रयुक्तातुक्षुद्यथादानवान् पुरा ।।6.95.36।। भक्षयिष्यतिनःसीताराक्षसघ्नीसरावणान् । Yuddha Kanda,95,37,रावणस्यापनीतेनदुर्विनीतस्यदुर्मतेः ।।6.95.37।। अयंनिष्टानकोघोरंशोकेनसमभिप्लुतः । Yuddha Kanda,95,38,तंन पश्यामहेलोकेयोनःशरणदोभवेत् ।।6.95.38।। राघवेणोपसृष्टानां कालेनेव युगक्षये । Yuddha Kanda,95,39,नास्तिनःशरणंकश्चिद्भयेमहतितिष्ठताम् ।।6.95.39।। दावाग्निवेष्टितानांहिकरेणूनांयथावने । Yuddha Kanda,95,40,प्राप्तकालंकृतंतेनपौलस्त्येनमहात्मना ।।6.95.40।। यतएवंभयंदृष्टंतमेवशरणंगतः । Yuddha Kanda,96,1,आर्तानांराक्षसीनांतुलङ्कायांवैकुलेकुले । रावणःकरुणंशब्दंशुश्रावपरिदेवितम् ।।6.96.1।। Yuddha Kanda,96,2,स तुदीर्घंविनिःश्वस्यमुहूर्तंध्यानमास्थितः । बभूवपरमक्रुद्धोरावणोभीमदर्शनः ।।6.96.2।। Yuddha Kanda,96,3,सन्दश्यदशनैरोष्ठंक्रोधसम्रक्तलोचनः । राक्षसैरपिदुर्दर्शःकालाग्निरिवमूर्छितः ।।6.96.3।। Yuddha Kanda,96,4,उवाच च समीपस्थान्राक्षसान्राक्षसेश्वरः । क्रोधाव्यक्तकथस्तत्रनिर्दहन्निवचक्षुषा ।।6.96.4।। Yuddha Kanda,96,5,महोदरंमहापार्श्वंविरूपाक्षं च राक्षसम् । शीघ्रंवदतसैन्यानिनिर्यातेतिममाज्ञया ।।6.96.5।। Yuddha Kanda,96,6,तस्यतद्वचनंश्रुत्वाराक्षसास्तेभयार्दिताः । चोदयामासुरव्यग्रान्राक्षसांस्तान्नृपाज्ञया ।।6.96.6।। Yuddha Kanda,96,7,तेतुसर्वेतथेत्युक्त्वाराक्षसाभीमदर्शनाः । कृतस्वस्त्वयनाःसर्वेतेरणाभिमुखाययुः ।।6.96.7।। Yuddha Kanda,96,8,प्रतिपूज्ययथान्यायंरावणंतेमहारथाः । तस्थुःप्राञ्जलयःसर्वेभर्तुर्विजयकाङ्क्षिणः ।।6.96.8।। Yuddha Kanda,96,9,अथोवाचप्रहस्यैतान्रावणःक्रोधमूर्छितः । महोदरमहापार्श्वौविरूपाक्षं च राक्षसम् ।।6.96.9।। Yuddha Kanda,96,10,अद्यबाणैर्धनुर्मुक्स्सैर्युगान्तादित्यसन्निभैः । राघवंलक्ष्मणंचैवनेष्यामियमसादनम् ।।6.96.10।। Yuddha Kanda,96,11,खरस्यकुम्भकर्णस्यप्रहसेन्द्रजितोस्तथा । करिष्यामिप्रतीकारमद्यशत्रुवधादहम् ।।6.96.11।। Yuddha Kanda,96,12,नैवान्तरिक्षं न दिशो न नद्यौर्नापिसागराः । प्रकाशत्वंगमिष्यन्तिमद्बाणजलदावृताः ।।6.96.12।। Yuddha Kanda,96,13,अद्यवानरमुख्यानांतानियूथानिभागशः । धनुषाशरजालेनवधिष्यामिपतत्रिणा ।।6.96.13।। Yuddha Kanda,96,14,अद्यवानरसैन्यानिरथेनपवनौजसा । धनुस्समुद्रादुद्भूतैर्मथिष्यामिशरोर्मिभिः ।।6.96.14।। Yuddha Kanda,96,15,व्याकोशपद्मवक्त्राणिपद्मकेसरवर्चसाम् । अद्ययूथतटाकानिगजवत्प्रमथाम्यहम् ।।6.96.15।। Yuddha Kanda,96,16,सशरैरद्यवदनैस्सङ्ख्येवानरयूथपाः । मण्डयिष्यन्तिवसुधांसनालैरिवपङ्कजैः ।।6.96.16।। Yuddha Kanda,96,17,अद्ययूथप्रचण्डानांहरीणांद्रुमयोधिनाम् । मुक्तेनैकेषुणायुद्धेभेत्स्यामि च शतंशतम् ।।6.96.17।। Yuddha Kanda,96,18,हतोभर्ताहतोभ्रातायासां च चतनयोहतः । वधेनाद्यरिपोस्तासांकरोम्यश्रुप्रमार्जनम् ।।6.96.18।। Yuddha Kanda,96,19,अद्यमद्भाणनिर्भिन्नैःप्रकीर्णैर्गतचेतनैः । करोमिवानरैर्युद्धेयत्नावेक्ष्यतलांमहीम् ।।6.96.19।। Yuddha Kanda,96,20,अद्यगोमयवोगृध्राश्चये च मांसाशिनोऽपरे । सर्वांस्तांस्तर्पयिष्यामिशत्रुमांसैश्शरार्दितैः ।।6.96.20।। Yuddha Kanda,96,21,कल्प्यतांमेरथंशीघ्रंक्षिप्रमानीयतांधनुः । अनुप्रयान्तुमांयुद्धेयेऽत्रशिष्टानिशाचराः ।।6.96.21।। Yuddha Kanda,96,22,तस्यतद्वचनंश्रुत्वामहापार्श्वोऽब्रवीद्वचः । बलाध्यक्षान् स्थिथांस्तत्रबलंसंत्वर्यतामिति ।।6.96.22।। Yuddha Kanda,96,23,बलाध्यक्षास्तुसम्रब्दाराक्षसांस्तान् गृहेगृहे । चोदयन्तःपरिययुर्लङ्कांलघुपराक्रमाः ।।6.96.23।। Yuddha Kanda,96,24,ततोमुहूर्तान्निष्पेतूराक्षसाभीमदर्शनाः । नदन्तोभीमवदनानानाप्रहरणैर्भुजैः ।।6.96.24।। Yuddha Kanda,96,25,असिभिःपट्टसै: शूलैर्गदाभिर्मुसलैर्हलैः । शक्तिभिस्तीक्ष्णधाराभिर्महद्भि: कूटमुद्गरैः ।।6.96.25।। Yuddha Kanda,96,26,यष्टिभिर्विमलैश्चक्रैर्निशितैश्चपरश्वथै: । भिन्दिपालैःशतघ्नीभिरन्यैश्चापिवरायुधैः ।।6.96.26।। Yuddha Kanda,96,27,अथानयद्बलाध्यक्षस्सत्वरोरावणाज्ञया । द्रुतंसूतसमायुक्तंयुक्ताष्टतुरगंरथम् । आरुरोहतदाभीमोदीप्यमानंस्वतेजसा ।।6.96.27।। Yuddha Kanda,96,28,ततःप्रयातस्सहसाराक्षसैर्भहुभिर्वृतः ।।6.96.28।। रावणःसत्त्वगाम्भीर्याद्दारयन्निवमेदिनीम् । Yuddha Kanda,96,29,रावणेनाभ्यनुज्ञातौमहापार्श्वमहोदरौ । विरूपाक्षश्चदुर्धर्षोरथानारुरुहुस्तदा ।।6.96.29।। Yuddha Kanda,96,30,तेतुहृष्टाविवर्धन्तोभिन्दन्तइवमेदिनीम् । नादंघोरंविमुञ्चन्तोनिर्ययुर्जयकाङ्क्षिणः ।।6.96.30।। Yuddha Kanda,96,31,ततोयुद्धायतेजस्वीरक्षोगणबलैर्वृतः । निर्ययावुद्यतधनुःकालान्तकयमोपमः ।।6.96.31।। Yuddha Kanda,96,32,ततःप्रजविताश्वेनरथेन स महारथः । द्वारेणनिर्ययौतेनयत्रतौरामलक्ष्मणौ ।।6.96.32।। Yuddha Kanda,96,33,ततोनष्टप्रभःसूर्योदिशश्चतिमिरावृताः । द्विजाश्चनेदुर्घोराश्चसञ्चचाल च मेदिनी ।।6.96.33।। Yuddha Kanda,96,34,ववर्षरुधिरंदेवश्चस्खलुश्चतुरङ्गमाः । ध्वजाग्रेन्यपतद्गृध्रोविनेदुश्चाशिवाःशिवाः ।।6.96.34।। Yuddha Kanda,96,35,नयनंचास्फुरद्वामंवामोबाहुरकम्पत । विवर्णवदनश्साकतिंचिदभ्रश्यतस्वनः ।।6.96.35।। Yuddha Kanda,96,36,ततोनिष्पततोयुद्धेदशग्रीवस्यरक्षसः । रणेनिधनशंसीनिरूपाण्येतानिजज्ञिरे ।।6.96.36।। Yuddha Kanda,96,37,अन्तरिक्षात्पपातोल्कानिराघतसमनिर्घास्वना । विनेदुरशिवागृध्रावायसैरभिमिश्रिताः ।।6.96.37।। Yuddha Kanda,96,38,एतानचिन्तयन्घोरानुत्पातान्समवस्थितान् । निर्ययौरावणोमोहाद्वधार्थंकालचोदितः ।।6.96.38।। Yuddha Kanda,96,39,तेषांतुरथघोषेणराक्षसानांमहात्मनाम् । वानराणामपिचमूर्युद्धायैवाभ्यवर्तत ।।6.96.39।। Yuddha Kanda,96,40,तेषांतुतुमुलंयुद्धंबभूवकपिरक्षसाम् । अन्योन्यमाह्वयानानांक्रुद्धानांजयमिच्छताम् ।।6.96.40।। Yuddha Kanda,96,41,ततःक्रुद्धोदशग्रीवश्शरैःकाञ्चनभूषणैः । वानराणामनीकेषुचकारकदनंमहत् ।।6.96.41।। Yuddha Kanda,96,42,विकृत्तशिरसःकेचिद्रावणेनवलीमुखाः । केचिद्विच्छिन्नहृदयाःकेचिच्छ्रोत्रविवर्जिताः ।।6.96.42।। Yuddha Kanda,96,43,निरुच्छवासाहताःकेचित्केचित्पार्श्वेषुदारिताः । केचिद्विभिन्नशिरसःकेचिच्चक्षुर्विनाकृताः ।।6.96.43।। Yuddha Kanda,97,1,तथातैःकृत्तगात्रैस्तुदशग्रीवेणमार्गणैः । बभूववसुधातत्रप्रकीर्णाहरिभिस्तदा ।।6.97.1।। Yuddha Kanda,97,2,रावणस्याप्रसह्यंतंशरसम्पातमेकतः । न शेकुस्सहितुंदीप्तंपतङ्गाज्वलनंयथा ।।6.97.2।। Yuddha Kanda,97,3,तेऽर्दितानिशितैर्बाणैःक्रोशन्तोविप्रदुद्रुवुः । पावकार्चिस्समाविष्टादह्यमानायथागजाः ।।6.97.3।। Yuddha Kanda,97,4,प्लवङ्गनामनीकानिमहाभ्राणीवमारुतः । सययौसमरेतस्मिन्विधमन्रावणश्शरैः ।।6.97.4।। Yuddha Kanda,97,5,कदनंतरसाकृत्वाराक्षसेन्ध्रोवनौकसाम् । आससादततोत्वरितंयुद्धेराघवंस्तदा ।।6.97.5।। Yuddha Kanda,97,6,सुग्रीवस्तान्कपीन्दृष्टवाभग्नान्विद्रावितान्रणे । गुल्मेसुषेणंनिक्षिप्यचक्रेयुद्धेऽद्भुतंमनः ।।6.97.6।। Yuddha Kanda,97,7,आत्मनस्सदृशंवीरस्सतंनिक्षिप्यवानरम् । सुग्रीवोऽऽभिमुखश्शत्रुंप्रतस्थेपादपायुधः ।।6.97.7।। Yuddha Kanda,97,8,पार्श्वतःपृष्ठतश्चास्यसर्वेयूथाधिपास्स्वयम् । अनुजह्रुर्महाशैलान् विविधांश्चमहाद्रुमान् ।।6.97.8।। Yuddha Kanda,97,9,सनदन्युधिसुग्रीवस्स्वरेणमहतामहान् । पातयन्विविधांश्चान्यान्ञ्जगामोत्तमराक्षसान् ।।6.97.9।। Yuddha Kanda,97,10,ममन्थ च महाकायान्राक्षसान्वानरेश्वरः । युगान्तसमयेवायुःप्रवृद्धानगमानिव ।।6.97.10।। Yuddha Kanda,97,11,राक्षसानामनीकेषुशैलवर्षंववर्ष ह । अश्मवर्षंयथामेघःपक्षिसङ्घेषुकानने ।।6.97.11।। Yuddha Kanda,97,12,कपिराजविमुक्तैस्तैश्शैलवर्षैस्तुराक्षसाः । विकीर्णशिरसःपेतुर्निकृत्ताइवपर्वताः ।।6.97.12।। Yuddha Kanda,97,13,अथसंक्षीयमाणेषुराक्षसेषुसमन्ततः । सुग्रीवेणप्रभग्नेषुपतत्सुनिनदत्सु च ।।6.97.13।। Yuddha Kanda,97,14,विरूपाक्षस्स्वकंनामधन्वीविश्राव्यराक्षसः । रथादाप्लुत्यदुर्धर्षोगजस्कन्धमुपारुहत् ।।6.97.14।। Yuddha Kanda,97,15,स तंद्विरदमारुह्यविरूपाक्षोमहारथः । वनर्दभनीमनिर्ह्रादंवानरानभ्यधावत ।।6.97.15।। Yuddha Kanda,97,16,सुग्रीवे स शरान्घोरान्विससर्जचमूमुखे । स्थापयामासचोद्विग्नान्राक्षसान् सम्प्रहर्षयन् ।।6.97.16।। Yuddha Kanda,97,17,सतुविद्धश्शितैर्बाणैःकपीन्द्रस्तेनरक्षसा । चुक्रोध स महाक्रोधोवधेचास्यमनोदधे ।।6.97.17।। Yuddha Kanda,97,18,ततःपादपमुद्धृत्यशूरस्सम्प्रधनोहरिः । अभिपत्यजघानास्यप्रमुखेतुमहागजम् ।।6.97.18।। Yuddha Kanda,97,19,स तुप्रहाराभिहतस्सुग्रीवेणमहागजः । अपासर्पद्धनुर्मात्रंनिषसादननाद च ।।6.97.19।। Yuddha Kanda,97,20,गजात्तुमथितात्तूर्णमपक्रम्य स वीर्यवान् । राक्षसोऽऽभिमुखश्शत्रुंप्रत्युद्गम्यततःकपिम् ।।6.97.20।। Yuddha Kanda,97,21,आर्षभंचर्मखडगं च प्रगृह्यलघुविक्रमः । भर्त्सयन्निवसुग्रीवमाससादव्यवस्थितम् ।।6.97.21।। Yuddha Kanda,97,22,स हितस्याभिसङ्कृद्धःप्रगृह्यविपुलांशिलाम् । विरूपाक्षायचिक्षेपसुग्रीवोजलदोपमाम् ।।6.97.22।। Yuddha Kanda,97,23,स तांशिलामापतन्तींदृष्टवाराक्षसपुङ्गवः । अपक्रम्यसुविक्रान्तःखडगेनप्राहरत्तदा ।।6.97.23।। Yuddha Kanda,97,24,तेनखडगप्रहारेणरक्षसाबलिनाहतः । मुहूर्तमभवद्वीरोविसंज्ञइववानरः ।।6.97.24।। Yuddha Kanda,97,25,स तदा स हसोत्पत्यराक्षसस्यमहाहवे । मुष्टिंसन्वर्त्यवेगेनपातयामासवक्षसि ।।6.97.25।। Yuddha Kanda,97,26,मुष्टिप्रहाराभिहतोविरूपाक्षोनिशाचरः । तेनखडगेनसङ्कृद्दस्सुग्रीवस्यचमूमुखे ।।6.97.26।। कवचंपातयामासपद्भ्यामभिहतोऽऽपतत् । Yuddha Kanda,97,27,स समुत्थायपतितःकपिस्तस्यव्यसर्जयत् । तलप्रहारमशनेस्समानंभीमनिस्स्वनम् ।।6.97.27।। Yuddha Kanda,97,28,तलप्रहारंतद्रक्षस्सुग्रीवेणसमुद्यतम् । नैपुण्यान्मोचयित्वैनंमुष्टिनोरस्यताडयत् ।।6.97.28।। Yuddha Kanda,97,29,तस्सुसङ्कृद्धतरःसुग्रीवोवानरेश्वरः ।।6.97.29।। मोक्षितंचात्मनोदृष्टवाप्रहारंतेनरक्षसा । Yuddha Kanda,97,30,ददर्शान्तरंतस्यविरूपाक्षस्यवानरः ।।6.97.30।। ततोन्यपातयत्क्रोधाच्छङ्खदेशेमहात्तलम् । Yuddha Kanda,97,31,महेन्द्राशनिकल्पेनतलेनाभिहतःक्षितौ ।।6.97.31।। Yuddha Kanda,97,32,पपातरुधिरक्लिन्नश्शोणितंसमुद्यमन् । स्रोतोभ्यस्तुविरूपाक्षोजलंप्रस्रवणादिव ।।6.97.32।। Yuddha Kanda,97,33,विवृत्तनयनंक्रोधात्सफेनंरुधिराप्लुतम् । ददृशुस्तेविरूपाक्षंविरूपाक्षतरंकृतम् ।।6.97.33।। Yuddha Kanda,97,34,स्फुरन्तंपरिवर्तन्तंपार्श्वेनरुधिरोक्षितम् । करुणं च विनर्दन्तंददृशुःकपयोरिपुम् ।।6.97.34।। Yuddha Kanda,97,35,तथातुतौसंम्यतिसम्प्रयुक्तौ । तरस्विनौवानरराक्षसानाम् ।।6.97.35।। Yuddha Kanda,98,1,हन्यमानेबलेतूर्णमन्योन्यंतेमहामृथे । सरसीवमहाघर्मेसोपक्षीणेबभूवतुः ।।6.98.1।। Yuddha Kanda,98,2,स्वबलस्यविघातेनविरूपाक्ष्वधेन च । बभूवद्विगुणंक्रुद्धोरावणोराक्षसाधिपः ।।6.98.2।। Yuddha Kanda,98,3,प्रक्षीणंतुबलंदृष्टवावध्यमानंवलीमुखैः । बभूवास्यव्यथायुद्धेप्रेक्ष्यदैवविपर्ययम् ।।6.98.3।। Yuddha Kanda,98,4,उवाच च समीपस्थंमहोदरमरिन्दमम् । अस्मिन्कालेमहाबाहोजयाशात्वयिमेस्थिता ।।6.98.4।। Yuddha Kanda,98,5,जहिशत्रुचमूंवीरदर्शयाद्यपराक्रमम् । भर्तृपिण्डस्यकालोऽऽयंनिर्देष्टुंसाधुयुध्यताम् ।।6.98.5।। Yuddha Kanda,98,6,एवमुक्तस्तथेत्युक्त्वाराक्षसेन्द्रोमहोदरः । प्रविवेशारिसेनांतांपतङ्गइवपावकम् ।।6.98.6।। Yuddha Kanda,98,7,ततस्सकदनंचक्रेवानराणांमहाबलः । भर्तृवाक्येनतेजस्वीस्वेनवीर्येणचोदितः ।।6.98.7।। Yuddha Kanda,98,8,वानराश्चमहासत्त्वाःप्रगृह्वःविपुलाशशिलाः । प्रविश्यारिबलंभीमंजघ्नुस्तेरजनीचरान् ।।6.98.8।। Yuddha Kanda,98,9,महोदरस्तुसङ्कृद्धश्शरैःकाञ्चनभूषणैः । चिच्छेदपाणिपादोरुन्वानराणांमहाहवे ।।6.98.9।। Yuddha Kanda,98,10,ततस्तेवानरास्सर्वेराक्षसैरर्दिताभृशम् । दिशोदशद्रुताःकेचित्केचित्सुग्रीवमाश्रिताः ।।6.98.10।। Yuddha Kanda,98,11,प्रभग्नांसमरेदृष्टवावानराणांमहाचमूम् । अभिदुद्रावसुग्रीवोमहोदरमनन्तरम् ।।6.98.11।। Yuddha Kanda,98,12,प्रगृह्यविपुलांघोरांमहीधरसमांशिलाम् । चिक्षेप स महातेजास्तद्वधायहरीश्वरः ।।6.98.12।। Yuddha Kanda,98,13,तामापततनींसहसाशिलांदृष्टवामहोदरः । असम्भ्रान्तस्ततोबाणैर्निर्बिभेददुरासदाम् ।।6.98.13।। Yuddha Kanda,98,14,रक्षसातेनबाणौघैर्निकृत्तासासहस्रधा । निपपातशिलाभूमौगृध्रचक्रमिवाकुलम् ।।6.98.14।। Yuddha Kanda,98,15,तांतुभिन्नांशिलांदृष्टवासुग्रीवःक्रोधमूर्छितः । सालमुत्पाट्यचिक्षेपराक्षसेरणमूर्थनि ।।6.98.15।। Yuddha Kanda,98,16,शरैश्चविददारैनंशूरःपरपुरञ्जयः । स ददर्शततःक्रुद्धःपरिघंपतितंभुवि ।।6.98.16।। Yuddha Kanda,98,17,आविध्यतु स तंदीप्तंपरिघंतस्यदर्शयन् । परिघाग्रेणवेगेनजघानास्यहयोत्तमान् ।6.98.17।। Yuddha Kanda,98,18,तस्माद्धतहयावदीरःसोऽऽवप्लुत्यमहारथात् । गदांजग्राहसंक्रुद्धोराक्षसोऽऽथमहोदरः ।।6.98.18।। Yuddha Kanda,98,19,गदापरिघहस्तौतौयुधिवीरौसमीयतुः । नर्दन्तौगोवृषप्रख्यौघनाविवसविद्युतौ ।।6.98.19।। Yuddha Kanda,98,20,ततःक्रुद्धोगदांतस्यैचिक्षेपरजनीचरः । ज्वलतनींभास्कराभासांसुग्रीवायमहोदरः ।।6.98.20।। Yuddha Kanda,98,21,गदांतांसुमहाघोरामापततनींमहाबलः । सुग्रीवोरोषताम्राक्षस्समुद्यम्यमहाहवे ।।6.98.21।। Yuddha Kanda,98,22,आजघानगदांतस्यपरिघेणहरीश्वर । पपात स गदोद्भिन्नःपरिघस्तस्यभूतले ।।6.98.22।। Yuddha Kanda,98,23,ततोजग्राहतेजस्वीसुग्रीवोवसुधातलात् । आयसंमुसलंघोरंसर्वतोहेमभूषितम् ।।6.98.23।। Yuddha Kanda,98,24,स तमुद्यम्यचिक्षेपसोऽऽप्यन्यांव्याक्षिपद्गदाम् । भिन्नावन्योन्यमासाद्यपेततुद्दरणीतले ।।6.98.24।। Yuddha Kanda,98,25,ततोग्नप्रहरणौमुष्टिभ्यांतौसमीयतुः । तेजोबलसमाविष्टौदीप्ताविवहुताशनौ ।।6.98.25।। Yuddha Kanda,98,26,जघ्नतुस्तौतदान्योन्यंवेदतुश्चपुनःपुनः । तलैश्चान्योन्यमहत्यपेततुश्चमहीतले ।।6.98.26।। Yuddha Kanda,98,27,उत्पेततुस्ततस्तूर्णंजघ्नतुश्चपरस्परम् । भुजैश्चिक्षिपतुर्वीरावन्योन्यमपराजितौ ।।6.98.27।। Yuddha Kanda,98,28,जग्मतुस्तौश्रमंवीरौबाहुयुधेपरंतपौ । अजहारतदाखडगमदूरपरिवर्तिनम् ।।6.98.28।। राक्षसश्चर्मणासार्धंमहावेगोमहोदरः । Yuddha Kanda,98,29,थैव च महाखडगंचर्मणापतितंसह ।।6.98.29।। जग्राहवानरश्रेष्ठस्सुग्रीवोवेगवत्तरः।। Yuddha Kanda,98,30,तौतुरोषपरीताङ्गौनर्दन्तावभ्यधावताम् ।।6.98.30।। उद्यतासीरणेहृष्टावुभौशस्त्रविशारदौ । Yuddha Kanda,98,31,दक्षिणंमण्डलंचोभौसुतूर्णंसम्परीयतुः ।।6.98.31।। अन्योन्यमभिसङ्कृद्धौ जये प्रणिहितावुभौ । Yuddha Kanda,98,32,तुशूरोमहावेगोवीर्यश्लाघीमहोदरः ।।6.98.32।। महाचर्मणितंखडगंपातयामासदुर्मतिः । Yuddha Kanda,98,33,लग्नमुत्कर्षतःखडगंखडगेनकपिकुञ्जरः ।।6.98.33।। जहारसशिरस्त्राणंकुण्डलोपहितंशिरः । Yuddha Kanda,98,34,निकृत्तशिरसस्तस्यपतितस्यमहीतले ।।6.98.34।। तद्बलंराक्षसेन्द्रस्यदृष्टवातत्र न तिष्टते । Yuddha Kanda,98,35,हत्वांतंवानरैस्सार्धंननादमुदितोहरिः ।।6.98.35।। चुक्रोध च दशग्रीवोबभौहृष्टश्चराघवः । Yuddha Kanda,98,36,विषण्णवदनास्सर्वेराक्षसादीनचेतसः ।।6.98.36।। विद्रवन्तिततस्सर्वेभयवित्रस्तचेतसः । Yuddha Kanda,98,37,महोदरंतंन्वििपात्यभूमौमहागिरेःकीर्णमिवैकदेशम् । सूर्यात्मजस्तत्ररराजलक्ष्म्यसूर्यस्स्वतेजोभिरिवाप्रधृष्यः ।।6.98.37।। Yuddha Kanda,99,1,महोदरेतुनिहतेमहापार्श्वोमहाबलः । सुग्रीवेणसमीक्ष्याथक्रोधात्सम्ररक्तलोचनः ।।6.99.1।। अङ्गदस्यचमूंभीमांक्षोभयामाससायकैः । Yuddha Kanda,99,2,सवानराणांमुख्यानामुत्तमाङ्गानिसर्वशः ।।6.99.2।। पातयामानकायेभ्यःफलंवृन्तादिवानिलः । Yuddha Kanda,99,3,केषांचिदिषुभिर्बाहुन् स्कन्धांश्छिच्छेदराक्षसः च ।।6.99.3।। वानराणांसुङ्कृद्ध: पार्श्वंकेषांव्यदारयत् । Yuddha Kanda,99,4,तेऽर्दिताबाणवर्षेणमहापार्श्वेनवानराः ।।6.99.4।। विषादविमुखाःसर्वेबभूवुर्गतचेतसः । Yuddha Kanda,99,5,निरीक्ष्यबलमुद्विग्नमङ्गदोराक्षसार्दितम् ।।6.99.5।। वेगंचक्रेमहावेगमहाबाहुस्समुद्रइवपर्वणि । Yuddha Kanda,99,6,आयसंपरिघंगृह्यसूर्यरमशिसमप्रभम् ।।6.99.6।। समरेवानरश्रेष्ठोमहापार्श्वेन्यपातयत् । Yuddha Kanda,99,7,स तुतेनप्रहारेणमहापार्श्वोविचेतनः ।।6.99.7।। ससूतस्स्यन्दनात्तस्माद्विसंज्ञश्चापतद्भुवि । Yuddha Kanda,99,8,स ऋक्षराजस्तेजस्वीनीलाञ्जनचयोपमः ।।6.99.8।। Yuddha Kanda,99,9,निष्पत्यसुमहावीर्यस्स्वाद्व्यूहन्मेघसन्निभात् । प्रगृह्यगिरिशृङ्गाभांक्रुद्धस्सविपुलांशिलाम् ।।6.99.9।। अश्वाञ्जघानतरसाबभञ्जतम् स्यन्दनं च तम् । Yuddha Kanda,99,10,मुहूर्ताल्लब्धसंज्ञस्तुमहापार्श्वोमहाबलः ।।6.99.10।। अङ्गदंबहुभिर्बाणैर्भूयस्तंप्रत्यविध्यत । Yuddha Kanda,99,11,जाम्बवन्तंत्रिभिर्बाणैराजघानस्तनान्तरे ।।6.99.11।। ऋक्षराजंगवाक्षं च जघानबहुभिश्शरैः । Yuddha Kanda,99,12,जाम्बवन्तंगवाक्षं च स दृष्टवाशरपीडितौ ।।6.99.12।। जग्राहपरिघंघोरमङ्गदःक्रोधमूर्छितः । Yuddha Kanda,99,13,तस्याङ्गदःप्रकुपितोराक्षसस्यतमायसम् ।।6.99.13।। Yuddha Kanda,99,14,दूरस्थितस्यपरिघंरविरश्मिसमप्रभम् । द्वावाभ्यांभुजाभ्यांसङ्गृह्यभ्रामयित्वा च वेगवान् ।।6.99.14।। महापार्श्वस्यचिक्षेपवधार्थंवालिनस्सुतः । Yuddha Kanda,99,15,स तुक्षिप्तोबलवतापरिघन्तस्यरक्षसः ।।6.99.15।। धनुश्चसशरंहस्ताछचिरस्त्रांचाप्यपातयत् । Yuddha Kanda,99,16,तंसमासाद्यवेगेनवालिपुत्रःप्रतापवान् ।।6.99.16।। तलेनाभ्यहनत्क्रुद्धः कर्णमूले सकुण्डले । Yuddha Kanda,99,17,स तुक्रुद्धोमहावेगोमहापार्श्वोमहाद्युति ।।6.99.17।। करेणैकेनजग्राहसुमहान्तंपरश्वथम् । Yuddha Kanda,99,18,तंम्तैलधौतंविमलंशैलसारमयंदृढम् ।।6.99.18।। राक्षसःपरमक्रुद्धोवालिपुत्रेन्यपातयत् । Yuddha Kanda,99,19,तेनवामांसफलकेभृशंप्रत्यवपादितम् ।।6.99.19।। अङ्गदोमोक्ष्यामाससरोषस्सपरश्वधम् । Yuddha Kanda,99,20,सवीरोवज्रसङ्काशमङ्गदोमुष्टिमात्मनः ।।6.99.20।। संवर्तयत्सुसङ्कृद्धःपितृतुल्यपराक्रमः । Yuddha Kanda,99,21,राक्षसस्यस्तनाभ्याशेमर्मज्ञोहृदयंप्रति ।।6.99.21।। इन्द्राशनिमस्पर्शं स मुष्टिंविन्यपातयत् । Yuddha Kanda,99,22,तेनतस्यनिपातेनराक्षसस्यमहामृधे ।।6.99.22।। पफालहृदयंचास्य स पपातहतोभुवि । Yuddha Kanda,99,23,स्मिन्निपतितेभूमौतत्सैन्यंसम्प्रचुक्षुभे ।।6.99.23।। अभवच्चमहान्क्रोधस्समरेरावणस्यतु । Yuddha Kanda,99,24,वानराणांश्चहृष्टानांसिंहनादःसुपुष्कलः ।।6.99.24।। Yuddha Kanda,99,25,स्पोटयन्निवशब्देनलङ्कांसाट्टालगोपुराम् । महेन्द्रेणेवदेवानांनादस्समभवन्महान् ।।6.99.25।। Yuddha Kanda,100,1,महोदरमहापार्श्वौहतौदृष्टवातुराक्ष । तस्मिंश्चनिहतेवीरेविरूपाक्षेमहाबले ।।6.100.1।। Yuddha Kanda,100,2,आविवेशमहान् क्रोधोरावणंतुमहामृधे । सूतं सञ्चोदयामास वाक्यं चेदमुवाच ह ।।6.100.2।। Yuddha Kanda,100,3,निहतानाममात्यानांरुद्धस्यनगरस्य च । दुःखमेवापनेष्यामि हत्या तौ रामलक्ष्मणौ ।।6.100.3।। Yuddha Kanda,100,4,रामवृक्षंरणेहमनिसीतापुष्पफलप्रदम् । प्रशाखायस्यसुग्रीवोजाम्बवान्कुमुदोनलः ।।6.100.4।। Yuddha Kanda,100,5,दिविदश्चैवमैन्दश्चअङ्गदोगन्दमादनः । हनुमांश्चसुषेणव्चसर्वे च हरियूथपाः ।।6.100.5।। Yuddha Kanda,100,6,स दिशोदशघोषेणरथस्यातिरथोमहान् । नादयन् प्रययौतूर्णंराघवंचाभ्यधावत ।।6.100.6।। Yuddha Kanda,100,7,पूरितातेनशब्देनसनदीगिरिकानना । सञ्चचाल मही सर्वा त्रस्तसिंहमृगद्विजा ।।6.100.7।। Yuddha Kanda,100,8,तामसंसुमहाघोरंचकारास्त्रंसुदारुणम् । निर्ददाहकपीन् सर्वांस्तेप्रपेतुःसमन्ततः ।।6.100.8।। Yuddha Kanda,100,9,उत्पपातरजोभूमौतैर्भग्नैःसम्प्रधावितैः । न हितत्सहितुंशेकुर्भ्रह्मणानिर्मितंस्वयम् ।।6.100.9।। Yuddha Kanda,100,10,तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः । दृष्टवाभग्नानि शतशो राघवः पर्यवस्थितः ।।6.100.10।। Yuddha Kanda,100,11,ततोराक्षसशार्दूलोविद्राव्यहरिवाहिनीम् । स ददर्शततोरामंतिष्ठन्तमपराजितम् ।।6.100.11।। Yuddha Kanda,100,12,लक्ष्मणेनसहभ्रात्राविष्णुनावासवंयथा । अलिखन्तमिवाकाशमवष्टभ्यमहद्धनुः ।।6.100.12।। पद्मपत्रविशालाक्षंदीर्घबाहुमरिन्दमम् । Yuddha Kanda,100,13,ततोरामोमहातेजाःसौमित्रिसहितोबली ।।6.100.13।। Yuddha Kanda,100,14,वानरांश्चरणेभग्नानापतन्तं च रावणम् । समीक्ष्यराघवोहृष्टोमध्येजग्राहकार्मुकम् ।।6.100.14।। Yuddha Kanda,100,15,विस्फारयितुमारेभेततः स धनुरुत्तमम् । महावेगंमहानादंनिर्भन्दन्निवमेदिनीम् ।।6.100.15।। Yuddha Kanda,100,16,रावणस्य च बाणौघैरामविस्फारितेन च । शब्देनराक्षसास्तेन पेतुश्च शतशस्तदा ।।6.100.16।। Yuddha Kanda,100,17,तयोःशरपथंप्राप्यरावणोराजपुत्रयोः । स बभौ च यथाराहुःसमीपशशिसूर्ययोः ।।6.100.17।। Yuddha Kanda,100,18,तमिच्छन् प्रधमम् योद्धुंलक्ष्मणोनिशितैःशरैः । मुमोचधनुरायम्यशरानग्निशिखोपमान् ।।6.100.18।। Yuddha Kanda,100,19,तान्मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता । बाणान् बाणैर्महातेजा रावणः प्रत्यवारयत् ।।6.100.19।। Yuddha Kanda,100,20,एकमेकेनबाणेनत्रिभिस्त्रीन् दशभिर्दश । लक्ष्मणस्य प्रचिच्छेद दर्शयन् पाणिलाघवम् ।।6.100.20।। Yuddha Kanda,100,21,अभ्यतिक्रम्यसौमित्रिंरावणःसमितिञ्जयः । आससादरणेरामंस्थितंशैलमिवापरम् ।।6.100.21।। Yuddha Kanda,100,22,स राघवंसमासाद्यक्रोधसंरक्तलोचनः । व्यसृजच्छरवर्षाणिरावणो राक्षसेश्वरः ।।6.100.22।। Yuddha Kanda,100,23,शराधारास्ततोरामोरावणस्यधनुश्च्युताः । दृष्टवैवापतिताःशीघ्रंभल्लान् जग्राहसत्वरम् ।।6.100.23।। Yuddha Kanda,100,24,तान् शरौघांस्ततोभल्लैस्तीक्ष्णैश्चिच्छेदराघवः । दीप्यमानान् महाघोरान्क्रुद्धानाशीविषानिव ।।6.100.24।। Yuddha Kanda,100,25,राघवोरावणंतूर्णंरावणोराघवंतथा । अन्योन्यंविविधैस्तीक्ष्णैःशरवर्षैर्ववर्षतुः ।।6.100.25।। Yuddha Kanda,100,26,चेरतुश्चचिरंचित्रंमण्डलंसव्यदक्षिणम् । बाणवेगात्समुत्क्षिप्तावन्योन्यमपराजितौ ।।6.100.26।। Yuddha Kanda,100,27,तयोर्भूतानिवित्रेसुर्युगपत्सम्प्रयुध्यतोः । रौद्रयोःसायकमुचोर्यमान्तकनिकाशयोः ।।6.100.27।। Yuddha Kanda,100,28,सततंविविधैर्बाणैर्बभूवगगनंतदा । घनैरिवातपापायेविद्युन्मालाससमाकुलैः ।।6.100.28।। Yuddha Kanda,100,29,गवाक्षितमिवाकाशंबभूवशरवृष्टिभिः । महावेगैस्सुतीक्ष्णैग्रैर्गृध्रपत्रैःसुवाजितैः ।।6.100.29।। Yuddha Kanda,100,30,शरान्धकारमाकाशंचक्रतुःप्रथमंतदा । गतेऽस्तं तपने चापि महामेघाविवोथतितौ ।।6.100.30।। Yuddha Kanda,100,31,तयोरभून्महद्युद्धमन्योन्यवथकाङ्क्षिणोः । अनासाद्यमच्नित्यं च वृत्रवासवयोरिव ।।6.100.31।। Yuddha Kanda,100,32,उभौहिपरमेष्वासावुभौयुद्धविशारदौ । उभावस्त्रविदां मुख्यावुभौ युद्धेविचेरतुः ।।6.100.32।। Yuddha Kanda,100,33,उभौहियेनव्रजतस्तेनतेनशरोर्मयः । ऊर्मयोवायुनाविद्धा जग्मुः सागरयोरिव ।।6.100.33।। Yuddha Kanda,100,34,ततःसंसक्तहस्तस्तुरावणोलोकरावणः । नराचमालांरामस्यललाटेप्रत्यमुञ्चत ।।6.100.34।। Yuddha Kanda,100,35,रौद्रचापप्रयुक्तांतांनीलोत्पलदलप्रभाम् । शिरसाधारयद्रामो न व्यथमभ्यपद्यत ।।6.100.35।। Yuddha Kanda,100,36,अथमन्त्रानभिजपन्रौद्रमस्तमुदीरयन् । शरान् भूयःसमादाय रामः क्रोधसमन्वितः ।।6.100.36।। मुमोच च महातेजाश्चापमायम्यवीर्यवान् । Yuddha Kanda,100,37,तेमहामेघसङ्काशेकवचेपतिताःशराः ।।6.100.37।। अवध्येराक्षसेन्द्रस्य न व्यथांजनयंस्तदा । Yuddha Kanda,100,38,पुनरेवाधतंरामोरथस्थंराक्षसाधिपम् ।।6.100.38।। ललाटेपरमास्त्रणसर्वास्त्रकुशलोऽभिनत् । Yuddha Kanda,100,39,तेभित्त्वाबाणरूपाणिपञ्चशीर्षाइवोरगाः ।।6.100.39।। श्वसन्तोविविशुर्भूमिंरावणप्रतिकूलिताः । Yuddha Kanda,100,40,निहत्यराघवस्यास्त्रंरावणःक्रोधमूर्छितः ।।6.100.40।। असुरंसुमहाघोरमन्यदस्त्रं चकारसः । Yuddha Kanda,100,41,सिंहव्याघ्रमुखांश्चापिकङ्ककाकमुखानपि ।।6.100.41।। Yuddha Kanda,100,42,गृध्रश्येनमुखांश्चापिशृगाववदनांस्तथा । ईहामृगमुखांश्चापिव्यादितास्यान् भयावहान् ।।6.100.42।। पञ्चास्यान् लेलिहानांश्चससर्जनिशितान् शरान् । Yuddha Kanda,100,43,शरान् खरमुखांश्चान्यान्वराहमुखसंश्रितान् ।।6.100.43।। Yuddha Kanda,100,44,श्वानकुक्कुटवक्त्रांश्चमकराशीविषाननान् । एतांश्चान्यांश्चमायावीससर्जनिशितान् शरान् ।।6.100.44।। रामंप्रतिमहातेजाःक्रुद्धस्सर्पइवश्वसन् । Yuddha Kanda,100,45,असुरेणसमाविष्टंसोऽस्त्रणरघुपुङ्गवः ।।6.100.45।। ससर्जास्त्रं महोत्साहः पावकः पावकोपमः । Yuddha Kanda,100,46,अग्निदीप्तमुखान्बाणांस्तत्रसूर्यमुखानपि ।।6.100.46।। Yuddha Kanda,100,47,चन्द्रार्धचन्द्रवक्रांश्चधूमकेतुमुखानपि । ग्रहनक्षत्रवर्णांश्चमहोल्कामुखसंस्थितान् ।।6.100.47।। विद्युजजिह्वोपमांश्चापिससर्ज विविधान् शरान् । Yuddha Kanda,100,48,तेरावणशराघोराराघवास्त्रसमाहताः ।।6.100.48।। विलयं जग्मुराकाशे जग्मुश्चैव सहस्रशः । Yuddha Kanda,100,49,तदस्त्रंनिहतंदृष्टवारामेणाक्लिष्टकर्मणा ।।6.100.49।। Yuddha Kanda,100,50,हृष्टानेदुस्ततःसर्वेकपयःकामरूपिणः । सुग्रीवप्रमुखावीराःसम्परिक्षिप्यराघवम् ।।6.100.50।। Yuddha Kanda,101,1,तस्मिन्प्रतिहतेऽस्त्रेतुरावणोराक्षसाधिपः । क्रोधं च द्विगुणंचक्रेक्रोधाच्चास्त्रमनन्तरम् ।।6.101.1।। Yuddha Kanda,101,2,मयेनविहितंरौद्रमन्यदस्त्रंमहाद्युतिः । उत्सृष्टुंरावणोभीमंराघवायप्रचक्रमे ।।6.101.2।। Yuddha Kanda,101,3,ततःशूलानिनिश्चेरुर्गदाश्चमुसलानि च । कार्मुकाद्दीप्यमानानिवज्रसाराणिसर्वशः ।।6.101.3।। Yuddha Kanda,101,4,मुद्गराःकूटपाशाश्चदीप्ताश्चाशनयस्तथा । निष्पेतुर्विविधास्तीक्ष्णावाताइवयुगक्षये ।।6.101.4।। Yuddha Kanda,101,5,तदस्त्रंराघव्श्रीमानुत्तमास्त्रविदांवरः । जघानपरमास्त्रणगान्धर्वेणमहाद्युतिः ।।6.101.5।। Yuddha Kanda,101,6,तस्मिन्प्रतिहतेऽतुराघवेणमहात्मना । रावणःक्रोधाताम्राक्षस्सौरमस्त्रमुदैरयत् ।।6.101.6।। Yuddha Kanda,101,7,ततश्चक्राणिनिष्पेतुर्भास्वराणिमहान्ति च । कार्मुकाद्भीमवेगस्यदशग्रीवस्यधीमतः ।।6.101.7।। Yuddha Kanda,101,8,तैरासीद्गगनंदीप्तंसन्ततद्भिःरितस्ततः । पतद्भिश्चदिशोदीप्ताश्चन्द्रसूर्यग्रहैरिव ।।6.101.8।। Yuddha Kanda,101,9,तानिचिच्छेदबाणौघैश्चक्राणितु स राघवः । आयुधानि च चित्राणिरावणस्यचमूमुखे ।।6.101.9।। Yuddha Kanda,101,10,तदस्त्रंतुहतंदृष्टवारावणोराक्षसाधिपः । विव्याथदशभिर्बाणैरामंसर्वेषुमर्मसु ।।6.101.10।। Yuddha Kanda,101,11,स विद्धोदशभिर्बाणैर्महाकार्मुकनिस्सृतैः । रावणेनमहातेजा न प्राकम्पतराघवः ।।6.101.11।। Yuddha Kanda,101,12,ततोविव्याथगात्रेषुसर्वेषुसमितिञ्जयः । राघवस्तुसुसङ्क्रुद्धोरावणंबहुभिश्शरैः ।।6.101.12।। Yuddha Kanda,101,13,एतस्मिन्नन्तरेक्रुद्धोराघवस्यानुजोबली । लक्ष्मणःसायकान्सप्तजग्राहपरवीरहा ।।6.101.13।। Yuddha Kanda,101,14,तै: स्सायकैर्महावेगैरावणस्यमहाद्युति । ध्वजंमनुष्यशीर्षंतुतस्यचिच्छेदनैकधा ।।6.101.14।। Yuddha Kanda,101,15,सारदथेश्चापिबाणेनशिरोज्वलितकुण्डलम् । जहारलक्ष्मणःश्रीमान्नैरृतस्यमहाबलः ।।6.101.15।। Yuddha Kanda,101,16,तस्यबाणैश्चचिच्छेदधनुर्गजकरोपमम् । लक्ष्मणोराक्षसेन्द्रस्यपञ्चभिर्निशितैस्तदा ।।6.101.16।। Yuddha Kanda,101,17,नीलमेघनिभांश्चास्यसदश्वान् पर्वतोपमान् । जघानाप्लुत्यगदयारावणस्यविभीषणः ।।6.101.17।। Yuddha Kanda,101,18,हताश्वात्त्तुस्वोवेगादवप्लुत्यमहारथात् । कोपमाहारत्तीव्रंभ्रातरंप्रतिरावणः ।।6.101.18।। Yuddha Kanda,101,19,ततश्शक्तिंमहाशक्तिर्दीप्तार्दीप्ताशनीमिव । विभीषणस्यचिक्षेपराक्षसेन्द्रःप्रतापवान् ।।6.101.19।। Yuddha Kanda,101,20,अप्राप्तामेवतांबाणैस्त्रिभिश्चिच्छेदलक्ष्मणः । अथोदतिष्ठत्सन्नादोवानराणांमहारणे ।।6.101.20।। Yuddha Kanda,101,21,स पपातत्रिधाछिन्नाशक्तिःकाञ्चनमालिनी । सविस्फुलिङ्गाज्वलितामहोल्केवदिवश्च्युता ।।6.101.21।। Yuddha Kanda,101,22,ततःसम्भाविततरांकालेनापिदुरासदाम् । जग्राहविपुलांशक्तिंदीप्यमानांस्वतेजसा ।।6.101.22।। Yuddha Kanda,101,23,सावेगिताबलवतारावणेनदुरात्मना । जज्वालसुमहातेजादीप्ताशनिसमप्रभा ।।6.101.23।। Yuddha Kanda,101,24,एतस्मिन्नन्तरेवीरोलक्ष्मणस्तंविभीषणम् । प्राणसंशयमापन्नंतूर्णमभ्यवपद्यत ।।6.101.24।। Yuddha Kanda,101,25,तंविमोक्षयितुंवीरश्चापमायम्यलक्ष्मणः । रावणंशक्तिहस्तंवैशरवर्षैरवाकिरत् ।।6.101.25।। Yuddha Kanda,101,26,कीर्यमाणश्शरौघेणविसृष्टेनमहात्मना । न प्रहर्तुंमनश्चक्रेविमुखीकृतविक्रमः ।।6.101.26।। Yuddha Kanda,101,27,मोक्षितंभ्रातरंदृष्टवालक्ष्मणेन स रावणः । लक्ष्मणाभिमुखस्तिष्ठन्निदंवचनमब्रवीत् ।।6.101.27।। Yuddha Kanda,101,28,मोक्षितस्तेबलश्लाघिन्यस्मादेवंविभीषणः । विमुच्यराक्षसंशक्तिस्त्वयीयंविनिपात्यते ।।6.101.28।। Yuddha Kanda,101,29,एषातेहृदयंभित्त्वाशक्तिर्लोहितलक्षणा । मद्भाहुपरिघोत्सृष्टाप्राणानादाययास्यति ।।6.101.29।। Yuddha Kanda,101,30,इत्येवमुक्तातांशक्तिमष्टघण्टांमहास्वनाम् । मयेनमायाविहिताममोघंशत्रुघातिनीम् ।।6.101.30।। Yuddha Kanda,101,31,लक्ष्मणायसमुद्धिश्यज्वलन्तीमिवतेजसा । रावणःपरमक्रुद्धश्चिक्षेप च ननाद च ।।6.101.31।। Yuddha Kanda,101,32,साक्षिप्ताभीमवेगेनवज्राशनिसमस्वना । शक्तिरभ्यपतद्वेगाल्लक्ष्मणंरणमूर्धनि ।।6.101.32।। Yuddha Kanda,101,33,तामनुव्याहरच्छक्तिमापतन्तीं स राघवः । स्वस्त्यस्तुलक्ष्मणआयेतिमोघाभवहतोद्यमा ।।6.101.33।। Yuddha Kanda,101,34,रावणेनरणेशक्तिःक्रुद्धेनाशीविषोपमाः । मुक्ताशूरस्यभीतस्यलक्ष्मणस्यममज्जसा ।।6.101.34।। Yuddha Kanda,101,35,न्यपतत्सामहावेगालक्ष्मणस्यमहोरसि । जिह्वेवोरगराजस्यदीप्यमानामहाद्युतिः ।।6.101.35।। Yuddha Kanda,101,36,ततोरावणवेगेनसुदूरमवगाढया । शक्त्याविभिन्नहृदयःपपातभुविलक्ष्मणः ।।6.101.36।। Yuddha Kanda,101,37,तदवस्थंसमीपस्थोलक्ष्मणंप्रेक्ष्यराघवः । भ्रातृस्नेहान्महातेजाविषण्णहृदयोऽभवत् ।।6.101.37।। Yuddha Kanda,101,38,स मुहूर्तमिवध्यात्वाबाष्पपर्याकुलेक्षणः । बभूवसम्रब्धतरोयुगान्तइवपावकः ।।6.101.38।। Yuddha Kanda,101,39,न विषादस्यकालोऽयमितिसञ्चिन्त्यराघवः । चक्रेसुतुमुलंयुद्धंरावणस्यवधेधृतः ।।6.101.39।। सर्वयत्नेनमहतालक्ष्मणंपरिवीक्ष्य च । Yuddha Kanda,101,40,सददर्शततोरामःशक्त्याभिन्नंमहाहवे ।।6.101.40।। लक्ष्मणंरुधिरादिग्धंसपन्नगमिवाचलम् । Yuddha Kanda,101,41,तामपिप्रहितांशक्तिंरावणेनबलीयसा ।।6.101.41।। यत्नतस्तेहरिश्रेष्ठा न शेकुरवमर्दितुम् । अर्दिताश्चैवबाणौघैस्तेक्षिप्रहस्तेनरक्षसा ।।6.101.42 । Yuddha Kanda,101,43,सौमित्रिंसाविनिर्भिद्यप्रविष्टाधरणीतलम् । तांकराभ्यांपरामृश्यरामःशक्तिंभयावहाम् ।।6.101.43।। बभञ्जसमरेक्रुद्धोबलवान्विचकर्ष च । Yuddha Kanda,101,44,तस्यनिष्कर्षतःशक्तिंरावणेनबलीयसा ।।6.101.44।। शराःसर्वेषुगात्रेषुपातितामर्मभेदिनः । Yuddha Kanda,101,45,अचिन्तयित्वातान्बाणान्समालशिष्य च लक्ष्मणम् ।।6.101.45।। अब्रवीच्चहनूमन्तंसुग्रीवं च महाकपिम् । Yuddha Kanda,101,46,क्ष्मणंपरिवार्यैवतिष्ठध्वंवानरोत्तमाः ।।6.101.46।। Yuddha Kanda,101,47,पराक्रमस्यकालोऽयंसम्प्राप्तोमेचिरेप्सितः । पापात्मायंदशग्रीवोवध्यतांपापनिश्चयः ।।6.101.47।। काङ्क्षितस्स्तोककस्येवघर्मान्तेमेघदर्शनम् । Yuddha Kanda,102,1,शक्त्याविनिहतंदृष्टवारावणेनबलीयसा । लक्ष्मणंसमरेशूरंरूधिरौघपरिप्लुतम् ।।6.102.1।। Yuddha Kanda,102,2,स दत्त्वातुमुलंयुद्धंरावणस्यदुरात्मनः । विसृजन्नेवबाणौघान् सुषेणमिदमब्रवीत् ।।6.102.2।। Yuddha Kanda,102,3,एषरावणवीर्येणलक्ष्मणःपतितोभुविः । सर्पवच्चेष्टतेवीरोभूमौशोकमुदिरीयन् ।।6.102.3।। Yuddha Kanda,102,4,शोणितार्द्रमिमंवीरंप्राणैःप्रियतरंमम । पश्यतोममकाशक्तिर्योद्धुंपर्याकुलात्मनः ।।6.102.4।। Yuddha Kanda,102,5,अ यं स समरश्लाघीभ्रातामेशुभलक्षणः । यदिपञ्चत्वमापन्नःप्राणैर्मेकिंसुखेनवा ।।6.102.5।। Yuddha Kanda,102,6,लज्जतीवहिवीर्यंभ्रश्यतीवकराद्धनुः । सायकाव्यवसीदन्तिदृष्टिर्भाष्पवशंगता ।।6.102.6।। Yuddha Kanda,102,7,अवसीदन्तिगात्राणिस्वप्नयानेनृणामिव । चिन्तामेवर्ततेतीव्रामुमूर्षापि च जायते ।।6.102.7।। Yuddha Kanda,102,8,भ्रातरंनिहतंदृष्टवारावणेनदुरात्मना । विष्टनन्तंतुदुःखार्तंमर्मण्यभिहतंभृशम् ।।6.102.8।। Yuddha Kanda,102,9,राघवोभ्रातरंदृष्टवाप्रियंप्राणंबहिश्चरम् । दुःखेनमहताविष्टोध्यानशोकपरायणः ।।6.102.9।। Yuddha Kanda,102,10,परंविषादमापन्नोविललापाकुलेन्द्रियः । भ्रातरंनिहतंदृष्टवालक्ष्मणंरणपांसुषु ।।6.102.10।। Yuddha Kanda,102,11,विजयोऽपिहिमेशूर न प्रियायोपकल्पते । अचक्षुर्विषयश्चन्द्रःकांप्रीतिंजनयिष्यति ।।6.102.11।। Yuddha Kanda,102,12,किंमेयुद्धेनकिंप्राणैर्युद्धकार्यं न विद्यते । यत्रायंनिहतश्शेतेरणमूर्धनिलक्ष्मणः ।।6.102.12।। Yuddha Kanda,102,13,यथैवमांवनंयान्तमनुयातिमहाद्युतिः । अहमप्युपयास्यामितथैवैनंयमक्षयम् ।।6.102.13।। Yuddha Kanda,102,14,इष्टबन्धुजनोनित्यंमां स नित्यमनुव्रतः । इमामवस्थांगमितोराक्षसैःकूटयोधिभिः ।।6.102.14।। Yuddha Kanda,102,15,देशेदेशेकलत्राणिदेशेदेशे च बान्दवाः । तंतुदेशं न पश्यामियत्रभ्रातासहोदरः ।।6.102.15।। Yuddha Kanda,102,16,इत्येवंविलपन्तंतंशोकविह्वलितेद्रनियम् । विवेष्टमानंकरुणमच्छवसन्तंपुनःपुनः ।।6.102.16।। राममाश्वासयनवीरसुषेनोवाक्यमब्रवीत Yuddha Kanda,102,17,किनुराज्येनदुर्धर्षलक्ष्मणेनविनामम । कथंवक्ष्याम्यहंत्वम्बांसुमित्रांपुत्रवत्सलाम् ।।6.102.17।। Yuddha Kanda,102,18,न मृथोयंमहाबाहो लक्ष्मणोलक्षमिवर्धन: । न चास्यविक्रतंवक्त्रानापिशस्वासं न निष्प्रभं ।।6.102.18।। Yuddha Kanda,102,19,सुप्रभंसुप्रसन्नं च मुखमस्यनिरीक्ष्यताम् ।।6.102.19।। पद्मपत्रतलौहस्तौसुप्रसन्ने च लोचने । Yuddha Kanda,102,20,ऐ वं न विद्यतेरूपंगतासूनांविशम्पते ।।6.102.20।। माविषादंमृकृथावीरसप्राणोऽयमरिन्दम । Yuddha Kanda,102,21,आ ख्यासतितुप्रसुप्तस्यस्रस्तगात्रस्यभूतले ।।6.102.21।। सोच्छवासंहृदयंवीरकम्पमानंमुहुर्मुहुः । Yuddha Kanda,102,22,एवमुक्त्वामहाप्राज्ञःसुषेणोराघवंवचः ।।6.102.22।। समीपस्थमुवाचेदंहनूमन्तंमहाकपिम् । Yuddha Kanda,102,23,सौम्य शीघ्रमितोगत्वाशैलमौषधिपर्वतम् ।।6.102.23।। Yuddha Kanda,102,24,पूर्वंतुकथितोयोऽसौवीर जाम्बवताशुभ: । दक्षिणेशिखरेजातामोषधिमानय ।।6.102.24।। Yuddha Kanda,102,25,सवर्णकरणींनाम्नासावर्ण्यकरणींतथा । सञ्जीवकरणींवीरसन्धानीं च महौषधीम् ।।6.102.25।। सञ्जीवनार्धंवीरस्यलक्ष्मणस्यमहात्मनः । Yuddha Kanda,102,26,इत्येवमुक्तोहनुमान्गत्वाचौषथिपर्वतम् ।।6.102.26।। चिन्तामभ्यगमछ्रचीमानजानं स्ता महौषधीः । Yuddha Kanda,102,27,तस्यबुद्धि: समुत्पन्नामारुतेरमितौजसः ।।6.102.27।। इदमेवगमिष्यामिगृहीत्वाशिखरंगिरेः । Yuddha Kanda,102,28,अस्मिंस्तुशिखरेजातामोषधिंतांसुखावहाम् ।।6.102.28।। प्रतर्केणावगच्छामिसुषेणोह्यवमब्रवीत् । Yuddha Kanda,102,29,अगृह्ययदिगच्छामिविशल्यकरणीमहम् ।।6.102.29।। कालात्ययेनदोषःस्याद्वैक्लब्यं च महद्भवेत् । Yuddha Kanda,102,30,इतिसञ्चिन्त्यहनूमान्गत्वाक्षिप्रंमहाबलः ।।6.102.30।। Yuddha Kanda,102,31,आसाद्यपर्वतश्रेष्ठंप्रक्रम्यगिरेश्शिरः । फुल्लनानातरुगणंसमुत्पाट्यमहाबलः ।।6.102.31।। गृहीत्वाहरिशार्दूलोहस्ताभ्यांसमतोलयत् । Yuddha Kanda,102,32,सनीलमिवजीमूतंतोयपूर्णंनभस्तलात् ।।6.102.32।। उत्पपातगृहीत्वातुहनूमान् शिखरंगिरेः । Yuddha Kanda,102,33,समागम्यमहावेगःसंन्यस्यशिखरंगिरेः ।।6.102.33।। विश्रम्यकिञ्चिद्धनुमान्सुषेणमिदमब्रवीत् । Yuddha Kanda,102,34,ओषधीर्नावगच्छामिताअहंहरिपुङ्गव ।।6.102.34।। तदिदंशिखरंकृत्स्नंगिरेस्तस्याहृतंमया । Yuddha Kanda,102,35,एवंकथयमानंतुप्रशस्यपवनात्मजम् ।।6.102.35।। सुषेणोवानरश्रेष्ठोजग्राहोत्पाट्यचौषधीः । Yuddha Kanda,102,36,विस्मितास्तुबभूवुस्तेसर्वेवानरपुङ्गवाः ।।6.102.36।। दृष्टवाहनूमतःकर्मसुरैरपिसुदुष्करम् । Yuddha Kanda,102,37,ततःसङ्क्षोदयित्वातामोषधिंवानरोत्तमः ।।6.102.37।। लक्ष्मणस्यददौनस्तस्सुषेणस्सुमहाद्युतिः । Yuddha Kanda,102,38,विशल्यस्ससमाघ्रायलक्ष्मणःपरवीरहा ।।6.102.38।। विशल्योविरुजश्शीघ्रमुदतिष्ठन्महीतलात् । Yuddha Kanda,102,39,तमुत्थितंतुहरयोभूतलात्प्रेक्ष्यलक्ष्मणम् ।।6.102.39।। साधुसावधितिसुप्रीतालक्ष्मणंप्रत्यपूजयन् । Yuddha Kanda,102,40,एह्येहीत्यब्रवीद्रामोलक्ष्मणंपरवीरहा ।।6.102.40।। सस्वजेस्नेहगाढं च बाष्पपर्याकुलेक्षणः । Yuddha Kanda,102,41,ब्रवीच्छपरिष्वज्यसौमित्रिंराघवस्तदा ।।6.102.41।। दिष्ट्यात्वांवीरपश्यामिमरणात्पुनरागतम् । Yuddha Kanda,102,42,न हिमेजीवितेनार्थस्सीतयाविजयनेवा ।।6.102.42।। कोहिमेवदतेनार्धस्त्वयिपञ्चत्वमागते । Yuddha Kanda,102,43,इत्येवंवदतस्तस्यराघवस्यमहात्मनः ।।6.102.43।। भिन्नश्शिथिलयावाचालक्ष्मणोवाक्यमब्रवीत् । Yuddha Kanda,102,44,तांप्रतिज्ञांप्रतिज्ञायपुरासत्यपराक्रम ।।6.102.44।। लघुःकश्चिदिवासत्त्वोनैवंवक्तुमिहार्हसि । Yuddha Kanda,102,45,न हिप्रतिज्ञांकुर्वन्तिवितथांसत्यवादिनः ।।6.102.45।। लक्षणंहिमहत्त्वस्यप्रतिज्ञापरिपालनम् । Yuddha Kanda,102,46,नैराश्यमुपगन्तुं च नालंतेमत्कृतेऽनघ ।।6.102.46।। वधेनरावणस्याद्यप्रतिज्ञामनुपालय । Yuddha Kanda,102,47,नजीवन्यास्यतेशत्रुस्तवबाणपथंगतः ।।6.102.47।। नर्दतस्तीक्षणदंष्ट्रस्यसिंहस्येवमहागजः । Yuddha Kanda,102,48,अहंतुवधमिच्छामिशीघ्रमस्यदुरात्मनः ।।6.102.48।। यावदस्तं न यात्येषकृतकर्मादिवाकरः । Yuddha Kanda,103,1,लक्ष्मणेनतुतद्वाक्यमुक्तंश्रुत्वा स राघवः । सन्दधेपरवीरघ्नोधनुरादायवीर्यवान् ।।6.103.1।। Yuddha Kanda,103,2,रावणायशरानघोरान्विससर्जचमूमुखे । अधान्यंरथमास्थायरावणोराक्षसाधिपः ।।6.103.2।। अभ्यधावतकाकुत्स्थंस्वर्भानुरिवभास्करम् । Yuddha Kanda,103,3,दशग्रीवोरधस्थस्तुरामंवज्रोपमैश्शरैः ।।6.103.3।। आजघानमहाशैलंधाराभिरिवतोयदः । Yuddha Kanda,103,4,दीप्तपावकसङ्काशैःशरैःकाञ्चनभूषणैः ।।6.103.4।। अभ्यवर्षद्रणरामोदशग्रीवंसमाहितः । Yuddha Kanda,103,5,भूमौस्थितस्यरामस्यरथस्थस्य च रक्षसः ।।6.103.5।। न समंयुद्धमित्याहुर्देवगन्धर्वकिन्नराः । Yuddha Kanda,103,6,ततोदेववरर्श्रीमान् श्रुत्वातेषांवचोऽमृतम् ।।6.103.6।। आहूयमातलिंशक्रोवचनंचेदमब्रवीत् । Yuddha Kanda,103,7,रथेनममभूमिष्ठंशीघ्रंयाहिरघूत्तमम् ।।6.103.7।। आहूयभूतलंयातःकुरुदेवहितंमहत् । Yuddha Kanda,103,8,इत्युक्तोदेवराजेनमातलिर्देवसारथिः ।।6.103.8।। प्रणम्यशिरसादेवंततोवचनमब्रवीत् । Yuddha Kanda,103,9,शीघ्रंयास्यामिदेवेन्द्रसारथ्यं च करोम्यहम् ।।6.103.9।। ततोहयैश्चसम्योज्यहरितैःस्यन्दनोत्तमम् । Yuddha Kanda,103,10,ततःकाञ्चनचित्राङ्गःकिङ्किणीशतभूषितः ।।6.103.10।। Yuddha Kanda,103,11,तरुणादित्यसङ्काशोवैदूर्यमयकूबरः । सदश्वैःकाञ्चनापीडैर्युक्तश्श्वेतप्रकीर्णकैः ।।6.103.11।। Yuddha Kanda,103,12,हरिभिःसूर्यसङ्काशैर्हेमजालविभूषितैः । रुक्मवेणुध्वज्श्रीमन्देवराजरथोवरः ।।6.103.12।। Yuddha Kanda,103,13,देवराजेनन्दिष्टोरथमारुह्यमातलिः । अभ्यवर्ततकाकुत्स्थमवतीर्यत्रिवष्टपात् ।।6.103.13।। Yuddha Kanda,103,14,अब्रवीच्चतदारामंसप्रतोदोरथेस्थितः । प्राञ्जलिर्मातलिर्वाक्यंसहस्राक्षस्यसारथिः ।।6.103.14।। Yuddha Kanda,103,15,सहस्राक्षेणकाकुत्थ्सरथोऽयंविजयायते । दत्तस्तवमहासत्त्वश्रीमन् शत्रुनिबर्हण ।।6.103.15।। Yuddha Kanda,103,16,इदमैन्द्रंमहच्चापंकवचंचानगिसन्निभम् । शराश्चादित्यसङ्काशाःशक्तिश्चविमलाशिवा ।।6.103.16।। Yuddha Kanda,103,17,आरुह्येमंरथंवीरराक्षसंजहिरावणम् । मयासारथिनाराजन् महेन्द्रइवदानवान् ।।6.103.17।। Yuddha Kanda,103,18,इत्युक्तःसम्परिक्रम्यरथंतमभिवाद्य च । आरुरोहतदारामोलोकान् लक्ष्मविराजयन् ।।6.103.18।। Yuddha Kanda,103,19,तद्भभूवाद्भुतंयुद्धंतुमुलंरोमहर्षणम् । रामस्य च महाबाहोरावणस्य च रक्षसः ।।6.103.19।। Yuddha Kanda,103,20,स गान्धर्वेणगान्धर्वंदैवंदैवेनराघवः । अस्त्रंराक्षसराजस्यजघानपरमास्त्रवित् ।।6.103.20।। Yuddha Kanda,103,21,अस्त्रंतुपरमंघोरंराक्षसंराक्षसाधिपः । ससर्जपरमक्रुद्धःपुनरेवनिशाचरः ।।6.103.21।। Yuddha Kanda,103,22,तेरावणधनुर्मुक्ताःशराःकाञ्चनभूषणाः । अभ्यवर्तन्तकाकुत्स्थंसर्पाभूत्वामहाविषाः ।।6.103.22।। Yuddha Kanda,103,23,तेदीप्तवदनादीप्तंसमन्तोज्वलनंमुखैः । राममेवाभ्यवर्तन्तव्यादितास्याभयानकाः ।।6.103.23।। Yuddha Kanda,103,24,तैर्वासुकिसमस्पर्शैर्दीप्तभोगैर्महाविषैः । दिशश्चसन्ततास्सर्वाप्रदिशश्चसमावृताः ।।6.103.24।। Yuddha Kanda,103,25,तान् दृष्टवापन्नगान् रामःसमापततआहवे । अस्त्रंगारुत्मतंघोरंप्रादुश्चक्रेभयावहम् ।।6.103.25।। Yuddha Kanda,103,26,तेराघवधनुर्मुक्तारुक्मपुङ्खाःशिखिप्रभाः । सुपर्णाःकाञ्चनाभूत्वाविचेरुःसर्पशत्रवः ।।6.103.26।। Yuddha Kanda,103,27,तेतान्सर्वान् जघ्नुस्सर्परूपान्महाजवान् । सुपर्णरूपारामस्यविशिखाःकामरूपिणः ।।6.103.27।। Yuddha Kanda,103,28,अस्त्रेप्रतिहतेक्रुद्धोरावणोराक्षसाधिपः । अभ्यवर्षत्तदारामंघोराभिःशरवृष्टिभिः ।।6.103.28।। Yuddha Kanda,103,29,ततश्शरसहस्रेणराममक्लिष्टकारिणम् । अर्दयित्वाशरौघेणमातलिम्प्रत्यविध्यत ।।6.103.29।। Yuddha Kanda,103,30,चिच्छेदकेतुमुद्धिश्यशरेणैकेनरावणः । पातयित्वारथोपस्थेरथात्केतुं च काञ्चनम् ।।6.103.30।। ऐन्द्रानपिजघानाश्वान्शरजालेनरावणः । Yuddha Kanda,103,31,तदृष्ट्वासुमहातत्कर्मरावणस्यदुरात्मना: । विषेदुर्देवगन्धर्वाचारणादानवैस्सह ।।6.103.31।। Yuddha Kanda,103,32,राममार्तंतदादृष्टवासिद्धाश्चपरमर्षयः । व्यथितावानरेन्द्राश्चबभूवुस्सविभीषणाः ।।6.103.32।। रामचन्द्रमसंदृष्टवाग्रस्तंरावणराहुणा । Yuddha Kanda,103,33,प्राजात्यं च नक्षत्रंरोहिणींकशशिनःप्रियाम् ।।6.103.33।। समाक्रम्यबुधस्तस्थौप्रजानामशुभावहः । Yuddha Kanda,103,34,सधूमपरिवृत्तोर्मिःप्रज्वलन्निवसागरः ।।6.103.34।। उत्पपाततदाक्रुद्धस्स्पृशन्निवदिवाकरम् । Yuddha Kanda,103,35,शस्त्रवर्णस्सुपरुषोमन्दरश्मिद्दिवाकरः ।।6.103.35।। अदृश्यतकबन्धाङ्कःसंसक्तोधूमकेतुना । Yuddha Kanda,103,36,कोसलानां च नक्षत्रंव्यक्तमिन्द्राग्निदैवतम् ।।6.103.36।। आक्रम्याङ्गारकस्तस्थौविशाखामपिचाम्बरे । Yuddha Kanda,103,37,दशास्योविंशतिभुजःप्रगृहीतशरासनः ।।6.103.37।। अदृशास्यःदशग्रीवःमैनाकःपर्वतःइव Yuddha Kanda,103,38,निरस्यमानोरामस्तुदशग्रीवेणरक्षसा ।।6.103.38।। नाशक्नोदभिसन्धातुंसायकान्रणमूर्धनि । Yuddha Kanda,104,1,तस्यक्रुद्धस्यवदनंदृष्टवारामस्यधीमतः ।।6.104.1।। सर्वभूतानिवित्रेसुःप्राकम्पत च मेदिनी । Yuddha Kanda,104,2,सिंहशार्दूलान्शैलस्सञ्चचालचलद्द्रुमः । बभूवचापिक्षुभितःसमुद्रःसरिताम्पतिः ।।6.104.2।। Yuddha Kanda,104,3,खराश्चखरनिर्घोषागगनेपरुषाघनाः । औत्पातिकानिनर्दन्तस्समन्तात्परिचक्रमुः ।।6.104.3।। Yuddha Kanda,104,4,रामंदृष्टवासुसङ्क्रुद्धमुत्पातांश्चैवसुदारुणान् । वित्रेसुस्सर्वभूतानिरावणस्याभवद्भयम् ।।6.104.4।। Yuddha Kanda,104,5,विमानस्थास्तदादेवागन्धर्वाश्चमहोरगाः । ऋषिदावनदैत्याश्चगरुत्मन्तश्चखेचराः ।।6.104.5।। Yuddha Kanda,104,6,ददृशुस्तेतदायुद्धंलोकसम्वर्तसंस्थितम् । नानाप्रहरणैर्भीमैश्शूरयोस्सम्प्रयुध्यतोः ।।6.104.6।। Yuddha Kanda,104,7,ऊचुस्सुरासुरास्सर्वेतदाविग्रहमागताः । प्रेक्षमाणामहर्युद्धंवाक्यंभक्त्याप्रहृष्टवत् ।।6.104.7।। Yuddha Kanda,104,8,दशग्रीवंजयेत्याहुरसुराःसमवस्थिताः । देवाराममवोचंस्तेत्वंजयेतिपुनःपुनः ।।6.104.8।। Yuddha Kanda,104,9,एतस्मिन्नन्तरेक्रोधाद्राघवस्य स रावणः । प्रहर्तुकामोदुष्टात्मास्पृशन् प्रहरणंमहत् ।।6.104.9।। Yuddha Kanda,104,10,वज्रसारंमहानादंसर्वशत्रुनिबर्हणम् । शैलशृङ्गनिभैःकूटैश्चित्तदृष्टिभयावहम् ।।6.104.10।। Yuddha Kanda,104,11,सधूममिवतीक्ष्णाग्रंयुगान्ताग्निचमोपमम् । अतिरौद्रमनासाद्यंकालेनापिदुरासदम् ।।6.104.11।। Yuddha Kanda,104,12,त्रासनंसर्वभूतानांदारणंभेदनंतथा । प्रदीप्तमिवरोषेणशूलंजग्राहरावणः ।।6.104.12।। Yuddha Kanda,104,13,तच्छूलंपरमक्रुद्धोमध्येजग्राहवीर्यवान् । अनेकैःसमरेश्शूरैराक्षसैःपरिवारितः ।।6.104.13।। Yuddha Kanda,104,14,समुद्यम्यमहाकायोननादयुधिभैरवम् । संरक्तनयनोरोषात्स्वसैन्यमभिहर्षयन् ।।6.104.14।। Yuddha Kanda,104,15,पृथिवींचान्तरिक्षं च दिशश्चप्रदिशस्तथा । प्राकम्पयत्तदाशब्दोराक्षसेन्द्रस्यदारुणः ।।6.104.15।। Yuddha Kanda,104,16,अतिनादस्य्यदानेनतेनतस्यदुरात्मनः । सर्वभूतानिवित्रेसुस्सागरश्चप्रचुक्षुभे ।।6.104.16।। Yuddha Kanda,104,17,स गृहीत्वामहावीर्यश्शूलंतद्रावणोमहत् । विनद्यसुमहानादंरामंपरुषमब्रवीत् ।।6.104.17।। Yuddha Kanda,104,18,शूलोऽयंवज्रसारस्तेरामरोषान्मयोद्यतः । तवभ्रातृसहायस्यसम्यक् प्राणान् हरिष्यति ।।6.104.18।। Yuddha Kanda,104,19,रक्षसामद्यशूराणांनिहतानांचमूमुखे । त्वांनिहत्यरणश्लाघीकरोमितरसासमम् ।।6.104.19।। Yuddha Kanda,104,20,तिष्ठेदानींनिहमनित्वामेषशूलेनराघव । एवमुक्त्वा स चिक्षेपतच्छूलंराक्षसाधिपः ।।6.104.20।। Yuddha Kanda,104,21,तद्रावणकरान्मुक्तंविद्युन्मालासमावृतम् । अष्टघण्टंमहानादंवियद्गतमशोभत ।।6.104.21।। Yuddha Kanda,104,22,तच्छूलंराघवोदृष्टवाज्वलन्तंघोरदर्शनम् । ससर्जविशिखान्रामश्चापमायम्यवीर्यवान् ।।6.104.22।। Yuddha Kanda,104,23,आपतन्तंशरौघेणवारयामासराघवः । उत्पतन्तंयुगान्तानगिंजलौघैरिववासवः ।।6.104.23।। Yuddha Kanda,104,24,निर्ददाह स तान्बाणान्रामकार्मुकनिःसृतान् । रावणस्यमहान् शूलःपतङ्गानिवपावकः ।।6.104.24।। Yuddha Kanda,104,25,तान्दृष्टवाभस्मसाद्भूतान्शूलसम्स्पर्शचूर्णितान् । सायकानन्तरिक्षस्थान् राघवःक्रोधमाहरत् ।।6.104.25।। Yuddha Kanda,104,26,स तांमातलिनानीतांशक्तिंवासवसम्मताम् । जग्राहपरमक्रुद्धोराघवोरघुनन्दनः ।।6.104.26।। Yuddha Kanda,104,27,सातोलिताबलवताशक्तिर्घण्टाकृतस्वना । नभःप्रज्वालयामासयुगान्तोल्केवसप्रभा ।।6.104.27।। Yuddha Kanda,104,28,साक्षिप्ताराक्षसेन्द्रस्यतस्मिन्कूलेपपात ह । भिन्नःशक्त्यामहान् शूलोनिपपातहतद्युतिः ।।6.104.28।। Yuddha Kanda,104,29,निर्भिभेदततोबाणैर्हयानस्यमहाजवान् । रामस्त्रीक्ष्णैर्महावेगैर्भाणवद्भिरजिह्मगैः ।।6.104.29।। Yuddha Kanda,104,30,निर्बिभेदोरपितदारावणंनिशितैश्शरैः । राघवःपरमायत्तोललाटेपत्रतिभिस्त्रिभिः ।।6.104.30।। Yuddha Kanda,104,31,स शरैर्भिन्नसर्वाङ्गोगात्रप्रसृतशोणितः । राक्षसेन्द्रस्समूहस्थःफुल्लाशोकइवाबभौ ।।6.104.31।। Yuddha Kanda,105,1,स तेनतुतदाक्रोधात्काकुत्स्थेनार्दितोरणे । रावणस्समरश्लाघिमहाक्रोधामुपागमत् ।।6.105.1।। Yuddha Kanda,105,2,स दीप्तनयनोरोषाच्चापमायाम्यवीर्यवान् । अभ्यर्दयत्सुसङ्कृद्धोराघवंपरमाहवे ।।6.105.2।। Yuddha Kanda,105,3,बाणधारसहस्रैस्तैस्सतोयदइवाम्बरात् । राघवंरावणोबाणैस्तटकमिवपूरयन् ।।6.105.3।। Yuddha Kanda,105,4,पूरितःशरजालेनधनुर्मुक्तेनसम्युगे । महागिरिरिवाकम्प्यःकाकुत्स्थो न प्रकम्पते ।।6.105.4।। Yuddha Kanda,105,5,स शरैश्शरजालानिवारयन् समरेस्थितः । गभस्तीनिवसूर्यस्यप्रतिजग्राहवीर्यवान् ।।6.105.5।। Yuddha Kanda,105,6,ततश्शरसहस्राणिक्षिप्रहस्तोनिशाचरः । निजघानोरसिक्रुद्धोराघवस्यमहात्मनः ।।6.105.6।। Yuddha Kanda,105,7,स शोणितसमादिग्धस्समरेलक्ष्मणाग्रजः । दृष्टःफुल्लइवारण्येसुमहान् किंशुकद्रुमः ।।6.105.7।। Yuddha Kanda,105,8,शराभिघातसम्रब्दःसोऽभिजग्राहसायकान् । काकुत्स्थ: सुमहातेजायुगान्तादित्यतेजसः ।।6.105.8।। Yuddha Kanda,105,9,ततोऽन्योन्यंसुसम्रब्धौतावुभौरामरावणौ । शरान्धकारेसमरेनोपलक्ष्यतांतदा ।।6.105.9।। Yuddha Kanda,105,10,ततःक्रोधसमाविष्टोरामोदशरथात्मजः । उवाचरावणंवीरःप्रहस्यपरुषंवचः ।।6.105.10।। Yuddha Kanda,105,11,ममभार्याजनस्थानादज्ञानाद्राक्षसाधम । हृतातेविवशायस्मात्तस्मात्त्वंनासिवीर्यवान् ।।6.105.11।। Yuddha Kanda,105,12,मयाविरहितांदीनांवर्तमानांमहावने । वैदेहींप्रसभंहृत्वाशूरोऽहमितिमन्यसे ।।6.105.12।। Yuddha Kanda,105,13,स्त्रीषुशूरविनाथासुपरदाराभिमर्शक । कृत्वाकापुरुषंकर्मशूरोऽहमितिमन्यसे ।।6.105.13।। Yuddha Kanda,105,14,भिन्नमर्यादनिर्लज्ज चारित्रेष्वनवस्थित । दर्पान्मृत्युमुपादायशूरोऽहमितिमन्यसे ।।6.105.14।। Yuddha Kanda,105,15,शूरेणधनदभ्रात्राबलैःसमुदितेन च । श्लाघनीयंमहत्कर्मयशस्यं च कृतंत्वया ।।6.105.15।। Yuddha Kanda,105,16,उत्सेकानाभिपन्नस्यगर्हितस्याहितस्य च । कर्मणःप्राप्नुहीदानांतस्याद्यसुमहत्फलम् ।।6.105.16।। Yuddha Kanda,105,17,शूरोऽहमितिचात्मानमवगच्छसिदुर्मते । नैवलज्जास्तितेसीतांचौरवद्वृपकर्षतः ।।6.105.17।। Yuddha Kanda,105,18,यदिमत्सन्निधौसीताधर्षितास्यात्त्वयाबलात् । भ्रातरंतुखरंपश्येस्तदामत्सायकैर्हतः ।।6.105.18।। Yuddha Kanda,105,19,दिष्ट्यासिममदुष्टात्मश्चक्षुर्विषयमागतः । अद्यत्वांसायकैस्तीक्ष्णैर्नयामियमसादनम् ।।6.105.19।। Yuddha Kanda,105,20,अद्यतेमच्छरैश्चिन्नंशिरोज्वलितकुण्डलम् । क्रव्यादाव्यपकर्षन्तुविकीर्णंरणपांसुषु ।।6.105.20।। Yuddha Kanda,105,21,निपत्योरसिगृध्रास्तेक्षितौक्षिप्तस्यरावण । पिबन्तुरुधिरंतर्षाद्बाणशल्यान्तरोत्थितम् ।।6.105.21।। Yuddha Kanda,105,22,अद्यमद्बाणभिन्नस्यगतासोःपतितस्यते । कर्षन्त्वन्त्राणिपतगागरुत्मन्तइवोरगान् ।।6.105.22।। Yuddha Kanda,105,23,इत्येवं स वदन्वीरोरामश्शत्रुनिबर्हणः । राक्षसेन्द्रंसमीपस्थंशरवर्षैरवाकिरत् ।।6.105.23।। Yuddha Kanda,105,24,बभूवद्विगुणंवीर्यंबलंहर्षश्चसंयुगे । रामस्यास्त्रबलंचैवशत्रोर्निधनकाङ्क्षिणः ।।6.105.24।। Yuddha Kanda,105,25,प्रादुर्भभूवुरस्त्राणिसर्वाणिविदितात्मनः । प्रहर्षाच्चमहातेजाश्शीघ्रहस्ततरोऽभवत् ।।6.105.25।। Yuddha Kanda,105,26,शुभान्येतानिचिह्नानिविज्ञायात्मगतानिसः । भूयएवार्दयद्रामोरावणंराक्षसान्तकृत् ।।6.105.26।। Yuddha Kanda,105,27,हरीणांचाश्मनिकरैश्शरवर्षाच्चराघवात् । हन्यमानोदशग्रीवोविघूर्णहृदयोऽभवत् ।।6.105.27।। Yuddha Kanda,105,28,यदा च शस्त्रंनारेभे न चकर्षशरासनम् । नास्यप्रत्यकरोवदीर्यंविक्लबेनान्तरात्मना ।।6.105.28।। Yuddha Kanda,105,29,क्षिप्ताःश्चाशुशरास्तेनशस्त्राणिविविधानि च । मरणार्थायवर्तन्तेमृत्युकालोऽभ्यवर्तत ।।6.105.29।। Yuddha Kanda,105,30,सूतस्तुरथनेतास्यतदवस्थंनिरीक्ष्यतम् । शनैर्युद्धासम्भ्रान्तोरथंतस्यापवाहयत् ।।6.105.30।। Yuddha Kanda,106,1,सतुमोहात्सुसङ्क्रुद्धःकृतान्तबलचोदितः । क्रोधसंरक्तनयनोरावणंसूतमब्रवीत् ।।6.106.1।। Yuddha Kanda,106,2,हीनवीर्यमिवाशक्तंपौरुषेणविवर्जितम् । भीरुंलघुमिवासत्त्वंविहीनमिवतेजसा ।।6.106.2।। Yuddha Kanda,106,3,विमुक्तमिवमायाभिरस्त्रैरिवबहिष्कृतम् । मामवज्ञायदुर्बुद्धेस्वयाबुद्ध्याविचेष्टसे ।।6.106.3।। Yuddha Kanda,106,4,किमर्थंमामवज्ञायमच्छन्दमनवेक्ष्य च । त्वयाशत्रुसमक्षंमेरथोऽयमपवाहितः ।।6.106.4।। Yuddha Kanda,106,5,त्वयाद्यहिममानार्य चिरकालसमार्जितम् । यशोवीर्यं च तेजश्चप्रत्ययश्चविनाशितः ।।6.106.5।। Yuddha Kanda,106,6,प्रख्यातवीर्यस्यरञ्जनीयस्यविक्रमैः । पश्यतोयुद्धलुब्धोऽहंकृतंकापुरुषस्त्वया ।।6.106.6।। Yuddha Kanda,106,7,यस्त्वंरथमिदंमोहान्नचेद्वहसिदुर्मते । सत्योऽप्रतितर्कोमेपरेणत्वमुपस्कृतः ।।6.106.7।। Yuddha Kanda,106,8,न हितद्विद्यतेकर्मसुहृदोहितकाङ्क्षिणः । रिपूणांसदृशंत्वेतद्यतत्त्वयैतदनुष्ठितम् ।।6.106.8।। Yuddha Kanda,106,9,निवर्तयरथंशीघ्रंयावन्नापैतिमेरिपुः । यदिवाध्युषितोऽसित्वंस्मर्यतेयदिमेगुणः ।।6.106.9।। Yuddha Kanda,106,10,एवंपुरुषमुक्तस्तुहितबुद्धिबुद्धिना । अब्रवीद्रावणंसूतोहितंसानुनयंवचः ।।6.106.10।। Yuddha Kanda,106,11,न भीतोऽस्मि न मूढोऽस्मिनोपजप्तोऽस्मिशत्रुभिः । न प्रमत्तो न निःस्नेहोविस्मृता न च सत्क्रिया ।।6.106.11।। Yuddha Kanda,106,12,मयातुहितकामेवयशश्चपरिरक्षता । स्नेहप्रसन्नमनसाहितमित्यप्रियंकृतम् ।।6.106.12।। Yuddha Kanda,106,13,नास्मिन्नर्थेमहाराज त्वंमांप्रियहितेरतम् । कश्चिल्लघुरिवानार्योदोषतोगन्तुमर्हसि ।।6.106.13।। Yuddha Kanda,106,14,श्रूयतांप्रतिदास्यामियन्निमित्तंमयारथः । नदीवेगइवामंभोभिेसंयुगेविनिवर्तितः ।।6.106.14।। Yuddha Kanda,106,15,श्रमंतवावगच्छामिमहतारणकर्मणा । न हितेवीर्यसौमुख्यंप्रकर्षंवोपधारये ।।6.106.15।। Yuddha Kanda,106,16,रथोद्वहनखिन्नाश्चभग्नामेरथवाजिनः । दीनाघर्मपरिश्रान्तागावोवर्षहताइव ।।6.106.16।। Yuddha Kanda,106,17,निमित्तानि च भूयिष्ठंयानिप्रादुर्भवन्तिनः । तेषुतेष्वभिपन्नेषुलक्ष्याम्यप्रदक्षिणम् ।।6.106.17।। Yuddha Kanda,106,18,देशकालौ च विज्ञेयौलक्षणानीङ्गितानि च । दैन्यंहर्षश्चखेदश्चरथिनश्चबलाबलम् ।।6.106.18।। Yuddha Kanda,106,19,स्थलनिम्नानिभूमेश्चसमानिविषमाणि च । युद्धकालश्चविज्ञेयःपरस्यान्तरदर्शनम् ।।6.106.19।। Yuddha Kanda,106,20,उपयानापयाने च स्थानंप्रत्यपसर्पणम् । सर्वमेतद्रथस्थेनज्ञेयंरथकुटुम्भिना ।।6.106.20।। Yuddha Kanda,106,21,तवविश्रामहेतोस्तुतथैषांरथवाजिनाम् । रौद्रंवर्जयताखेदंक्षमंकृतमिदंमया ।।6.106.21।। Yuddha Kanda,106,22,स्वेच्छयान मयावीररथोऽयमपवाहितः । भर्तृस्नेहपरीतेनमयेदंयत्कृतंप्रभो ।।6.106.22।। Yuddha Kanda,106,23,आज्ञापययथातत्त्वंवक्ष्यस्यरिनिषूदन । तत्करिष्याम्यहंवीरगतानृण्येनचेतसा ।।6.106.23।। Yuddha Kanda,106,24,सन्तुष्टस्तेनवाक्येनरावणस्तस्यसारथेः । प्रशस्यैनंबहुविधंयुद्धलुब्धोऽब्रवीदिदम् ।।6.106.24।। Yuddha Kanda,106,25,रथंशीघ्रमिदंसूतराघवाभिमुखंनय । नाहत्वासमरेशत्रून्निवर्तिष्यतिरावणः ।।6.106.25।। Yuddha Kanda,106,26,एवमुक्त्वाततस्तुष्टोरावणोराक्षसेश्वरः । ददौतस्यशुभंह्येकंहस्ताभरणमुत्तमम् ।।6.106.26।। श्रुत्वारावणवाक्यानिसारथिस्सन्यवर्तत । Yuddha Kanda,107,1,ततोयुद्धपरिश्रान्तंसमरेचिन्तयास्थितम् । रावणंचाग्रतोदृष्टवायुद्धायसमुपस्थितम् ।।6.107.1।। Yuddha Kanda,107,2,दैवतैश्चसमागम्यद्रष्टुमभ्यागतोरणम् । उपागम्याब्रवीद्राममगस्त्योभगवान् ऋषिः ।।6.107.2।। Yuddha Kanda,107,3,राम राम महाबाहो शृणुगुह्यंसनातनम् । येनसर्वानरीस्वत्ससमरेविजयिष्यसे ।।6.107.3।। Yuddha Kanda,107,4,आदित्यहृदयंपुण्यंसर्वशत्रुविनाशनम् । जयावहंजपेन्नित्यमक्षय्यंपरमंशिवम् ।।6.107.4।। Yuddha Kanda,107,5,सर्वमङ्गलमङ्गल्यंसर्वपापप्रणाशनम् । चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् ।।6.107.5।। Yuddha Kanda,107,6,रस्मीमन्तंसमुद्यन्तंदेवासुरनमस्कृतम् । पूजयस्वविवस्त्वन्तंभास्करंभुवनेश्वरम् ।।6.107.6।। Yuddha Kanda,107,7,सर्वदेवात्मकोह्येषतेजस्वीरस्मीभावनः । एषदेवासुरगणान्लोकान्पातिगभस्तिभिः ।।6.107.7।। Yuddha Kanda,107,8,एषब्रह्मा च विष्णुश्चशिवःस्कन्धःप्रजापतिः । महेन्द्रोधनदःकालोयमःसोमोह्यपांपतिः ।।6.107.8।। Yuddha Kanda,107,9,पितरोवसवस्साध्याअश्विनौमरुतोमनुः । वायुर्वह्निःप्रजाःप्राणऋतुकर्ताप्रभाकरः ।।6.107.9।। Yuddha Kanda,107,10,आदित्यःसवितासूर्यःखगःपूषागभस्तिमान् । सुवर्णसदृशोभानुर्हिरण्यरेतादिवाकरः ।।6.107.10।। Yuddha Kanda,107,11,हरिदश्वस्सहस्रार्चिस्सप्तसप्तिर्मरीचिमान् । तिमिरोन्मथनश्शम्भुस्त्वष्टामार्तण्डकोऽंशुमान् ।।6.107.11।। Yuddha Kanda,107,12,हिरण्यगर्भश्शिशिरस्तपनोभास्करोरविः । अग्निगर्भोऽदितेःपुत्रःशङ्घश्शिशिरनाशनः ।।6.107.12।। Yuddha Kanda,107,13,व्योमनाथस्तमोभेदीऋग्यजुस्सामपारगः । घनवृष्टिरपांमित्रोविन्ध्यवीथीप्लवङ्गमः ।।6.107.13।। Yuddha Kanda,107,14,आतपीमण्डलेमृत्युःपिङ्गलस्सर्वतापनः । कविर्विश्वोमहातेजारक्तस्सर्वभवोद्भव: ।।6.107.14।। Yuddha Kanda,107,15,नक्षत्रग्रहताराणामधिपोविश्वभावनः । तेजसामपितेजस्वीद्वादशात्मन्नमोऽस्तुते ।।6.107.15।। Yuddha Kanda,107,16,नमःपूर्वायगिरयेपश्चिमायाद्रयेनमः । ज्योतिर्गणानांपतयेदिनाधिपतयेनमः ।।6.107.16।। Yuddha Kanda,107,17,जयायजयभद्रायहर्यश्वायनमोनमः । नमोनमस्सहस्रांशोआदित्यायनमोनमः ।।6.107.17।। Yuddha Kanda,107,18,नमउग्रायवीरायसारङ्गायनमोनमः । नमःपद्मप्रबोधायमार्ताण्डायनमोऽस्तुते ।।6.107.18।। Yuddha Kanda,107,19,ब्रह्मेशानाच्युतेशायसूर्यायादित्यवर्चसे । भास्वतेसर्वभक्षायरौद्रायवपुषेनमः ।।6.107.19।। Yuddha Kanda,107,20,तमोघ्नायहिमघ्नायशत्रुघ्नायामितात्मने । कृतघ्नघ्नायदेवायज्योतिषांपतयेनमः ।।6.107.20।। Yuddha Kanda,107,21,तप्तचामीकराभायहरयेविश्मकर्मणे । नमस्तमोभिनिघ्नायरुचयेलोकसाक्षिणे।।1.107.21।। Yuddha Kanda,107,22,नाशयत्येषवैभूतंतदेवसृजतिप्रभुः । पायत्येषतपत्येषवर्षत्येष गभस्तिभिः ।1.107.22।। Yuddha Kanda,107,23,एषसुप्तेषुजागर्तिभूतेषुपरिनिष्ठितः । एषचैवाग्निहोत्रं च फलंचैवाग्निहोत्रिणाम् ।।6.107.23।। Yuddha Kanda,107,24,वेदश्चक्रतवश्चैवक्रतूनांफलमेव च । यानिकृत्यानिलोकेषुसर्वेषुपरमप्रभुः ।।6.107.24।। Yuddha Kanda,107,25,एनमापत्सुकृच्छ्रेषुकान्तारेषुभयेषु च । कीर्तयन्पुरुषःकश्चिनावसीदतिराघव ।।6.107.25।। Yuddha Kanda,107,26,पूजयस्वैनमेकाग्रोदेवदेवंजगत्पतिम् । एतत्त्रिगुणितंजप्त्वायुद्धेषुविजयिष्यसि ।।6.107.26।। Yuddha Kanda,107,27,अस्मिन् क्षणेमहाबाहोरावणंत्वंवधिष्यसि । एवमुक्त्वाततोऽगस्त्योजगाम स यथागतम् ।।6.107.27।। Yuddha Kanda,107,28,एतच्छ्रुत्वामहातेजानष्टशोकोऽभवत्तदा । धारयामाससुप्रीतोराघवःप्रयतात्मवान् ।।6.107.28।। Yuddha Kanda,107,29,आदित्यंप्रेक्ष्यजप्त्वातुपरंहर्षमवाप्तवान् । त्रिराचम्यशुचिर्भूत्वाधनुरादायवीर्यवान् ।।6.107.29।। Yuddha Kanda,107,30,रावणंप्रेक्ष्यहृष्टात्मायुद्धार्थंसमुपागमत् । सर्वयत्नेनमहतावधेतस्यधृतोऽभवत् ।।6.107.30।। Yuddha Kanda,108,1,स रथंसारथिःहृष्टंपरसैन्यप्रधर्षणम् । गन्धर्वनगराकारंसमुच्छ्रितपाताकिनम् ।।6.108.1।। Yuddha Kanda,108,2,युक्तंपरमसम्पन्नैर्वजिभिर्हेममालिभिः । युद्धोपकरणैःपूर्णंपताकाध्वजमालिनीम् ।।6.108.2।। Yuddha Kanda,108,3,ग्रसन्तमिवचाकाशंनादयन्तंवसुन्धराम् । प्रणाशंपरनैन्यानांस्वनैन्यस्यप्रहर्षणम् ।।6.108.3।। रावणस्यरथंक्षिप्रंचोदयामाससारथिः । Yuddha Kanda,108,4,समापतन्तंसहसास्वनवन्तंमहाध्वजम् ।।6.108.4।। Yuddha Kanda,108,5,रथंराक्षसराजस्यनरराजोददर्श ह । कृष्णवाजिसमायुक्तंयुक्तंरौद्रेणवर्चसा ।।6.108.5।। Yuddha Kanda,108,6,दीप्यमानमिवाकाशेविमानंसूर्यवर्चसं । तडित्पताकागहनंदर्शितेन्द्रायुधप्रभम् ।।6.108.6।। Yuddha Kanda,108,7,शराधाराविमुञ्चन्तंधारासारमिवाम्बुदम् । तंदृष्टवामेघसङ्काशमापतन्तंरथंरिपोः ।।6.108.7।। Yuddha Kanda,108,8,गिरेर्वज्राभिमृष्टस्यदीर्यतस्सदृशस्वनम् । विस्पारयन्वैवेगेनबालचन्द्रानतंधनुः ।।6.108.8।। उवाचसारथिंरामंसहस्राक्षस्यमातलिम् । Yuddha Kanda,108,9,मातलेपश्यसम्रद्धमापतन्तंरथंरिपोः ।।6.108.9।। Yuddha Kanda,108,10,यथापसव्यंपततावेगेनमहतापुनः । समरेहन्तुमात्मानंतथानेनकृतामतिः ।।6.108.10।। Yuddha Kanda,108,11,तदप्रमादमातिष्ठन्प्रत्युद्गच्छरथंरिपोः । विध्वंसयितुमिच्छामिवायुर्मेघमिवोत्थितम् ।।6.108.11।। Yuddha Kanda,108,12,अविक्लबमसम्भ्रान्तमव्यग्रहृदयेक्षणम् । रमशिसञ्चारनियंप्रचोदयरथंद्रुतम् ।।6.108.12।। Yuddha Kanda,108,13,कामं न त्वंसमाधेयःपुरन्दररथोचितः । युयुत्सुरहमेकाग्रःस्मारयेत्वां न शिक्ष्ये ।।6.108.13।। Yuddha Kanda,108,14,परितुष्टः स रामस्यतेनवाक्येनमातलिः । प्रचोदयामासरथंसुरसारथिरुत्तमः ।।6.108.14।। Yuddha Kanda,108,15,अपसव्यंततःकुर्वन् रावणस्यमहारथम् । चक्रसम्भूतरसारावणंव्यवदूनयन् ।।6.108.15।। Yuddha Kanda,108,16,ततःक्रुद्धोदशग्रीवस्ताम्रविस्फारितेक्षणः । रथप्रतिमुखंरामंसायकैरवधूनयत् ।।6.108.16।। Yuddha Kanda,108,17,धर्षणामर्षितोरामोधैर्यंरोषेणलम्भयन् । जग्राहसुमहावेगमैन्द्रंयुधिशरासनम् ।।6.108.17।। Yuddha Kanda,108,18,शरांश्चसुमहावेगान्सूर्यरश्मिसमप्रभान् । तदुपोढुंमहद्युद्धमन्योन्यवधकाङ्क्षिणोः ।।6.108.18।। परस्पराभिमुखयोर्दृप्तयोरिवसिंहयोः । Yuddha Kanda,108,19,ततोदेवास्सगन्धर्वास्सिद्धाश्चपरमर्षयः ।।6.108.19।। समीयुर्द्वैरथंद्रष्टुंरावणक्षयकाङ्क्षिणः । Yuddha Kanda,108,20,वर्षरुधिरंदेवोरावणस्यरधोपरि ।।6.108.20।। वातामण्डलिनस्त्रीव्राह्यपसव्यंप्रचक्रमुः । Yuddha Kanda,108,21,महत् गृध्रकुलंचास्यभ्रममाणंनभस्तले ।।6.108.21।। येनयेनरथोयातितेनतेनप्रधावति Yuddha Kanda,108,22,सन्ध्ययाचावृतालङ्काजपापुष्पनिकाशया ।।6.108.22।। दृश्यतेसम्प्रदीप्तेवदिवसेऽपिवसुन्धरा । Yuddha Kanda,108,23,सनिर्घातामहोल्काश्चसम्प्रपेतुर्महास्वनाः ।।6.108.23।। विषादयंस्तेरक्षांसिरावणस्यतदाहिताः । Yuddha Kanda,108,25,रावणश्चयतस्तत्रप्रचचालवसुन्धरा ।।6.108.25।। रक्षसां च प्रहरतांगृहीताइवबाहवः । Yuddha Kanda,108,26,ताम्राःपीतास्सिताश्वेताःपतितास्सूर्यरश्मयः ।।6.108.26।। दृश्यन्तेरावणस्याग्रेपर्वतस्येवधातवः । Yuddha Kanda,108,27,गृध्रैरनुगताश्चास्यवमन्त्योज्वलनंमुखैः ।।6.108.27।। प्रणेदुर्मुखमीक्षन्त्यःसम्रद्धमशिवंशिवाः । Yuddha Kanda,108,28,प्रतिकूलंववेवायूरणेपांसून् समुकतिरन् ।।6.108.28।। तस्यराक्षसराजस्यकुर्वन्दृष्टिविलोपनम् । Yuddha Kanda,108,29,निपेतुरिन्द्राशनयस्सैन्येचाप्यसमन्ततः ।।6.108.29।। दुर्विषह्यस्वनाघोरंविनाजलधरोदयम् । Yuddha Kanda,108,30,दिशश्चप्रदिशस्सर्वाबभूवुस्तिमिरावृताः ।।6.108.30।। पांसुवर्षेणमहतादुर्दर्शं च नभोऽभवत् । Yuddha Kanda,108,31,कुर्वन्त: कलहंघोरंशारिकास्तद्रथंप्रति ।।6.108.31।। निपेतुश्शतशस्तत्रदारुणादारुणारुताः । Yuddha Kanda,108,32,जघनेभ्यःस्फुलिङ्गांश्चनेत्रेभ्योऽश्रूणिसन्ततम् ।।6.108.32।। मुमुचुस्तस्यतुरगास्तुल्यमग्नि च वारि च । Yuddha Kanda,108,33,एवंप्रकाराबहवस्समुत्पाताभयापहाः ।।6.108.33।। रावणस्यविनाशायदारुणाःसम्प्रजज्ञिरे । Yuddha Kanda,108,34,रामस्यापिनिमित्तानिसौम्यानि च शिवानि च ।।6.108.34।। बभूवुर्जयशंसीनिप्रादुर्भूतानिसर्वशः । Yuddha Kanda,108,35,निमित्तानि च सौम्यानिराघवःस्वजयायवै ।।6.108.35।। दृष्टवापरमसम्हृष्टोहतंमेने च रावणम् । Yuddha Kanda,109,1,ततःप्रवृत्तंसुक्रूरंरामरावणयोस्तदा । सुमहदद्वैरथंयुद्धंसर्वलोकभयावहम् ।।6.109.1।। Yuddha Kanda,109,2,ततोराक्षससैन्यं च हरीणां च महद्बलम् । प्रगृहीतप्रहरणंनिश्चेष्टंसमवर्तत ।।6.109.2।। Yuddha Kanda,109,3,सम्प्रयुद्धेतुतौदृष्टवाबलवन्नरराक्षसौ । व्याक्षिप्तहदृयास्सर्वेपरंविस्मयमागताः ।।6.109.3।। Yuddha Kanda,109,4,नाप्रहरणैर्व्यग्रैर्भुजैर्विस्मितबुद्धयः । तस्थुःप्रेक्षय च सर्वेतेनाभिजग्मुःपरस्परम् ।।6.109.4।। Yuddha Kanda,109,5,रक्षसांरावणंचापिवानराणां च राघवम् । पश्यतांविस्मिताक्षाणांसैन्यंचित्रमिवाबभौ ।।6.109.5।। Yuddha Kanda,109,6,तौतुतत्रनिमित्तानिदृष्टवाराघवरावणौ । कृतबुद्धीस्थिरामर्षौयुयुधातेह्यभीतवत् ।।6.109.6।। Yuddha Kanda,109,7,जेतव्यमितिकाकुत्स्थोमर्तव्यमितिरावणः । धृतौस्ववीर्यसर्वस्वंयुद्धेऽदर्शयतांतदा ।।6.109.7।। Yuddha Kanda,109,8,ततःक्रोधाद्धशग्रीवश्शरान्सन्धायवीर्यवान् । मुमोचध्वजमुद्धिस्यराघवस्यरथेस्थितम् ।।6.109.8।। Yuddha Kanda,109,9,तेशरास्तमनासाद्यपुरन्दररथध्वजम् । रथशक्तिंपरामृश्यनिपेतुर्धरणीतले ।।6.109.9।। Yuddha Kanda,109,10,ततोरामोऽपिसङ्क्रुद्धश्चपमाकृष्यवीर्यवान् । कृतप्रतिकृतंकर्तुंमनसस्सम्प्रचक्रमे ।।6.109.10।। Yuddha Kanda,109,11,रावणध्वजमुद्दिस्यमुमोचनिशितंशरम् । महासर्पमिवासह्यंज्वलन्तंस्वेनतेजसा ।।6.109.11।। Yuddha Kanda,109,12,रामश्चिक्षेपतेजस्वीकेतुमुद्धिश्यसायकम् । जगाम स महींछित्त्वादशग्रीवध्वजंशरः ।।6.109.12।। Yuddha Kanda,109,13,स निकृत्तोऽपतद्भूमौरावणस्यन्दनध्वजः । ध्वजस्योन्मथनंदृष्टवारावणस्समहाबलः ।।6.109.13।। Yuddha Kanda,109,14,सम्प्रदीप्तोऽभवत्क्रोधादमर्षात्प्रहसन्निव । स रोषवशमापन्नश्शरवर्षंववर्ष ह ।।6.109.14।। Yuddha Kanda,109,15,रामस्यतुरगान्दीप्तै: शरैर्विव्याथरावणः । तेदिव्याहरयस्तत्रनास्खलन्नापिबभ्रमुः ।।6.109.15।। बभूवुःस्वस्थहृदयाःपद्मनालैरिवाहताः । Yuddha Kanda,109,16,तेषामसम्भ्रमंदृष्टवावाजिनांरावणस्तदा ।।6.109.16।। भूयएवसुसङ्क्रुद्धश्शरवर्षंमुमोच ह । Yuddha Kanda,109,17,गदाश्चपरिघांश्चैवचक्राणिमुसलानि च ।।6.109.17।। गिरिशृङ्गाणिवृक्षांश्चतथाशूलपरश्वधान् । Yuddha Kanda,109,18,मायाविहितमेतत्तुशस्त्रवर्षमपातयत् ।।6.109.18।। सहस्रशस्तदाबाणानश्रान्तहृदयोद्यमः । Yuddha Kanda,109,19,तुमुलंत्रासजननंभीमंभीमप्रतिस्वनम् ।।6.109.19।। तद्वर्षमभवद्युद्धेनैकशस्त्रमयंमहत् । Yuddha Kanda,109,20,राघवरथंसमन्ताद्वानरेबले ।।6.109.20।। सायकैरन्तरिक्षं च चकारसुनिरन्तरम् । Yuddha Kanda,109,21,मुमोच ह दशग्रीवोनिःसङ्गेनान्तरात्मना ।।6.109.21।। Yuddha Kanda,109,22,व्यायच्छमानंतंदृष्टवासत्वरमरावणंरणे । प्रहसन्निवकाकुत्स्थसन्दधेनिशितान्शरान् ।।6.109.22।। स मुमो च ततोबाणान्शतशोऽथसहस्रशः । Yuddha Kanda,109,23,तान् दृष्टवारावणश्चक्रेस्वशरैःखंनिरन्तरम् ।।6.109.23।। Yuddha Kanda,109,24,ततस्थाभ्यांप्रमुक्तेनशरवर्षेणभास्वता । शरबद्धमिवाभातिद्वितीयंभास्वदम्भरम् ।।6.109.24।। Yuddha Kanda,109,25,नानिमित्तोऽभवद्भाणोनानिर्भेत्ता न निष्फलः । अन्योन्यमभिसम्हत्यनिपेतुर्धरणीतले ।।6.109.25।। तथाविसृजतोर्भाणान् रामरावणयोर्मृथे । Yuddha Kanda,109,26,प्रायुध्येतामविच्छिन्नमस्यन्तौसव्यदक्षिणम् ।।6.109.26।। चक्रतुश्चशरैर्घोरैर्निरुच्छवासमिवाम्बरम् । Yuddha Kanda,109,27,रावणस्यहयान्रामोहयान्रामस्यरावणः ।।6.109.27।। जघ्नतुस्तौतदान्योन्यंकृतानुकृतकारिणौ । Yuddha Kanda,109,28,एवंतुतौसुसङ्क्रुद्धौचक्रतुर्युद्धमुत्तमम् ।।6.109.28।। मुहूर्तमभवद्युद्धंतुमुलंरोमहर्षणम् । Yuddha Kanda,110,1,तौतथायुध्यमानौतुसमरेरामरावणौ । ददृशुस्सर्वभूतानिविस्मितेनान्तरात्मना ।।6.110.1।। Yuddha Kanda,110,2,अर्धयन्तौतुसमरेतयोस्तौस्यन्दनोत्तमौ । परस्परमभिक्रुद्धौपरस्परमभिद्रुतौ ।।6.110.2।। Yuddha Kanda,110,3,परस्परवधेयुक्तौघोररूपौबभूवतुः । मण्डलानि च वीधीश्चगतप्रत्यागतानि च ।।6.110.3।। दर्शयन्तौबहुविधांसूतसामर्थ्यजांगतिम् । Yuddha Kanda,110,4,अर्धयन्रावणंरामोराघवंचापिरावणः ।।6.110.4।। गतिवेगंसमापन्नौप्रतिवेगप्रवर्तने । Yuddha Kanda,110,5,क्षिपतोश्शरजालानितयोस्तौस्यन्दनोत्तमौ ।।6.110.5।। चेरतुस्सम्युगमहीं सासारौ जलदाविव । Yuddha Kanda,110,6,दर्शयित्वातदातौतुगतिंबहुविधांरणे ।।6.110.6।। परस्परस्याभिमुखौपुनरेव च तस्थतुः । Yuddha Kanda,110,7,धुरंधुरेणरथयोर्वक्त्रंवक्त्रेणवाजिनाम् ।।6.110.7।। पताकाश्चपताकाभिस्समीयुस्स्थितयोस्तदा । Yuddha Kanda,110,8,रावणस्यततोरामोधनुर्मुस्तैश्शितैश्शरैः ।।6.110.8।। चतुर्भिश्चतुरोदीप्तान्हयान्प्रत्यपसर्पयत् । Yuddha Kanda,110,9,सक्रोधवशमापन्नोहयानामपसर्पणे ।।6.110.9।। मुमोचनिशितान्बाणान्राघवायदशाननः । Yuddha Kanda,110,10,सोतिविद्धोबलवतादशग्रीवेणराघवः ।।6.110.10।। जगाम न विकारं च न चापिव्यथितोऽभवत् । Yuddha Kanda,110,11,चिक्षेप च पुनर्भाणान्वज्रपातसमस्वनान् ।।6.110.11।। सारथिंवज्रहस्तस्यसमुद्दिश्यदशाननः । Yuddha Kanda,110,12,मातलेस्तुमहावेगाश्शरीरेपतिताश्शराः ।।6.110.12।। न सूक्ष्ममपिसम्मोहंव्यथांवाप्रददुर्युधि । Yuddha Kanda,110,13,तयाधर्षणयाक्रुद्धोमातलेर्नतथात्मनः ।।6.110.13।। चकारशरजालेनराघवोविमुखंरिपुम् । Yuddha Kanda,110,14,विंशतिंत्रिंशतिंषष्टिंशतशोऽथसहस्रशः ।।6.110.14।। मुमोचराघवोवीरस्सायकान्स्यन्दनेरिपोः । Yuddha Kanda,110,15,रावणोऽपिततःक्रुद्धोरथस्थराक्षसेश्वरः ।।6.110.15।। गदामुसलवर्षेणरामंप्रत्यर्दयद्रणे । Yuddha Kanda,110,16,तत्प्रवृतंपुनर्युद्धंतुमुलंरोमहर्षणम् ।।6.110.16।। Yuddha Kanda,110,17,गदानांमुसलानां च परिघाणांचनिस्स्वनैः । शराणांपुङ्खवातैश्चक्षुभितास्सप्तसागराः ।।6.110.17।। Yuddha Kanda,110,18,क्षुब्दानांसागराणां च पातालतलवासिनः । व्यथितादानवाःसर्वेपन्नगाश्चसहस्रशः ।।6.110.18।। Yuddha Kanda,110,19,चकम्पेमेदिनीकृत्स्नासशैलवनकानना । भास्करोनिष्प्रभश्चासीन्नवनौचापिमारुतः ।।6.110.19।। Yuddha Kanda,110,20,ततोदेवास्सगन्धर्वास्सिद्धाश्चपरमर्षयः । चिन्तामापेदिरेसर्वेसकिन्नरमहोरगाः ।।6.110.20।। Yuddha Kanda,110,21,स्वस्तिगोब्राह्मणेभ्योऽस्तुलोकास्तिष्ठन्तुशाश्वताः । जयतांराघयसङ्ख्येरावणंराक्षसेश्वरम् ।।6.110.21।। Yuddha Kanda,110,22,एवंजपन्तोऽपश्यंस्तेदेवास्सर्षिगणास्तदा । रामरावणयोर्युद्धंसुघोरंरोमहर्षणम् ।।6.110.22।। Yuddha Kanda,110,23,गन्धर्वाप्सरसांसङ्घादृष्टवायुद्धमनूपमम् । गगनंगगनाकारंसागरस्सागरोपमः ।।6.110.23।। Yuddha Kanda,110,24,रामरावणयोर्युद्धंरामरावणयोरिव । एवंब्रुवन्तोददृशुस्तद्युद्धंरामरावणम् ।।6.110.24।। Yuddha Kanda,110,25,ततःक्रोधान्महाबासूरघूणांकीर्तिवर्धनः । सन्धायधनुषारामश्शरमाशीविषोपमम् ।।6.110.25।। Yuddha Kanda,110,26,रावणस्यशिरोऽच्छिन्दच्छ्रीमज्ज्वलितकुण्डलम् । तछचिरःपतितंभूमौदृष्टंइलोकैस्त्रिभिस्तदा ।।6.110.26।। Yuddha Kanda,110,27,तस्यैवसदृशंचान्यद्रावणस्योत्थितंशिरः । तत्क्षिप्तंक्षिप्रहस्तेनरामेणक्षिप्रकारिणा ।।6.110.27।। Yuddha Kanda,110,28,द्वितीयंरावणशिरश्छिन्नंसम्यतिसायकैः । छिन्नमात्रं च तच्चीर्षंपुनरेवप्रदृश्यते ।।6.110.28।। Yuddha Kanda,110,29,तदप्यशनिसङ्काशैश्छिन्नंरामस्यसायकैः । एवमेवशतंछिन्नंशिरसांतुल्यवर्चसाम् ।।6.110.29।। Yuddha Kanda,110,30,न चैवरावणस्यान्तोदृश्यतेजीवितक्षये । ततस्सर्वास्त्रविद्वीरःकौसल्यानन्दवर्धनः ।।6.110.30।। मार्गणैर्बहुभिर्युक्तश्चिन्तयामासराघवः । Yuddha Kanda,110,31,मारीचोनिहतोयैस्तुखरोयैस्तुसदूषणः ।।6.110.31।। Yuddha Kanda,110,32,क्रौञ्चावनेविराधस्तुकबन्धोदण्डकेवने । यैस्सालागिरयोभग्नावाली च क्षुभितोऽम्बुधिः ।।6.110.32।। Yuddha Kanda,110,33,त इमेसायकास्सर्वेयुद्धेप्रात्ययिकामम किनुतत्कारणंयेनरावणेमन्दतेजसः ।।6.110.33।। Yuddha Kanda,110,34,इतिचिन्तापरश्चासीदप्रमत्तश्चसम्युगे । ववर्षशरवर्षाणीराघवोरावणोरसि ।।6.110.34।। Yuddha Kanda,110,35,रावणोऽपिततःक्रुद्धोरथस्थोराक्षसेश्वरः । गदामुसलवर्षेणरामंप्रत्यर्दयद्रणे ।।6.110.35।। Yuddha Kanda,110,36,तत्प्रवृत्तंमहद्युद्धंतुमुलंरोमहर्षणम् । अन्तरिक्षे च भूमौ च पुनश्चगिरिमूर्धनि ।।6.110.36।। Yuddha Kanda,110,37,देवदानवयक्षाणांपिशाचोरगरक्षसाम् । पश्यतांतन्महायुद्धंसप्तरात्रमवर्तत ।।6.110.37।। Yuddha Kanda,110,38,नैव रात्रिं न दिवसंमुहूर्तं न च क्षणम् । रामरावणयोर्युद्धंविराममुपगच्छति ।।6.110.38।। Yuddha Kanda,111,1,अथसंस्मारयामासमातलिराघवंतदा । अजानन्निवकिंवीरत्वमेनमनुवर्तसे ।।6.111.1।। Yuddha Kanda,111,2,विसृजास्मैवधायत्वमस्त्रंपैतामहंप्रभो । विनाशकालःकथितोःयःसुरैःसोऽद्यवर्तते ।।6.111.2।। Yuddha Kanda,111,3,ततःसंस्मारितोरामस्तेनवाक्येनमातलेः । जग्राह स शरंदीप्तंनिःश्वसन्तमिवोरगम् ।।6.111.3।। Yuddha Kanda,111,4,यंतस्मैप्रथमंप्रादादगस्त्योभगवानृषिः । ब्रह्मदत्तंमहाबाणममोघंयुधिवीर्यवान् ।।6.111.4।। Yuddha Kanda,111,5,ब्रह्मणानिर्मितंपूर्वमिन्द्रार्थममितौजसा । दत्तंसुरपतेःपूर्वंत्रिलोकजयकाङ्क्षिणः ।।6.111.5।। Yuddha Kanda,111,6,यस्यवाजेषुपवनःफलेपावकभास्करौ । शरीरमाकाशमयंगौरवेमेरुमन्दरौ ।।6.111.6।। Yuddha Kanda,111,7,जाज्वल्यमानंवपुषासुपुङ्खंहेमभूषितम् । तेजसासर्वभूतानांकृतंभास्करवर्चसम् ।।6.111.7।। Yuddha Kanda,111,8,सधूममिवकालानगिंदीप्तमाशीविषोपमम् । नरनागाश्ववृद्धानांभेदनंक्षिप्रकारिणम् ।।6.111.8।। Yuddha Kanda,111,9,द्वाराणांपरिघाणां च गिरीणांचापिभेदनम् । नानारुधिरदिग्धाङ्गंमेदोदिग्धंसुदारुणम् ।।6.111.9।। Yuddha Kanda,111,10,वज्रसारंमहानादंनानासमितिदारणम् । सर्ववित्रासनंभीमंश्वसन्तमिवपन्नगम् ।।6.111.10।। Yuddha Kanda,111,11,कङ्कगृध्रबकानां च गोमायुगणरक्षसाम् । नित्यंभक्षप्रदंयुद्धेयमरूपंभयापहम् ।।6.111.11।। Yuddha Kanda,111,12,नन्दनंवानरेन्द्राणांरक्षसामवसादनम् । वाजितंविविधैर्वाजैश्चारुचित्रैर्गरुत्मतः ।।6.111.12।। Yuddha Kanda,111,13,तमुत्तमेषुंलोकानामिक्ष्वाकुभयनाशनम् । द्विषतांकीर्तिहरणंप्रहर्षकरमात्मनः ।।6.111.13।। Yuddha Kanda,111,14,अभिम्नत्यततोरामस्तंमहेषुंमहाबलः । वेदप्रोक्तेनविधिनासन्दधेकार्मुकेबली ।।6.111.14।। Yuddha Kanda,111,15,तस्मिन् सधनीयमानेतुराघवेणशरोत्तमे । सर्वभूतानिसन्त्रेसुश्चचाल च वसुन्धरा ।।6.111.15।। Yuddha Kanda,111,16,स रावणायसङ्रुद्धोभृशमायम्यकार्मुकम् । चिक्षेपपरमायत्तःशरंमर्मविदारणम् ।।6.111.16।। Yuddha Kanda,111,17,स वज्रइवदुर्धर्षोवज्रिबाहुविसर्जितः । कृतान्तइवचावार्योन्यपतद्रावणोरसि ।।6.111.17।। Yuddha Kanda,111,18,स विसृष्टोमहावेगश्शरीरान्तकरश्शरः । चिच्छेदहृदयंतस्यरावणस्यदुरात्मनः ।।6.111.18।। Yuddha Kanda,111,19,रुधिराक्तस्सवेगेनशरीरान्तकरःशरः । रावणस्यहरन्प्राणान्विवेशधरणीतलम् ।।6.111.19।। Yuddha Kanda,111,20,स शरोरावणंहत्वारुधिरार्द्रीकृतच्छविः । कृतकर्मानिभृतवत्स्वतूणींपुनराविशत् ।।6.111.20।। Yuddha Kanda,111,21,तस्यहस्ताद्धतस्याशुकार्मुकं च ससायकम् । निपपातसहप्राणैर्भ्रश्यमानस्यजीवितात् ।।6.111.21।। Yuddha Kanda,111,22,गतासुर्भीमवेगस्तुनैरृतेन्द्रोमहाद्युतिः । पपातस्यन्दनाद्भूमौवृत्रोवज्रहतोयथा ।।6.111.22।। Yuddha Kanda,111,23,तंदृष्टवापतितंभूमौहतशेषानिशाचराः । हतनाधाभयत्रस्तास्सर्वतस्सम्प्रदुद्रुवुः ।।6.111.23।। Yuddha Kanda,111,24,सर्वतश्चाभिपेतुस्तान्वानराद्रुमयोधिनः । दशग्रीववधंदृष्टवावानराजितकाशिनः ।।6.111.24।। Yuddha Kanda,111,25,अर्दितावानरैर्भ्रष्टालङ्कामभ्यपतन् भयात् । हताश्रयात्वात्करुणैर्भाष्पप्रस्रवणैर्मुखैः ।।6.111.25।। Yuddha Kanda,111,26,ततोविनेदुःसम्हृष्टावानराःजितकाशिनः । वदन्तोराघवजयंरावणस्य ज तद्वधम् ।।6.111.26।। Yuddha Kanda,111,27,अथान्तरिक्षेव्यनदत्सौम्यस्त्रिदशदुन्धुभिः । दिव्यगन्धशहस्तत्रमारुतस्सुसुकोववौ ।।6.111.27।। Yuddha Kanda,111,28,निपपातान्तरिक्षाच्चपुष्पवृष्टिस्तदाभुवि । किरन्तीराघवरथंदुरवापामनोहरा ।।6.111.28।। Yuddha Kanda,111,29,राघवस्तवसंयुक्तागगने च विशुश्रुवे । साधुसाध्वितिवागग्य्रादेवतानांमहात्मनाम् ।।6.111.29।। Yuddha Kanda,111,30,अविवेशमहान् हर्षोदेवानांचारणैःसह । रावणेनिहतेरौद्रेसर्वलोकभयङ्करे ।।6.111.30।। Yuddha Kanda,111,31,ततःसकामंसुग्रीवमङ्गदं च विभीषणम् । चकारराघवःप्रीतोहत्वाराक्षसपुङ्गवम् ।।6.111.31।। Yuddha Kanda,111,32,ततःप्रजग्मुःप्रशमंमरुद्गणादिशःप्रसेदुर्विमलंनभोऽभवत् । महीचकम्पे न च मारुतोववौस्थिरप्रभश्चाप्यभवद्दिवाकरः ।।6.111.32।। Yuddha Kanda,111,33,ततस्तुसुग्रीवविभीषणाङ्गदाःसुहृद्विशिष्टास्सहलक्ष्मणास्तदा । समेत्यहृष्टाविजयेनराघवंरणेऽभिरामंविधिनाभ्यपूजयन् ।।6.111.33।। Yuddha Kanda,112,1,भ्रातरंनिहतंदृष्टवाशयानंनिर्जितंरणे । शोकवेगपरीतात्माविललापविभीषणः ।।6.112.1।। Yuddha Kanda,112,2,वीर विक्रान्त विख्यात प्रवीण नयकोविद । महार्हाशयनोपेतकिंशेषेनिहतोभुवि ।।6.112.2।। Yuddha Kanda,112,3,विक्षिप्यदीर्घौनिश्चेष्टौभुजावङ्गभूषितौ । मुकुटेनापवृत्तेनभास्कराकारवर्चसा ।।6.112.3।। Yuddha Kanda,112,4,दंवीरसम्प्राप्तंयन्मयापूर्वमीरितम् । काममोहपरीतस्ययत्तन्नरुचितंतव ।।6.112.4।। Yuddha Kanda,112,5,यन्नदर्पात्प्रहस्तोवानेन्द्रजिन्नापरेजनाः । न कुम्बकर्णोऽतिरथोनातिकायोनरान्तकः ।।6.112.5।। न स्वयंत्वममन्येथास्तस्योदर्कोऽयमागतः । Yuddha Kanda,112,6,गतस्सेतुस्सुनीतीनांगतोधर्मस्यविग्रहः ।।6.112.6।। Yuddha Kanda,112,7,गतस्सत्त्वस्यसङ्क्षेपःप्रस्तावानांगतिर्गता । आदित्यःपतितोभूमौमग्नस्तमसिचन्द्रमाः ।।6.112.7।। Yuddha Kanda,112,8,चित्रभानुःप्रशान्तार्चिर्व्यवसायोनिरुद्यमः । अस्मिन्निपतितेवीरे भूमौशस्त्रभृतांवरे ।।6.112.8।। Yuddha Kanda,112,9,किंशेषमिहलोकस्यगतसत्त्वस्यसम्प्रति । रणेराक्षसशार्दूलेप्रसुप्तइवपांसुषु ।।6.112.9।। Yuddha Kanda,112,10,धृतिप्रवालःप्रसह्याग्य्रपुष्पस्तपोबलश्शौर्यनिबद्धमूलः । रणेमहान्राक्षसराजवृक्षःसम्मर्दितोराघवमारुतेन ।।6.112.10।। Yuddha Kanda,112,11,तेजोविषाणःकुलवंशवंशःकोपप्रसादापरगात्रहस्तः । इक्ष्वाकुसिंहावगृहीतदेहःसुप्तःक्षितौरावणगन्धहस्ती ।।6.112.11।। Yuddha Kanda,112,12,पराक्रमोत्साहविजृम्भितार्चिर्निःश्वासधूमस्स्वबलप्रतापः । प्रतापवान्सम्यतिराक्षसाग्निर्विर्वापितोरामपयोधरेण ।।6.112.12।। Yuddha Kanda,112,13,सिंहरक्षलाङ्गूलककुद्विषाणःपराभिजिद्गन्धनगन्धहस्ती । रक्षोवृषश्चापलकर्णचक्षुःक्षितीश्वरव्याघ्रहतोऽवसन्नः ।।6.112.13।। Yuddha Kanda,112,14,वदन्तंहेतुमद्वाक्यंपरिदृष्टार्थनिश्चयम् । रामःशोकसमाविष्टमित्युवाचविभीषणम् ।।6.112.14।। Yuddha Kanda,112,15,नायंविनष्टोनिश्चेष्टस्समरेचण्डविक्रमः । अत्युन्नतमहोत्साहःपतितोऽयमशङ्कितः ।।6.112.15।। Yuddha Kanda,112,16,नैवंविनष्टाःशोच्यन्तेक्षत्रधर्मव्यवस्थिताः । वृधदिमाशंसमानायेनिपतन्तिरणाजिरे ।।6.112.16।। Yuddha Kanda,112,17,येनसेन्द्रास्त्रयोलोकास्त्रासितायुधिधीमता । तस्मिन्कालसमायुक्ते न कालःपरिशोचितुम् ।।6.112.17।। Yuddha Kanda,112,18,नैकान्तविजयोयुद्धेभूतपूर्वःकदाचन । परैराहन्यतेवीरःपरान्वाहन्तिसंयुगे ।।6.112.18।। Yuddha Kanda,112,19,इयंहिपूर्वैस्सन्दिष्टागतिःक्षत्रियसम्मता । क्षत्रियोनिहतंसङ्ख्ये न शोच्यइतिनिश्चयः ।।6.112.19।। Yuddha Kanda,112,20,तदेवंनिश्चयंदृष्टवातत्त्वमास्थायविज्वरः । यदिहानन्तरंकार्यंकल्प्यंतदनुचिन्तय ।।6.112.20।। Yuddha Kanda,112,21,मुक्तवाक्यंविक्रान्तंराजपुत्रंविभीषणः । उवाचशोकसन्तप्तोभ्रातुर्हितमनन्तरम् ।।6.112.21।। Yuddha Kanda,112,22,योऽयंविमर्देष्वविभग्नपूर्वःसुरैस्समस्थेरपिवासवेन । भवन्तमासाद्यरणेविभग्नोवेलामिवासाद्ययथासमुद्रः ।।6.112.22।। Yuddha Kanda,112,23,अनेनदत्तानिवनीपकेषुभुक्ताश्चभोगानिभृताश्चभृत्याः । धनानिमित्रेषुसमर्पितानिवैराण्यमित्रेषुनिपातितानि ।।6.112.23।। Yuddha Kanda,112,24,एषोहिताग्निश्च:महातपाश्चवेदान्तगःकर्मसुचाग्य्रशूरः । एतस्ययत्प्रेतगतस्यकृत्यंतत्कर्तुमिच्छामितवप्रसादात् ।।6.112.24।। Yuddha Kanda,113,1,रावणंनिहतंदृष्टवाराघवेणमहात्मना । अन्तःपुराद्विनिष्पेतूराक्षस्यश्शोककर्शिताः ।।6.113.1।। Yuddha Kanda,113,2,वार्यमाणास्सुबहुशोवेष्टन्त्यःक्षितिपांसुषु । विमुक्तकेश्यश्शोकार्तागावोवत्सहतायथा ।।6.113.2।। Yuddha Kanda,113,3,उत्तरेणविनिष्क्रम्यद्वारेणसहराक्षसैः । प्रविश्यायोधनंघोरंविचिन्वन्त्वोहतंपतिम् ।।6.113.3।। Yuddha Kanda,113,4,आर्यपुत्रेतिवादिन्योहानाथेति च सर्वशः । परिपेतुःकबन्धाङ्कांमहींशोणितकर्दमाम् ।।6.113.4।। Yuddha Kanda,113,5,ताबाष्पपरिपूर्णाक्ष्योभर्तृशोकपराजिताः । करेण्वइवनर्द्नत्योविनेदुर्हतयूथपाः ।।6.113.5।। Yuddha Kanda,113,6,ददृशुस्तामहाकायंमहावीर्यंमहाद्युतिम् । रावणंनिहतम्भूमौनीलाञ्जनचयोपमम् ।।6.113.6।। Yuddha Kanda,113,7,ताःपतिंसहसादृष्टवाशयानंरणपांसुषु । निपेतुस्तस्यगात्रेषुछिन्नावनलताइव ।।6.113.7।। Yuddha Kanda,113,8,बहुमानात्परिष्वज्यकाचिदेवंरुरोद ह । चरणौकाचिदालम्ब्यकाचित्कण्ठेऽवलम्ब्य च ।।6.113.8।। Yuddha Kanda,113,9,उत्क्षिप्य च भुजौकाचिद्भूमौसुपरिवर्तते । हतस्यवदनंदृष्टवाकाचिन्मोहमुपागमत् ।।6.113.9।। Yuddha Kanda,113,10,काचिदङ्केशिरःकृत्वारुरोदमुखमीक्षती । स्नापयन्तीमुखंबाष्पैस्तुषारैरिवपङ्कजम् ।।6.113.10।। Yuddha Kanda,113,11,एवमार्ताःपतिंदृष्टवारावणंनिहतंभुवि । चुक्रुशुर्भहुधाशोकाद्भूयस्ताःपर्यदेवयन् ।।6.113.11।। Yuddha Kanda,113,12,येनमित्रासितःशक्रोयेनवित्रासितोयमः । येनवैश्रवणोराजापुष्पकेणवियोजितः ।।6.113.12।। Yuddha Kanda,113,13,गन्धर्वाणामृषीणां च सुराणां च महात्मनाम् । भयंयेनरणेदत्तंसोऽयंशेतेरणेहतः ।।6.113.13।। Yuddha Kanda,113,14,असुरेभ्यःसुरेभ्योवापन्नगेभ्योऽपिवातथा । भयंयो न विजानातितस्येदंमानुषाद् भयम् ।।6.113.14।। Yuddha Kanda,113,15,अवध्योदेवतानांयस्तथादानवराक्षसाम् । हतःसोऽयंरणेशेतेमानुषेणपदातिना ।।6.113.15।। Yuddha Kanda,113,16,यो न शक्यस्सुरैर्हन्तुं न यक्षैर्नासुरैस्तथा । सोऽयंकश्चिदिवासत्त्वोमृत्युंमर्त्येनलम्भितः ।।6.113.16।। Yuddha Kanda,113,17,एवंवदन्त्योरुरुदुस्तस्यतादुःखिताःस्त्रियः । भूयएव च दुःखार्ताविलेपुश्चपुनःपुनः ।।6.113.17।। Yuddha Kanda,113,18,अशृण्वतातुसुहृदांसततंहितवादिनाम् । मरणायहृतासीताराक्षसाश्चनिपातिताः ।।6.113.18।। एतास्सममिदानींतेवयमात्मा च पातितः । Yuddha Kanda,113,19,ब्रुवाणोऽपिहितंवाक्यमिष्टोभ्राताविभीषणः ।।6.113.19।। धृष्टंपरुषितोमोहत्त्वयात्मवथकाङ्क्षिणा । Yuddha Kanda,113,20,दिनिर्यातितातेस्वासतीतारामायमैथिली ।।6.113.20।। ननस्स्याद्व्यसनंघोरमिदंमूलहरंमहत् । Yuddha Kanda,113,21,वृत्तकामोभवेद्भ्रातारामोमित्रकुलंभवेत् ।।6.113.21।। वयंचाध्विवाःसर्वाःसकमा न च शत्रवः । Yuddha Kanda,113,22,त्वयापुनर्नृशंशंसेनसीतांसंरुन्धताबलात् ।।6.113.22।। राक्षसावयमात्मा च त्रयंतुल्यंनिपातितम् । Yuddha Kanda,113,23,न कामकारःकामंवातवराक्षसपुङ्गव । दैवंचेष्टयतेसर्वंहतंदैवेनहन्यते ।।6.113.23।। Yuddha Kanda,113,24,वानराणांविनाशोऽयंराक्षसानां च तेरणे । तवचैवमहाबाहो दैवयोगादुपागतः ।।6.113.24।। Yuddha Kanda,113,25,नैवार्थेन न कामेनविक्रमेण न चाज्ञया । शक्यादैवगतिर्लोकेनिवर्तयितुमुद्यता ।।6.113.25।। Yuddha Kanda,114,1,तासांविलपमानानांतदाराक्षसयोषिताम् । ज्येष्ठापत्नीप्रियाजीनाभर्तारंसमुदैक्षत ।।6.114.1।। Yuddha Kanda,114,2,दशग्रीवंहतंदृष्टवारामेणाचिन्त्यकर्मणा । पतिंमण्डोदरीतत्रकृपणापर्यदेवयत् ।।6.114.2।। Yuddha Kanda,114,3,ननुनाममहाबाहोतववैश्रवणानुज । क्रुद्धस्यप्रमुखेस्थातुंत्रस्यत्यपिपुरन्दरः ।।6.114.3।। Yuddha Kanda,114,4,ऋषयश्चमहान्तोऽपिगन्धर्वाश्चयशस्विनः । ननुनामतवोद्वेगाच्चारणाश्चदिशोगताः ।।6.114.4।। Yuddha Kanda,114,5,स त्वंमानुषमात्रेणरामेणयुधिनिर्जितः । न व्यपत्रपसेराजन् किमिदंराक्षसेश्वर ।।6.114.5।। Yuddha Kanda,114,6,कथंत्रैलोक्यमाक्रम्यश्रियावीर्येणचान्वितम् । अविषह्यंजघानत्वांमानुषोवनगोचरः ।।6.114.6।। Yuddha Kanda,114,7,मानुषाणामविषयेचरतःकामरूपिणः । विनाशस्तवरामेणसम्युगेनोपपद्यते ।।6.114.7।। Yuddha Kanda,114,8,न चैतत्कर्मरामस्यश्रद्धधामिचमूमुखे । सर्वतस्समुपेतस्यतवतेनाभिमर्षणम् ।।6.114.8।। Yuddha Kanda,114,9,यदैव च जनस्थानेराक्षसैर्भहुनिर्ववृतः । खरस्तवहतोभ्रातातदैवासौ न मानुषः ।।6.114.9।। Yuddha Kanda,114,10,यदैवनगरींलङ्कांदुष्प्रवेशांसुरैरपि । प्रविष्टोहनुमान्वीर्यात्तदैवव्यथितावयम् ।।6.114.10।। Yuddha Kanda,114,11,यदैववानरैर्घोरैर्बद्धस्सेतुर्महार्णवे । तदैवहृदयेनाहंशङ्केरामममानुषम् ।।6.114.11।। Yuddha Kanda,114,12,अथवारामरूपेणकृतान्तस्स्वयमागतः । मायांतवविनाशायविधायाप्रतितर्किताम् ।।6.114.12।। Yuddha Kanda,114,13,अथवावासवेनत्वंधर्षितोऽपिमहाबल । वासवस्यतुकाशक्तिस्त्वांद्रष्टुमपिसंयुगे ।।6.114.13।। Yuddha Kanda,114,14,व्यक्तमेषमहायोगीपरमात्मासनातनः । अनादिमध्यनिधनोमहतंपरमोमहान् ।।6.114.14।। Yuddha Kanda,114,15,तमसःपरमोधाताशङ्खचक्रगदाधरः । श्रीवत्सवक्षानित्यश्रीरजय्यश्शाश्वतोध्रुवः ।।6.114.15।। Yuddha Kanda,114,16,मानुषंरूपमास्थायविष्णुस्सत्यपराक्रमः । सर्वैःपरिवृतोदेवैर्वानरत्वमुपागतैः ।।6.114.16।। Yuddha Kanda,114,17,सर्वलोकेश्वर्श्रीमान्लोकानांहितकाम्यया । सराक्षसरपरीवारंहतवांस्त्वांमहाद्युतिः ।।6.114.17।। Yuddha Kanda,114,18,इन्द्रियाणिपुराजित्वाजितंत्रिभुवनंत्वया । स्मरद्भिरिवतद्वैरमिन्द्रियैरेवनिर्जितः ।।6.114.18।। Yuddha Kanda,114,19,यदैवहिजनस्थानेराक्षसैर्भहुभिर्वृतः । खरस्तुनिहतोभ्रातातदारामो न मानुषः ।।6.114.19।। Yuddha Kanda,114,20,यदैवनगरींलङ्कांदुष्प्रवेशांसुरैरपि । प्रविष्टोहनुमान्वीर्यात्तदैवव्यथितावयम् ।।6.114.20।। Yuddha Kanda,114,21,क्रियतामविरोधश्चराघवेणेतियन्मया । उच्यमानं न गृह्णासितस्येयंव्युष्टिरागता ।।6.114.21।। Yuddha Kanda,114,22,अकस्माच्छाभिकामोऽसिसीतांराक्षसपुङ्गवः । ऐश्वर्यस्यविनाशायदेहस्यस्वजनस्य च ।।6.114.22।। Yuddha Kanda,114,23,अरुन्धत्याविशिष्टांतांरोहिण्याश्चापिदुर्मते । सीतांधर्षयतामान्यांत्वयाह्यसदृशंकृतम् ।।6.114.23।। Yuddha Kanda,114,24,वसुधायाहिवसुधांश्रियःश्रींभर्तृवत्सलाम् । सीतांसर्वानवद्याङ्गीमरण्येविजनेशुभाम् ।।6.114.24।। Yuddha Kanda,114,25,आनयित्वातुतांदीनांछद्मनात्मस्वदूषण । अप्राप्यतंचैवकामंमैथिलीसङ्गमेकृतम् ।।6.114.25।। पतिव्रतायास्तपसानूनंदग्धोऽसिमेप्रभो । Yuddha Kanda,114,26,तदैवयन्नदग्धगद्धस्त्वंधर्षयंस्तनुममध्यमाम् । देवाभिभ्यतेतेसर्वेसेन्द्राःसानाग्नीपुरोगमाः ।।6.114.26।। Yuddha Kanda,114,27,अवश्यमेवलभतेफलंपापस्यकर्मणः । घोरंपर्यागतेकालेकर्तानास्त्यत्रसंशयः ।।6.114.27।। Yuddha Kanda,114,28,न कुलेन न रूपेण न दाक्षिण्येनमैथिली । मयाधिकावातुल्यावातत्त्वंमोहान्नबुध्यसे ।।6.114.28।। Yuddha Kanda,114,29,सर्वदासर्वभूतानांनास्तिमुत्युरलक्षणः । तवतावदयंमृत्युर्मैथिलीकृतलक्षणः ।।6.114.29।। Yuddha Kanda,114,30,सीतानिमित्तजोमृत्युस्त्वयादूरादुपाहृतः । मैथिलीसहरामेणविशोकाविहरिष्यति ।।6.114.30।। Yuddha Kanda,114,31,अल्पपुण्यात्वहंघोरेपतिताशोकसागरे । कैलासेमन्दरेमेरौतथाचैत्ररथेवने ।।6.114.31।। Yuddha Kanda,114,32,देवोद्यानेषुसर्वेषुविहृत्यसहितात्वया । विमानेनानुरूपेणयायाम्यतुलयाश्रिया ।।6.114.32।। Yuddha Kanda,114,33,पश्यन्तिविविधान्देशांस्तांस्तांश्चित्रस्रगम्बरा । भ्रम्शिताकामभोगेभ्यःसास्मिवीरवधात्तव ।।6.114.33।। सैवान्येवास्मिसम्वृत्ताधिग्राज्ञांचञ्चलाःश्रियः । Yuddha Kanda,114,34,हाराजन् सुकुमारंतेसुभ्रुसुत्वक्समुन्नसम् ।।6.114.34।। Yuddha Kanda,114,35,कान्तिश्रीद्युतिभिस्तुल्यमिन्दुपद्मदिवाकरैः । किरीटकूटोज्ज्वलितंताम्रास्यंदीप्तकुण्डलम् ।।6.114.35।। Yuddha Kanda,114,36,मदव्याकुललोलाक्षंभूत्वायत्पानभूमिषु । विविधस्रग्धरंचारुवल्गुस्मितकथंशुभम् ।।6.114.36।। Yuddha Kanda,114,37,तदेवाद्यतवैवंहिवक्त्रं न भ्राजतेप्रभो । रामसायकनिर्भिन्नंरक्तंरुधिरविस्रवैः ।।6.114.37।। वीशीर्णमेदोमस्तिष्कंरूक्षस्यन्दनरेणुभिः । Yuddha Kanda,114,38,हापश्चिमामेसम्प्राप्तादशावैधव्यदायिनी ।।6.114.38।। यामयासीन्नसुम्बद्धाकदाचिदपिमन्दया । Yuddha Kanda,114,39,पतादानवराजोमेभर्तामेराक्षसेश्वरः ।।6.114.39।। पुत्रोमेशक्रनिर्जेताइत्यहंगर्विताभृशम् । Yuddha Kanda,114,40,दृप्तामर्दनाःशूराःप्रख्यातबलपौरुषाः ।।6.114.40।। अकुतश्चिद्भयानाथाममेत्यासीन्मतिर्दृढा । Yuddha Kanda,114,41,तेषामेवंप्रभावाणांयुष्माकंराक्षसर्षभाः ।।6.114.41।। कथंभयमसम्बुद्धंमानुषादिदमागतम् । Yuddha Kanda,114,42,स्निग्धेन्द्रनीलनीलंतुप्रांशुशैलोपमंमहत् ।।6.114.42।। Yuddha Kanda,114,43,केयूराङ्गदवैडूर्यमुक्ताहारस्रगुज्ज्वलम् । कान्तंविहारेष्वधिकंदीप्तांसङ्ग्रामभूमिषु ।।6.114.43।। Yuddha Kanda,114,44,भात्याभरणभाभिर्यद्विद्युद्भिरिवतोयदः । तदेवाद्यशरीरंतेतीक्ष्णैर्नैकशरैश्चितम् ।।6.114.44।। Yuddha Kanda,114,45,पुनर्दुर्लभसम्पर्शंपरिष्वक्तुं न शक्यते । श्वाविधःशलकैर्यद्वद्भाणैर्लग्नैर्निरन्तरम् ।।6.114.45।। Yuddha Kanda,114,46,स्वर्पितैर्मर्मसुभृशंसञ्छिन्नस्नायुबन्धनम् । क्षितौनिपतितंराजन् श्यामंवैरुधिरच्छवि ।।6.114.46।। वज्रप्रहाराभिहतोविकीर्णइवपर्वतः । Yuddha Kanda,114,47,हास्वप्नस्सत्यमेवेदंत्वंरामेणकथंहतः ।।6.114.47।। त्वंमृत्योरपिमृत्युस्स्याःकथंमृत्युवशंगत: Yuddha Kanda,114,48,त्रैलोक्यवसुभोक्तारंत्रैलोक्योद्वेगदंमहत् ।।6.114.48।। जेतारंलोकपालानांक्षेप्तारांशङ्करस्य च । Yuddha Kanda,114,49,दृप्तानांनिग्रहीतारमाविष्कृतपराक्रमम् ।।6.114.49।। लोकक्षोभयितारं च नादैर्भूतविराविणम् । Yuddha Kanda,114,50,ओजसादृप्तवाक्यानांवक्तारंरिपुसन्निधौ ।।6.114.50।। स्वयूथभृत्यगोप्तारंहन्तारंभीमकर्मणाम् । Yuddha Kanda,114,51,हन्तारंदानवेन्द्राणांयक्षाणां च सहस्रशः ।।6.114.51।। निवातकवचानां च सङ्ग्रहीतारमाहवे । Yuddha Kanda,114,52,नैकयज्ञविलोप्तारंत्रातारंस्वजनस्य च ।।6.114.52।। धर्मव्यवस्थाभेत्तारंमायास्रष्टारमाहवे । Yuddha Kanda,114,53,देवासुरनृकन्यानामाहर्तारंततस्ततः ।।6.114.53।। शत्रुस्त्रीशोकदातारं नेतारं स्वजनस्य च । Yuddha Kanda,114,54,लङ्काद्वीपस्यगोप्तारंकर्तारंभीमकर्मणाम् ।।6.114.54।। अस्माकंकामभोगानांदातारंरथिनांवरम् । Yuddha Kanda,114,55,एवंप्रभावंभर्तारंदृष्टवारामेणपातितम् ।।6.114.55।। स्थिरास्मियादेहमिमंधारयामिहतप्रिया । Yuddha Kanda,114,56,शयनेषुमहार्हेषुशयित्वाराक्षसेश्वर ।।6.114.56।। इहकर्मात्प्रसुप्तोऽसिधरण्यांरेणुगुण्ठितः । Yuddha Kanda,114,57,यदातेतनयश्शस्तोलक्ष्मणेनेन्द्रजिद्युधि ।।6.114.57।। तदात्वभिहतातीव्रमद्यत्वस्मिनिपातिता । Yuddha Kanda,114,58,साहंबन्धुजनैर्हीनाहीनानाथेन च त्वया ।।6.114.58।। विहीनाकामभोगैश्चशोचिष्येशाश्वतीस्समाः । Yuddha Kanda,114,59,प्रपन्नोदीर्घमध्वानंराजन्नद्यसुदुर्गमम् ।।6.114.59।। नयमामपिदुःखार्तां न वर्तिष्येत्वयाविना । Yuddha Kanda,114,60,कस्मात्त्वंमांविहायेहकृपणांगन्तुमिच्छसि ।।6.114.60।। दीनांविलपतींमन्दांकिंवामांनाभिभाषसे । Yuddha Kanda,114,61,दृष्टवा न खल्वभिक्रुद्धोमामिहानवकुण्ठिताम् ।।6.114.61।। निर्गतांनगरद्वारात्पद्भ्यामेवागतांप्रभो । Yuddha Kanda,114,62,पश्येष्टदारदारांस्तेभ्रष्टलज्जावकुण्ठितान् ।।6.114.62।। बहिर्निष्पतितान्सर्वान्कथंदृष्टवा न कुप्यसि । Yuddha Kanda,114,63,अयंक्रीडासहायस्तेऽनाथेलालप्यतेजनः ।।6.114.63।। न चैवमाश्वासयसिकिंवा न बहुमन्यसे । Yuddha Kanda,114,64,याःस्त्वयाविधवाराजन्कृतानैकाःकुलस्त्रियः ।।6.114.64।। Yuddha Kanda,114,65,पतिव्रताधर्मरतागुरुशुश्रूषणेरताः । ताभिश्शोकाभितप्ताभिश्शप्तःपरवशंगतः ।।6.114.65।। त्वयाविप्रकृताभिर्यत्तदाशप्तंतदागतम् । Yuddha Kanda,114,66,प्रवादस्सत्यएवायंत्वांप्रतिप्रायशोनृप ।।6.114.66।। प्रतिव्रतानांनाकस्मात्सपत्नत्यश्रूणिभूतले । Yuddha Kanda,114,67,कथं च नामतेराजन् लोकानाक्रम्यतेजसा ।।6.114.67।। नारीचौर्यमिदंक्षुद्रंकृतंशौण्डीर्यमानिना । Yuddha Kanda,114,68,अपनीयाश्रमाद्रामंयन्मृगच्छद्मनात्वया ।।6.114.68।। आनीतारामपनतीसातत्तेकातर्यलक्षणम् । Yuddha Kanda,114,69,कातर्यं न च तेयुद्धेकदाचित्संस्मराम्यहम् ।।6.114.69।। तत्तुभाग्यविपर्यासान्नूनंतेपक्वलक्षणम् । Yuddha Kanda,114,70,अतीतानागतार्थज्ञोवर्तमानविचक्षणः ।।6.114.70।। Yuddha Kanda,114,71,मैथिलीमाहृतांदृष्टवाध्यात्वानिःश्वस्यचायतम् । सत्यवाक्यमहाबाहो देवरोमेयदब्रवीत् ।।6.114.71।। Yuddha Kanda,114,72,अयंराक्षसमुख्यानांविनाशःपर्युपस्थितः । कामक्रोधसमुत्थेनव्यसनेनप्रसङ्गिना ।।6.114.72।। Yuddha Kanda,114,73,निर्वृत्तस्त्वत्कृतेऽनर्थःसोऽयंमूलहरोमहान् । त्वयाकृतमिदंसर्वमनाधंराक्षसंकुलम् ।।6.114.73।। Yuddha Kanda,114,74,हित्वंशोचितव्योमेप्रख्यातबलपौरुषः । स्त्रीस्वभावात्तुमेबुद्धिःकारुण्येपरिवर्तते ।।6.114.74।। Yuddha Kanda,114,75,सुकृतंदुष्कृतं च त्वंगृहीत्वास्वांगतिंगतः । आत्मानमनुशोचामित्वद्विनाशेनदुःखिताम् ।।6.114.75।। Yuddha Kanda,114,76,सुहृदांहितकामानां न श्रुतंवचनंत्वया । भ्रात्रूणांचैवकार्त्न्सनहितमुक्तंदशानन ।।6.114.76।। Yuddha Kanda,114,77,हेत्वर्थयुक्तंविधिवच्छ्रेयस्करमदारुणम् । विभीषणेनाभिहितं न कृतंहेतुमत्त्वया ।।6.114.77।। Yuddha Kanda,114,78,मारीचकुम्भकर्णाभ्यांवाक्यंममपितुस्तथा । न श्रुतंवीर्यमत्तेनतस्येदंफलमीदृशम् ।।6.114.78।। Yuddha Kanda,114,79,नीलजीमूतसङ्काश पीताम्बरशुभाङ्गद । स्वगात्राणिविनिक्षिप्यकिंशेषेरुधिराप्लुतः ।।6.114.79।। Yuddha Kanda,114,80,प्रसुप्तइवशोकार्तांकिंमां न प्रतिभाषसे । महावीर्यस्यदक्षस्यसम्युगेष्वपलायिनः ।।6.114.80।। यातुधानस्यदौहित्रींकिंमां न प्रतिभाषसे । Yuddha Kanda,114,81,उत्तिष्ठोत्तिष्ठकिंशेषेनवेपरिभवेकृते ।।6.114.81।। अद्यवैनिर्भयालङ्कांप्रविष्टांसूर्यरश्मयः । Yuddha Kanda,114,82,येनसूदयसेशत्रून् समरेसूर्यवर्चसा ।।6.114.82।। Yuddha Kanda,114,83,वज्रंवज्रधरस्येवसोऽयंतेसततार्चितः । रणेबहुप्रहरणोहेमजापरिष्कृतः ।।6.114.83।। परिघोव्यवकीर्णस्तेबाणैश्चिन्नैःसहस्रधा । Yuddha Kanda,114,84,अप्रियामिवोपसंगृह्यकिंशेषेरणमेदिनीम् ।।6.114.84।। अप्रियामिवकस्माच्छमांनेच्छस्यभिभाषितुम् । Yuddha Kanda,114,85,धिगस्तुहृदयंयस्याममेदं न सहस्रधा ।।6.114.85।। त्वयिपञ्चत्वमापन्नेफलतेशोकपीडितम् । Yuddha Kanda,114,86,इत्येवंविलपन्तिसाबाष्पपर्याकुलेक्षणा ।।6.114.86।। स्नेहोपस्कन्नहृदया तदा मोहामुपागमत् । Yuddha Kanda,114,87,कश्मलाभिहतासन्नाबभौसारावणोरसि ।।6.114.87।। स्नध्यानुरक्तेजलदेदीप्ताविद्युदिवोज्ज्वला । Yuddha Kanda,114,88,तथागतंसमुत्थाप्यसपत्नयस्तांभृशातुराः ।।6.114.88।। पर्यवस्थापयामासूरुदन्त्योरुदतींभृशम् । Yuddha Kanda,114,89,न तेसुविदितादेविलोकानांस्थितिरध्रुवा ।।6.114.89।। दशाविभागपर्यायेराज्ञांवैचञ्चलाःश्रियः । Yuddha Kanda,114,90,इत्येवमुच्यमानासासशब्दंप्ररुरोद ह ।।6.114.90।। स्नापयन्तीतदास्रेणस्तनौवक्रंसुनिर्मलम् । Yuddha Kanda,114,91,एतस्मिन्नन्तरेरामोविभीषणमुवाच ह ।।6.114.91।। संस्कारःक्रियतांभ्रातुःस्त्रीगणःपरिसान्त्व्यताम् । Yuddha Kanda,114,92,तमुवाचततोधीमान् विभीषणइदंवचः ।।6.114.92।। विमृश्यबुद्ध्याधर्मज्ञोधर्मार्थसहितंहितम् । Yuddha Kanda,114,93,त्यक्तधर्मव्रतंशूरंनृशंसमनृतंतथा ।।6.114.93।। नाहमर्होऽस्मिसंस्कर्तुंपरदाराभिमर्शिनम् । Yuddha Kanda,114,94,भ्रातृरूपःहिमेशत्रुरेषसर्वाहितेरतः ।।6.114.94।। रावणोनार्हतेपूजांपूज्योऽपिगुरुगौरवात् । Yuddha Kanda,114,95,नृशंसइतिमांराम वक्ष्यन्तिमनुजाभुवि ।।6.114.95।। श्रुत्वातस्यागुणान्सर्वेवक्ष्यन्तिसुकृतंपुनः । Yuddha Kanda,114,96,तच्छ्रुत्वापरमप्रीतोरामोधर्मभृतांवरः ।।6.114.96।। विभीषणमुवाचेदंवाक्यज्ञंवाक्यकोविदः । Yuddha Kanda,114,97,तवापिमेप्रियंकार्यंत्वत्प्रभावान्मयाजितम् ।।6.114.97।। अवश्यंतुक्षमंवाच्योमयात्वांराक्षसेश्वर । Yuddha Kanda,114,98,अधर्मानृतसंयुक्तःकामंत्वेषनिशाचरः ।।6.114.98।। तेजस्वीबलवान् शूरःसङ्ग्रामेषु च नित्यशः । Yuddha Kanda,114,99,शतक्रतुमुखैर्वीरैःश्रूयते न पराजितः ।।6.114.99।। महात्माबलसम्पन्नोरावणोलोकरावणः । Yuddha Kanda,114,100,मरणानान्तिवैराणिनिर्वृत्तंनःप्रयोजनम् ।।6.114.100।। क्रियतामस्यसंस्कारोममाप्येषयथातव । Yuddha Kanda,114,101,त्वत्सत्सकाशाद्धशग्रीवस्संस्कारंविधिपूर्वकम् ।।6.114.101।। क्षिप्रमर्हतिधर्मेणत्वंयशोभाग्भविष्यसि । Yuddha Kanda,114,102,राघवस्यवच्श्रुत्वात्वरमाणोविभीषण: ।।6.114.102।। संस्कारयितुमारेभेभ्रातरंरावणंहतम् । Yuddha Kanda,114,103,सप्रविश्यपुरींलङ्कांराक्षसेन्द्रोविभीषणः ।।6.114.103।। रावणस्याअग्निहोत्रंतुनिर्यापयतिसत्वरम् । Yuddha Kanda,114,104,शकटान् दारुरूपाणिअग्नीनवैयाजकांस्तथा ।।6.114.104।। Yuddha Kanda,114,105,तथाचन्दनकाष्ठानिकाष्ठानिविविधानि च । अगरूणिसुगधनीनिगन्धांश्चसुरभींस्तथा ।।6.114.105।। मणिमुक्ताप्रवाळानिनिर्यापयतिराक्षसः । Yuddha Kanda,114,106,आजगाममुहूर्तेनराक्षसैःपरिवारितः ।।6.114.106।। ततोमाल्यवतासार्थंक्रियामेवचकारसः । Yuddha Kanda,114,107,सौवर्णींशिबिकांदिव्यामारोप्यक्षौमवासनम् ।।6.114.107।। Yuddha Kanda,114,108,रावणंराक्षसाधीशमश्रुपूर्यमुखाद्विजाः । तूर्यघोषैश्चविविधैस्स्तुवद्भिश्चाभिनन्दितम् ।।6.114.108।। Yuddha Kanda,114,109,प्ताकाभिश्चचित्राभिस्सुमनोभिश्चचित्रिताम् । उत्क्षिप्यशिबिकांतांतुविभीषणपुरोगमाः ।।6.114.109।। दक्षिणाभिमुखास्सर्वेगृह्यकाष्ठानिभेजिरे । Yuddha Kanda,114,110,अग्नयोदीप्यमानास्तेतदाध्वर्युसमीरिताः ।।6.114.110।। शरणाभिगताःसर्वेपुरस्तात्तस्यतेययुः । Yuddha Kanda,114,111,अन्तःपुराणिसर्वाणिरुदमानानिसत्वरम् ।।6.114.111।। पृष्ठतोऽनुययुस्तानिप्लवमानानिसर्वतः । Yuddha Kanda,114,112,रावणंप्रयतेदेशेस्थाप्यतेभृशदुःखिताः ।।6.114.112।। Yuddha Kanda,114,113,चितांचन्दनकाष्ठैश्चपद्मकोशीसंवृताम् । ब्राह्म्यासम्वर्तयामासूराङ्कवास्तरणावृताम् ।।6.114.113।। वर्ततेवेदविहितोराज्ञोवैपश्चिमःक्रतुः । Yuddha Kanda,114,114,प्रचक्रुःराक्षसेन्द्रस्यपितृमेधमनुक्रमम् ।।6.114.114।। वेदिं च दक्षिणप्राच्यांयथास्थानं च पावकम् । Yuddha Kanda,114,115,पृषदाज्येनसम्पूर्णंस्रुवंसर्वेप्रचिक्षिपुः ।।6.114.115।। पादयोश्शकटंप्रादुरन्तरूर्वोरुलूखलंतदा । Yuddha Kanda,114,116,दारुपात्राणिसर्वाणिआरणिंचोत्तारारणिम् ।।6.114.116।। दत्त्वातुमुसलंचान्यथास्थानंविचक्षणा: । Yuddha Kanda,114,117,शास्त्रादृष्टेनविधिनामहर्षिविहितेन च ।।6.114.117।। Yuddha Kanda,114,118,तत्रमेध्यंपशुंहत्वाराक्षसेन्द्रस्यराक्षसाः । परिस्तरणिकांराज्ञोघृताक्तांसमवेशयन् ।।6.114.118।। Yuddha Kanda,114,119,गन्धैर्माल्यैरलङ्कृत्यरावणंदीनमानसाः ।।6.114.119।। Yuddha Kanda,114,120,विभीषणसहायास्तेवस्त्रैश्चविविधैरपि । लाजैरश्चावकिरन्तिस्मबाष्पपूर्णमुखास्तदा ।।6.114.120।। Yuddha Kanda,114,121,ददौ च पावकंतस्यविधियुक्तंविभीषणः । स्नात्वाचैवार्द्रवस्त्रेणतिलान्दूर्वाभिमिश्रितान् ।।6.114.121।। Yuddha Kanda,114,122,उदकेन च सम्मिश्रान्प्रदायविधिपूर्वकम् । प्रदायचोदकंतस्मैमूर्ध्नाचैनंनमस्य च ।।6.114.122।। Yuddha Kanda,114,123,ताःस्त्रियोऽनुनयामाससान्तमुक्त्वापुनःपुनः । गम्यतामितितास्सर्वाविविशुर्नगरीतदा ।।6.114.123।। Yuddha Kanda,114,124,प्रविष्टासुसर्वासुराक्षसीषुविभीषणः । रामपार्श्वमुपागम्यतदातिष्ठद्विनीतवत् ।।6.114.124।। Yuddha Kanda,114,125,रामोऽपिसहसैन्येनससुग्रीवस्सलक्ष्मणः । हर्षंलेभेरिपुंहत्वायथावृत्रंशतक्रतु: ।।6.114.125।। Yuddha Kanda,115,1,तेरावणवधंदृष्टवादेवगन्धर्वदानवाः । जग्मुस्स्वैस्वैर्विमानैस्तेकथयन्तश्शुभाःकथाः ।।6.115.1।। Yuddha Kanda,115,2,रावणस्यवधंघोरंराघवस्यपराक्रमम् । सुयुद्धंवानराणां च सुग्रीवस्य च मन्त्रितम् ।।6.115.2।। Yuddha Kanda,115,3,अनुरागं च वीर्यं च सौमित्रेर्लक्ष्मणस्य च । पतिव्रतात्वंसीतायाहनूमतिपराक्रमम् ।।6.115.3।। कथयन्तोमहाभागाजग्मुर्हष्टायथागतम् । Yuddha Kanda,115,4,राघवस्तुरथंदिव्यमिन्द्रदत्तंशिखिप्रभम् ।।6.115.4।। अनुज्ञायमहाभागोर्मातलिंप्रत्यपूजयत् । Yuddha Kanda,115,5,राघवेणाभ्यनुज्ञातोमातलिश्शक्रसारथिः ।।6.115.5।। दिव्यंतंरथमास्थायदिवमेवारूरोहसह । Yuddha Kanda,115,6,तस्मिंस्तुदिवमारूढेसुसारथिसन्तमे ।।6.115.6।। राघवःपरमप्रीतस्सुग्रीवंपरिषस्वजे । Yuddha Kanda,115,7,परिष्वज्य च सुग्रीवंलक्ष्मणेनाभिवादितः ।।6.115.7।। पूज्यमानोहरिगणैराजगामबलालयम् । Yuddha Kanda,115,8,अथोवाच स काकुत्स्थस्समीपपरिवर्तिनम् ।।6.115.8।। सौमित्रिंसत्त्वसम्पन्नंलक्ष्मणंशुभलक्षणम् । Yuddha Kanda,115,9,भीषणमिमंसौम्य लङ्कायामभिषेचय ।।6.115.9।। अनुरक्तं च भक्तं च तथापूर्वोपकारिणम् । Yuddha Kanda,115,10,एषमेपरमःकामोयदिमंरावणानुजम् ।।6.115.10।। लङ्कायांसौम्य पश्येमभिषिक्तंविभीषणम् । Yuddha Kanda,115,11,एवमुक्तस्तुसौमित्रीराघवेणमहात्मना ।।6.115.11।। तथेत्युक्त्वासुसम्हृष्टःसौवर्णंघटमाददे । Yuddha Kanda,115,12,तम्घटंवानरेन्द्राणांहस्तेदत्त्वामनोजवान् ।।6.115.12।। व्यादिदेशमहासत्त्व: समुद्रसलिलंतदा । Yuddha Kanda,115,13,अतिशीघ्रंततोगत्वावानरास्तेमनोजवाः ।।6.115.13।। आगतास्तुजलंगृह्यसमुद्राद्वानरोत्तमाः । Yuddha Kanda,115,14,ततःस्त्वेकंघटंगृह्यसम्स्थाप्यपरमासने ।।6.115.14।। Yuddha Kanda,115,15,घटेनतेनसौमित्रिरभ्यषिञ्चद्विभीषणम् । लङ्कायांरक्षसांमध्येराजानंरामशासनात् ।।6.115.15।। विधिनामन्त्रदृष्टेनसुहृद्गणसमावृतः । Yuddha Kanda,115,16,अभ्यषिञ्चंस्तदासर्वेराक्षसावानरास्तथा ।।6.115.16।। प्रहर्षमतुलंगत्वातुष्टुवूराममवे ह । Yuddha Kanda,115,17,तस्यामात्याजहृषिरेभक्तायेचास्यराक्षसाः ।।6.115.17।। दृष्टवाभिषिक्तंलङ्कायांराक्षसेन्द्रंविभीषणम् । Yuddha Kanda,115,18,राघवःपरमांप्रीतिंजगामसहलक्ष्मणः ।।6.115.18।। स तद्राज्यंमहत्प्राप्यरामदत्तंविभीषणः । Yuddha Kanda,115,19,प्रकृतयस्सान्त्वयित्वा च ततोराममुपागमत् ।।6.115.19।। Yuddha Kanda,115,20,दध्यक्षतान्मोदकांश्चलाजास्सुमनसस्तथा । आजह्रुरथसन्तुष्टाःपौरास्तस्मैनिशाचराः ।।6.115.20।। Yuddha Kanda,115,21,सःतान् गृहीत्वादुर्धर्षोराघवायन्यवेदयत् ।।6.115.21।। माङ्गल्यंमङ्गलंसर्वंलक्ष्मणाय च वीर्यवान् । Yuddha Kanda,115,22,कृतकार्यंसमृद्धार्थंदृष्टवारामोविभीषणम् ।।6.115.22।। प्रतिजग्राहतत्सर्वंतस्यैवप्रियकाम्यया । Yuddha Kanda,115,23,ततःशैलोपमंवीरंप्राञ्जलिंप्रणतंस्थितम् ।।6.115.23।। उवाचेदंवचोरामोहनूमन्तंप्लवङ्गमम् । Yuddha Kanda,115,24,अनुज्ञाप्यमहाराजमिमंसौम्य विभीषणम् ।।6.115.24।। प्रविश्यनगरींलङ्कांकौशलंब्रूहिमैथिलीम् । Yuddha Kanda,115,25,वैदेह्यैमांकुशलिनंसुग्रीवं च सलक्ष्मणम् ।।6.115.25।। आचक्ष्ववदतांश्रेष्ठरावणं च हतंरणे । Yuddha Kanda,116,1,इतिप्रतिसमादिष्टोहनूमान्मारुतात्मजः । प्रविवेशपुरींलङ्कांपूज्यमानोनिशाचरैः ।।6.116.1।। Yuddha Kanda,116,2,प्रविश्य चपुरींलङ्कांपूज्यमानोनिशाचारै: । ततस्तेनाभ्युनुज्ञातोहनुमान्वृक्षवाटिकाम् ।।6.116.2।। Yuddha Kanda,116,3,सम्प्रविश्ययथान्यायंसीतायाद्विितोहरिः । ददर्शमृजयाहीनांसातङ्कांरोहिणीमिव ।।6.116.3।। Yuddha Kanda,116,4,वृक्षमूलेनिरानन्दांराक्षसीभिःपरीवृताम् । निभृतःप्रणतःप्रह्वस्सोऽभिगम्याभिवाद्य च ।।6.116.4।। Yuddha Kanda,116,5,दृष्टवासमागतंदेवीहनूमन्तंमहाबलम् । तूष्णीमास्ततदादृष्टवास्मृत्वासृष्टाभवत्तदा ।।6.116.5।। Yuddha Kanda,116,6,सौम्यंतस्यामुखंदृष्टवाहनुमान्प्लवगोत्तमः । रामस्यवचनंसर्वमाख्यातुमुपचक्रमे ।।6.116.6।। Yuddha Kanda,116,7,वैदेही कुशलीरामस्सहसुग्रीवलक्ष्मणः । वभीषणसहायश्चहरीणांसहितोबलैः ।।6.116.7।। Yuddha Kanda,116,8,कुशलंचाहसिद्धार्थोहतशत्रुरिमत्रजित् । विभीषणसहायेनरामेणहरिभिस्सह ।।6.116.8।। निहतोरावणोदेविलक्ष्मणेन च वीर्यवान् । Yuddha Kanda,116,9,प्रियमाख्यामितेदेविभूयश्चत्वांसभाजये ।।6.116.9।। Yuddha Kanda,116,10,तवप्रभावाद्धर्मजेमहान् रामेणसंयुगे । लब्धोऽयंविजयस्सीतेस्वस्थाभवगतज्वरा ।।6.116.10।। Yuddha Kanda,116,11,रावणश्चहतश्शत्रुर्लङ्कचैववशीकृता । मयाह्यलब्न्दिद्रेणधृतेनतवनिर्जये ।।6.116.11।। प्रतिज्ञैषाविनिस्तीर्णाबद्ध्वासेतुंमहोदधौ । Yuddha Kanda,116,12,सम्भ्रमश्च न कर्तव्योवर्तन्त्यारावणालये ।।6.116.12।। विभीषणविधेयंहिलङ्कैश्वर्यमिदंकृतम् । Yuddha Kanda,116,13,तदाश्वसिहिविस्रब्धंस्वगृहेपरिवर्तसे ।।6.116.13।। अयंचाभ्येतिसम्हृष्टस्त्वद्धर्शनसमुत्सुकः । Yuddha Kanda,116,14,एवमुक्तासमुत्पत्यसीताशशिनिभानना ।।6.116.14।। प्रहर्षेणावरुद्धासाव्याहर्तुं न शशाक ह । Yuddha Kanda,116,15,ततोऽब्रवीद्धरिवरःसीतामप्रतिजल्पतीम् ।।6.116.15।। किंत्वंचिन्तयसेदेविकिं च मांनाभिभाषसे । Yuddha Kanda,116,16,एवमुक्ताहनुमतासीताधर्मपथेस्थिता ।।6.116.16।। अब्रवीत्परमप्रीताबाष्पगद्गदयागिरा । Yuddha Kanda,116,17,प्रियमेतदुपश्रुत्यभर्तुर्विजयसंश्रयम् ।।6.116.17।। प्रहर्षवशमापन्नानिर्वाक्यास्मिक्षणान्तरम् । Yuddha Kanda,116,18,न हिपश्यामिसदृशंचिन्तयन्तीप्लवङ्गमा ।।6.116.18।। मप्रतियाब्यानकस्येहदातुंप्रत्यभिनन्दनम् । Yuddha Kanda,116,19,नहिपश्यामिततसौम्यपृथिव्यामपिवानर ।।6.116.19।। सदृशंयत्प्रियाख्यानेतवदत्त्वाभवेत्सुखम् । Yuddha Kanda,116,20,हिरण्यंवासुवर्णंवारत्नानिविविधानिच ।।6.116.20।। राज्यंवात्रिषुलोकेषुनैतदर्हतिभाषितम् । Yuddha Kanda,116,21,एवमुक्तस्तुवैदेह्याप्रत्युवाचप्लवङ्गमः ।।6.116.21।। प्रगृहीताञ्जलिर्हर्षासतीतायाःप्रमुखेस्थितः । Yuddha Kanda,116,22,भर्तुःप्रियहितेयुक्तेभर्तुर्विजयकाङ्क्षिण: ।।6.116.22।। स्निग्धमेवंविधंवाक्यंत्वमेवार्हस्यनिन्दिते । Yuddha Kanda,116,23,तवैतद्वचनंसौम्येसारवत् स्निग्धमेव च ।।6.116.23।। रत्नौघाद्विविधाच्चापिदेवराज्याद्विशिष्यते । Yuddha Kanda,116,24,अर्थतश्चमयाप्राप्तादेवरज्यादयोगुणाः ।।6.116.24।। हतशत्रुंविजयिनंरामंपश्यामिसुस्थितम् । Yuddha Kanda,116,25,तस्यतद्वचनंश्रुत्वामैथिलीजनकात्मजा ।।6.116.25।। ततःशुभतरंवाक्यमुवाचपवनात्मजम् । Yuddha Kanda,116,26,अतिलक्षणसम्पन्नंमाधुर्यगुणभूषितम् ।।6.116.26।। बुद्ध्याह्यष्टाङ्गयायुक्तंत्वमेवार्हसिभाषितुम् । Yuddha Kanda,116,27,श्लाघनीयोऽनिलस्यत्वंसुतःपरमधार्मिकः ।।6.116.27।। Yuddha Kanda,116,28,बलंशौर्यंश्रुतंसत्त्वंविक्रमोदाक्ष्यमुत्तमम् । तेजःक्षमाधृतिस्स्थैर्यंविनीतत्वं न संशयः ।।6.116.28।। एतेचान्ये च बहवोगुणास्त्वय्येवशोभनाः । Yuddha Kanda,116,29,अथोवाचपुनस्सीतामसम्भ्रान्तोविनीतवत् ।।6.116.29।। प्रगृहीताञ्चलिर्हर्षात्सीतायाःप्रमुखेस्थितः । Yuddha Kanda,116,30,इमास्तुखलुराक्षस्योयदित्वमनुमन्यसे ।।6.116.30।। हन्तुमिच्छामितास्सर्वायाभिस्त्वंतर्जितापुरा । Yuddha Kanda,116,31,क्लिश्यन्तीम् पतिदेवांत्वामशोकवनिकांगताम् ।।6.116.31।। Yuddha Kanda,116,32,घोररूपसमाचाराःक्रूराःक्रूरतरेक्षणाः । इहश्रुतामयादेवि राक्षस्योविकृताननाः ।।6.116.32।। असकृत्परुषैर्वाक्यैर्वद्नत्योरावणाज्ञया । Yuddha Kanda,116,33,विकृताविकृताकाराःक्रूराःक्रूरकचेक्षणाः ।।6.116.33।। Yuddha Kanda,116,34,इच्छामिविविधैराघतैर्हन्तुमेतास्सुदारुणाः । राक्षस्योदारुणकथावरमेतत्प्रयच्छमे ।।6.116.34।। Yuddha Kanda,116,35,मुष्टिभिःपर्षिणघातैश्चविशालैश्चैवबाहुभिः । जङ्घाजानुप्रहारैश्चदन्तानांचैवपीडनैः ।।6.116.35।। Yuddha Kanda,116,36,भक्षणैःकर्णनासानांकेशानांलुञ्चनैस्तथा । भृशंशुष्कमुखैश्चैवदारणैर्लङ्घनैर्हतैः ।।6.116.36।। Yuddha Kanda,116,37,विभिन्नशङ्कुग्रीवांशपार्श्वकैश्चकलेवरैः । निपात्यहन्तुमिच्छामितवविप्रियकारिणीः ।।6.116.37।। Yuddha Kanda,116,38,एवंप्रहारैर्बहुभिःसंप्प्रहार्ययशस्विनि । घातयेतीव्ररूपाभिर्याभिस्त्वंतर्जितापुरा ।।6.116.38।। Yuddha Kanda,116,39,इत्युक्तासाहनुमताकृपणादीनवत्सला । हनूमन्तमुवाचेदंचिन्तयित्वाविमृश्य च ।।6.116.39।। Yuddha Kanda,116,40,राजसंश्रयवश्यानांकुर्वतीनांपराज्ञया । विधेयानां च दासीनांकःकुप्यद्वानरोत्तम ।।6.116.40।। Yuddha Kanda,116,41,भाग्यवैषम्यदोषेणपुरस्ताद्धुष्कृतेन च । मयैतत्प्राप्यसर्वंस्वकृतंह्युपभुज्यते ।।6.116.41।। Yuddha Kanda,116,42,मैवंवदमहाबाहो दैवेह्येषापरागतिः । प्राप्तव्यंतुदशायोगान्मयैतदितिनिश्चितम् ।।6.116.42।। दासीनांरावणस्याहंमर्षयामीहदुर्बला । Yuddha Kanda,116,43,आज्ञप्ताराक्षसेनेहराक्षस्यस्तर्जयन्तिमाम् ।।6.116.43।। हतेतस्मिन्नकुर्वन्तितर्जनंमारुतात्मज । Yuddha Kanda,116,44,अयंव्याघ्रसमीपेतुपुराणोधर्मसंहितः ।।6.116.44।। ऋक्षेणगीतःश्लोकोऽस्तितंनिबोधप्लवङ्गम । Yuddha Kanda,116,45,न पर: पापमादत्तेपरेषांपापकर्मणाम् ।।6.116.45।। समयोरक्षितव्यस्तुसप्तश्चारित्रभूषणाः । Yuddha Kanda,116,46,पापानांवाशुभानांवावधार्हाणांप्लवङ्गम ।।6.116.46।। कार्यंकरुण्यमार्येण न कश्चिन्नापराध्यति । Yuddha Kanda,116,47,लोकहिंसाविहाराणांरक्षसांकामरूपिणाम् ।।6.116.47।। कुर्वतामपिपापानिनैवकार्यमशोभनम् । Yuddha Kanda,116,48,एवमुक्तस्तुहनुमान् सीतयावाक्यकोविदः ।।6.116.48।। प्रत्युवाचततस्सीतांरामपत्नीयशश्विनीम् । Yuddha Kanda,116,49,युक्तारामस्यभवतीधर्मपत्नीयशश्विनी ।।6.116.49।। प्रतिसन्दिशमांदेवि गमिष्येयत्रराघवः । Yuddha Kanda,116,50,एवमुक्ताहनुमतावैदेहिजनकात्मजा ।।6.116.50।। साब्रवीद्ध्रष्टुमिच्छामिभर्तारंवानरोत्तम । Yuddha Kanda,116,51,तस्यास्तद्वचनंश्रुत्वाहनुमान्पवनात्मजः ।।6.116.51।। हर्षयन्मैथिलींवाक्यमुवाचेदंमहामतिः । Yuddha Kanda,116,52,पूर्णचन्द्राननंरामंद्रक्ष्यस्यार्येसलक्ष्मणम् ।।6.116.52।। स्थिरमित्रंहतामित्रंशचीवत्रिदशेश्वरम् । Yuddha Kanda,116,53,तामेवमुक्त्वाराजन्तींसीतांसाक्षादिवश्रियम् ।।6.116.53।। आजगाममहावेगोहनूमान्यत्रराघवः । Yuddha Kanda,117,1,स उवाचमहाप्रामस्सोऽभिवाद्यप्लवङ्गमः । रामंवचनमर्थज्ञोवरंसर्वधनुष्मताम् ।।6.117.1।। Yuddha Kanda,117,2,यन्निमित्तोऽयमारम्बःकर्मणांयःफलोदयः । तांदेवींशोकसन्तप्तांद्रष्टुमर्हसिमैथिलीम् ।।6.117.2।। Yuddha Kanda,117,3,साहिशोकसमाविष्टाबाष्पपर्याकुलेक्षणा । मैथिलीविजयंश्रुत्वाद्रष्टुंत्वामभिकाङ्क्षति ।।6.117.3।। Yuddha Kanda,117,4,पूर्वकात्प्रत्ययाच्चाहमुक्तोविश्वस्तयातया । भर्तारंद्रष्टुमिच्छामिकृतार्थंसहलक्ष्मणम् ।।6.117.4।। Yuddha Kanda,117,5,एवमुक्तोहनुमतारामोधर्मभृतांवरः । आगच्छत्सहसाध्यानमीषद्भाष्पपरिप्लुतः ।।6.117.5।। Yuddha Kanda,117,6,दीर्घमुष्णंविनिःश्वस्यजगतीमवलोकयन् । उवाचमेघसङ्काशंविभीषणमुपस्थितम् ।।6.117.6।। Yuddha Kanda,117,7,दिव्याङ्गरागांवैदेहींदिव्याभरणभूषिताम् । इहसीतांशिरःस्नातामुपस्थापयमाचिरम् ।।6.117.7।। Yuddha Kanda,117,8,एवमुक्तस्तुरामेणत्वरमाणोविभीषणः । प्रविश्यान्तःपुरंसीतांस्त्रीभिस्स्वाभिरोचदयत् ।।6.117.8।। Yuddha Kanda,117,9,ततस्सीतांमहाभागांदृष्टवोवाचविभीषणः । मूर्ध्निबद्धाञ्जलिश्रीमान्विनीतोराक्षसेश्वरः ।।6.117.9।। Yuddha Kanda,117,10,दिव्याङ्गरागावैदेहीदिव्याभरणभूषिता । यानमारोहभद्रंतेभर्तात्वांद्रष्टुमिच्छति ।।6.117.10।। Yuddha Kanda,117,11,एवमुक्तातुवैदेहीप्रत्युवाचविभीषणम् । अस्नात्वाद्रष्टुमिच्छामिभर्तारंराक्षसेश्वर ।।6.117.11।। Yuddha Kanda,117,12,तस्यास्तद्वचनंश्रुत्वाप्रत्युवाचविभीषणः । यथाहरामोभहर्तातेतत्तथाकर्तुमार्हसिमार्हसि ।।6.117.12।। Yuddha Kanda,117,13,तस्यतद्वचनंश्रुत्वामैथिलीपतिदेवता । भर्तृभक्त्यावृतासाध्वीतथेतिप्रत्यभाषत ।।6.117.13।। Yuddha Kanda,117,14,ततस्सीतांशिरःस्नातांसंयुक्तांप्रतिकर्मणा । महार्हाभरणोपेतांमहार्हाम्बरधारिणीम् ।।6.117.14।। Yuddha Kanda,117,15,आरोप्यशिबिकांदीप्तांपरार्घ्याम्बरसम्वृताम् । राक्षसैर्भहुभिर्गुप्तामाजहारविभीषणः ।।6.117.15।। Yuddha Kanda,117,16,सोऽभिगम्यमहात्मानंज्ञातावपिध्यानमास्थितम् । प्रणतश्चप्रहृष्टश्चप्राप्तांसीतांन्यवेदयत् ।।6.117.16।। Yuddha Kanda,117,17,तामागतामुपश्रुत्यरक्षोगृहचिरोषिताम् । हर्षोदैन्यंच रोषश्चत्रयंराघवमाविशत् ।।6.117.17।। Yuddha Kanda,117,18,ततःपार्श्वगतंदृष्टवासविमर्शंविचारयन् । विभीषणमिदंवाक्यमहृष्टोराघवोऽब्रवीत् ।।6.117.18।। Yuddha Kanda,117,19,राक्षसाधिपतेसौम्यनित्यंमद्विजयेरत । वैदेहीसंनिकर्षंमेशीघ्रंसमुपगच्छतु ।।6.117.19।। Yuddha Kanda,117,20,तस्यतद्वचनंश्रुत्वाराघवस्यविभीषणः । तूर्णमुत्सारणंतत्रकारयामासधर्मवित् ।।6.117.20।। Yuddha Kanda,117,21,कञ्चुकोष्णीषिणस्तत्रवेत्रजर्जरपाणयः । उत्सारयन्तस्तान्योधान्समन्तात् परिचक्रमुः ।।6.117.21।। Yuddha Kanda,117,22,ऋक्षाणांवानराणां च राक्षसानां च सर्वशः । वृन्दान्युत्सार्यमाणानिदूरमुत्तस्थुरन्ततः ।।6.117.22।। Yuddha Kanda,117,23,तेषामुत्सार्यमाणानांनिःस्वनःसुमहानभूत् । वायुनोद्धूयामानस्यसागरस्येवनिःस्वनः ।।6.117.23।। Yuddha Kanda,117,24,उत्सार्यमाणान् दृष्टवाथजगत्यांजातसम्भ्रमान् । दाक्षिण्यात्तदमर्षाच्चवारयामासराघवः ।।6.117.24।। Yuddha Kanda,117,25,संरम्बश्चाब्रवीद्रामश्चक्षुषाप्रदहन्निव । विभीषणंमहाप्राज्ञंसोपालम्बमिदंवचः ।।6.117.25।। Yuddha Kanda,117,26,किमर्थंमामनादृत्यक्लिश्यतेऽयंत्वयाजनः । निवर्तयैनमुद्योगंजनोऽयंस्वजनोमम ।।6.117.26।। Yuddha Kanda,117,27,न गृहाणि न वस्त्राणि न प्राकारास्तिरस्क्रिया । नेदृशाराजसत्कारावृत्तमावरणंस्त्रियाः ।।6.117.27।। Yuddha Kanda,117,28,व्यसनेषु न कृच्छ्रेषु न युद्धेषुस्वयंवरे । न क्रतौनोविवाहेवादर्शनंदूष्यतेस्त्रियाः ।।6.117.28।। Yuddha Kanda,117,29,सैषाविपद्गताचैवकृच्छ्रेव च महतिस्थिता । दर्शनेनास्तिदोषोऽस्यामत्समीपेविशेषतः ।।6.117.29।। Yuddha Kanda,117,30,विसृज्यशिबिकांतस्मात्पद्भ्यामेवोपसर्पतु । समीपेममवैदेहींपश्यन्त्वेतेवनौकसः ।।6.117.30।। Yuddha Kanda,117,31,एवमुक्तस्तुरामेणसविमर्शोविभीषणम् । रामस्योपानयसतीतांसन्निकर्षंविनीतवत् ।।6.117.31।। Yuddha Kanda,117,32,ततोलक्ष्मणसुग्रीवौहनूमांश्चप्लवङ्गमः । निशम्यवाक्यंरामस्यबभूवुर्व्यथिताभृशम् ।।6.117.32।। Yuddha Kanda,117,33,कलत्रनिरपेक्ष्षैश्चइङ्गितैरस्यदारुणैः । अप्रीतमिवसीतायांतर्कयन्तिस्मराघवम् ।।6.117.33।। Yuddha Kanda,117,34,लज्जयात्ववलीयन्तीस्वेषुगात्रेषुमैथिली । विभीषणेनानुगताभर्तारंसाभ्यवर्तत ।।6.117.34।। Yuddha Kanda,117,35,विस्मयाच्छप्रहर्षाच्चस्नेहाच्चपतिदेवता । उदैक्षतमुखंभर्तुःसौम्यंसौम्यतरानना ।।6.117.35।। Yuddha Kanda,118,1,तांतुपाश्वस्थितांप्रह्वांरामस्सम्प्रेक्ष्यमैथिलीम् । हृदयान्तर्गतंक्रोधव्याहर्तुमुपचक्रमे ।।6.118.1।। Yuddha Kanda,118,2,एषासिनिर्जिताभद्रेशत्रुंजित्वारणाजिरे । पौरुषाद्यदनुष्ठेयंमयैतदुपपादितम् ।।6.118.2।। Yuddha Kanda,118,3,गतोऽस्म्यन्तममर्षस्यधर्षणासम्प्रमार्जिता । अवमानश्चशत्रुश्चयुगपन्निहतौमया ।।6.118.3।। Yuddha Kanda,118,4,अद्यमेपौरुषंदृष्टमद्यमेसफल्श्रमः । अद्यतीर्णप्रतिज्ञोऽत्वाप्रभवाम्यद्यचात्मनः ।।6.118.4।। Yuddha Kanda,118,5,यात्वंविरहितानीताचलचित्तेनरक्षसा । दैवसम्पादितोदोषोमानुषेणमयाजितः ।।6.118.5।। Yuddha Kanda,118,6,सम्प्राप्तमवमानंयस्तेजसा न प्रमार्जति । कस्तस्यपुरुषार्थोमहताप्यल्पचेतसः ।।6.118.6।। Yuddha Kanda,118,7,लङ्घनं च समुद्रस्यलङ्कायाश्चापिमर्धनम् । सफलंतस्य च श्लाघ्यमद्यकर्महनूमतः ।।6.118.7।। Yuddha Kanda,118,8,युद्धेविक्रमतश्चैवहितंमन्त्रयतस्तथा । सुग्रीवस्यससैन्यस्यसफलोऽद्यपरिश्रमः ।।6.118.8।। Yuddha Kanda,118,9,विभीषणस्य च तथासफलोऽद्यपरिश्रमः । विगुणंभ्रातरंत्यक्त्वायोमांस्वयमुपस्थितः ।।6.118.9।। Yuddha Kanda,118,10,इत्येवंवदत्श्रुत्वासीतारामस्यतद्वचः । मृगीवोत्फुल्लनयनाबभूवाश्रुपरिप्लुता ।।6.118.10।। Yuddha Kanda,118,11,पश्यतस्तांतुरामस्यसमीपेहृदयप्रियाम् । जनवादभयाद्राज्ञोबभूवहृदयंद्विधा ।।6.118.11।। Yuddha Kanda,118,12,सीतामुत्पलपत्राक्षींनीलकुञ्चितमूर्थजाम् । अवदद्वैवरारोहंमध्येवानररक्षसाम् ।।6.118.12।। Yuddha Kanda,118,13,यत्कर्तव्यंमनुष्येणधर्षणांप्रतिमार्जता । तत्कृतंरावणंहत्वामयेदंमानकाङ्क्षिणा ।।6.118.13।। Yuddha Kanda,118,14,निर्जिताजीवलोकस्यतपसाभावितात्मना । अगस्त्येनदुराधर्षामुनिनादक्षिणेवधिक् ।।6.118.14।। Yuddha Kanda,118,15,विदितश्चास्तुभत्रंतेयोऽयंरणपरिश्रमः । सुतीर्णःसुहृदांवीर्यान्नत्वदर्थंमयाकृतः ।।6.118.15।। Yuddha Kanda,118,16,रक्षतातुमयावृत्तपमवादं च सर्वतः । प्रख्यातस्यात्मवंशस्यव्यङ्ग्यं च परिमार्जता ।।6.118.16।। Yuddha Kanda,118,17,प्राप्तचारित्रसन्देहाममप्रतिमुखेस्थिता । दीपोनेत्रातुरस्येवप्रतिकूलासिमेदृढम् ।।6.118.17।। Yuddha Kanda,118,18,तद्गच्छत्वानुजानेऽद्ययथेष्टंजनकात्मजे । एतादशदिशोभद्रेकार्यमस्ति न मेत्वया ।।6.118.18।। Yuddha Kanda,118,19,कःपुमांस्तुकुलेजातस्स्त्रयंपरगृहाषिताम् । तेजस्वीपुनरादद्यात्सुहृल्लेख्येनचेतसा ।।6.118.19।। Yuddha Kanda,118,20,रावणाङ्कपरिक्लिष्टांदृष्टांदुष्टेनचक्षुषा । कथंत्वापुनरादद्यांकुलंव्यपदिशन् महत् ।।6.118.20।। Yuddha Kanda,118,21,तदर्थंनिर्जितामेत्वंयशःप्रत्याहृतंमया । नास्तिमेत्यय्यभिष्वङ्गोयथेष्टंगम्यतामितः ।।6.118.21।। Yuddha Kanda,118,22,तदद्यव्याहृतंभद्रेमयैतत् कृतबुधदिना । लक्ष्मणेनाथभरतेकुरुबुधदिंयथासुखम् ।।6.118.22।। Yuddha Kanda,118,23,शत्रुघ्नेवाथसुग्रीवेराक्षसेवाविभीषणे । निवेशयमनस्सीतेयथावासुखमात्मनः ।।6.118.23।। Yuddha Kanda,118,24,न हित्वांरावणोदृष्टवादिव्यरूपांमनोरमाम् । मर्षयेतचिरंसीतेस्वगृहेपर्यवस्थिताम् ।।6.118.24।। Yuddha Kanda,119,1,एवमुक्तातुवैदेहिपरुषंरोमहर्षणम् । राघवेणसरोषेणश्रुत्वाप्रव्यथिताऽभवत् ।।6.119.1।। Yuddha Kanda,119,2,सातदश्रुतपूर्वंहिजनेमहतिमैथिली । श्रुत्वाभर्तृर्वचोरूक्षंलज्जयावनताभवत् ।।6.119.2।। Yuddha Kanda,119,3,प्रविशन्तीवगात्राणिस्वानिसाजनकात्मजा । वाक्षरैस्स्सैःसशल्येवभृशमाश्रूण्यवर्तयत् ।।6.119.3।। Yuddha Kanda,119,4,ततोबाष्पपरिक्लिन्नंप्रमार्जन्तीस्वमाननम् । शनैर्गद्गदयावाचाभर्तारमिदमब्रवीत् ।।6.119.4।। Yuddha Kanda,119,5,किंमामसदृशंवाक्यमीदृशंश्रोत्रदारुणम् । रूक्षंश्रावयसेवीर प्राकृतःप्राकृतमिव ।।6.119.5।। Yuddha Kanda,119,6,न तथास्मिमहाबाहो यथामामवगच्छसि । प्रत्ययंगच्छमेस्वेनचारित्रेणैवतेशपे ।।6.119.6।। Yuddha Kanda,119,7,पृथकस्त्रीणांप्रचारेणजातिंत्वंपरिशङ्कसे । परित्यजैनांशङ्कांतुयदितेऽहंपरीक्षिता ।।6.119.7।। Yuddha Kanda,119,8,यदहंगात्रसम्पर्शंगतास्मिविशवाप्रभो । कामकारो न मेतत्रदैवंतत्रापराध्यति ।।6.119.8।। Yuddha Kanda,119,9,मदधीनंतुयत्तन्मेहृदयंत्वयिवर्तते । पराधीनेषुगात्रेषुकिंकरिष्याम्यनीश्वरी ।।6.119.9।। Yuddha Kanda,119,10,सहसम्वृद्धभावेनसंसर्गेण च मानद । यदितेऽहं न विज्ञाताहतातेनास्मिशाश्वतम् ।।6.119.10।। Yuddha Kanda,119,11,प्रेषितस्तेमहावीरोहनुमानवलोककः । लङ्कास्थाहंत्वयाराजन्किंतदा न विसर्जिता ।।6.119.11।। Yuddha Kanda,119,12,प्रत्यक्षंवानरस्यास्यतद्वाक्यसमनन्तरम् । त्वयासन्त्यक्तयावीरत्यक्तंस्याजजीवितंमया ।।6.119.12।। Yuddha Kanda,119,13,न वृथातेश्रमोऽयंस्यात्संशयेन्यस्यजीवितम् । सुहृज्जनपरिक्लेशो न चायंविपुलस्तव ।।6.119.13।। Yuddha Kanda,119,14,त्वयातुनृपशार्दूलदोषमेवानुवर्तता । लघुनेवमनुष्येणस्त्रीत्वमेवपुरस्कृतम् ।।6.119.14।। Yuddha Kanda,119,15,अपदेशेनजनकादुत्पततिर्वसुथातलात् । ममवृत्तं च वृत्तज्ञबहुते न पुरस्कृतम् ।।6.119.15।। Yuddha Kanda,119,16,न प्रमाणीकृतंपाणिर्भाल्येममनिपीडितः । ममभक्तिश्चशीलं च सर्वंतेपृष्ठतःकृतम् ।।6.119.16।। Yuddha Kanda,119,17,इतिब्रुवन्तीरुदतीबाष्पगद्गगभाषिणी । उवाचलक्ष्मणंसीतादीनंध्यानपरायणम् ।।6.119.17।। Yuddha Kanda,119,18,चितांमेकुरुसौमित्रेव्यवनस्यास्यभेषजम् । मिध्यापवादोपहतानाहंजीवितुमुत्सहे ।।6.119.18।। Yuddha Kanda,119,19,अप्रीतेनगुणैर्भर्त्रात्यक्तायाजनसंसदि । याक्षमामेगतिर्गन्तुंप्रवेक्ष्येहव्यवाहनम् ।।6.119.19।। Yuddha Kanda,119,20,एवमुक्तस्तुवैदेह्यालक्ष्मणःपरवीरहा । अमर्षवशमापन्नोराघवंसमुदैक्षत ।।6.119.20।। Yuddha Kanda,119,21,स विज्ञायततश्छन्दंरामस्याकारसूचितम् । चितांचकारसौमित्रिर्मतेरामस्यवीर्यवान् ।।6.119.21।। Yuddha Kanda,119,22,नहिरामंतदाकश्चित्कालान्तकयमोपमम् । अनुनेतुमथोवक्तुंद्रष्टुंवाप्यशकत्सुहृत् ।।6.119.22।। Yuddha Kanda,119,23,अधोमुखंस्थितंरामंततःकृत्वाप्रदक्षिणम् । उपावर्ततवैदेहीदीप्यमानंहुताशनम् ।।6.119.23।। Yuddha Kanda,119,24,प्रणम्यदैवतेभ्यश्चब्राह्मणेभ्यश्चमैथिली । बद्धाञ्जलिपुटाचेदमुवाचानगिसमीपतः ।।6.119.24।। Yuddha Kanda,119,25,यथामेहृदयंनित्यंनापसर्पतिराघवात् । तथालोकस्यसाक्षीमांसर्वतःपातुपावकः ।।6.119.25।। Yuddha Kanda,119,26,यथामांशुद्धचरितांदुष्टांजानातिराघवः । तथालोकस्यसाक्षीमांसर्वतःपातुपावकः ।।6.119.26।। Yuddha Kanda,119,27,कर्मणामनसावाचायथानातिचराम्यहम् । राघवंसर्वधर्मज्ञंतथामांपातुपावकः ।।6.119.27।। Yuddha Kanda,119,28,आदित्योभगवान्वायुर्धिशश्चन्द्रस्तथैव च । अहश्चापितथासन्ध्येरात्रिश्चपृथिवीतथआ ।।6.119.28।। यथान्येऽपिविजानन्तितथाचारित्रसंयुताम् । Yuddha Kanda,119,29,एवमुक्त्वातुवैदेहीपरिक्रम्यहुताशनम् । विवेशज्वलनंदीप्तंनिःशङ्केनान्तरात्मना ।।6.119.29।। Yuddha Kanda,119,30,नश्चसुमहांस्तत्रबालवृद्धसमाकुलः ।।6.119.30।। ददर्शमैथिलींदीप्तांप्रविशन्तींहुताशनम् । Yuddha Kanda,119,31,सातप्तनवहेमाभातप्तकाञ्चनभूषणा ।।6.119.31।। पपातज्वलनंदीप्तंसर्वलोकस्यसन्निधौ । Yuddha Kanda,119,32,ददृशुस्तांविशालाक्षींपतन्तींहव्यवाहनम् ।।6.119.32।। सीतांसर्वाणिरूपाणिरुक्मवेदिनिभांतदा । Yuddha Kanda,119,33,ददृशुस्तांमहाभागांप्रविशन्तींहुताशनम् ।।6.119.33।। सीतांकृत्स्नास्त्रयोलोकाःपुण्यामाज्याहुतीमिव । Yuddha Kanda,119,34,प्रचुक्रुशुःस्त्रियःसर्वास्तांदृष्टवाहव्यवाहवे ।।6.119.34।। पतन्तींसंस्कृतांमन्रन्स्सैर्वसोर्दारामिवाध्वरे । Yuddha Kanda,119,35,ददृशुस्तांत्रयोलोकादेवगन्धर्वदानवाः ।।6.119.35।। शस्तांपतन्तींनिरयेत्रिविवाद्धेवतामिव । Yuddha Kanda,120,1,ततोहिदुर्मनाराम्श्रुत्वैवंवदतांगिरः । दध्यौमुहूर्तंधर्मात्माबाष्पव्याकुललोचनः ।।6.120.1।। Yuddha Kanda,120,2,ततोवैश्रवणोराजायमश्चपितृभिःसह । सहस्राक्षश्चदेवेशोवरुणश्चजलेश्वरः ।।6.120.2।। Yuddha Kanda,120,3,षडर्धनयन्श्रीमान्महादेवोवृषध्वजः । कर्तासर्वस्यलोकस्यब्रह्माब्रह्मविदांवरः ।।6.120.3।। Yuddha Kanda,120,4,एतेसर्वेसमागम्यविमानैस्सूर्यसन्निभैः । आगम्यनगरींलङ्कामभिजग्मुश्चराघवम् ।।6.120.4।। Yuddha Kanda,120,5,ततःसहस्ताभरणान्प्रगृह्यविपुलान्भुजान् । अब्रुवंस्त्रिदशश्रेष्ठाराघवंप्राञ्जलिंस्थितम् ।।6.120.5।। Yuddha Kanda,120,6,कर्तासर्वस्यलोकस्यश्रेष्ठोज्ञानवतांप्रभुः । उपेक्षसेकथंसीतांपतन्तींहव्यवाहने ।।6.120.6।। कथंदेवगणश्रेष्ठमात्मानंनावबुद्ध्यसे । Yuddha Kanda,120,7,ऋतधामावसुःपूर्वंवसूनां च प्रजापतिः ।।6.120.7।। त्रयाणामपिलोकानामादिकर्तास्वयंप्रभुः । Yuddha Kanda,120,8,रुद्राणामष्टमोरुद्रस्साध्यानामपिपञ्चमः ।।6.120.8।। अश्विनौचापिकर्णौतेसूर्यचन्द्रामसौदृशौ । Yuddha Kanda,120,9,अन्तेचादौ च लोकानांदृश्यसे च परन्तप ।।6.120.9।। उपेक्षसे च वैदेहींमानुषःप्राकृतोयथा । Yuddha Kanda,120,10,इत्युक्तोलोकपालैस्तैस्स्वामीलोकस्यराघवः ।।6.120.10।। अब्रवीत्त्रिदशश्रेष्ठान्रामधर्मभृतांवरः । Yuddha Kanda,120,11,आत्मानंमानुषंमन्येरामंदशरथात्मजम् ।।6.120.11।। सोऽहंयस्ययतश्चाहंभगववंस्तद्भ्रवीतुमे । Yuddha Kanda,120,12,इतिब्रुवाणंकाकुत्स्थंब्रह्माब्रह्मविदांवरः ।।6.120.12।। अब्रवीच्छ्रुणुमेवाक्यंसत्यंसत्यपराक्रम । Yuddha Kanda,120,13,भवान्नारायणोदेवःश्रीमांश्चक्रायुधःप्रभुः ।।6.120.13।। एकशृङ्गोवराहस्त्वंभूतभव्यसपत्नजित् । Yuddha Kanda,120,14,अक्षरंब्रह्मसत्यं च मध्येचान्ते च राघव ।।6.120.14।। लोकानांत्वंपरोधर्मोविष्वक्सेनश्चतुर्भुजः । Yuddha Kanda,120,15,शार्ङ्गधन्वाहृषीकेशःपुरुषःपुरुषोत्तमः ।।6.120.15।। अजितःखङ्गदृग्विष्णुःकृष्णश्चैवमहाबलः । Yuddha Kanda,120,16,सेनानीर्ग्रामणीश्चत्वंत्वंबुद्धिस्त्वंक्षमादमः ।।6.120.16।। प्रभवश्चाप्ययश्चत्वमुपेन्द्रोमधुसूदनः । Yuddha Kanda,120,17,इन्द्रकर्मामहेन्द्रस्त्वंपद्मनाभोरणान्तकृत् ।।6.120.17।। शरण्यंशरणं च त्वामाहुर्दिव्यामहर्षयः । Yuddha Kanda,120,18,सहस्रशृङ्गोवेदात्माशरशीर्षोमहर्षभः ।।6.120.18।। Yuddha Kanda,120,19,त्वंत्रयाणांहिलोकानामादिकर्तास्वयम्प्रभुः । सिद्धानामपिसाध्यानामाश्रयश्चासिपूर्वजः ।।6.120.19।। Yuddha Kanda,120,20,त्वम्यज्ञस्त्वंवषटकारस्त्वमोङ्कारःपरात्परः ।।6.120.20।। प्रभवंनिधनंवातेनोविदुःकोभवानिति । Yuddha Kanda,120,21,दृश्यसेसर्वभूतेषुगोषु च ब्राह्मणेषु च ।।6.120.21।। दिक्षुसर्वासुगगनेपर्वतेषुनदीषु च । Yuddha Kanda,120,22,सहस्रचरण्श्रीमान् शतशीर्षस्सहस्रदृक् ।।6.120.22।। त्वंधारयसिभूतानिपृथिवीं च सपर्वताम् । Yuddha Kanda,120,23,अन्तेपृथिव्याःसलिलेदृश्यसेत्वंमहोरगः ।।6.120.23।। त्रीन्लोकान्धारयन् राम देवगन्धर्वदानवान् । Yuddha Kanda,120,24,अहंतेहृदयंरामजिह्वादेवीसरस्वती ।।6.120.24।। देवारोमाणिगात्रेषुब्रह्मणानिर्मिताःप्रभो । Yuddha Kanda,120,25,निमेषस्तेस्मृतारात्रिरुन्मेषोदिवसस्तथा ।।6.120.25।। संस्कारास्त्वभवन्वेदानैतदस्तित्वयाविना । Yuddha Kanda,120,26,जगत्सर्वंशरीरंतेस्थैर्यंतेवसुथातलम् ।।6.120.26।। अग्निःकोपःप्रसादस्तेसोम्श्रीवत्सलक्षणः । Yuddha Kanda,120,27,त्वयालोकास्त्रयःक्रान्ताःपुरास्वैर्विक्रमैस्त्रिभिः ।।6.120.27।। महेन्ध्रश्चकृतोराजाबलिंबद्ध्वासुदारुणम् । Yuddha Kanda,120,28,सीतालक्ष्मीर्भवान् विष्णुर्देवःकृष्णःप्रजापतिः ।।6.120.28।। वधार्थंरावणस्येहप्रविष्टोमानुषींतनुम् । Yuddha Kanda,120,29,तदिदंनस्त्वयाकार्यंकृतंधर्मभृतांवर ।।6.120.29।। निहतोरावणोरामप्रहृष्टोदिवमाक्रम । Yuddha Kanda,120,30,अमोघंदेववीर्यंते न तेमोघाःपराक्रमाः ।।6.120.30।। अमोघंदर्शनंरामअमोघस्तवसंस्तवः । Yuddha Kanda,120,31,अमोघास्तेभविष्यन्तिभक्तिमन्तोनराभुवि ।।6.120.31।। Yuddha Kanda,120,32,येत्वांदेवंध्रुवंभक्ताःपुराणंपुरुषोत्तमम् । प्राप्नुवन्तिसदाकामनिहलोकेपरत्र च ।।6.120.32।। Yuddha Kanda,121,1,एतच्छ्रुत्वाशुभंवाक्यंपितामहसमीरितम् । अङ्केनादायवैदेहिमुत्पपातविभावसुः ।।6.121.1।। Yuddha Kanda,121,2,नविधूयाथचितांतांतुवैदेहींहव्यवाहनः । उत्तस्थौमूर्तिमानाशुगृहीत्वाजनकात्मजाम् ।।6.121.2।। Yuddha Kanda,121,3,तरुणादित्यसङ्काशंतप्तकाञ्चनभूषणाम् । रक्ताम्बरधरांबालांसीलकुञ्चितमूर्थजाम् ।।6.121.3।। Yuddha Kanda,121,4,अक्लिष्टमाल्याभरणांतथारूपामनिन्दिताम् । ददौरामायवैदेहीमङ्केकृत्वाविभावसुः ।।6.121.4।। Yuddha Kanda,121,5,अब्रवीत्तुतदारामंसाक्षीलोकस्यपावकः । एषातेराम वैदेहीपापमस्यां न विद्यते ।।6.121.5।। Yuddha Kanda,121,6,नैववाचा न मनसानैवबुद्ध्या न चक्षुषा । सुवृत्तावृत्तशौण्डीरन त्वामत्यचरच्छुभा ।।6.121.6।। Yuddha Kanda,121,7,रावणेनापनीतैषावीर्योसतिक्तेनरक्षसा । त्वयाविरहितादीनाविवशानिर्जनाद्वनात् ।।6.121.7।। Yuddha Kanda,121,8,रुद्धाचान्तःपुरेगुप्तात्वच्छित्तात्वत्परायणा । रक्षिताराक्षसीभिश्चघोराभिर्घोरबुद्धिभिः ।।6.121.8।। Yuddha Kanda,121,9,प्रलोभ्यमानाविविधंभर्त्स्यमाना च मैथिली । नाचिन्तयततद्रक्षस्त्वद्गतेनान्तरात्मना ।।6.121.9।। Yuddha Kanda,121,10,विशुद्धभावांनिष्पापांप्रतिगृह्णीष्वमैथिलीम् । न किञ्चिरभिधातव्याअहमाज्ञापयामिते ।।6.121.10।। Yuddha Kanda,121,11,ततःप्रीतिमानारामःश्रुत्यैवंवदतांवरः । दध्यौमुहूर्तंधर्मात्माबाष्पव्याकुललोचनः ।।6.121.11।। Yuddha Kanda,121,12,एवमुक्तोमहातेजाधृतिमान्दृढविक्रमः । उवाचत्रिदशश्रेष्ठंरामोधर्मभृतांवरः ।।6.121.12।। Yuddha Kanda,121,13,अवश्यंत्रिषुलोकेषु न सीतापापमर्हति । दीर्घकालोषिताहीयंरावणान्तःपुरेशुभा ।।6.121.13।। Yuddha Kanda,121,14,बालिशोखलुकामात्मारामोदशरथात्मजः । इतिवक्ष्यन्तिमांसन्तोजानकीमविशोध्यहि ।।6.121.14।। Yuddha Kanda,121,15,अनन्यहृदयांभक्तांमच्चित्तपरिवर्तिनीम् । अहमप्यवगच्छामिमैथिलींजनकात्मजाम् ।।6.121.15।। Yuddha Kanda,121,16,इमामपिविशालाक्षींरक्षितांस्वेनतेजसा । रावणोनातिवर्तेतवेलामिवमहोदधिः ।।6.121.16।। Yuddha Kanda,121,17,प्रत्ययार्थंतुलोकानांत्रयाणांसत्यसंश्रयः । उपेक्षेचापिवैदेहींप्रविशन्तींहुताशनम् ।।6.121.17।। Yuddha Kanda,121,18,न हिशक्तःसुदुष्टात्मामनसापिहिमैथिलीम् । प्रधर्षयितुमप्राप्यांदीप्तामग्निशिखामिव ।।6.121.18।। Yuddha Kanda,121,19,नेयमर्हतिचैश्वर्यंरावणान्तःपुरेशुभा । अनन्याहिमयासीताभास्करेणप्रभायथा ।।6.121.19।। Yuddha Kanda,121,20,विशुद्धात्रिषुलोकेषुमैथिलीजनकात्मजा । न विहातुंमयाशक्याकीर्तिरात्ववतायथा ।।6.121.20।। Yuddha Kanda,121,21,अवश्यं च मयाकार्यंसर्वेषांवोवचोहितम् । स्निग्धानांलोकनाधानामेवं च वदतांहितम् ।।6.121.21।। Yuddha Kanda,122,1,एतच्छ्रुत्वाशुभंवाक्यंराघवेणानुभाषितम् । ततश्शुभतरंवाक्यंव्याजहारमहेश्वरः ।।6.122.1।। Yuddha Kanda,122,2,पुष्कराक्ष महाबाहो महावक्ष परन्तप । दिष्ट्याकृतमिदंकर्मत्वयाधर्मभृतांवर ।।6.122.2।। Yuddha Kanda,122,3,दिष्ट्यासर्वस्यलोकस्यप्रवृद्धंदारुणंतमः । अपावृत्तंत्वयासङ्ख्येरामरावणजंभयम् ।।6.122.3।। Yuddha Kanda,122,4,आश्वास्यभरतंदीनंकौसल्यां च यशस्विनीम् । कैकेयीं च सुमित्रां च दृष्टवालक्ष्मणमातरम् ।।6.122.4।। Yuddha Kanda,122,5,प्राप्यराज्यमयोध्यायांनन्दयित्वासुहृज्जनम् । इक्ष्वाकूणांकुलेवंशंस्थापयित्वामहाबल ।।6.122.5।। Yuddha Kanda,122,6,इष्टवातुरगमेधेनप्राप्यचानुत्तमंयशः । ब्राह्मणेभ्योधनंदत्त्वात्रिदिवंगन्तुमर्हसि ।।6.122.6।। Yuddha Kanda,122,7,एषराजादशरथोविमानस्थःपितातव । काकुत्स्थमानुषेलोकेगुरुस्तवमहायशाः ।।6.122.7।। Yuddha Kanda,122,8,इन्द्रलोकंगतःश्रीमांस्त्वयापुत्रेणतारितः । लक्ष्मणेनसहभ्रात्रात्वमेममभिवादय ।।6.122.8।। Yuddha Kanda,122,9,महदेववच्श्रुत्वाराघवःसहलक्ष्मणः । लक्ष्मणेनसहभ्रात्राददर्शपितरंप्रभुः ।।6.122.9।। Yuddha Kanda,122,10,दीप्यमानंस्वयालक्ष्मविरजोऽम्भरधारिणम् । लक्ष्मणेनसहभ्रात्राददर्शपितरंप्रभुः ।।6.122.10।। Yuddha Kanda,122,11,हर्षेणमहताविष्टोविमनस्थोमहीपतिः । प्राणैःप्रियतरंदृष्टवापुत्रंदशरथस्तदा ।।6.122.11।। Yuddha Kanda,122,12,आरोप्याङ्केमहबाहुर्वरासनगतःप्रभुः । बाहुभ्यांसम्परिष्वज्यततोवाक्यंसमाददे ।।6.122.12।। Yuddha Kanda,122,13,न मेस्वर्गोबहुमतस्सम्मानश्चसुरर्षभैः । त्वयारामविहीनस्यसत्यंप्रतिशृणोमिते ।।6.122.13।। Yuddha Kanda,122,14,अद्यत्वांनिहतामित्रंदृष्टवासम्पूर्णमानसम् । निस्तीर्णवनवासं च प्रीतिरासीत्परामम ।।6.122.14।। Yuddha Kanda,122,15,कैकेय्यायानिचोक्तानिवाक्यानिवदतांवर । तवप्रव्राजनार्थानिस्थितानिहृदयेमम ।।6.122.15।। Yuddha Kanda,122,16,त्वांतुदृष्टवाकुशलिनंपरिष्वज्यसलक्ष्मणम् । अद्यदुःखाद्विमुक्तोऽस्मिनीहारादिवभास्करः ।।6.122.16।। Yuddha Kanda,122,17,तारितोऽहंत्वयापुत्र सुपुत्रेणमहात्मना । अष्टावक्रेणधर्मात्माकहोलोब्राह्मणोयथा ।।6.122.17।। Yuddha Kanda,122,18,इदानीं च विजानामियथासौम्य सुरेश्वरैः । वधार्थंरावणस्येहविहितंपुरुषोत्तम ।।6.122.18।। Yuddha Kanda,122,19,सिद्धार्थाखलुकौसल्यायात्वांराम गृहंगतम् । वनान्निवृत्तंसंहृष्टाद्रक्ष्यतेशत्रुसूदनम् ।।6.122.19।। Yuddha Kanda,122,20,सिद्धार्थाःखलुतेराम नरायेत्वांपुरींगतम् । राज्येचावाभिषिक्तं च द्रक्ष्यन्तेवसुधाधिपम् ।।6.122.20।। Yuddha Kanda,122,21,अनुरक्तेनबलिनाशुचिनाधर्मचारिणा । इच्छेयंत्वामहंद्रष्टुंभरतेनसमागतम् ।।6.122.21।। Yuddha Kanda,122,22,चतुर्दशसमास्सौम्यवनेनिर्यातितास्त्वया । वसतासीतयासार्धंलक्ष्मणेन च धीमता ।।6.122.22।। Yuddha Kanda,122,23,निवृत्तवनवासोऽसिप्रतिज्ञापूरितात्वया । रावणं च रणेहत्वादेवताःपरितोषिताः ।।6.122.23।। Yuddha Kanda,122,24,कृतंकर्मयशश्श्लाघ्यंप्राप्तंतेशत्रुसूदन । भ्रातृभिःसहराज्यस्थोदीर्घमायुरवाप्नुहि ।।6.122.24।। Yuddha Kanda,122,25,इतिब्रुवाणंराजानंरामःप्राञ्जलिरब्रवीत् । कुरुप्रसादंधर्मज्ञकैकेय्याभरतस्य च ।।6.122.25।। Yuddha Kanda,122,26,सपुत्रांत्वांत्यजामीतियदुक्ताकेकयीत्वया । स शापःकेकयींघोरस्सपुत्रां न स्पृशेत्प्रभो ।।6.122.26।। Yuddha Kanda,122,27,तथेति स महाराजोराममुक्त्वाकृताञ्जलिम् । लक्ष्मणं च परिष्वज्यपुनर्वाक्यमुवाच ह ।।6.122.27।। Yuddha Kanda,122,28,रामंशुश्रूषताभक्त्यावैदेह्यासहसीतया । कृतमममहाप्रीतिःप्राप्तंधर्मफलं च ते ।।6.122.28।। Yuddha Kanda,122,29,धर्मंप्राप्स्यसिधर्मज्ञ यशश्चविपुलंभुवि । रामेप्रसन्नेस्वर्गं च महिमानंतथोत्तमाम् ।।6.122.29।। Yuddha Kanda,122,30,रामंशुश्रूषभद्रंतेसुमित्रानन्दवर्धन । रामस्सर्वस्यलोकस्यसुभेष्वभिरतःसदा ।।6.122.30।। Yuddha Kanda,122,31,एतेसेन्द्रास्त्रयोलोकास्सिद्धाश्चपरमर्षयः । अभिगम्यमहात्मानमर्चन्तिपुरुषोत्तमम् ।।6.122.31।। Yuddha Kanda,122,32,एतत्तदुक्तमव्यक्तमक्षरंब्रह्मनिर्मितम् । देवानांहृदयंसौम्य गुह्यंरामःपरन्तप ।।6.122.32।। Yuddha Kanda,122,33,अवाप्तंधर्मचरणंयशश्चविपुलंत्वया । एनंशुश्रूषताभक्त्यावैदेह्यासहसीतया ।।6.122.33।। Yuddha Kanda,122,34,इत्युक्त्वालक्ष्मणंराजास्नुषांबद्धाञ्जलिंस्थिताम् । पुत्रीत्याभाष्यमधुरंशनैरेनामुवाच ह ।।6.122.34।। Yuddha Kanda,122,35,कर्तव्यो न तुवैदेहीमन्युस्त्यागमिमंप्रति । रामेणेत्वद्विशुध्यर्थंकृतमेतद्धितैषिणा ।।6.122.35।। Yuddha Kanda,122,36,सुदुष्करमिदंपुत्रितवचारित्रलक्षणम् । कृतंयत्तेऽन्यनारीणांयशोह्यभिभविष्यति ।।6.122.36।। Yuddha Kanda,122,37,न त्वंकामंसमाधेयाभर्तृशुश्रूषणंप्रति । अवश्यंतुमयावाच्यमेषतेदैवतंपरम् ।।6.122.37।। Yuddha Kanda,122,38,इतिप्रतिसमादिश्यपुत्रौसीतां च राघवः । इन्द्रलोकंविमानेनययौदशरथोज्वलन् ।।6.122.38।। Yuddha Kanda,123,1,प्रतिप्रयातेकाकुत्स्थेमहेन्द्रःपाकशासनः । अब्रवीत्परमप्रीतोराघवंप्राञ्जलिंस्थितम् ।।6.123.1।। Yuddha Kanda,123,2,अमोघंदर्शनंराम तवास्माकंनरर्षभ । प्रीतियुक्ताःस्मतेनत्वंब्रूहियन्मनसेप्सितम् ।।6.123.2।। Yuddha Kanda,123,3,एवमुक्तोमहेन्द्रेणप्रसन्नेनमहात्मना । सुप्रसन्नमनाहृष्टोवचनंप्राहराघवः ।।6.123.3।। Yuddha Kanda,123,4,यदिप्रीतिस्समुत्पन्नामयितेविबुधेश्वर । वक्ष्यामिकुरुमेसत्यंवचनंवदतांवर ।।6.123.4।। Yuddha Kanda,123,5,ममहेतोःपराक्रान्तायेगतायमसादनम् । तेसर्वेजीवितंप्राप्यसमुततिष्ठन्तुवानराः ।।6.123.5।। Yuddha Kanda,123,6,मत्कृतेविप्रयुक्तायेपुत्रैर्दारैश्चवानराः । तान्प्रीतमनसःसर्वान्द्रष्टुमिच्छामिमानद ।।6.123.6।। Yuddha Kanda,123,7,विक्रान्ताश्चापिशूराश्च न मृत्युंगणयन्ति च । कृतयत्नाविपन्नाश्चजीवयैनान् पुरन्दर ।।6.123.7।। Yuddha Kanda,123,8,मत्प्रियेष्वभिरक्ताश्च न मृत्युंगणयन्तिये । त्वत्प्रसादात्समेयुस्तेवरमेतमहंवृणे ।।6.123.8।। Yuddha Kanda,123,9,नीरुजोनिर्व्रणांश्चैवसम्पन्नबलपौरुषान् । गोलाङ्गूलांस्तथैवर्क्षांन्द्रष्टुमिच्छामिमानद ।।6.123.9।। Yuddha Kanda,123,10,अकालेचापिपुष्पाणिमूलानि च फलानि च । नद्यश्चविमलास्तत्रतिष्ठेयुर्यत्रवानराः ।।6.123.10।। Yuddha Kanda,123,11,श्रुत्वातुवचनंतस्यराघवस्यमहात्मनः । महेन्द्रःप्रत्युवाचेदंवचनंप्रीतिसंयुतम् ।।6.123.11।। Yuddha Kanda,123,12,महानयंवरस्तातयस्त्वयोक्तोरघूत्तम । वदिर्मयानोक्तपूर्वं च तस्मादेतद्भविष्यति ।।6.123.12।। Yuddha Kanda,123,13,समुत्तिष्ठन्तुतेसर्वेहतायेयुधिराक्षसैः । ऋक्षाश्चसहगोपुच्छैर्निकृत्ताननबाहवः ।।6.123.13।। Yuddha Kanda,123,14,नीरुजोनिर्व्रणाश्चैवसम्पन्नबलपौरुषाः । समुत्थास्यन्तिहरयस्सुप्तानिद्राक्ष्येयथा ।।6.123.14।। Yuddha Kanda,123,15,सुहृद्भिर्बान्धवैश्चैवज्ञातिभिःस्वजनेन च । सर्वएवसमेष्यन्तिसम्युक्ताःपरयामुदा ।।6.123.15।। Yuddha Kanda,123,16,अकालेपुष्पशबलाःफलवन्तश्चपादपाः । भविष्यन्तिमहेष्वास नद्यश्चसलिलायुताः ।।6.123.16।। Yuddha Kanda,123,17,सव्रणैःप्रथमंगात्रैरिदानींनिर्व्रणैस्समैः । ततस्समुत्थितास्सर्वेसुप्त्वेवहरियूथपाः ।।6.123.17।। बभूवुर्वानरास्सर्वेकिंन्वेतदितिविस्मिताः । Yuddha Kanda,123,18,काकुत्स्थंपरिपूर्णार्थंदृष्टवासर्वेसुरोत्तमाः ।।6.123.18।। अब्रुवन्परमप्रीतास्स्तुत्वारामंसलक्ष्मणम् । Yuddha Kanda,123,19,गच्छायोध्यामितोराजन्विसर्जय च वानरान् ।।6.123.19।। मैथिलींसान्त्वयस्वैनामनुरक्तांयशस्विनीम् । Yuddha Kanda,123,20,भ्रारातरंभरतंपश्यत्वच्छोकाद्व्रतचारिणम् ।।6.123.20।। Yuddha Kanda,123,21,शत्रुघ्नं च महात्मानंमात्रूःसर्वाःपरन्तप । अभिषेचयचात्मानंपौरान्गत्वाप्रहर्षय ।।6.123.21।। Yuddha Kanda,123,22,एवमुक्त्वासहस्राक्षोरामंसौमित्रिणासह । विमानैःसूर्यसङ्काशैर्ययौहृष्टःसुरैःसह ।।6.123.22।। Yuddha Kanda,123,23,अभिवाद्य च काकुत्स्थ: सर्वांस्तांस्त्रिदशोत्तमान् । लक्ष्मणेनसहभ्रात्रावासमाज्ञापयत्तदा ।।6.123.23।। Yuddha Kanda,124,1,तांरात्रिमुषितंरामंसुखोत्थिमरिन्दमम् । अब्रवीत्प्राञ्जलिर्वाक्यंजयंपृष्टवाविभीषणः ।।6.124.1।। Yuddha Kanda,124,2,स्नानानिचाङ्गरागाणिवस्त्राण्याभरणानि च । चन्दनानि च दिव्यानिमाल्यानिविविधानि च ।।6.124.2।। Yuddha Kanda,124,3,अलङ्कारविदश्चेमानार्यःपद्मनिभेक्षणाः । उपस्थितास्त्वांविधवत्स्नापयिष्यन्तिराघव ।।6.124.3।। Yuddha Kanda,124,4,एवमुक्तस्तुकाकुत्स्थ: प्रत्युवाचविभीषणम् । हरीन्सुग्रीवमुख्यांस्त्वंस्नानेनोपनिमन्त्रय ।।6.124.4।। Yuddha Kanda,124,5,स तुताम्यतिधर्मात्माममहेतोस्सुखोचितः । सुकुमारोमहाबाहोकुमार: सत्यसंश्रयः ।।6.124.5।। Yuddha Kanda,124,6,तंविनाकैकयीपुत्रंभरतंधर्मचारिणम् । न मेस्नानंबहुमतंवस्त्राण्याभरणानि च ।।6.124.6।। Yuddha Kanda,124,7,एतत्पश्ययथाक्षिप्रंप्रतिगच्छामतांपुरीम् । अयोध्यांगच्छतोह्येषपन्थाःपरमदुर्गमः ।।6.124.7।। Yuddha Kanda,124,8,एवमुक्तस्तुकाकुत्स्थंप्रत्युवाचविभीषणः । अह्नात्वांप्रापयिष्यामितांपुरींपार्थिवात्मज ।।6.124.8।। Yuddha Kanda,124,9,पुष्पकंनामभद्रंतेविमानंसूर्यसन्निभम् । ममभ्रातुःकुबेरस्यरावणेनबलीयसा ।।6.124.9।। Yuddha Kanda,124,10,हृतंनिर्जित्यसङ्ग्रामेकामगंदिव्यमुत्तमम् । त्वदर्थंपालितंचेदंतिष्ठत्यतुलविक्रम ।।6.124.10।। Yuddha Kanda,124,11,तदिदंमेघसङ्काशंविमानमिहतिष्ठति । तेनयास्यसियानेनत्वमयोध्यांगतज्वरः ।।6.124.11।। Yuddha Kanda,124,12,अहंतेयुद्यनुग्राह्योयदिस्मरसिमेगुणान् । वसतावदिहप्राज्ञ यद्यस्तिमयिसौहृदम् ।।6.124.12।। Yuddha Kanda,124,13,लक्ष्मणेनसहभ्रात्रावैदेह्याभार्ययासह । अर्चितस्सर्वकामैस्त्वंततोराम गमिष्यसि ।।6.124.13।। Yuddha Kanda,124,14,प्रीतियुक्तस्यविहितांससैन्यःससुहृद्गणः । सक्रतियांराममेतावद्गृहेणत्वंमयोद्यताम् ।।6.124.14।। Yuddha Kanda,124,15,प्रणयाद्भहुमानाच्चसौहार्देन च राघव । प्रसादायामिप्रेष्योऽहं न खल्वाज्ञापयामिते ।।6.124.15।। Yuddha Kanda,124,16,एवमुक्तस्ततोरामःप्रत्युवाचविभीषणम् । रक्षसांवानराणां च सर्वेषामेवशृण्वताम् ।।6.124.16।। Yuddha Kanda,124,17,पूजितोऽस्मित्वयावीर साचिव्येनपरन्तप । सर्वात्मना च चेष्टाभिःसौहार्देनपरेण च ।।6.124.17।। Yuddha Kanda,124,18,न खल्वेतन्नकुर्यांतेवचनंराक्षसेश्वर । तंतुमेभ्रातरंद्रष्टुंभरतंत्वरतेमनः ।।6.124.18।। Yuddha Kanda,124,19,मांनिवर्तयितुंयोऽसौचित्रकूटमुपागतः । शिरसायाचतोयस्यवचनं न कृतंमया ।।6.124.19।। Yuddha Kanda,124,20,कौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम् । गुहं च सुहृदंचैवपौरान्जनपदैस्सह ।।6.124.20।। Yuddha Kanda,124,21,अनुजानीहमांसौम्य पूजितोऽस्मिविभीषण । मन्युर्नखलुकर्तव्यःसखेत्वांचानुमानये ।।6.124.21।। Yuddha Kanda,124,22,उपस्थापयमेशीघ्रंविमानंराक्षसेश्वर । कृतकार्यस्यमेवासःकथंस्यादिहसम्मतः ।।6.124.22।। Yuddha Kanda,124,23,एवमुक्तस्तुरामेणराक्षसेन्द्रोविभीषणः । विमानसूर्यसङ्काशमाजुहावत्वरान्वितः ।।6.124.23।। Yuddha Kanda,124,24,ततःकाञ्चनचित्राङ्गंवैदूर्यमणिवेदिकम् । कूटागारैःपरिक्षिप्तंसर्वतोरजतप्रभम् ।।6.124.24।। Yuddha Kanda,124,25,पाण्डुराभिःपताकाभिर्ध्वजैश्चसमलङ्कृतम् । शोभितंकाञ्चनैर्हर्म्यैर्हेमपद्मविभूषितैः ।।6.124.25।। Yuddha Kanda,124,26,प्रकीर्णंकिङ्किणीजालैर्मुक्तामणिगवाक्षकम् । घण्टाजालैःपरिक्षिप्तंसर्वतोमधुरस्वनम् ।।6.124.26।। Yuddha Kanda,124,27,यन्मेरुशिखराकारंनिर्मितंविश्वकर्मणा । बृहभिर्भूषितंहर्म्यैर्मुक्तारजतशोभितैः ।।6.124.27।। Yuddha Kanda,124,28,तलैस्स्फटिकचित्राङ्गैदूर्यैश्चवरासनैः । महार्हास्तरणोपेतैरुपपन्नंमहाधनैः ।।6.124.28।। Yuddha Kanda,124,29,उपस्थितमनाधृष्यंतद्विमानंमनोजवम् । निवेदयित्वारामायतस्थौतत्रविभीषणः ।।6.124.29।। Yuddha Kanda,125,1,उपस्थितंतुतंकृत्वापुष्पकंपुष्पभूषितम् । अविदूरेस्थितोराममित्युवाचविभीषणः ।।6.125.1।। Yuddha Kanda,125,2,स तुबद्धाञ्जलि: प्रह्वोविनीतोराक्षसेश्वरः । अब्रवीत्त्वरयोपेतःकिंकरोमीतिराघवम् ।।6.125.2।। Yuddha Kanda,125,3,तमब्रवीन्महातेजालक्ष्मणस्योपशृण्वतः । विमृश्यराघवोवाक्यमिदंस्नेहपुरस्कृतम् ।।6.125.3।। Yuddha Kanda,125,4,कृतप्रयत्नकर्माणःसर्वएववनेचराः । रत्नैरर्थैश्चविविधैस्सम्पूज्यन्तांविभीषण ।।6.125.4।। Yuddha Kanda,125,5,सहामीभिस्त्वयालङ्कानिर्जिताराक्षसेश्वर । हृष्टैःप्राणभयंत्यक्त्वासङ्ग्रामेष्वनिवर्तिभिः ।।6.125.5।। Yuddha Kanda,125,6,त इमेकृतकर्माणस्सर्वएववनौकसः । धनरत्नप्रदानेनकर्मैषांसफलंकुरु ।।6.125.6।। Yuddha Kanda,125,7,एवंसम्मानिताश्चेतेमानार्हमानदात्वया । भविष्यन्तिकृतज्ञेननिर्वृताहरियूथपाः ।।6.125.7।। Yuddha Kanda,125,8,त्यागिनंसङ्ग्रहीतारंसानुक्रोशंजितेन्द्रियम् । सर्वेततःअवगच्छन्तिसम्बोधयामिते ।।6.125.8।। Yuddha Kanda,125,9,हीनंरतिगुणैस्सर्वैरभिहन्तारमाहवे । सेनात्यजतिसम्विग्नानृपतिंतंनरेश्वरा ।।6.125.9।। Yuddha Kanda,125,10,एवमुक्तस्तुरामेणवानरांस्तान्विभीषणः । रत्नार्थसंविभागेनसर्वानेवाभ्यपूजयत् ।।6.125.10।। Yuddha Kanda,125,11,ततस्तान्पूजितान्दृष्टवारत्नार्थैर्हरियूथपान् । आरुरोहतदारामस्तद्विमानमनुत्तमम् ।।6.125.11।। Yuddha Kanda,125,12,अङ्केनादायवैदेहींलज्जमानांयशस्विनीम् । लक्ष्मणेनसहभ्रात्राविक्रान्तेवधनुष्मता ।।6.125.12।। Yuddha Kanda,125,13,अब्रवीत्सविमानस्थःपूजयन्सर्वावानरान् । सुग्रीवं च महावीर्यंकाकुत्स्थसविभीषणम् ।।6.125.13।। Yuddha Kanda,125,14,मित्रकार्यंकृतमिदंभवद्भिद्वानरर्षभाः । अनुज्ञातामयासर्वेयथेष्टंप्रतिगच्छत ।।6.125.14।। Yuddha Kanda,125,15,यत्तुकार्यंवयस्येनस्निग्धेन च हितेन च । कृतंसुग्रीवतत्सर्वंभवताधर्मभीरुणा ।।6.125.15।। किष्किन्धांप्रतियाह्यावुस्वसैन्येनाभिसम्वृतः । Yuddha Kanda,125,16,स्वराज्येवसलङ्कायांमयादत्तेविभीषण ।।6.125.16।। न त्वांधर्षयितुंशक्तास्सेन्द्राअपिदिवौकसः । Yuddha Kanda,125,17,योध्यांप्रतियास्यामिराजधानींपितुर्मम ।।6.125.17।। अभ्यनुज्ञातुमिच्छामिसर्वानामन्त्रयामिवः । Yuddha Kanda,125,18,वमुक्तास्तुरामेणहरीन्द्राहरयस्तथा ।।6.125.18।। ऊचुःप्राञ्जलयस्सर्वेराक्षसश्चविभीषणः । Yuddha Kanda,125,19,अयोध्यांगन्तुमिच्छामःसर्वन्नयतुनोभवान् ।।6.125.19।। मुद्युक्ताविचरिष्यामोवनान्युपननानि च । Yuddha Kanda,125,20,दृष्टवात्वामभिषेकार्ध्रंकौसल्यामभिवाद्य च ।।6.125.20।। अचिरादगमिष्यामःस्वगृहान्नृपसत्तम । Yuddha Kanda,125,21,एवमुक्तस्सधर्मात्मावानरैस्सविभीषणैः ।।6.125.21।। अब्रवीद्वानरान्रामस्ससुग्रीवविभीषणान् । Yuddha Kanda,125,22,प्रिययतरंलब्दंयदहंससुहृज्जनः ।।6.125.22।। सर्वैर्भवद्भिःसहितःप्रीतिंलप्स्येपुरींगतः । Yuddha Kanda,125,23,क्षिप्रम् सुग्रीवविमानंवानरैस्सह ।।6.125.23।। त्वमप्यारोहसामात्योराक्षसेन्द्रविभीषण । Yuddha Kanda,125,24,ततः स पुष्पकंदिव्यंसुग्रीवस्सहवानरैः ।।6.125.24।। आरुरोहमुदायुक्तःसामात्यश्चविभीषणः । Yuddha Kanda,125,25,तेष्वारूढेषुसर्वेषुकौबेरंपरमासनम् ।।6.125.25।। राघवणाभ्यनुज्ञातमुत्पपातविहायसम् । Yuddha Kanda,125,26,गतेनविमानेनहंसयुक्तेनभास्वता ।।6.125.26।। प्रहृष्टश्चप्रतीतश्चबभौरामःकुबेरवत् । Yuddha Kanda,126,1,अनुज्ञातंतुरामेणतद्विमानमनुत्तमम् । हंसयुक्तंमहानादमुत्पपातविहायसम् ।।6.126.1।। Yuddha Kanda,126,2,पातयित्वाततश्चक्षुस्सर्वतोरघुनन्दनः । अब्रवीन्मैथिलींसीतांरामश्शशिनिभाननाम् ।।6.126.2।। Yuddha Kanda,126,3,कैलासशिखराकारेत्रिकूटशिखरेस्थिताम् । लङ्कामीक्षस्ववैदेहीनिर्मितांविश्वकर्मणा ।।6.126.3।। Yuddha Kanda,126,4,एतदायोधनंपश्यमांसशोणितकर्दमम् । हरीणांराक्षसानां च सीते विशसनंमहत् ।।6.126.4।। Yuddha Kanda,126,5,अत्रदत्तवरश्शेतेप्रमाथीराक्षसेश्वरः । तवहेतोर्विशालाक्षीनिहतोरावणोमया ।।6.126.5।। Yuddha Kanda,126,6,कुम्भकर्णोऽऽत्रनिहतःप्रहस्तश्चनिशाचरः । धूम्राक्षश्चात्रनिहतोवानरेणहनूमता ।।6.126.6।। Yuddha Kanda,126,7,विद्युन्मालीहतश्चात्रसुषेणेनमहात्मना । लक्ष्मणेनेन्द्राजिच्चात्ररावणिर्निहितोरणे ।।6.126.7।। Yuddha Kanda,126,8,अङ्गदेनात्रनिहतोविकटोनामराक्षसः । विरूपाक्षश्चदुर्धर्षोमहापार्श्वमहोदरौ ।।6.126.8।। Yuddha Kanda,126,9,अकम्पनश्चनिहतोबलिनोऽऽन्ये च राक्षसाः । त्रिशिराश्चातिकायश्चदेवान्तकनरान्तकौ ।।6.126.9।। Yuddha Kanda,126,10,युद्धोन्मत्तश्चमत्तश्चराक्षसप्रवरावुभौ । निकुम्भश्चैवकुम्भश्चकुम्भकर्णात्मजौबली ।।6.126.10।। Yuddha Kanda,126,11,वज्रदंष्ट्रश्चदंष्ट्रश्चबहवोराक्षसाहताः । मकराक्षश्चदुर्धर्षोमयायुधिनिपातितः ।।6.126.11।। Yuddha Kanda,126,12,अकम्पनश्चनिहतःशोणिताक्षश्चवीर्यवान् । यूपाक्षश्चप्रजङ्घश्चनिहतौतुमहाहवे ।।6.126.12।। Yuddha Kanda,126,13,विद्युज्जिह्वोऽऽत्रनिहतोराक्षसोभीमदर्शनः । यज्ञशत्रुश्चनिहतःसुप्तघ्नश्चमहाबलः ।।6.126.13।। सूर्यशत्रुश्चनिहतोब्रह्मशत्रुस्तथापरः । Yuddha Kanda,126,14,अत्रमन्दोदरीनामभार्यातंपर्यदेवयत् ।।6.126.14।। सपत्नीनांसहस्रेणसाग्रेणपरिवारिता । Yuddha Kanda,126,15,तत्तुदृश्यतेतीर्थंसमुद्रस्यवरानने ।।6.126.15।। यत्रसागरमुत्तीर्यतांरात्रिमुषितावयम् । Yuddha Kanda,126,16,एषसेतुर्मयाबद्धस्सागरेसलिलार्णवे ।।6.126.16।। तवहेतोर्विशालाक्षिनलसेतुःसुदुष्करः । Yuddha Kanda,126,17,पश्यसागरमक्षोभ्यंवैदेहिवरुणालयम् ।।6.126.17।। अपारमभिगर्जन्तंशङ्खशुक्तिसमाकुलम् । Yuddha Kanda,126,18,हिरण्यनाभंशैलेन्द्रंकाञ्चनंपश्यमैथिलि ।।6.126.18।। विश्रमार्थंहनुमतोभित्त्वासागरमुत्थितम् । Yuddha Kanda,126,19,एततत्कुक्षौसमुद्रस्यस्कन्धावारनिवेशनम् ।।6.126.19।। अत्रपूर्वंमहादेवःप्रसादमकरोत्प्रभुः । Yuddha Kanda,126,20,एतत्तुदृश्यतेतीर्थंसागरस्यमहात्मनः ।।6.126.20।। Yuddha Kanda,126,21,सेतुबन्दइतिख्यातंत्रैलोक्येन च पूजितम् । एतत्पवित्रंपरमंमहापातकनाशनम् ।।6.126.21।। अत्रराक्षसराजोऽऽयमाजगामविभीषणः । Yuddha Kanda,126,22,एषासादृश्यतेसीतेकिष्किन्धाचित्रकानना ।।6.126.22।। सुग्रीवस्यपुरीरम्यायत्रवालीमयाहतः । Yuddha Kanda,126,23,अथदृष्टवापुरींसीताकिष्किन्धांवालिपालिताम् ।।6.126.23।। अब्रवीत्पश्रितंवाक्यंरामंप्रणतसाध्वसा । Yuddha Kanda,126,24,सुग्रीवप्रियभार्याभिस्ताराप्रमुखतोनृप ।।6.126.24।। Yuddha Kanda,126,25,अन्येषांवानरेन्द्राणांस्त्रीभिःपरिवृताह्यहम् । गन्तुमिच्छेसहायोध्यांराजधानींत्वयासह ।।6.126.25।। Yuddha Kanda,126,26,एवमुक्तोऽऽथवैदेह्याराघवःप्रत्युवाचताम् । एवमस्त्वितिकिष्किन्धांप्राप्यसंस्थाप्यराघवः ।।6.126.26।। विमानंप्रेक्ष्यसुग्रीवंवाक्यमेतदुवाच ह । Yuddha Kanda,126,27,ब्रूहिवानरशूर्दूल सर्वान्वानरपुङ्गवान् ।।6.126.27।। स्त्रीभिःपरिवृताःसर्वेह्ययोध्यांयान्तुसीतया । Yuddha Kanda,126,28,तथात्वमपिसर्वाभिस्स्त्ीभिस्सहमहाबल ।।6.126.28।। अभित्वरस्वसुग्रीव गच्छामःप्लवगाधिप । Yuddha Kanda,126,29,एवमुक्तस्तुसुग्रीवोरामेणामिततेजसा ।।6.126.29।। Yuddha Kanda,126,30,वानराधिपतिश्रीमांस्स्सैश्चसर्वैस्समावृतः । प्रविश्यान्तःपुरंशीघ्रंतारामुवदीक्ष्यसोऽऽब्रवीत् ।।6.126.30।। Yuddha Kanda,126,31,प्रिये त्वंसहनाराभिर्वानराणांमहात्मनाम् । राघवेणाभ्यनुज्ञातामैथिलीप्रियकाम्यया ।।6.126.31।। Yuddha Kanda,126,32,त्वरत्वमभिगच्छामोगृह्यवानरयोषितः । अयोध्यांदर्शयिष्यामःसर्वादशरथस्त्रियः ।।6.126.32।। Yuddha Kanda,126,33,सुग्रीवस्य व चःश्रुत्वातारासर्वाङ्गशोभना । आहूयचाब्रवीत्सर्वावानराणांतुयोषितः ।।6.126.33।। Yuddha Kanda,126,34,सुग्रीवेणाभ्यनुज्ञातागन्तुंसर्वैश्चवानरैः । ममचापिप्रियंकार्यमयोध्यादर्वनेन च ।।6.126.34।। Yuddha Kanda,126,35,प्रवेशंचैवरामस्यपौरजानपदैस्सह । विभूतिंचैवसर्वासांस्त्रीणांदशरथस्य च ।।6.126.35।। Yuddha Kanda,126,36,तारयाचाभ्यनुज्ञातास्सर्वावानरयोषितः । नेपथ्यविधिपूर्वंतुकृत्वाचापिप्रदक्षिणम् ।।6.126.36।। अध्यारोहन्विमानंतत्सीतादर्शनकाङ्क्षया । Yuddha Kanda,126,37,ताभिःसहोत्थितंशीघ्रंविमानंप्रेक्ष्यराघवः ।।6.126.37।। ऋष्यमूकसमीपेतुवैदेहींपुनरब्रवीत् । Yuddha Kanda,126,38,दृश्यतेऽऽसौमहान्सीते सविद्युदिवतोयदः ।।6.126.38।। ऋष्यमूकोगिरिवरःकाञ्चनैर्धातुभिर्वृतः । Yuddha Kanda,126,39,त्राहंवानरेन्द्रेणसुग्रीवेणसमागतः ।।6.126.39।। समयश्चकृतःसीतेवधार्थंवालिनोमया । Yuddha Kanda,126,40,एषासादृश्यतेपम्पानलिनीचित्रकानना ।।6.126.40 ।। त्वयाविहीनोयत्राहंविललापसुदुःखितः । Yuddha Kanda,126,41,अस्यास्तीरेमयादृष्टाशबरीधर्मचारिणी ।।6.126.41।। अत्रयोजनबाहुश्चकबन्धोनिहतोमया । Yuddha Kanda,126,42,दृश्यतेऽऽसौजनस्थानेश्रीमान्सीते वनस्पतिः ।।6.126.42।। Yuddha Kanda,126,43,जटायुश्चमहातेजास्तवहेतोर्विलासिनि । रावणेनहतोयत्रपक्षिणांप्रवरोबली ।।6.126.43।। Yuddha Kanda,126,44,खरश्चनिहतोयत्रदूषणश्चनिपातितः । त्रिशिराश्चमहावीर्योमयाबाणैरजिह्मगैः ।।6.126.44।। Yuddha Kanda,126,45,एतत्तदाश्रममदमस्माकंवरवर्णिनि । पर्णशालातथाचित्रादृश्यतेशुभदर्शने ।।6.126.45।। यत्रत्वंराक्षसेन्द्रेणरावणेनहृताबलात् । Yuddha Kanda,126,46,एषागोदावरीरम्याप्रसन्नसलिलाशुभा ।।6.126.46।। अगस्त्यस्याश्रमश्चैव दृश्यते कदलीवृतः । Yuddha Kanda,126,47,दीप्तशैवाश्रमोह्येषसुतीक्षणस्यमहात्मनः ।।6.126.47।। Yuddha Kanda,126,48,वैदेहिदृश्यतेचैवशरभङ्गाश्रमोमहान् । उपयातःसहस्राक्षोयत्रशक्रःपुरन्दरः ।।6.126.48।। Yuddha Kanda,126,49,एतेहितापसावासादृश्यन्तेतनुमध्यमे । अत्रिःकुलपतिर्यत्रसूर्यवैश्वानरोपमः ।।6.126.49।। Yuddha Kanda,126,50,अस्मिन् देशेमहाकायोविराधोनिहतोमया । अत्रसीते त्वयादृष्टवातापसीधर्मचारिणी ।।6.126.50।। Yuddha Kanda,126,51,असौसुतनुशैलेन्द्रत्रकूटःप्रकाशते । अत्रमांकैकयीपुत्रप्रसादयितुमागतः ।।6.126.51।। Yuddha Kanda,126,52,एषासायमुनारम्यादृश्यतेचित्रकानना । भरद्वाजाश्रमःश्रीमान्दृश्यतेचैषमैथिलि ।।6.126.52।। Yuddha Kanda,126,53,इयं च दृश्यतेगङ्गापुण्यात्रिपथगानदी । नानाद्विजगणाकीर्णासम्प्रपुष्पितकानना ।।6.126.53।। Yuddha Kanda,126,54,शृङ्गिबेरपुरंचैतद्गुहोयत्रसखामम । एषासादृश्यतेसीतेसरयूर्यूपमालिनी ।।6.126.54।। नानातरुशताकीर्णासम्प्रपुष्पितकानना । Yuddha Kanda,126,55,एषासादृश्यतेसीतेराजधानीपितुर्मम ।।6.126.55।। अयोध्यांकुरुवैदेहिप्रणामंपुनरागता । Yuddha Kanda,126,56,ततस्तेवानरास्सर्वेराक्षसास्सविभीषणाः ।।6.126.56।। उत्पत्योत्पत्यसम्हृष्टास्तांपुरींददृशुस्तदा । Yuddha Kanda,127,1,पूर्णेचतुर्दशेवर्षेपञ्चम्यांलक्ष्मणाग्रजः । भरद्वाजाश्रमंप्राप्यववन्देनियतोमुनिम् ।।6.127.1।। Yuddha Kanda,127,2,सोऽपृच्छदभिवाद्यैनंभरद्वाजंतपोधनम् । शृणोषिकच्चिद्भगवन्सुभिक्षानायमंपुरे ।।6.127.2।। कच्चित्सयुक्तोभरतोजीवन्त्यपि च मातरः । Yuddha Kanda,127,3,एवमुक्तस्तुरामेणभरद्वाजोमहामुनिः ।।6.127.3।। प्रत्युवाचरघुश्रेष्ठंस्मितपूर्वंप्रहृष्टवत् । Yuddha Kanda,127,4,पङ्कदिग्धस्तुभरतोजटिलस्त्वांप्रतीक्षते ।।6.127.4।। पादुकतेपुरस्कृत्यसर्वं च कुशलंगृहे । Yuddha Kanda,127,5,त्वांपुराचीरवसनंप्रविशन्तंमहावनम् ।।6.127.5।। Yuddha Kanda,127,6,स्त्रीतृतीयंच्युतंराज्याद्धर्मकामं च केवलम् । पदातिंत्यक्तसर्वस्वंपितुर्वचनकारिणम् ।।6.127.6।। Yuddha Kanda,127,7,सर्वभोगैःपरित्यक्तंस्वर्गच्युतमिवामरम् । दृष्टातुकरुणापूर्वंममासीत्समितिञ्जयः ।।6.127.7।। कैकेयीवचनेयुक्तंवन्यमूलफलाशिनम् । Yuddha Kanda,127,8,साम्प्रतंतुसमृद्धार्थंसमित्रगणबान्धवम् ।।6.127.8।। समीक्ष्यविजितारिं च समाभूप्रतीतिरुत्तमा । Yuddha Kanda,127,9,सर्वं च सुखदुःखंतेविदितंममराघव । यत्त्वयाविपुलंप्राप्तंजनस्थान्नवधादिकम् ।।6.127.9।। Yuddha Kanda,127,10,ब्राह्मणार्थेनियुक्तस्यरक्षतःसर्वतापसान् । रावणेनहृताभार्याबभूवेयमनिता ।।6.127.10।। Yuddha Kanda,127,11,मारीचदर्शनंचैवसीतोन्मधनमेव च । कबन्धदर्शनंचैवसम्पाभिगमनंतथा ।।6.127.11।। Yuddha Kanda,127,12,सुग्रीवेण च तेसख्यंयथावालीहतस्त्वया । मार्गणंचैववैदेह्याःकर्मवातात्मजस्य च ।।6.127.12।। Yuddha Kanda,127,13,विदितायां च सीतायांनलसेतुर्यथाकृतः । यथाचादीपितालङ्काप्रहृष्टैर्हरियूथपैः ।।6.127.13।। Yuddha Kanda,127,14,सपुत्रबान्दवामात्यःसबलःसहावाहनः । यथा च निहतःसंख्येरावणोबलदर्पितः ।।6.127.14।। Yuddha Kanda,127,15,यथा च निहतेतस्मिन् रावणेदेवकण्टके । समागमश्चत्रिदशैर्यथादत्तश्चतेवरः ।।6.127.15।। Yuddha Kanda,127,16,सर्वंममैतद्विदितंतपसाधर्मवत्सल । सम्पतन्ति च मेशिष्याःप्रवृत्ताख्याःपुरीमितः ।।6.127.16।। Yuddha Kanda,127,17,अहमप्यद्यतेदद्मिवरंशस्त्रभृतांवर । अर्घ्यंप्रतिगृहाणेदमयोध्यांश्वोगमिष्यसि ।।6.127.17।। Yuddha Kanda,127,18,तस्यतच्छिरसावाक्यंप्रतिगृह्यनृपात्मजः । बाढमित्येवसम्हृष्टःश्रीमान्वरमयाचत ।।6.127.18।। Yuddha Kanda,127,19,अकालफलिनोवृक्षास्सर्वेचापिमधुस्रवाः । फलान्यमृतगन्धीनिबहूनिविविधानि च ।।6.127.19।। भवन्तुमार्गेभगवन्नयोध्यांप्रतिगच्छतः । Yuddha Kanda,127,20,तथेति च प्रतिज्ञातेवचनात्समनन्तरम् ।।6.127.20।। अभवन्पादपास्तत्रस्वर्गपादपसन्निभाः । Yuddha Kanda,127,21,पुष्फलाःफलिनश्चासवनिपुष्पाःपुष्पशालिनः ।।6.127.21।। Yuddha Kanda,127,22,शुष्कास्समग्रपत्रास्तेनगाश्चैवमधुस्रवाः । सर्वतोयोजनास्त्रिस्रोगच्छतामभवंस्तदा ।।6.127.22।। Yuddha Kanda,128,1,अयोध्यांतुसमालोक्यचिन्तयामासराघवः । प्रियकामःप्रियंरामस्ततस्त्वरितविक्रमः ।।6.128.1।। Yuddha Kanda,128,2,चिन्तयित्वाततोदृष्टिंवानरेषुन्यपातयत् । उवाचधीमांस्तेजस्वीहनूमन्तंप्लवङ्गमम् ।।6.128.2।। Yuddha Kanda,128,3,अयोध्यांत्वरितोगत्वाशीघ्रंप्लवगसत्तम । जानीहिकछचित्कुशलीजनोनृपतिमन्दिरे ।।6.128.3।। Yuddha Kanda,128,4,शृङ्गबेरिपुरंप्राप्यगुहंगहनगोचरम् । निषादाधिपतिंब्रूहिकुशलंवचनान्मम ।।6.128.4।। Yuddha Kanda,128,5,श्रुत्वातुमांकुशलिनमरोगंविगतज्वरम् । भविष्यतिगुहःप्रीतस्सममात्मसमस्सखा ।।6.128.5।। Yuddha Kanda,128,6,अयोध्यायाश्चतेमार्गंप्रवृत्तिंभरतस्य च । निवेदयिष्यतिप्रीतोनिषादाधिपतिर्गुहः ।।6.128.6।। Yuddha Kanda,128,7,भरतस्तुत्वयावाच्यःकुशलंवचनान्मम । सिद्धार्थंशंसमांतस्मैसभार्यंसहलक्ष्मणम् ।।6.128.7।। Yuddha Kanda,128,8,हरणंचापिवैदेह्यारावणेनबलीयसा । सुग्रीवेण च सम्वादंवालिनश्चवधंरणे ।।6.128.8।। Yuddha Kanda,128,9,मैथिल्यन्वेषणंचैवयथाचाधिगतात्वया । लङ्घयित्वामहातोयमापगापतिमव्ययम् ।।6.128.9।। Yuddha Kanda,128,10,उपयानंसमुद्रस्यसागरस्य च दर्शनम् । यथा च कारितस्सेतूरावणश्चयथाहतः ।।6.128.10।। Yuddha Kanda,128,11,वरदानंमहेन्द्रेणब्रह्मणावरुणेन च । महादेवप्रसादाच्छपित्राममसमागमम् ।।6.128.11।। Yuddha Kanda,128,12,उपयातं च मांसौम्य भरतायनिवेदय । सहराक्षसराजेनहरीणामीश्वरेण च ।।6.128.12।। Yuddha Kanda,128,13,जित्वाशत्रुगणान्रामःप्राप्यचानुत्तमंयशः । उपायानंसमृद्धार्थस्सहमित्रैर्महाबलैः ।।6.128.13।। Yuddha Kanda,128,14,एतच्छ्रुत्वायमाकारंभजतेभरतस्ततः । स च तेवेदितव्यःस्यात्सर्वंयच्छापिमांप्रति ।।6.128.14।। Yuddha Kanda,128,15,ज्ञेयाःसर्वे च वृत्तान्ताःभरतस्येङ्गितानि च । तत्त्वेनमुखवर्णेनदृष्ट्याव्याभाषितेन च ।।6.128.15।। Yuddha Kanda,128,16,सर्वकालसमृद्धंहिहस्त्यश्वरथसङ्कुलम् । पितृपैतामहंराज्यंकस्यनावर्तयेन्मनः ।।6.128.16।। Yuddha Kanda,128,17,सङ्गत्याभरत्श्रीमान् राज्येनार्थीस्वयंभवेत् । प्रशास्तुवसुधांसर्वामखिलांरघुनन्दनः ।।6.128.17।। Yuddha Kanda,128,18,तस्यबुद्धिं च विज्ञायव्यवसायं च वानर । यावन्नदूरंयाताःस्मक्षिप्रमागन्तुमर्हसि ।।6.128.18।। Yuddha Kanda,128,19,इतिप्रतिसमादिष्टोहनूमान्मारुतात्मजः । मानुषःधारयनृपमयोध्यांत्वरितोययौ ।।6.128.19।। Yuddha Kanda,128,20,अतोत्पपातवेगेनहनूमान्मारुतात्मजः । गरुत्मानिववेगेनजिघृक्षन्पन्नगोत्तमम् ।।6.128.20।। Yuddha Kanda,128,21,लङ्घयित्वापितृपथंविहगेन्द्रालयंशुभम् । गङ्गायमुनयोर्भीमंसमतीत्यसमागमम् ।।6.128.21।। Yuddha Kanda,128,22,शृङ्गबेरपुरंप्राप्यगुहमासाद्यवीर्यवान् । स वाचाशुभयाहृष्टोहनुमानिदमब्रवीत् ।।6.128.22।। Yuddha Kanda,128,23,सखातुतवकाकुत्स्थोरामस्सत्यपराक्रमः । ससीतस्सहसौमित्रिस्सत्वांकुशलमब्रवीत् ।।6.128.23।। Yuddha Kanda,128,24,पञ्चमीमद्यरजनीमुषित्वावचनान्मुनेः । भरद्वाजाभ्यनुज्ञातंद्रक्ष्यस्यद्यैवराघवम् ।।6.128.24।। Yuddha Kanda,128,25,एवमुक्त्वामहातेजास्सम्प्रहृष्टतनूरुहः । उत्पपातमहावेगाद्वेगवान्विचारयन् ।।6.128.25।। Yuddha Kanda,128,26,सोऽपश्यद्रामतीर्थं च नदींवालुकिनींतथा । वरूथींगोमतींचैवभीमंशालवनंतथा ।।6.128.26।। प्रजाश्चबहुसाहस्रीःस्फीतान्जनपदानपि । Yuddha Kanda,128,27,सःगत्वादूरमध्वानंत्वरितःकपिकुञ्जरः ।।6.128.27।। Yuddha Kanda,128,28,आससादद्रुमान् फुल्लान्नन्दिग्रामसमीपगान् । स्त्रीभिस्सपुत्रैर्वृद्धैश्चरममाणैःस्वलङ्कृतैः । सुराधिपस्योपवनेयथाचैत्ररथेद्रुमान् ।।6.128.28।। Yuddha Kanda,128,29,क्रोशमात्रेत्वयोध्यायाचशीरकृष्णाजिनम्बरम् ।।6.128.29।। Yuddha Kanda,128,31,ददर्शभरतंदीनंकृशमाश्रमवासिनम् । जटिलंमलदिग्धाङ्गंभ्रातृव्यसनकर्शितम् ।।6.128.30 । फलमूलाशिनंदान्तंतापसंधर्मचारिणम् । समुन्नतजटाभारंवल्कलाजिनवाससम् ।।6.128.31।। Yuddha Kanda,128,33,नियतंभावितात्मानंब्रह्मर्षिसमतेजसम् । पादुकेतेपुरस्कृत्यप्रशासन्तंवसुन्धराम् ।।6.128.32 । चातुर्वर्णस्यलोकस्यत्रातारंमहतोभयात् । उपस्थितममात्यैश्चशुचिभिश्चपुरोहितैः ।।6.128.33।। बलमुख्यैश्चयुक्तैश्चकाषायाम्बरदारिभिः । Yuddha Kanda,128,34,नहितेराजपुत्रंतंचीरकृष्णाजिनाम्बरम् ।।6.128.34।। परिभोक्तुंव्यवस्यन्तिपौरावैधर्मवत्सलाः । Yuddha Kanda,128,35,तम्धर्ममिवधर्मज्ञंदेहवन्तमिवापरम् ।।6.128.35।। उवाचप्राञ्जलिर्वाक्यंहनूमान्मारुतात्मजः । Yuddha Kanda,128,36,वसन्तंदण्डकारण्येयंत्वंचीरजटाधरम् ।।6.128.36।। अनुशोचसिकाकुत्स्थं स त्वांकौशलमब्रवीत् । Yuddha Kanda,128,37,प्रियमाख्यामितेदेवशोकंत्यजसुदारुणम् ।।6.128.37।। अस्मिन्मुहूर्तेभ्रात्रात्वंरामेणसहसङ्गतः । Yuddha Kanda,128,38,निहत्यरावणंरामःप्रतिलभ्य च मैथिलीम् ।।6.128.38।। उपयातिसमृद्धार्थःसहमित्रैर्महाबलैः । Yuddha Kanda,128,39,लक्ष्मणश्चमहातेजावैदेही च यशस्विनी ।।6.128.39।। सीतासमग्रारामेणमहेन्द्रेणशचीयथा । Yuddha Kanda,128,40,एवमुक्तोहनुमताभरतःकैकयीसुतः ।।6.128.40।। पपातसहसाहृष्टोहर्षान्मोहमुपागमत् । Yuddha Kanda,128,41,ततोमुहूर्तादुत्थायप्रत्याश्वस्य च राघवः ।।6.128.41।। हनूमन्तमुवाचेदंभरतःप्रियवादिनम् । Yuddha Kanda,128,42,अशोकजैःप्रीतिमयैःकपिमालिङ्ग्यसम्भ्रमात् ।।6.128.42।। सिषेचभरतःश्रीमान्विपुलैरश्रुबिन्धुभिः । Yuddha Kanda,128,43,देवोवामानुषोवात्वमनुक्रोशादिहागतः ।।6.128.43।। Yuddha Kanda,128,44,प्रियाख्यानस्यतेसौम्यददामिब्रुवतःप्रियम् । गवांशतसहस्रं च ग्रामाणां च शतंपरम् ।।6.128.44।। Yuddha Kanda,128,45,सकुण्डलाश्शुभाचाराभार्याःकन्यास्तुषोडश । हेमवर्णास्सुनासोरूश्शशिसौम्याननाःस्त्रियः ।।6.128.45।। सर्वाभरणसम्पन्नास्सम्पन्नाःकुलजातिभिः । Yuddha Kanda,129,1,बहूनिनामवर्षाणिगतस्यसुमहद्वनम् । शृणोम्यहंप्रीतिकरंममनाथस्यकीर्तनम् ।।6.129.1।। Yuddha Kanda,129,2,कल्याणीबतगाथेयंलौकिकीप्रतिभातिमे । एतिजीवन्तमानन्दोनरंवर्षशतादपि ।।6.129.2।। Yuddha Kanda,129,3,राघवस्यहरीणां च कथमासीत्समागमः । कस्मिन् देशेकिमाश्रित्यतत्त्वमाख्याहिपृच्छतः ।।6.129.3।। Yuddha Kanda,129,4,स पृष्टोराजपुत्रेणबृश्यांसमुपवेशितः । आचचक्षेततस्सर्वंरामस्यचरितंवने ।।6.129.4।। Yuddha Kanda,129,5,यथाप्रव्राजितोरामोमातुर्दत्तौवरौतव । यथापुत्रशोकेनराजादशरथोमृतः ।।6.129.5।। Yuddha Kanda,129,6,यथादूतैस्त्वमानीतस्तूर्णंराजगृहात्प्रभो । त्वयायोध्यांप्रविष्टेनयथाराज्यं न चेप्सितम् ।।6.129.6।। Yuddha Kanda,129,7,चित्रकूटगिरिंगत्वाराज्येनामित्रकर्शनः । निमन्त्रितस्त्वयाभ्राताधर्ममाचरतासताम् ।।6.129.7।। Yuddha Kanda,129,9,स्थितेनराज्ञोवचनेयथाराज्यंविसर्जितम् । आर्यस्यमादुकेगृह्ययथासिपुनरागतः।।य6.129.8।। सर्वमेतन्महाबाहोयथावद्विदितंतव । त्वयिप्रतिप्रयातेतुयद्वृत्तंतन्निबोधमे ।।6.129.9।। Yuddha Kanda,129,10,अपयातेत्वयितदासमुद्भ्रान्तमृगद्विजम् । परिध्युIनमिवात्यर्थंतद्वनंसमपद्यत ।।6.129.10।। Yuddha Kanda,129,11,तदथस्तिमृदितंघोरंसिंहव्याघ्रमृगाकुलम् । प्रविवेशाथविजनं स महद्दण्डकावनम् ।।6.129.11।। Yuddha Kanda,129,12,तेषांपुरस्ताद्भलवान् गच्छतांगहनेवने । विनदन् सुमहानादंविराधःप्रत्यदृश्यत ।।6.129.12।। Yuddha Kanda,129,13,तमुत्क्षिप्यमहानादमूर्ध्वबाहुमधोमुखम् । निखातेप्रक्षिपन्तिस्मवदन्तमिवकुञ्जरम् ।।6.129.13।। Yuddha Kanda,129,14,तत्कृत्वादुष्करंकर्मभ्रातरौरामलक्ष्मणौ । सायाह्नेशरभङ्गस्यरम्यमाश्रममीयतुः ।।6.129.14।। Yuddha Kanda,129,15,शरभङ्गेदिवंप्राप्तेरामस्सत्यपराक्रमः । अभिवाद्यमुनीन्सर्वान्जनस्थानमुपागमत् ।।6.129.15।। Yuddha Kanda,129,16,ततःपश्चाच्छूर्पणखानामरामपार्शमुपागता । ततोरामेणसन्दिष्टोलक्ष्मणस्सहसोत्थितः ।।6.129.16।। प्रगृह्यखङ्गंचिच्छेदकर्णनासेमहाबलः । Yuddha Kanda,129,17,चतुर्दशसहस्राणिजनस्तान्निवासिनाम् ।।6.129.17।। हतानिवसतातत्रराघवेणमहात्मना । Yuddha Kanda,129,18,एकेनसहसङ्गम्यरामेणरणमूर्धनि ।।6.129.18।। अह्नश्चतुर्थभागेननिःशेषाराक्षसाःकृताः । Yuddha Kanda,129,19,मबलामहावीर्यास्तपसोविघ्नकारिणः ।।6.129.19।। निहताराघवेणाजौदण्डकारण्यवासिनः । Yuddha Kanda,129,20,राक्षसाश्चविनिष्पिष्टाःखरश्चनिहतोरणे ।।6.129.20।। दूषणंचाग्रतोहत्वात्रिशिरास्तदनन्तम् । Yuddha Kanda,129,21,तस्तेनार्दिताबालारावणंसमुपागता ।।6.129.21।। Yuddha Kanda,129,22,रावणानुचरोघोरोमारीचोनामराक्षसः । लोभयामासवैदेहींभूत्वारत्नमयोमृगः ।।6.129.22।। Yuddha Kanda,129,23,साराममब्रवीदृष्टवावैदेसीगृह्यतामिति । अयंमनोहरःकान्तआश्रमोनोभविष्यति ।।6.129.23।। Yuddha Kanda,129,24,ततोरामोधनुष्पाणिर्मृगंतमनुधावति । स तंजघानधावन्तंशरेणानतपर्वणा ।।6.129.24।। Yuddha Kanda,129,25,अथसौम्य दशग्रीवोमृगंयातेतुराघवे । लक्ष्मणेचापिनिष्क्रान्तेप्रविवेशाश्रमंतदा ।।6.129.25।। Yuddha Kanda,129,26,जग्राहतरसासीतांग्रहःखेरोहिणीमिव । त्रातुकामंततोयुद्धेहत्वागृध्रंजटायुषम् ।।6.129.26।। प्रगृह्यसहसासीतांजगामाशु स राक्षसः । Yuddha Kanda,129,27,तस्त्वद्भुतसङ्काशास्स्थिताःपर्वतमूर्धनि ।।6.129.27।। Yuddha Kanda,129,28,सीतांगृहीत्वागच्छन्तंवानराःपर्वतोपमाः । ददृशुर्मिस्मिताकारारावणंराक्षसाधिपम् ।।6.129.28।। Yuddha Kanda,129,29,ततशीघ्रतरंगत्वातद्विमानंमनोजवम् । आरुह्यसहवैदेह्यापुष्पकं स महाबलः ।।6.129.29।। प्रविवेशतदालङ्कांरावणोराक्षसेश्वरः । Yuddha Kanda,129,30,तांसुवर्णपरिष्कारेशुभेमहतिवेश्मनि ।।6.129.30।। प्रवेश्यमैथिलींवाक्यैस्सान्त्वयामासरावणः । Yuddha Kanda,129,31,तृणवद्भाषितंतस्यतं च नैरृतपुङ्गवम् ।।6.129.31।। अचिन्तयन्तीवैदेहीह्यशोकवनिकांगता । Yuddha Kanda,129,32,न्यवर्तततदारामोमृगंहत्वातदावने ।।6.129.32।। Yuddha Kanda,129,33,निवर्तमानःकाकुत्स्थोदृष्टवागृध्रं स विव्यथे । गृध्रंहतंतदादृष्टवारामःप्रियतरंपितुः ।।6.129.33।। Yuddha Kanda,129,34,मार्गमाणस्तुवैदेहींराघवंसहलक्ष्मणः । गोदावरीमन्वचरद्वनोद्धेशांश्चपुष्पितान् ।।6.129.34।। Yuddha Kanda,129,35,आसेदतुर्महारण्येकबन्धंनामराक्षसम् । ततःकबन्दवचनाद्रामस्सत्यपराक्रमः ।।6.129.35।। ऋष्यमूकगिरिंगत्वासुग्रीवेणसमागतः । Yuddha Kanda,129,36,तयोस्समागमःपूर्वंप्रीत्यहार्दोव्यजायत ।।6.129.36।। Yuddha Kanda,129,37,भ्रात्रानिरस्तःक्रुद्धेनसुग्रीवोवालिनापुरा । इतरेतरसंवादात्प्रगाढःप्रणयस्तयोः ।।6.129.37।। Yuddha Kanda,129,38,रामस्स्वबाहुवीर्येणस्वराज्यंप्रत्यपादयत् । वालिनंसमरेहत्वामहाकायंमहाबलम् ।।6.129.38।। Yuddha Kanda,129,39,सुग्रीवस्स्थापितोराज्येसहितस्सर्ववानरैः । रामायप्रतिजानीतेराजपुत्य्रास्तुमार्गणम् ।।6.129.39।। Yuddha Kanda,129,40,अदिष्टावानरेन्द्रेणसुग्रीवेणमहात्मना । दशकोट्यःप्लवङ्गानांसर्वाःप्रस्थापिताःदिशः ।।6.129.40।। Yuddha Kanda,129,41,तेषांनोविप्रनष्टानांविन्ध्येपर्वतसत्तमो । भृशंशोकानितप्तानांमहान्कालो त्यवर्तत ।।6.129.41।। Yuddha Kanda,129,42,भ्रातातुगृध्रराजस्यसम्पातिर्नामवीर्यवान् । समाख्यातिस्मवसतींसीतांरावणमन्दिरे ।।6.129.42।। Yuddha Kanda,129,43,सोहंदुःखपरीतानांदुःखंतद् ज्ञातीनांनुदन् । आत्मवीर्यंसमास्थाययोजनानांशतंप्लुतः ।।6.129.43।। Yuddha Kanda,129,44,तत्राहमेकामद्राक्षमशोकवनिकांगताम् । कौशेयवस्त्रांमलिनांनिरनन्दांदृढव्रताम् ।।6.129.44।। Yuddha Kanda,129,45,तयासमेत्यविधिवत् पृष्टवासर्वमनिन्दिताम् । अभिज्ञानंमयादत्तंरामनामाङ्गुलीयकम् ।।6.129.45।। Yuddha Kanda,129,46,अभिज्ञानंमणिंलब्द्वाचरितार्धो हमागतः । मया च पुनरागम्यरामस्याक्लिष्टकर्मणः ।।6.129.46।। अभिज्ञानंमयादत्तमर्चिष्मान् स महामणिः । Yuddha Kanda,129,47,श्रुत्वातांमैथिलींरामस्त्वाशशंसे च जीवितम् ।।6.129.47।। जीवितान्तमनुप्राप्तःपीत्वामृतमिवातुरः । Yuddha Kanda,129,48,उद्योजयिष्यन्नुद्योगंदध्रेकामंवधेमनः ।।6.129.48।। जिघांसुरिवलोकान्तेसर्वान्लोकान्विभावसुः । Yuddha Kanda,129,49,ततस्समुद्रमासाद्यनलंसेतुमकारयत् ।।6.129.49।। अतरत्कपिवीराणां वाहिनी तेन सेतुना । Yuddha Kanda,129,50,प्रहस्तम्वधीन्नीलःकुम्भकर्णंतुराघवः ।।6.129.50।। लक्ष्मणोरावणसुतंस्वयंरामस्तुरावणम् । Yuddha Kanda,129,51,सशक्रेणसमागम्ययमेनवरुणेन च ।।6.129.51।। Yuddha Kanda,129,52,महेश्वरस्वयंभूभ्यां तथा दशरथेन च । तैश्चदत्तवर्श्रीमानृषिभिश्चसमागतैः ।।6.129.52।। सुरर्षिभिश्चकाकुत्स्थोवरान्लेभेपरन्तपः । Yuddha Kanda,129,53,सतुदत्तवरःप्रीत्यावानरैश्चसमागतः ।।6.129.53।। पुष्पकेनविमानेनकिष्किनष्धामभ्युपागमत् । Yuddha Kanda,129,54,तंगङ्गांपुनारासाद्यवसन्तंमुनिसन्निधौ ।।6.129.54।। अविघ्नंपुष्ययोगेनश्वोरामंद्रष्टुमर्हसि । Yuddha Kanda,130,1,श्रुत्वातुपरमानन्दंभरतस्सत्यविक्रमः । हृष्टमाज्ञापयामासशत्रुघ्नंपरवीरहा ।।6.130.1।। Yuddha Kanda,130,2,दैवतानि च सर्वाणिचैत्यानिनगरस्य च । सुगन्धमाल्यैर्यादित्रैरर्चन्तु शुचयो नराः ।।6.130.2।। Yuddha Kanda,130,3,सूतास्स्तुतिपुराणज्ञास्सर्वेवैतालिकास्तथा । सर्वेवादित्रकुशलागणिकाश्चैवसङ्घशः ।।6.130.3।। Yuddha Kanda,130,4,राजदारास्तथामात्यास्सैन्यास्सेनाङ्गनागणाः । ब्राह्मणाश्चसराजन्याश्रेणिमुख्यास्तथागणाः ।।6.130.4।। अभिनिर्यान्तुरामस्यद्रष्टुंशशिनिभंमुखम् । Yuddha Kanda,130,5,भरतस्यवच्श्रुत्वाशत्रुघ्नःपरवीरहा ।।6.130.5।। विष्टीरनेकसाहस्रीश्चोदयामानभागशः । Yuddha Kanda,130,6,समीकुरुतनिम्नानिविषमानिसमानि च ।।6.130.6।। स्थानानितुनिरस्यन्तांनन्दिग्रामादितःपरम् । Yuddha Kanda,130,7,सिञ्चस्तुपृथिवींकृत्स्नांहिवशीतेववारिणा ।।6.130.7।। ततोऽभ्यवकिरन्त्वन्येलाजैःपुष्पैश्चसर्वतः । Yuddha Kanda,130,8,सुमुच्छ्रितपताकास्तुरथ्याःपुरवरोत्तमेः ।।6.130.8।। शोभयन्तु च वेश्मानिसूर्यस्योदयनंप्रति । Yuddha Kanda,130,9,स्रग्दाममुक्तपुष्पैश्चसुगन्धै: पञ्चवर्णकैः ।।6.130.9।। राजमार्गमसम्बाधंकिरन्तुशतशोनराः । Yuddha Kanda,130,10,तस्तच्छासनंश्रुत्वाशत्रुघ्नस्यमुदान्विताः ।।6.130.10।। Yuddha Kanda,130,11,धृष्टिर्जयन्तोविजयस्सिद्धार्थश्चार्थसाधकः । अशोकोमन्त्रपालश्चसुमन्त्रश्चापिनिर्ययुः ।।6.130.11।। Yuddha Kanda,130,12,मत्तैर्नागसहस्रैश्चसध्वजैस्सुविभूषितैः । अपरेहेमकक्षाभिस्सगजाभिःकरेणुभिः ।।6.130.12।। निर्ययुस्तुररथैश्चसुमहारथाः । Yuddha Kanda,130,13,शक्त्यृष्टिपाशहस्तानांसध्वजानांपताकिनाम् ।।6.130.13।। Yuddha Kanda,130,14,तुरगाणांसहस्रैश्चमुख्यैर्मुख्यतरान्वितैः । पदातीनांसहस्रैश्चवीराःपरिवृताययुः ।।6.130.14।। Yuddha Kanda,130,15,ततोयानान्युपारूढास्सर्वादशरथस्त्रियः । कौसल्यांप्रमुखेकृत्वासुमित्रांचापिनिर्ययुः ।।6.130.15।। कैकेय्यासहिताःसर्वानन्दिग्राममुपागमन् । Yuddha Kanda,130,16,द्विजातिमुख्यैर्धर्मात्माश्रेणीमुख्यैस्सनैगमैः ।।6.130.16।। Yuddha Kanda,130,17,माल्यमोदकहस्तैश्चमन्त्रिभिर्भरतोवृतः । शङ्खभेरीनिनादैश्चवन्दिभिश्चाभिवनन्दितः ।।6.130.17।। Yuddha Kanda,130,18,आर्यपादौगृहीत्वातौशिरसाधर्मकोविदः । पाण्डुरंछत्रमादायशुक्लमाल्योपशोभितम् ।।6.130.18।। Yuddha Kanda,130,19,शुक्ले च वालव्यजनेराजार्हेहेमभूषिते । उपवासकृशोदीनश्चीरकृष्णाजिनाम्बरः ।।6.130.19।। Yuddha Kanda,130,20,भ्रातुरागमनंश्रुत्वातत्पूर्वंहर्षमागतः । प्रत्युद्ययौतदारामंमहात्मासचिवैस्सह ।।6.130.20।। Yuddha Kanda,130,21,अश्वानांखुरशब्दैश्चरथनेमिस्वनेन च । शङ्खदुन्दुभिनादेनसञ्चचालेवमेदिनी ।।6.130.21।। Yuddha Kanda,130,22,कृत्स्नंतुनगरंतत्तुनन्दिग्राममुपागमत् । समीक्ष्यभरतोवाक्यमुवाचपवनात्मजम् ।।6.130.22।। Yuddha Kanda,130,23,कच्चिन्नखलुकापेयीसेव्यतेचकचित्तता । न हिपश्यामिकाकुत्स्थंराममार्यंपरन्तपम् ।।6.130.23।। Yuddha Kanda,130,24,अथैवमुक्तेवचनेहनूमानिदमब्रवीत् । अर्थ्यंविज्ञापयन्नेवभरतंसत्यविक्रमम् ।।6.130.24।। Yuddha Kanda,130,25,सदाफलान्कुसुमितान्वृक्षान् प्राप्यमधुस्रवान् । भरद्वाजप्रसादेनमत्तभ्रमरनादितान् ।।6.130.25।। Yuddha Kanda,130,26,तस्यचैषवरोदत्तोवासवेनपरन्तप । ससैन्यस्यतवातिथ्यंकृतंसर्वगुणान्वितम् ।।6.130.26।। Yuddha Kanda,130,27,निस्स्वन्श्रूयतेभीमःप्रहृष्टानांवनौकसाम् । मन्येवानरसेनासानदींतरतिगोमतीम् ।।6.130.27।। Yuddha Kanda,130,28,रजोवर्षंसमुद्भूतंपश्यसालवनंप्रति । मन्येसालवनंरम्यंलोपयन्तिप्लवङ्गमाः ।।6.130.28।। Yuddha Kanda,130,29,तदेतद्दृश्यतेदूराद्विमानंचन्द्रसन्निभम् । विमानंपुष्पकंदिव्यंमनसाब्रह्मनिर्मितम् ।।6.130.29।। Yuddha Kanda,130,30,रावणंबान्धवैःसार्थंहत्वालब्धंमहात्मना । तरुणादित्यसङ्काशंविमानंरामवाहनम् ।।6.130.30।। धनदस्यप्रसादेनदिव्यमेतन्मनोजवम् । Yuddha Kanda,130,31,एतस्मिन् भ्रातरौवीरौवैदेह्यासहराघवौ ।।6.130.31।। सुग्रीवश्चमहातेजाराक्षसश्चविभीषणः । Yuddha Kanda,130,32,एतोहर्षसमुद्भूतोनिःस्वनोदिवमस्पृशत् ।।6.130.32।। स्त्रीबालयुववृद्धानांरामोऽयमितिकीर्तिते । Yuddha Kanda,130,33,रथकुञ्जरवाजिभ्यस्तेऽवतीर्यमहींगताः ।।6.130.33।। ददृशुस्तंविमानस्थंनरास्सोममिवाम्बरे । Yuddha Kanda,130,34,प्राज्ञलिर्भरतोभूत्वाप्रसृष्टोराघवोन्मुखः ।।6.130.34।। स्वागतेनयथार्हेणततोराममपूजयत् । Yuddha Kanda,130,35,मनसाब्रह्मणासृष्टेविमानेभरताग्रजः ।।6.130.35।। रराजपृथुदीर्घाक्षोवज्रपाणिरिवापरः । Yuddha Kanda,130,36,ततोविमानाग्रगतंभरतोभ्रातरंतदा ।।6.130.36।। ववन्देप्रणतोरामंमेरुस्थमिवभास्करम् । Yuddha Kanda,130,37,ततोरामाभ्यनुज्ञातंतद्विमानमनुत्तमम् ।।6.130.37।। हंसयुक्तंमहावेगंनिपपातमहीतले । Yuddha Kanda,130,38,आपितोविमानंतद्भरतस्सत्यविक्रमः ।।6.130.38।। राममासाद्यमुदितःपुनरेवाभ्यवादयत् । Yuddha Kanda,130,39,तंसमुत्थाप्यकाकुत्स्थश्चिरस्याक्षिरथंगतम् ।।6.130.39।। अङ्केभरतमारोप्यमुदितःपरिषस्वजे । Yuddha Kanda,130,40,ततोलक्ष्मणमासाद्यवैदेहीं च परन्तपः ।।6.130.40।। अथाभ्यवादयप्रतीतोभरतोनामचाब्रवीत् । Yuddha Kanda,130,41,सुग्रीवंकेकयीपुत्रोजाम्बवन्तमथाङ्गदम् ।।6.130.41।। मैन्दं च द्विविदंनीलमृषभंपरिषस्वजे । Yuddha Kanda,130,42,सुषेणं च नलंचैवगवाक्षंगन्धमादनम् ।।6.130.42।। शरभंपनसंचैवपरितःपरिषस्वजे । Yuddha Kanda,130,43,तेकृत्वामानुषंरूपंवानराःकामरूपिणः ।।6.130.43।। कुशलंपर्यपृच्छंस्तेप्रहृष्टाभरतंतदा । Yuddha Kanda,130,44,अथाब्रवीद्राजपुत्रस्सुग्रीवंवानरर्षभम् ।।6.130.44।। परिष्वज्यमहातेजाभरतोधर्मिणांवरः । Yuddha Kanda,130,45,त्वम्स्माकंचतुर्णांवैभ्रातासुग्रीवपञ्चमः ।।6.130.45।। सौहार्दाज्जायतेमित्रमपकारोऽरिलक्षणम् । Yuddha Kanda,130,46,विभीषणं च भरतःसान्त्ववाक्यमथाब्रवीत् ।।6.130.46।। दिष्ट्यात्वयासहायेनकृतंकर्मसुदुष्करम् । Yuddha Kanda,130,47,शत्रुघ्नश्चतदाराममभिवाद्यसलक्ष्मणम् ।।6.130.47।। सीतायाश्चरणौवीरोविनयादभ्यवादयत् । Yuddha Kanda,130,48,रामोमातरमासाद्यविवर्णांशोककर्शिताम् ।।6.130.48।। जग्राहप्रणतःपादौमनोमातुःप्रहर्षयन् । Yuddha Kanda,130,49,अभिवाद्यसुमित्रां च कैकेयीं च यशस्विनीम् ।।6.130.49।। स मात्रूश्चततस्सर्वापुरोहितमुपागमत् । Yuddha Kanda,130,50,स्वागतंतेमहाबाहोकौसल्यानन्दवर्धना ।।6.130.50।। इतिप्राञ्जलयःसर्वेनागराराममब्रुवन् । Yuddha Kanda,130,51,तान्यञ्जलिसहस्राणिप्रगृहीतानिनागरैः ।।6.130.51।। व्याकोचानीवपद्मानिददर्शभरताग्रजः । Yuddha Kanda,130,52,पादुकेतेतुरामस्यगृहीत्वाभरतस्स्वयम् ।।6.130.52।। चरणाभ्यांनरेन्द्रस्ययोजयामासधर्मवित् । Yuddha Kanda,130,53,अब्रवीच्चतदारामंभरतः स कृताञ्जलिः ।।6.130.53।। एतत्तेसकलंराज्यंन्यासंनिर्यातितंमया । Yuddha Kanda,130,54,अद्यजन्मकृतार्थंमेसम्वृत्तश्चमनोरथः ।।6.130.54।। यत्त्वांपश्यामिराजानमयोध्यांपुनरागतम् । Yuddha Kanda,130,55,अवेक्षतांभवान्शोकंकोष्ठागारंगृहंबलम् ।।6.130.55।। भवतस्तेजसासर्वंकृतंदशगुणंमया । Yuddha Kanda,130,56,तथाब्रुवाणंभरतंदृष्टवातंभ्रातृवत्सलम् ।।6.130.56।। मुमुचुर्वानराबाष्पंराक्षसश्चविभीषणः । Yuddha Kanda,130,57,ततःप्रहर्षाद्भरतमङ्गमारोप्यराघवः ।।6.130.57।। ययौतेनविमानेनससैन्योभरताश्रमम् । Yuddha Kanda,130,58,भरताश्रममासाद्यससैन्योराघवस्तदा ।।6.130.58।। अवतीर्यविमानाग्रादवतस्थेमहीतले । Yuddha Kanda,130,59,अब्रवीत्तुतदारामस्तद्विमानमनुत्तमम् ।।6.130.59।। वहवैश्रवणंदेवमनुजानामिगम्यताम् । Yuddha Kanda,130,60,ततोरामाभ्यनुज्ञातंतद्विमानमनुत्तमम् ।।6.130.60।। उत्तरांदिशमुद्दिश्यजगामधनदालयम् । Yuddha Kanda,130,61,विमानंपुष्पकंदिव्यंसम्गृहीतंतुरक्षसा ।।6.130.61।। अगमद्धनदंवेगाद्रामवाक्यप्रचोदितम् । Yuddha Kanda,131,1,शिरस्यञ्जलिमाधायकैकेय्यानन्दवर्धनः । बभाषेभरतोज्येष्ठंरामंसत्यपराक्रमम् ।।6.131.1।। Yuddha Kanda,131,2,पूजितामामिकामातादत्तंराज्यमिदंमम । तद्ददामिपुनस्तुभ्यंयथात्वमददामम ।।6.131.2।। Yuddha Kanda,131,3,धुरमेकाकिनान्यस्तांवृषभेणबलीयसा । किशोरवद्गुरुंभारं न वोढुमहमुत्सहे ।।6.131.3।। Yuddha Kanda,131,4,वारिवेगेनमहताभिन्नस्सेतुरिवक्षरन् । दुर्बन्धनमिदंमन्येराज्यच्छ्रिदमसम्वृतम् ।।6.131.4।। Yuddha Kanda,131,5,गतिंखरइवाश्वस्यहंसस्येव च वायसः । नान्वेतुमुत्सहेराम तवमार्गमरिन्दम ।।6.131.5।। Yuddha Kanda,131,6,यथाचारोपितोवृक्षोजातश्चार्न्न्तिवेशने । महांश्चसुदुरारोहोमहास्कन्दःप्रशाखवान् ।।6.131.6।। Yuddha Kanda,131,7,शीर्येतपुष्पितोभूत्वा न फलानिप्रदर्शयन् । तस्यनानुभवेदर्थंयस्यहेतोस्सरोपितः ।।6.131.7।। Yuddha Kanda,131,8,एषोपमामहाबाहोत्वमर्थंवेत्तुमर्हसि । यद्यस्मान्मनुजेन्द्रत्वंभर्ताभृत्यान्नशाधिहि ।।6.131.8।। Yuddha Kanda,131,9,जगदद्याभिषिक्तंत्वामनुपश्यतुराघव । प्रतपन्तमिवादित्यंमध्याह्नेदीप्ततेजसम् ।।6.131.9।। Yuddha Kanda,131,10,तूर्यसङ्घान्तिर्घोषैःकाञ्चीनूपुरनिःस्वनैः । मधुरैर्गीतशब्दैश्चप्रतिबुध्यस्वशेष्व च ।।6.131.10।। Yuddha Kanda,131,11,यावदावर्ततेचक्रंयावती च वसुन्धरा । तावत्त्वमिहलोकस्यस्वामित्वमनुवर्तय ।।6.131.11।। Yuddha Kanda,131,12,भरतस्यवच्श्रुत्वारामःपरपुरञ्जयः । तथेतिप्रतिजग्राहनिषसादासनेशुभे ।।6.131.12।। Yuddha Kanda,131,13,ततश्शत्रुघ्नवचनान्निपुणाःश्मश्रुवर्धनाः । सुखहस्ताःसुशीघ्राश्चराघवंपर्यवारयन् ।।6.131.13।। Yuddha Kanda,131,14,पूर्वंतुभरतेस्नातेलक्ष्मणे च महाबले । सुग्रीवेवानरेन्द्रे च राक्षसेन्द्रेविभीषणे ।।6.131.14।। Yuddha Kanda,131,15,विशोधितजटस्स्नातश्चित्रमाल्यानुलेपनः । महार्हवसनोपेतस्तस्थौतत्रश्रियाज्वलन् ।।6.131.15।। Yuddha Kanda,131,16,प्रतिकर्म च रामस्यकारयामासवीर्यवान । लक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः ।।6.131.16।। Yuddha Kanda,131,17,प्रतिकर्मचसीतायास्सर्वादशरथस्त्रियः । आत्मनैवतदाचक्रुर्मनस्विन्योमनोहरम् ।।6.131.17।। Yuddha Kanda,131,18,ततोवानरपत्नीनांसर्वासामेवशोभनम् । चकारयत्नात्कौसल्याप्रहृष्टापुत्रवत्सला ।।6.131.18।। Yuddha Kanda,131,19,तत: श्शत्रुघ्नवचनात्सुमन्त्रोनामसारथिः । योजयित्वाभिचक्रामरथंसर्वाङ्गशोभनम् ।।6.131.19।। Yuddha Kanda,131,20,अर्कमण्डलसङ्काशंदिव्यंदृष्टवारथंस्थितम् । आरुरोहमहाबाहूरामःपरपुरंञ्जयः ।।6.131.20।। Yuddha Kanda,131,21,सुग्रीवोहनुमांश्चैवमहेन्द्रसदृशद्युती । स्नातौदिव्यनिभैर्वस्त्रैर्जग्मतुश्शुभकुण्डलौ ।।6.131.21।। Yuddha Kanda,131,22,सर्वाभरणजुष्टाश्चयुयुस्तश्शुभकुण्डलाः । सुग्रीवपत्नयःसीता च द्रष्टुंनगरमुत्सुकाः ।।6.131.22।। Yuddha Kanda,131,23,अयोध्यायांतुसचिवाराज्ञोदशरथस्य च । पुरोहितंपुरस्कृत्यमन्त्रयामासुरर्थवत् ।।6.131.23।। Yuddha Kanda,131,24,अशोकोविजयश्चैवसिद्धार्थश्चसमाहिताः । मन्त्रयन्रामवृध्यर्थंबुध्यर्थंनगरस्य च ।।6.131.24।। Yuddha Kanda,131,25,सर्वमेवाभिषेकार्थंजयार्हस्यमहात्मनः । कर्तुमर्हथरामस्ययद्यन्मङ्गलपूर्वकम् ।।6.131.25।। Yuddha Kanda,131,26,इतितेमन्त्रिणस्सर्वेसन्दिश्य च पुरोहितम् । नगरान्निर्ययुस्तूर्णंरामदर्शनबुद्धयः ।।6.131.26।। Yuddha Kanda,131,27,हरियुक्तंसहस्राक्षोरथमिन्द्रइवानघः । प्रययौरथमास्थायरामोनगरमुत्तमम् ।।6.131.27।। Yuddha Kanda,131,28,जग्राहभरतोरमशीन्शत्रुघ्नश्चत्रमाददे । लक्ष्मणोव्यजनंतस्यमूर्ध्निसम्पर्यवीजयत् ।।6.131.28।। Yuddha Kanda,131,29,श्वेतं च वालव्यजनंजगृहेपरितस्स्थितः । अपरंचन्द्रसङ्काशंराक्षसेन्द्रोविभीषणः ।।6.131.29।। Yuddha Kanda,131,30,ऋषिसङ्घैस्तदाकाशेदेवैश्चसमरुद्गणैः । स्तूयमास्यरामस्यशुश्रुवमधुरध्वनिः ।।6.131.30।। Yuddha Kanda,131,31,ततःशत्रुञ्जयंनामकुञ्जरंपर्वतोपमम् । आरुरोहमहातेजास्सुग्रीवःप्लवगर्षभः ।।6.131.31।। Yuddha Kanda,131,32,नवनागसहस्राणिययुरास्थायवानराः । मानुषंविग्रहंकृत्वासर्वाभरणभूषिताः ।।6.131.32।। Yuddha Kanda,131,33,शङ्खशब्दप्रणादैश्चदुन्दुभीनां च निस्स्वनैः । प्रययौपुरुषव्याघ्रस्तांपुरींहर्म्यमालिनीम् ।।6.131.33।। Yuddha Kanda,131,34,ददृशुस्तेसमायान्तंराघवंसपुरस्सरम् । विराजमानंवपुषारथेनातिरथंतदा ।।6.131.34।। Yuddha Kanda,131,35,तेवर्थयित्वाकाकुत्स्थंरामेणप्रतिनन्दिताः । अनुजग्मुर्महात्मानंभ्रातृभिःपरिवारितम् ।।6.131.35।। Yuddha Kanda,131,36,अमात्यैर्ब्राह्मणैश्चैवतथाप्रकृतिभिर्ववृतः । श्रियाविरुरुचेरामोनक्षत्ररिवचन्द्रमाः ।।6.131.36।। Yuddha Kanda,131,37,स पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः । प्रव्याहरद्भिर्मुदितैर्मङ्गलानिवृतोययौ ।।6.131.37।। Yuddha Kanda,131,38,अक्षतंजातरूपं च गावःकन्यास्सहद्विजाः । नरामोदकहस्ताश्चरामस्यपुरतोययुः ।।6.131.38।। Yuddha Kanda,131,39,सख्यं च रामस्सुग्रीवेप्रभावंचानिलात्मजे । वानराणां च तत्कर्मह्याचचक्षेऽऽथमन्त्रिणाम् ।।6.131.39।। Yuddha Kanda,131,40,श्रुत्वा च विस्मयंजग्मुरयोध्यापुरवासिनः । वानराणां च ततकर्मराक्षसानां च तद्बलम् ।।6.131.40।। Yuddha Kanda,131,41,विभीषणस्यसम्योगमाचचक्षेऽथमन्त्रिणाम् । द्युतिमानेतदाख्यायरामोवानरसम्युतः ।।6.131.41।। हृष्टपुष्टजनाकीर्णमयोध्यांप्रविवेशसः । Yuddha Kanda,131,42,ततोह्यभ्युच्छ्रयन्पौराःपताकाश्चगृहेगृहे ।।6.131.42।। ऐक्ष्वाकुध्युषितंरम्यमाससादपितुर्गृहम् । Yuddha Kanda,131,43,अथाब्रवीद्राजपुत्रोभरतंधर्मिणांवरम् ।।6.131.43।। Yuddha Kanda,131,44,अर्धोपहितयावाचामधुरंरघुनन्दनः । पितुर्भवनमासाद्यप्रविश्य च महात्मनः ।।6.131.44।। कौसल्यां च सुमित्रां च कैकेयीमभिवाद्य च । Yuddha Kanda,131,45,यच्छमद्भवनंश्रेष्ठंसाशोकवनिकंमहत् ।।6.131.45।। मुक्तावैदूर्यसङ्कीर्णंसुग्रीवायनिवेदय । Yuddha Kanda,131,46,तस्यतद्वचनंश्रुत्वाभरतस्सत्यविक्रमः ।।6.131.46।। हस्तेगृहीत्वासुग्रीवंप्रविवेशतमालयम् । Yuddha Kanda,131,47,तत: स्स्सैलप्रदीपांश्चपर्यङ्कास्तरणानि च ।।6.131.47।। गृहीत्वाविविशुःक्षिप्रंशत्रुघ्नेप्रचोदिताः । Yuddha Kanda,131,48,उवाच च महातेजास्सुग्रीवंराघवानुजः ।।6.131.48।। अभिषेकायरामस्यदूतानाज्ञापयप्रभो । Yuddha Kanda,131,49,सौवर्णान्वानरेन्द्राणांचतुर्णांचतुरोघटान् ।।6.131.49।। ददौक्षिप्रंससुग्रीवस्सर्वरत्नविभूषितान् । Yuddha Kanda,131,50,यथाप्रत्यूषसमयेचतुर्णांसागराम्बसाम् ।।6.131.50।। पूर्णघटैःप्रतीक्षध्वंतथाकुरुतवानराः । Yuddha Kanda,131,51,एवमुक्तामहात्मानोवानरावारणोपमाः ।।6.131.51।। उत्पेतुर्गगनंशीघ्रंगरुडाइवशीघ्रगाः । Yuddha Kanda,131,52,जाम्बवांश्चहनूमांश्चवेगदर्शी च वानरः ।।6.131.52।। Yuddha Kanda,131,53,ऋषभश्चैवकलशान्जलपूर्णानथानयन् । नदीशतानांपञ्चानांजलंकुम्भैरुपाहरन् ।।6.131.53।। Yuddha Kanda,131,54,पूर्वात्समुद्रात्कलशंजलपूर्णमथानयत् । सुषेणस्सत्त्वसम्पन्नस्सर्वरत्नविभूषितम् ।।6.131.54।। Yuddha Kanda,131,55,ऋषभोदक्षिणात्तूर्णंसमुद्राज्जलमानयत् । रक्तचन्दनशाखाभिस्सम्वृतंकाञ्चनंघटम् ।।6.131.55।। Yuddha Kanda,131,56,गवयःपश्चिमात्तोयमाजहारमहार्णवात् । रत्नकुम्भेनमहताशीतंमारुतविक्रमः ।।6.131.56।। Yuddha Kanda,131,57,उत्तराच्चजलंशीघ्रंगरुडानिलविक्रमः । आजहार स धर्मात्मानलःसर्वगुणान्वितः ।।6.131.57।। Yuddha Kanda,131,58,ततस्तैर्वानरश्रेष्ठैरानीतंप्रेक्ष्यतज्जलम् । अभिषेकायरामस्यशत्रुघ्नस्सचिवैस्सह ।।6.131.58।। पुरोहितायश्रेष्ठायसुहृद्भ्यश्चन्यवेदयत् । Yuddha Kanda,131,59,ततस्सप्रयतोवृद्धोवसिष्ठोब्राह्मणैःसह ।।6.131.59।। रामंरत्नमयेपीठेससीतंसन्नयवेशयत् । Yuddha Kanda,131,60,वसिष्ठोवामदेवश्चजाबालिरथकाश्यपः ।।6.131.60।। Yuddha Kanda,131,61,कात्यायनोसुयज्ञश्चगौतमोविजयस्तथा । अभ्यषिञ्चन्नरव्याघ्रंप्रसन्नेनसुगन्धिना ।।6.131.61।। सलिलेनसहस्राक्षंवसवोवासवंयथा । Yuddha Kanda,131,62,ऋग्भिर्भ्राह्मणैःपूर्वंकन्याभिर्मन्त्रिभिस्तथा ।।6.131.62।। Yuddha Kanda,131,63,योथौश्चैवाभ्यषिञ्चंस्तेसम्प्रहृष्टास्सनैगमैः । सर्वौषधीनसैश्चापिदैवतैर्नभसिस्थितैः ।।6.131.63।। चतुर्भिर्लोकपालैश्चसर्वैर्देवैश्चसङ्गतैः । Yuddha Kanda,131,64,ब्रह्मणानिर्मितंपूर्वंकिरीटंरत्नशोभितम् ।।6.131.64।। Yuddha Kanda,131,65,अभिषिक्तःपुरायेवमनुस्तंदीप्ततेजसम् । तस्यान्ववायेराजानःक्रमाद्येनाभिषेचिताः ।।6.131.65।। Yuddha Kanda,131,66,सभायांहेमक्लुप्तायांशोभितायांमहाधनैः । रत्नैर्नानाविधैश्चवचित्रितायांसुशोभनैः ।।6.131.66।। Yuddha Kanda,131,67,नानारत्नमयेपीठेकल्पयित्वायथाविधि । किरीटेनततःपश्चाद्वसिष्ठेनमहात्मना ।।6.131.67।। ऋत्विगिमभगिर्भूषणैश्चैवसमयोक्ष्यतराघवः । Yuddha Kanda,131,68,छत्रंतस्य च जग्राहशत्रघ्नःपाण्डुरंशुभम् ।।6.131.68।। Yuddha Kanda,131,69,श्वेतं च वालव्यजनंसुग्रीवोवानरेश्वरः । अपरंचन्द्रसङ्काशंराक्षसेन्द्रोविभीषणः ।।6.131.69।। Yuddha Kanda,131,70,मालांज्वलन्तींवपुषाकाञ्चनींशतपुष्कराम् । राघवायददौवायुर्वासवेनप्रचोदितः ।।6.131.70।। Yuddha Kanda,131,71,सर्वरत्नसमायुक्तंमणिभिश्चविभूषितम् । मुक्ताहारंनरेन्द्रायददौशक्रप्रचोदितः ।।6.131.71।। Yuddha Kanda,131,72,प्रजगुर्धेवगन्धर्वाननृतुश्चाप्सरोगणाः । अभिषेकेतदर्हस्यतदारामस्यधीमतः ।।6.131.72।। Yuddha Kanda,131,73,भूमिःसस्यवतीचैवफलवन्तश्चपादपाः । गन्धवन्ति च पुष्पाणिबभूवूराघवोत्सवे ।।6.131.73।। Yuddha Kanda,131,74,सहस्रशतमश्वानांधेनूनां च गवांतथा । ददौशतवृषान्पूर्वंद्विजेभ्योमनुजर्षभः ।।6.131.74।। Yuddha Kanda,131,75,त्रिंशत्कोटीर्हिरण्यस्यब्राह्मणेभ्योददौपुनः । नानाभरणवस्त्राणिमहार्हाणि च राघवः ।।6.131.75।। Yuddha Kanda,131,76,अर्करश्मिप्रतीकाशांकाञ्चनींमणिविग्रहाम् । सुग्रीवायस्रजंदिव्यांप्रायच्छन्मनुजाधिपः ।।6.131.76।। Yuddha Kanda,131,77,वैदूर्यमयचित्रे च मणिरत्नविभूषिते । वालिपुत्रायधृतिमानङ्गदायाङ्गदेददौ ।।6.131.77।। Yuddha Kanda,131,78,मणिप्रवरजुष्टंतुमुक्ताहारमनुत्तमम् । सीतायैप्रददौरामश्चन्द्ररश्मिसमप्रभम् ।।6.131.78।। Yuddha Kanda,131,79,अरजेवाससीदिव्येशुभान्याभरणानि च । अवेक्षमाणावैदेहीप्रददौवायुसूनवे ।।6.131.79।। Yuddha Kanda,131,80,अवमुच्यात्मनःकण्ठाद्दारंजनकनन्दिनी । अवैक्षतहरीन्सर्वान्भर्तारं च मुहुर्मुहुः ।।6.131.80।। Yuddha Kanda,131,81,तामिङ्गितज्ञस्सम्प्रेक्ष्य बभाषे जनकात्मजाम् । प्रदेहिसुभगेहारंयस्यतुष्टासिभामिनि ।।6.131.81।। Yuddha Kanda,131,82,तेजोधृतिर्यशोदाक्ष्यंसामर्थ्यंविनयोनयः । पौरुषंविक्रमोबुद्धिर्यस्मिन्नेतानिसर्वदा ।।6.131.82।। Yuddha Kanda,131,83,ददौसावायुपुत्रायतंहारमसितेक्षणा । हनूमांस्तेनहारेणशुशुभेवानरर्षभः ।।6.131.83।। चन्रांशुचयगौरेणश्वेताभ्रेणयथाचलः । Yuddha Kanda,131,84,तोद्विविदमैन्धाभ्यांनीलाय च परन्तपः सर्वेवानरवृद्धाश्चयेचान्येवानरोत्तमाः ।।6.131.84।। वासोभिर्भूषणैश्चैवयथार्हंप्रतिपूजिताः । सर्वान्कामगुणावनीक्ष्यप्रददौवसुधाधिपः।।। 6.131.85।। Yuddha Kanda,131,86,विभीषणोऽथसुग्रीवोहनुमान्जाम्बवांस्तथा ।।6.131.86।। Yuddha Kanda,131,87,सर्वेवानरमुख्याश्चरामेणाक्लिष्टकर्मणा । यथार्हंपूजिताःसर्वेकामैरत्नैश्चपुष्कलैः ।।6.131.87।। प्रहृष्टमानसःसर्वेजग्मुरेवयथागतम् । Yuddha Kanda,131,88,दृष्ट्वासर्वेमहात्मानस्ततस्तेवानरर्षभाः ।।6.131.88।। विसृष्टाःपार्थिवेन्द्रेणकिष्किन्धांसमुपागमन् । Yuddha Kanda,131,89,सुग्रीवोवानरश्रेष्ठो दृष्टवारामभिषेचनम् ।।6.131.89।। पूजितश्चैवरामेयकिष्किन्धांप्राविशत्पुरीम् । Yuddha Kanda,131,90,विभीषणोऽपिधर्मात्मासहतैर्नैरृतर्षभैः ।।6.131.90।। लब्ध्वाकुलधनंराजालङ्कांप्रायान् महायशाः । Yuddha Kanda,131,91,सराज्यमखिलंशासन्निहतारिर्महायशाः ।।6.131.91।। राघवःपरमोदारश्शशासपरयामुदा । Yuddha Kanda,131,92,उवाचलक्ष्मणंरामोधर्मज्ञंधर्मवत्सलः ।।6.131.92।। Yuddha Kanda,131,93,आतिष्ठधर्मज्ञ मयासहेमांगांपूर्वराजाध्युषितांबलेन । तुल्यंमयात्वंपितृभिर्धृतायातांयौवराज्येधुरमुद्वहस्व ।।6.131.93।। Yuddha Kanda,131,94,सर्वात्मनापर्यनुनीयमानोयदा न सौमित्रिरुपैतियोगम् । नियुज्यमानोऽपि च यौवराज्येततोऽभ्यषिञ्चद्भरतंमहात्मा ।।6.131.94।। Yuddha Kanda,131,95,पौण्डरीकाश्वमेधाभ्यांवाजपेयेनचासकृत् । अन्यैश्चविविधैर्यज्ञैरयजत्पार्थिवात्मजः ।।6.131.95।। Yuddha Kanda,131,96,राज्यंदशसहस्राणिप्राप्यवर्षाणिराघवः । शताश्वमेधानाजह्रेसदश्वान् भूरिदक्षिणान् ।।6.131.96।। Yuddha Kanda,131,97,आजानुलम्बिबाहुस्समहावक्षाःप्रतापवान् । लक्ष्मणानुचरोरामःशशासपृथिवीमिमाम् ।।6.131.97।। Yuddha Kanda,131,98,राघवश्चापिधर्मात्माप्राप्यराज्यमनुत्तमम् । ईजेबहुविधैर्यज्ञैससुतभ्रातृबान्धवः ।।6.131.98।। Yuddha Kanda,131,99,स पर्यदेवन्विधवा न च व्यालकृतंभयम् । न व्याधिजंभयंचासीद्रामेराज्यंप्रशासति ।।6.131.99।। Yuddha Kanda,131,100,निर्दस्युरभवल्लोकोनानर्थंकश्चिदस्पृशत् । न च स्मवृद्धाबालानांप्रेतकार्याणिकुर्वते ।।6.131.100।। Yuddha Kanda,131,101,सर्वंमुदितमेवासीत्सर्वोधर्मपरोऽभवत् । राममेवानुपश्यन्तोनाभ्यहिंसन् परस्परम् ।।6.131.101।। Yuddha Kanda,131,102,आसन्वर्षसहस्राणितथापुत्रसहस्रिणः । निरामयाविशोकाश्चरामेराज्यंप्रशासति ।।6.131.102।। Yuddha Kanda,131,103,रामोरामोराम: इतिप्रजानामभवन्कथाः । रामभूतंजगदभूद्रामेराज्यंप्रशासति ।।6.131.103।। Yuddha Kanda,131,104,नित्यपुष्पानित्यफलान्तरवस्तत्रनिर्व्रणाः । कामवर्षी च पर्जन्यस्सुखस्पर्शश्चमारुतः ।।6.131.104।। Yuddha Kanda,131,105,ब्राह्मणाःक्षत्रियावैश्याश्शूद्रालोभविवर्जिताः । स्वकर्मसुप्रवर्तन्तेतुष्टास्स्वैरेवकर्मभिः ।।6.131.105।। आसन्प्रजाधर्मपरारामेशासतिनानृताः । Yuddha Kanda,131,106,सर्वेलक्षणसम्पन्नास्सर्वेधर्मपरायणाः ।।6.131.106।। दशवर्षसहस्राणिदशवर्षशतानि च भ्रातृभि: सहितःश्रीमानरामोराज्यमकारयत् । Yuddha Kanda,131,107,धन्यंयशस्यमायुष्यंराज्ञां च वियावहम् ।।6.131.107।। Yuddha Kanda,131,108,आदिकाव्यमिदंचार्षंपुरावाल्मीकिनाकृतम् । पठेध्यःशृणुयाल्लोकेनरःपापात्प्रमुच्यते ।।6.131.108।। Yuddha Kanda,131,109,पुत्रकामश्चपुत्रान्वैधनकामोधनानि च । लभतेमनुजोलोकेश्रुत्वारामाभिषेचनम् ।।6.131.109।। महींविजयतेराजारिपूंश्चाप्यधितिष्ठति । Yuddha Kanda,131,110,राघवेणयथामातासुमित्रालक्ष्मणेन च ।।6.131.110।। Yuddha Kanda,131,111,भरतेन च कैकेयीजीवपुत्रास्तथास्त्रियः । भविष्यन्तिसदानन्दाःपुत्रपौत्रसमन्विताः ।।6.131.111।। Yuddha Kanda,131,112,श्रुत्वारामायणमिदंदीर्घमायुश्चविन्दति । रामस्यविजयंचैवसर्वमक्लिष्टकर्मणः ।।6.131.112।। Yuddha Kanda,131,113,शृणोति य इदंकाव्यंपुरावाल्मीकिनाकृतम् । श्रद्धधानोजितक्रोधोदुर्गाण्यतितरत्यसौ ।।6.131.113।। Yuddha Kanda,131,114,समागम्यप्रवासान्तेरमन्तेसहबान्धवैः । शृण्वन्ति य इदंकाव्यंपुरावाल्मीकिनाकृतम् ।।6.131.114।। Yuddha Kanda,131,115,तेप्रार्थितान्वरान्सर्वान्प्राप्नुवन्तीहराघवात् । श्रवणेनसुरास्सर्वेप्रीयन्तेसम्प्रशृण्वताम् ।।6.131.115।। Yuddha Kanda,131,116,विनायकाश्चशाम्यन्तिगृहेतिष्ठन्तियस्यवै । विजयेतमहींराजाप्रवासीस्वस्तिमान्भवेत् ।।6.131.116।। Yuddha Kanda,131,117,स्त्रियोरजस्वला्श्रुत्वापुत्रान्सूयुरनुत्तमान् । पूजयंश्चपठंश्चैवमितिहासंपुरातनम् ।।6.131.117।। सर्वपापैःप्रमुच्येतदीर्घमायुरवाप्नुयात् । Yuddha Kanda,131,118,प्रणम्यशिरसानित्यंश्रोतव्यंक्षत्रियैर्द्विजात् ।।6.131.118।। Yuddha Kanda,131,119,ऐश्वर्यंपुत्रलाभाश्चभविष्यति न संशयः । रामायणमिदंकृत्स्नंशृण्वतःपठतस्सदा ।।6.131.119।। Yuddha Kanda,131,120,प्रीयतेसततंरामस्सहिविष्णुस्सनातनः । आदिदेवोमहाबाहुर्हरिन्नारायणःप्रभुः ।।6.131.120।। साक्षाद्रामोरघुश्रेष्ठश्शेषोलक्ष्मणउच्यते । Yuddha Kanda,131,121,एवमेतत्पुरावृत्तमाख्यानंभद्रमस्तुवः ।।6.131.121।। प्रव्याहरतविस्रब्धंबलंविष्णोःप्रवर्थताम् । Yuddha Kanda,131,122,देवाश्चसर्वेतुष्यन्तिग्रहणाच्छ्रवणात्तथा ।।6.131.122।। रामायणस्यश्रवणेतुष्यन्तिपितस्सदा । Yuddha Kanda,131,123,भक्त्यारामस्ययेचेमांसंसितामृषिणाकृताम् ।।6.131.123।। येलिखन्ती ह च नरास्तेषांवासस्त्रिविष्टपे । Yuddha Kanda,131,124,कुटुम्बवृद्धिंधनधान्यवृद्धिंस्त्रियश्चमुख्यास्सुखमुत्तमं च । श्रुत्वाशुभंकाव्यमिदंमहार्थंप्राप्नोतिसर्वांभुविचार्थसिद्धम् ।।6.131.124।। Uttara Kanda,1,1,प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते । आजग्मुर्ऋषयः सर्वे राघवं प्रतिनन्दितुम् ।। 7.1.1 ।। Uttara Kanda,1,2,कौशिको ऽथ यवक्रीतो गार्ग्यो गालव एव च । कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः ।। 7.1.2 ।। Uttara Kanda,1,3,स्वस्त्यात्रेयो ऽथ भगवान्नमुचिः प्रमुचिस्तथा । आजग्मुस्ते सहागस्त्या ये श्रिता दक्षिणां दिशम् ।। 7.1.3 ।। Uttara Kanda,1,4,नृषद्गुः कवषो धौम्यो रौद्रेयश्च महानृषिः । ते ऽप्याजग्मुः सशिष्या वै ये श्रिताः पश्चिमां दिशम् ।। 7.1.4 ।। Uttara Kanda,1,5,वसिष्ठः कश्यपो ऽथात्रिर्विश्वामित्रः सगौतमः । जमदग्निर्भरद्वाजस्ते ऽपि सप्तर्षयस्तथा ।। 7.1.5 ।। Uttara Kanda,1,6,उदीच्यां दिशि सप्तैते नित्यमेव निवासिनः ।। 7.1.6 ।। Uttara Kanda,1,7,सम्प्राप्य ते महात्मानो राघवस्य निवेशनम् । विष्टिताः प्रतिहारार्थं हुताशनसमप्रभाः । वेदवेदाङ्गविदुषो नानाशास्त्रविशारदाः ।। 7.1.7 ।। Uttara Kanda,1,8,द्वाःस्थं प्रोवाच धर्मात्मा अगस्त्यो मुनिसत्तमः । निवेद्यतां दाशरथेर्ऋषीनस्मान्समागतान् ।। 7.1.8 ।। Uttara Kanda,1,9,प्रतीहारस्ततस्तूर्णमगस्त्यवचनाद्द्रुतम् । समीपं राघवस्याशु प्रविवेश महात्मनः ।। 7.1.9 ।। Uttara Kanda,1,10,नयेङ्गितज्ञः सद्वृत्तो दक्षो धैर्यसमन्वितः । स रामं दृश्य सहसा पूर्णचन्द्रसमप्रभम् ।। 7.1.10 ।। Uttara Kanda,1,11,अगस्त्यं कथयामास सम्प्राप्तमृषिभिः सह ।। 7.1.11 ।। Uttara Kanda,1,12,श्रुत्वा प्राप्तान्मुनींस्तांस्तु बालसूर्यसमप्रभान् । प्रत्युवाच ततो द्वास्स्थं प्रवेशय यथासुखम् ।। 7.1.12 ।। Uttara Kanda,1,13,तान् सम्प्राप्तान् मुनीन् दृष्ट्वा प्रत्युत्थाय कृताञ्जलिः । पाद्यार्घ्यादिभिरानर्च गां निवेद्य च सादरम् ।। 7.1.13 ।। Uttara Kanda,1,14,रामो ऽभिवाद्य प्रयत आसनान्यादिदेश ह । तेषु काञ्चनचित्रेषु महत्सु च वरेषु च ।। 7.1.14 ।। Uttara Kanda,1,15,कुशान्तर्धानदत्तेषु मृगचर्मयुतेषु च । यथार्हमुपविष्टास्ते आसनेष्वृषिपुङ्गवाः ।। 7.1.15 ।। Uttara Kanda,1,16,रामेण कुशलं पृष्टाः सशिष्याः सपुरोगमाः । महर्षयो वेदविदो रामं वचनमब्रुवन् ।। 7.1.16 ।। Uttara Kanda,1,17,कुशलं नो महाबाहो सर्वत्र रघुनन्दन । त्वां तु दिष्ट्या कुशलिनं पश्यामो हतशात्रवम् ।। 7.1.17 ।। Uttara Kanda,1,18,दिष्ट्या त्वया हतो राजन्रावणो लोकरावणः । न हि भारः स ते राम रावणः पुत्रपौत्रवान् ।। 7.1.18 ।। Uttara Kanda,1,19,सधनुस्त्वं हि लोकांस्त्रीन्विजयेथा न संशयः । दिष्ट्या त्वया हतो राम रावणो राक्षसेश्वरः ।। 7.1.19 ।। Uttara Kanda,1,20,दिष्ट्या विजयिनं त्वाद्य पश्यामः सह सीतया । लक्ष्मणेन च धर्मात्मन्भ्रात्रा त्वद्धितकारिणा ।। 7.1.20 ।। Uttara Kanda,1,21,मातृभिर्भ्रातृसहितं पश्यामो ऽद्य वयं नृप । दिष्ट्या प्रहस्तो विकटो विरूपाक्षो महोदरः । अकम्पनश्च दुर्धर्षो निहतास्ते निशाचराः ।। 7.1.21 ।। Uttara Kanda,1,22,यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यते । दिष्ट्या ते समरे राम कुम्भकर्णो निपातितः ।। 7.1.22 ।। Uttara Kanda,1,23,त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ । दिष्ट्या ते निहता राम महावीर्या निशाचराः ।। 7.1.23 ।। Uttara Kanda,1,24,कुम्भश्चैव निकुम्भश्च राक्षसौ भीमदर्शनौ । दिष्ट्या तौ निहतौ राम कुम्भकर्णसुतौ मृधे ।। 7.1.24 ।। Uttara Kanda,1,25,युद्धोन्मत्तश्च मत्तश्च कालान्तकयमोपमौ । यज्ञकोपश्च बलवान्धूम्राक्षो नाम राक्षसः ।। 7.1.25 ।। Uttara Kanda,1,26,कुर्वन्तः कदनं घोरमेते शस्त्रास्त्रपारगाः । अन्तकप्रतिमैर्बाणैर्दिष्ट्या विनिहतास्त्वया ।। 7.1.26 ।। Uttara Kanda,1,27,दिष्ट्या त्वं राक्षसेन्द्रेण द्वन्द्वयुद्धमुपागतः । देवतानामवध्येन विजयं प्राप्तवानसि ।। 7.1.27 ।। Uttara Kanda,1,28,सङ्ख्ये तस्य न किञ्चित्तु रावणस्य पराभवः । द्वन्द्वयुद्धमनुप्राप्तो दिष्ट्या ते रावणिर्हतः ।। 7.1.28 ।। Uttara Kanda,1,29,दिष्ट्या तस्य महाबाहो कालस्येवाभिधावतः । मुक्तः सुररिपोर्वीर प्राप्तश्च विजयस्त्वया ।। 7.1.29 ।। Uttara Kanda,1,30,अभिनन्दाम ते सर्वे संश्रुत्येन्द्रजितो वधम् । सो ऽवध्यः सर्वभूतानां महामायाधरो युधि ।। 7.1.30 ।। Uttara Kanda,1,31,विस्मयस्त्वेष चास्माकं तच्छ्रुत्वेन्द्रजितं हतम् ।। 7.1.31 ।। Uttara Kanda,1,32,एते चान्ये च बहवो राक्षसाः कामरूपिणः । दिष्ट्या त्वया हता वीरा रघूणां कुलवर्द्धन ।। 7.1.32 ।। Uttara Kanda,1,33,दत्त्वा पुण्यामिमां वीर सौम्यामभयदक्षिणाम् ।। दिष्ट्या वर्धसि काकुत्स्थ जयेनामित्रकर्शन ।। 7.1.33 ।। Uttara Kanda,1,34,श्रुत्वा तु तेषां वचनमृषीणां भावितात्मनाम् । विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत् ।। 7.1.34 ।। Uttara Kanda,1,35,भगवन्तः कुम्भकर्णं रावणं च निशाचरम् । अतिक्रम्य महावीर्यौ किं प्रशंसथ रावणिम् ।। 7.1.35 ।। Uttara Kanda,1,36,महोदरं प्रहस्तं च विरूपाक्षं च राक्षसम् । मत्तोन्मत्तौ च दुर्धर्षौ देवान्तकनरान्तकौ ।। Uttara Kanda,1,37,अतिक्रम्य महावीर्यान् किं प्रशंसथ रावणिम् ।। 7.1.36 ।। Uttara Kanda,1,38,अतिकायं त्रिशिरसं धूम्राक्षं च निशाचरम् । अतिक्रम्य महावीर्यान्किं प्रशंसथ रावणिम् ।। 7.1.37 ।। Uttara Kanda,1,39,कीदृशो वै प्रभावो ऽस्य किं बलं कः पराक्रमः । केन वा कारणेनैष रावणादतिरिच्यते ।। 7.1.38 ।। Uttara Kanda,1,40,शक्यं यदि मया श्रोतुं न खल्वाज्ञापयामि वः । यदि गुह्यं न चेद्वक्तुं श्रोतुमिच्छामि कथ्यताम् ।। 7.1.39 ।। Uttara Kanda,1,41,शक्रो ऽपि विजितस्तेन कथं लब्धवरश्च सः । कथं च बलवानन्पुत्रो न पिता तस्य रावणः ।। 7.1.40 ।। Uttara Kanda,1,42,कथं पितुश्चाभ्यधिको महाहवे शक्रस्य जेता हि कथं स राक्षसः । वराश्च लब्धाः कथयस्व मे ऽद्य तत्पृच्छतश्चास्य मुनीन्द्र सर्वम् ।। 7.1.41 ।। Uttara Kanda,2,43,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे प्रथमः सर्गः ।। 1 ।। Uttara Kanda,2,1,तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः । कुम्भयोनिर्मिहातेजा राममेतदुवाच ह ।। 7.2.1 ।। Uttara Kanda,2,2,शृणु राम कथावृत्तं तस्य तेजोबलं महत् । जघान शत्रून्येनासौ न च वध्यः स शत्रुभिः ।। 7.2.2 ।। Uttara Kanda,2,3,तावत्ते रावणस्येदं कुलं जन्म च राघव । वरप्रदानं च तथा तस्मै दत्तं ब्रवीमि ते ।। 7.2.3 ।। Uttara Kanda,2,4,पुरा कृतयुगे राम प्रजापतिसुतः प्रभुः । पुलस्त्यो नाम ब्रह्मर्षिः साक्षादिव पितामहः ।। 7.2.4 ।। Uttara Kanda,2,5,नानुकीर्त्या गुणास्तस्य धर्मतः शीलतस्तथा । प्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः ।। 7.2.5 ।। Uttara Kanda,2,6,प्रजापतिसुतत्वेन देवानां वल्लभो हि सः । हृष्टः सर्वस्य लोकस्य गुणैः शुभ्रैर्महामतिः ।। 7.2.6 ।। Uttara Kanda,2,7,स तु धर्मप्रसङ्गेन मेरोः पार्श्वे महागिरेः । तृणविन्द्वाश्रमं गत्वा न्यवसन्मुनिपुङ्गवः ।। 7.2.7 ।। Uttara Kanda,2,8,तपस्तेपे स धर्मात्मा स्वाध्यायनियतेन्द्रियः । गत्वाश्रमपदं तस्य विघ्नं कुर्वन्ति कन्यकाः ।। 7.2.8 ।। Uttara Kanda,2,9,देवपन्नगकन्याश्च राजर्षितनयाश्च याः । क्रीडन्त्यो ऽप्सरसश्चैव तं देशमुपपेदिरे ।। 7.2.9 ।। Uttara Kanda,2,10,सर्वर्तुषृपभोग्यत्वाद्रम्यत्वात्काननस्य च । नित्यशस्तास्तु तं देशं गत्वा क्रीडन्ति कन्यकाः ।। 7.2.10 ।। Uttara Kanda,2,11,देशस्य रमणीयत्वात्पुलस्त्यो यत्र स द्विजः । गायन्त्यो वादयन्त्यश्च लासयन्त्यस्तथैव च । मुनेस्तपस्विनस्तस्य विघ्नं चक्रुरनिन्दिताः ।। 7.2.11 ।। Uttara Kanda,2,12,अथ क्रुद्धो महातेजा व्याजहार महामुनिः । या मे दर्शनमागच्छेत्सा गर्भं धारयिष्यति ।। 7.2.12 ।। Uttara Kanda,2,13,तास्तु सर्वाः प्रतिश्रुत्य तस्य वाक्यं महात्मनः । ब्रह्मशापभयाद्भीतास्तं देशं नोपचक्रमुः ।। 7.2.13 ।। Uttara Kanda,2,14,तृणबिन्दोस्तु राजर्षेस्तनया न शृणोति तत् ।। 7.2.14 ।। Uttara Kanda,2,15,गत्वाश्रमपदं तत्र विचचार सुनिर्भया । न सापश्यत्स्थिता तत्र काञ्चिदभ्यागतां सखीम् ।। 7.2.15 ।। Uttara Kanda,2,16,तस्मिन्काले महातेजाः प्राजापत्यो महानृषिः । स्वाध्यायमकरोत्तत्र तपसा भावितः स्वयम् ।। 7.2.16 ।। Uttara Kanda,2,17,सा तु वेदश्रुतिं श्रुत्वा दृष्ट्वा वै तपसो निधिम् । अभवत्पाण्डुदेहा सा सुव्यञ्जितशरीरजा ।। 7.2.17 ।। Uttara Kanda,2,18,वभूव च समुद्विग्ना दृष्ट्वा तद्दोषमात्मनः । इदं मे किन्त्विति ज्ञात्वा पितुर्गत्वा ऽ ऽश्रमे स्थिता ।। 7.2.18 ।। Uttara Kanda,2,19,तां तु दृष्ट्वा तथाभूतां तृणविन्दुरथाब्रवीत् । किं त्वमेतत्त्वसदृशं धारयस्यात्मनो वपुः ।। 7.2.19 ।। Uttara Kanda,2,20,सा तु कृत्वाञ्जलिं दीना कन्योवाच तपोधनम् । न जाने कारणं तात येन मे रूपमीदृशम् ।। 7.2.20 ।। Uttara Kanda,2,21,किं तु पूर्वं गतास्म्येका महर्षेर्भावितात्मनः । पुलस्त्यस्याश्रमं दिव्यमन्वेष्टुं स्वसखीजनम् ।। 7.2.21 ।। Uttara Kanda,2,22,न च पश्याम्यहं तत्र काञ्चिदभ्यागतां सखीम् । रूपस्य तु विपर्यासं दृष्ट्वा त्रासादिहागता ।। 7.2.22 ।। Uttara Kanda,2,23,तृणबिन्दुस्तु राजर्षिस्तपसा द्योतितप्रभः । ध्यानं विवेश तच्चापि ह्यपश्यदृषिकर्मजम् ।। 7.2.23 ।। Uttara Kanda,2,24,स तु विज्ञाय तं शापं महर्षेर्भावितात्मनः । गृहीत्वा तनयां गत्वा पुलस्त्यमिदमब्रवीत् ।। 7.2.24 ।। Uttara Kanda,2,25,भगवंस्तनयां मे त्वं गुणैः स्वैरेव भूषिताम् । भिक्षां प्रतिगृहाणेमां महर्षे स्वयमुद्यताम् ।। 7.2.25 ।। Uttara Kanda,2,26,तपश्चरणयुक्तस्य श्रम्यमाणेन्द्रियस्य ते । शुश्रूषणपरा नित्यं भविष्यति न संशयः ।। 7.2.26 ।। Uttara Kanda,2,27,तं ब्रुवाणं तु तद्वाक्यं राजर्षिं धार्मिकं तदा । जिघृक्षुरब्रवीत्कन्यां बाढमित्येव स द्विजः ।। 7.2.27 ।। Uttara Kanda,2,28,दत्त्वा स तु यथान्यायं स्वमाश्रमपदं गतः । सापि तत्रावसत्कन्या तोषयन्ती पतिं गुणैः ।। 7.2.28 ।। Uttara Kanda,2,29,तस्यास्तु शीलवृत्ताभ्यां तुतोष मुनिपुङ्गवः । प्रीतः स तु महातेजा वाक्यमेतदुवाच ह ।। 7.2.29 ।। Uttara Kanda,2,30,परितुष्टो ऽस्मि सुश्रोणि गुणानां सम्पदा भृशम् । तस्माद्देवि ददाम्यद्य पुत्रमात्मसमं तव ।। 7.2.30 ।। Uttara Kanda,2,31,उभयोर्वंशकर्तारं पौलस्त्य इति विश्रुतम् । यस्मात्तु विश्रुतो वेदस्त्वयैषो ऽध्ययतो मम ।। 7.2.31 ।। Uttara Kanda,2,32,तस्मात्स विश्रवा नाम भविष्यति न संशयः । एवमुक्ता तु सा देवी प्रहृष्टेनान्तरात्मना ।। 7.2.32 ।। Uttara Kanda,2,33,अचिरेणैव कालेनासूत विश्रवसं सुतम् । त्रिषु लोकेषु विख्यातं यशोधर्मसमन्वितम् ।। 7.2.33 ।। Uttara Kanda,2,34,श्रुतिमान्समदर्शी च व्रताचाररतस्तथा । पितेव तपसा युक्तो ह्यभवद्विश्रवा मुनिः ।। 7.2.34 ।। Uttara Kanda,2,35,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्वितीयः सर्गः ।। 2 ।। Uttara Kanda,3,1,अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुङ्गवः । अचिरेणैव कालेन पितेव तपसि स्थितः ।। 7.3.1 ।। Uttara Kanda,3,2,सत्यवाञ्छीलवाञ्छान्तः स्वाध्यायनिरतः शुचिः । सर्वभोगेष्वसंसक्तो नित्यं धर्मपरायणः ।। 7.3.2 ।। Uttara Kanda,3,3,ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महामुनिः । ददौ विश्रवसे भार्यां स्वसुतां देववर्णिनीम् ।। 7.3.3 ।। Uttara Kanda,3,4,प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा । प्रजान्वेक्षिकया बुद्ध्या श्रेयो ह्यस्य विचिन्तयन् ।। 7.3.4 ।। Uttara Kanda,3,5,मुदा परमया युक्तो विश्रवा मुनिपुङ्गवः । स तस्यां वीर्यसम्पन्नमपत्यं परमाद्भुतम् ।। 7.3.5 ।। Uttara Kanda,3,6,जनयामास धर्मज्ञः सर्वैर्ब्रह्मगुणैर्युतम् । तस्मिञ्जाते तु संहृष्टः सम्बभूव पितामहः ।। 7.3.6 ।। Uttara Kanda,3,7,दृष्ट्वा श्रेयस्करीं बुद्धिं धनाध्यक्षो भविष्यति । नाम तस्याकरोत्प्रीतः सार्धं देवर्षिभिस्तदा ।। 7.3.7 ।। Uttara Kanda,3,8,यस्माद्विश्रवसो ऽपत्यं सादृश्याद्विश्रवा इव । तस्माद्वैश्रवणो नाम भविष्यत्वेष विश्रुतः ।। 7.3.8 ।। Uttara Kanda,3,9,स तु वैश्रवणस्तत्र तपोवनगतस्तदा । अवर्धताहुतिहुतो महातेजा यथानलः ।। 7.3.9 ।। Uttara Kanda,3,10,तस्याश्रमपदस्थस्य बुद्धिर्जज्ञे महात्मनः । चरिष्ये परमं धर्मं धर्मो हि परमा गतिः ।। 7.3.10 ।। Uttara Kanda,3,11,स तु वर्षसहस्राणि तपस्तप्त्वा महावने । यन्त्रितो नियमैरुग्रैश्चकार सुमहत्तपः ।। 7.3.11 ।। Uttara Kanda,3,12,पूर्णे वर्षसहस्रान्ते तं तं विधिमकल्पयत् । जलाशी मारुताहारो निराहारस्तथैव च ।। 7.3.12 ।। Uttara Kanda,3,13,एवं वर्षसहस्राणि जग्मुस्तान्येकवर्षवत् । अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सह ।। 7.3.13 ।। Uttara Kanda,3,14,गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यमब्रवीत् । परितुष्टो ऽस्मि ते वत्स कर्मणानेन सुव्रत । वरं वृणीष्व भद्रं ते वरार्हस्त्वं महामते ।। 7.3.14 ।। Uttara Kanda,3,15,अथाब्रवीद्वैश्रवणः पितामहमुपस्थितम् । भगवँल्लोकपालत्वमिच्छेयं वित्तरक्षणम् ।। 7.3.15 ।। Uttara Kanda,3,16,अथाब्रवीद्वैश्रवणं परितुष्टेन चेतसा । ब्रह्मा सुरगणैः सार्धं बाढमित्येव हृष्टवत् ।। 7.3.16 ।। Uttara Kanda,3,17,अहं वै लोकपालानां चतुर्थं स्रष्टुमुद्यतः ।। 7.3.17 ।। Uttara Kanda,3,18,यमेन्द्रवरुणानां च पदं यत्तव चेप्सितम् । तद्गच्छ त्वं हि धर्मज्ञ निधीशत्वमवाप्नुहि । शक्राम्बुपयमानां च चतुर्थस्त्वं भविष्यसि ।। 7.3.18 ।। Uttara Kanda,3,19,एतच्च पुष्पकं नाम विमानं सूर्यसन्निभम् । प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज ।। 7.3.19 ।। Uttara Kanda,3,20,स्वस्ति ते ऽस्तु गमिष्यामः सर्व एव यथागतम् । कृतकृत्या वयं तात दत्त्वा तव वरद्वयम् ।। 7.3.20 ।। Uttara Kanda,3,21,इत्युक्त्वा स गतो ब्रह्मा स्वस्थानं त्रिदशैः सह ।। 7.3.21 ।। Uttara Kanda,3,22,गतेषु ब्रह्मपूर्वेषु देवेष्वथ नभस्थलम् । वने स पितरं प्राह प्राञ्जलिः प्रयतात्मवान् । निवासनं न मे देवो विदधे स प्रजापतिः ।। 7.3.22 ।। Uttara Kanda,3,23,भगवँल्लब्धवानस्मि वरमिष्टं पितामहात् । तं पश्य भगवन्कञ्चिन्निवासं साधु मे प्रभो ।। 7.3.23 ।। Uttara Kanda,3,24,न च पीडा भवेद्यत्र प्राणिनो यस्य कस्यचित् । एवमुक्तस्तु पुत्रेण विश्रवा मुनिपुङ्गवः ।। 7.3.24 ।। Uttara Kanda,3,25,वचनं प्राह धर्मज्ञः श्रूयतामिति सत्तमः । दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः ।। 7.3.25 ।। Uttara Kanda,3,26,तस्याग्रे तु विशाला सा महेन्द्रस्य पुरी यथा । लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा ।। 7.3.26 ।। Uttara Kanda,3,27,राक्षसानां निवासार्थं यथेन्द्रस्यामरावती । तत्र त्वं वस भद्रं ते लङ्कायां नात्र संशयः ।। 7.3.27 ।। Uttara Kanda,3,28,हेमप्राकारपरिघा यन्त्रशस्त्रसमावृता । रमणीया पुरी सा हि रुक्मवैडूर्यतोरणा ।। 7.3.28 ।। Uttara Kanda,3,29,राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः । शून्या रक्षोगणैः सर्वै रसातलतलं गतैः ।। 7.3.29 ।। Uttara Kanda,3,30,शून्या सम्प्रति लङ्का सा प्रभुस्तस्या न विद्यते । स त्वं तत्र निवासाय गच्छ पुत्र यथासुखम् ।। 7.3.30 ।। Uttara Kanda,3,31,निर्दोषस्तत्र ते वासो न बाधास्तत्र कस्यचित् । एतच्छुत्वा स धर्मात्मा धर्मिष्ठं वचनं पितुः ।। 7.3.31 ।। Uttara Kanda,3,32,निवासयामास तदा लङ्कां पर्वतमूर्धनि । नैर्ऋतानां सहस्रैस्तु हृष्टैः प्रमुदुतैः सह ।। 7.3.32 ।। Uttara Kanda,3,33,अचिरेणैव कालेन सम्पूर्णा तस्य शासनात् ।। 7.3.33 ।। Uttara Kanda,3,34,स तु तत्रावसत्प्रीतो धर्मात्मा नैर्ऋतर्षभः । समुद्रपरिघायां तु लङ्कायां विश्रवात्मजः ।। 7.3.34 ।। Uttara Kanda,3,35,काले काले तु धर्मात्मा पुष्पकेण धनेश्वरः । अभ्यागच्छद्विनीतात्मा पितरं मातरं च हि ।। 7.3.35 ।। Uttara Kanda,3,36,स देवगन्धर्वगणैरभिष्टुतस्तथाप्सरोनृत्यविभूषितालयः । गभस्तिभिः सूर्य इवावभासयन्पितुः समीपं प्रययौ स वित्तपः ।। 7.3.36 ।। Uttara Kanda,3,37,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे तृतीयः सर्गः ।। 3 ।। Uttara Kanda,4,1,श्रुत्वागस्त्येरितं वाक्यं रामो विस्मयमागतः । कथमासीत्तु लङ्कायां सम्भवो रक्षसां पुरा ।। 7.4.1 ।। Uttara Kanda,4,2,ततः शिरः कम्पयित्वा त्रेताग्निसमविग्रहम् । तमगस्त्यं मुहुर्दृष्ट्वा स्मयमानो ऽभ्यभाषत ।। 7.4.2 ।। Uttara Kanda,4,3,भगवन्पूर्वमप्येषा लङ्कासीत्पिशिताशिनाम् । श्रुत्वेदं भगवद्वाक्यं जातो मे विस्मयः परः ।। 7.4.3 ।। Uttara Kanda,4,4,पुलस्त्यवंशादुद्भूता राक्षसा इति नः श्रुतम् । इदानीमन्यतश्चापि सम्भवः कीर्तितस्त्वया ।। 7.4.4 ।। Uttara Kanda,4,5,रावणात्कुम्भकर्णाच्च प्रहस्ताद्विकटादपि । रावणस्य च पुत्रेभ्यः किं नु ते बलवत्तराः ।। 7.4.5 ।। Uttara Kanda,4,6,क एषां पूर्वको ब्रह्मन्किन्नामा च बलोत्कटः । अपराधं च कं प्राप्य विष्णुना द्राविताः कथम् ।। 7.4.6 ।। Uttara Kanda,4,7,एतद्विस्तरतः सर्वं कथयस्व ममानघ । कुतूहलमिदं मह्यं नुद भानुर्यथा तमः ।। 7.4.7 ।। Uttara Kanda,4,8,राघवस्य वचः श्रुत्वा संस्कारालङ्कृतं शुभम् । ईषद्विस्मयमानस्तमगस्त्यः प्राह राघवम् ।। 7.4.8 ।। Uttara Kanda,4,9,प्रजापतिः पुरा सृष्ट्वा ह्यपः सलिलसम्भवः । तासां गोपायने सत्त्वानसृजत्पद्मसम्भवः ।। 7.4.9 ।। Uttara Kanda,4,10,ते सत्त्वाः सत्त्वकर्तारं विनीतवदुपस्थिताः । किं कुर्म इति भाषन्तः क्षुत्पिपासाभयार्दिताः ।। 7.4.10 ।। Uttara Kanda,4,11,प्रजापतिस्तु तान्याह सत्वानि प्रहसन्निव । आभाष्य वाचा यत्नेन रक्षध्वमिति मानदः ।। 7.4.11 ।। Uttara Kanda,4,12,रक्षामेति च तत्रान्ये जक्षाम इति चापरे । भुक्षिताभुक्षितैरुक्तस्ततस्तानाह भूतकृत् ।। 7.4.12 ।। Uttara Kanda,4,13,रक्षामेति च यैरुक्तं राक्षसास्ते भवन्तु वः । जक्षाम इति यैरुक्तं यक्षा एव भवन्तु वः ।। 7.4.13 ।। Uttara Kanda,4,14,तत्र हेतिः प्रहेतिश्च भ्रातरौ राक्षसाधिपौ । मधुकैटभसङ्काशौ बभूवतुररिन्दमौ ।। 7.4.14 ।। Uttara Kanda,4,15,प्रहेतिर्धार्मिकस्तत्र तपोवनगतस्तदा । हेतिर्दारक्रियार्थे तु परं यत्नमथाकरोत् ।। 7.4.15 ।। Uttara Kanda,4,16,स कालभगिनीं कन्यां भयां नाम भयावहाम् । उदावहदमेयात्मा स्वयमेव महामतिः ।। 7.4.16 ।। Uttara Kanda,4,17,स तस्यां जनयामास हेती राक्षसपुङ्गवः । पुत्रं पुत्रवतां श्रेष्ठो विद्युत्केश इति श्रुतम् ।। 7.4.17 ।। Uttara Kanda,4,18,विद्युत्केशो हेतिपुत्रः स दीप्तार्कसमप्रभः । व्यवर्धत महातेजास्तोयमध्य इवाम्बुदः ।। 7.4.18 ।। Uttara Kanda,4,19,स यदा यौवनं भद्रमनुप्राप्तो निशाचरः । ततो दारक्रियां तस्य कर्तुं व्यवसितः पिता ।। 7.4.19 ।। Uttara Kanda,4,20,सन्ध्यायास्तनयां सो ऽथ सन्ध्यातुल्यां प्रभावतः । वरयामास पुत्रार्थं हेती राक्षसपुङ्गवः ।। 7.4.20 ।। Uttara Kanda,4,21,अवश्यमेव दातव्या परस्मै सेति सन्ध्यया । चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव ।। 7.4.21 ।। Uttara Kanda,4,22,सन्ध्यायास्तनयां लब्ध्वा विद्युत्केशो निशाचरः । रमते स्म तया सार्धं पौलोम्या मघवानिव ।। 7.4.22 ।। Uttara Kanda,4,23,केनचित्त्वथ कालेन राम सालकटङ्कटा । विद्युत्केशाद्गर्भमाप घनराजिरिवार्णवात् ।। 7.4.23 ।। Uttara Kanda,4,24,ततः सा राक्षसी गर्भं घनगर्भसमप्रभम् । प्रसूता मन्दरं गत्वा गङ्गा गर्भमिवाग्निजम् ।। 7.4.24 ।। Uttara Kanda,4,25,समुत्सृज्य तु सा गर्भं विद्युत्केशरतार्थिनी । रेमे तु सार्धं पतिना विस्मृत्य सुतमात्मजम् ।। 7.4.25 ।। Uttara Kanda,4,26,उत्सृष्टस्तु तदा गर्भो घनशब्दसमस्वनः । तयोत्सृष्टः स तु शिशुः शरदर्कसमद्युतिः । निधायास्ये स्वयं मुष्टिं रुरोद शनकैस्तदा ।। 7.4.26 ।। Uttara Kanda,4,27,ततो वृषभमास्थाय पार्वत्या सहितः शिवः । वायुमार्गेण गच्छन्वै शुश्राव रुदितस्वनम् ।। 7.4.27 ।। Uttara Kanda,4,28,अपश्यदुमया सार्धं रुदन्तं राक्षसात्मजम् । कारुण्यभावात्पार्वत्या भवस्त्रिपुरसूदनः ।। 7.4.28 ।। Uttara Kanda,4,29,तं राक्षसात्मजं चक्रे मातुरेव वयःसमम् । अमरं चैव तं कृत्वा महादेवो ऽक्षरो ऽव्ययः ।। 7.4.29 ।। Uttara Kanda,4,30,पुरमाकाशगं प्रादात्पार्वत्याः प्रियकाम्यया । उमयापि वरो दत्तो राक्षसानां नृपात्मज ।। 7.4.30 ।। Uttara Kanda,4,31,सद्योपलब्धिर्गर्भस्य प्रसूतिः सद्य एव च । सद्य एव वयःप्राप्तिर्मातुरेव वयस्समम् ।। 7.4.31 ।। Uttara Kanda,4,32,ततः सुकेशो वरदानगर्वितः श्रियं प्रभोः प्राप्य हरस्य पार्श्वतः । चचार सर्वत्र महान्महामतिः खगं पुरं प्राप्य पुरन्दरो यथा ।। 7.4.32 ।। Uttara Kanda,4,33,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुर्थः सर्गः ।। 4 ।। Uttara Kanda,5,1,सुकेशं धार्मिकं दृष्ट्वा वरलब्धं च राक्षसम् । ग्रामणीर्नाम गन्धर्वो विश्वावसुसमप्रभः ।। 7.5.1 ।। Uttara Kanda,5,2,तस्य देववती नाम द्वितीया श्रीरिवात्मजा । त्रिषु लोकेषु विख्याता रूपयौवनशालिनी । तां सुकेशाय धर्मेण ददौ रक्षःश्रियं यथा ।। 7.5.2 ।। Uttara Kanda,5,3,वरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम् । आसीद्देववती तुष्टा धनं प्राप्येव निर्धनः ।। 7.5.3 ।। Uttara Kanda,5,4,स तया सह संयुक्तो रराज रजनीचरः । अञ्जनादभिनिष्क्रान्तः करेण्वेव महागजः ।। 7.5.4 ।। Uttara Kanda,5,5,देववत्यां सुकेशस्तु जनयामास राघव ।। 7.5.5 ।। Uttara Kanda,5,6,त्रीन् पुत्रान् जनयामास त्रेताग्निसमविग्रहान् । माल्यवन्तं सुमालिं च मालिं च बलिनां वरम् । त्रींस्त्रिनेत्रसमान्पुत्रान्राक्षसान्राक्षसाधिपः ।। 7.5.6 ।। Uttara Kanda,5,7,त्रयो लोका इवाव्यग्राः स्थितास्त्रय इवाग्नयः । त्रयो मन्त्रा इवात्युग्रास्त्रयो घोरा इवामयाः ।। 7.5.7 ।। Uttara Kanda,5,8,त्रयः सुकेशस्य सुतास्त्रेताग्निसमतेजसः । विवृद्धिमगमंस्तत्र व्याधयोपेक्षिता इव ।। 7.5.8 ।। Uttara Kanda,5,9,वरप्राप्तिं पितुस्ते तु ज्ञात्वेश्वरतपोबलात् । तपस्तप्तुं गता मेरुं भ्रातरः कृतनिश्चयाः ।। 7.5.9 ।। Uttara Kanda,5,10,प्रगृह्य नियमान्घोरान्राक्षसा नृपसत्तम । विचेरुस्ते तपो घोरं सर्वभूतभयावहम् ।। 7.5.10 ।। Uttara Kanda,5,11,सत्यार्जवशमोपेतैस्तपोभिरतिदुष्करैः । सन्तापयन्तस्त्रील्लोँकान्सदेवासुरमानुषान् ।। 7.5.11 ।। Uttara Kanda,5,12,ततो विभुश्चतुर्वक्त्रो विमानवरमास्थितः । सुकेशपुत्रानामन्त्र्य वरदो ऽस्मीत्यभाषत ।। 7.5.12 ।। Uttara Kanda,5,13,ब्रह्माणं वरदं ज्ञात्वा सेन्द्रैर्देवगणैर्वृतम् । ऊचुः प्राञ्जलयः सर्वे वेपमाना इव द्रुमाः ।। 7.5.13 ।। Uttara Kanda,5,14,तपसाराधितो देव यदि नो दिशसे वरम् । अजेयाः शत्रुहन्तारस्तथैव चिरजीविनः ।। 7.5.14 ।। Uttara Kanda,5,15,प्रभविष्ण्वो भवामेति परस्परमनुव्रताः ।। 7.5.15 ।। Uttara Kanda,5,16,एवं भविष्यतीत्युक्त्वा सुकेशतनयान्विभुः । स ययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः ।। 7.5.16 ।। Uttara Kanda,5,17,वरं लब्ध्वा तु ते सर्वे राम रात्रिञ्चरास्तदा । सुरासुरान्प्रबाधन्ते वरदानसुनिर्भयाः ।। 7.5.17 ।। Uttara Kanda,5,18,तैर्वध्यमानास्त्रिदशाः सर्षिसङ्घाः सचारणाः । त्रातारं नाधिगच्छन्ति निरयस्था यथा नराः ।। 7.5.18 ।। Uttara Kanda,5,19,अथ ते विश्वकर्माणं शिल्पिनां वरमव्ययम् । ऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम ।। 7.5.19 ।। Uttara Kanda,5,20,ओजस्तेजोबलवतां महतामात्मतेजसा । गृहकर्ता भवानेव देवानां हृदयेप्सितम् ।। 7.5.20 ।। Uttara Kanda,5,21,अस्माकमपि तावत्त्वं गृहं कुरु महामते । हिमवन्तमपाश्रित्य मेरुमन्दरमेव वा । महेश्वरगृहप्रख्यं गृहं नः क्रियतां महत् ।। 7.5.21 ।। Uttara Kanda,5,22,विश्वकर्मा ततस्तेषां राक्षसानां महाभुजः । निवासं कथयामास शक्रस्येवामरावतीम् ।। 7.5.22 ।। Uttara Kanda,5,23,दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः । सुवेल इति चाप्यन्यो द्वितीयस्तत्र सत्तमाः ।। 7.5.23 ।। Uttara Kanda,5,24,शिखरे तस्य शैलस्य मध्यमे ऽम्बुदसन्निभे । शकुनैरपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि ।। 7.5.24 ।। Uttara Kanda,5,25,त्रिंशद्योजनक्स्तीर्णा शतयोजनमायता । स्वर्णप्राकारसंवीता हेमतोरणसंवृता ।। 7.5.25 ।। Uttara Kanda,5,26,मया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता । तस्यां वसत दुर्धर्षा यूयं राक्षसपुङ्गवाः ।। 7.5.26 ।। Uttara Kanda,5,27,अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः । लङ्कादुर्गं समासाद्य राक्षसैर्बहुभिर्वृताः ।। 7.5.27 ।। Uttara Kanda,5,28,भविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः ।। 7.5.28 ।। Uttara Kanda,5,29,विश्वकर्मवचः श्रुत्वा ततस्ते राक्षसोत्तमाः । सहस्रानुचरा भूत्वा गत्वा तामवसन्पुरीम् ।। 7.5.29 ।। Uttara Kanda,5,30,दृढप्राकारपरिखां हैमैर्गृहशतैर्वृताम् । लङ्कामवाप्य ते हृष्टा न्यवसन्रजनीचराः ।। 7.5.30 ।। Uttara Kanda,5,31,एतस्मिन्नेव काले तु यथाकामं च राघव । नर्मदा नाम गन्धर्वी बभूव रघुनन्दन ।। 7.5.31 ।। Uttara Kanda,5,32,तस्याः कान्यात्रयं ह्यासीत् धीश्रीकिर्तिसमद्युति । ज्येष्ठक्रमेण सा तेषां राक्षसानामराक्षसी ।। 7.5.32 ।। Uttara Kanda,5,33,कन्यास्ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः । त्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः ।। 7.5.33 ।। Uttara Kanda,5,34,दत्ता मात्रा महाभागा नक्षत्रे भगदैवते । कुतदारास्तु ते राम सुकेशतनयास्तदा ।। 7.5.34 ।। Uttara Kanda,5,35,चिक्रीडुः सह भार्याभिरप्सरोभिरिवामराः । ततो माल्यवतो भार्या सुन्दरी नाम सुन्दरी ।। 7.5.35 ।। Uttara Kanda,5,36,स तस्यां जनयामास यदपत्यं निबोध तत् । वज्रमुष्टिर्विरूपाक्षोदुर्मुखश्चैव राक्षसः ।। 7.5.36 ।। Uttara Kanda,5,37,सुप्तघ्नो यज्ञकोपश्च मत्तोन्मत्तौ तथैव च । अनला चाभवत्कन्या सुन्दर्यां राम सुन्दरी ।। 7.5.37 ।। Uttara Kanda,5,38,सुमालिनो ऽपि भार्यासीत्पूर्णचद्रनिभानना । नाम्ना केतुमती राम प्राणेभ्यो ऽपि गरीयसी ।। 7.5.38 ।। Uttara Kanda,5,39,सुमाली जनयामास यदपत्यं निशाचरः । केतुमत्यां महाराज तन्निबोधानुपूर्वशः ।। 7.5.39 ।। Uttara Kanda,5,40,प्रहस्तो ऽकम्पनश्चैव विकटः कालकार्मुखः । धूम्राक्षश्चैव दण्डश्च सुपार्श्वश्च महाबलः ।। 7.5.40 ।। Uttara Kanda,5,41,संह्रादिः प्रघसश्चैव भासकर्णश्च राक्षसः । राका पुष्पोत्कटा चैव कैकसी च शुचिस्मिता ।। कुम्भीनसी च इत्येते सुमालेः प्रसवाः स्मृताः ।। 7.5.41 ।। Uttara Kanda,5,42,कुम्भीनसी च इत्येते सुमालेः प्रसवाः स्मृताः ।। 7.5.41 ।। Uttara Kanda,5,43,मालेस्तु वसुधा नाम गन्धर्वी रूपशालिनी । भार्यासीत्पद्मपत्राक्षी स्वक्षी यक्षीवरोपमा ।। 7.5.42 ।। Uttara Kanda,5,44,सुमालेरनुजस्तस्यां जनयामास यत् प्रभो । अपत्यं कथ्यमानं तु मया त्वं शृणु राघव ।। 7.5.43 ।। Uttara Kanda,5,45,अनिलश्चानलश्चैव हरः सम्पातिरेव च । एते विभीषणामात्या मालेयास्तु निशाचरः ।। 7.5.44 ।। Uttara Kanda,5,46,ततस्तु ते राक्षसपुङ्गवास्त्रयो निशाचरैः पुत्रशतैश्च संवृताः । सुरान्सहेन्द्रानृषिनागयक्षान्बबाधिरे तान्बहुवीर्यदर्पिताः ।। 7.5.45 ।। Uttara Kanda,5,47,जगद्भ्रमन्तो ऽनिलवद्दुरासदा रणेषु मृत्युप्रतिमानतेजसः । वरप्रदानादतिगर्विता भृशं क्रतुक्रियाणां प्रशमङ्कराः सदा ।। 7.5.46 ।। Uttara Kanda,5,48,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चमः सर्गः ।। 5 ।। Uttara Kanda,6,1,तैर्वध्यमाना देवाश्च ऋषयश्च तपोधनाः । भयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम् ।। 7.6.1 ।। Uttara Kanda,6,2,जगत्सृष्ट्यन्तकर्तारमजमव्यक्तरूपिणम् । आधारं सर्वलोकानामाराध्यं परमं गुरुम् ।। 7.6.2 ।। Uttara Kanda,6,3,ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम् । ऊचुः प्राञ्जलयो देवा भयगद्गदभाषिणः ।। 7.6.3 ।। Uttara Kanda,6,4,सुकेशपुत्रैर्भगवन्पितामहवरोद्धतैः । प्रजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुबाधनैः ।। 7.6.4 ।। Uttara Kanda,6,5,शरण्यान्यशरण्यानि ह्याश्रमाणि कृतानि नः । स्वर्गाच्च देवान्प्रच्याव्य स्वर्गे क्रीडन्ति देववत् ।। 7.6.5 ।। Uttara Kanda,6,6,अहं विष्णुरहं रुद्रो ब्रह्माहं देवराडहम् । अहं यमश्च वरुणश्चन्द्रो ऽहं रविरप्यहम् ।। 7.6.6 ।। Uttara Kanda,6,7,इति माली सुमाली च माल्यवांश्चैव राक्षसाः । बाधन्ते समरोद्धर्षा ये च तेषां पुरःसराः । तन्नो देव भयार्तानामभयं दातुमर्हसि ।। 7.6.7 ।। Uttara Kanda,6,8,अशिवं वपुरास्थाय जहि वै देवकण्टकान् ।। 7.6.8 ।। Uttara Kanda,6,9,धन्ते समरोद्धर्षा ये च तेषां पुरःसराः । इत्युक्तस्तु सुरैः सर्वैः कपर्दी नीललोहितः । सुकेशं प्रति सापेक्षः प्राह देवगणान्प्रभुः ।। 7.6.9 ।। Uttara Kanda,6,10,अहं तान्न हनिष्यामि मयावध्या हि ते सुराः । किं तु मन्त्रं प्रदास्यामि यो वै तान्निहनिष्यति ।। 7.6.10 ।। Uttara Kanda,6,11,एतमेव समुद्योगं पुरस्कृत्य महर्षयः । गच्छध्वं शरणं विष्णुं हनिष्यति स तान्प्रभुः ।। 7.6.11 ।। Uttara Kanda,6,12,ततस्तु जयशब्देन प्रतिनन्द्य महेश्वरम् । विष्णोः समीपमाजग्मुर्निशाचरभयार्दिताः ।। 7.6.12 ।। Uttara Kanda,6,13,शङ्खचक्रधरं देवं प्रणम्य बहुमान्य च । ऊचुः सम्भ्रान्तवद्वाक्यं सुकेशतनयान्प्रति ।। 7.6.13 ।। Uttara Kanda,6,14,सुकेशतनयैर्देव त्रिभिस्त्रेताग्निसन्निभैः । आक्रम्य वरदानेन स्थानान्यपहृतानि नः ।। 7.6.14 ।। Uttara Kanda,6,15,लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थिता । तत्र स्थिताः प्रबाधन्ते सर्वान्नः क्षणदाचराः ।। 7.6.15 ।। Uttara Kanda,6,16,स त्वमस्मद्धितार्थाय जहि तान्मधुसूदन । शरणं त्वां वयं प्राप्ता गतिर्भव सुरेश्वर ।। 7.6.16 ।। Uttara Kanda,6,17,चक्रकृत्तास्यकमलान्निवेदय यमाय वै । भयेष्वभयदो ऽस्माकं नान्यो ऽस्ति भवता विना ।। 7.6.17 ।। Uttara Kanda,6,18,राक्षसान्समरे दुष्टान्सानुबन्धान्मदोद्धतान् । नुदं त्वं नो भयं देव नीहारमिव भास्करः ।। 7.6.18 ।। Uttara Kanda,6,19,इत्येवं दैवतैरुक्तो देवदेवो जनार्दनः । अभयं भयदो ऽरीणां दत्त्वा देवानुवाच ह ।। 7.6.19 ।। Uttara Kanda,6,20,सुकेशं राक्षसं जाने ईशानवरदर्पितम् । तांश्चास्य तनयाञ्जाने येषां ज्येष्ठः स माल्यवान् ।। 7.6.20 ।। Uttara Kanda,6,21,तानहं समतिक्रान्तमर्यादान्राक्षसाधमान् । निहनिष्यामि सङ्क्रुद्धः सुरा भवत विज्वराः ।। 7.6.21 ।। Uttara Kanda,6,22,इत्युक्तास्ते सुराः सर्वे विष्णुना प्रभविष्णुना । यथावासं ययुर्हृष्टाः प्रशंसन्तो जनार्दनम् ।। 7.6.22 ।। Uttara Kanda,6,23,विबुधानां समुद्योगं माल्यवांस्तु निशाचरः । श्रुत्वा तौ भ्रातरौ वीराविदं वचनमब्रवीत् ।। 7.6.23 ।। Uttara Kanda,6,24,अमरा ऋषयश्चैव सङ्गम्य किल शकरम् । अस्मद्वधं परीप्सन्त इदं वचनमब्रुवन् ।। 7.6.24 ।। Uttara Kanda,6,25,सुकेशतनया देव वरदानबलोद्धताः । बाधन्ते ऽस्मान्समुद्दृप्ता घोररूपाः पदे पदे ।। 7.6.25 ।। Uttara Kanda,6,26,राक्षसैरभिभूताः स्म न शक्ताः स्म प्रजापते । स्वेषु सद्मसु संस्थातुं भयात्तेषां दुरात्मनाम् ।। 7.6.26 ।। Uttara Kanda,6,27,तदस्माकं हितार्थाय जहि तांश्च त्रिलोचन । राक्षसान्हुङ्कृतेनैव दह प्रदहतां वर ।। 7.6.27 ।। Uttara Kanda,6,28,इत्येवं त्रिदशैरुक्तो निशम्यान्धकसूदनः । शिरः करं च धुन्वान इदं वचनमब्रवीत् ।। 7.6.28 ।। Uttara Kanda,6,29,अवध्या मम ते देवाः सुकेशतनया रणे । मन्त्रं तु वः प्रदास्यामि यस्तान्वै निहनिष्यति ।। 7.6.29 ।। Uttara Kanda,6,30,यो ऽसौ चक्रगदापाणिः पीतवासा जनार्दनः । हरिर्नारायणः श्रीमान् शरणं तं प्रपद्यथ ।। 7.6.30 ।। Uttara Kanda,6,31,हरादवाप्य ते मन्त्रं कामारिमभिवाद्य च । नारायणालयं प्राप्य तस्मै सर्वं न्यवेदयन् ।। 7.6.31 ।। Uttara Kanda,6,32,ततो नारायणेनोक्ता देवा इन्द्रपुरोगमाः । सुरारींस्तान्हनिष्यामि सुरा भवत विज्वराः ।। 7.6.32 ।। Uttara Kanda,6,33,देवानां भयभीतानां हरिणा राक्षसर्षभौ । प्रतिज्ञातो वधो ऽस्माकं चिन्त्यतां यदिह क्षमम् ।। 7.6.33 ।। Uttara Kanda,6,34,हिरण्यकशिपोर्मृत्युरन्येषां च सुरद्विषाम् । नमुचिः कालनेमिश्च संह्रादो वीरसत्तमः ।। 7.6.34 ।। Uttara Kanda,6,35,राधेयो बहुमायी च लोकपालो ऽथ धार्मिकः । यमलार्जुनौ च हार्दिक्यः शुम्भश्चैव निशुम्भकः ।। 7.6.35 ।। Uttara Kanda,6,36,असुरा दानवाश्चैव सत्त्ववन्तो महाबलाः । सर्वे समरमासाद्य न श्रूयन्ते ऽपराजिताः ।। 7.6.36 ।। Uttara Kanda,6,37,सर्वैः क्रतुशतैरिष्टं सर्वे मायाविदस्तथा । सर्वे सर्वास्त्रकुशलाः सर्वे शत्रुभयङ्कराः ।। 7.6.37 ।। Uttara Kanda,6,38,नारायणेन निहताः शतशो ऽथ सहस्रशः । एतज्ज्ञात्वा तु सर्वेषां क्षमं कर्तुमिहार्हथ ।। 7.6.38 ।। Uttara Kanda,6,39,ततः सुमाली माली च श्रुत्वा माल्यवतो वचः । ऊचतुर्भ्रातरं ज्येष्ठं भगांशाविव वासवम् ।। 7.6.39 ।। Uttara Kanda,6,40,स्वधीतं दत्तमिष्टं चाप्यैश्वर्यं परिपालितम् । आयुर्निरामयं प्राप्तं सुधर्मः प्रापितः पथि ।। 7.6.40 ।। Uttara Kanda,6,41,देवसागरमक्षोभ्यं शस्त्रैः समवगाह्य च । जिता द्विषो ह्यप्रतिमास्तन्नो मृत्युकृतं भयम् ।। 7.6.41 ।। Uttara Kanda,6,42,नारायणश्च रुद्रश्च शक्रश्चापि यमस्तथा । अस्माकं प्रमुखे स्थातुं सर्वे बिभ्यति सर्वदा ।। 7.6.42 ।। Uttara Kanda,6,43,विष्णोर्देवस्य नास्त्येव कारणं राक्षसेश्वर । देवानामेव दोषेण विष्णोः प्रचलितं मनः ।। 7.6.43 ।। Uttara Kanda,6,44,तस्मादद्य समुद्युक्ताः सर्वसैन्यसमावृताः । देवानेव जिघांसाम एभ्यो दोषः समुत्थितः ।। 7.6.44 ।। Uttara Kanda,6,45,एवं सम्मन्त्र्य बलिनः सर्वे सैन्यसमावृताः । उद्योगं घोषयित्वा तु सर्वे नैर्ऋतपुङ्गवाः ।। युद्धाय निर्ययुः क्रुद्धा जम्भवृत्रबला इव ।। 7.6.45 ।। Uttara Kanda,6,46,इति ते राम सम्मन्त्र्य सर्वोद्योगेन राक्षसाः । युद्धाय निर्ययुः सर्वे महाकाया महाबलाः ।। 7.6.46 ।। Uttara Kanda,6,47,स्यन्दनैर्वारणैश्चैव हयैश्च गिरिसन्निभैः । खरैर्गोभी रथोष्ट्रैश्च शिंशुमारैर्भुजङ्गमैः ।। 7.6.47 ।। Uttara Kanda,6,48,मकरैः कच्छपैर्मीनैर्विहङ्गैर्गरुडोपमैः । सिंहैर्व्याघ्रैर्वराहैश्च सृमरैश्चमरैरपि ।। 7.6.48 ।। Uttara Kanda,6,49,त्यक्त्वा लङ्कां गताः सर्वे राक्षसा बलगर्विताः । प्रयाता देवलोकाय योद्धुं दैवतशत्रवः ।। 7.6.49 ।। Uttara Kanda,6,50,लङ्काविपर्ययं दृष्ट्वा यानि लङ्कालयान्यथ । भूतानि भयदर्शीनि विमनस्कानि सर्वशः ।। 7.6.50 ।। Uttara Kanda,6,51,रथोत्तमैरुह्यमानाः शतशो ऽथ सहस्रशः ।। 7.6.51 ।। Uttara Kanda,6,52,प्रयाता राक्षसास्तूर्णं देवलोकं प्रयत्नतः । रक्षसामेव मार्गेण दैवतान्यपचक्रमुः ।। 7.6.52 ।। Uttara Kanda,6,53,भौमाश्चैवान्तरिक्षाश्च कालाज्ञप्ता भयावहाः । उत्पाता राक्षसेन्द्राणामभावाय समुत्थिताः ।। 7.6.53 ।। Uttara Kanda,6,54,अस्थीनि मेघा ववृषुरुष्णं शोणितमेव च । वेलां समुद्राश्चोत्क्रान्ताश्चेलुश्चाप्यथ भूधराः ।। 7.6.54 ।। Uttara Kanda,6,55,अट्टहासान्विमुञ्चन्तो घननादसमस्वनाः । वाश्यन्त्यश्च शिवास्तत्र दारुणं घोरदर्शनाः ।। 7.6.55 ।। Uttara Kanda,6,56,सम्पतन्त्यथ भूतानि दृश्यन्ते च यथाक्रमम् । गृध्रचक्रं महच्चात्र ज्वलनोद्गारिभिर्मुखैः ।। 7.6.56 ।। Uttara Kanda,6,57,राक्षसानामुपरि खे भ्रमते ऽलातचक्रवत् । कपोता रक्तपादाश्च शारिका विद्रुता ययुः ।। काका वाश्यन्ति तत्रैव बिडाला वै द्विपादयः ।। 7.6.57 ।। Uttara Kanda,6,58,उत्पातांस्ताननादृत्य राक्षसा बलगर्विताः । यान्त्येव न निवर्त्तन्ते मृत्युपाशावपाशिताः ।। 7.6.58 ।। Uttara Kanda,6,59,माल्यवांश्च सुमाली च माली च सुमहाबलाः । आसन्पुरःसरास्तेषां क्रतूनामिव पावकाः ।। 7.6.59 ।। Uttara Kanda,6,60,माल्यवन्तं च ते सर्वे माल्यवन्तमिवाचलम् । निशाचरा ह्याश्रयन्ति धातारमिव देवताः ।। 7.6.60 ।। Uttara Kanda,6,61,तद्बलं राक्षसेन्द्राणां महाभ्रघननादितम् । जयेप्सया देवलोकं ययौ मालिवशे स्थितम् ।। 7.6.61 ।। Uttara Kanda,6,62,राक्षसानां समुद्योगं तं तु नारायणः प्रभुः । देवदूतादुपश्रुत्य चक्रे युद्धे तदा मनः ।। 7.6.62 ।। Uttara Kanda,6,63,स सज्जायुधतूणीरो वैनतेयोपरि स्थितः । आसज्ज्य कवचं दिव्यं सहस्रार्कसमद्युति ।। 7.6.63 ।। Uttara Kanda,6,64,आबध्य शरसम्पूर्णे इषुधी विमले तदा । श्रोणिसूत्रं च खड्गं च विमलं कमलेक्षणः ।। शङ्खचक्रगदाशार्ङ्गखड्गाख्यप्रवरायुधान् ।। 7.6.64 ।। Uttara Kanda,6,65,सुपर्णं गिरिसङ्काशं वैनतेयमथास्थितः । राक्षसानामभावाय ययौ तूर्णतरं प्रभुः ।। 7.6.65 ।। Uttara Kanda,6,66,सुपर्णपृष्ठे स बभौ श्यामः पीताम्बरो हरिः । काञ्चनस्य गिरेः शृङ्गे सतडित्तोयदो यथा ।। 7.6.66 ।। Uttara Kanda,6,67,स सिद्धदेवर्षिमहोरगैश्च गन्धर्वयक्षैरुपगीयमानः । समाससादासुरसैन्यशत्रूंश्चक्रासिशार्ङ्गायुधशङ्खपाणिः ।। 7.6.67 ।। Uttara Kanda,6,68,सुपर्णपक्षानिलनुन्नपक्षं भ्रमत्पताकं प्रविकीर्णशस्त्रम् । चचाल तद्राक्षसराजसैन्यं चलोपलं नील इवाचलेन्द्रः ।। 7.6.68 ।। Uttara Kanda,6,69,ततः शरैः शोणितमांसरूषितैर्युगान्तवैश्वानरतुल्यविग्रहैः । निशाचराः सम्परिवार्य माधवं वरायुधैर्निर्बिभिदुः सहस्रशः ।। 7.6.69 ।। Uttara Kanda,6,70,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षष्ठः सर्गः ।। 6 ।। Uttara Kanda,7,1,नारायणगिरिं ते तु गर्जन्तो राक्षसाम्बुदाः । ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ।। 7.7.1 ।। Uttara Kanda,7,2,श्यामावदातस्तैर्विष्णुर्नीलैर्नक्तञ्चरोत्तमैः । वृतो ऽञ्जनगिरीवासीत् वर्षमाणैः पयोधरैः ।। 7.7.2 ।। Uttara Kanda,7,3,शलभा इव केदारं मशका इव पर्वतम् । यथामृतघटं दंशा मकरा इव चार्णवम् ।। 7.7.3 ।। Uttara Kanda,7,4,तथा रक्षोधनुर्मुक्ता वज्रानिलमनोजवाः । हरिं विशन्ति स्म शरा लोका इव विपर्यये ।। 7.7.4 ।। Uttara Kanda,7,5,स्यन्दनैः स्यन्दनगता गजैश्च गजपृष्ठगाः । अश्वारोहास्तथाश्वैश्च पादाताश्चाम्बरे स्थिताः ।। 7.7.5 ।। Uttara Kanda,7,6,राक्षसेन्द्रा गिरिनिभाः शरैः शक्त्यृष्टितोमरैः । निरुछ्वासं हरिं चक्रुः प्राणायामा इव द्विजम् ।। 7.7.6 ।। Uttara Kanda,7,7,निशाचरैस्ताड्यमानो मीनैरिव महोदधिः । शार्ङ्गमायम्य दुर्धर्षो राक्षसेभ्यो ऽसृजच्छरान् ।। 7.7.7 ।। Uttara Kanda,7,8,शरैः पूर्णायतोत्सृष्टैर्वज्रवक्त्रैर्मनोजवैः । चिच्छेद विष्णुर्निशितैः शतशो ऽथ सहस्रशः ।। 7.7.8 ।। Uttara Kanda,7,9,विद्राव्य शरवर्षेण वर्षा वायुरिवोत्थितम् । पाञ्चजन्यं महाशङ्खं प्रदध्मौ पुरुषोत्तमः ।। 7.7.9 ।। Uttara Kanda,7,10,सो ऽम्बुजो हरिणा ध्मातः सर्वप्राणेन शङ्खराट् । ररास भीमनिर्हादस्त्रैलोक्यं व्यथयन्निव ।। 7.7.10 ।। Uttara Kanda,7,11,शङ्खराजरवः सो ऽथ त्रासयामास राक्षसान् । मृगराज इवारण्ये समदानिव कुञ्जरान् ।। 7.7.11 ।। Uttara Kanda,7,12,न शेकुरश्वाः संस्थातुं विमदाः कुञ्जराभवन् । स्यन्दनेभ्यश्च्युता वीराः शङ्खरावितदुर्बलाः ।। 7.7.12 ।। Uttara Kanda,7,13,शार्ङ्गचापविनिर्मुक्ता वज्रतुल्याननाः शराः । विदार्य तानि रक्षांसि सुपुङ्खा विविशुः क्षितिम् ।। 7.7.13 ।। Uttara Kanda,7,14,भिद्यमानाः शरैः सङ्ख्ये नारायणकरच्युतैः । निपेतू राक्षसा भूमौ शैला वज्रहता इव ।। 7.7.14 ।। Uttara Kanda,7,15,व्रणानि परगात्रेभ्यो विष्णुचक्रकृतानि वै । असृक्क्षरन्ति धाराभिः स्वर्णधारा इवाचलाः ।। 7.7.15 ।। Uttara Kanda,7,16,शङ्खराजरवश्चापि शार्ङ्गचापरस्वस्तथा । राक्षसानां रवांश्चापि ग्रसते वैष्णवो रवः ।। 7.7.16 ।। Uttara Kanda,7,17,तेषां शिरोधरान्धूताञ्छरध्वजधनूंषि च । रथान्पताकास्तूणीरांश्चिच्छेद स हरिः शरैः ।। 7.7.17 ।। Uttara Kanda,7,18,सूर्यादिव करा घोरा ऊर्मयः सागरादिव । पर्वतादिव नागेन्द्रा धारौघा इव चाम्बुदात् ।। 7.7.18 ।। Uttara Kanda,7,19,तथा शार्ङ्गविनिर्मुक्ताः शरा नारायणेरिताः । निर्धावन्तीषवस्तूर्णं शतशोथ सहस्रशः ।। 7.7.19 ।। Uttara Kanda,7,20,शरभेण यथा सिंहाः सिंहेन द्विरदा यथा । द्विरदेन यथा व्याघ्रा व्याघ्रेण द्वीपिनो यथा ।। 7.7.20 ।। Uttara Kanda,7,21,द्वीपिनेव यथा श्वानः शुना मार्जारका यथा । मार्जारेण यथा सर्पाः सर्पेण च यथा ऽ ऽखवः ।। 7.7.21 ।। Uttara Kanda,7,22,तथा ते राक्षसाः सर्वे विष्णुना प्रभविष्णुना । द्रवन्ति द्राविताश्चन्ये शायिताश्च महीतले ।। 7.7.22 ।। Uttara Kanda,7,23,राक्षसानां सहस्राणि निहत्य मधुसूदनः । वारिजं पूरयामास तोयदं सुरराडिव ।। 7.7.23 ।। Uttara Kanda,7,24,नारायणशरत्रस्तं शङ्खनादसुविह्वलम् । ययौ लङ्कामभिमुखं प्रभग्नं राक्षसं बलम् ।। 7.7.24 ।। Uttara Kanda,7,25,प्रभग्ने राक्षसबले नारायणशराहते । सुमाली शरवर्षेण निववार रणे हरिम् ।। 7.7.25 ।। Uttara Kanda,7,26,स तु तं छादयामास नीहार इव भास्करम् । राक्षसाः सत्त्वसम्पन्नाः पुनर्धैर्यं समादधुः ।। 7.7.26 ।। Uttara Kanda,7,27,अथ सो ऽभ्यपतद्रोषाद्राक्षसो बलदर्पितः । महानादं प्रकुर्वाणो राक्षसाञ्जीवयन्निव ।। 7.7.27 ।। Uttara Kanda,7,28,उत्क्षिप्य लम्बाभरणं धुन्वन्करमिव द्विपः । ररास राक्षसो हर्षात्सतडित्तोयदो यथा ।। 7.7.28 ।। Uttara Kanda,7,29,सुमालेर्नर्दतस्तस्य शिरो ज्वलितकुण्डलम् । चिच्छेद यन्तुरश्वाश्च भ्रान्तास्तस्य तु रक्षसः ।। 7.7.29 ।। Uttara Kanda,7,30,तैरश्वैर्भ्राम्यते भ्रान्तैः सुमाली राक्षसेश्वरः । इन्द्रियाश्वैः परिभ्रान्तैर्धृतिहीनो यथा नरः ।। 7.7.30 ।। Uttara Kanda,7,31,ततो विष्णुं महाबाहुं प्रपतन्तं रणाजिरे । हृते सुमालेरश्वैश्च रथे विष्णुरथं प्रति ।। 7.7.31 ।। Uttara Kanda,7,32,माली चाभ्यद्रवद्युक्तः प्रगृह्य सशरं धनुः । मालेर्धनुश्च्युता बाणाः कार्तस्वरविभूषिताः । विविशुर्हरिमासाद्य क्रौञ्चं पत्ररथा इव ।। 7.7.32 ।। Uttara Kanda,7,33,अर्द्यमानः शरैः सो ऽथ मालिमुक्तैः सहस्रशः । चुक्षुभे न रणे विष्णुर्जितेन्द्रिय इवाधिभिः ।। 7.7.33 ।। Uttara Kanda,7,34,अथ मौर्वीस्वनं कृत्वा भगवान्भूतभावनः । मालिनं प्रति बाणौघान्ससर्जारिनिषूदनः ।। 7.7.34 ।। Uttara Kanda,7,35,ते मालिदेहमासाद्य वज्रविद्युत्प्रभाः शराः । पिबन्ति रुधिरं तस्य नागा इव सुधारसम् ।। 7.7.35 ।। Uttara Kanda,7,36,मालिनं विमुखं कृत्वा शङ्खचक्रगदाधरः । मालिमौलिं ध्वजं चापं वाजिनश्चाप्यपातयत् ।। 7.7.36 ।। Uttara Kanda,7,37,विरथस्तु गदां गृह्य माली नक्तञ्चरोत्तमः । आपुप्लुवे गदापाणिर्गिर्यग्रादिव केसरी ।। 7.7.37 ।। Uttara Kanda,7,38,गदया गरुडेशानमीशानमिव चान्तकः । ललाटदेशे ऽभ्यहनद्वज्रेणेन्द्रो यथा ऽचलम् ।। 7.7.38 ।। Uttara Kanda,7,39,गदयाभिहतस्तेन मालिना गरुडो भृशम् । रणात्पराङ्मुखं देवं कृतवान्वेदनातुरः ।। 7.7.39 ।। Uttara Kanda,7,40,पराङ्मुखे कृते देवे मालिना गरुडेन वै । उदतिष्ठन्महाञ्छब्दो रक्षसामभिनर्दताम् ।। 7.7.40 ।। Uttara Kanda,7,41,रक्षसां रवतां रावं श्रुत्वा हरिहयानुजः ।। 7.7.41 ।। Uttara Kanda,7,42,तिर्यगास्थाय सङ्क्रुद्धः पक्षीशे भगवान्हरिः । पराङ्मुखो ऽप्युत्ससर्ज मालेश्चक्रं जिघांसया ।। 7.7.42 ।। Uttara Kanda,7,43,तत्सूर्यमण्डलाभासं स्वभासा भासयन्नभः । कालचक्रनिभं चक्रं मालेः शीर्षमपातयत् ।। 7.7.43 ।। Uttara Kanda,7,44,तच्छिरो राक्षसेन्द्रस्य चक्रोत्कृत्तं बिभीषणम् । पपात रुधिरोद्गारि पुरा राहुशिरो यथा ।। 7.7.44 ।। Uttara Kanda,7,45,ततः सुरैः संसहृष्टैः सर्वप्राणसमीरितः । सिंहनादरवोन्मुक्तः साधु देवेतिवादिभिः ।। 7.7.45 ।। Uttara Kanda,7,46,मालिनं निहतं दृष्ट्वा सुमाली माल्यवानपि । सबलौ शोकसन्तप्तौ लङ्कामेव प्रधावितौ ।। 7.7.46 ।। Uttara Kanda,7,47,गरुडस्तु समाश्वस्तः सन्निवृत्य यथा पुरा । राक्षसान्द्रावयामास पक्षवातेन कोपितः ।। 7.7.47 ।। Uttara Kanda,7,48,चक्रकृत्तास्यकमला गदासञ्चूर्णितोरसः । लाङ्गलग्लपितग्रीवा मुसलैर्भिन्नमस्तकाः ।। 7.7.48 ।। Uttara Kanda,7,49,केचिच्चैवासिना छिन्नास्तथान्ये शरपीडिताः । निपेतुरम्बरात्तूर्णं राक्षसाः सागराम्भसि ।। 7.7.49 ।। Uttara Kanda,7,50,नारायणो बाणवराशनीभिर्विदारयामास धनुर्विमुक्तैः । नक्तञ्चरान्मुक्तविधूतकेशान्यथा ऽशनीभिः सतडिन्महाभ्राः ।। 7.7.50 ।। Uttara Kanda,7,51,भिन्नातपत्रं पतमानमस्त्रं शरैरपध्वस्तविनीतवेषम् । विनिस्सृतान्त्रं भयलोलनेत्रं बलं तदुन्मत्ततरं बभूव ।। 7.7.51 ।। Uttara Kanda,7,52,सिंहार्दितानामिव कुञ्जराणां निशाचराणां सह कुञ्जराणाम् । रवाश्च वेगाश्च समं बभूवुः पुराणसिंहेन विमर्दितानाम् ।। 7.7.52 ।। Uttara Kanda,7,53,ते वार्यमाणा हरिबाणजालैः सबाणजालानि समुत्सृजन्तः । धावन्ति नक्तञ्चरकालमेघा वायुप्रभिन्ना इव कालमेघाः ।। 7.7.53 ।। Uttara Kanda,7,54,चक्रपहारैर्विनिकृत्तशीर्षाः सञ्चूर्णिताङ्गाश्च गदाप्रहारैः । अभिप्रहारैर्द्विविधा विभिन्नाः पतन्ति शैला इव राक्षसेन्द्राः ।। 7.7.54 ।। Uttara Kanda,7,55,विलम्बमानैर्मणिहारकुण्डलैर्निशाचरैर्नीलबलाहकोपमैः । निपात्यमानैर्ददृशे निरन्तरं निपात्यमानैरिव नीलपर्वतैः ।। 7.7.55 ।। Uttara Kanda,7,56,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तमः सर्गः ।। 7 ।। Uttara Kanda,8,1,हन्यमाने बले तस्मिन्पद्मनाभेन पृष्ठतः । माल्वान्सन्निवृत्तो ऽथ वेलामेत्य इवार्णवः ।। 7.8.1 ।। Uttara Kanda,8,2,संरक्तनयनः कोपाच्चलन्मौलिर्निशाचरः । पद्मनाभमिदं प्राह वचनं पुरुषोत्तमम् ।। 7.8.2 ।। Uttara Kanda,8,3,नारायण न जानीषे क्षात्रधर्मं पुरातनम् । अयुद्धमनसो भीतानस्मान्हंसि यथेतरः ।। 7.8.3 ।। Uttara Kanda,8,4,पराङ्मुखवधं पापं यः करोत्यसुरेतरः । स हन्ता न गतः स्वर्गं लभते पुण्यकर्मणाम् ।। 7.8.4 ।। Uttara Kanda,8,5,युद्धश्रद्धा ऽथवा ते ऽस्ति शङ्खचक्रगदाधर । 4अहं स्थितो ऽस्मि पश्यामि बलं दर्शय यत्तव ।। 7.8.5 ।। Uttara Kanda,8,6,माल्यवन्तं स्थितं दृष्ट्वा माल्यवन्तमिवाचलम् । उवाच राक्षसेन्द्रं तं देवराजानुजो बली ।। 7.8.6 ।। Uttara Kanda,8,7,युष्मत्तो भयभीतानां देवानां वै मया ऽभयम् । राक्षसोत्सादनं दत्तं तदेतदनुपाल्यते ।। 7.8.7 ।। Uttara Kanda,8,8,प्राणैरपि प्रियं कार्यं देवानां हि सदा मया । सो ऽहं वो निहनिष्यामि रसातलगतानपि ।। 7.8.8 ।। Uttara Kanda,8,9,देवदेवं ब्रुवाणं तं रक्ताम्बुरुहलोचनम् । शक्त्या बिभेद सङ्क्रुद्धो राक्षसेन्द्रो भुजान्तरे ।। 7.8.9 ।। Uttara Kanda,8,10,माल्यवद्भुजनिर्मुक्ता शक्तिर्घण्टाकृतस्वना । हरेरुरसि बभ्राज मेघस्थेव शतह्रदा ।। 7.8.10 ।। Uttara Kanda,8,11,ततस्तामेव चोत्कृष्य शक्तिं शक्तिधरप्रियः । माल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः ।। 7.8.11 ।। Uttara Kanda,8,12,स्कन्दोत्सृष्टेव सा शक्तिर्गोविन्दकरनिस्सृता । काङ्क्षन्ती राक्षसं प्रायान्माहेन्द्रीवाञ्जनाचलम् ।। 7.8.12 ।। Uttara Kanda,8,13,सा तस्योरसि विस्तीर्णे हारभारा ऽवभासिते । अपतद्राक्षसेन्द्रस्य गिरिकूट इवाशनिः ।। 7.8.13 ।। Uttara Kanda,8,14,तया भिन्नतनुत्राणः प्राविशद्विपुलं तमः । माल्यवान्पुनराश्वस्तस्तस्थौ गिरिरिवाचलः ।। 7.8.14 ।। Uttara Kanda,8,15,ततः कार्ष्णायसं शूलं कण्टकैर्बहुभिर्वतम् । प्रगृह्याभ्यहनद्देवं स्तनयोरन्तरे दृढम् ।। 7.8.15 ।। Uttara Kanda,8,16,तथैव रणरक्तस्तु मुष्टिना वासवानुजम् । ताडयित्वा धनुर्मात्रमपक्रान्तो निशाचरः ।। 7.8.16 ।। Uttara Kanda,8,17,ततो ऽम्बरे महाञ्छब्दः साधुसाध्विति चोदितः । आहत्य राक्षसो विष्णुं गरुडं चाप्यताडयत् ।। 7.8.17 ।। Uttara Kanda,8,18,वैनतेयस्ततः क्रुद्धः पक्षवातेन राक्षसम् । व्यपोहद्बलवान्वायुः शुष्कपर्णचयं यथा ।। 7.8.18 ।। Uttara Kanda,8,19,द्विजेन्द्रपक्षवातेन द्रावितं दृश्य पूर्वजम् । सुमाली स्वबलैः सार्धं लङ्कामभिमुखो ययौ ।। 7.8.19 ।। Uttara Kanda,8,20,पक्षवातबलोद्धूतो माल्यवानपि राक्षसः । स्वबलेन समागम्य ययौ लङ्कां ह्रिया वृतः ।। 7.8.20 ।। Uttara Kanda,8,21,एवं ते राक्षसा तेन हरिणा कमलेक्षण । बहुशः संयुगे भग्ना हतप्रवरनायकाः ।। 7.8.21 ।। Uttara Kanda,8,22,अशक्नुवन्तस्ते विष्णुं प्रतियोद्धुं भयार्दिताः । त्यक्त्वा लङ्कां गता वस्तुं पातालं सहपत्नयः ।। 7.8.22 ।। Uttara Kanda,8,23,सुमालिनं समासाद्य राक्षसं रघुसत्तम । स्थिताः प्रख्यातवीर्यास्ते वंशे सालकटङ्कटे ।। 7.8.23 ।। Uttara Kanda,8,24,ये त्वया निहतास्ते तु पौलस्त्या नाम राक्षसाः । सुमाली माल्यवान्माली ये च तेषां पुरःसराः ।। Uttara Kanda,8,25,सर्वे तेभ्यो महाभागा रावणाद्बलवत्तराः ।। 7.8.24 ।। Uttara Kanda,8,26,न चान्यो राक्षसान्हन्ता सुरारीन्देवकण्टकान् । ऋते नारायणं देवं शङ्खचक्रगदाधरम् ।। 7.8.25 ।। Uttara Kanda,8,27,भवान्नारायणो देवश्चतुर्बाहुः सनातनः । राक्षसान्हन्तुमुत्पन्नो ह्यजेयः प्रभुरव्ययः ।। 7.8.26 ।। Uttara Kanda,8,28,नष्टधर्मव्यवस्थाता काले काले प्रजाकरः । उत्पद्यते दस्युवधे शरणागतवत्सलः ।। 7.8.27 ।। Uttara Kanda,8,29,एषा मया तव नराधिप राक्षसानामुत्पत्तिरद्य कथिता सकला यथावत् । भूयो निबोध रघुसत्तम रावणस्य जन्मप्रभावमतुलं ससुतस्य सर्वम् ।। 7.8.28 ।। Uttara Kanda,8,30,चिरात्सुमाली व्यचरद्रसातलं स राक्षसो विष्णुभयार्दितस्तदा । पुत्रैश्च पौत्रैश्च समन्वितो बली ततस्तु लङ्कामवसद्धनेश्वरः ।। 7.8.29 ।। Uttara Kanda,8,31,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टमः सर्गः ।। 8 ।। Uttara Kanda,9,1,कस्यचित्त्वथ कालस्य सुमाली नाम राक्षसः । रसातलान्मर्त्यलोकं सर्वं वै विचचार ह ।। 7.9.1 ।। Uttara Kanda,9,2,नीलजीमूतसङ्काशस्तप्तकाञ्चनकुण्डलः । कन्यां दुहितरं गृह्य विना पद्ममिव श्रियम् ।। 7.9.2 ।। Uttara Kanda,9,3,राक्षसेन्द्रः स तु तदा विचरन्वै महीतलम् । तदापश्यत्स गच्छन्तं पुष्पकेण धनेश्वरम् ।। 7.9.3 ।। Uttara Kanda,9,4,गच्छन्तं पितरं द्रष्टुं पुलस्त्यतनयं विभुम् । तं दृष्ट्वा ऽमरसङ्काशं स्वच्छन्दं तपनोपमम् ।। 7.9.4 ।। Uttara Kanda,9,5,रसातलं प्रविष्टः सन्मर्त्यलोकात्सविस्मयः । इत्येवं चिन्तयामास राक्षसानां महामतिः ।। 7.9.5 ।। Uttara Kanda,9,6,किं कृतं श्रेय इत्येवं वर्धेमहि कथं वयम् । अथाब्रवीत्सुतां रक्षः कैकसीं नाम नामतः ।। 7.9.6 ।। Uttara Kanda,9,7,पुत्रि प्रदानकालो ऽयं यौवनं व्यतिवर्तते । प्रत्याख्यानाच्च भीतैस्त्वं न वरैः प्रतिगृह्यसे ।। 7.9.7 ।। Uttara Kanda,9,8,त्वत्कृते च वयं सर्वे यन्त्रिता धर्मबुद्धयः । त्वं हि सर्वगुणोपेता श्रीः साक्षादिव पुत्रिके । कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ।। 7.9.8 ।। Uttara Kanda,9,9,न ज्ञायते च कः कन्यां वरयेदिति कन्यके ।। 7.9.9 ।। Uttara Kanda,9,10,त्वं हि सर्वगुणोपेता श्रीः साक्षादिव पुत्रिके । मातुः कुलं पितृकुलं यत्र चैव प्रदीयते । कुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति ।। 7.9.10 ।। Uttara Kanda,9,11,सा त्वं मुनिवरं श्रेष्ठं प्रजापतिकुलोद्भवम् । भज विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम् ।। 7.9.11 ।। Uttara Kanda,9,12,ईदृशास्ते भविष्यन्ति पुत्राः पुत्रि न संशयः । तेजसा भास्करसमो यादृशो ऽयं धनेश्वरः ।। 7.9.12 ।। Uttara Kanda,9,13,सा तु तद्वचनं श्रुत्वा कन्यका पितृगौरवात् । तत्रोपागम्य सा तस्थौ विश्रवा यत्र तप्यते ।। 7.9.13 ।। Uttara Kanda,9,14,एतस्मिन्नन्तरे राम पुलस्त्यतनयो द्विजः । अग्निहोत्रमुपातिष्ठच्चतुर्थ इव पावकः ।। 7.9.14 ।। Uttara Kanda,9,15,अविचिन्त्य तु तां वेलां दारुणां पितृगौरवात् । उपसृत्याग्रतस्तस्य चरणाधोमुखी स्थिता । विलिखन्ती मुहुर्भूमिमङ्गुष्ठाग्रेण भामिनी ।। 7.9.15 ।। Uttara Kanda,9,16,स तु तां वीक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम् । अब्रवीत्परमोदारो दीप्यमानां स्वतेजसा ।। 7.9.16 ।। Uttara Kanda,9,17,भद्रे कस्यासि दुहिता कुतो वा त्वमिहागता । किं कार्यं कस्य वा हेतोस्तत्त्वतो ब्रूहि शोभने ।। 7.9.17 ।। Uttara Kanda,9,18,एवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत् । आत्मप्रभावेण मुने ज्ञातुमर्हसि मे मतम् ।। 7.9.18 ।। Uttara Kanda,9,19,किं तु मां विद्धि ब्रह्मर्षे शासनात्पितुरागताम् । कैकसी नाम नाम्नाहं शेषं त्वं ज्ञातुमर्हसि ।। 7.9.19 ।। Uttara Kanda,9,20,स तु गत्वा मुनिर्ध्यानं वाक्यमेतदुवाच ह । विज्ञातं ते मया भद्रे कारणं यन्मनोगतम् ।। 7.9.20 ।। Uttara Kanda,9,21,सुताभिलाषो मत्तस्ते मत्तमातङ्गगामिनि । दारुणायां तु वेलायां यस्मात्त्वं मामुपस्थिता ।। 7.9.21 ।। Uttara Kanda,9,22,शृणु तस्मात्सुतान्भद्रे यादृशाञ्जनयिष्यसि । दारुणान्दारुणाकारान्दारुणाभिजनप्रियान् ।। 7.9.22 ।। Uttara Kanda,9,23,प्रसविष्यसि सुश्रोणि राक्षसान्क्रूरकर्मणः । सा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद्वचः ।। 7.9.23 ।। Uttara Kanda,9,24,भगवन्नीदृशान्पुत्रांस्त्वत्तो ऽहं ब्रह्मवादिनः । नेच्छामि सुदुराचारान्प्रसादं कर्तुमर्हसि ।। 7.9.24 ।। Uttara Kanda,9,25,कन्यया त्वेवमुक्तस्तु विश्रवा मुनिपुङ्गवः । उवाच कैकसीं भूयः पूर्णेन्दुरिव रोहिणीम् ।। 7.9.25 ।। Uttara Kanda,9,26,पश्चिमो यस्तव सुतो भविष्यति शुभानने । मम वंशानुरूपः स धर्मात्मा च भविष्यति ।। 7.9.26 ।। Uttara Kanda,9,27,एवमुक्ता तु सा कन्या राम कालेन केनचित् । जनयामास बीभत्सं रक्षोरूपं सुदारुणम् ।। 7.9.27 ।। Uttara Kanda,9,28,दशग्रीवं महादंष्ट्रं नीलाञ्जनचयोपमम् । ताम्रोष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम् ।। 7.9.28 ।। Uttara Kanda,9,29,तस्मिञ्जाते तु तत्काले सज्वालकवलाः शिवाः । क्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रमुः ।। 7.9.29 ।। Uttara Kanda,9,30,ववर्ष रुधिरं देवो मेघाश्च खरनिःस्वनाः । प्रबभौ न च सूर्यो वै महोल्काश्चापतन्भुवि ।। 7.9.30 ।। Uttara Kanda,9,31,चकम्पे जगती चैव ववुर्वाताः सुदारुणाः । अक्षोभ्यः क्षुभितश्चैव समुद्रः सरितां पतिः ।। 7.9.31 ।। Uttara Kanda,9,32,अथ नामाकरोत्तस्य पितामहसमः पिता । दशग्रीवः प्रसूतो ऽयं दशग्रीवो भविष्यति ।। 7.9.32 ।। Uttara Kanda,9,33,तस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः । प्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते ।। 7.9.33 ।। Uttara Kanda,9,34,ततः शूर्पणखा नाम सञ्जज्ञे विकृतानना । विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः ।। 7.9.34 ।। Uttara Kanda,9,35,तस्मिञ्जाते महासत्त्वे पुष्पवर्षं पपात ह ।। 7.9.35 ।। Uttara Kanda,9,36,नभःस्थाने दुन्दुभयो देवानां प्राणदंस्तदा । वाक्यं चैवान्तरिक्षे च साधु साध्विति तत्तदा ।। 7.9.36 ।। Uttara Kanda,9,37,तौ तु तत्र महारण्ये ववृधाते महौजसौ । कुम्भकर्णदशग्रीवौ लोकोद्वेगकरौ तदा ।। 7.9.37 ।। Uttara Kanda,9,38,कुम्भकर्णः प्रमत्तस्तु महर्षीन्धर्मवत्सलान् । त्रैलोक्यं भक्षयन्नित्यासन्तुष्टो विचचार ह ।। 7.9.38 ।। Uttara Kanda,9,39,विभीषणस्तु धर्मात्मा नित्यं धर्मे व्यवस्थितः । स्वाध्यायनियताहार उवास विजितेन्द्रियः ।। 7.9.39 ।। Uttara Kanda,9,40,अथ वैश्रवणो देवस्तत्र कालेन केनचित् । आगतः पितरं द्रष्टुं पुष्पकेण धनेश्वरः ।। 7.9.40 ।। Uttara Kanda,9,41,तं दृष्ट्वा कैकसी तत्र ज्वलन्तमिव तेजसा । आगम्य राक्षसी तत्र दशग्रीवमुवाच ह ।। 7.9.41 ।। Uttara Kanda,9,42,पुत्र वैश्रवणं पश्य भ्रातरं तेजसा वृतम् । भ्रातृभावे समे चापि पश्यात्मानं त्वमीदृशम् ।। 7.9.42 ।। Uttara Kanda,9,43,दशग्रीव तथा यत्नं कुरुष्वामितविक्रम । यथा त्वमसि मे पुत्र भव र्वैश्रवणोपमः ।। 7.9.43 ।। Uttara Kanda,9,44,मातुस्तद्वचनं श्रुत्वा दशग्रीवः प्रतापवान् । अमर्षमतुलं लेभे प्रतिज्ञां चाकरोत्तदा ।। 7.9.44 ।। Uttara Kanda,9,45,सत्यं ते प्रतिजानामि भ्रातृतुल्यो ऽधिको ऽपि वा । भविष्याम्योजसा चैव सन्तापं त्यज हृद्गतम् ।। 7.9.45 ।। Uttara Kanda,9,46,ततस्तेनैव कोपेन दशग्रीवः सहानुजः । चिकीर्षुर्दुष्करं कर्म तपसे धृतमानसः ।। 7.9.46 ।। Uttara Kanda,9,47,प्राप्स्यामि तपसा काममिति कृत्वा ऽध्यवस्य च । आगच्छदात्मसिद्ध्यर्थं गोकर्णस्याश्रमं शुभम् ।। 7.9.47 ।। Uttara Kanda,9,48,स राक्षसस्तत्र सहानुजस्तदा तपश्चकारातुलमुग्रविक्रमः । अतोषयच्चापि पितामहं विभुं ददौ स तुष्टश्च वराञ्जयावहान् ।। 7.9.48 ।। Uttara Kanda,9,49,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे नवमः सर्गः ।। 9 ।। Uttara Kanda,10,1,अथाब्रवीन्मुनिं रामः कथं ते भ्रातरो वने । कीदृशं तु तदा ब्रह्मंस्तपस्तेपुर्महाबलाः ।। 7.10.1 ।। Uttara Kanda,10,2,अगस्त्यस्त्वब्रवीत्तत्र रामं सुप्रीतमानसम् । तांस्तान्धर्मविधींस्तत्र भ्रातरस्ते समाविशन् ।। 7.10.2 ।। Uttara Kanda,10,3,कुम्भकर्णस्ततो यत्तो नित्यं धर्मपथे स्थितः । तताप ग्रीष्मकाले तु पञ्चाग्नीन्परितः स्थितः ।। 7.10.3 ।। Uttara Kanda,10,4,मेघाम्बुसिक्तो वर्षासु वीरासनमसेवत । नित्यं च शिशिरे काले जलमध्यप्रतिश्रयः ।। 7.10.4 ।। Uttara Kanda,10,5,एवं वर्षसहस्राणि दश तस्यातिचक्रमुः । धर्मे प्रयतमानस्य सत्पथे निष्ठितस्य च ।। 7.10.5 ।। Uttara Kanda,10,6,विभीषणस्तु धर्मात्मा नित्यं धर्मपरः शुचिः । पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान् ।। 7.10.6 ।। Uttara Kanda,10,7,समाप्ते नियमे तस्य ननृतुश्चाप्सरोगणाः । पपात पुष्पवर्षं च क्षुभिताश्चापि देवताः ।। 7.10.7 ।। Uttara Kanda,10,8,पञ्चवर्षसहस्राणि सूर्यं चैवान्ववर्तत । तस्थौ चोर्ध्वशिरोबाहुः स्वाध्यायधृतमानसः ।। 7.10.8 ।। Uttara Kanda,10,9,एवं विभीषणस्यापि स्वर्गस्थस्येव नन्दने । दशवर्षसहस्राणि गतानि नियतात्मनः ।। 7.10.9 ।। Uttara Kanda,10,10,दशवर्षसहस्रं तु निराहारो दशाननः । पूर्णे वर्षसहस्रे तु शिरश्चाग्नौ जुहाव सः ।। 7.10.10 ।। Uttara Kanda,10,11,एवं वर्षसहस्राणि नव तस्यातिचक्रमुः । शिरांसि नव चाप्यस्य प्रविष्टानि हुताशनम् ।। 7.10.11 ।। Uttara Kanda,10,12,अथ वर्षसहस्रे तु दशमे दशमं शिरः । छेत्तुकामे दशग्रीवे प्राप्तस्तत्र पितामहः ।। 7.10.12 ।। Uttara Kanda,10,13,पितामहस्तु सुप्रीतः सार्धं देवैरुपस्थितः । तव तावद्दशग्रीव प्रीतो ऽस्मीत्यभ्यभाषत ।। 7.10.13 ।। Uttara Kanda,10,14,शीघ्रं वरय धर्मज्ञ वरो यस्ते ऽभिकाङ्क्षितः । कं ते कामं करोम्यद्य न वृथा ते परिश्रमः ।। 7.10.14 ।। Uttara Kanda,10,15,अथाब्रवीदृशग्रीवः प्रहृष्टेनान्तरात्मना । प्रणम्य शिरसा देवं हर्षगद्गदया गिरा ।। 7.10.15 ।। Uttara Kanda,10,16,भगवन्प्राणिनां नित्यं नान्यत्र मरणाद्भयम् । नास्ति मृत्युसमः शत्रुरमरत्वमहं वृणे ।। 7.10.16 ।। Uttara Kanda,10,17,एवमुक्तस्तदा ब्रह्मा दशग्रीवमुवाच ह । नास्ति सर्वामरत्वं ते वरमन्यं वृणीष्व मे ।। 7.10.17 ।। Uttara Kanda,10,18,एवमुक्ते तदा राम ब्रह्मणा लोककर्तृणा । दशग्रीव उवाचेदं कृताञ्जलिरथाग्रतः ।। 7.10.18 ।। Uttara Kanda,10,19,सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् । अवध्यो ऽहं प्रजाध्यक्ष देवतानां च शाश्वत ।। 7.10.19 ।। Uttara Kanda,10,20,नहि चिन्ता ममान्येषु प्राणिष्वमरपूजित । तृणभूता हि ते मन्ये प्राणिनो मानुषादयः ।। 7.10.20 ।। Uttara Kanda,10,21,एवमुक्तस्तु धर्मात्मा दशग्रीवेण रक्षसा । उवाच वचनं देवः सह देवैः पितामहः ।। 7.10.21 ।। Uttara Kanda,10,22,भविष्यत्येवमेतत्ते वचो राक्षसपुङ्गव । एवमुक्त्वा तु तं राम दशग्रीवं पितामहः ।। 7.10.22 ।। Uttara Kanda,10,23,शृणु चापि वरो भूयः प्रीतस्येह शुभो मम । हुतानि यानि शीर्षाणि पूर्वमग्नौ त्वयानघ ।। 7.10.23 ।। Uttara Kanda,10,24,पुनस्तानि भविष्यन्ति तथैव तव राक्षस । वितरामीह ते सौम्य वरं चान्यं दुरासदम् ।। 7.10.24 ।। Uttara Kanda,10,25,छन्दतस्तव रूपं च मनसा यद्यथेप्सितम् । भविष्यति न सन्देहो मद्वरात्तवराक्षस ।। 7.10.25 ।। Uttara Kanda,10,26,एवं पितामहोक्तस्य दशग्रीवस्य रक्षसः । अग्नौ हुतानि शीर्षाणि पुनस्तान्युत्थितानि वै ।। 7.10.26 ।। Uttara Kanda,10,27,एवमुक्त्वा तु तं राम दशग्रीवं पितामहः । विभीषणमथोवाच वाक्यं लोकपितामहः ।। 7.10.27 ।। Uttara Kanda,10,28,विभीषण त्वया वत्स धर्मसंहितबुद्धिना । परितुष्टो ऽस्मि धर्मात्मन्वरं वरय सुव्रत ।। 7.10.28 ।। Uttara Kanda,10,29,विभीषणस्तु धर्मात्मा वचनं प्राह साञ्जलिः । वृतः सर्वगुणैर्नित्यं चन्द्रमा रश्मिभिर्यथा ।। 7.10.29 ।। Uttara Kanda,10,30,भगवन्कृतकृत्यो ऽहं यन्मे लोकगुरुः स्वयम् । प्रीतेन यदि दातव्यो वरो मे शृणु सुव्रत ।। 7.10.30 ।। Uttara Kanda,10,31,परमापद्गतस्यापि धर्मे मम मतिर्भवेत् । अशिक्षितं च ब्रह्मास्त्रं भगवन्प्रतिभातु मे ।। 7.10.31 ।। Uttara Kanda,10,32,या या मे जायते बुद्धिर्येषु येष्वाश्रमेषु च । सा सा भवतु धर्मिष्ठा तं तु धर्मं च पालये ।। 7.10.32 ।। Uttara Kanda,10,33,एष मे परमोदार वरः परमको मतः । नहि धर्माभिरक्तानां लोके किञ्चन दुर्लभम् ।। 7.10.33 ।। Uttara Kanda,10,34,पुनः प्रजापतिः प्रीतो विभीषणमुवाच ह । धर्मिष्ठस्त्वं यथा वत्स तथा चैतद्भविष्यति ।। 7.10.34 ।। Uttara Kanda,10,35,यस्माद्राक्षसयोनौ ते जातस्यामित्रनाशन । नाधर्मे जायते बुद्धिरमरत्वं ददामि ते ।। 7.10.35 ।। Uttara Kanda,10,36,इत्युक्त्वा कुम्भकर्णाय वरं दातुमुपस्थितम् । प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयो ऽब्रुवन् ।। 7.10.36 ।। Uttara Kanda,10,37,न तावत्कुम्भकर्णाय प्रदातव्यो वरस्त्वया । जानीषे हि यथा लोकांस्त्रासयत्येष दुर्मतिः ।। 7.10.37 ।। Uttara Kanda,10,38,नन्दने ऽप्सरसः सप्त महेन्द्रानुचरा दश । अनेन भक्षिता ब्रह्मन्नृषयो मानुषास्तथा ।। 7.10.38 ।। Uttara Kanda,10,39,अलब्धवरपूर्वेण यत्कृतं राक्षसेन तु । तदेष वरलब्धः स्याद्भक्षयेद्भुवनत्रयम् ।। 7.10.39 ।। Uttara Kanda,10,40,वरव्याजेन मोहो ऽस्मै दीयताममितप्रभ । लोकानां स्वस्ति चैवं स्याद्भवेदस्य च सन्नतिः ।। 7.10.40 ।। Uttara Kanda,10,41,एवमुक्तः सुरैर्ब्रह्मा ऽचिन्तयत् पद्मसम्भवः । चिन्तिता चोपतस्थे ऽस्य पार्श्वं देवी सरस्वती ।। 7.10.41 ।। Uttara Kanda,10,42,प्राञ्जलिः सा तु पार्श्वस्था प्राह वाक्यं सरस्वती । इयमस्म्यागता देव किं कार्यं करवाण्यहम् ।। 7.10.42 ।। Uttara Kanda,10,43,प्रजापतिस्तुं तां प्राप्तां प्राह वाक्यं सरस्वतीम् । वाणि त्वं राक्षसेन्द्रस्य भव या देवतेप्सिता ।। 7.10.43 ।। Uttara Kanda,10,44,तथेत्युक्त्वा प्रविष्टा सा प्रजापतिरथाब्रवीत् । कुम्भकर्ण महाबाहो वरं वरय यो मतः ।। 7.10.44 ।। Uttara Kanda,10,45,कुम्भकर्णस्तु तद्वाक्यं श्रुत्वा वचनमब्रवीत् । स्वप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम् ।। 7.10.45 ।। Uttara Kanda,10,46,एवमस्त्विति तं चोक्त्वा प्रायाद्ब्रह्मा सुरैः समम् । देवी सरस्वती चैव राक्षसं तं जहौ पुनः ।। 7.10.46 ।। Uttara Kanda,10,47,ब्रह्मणा सह देवेषु गतेषु च नभःस्थलम् । विमुक्तो ऽसौ सरस्वत्या स्वां सञ्ज्ञां च ततो गतः ।। 7.10.47 ।। Uttara Kanda,10,48,कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः । ईदृशं किमिदं वाक्यं ममाद्य वदनाच्च्युतम् ।। 7.10.48 ।। Uttara Kanda,10,49,अहं व्यामोहितो देवैरिति मन्ये तदा ऽ ऽगतैः । एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः । श्लेष्मातकवनं गत्वा तत्र ते न्यवसन्सुखम् ।। 7.10.49 ।। Uttara Kanda,10,50,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे दशमः सर्गः ।। 10 ।। Uttara Kanda,11,1,सुमाली वरलब्धांस्तु ज्ञात्वा चैतान्निशाचरान् । उदतिष्ठद्भयं त्यक्त्वा सानुगः स रसातलात् ।। 7.11.1 ।। Uttara Kanda,11,2,मारीचश्च प्रहस्तश्च विरूपाक्षो महोदरः । उदतिष्ठन्सुसंरब्धाः सचिवास्तस्य रक्षसः ।। 7.11.2 ।। Uttara Kanda,11,3,सुमाली सचिवैः सार्धं वृतो राक्षसपुङ्गवैः । अभिगम्य दशग्रीवं परिष्वज्येदमब्रवीत् ।। 7.11.3 ।। Uttara Kanda,11,4,दिष्ट्या ते वत्स सम्प्राप्तश्चिन्तितो ऽयं मनोरथः । यस्त्वं त्रिभुवनश्रेष्ठाल्लब्धवान्वरमुत्तमम् ।। 7.11.4 ।। Uttara Kanda,11,5,यत्कृते च वयं लङ्कां त्यकत्वा याता रसातलम् । तद्गतं नो महाबाहो महद्विष्णुकृतं भयम् ।। 7.11.5 ।। Uttara Kanda,11,6,असकृत्तद्भयाद्भीताः परित्यज्य स्वमालयम् । विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम् ।। 7.11.6 ।। Uttara Kanda,11,7,अस्मदीया च लङ्केयं नगरी राक्षसोचिता । निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता ।। 7.11.7 ।। Uttara Kanda,11,8,यदि नामात्र शक्यं स्यात्साम्ना दानेन वानघ । तरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत् ।। 7.11.8 ।। Uttara Kanda,11,9,त्वं तु लङ्केश्वरस्तात भविष्यसि न संशयः । त्वया राक्षसवंशो ऽयं निमग्नो ऽपि समुद्धृतः । सर्वेषां नः प्रभुश्चैव भविष्यसि महाबल ।। 7.11.9 ।। Uttara Kanda,11,10,अथाब्रवीद्दशग्रीवो मातामहमुपस्थितम् । वित्तेशो गुरुरस्माकं नार्हसे वक्तुमीदृशम् ।। 7.11.10 ।। Uttara Kanda,11,11,साम्नापि राक्षसेन्द्रेण प्रत्याख्यातो गरीयसा । किञ्चिन्नाह तदा रक्षो ज्ञात्वा तस्य चकीर्षितम् ।। 7.11.11 ।। Uttara Kanda,11,12,कस्यचित्त्वथ कालस्य वसन्तं रावणं ततः । उक्तवन्तं तथा वाक्यं दशग्रीवं निशाचरः ।। 7.11.12 ।। Uttara Kanda,11,13,प्रहस्तः प्रश्रितं वाक्यमिदमाह स कारणम् ।। 7.11.13 ।। Uttara Kanda,11,14,दशग्रीव महाबाहो नार्हस्त्वं वक्तुमीदृशम् । सौभ्रात्रं नास्ति शूराणां शृणु चेदं वचो मम ।। 7.11.14 ।। Uttara Kanda,11,15,अदितिश्च दितिश्चैव भगिन्यौ सहिते हि ते । भार्ये परमरूपिण्यौ कश्यपस्य प्रजापतेः ।। 7.11.15 ।। Uttara Kanda,11,16,अदितिर्जनयामास देवांस्त्रिभुवनेश्वरान् । दितिस्त्वजनयत्पुत्रान्कश्यपस्यात्मसम्भवान् ।। 7.11.16 ।। Uttara Kanda,11,17,दैत्यानां किल धर्मज्ञ पुरीयं सवनार्णवा । सपर्वता मही वीर ते ऽभवन्प्रभविष्णवः ।। 7.11.17 ।। Uttara Kanda,11,18,निहत्य तांस्तु समरे विष्णुना प्रभविष्णुना । देवानां वशमानीतं त्रैलोक्यमिदमव्ययम् ।। 7.11.18 ।। Uttara Kanda,11,19,नैतदेको भवानेव करिष्यति विपर्ययम् । सुरासुरैराचरितं तत्कुरुष्व वचो मम ।। 7.11.19 ।। Uttara Kanda,11,20,एवमुक्तो दशग्रीवः प्रहृष्टेनान्तरात्मना । चिन्तयित्वा मुहूर्तं वै बाढमित्येव सो ऽब्रवीत् ।। 7.11.20 ।। Uttara Kanda,11,21,स तु तेनैव हर्षेण तस्मिन्नहनि वीर्यवान् । वनं गतो दशग्रीवः सह तैः क्षणदाचरैः ।। 7.11.21 ।। Uttara Kanda,11,22,त्रिकूटस्थः स तु तदा दशग्रीवो निशाचरः । प्रेषयामास दौत्येन प्रहस्तं वाक्यकोविदम् ।। 7.11.22 ।। Uttara Kanda,11,23,प्रहस्त शीघ्रं गच्छ त्वं ब्रूहि नैर्ऋतपुङ्गवम् । वचसा मम वित्तेशं सामपूर्वमिदं वचः ।। 7.11.23 ।। Uttara Kanda,11,24,इयं लङ्का पुरी राजन्राक्षसानां महात्मनाम् । त्वया निवेशिता सौम्य नैतद्युक्तं तवानघ ।। 7.11.24 ।। Uttara Kanda,11,25,तद्भवान्यदि नो ह्यद्य दद्यादतुलविक्रम । कृता भवेन्मम प्रीतिर्धुर्मश्चैवानुपालितः ।। 7.11.25 ।। Uttara Kanda,11,26,स तु गत्वा पुरीं लङ्कां धनदेन सुरक्षिताम् । अब्रवीत्परमोदारं वित्तपालमिदं वचः ।। 7.11.26 ।। Uttara Kanda,11,27,प्रेषितो ऽहं तव भ्रात्रा दशग्रीवेण सुव्रत । त्वत्समीपं महाबाहो सर्वशस्त्रभृतां वर ।। 7.11.27 ।। Uttara Kanda,11,28,तच्छ्रूयतां महाप्राज्ञ सर्वशास्त्रविशारद । वचनं मम वित्तेश यद्ब्रवीति दशाननः ।। 7.11.28 ।। Uttara Kanda,11,29,इयं किल पुरी रम्या सुमालिप्रमुखैः पुरा । भुक्तपूर्वा विशालाक्ष राक्षसैर्भीमविक्रमैः ।। 7.11.29 ।। Uttara Kanda,11,30,तेन विज्ञाप्यते सो ऽयं साम्प्रतं विश्रवात्मज । तदेषा दीयतां तात याचतस्तस्य सामतः ।। 7.11.30 ।। Uttara Kanda,11,31,प्रहस्तादभिसंश्रुत्य देवो वैश्रवणो वचः । प्रत्युवाच प्रहस्तं तं वाक्यं वाक्यविशारदः ।। 7.11.31 ।। Uttara Kanda,11,32,दत्ता ममेयं पित्रा तु लङ्का शून्या निशाचरैः । निवासिते च मे यक्षैर्दानमानादिभिर्गुणैः ।। 7.11.32 ।। Uttara Kanda,11,33,ब्रूहि गच्छ दशग्रीवं पुरं राज्यं च यन्मम । तवाप्येतन्महाबाहो भुङ्क्ष्व राज्यमकण्टकम् ।। 7.11.33 ।। Uttara Kanda,11,34,एवमुक्त्वा धनाध्यक्षो जगाम पितुरन्तिकम् ।। 7.11.34 ।। Uttara Kanda,11,35,अभिवाद्य गुरुं प्राह रावणस्य यदीप्सितम् । एष तात दशग्रीवो दूतं प्रेषितवान्मम ।। 7.11.35 ।। Uttara Kanda,11,36,दीयतां नगरी लङ्का पूर्वं रक्षोगणोषिता । मयात्र यदनुष्ठेयं तन्ममाचक्ष्व सुव्रत ।। 7.11.36 ।। Uttara Kanda,11,37,ब्रह्मर्षिस्त्वेवमुक्तो ऽसौ विश्रवा मुनिपुङ्गवः । प्राञ्जलिं धनदं प्राह शृणु पुत्र वचो मम ।। 7.11.37 ।। Uttara Kanda,11,38,दशग्रीवो महाबाहुरुक्तवान्मम सन्निधौ । मया निर्भर्त्सितश्चासीद्बहुशोक्तः सुदुर्मतिः ।। 7.11.38 ।। Uttara Kanda,11,39,स क्रोधेन मया चोक्तो ध्वंसते च पुनः पुनः । श्रेयो ऽभियुक्तं धर्म्यं च शृणु पुत्र वचो मम ।। 7.11.39 ।। Uttara Kanda,11,40,वरप्रदानसम्मूढो मान्या ऽमान्यान् स दुर्मतिः । न वेत्ति मम शापाच्च प्रकृतिं दारुणां गतः ।। 7.11.40 ।। Uttara Kanda,11,41,तस्माद्गच्छ महाबाहो कैलासं धरणीधरम् । निवेशय निवासार्थं त्यक्त्वा लङ्कां सहानुगः ।। 7.11.41 ।। Uttara Kanda,11,42,तत्र मन्दाकिनी रम्या नदीनामुत्तमा नदी । काञ्चनैः सूर्यसङ्काशैः पङ्कजैः संवृतोदका ।। 7.11.42 ।। Uttara Kanda,11,43,कुमुदैरुत्पलैश्चैव तथा ऽन्यैश्च सुगन्धिभिः ।। 7.11.43 ।। Uttara Kanda,11,44,तत्र देवाः सगन्धर्वाः साप्सरोरगकिंनराः । विहारशीलाः सततं रमन्ते सर्वदा ऽ ऽश्रिताः ।। 7.11.44 ।। Uttara Kanda,11,45,न हि क्षमं तवानेन वैरं धनद रक्षसा । जानीषे हि यथा ऽनेन लब्धः परमको वरः ।। 7.11.45 ।। Uttara Kanda,11,46,एवमुक्तो गृहीत्वा ऽ ऽशु तद्वचः पितृगौरवात् । सदारपुत्रः सामान्यः सवाहनधनो गतः ।। 7.11.46 ।। Uttara Kanda,11,47,प्रहस्तो ऽथ दशग्रीवं गत्वा वचनमब्रवीत् । प्रहृष्टात्मा महात्मानं सहामात्यं सहानुजम् ।। 7.11.47 ।। Uttara Kanda,11,48,शून्या सा नगरी लङ्का त्यक्त्त्वैनां धनदो गतः । प्रविश्य तां सहास्माभिः स्वधर्मं प्रतिपालय ।। 7.11.48 ।। Uttara Kanda,11,49,एवमुक्तो दशग्रीवः प्रहस्तेन महाबलः । विवेश नगरीं लङ्कां भ्रातृभिः सबलानुगैः ।। 7.11.49 ।। Uttara Kanda,11,50,धनदेन परित्यक्तां सुविभक्तमहापथाम् । आरुरोह स देवारिः स्वर्गं देवाधिपो यथा ।। 7.11.50 ।। Uttara Kanda,11,51,स चाभिषिक्तः क्षणदाचरैस्तदा निवेशयामास पुरीं दशाननः । निकामपूर्णा च बभूव सा पुरी निशाचरैर्नीलबलाहकोपमैः ।। 7.11.51 ।। Uttara Kanda,11,52,धनेश्वरस्त्वथ पितृवाक्यगौरवान्न्यवेशयच्छशिविमले गिरौ पुरीम् । स्वलङ्कृतैर्भवनवरैर्विभूषितां पुरन्दरस्वेव तदा ऽमरावतीम् ।। 7.11.52 ।। Uttara Kanda,11,53,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकादशः सर्गः ।। 11 ।। Uttara Kanda,12,1,राक्षसेन्द्रो ऽभिषिक्तस्तु भ्रातृभ्यां सहितस्तदा । ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत् ।। 7.12.1 ।। Uttara Kanda,12,2,स्वसारं कालकेयाय दानवेन्द्राय राक्षसीम् । ददौ शूर्पणखां नाम विद्युज्जिह्वाय नामतः ।। 7.12.2 ।। Uttara Kanda,12,3,अथ दत्त्वा स्वयं रक्षो मृगयामटते स्म तत् । तत्रापश्यत्ततो राम मयं नाम दितेः सुतम् ।। 7.12.3 ।। Uttara Kanda,12,4,कन्यासहायं तं दृष्ट्वा दशग्रीवो निशाचरः । अपृच्छत्को भवानेको निर्मनुष्यमृगे वने । अनया मृगशावाक्ष्या किमर्थं सह तिष्ठसि ।। 7.12.4 ।। Uttara Kanda,12,5,मयस्तथाब्रवीद्राम पृच्छन्तं तं निशाचरम् । श्रूयतां सर्वमाख्यास्ये यथावृत्तमिदं मम ।। 7.12.5 ।। Uttara Kanda,12,6,हेमा नामाप्सरास्तात श्रुतपूर्वा यदि त्वया । दैवतैर्मम सा दत्ता पौलोमीव शतक्रतोः ।। 7.12.6 ।। Uttara Kanda,12,7,तस्यां सक्तमनास्तात पञ्चवर्षशतान्यहम् । सा च दैवतकार्येण त्रयोदश समा गताः ।। 7.12.7 ।। Uttara Kanda,12,8,वर्षं चतुर्दशं चैव ततो हेममयं पुरम् । वज्रवैडूर्यचित्रं च मायया निर्मितं मया ।। 7.12.8 ।। Uttara Kanda,12,9,तत्राहमवसं दीनस्तया हीनः सुदुःखितः ।। 7.12.9 ।। Uttara Kanda,12,10,तस्मात्पुराद्दुहितरं गृहीत्वा वनमागतः । इयं ममात्मजा राजंस्तस्याः कुक्षौ विवर्धिता ।। 7.12.10 ।। Uttara Kanda,12,11,भर्तारमनया सार्धमस्याः प्राप्तो ऽस्मि मार्गितुम् । कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ।। 7.12.11 ।। Uttara Kanda,12,12,कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति । पुत्रद्वयं ममाप्यस्यां भार्यायां सम्बभूव ह ।। 7.12.12 ।। Uttara Kanda,12,13,मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरः । एवं ते सर्वमाख्यातं याथातथ्येन पृच्छतः ।। 7.12.13 ।। Uttara Kanda,12,14,त्वामिदानीं कथं तात जानीयां को भवानिति । एवमुक्तस्तु तद्रक्षो विनीतमिदमब्रवीत् ।। 7.12.14 ।। Uttara Kanda,12,15,अहं पौलस्त्यतनयो दशग्रीवश्च नामतः । मुनेर्विश्रवसो यस्तु तृतीयो ब्रह्मणो ऽभवत् ।। 7.12.15 ।। Uttara Kanda,12,16,एवमुक्तस्तदा राम राक्षसेन्द्रेण दानवः । महर्षेस्तनयं ज्ञात्वा मयो हर्षमुपागतः । दातुं दुहितरं तस्मै रोचयामास यत्र वै ।। 7.12.16 ।। Uttara Kanda,12,17,करेण तु करं तस्या ग्राहयित्वा मयस्तदा । प्रहसन्प्राह दैत्येन्द्रो राक्षसेन्द्रमिदं वचः ।। 7.12.17 ।। Uttara Kanda,12,18,इयं ममात्मजा राजन्हेमया ऽप्सरसा धृता । कन्या मन्दोदरी नाम पत्न्यर्थं प्रतिगृह्यताम् ।। 7.12.18 ।। Uttara Kanda,12,19,बाढमित्येव तं राम दशग्रीवो ऽभ्यभाषत । प्रज्चाल्य तत्र चैवाग्निमकरोत्पाणिसङ्ग्रहम् ।। 7.12.19 ।। Uttara Kanda,12,20,स हि तस्य मयो राम शापाभिज्ञस्तपोधनात् । विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम् ।। 7.12.20 ।। Uttara Kanda,12,21,अमोघां तस्य शक्तिं च प्रददौ परमाद्भुताम् । परेण तपसा लब्धां जघ्निवाँल्लक्ष्मणं यया ।। 7.12.21 ।। Uttara Kanda,12,22,एवं सीकृतदारो वै लङ्काया ईश्वरः प्रभुः । गत्वा तु नगरीं भार्ये भ्रातृभ्यां समुपाहरत् ।। 7.12.22 ।। Uttara Kanda,12,23,वैरोचनस्य दौहित्रीं वज्रज्वालेति नामतः । तां भार्यां कुम्भकर्णस्य रावणः समकल्पयत् ।। 7.12.23 ।। Uttara Kanda,12,24,गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः । सरमां नाम धर्मज्ञां लेभे भार्यां विभीषणः ।। 7.12.24 ।। Uttara Kanda,12,25,तीरे तु सरसो वै तु सञ्जज्ञे मानसस्य हि । सरस्तदा मानसं तु ववृधे जलदागमे ।। 7.12.25 ।। Uttara Kanda,12,26,मात्रा तु तस्याः कन्यायाः स्नेहेनाक्रन्दितं वचः । सरो मा वर्धयस्वेति ततः सा सरमा ऽभवत् ।। 7.12.26 ।। Uttara Kanda,12,27,एवं ते कृतदारा वै रेमिरे तत्र राक्षसाः । स्वां स्वां भार्यामुपागम्य गन्धर्वा इव नन्दने ।। 7.12.27 ।। Uttara Kanda,12,28,ततो मन्दोदरी पुत्रं मेघनादमजीजनत् । स एष इन्द्रजिन्नाम युष्माभिरभिधीयते ।। 7.12.28 ।। Uttara Kanda,12,29,जातमात्रेण हि पुरा तेन रावणसूनुना । रुदता सुमहान्मुक्तो नादो जलधरोपमः ।। 7.12.29 ।। Uttara Kanda,12,30,जडीकृता च सा लङ्का तस्य नादेन राघव । पिता तस्याकरोन्नाम मेघनाद इति स्वयम् ।। 7.12.30 ।। Uttara Kanda,12,31,सो ऽवर्धत तदा राम रावणान्तःपुरे शुभे । रक्ष्यमाणो वरस्त्रीभिश्छन्नः काष्ठैरिवानलः ।। 7.12.31 ।। Uttara Kanda,12,32,मातापित्रोर्महाहर्षं जनयन्रावणात्मजः ।। 7.12.32 ।। Uttara Kanda,12,33,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्वादशः सर्गः ।। 12 ।। Uttara Kanda,13,1,अथ लोकेश्वरोत्सृष्टा तत्र कालेन केनचित् । निद्रा समभवत्तीव्रा कुम्भकर्णस्य रूपिणी ।। 7.13.1 ।। Uttara Kanda,13,2,ततो भ्रातरमासीनं कुम्भकर्णो ऽब्रवीद्वचः । निद्रा मां बाधते राजन्कारयस्व ममालयम् ।। 7.13.2 ।। Uttara Kanda,13,3,विनियुक्तास्ततो राज्ञा शिल्पिनो विश्वकर्मवत् । विस्तीर्णं योजनं शुभ्रं ततो द्विगुणमायतम् ।। 7.13.3 ।। Uttara Kanda,13,4,दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे । स्फाटिकैः काञ्चनैश्चित्रैः स्तम्भैः सर्वत्र शोभितम् ।। 7.13.4 ।। Uttara Kanda,13,5,वैडूर्यकृतसोपानं किङ्किणीजालकं तथा । दान्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम् ।। 7.13.5 ।। Uttara Kanda,13,6,मनोहरं सर्वसुखं कारयामास राक्षसः । सर्वत्र सुखदं नित्यं मेरोः पुण्यां गुहामिव ।। 7.13.6 ।। Uttara Kanda,13,7,तत्र निद्रां समाविष्टः कुम्भकर्णो महाबलः । बहून्यब्दसहस्राणि शयानो न प्रबुद्ध्यते ।। 7.13.7 ।। Uttara Kanda,13,8,निद्राभिभूते तु तदा कुम्भकर्णे दशाननः । देवर्षियक्षगन्धर्वान्सञ्जघ्ने हि निरङ्कुशः ।। 7.13.8 ।। Uttara Kanda,13,9,उद्यानानि च चित्राणि नन्दनादीनि यानि च । तानि गत्वा सुसङक्रुद्धो भिनत्ति स्म दशाननः ।। 7.13.9 ।। Uttara Kanda,13,10,नदीं गज इव क्रीडन्वृक्षान्वायुरिव क्षिपन् । नगान्व्रज्र इवोत्सृष्टो विध्वंसयति राक्षसः ।। 7.13.10 ।। Uttara Kanda,13,11,तथावृत्तं तु विज्ञाय दशग्रीवं धनेश्वरः । कुलानुरूपं धर्मज्ञो वृत्तं संस्मृत्य चात्मनः ।। 7.13.11 ।। Uttara Kanda,13,12,सौभ्रात्रदर्शनार्थं तु दूतं वैश्रवणस्तदा । लङ्कां सम्प्रेषयामास दशग्रीवस्य वै हितम् ।। 7.13.12 ।। Uttara Kanda,13,13,स गत्वा नगरीं लङ्कामाससाद विभीषणम् । मानितस्तेन धर्मेण पृष्टश्चागमनं प्रति ।। 7.13.13 ।। Uttara Kanda,13,14,पृष्ट्वा च कुशलं राज्ञो ज्ञातीनां च बिभीषणः । सभायां दर्शयामास तमासीनं दशाननम् ।। 7.13.14 ।। Uttara Kanda,13,15,स दृष्ट्वा तत्र राजानं दीप्यमानं स्वतेजसा । जयेति वाचा सम्पूज्य तूष्णीं समभिवर्तत ।। 7.13.15 ।। Uttara Kanda,13,16,तं तत्रोत्तमपर्यङ्के वरास्तरणशोभिते । उपविष्टं दशग्रीवं दूतो वाक्यमथाब्रवीत् ।। 7.13.16 ।। Uttara Kanda,13,17,राजन्वदामि ते सर्वं भ्राता तव यदब्रवीत् । उभयोः सदृशं वीर वृत्तस्य च कुलस्य च ।। 7.13.17 ।। Uttara Kanda,13,18,साधु पर्याप्तमेतावत्कृतश्चारित्रसङ्ग्रहः । साधु धर्मे व्यवस्थानं क्रियतां यदि शक्यते ।। 7.13.18 ।। Uttara Kanda,13,19,दृष्टं मे नन्दनं भग्नमृषयो निहताः श्रुताः । देवतानां समुद्योगस्त्वत्तो राजन्मम श्रुतः ।। 7.13.19 ।। Uttara Kanda,13,20,निराकृतश्च बहुशस्त्वया ऽहं राक्षसाधिप । अपराद्धा हि बाल्याच्च रमणीयाः स्वबान्धवाः ।। 7.13.20 ।। Uttara Kanda,13,21,अहं तु हिमवत्पृष्ठं गतो धर्ममुपासितुम् । रौद्रं व्रत्तं समास्थाय नियतो नियतेन्द्रियः ।। 7.13.21 ।। Uttara Kanda,13,22,तत्र देवो मया दृष्टः सह देव्या मया प्रभुः । सव्यं चक्षुर्मया दैवात्तत्र देव्यां निपातितम् ।। 7.13.22 ।। Uttara Kanda,13,23,का न्वियं स्यादिति शुभा न खल्वन्येन हेतुना । रूपं ह्यनुपमं कृत्वा रुद्राणी तत्र तिष्ठति ।। 7.13.23 ।। Uttara Kanda,13,24,देव्या दिव्यप्रभावेण दग्धं सव्यं ममेक्षणम् । रेणुध्वस्तमिव ज्योतिः पिङ्गुलत्वमुपागतम् ।। 7.13.24 ।। Uttara Kanda,13,25,ततो ऽहमन्यद्विस्तीर्णं गत्वा तस्य गिरेस्तटम् । तूष्णीं वर्षशतान्यष्टौ समाधारं महाव्रतम् ।। 7.13.25 ।। Uttara Kanda,13,26,समाप्ते नियमे तस्मिंस्तत्र देवो महेश्वरः । प्रीतः प्रीतेन मनसा प्राह वाक्यमिदं प्रभुः ।। 7.13.26 ।। Uttara Kanda,13,27,पैङ्गल्यं यदवाप्तं हि देव्या रूपनिरीक्षणात् । प्रीतो ऽस्मि तव धर्मज्ञ तपसा नेन सुव्रत ।। 7.13.27 ।। Uttara Kanda,13,28,मया चैतद्व्रतं चीर्णं त्वया चैव धनाधिप । तृतीयः पुरुषो नास्ति यश्चरेव्रतमीदृशम् ।। 7.13.28 ।। Uttara Kanda,13,29,व्रतं सुनिश्चयं ह्येतन्मया ह्युत्पादितं पुरा । तत्सखित्वं मया सौम्य रोचयस्व धनेश्वर ।। 7.13.29 ।। Uttara Kanda,13,30,तपसा निर्जितश्चैव सखा भव ममानघ । देव्या दग्धं प्रभावेण यच्च सव्यं तवेक्षणम् ।। 7.13.30 ।। Uttara Kanda,13,31,एकाक्षिपिङ्गलेत्येव नाम स्थास्यति शाश्वतम् । एवं तेन सखित्वं च प्राप्यानुज्ञां च शङ्करात् ।। 7.13.31 ।। Uttara Kanda,13,32,आगत्य च श्रुतो ऽयं मे तव पापविनिश्चयः ।। 7.13.32 ।। Uttara Kanda,13,33,तदधर्मिष्ठसंयोगान्निवर्त कुलदूषणात् । चिन्त्यते हि वधोपायः सर्षिसङ्घैः सुरैस्तव ।। 7.13.33 ।। Uttara Kanda,13,34,एवमुक्तो दशग्रीवः क्रुद्धसंरक्तलोचनः । हस्तौ दन्तांश्च सम्पीड्य वाक्यमेतदुवाच ह ।। 7.13.34 ।। Uttara Kanda,13,35,विज्ञातं ते मया दूत वाक्यं यस्य प्रभाषसे । नैतत्त्वमसि नैवासौ भ्रात्रा येनासि चोदितः ।। 7.13.35 ।। Uttara Kanda,13,36,हितं नैष ममैतद्धि ब्रवीति धनरक्षकः । महेश्वरसखित्वं तु मूढ श्रावयते किल ।। 7.13.36 ।। Uttara Kanda,13,37,न चेदं क्षमणीयं मे यदेतद्भाषितं त्वया । यदेतावन्मया कालं दूत तस्य तु मर्षितम् ।। 7.13.37 ।। Uttara Kanda,13,38,न हन्तव्यो गुरुर्ज्येष्ठो मया ऽयमिति मन्यते । तस्य त्विदानीं श्रुत्वा मे वाक्यमेषा कृता मतिः ।। 7.13.38 ।। Uttara Kanda,13,39,त्रीँल्लोकानपि जेष्यामि बाहुवीर्यमुपाश्रितः ।। 7.13.39 ।। Uttara Kanda,13,40,एतन्मुहूर्तमेवाहं तस्यैकस्य तु वै कृते । चतुरो लोकपालांस्तान्नयिष्यामि यमक्षयम् ।। 7.13.40 ।। Uttara Kanda,13,41,एवमुक्त्वा तु लङ्केशो दूतं खड्गेन जघ्निवान् । ददौ भक्षयितुं ह्येनं राक्षसानां दुरात्मनाम् ।। 7.13.41 ।। Uttara Kanda,13,42,एवं कृतस्वस्त्ययनो रथमारुह्य रावणः । त्रैलोक्यविजयाकाङ्क्षी ययौ यत्र धनेश्वरः ।। 7.13.42 ।। Uttara Kanda,13,43,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रयोदशः सर्गः ।। 13 ।। Uttara Kanda,14,1,ततस्तु सचिवैः सार्धं षड्भिर्नित्यं बलोद्धतैः । महोदरप्रहस्ताभ्यां मारीचशुकसारणैः ।। 7.14.1 ।। Uttara Kanda,14,2,धूम्राक्षेण च वीरेण नित्यं समरगृध्नुना । वृतः संप्रययौ श्रीमान्क्रोधाल्लोकान्दहन्निव ।। 7.14.2 ।। Uttara Kanda,14,3,पुराणि स नदीः शैलान्वनान्युपवनानि च । अतिक्रम्य मुहूर्तेन कैलासं गिरिमागमत् ।। 7.14.3 ।। Uttara Kanda,14,4,सन्निविष्टं गिरौ तस्मिन्राक्षसेन्द्रं निशम्य तु । युद्धे ऽत्यर्थकृतोत्साहं दुरात्मानं समन्त्रिणम् ।। 7.14.4 ।। Uttara Kanda,14,5,यक्षा न शेकुः संस्थातुं प्रमुखे तस्य रक्षसः । राज्ञो भ्रातेति विज्ञाय गता यत्र धनेश्वरः ।। 7.14.5 ।। Uttara Kanda,14,6,ते गत्वा सर्वमाचख्युर्भ्रातुस्तस्य चिकीर्षितम् । अनुज्ञाता ययुर्हष्टा युद्धाय धनदेन ते ।। 7.14.6 ।। Uttara Kanda,14,7,ततो बलानां सङ्क्षोभो व्यवर्धत महोदधेः । तस्य नैर्ऋतराजस्य शैलं सञ्चालयन्निव ।। 7.14.7 ।। Uttara Kanda,14,8,ततो युद्धं समभवद्यक्षराक्षससङ्कुलम् । व्यथिताश्चाभवंस्तत्र सचिवा राक्षसस्य ते ।। 7.14.8 ।। Uttara Kanda,14,9,स दृष्ट्वा तादृशं सैन्यं दशग्रीवो निशाचरः । हर्षनादान्बहून्कृत्वा स क्रोधादभ्यधावत ।। 7.14.9 ।। Uttara Kanda,14,10,ये तु ते राक्षसेन्द्रस्य सचिवा घोरविक्रमाः । तेषां सहस्रमेकैकं यक्षाणां समयोधयन् ।। 7.14.10 ।। Uttara Kanda,14,11,ततो गदाभिर्मुसलैरसिभिः शक्तितोमरैः । हन्यमानो दशग्रीवस्तत्सैन्यं समगाहत ।। 7.14.11 ।। Uttara Kanda,14,12,स निरुच्छ्वासवत्तत्र वध्यमानो दशाननः । वर्षद्भिरिव जीमूतैर्धाराभिरवरुध्यत ।। 7.14.12 ।। Uttara Kanda,14,13,न चकार व्यथां चैव यक्षशस्त्रैः समाहतः । महीधर इवाम्भोदैर्धाराशतसमुक्षितः ।। 7.14.13 ।। Uttara Kanda,14,14,स दुरात्मा समुद्यम्य कालदण्डोपमां गदाम् । प्रविवेश ततः सैन्यं नयन्यक्षान्यमक्षयम् ।। 7.14.14 ।। Uttara Kanda,14,15,स कक्षमिव विस्तीर्णं शुष्केन्धनमिवाकुलम् । वातेनाग्निरिवायत्तो यक्षसैन्यं ददाह तत् ।। 7.14.15 ।। Uttara Kanda,14,16,तैस्तु तत्र महामात्यैर्महोदरशुकादिभिः । अल्पावशेषास्ते यक्षाः कृता वातैरिवाम्बुदाः ।। 7.14.16 ।। Uttara Kanda,14,17,केचित्समाहता भग्नाः पतिताः समरक्षितौ । ओष्ठांश्च दशनैस्तीक्ष्णैरदशन्कुपिता रणे ।। 7.14.17 ।। Uttara Kanda,14,18,श्रान्ताश्चान्योन्यमालिङ्ग्य भ्रष्टशस्त्रा रणाजिरे । सीदन्ति च तदा यक्षाः कूला इव जलेन ह ।। 7.14.18 ।। Uttara Kanda,14,19,हतानां गच्छतां स्वर्गं युध्यतां पृथिवीतले । प्रेक्षतामृषिसङ्घानां न बभूवान्तरं दिवि ।। 7.14.19 ।। Uttara Kanda,14,20,भग्नांस्तु तान्समालक्ष्य यक्षेन्द्रांस्तु महाबलान् । धनाध्यक्षो महाबाहुः प्रेषयामास यक्षकान् ।। 7.14.20 ।। Uttara Kanda,14,21,एतस्मिन्नन्तरे राम विस्तीर्णबलवाहनः । प्रेषितो न्यपतद्यक्षो नाम्ना संयोधकण्टकः ।। 7.14.21 ।। Uttara Kanda,14,22,तेन चक्रेण मारीचो विष्णुनेव रणे हतः । पतितो भूतले शैलात्क्षीणपुण्य इव ग्रहः ।। 7.14.22 ।। Uttara Kanda,14,23,ससञ्ज्ञस्तु मुहूर्तेन स विश्रम्य निशाचरः । तं यक्षं योधयामास स च भग्नः प्रदुद्रुवे ।। 7.14.23 ।। Uttara Kanda,14,24,ततः काञ्चनचित्राङ्गं वैडूर्यरजसोक्षितम् । मर्यादां प्रतिहाराणां तोरणान्तरमाविशत् ।। 7.14.24 ।। Uttara Kanda,14,25,तं तु राजन्दशग्रीवं प्रविशन्तं निशाचरम् । सूर्यभानुरिति ख्यातो द्वारपालो न्यवारयत् ।। 7.14.25 ।। Uttara Kanda,14,26,स वार्यमाणो यक्षेण प्रविवेश निशाचरः । यदा तु वारितो राम न व्यतिष्ठत्स राक्षसः ।। 7.14.26 ।। Uttara Kanda,14,27,ततस्तोरणमुत्पाट्य तेन यक्षेण ताडितः । रुधिरं प्रस्रवन्भाति शैलो धातुस्रवैरिव ।। 7.14.27 ।। Uttara Kanda,14,28,स शैलशिखराभेण तोरणेन समाहतः । जगाम न क्षतिं वीरो वरदानात्स्वयम्भुवः ।। 7.14.28 ।। Uttara Kanda,14,29,तेनैव तोरणेनाथ यक्षस्तेनाभिताडितः । नादृश्यत तदा यक्षो भस्मीकृततनुस्तदा ।। 7.14.29 ।। Uttara Kanda,14,30,ततः प्रदुद्रुवुः सर्वे दृष्ट्वा रक्षःपराक्रमम् । ततो नदीर्गुहाश्चैव विविशुर्भयपीडिताः । त्यक्तप्रहरणाः श्रान्ता विवर्णवदनास्तदा ।। 7.14.30 ।। Uttara Kanda,14,31,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुर्दशः सर्गः ।। 14 ।। Uttara Kanda,15,1,ततस्ताँल्लक्ष्य वित्रस्तान्यक्षेन्द्रांश्च सहस्रशः । धनाध्यक्षो महायक्षं माणिचारमथाब्रवीत् ।। 7.15.1 ।। Uttara Kanda,15,2,रावणं जहि यक्षेन्द्र दुर्वृत्तं पापचेतसम् । शरणं भव वीराणां यक्षाणां युद्धशालिनाम् ।। 7.15.2 ।। Uttara Kanda,15,3,एवमुक्तो महाबाहुर्माणिभद्रः सुदुर्जयः । वृतो यक्षसहस्रैस्तु चतुर्भिः समयोधयत् ।। 7.15.3 ।। Uttara Kanda,15,4,ते गदामुसलप्रासैः शक्तितोमरमुद्गरैः । अभिघ्नन्तस्तदा यक्षा राक्षसान्समुपाद्रवन् ।। 7.15.4 ।। Uttara Kanda,15,5,कुर्वन्तस्तुमुलं युद्धं चरन्तः श्येनवल्लघु । बाढं प्रयच्छन्नेच्छामि दीयतामिति भाषिणः ।। 7.15.5 ।। Uttara Kanda,15,6,ततो देवाः सगन्धर्वा ऋषयो ब्रह्मवादिनः । दृष्ट्वा तत्तुमुलं युद्धं परं विस्मयमागमन् ।। 7.15.6 ।। Uttara Kanda,15,7,यक्षाणां तु प्रहस्तेन सहस्रं निहतं रणे । महोदरेण चानिन्द्यं सहस्रमपरं हतम् ।। 7.15.7 ।। Uttara Kanda,15,8,क्रुद्धेन च तदा राजन्मारीचेन युयुत्सुना । निमेषान्तरमात्रेण द्वे सहस्रे निपातिते ।। 7.15.8 ।। Uttara Kanda,15,9,क्व च यक्षार्जवं युद्धं क्व च मायाबलाश्रयम् । रक्षसां पुरुषव्याघ्र तेन ते ऽभ्यधिका युधि ।। 7.15.9 ।। Uttara Kanda,15,10,धूम्राक्षेण समागम्य माणिभद्रो महारणे । मुसलेनोरसि क्रोधात्तडितो न च कम्पितः ।। 7.15.10 ।। Uttara Kanda,15,11,ततो गदां समाविध्य माणिभद्रेण राक्षसः । धूम्राक्षस्ताडितो मूर्ध्नि विह्वलः स पपात ह ।। 7.15.11 ।। Uttara Kanda,15,12,धूम्राक्षं ताडितं दृष्ट्वा पतितं शोणितोक्षितम् । अभ्यधावत सङ्ग्रामे माणिभद्रं दशाननः ।। 7.15.12 ।। Uttara Kanda,15,13,तं क्रुद्धमभिधावन्तं माणिभद्रो दशाननम् । शक्तिभिस्ताडयामास तिसृभिर्यक्षपुङ्गवः ।। 7.15.13 ।। Uttara Kanda,15,14,ताडितो माणिभद्रस्य मुकुटे प्राहरद्रणे । तस्य तेन प्रहारेम मुकुटं पार्श्वमागतम् ।। 7.15.14 ।। Uttara Kanda,15,15,ततः संयुध्यमानेन विष्टब्धो न व्यकम्पत । तदाप्रभृति यक्षो ऽसौ पार्श्वमौलिरिति स्मृतः । सन्नादः सुमहान्राजंस्तस्मिन्शैले ऽभ्यवर्तत ।। 7.15.15 ।। Uttara Kanda,15,16,ततो दूरात्प्रददृशे धनाध्यक्षो गदाधरः । शुक्रप्रौष्ठपदाभ्यां च पद्मशङ्खसमावृतः ।। 7.15.16 ।। Uttara Kanda,15,17,स दृष्ट्वा भ्रातरं सङ्ख्ये शापाद्विभ्रष्टगौरवम् । उवाच वचनं धीमान्युक्तं पैतामहे कुले ।। 7.15.17 ।। Uttara Kanda,15,18,यन्मया वार्यमाणस्त्वं नावगच्छसि दुर्मते । पश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः ।। 7.15.18 ।। Uttara Kanda,15,19,यो हि मोहाद्विषं पीत्वा नावगच्छति दुर्मतिः । स तस्य परिणामान्ते जानीते कर्मणः फलम् ।। 7.15.19 ।। Uttara Kanda,15,20,देवता नाभिनन्दन्ति धर्मयुक्तेन केनचित् । येन त्वमीदृशं भावं नीतस्सन्नावबुद्ध्यसे ।। 7.15.20 ।। Uttara Kanda,15,21,मातरं पितरं यो हि आचार्यं चावमन्यते । स पश्यति फलं तस्य प्रेतराजवशं गतः ।। 7.15.21 ।। Uttara Kanda,15,22,अध्रुवे हि शरीरे यो न करोति तपोर्जनम् । स पश्चात्तप्यते मूढो मृतो दृष्ट्वा ऽ ऽत्मनो गतिम् ।। 7.15.22 ।। Uttara Kanda,15,23,धर्माद्राज्यं धनं सौख्यमधर्माद्दुःखमेव च । तस्माद्धर्मं सुखार्थाय कुर्यात्पापं विसर्जयेत् ।। 7.15.23 ।। Uttara Kanda,15,24,पापस्य हि फलं दुःखं तद्भोक्तव्यमिहात्मना । तस्मादात्मापघातार्थं मूढः पापं करिष्यति ।। 7.15.24 ।। Uttara Kanda,15,25,कस्य चिन्न हि दुर्बुद्धेश्छन्दतो जायते मतिः । देवं चेष्टयते सर्वं हतो दैवेन हन्यते । यादृशं कुरुते कर्म तादृशं फलमश्नुते ।। 7.15.25 ।। Uttara Kanda,15,26,बुद्धिरूपं फलं पुत्राञ्छौर्यं धीरत्वमेव च । प्राप्नुवन्ति नरा लोके निर्जितं पुण्यकर्मभिः ।। 7.15.26 ।। Uttara Kanda,15,27,एवं निरयगामी त्वं यस्य ते मतिरीदृशी । न त्वां समभिभाषिष्ये ऽसद्वृत्तेष्वेव निर्णयः ।। 7.15.27 ।। Uttara Kanda,15,28,एवमुक्तास्ततस्तेन तस्यामात्याः समाहताः । मारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः ।। 7.15.28 ।। Uttara Kanda,15,29,ततस्तेन दशग्रीवो यक्षेन्द्रेण महात्मना । गदयाभिहतो मूर्ध्नि न च स्थानात्प्रकम्पितः ।। 7.15.29 ।। Uttara Kanda,15,30,ततस्तौ राम निघ्नन्तौ तदान्योन्यं महामृधे । न विह्वलौ न च श्रान्तौ बभूवतुरमर्षणौ ।। 7.15.30 ।। Uttara Kanda,15,31,आग्नेयमस्त्रं तस्मै स मुमोच धनदस्तदा । राक्षसेन्द्रो वारुणेन तदस्त्रं प्रत्यवारयत् ।। 7.15.31 ।। Uttara Kanda,15,32,ततो मायां प्रविष्टो ऽसौ राक्षसीं राक्षसेश्वरः । रूपाणां शतसाहस्रं विनाशाय चकार च ।। 7.15.32 ।। Uttara Kanda,15,33,व्याघ्रो वराहो जीमूतः पर्वतः सागरो द्रुमः । यक्षो दैत्यस्वरूपी च सो ऽदृश्यत दशाननः ।। 7.15.33 ।। Uttara Kanda,15,34,बहूनि च करोति स्म दृश्यन्ते न त्वसौ ततः । प्रतिगृह्य ततो राम महदस्त्रं दशाननः ।। 7.15.34 ।। Uttara Kanda,15,35,जघान मूर्ध्नि धनदं व्याविद्ध्य महतीं गदाम् । एवं स तेनाभिहतो विह्वलः शोणितोक्षितः ।। 7.15.35 ।। Uttara Kanda,15,36,कृत्तमूल इवाशोको निपपात धनाधिपः ।। 7.15.36 ।। Uttara Kanda,15,37,ततः पद्मादिभिस्तत्र निधिभिः स तदा वृतः । धनदोच्छ्वासितस्तैस्तु वनमानीय नन्दनम् ।। 7.15.37 ।। Uttara Kanda,15,38,निर्जित्य राक्षसेन्द्रस्तं धनदं हृष्टमानसः । पुष्पकं तस्य जग्राह विमानं जयलक्षणम् ।। 7.15.38 ।। Uttara Kanda,15,39,काञ्चनस्तम्भसंवीतं वैडूर्यमणितोरणम् । मुक्ताजालप्रतिच्छन्नं सर्वकामफलद्रुमम् ।। 7.15.39 ।। Uttara Kanda,15,40,मनोजवं कामगमं कामरूपं विहङ्गमम् । मणिकाञ्चनसोपानं तप्तकाञ्चनवेदिकम् ।। 7.15.40 ।। Uttara Kanda,15,41,देवोपवाह्यमक्षय्यं सदादृष्टिमनःसुखम् । बह्वाश्चर्यं भक्तिचित्रं ब्रह्मणा परिनिर्मितम् ।। 7.15.41 ।। Uttara Kanda,15,42,निर्मितं सर्वकामैस्तु मनोहरमनुत्तमम् । न तु शीतं न चोष्णं च सर्वर्तुसुखदं शुभम् ।। 7.15.42 ।। Uttara Kanda,15,43,स तं राजा समारुह्य कामगं वीर्यनिर्जितम् । जितं त्रिभुवनं मेने दर्पोत्सेकात्सुदुर्मतिः ।। 7.15.43 ।। Uttara Kanda,15,44,जित्वा वैश्रवणं देवं कैलासात्समवातरत् ।। 7.15.44 ।। Uttara Kanda,15,45,स्वतेजसा विपुलमवाप्य तं जयं प्रतापवान्विमलकिरीटहारवान् । रराज वै परमविमानमास्थितो निशाचरः सदसि गतो यथानलः ।। 7.15.45 ।। Uttara Kanda,15,46,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चदशः सर्गः ।। 15 ।। Uttara Kanda,16,1,स जित्वा धनदं राम भ्रातरं राक्षसाधिपः । महासेनप्रसूतिं तद्ययौ शरवणं महत् ।। 7.16.1 ।। Uttara Kanda,16,2,अथापश्यदृशग्रीवो रौक्मं शरवणं महत् । गभस्तिजालसंवीतं द्वितीयमिव भास्करम् ।। 7.16.2 ।। Uttara Kanda,16,3,स पर्वतं समारुह्य कञ्चिद्रम्यवनान्तरम् । अपश्यत् पुष्पकं तत्र रामविष्टम्भितं तदा ।। 7.16.3 ।। Uttara Kanda,16,4,विष्टब्धं पुष्पकं दृष्ट्वा ह्यगमं कामागं कृतम् । अचिन्तयद्राक्षसेन्द्रः सचिवैस्तैः समावृतः ।। 7.16.4 ।। Uttara Kanda,16,5,किन्निमित्तं चेच्छया मे नेदं गच्छति पुष्पकम् । पर्वतस्योपरिष्ठस्य कर्मेदं कस्यचिद्भवेत् ।। 7.16.5 ।। Uttara Kanda,16,6,ततो ऽब्रवीत्तदा राम मारीचो बुद्धिकोविदः । नेदं निष्कारणं राजन्पुष्पकं यन्न गच्छति ।। 7.16.6 ।। Uttara Kanda,16,7,अथवा पुष्पकमिदं धनदान्नान्यवाहनम् । अतो निष्पन्दमभवद्धनाध्यक्षविनाकृतम् ।। 7.16.7 ।। Uttara Kanda,16,8,इति वाक्यान्तरे तस्य करालः कृष्णपिङ्गलः । वामनो विकटो मुण्डी नन्दी प्रह्वभुजो बली ।। 7.16.8 ।। Uttara Kanda,16,9,ततः पार्श्वमुपागम्य भवस्यानुचरो ऽब्रवीत् । नन्दीश्वरो वचश्चेदं राक्षसेन्द्रमशङ्कितः ।। 7.16.9 ।। Uttara Kanda,16,10,निवर्तस्व दशग्रीव शैले क्रीडति शङ्करः । सुपर्णनागयक्षाणां देवगन्धर्वरक्षसाम् ।। 7.16.10 ।। Uttara Kanda,16,11,सर्वेषामेव भूतानामगम्यः पर्वतः कृतः । इति नन्दिवचः श्रुत्वा क्रोधात्कम्पितकुण्डलः ।। 7.16.11 ।। Uttara Kanda,16,12,रोषात्तु ताम्रनयनः पुष्पकादवरुह्य सः । को ऽयं शङ्कर इत्युक्त्वा शैलमूलमुपागतः ।। 7.16.12 ।। Uttara Kanda,16,13,सो ऽपश्यन्नन्दिनं तत्र देवस्यादूरतः स्थितम् । दीप्तं शूलमवष्टभ्य द्वितीयमिव शङ्करम् ।। 7.16.13 ।। Uttara Kanda,16,14,तं दृष्ट्वा वानरमुखमवज्ञाय स राक्षसः । प्रहासं मुमुचे तत्र सतोय इव तोयदः ।। 7.16.14 ।। Uttara Kanda,16,15,तं क्रुद्धो भगवान्नन्दी शङ्करस्यापरा तनुः । अब्रवीत्तत्र तद्रक्षो दशाननमुपस्थितम् ।। 7.16.15 ।। Uttara Kanda,16,16,यस्माद्वानररूपं मामवज्ञाय दशानन । अशनीपातसङ्काशमपहासं प्रमुक्तवान् ।। 7.16.16 ।। Uttara Kanda,16,17,तस्मान्मद्रूपसम्पन्ना मद्वीर्यसमतेजसः । उत्पत्स्यन्ति वधार्थं हि कुलस्य तव वानराः ।। 7.16.17 ।। Uttara Kanda,16,18,नखदंष्ट्रायुधाः क्रूरा मनःसम्पातरंहसः । युद्धोन्मत्ता बलोद्रिक्ताः शैला इव विसर्पिणः ।। 7.16.18 ।। Uttara Kanda,16,19,ते तव प्रबलं दर्पमुत्सेधं च पृथग्विधम् । व्यपनेष्यन्ति सम्भूय सहामात्यसुतस्य च ।। 7.16.19 ।। Uttara Kanda,16,20,किं त्विदानीं मया शक्यं हन्तुं त्वां हे निशाचर । न हन्तव्यो हतस्त्वं हि पूर्वमेव स्वकर्मभिः ।। 7.16.20 ।। Uttara Kanda,16,21,इत्युदीरितवाक्ये तु देवे तस्मिन्महात्मनि । देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ।। 7.16.21 ।। Uttara Kanda,16,22,अचिन्तयित्वा स तदा नन्दिवाक्यं महाबलः । पर्वतं तु समासाद्य वाक्यमाह दशाननः ।। 7.16.22 ।। Uttara Kanda,16,23,पुष्पकस्य गतिश्छिन्ना यत्कृते मम गच्छतः । तमिमं शैलमुन्मूलं करोमि तव गोपते ।। 7.16.23 ।। Uttara Kanda,16,24,केन प्रभावेण भवो नित्यं क्रीडति राजवत् । विज्ञातव्यं न जानीते भयस्थानमुपस्थितम् ।। 7.16.24 ।। Uttara Kanda,16,25,एवमुक्त्वा ततो राम भुजान्विक्षिप्य पर्वते । तोलयामास तं शीघ्रं स शैलं समकम्पत ।। 7.16.25 ।। Uttara Kanda,16,26,चालनात्पर्वतस्यैव गणा देवस्य कम्पिताः । चचाल पार्वती चापि तदा ऽ ऽश्लिष्टा महेश्वरम् ।। 7.16.26 ।। Uttara Kanda,16,27,ततो राम महादवो देवानां प्रवरो हरः । पादाङ्गुष्ठेन तं शैलं पीडयामास लीलया ।। 7.16.27 ।। Uttara Kanda,16,28,पीडितास्तु ततस्तस्य शैलस्याधोगता भुजाः । विस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः ।। 7.16.28 ।। Uttara Kanda,16,29,रक्षसा तेन रोषाच्च भुजानां पीडनात्तदा । मुक्तो विरावः सहसा त्रैलोक्यं येन कम्पितम् ।। 7.16.29 ।। Uttara Kanda,16,30,मेनिरे वज्रनिष्पेषं तस्यामात्या युगक्षये । तदा वर्त्मस्थचलिता देवा इन्द्रपुरोगमाः ।। 7.16.30 ।। Uttara Kanda,16,31,समुद्राश्चापि सङ्क्षुब्धाश्चलिताश्चापि पर्वताः । यक्षा विद्याधराः सिद्धाः किमेतदिति चाब्रुवन् ।। 7.16.31 ।। Uttara Kanda,16,32,अथ ते मन्त्रिणस्तस्य विक्रोशन्तमथाब्रुवन् । तोषयस्व महादेवं नीलकण्ठमुमापतिम् ।। 7.16.32 ।। Uttara Kanda,16,33,तमृते शरणं नान्यं पश्यामो ऽत्र दशानन । स्तुतिभिः प्रणतो भूत्वा तमेव शरणं व्रज ।। 7.16.33 ।। Uttara Kanda,16,34,कृपालुः शङ्करस्तुष्टः प्रसादं ते विधास्यति । एवमुक्तस्तदामात्यैस्तुष्टाव वृषभध्वजम् ।। 7.16.34 ।। Uttara Kanda,16,35,सामभिर्विविधैः स्तोत्रैः प्रणम्य स दशाननः । संवत्सरसहस्रं तु रुदतो रक्षसो गतम् ।। 7.16.35 ।। Uttara Kanda,16,36,ततः प्रीतो महादेवः शैलाग्रे विष्ठितः प्रभुः । मुक्त्वा चास्य भुजान्राम प्राह वाक्यं दशाननम् ।। 7.16.36 ।। Uttara Kanda,16,37,प्रीतो ऽस्मि तव वीर्यस्य शौण्डार्याच्च दशानन । शैलाक्रान्तेन यो मुक्तस्त्वया रावः सुदारुणः ।। 7.16.37 ।। Uttara Kanda,16,38,यस्माल्लोकत्रयं चैतद्रावितं भयमागतम् । तस्मात्त्वं रावणो नाम नाम्ना राजन्भविष्यसि ।। 7.16.38 ।। Uttara Kanda,16,39,देवता मानुषा यक्षा ये चान्ये जगतीतले । एवं त्वामभिधास्यन्ति रावणं लोकरावणम् ।। 7.16.39 ।। Uttara Kanda,16,40,गच्छ पौलस्त्य विस्रब्धं पथा येन त्वमिच्छसि । मया चैवाभ्यनुज्ञातो राक्षसाधिप गम्यताम् ।। 7.16.40 ।। Uttara Kanda,16,41,एवमुक्तस्तु लङ्केशः शम्भुना स्वयमब्रवीत् । प्रीतो यदि महादेव वरं मे देहि याचतः ।। 7.16.41 ।। Uttara Kanda,16,42,अवध्यत्वं मया प्राप्तं देवगन्धर्वदानवैः । राक्षसैर्गुह्यकैर्नागैर्ये चान्ये बलवत्तराः ।। 7.16.42 ।। Uttara Kanda,16,43,मानुषान्न गणे देव स्वल्पास्ते मम सम्मताः । दीर्घमायुश्च मे प्राप्तं ब्रह्मणस्त्रिपुरान्तक ।। 7.16.43 ।। Uttara Kanda,16,44,वाञ्छितं चायुषः शेषं शस्त्रं त्वं च प्रयच्छ मे । एवमुक्तस्ततस्तेन रावणेन स शङ्करः ।। 7.16.44 ।। Uttara Kanda,16,45,ददौ खड्गं महादीप्तं चन्द्रहासमिति श्रुतम् । आयुषश्चावशेषं च स्थित्वा भूतपतिस्तदा ।। 7.16.45 ।। Uttara Kanda,16,46,दत्त्वोवाच ततः शम्भुर्नावज्ञेयमिदं त्वया । अवज्ञातं यदि हि ते मामेवैष्यत्यसंशयः ।। 7.16.46 ।। Uttara Kanda,16,47,एवं महेश्वरेणैव कृतनामा स रावणः । अभिवाद्य महादेवमारुरोहाथ पुष्पकम् ।। 7.16.47 ।। Uttara Kanda,16,48,ततो महीतले राम पर्यक्रामत रावणः । क्षत्ऺित्रयान्सुमहावीर्यान्बाधमान इतस्ततः ।। 7.16.48 ।। Uttara Kanda,16,49,केचित्तेजस्विनः शूराः क्षत्ऺित्रया युद्धदुर्मदाः । तच्छासनमकुर्वन्तो विनेशुः सपरिच्छदाः ।। 7.16.49 ।। Uttara Kanda,16,50,अपरे दुर्जयं रक्षो जानन्तः प्राज्ञसम्मताः । जिताः स्म इत्यभाषन्त राक्षसं बलदर्पितम् ।। 7.16.50 ।। Uttara Kanda,16,51,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षोडशः सर्गः ।। 16 ।। Uttara Kanda,17,1,अथ राजन्महाबाहुर्विचरन्स महीतले । हिमवद्वनमासाद्य परिचक्राम रावणः ।। 7.17.1 ।। Uttara Kanda,17,2,तत्रापश्यत्स वै कन्यां कृष्णाजिनजटाधराम् । आर्षेण विधिना युक्तां दीप्यन्तीं देवतामिव ।। 7.17.2 ।। Uttara Kanda,17,3,स दृष्ट्वा रूपसम्पन्नां कन्यां तां सुमहाव्रताम् । काममोहपरीतात्मा पप्रच्छ प्रहसन्निव ।। 7.17.3 ।। Uttara Kanda,17,4,किमिदं वर्तसे भद्रे विरुद्धं यौवनस्य ते । नहि युक्ता तवैतस्य रूपस्यैव प्रतिक्रिया ।। 7.17.4 ।। Uttara Kanda,17,5,रूपं ते ऽनुपमं भीरु कामोन्मादकरं नृणाम् । न युक्तं तपसि स्थातुं निर्गतो ह्येष निर्णयः ।। 7.17.5 ।। Uttara Kanda,17,6,कस्यासि किमिदं भद्रे कश्च भर्ता वरानने । येन सम्भुज्यसे भीरु स नरः पुण्यभाग्भुवि ।। 7.17.6 ।। Uttara Kanda,17,7,पृच्छतः शंस मे सर्वं कस्य हेतोः परिश्रमः । एवमुक्ता तु सा कन्या रावणेन यशस्विनी ।। 7.17.7 ।। Uttara Kanda,17,8,कुशध्वजो मम पिता ब्रह्मर्षिरमितप्रभः । बृहस्पतिसुतः श्रीमान्बुद्ध्या तुल्यो बृहस्पतेः ।। 7.17.8 ।। Uttara Kanda,17,9,तस्याहं कुर्वतो नित्यं वेदाभ्यासं महात्मनः । सम्भूय वाङ्मयी कन्या नाम्ना वेदवती स्मृता ।। 7.17.9 ।। Uttara Kanda,17,10,ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः । ते ऽपि गत्वा हि पितरं वरणं रोचयन्ति मे ।। 7.17.10 ।। Uttara Kanda,17,11,न च मां स पिता तेभ्यो दत्तवान्राक्षसर्षभ । कारणं तद्वदिष्यामि निशाचर निशामय ।। 7.17.11 ।। Uttara Kanda,17,12,पितुस्तु मम जामाता विष्णुः किल सुरेश्वरः । अभिप्रेतस्त्रिलोकेशस्तस्मान्नान्यस्य मे पिता ।। 7.17.12 ।। Uttara Kanda,17,13,दातुमिच्छति तस्मै तु तच्छ्रुत्वा बलदर्पितः । दम्भुर्नाम ततो राजा दैत्यानां कुपितो ऽभवत् ।। 7.17.13 ।। Uttara Kanda,17,14,तेन रात्रौ शयानो मे पिता पापेन हिंसितः ।। 7.17.14 ।। Uttara Kanda,17,15,ततो मे जननी दीना तच्छरीरं पितुर्मम । परिष्वज्य महाभागा प्रविष्टा हव्यवाहनम् ।। 7.17.15 ।। Uttara Kanda,17,16,ततो मनोरथं सत्यं पितुर्नारायणं प्रति । करोमीति तमेवाहं हृदयेन समुद्वहे ।। 7.17.16 ।। Uttara Kanda,17,17,इति प्रतिज्ञामारुह्य चरामि विपुलं तपः । एतत्ते सर्वमाख्यातं मया राक्षसपुङ्गव ।। 7.17.17 ।। Uttara Kanda,17,18,नारायणो मम पतिर्न त्वन्यः पुरुषोत्तमात् । आश्रये नियमं घोरं नारायणपरीप्सया । विज्ञातस्त्वं हि मे राजन्गच्छ पौलस्त्यनन्दन ।। 7.17.18 ।। Uttara Kanda,17,19,जानामि तपसा सर्वं त्रैलोक्ये यद्धि वर्तते ।। 7.17.19 ।। Uttara Kanda,17,20,सो ऽब्रवीद्रावणो भूयस्तां कन्यां सुमहाव्रताम् । अवरुह्य विमानाग्रात्कन्दर्पशरपीडितः ।। 7.17.20 ।। Uttara Kanda,17,21,अवलिप्ता ऽसि सुश्रोणि यस्यास्ते मतिरीदृशी । वृद्धानां मृगशावाक्षि भ्राजते पुण्यसञ्चयः ।। 7.17.21 ।। Uttara Kanda,17,22,त्वं सर्वंगुणसम्पन्ना नार्हसे वक्तुमीदृशम् । त्रैलोक्यसुन्दरी भीरु यौवनं ते निवर्तते ।। 7.17.22 ।। Uttara Kanda,17,23,अहं लङ्कापतिर्भद्रे दशग्रीव इति श्रुतः । तस्य मे भव भार्या त्वं भुङ्क्ष्व भोगान्यथासुखम् ।। 7.17.23 ।। Uttara Kanda,17,24,कश्च तावदसौ यं त्वं विष्णुरित्यभिभाषसे । वीर्येण तपसा चैव भोगेन च बलेन च ।। Uttara Kanda,17,25,न मया स समो भद्रे यं त्वं कामयसे ऽङ्गने ।। 7.17.24 ।। Uttara Kanda,17,26,इत्युक्तवति तस्मिंस्तु वेदवत्यथ सा ऽब्रवीत् ।। 7.17.25 ।। Uttara Kanda,17,27,वै भोगेन च बलेन च ।। मा मैवमिति सा कन्या तमुवाच निशाचरम् । त्रैलोक्याधिपति विष्णुं सर्वलोकनमस्कृतम् । त्वदृते राक्षसेन्द्रान्यः को ऽवमन्येत बुद्धिमान् ।। 7.17.26 ।। Uttara Kanda,17,28,एवमुक्तस्तया तत्र वेदवत्या निशाचरः । मूर्धजेषु तदा कन्यां कराग्रेण परामृशत् ।। 7.17.27 ।। Uttara Kanda,17,29,ततो वेदवती क्रुद्धा केशान्हस्तेन सा ऽच्छिनत् । असिर्भूत्वा करस्तस्याः केशांश्छिन्नांस्तदा ऽकरोत् ।। 7.17.28 ।। Uttara Kanda,17,30,सा ज्वलन्तीव रोषेण दहन्तीव निशाचरम् । उवाचाग्निं समाधाय मरणाय कृतत्वरा ।। 7.17.29 ।। Uttara Kanda,17,31,धर्षितायास्त्वयानार्य न मे जीवितमिष्यते । रक्षस्तस्मात्प्रवेक्ष्यामि पश्यतस्ते हुताशनम् ।। 7.17.30 ।। Uttara Kanda,17,32,यस्मात्तु धर्षिता चाहं त्वया पापात्मना वने । तस्मात्तव वधार्थं हि समुत्पत्स्ये ह्यहं पुनः ।। 7.17.31 ।। Uttara Kanda,17,33,न हि शक्यं स्त्रिया हन्तुं पुरुषः पापनिश्चः । शापे त्वयि मयोत्सृष्टे तपसश्च व्ययो भवेत् ।। 7.17.32 ।। Uttara Kanda,17,34,यदि त्वस्ति मया किञ्चित्कृतं दत्तं हुतं तथा । तस्मात्त्वयोनिजा साध्वी भवेयं धर्मिणः सुता ।। 7.17.33 ।। Uttara Kanda,17,35,एवमुक्त्वा प्रविष्टा सा ज्वलितं जातवेदसम् । पपात च दिवो दिव्या पुष्पवृष्टिः समन्ततः ।। 7.17.34 ।। Uttara Kanda,17,36,पुनरेव समुद्भूता पद्मे पद्मसमप्रभा । तस्मादपि पुनः प्राप्ता पूर्ववत्तेन रक्षसा ।। 7.17.35 ।। Uttara Kanda,17,37,कन्यां कमलगर्भाभां प्रगृह्य स्वगृहं ययौ । प्रगृह्य रावणस्त्वेतां दर्शयामास मन्त्रिणे ।। 7.17.36 ।। Uttara Kanda,17,38,लक्षणज्ञो निरीक्ष्यैव रावणं चैवमब्रवीत् । गृहस्थैषां हि सुश्रोणी त्वद्वधायैव दृश्यते ।। 7.17.37 ।। Uttara Kanda,17,39,एतच्छ्रुत्वा ऽर्णवे राम तां प्रचिक्षेप रावणः । सा चैव क्षितिमासाद्य यज्ञायतनमध्यगा ।। 7.17.38 ।। Uttara Kanda,17,40,राज्ञो हलमुखोत्कृष्टा पुनरप्युत्थिता सती । सैषा जनकराजस्य प्रसूता तनया प्रभो । तव भार्या महाबाहो विष्णुस्त्वं हि सनातनः ।। 7.17.39 ।। Uttara Kanda,17,41,पूर्वं क्रोधाहितः शत्रुर्यया ऽसौ निहतस्तथा । उपाश्रयित्वा शैलभस्तव वीर्यममानुषम् ।। 7.17.40 ।। Uttara Kanda,17,42,एवमेषा महाभागा मर्त्येषूत्पत्स्यते पुनः । क्षेत्रे हलमुखोत्कृष्टे वेद्यामग्निशिखोपमा ।। 7.17.41 ।। Uttara Kanda,17,43,एषा वेदवती नाम पूर्वमासीत्कृते युगे । त्रेतायुगमनुप्राप्य वधार्थं तस्य रक्षसः ।। 7.17.42 ।। Uttara Kanda,17,44,उत्पन्ना मैथिलकुले जनकस्य महात्मनः । सीतोत्पन्ना तु सीतेति मानुषैः पुनरुच्यते ।। 7.17.43 ।। Uttara Kanda,17,45,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तदशः सर्गः ।। 17 ।। Uttara Kanda,18,1,प्रविष्टायां हुताशं तु वेदवत्यां स रावणः । पुष्पकं तु समारुह्य परिचक्राम मेदिनीम् ।। 7.18.1 ।। Uttara Kanda,18,2,ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः । उशीरबीजमासाद्य ददर्श स तु रावणः ।। 7.18.2 ।। Uttara Kanda,18,3,संवर्तो नाम ब्रह्मर्षिः साक्षाद्भ्राता बृहस्पतेः । याजयामास धर्मज्ञः सर्वैर्देवगणैर्वृतः ।। 7.18.3 ।। Uttara Kanda,18,4,दृष्ट्वा देवास्तु तद्रक्षो वरदानेन दुर्जयम् । तिर्यग्योनिं समाविष्टास्तस्य दर्शनभीरवः ।। 7.18.4 ।। Uttara Kanda,18,5,इन्द्रो मयूरः संवृत्तो धर्मराजस्तु वायसः । कृकलासो धनाध्यक्षो हंसश्च वरुणो ऽभवत् ।। 7.18.5 ।। Uttara Kanda,18,6,अन्येष्वपि गतेष्वेवं देवेष्वरिनिषूदन । रावणः प्राविशद्यज्ञं सारमेय इवाशुचिः ।। 7.18.6 ।। Uttara Kanda,18,7,तं च राजानमासाद्य रावणो राक्षसाधिपः । प्राह युद्धं प्रयच्छेति निर्जितो ऽस्मीति वा वद ।। 7.18.7 ।। Uttara Kanda,18,8,ततो मरुत्तो नृपतिः को भवानित्युवाच तम् । अपहासं ततो मुक्त्वा रावणो वाक्यमब्रवीत् ।। 7.18.8 ।। Uttara Kanda,18,9,अकुतूहलभावेन प्रीतो ऽस्मि तव पार्थिव । धनदस्यानुजं यो मां नावगच्छसि रावणम् ।। 7.18.9 ।। Uttara Kanda,18,10,त्रिषु लोकेषु को ऽन्यो ऽस्ति यो न जानाति मे बलम् । भ्रातरं येन निर्जित्य विमानमिदमाहृतम् । ततो मरुत्तः स नृपस्तं रावणमथाब्रवीत् ।। 7.18.10 ।। Uttara Kanda,18,11,धन्यः खलु भवान्येन ज्येष्ठो भ्राता रणे जितः । न त्वया सदृशः श्लाध्यस्त्रिषु लोकेषु विद्यते ।। 7.18.11 ।। Uttara Kanda,18,12,नाधर्मसहितं श्लाध्यं तल्लोकं प्रतिसंहितम् । कर्म दौरात्म्यकं कृत्वा श्लाघ्यसे भ्रातृनिर्जयात् ।। 7.18.12 ।। Uttara Kanda,18,13,क त्वं प्राक्केवलं धर्मं चरित्वा लब्धवान्वरम् । श्रूतपूर्वं हि न मया भाषसे यादृशं स्वयम् ।। 7.18.13 ।। Uttara Kanda,18,14,तिष्ठेदानीं न मे जीवन्प्रतियास्यसि दुर्मते । अद्य त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम् ।। 7.18.14 ।। Uttara Kanda,18,15,ततः शरासनं गृह्य सायकांश्च नराधिपः । रणाय निर्ययौ क्रुद्धः संवर्तो मार्गमावृणोत् ।। 7.18.15 ।। Uttara Kanda,18,16,सो ऽब्रवीत्स्नेहसंयुक्तं मरुत्तं तं महानृषिः । श्रोतव्यं यदि मद्वाक्यं सम्प्रहारो न ते क्षमः ।। 7.18.16 ।। Uttara Kanda,18,17,माहेश्वरमिदं सत्रमसमाप्तं कुलं दहेत् ।। 7.18.17 ।। Uttara Kanda,18,18,दीक्षितस्य कुतो युद्धं क्रोधित्वं दीक्षिते कुतः । संशयश्च जये नित्यं राक्षसश्च सुदुर्जयः ।। 7.18.18 ।। Uttara Kanda,18,19,स निवृत्तो गुरोर्वाक्यान्मरुत्तः पृथिवीपतिः । विसृज्य सशरं चापं स्वस्थो मखमुखो ऽभवत् ।। 7.18.19 ।। Uttara Kanda,18,20,ततस्तं निर्जितं मत्वा घोषयामास वै शुकः । रावणो जयतीत्युच्चैर्हर्षान्नादं विमुक्तवान् ।। 7.18.20 ।। Uttara Kanda,18,21,तान्भक्षयित्वा तत्रस्थान्महर्षीन्यज्ञमागतान् । वितृप्तो रुधिरैस्तेषां पुनः सम्प्रययौ महीम् ।। 7.18.21 ।। Uttara Kanda,18,22,रावणे तु गते देवाः सेन्द्राश्चैव दिवौकसः । ततः स्वां योनिमासाद्य तानि सत्त्वानि चाब्रुवन् ।। 7.18.22 ।। Uttara Kanda,18,23,हर्षात्तदाब्रवीदिन्द्रो मयूरं नीलबर्हिणम् । प्रीतो ऽस्मि तव धर्मज्ञ भुजङ्गाद्धि न ते भयम् ।। 7.18.23 ।। Uttara Kanda,18,24,इदं नेत्रसहस्रं तु यत्त्वद्बर्हे भविष्यति । वर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणाम् । एवमिन्द्रो वरं प्रादान्मयूरस्य सुरेश्वरः ।। 7.18.24 ।। Uttara Kanda,18,25,नीलाः किल पुरा बर्हा मयूराणां नराधिप । सुराधिपाद्वरं प्राप्य गताः सर्वे ऽपि बर्हिणः ।। 7.18.25 ।। Uttara Kanda,18,26,धर्मराजो ऽब्रवीद्राम प्राग्वंशे वायसं स्थितम् । पक्षिंस्तवास्मि सुप्रीतः प्रीतस्य वचनं शृणु ।। 7.18.26 ।। Uttara Kanda,18,27,यथान्ये विविधै रोगै; पीड्यन्ते प्राणिनो मया । ते न ते प्रभविष्यन्ति मयि प्रीते न संशयः ।। 7.18.27 ।। Uttara Kanda,18,28,मृत्युतस्ते भयं नास्ति वरान्मम विहङ्गम । यावत्त्वां न वधिष्यन्ति नरास्तावद्भविष्यसि ।। 7.18.28 ।। Uttara Kanda,18,29,एते मद्विषयस्था वै मानवाः क्षुद्भयार्दिताः । त्वयि भुक्ते तु तृप्तास्ते भविष्यन्ति सबान्धवाः ।। 7.18.29 ।। Uttara Kanda,18,30,वरुणस्त्वब्रवीद्धंसं गङ्गातोयविहारिणम् । श्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर ।। 7.18.30 ।। Uttara Kanda,18,31,वर्णो मनोहरः सौम्यश्चन्द्रमण्डलसन्निभः । भविष्यति तवोदग्रः शुद्धफेनसमप्रभः ।। 7.18.31 ।। Uttara Kanda,18,32,मच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि । प्राप्स्यसे चातुलां प्रीतिमेतन्मे प्रीतिलक्षणम् ।। 7.18.32 ।। Uttara Kanda,18,33,हंसानां हि पुरा राम नीलवर्णः सपाण्डुरः । पक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः ।। 7.18.33 ।। Uttara Kanda,18,34,अथाब्रवीद्वैश्रवणः कृकलासं गिरौ स्थितम् । हैरण्यं सम्प्रयच्छामि वर्णं प्रीतस्तवाप्यहम् ।। 7.18.34 ।। Uttara Kanda,18,35,सद्रव्यं च शिरो नित्यं भविष्यति तवाक्षयम् । एष काञ्चनको वर्णो मत्प्रीत्या ते भविष्यति ।। 7.18.35 ।। Uttara Kanda,18,36,एवं दत्त्वा वरांस्तेभ्यस्तस्मिन्यज्ञोत्सवे सुराः । निवृत्ताः सह राज्ञा ते पुनः स्वभवनं गताः ।। 7.18.36 ।। Uttara Kanda,18,37,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टादशः सर्गः ।। 18 ।। Uttara Kanda,19,1,अथ जित्वा मरुत्तं स प्रययौ राक्षसाधिपः । नगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः ।। 7.19.1 ।। Uttara Kanda,19,2,समासाद्य तु राजेन्द्रान्महेन्द्रवरुणोपमान् । अब्रवीद्राक्षसेन्द्रस्तु युद्धं मे दीयतामिति ।। 7.19.2 ।। Uttara Kanda,19,3,निर्जिताः स्मेति वा ब्रूत एष मे हि सुनिश्चयः । अन्यथा कुर्वतामेवं मोक्षो नैवोपपद्यते ।। 7.19.3 ।। Uttara Kanda,19,4,ततस्त्वभीरवः प्राज्ञाः पार्थिवा धर्मनिश्चयाः । मन्त्रयित्वा ततो ऽन्योन्यं राजानः सुमहाबलाः । निर्जिताः स्मेत्यभाषन्त ज्ञात्वा वरबलं रिपोः ।। 7.19.4 ।। Uttara Kanda,19,5,दुष्यन्तः सुरथो गाधिर्गयो राजा पुरूरवाः । एते सर्वे ऽब्रुवंस्तात निर्जिताः स्मेति पार्थिवाः ।। 7.19.5 ।। Uttara Kanda,19,6,अथायोध्यां समासाद्य रावणो राक्षसाधिपः ।। 7.19.6 ।। Uttara Kanda,19,7,सुगुप्तामनरण्येन शक्रेणेवामरावतीम् । स तं पुरुषशार्दूलं पुरन्दरसमं बले ।। 7.19.7 ।। Uttara Kanda,19,8,प्राह राजानमासाद्य युद्धं देहीति रावणः । निर्जितो ऽस्मीति वा ब्रूहि त्वमेवं मम शासनम् ।। 7.19.8 ।। Uttara Kanda,19,9,अयोध्याधिपतिस्तस्य श्रुत्वा पापात्मनो वचः । अनरण्यस्तु सङ्क्रुद्धो राक्षसेन्द्रमथाब्रवीत् ।। 7.19.9 ।। Uttara Kanda,19,10,दीयते द्वन्द्वयुद्धं ते राक्षसाधिपते मया । सन्तिष्ठ क्षिप्रमायत्तो भव चैवं भवाम्यहम् ।। 7.19.10 ।। Uttara Kanda,19,11,अथ पूर्वं श्रुतार्थेन निर्जितं सुमहद्बलम् । निष्क्रामत्तन्नरेन्द्रस्य बलं रक्षोवधोद्यतम् ।। 7.19.11 ।। Uttara Kanda,19,12,नागानां दशसाहस्रं वाजिनां नियुतं तथा । रथानां बहुसाहस्रं पत्तीनां च नरोत्तम ।। 7.19.12 ।। Uttara Kanda,19,13,महीं सञ्छाद्य निष्क्रान्तं सपदातिरथं रणे । ततः प्रवृत्तं सुमहद्युद्धं युद्धविशारद ।। 7.19.13 ।। Uttara Kanda,19,14,अनरण्यस्य नृपते राक्षसेन्द्रस्य चाद्भुतम् । तद्रावणबलं प्राप्य बलं तस्य महीपतेः ।। 7.19.14 ।। Uttara Kanda,19,15,प्राणश्यत तदा सर्वं हव्यं हुतमिवानले । युद्ध्वा च सुचिरं कालं कृत्वा विक्रममुत्तमम् ।। 7.19.15 ।। Uttara Kanda,19,16,प्रज्वलन्तं तमासाद्य क्षिप्रमेवावशेषितम् । प्राविशत्सङ्कुलं तत्र शलभा इव पावकम् । नश्यति स्म बलं तत्र हव्यं हुतमिवानले ।। 7.19.16 ।। Uttara Kanda,19,17,सो ऽपश्यत्तन्नरेन्द्रस्तु नश्यमानं महाबलम् । महार्णवं समासाद्य वनापगशतं यथा ।। 7.19.17 ।। Uttara Kanda,19,18,ततः शक्रधनुःप्रख्यं धनुर्विस्फारयन्स्वयम् । आससाद नरेन्द्रस्तं रावणं क्रोधमूर्च्छितः ।। 7.19.18 ।। Uttara Kanda,19,19,अनरण्येन ते ऽमात्या मारीचशुकसारणाः । प्रहस्तसहिता भग्ना व्यद्रवन्त मृगा इव ।। 7.19.19 ।। Uttara Kanda,19,20,ततो बाणशतान्यष्टौ पातयामास मूर्धनि । तस्य राक्षसराजस्य इक्ष्वाकुकुलनन्दनः ।। 7.19.20 ।। Uttara Kanda,19,21,तस्य बाणाः पतन्तस्ते चक्रिरे न क्षतं क्वचित् । वारिधारा इवाभ्रेभ्यः पतन्त्यो गिरिमूर्धनि ।। 7.19.21 ।। Uttara Kanda,19,22,ततो राक्षसराजेन क्रुद्धेन नृपतिस्तदा । तलेनाभिहतो मूर्ध्नि स रथान्निपपात ह ।। 7.19.22 ।। Uttara Kanda,19,23,स राजा पतितो भूमौ विह्वलाङ्गः प्रवेपितः । वज्रदग्ध इवारण्ये सालो निपतितो यथा ।। 7.19.23 ।। Uttara Kanda,19,24,तं प्रहस्याब्रवीद्द्रक्ष इक्ष्वाकुं पृथिवीपतिम् । किमिदानीं फलं प्राप्तं त्वया मां प्रति युद्ध्यता ।। 7.19.24 ।। Uttara Kanda,19,25,त्रैलोक्ये नास्ति यो द्वन्द्वं मम दद्यान्नराधिप । शङ्के प्रसक्तो भोगेषु न शृणोषि बलं मम ।। 7.19.25 ।। Uttara Kanda,19,26,तस्यैवं ब्रुवतो राजा मन्दासुर्वाक्यमब्रवीत् । किं शक्यमिह कर्तुं वै कालो हि दुरतिक्रमः ।। 7.19.26 ।। Uttara Kanda,19,27,नह्यहं निर्जितो रक्षस्त्वया चात्मप्रशंसिना । कालेनैव विपन्नो ऽहं हेतुभूतस्तु मे भवान् ।। 7.19.27 ।। Uttara Kanda,19,28,किं त्विदानीं मया शक्यं कर्तुं प्राणपरिक्षये । नह्यहं विमुखी रक्षो युध्यमानस्त्वया हतः ।। 7.19.28 ।। Uttara Kanda,19,29,इक्ष्वाकुपरिभावित्वाद्वचो वक्ष्यामि राक्षस । यदि दत्तं यदि हुतं यदि मे सुकृतं तपः ।। यदि गुप्ताः प्रजाः सम्यक्तदा सत्यं वचो ऽस्तु मे ।। 7.19.29 ।। Uttara Kanda,19,30,उत्पत्स्यते कुले ह्यस्मिन्निक्ष्वाकूणां महात्मनाम् । रामो दाशरथिर्नाम यस्ते प्राणान्हरिष्यति ।। 7.19.30 ।। Uttara Kanda,19,31,ततो जलधरोदग्रस्ताडितो देवदुन्दुभिः । तस्मिन्नुदाहृते शापे पुष्पवृष्टिश्च खाच्च्युता ।। 7.19.31 ।। Uttara Kanda,19,32,ततः स राजा राजेन्द्र गतः स्थानं त्रिविष्टपम् । स्वर्गते च नृपे तस्मिन्राक्षसः सो ऽपसर्पत ।। 7.19.32 ।। Uttara Kanda,19,33,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनविंशः सर्गः ।। 19 ।। Uttara Kanda,20,1,ततो वित्रासयन्मर्त्यान्पृथिव्यां राक्षसाधिपः । आससाद घने तस्मिन्नारदं मुनिपुङ्गवम् ।। 7.20.1 ।। Uttara Kanda,20,2,तस्याभिवादनं कृत्वा दशग्रीवो निशाचरः । अब्रवीत्कुशलं पृष्ट्वा हेतुमागमनस्य च ।। 7.20.2 ।। Uttara Kanda,20,3,नारदस्तु महातेजा देवर्षिरमितप्रभः । अब्रवीन्मेघपृष्ठस्थो रावणं पुष्पके स्थितम् ।। 7.20.3 ।। Uttara Kanda,20,4,राक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत । प्रीतो ऽस्म्यभिजनोपेतविक्रमैरूर्जितैस्तव ।। 7.20.4 ।। Uttara Kanda,20,5,विष्णुना दैत्यघातैश्च गन्धर्वोरगधर्षणैः । त्वया समं विमर्दैश्च भृशं हि परितोषितः ।। 7.20.5 ।। Uttara Kanda,20,6,किंचिद्वक्ष्यामि तावत्ते श्रोतव्यं श्रोष्यसे यदि । श्रुत्वा चानन्तरं कार्यं त्वया राक्षससत्तम । तन्मे निगदतस्तात समाधिं श्रवणे कुरु ।। 7.20.6 ।। Uttara Kanda,20,7,किमयं वध्यते तात त्वया ऽवध्येन दैवतैः । हत एव ह्ययं लोको यदा मृत्युवशं गतः ।। 7.20.7 ।। ्तम । Uttara Kanda,20,8,देवदानवदैत्यानां यक्षगन्धर्वरक्षसाम् । अवध्येन त्वया लोकः क्लेष्टुं युक्तो न मानुषः ।। 7.20.8 ।। Uttara Kanda,20,9,नित्यं श्रेयसि सम्मूढं महद्भिर्व्यसनैर्वृतम् । हन्यात्कस्तादृशं लोकं जराव्याधिशतैर्युतम् ।। 7.20.9 ।। Uttara Kanda,20,10,तैस्तैरनिष्टोपगमैरजस्रं यत्र कुत्र कः । मतिमान्मानुषे लोके युद्धेन प्रणयी भवेत् ।। 7.20.10 ।। Uttara Kanda,20,11,क्षीयमाणं दैवहतं श्रुत्पिपासाजरादिभिः । विषादशोकसम्मूढं लोकं त्वं क्षपयस्व मा ।। 7.20.11 ।। Uttara Kanda,20,12,पश्य तावन्महाबाहो राक्षसेश्वर मानुषम् । मूढमेवं विचित्रार्थं यस्य न ज्ञायते गतिः ।। 7.20.12 ।। Uttara Kanda,20,13,क्वचिद्वादित्रनृत्यादि सेव्यते मुदितैर्जनैः । रुद्यते चापरैरार्तैर्धाराश्रुनयनाननैः ।। 7.20.13 ।। Uttara Kanda,20,14,मातापितृसुतस्नेहैर्भार्याबन्धुमनोरमैः । मोहितो ऽयं जनो ध्वस्तः क्लेशं स्वं नावबुध्यते ।। 7.20.14 ।। Uttara Kanda,20,15,अलमेनं परिक्लिश्य लोकं मोहनिराकृतम् । जित एव त्वया सौम्य मर्त्यलोको न संशयः ।। 7.20.15 ।। Uttara Kanda,20,16,अवश्यमेभिः सर्वैश्च गन्तव्यं यमसादनम् । तन्निगृह्णीष्व पौलस्त्य यमं परपुरञ्जय ।। 7.20.16 ।। Uttara Kanda,20,17,तस्मिञ्जिते जितं सर्वं भवत्येव न संशयः । एवमुक्तस्तु लङ्केशो दीप्यमानं स्वतेजसा । अब्रवीन्नारदं तत्र सम्प्रहस्याभिवाद्य च ।। 7.20.17 ।। Uttara Kanda,20,18,महर्षे देवगन्धर्वविहार समरप्रिय । अहं समुद्यतो गन्तुं विजयार्थं रसातलम् ।। 7.20.18 ।। Uttara Kanda,20,19,ततो लोकत्रयं जित्वा स्थाप्य नागान्सुरान्वशे । समुद्रममृतार्थं च मथिष्यामि रसालयम् ।। 7.20.19 ।। Uttara Kanda,20,20,अथाब्रवीदृशग्रीवं नारदो भगवानृषिः । क्व खल्विदानीं मार्गेण त्वया ह्यन्येन गम्यते ।। 7.20.20 ।। Uttara Kanda,20,21,अयं खलु सुदुर्गम्यः प्रेतराजपुरं प्रति । मार्गो गच्छति दुर्धर्षो यमस्यामित्रकर्शन ।। 7.20.21 ।। Uttara Kanda,20,22,स तु शारदमेघाभं हासं मुक्त्वा दशाननः । उवाच कृतमित्येव वचनं चेदमब्रवीत् ।। 7.20.22 ।। Uttara Kanda,20,23,तस्मादेवमहं ब्रह्मन् वैवस्वतवधोद्यतः । गच्छामि दक्षिणामाशां यत्र सूर्यात्मजो नृपः ।। 7.20.23 ।। Uttara Kanda,20,24,मया हि भगवन्क्रोधात्प्रतिज्ञातं रणार्थिना । अवजेष्यामि चतुरो लोकपालानिति प्रभो ।। 7.20.24 ।। Uttara Kanda,20,25,तदिह प्रस्थितो ऽहं वै प्रेतराजपुरं प्रति । प्राणिसङ्क्लेशकर्तारं योजयिष्यामि मृत्युना ।। 7.20.25 ।। Uttara Kanda,20,26,एवमुक्त्वा दशग्रीवो मुनिं तमभिवाद्य च । प्रययौ दक्षिणामाशां प्रविष्टः सह मन्त्रिभिः ।। 7.20.26 ।। Uttara Kanda,20,27,नारदस्तु महातेजा मुहूर्तं ध्यानमास्थितः । चिन्तयामास विप्रेन्द्रो विधूम इव पावकः ।। 7.20.27 ।। Uttara Kanda,20,28,येन लोकास्त्रयः सेन्द्राः क्लिश्यन्ते सचराचराः । क्षीणे चायुषि धर्मेण स कालो जेष्यते कथम् ।। 7.20.28 ।। Uttara Kanda,20,29,स्वदत्तकृतसाक्षी यो द्वितीय इव पावकः । लब्धसञ्ज्ञा विजेष्यन्ते लोका यस्य महात्मनः ।। 7.20.29 ।। Uttara Kanda,20,30,यस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः । तं कथं राक्षसेन्द्रो ऽसौ स्वयमेव गमिष्यति ।। 7.20.30 ।। Uttara Kanda,20,31,यो विधाता च धाता च सुकृतं दुष्कृतं तथा । त्रैलोक्यं विजितं येन तं कथं विजयिष्यते ।। 7.20.31 ।। Uttara Kanda,20,32,अपरं किन्तु कृत्वायं विधानं संविधास्यति । कौतूहलसमुत्पन्नो यास्यामि यमसादनम् ।। 7.20.32 ।। Uttara Kanda,20,33,विमर्दं द्रष्टुमनयोर्यमराक्षसयोः स्वयम् ।। 7.20.33 ।। Uttara Kanda,20,34,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे विंशः सर्गः ।। 20 ।। Uttara Kanda,21,1,एवं सञ्चिन्त्य विप्रेन्दो जगाम लघुविक्रमः । आख्यातुं तद्यथावृत्तं यमस्य सदनं प्रति ।। 7.21.1 ।। Uttara Kanda,21,2,अपश्यत्स यमं तत्र देवमग्निपुरस्कृतम् । विधानमुपतिष्ठन्तं प्राणिनो यस्य यादृशम् ।। 7.21.2 ।। Uttara Kanda,21,3,स तु दृष्ट्वा यमः प्राप्तं महर्षिं तत्र नारदम् । अब्रवीत्सुखमासीनमर्घ्यमावेद्य धर्मतः ।। 7.21.3 ।। Uttara Kanda,21,4,कच्चित्क्षेमं तु देवर्षे कच्चिद्धर्मो न नश्यति । किमागमनकृत्यं ते देवगन्धर्वसेवित ।। 7.21.4 ।। Uttara Kanda,21,5,अब्रवीत्तु तदा वाक्यं नारदो भगवानृषिः । श्रूयतामभिधास्यामि विधानं च विधीयताम् ।। 7.21.5 ।। Uttara Kanda,21,6,एष नाम्नो दशग्रीवः पितृराज निशाचरः । उपयाति वशं नेतुं विक्रमैस्त्वां सुदुर्जयम् ।। 7.21.6 ।। Uttara Kanda,21,7,एतेन कारणेनाहं त्वरितो ह्यागतः प्रभो । दण्डप्रहरणस्याद्य तव किं नु भविष्यति ।। 7.21.7 ।। Uttara Kanda,21,8,एतस्मिन्नन्तरे दुरादंशुमन्तमिवोदितम् । ददृशुर्दीप्तमायान्तं विमानं तस्य रक्षसः ।। 7.21.8 ।। Uttara Kanda,21,9,तं देशं प्रभया तस्य पुष्पकस्य महाबलः । कृत्वा वितिमिरं सर्वं समीपं सो ऽभ्यवर्तत ।। 7.21.9 ।। Uttara Kanda,21,10,सो ऽपश्यत्स महाबाहुर्दशग्रीवस्ततस्ततः । प्राणिनः सुकृतं कर्म भुञ्जानांश्चैव दुष्कृतम् ।। 7.21.10 ।। Uttara Kanda,21,11,अपश्यत्सैनिकांश्चास्य यमस्यानुचरैः सह । यमस्य पुरुषैरुग्रैर्घोररूपैर्भयानकैः ।। 7.21.11 ।। Uttara Kanda,21,12,ददर्श वध्यमानांश्च क्लिश्यमानांश्च देहिनः । क्रोशतश्च महानादं तीव्रनिष्टनतत्परान् ।। 7.21.12 ।। Uttara Kanda,21,13,कृमिभिर्भक्ष्यमाणांश्च सारमेयैश्च दारुणैः ।। 7.21.13 ।। Uttara Kanda,21,14,क्षोत्रायासकरा वाचो वदतश्च भयावहाः । सन्तार्यमाणान्वैतरणीं बहुशः शोणितोदकाम् ।। 7.21.14 ।। Uttara Kanda,21,15,वालुकासु च तप्तासु तप्यमानान्मुहूर्मुहुः । असिपत्रवने चैव भिद्यमानानधार्मिकान् ।। 7.21.15 ।। Uttara Kanda,21,16,रौरवे क्षारनद्यां च क्षुरधारासु चैव हि । पानीयं याचमानांश्च तृषितान्क्षुधितानपि ।। 7.21.16 ।। Uttara Kanda,21,17,शवभूतान्कृशान्दीनान्विवर्णान्मुक्तमूर्धजान् । मलपङ्कधरान्दीनान्रूक्षांश्च परिधावतः ।। 7.21.17 ।। Uttara Kanda,21,18,ददर्श रावणो मार्गे शतशो ऽथ सहस्रशः । कांश्चिच्च गृहमुख्येषु गीतवादित्रनिःस्वनैः । प्रमोदमानानद्राक्षीद्रावणः सुकृतैः स्वकैः ।। 7.21.18 ।। Uttara Kanda,21,19,गौरसं गोप्रदातारो ह्यन्नं चैवान्नदायिनः । गृहांश्च गृहदातारः स्वकर्मफलमश्नतः ।। 7.21.19 ।। Uttara Kanda,21,20,सुवर्णमणिमुक्ताभिः प्रमदाभिरलङ्कृतान् ।। 7.21.20 ।। Uttara Kanda,21,21,धार्मिकानपरांस्तत्र दीप्यमानान्स्वतेजसा । ददर्श सुमहाबाहू रावणो राक्षसाधिपः ।। 7.21.21 ।। Uttara Kanda,21,22,ततस्तान्भिद्यमानांश्च कर्मभिर्दुष्कृतैः स्वकैः । रावणो मोचयामास विक्रमेण बलाद्बली ।। 7.21.22 ।। Uttara Kanda,21,23,प्राणिनो मोचितास्तेन दशग्रीवेण रक्षसा । सुखमापुर्मुहूर्तं ते ह्यतर्कितमचिन्तितम् ।। 7.21.23 ।। Uttara Kanda,21,24,प्रेतेषु मुच्यमानेषु राक्षसेन महीयसा । प्रेतगोपाः सुसङ्क्रुद्धा राक्षसेन्द्रमभिद्रवन् ।। 7.21.24 ।। Uttara Kanda,21,25,ततो हलहलाशब्दः सर्वदिग्भ्यः समुत्थितः । धर्मराजस्य योधानां शूराणां सम्प्रधावताम् ।। 7.21.25 ।। Uttara Kanda,21,26,ते प्रासैः परिघैः शूलैर्मुसलैः शक्तितोमरैः । पुष्पकं समवर्षन्त शूराः शतसहस्रशः ।। 7.21.26 ।। Uttara Kanda,21,27,तस्यासनानि प्रासादान्वेदिकास्तोरणानि च । पुष्पकस्य बभञ्जुस्ते शीघ्रं मधुकरा इव ।। 7.21.27 ।। Uttara Kanda,21,28,देवनिष्ठानभूतं तद्विमानं पुष्पकं मृधे । भज्यमानं तथैवासीदक्षयं ब्रह्मतेजसा ।। 7.21.28 ।। Uttara Kanda,21,29,असङ्ख्या सुमहत्यासीत्तस्य सेना महात्मनः । शूराणामग्रयातऽणां सहस्राणि शतानि च ।। 7.21.29 ।। Uttara Kanda,21,30,ततो वृक्षैश्च शैलैश्च प्रासादानां शतैस्तथा । ततस्ते सचिवास्तस्य यथाकामं यथाबलम् । अयुध्यन्त महावीराः स च राजा दशाननः ।। 7.21.30 ।। Uttara Kanda,21,31,ते तु शोणितदिग्धाङ्गाः सर्वशस्त्रसमाहताः । अमात्या राक्षसेन्द्रस्य चक्रुरायोधनं महत् ।। 7.21.31 ।। Uttara Kanda,21,32,अन्योन्यं ते महाभागा जघ्नुः प्रहरणैर्भृशम् । यमस्य च महाबाहो रावणस्य च मन्त्रिणः ।। 7.21.32 ।। Uttara Kanda,21,33,अमात्यांस्तांस्तु सन्त्यज्य यमयोधा महाबलाः । तमेव चाभ्यधावन्त शूलवर्षैर्दशाननम् ।। 7.21.33 ।। Uttara Kanda,21,34,ततः शोणितदिग्धाङ्गः प्रहारैर्जर्जरीकृतः । फुल्लाशोक इवाभाति पुष्पके राक्षसाधिपः ।। 7.21.34 ।। Uttara Kanda,21,35,स तु शूलगदापासाञ्छक्तितोमरसायकान् । मुसलानि शिलावृक्षान्मुमोचास्त्रबलाद्बली ।। 7.21.35 ।। Uttara Kanda,21,36,तरूणां च शिलानां च शस्त्राणां चातिदारुणम् । यमसैन्येषु तद्वर्षं पपात धरणीतले ।। 7.21.36 ।। Uttara Kanda,21,37,तांस्तु सर्वान्विनिर्भिद्य तदस्त्रमपहत्य च । जघ्नुस्ते राक्षसं घोरमेकं शतसहस्रशः ।। 7.21.37 ।। Uttara Kanda,21,38,परिवार्य च तं सर्वे शैलं मोघोत्करा इव । भिन्दिपालैश्च शूलैश्च निरुच्छ्वासमपोथयन् ।। 7.21.38 ।। Uttara Kanda,21,39,विमुक्तकवचः क्रुद्धः सिक्तः शोणितविस्रवैः । ततः स पुष्पकं त्यक्त्वा पृथिव्यामवतिष्ठत ।। 7.21.39 ।। Uttara Kanda,21,40,ततः स कार्मुकी वाणी समरे चाभिवर्तत । लब्धसञ्ज्ञो मुहूर्तेन क्रुद्धस्तस्थौ यथान्तकः ।। 7.21.40 ।। Uttara Kanda,21,41,ततः पाशुपतं दिव्यमस्त्रं सन्धाय कार्मुके । तिष्ठ तिष्ठेति तानुक्त्वा तच्चापं विचकर्ष स ।। 7.21.41 ।। Uttara Kanda,21,42,आकर्णात्स विकृष्याथ चापमिन्द्रारिराहवे । मुमोच तं शरं क्रुद्धस्त्रिपुरे शङ्करो यथा ।। 7.21.42 ।। Uttara Kanda,21,43,तस्य रूपं शरस्यासीत्विधूमज्वालमण्डलम् । वनं दहिष्यतो घर्मे दावाग्नेरिव मूर्च्छतः ।। 7.21.43 ।। Uttara Kanda,21,44,ज्वालामाली स तु शरः क्रव्यादानुगतो रणे । मुक्तो गुल्मान्द्रुमांश्चापि भस्म कृत्वा प्रधावति ।। 7.21.44 ।। Uttara Kanda,21,45,ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु । रणे तस्मिन्निपतिता दावदग्धा नगा इव ।। 7.21.45 ।। Uttara Kanda,21,46,ततस्तु सिचवैः सार्धं राक्षसो भीमविक्रमः । ननाद सुमहानादं कम्पयन्निव मेदिनीम् ।। 7.21.46 ।। Uttara Kanda,21,47,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकविंशः सर्गः ।। 21 ।। Uttara Kanda,22,1,स तस्य तु महानादं श्रुत्वा वैवस्वतः प्रभुः । शत्रुं विजयिनं मेने स्वबलस्य च सङ्क्षयम् ।। 7.22.1 ।। Uttara Kanda,22,2,स हि योधान्हतान्मत्वा क्रोधसंरक्तलोचनः । अब्रवीत्त्वरितं सूतं रथो ऽयमुपनीयताम् ।। 7.22.2 ।। Uttara Kanda,22,3,तस्य सूतस्तदा दिव्यमुपस्थाप्य महारथम् । स्थितः स च महातेजा ह्यध्यारोहत तं रथम् । प्राशमुद्गरहस्तश्च मृत्युस्तस्याग्रतः स्थितः ।। 7.22.3 ।। Uttara Kanda,22,4,येन सङ्क्षिप्यते सर्वं त्रैलोक्यमिदमव्ययम् । कालदण्डस्तु पार्श्वस्थो मूर्तिमानस्य चाभवत् । यमप्रहरणं दिव्यं तेजसा ज्वलदग्निमत् ।। 7.22.4 ।। Uttara Kanda,22,5,तस्य पार्श्वेषु निच्छिद्राः कालपाशाः प्रतिष्ठिताः ।। 7.22.5 ।। Uttara Kanda,22,6,पावकस्पर्शसङ्काशः स्थितो मूर्तश्च मुद्गरः ।। 7.22.6 ।। Uttara Kanda,22,7,ततो लोकत्रयं क्षुब्धमकम्पन्त दिवौकसः । कालं दृष्ट्वा तथा क्रुद्धं सर्वलोकभयावहम् ।। 7.22.7 ।। Uttara Kanda,22,8,ततः प्रचोदयन्सूतस्तानश्वान्रुचिरप्रभान् । प्रययौ भीमसन्नादो यत्र रक्षःपतिः स्थितः ।। 7.22.8 ।। Uttara Kanda,22,9,मुहूर्तेन यमं ते तु हया हरिहयोपमाः । प्रापयन्मनसस्तुल्या यत्र तत्प्रस्तुतं रणम् ।। 7.22.9 ।। Uttara Kanda,22,10,दृष्ट्वा तथैव विकृतं रथं मृत्युसमन्वितम् । सचिवा राक्षसेन्द्रस्य सहसा विप्रदुद्रुवुः ।। 7.22.10 ।। Uttara Kanda,22,11,लघुसत्त्वतया ते हि नष्टसञ्ज्ञा भयार्दिताः । नेह योद्धुं समर्थाः स्म इत्युक्त्वा प्रययुर्दिशः ।। 7.22.11 ।। Uttara Kanda,22,12,स तु तं तादृशं दृष्ट्वा रथं लोकभयावहम् । नाक्षुभ्यत दशग्रीवो न चापि भयमाविशत् ।। 7.22.12 ।। Uttara Kanda,22,13,स तु रावणमासाद्य व्यसृजच्छक्तितोमरान् । यमो मर्माणि सङ्क्रुद्धो रावणस्योपकृन्तत ।। 7.22.13 ।। Uttara Kanda,22,14,रावणस्तु ततः स्वस्थः शरवर्षं मुमोच ह । तस्मिन्वैवस्वतरथे तोयवर्षमिवाम्बुदः ।। 7.22.14 ।। Uttara Kanda,22,15,ततो महाशक्तिशरैः पात्यमानैर्महोरसि (पात्यमानो) । नाशक्नोत्प्रतिकर्तुं स राक्षसः शल्यपीडितः ।। 7.22.15 ।। Uttara Kanda,22,16,एवं नानाप्रहरणैर्यमेनामित्रकर्षिणा । सप्तरात्रं कृतः सङ्ख्ये विसञ्ज्ञो विमुखो रिपुः ।। 7.22.16 ।। Uttara Kanda,22,17,तदासीत्तुमुलं युद्धं यमराक्षसयोर्द्वयोः । जयमाकाङ्क्षतोर्वीर समरेष्वनिवर्तिनोः ।। 7.22.17 ।। Uttara Kanda,22,18,ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । प्रजापतिं पुरस्कृत्य समेतास्तद्रणाजिरम् ।। 7.22.18 ।। Uttara Kanda,22,19,संवर्त इव लोकानां क्रुध्यतोरभवत्तदा । राक्षसानां च मुख्यस्य प्रेतानामीश्वरस्य च ।। 7.22.19 ।। Uttara Kanda,22,20,राक्षसेन्द्रो ऽपि विस्फार्य चापमिन्द्राशनिप्रभम् । निरन्तरमिवाकाशं कुर्वन्बाणांस्ततो ऽसृजत् ।। 7.22.20 ।। Uttara Kanda,22,21,मृत्युं चतुर्भिर्विशिखैः सूतं सप्तभिरार्दयत् । यमं शतसहस्रेण शीघ्रं मर्मस्वताडयत् ।। 7.22.21 ।। Uttara Kanda,22,22,ततः क्रुद्धस्य वदनाद्यमस्य समजायत । ज्वालामाली सनिःश्वासः सधूमः कोपपावकः ।। 7.22.22 ।। Uttara Kanda,22,23,तदाश्चर्यमथो दृष्ट्वा देवदानवसन्निधौ । प्रहर्षितौ सुसंरब्धौ मृत्युकालौ बभूवतुः ।। 7.22.23 ।। Uttara Kanda,22,24,ततो मृत्युः क्रुद्धतरो वैवस्वतमभाषत । मुञ्च मां समरे यावद्धन्मीमं पापराक्षसम् । नैषा रक्षो भवेदद्य मर्यादा हि निसर्गतः ।। 7.22.24 ।। Uttara Kanda,22,25,हिरण्यकशिपुः श्रीमान्नमुचिः शम्बरस्तथा । विसन्धिर्धूमकेतुश्च बलिर्वैरोचनो ऽपि च ।। 7.22.25 ।। Uttara Kanda,22,26,दम्भुर्दैत्यमहाराजो वृत्रो बाणस्तथैव च । राजर्षयः शास्त्रविदो गन्धर्वाः समहोरगाः ।। 7.22.26 ।। Uttara Kanda,22,27,ऋषयः पन्नगा दैत्या यक्षाश्चाप्यप्सरोगणाः । युगान्तपरिवर्ते च पृथिवी समहार्णवा ।। 7.22.27 ।। Uttara Kanda,22,28,क्षयं नीता महाराज सपर्वतसरिद्द्रुमा । एते चान्ये च बहवो बलवन्तो दुरासदाः ।। 7.22.28 ।। Uttara Kanda,22,29,विनिपन्ना मया दृष्टाः किमुतायं निशाचरः ।। 7.22.29 ।। Uttara Kanda,22,30,मुञ्चं मां साधु धर्मज्ञ यावदेनं निहन्म्यहम् । नहि कश्चिन्मया दृष्टो बलवानपि जीवति ।। 7.22.30 ।। Uttara Kanda,22,31,बलं मम न खल्वेतन्मर्यादैषा निसर्गतः । स दृष्टो न मया कालं मुहुर्तमापि जीवति ।। 7.22.31 ।। Uttara Kanda,22,32,तस्यैवं वचनं श्रुत्वा धर्मराजः प्रतापवान् । अब्रवीत्तत्र तं मुत्युं त्वं तिष्ठैनं निहन्म्यहम् ।। 7.22.32 ।। Uttara Kanda,22,33,ततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुः । कालदण्डममोघं तु तोलयामास पाणिना ।। 7.22.33 ।। Uttara Kanda,22,34,यस्य पार्श्वेषु निखिला कालपाशाः प्रतिष्ठिताः । पावकाशनिसङ्काशो मुद्गरो मूर्तिमान्स्थितः ।। 7.22.34 ।। Uttara Kanda,22,35,दर्शनादेव यः प्राणान्प्राणिनामपकर्षति । किं पुनः स्पृश्यमानस्य पात्यमानस्य वा पुनः ।। 7.22.35 ।। Uttara Kanda,22,36,स ज्वालापरिवारस्तु निर्दहन्निव राक्षसम् । तेन स्पृष्टो बलवता महाप्रहरणो ऽस्फुरत् ।। 7.22.36 ।। Uttara Kanda,22,37,ततो विदुद्रुवुः सर्वे तस्मात्रस्ता रणाजिरे । सुराश्च क्षुभिताः सर्वे दृष्ट्वा दण्डोद्यतं यमम् ।। 7.22.37 ।। Uttara Kanda,22,38,तस्मिन्प्रहर्तुकामे तु यमे दण्डेन रावणम् । यमं पितामहः साक्षाद्दर्शयित्वेदमब्रवीत् ।। 7.22.38 ।। Uttara Kanda,22,39,वैवस्वत महाबाहो न खल्वमितविक्रम । न हन्तव्यस्त्वया तेन दण्डेनैव निशाचरः ।। 7.22.39 ।। Uttara Kanda,22,40,वरः खलु मयैतस्मै दत्तस्त्रिदशपुङ्गव । स त्वया नानृतः कार्यो यन्मया व्याहृतं वचः ।। 7.22.40 ।। Uttara Kanda,22,41,यो हि मामनृतं कुर्याद्देवो वा मानुषो ऽपि वा । त्रैलोक्यमनृतं तेन कृतं स्यान्नात्र संशयः ।। 7.22.41 ।। Uttara Kanda,22,42,क्रुद्धेन विप्रमुक्तो ऽयं निर्विशेषं प्रियाप्रिये । प्रजाः संहरते रौद्रो लोकत्रयभयावहः ।। 7.22.42 ।। Uttara Kanda,22,43,अमोघो ह्येष सर्वेषां प्राणिनाममितप्रभः । कालदण्डो मया सृष्टः पूर्वं मृत्युपुरस्कृतः ।। 7.22.43 ।। Uttara Kanda,22,44,तन्न खल्वेष ते सौम्य पात्यो रावणमूर्धनि । नह्यस्मिन्पतिते कश्चिन्मुहूर्तमपि जीवति ।। 7.22.44 ।। Uttara Kanda,22,45,यदि ह्यन्मिन्निपतिते न म्रियेतैष राक्षसः । म्रियते वा दशग्रीवस्तदाप्युभयतो ऽनृतम् ।। 7.22.45 ।। Uttara Kanda,22,46,तन्निवर्तय लङ्केशं द्दण्डमेतं समुद्यतम् । सत्यं च मां कुरुष्वाद्य लोकांस्त्वं यद्यवेक्षसे ।। 7.22.46 ।। Uttara Kanda,22,47,एवमुक्तस्तु धर्मात्मा प्रत्युवाच यमस्तदा । एष व्यावर्तितो दण्डः प्रभविष्णुर्हि नो भवान् ।। 7.22.47 ।। Uttara Kanda,22,48,किं न्विदानीं मया शक्यं कर्तुं रणगतेन हि । न मया यद्ययं शक्यो हन्तुं वरपुरस्कृतः ।। 7.22.48 ।। Uttara Kanda,22,49,एष तस्मात्प्रणश्यामि दर्शनादस्य रक्षसः । इत्युक्त्वा सरथः साश्वस्तत्रैवान्तरधीयत ।। 7.22.49 ।। Uttara Kanda,22,50,दशग्रीवस्तु तं जित्वा नाम विश्राव्य चात्मनः । आरुह्य पुष्पकं भूयो निष्क्रान्तो यमसादनात् ।। 7.22.50 ।। Uttara Kanda,22,51,स तु वैवस्वतो देवैः सह ब्रह्मपुरोगमैः । जगाम त्रिदिवं हृष्टो नारदश्च महामुनिः ।। 7.22.51 ।। Uttara Kanda,22,52,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्वाविंशः सर्गः ।। 22 ।। Uttara Kanda,23,1,ततो जित्वा दशग्रीवो यमं त्रिदशपुङ्गवम् । रावणस्तु रणश्लाघी स्वसहायान्ददर्श ह ।। 7.23.1 ।। Uttara Kanda,23,2,ततो रुधिरसिक्ताङ्गं प्रहारैर्जर्जरीकृतम् । रावणं राक्षसा दृष्ट्वा ह्यष्टवत् समुपागमन् ।। 7.23.2 ।। Uttara Kanda,23,3,जयेन वर्धयित्वा च मारीचप्रमुखास्ततः । पुष्पकं भेजिरे सर्वे सान्त्विता रावणेन तु ।। 7.23.3 ।। Uttara Kanda,23,4,ततो रसातलं गच्छन् प्रविष्टः पयसां निधिम् । दैत्योरगगणाध्युष्टं वरुणेन सुरक्षितम् ।। 7.23.4 ।। Uttara Kanda,23,5,स तु भोगवतीं गत्वा पुरीं वासुकिपालिताम् । कृत्वा नागान्वशे हृष्टो ययौ मणिमयीं पुरीम् ।। 7.23.5 ।। Uttara Kanda,23,6,निवातकवचास्तत्र दैत्या लब्धवरा वसन् । राक्षसान्तान्समागम्य युद्धाय समुपाह्वयत् ।। 7.23.6 ।। Uttara Kanda,23,7,ते तु सर्वे सुविक्रान्ता दैतेया बलशालिनः । नानाप्रहरणास्तत्र प्रहृष्टा युद्धदुर्मदाः ।। 7.23.7 ।। Uttara Kanda,23,8,शूलैस्त्रिशूलैः कुलिशैः पट्टिशासिपरश्वधैः । अन्योन्यं बिभिदुः क्रुद्धा राक्षसा दानवास्तथा ।। 7.23.8 ।। Uttara Kanda,23,9,तेषां तु युध्यमानानां साग्रः संवत्सरो गतः । न चान्यतरयोस्तत्र विजयो वा क्षयो ऽपि वा ।। 7.23.9 ।। Uttara Kanda,23,10,ततः पितामहस्तत्र त्रैलोक्यगतिरव्ययः । आजगाम द्रुतं देवो विमानवरमास्थितः ।। 7.23.10 ।। Uttara Kanda,23,11,निवातकवचानां तु निवार्य रणकर्म तत् । वृद्धः पितामहो वाक्यमुवाच विदितार्थवत् ।। 7.23.11 ।। Uttara Kanda,23,12,नह्ययं रावणो युद्धे शक्यो जेतुं सुरासुरैः । न भवन्तः क्षयं नेतुमपि सामरदानवैः ।। 7.23.12 ।। Uttara Kanda,23,13,राक्षसस्य सखित्वं च भवद्भिः सह रोचते । अविभक्ताश्च सर्वार्थाः सुहृदां नात्र संशयः ।। 7.23.13 ।। Uttara Kanda,23,14,ततो ऽग्निसाक्षिकं सख्यं कृतवांस्तत्र रावणः । निवातकवचैः सार्धं प्रीतिमानभवत्तदा ।। 7.23.14 ।। Uttara Kanda,23,15,अर्थतस्तैर्यथान्यायं संवत्सरमथोषितः । स्वपुरान्निर्विशेषं च प्रियं प्राप्तो दशाननः ।। 7.23.15 ।। Uttara Kanda,23,16,ततोपधार्य मायानां शतमेकं समाप्तवान् । सलिलेन्द्रपुरान्वेषी भ्रमति स्म रसातलम् ।। 7.23.16 ।। Uttara Kanda,23,17,ततो ऽश्मनगरं नाम कालकेयैरधिष्ठितम् । गत्वा तु कालकेयांश्च हत्वा तत्र बलोत्कटान् ।। 7.23.17 ।। Uttara Kanda,23,18,शूर्पणख्याश्च भर्तारमसिना प्राच्छिनत्तदा । श्यालं च बलवन्तं च विद्युज्जिह्वं बलोत्कटम् । जिह्वया संलिहन्तं च राक्षसं समरे तथा ।। 7.23.18 ।। Uttara Kanda,23,19,तं विजित्य मुहूर्तेन जघ्ने दैत्यांश्चतुःशतम् ।। 7.23.19 ।। Uttara Kanda,23,20,ततः पाण्डुरमेघाभं कैलासमिव भास्वरम् । वरुणस्यालयं दिव्यमपश्यद्राक्षसाधिपः ।। 7.23.20 ।। Uttara Kanda,23,21,क्षरन्तीं च पयस्तत्र सुरभिं गामवस्थिताम् । यस्याः पयोभिनिष्यन्दात्क्षीरोदो नाम सागरः ।। 7.23.21 ।। Uttara Kanda,23,22,ददर्श रावणस्तत्र गोवृषेन्द्रवरारणिम् । यस्माच्चन्द्रः प्रभवति शीतरश्मिर्निशाकरः ।। 7.23.22 ।। Uttara Kanda,23,23,यं समाश्रित्य जीवन्ति फेनपाः परमर्षयः । अमृतं यत्र चोत्पन्नं स्वधा च स्वधभोजिनाम् ।। 7.23.23 ।। Uttara Kanda,23,24,यां ब्रुवन्ति नरा लोके सुरभिं नाम नामतः । प्रदक्षिणं तु तां कृत्वा रावणः परमाद्भुताम् ।। 7.23.24 ।। Uttara Kanda,23,25,प्रविवेश महाघोरं गुप्तं बहुविधैर्बलैः । ततो धाराशताकीर्णं शारदाभ्रनिभं तदा । नित्यप्रहृष्टं ददृशे वरुणस्य गृहोत्तमम् ।। 7.23.25 ।। Uttara Kanda,23,26,ततो हत्वा बलाध्यक्षान्समरे तैश्च ताडितः । अब्रवीच्च ततो योधान्राजा शीघ्रं निवेद्यताम् ।। 7.23.26 ।। Uttara Kanda,23,27,युद्धार्थी रावणः प्राप्तस्तस्य युद्धं प्रदीयताम् । वद वा न भयं ते ऽस्ति निर्जितो ऽस्मीति साञ्जलिः ।। 7.23.27 ।। Uttara Kanda,23,28,एतस्मिन्नन्तरे क्रुद्धा वरुणस्य महात्मनः । पुत्राः पौत्राश्च निष्क्रामन्गौश्च पुष्कर एव च ।। 7.23.28 ।। Uttara Kanda,23,29,ते तु वीर्यगुणोपेता बलैः परिवृताः स्वकैः । युङ्क्त्वा रथान्कामगमानुद्यद्भास्वरवर्चसः ।। 7.23.29 ।। Uttara Kanda,23,30,ततो युद्धं समभवद्दारुणं रोमहर्षणम् । सलिलेन्द्रस्य पुत्राणां रावणस्य च धीमतः ।। 7.23.30 ।। Uttara Kanda,23,31,अमात्यैश्च महावीर्यैर्दशग्रीवस्य रक्षसः । वारुणं तद्बलं कृत्स्नं क्षणेन विनिपातितम् ।। 7.23.31 ।। Uttara Kanda,23,32,समीक्ष्य स्वबलं सङ्ख्ये वरुणस्य सुतास्तदा । अर्दिताः शरजालेन निवृत्ता रणकर्मणः ।। 7.23.32 ।। Uttara Kanda,23,33,महीतलगतास्ते तु रावणं दृश्य पुष्पके । आकाशमाशु विविशुः स्यन्दनैः शीघ्रगामिभिः ।। 7.23.33 ।। Uttara Kanda,23,34,महादासीत्ततस्तेषां तुल्यं स्थानमवाप्य तत् । आकाशयुद्धं तुमुलं देवदानवयोरिव ।। 7.23.34 ।। Uttara Kanda,23,35,ततस्ते रावणं युद्धे शरैः पावकसन्निभैः । विमुखीकृत्य सन्तुष्टा विनेदुर्विविधान्रवान् ।। 7.23.35 ।। Uttara Kanda,23,36,ततो महोदरः क्रुद्धो राजानं दृश्य धर्षितम् । त्यक्त्वा मृत्युभयं वीरो युद्धकाङ्क्षी व्यलोकयत् ।। 7.23.36 ।। Uttara Kanda,23,37,तेन ते दारुणा युद्धे कामगाः पवनोपमाः । महोदरेण गदया हता वै प्रययुः क्षितिम् ।। 7.23.37 ।। Uttara Kanda,23,38,तेषां वरुणपुत्राणां हत्वा योधान्हयाञ्छतान् । मुमोचाशु महानादं विरथान्प्रेक्ष्य तान्स्थितान् ।। 7.23.38 ।। Uttara Kanda,23,39,ते तु तेषां रथाः साश्वाः सह सारथिभिर्हतैः । महोदरेण निहताः पतिताः पृथिवीतले ।। 7.23.39 ।। Uttara Kanda,23,40,ते तु त्यक्त्वा रथान्पुत्रा वरुणस्य महात्मनः । आकाशे विष्ठिताः शूराः स्वप्रभावान्न विव्यथुः ।। 7.23.40 ।। Uttara Kanda,23,41,धनूंषि कृत्वा सज्जानि विनिर्भिद्य महोदरम् । रावणं समरे क्रुद्धाः सहिताः समभिद्रवन् ।। 7.23.41 ।। Uttara Kanda,23,42,सायकैश्चापविभ्रष्टैर्वज्रकल्पैः सुदारुणैः । दारयन्ति स्म सङ्क्रुद्धा मेघा इव महागिरिम् ।। 7.23.42 ।। Uttara Kanda,23,43,ततः क्रुद्धो दशग्रीवः कालाग्निरिव निर्गतः । शरवर्षैर्महाघोरैस्तेषां मर्मस्वताडयत् ।। 7.23.43 ।। Uttara Kanda,23,44,ततस्तेनैव सहसा सीदन्ति स्म पदातयः । मुसलानि विचित्राणि ततो भल्लशतानि च ।। 7.23.44 ।। Uttara Kanda,23,45,पट्टिशांश्चैव शक्तीश्च शतघ्नीस्तोमरांस्तथा । पातयामास दुर्धर्षस्तेषामुपरि विष्ठितः ।। 7.23.45 ।। Uttara Kanda,23,46,अपविद्धास्तु ते वीरा विनिष्पेतुः पदातयः । महापङ्कमिवासाद्य कुञ्जराष्षष्टिहायनाः ।। 7.23.46 ।। Uttara Kanda,23,47,सीदमानान्सुतान्दृष्ट्वा विह्वलान्सुमहौजसः । ननाद रावणो हर्षान्महानम्बुधरो यथा ।। 7.23.47 ।। Uttara Kanda,23,48,ततो रक्षो महानादान्मुक्त्वा हन्ति स्म वारुणान् । नानाप्रहरणोपेतैर्धारापातैरिवाम्बुदः ।। 7.23.48 ।। Uttara Kanda,23,49,ततस्ते विमुखाः सर्वे पतिता धरणीतले । रणात्स्वपुरुषैः शीघ्रं गृहाण्येव प्रवेशिताः ।। 7.23.49 ।। Uttara Kanda,23,50,तानब्रवीत्ततो रक्षो वरुणाय निवेद्यताम् ।। 7.23.50 ।। Uttara Kanda,23,51,रावणं त्वब्रवीन्मन्त्री प्रहस्तो (प्रहसो) नाम वारुणः । गतः खलु महाराजो ब्रह्मलोकं जलेश्वरः ।। 7.23.51 ।। Uttara Kanda,23,52,गान्धर्वं वरुणः श्रोतुं यं त्वमाह्वयसे युधि । तत्किं तव वृथा वीर परिश्रम्य गते नृपे । ये तु सन्निहिता वीराः कुमारास्ते पराजिताः ।। 7.23.52 ।। Uttara Kanda,23,53,राक्षसेन्द्रस्तु तच्छ्रुत्वा नाम विश्राव्य चात्मनः । हर्षान्नादं विमुञ्चन्वै निष्क्रान्तो वरुणालयात् ।। 7.23.53 ।। Uttara Kanda,23,54,आगतस्तु पथा येन तेनैव विनिवृत्य सः । लङ्कामभिमुखो रक्षो नभस्तलगतो ययौ ।। 7.23.54 ।। Uttara Kanda,23,55,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रयोविंशः सर्गः ।। 23 ।। Uttara Kanda,24,1,निवर्तमानः संहृष्टो रावणस्सुदुरात्मवान् । जह्रे पथि नरेन्द्रर्षिदेवगन्धर्वकन्यकाः ।। 7.24.1 ।। Uttara Kanda,24,2,दर्शनीयां हि रक्षः स कन्यां स्त्रीं वापि पश्यति । हत्वा बन्धुजनं तस्या विमाने तां रुरोध ह ।। 7.24.2 ।। Uttara Kanda,24,3,एवं पन्नगकन्याश्च राक्षसासुरमानुषीः । यक्षदानवकन्याश्च विमाने सो ऽध्यरोपयत् ।। 7.24.3 ।। Uttara Kanda,24,4,ताश्च सर्वाः समं दुःखान्मुमुचुर्बाष्पजं जलम् । तुल्यमग्न्यर्चिषां तत्र शोकाग्निभयसम्भवम् ।। 7.24.4 ।। Uttara Kanda,24,5,ताभिः सर्वानवद्याभिर्नदीभिरिव सागरः । आपूरितं विमानं तद्भयशोकाशिवाश्रुभिः ।। 7.24.5 ।। Uttara Kanda,24,6,नागगन्धर्वकन्याश्च महर्षितनयाश्च याः । दैत्यदानवकन्याश्च विमाने शतशो ऽरुदन् ।। 7.24.6 ।। Uttara Kanda,24,7,दीर्घकेश्यः सुचार्वङ्ग्यः पूर्णचन्द्रनिभाननाः । पीनस्तन्यस्तथा वज्रवेदिमध्यसमप्रभाः ।। 7.24.7 ।। Uttara Kanda,24,8,रथकूबरसङ्काशैः श्रोणिदेशैर्मनोहराः । स्त्रियः सुराङ्गनाप्रख्या निष्टप्तकनकप्रभाः ।। 7.24.8 ।। Uttara Kanda,24,9,शोकदुःखभयत्रस्ता विह्वलाश्च सुमध्यमाः । तासां निश्वासवातेन सर्वतः सम्प्रदीपितम् ।। 7.24.9 ।। Uttara Kanda,24,10,अग्निहोत्रमिवाभाति सन्निरुद्धाग्निपुष्पकम् । दशग्रीववशं प्राप्तास्तास्तु शोकाकुलाः स्त्रियः ।। 7.24.10 ।। Uttara Kanda,24,11,दीनवक्रेक्षणाः श्यामा मृग्यः सिंहवशा इव । काचिच्चिन्तयती तत्र किं नु मां भक्षयिष्यति ।। 7.24.11 ।। Uttara Kanda,24,12,काचिद्दध्यौ सुदुःखार्ता अपि मां मारयेदयम् । इति मातृपितऽन्स्मृत्वा भर्तऽन्भ्रातऽंस्तथैव च । दुःखशोकसमाविष्टा विलेपुः सहिताः स्त्रियः ।। 7.24.12 ।। Uttara Kanda,24,13,कथं नु खलु मे पुत्रो भविष्यति मया विना । कथं माता कथं भ्राता निमग्नाः शोकसागरे ।। 7.24.13 ।। । Uttara Kanda,24,14,हा कथं नु करिष्यामि भर्तुस्तस्मादहं विना । मृत्यो प्रसादयामि त्वां नय मां दुःखभागिनीम् ।। 7.24.14 ।। Uttara Kanda,24,15,किन्नु तद्दुष्कृतं कर्म पुरा देहान्तरे कृतम् ।। 7.24.15 ।। Uttara Kanda,24,16,एवं स्म दुःखिताः सर्वाः पतिताः शोकसागरे । न खल्विदानीं पश्यामो दुःखस्यास्यान्तमात्मनः ।। 7.24.16 ।। Uttara Kanda,24,17,अहो धिङ्मानुषं लोकं नास्ति खल्वधमः परः । यद्दुर्बला बलवता भर्तारो रावणेन नः ।। 7.24.17 ।। Uttara Kanda,24,18,सूर्येणोदयता काले नक्षत्राणीव नाशिताः । अहो सुबलवद्रक्षो वधोपायेषु युज्यते ।। 7.24.18 ।। Uttara Kanda,24,19,अहो दुर्वृत्तमास्थाय नात्मानं वैजुगुप्सते । सर्वथा सदृशस्तावद्विक्रमो ऽस्य दुरात्मनः ।। 7.24.19 ।। Uttara Kanda,24,20,इदं त्वसदृशं कर्म परदाराभिमर्शनम् । यस्मादेष परक्यासु रमते राक्षसाधमः ।। 7.24.20 ।। Uttara Kanda,24,21,तस्माद्वै स्त्रीकृतेनैव प्राप्स्यते दुर्मतिर्वधम् । सतीभिर्वरनारीभिरेवं वाक्ये ऽभ्युदीरिते ।। 7.24.21 ।। Uttara Kanda,24,22,नेदुर्दुन्दुभयः खस्थाः पुष्पवृष्टिः पपात च । शप्तः स्त्रीभिः स तु समं हतौजा इव निष्प्रभः ।। 7.24.22 ।। Uttara Kanda,24,23,पतिव्रताभिः साध्वीभिर्बभूव विमना इव । एवं विलपितं तासां शृण्वन्राक्षसपुङ्गवः । प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ।। 7.24.23 ।। Uttara Kanda,24,24,एतस्मिन्नन्तरे घोरा राक्षसी कामरूपिणी । सहसा पतिता भूमौ भगिनी रावणस्य सा ।। 7.24.24 ।। Uttara Kanda,24,25,तां स्वसारं समुत्थाप्य रावणः परिसान्त्वयन् । अब्रवीत्किमिदं भद्रे वक्तुकामा ऽसि मे द्रुतम् ।। 7.24.25 ।। Uttara Kanda,24,26,सा बाष्पपरिरुद्धाक्षी रक्ताक्षी वाक्यमब्रवीत् । कृता ऽस्मि विधवा राजंस्त्वया बलवता बलात् ।। 7.24.26 ।। Uttara Kanda,24,27,एते राजंस्त्वया वीरा दैत्या विनिहता रणे । कालकेया इति ख्याताः सहस्राणि चतुर्दश ।। 7.24.27 ।। Uttara Kanda,24,28,प्राणेभ्यो ऽपि गरीयान्मे तत्र भर्ता महाबलः ।। 7.24.28 ।। Uttara Kanda,24,29,सो ऽपि त्वया हतस्तात रिपुणा भ्रातृगृध्नुना । त्वया ऽस्मि निहता राजन्स्वयमेव हि बन्धुना ।। 7.24.29 ।। Uttara Kanda,24,30,राजन्वैधव्यशब्दं च भोक्ष्यामि त्वत्कृते ह्यहम् । ननु नाम त्वया रक्ष्यो जामाता समरेष्वपि । स त्वया निहतो युद्धे स्वयमेव न लज्जसे ।। 7.24.30 ।। Uttara Kanda,24,31,एवमुक्तो दशग्रीवो भगिन्या क्रोशमानया । अब्रवीत्सान्त्वयित्वा तां सामपूर्वमिदं वचः ।। 7.24.31 ।। Uttara Kanda,24,32,अलं वत्से रुदित्वा ते न भेतव्यं च सर्वशः । दानमानप्रसादैस्त्वां तोषयिष्यामि यत्नतः ।। 7.24.32 ।। Uttara Kanda,24,33,युद्धप्रमत्तो व्याक्षिप्तो जयाकाङ्क्षी क्षिपञ्छरान् । नावगच्छामि युद्धेषु स्वान्परान्वाप्यहं शुभे ।। 7.24.33 ।। Uttara Kanda,24,34,जामातरं न जाने स्म प्रहरन्युद्धदुर्मदः । तेनासौ निहतः सङ्ख्ये मया भर्ता तव स्वसः ।। 7.24.34 ।। Uttara Kanda,24,35,अस्मिन्काले तु यत्प्राप्तं तत्करिष्यामि ते हितम् । भ्रातुरैश्वर्ययुक्तस्य खरस्य वस पार्श्वतः ।। 7.24.35 ।। Uttara Kanda,24,36,चतुर्दशानां भ्राता ते सहस्राणां भविष्यति । प्रभुः प्रयाणे दाने च राक्षसानां महाबलः ।। 7.24.36 ।। Uttara Kanda,24,37,तत्र मातृष्वसेयस्ते भ्राता ऽयं वै खरः प्रभुः । भविष्यति तवादेशं सदा कुर्वन्निशाचरः ।। 7.24.37 ।। Uttara Kanda,24,38,शीघ्रं गच्छत्वयं वीरो दण्डकान्परिरक्षितुम् । दूषणो ऽस्य बलाध्यक्षो भविष्यति महाबलः ।। 7.24.38 ।। Uttara Kanda,24,39,तत्र ते वचनं शूरः करिष्यति सदा खरः । रक्षसां कामरूपाणां प्रभुरेष भविष्यति ।। 7.24.39 ।। Uttara Kanda,24,40,एवमुक्त्वा दशग्रीवः सैन्यमस्यादिदेश ह । चतुर्दश सहस्राणि रक्षसां वीर्यशालिनाम् ।। 7.24.40 ।। Uttara Kanda,24,41,स तैः परिवृतस्सर्वै राक्षसैर्घोरदर्शनैः । आगच्छत खरः शीघ्रं दण्डकानकुतोभयः ।। 7.24.41 ।। Uttara Kanda,24,42,स तत्र कारयामास राज्यं निहतकण्टकम् । सा च शूर्पणखा तत्र न्यवसद्दण्डकावने ।। 7.24.42 ।। Uttara Kanda,24,43,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुर्विंशः सर्गः ।। 24 ।। Uttara Kanda,25,1,स तु दत्त्वा दशग्रीवो वनं घोरं स्वरस्य तत् । भगिनीं च समाश्वास्य हृष्टः स्वस्थतरो ऽभवत् ।। 7.25.1 ।। Uttara Kanda,25,2,ततो निकुम्भिला नाम लङ्कोपवनमुत्तमम् । तद्राक्षसेन्द्रो बलवान्प्रविवेश सहानुगः ।। 7.25.2 ।। Uttara Kanda,25,3,ततो यूपशताकीर्णं सौम्यचैत्योपशोभितम् । ददर्श विष्ठितं यज्ञं श्रिया सम्प्रज्वलन्निव ।। 7.25.3 ।। Uttara Kanda,25,4,ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम् । ददर्श स्वसुतं तत्र मेघनादं भयावहम् ।। 7.25.4 ।। Uttara Kanda,25,5,तं समासाद्य लङ्केशः परिष्वज्वाथ बाहुभिः । अब्रवीत्किमिदं वत्स वर्तसे ब्रूहि तत्त्वतः ।। 7.25.5 ।। Uttara Kanda,25,6,उशना त्वब्रवीत्तत्र यज्ञसम्पत्समृद्धये । रावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः ।। 7.25.6 ।। Uttara Kanda,25,7,अहमाख्यामि ते राजञ्छ्रूयतां सर्वमेव तत् । यज्ञास्ते सप्त पुत्रेण प्राप्तास्सुबहुविस्तराः ।। 7.25.7 ।। Uttara Kanda,25,8,अग्निष्टोमो ऽश्वमेधश्च यज्ञो बहुसुवर्णकः । राजसूयस्तथा यज्ञो गोमेधो वैष्ववस्तथा ।। 7.25.8 ।। Uttara Kanda,25,9,माहेश्वरे प्रवृत्ते तु यज्ञे पुम्भिः सुदुर्लभे । वरांस्ते लब्धवान्पुत्रः साक्षात्पशुपतेरिह ।। 7.25.9 ।। Uttara Kanda,25,10,कामगं स्यन्दनं दिव्यमन्तरिक्षचरं ध्रुवम् । मायां च तामसीं नाम यया सम्पद्यते तमः ।। 7.25.10 ।। Uttara Kanda,25,11,एतया किल सङ्ग्रामे मायया राक्षसेश्वर । प्रयुक्तया गतिः शक्या नहि ज्ञातुं सुरासुरैः ।। 7.25.11 ।। Uttara Kanda,25,12,अक्षयाविषुधी बाणैश्चापं चापि सुदुर्जयम् । अस्त्रं च बलवद्राजञ्छत्रुविध्वंसनं रणे ।। 7.25.12 ।। Uttara Kanda,25,13,एतान्सर्वान्वरांल्लब्ध्वा पुत्रस्ते ऽयं दशानन । अद्य यज्ञसमाप्तौ च त्वां दिदृक्षुस्स्थितो ह्यहम् ।। 7.25.13 ।। Uttara Kanda,25,14,ततो ऽब्रवीदृशग्रीवो न शोभनमिदं कृतम् । पूजिताः शत्रवो यस्माद्द्रव्यैरिन्द्रपुरोगमाः ।। 7.25.14 ।। Uttara Kanda,25,15,एहीदानीं कृतं विद्धि सुकृतं तन्न संशयः । आगच्छ सौम्य गच्छामः स्वमेव भवनं प्रति ।। 7.25.15 ।। Uttara Kanda,25,16,ततो गत्वा दशग्रीवः सपुत्रः सविभीषणः । स्त्रियो ऽवतारयामास सर्वास्ता बाष्पगद्गदाः ।। 7.25.16 ।। Uttara Kanda,25,17,लक्षिण्यो रत्नभूताश्च देवदानवरक्षसाम् । तस्य तासु मतिं ज्ञात्वा धर्मत्मा वाक्यमब्रवीत् ।। 7.25.17 ।। Uttara Kanda,25,18,ईदृशैस्त्वं समाचारैर्यशोर्थकुलनाशनैः । धर्षणं ज्ञातिनां ज्ञात्वा स्वमतेन विचेष्टसे ।। 7.25.18 ।। Uttara Kanda,25,19,ज्ञातींस्तान्धर्षयित्वेमास्त्वया ऽ ऽनीता वराङ्गनाः । त्वामतिक्रम्य मधुना राजन्कुम्भीनसी हृता ।। 7.25.19 ।। Uttara Kanda,25,20,रावणस्त्वब्रवीद्वाक्यं नावगच्छामि किं त्विदम् । को ऽयं यस्तु त्वया ऽ ऽख्यातो मधुरित्येव नामतः ।। 7.25.20 ।। Uttara Kanda,25,21,विभीषणस्तु सङ्क्रुद्धो भ्रातरं वाक्यमब्रवीत् । श्रूयतामस्य पापस्य कर्मणः फलमागतम् ।। 7.25.21 ।। Uttara Kanda,25,22,मातामहस्य यो भ्राता ज्येष्ठो भ्राता सुमालिनः । माल्यवानिति विख्यातो वृद्धः प्राज्ञो निशाचरः ।। 7.25.22 ।। Uttara Kanda,25,23,पिता ज्येष्ठो जनन्या नो ह्यस्माकं चार्यको ऽभवत् । तस्य कुम्भीनसी नाम दुहितुर्दुहिता ऽभवत् ।। 7.25.23 ।। Uttara Kanda,25,24,मातृष्वसुरथास्माकं सा च कन्या ऽनलोद्भवा । भवत्यस्माकमेवैषा भ्रातृणां धर्मतः स्वसा ।। 7.25.24 ।। Uttara Kanda,25,25,"""सा हृता, मधुना राजन्राक्षसेन बलीयसा । यज्ञप्रवृत्ते पुत्रे तु मयि चान्तर्जलोषिते ।। 7.25.25 ।।""" Uttara Kanda,25,26,कुम्भकर्णे महाराज निद्रामनुभवत्यथ । निहत्य राक्षसश्रेष्ठानमात्यानिह सम्मतान् ।। 7.25.26 ।। Uttara Kanda,25,27,धर्षयित्वा हृता सा तु सुप्ताप्यन्तःपुरे तव । श्रुत्वा ऽपि तन्महाराज क्षान्तमेव हतो न सः ।। 7.25.27 ।। Uttara Kanda,25,28,यस्मादवश्यं दातव्या कन्या भर्त्रे हि भ्रातृभिः । तदेतत्कर्मणो ह्यस्य फलं पापस्य दुर्मते ।। 7.25.28 ।। Uttara Kanda,25,29,अस्मिन्नेवाभिसम्प्राप्तं लोके विदितमस्तु ते । विभीषणवचः श्रुत्वा राक्षसेन्द्रः स रावणः । दौरात्म्येनात्मनोद्धूतस्तप्ताम्भ इव सागरः ।। 7.25.29 ।। Uttara Kanda,25,30,ततो ऽब्रवीदृशग्रीवः क्रुद्धः संरक्तलोचनः । कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु नः ।। 7.25.30 ।। Uttara Kanda,25,31,भ्राता मे कुम्भकर्णश्च ये च मुख्या निशाचराः । वाहनान्यधिरोहन्तु नानाप्रहरणायुधाः ।। 7.25.31 ।। Uttara Kanda,25,32,अद्य तं समरे हत्वा मधुं रावणनिर्भयम् । सुरलोकं गमिष्यामि युद्धकाङ्क्षी सुहृद्वृतः ।। 7.25.32 ।। Uttara Kanda,25,33,अक्षौहिणीसहस्राणि चत्वार्यग्र्याणि रक्षसाम् । नानाप्रहरणान्याशु निर्ययुर्युद्धकाङ्क्षिणाम् ।। 7.25.33 ।। Uttara Kanda,25,34,इन्द्रजित्त्वग्रतः (अग्रतः) सैन्यात्सैनिकान्परिगृह्य च । जगाम रावणो मध्ये कुम्भकर्णश्च पृष्ठतः ।। 7.25.34 ।। Uttara Kanda,25,35,विभीषणश्च धर्मात्मा लङ्कायां धर्मामाचरत् । शोषाः सर्वे महाभागा ययुर्मधुपुरं प्रति ।। 7.25.35 ।। Uttara Kanda,25,36,खरैरुष्ट्रैर्हयैर्दीप्तैः शिंशुमारैर्महोरगैः । राक्षसाः प्रययुः सर्वे कृत्वा ऽ ऽकाशं निरन्तरम् ।। 7.25.36 ।। Uttara Kanda,25,37,दैत्याश्च शतशस्तत्र कृतवैराश्च दैवतैः । रावणं प्रेक्ष्य गच्छन्तमन्वगच्छन्हि पृष्ठतः ।। 7.25.37 ।। Uttara Kanda,25,38,स तु गत्वा मधुपुरं प्रविश्य च दशाननः । न ददर्श मधुं तत्र भगिनीं तत्र दृष्टवान् ।। 7.25.38 ।। Uttara Kanda,25,39,सा च प्रह्वाञ्जलिर्भूत्वा शिरसा चरणौ गता ।। 7.25.39 ।। Uttara Kanda,25,40,तस्य राक्षसराजस्य त्रस्ता कुम्भीनसी तदा । तां समुत्थापयामास न भेतव्यमिति ब्रुवन् ।। 7.25.40 ।। Uttara Kanda,25,41,रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते । साब्रवीद्यदि मे राजन्प्रसन्नस्त्वं महाभुज । भर्तारं न ममेहाद्य हन्तुर्महसि मानद ।। 7.25.41 ।। Uttara Kanda,25,42,न हीदृशं भयं किञ्चित्कुलस्त्रीणामिहोच्यते । भयानामपि सर्वेषां वैधव्यं व्यसनं महत् ।। 7.25.42 ।। Uttara Kanda,25,43,सत्यवाग्भव राजेन्द्र मामवेक्षस्व याचतीम् । त्वयाप्युक्तं महाराज न भेतव्यमिति स्वयम् ।। 7.25.43 ।। Uttara Kanda,25,44,रावणस्त्वब्रवीद्धृष्टः स्वसारं तत्र संस्थिताम् । क्व चासौ तव भर्ता वै मम शीघ्रं निवेद्यताम् ।। 7.25.44 ।। Uttara Kanda,25,45,सह तेन गमिष्यामि सुरलोकं जयावहे । तव कारुण्यसौहार्दान्निवृत्तो ऽस्मि मधोर्वधात् ।। 7.25.45 ।। Uttara Kanda,25,46,इत्युक्ता सा समुत्थाप्य प्रसुप्तं तं निशाचरम् । अब्रवीत्सम्प्रहृष्टेव राक्षसी सा पतिं वचः ।। 7.25.46 ।। Uttara Kanda,25,47,एष प्राप्तो दशग्रीवो मम भ्राता महाबलः । सुरलोकजयाकाङ्क्षी साहाय्ये त्वां वृणोति च ।। 7.25.47 ।। Uttara Kanda,25,48,तदस्य त्वं सहायार्थं सबन्धुर्गच्छ राक्षस । स्निग्धस्य भजमानस्य युक्तमर्थाय कल्पितुम् ।। 7.25.48 ।। Uttara Kanda,25,49,तस्यास्तद्वचनं श्रुत्वा तथेत्याह मधुर्वचः ।। 7.25.49 ।। Uttara Kanda,25,50,ददर्श राक्षसश्रेष्ठं यथान्यायमुपेत्य सः । पूजयमास धर्मेण रावणं राक्षसाधिपम् ।। 7.25.50 ।। Uttara Kanda,25,51,प्राप्य पूजां दशग्रीवो मधुवेश्मानि वीर्यवान् । तत्र चैकां निशामुष्य गमनायोपचक्रमे ।। 7.25.51 ।। Uttara Kanda,25,52,ततः कैलासमासाद्य शैलं वैश्रवणालयम् । राक्षसेन्द्रो महेन्द्राभः सेनामुपनिवेशयत् ।। 7.25.52 ।। Uttara Kanda,26,1,स तु तत्र दशग्रीवः सह सैन्येन वीर्यवान् । अस्तं प्राप्ते दिनकरे निवासं समरोचयत् ।। 7.26.1 ।। Uttara Kanda,26,2,उदिते विमले चन्द्रे तुल्यपर्वतवर्चसि । प्रसुप्तं सुमहत्सैन्यं नानाप्रहरणायुधम् ।। 7.26.2 ।। Uttara Kanda,26,3,रावणस्तु महावीर्यो निषण्णः शैलमूर्धनि । स ददर्श गुणांस्तत्र चन्द्रपादपशोभितान् ।। 7.26.3 ।। Uttara Kanda,26,4,कर्णिकारवनैर्दीप्तैः कदम्बगहनैस्तथा । पद्मिनीभिश्च फुल्लाभिर्मन्दाकिन्या जलैरपि ।। 7.26.4 ।। Uttara Kanda,26,5,चम्पकाशोकपुन्नागमन्दारतरुभिस्तथा । चूतपाटललोध्रैश्च प्रियङ्ग्वर्जुनकेतकैः । तगरैर्नारिकैलैश्च प्रियालपनसैस्तथा ।। 7.26.5 ।। Uttara Kanda,26,6,आरग्वधैस्तमालैश्च प्रियालवकुलैरपि । एतैरन्यैश्च तरुभिरुद्भासितवनान्तरे । किन्नरा मदनेनार्ता रक्ता मधुरकण्ठिनः ।। 7.26.6 ।। Uttara Kanda,26,7,समं सम्प्रजगुर्यत्र मनस्तुष्टिविवर्धनम् ।। 7.26.7 ।। Uttara Kanda,26,8,भिरुद्भासितवनान्तरे । विद्याधरा मदक्षीबा मदरक्तान्तलोचनाः । योषिद्भिः सह सङ्क्रान्ताश्चिक्रीडुर्जहृषुश्च वै ।। 7.26.8 ।। Uttara Kanda,26,9,घण्टानामिव सन्नादः शुश्रुवे मधुरस्वरः । अप्सरोगणसङ्घानां गायतां धनदालये ।। 7.26.9 ।। Uttara Kanda,26,10,पुष्पवर्षाणि मुञ्चन्तो नगाः पवनताडिताः । शैलं तं वासयन्तीव मधुमाधवगन्धिनः ।। 7.26.10 ।। Uttara Kanda,26,11,मधुपुष्परजःपृक्तं गन्धमादाय पुष्कलम् । प्रववौ वर्धयन्कामं रावणस्य सुखो ऽनिलः ।। 7.26.11 ।। Uttara Kanda,26,12,गेयात्पुष्पसमृद्ध्या च शैत्याद्वायोर्गिरेर्गुणात् । प्रवृत्तायां रजन्यां च चन्द्रस्योदयनेन च ।। 7.26.12 ।। Uttara Kanda,26,13,रावणस्तु महावीर्यः कामस्य वशमागतः । विनिःश्वस्य विनिःश्वस्य शशिनं समवैक्षत ।। 7.26.13 ।। Uttara Kanda,26,14,एतस्मिन्नन्तरे तत्र दिव्याभरणभूषिता । सर्वाप्सरोवरा रम्भा दिव्यपुष्पविभूषिता ।। 7.26.14 ।। Uttara Kanda,26,15,दिव्यचन्दनलिप्ताङ्गी मन्दारकृतमूर्धजा । दिव्योत्सवकृतारम्भा पूर्णचन्द्रनिभानना ।। 7.26.15 ।। Uttara Kanda,26,16,चक्षुर्मनोहरं पीनं मेखलादामभूषितम् । समुद्वहन्ती जघनं रतिप्राभृतमुत्तमम् ।। 7.26.16 ।। Uttara Kanda,26,17,कृतैर्विशेषकैरार्द्रैः षडर्तुकुसुमोद्भवैः ।। 7.26.17 ।। Uttara Kanda,26,18,बभावन्यतमेव श्रीकान्तिद्युतिमतिह्रियाम् । नीलं सतोयमेघाभं वस्त्रं समवकुण्ठिता ।। 7.26.18 ।। Uttara Kanda,26,19,यस्या वक्त्रं शशिनिभं भ्रुवौ चापनिभे शुभे । ऊरू करिकराकारौ करौ पल्लवकोमलौ । सैन्यमध्येन गच्छन्ती रावणेनोपवीक्षिता ।। 7.26.19 ।। Uttara Kanda,26,20,तां समुत्थाय गच्छन्तीं कामबाणवशं गतः । करे गृहीत्वा लज्जन्तीं स्मयमानो ऽभ्यभाषत ।। 7.26.20 ।। Uttara Kanda,26,21,क्व गच्छसि वरारोहे कां सिद्धिं भजसे स्वयम् । कस्याभ्युदयकालो ऽयं यस्त्वां समुपभोक्ष्यते ।। 7.26.21 ।। Uttara Kanda,26,22,त्वदाननरसस्याद्य पद्मोत्पलसुगन्धिनः । सुधामृतरसस्येव को ऽद्य तृप्तिं गमिष्यति ।। 7.26.22 ।। Uttara Kanda,26,23,स्वर्णकुम्भनिभौ पीनौ शुभौ भीरु निरन्तरौ । कस्योरस्थलसंस्पर्शं दास्यतस्ते कुचाविमौ ।। 7.26.23 ।। Uttara Kanda,26,24,सुवर्णचक्रप्रतिमं स्वर्णदामचितं पृथु । अध्यारोहति कस्ते ऽद्य जघनं स्वर्गरूपिणम् ।। 7.26.24 ।। Uttara Kanda,26,25,मद्विशिष्टः पुमान्को ऽद्य शक्रो विष्णुरथाश्विनौ । मामतीत्य हि यं च त्वं यासि भीरु न शोभनम् ।। 7.26.25 ।। Uttara Kanda,26,26,विश्रम त्वं पृथुश्रोणि शिलातलमिदं शुभम् ।। 7.26.26 ।। Uttara Kanda,26,27,त्रैलोक्ये यः प्रभुश्चैव मदन्यो नैव विद्यते ।। 7.26.27 ।। Uttara Kanda,26,28,तदेवं प्राञ्जलिः प्रह्वो याचते त्वां दशाननः । भर्तुर्भर्ता विधाता च त्रैलोक्यस्य भजस्व माम् ।। 7.26.28 ।। Uttara Kanda,26,29,एवमुक्ता ऽब्रवीद्रम्भा वेपमाना कृताञ्जलिः । प्रसीद नार्हसे वक्तुमीदृशं त्वं हि मे गुरुः ।। 7.26.29 ।। Uttara Kanda,26,30,अन्येभ्यो हि त्वया रक्ष्या प्राप्नुयां धर्षणं यदि । तद्धर्मतः स्नुषा ते ऽहं तत्त्वमेव ब्रवीमि ते ।। 7.26.30 ।। Uttara Kanda,26,31,अथाब्रवीद्दशग्रीवश्चरणाधोमुखीं स्थिताम् । रोमहर्षमनुप्राप्तां दृष्टमात्रेण तां तदा ।। 7.26.31 ।। Uttara Kanda,26,32,सुतस्य यदि मे भार्या ततस्त्वं हि स्नुषा भवेः । बाढमित्येव सा रम्भा प्राह रावणमुत्तरम् ।। 7.26.32 ।। Uttara Kanda,26,33,धर्मतस्ते सुतस्याहं भार्या राक्षसपुङ्गव । पुत्रः प्रियतरः प्राणैर्भ्रातुर्वैश्रवणस्य ते । विख्यातस्त्रिषु लोकेषु नलकूबर इत्ययम् ।। 7.26.33 ।। Uttara Kanda,26,34,धर्मतो यो भवेद्विप्रः क्षत्रियो वीर्यतो भवेत् । क्रोधाद्यश्च भवेदग्निः क्षान्त्या च वसुधासमः ।। 7.26.34 ।। Uttara Kanda,26,35,तस्यास्मि कृतसङ्केता लोकपालसुतस्य वै । तमुद्दिश्य तु मे सर्वं विभूषणमिदं कृतम् ।। 7.26.35 ।। Uttara Kanda,26,36,तथा तस्य हि नान्यस्य भावो मां प्रति तिष्ठति ।। 7.26.36 ।। Uttara Kanda,26,37,तेन सत्येन मां राजन्मोक्तुमर्हस्यरिन्दम ।। 7.26.37 ।। Uttara Kanda,26,38,स हि तिष्ठति धर्मात्मा मां प्रतीक्ष्य समुत्सुकः । तत्र विघ्नं सुतस्येह कर्तुं नार्हसि मुञ्च माम् ।। 7.26.38 ।। Uttara Kanda,26,39,सद्भिराचरितं मार्गं गच्छ राक्षसुपुङ्गव । माननीयो मम त्वं हि पालनीया तथा ऽस्मि ते ।। 7.26.39 ।। Uttara Kanda,26,40,एवमुक्तो दशग्रीवः प्रत्युवाच विनीतवत् । स्नुषा ऽस्मि यदवोचस्त्वमेकपत्नीष्वयं क्रमः । देवलोकस्थितिरियं सुराणां शाश्वती मता ।। 7.26.40 ।। Uttara Kanda,26,41,पतिरप्सरसां नास्ति न चैकस्त्रीपरिग्रहः ।। 7.26.41 ।। Uttara Kanda,26,42,अस्मि यदवोचस्त्वमेकपत्नीष्वयं क्रमः । एवमुक्त्वा स तां रक्षो निवेश्य च शिलातले । कामभोगाभिसंसक्तो मैथुनायोपचक्रमे ।। 7.26.42 ।। Uttara Kanda,26,43,सा विमुक्ता ततो रम्भा भ्रष्टमाल्यविभूषणा । गजेन्द्राक्रीडमथिता नदीवाकुलतां गता ।। 7.26.43 ।। Uttara Kanda,26,44,लुलिताकुलकेशान्ता करवेपितपल्लवा । पवनेनावधूतेव लता कुसुमशालिनी ।। 7.26.44 ।। Uttara Kanda,26,45,सा वेपमाना लज्जन्ती भीता करकृताञ्जलिः । नलकूबरमासाद्य पादयोर्निपपात ह ।। 7.26.45 ।। Uttara Kanda,26,46,तदवस्थां च तां दृष्ट्वा महात्मा नलकूबरः । अब्रवीत्किमिदं भद्रे पादयोः पतिता ऽसि मे ।। 7.26.46 ।। Uttara Kanda,26,47,सा वै निःश्वसमाना तु वेपमाना कृताञ्जलिः । तस्मै सर्वं यथातत्त्वमाख्यातुमुपचक्रमे ।। 7.26.47 ।। Uttara Kanda,26,48,एष देव दशग्रीवः प्राप्तो गन्तुं त्रिविष्टपम् । तेन सैन्यसहायेन निशेयं परिणामिता ।। 7.26.48 ।। Uttara Kanda,26,49,आयन्ती तेन दृष्टा ऽस्मि त्वत्सकाशमरिन्दम । गृहीता तेन पृष्टा ऽस्मि कस्य त्वमिति रक्षसा ।। 7.26.49 ।। Uttara Kanda,26,50,मया तु सर्वं यत्सत्यं तस्मै सर्वं निवेदितम् । काममोहाभिभूतात्मा नाश्रौषीत्तद्वचो मम ।। 7.26.50 ।। Uttara Kanda,26,51,याच्यमानो मया देव स्नुषा ते ऽहमिति प्रभो । तत्सर्वं पृष्ठतः कृत्वा बलात्तेनास्मि धर्षिता ।। 7.26.51 ।। Uttara Kanda,26,52,एवं त्वमपराधं मे क्षन्तुमर्हसि सुव्रत । न हि तुल्यं बलं सौम्य स्त्रियाश्च पुरुषस्य च ।। 7.26.52 ।। Uttara Kanda,26,53,एतछुत्वा तु सङ्क्रुद्धस्तदा वैश्रवणात्मजः । धर्षणां तां परां श्रुत्वा ध्यानं सम्प्रविवेश ह ।। 7.26.53 ।। Uttara Kanda,26,54,तस्य तत्कर्म विज्ञाय तदा वैश्रवणात्मजः । मुहूर्तात्क्रोधताम्राक्षस्तोयं जग्राह पाणिना ।। 7.26.54 ।। Uttara Kanda,26,55,गृहीत्वा सलिलं सर्वमुपस्पृश्य यथाविधि । उत्ससर्ज यथा शापं राक्षसेन्द्राय दारुणम् ।। 7.26.55 ।। Uttara Kanda,26,56,अकामा तेन यस्मात्त्वं बलाद्भद्रे प्रधर्षिता । तस्मात्स युवतीमन्यां नाकामामुपयास्यति ।। 7.26.56 ।। Uttara Kanda,26,57,यदा ह्यकामां कामार्तो धर्षयिष्यति योषितम् । मूर्धा तु सप्तधा तस्य शकलीभविता तदा ।। 7.26.57 ।। Uttara Kanda,26,58,तस्मिन्नुदाहृते शापे ज्वलिताग्निसमप्रभे । देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता । पितामहमुखाश्चैव सर्वे देवाः प्रहर्षिताः ।। 7.26.58 ।। Uttara Kanda,26,59,ज्ञात्वा लोकगतिं सर्वां तस्य मृत्युं च रक्षसः । ऋषयः पितरश्चैव प्रीतिमापुरनुत्तमाम् ।। 7.26.59 ।। Uttara Kanda,26,60,श्रुत्वा तु स दशग्रीवस्तं शापं रोमहर्षणम् । नारीषु मैथुने भावं नाकामास्वभ्यरोचयत् ।। 7.26.60 ।। Uttara Kanda,26,61,तेन नीताः स्त्रियः प्रीतिमापुः सर्वाः पतिव्रताः । नलकूबरनिर्मुक्तं शापं श्रुत्वा मनःप्रियम् ।। 7.26.61 ।। Uttara Kanda,26,62,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षड्वविंशः सर्गः ।। 26 ।। Uttara Kanda,27,1,कैलासं लङ्घयित्वाथ दशग्रीवः स रावणः । आससाद महातेजा इन्द्रलोकं निशाचरः ।। 7.27.1 ।। Uttara Kanda,27,2,तस्य राक्षससैन्यस्य समन्तादुपयास्यतः । देवलोकं ययौ शब्दो मथ्यमानार्णवोपमः ।। 7.27.2 ।। Uttara Kanda,27,3,श्रुत्वा तु रावणं प्राप्तमिन्द्रश्चलित आसनात् । अब्रवीत्तत्र तान् देवान् सर्वानेव समागतान् ।। 7.27.3 ।। Uttara Kanda,27,4,आदित्यान्सवसून्रुद्रान्विश्वान्साध्यान्मरुद्गणान् । सज्जीभवत युद्धार्थं रावणस्य दुरात्मनः ।। 7.27.4 ।। Uttara Kanda,27,5,एवमुक्तास्तु शक्रेण देवाः शक्रसमा युधि । सन्नह्य सुमहासत्त्वा युद्धश्रद्धासमन्विताः ।। 7.27.5 ।। Uttara Kanda,27,6,स तु दीनः परित्रस्तो महेन्द्रो रावणं प्रति । विष्णोः समीपमागत्य वाक्यमेतदुवाच ह ।। 7.27.6 ।। Uttara Kanda,27,7,विष्णो कथं करिष्यामि महावीर्यपराक्रमः । असौ हि बलवद्रक्षो युद्धार्थमभिवर्तते ।। 7.27.7 ।। Uttara Kanda,27,8,वरप्रदानाद्बलवान्न खल्वन्येन हेतुना । तत्तु सत्यवचः कार्यं यदुक्तं पद्मयोनिना ।। 7.27.8 ।। Uttara Kanda,27,9,तद्यथा नमुचिर्वृत्रो बलिर्नरकशम्बरौ । त्वद्बलं समवष्टभ्य मया दग्धास्तथा कुरु ।। 7.27.9 ।। Uttara Kanda,27,10,नह्यन्यो देवदेवेश त्वामृते मधुसूदन । गतिः परायणं नास्ति त्रैलोक्ये सचराचरे ।। 7.27.10 ।। Uttara Kanda,27,11,त्वं हि नारायणः श्रीमान्पद्मनाभः सनातनः । त्वयेमे स्थापिता लोकाः शक्रश्चाहं सुरेश्वरः ।। 7.27.11 ।। Uttara Kanda,27,12,त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम् । त्वामेव भगवन्सर्वे प्रविशन्ति युगक्षये ।। 7.27.12 ।। Uttara Kanda,27,13,तदाचक्ष्व यथा तत्त्वं देवदेव मम स्वयम् । अपि चक्रसहायस्त्वं योत्स्यसे रावणं प्रभो ।। 7.27.13 ।। Uttara Kanda,27,14,एवमुक्तः स शक्रेण देवो नारायणः प्रभुः । अब्रवीन्न परित्रासः कर्तव्यः श्रूयतां च मे ।। 7.27.14 ।। Uttara Kanda,27,15,न तावदेष दुष्टात्मा शक्यो जेतुं सुरासुरैः । हन्तुं चापि समासाद्य वरदानेन दुर्जयः ।। 7.27.15 ।। Uttara Kanda,27,16,सर्वथा तु महत्कर्म करिष्यति बलोत्कटः । राक्षसः पुत्रसहितो दृष्टमेतन्निसर्गतः ।। 7.27.16 ।। Uttara Kanda,27,17,यत्तु मां त्वमभाषिष्ठ युद्ध्यस्वेति सुरेश्वर । नाहं तं प्रतियोत्स्यामि रावणं राक्षसं युधि ।। 7.27.17 ।। Uttara Kanda,27,18,नाहत्वा समरे शत्रुं विष्णुः प्रतिनिवर्तते । दुर्लभश्चैव कामो ऽद्य वरगुप्ताद्धि रावणात् ।। 7.27.18 ।। Uttara Kanda,27,19,प्रतिजाने च देवेन्द्र त्वत्समीपे शतक्रतो । भविता ऽस्मि यथा ऽस्याहं रक्षसो मृत्युकारणम् ।। 7.27.19 ।। Uttara Kanda,27,20,अहमेव निहन्ता ऽस्मि रावणं सपुरःसरम् । देवता नन्दयिष्यामि ज्ञात्वा कालमुपागतम् । एतत्ते कथितं तत्त्वं देवराज शचीपते ।। 7.27.20 ।। Uttara Kanda,27,21,युद्ध्यस्व विगतत्रासः सर्वैः सार्धं महाबल ।। 7.27.21 ।। Uttara Kanda,27,22,यामि ज्ञात्वा कालमुपागतम् । ततो रुद्राः सहादित्या वसवो मरुतो ऽश्वनौ । सन्नद्धा निर्ययुस्तूर्णं राक्षसानभितः पुरात् ।। 7.27.22 ।। Uttara Kanda,27,23,एतस्मिन्नन्तरे नादः शुश्रुवे रजनीक्षये । तस्य रावणसैन्यस्य प्रयुद्धस्य समन्ततः ।। 7.27.23 ।। Uttara Kanda,27,24,ते प्रयुद्धा महावीर्या ह्यन्योन्यमभिवीक्ष्य वै । सङ्ग्राममेवाभिमुखा ह्यभवर्तन्त हृष्टवत् ।। 7.27.24 ।। Uttara Kanda,27,25,ततो दैवतसैन्यनां सङ्क्षोभः समजायत । तदक्षयं महासैन्यं दृष्ट्वा समरमूर्धनि ।। 7.27.25 ।। Uttara Kanda,27,26,ततो युद्धं समभवेद्देवदानवरक्षसाम् । घोरं तुमुलनिर्ह्रादं नानाप्रहरणोद्यतम् ।। 7.27.26 ।। Uttara Kanda,27,27,एतस्मिन्नन्तरे शूरा राक्षसा घोरदर्शनाः । युद्धार्थं समवर्तन्त सचिवा रावणस्य ते ।। 7.27.27 ।। Uttara Kanda,27,28,मारीचश्च प्रहस्तश्च महापार्श्वमहोदरौ । अकम्पनो निकुम्भश्च शुकः सारण एव च ।। 7.27.28 ।। Uttara Kanda,27,29,संह्लादो धूमकेतुश्च महादंष्ट्रो घटोदरः । जम्बुमाली महाह्रादो विरूपाक्षश्च राक्षसः ।। 7.27.29 ।। Uttara Kanda,27,30,सुप्तघ्नो यज्ञकोपश्च दुर्मुखो दूषणः खरः । त्रिशिराः करवीराक्षः सूर्यशत्रुश्च राक्षसः ।। 7.27.30 ।। Uttara Kanda,27,31,महाकायो ऽतिकायश्च देवान्तकनरान्तकौ । एतैः सर्वैः परिवृतो महावीर्यो महाबलः ।। 7.27.31 ।। Uttara Kanda,27,32,रावणस्यार्यकः सैन्यं सुमाली प्रविवेश ह । स दैवतगणान्सर्वान्नानाप्रहरणैः शितैः । व्यध्वंसयत्सुसङ्क्रुद्धो वायुर्जलधरानिव ।। 7.27.32 ।। Uttara Kanda,27,33,तद्दैवतबलं राम हन्यमानं निशाचरैः । प्रणुन्नं सर्वतो दिग्भ्यः सिंहनुन्ना मृगा इव ।। 7.27.33 ।। Uttara Kanda,27,34,एतस्मिन्नन्तरे शूरो वसूनामष्टमो वसुः । सावित्र इति विख्यातः प्रविवेश रणाजिरम् ।। 7.27.34 ।। Uttara Kanda,27,35,तथा ऽ ऽदित्यौ महावीर्यौ त्वष्टा पूषा च दंशितौ । निंर्भयौ सह सैन्येन तदा प्राविशतां रणे ।। 7.27.35 ।। Uttara Kanda,27,36,ततो युद्धं समभवत्सुराणां सह राक्षसैः । क्रुद्धानां रक्षसां कीर्तिं समरेष्वनिवर्तिनाम् ।। 7.27.36 ।। Uttara Kanda,27,37,ततस्ते राक्षसाः सर्वे विबुधान्समरे स्थितान् । नानाप्रहरणैर्घोरैर्जघ्नुः शतसहस्रशः ।। 7.27.37 ।। Uttara Kanda,27,38,देवाश्च राक्षसान्घोरान्महाबलपराक्रमान् । समरे विमलैः शस्त्रैरुपनिन्युर्यमक्षयम् ।। 7.27.38 ।। Uttara Kanda,27,39,एतस्मिन्नन्तरे राम सुमाली नाम राक्षसः । नानाप्रहरणैः क्रुद्धस्तत्सैन्यं सो ऽभ्यवर्तत ।। 7.27.39 ।। Uttara Kanda,27,40,स दैवतबलं सर्वं नानाप्रहणैः शितैः । व्यध्वंसयत सङ्क्रुद्धो वायुर्जलधरं यथा ।। 7.27.40 ।। Uttara Kanda,27,41,ते महाबाणवर्षैश्च शूलप्रासैः सुदारुणैः । हन्यमानाः सुराः सर्वे न व्यतिष्ठन्त संहताः ।। 7.27.41 ।। Uttara Kanda,27,42,ततो विद्राव्यमाणेषु दैवतेषु सुमालिना । वसूनामष्टमः क्रुद्धः सावित्रो वै व्यवस्थितः ।। 7.27.42 ।। Uttara Kanda,27,43,संवृतः स्वैरथानीकैः प्रहरन्तं निशाचरम् । विक्रमेण महातेजा वारयामास संयुगे ।। 7.27.43 ।। Uttara Kanda,27,44,ततस्तयोर्महायुद्धमभवद्रोमहर्षणम् ।। 7.27.44 ।। Uttara Kanda,27,45,सुमालिनो वसोश्चैव समरेष्वनिवर्तिनोः । ततस्तस्य महाबाणैर्वसुना सुमहात्मना । निहतः पन्नगरथः क्षणेन विनिपातितः ।। 7.27.45 ।। Uttara Kanda,27,46,हत्वा तु संयुगे तस्य रथं बाणशतैश्चितम् । गदां तस्य वधार्थाय वसुर्जग्राह पाणिना ।। 7.27.46 ।। Uttara Kanda,27,47,ततः प्रगृह्य दीप्ताग्रां कालदण्डोपमां गदाम् । तां मूर्ध्नि पातयामास सावित्रो वै सुमालिनः ।। 7.27.47 ।। Uttara Kanda,27,48,सा तस्योपरि चोल्काभा पतन्तीव बभौ गदा । इन्द्रप्रमुक्ता गर्जन्ती गिराविव महाशनिः ।। 7.27.48 ।। Uttara Kanda,27,49,तस्य नैवास्थि न शिरो न मांसं ददृशे तदा । गदया भस्मतां नीतं निहतस्य रणाजिरे ।। 7.27.49 ।। Uttara Kanda,27,50,तं दृष्ट्वा निहतं सङ्ख्ये राक्षसास्ते समन्ततः । व्यद्रवन्सहिताः सर्वे क्रोशमानाः परस्परम् । विद्राव्यमाणा वसुना राक्षसा नावतस्थिरे ।। 7.27.50 ।। Uttara Kanda,28,1,सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम् । स्वसैन्यं विद्रुतं चापि लक्षयित्वा ऽर्दितं सुरैः ।। 7.28.1 ।। Uttara Kanda,28,2,ततः स बलवान्क्रुद्धो रावणस्य सुतस्तदा । निवर्त्य राक्षसान्सर्वान्मेघनादो व्यवस्थितः ।। 7.28.2 ।। Uttara Kanda,28,3,सुरथेनाग्निवर्णेन कामगेन महारथः । अभिदुद्राव सेनां तां वनान्यग्निरिव ज्वलन् ।। 7.28.3 ।। Uttara Kanda,28,4,ततः प्रविशतस्तस्य विविधायुधधारिणः । विदुद्रुवुर्दिशः सर्वा दर्शनादेव देवताः ।। 7.28.4 ।। Uttara Kanda,28,5,न बभूव तदा कश्चिद्युयुत्सोरस्य सम्मुखे । सर्वानाविद्ध्य वित्रस्तांस्ततः शक्रो ऽब्रवीत्सुरान् ।। 7.28.5 ।। Uttara Kanda,28,6,न भेतव्यं न गन्तव्यं निवर्तध्वं रणे सुराः । एष गच्छति पुत्रो मे युद्धार्थमपराजितः ।। 7.28.6 ।। Uttara Kanda,28,7,ततः शक्रसुतो देवो जयन्त इति विश्रुतः । रथेनाद्भुतकल्पेन सङ्ग्रामे सो ऽभ्यवर्तत ।। 7.28.7 ।। Uttara Kanda,28,8,ततस्ते त्रिदशाः सर्वे परिवार्य शचीसुतम् । रावणस्य सुतं युद्धे समासाद्य प्रजघ्निरे ।। 7.28.8 ।। Uttara Kanda,28,9,तेषां युद्धं समभवत्सदृशं देवरक्षसाम् । महेन्द्रस्य च पुत्रस्य राक्षसेन्द्रसुतस्य च ।। 7.28.9 ।। Uttara Kanda,28,10,ततो मातलिपुत्रे तु गोमुखे राक्षसात्मजः । सारथौ पातयामास शरान्कनकभूषणान् ।। 7.28.10 ।। Uttara Kanda,28,11,शचीसुतश्चापि तथा जयन्तस्तस्य सारथिम् । तं चापि रावणिः क्रुद्धः समन्तात्प्रत्यविध्यत ।। 7.28.11 ।। Uttara Kanda,28,12,स हि क्रोधसमाविष्टो बली विस्फारितेक्षणः । रावणिः शक्रतनयं शरवर्षैरवाकिरत् ।। 7.28.12 ।। Uttara Kanda,28,13,ततो नानाप्रहरणाञ्छितधारान्सहस्रशः । पातयामास सङ्क्रुद्धः सुरसैन्येषु रावणिः ।। 7.28.13 ।। Uttara Kanda,28,14,शतघ्नीमुसलप्रासगदाखड्गपरश्वधान् । महान्ति गिरिशृङ्गाणि पातयामास रावणिः ।। 7.28.14 ।। Uttara Kanda,28,15,ततः प्रव्यथिता लोकाः सञ्जज्ञे च तमो ऽभवत् । तस्य रावणपुत्रस्य शत्रुसैन्यानि निघ्नतः ।। 7.28.15 ।। Uttara Kanda,28,16,ततस्तद्दैवतबलं समन्तात्तं शचीसुतम् । बहुप्रकारमस्वस्थमभवच्छरपीडितम् ।। 7.28.16 ।। Uttara Kanda,28,17,नाभ्यजानन्त चान्योन्यं रक्षो वा देवता ऽथवा । तत्र तत्र विपर्यस्तं समन्तात्परिधावति ।। 7.28.17 ।। Uttara Kanda,28,18,देवा देवान्निजघ्नुस्ते राक्षसान्राक्षसास्तथा । सम्मूढास्तमसाच्छन्ना व्यद्रवन्नपरे तथा ।। 7.28.18 ।। Uttara Kanda,28,19,एतस्मिन्नन्तरे वीरः पुलोमा नाम वीर्यवान् । दैत्येन्द्रस्तेन सङ्गृह्य शचीपुत्रो ऽपवाहितः ।। 7.28.19 ।। Uttara Kanda,28,20,सङ्गृह्य तं तु दौहित्रं प्रविष्टः सागरं तदा । आर्यकः स हि तस्यासीत्पुलोमा येन सा शची ।। 7.28.20 ।। Uttara Kanda,28,21,ज्ञात्वा प्रणाशं तु तदा जयन्तस्याथ देवताः । अप्रहृष्टास्ततः सर्वा व्यथिताः सम्प्रदुद्रुवुः ।। 7.28.21 ।। Uttara Kanda,28,22,रावणिस्त्वथ सङ्क्रुद्धो बलैः परिवृतः स्वकैः । अभ्यधावत देवांस्तान्मुमोच च महास्वनम् ।। 7.28.22 ।। Uttara Kanda,28,23,दृष्ट्वा प्रणाशं पुत्रस्य दैवतेषु च विद्रुतम् । मातलिं चाह देवेशो रथः समुपनीयताम् ।। 7.28.23 ।। Uttara Kanda,28,24,स तु दिव्यो महाभीमः सज्ज एव महारथः । उपस्थितो मातलिना वाह्यमानो महाजवः ।। 7.28.24 ।। Uttara Kanda,28,25,ततो मेघा रथे तस्मिंस्तडित्त्वन्तो महाबलाः । अग्रतो वायुचपला नेदुः परमनिःस्वनाः ।। 7.28.25 ।। Uttara Kanda,28,26,नानावाद्यानि वाद्यन्त गन्धर्वाश्च समाहिताः । ननृतुश्चाप्सरःसङ्घा निर्याते त्रिदशेश्वरे ।। 7.28.26 ।। Uttara Kanda,28,27,रुद्रैर्वसुभिरादित्यैस्साध्यैश्च समरुद्गणैः । वृतो नानाप्रहरणैर्निर्ययौ त्रिदशाधिपः ।। 7.28.27 ।। Uttara Kanda,28,28,निर्गच्छतस्तु शक्रस्य परुषं पवनो ववौ । भास्करो निष्प्रभश्चासीन्महोल्काश्च प्रपेदिरे ।। 7.28.28 ।। Uttara Kanda,28,29,एतस्मिन्नन्तरे शूरो दशग्रीवः प्रतापवान् । आरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा ।। 7.28.29 ।। Uttara Kanda,28,30,पन्नगैः सुमहाकार्यैर्वेष्टितं रोमहर्षणैः । तेषां निःश्वासवातेन प्रदीप्तमिव संयुगे ।। 7.28.30 ।। Uttara Kanda,28,31,दैत्यैर्निशाचरैश्चैव स रथः परिवारितः । समराभिमुखो दैत्यो महेन्द्रं सो ऽभ्यवर्तत ।। 7.28.31 ।। Uttara Kanda,28,32,पुत्रं तं वारयित्वा तु स्वयमेव व्यवस्थितः । सो ऽपि युद्धाद्विनिष्क्रम्य रावणिः समुपाविशत् ।। 7.28.32 ।। Uttara Kanda,28,33,ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह । शस्त्राणि वर्षतां घोरं मेघानामिव संयुगे ।। 7.28.33 ।। Uttara Kanda,28,34,कुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोद्यतः । नाज्ञायत तदा युद्धे सह केनाप्ययुध्यत ।। 7.28.34 ।। Uttara Kanda,28,35,दन्तैः भुजाभ्यां पद्मां च शक्तितोमरसायकैः । येन केनैव संरब्धस्ताडयामास वै सुरान् ।। 7.28.35 ।। Uttara Kanda,28,36,ततो रुद्रैर्महाघोरैः सङ्गम्याथ निशाचरः । प्रयुद्धस्तैश्च सङ्ग्रामे क्षतः शस्त्रैर्निरन्तरम् ।। 7.28.36 ।। Uttara Kanda,28,37,बभौ शस्त्राचिततनुः कुम्भकर्णः क्षरन्नसृक् । विद्युत्स्तनितनिर्घोषो धारवानिव तोयदः ।। 7.28.37 ।। Uttara Kanda,28,38,ततस्तद्राक्षसं सैन्यं प्रयुद्धं समरुद्गणैः । रणे विद्रावितं सर्वं नानाप्रहरणैः शितैः ।। 7.28.38 ।। Uttara Kanda,28,39,केचिद्विनिहताः कृत्ताश्चेष्टन्ति स्म महीतले । वाहनेष्ववसक्ताश्च स्थिता एवापरे रणे ।। 7.28.39 ।। Uttara Kanda,28,40,रथान्नागान्खरानुष्ट्रान्पन्नगांस्तुरगान् रणे । शिंशुमारान्वराहांश्च पिशाचवदनान्तथा ।। 7.28.40 ।। Uttara Kanda,28,41,तान्समालिङ्ग्य बाहुभ्यां विष्टब्धाः केचिदुच्छ्रुताः । देवैस्तु शस्त्रसम्भिन्ना मम्रिरे च निशाचराः ।। 7.28.41 ।। Uttara Kanda,28,42,चित्रकर्म इवाभाति स तेषां रणसम्प्लवः । निहतानां प्रमत्तानां राक्षसानां महीतले ।। 7.28.42 ।। Uttara Kanda,28,43,शोणितोदकनिष्पन्दकङ्कगृध्रसमाकुला । प्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी ।। 7.28.43 ।। Uttara Kanda,28,44,एतस्मिन्नन्तरे क्रुद्धो दशग्रीवः प्रतापवान् । निरीक्ष्य तद्बलं कृत्स्नं दैवतैर्विनिपातितम् ।। 7.28.44 ।। Uttara Kanda,28,45,स तं प्रति विगाह्याशु प्रवृद्धं सैन्यसागरम् । त्रिदशान्समरे निघ्नञ्छक्रमेवाभ्यवर्तत ।। 7.28.45 ।। Uttara Kanda,28,46,आगाच्छक्रो महच्चापं विस्फार्य सुमहास्वनम् । यस्य विस्फारघोषेण स्तनन्ति स्म दिशो दश ।। 7.28.46 ।। Uttara Kanda,28,47,तद्विकृष्य महच्चापमिन्द्रो रावणमूर्धनि । निपातयामास शरान्पावकादित्यवर्चसः ।। 7.28.47 ।। Uttara Kanda,28,48,तथैव च महाबाहुर्दशग्रीवो व्यवस्थितः । शक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत् ।। 7.28.48 ।। Uttara Kanda,28,49,प्रयुध्यतोरथ तयोर्बाणवर्षैः समन्ततः । न ज्ञायते तदा किञ्चित्सर्वं हि तमसा वृतम् ।। 7.28.49 ।। Uttara Kanda,28,50,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टाविंशः सर्गः ।। 28 ।। Uttara Kanda,29,1,ततस्तमसि सञ्जाते सर्वे ते देवराक्षसाः । अयुद्ध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम् ।। 7.29.1 ।। Uttara Kanda,29,2,ततस्तु देवसैन्येन राक्षसानां बृहद्बलम् । दशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम् ।। 7.29.2 ।। Uttara Kanda,29,3,तस्मिंस्तु तामसे युद्धे सर्वे ते देवराक्षसाः । अन्योन्यं नाभ्यजानन्त युध्यमानाः परस्परम् ।। 7.29.3 ।। Uttara Kanda,29,4,इन्द्रश्च रावणश्चैव रावणिश्च महाबलः । तस्मिंस्तमोजालवृते मोहमीयुर्न ते त्रयः ।। 7.29.4 ।। Uttara Kanda,29,5,स तु दृष्ट्वा बलं सर्वं रावणो निहतं क्षणात् । क्रोधमभ्यगमत्तीव्रं महानादं च मुक्तवान् ।। 7.29.5 ।। Uttara Kanda,29,6,क्रोधात्सूतं च दुर्धर्षः स्यन्दनस्थमुवाच ह । परसैन्यस्य मध्येन यावदन्तो नयस्व माम् ।। 7.29.6 ।। Uttara Kanda,29,7,अद्यैतान् त्रिदशान्सर्वान्विक्रमैः समरे स्वयम् । नानाशस्त्रैर्महाघोरैर्नयामि यमसादनम् ।। 7.29.7 ।। Uttara Kanda,29,8,अहमिन्द्रं वधिष्यामि धनदं वरुणं यमम् । त्रिदशान्विनिहत्याथ स्वयं स्थास्याम्यथोपरि । विषादो न च कर्तव्यः शीघ्रं वाहय मे रथम् ।। 7.29.8 ।। Uttara Kanda,29,9,द्विः खलु त्वां ब्रवीम्यद्य यावदन्तो नयस्व माम् ।। 7.29.9 ।। Uttara Kanda,29,10,अयं स नन्दनोद्देशो यत्र वर्तामहे वयम् । नय मामद्य तत्र त्वमुदयो यत्र पर्वतः ।। 7.29.10 ।। Uttara Kanda,29,11,तस्य तद्वचनं श्रुत्वा तुरगान्स मनोजवान् । आदिदेशाथ शत्रणां मध्येनैव च सारथिः ।। 7.29.11 ।। Uttara Kanda,29,12,तस्य तं निश्चयं ज्ञात्वा शक्रो देवेश्वरस्तदा । रथस्थः समरस्थस्तान्देवान्वाक्यमथाब्रवीत् ।। 7.29.12 ।। Uttara Kanda,29,13,सुराः शृणुत मद्वाक्यं यत्तावन्मम रोचते । जीवन्नेव दशग्रीवः साधु रक्षो निगृह्यताम् ।। 7.29.13 ।। Uttara Kanda,29,14,एष ह्यतिबलः सैन्यै रथेन पवनौजसा । गमिष्यति प्रवृद्धोर्मिः समुद्र इव पर्वणि ।। 7.29.14 ।। Uttara Kanda,29,15,नह्येष हन्तुं शक्यो ऽद्य वरदानात्सुनिर्भयः । तद्ग्रहीष्यामहे रक्षो यत्ता भवत संयुगे ।। 7.29.15 ।। Uttara Kanda,29,16,यथा बलौ निरुद्धे च त्रैलोक्यं भुज्यते मया । एवमेतस्य पापस्य निरोधो मम रोचते ।। 7.29.16 ।। Uttara Kanda,29,17,ततो ऽन्यं देशमास्थाय शक्रः सन्त्यज्य रावणम् । अयुध्यत महाराज राक्षसांस्त्रासयन्रणे ।। 7.29.17 ।। Uttara Kanda,29,18,उत्तरेण दशग्रीवः प्रविवेशानिवर्तकः । दक्षिणेन तु पार्श्वेन प्रविवेश शतक्रतुः ।। 7.29.18 ।। Uttara Kanda,29,19,ततः स योजनशतं प्रविष्टो राक्षसाधिपः । देवतानां बलं सर्वं शरवर्षैरवाकिरत् ।। 7.29.19 ।। Uttara Kanda,29,20,ततः शक्रो निरीक्ष्याथ प्रनष्टं तु स्वकं बलम् । न्यवर्तयदसम्भ्रान्तः समावृत्य दशाननम् ।। 7.29.20 ।। Uttara Kanda,29,21,एतस्मिन्नन्तरे नादो मुक्तो दानवराक्षसैः । हा हताः स्म इति ग्रस्तं दृष्ट्वा शक्रेण रावणम् ।। 7.29.21 ।। Uttara Kanda,29,22,ततो रथं समास्थाय रावणिः क्रोधमूर्च्छितः । तत्सैन्यमतिसङ्क्रुद्धः प्रविवेश सुदारुणम् ।। 7.29.22 ।। Uttara Kanda,29,23,तां प्रविश्य महामायां प्राप्तां गोपतिना पुरा । प्रविवेश सुसंरब्धस्तत्सैन्यं समभिद्रवत् ।। 7.29.23 ।। Uttara Kanda,29,24,स सर्वा देवतास्त्यक्त्वा शक्रमेवाभ्यधावत । महेन्द्रश्च महातेजा नापश्यच्च सुतं रिपोः ।। 7.29.24 ।। Uttara Kanda,29,25,विमुक्तकवचस्तत्र वध्यमानो ऽपि रावणिः । त्रिदशैः सुमहावीर्यैर्न चकार च किञ्चन ।। 7.29.25 ।। Uttara Kanda,29,26,स मातलिं समायान्तं ताडयित्वा शरोत्तमैः । महेन्द्रं बाणवर्षेण भूय एवाभ्यवाकिरत् ।। 7.29.26 ।। Uttara Kanda,29,27,ततस्त्यक्त्वा रथं शक्रो विससर्ज च सारथिम् । ऐरावतं समारुह्य मृगयामास रावणिम् ।। 7.29.27 ।। Uttara Kanda,29,28,स तत्र मायाबलवानदृश्यो ऽथान्तरिक्षगः । इन्द्रं मायापरिक्षिप्तं कृत्वा स प्राद्रवच्छरैः ।। 7.29.28 ।। Uttara Kanda,29,29,स तं यदा परिश्रान्तमिन्द्रं जज्ञे ऽथ रावणिः । तदैनं मायया बद्ध्वा स्वसैन्यमभितो ऽनयत् ।। 7.29.29 ।। Uttara Kanda,29,30,तं तु दृष्ट्वा बलात्तेन नीयमानं महारणात् । महेन्द्रममराः सर्वे किं नु स्यादित्यचिन्तयन् ।। 7.29.30 ।। Uttara Kanda,29,31,दृश्यते न स मायावी शक्रजित्समितिञ्जयः । विद्यावानपि येनेन्द्रो मायया नीयते बलात् ।। 7.29.31 ।। Uttara Kanda,29,32,एतस्मिन्नन्तरे क्रुद्धाः सर्वे सुरगणास्तदा । रावणं विमुखीकृत्य शरवर्षैरवाकिरन् ।। 7.29.32 ।। Uttara Kanda,29,33,रावणस्तु समासाद्य आदित्यांश्च वसूंस्तदा । न शशाक स सङ्ग्रामे योद्धुं शत्रुभिरर्दितः ।। 7.29.33 ।। Uttara Kanda,29,34,स तं दृष्ट्वा परिम्लानं प्रहारैर्जर्जरीकृतम् । रावणिः पितरं युद्धे दर्शनस्थो ऽब्रवीदिदम् ।। 7.29.34 ।। Uttara Kanda,29,35,आगच्छ तात गच्छामो रणकर्म निवर्तताम् । जितं नो विदितं ते ऽस्तु स्वस्थो भव गतज्वरः ।। 7.29.35 ।। Uttara Kanda,29,36,अयं हि सुरसैन्यस्य त्रैलोक्यस्य च यः प्रभुः । स गृहीतो दैवबलाद्भग्नदर्पाः सुराः कृताः ।। 7.29.36 ।। Uttara Kanda,29,37,यथेष्टं भुङ्क्ष्व लोकांस्त्रीन्निगृह्यारातिमोजसा । वृथा किं ते श्रमेणेह युद्धमद्य तु निष्फलम् ।। 7.29.37 ।। Uttara Kanda,29,38,ततस्ते दैवतगणा निवृत्ता रणकर्मणः । तच्छ्रुत्वा रावणेर्वाक्यं स्वस्थचेताः बभूव ह ।। 7.29.38 ।। Uttara Kanda,29,39,अथ स रणविगतज्वरः प्रभुर्विजयमवाप्य निशाचराधिपः । स्वभवनमभितो जगाम हृष्टः स्वसुतमवाप्य च वाक्यमब्रवीत् ।। 7.29.39 ।। Uttara Kanda,29,40,अतिबलसदृशैः पराक्रमैस्तैर्मम कुलमानविवर्धनं कृतम् । यदयमतुल्यबलस्त्वयाद्य वै त्रिदशपतिस्त्रिदशाश्च निर्जिताः ।। 7.29.40 ।। Uttara Kanda,29,41,नय रथमधिरोप्य वासवं नगरमितो व्रज सेनया वृतस्त्वम् । अहमपि तव गच्छतो द्रुतं सह सचिवैरनुयामि पृष्ठतः ।। 7.29.41 ।। Uttara Kanda,29,42,अथ स बलवृतः सवाहनस्त्रिदशपतिं परिगृह्य रावणिः । स्वभवनमभिगम्य वीर्यवान्कृतसमरान्विससर्ज राक्षसान् ।। 7.29.42 ।। Uttara Kanda,30,1,जिते महेन्द्रे ऽतिबले रावणस्य सुतेन वै । प्रजापतिं पुरस्कृत्य ययुर्लङ्कां सुरास्तदा ।। 7.30.1 ।। Uttara Kanda,30,2,तत्र रावणमासाद्य पुत्रभ्रातृभिरावृतम् । अब्रवीद्गगने तिष्ठन्सामपूर्वं प्रजापतिः ।। 7.30.2 ।। Uttara Kanda,30,3,वत्स रावण तुष्टो ऽस्मि पुत्रस्य तव संयुगे । अहो ऽस्य विक्रमौदार्यं तव तुल्यो ऽधिको ऽपि वा ।। 7.30.3 ।। Uttara Kanda,30,4,जितं हि भवता सर्वं त्रैलोक्यं स्वेन तेजसा । कृता प्रतिज्ञा सफला प्रीतो ऽस्मि स्वसुतेन वै ।। 7.30.4 ।। Uttara Kanda,30,5,अयं च पुत्रो ऽतिबलस्तव रावण वीर्यवान् । जगतीन्द्रजिदित्येव परिख्यातो भविष्यति ।। 7.30.5 ।। Uttara Kanda,30,6,बलवान्दुर्जयश्चैव भविष्यत्येव राक्षसः । यं समाश्रित्य ते राजन्स्थापितास्त्रिदशा वशे ।। 7.30.6 ।। Uttara Kanda,30,7,तन्मुच्यतां महाबाहो महेन्द्रः पाकशासनः । किञ्चास्य मोक्षणार्थाय प्रयच्छन्तु दिवौकसः ।। 7.30.7 ।। Uttara Kanda,30,8,अथाब्रवीन्महातेजा इन्द्रजित्समितिञ्जयः । अमरत्वमहं देव वृणे यद्येष मुच्यते ।। 7.30.8 ।। Uttara Kanda,30,9,चतुष्पदां खेचराणामन्येषां वा महौजसाम् । वृक्षगुल्मक्षुपलतातृणोपलमहीभृताम् ।। 7.30.9 ।। Uttara Kanda,30,10,सर्वे ऽपि जन्तवो ऽन्योन्यं भेतव्ये सति बिभ्यति । अतो ऽत्र लोके सर्वेषां सर्वस्माच्च भवेद्भयम् ।। 7.30.10 ।। Uttara Kanda,30,11,ततो ऽब्रवीन्महातेजा मेघनादं प्रजापतिः । नास्ति सर्वामरत्वं हि कस्यचित्प्राणिनो भुवि । चतुष्पदः पक्षिणश्च भूतानां वा महौजसाम् ।। 7.30.11 ।। Uttara Kanda,30,12,श्रुत्वा पितामहेनोक्तमिन्द्रजित्प्रभुणाव्ययम् ।। 7.30.12 ।। Uttara Kanda,30,13,्वं हि कस्यचित्प्राणिनो भुवि । अथाब्रवीत्स तत्रस्थं मेघनादो महाबलः । श्रूयतां वा भवेत्सिद्धिः शतक्रतुविमोक्षणे ।। 7.30.13 ।। Uttara Kanda,30,14,ममेष्टं नित्यशो हर्व्यैर्मन्त्रैः सम्पूज्य पावकम् । सङ्ग्राममवतर्त्तुं च शत्रुनिर्जयकाङ्क्षिणः ।। 7.30.14 ।। Uttara Kanda,30,15,अश्वयुक्तो रथो मह्यमुत्तिष्ठेत्तु विभावसोः । तत्स्थस्यामरता स्यान्मे एष मे निश्चयो वरः ।। 7.30.15 ।। Uttara Kanda,30,16,तस्मिन्यद्यसमाप्ते च जप्यहोमे विभावसौ । युध्येयं देव सङ्ग्रामे तदा मे स्याद्विनाशनम् ।। 7.30.16 ।। Uttara Kanda,30,17,सर्वो हि तपसा देव वृणोत्यमरतां पुमान् । विक्रमेण मया त्वेतदमरत्वं प्रवर्तितम् ।। 7.30.17 ।। Uttara Kanda,30,18,एवमस्त्विति तं चाह वाक्यं देवः पितामहः । मुक्तश्चेन्द्रजिता शक्रो गताश्च त्रिदिवं सुराः ।। 7.30.18 ।। Uttara Kanda,30,19,एतस्मिन्नन्तरे राम दीनो भ्रष्टाम्बरद्युतिः । इन्द्रश्चिन्तापरीतात्मा ध्यानतत्परतां गतः ।। 7.30.19 ।। Uttara Kanda,30,20,तं तु दृष्ट्वा तथाभूतं प्राह देवः प्रजापतिः । शतक्रतो किमु पुरा करोति स्म सुदुष्कृतम् ।। 7.30.20 ।। Uttara Kanda,30,21,अमरेन्द्र मया बह्व्यः प्रजाः सृष्टास्तथा प्रभो । एकवर्णाः समाभाषा एकरूपाश्च सर्वशः ।। 7.30.21 ।। Uttara Kanda,30,22,तासां नास्ति विशेषो हि दर्शने लक्षणे ऽपि वा । ततो ऽहमेकाग्रमनास्ताः प्रजाः परिचिन्तयम् ।। 7.30.22 ।। Uttara Kanda,30,23,सो ऽहं तासां विशेषार्थं स्त्रियमेकां विनिर्ममे । यद्यत्प्रजानां प्रत्यङ्गं विशिष्टं तत्तदुद्धृतम् ।। 7.30.23 ।। Uttara Kanda,30,24,ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता । हलं नामेह वैरूपं हल्यं तत्प्रभवं भवेत् ।। 7.30.24 ।। Uttara Kanda,30,25,यस्मान्न विद्यते हल्यं तेनाहल्येति विश्रुता । अहल्येति मया शक्र तस्या नाम प्रवर्तितम् ।। 7.30.25 ।। Uttara Kanda,30,26,निर्मितायां च देवेन्द्र तस्यां नार्यां सुरर्षभ । भविष्यतीति कस्यैषा मम चिन्ता ततो ऽभवत् ।। 7.30.26 ।। Uttara Kanda,30,27,त्वं तु शक्र तदा नारीं जानीषे मनसा प्रभो । स्थानाधिकतया पत्नी ममैषेति पुरन्दर ।। 7.30.27 ।। Uttara Kanda,30,28,सा मया न्यासभूता तु गौतमस्य महात्मनः । न्यस्ता बहूनि वर्षाणि तेन निर्यातिता च ह ।। 7.30.28 ।। Uttara Kanda,30,29,ततस्तस्य परिज्ञाय महास्थैर्यं महामुनेः । ज्ञात्वा तपसि सिद्धिं च पत्न्यर्थं स्पर्शिता तदा ।। 7.30.29 ।। Uttara Kanda,30,30,सङ्क्रुद्धस्त्वं हि धर्मात्मन् गत्वा तस्याश्रमं मुनेः । दृष्टवांश्च तदा तां स्त्रीं दीप्तामग्निशिखामिव ।। 7.30.30 ।। Uttara Kanda,30,31,सा त्वया धर्षिता शक्र कामार्तेन समन्युना । दृष्टस्त्वं च तदा तेन ह्याश्रमे परमर्षिणा ।। 7.30.31 ।। Uttara Kanda,30,32,ततः क्रुद्धेन तेना ऽसि शप्तः परमतेजसा । गतो ऽसि येन देवेन्द्र दशाभागविपर्ययम् ।। 7.30.32 ।। Uttara Kanda,30,33,यस्मान्मे धर्षिता पत्नी त्वया वासव निर्भयम् । तस्मात्त्वं समरे राजञ्छत्रुहस्तं गमिष्यसि ।। 7.30.33 ।। Uttara Kanda,30,34,अयं तु भावो दुर्बुद्धे यस्त्वयेह प्रवर्तितः । मानुषेष्वपि लोकेषु भविष्यति न संशयः ।। 7.30.34 ।। Uttara Kanda,30,35,तत्रार्धं तस्य यः कर्ता त्वय्यर्धं निपतिष्यति । न च ते स्थावरं स्थानं भविष्यति न संशयः ।। 7.30.35 ।। Uttara Kanda,30,36,यश्च यश्च सुरेन्द्रः स्याद्ध्रुवः स न भविष्यति । एष शापो मया मुक्त इत्यसौ त्वां तदा ऽब्रवीत् ।। 7.30.36 ।। Uttara Kanda,30,37,तां तु भार्यां स निर्भर्त्स्य सो ऽब्रवीत्सुमहातपाः । दुर्विनीते विनिध्वंस ममाश्रमसमीपतः ।। 7.30.37 ।। Uttara Kanda,30,38,रूपयौवनसम्पन्ना यस्मात्त्वमनवस्थिता । तस्माद्रूपवती लोके न त्वमेका भविष्यति ।। 7.30.38 ।। Uttara Kanda,30,39,रूपं च ते प्रजाः सर्वा गमिष्यन्ति न संशयः । यत्तदेकं समाश्रित्य विभ्रमो ऽयमुपस्थितः ।। 7.30.39 ।। Uttara Kanda,30,40,तदाप्रभृति भूयिष्ठं प्रजा रूपसमन्विताः । सा तं प्रसादयामास महर्षिं गौतमं तदा ।। 7.30.40 ।। Uttara Kanda,30,41,अज्ञानाद्धर्षिता विप्र त्वद्रूपेण दिवौकसा । न कामकाराद्विप्रर्षे प्रसादं कर्तुमर्हसि ।। 7.30.41 ।। Uttara Kanda,30,42,अहल्यया त्वेवमुक्तः प्रत्युवाच स गौतमः । उत्पत्स्यति महातेजा इक्ष्वाकूणां महारथः ।। 7.30.42 ।। Uttara Kanda,30,43,रामो नाम श्रुतो लोके वनं चाप्युपयास्यति । ब्राह्मणार्थे महाबाहुर्विष्णुर्मानुषविग्रहः । तं द्रक्ष्यसि यदा भद्रे ततः पूता भविष्यसि ।। 7.30.43 ।। Uttara Kanda,30,44,स हि पावयितुं शक्तस्त्वया यद्दुष्कृतं कृतम् । तस्यातिथ्यं च कृत्वा वै मत्समीपं गमिष्यसि ।। 7.30.44 ।। Uttara Kanda,30,45,वत्स्यसि त्वं मया सार्धं तदा हि वरवर्णिनि । एवमुक्त्वा स विप्रर्षिराजगाम स्वमाश्रमम् ।। 7.30.45 ।। Uttara Kanda,30,46,तपश्चाचार सुमहत्सा पत्नी ब्रह्मवादिनः । शापोत्सर्गाद्धि तस्येदं मुनेः सर्वमुपस्थितम् ।। 7.30.46 ।। Uttara Kanda,30,47,तत्स्मर त्वं महाबाहो दुष्कृतं यत्त्वया कृतम् । तेन त्वं ग्रहणं शत्रोर्यातो नान्येन वासव ।। 7.30.47 ।। Uttara Kanda,30,48,शीघ्रं वै यज यज्ञं त्वं वैष्णवं सुसमाहितः । पावितस्तेन यज्ञेन यास्यसे त्रिदिवं ततः ।। 7.30.48 ।। Uttara Kanda,30,49,पुत्रश्च तव देवेन्द्र न विनष्टो महारणे । नीतः सन्निहितश्चैव आर्यकेण महोदधौ ।। 7.30.49 ।। Uttara Kanda,30,50,एतच्छ्रुत्वा महेन्द्रस्तु यज्ञमिष्ट्वा च वैष्णवम् । पुनस्त्रिदिवमाक्रामदन्वशासच्च देवराट् ।। 7.30.50 ।। Uttara Kanda,30,51,एतदिन्द्रजितो नाम बलं यत्कीर्तितं मया । निर्जितस्तेन देवेन्द्रः प्राणिनो ऽन्ये तु किं पुनः ।। 7.30.51 ।। Uttara Kanda,30,52,आश्चर्यमिति रामश्च लक्ष्मणश्चाब्रवीत्तदा । अगस्त्यवचनं श्रुत्वा वानरा राक्षसास्तदा ।। 7.30.52 ।। Uttara Kanda,30,53,विभीषणस्तु रामस्य पार्श्वस्थो वाक्यमब्रवीत् । आश्चर्यं स्मारितो ऽस्म्यद्य यत्तद्दृष्टं पुरातनम् ।। 7.30.53 ।। Uttara Kanda,30,54,अगस्त्यं त्वब्रवीद्रामः सत्यमेतच्छ्रुतं च मे ।। 7.30.54 ।। Uttara Kanda,30,55,एवं राम समुद्भूतो रावणो लोककण्टकः । सपुत्रो येन सङ्ग्रामे जितः शक्रः सुरेश्वरः ।। 7.30.55 ।। Uttara Kanda,30,56,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिंशः सर्गः ।। 30 ।। Uttara Kanda,31,1,ततो रामो महातेजा विस्मयात्पुनरेव हि । उवाच प्रणतो वाक्यमगस्त्यमृषिसत्तमम् ।। 7.31.1 ।। Uttara Kanda,31,2,भगवन्राक्षसः क्रूरो यदाप्रभृति मेदिनीम् । पर्यटत्किं तदा लोकाः शून्या आसन्द्विजोत्तम ।। 7.31.2 ।। Uttara Kanda,31,3,राजा वा राजमात्रो वा किं तदा नात्र कश्चन । धर्षणं यत्र न प्राप्तो रावणो राक्षसेश्वरः ।। 7.31.3 ।। Uttara Kanda,31,4,उताहो हतवीर्यास्ते बभूवुः पृथिवीक्षितः । बहिष्कृता वरास्त्रैश्च बहवो निर्जिता नृपाः ।। 7.31.4 ।। Uttara Kanda,31,5,राघवस्य वचः श्रुत्वा ह्यगस्त्यो भगवानृषिः । उवाच रामं प्रहसन्पितामह इवेश्वरम् ।। 7.31.5 ।। Uttara Kanda,31,6,इत्येवं बाधमानस्तु पार्थिवान्पार्थिवर्षभ । चचार रावणो राम पृथिवीं पृथिवीपते ।। 7.31.6 ।। Uttara Kanda,31,7,ततो माहिष्मतीं नाम पुरीं स्वर्गपुरीप्रभाम् । सम्प्राप्तो यत्र सान्निध्यं सदासीद्वसुरेतसः ।। 7.31.7 ।। Uttara Kanda,31,8,तुल्य आसीन्नृपस्तस्य प्रभावाद्वसुरेतसः । अर्जुनो नाम यत्राग्निः शरकुण्डेशयः सदा ।। 7.31.8 ।। Uttara Kanda,31,9,तमेव दिवसं सो ऽथ हैहयाधिपतिर्बली । अर्जुनो नर्मदां रन्तुं गतः स्त्रीभिः सहेश्वरः ।। 7.31.9 ।। Uttara Kanda,31,10,तमेव दिवसं सो ऽथ रावणस्तत्र आगतः । रावणो राक्षसेन्द्रस्तु तस्यामात्यानपृच्छत ।। 7.31.10 ।। Uttara Kanda,31,11,क्वार्जुनो नृपतिः शीघ्रं सम्यगाख्यातुमर्हथ । रावणो ऽहमनुप्राप्तो युद्धेप्सुर्नृवरेण ह । ममागमनमप्यग्रे युष्माभिः सन्निवेद्यताम् ।। 7.31.11 ।। Uttara Kanda,31,12,इत्येवं रावणेनोक्तास्ते ऽमात्याः सुविपश्चितः । अब्रुवन्राक्षसपतिमसान्निध्यं महीपतेः ।। 7.31.12 ।। Uttara Kanda,31,13,श्रुत्वा विश्रवसः पुत्रः पौराणामर्जुनं गतम् । अपसृत्यागतो विन्ध्यं हिमवत्सन्निभं गिरिम् ।। 7.31.13 ।। Uttara Kanda,31,14,स तमभ्रमिवाविष्टमुद्भ्रन्तमिव मेदिनीम् । अपश्यद्रावणो विन्ध्यमालिखन्तमिवाम्बरम् ।। 7.31.14 ।। Uttara Kanda,31,15,सहस्रशिखरोपेतं सिंहाध्युषितकन्दरम् । प्रपातपतितैस्तोयैः साट्टहासमिवाम्बुधिम् ।। 7.31.15 ।। Uttara Kanda,31,16,देवदानवगन्धर्वैः साप्सरोगणकिन्नरैः । स्वस्त्रीभिः क्रीडमानैश्च स्वर्गभूतं महोच्छ्रयम् ।। 7.31.16 ।। Uttara Kanda,31,17,नदीभिः स्यन्दमानाभिः स्फटिकप्रतिमं जलम् । फणाभिश्चलजिह्वाभिरनन्तमिव विष्ठितम् ।। 7.31.17 ।। Uttara Kanda,31,18,उत्क्रामन्तं दरीवन्तं हिमवत्सन्निभं गिरिम् । पश्यमानस्ततो विन्ध्यं रावणो नर्मदां ययौ ।। 7.31.18 ।। Uttara Kanda,31,19,चलोपलजलां पुण्यां पश्चिमोदधिगामिनीम् ।। 7.31.19 ।। Uttara Kanda,31,20,महिषैः सृमरैः सिंहैः शार्दूलर्क्षगजोत्तमैः । उष्णाभितप्तैस्तृषितैः सङ्क्षोभितजलाशयाम् ।। 7.31.20 ।। Uttara Kanda,31,21,चक्रवाकैः सकारण्डैः सहंसजलकुक्कुटैः । सारसैश्च सदा मत्तैः सुकूजद्भिः समावृताम् ।। 7.31.21 ।। Uttara Kanda,31,22,फुल्लद्रुमकृतोत्तंसां चक्रवाकयुगस्तनीम् । विस्तीर्णपुलिनश्रोणीं हंसावलिसुमेखलाम् ।। 7.31.22 ।। Uttara Kanda,31,23,पुष्परेण्वनुलिप्ताङ्गीं जलफेनामलांशुकाम् । जलावगाहसंस्पर्शां फुल्लोत्पलशुभेक्षणाम् । पुष्पकादवरुह्याशु नर्मदां सरितां वराम् ।। 7.31.23 ।। Uttara Kanda,31,24,इष्टामिव वरां नारीमवगाह्य दशाननः । स तस्याः पुलिने रम्ये नानामुनिनिषेविते ।। 7.31.24 ।। Uttara Kanda,31,25,उपोपविष्टैः सचिवैः सार्धं राक्षसपुङ्गवः । प्रख्याय नर्मदां सो ऽथ गङ्गेयमिति रावणः ।। 7.31.25 ।। Uttara Kanda,31,26,नर्मदादर्शजं हर्षमाप्तवान् राक्षसाधिपः । उवाच सचिवांस्तत्र सलीलं शुकसारणौ ।। 7.31.26 ।। Uttara Kanda,31,27,एष रश्मिसहस्रेण जगत्कृत्वैव काञ्चनम् । तीक्ष्णतापकरः सूर्यो नभसो ऽर्धं समाश्रितः ।। 7.31.27 ।। Uttara Kanda,31,28,मामासीनं विदित्वैव चन्द्रायति दिवाकरः ।। 7.31.28 ।। Uttara Kanda,31,29,नर्मदाजलशीतश्च सुगन्धिः श्रमनाशनः । मद्भयादनिलो ऽप्यत्र वात्येष सुसमाहितः ।। 7.31.29 ।। Uttara Kanda,31,30,इयं वापि सरिच्छ्रेष्ठा नर्मदा नर्मवर्धिनी । नक्रमीनविहङ्गोर्मिः सभयेवाङ्गना स्थिता ।। 7.31.30 ।। Uttara Kanda,31,31,तद्भवन्तः क्षताः शस्त्रैर्नृपैरिन्द्रसमैर्युधि । चन्दनस्य रसेनेव रुधिरेण समुक्षिताः ।। 7.31.31 ।। Uttara Kanda,31,32,ते यूयमवगाहध्वं नर्मदां शर्मदां शुभाम् । महापद्ममुखा मत्ता गङ्गामिव गहागजाः । अस्यां स्नात्वा महानद्यां पाप्मानं विप्रमोक्ष्यथ ।। 7.31.32 ।। Uttara Kanda,31,33,अहमप्यद्य पुलिने शरदिन्दुसमप्रभे । पुष्पोपहारं शनकैः करिष्यामि कपर्दिनः ।। 7.31.33 ।। Uttara Kanda,31,34,रावणेनैवमुक्तास्तु प्रहस्तशुकसारणाः । समहोदरधूम्राक्षा नर्मदां विजगाहिरे ।। 7.31.34 ।। Uttara Kanda,31,35,राक्षसेन्द्रगजैस्तैस्तु क्षोभिता नर्मदा नदी । वामनाञ्जनपद्माद्यैर्गङ्गा इव महागजैः ।। 7.31.35 ।। Uttara Kanda,31,36,ततस्ते राक्षसाः स्नात्वा नर्मदायां महाबलाः । उत्तीर्य पुष्पाण्याजह्रुर्बल्यर्थं रावणस्य तु ।। 7.31.36 ।। Uttara Kanda,31,37,नर्मदापुलिने हृद्ये शुभ्राभ्रसदृशप्रभे । राक्षसैस्तु मुहूर्तेन कृतः पुष्पमयो गिरिः ।। 7.31.37 ।। Uttara Kanda,31,38,पुष्पेषूपहृतेष्वेवं रावणो राक्षसेश्वरः । अवतीर्णो नदीं स्नातुं गङ्गामिव महागजः ।। 7.31.38 ।। Uttara Kanda,31,39,तत्र स्नात्वा च विधिवज्जप्त्वा जप्यमनुत्तमम् । नर्मदासलिलात्तस्मादुत्ततार स रावणः ।। 7.31.39 ।। Uttara Kanda,31,40,ततः क्लिन्नाम्बरं त्यक्त्वा शुक्लवस्त्रसमावृतम् । रावणं प्राञ्जलिं यान्तमन्वयुः सर्वराक्षसाः ।। 7.31.40 ।। Uttara Kanda,31,41,तद्गतीवशमापन्ना मूर्तिमन्त इवाचलाः । यत्र यत्र च याति स्म रावणो राक्षसेश्वरः । जाम्बूनदमयं लिङ्गं तत्र तत्र स्म नीयते ।। 7.31.41 ।। Uttara Kanda,31,42,वालुकावेदिमध्ये तु तल्लिङ्गं स्थाप्य रावणः । अर्चयामास गन्धैश्च पुष्पैश्चामृतगन्धिभिः ।। 7.31.42 ।। Uttara Kanda,31,43,ततः सतामार्तिहरं परं वरं वरप्रदं चन्द्रमयूखभूषणम् । समर्चयित्वा स निशाचरो जगौ प्रसार्य हस्तान्प्रणनर्त चाग्रतः ।। 7.31.43 ।। Uttara Kanda,31,44,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकत्रिंशः सर्गः ।। 31 ।। Uttara Kanda,32,1,नर्मदापुलिने यत्र राक्षसेन्द्रः सुदारुणः । पुष्पोपहारं कुरुते तस्माद्देशाददूरतः ।। 7.32.1 ।। Uttara Kanda,32,2,अर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः । क्रीडते सह नारीभिर्नर्मदातोयमाश्रितः ।। 7.32.2 ।। Uttara Kanda,32,3,तासां मध्यगतो राजा रराज च तदार्जुनः । करेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः ।। 7.32.3 ।। Uttara Kanda,32,4,जिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम् । रुरोध नर्मदावेगं बाहुभिर्बहुभिर्वृतः ।। 7.32.4 ।। Uttara Kanda,32,5,कार्तवीर्यभुजासक्तं तज्जलं प्राप्य निर्मलम् । कूलोपहारं कुर्वाणं प्रतिस्रोतः प्रधावति ।। 7.32.5 ।। Uttara Kanda,32,6,समीननक्रमकरः सपुष्पकुशसंस्तरः । स नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ ।। 7.32.6 ।। Uttara Kanda,32,7,स वेगः कार्तवीर्येण सम्प्रेषित इवाम्भसः । पुष्पोपहारं सकलं रावणस्य जहार ह ।। 7.32.7 ।। Uttara Kanda,32,8,रावणो ऽर्धसमाप्तं तमुत्सृज्य नियमं तदा । नर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम् ।। 7.32.8 ।। Uttara Kanda,32,9,पश्चिमेन तु तं दृष्ट्वा सागरोद्गारसन्निभम् । वर्धन्तमम्भसो वेगं पूर्वामाशां प्रविश्य तु ।। 7.32.9 ।। Uttara Kanda,32,10,ततो ऽनुभ्रान्तशकुनां स्वभावोपरमे स्थिताम् । निर्विकाराङ्गनाभासामपश्यद्रावणो नदीम् ।। 7.32.10 ।। Uttara Kanda,32,11,सव्येतरकराङ्गुल्या सशब्दं च दशाननः । वेगप्रभावमन्वेष्टुं सो ऽदिशच्छुकसारणौ ।। 7.32.11 ।। Uttara Kanda,32,12,तौ तु रावणसन्दिष्टौ भ्रातरौ शुकसारणौ । व्योमान्तरगतौ वीरौ प्रस्थितौ पश्चिमामुखौ ।। 7.32.12 ।। Uttara Kanda,32,13,अर्धयोजनमात्रं तु गत्वा तौ रजनीचरौ । पश्येतां पुरुषं तोये क्रीडन्तं सहयोषितम् ।। 7.32.13 ।। Uttara Kanda,32,14,बृहत्सालप्रतीकाशं तोयव्याकुलमूर्धजम् । मदरक्तान्तनयनं मदव्याकुलतेजसम् ।। 7.32.14 ।। Uttara Kanda,32,15,नदीं बाहुसहस्रेण रुन्धन्तमरिमर्दनम् । गिरिं पादसहस्रेण रुन्धन्तमिव मेदिनीम् ।। 7.32.15 ।। Uttara Kanda,32,16,बालानां वरनारीणां सहस्रेण समावृतम् । समदानां करेणूनां सहस्रेणेव कुञ्जरम् ।। 7.32.16 ।। Uttara Kanda,32,17,तमद्भुततमं दृष्ट्वा राक्षसौ शुकसारणौ । सन्निवृत्तावुपागम्य रावणं तमथोचतुः ।। 7.32.17 ।। Uttara Kanda,32,18,बृहत्सालप्रतीकाशः को ऽप्यसौ राक्षसेश्वर । नर्मदां रोधवद्रुद्ध्वा क्रीडापयति योषितः ।। 7.32.18 ।। Uttara Kanda,32,19,तेन बाहुसहस्रेण सन्निरुद्धजला नदी । सागरोद्गारसङ्काशानुद्गारान्सृजते मुहुः ।। 7.32.19 ।। Uttara Kanda,32,20,इत्येवं भाषमाणौ तौ निशाम्य शुकसारणौ । रावणो ऽर्जुन इत्युक्त्वा प्रययौ युद्धलालसः ।। 7.32.20 ।। Uttara Kanda,32,21,अर्जुनाभिमुखे तस्मिन्रावणे राक्षसाधिपे । चण्डः प्रवाति पवनः सनादः सुरजास्तथा ।। 7.32.21 ।। Uttara Kanda,32,22,सकृदेव कृतो रावः सरक्तः प्रेषितो घनैः । महोदरमहापार्श्वधूम्राक्षशुकसारणैः ।। 7.32.22 ।। Uttara Kanda,32,23,संवृतो राक्षसेन्द्रस्तु तत्रागाद्यत्र चार्जुनः । अदीर्घेणैव कालेन स तदा राक्षसो बली । तं नर्मदाह्रदं भीममाजगामाञ्जनप्रभः ।। 7.32.23 ।। Uttara Kanda,32,24,स तत्र स्त्रीपरिवृतं वाशिताभिरिव द्विपम् । नरेन्द्रं पश्यते राजा राक्षसानां तदार्जुनम् ।। 7.32.24 ।। Uttara Kanda,32,25,स रोषाद्रक्तनयनो राक्षसेन्द्रो बलोद्धतः ।। 7.32.25 ।। Uttara Kanda,32,26,इत्येवमर्जुनामात्यनाह गम्भीरया गिरा । अमात्याः क्षिप्रमाख्यात हैहयस्य नृपस्य वै ।। 7.32.26 ।। Uttara Kanda,32,27,युद्धार्थी समनुप्राप्तो रावणो नाम राक्षसः । रावणस्य वचः श्रुत्वा मन्त्रिणो ऽथार्जुनस्य ते । उत्तस्थुः सायुधास्त्राश्च रावणं वाक्यमब्रुवन् ।। 7.32.27 ।। Uttara Kanda,32,28,युद्धस्य कालो विज्ञेयः साधु भोः साधु रावण ।। 7.32.28 ।। Uttara Kanda,32,29,चः श्रुत्वा मन्त्रिणो ऽथार्जुनस्य ते । यः क्षीबं स्त्रीवृतं चैव योद्धुमुत्सहते नृपम् । स्त्रीसमक्षं कथं यत्तद्योद्धुमुत्सहसे ऽर्जुनम् । वाशितामध्यगं मत्तं शार्दूल इव कुञ्जरम् ।। 7.32.29 ।। Uttara Kanda,32,30,क्षमस्वाद्य दशग्रीव चोष्यतां रजनी त्वया । युद्धे श्रद्धा च यद्यस्ति श्वस्तात समरे ऽर्जुनम् ।। 7.32.30 ।। Uttara Kanda,32,31,यद्यद्यास्ति मतिर्योद्धुं युद्धतृष्णासमावृता । निहत्यास्मांस्ततो युद्धमर्जुनेनोपयास्यसि ।। 7.32.31 ।। Uttara Kanda,32,32,ततस्ते रावणामात्यैरमात्याः पार्थिवस्य तु । सूदिताश्चापि ते युद्धे भक्षिताश्च बुभुक्षितैः ।। 7.32.32 ।। Uttara Kanda,32,33,ततो हलहलाशब्दो नर्मदातीर आबभौ । अर्जुनस्यानुयातऽणां रावणस्य च मन्त्रिणाम् ।। 7.32.33 ।। Uttara Kanda,32,34,इषुभिस्तोमरैः शूलैस्त्रिशूलैर्वज्रकर्षणैः । सरावणानर्दयन्तः समन्तात्समभिद्रुताः ।। 7.32.34 ।। Uttara Kanda,32,35,हैहयाधिपयोधानां वेग आसीत्सुदारुणः । सनक्रमीनमकरसमुद्रस्येव निःस्वनः ।। 7.32.35 ।। Uttara Kanda,32,36,रावणस्य तु ते ऽमात्याः प्रहस्तशुकसारणाः । कार्तवीर्यबलं क्रुद्धा निर्दहन्ति स्म तेजसा ।। 7.32.36 ।। Uttara Kanda,32,37,अर्जुनाय तु तत्कर्म रावणस्य समन्त्रिणः । क्रीडमानाय कथितं पुरुषैर्द्वाररक्षिभिः ।। 7.32.37 ।। Uttara Kanda,32,38,श्रुत्वा न भेतव्यमिति स्त्रीजनं तं ततो ऽर्जुनः । उत्ततार जलात्तस्माद्गङ्गातोयादिवाञ्जनः ।। 7.32.38 ।। Uttara Kanda,32,39,क्रोधदूषितनेत्रस्तु स ततो ऽर्जुनपावकः । प्रजज्वाल महाघोरो युगान्त इव पावकः ।। 7.32.39 ।। Uttara Kanda,32,40,स तूर्णतरमादाय वरहेमाङ्गदो गदाम् । अभिदुद्राव रक्षांसि तमांसीव दिवाकरः ।। 7.32.40 ।। Uttara Kanda,32,41,बाहुविक्षेपकरणां समुद्यम्य महागदाम् । गारुडं वेगमास्थाय चापपातैव सो ऽर्जुनः ।। 7.32.41 ।। Uttara Kanda,32,42,तस्य मार्गं समारुद्ध्य विन्ध्यो ऽर्कस्येव पर्वतः । स्थितो विन्ध्य इवाकम्प्यः प्रहस्तो मुसलायुधः ।। 7.32.42 ।। Uttara Kanda,32,43,ततो ऽस्य मुसलं घोरं लोहबद्धं महोद्धतः । प्रहस्तः प्रेषयन्क्रुद्धो ररास च यथाम्बुदः ।। 7.32.43 ।। Uttara Kanda,32,44,तस्याग्रे मुसलस्याग्निरशोकापीडसन्निभः । प्रहस्तकरमुक्तस्य बभूव प्रदहन्निव ।। 7.32.44 ।। Uttara Kanda,32,45,अथायान्तं तु मुसलं कार्तवीर्यस्तदार्जुनः । निपुणं वञ्चयामास सगदो ऽगदविक्रमः ।। 7.32.45 ।। Uttara Kanda,32,46,ततस्तमभिदुद्राव प्रहस्तं हैहयाधिपः । भ्रामयानो गदां गुर्वीं पञ्चबाहुशतोच्छ्रयाम् ।। 7.32.46 ।। Uttara Kanda,32,47,तथा हतो ऽतिवेगेन प्रहस्तो गदया तदा । निपपात स्थितः शैलो वज्रिवज्रहतो यथा ।। 7.32.47 ।। Uttara Kanda,32,48,प्रहस्तं पतितं दृष्ट्वा मारीचशुकसारणाः । समहोदरधूम्राक्षा ह्यपसृष्टा रणाजिरात् ।। 7.32.48 ।। Uttara Kanda,32,49,अपक्रान्तेष्वमात्येषु प्रहस्ते वै निपातिते । रावणो ऽभ्यद्रवत्तूर्णमर्जुनं नृपसत्तमम् ।। 7.32.49 ।। Uttara Kanda,32,50,सहस्रबाहोस्तद्युद्धं विंशद्बाहोश्च दारुणम् । नृपराक्षसयोस्तत्र चारब्धं रोमहर्षणम् ।। 7.32.50 ।। Uttara Kanda,32,51,सागराविव संरब्धौ चलन्मूलाविवाचलौ । तेजोयुक्ताविवादित्यौ प्रदहन्ताविवानलौ ।। 7.32.51 ।। Uttara Kanda,32,52,बलोद्धतौ यथा नागौ वाशितार्थे यथा वृषौ । मेघाविव विनर्दन्तौ सिंहाविव बलोत्कटौ ।। 7.32.52 ।। Uttara Kanda,32,53,रुद्रकालाविव क्रुद्धौ तदा तौ राक्षसार्जुनौ । परस्परं गदाभ्यां तौ ताडयामासतुर्भृशम् ।। 7.32.53 ।। Uttara Kanda,32,54,वज्रप्रहारानचला यथा घोरान्विषेहिरे । गदाप्रहारांस्तौ तत्र सेहाते नरराक्षसौ ।। 7.32.54 ।। Uttara Kanda,32,55,यथा ऽ शनिरवेभ्यस्तु जायते ऽथ प्रतिश्रुतिः । तथा तयोर्गदापोथैर्दिशः सर्वाः प्रतिश्रुताः ।। 7.32.55 ।। Uttara Kanda,32,56,अर्जुनस्य गदा सा तु पात्यमाना ऽहितोरसि । काञ्चनाभं नभश्चक्रे विद्युत्सौदामिनी यथा ।। 7.32.56 ।। Uttara Kanda,32,57,तथैव रावणेनापि पात्यमाना मुहुर्मुहुः । अर्जुनोरसि निर्भाति गदोल्केव महागिरौ ।। 7.32.57 ।। Uttara Kanda,32,58,नार्जुनः खेदमायाति न राक्षसगणेश्वरः । इदमासीत्तयोर्युद्धं यथा पूर्वं बलीन्द्रयोः ।। 7.32.58 ।। Uttara Kanda,32,59,शृङ्गैरिव वृषायुध्यन्दन्ताग्रैरिव कुञ्जरौ । परस्परं तौ निघ्नन्तौ नरराक्षससत्तमौ ।। 7.32.59 ।। Uttara Kanda,32,60,ततो ऽर्जुनेन क्रुद्धेन सर्वप्राणेन सा गदा । स्तनयोरन्तरे मुक्ता रावणस्य महोरसि ।। 7.32.60 ।। Uttara Kanda,32,61,वरदानकृतत्राणे सा गदा रावणोरसि । दुर्बलेव यथावेगं द्विधाभूत्वा ऽपतत्क्षितौ ।। 7.32.61 ।। Uttara Kanda,32,62,स त्वर्जुनप्रमुक्तेन गदापातेन रावणः । अपासर्पद्धनुर्मात्रं निषसाद च निष्टनन् ।। 7.32.62 ।। Uttara Kanda,32,63,स विह्वलं तदालक्ष्य दशग्रीवं ततो ऽर्जुनः । सहसोत्पत्य जग्राह गरुत्मानिव पन्नगम् ।। 7.32.63 ।। Uttara Kanda,32,64,स तु बाहुसहस्रेण बलाद्गृह्य दशाननम् । बबन्ध बलवान्राजा बलिं नारायणो यथा ।। 7.32.64 ।। Uttara Kanda,32,65,बध्यमाने दशग्रीवे सिद्धचारणदेवताः । साध्वीतिवादिनः पुष्पैः किरन्त्यर्जुनमूर्धनि ।। 7.32.65 ।। Uttara Kanda,32,66,व्याघ्रो मृगमिवादाय मृगराडिव दन्तिनम् । ननाद हैहयो राजा हर्षादम्बुदवन्मुहुः ।। 7.32.66 ।। Uttara Kanda,32,67,प्रहस्तस्तु समाश्वस्तो दृष्ट्वा बद्धं दशाननम् । सह तै राक्षसैः क्रुद्धश्चाभिदुद्राव पार्थिवम् ।। 7.32.67 ।। Uttara Kanda,32,68,नक्तञ्चराणां वेगस्तु तेषामापततां बभौ । उद्भूत आतपापाये पयोदानामिवाम्बुधौ ।। 7.32.68 ।। Uttara Kanda,32,69,मुञ्च मुञ्चेति भाषन्तस्तिष्ठतिष्ठेति चासकृत् । मुसलानि सशूलानि सोत्ससर्ज तदार्जुने ।। 7.32.69 ।। Uttara Kanda,32,70,अप्राप्तान्येव तान्याशु असम्भ्रान्तस्तदार्जुनः । आयुधान्यमरारीणां जग्राहारिनिषूदनः ।। 7.32.70 ।। Uttara Kanda,32,71,ततस्तैरेव रक्षांसि दुर्धरैः प्रवरायुधैः । भित्त्वा विद्रावयामास वायुरम्बुधरानिव ।। 7.32.71 ।। Uttara Kanda,32,72,राक्षसांस्त्रासयित्वा तु कार्तवीर्यो ऽर्जुनस्तदा । रावणं गृह्य नगरं प्रविवेश सुहृद्वृतः ।। 7.32.72 ।। Uttara Kanda,32,73,स कीर्यमाणः कुसुमाक्षतोत्करैर्द्विजैः सपौरैः पुरुहूतसन्निभः । तदा ऽर्जुनः सम्प्रविवेश तां पुरीं बलिं निगृह्येव सहस्रलोचनः ।। 7.32.73 ।। Uttara Kanda,32,74,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्वात्रिंशः सर्गः ।। 32 ।। Uttara Kanda,33,1,रावणग्रहणं तत्तु वायुग्रहणसन्निभम् । ततः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः ।। 7.33.1 ।। Uttara Kanda,33,2,ततः पुत्रकृतस्नेहात्कम्प्यमानो महाधृतिः । माहिष्मतीपतिं द्रष्टुमाजगाम महानृषिः ।। 7.33.2 ।। Uttara Kanda,33,3,स वायुमार्गमास्थाय वायुतुल्यगतिर्द्विजः । पुरीं माहिष्मतीं प्राप्तो मनःसम्पातविक्रमः ।। 7.33.3 ।। Uttara Kanda,33,4,सो ऽमरावतिसङ्काशां हृष्टपुष्टजनाकुलाम् । प्रविवेश पुरीं ब्रह्मा इन्द्रस्येवामरावतीम् ।। 7.33.4 ।। Uttara Kanda,33,5,पादचारमिवादित्यं निष्पतन्तं सुदुर्दशम् । ततस्ते प्रत्यभिज्ञाय अर्जुनाय निवेदयन् ।। 7.33.5 ।। Uttara Kanda,33,6,पुलस्त्य इति विज्ञाय वचनाद्धैहयाधिपः । शिरस्यञ्जलिमाधाय प्रत्युद्गच्छत्तपस्विनम् ।। 7.33.6 ।। Uttara Kanda,33,7,पुरोहितो ऽस्य गृह्यार्घ्यं मधुपर्कं तथैव च । पुरस्तात्प्रययौ राज्ञः शक्रस्येव बृहस्पतिः ।। 7.33.7 ।। Uttara Kanda,33,8,ततस्तमृषिमायान्तमुद्यन्तमिव भास्करम् । अर्जुनो दृश्य सम्भ्रान्तो ववन्देन्द्र इवेश्वरम् ।। 7.33.8 ।। Uttara Kanda,33,9,स तस्य मधुपर्कं गां पाद्यमर्घ्यं निवेद्य च । पुलस्त्यमाह राजेन्द्रो हर्षगद्गदया गिरा ।। 7.33.9 ।। Uttara Kanda,33,10,अद्यैवममरावत्या तुल्या माहिष्मती कृता । अद्याहं तु द्विजेन्द्र त्वां यस्मात्पश्यामि दुर्दशम् ।। 7.33.10 ।। Uttara Kanda,33,11,अद्य मे कुशलं देव अद्य मे कुशलं व्रतम् । अद्य मे सफलं जन्म अद्य मे सफलं तपः । यस्माद्देवगणैर्वन्द्यौ वन्दे ऽहं चरणौ तव ।। 7.33.11 ।। Uttara Kanda,33,12,इदं राज्यमिमे पुत्रा इमे दारा इमे वयम् । ब्रह्मन्किं कुर्मि किं कार्यमाज्ञापयतु नो भवान् ।। 7.33.12 ।। Uttara Kanda,33,13,तं धर्मे ऽग्निषु पुत्रेषु शिवं पृष्ट्वा च पार्थिवम् । पुलस्त्योवाच राजानं हैहयानां तथा ऽर्जुनम् ।। 7.33.13 ।। Uttara Kanda,33,14,नरेन्द्राम्बुजपत्राक्ष पूर्णचन्द्रनिभानन । अतुलं ते बलं येन दशग्रीवस्त्वया जितः ।। 7.33.14 ।। Uttara Kanda,33,15,भयाद्यस्योपतिष्ठेतां निष्पन्दौ सागरानिलौ । सो ऽयं मृधे त्वया बद्धः पौत्रो मे रणदुर्जयः ।। 7.33.15 ।। Uttara Kanda,33,16,पुत्रकस्य यशः पीतं नाम विश्रावितं त्वया । मद्वाक्याद्याच्यमानो ऽद्य मुञ्च वत्सं दशाननम् ।। 7.33.16 ।। Uttara Kanda,33,17,पुलस्त्याज्ञां प्रगृह्योचे न किञ्चन वचो ऽर्जुनः । मुमोच वै पार्थिवेन्द्रो राक्षसेन्द्रं प्रहृष्टवत् ।। 7.33.17 ।। Uttara Kanda,33,18,स तं प्रमुच्य त्रिदशारिमर्जुनः प्रपूज्य दिव्याभरणस्रगम्बरैः । अहिंसकं सख्यमुपेत्य साग्निकं प्रणम्य तं ब्रह्मसुतं गृहं ययौ ।। 7.33.18 ।। Uttara Kanda,33,19,पुलस्त्येनापि सन्त्यक्तो राक्षसेन्द्रः प्रतापवान् । परिष्वक्तः कृतातिथ्यो लज्जमानो विनिर्जितः ।। 7.33.19 ।। Uttara Kanda,33,20,पितामहसुतश्चापि पुलस्त्यो मुनिपुङ्गवः । मोचयित्वा दशग्रीवं ब्रह्मलोकं जगाम ह ।। 7.33.20 ।। Uttara Kanda,33,21,एवं स रावणः प्राप्तः कार्तवीर्यात्प्रधर्षणम् । पुलस्त्यवचनाच्चापि पुनर्मुक्तो महाबलः ।। 7.33.21 ।। Uttara Kanda,33,22,एवं बलिभ्यो बलिनः सन्ति राघवनन्दन । नावज्ञा हि परे कार्या य इच्छेत् प्रियमात्मनः ।। 7.33.22 ।। Uttara Kanda,33,23,ततः स राजा पिशिताशनानां सहस्रबाहोरुपलभ्य मैत्रीम् । पुनर्नृपाणां कदनं चकार चचार सर्वां पृथिवीं च दर्पात् ।। 7.33.23 ।। Uttara Kanda,33,24,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रयस्त्रिंशः सर्गः ।। 33 ।। Uttara Kanda,34,1,अर्जुनेन विमुक्तस्तु रावणो राक्षसाधिपः । चचार पृथिवीं सर्वामनिर्विण्णस्तथा कृतः ।। 7.34.1 ।। Uttara Kanda,34,2,राक्षसं वा मनुष्यं वा शृणुते ऽयं बलाधिकम् । रावणस्तं समासाद्य युद्धे ह्वयति दर्पितः ।। 7.34.2 ।। Uttara Kanda,34,3,ततः कदाचित्किष्किन्धां नगरीं वालिपालिताम् । गत्वा ह्वयति युद्धाय वालिनं हेममालिनम् ।। 7.34.3 ।। Uttara Kanda,34,4,ततस्तु वानरामात्यस्तारस्तारापिता प्रभुः । उवाच वानरो वाक्यं युद्धप्रेप्सुमुपागतम् ।। 7.34.4 ।। Uttara Kanda,34,5,राक्षसेन्द गतो वाली यस्ते प्रतिबलो भवेत् । को ऽन्यः प्रमुखतः स्थातुं तव शक्तः प्लवङ्गमः ।। 7.34.5 ।। Uttara Kanda,34,6,चतुर्भ्यो ऽपि समुद्रेभ्यः सन्ध्यामन्वास्य रावण । इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम् ।। 7.34.6 ।। Uttara Kanda,34,7,एतानस्थिचयान्पश्य य एते शङ्खपाण्डुराः । युद्धार्थिनामिमे राजन्वानराधिपतेजसा ।। 7.34.7 ।। Uttara Kanda,34,8,यद्वा ऽमृतरसः पीतस्त्वया रावण राक्षस । तदा वालिनमासाद्य तदन्तं तव जीवितम् ।। 7.34.8 ।। Uttara Kanda,34,9,पश्येदानीं जगच्चित्रमिमं विश्रवसः सुत । इदं मुहूर्तं तिष्ठस्व दुर्लभं ते भविष्यति ।। 7.34.9 ।। Uttara Kanda,34,10,अथवा त्वरसे मर्तुं गच्छ दक्षिणसागरम् । वालिनं द्रक्ष्यसे तत्र भूमिस्थमिव पावकम् ।। 7.34.10 ।। Uttara Kanda,34,11,स तु तारं विनिर्भर्त्स्य रावणो लोकरावणः । पुष्पकं तत्समारुह्य प्रययौ दक्षिणार्णवम् ।। 7.34.11 ।। Uttara Kanda,34,12,तत्र हेमगिरिप्रख्यं तरुणार्कनिभाननम् । रावणो वालिनं दृष्ट्वा सन्ध्योपासनतत्परम् ।। 7.34.12 ।। Uttara Kanda,34,13,पुष्पकादवरुह्याथ रावणो ऽञ्जनसन्निभः । ग्रहीतुं वालिनं तूर्णं निःशब्दपदमाव्रजत् ।। 7.34.13 ।। Uttara Kanda,34,14,यदृच्छया तदा दृष्टो वालिनापि स रावणः । पापाभिप्रायवान् दृष्ट्वा चकार न तु सम्भ्रमम् ।। 7.34.14 ।। Uttara Kanda,34,15,शशमालक्ष्य सिंहो वा पन्नगं गरुडो यथा । न चिन्तयति तं वाली रावणं पापनिश्चयम् ।। 7.34.15 ।। Uttara Kanda,34,16,जिघृक्षमाणमायान्तं रावणं पापचेतसम् । कक्षावलम्बिनं कृत्वा गमिष्ये त्रीन्महार्णवान् ।। 7.34.16 ।। Uttara Kanda,34,17,द्रक्ष्यन्त्यरिं ममाङ्कस्थं स्रंसदूरुकराम्बरम् । लम्बमानं दशग्रीवं गरुडस्येव पन्नगम् ।। 7.34.17 ।। Uttara Kanda,34,18,इत्येवं मतिमास्थाय वाली कर्णमुपाश्रितः । जपन्वै नैगमान्मन्त्रांस्तस्थौ पर्वतराडिव ।। 7.34.18 ।। Uttara Kanda,34,19,तावन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ । प्रयत्नवन्तौ तत्कर्म ईहतुर्बलदर्पितौ ।। 7.34.19 ।। Uttara Kanda,34,20,हस्तग्राहं तु तं मत्वा पादशब्देन रावणम् । पराङ्मुखो ऽपि जग्राह वाली सर्पमिवाण्डजः ।। 7.34.20 ।। Uttara Kanda,34,21,ग्रहीतुकामं तं गृह्य रक्षसामीश्वरं हरिः । खमुत्पपात वेगेन कृत्वा कक्षावलम्बिनम् ।। 7.34.21 ।। Uttara Kanda,34,22,तं चापीडयमानं तु वितुदन्तं नखैर्मुहुः । जहार रावणं वाली पवनस्तोयदं यथा ।। 7.34.22 ।। Uttara Kanda,34,23,अथ ते राक्षसामात्या ह्रियमाणं दशाननम् । मुमोक्षयिषवो वालिं रवमाणा अभिद्रुताः ।। 7.34.23 ।। Uttara Kanda,34,24,अन्वीयमानस्तैर्वाली भ्राजते ऽम्बरमध्यगः । अन्वीयमानो मेघौघैरम्बरस्थ इवांशुमान् ।। 7.34.24 ।। Uttara Kanda,34,25,ते ऽशक्नुवन्तः सम्प्राप्तुं वालिनं राक्षसोत्तमाः । तस्य बाहूरुवेगेन परिश्रान्ता व्यवस्थिताः ।। 7.34.25 ।। Uttara Kanda,34,26,वालिमार्गादपाक्रामन्पर्वतेन्द्रो हि गच्छतः । किं पुनर्जीवितप्रेप्सुर्बिभ्रद्वै मांसशोणितम् ।। 7.34.26 ।। Uttara Kanda,34,27,अपक्षिगणसम्पातान्वानरेन्द्रो महाजवः । क्रमशः सागरान्सर्वान्सन्ध्याकालमवन्दत ।। 7.34.27 ।। Uttara Kanda,34,28,सभाज्यमानो भूतैस्तु खैचरैः खैचरोत्तमः । पश्चिमं सागरं वाली ह्याजगाम सरावणः ।। 7.34.28 ।। Uttara Kanda,34,29,तस्मिन्सन्ध्यामुपासित्वा स्नात्वा जप्त्वा च वानरः । उत्तरं सागरं प्रायाद्वहमानो दशाननम् ।। 7.34.29 ।। Uttara Kanda,34,30,बहुयोजनसाहस्रं वहमानो महाहरिः । वायुवच्च मनोवच्च जगाम सह शत्रुणा ।। 7.34.30 ।। Uttara Kanda,34,31,उत्तरे सागरे सन्ध्यामुपासित्वा दशाननम् । वहमानो ऽगमद्वाली पूर्वं वै स महोदधिम् ।। 7.34.31 ।। Uttara Kanda,34,32,तत्रापि सन्ध्यामन्वास्य वासविः सहरीश्वरः । किष्किन्धामभितो गृह्य रावणं पुनरागमत् ।। 7.34.32 ।। Uttara Kanda,34,33,चतुर्ष्वपि समुद्रेषु सन्ध्यामन्वास्य वानरः । रावणोद्वहनश्रान्तः किष्किन्धोपवने ऽपतत् ।। 7.34.33 ।। Uttara Kanda,34,34,रावणं तु मुमोचाथ स्वकक्षात्कपिसत्तमः । कुतस्त्वमिति चोवाच प्रहसन्रावणं मुहुः ।। 7.34.34 ।। Uttara Kanda,34,35,विस्मयं तु महद्गत्वा श्रमलोलनिरीक्षणः । राक्षसेन्द्रो हरीन्द्रं तमिदं वचनमब्रवीत् ।। 7.34.35 ।। Uttara Kanda,34,36,वानरेन्द्र महेन्द्राभ राक्षसेन्द्रो ऽस्मि रावणः । युद्धेप्सुरिह सम्प्राप्तः स चाद्यासादितस्त्वया ।। 7.34.36 ।। Uttara Kanda,34,37,अहो बलमहो वीर्यमहो गाम्भीर्यमेव च । येनाहं पशुवद्गृह्य भ्रामितश्चतुरो ऽर्णवान् ।। 7.34.37 ।। Uttara Kanda,34,38,एवमश्रान्तवद्वीर शीघ्रमेव महार्णवान् । मां चैवोद्वहमानस्तु को ऽन्यो वीरः क्रमिष्यति ।। 7.34.38 ।। Uttara Kanda,34,39,त्रयाणामेव भूतानां गतिरेषा प्लवङ्गम । मनोनिलसुपर्णानां तव चात्र न संशयः ।। 7.34.39 ।। Uttara Kanda,34,40,सो ऽहं दृष्टबलस्तुभ्यमिच्छामि हरिपुङ्गव । त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः ।। 7.34.40 ।। Uttara Kanda,34,41,दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादनभोजनम् । सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर ।। 7.34.41 ।। Uttara Kanda,34,42,ततः प्रज्वालयित्वाग्निं तावुभौ हरीराक्षसौ । भ्रातृत्वमुपसम्पन्नौ परिष्वज्य परस्परम् ।। 7.34.42 ।। Uttara Kanda,34,43,अन्योन्यं लम्बितकरौ ततस्तौ हरिराक्षसौ । किष्किन्धां विशतुर्हृष्टौ सिंहौ गिरिगुहामिव ।। 7.34.43 ।। Uttara Kanda,34,44,स तत्र मासमुषितः सुग्रीव इव रावणः । अमात्यैरागतैर्नीतस्त्रैलोक्योत्सादनार्थिभिः ।। 7.34.44 ।। Uttara Kanda,34,45,एवमेतत्पुरावृत्तं वालिना रावणः प्रभो । धर्षितश्च कृतश्चापि भ्राता पावकसन्निधौ ।। 7.34.45 ।। Uttara Kanda,34,46,बलमप्रतिमं राम वालिनो ऽभवदुत्तमम् । सो ऽपि त्वया विनिर्दग्धः शलभो वह्निना यथा ।। 7.34.46 ।। Uttara Kanda,34,47,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुस्त्रिंशः सर्गः ।। 34 ।। Uttara Kanda,35,1,अपृच्छत तदा रामो दक्षिणाशाश्रमं मुनिम् । प्राञ्जलिर्विनयोपेत इदमाह वचो ऽर्थवत् ।। 7.35.1 ।। Uttara Kanda,35,2,अतुलं बलमेतद्वै वालिनो रावणस्य च । न त्वेताभ्यां हनुमता समं त्विति मतिर्मम ।। 7.35.2 ।। Uttara Kanda,35,3,शौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम् । विक्रमश्च प्रभावश्च हनूमति कृतालयाः ।। 7.35.3 ।। Uttara Kanda,35,4,दृष्ट्वैव सागरं वीक्ष्य सीदन्तीं कपिवाहिनीम् । समाश्वास्य महाबाहुर्योजनानां शतं प्लुतः ।। 7.35.4 ।। Uttara Kanda,35,5,धर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तदा । दृष्ट्वा सम्भाषिता चापि सीता ह्याश्वासिता तथा ।। 7.35.5 ।। Uttara Kanda,35,6,सेनाग्रगा मन्त्रिसुताः किङ्करा रावणात्मजः । एते हनुमता तत्र ह्येकेन वितिपातिताः ।। 7.35.6 ।। Uttara Kanda,35,7,भूयो बन्धाद्विमुक्तेन भाषयित्वा दशाननम् । लङ्का भस्मीकृता येन पावकेनेव मेदिनी ।। 7.35.7 ।। Uttara Kanda,35,8,न कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च । कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः ।। 7.35.8 ।। Uttara Kanda,35,9,एतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः । प्राप्ता मया जयश्चैव राज्यं मित्राणि बान्धवाः ।। 7.35.9 ।। Uttara Kanda,35,10,हनूमान्यदि मे नः स्याद्वानराधिपतेः सखा । प्रवृत्तिमपि को वेत्तुं जानक्याः शक्तिमान्भवेत् ।। 7.35.10 ।। Uttara Kanda,35,11,किमर्थं वाल्यनेनैव सुग्रीवप्रियकाम्यया । तदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा ।। 7.35.11 ।। Uttara Kanda,35,12,नहि वेदितवान्मन्ये हनूमानात्मनो बलम् । यद्दृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम् ।। 7.35.12 ।। Uttara Kanda,35,13,एतन्मे भगवन्सर्वं हनूमति महामतौ । विस्तरेण यथातत्त्वं कथयामरपूजित ।। 7.35.13 ।। Uttara Kanda,35,14,राघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्तदा । हनूमतः समक्षं तमिदं वचनमब्रवीत् ।। 7.35.14 ।। Uttara Kanda,35,15,सत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमतः । न बले विद्यते तुल्यो न गतौ न मतौ परः ।। 7.35.15 ।। Uttara Kanda,35,16,अमोघशापैः शप्तस्तु दत्तो ऽस्य मुनिभिः पुरा । न वेत्ता हि बलं येन बली सन्निरिमर्दनः ।। 7.35.16 ।। Uttara Kanda,35,17,बाल्ये ऽप्येतेन यत्कर्म कृतं राम महाबल । तन्न वर्णयितुं शक्यमिति बालतया ऽ ऽस्यते ।। 7.35.17 ।। Uttara Kanda,35,18,यदि वा ऽस्ति त्वभिप्रायस्तच्छ्रोतुं तव राघव । समाधाय मतिं राम निशामय वदाम्यहम् ।। 7.35.18 ।। Uttara Kanda,35,19,सूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतः । यत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता ।। 7.35.19 ।। Uttara Kanda,35,20,तस्य भार्या बभूवैषा ह्यञ्जनेति परिश्रुता । जनयामास तस्यां वै वायुरात्मजमुत्तमम् ।। 7.35.20 ।। Uttara Kanda,35,21,शालिशूकनिभाभासं प्रासूतामुं तदा ऽञ्जना । फलान्याहर्तुकामा वै निष्क्रान्ता गहनेचरा ।। 7.35.21 ।। Uttara Kanda,35,22,एष मातुर्वियोगाच्च क्षुधया च भृशार्दितः । रुरोद शिशुरत्यर्थं शिशुः शरवणे यथा ।। 7.35.22 ।। Uttara Kanda,35,23,तदोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम् । ददर्श फललोभाच्च ह्युत्पपात रविं प्रति ।। 7.35.23 ।। Uttara Kanda,35,24,बालार्काभिमुखो बालो बालार्क इव मूर्तिमान् । ग्रहीतुकामो बालार्कं प्लवते ऽम्बरमध्यगः ।। 7.35.24 ।। Uttara Kanda,35,25,एतस्मिन्प्लवमाने तु शिशुभावे हनूमति । देवदानवयक्षाणां विस्मयः सुमहानभूत् ।। 7.35.25 ।। Uttara Kanda,35,26,नाप्येवं वेगवान्वायुर्गरुडो वा मनस्तथा । यथा ऽयं वायुपुत्रस्तु क्रमते ऽम्बरमुत्तमम् ।। 7.35.26 ।। Uttara Kanda,35,27,यदि तावच्छिशोरस्य त्वीदृशो गतिविक्रमः । यौवनं बलमासाद्य कथं वेगो भविष्यति ।। 7.35.27 ।। Uttara Kanda,35,28,तमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः । सूर्यदाहभयाद्रक्षंस्तुषारचयशीतलः ।। 7.35.28 ।। Uttara Kanda,35,29,बहुयोजनसाहस्रं क्रमत्येष गतोम्बरम् । पितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः ।। 7.35.29 ।। Uttara Kanda,35,30,शिशुरेष त्वदोषज्ञ इति मत्वा दिवाकरः । कार्यं चात्र समायत्तमित्येवं न ददाह सः ।। 7.35.30 ।। Uttara Kanda,35,31,यमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः । तमेव दिवसं राहुर्जिघृक्षति दिवाकरम् ।। 7.35.31 ।। Uttara Kanda,35,32,अनेन स परामृष्टो राम सूर्यरथोपरि । अपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः ।। 7.35.32 ।। Uttara Kanda,35,33,स इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः । अब्रवीद्भ्रुकुटिं कृत्वा देवं देवगणैर्वृतम् ।। 7.35.33 ।। Uttara Kanda,35,34,बुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव । किमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन् ।। 7.35.34 ।। Uttara Kanda,35,35,अद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः । अथान्यो राहुरासाद्य जग्राह सहसा रविम् ।। 7.35.35 ।। Uttara Kanda,35,36,स राहोर्वचनं श्रुत्वा वासवः सम्भ्रमान्वितः । उत्पपातासनं हित्वा चोद्वहन्काञ्चनीं स्रजम् ।। 7.35.36 ।। Uttara Kanda,35,37,ततः कैलासकूटाभं चतुर्दन्तं मदस्रवम् । शृङ्गारधारिणं प्रांशुं स्वर्णघण्टाट्टहासिनम् ।। 7.35.37 ।। Uttara Kanda,35,38,इन्द्रः करीन्द्रमारुह्य राहुं कृत्वा पुरःसरम् । प्रायाद्यत्राभवत्सूर्यः सहानेन हनूमता ।। 7.35.38 ।। Uttara Kanda,35,39,अथातिरभसेनागाद्राहुरुत्सृज्य वासवम् । अनेन च स वै दृष्टः प्रधावञ्छैलकूटवत् ।। 7.35.39 ।। Uttara Kanda,35,40,ततः सूर्यं समुत्सृज्य राहुं फलमवेक्ष्य च । उत्पपात पुनर्व्योम ग्रहीतुं सिंहिकासुतम् ।। 7.35.40 ।। Uttara Kanda,35,41,उत्सृज्यार्कमिमं राम प्रधावन्तं प्लवङ्गमम् । अवेक्ष्यैवं परावृत्त्य मुखशेषः पराङ्मुखः ।। 7.35.41 ।। Uttara Kanda,35,42,इन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः । इन्द्र इन्द्रेति संत्रासान्मुहुर्महुरभाषत ।। 7.35.42 ।। Uttara Kanda,35,43,राहोर्विक्रोशमानस्य प्रागेवालक्षितं स्वरम् । श्रुत्वेन्द्रोवाच मा भैषीरहमेनं निषूदये ।। 7.35.43 ।। Uttara Kanda,35,44,ऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपि । फलं मत्वा हस्तिराजमभिदुद्राव मारुतिः ।। 7.35.44 ।। Uttara Kanda,35,45,तथास्य धावतो रूपमैरावतजिघृक्षया । मुहूर्तमभवद्घोरमिन्द्राग्न्योरिव भास्वरम् ।। 7.35.45 ।। Uttara Kanda,35,46,एवमाधावमानं तु नातिक्रुद्धः शचीपतिः । हस्तान्तादतिमुक्तेन कुलिशेनाभ्यताडयत् ।। 7.35.46 ।। Uttara Kanda,35,47,ततो गिरौ पपातैष इन्द्रवज्राभिताडितः । पतमानस्य चैतस्य वामो हनुरभज्यत ।। 7.35.47 ।। Uttara Kanda,35,48,तस्मिंस्तु पतिते बाले वज्रताडनविह्वले । चुक्रोधेन्द्राय पवनः प्रजानामहिताय सः ।। 7.35.48 ।। Uttara Kanda,35,49,प्रचारं स तु सङ्गृह्य प्रजास्वन्तर्गतः प्रभुः । गुहां प्रविष्टः स्वसुतं शिशुमादाय मारुतः ।। 7.35.49 ।। Uttara Kanda,35,50,विण्मूत्राशयमावृत्य प्रजानां परमार्तिकृत् । रुरोध सर्वभूतानि यथा वर्षाणि वासवः ।। 7.35.50 ।। Uttara Kanda,35,51,वायुप्रकोपाद्भूतानि निरुच्छ्वासानि सर्वतः । सन्धिभिर्भिद्यमानैश्च काष्ठभूतानि जज्ञिरे ।। 7.35.51 ।। Uttara Kanda,35,52,निःस्वाध्यायवषट्कारं निष्क्रियं धर्मवर्जितम् । वायुप्रकोपात्ऺत्रैलोक्यं निरयस्थमिवाभवत् ।। 7.35.52 ।। Uttara Kanda,35,53,ततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः । प्रजापतिं समाधावन्दुःखिताश्च सुखेच्छया ।। 7.35.53 ।। Uttara Kanda,35,54,ऊचुः प्राञ्जलयो देवा महोदरनिभोदराः । त्वया नु भगवन्सृष्टाः प्रजानाथ चतुर्विधाः ।। 7.35.54 ।। Uttara Kanda,35,55,त्वया दत्तो ऽयमस्माकमायुषः पवनः पतिः । सो ऽस्मान्प्राणेश्वरो भूत्वा कस्मादेषो ऽद्य सत्तम ।। 7.35.55 ।। Uttara Kanda,35,56,रुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियः । तस्मात्त्वां शरणं प्राप्ता वायुनोहता वयम् ।। 7.35.56 ।। Uttara Kanda,35,57,एतत्प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः । कारणादिति चोक्त्वासौ प्रजाः पुनरभाषत ।। 7.35.57 ।। Uttara Kanda,35,58,यस्मिंश्च कारणे वायुश्चुक्रोध च रुरोध च । प्रजाः शृणुध्वं तत्सर्वं श्रोतव्यं चात्मनः क्षमम् ।। 7.35.58 ।। Uttara Kanda,35,59,पुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितः । राहोर्वचनमास्थाय ततः स कुपितो ऽनिलः ।। 7.35.59 ।। Uttara Kanda,35,60,अशरीरः शरीरेषु वायुश्चरति पालयन् । शरीरं हि विना वायुं समतां याति दारुभिः ।। 7.35.60 ।। Uttara Kanda,35,61,वायुः प्राणः सुखं वायुर्वायुः सर्वमिदं जगत् । वायुना सम्परित्यक्तं न सुखं विन्दते जगत् ।। 7.35.61 ।। Uttara Kanda,35,62,अद्यैव च परित्यक्तं वायुना जगदायुषा । अद्यैव ते निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः ।। 7.35.62 ।। Uttara Kanda,35,63,तद्यामस्तत्र यत्रास्ते मारुतो रुक्प्रदो हि नः । मा विनाशं गमिष्याम अप्रसाद्यादितेः सुताः ।। 7.35.63 ।। Uttara Kanda,35,64,ततः प्रजाभिः सहितः प्रजापतिः सदेवगन्धर्वभुजङ्गगुह्यकैः । जगाम तत्रास्यति यत्र मारुतः सुतं सुरेन्द्राभिहतं प्रगृह्य सः ।। 7.35.64 ।। Uttara Kanda,35,65,ततो ऽर्कवैश्वानरकाञ्चनप्रभं सुतं तदोत्सङ्गगतं सदागतेः । चतुर्मुखो वीक्ष्य कृपामथाकरोत्सदेवगन्धर्वर्षियक्षराक्षसैः ।। 7.35.65 ।। Uttara Kanda,35,66,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पंचत्रिंशः सर्गः ।। 35 ।। Uttara Kanda,36,1,ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दितः । शिशुकं तं समादाय उत्तस्थौ धातुरग्रतः ।। 7.36.1 ।। Uttara Kanda,36,2,चलकुण्डलमौलिस्रक्तपनीयविभूषणः । पादयोर्न्यपतद्वायुस्तिस्रोपस्थाय वेधसे ।। 7.36.2 ।। Uttara Kanda,36,3,तं तु वेदविदा तेन लम्बाभरणशोभिना । वायुमुत्थाप्य हस्तेन शिशुं तं परिमृष्टवान् ।। 7.36.3 ।। Uttara Kanda,36,4,स्पृष्टमात्रस्ततः सो ऽथ सलीलं पद्मयोनिना । जलसिक्तं यथा सस्यं पुनर्जीवितमाप्तवान् ।। 7.36.4 ।। Uttara Kanda,36,5,प्राणवन्तमिमं दृष्ट्वा प्राणो गन्धवहो मुदा । चचार सर्वभूतेषु सन्निरुद्धं यथा पुरा ।। 7.36.5 ।। Uttara Kanda,36,6,मरुद्रोधाद्विनिर्मुक्तास्ताः प्रजा मुदिता ऽभवन् । शीतदाहविनिर्मुक्ताः पद्मिन्य इव साम्बुजाः ।। 7.36.6 ।। Uttara Kanda,36,7,ततस्त्रियुग्मस्त्रिककुत्ऺित्रधामा त्रिदशार्चितः । उवाच देवता ब्रह्मा मारुतप्रियकाम्यया ।। 7.36.7 ।। Uttara Kanda,36,8,भो महेन्द्रेशवरुणप्रजेश्वरधनेश्वराः । जानतामपि वः सर्वं वक्ष्यामि श्रूयतां हितम् ।। 7.36.8 ।। Uttara Kanda,36,9,अनेन शिशुना कार्यं कर्तव्यं वो भविष्यति । तद्वदध्वं वरान्सर्वे मारुतस्यास्य तुष्टये ।। 7.36.9 ।। Uttara Kanda,36,10,ततः सहस्रनयनः प्रीतियुक्तः शुभाननः । कुशेशयमयीं मालामुत्क्षिप्येदं वचो ऽब्रवीत् ।। 7.36.10 ।। Uttara Kanda,36,11,मत्करोत्सृष्टवज्रेण हनुरस्य यथा हतः । नाम्ना वै कपिशार्दूलो भविता हनुमानिति ।। 7.36.11 ।। Uttara Kanda,36,12,अहमस्य प्रदास्यामि परमं वरमद्भुतम् । इतः प्रभृति वज्रस्य ममावध्यो भविष्यति ।। 7.36.12 ।। Uttara Kanda,36,13,मार्तण्डस्त्वब्रवीत्तत्र भगवांस्तिमिरापहः । तेजसो ऽस्य मदीयस्य ददामि शतिकां कलाम् ।। 7.36.13 ।। Uttara Kanda,36,14,यदा तु शास्त्राण्यध्येतुं शक्तिरस्य भविष्यति । तदास्य शास्त्रं दास्यामि येन वाग्ग्मी भविष्यति ।। 7.36.14 ।। Uttara Kanda,36,15,नचास्य भविता कश्चित्सदृशः शास्त्रदर्शने । वरुणश्च वरं प्रादान्नास्य मृत्युर्भविष्यति । वर्षायुतशतेनापि मत्पाशादुदकादपि ।। 7.36.15 ।। Uttara Kanda,36,16,यमो दण्डादवध्यत्वमरोगत्वं च नित्यशः । वरं ददामि सन्तुष्ट अविषादं च संयुगे ।। 7.36.16 ।। Uttara Kanda,36,17,गदेयं मामिका नैनं संयुगेषु वधिष्यति । इत्येवं वरदः प्राह तदा ह्येकाक्षिपिङ्गलः ।। 7.36.17 ।। Uttara Kanda,36,18,मत्तो मदायुधानां च न वध्यो ऽयं भविष्यति । इत्येवं शङ्करेणापि दत्तो ऽस्य परमो वरः ।। 7.36.18 ।। Uttara Kanda,36,19,सर्वेषां ब्रह्मदण्डानामवध्यो ऽयं भविष्यति । दीर्घायुश्च महात्मा च इति ब्रह्माब्रवीद्वचः ।। 7.36.19 ।। Uttara Kanda,36,20,विश्वकर्मा च दृष्ट्वैनं बालसूर्योपमं शिशुम् । शिल्पिनां प्रवरः प्रादाद्वरमस्य महामतिः ।। 7.36.20 ।। Uttara Kanda,36,21,मत्कृतानि च शस्त्राणि यानि दिव्यानि संयुगे । तैरवध्यत्वमापन्नश्चिरजीवी भविष्यति ।। 7.36.21 ।। Uttara Kanda,36,22,ततः सुराणां तु वरैर्दृष्ट्वा ह्येनमलङ्कृतम् । चतुर्मुखस्तुष्टमना वायुमाह जगद्गुरुः ।। 7.36.22 ।। Uttara Kanda,36,23,अमित्राणां भयकरो मित्राणामभयङ्करः । अजेयो भविता पुत्रस्तव मारुत मारुतिः ।। 7.36.23 ।। Uttara Kanda,36,24,कामरूपः कामचारी कामगः प्लवतां वरः । भवत्यव्याहतगतिः कीर्तिमांश्च भविष्यति ।। 7.36.24 ।। Uttara Kanda,36,25,रावणोत्सादनार्थानि रामप्रियकरणि च । रोमहर्षकराण्येष कर्ता कर्माणि संयुगे ।। 7.36.25 ।। Uttara Kanda,36,26,एवमुक्त्वा तमामन्त्र्य मारुतं त्वमरैः सह । यथागतं ययुः सर्वे पितामहपुरोगमाः ।। 7.36.26 ।। Uttara Kanda,36,27,सो ऽपि गन्धवहः पुत्रं प्रगृह्य गृहमानयत् । अञ्जनायास्तमाचख्यौ वरदत्तं विनिर्गतः ।। 7.36.27 ।। Uttara Kanda,36,28,प्राप्य राम वरानेष वरदानसमन्वितः । बलेनात्मनि संस्थेन सो ऽपूर्यत यथा ऽर्णवः ।। 7.36.28 ।। Uttara Kanda,36,29,तरसा पूर्यमाणो ऽपि तदा वानरपुङ्गवः । आश्रमेषु महर्षीणामपराध्यति निर्भयः ।। 7.36.29 ।। Uttara Kanda,36,30,स्रुग्भाण्डान्यग्निहोत्रं च वल्कलाजिनसञ्चयान् । भग्नविच्छिन्नविध्वस्तान्संशान्तानां करोत्ययम् ।। 7.36.30 ।। Uttara Kanda,36,31,एवंविधानि कर्माणि प्रावर्तत महाबलः । सर्वेषां ब्रह्मदण्डानामवध्यः शम्भुना कृतः ।। 7.36.31 ।। Uttara Kanda,36,32,जानन्त ऋषयस्तं वै सहन्ते तस्य शक्तितः ।। 7.36.32 ।। Uttara Kanda,36,33,यथा केसरिणा त्वेष वायुना सो ऽञ्जनासुतः । प्रतिषिद्धो ऽपि मर्यादां लङ्घयत्येव वानरः ।। 7.36.33 ।। Uttara Kanda,36,34,ततो महर्षयः क्रुद्धा भृग्वङ्गिरसवंशजाः । शेपुरेनं रघुश्रेष्ठ नातिक्रुद्धातिमन्यवः ।। 7.36.34 ।। Uttara Kanda,36,35,बाधसे यत्समाश्रित्य बलमस्मान्प्लवङ्गम । तद्दीर्घकालं वेत्तासि नास्माकं शापमोहितः । यदा ते स्मार्यते कीर्तिस्तदा ते वर्धते बलम् ।। 7.36.35 ।। Uttara Kanda,36,36,ततस्स हृततेजौजा महर्षिवचनौजसा । एषोश्रमाणि तान्येव मृदुभावं गतो ऽचरत् ।। 7.36.36 ।। Uttara Kanda,36,37,अथर्क्षरजसो नाम वालिसुग्रीवयोः पिता । सर्ववानरराजा ऽ ऽसीत्तेजसा भास्करप्रभः ।। 7.36.37 ।। Uttara Kanda,36,38,स तु राज्यं चिरं कृत्वा वानराणां हरीश्वरः । स च ऋक्षरजा नाम कालधर्मेण सङ्गतः ।। 7.36.38 ।। Uttara Kanda,36,39,तस्मिन्नस्तमिते चाथ मन्त्रिभिर्मन्त्रकोविदैः । पित्र्ये पदे कृतो वाली सुग्रीवो वालिनः पदे ।। 7.36.39 ।। Uttara Kanda,36,40,सुग्रीवेण समं त्वस्य अद्वैधं छिद्रवर्जितम् । आबाल्यं सख्यमभवदनिलस्याग्निना यथा ।। 7.36.40 ।। Uttara Kanda,36,41,एष शापवशादेव न वेद बलमात्मनः । वालिसुग्रीवयोर्वैरं यदा राम समुत्थितम् ।। 7.36.41 ।। Uttara Kanda,36,42,न ह्येष राम सुग्रीवो भ्राम्यमाणो ऽपि वालिना ।। 7.36.42 ।। Uttara Kanda,36,43,देव जानाति न ह्येष बलमात्मनि मारुतिः । ऋषिशापाहृतबलस्तदैष कपिसत्तमः ।। 7.36.43 ।। Uttara Kanda,36,44,सिंहः कुञ्जररुद्धो वा आस्थितः सहितो रणे ।। 7.36.44 ।। Uttara Kanda,36,45,पराक्रमोत्साहमतिप्रतापसौशील्यमाधुर्यनयानयैश्च । गाम्भीर्यचातुर्यसुवीर्यधैर्यैर्हनूमतः को ऽभ्यधिको ऽस्ति लोके ।। 7.36.45 ।। Uttara Kanda,36,46,असौ पुनर्व्याकरणं ग्रहीष्यन्सूर्योन्मुखः प्रष्टुमना कपीन्द्रः । उद्यद्गिरेरस्तगिरिं जगाम ग्रन्थं महद्धारयनप्रमेयः ।। 7.36.46 ।। Uttara Kanda,36,47,ससूत्रवृत्त्यर्थपदं महार्थं ससङ्ग्रहं साद्ध्यति वै कपीन्द्रः । नह्यस्य कश्चित्सदृशो ऽस्ति शास्त्रे वैशारदे च्छन्दगतौ तथैव ।। 7.36.47 ।। Uttara Kanda,36,48,सर्वासु विद्यासु तपोविधाने प्रस्पर्धते ऽयो हि गुरुं सुराणाम् । सो ऽयं नवव्याकरणार्थवेत्ता ब्रह्मा भविष्यत्यपि ते प्रसादात् ।। 7.36.48 ।। Uttara Kanda,36,49,प्रवीविवक्षोरिव सागरस्य लोकान्दिधक्षोरिव पावकस्ययुगक्षये ह्येव यथान्तकस्य हनूमतः स्थास्यति कः पुरस्तात् ।। 7.36.49 ।। Uttara Kanda,36,50,एषेव चान्ये च महाकपीन्द्राः सुग्रीवमैन्दद्विविदाः सनीलाः । सतारतारेयनलाः सरम्भास्त्वत्कारणाद्राम सुरैर्हि सृष्टाः ।। 7.36.50 ।। Uttara Kanda,36,51,तदेत्कथितं सर्वं यन्मां त्वं परिपृच्छसि । हनूमतो बालभावे कर्मैतत्कथितं मया ।। 7.36.51 ।। Uttara Kanda,36,52,श्रुत्वा ऽगस्त्यस्य कथितं रामः सौमित्रिरेव च । विस्मयं परमं जग्मुर्वानरा राक्षसैः सह ।। 7.36.52 ।। Uttara Kanda,36,53,अगस्त्यस्त्वब्रवीद्रामं सर्वमेतछ्रुतं त्वया । दृष्टः सम्भाषितश्चासि राम गच्छामहे वयम् ।। 7.36.53 ।। Uttara Kanda,36,54,श्रुत्वैतद्राघवो वाक्यमगस्त्यस्योग्रतेजसः । प्राञ्जलिः प्रणतश्चापि महर्षिमिदमब्रवीत् ।। 7.36.54 ।। Uttara Kanda,36,55,अद्य मे देवता हृष्टाः पितरः प्रपितामहाः । युष्माकं दर्शनादेव नित्यं तुष्टाः सबान्धवाः ।। 7.36.55 ।। Uttara Kanda,36,56,विज्ञाप्यं तु ममैतद्धि यद्वदाम्यागतस्पृहः । तद्भवद्भिर्मम कृते कर्तव्यमनुकम्पया ।। 7.36.56 ।। Uttara Kanda,36,57,पौरजानपदान्स्थाप्य स्वकार्येष्वहमागतः । क्रतूनेव करिष्यामि प्रभावाद्भवतां सताम् ।। 7.36.57 ।। Uttara Kanda,36,58,सदस्या मम यज्ञेषु भवन्तो नित्यमेव तत् । भविष्यथ महावीर्या ममानुग्रहकाङ्क्षिणः ।। 7.36.58 ।। Uttara Kanda,36,59,अहं युष्मान्समाश्रित्य तपोनिर्धूतकल्मषान् । अनुग्रहीतः पितृभिर्भविष्यामि सुनिर्वृतः ।। 7.36.59 ।। Uttara Kanda,36,60,तदागन्तव्यमनिशं भवद्भिरिह सङ्गतैः । अगस्त्याद्यास्तु तच्छ्रुत्वा ऋषयः संशितव्रताः ।। 7.36.60 ।। Uttara Kanda,36,61,एवमस्त्विति तं चोक्त्वा प्रयातुमुपचक्रमुः ।। 7.36.61 ।। Uttara Kanda,36,62,एवमुक्त्वा गताः सर्वे ऋषयस्ते यथागतम् । राघवश्च तमेवार्थं चिन्तयामास विस्मितः ।। 7.36.62 ।। Uttara Kanda,36,63,ततो ऽस्तं भास्करे याते विसृज्य नृपवानरान् । सन्ध्यामुपास्य विधिवत्तदा नरवरोत्तमः । प्रवृत्तायां रजन्यां तु सो ऽन्तःपुरचरो ऽभवत् ।। 7.36.63 ।। Uttara Kanda,36,64,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षट्त्रिंशः सर्गः ।। 36 ।। Uttara Kanda,37,1,अभिषिक्ते तु काकुत्स्थे धर्मेण विदितात्मनि । व्यतीता या निशा पूर्वा पौराणां हर्षवर्धिनी ।। 7.37.1 ।। Uttara Kanda,37,2,तस्यां रजन्यां व्युष्टायां प्रातर्नृपतिबोधकाः । वन्दिनः समुपातिष्ठन्सौम्या नृपतिवेश्मनि ।। 7.37.2 ।। Uttara Kanda,37,3,ते रक्तकण्ठिनः सर्वे किन्नरा इव शिक्षिताः । तुष्टुवुर्नपतिं वीरं यथावत् सम्प्रहर्षिणः ।। 7.37.3 ।। Uttara Kanda,37,4,वीर सौम्य प्रबुध्यस्व कौसल्याप्रीतिवर्धन । जगद्धि सर्वं स्वपिति त्वयि सुप्ते नराधिप ।। 7.37.4 ।। Uttara Kanda,37,5,विक्रमस्ते यथा विष्णो रूपं चैवाश्विनोरिव । बुद्ध्या बृहस्पतेस्तुल्यः प्रजापतिसमो ह्यसि ।। 7.37.5 ।। Uttara Kanda,37,6,क्षमा ते पृथिवीतुल्या तेजसा भास्करोपमः । वेगस्ते वायुना तुल्यो गाम्भीर्यमुदधेरिव ।। 7.37.6 ।। Uttara Kanda,37,7,अप्रकम्प्यो यता स्थाणुश्चन्द्रे सौम्यत्वमीदृशम् । नेदृशाः पार्थिवाः पूर्वं भवितारो नराधिप ।। 7.37.7 ।। Uttara Kanda,37,8,यथा त्वमतिदुर्धर्षो धर्मनित्यः प्रजाहितः । न त्वां जहाति कीर्तिश्च लक्ष्मीश्च पुरुषर्षभ ।। 7.37.8 ।। Uttara Kanda,37,9,श्रीश्च धर्मश्च काकुत्स्थ त्वयि नित्यं प्रतिष्ठितौ । एताश्चान्याश्च मधुरा वन्दिभिः परिकीर्तिताः ।। 7.37.9 ।। Uttara Kanda,37,10,सूताश्च संस्तवैर्दिव्यैर्बोधयन्ति स्म राघवम् । स्तुतिभिः स्तूयमानाभिः प्रत्यबुध्यत राघवः ।। 7.37.10 ।। Uttara Kanda,37,11,स तद्विहाय शयनं पाण्डराच्छादनास्तृतम् । उत्तस्थौ नागशयनाद्धरिर्नारायणो यथा ।। 7.37.11 ।। Uttara Kanda,37,12,तमुत्थितं महात्मानं प्रह्वाः प्राञ्जलयो नराः । सलिलं भाजनैः शुभ्रैरुपतस्थुः सहस्रशः ।। 7.37.12 ।। Uttara Kanda,37,13,कृतोदकशुचिर्भूत्वा काले हुतहुताशनः । देवागारं जगामाशु पुण्यमिक्ष्वाकुसेवितम् ।। 7.37.13 ।। Uttara Kanda,37,14,तत्र देवान्पितऽन्विप्रानर्चयित्वा यथाविधि । बाह्यकक्षान्तरं रामो निर्जगाम जनैर्वृतः ।। 7.37.14 ।। Uttara Kanda,37,15,उपतस्थुर्महात्मानो मन्त्रिणः सपुरोहिताः । वसिष्ठप्रमुखाः सर्वे दीप्यमाना इवाग्नयः ।। 7.37.15 ।। Uttara Kanda,37,16,क्षत्रियाश्च महात्मानो नानाजनपदेश्वराः । रामस्योपाविशन्पार्श्वे शक्रस्येव यथा ऽमराः ।। 7.37.16 ।। Uttara Kanda,37,17,भरतो लक्ष्मणश्चात्र शत्रुघ्नश्च महायशाः । उपासाञ्चक्रिरे हृष्टा वेदास्त्रय इवाध्वरम् ।। 7.37.17 ।। Uttara Kanda,37,18,याताः प्राञ्जलयो भूत्वा किङ्करा मुदिताननाः । मुदिता नाम पार्श्वस्था बहवः समुपाविशन् ।। 7.37.18 ।। Uttara Kanda,37,19,वानराश्च महावीर्या विंशतिः कामरूपिणः । सुग्रीवप्रमुखा राममुपासन्ते महौजसः ।। 7.37.19 ।। Uttara Kanda,37,20,विभीषणश्च रक्षोभिश्चतुर्भिः परिवारितः । उपासते महात्मानं धनेशमिव गुह्यकाः ।। 7.37.20 ।। Uttara Kanda,37,21,तथा निगमवृद्धाश्च कुलीना ये च मानवाः । शिरसा ऽ ऽवन्द्य राजानमुपासन्ते विचक्षणाः ।। 7.37.21 ।। Uttara Kanda,37,22,तथा परिवृतो राजा श्रीमद्भिर्ऋषिभिर्वृतः । राजभिश्च महावीर्यैर्वानरैश्च सराक्षसैः ।। 7.37.22 ।। Uttara Kanda,37,23,यथा देवेश्वरो नित्यमृषिभिः समुपास्यते । अधिकस्तेन रूपेण सहस्राक्षाद्विरोचते ।। 7.37.23 ।। Uttara Kanda,37,24,तेषां समुपविष्टानां तास्ताः सुमधुराः कथाः । कथ्यन्ते धर्मसंयुक्ताः पुराणज्ञैर्महात्मभिः ।। 7.37.24 ।। Uttara Kanda,37,25,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तत्रिंशः सर्गः ।। 37 ।। Uttara Kanda,38,1,एवमास्ते महाबाहुरहन्यहनि राघवः । प्रशासत्सर्वकार्याणि पौरजानपदेषु च ।। 7.38.1 ।। Uttara Kanda,38,2,ततः कतिपयाहःसु वैदेहं मिथिलाधिपम् । राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ।। 7.38.2 ।। Uttara Kanda,38,3,भवान्हि गतिरव्यग्रा भवता पालिता वयम् । भवतस्तेजसोग्रेण रावणो निहतो मया ।। 7.38.3 ।। Uttara Kanda,38,4,इक्ष्वाकूणां च सर्वेषां मैथिलानां च सर्वशः । अतुलाः प्रीतयो राजन्सम्बन्धकपुरोगमाः ।। 7.38.4 ।। Uttara Kanda,38,5,तद्भवान्स्वपुरं यातु रत्नान्यादाय पार्थिव । भरतश्च सहायार्थं पृष्ठतस्ते ऽनुयास्यति ।। 7.38.5 ।। Uttara Kanda,38,6,स तथेति नृपः कृत्वा राघवं वाक्यमब्रवीत् । प्रीतो ऽस्मि भवतो राजन्दर्शनेन नयेन च ।। 7.38.6 ।। Uttara Kanda,38,7,यान्येतानि तु रत्नानि मदर्थं सञ्चितानि वै । दुहित्रे तानि वै राजन्सर्वाण्येव ददामि च ।। 7.38.7 ।। Uttara Kanda,38,8,एवमुक्त्वा तु काकुत्स्थं जनको हृष्टमानसः । प्रययौ मिथिलां श्रीमांस्तमनुज्ञाय राघवम् ।। 7.38.8 ।। Uttara Kanda,38,9,ततः प्रयाते जनके केकयं मातुलं प्रभुः । राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ।। 7.38.9 ।। Uttara Kanda,38,10,इदं राज्यमहं चैव भरतश्च सलक्ष्मणः । आयत्तास्त्वं हि नो राजन्गतिश्च पुरुषर्षभ ।। 7.38.10 ।। Uttara Kanda,38,11,राजा हि वृद्धः सन्तापं त्वदर्थमुपयास्यति । तस्माद्गमनमद्यैव रोचते तव पार्थिव ।। 7.38.11 ।। Uttara Kanda,38,12,लक्ष्मणेनानुयात्रेण पृष्ठतो ऽनुगमिष्यते । धनमादाय विपुलं रत्नानि विविधानि च ।। 7.38.12 ।। Uttara Kanda,38,13,युधाजित्तु तथेत्याह गमनं प्रति राघवम् । रत्नानि च धनं चैव त्वय्येवाक्षय्यमस्त्विति ।। 7.38.13 ।। Uttara Kanda,38,14,प्रदक्षिणं स राजानं कृत्वा केकयवर्धनः । रामेण हि कृतः पूर्वमभिवाद्य प्रदक्षिणम् ।। 7.38.14 ।। Uttara Kanda,38,15,लक्ष्मणेन सहायेन प्रयातः केकयेश्वरः । हते ऽसुरे यथा वृत्रे विष्णुना सह वासवः ।। 7.38.15 ।। Uttara Kanda,38,16,तं विसृज्य ततो रामो वयस्यमकुतोभयम् । प्रतर्दनं काशिपतिं परिष्वज्येदमब्रवीत् ।। 7.38.16 ।। Uttara Kanda,38,17,दर्शिता भवता प्रीतिर्दर्शितं सौहृदं परम् । उद्योगश्च कृतो राजन्भरतेन त्वया सह ।। 7.38.17 ।। Uttara Kanda,38,18,तद्भवानद्य काशेय पुरीं वाराणसीं व्रज । रमणीयां त्वया गुप्तां सुप्रकाशां सुतोरणाम् ।। 7.38.18 ।। Uttara Kanda,38,19,एतावदुक्त्वा चोत्थाय काकुत्स्थः परमासनात् । पर्यष्वजत धर्मात्मा निरन्तरमुरोगतम् ।। 7.38.19 ।। Uttara Kanda,38,20,विसर्जयामास तदा कौसल्यानन्दवर्धनः । राघवेणाभ्यनुज्ञातः काशीशो ऽप्यकुतोभयः । वाराणसीं ययौ तूर्णं राघवेण विसर्जितः ।। 7.38.20 ।। Uttara Kanda,38,21,विसृज्य तं काशिपतिं त्रिशतं पृथिवीपतीन् । प्रहसन्राघवो वाक्यमुवाच मधुराक्षरम् ।। 7.38.21 ।। Uttara Kanda,38,22,भवतां प्रीतिरव्यग्रा तेजसा परिरक्षिता । धर्मश्च नियतो नित्यं सत्यं च भवतां सदा ।। 7.38.22 ।। Uttara Kanda,38,23,युष्माकं चानुभावेन तेजसा च महात्मनाम् । हतो दुरात्मा दुर्बुद्धी रावणो राक्षसाधमः ।। 7.38.23 ।। Uttara Kanda,38,24,हेतुमात्रमहं तत्र भवतां तेजसा हतः । रावणः सगणो युद्धे सपुत्रामात्यबान्धवः ।। 7.38.24 ।। Uttara Kanda,38,25,भवन्तश्च समानीता भरतेन महात्मना । श्रुत्वा जनकराजस्य काननात्तनयां हृताम् ।। 7.38.25 ।। Uttara Kanda,38,26,उद्युक्तानां च सर्वेषां पार्थिवानां महात्मनाम् । कालो व्यतीतः सुमहान्गमनं रोचयाम्यतः ।। 7.38.26 ।। Uttara Kanda,38,27,प्रत्यूचुस्तं च राजानो हर्षेण महता वृताः । दिष्ट्यां त्वं विजयी राम स्वराज्ये ऽपि प्रतिष्ठितः ।। 7.38.27 ।। Uttara Kanda,38,28,दिष्ट्या प्रत्याहृता सीता दिष्ट्या शत्रुः पराजितः । एष नः परमः काम एषा नः पीतिरुत्तमा ।। 7.38.28 ।। Uttara Kanda,38,29,यत्त्वां विजयिनं राम पश्यामो हतशात्रवम् ।। 7.38.29 ।। Uttara Kanda,38,30,एतत्त्वय्युपपन्नं च यदस्मांस्त्वं प्रशंससे । प्रशंसार्ह न जानीमः प्रशंसां वक्तुमीदृशीम् ।। 7.38.30 ।। Uttara Kanda,38,31,आपृच्छामो गमिष्यामो हृदिस्थो नः सदा भवान् । वर्तामहे महाबाहो प्रीत्यात्र महता वृताः । भवेच्च ते महाराज प्रीतिरस्मासु नित्यदा ।। 7.38.31 ।। Uttara Kanda,38,32,बाढमित्येव राजानो हर्षेण परमान्विताः । उचुः प्राञ्जलयः सर्वे राघवं गमनोत्सुकाः ।। 7.38.32 ।। Uttara Kanda,38,33,पूजिताश्चैव रामेण जग्मुर्देशान्स्वकान्स्वकान् ।। 7.38.33 ।। Uttara Kanda,38,34,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टात्रिंशः सर्गः ।। 38 ।। Uttara Kanda,39,1,ते प्रयाता महात्मानः पार्थिवास्ते प्रहृष्टवत् । गजवाजिसहस्रौघैः कम्पयन्तो वसुन्धराम् ।। 7.39.1 ।। Uttara Kanda,39,2,अक्षौहिण्यो हि तत्रासन्राघवार्थे समुद्यताः । भरतस्याज्ञया ऽनेकाः प्रहृष्टा बलवाहनाः ।। 7.39.2 ।। Uttara Kanda,39,3,ऊचुस्ते च महीपाला बलदर्पसमन्विताः । न रामरावणं युद्धे पश्यामः पुरतः स्थितम् ।। 7.39.3 ।। Uttara Kanda,39,4,भरतेन वयं पश्चात्समानीता निरर्थकम् । हता हि राक्षसाः क्षिप्रं पार्थिवैः स्युर्न संशयः ।। 7.39.4 ।। Uttara Kanda,39,5,रामस्य बाहुवीर्येण रक्षिता लक्ष्मणस्य च । सुखं पारेसमुद्रस्य युध्येम विगतज्वराः ।। 7.39.5 ।। Uttara Kanda,39,6,एताश्चान्याश्च राजानः कथास्तत्र सहस्रशः । कथयन्तः स्वराज्यानि जग्मुर्हर्षसमन्विताः ।। 7.39.6 ।। Uttara Kanda,39,7,स्वानि राज्यानि मुख्यानि ऋद्धानि मुदितानि च । समृद्धधनधान्यानि पूर्णानि वसुमन्ति च ।। 7.39.7 ।। Uttara Kanda,39,8,यथापुराणि ते गत्वा रत्नानि विविधान्यथ । रामस्य प्रियकामार्थमुपहारान् नृपा ददुः ।। 7.39.8 ।। Uttara Kanda,39,9,अश्वान्यानानि रत्नानि हस्तिनश्च मदोत्कटान् । चन्दनानि च मुख्यानि दिव्यान्याभरणानि च ।। 7.39.9 ।। Uttara Kanda,39,10,मणिमुक्ताप्रवालांस्तु दास्यो रूपसमन्विताः । अजाविकांश्च विविधान् रथांस्तु विविधान्ददुः ।। 7.39.10 ।। Uttara Kanda,39,11,भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलाः । आदाय तानि रत्नानि स्वां पुरीं पुनरागताः ।। 7.39.11 ।। Uttara Kanda,39,12,आगम्य च पुरीं रम्यामयोध्यां पुरुषर्षभाः । तानि रत्नानि चित्राणि रामाय समुपाहरन् ।। 7.39.12 ।। Uttara Kanda,39,13,प्रतिगृह्य च तत्सर्वं रामः प्रीतिसमन्वितः । सुग्रीवाय ददौ राज्ञे महात्मा कृतकर्मणे ।। 7.39.13 ।। Uttara Kanda,39,14,बिभीषणाय च ददौ तथान्येभ्यो ऽपि राघवः । राक्षसेभ्यः कपिभ्यश्च यैर्वृतो जयमाप्तवान् ।। 7.39.14 ।। Uttara Kanda,39,15,ते सर्वे रामदत्तानि रत्नानि कपिराक्षसाः । शिरोभिर्धारयामासुर्बाहुभिश्च महाबलाः ।। 7.39.15 ।। Uttara Kanda,39,16,हनूमन्तं च नृपतिरिक्ष्वाकूणां महारथः । अङ्गदं च महाबाहुमङ्कमारोप्य वीर्यवान् ।। 7.39.16 ।। Uttara Kanda,39,17,रामः कमलपत्राक्षः सुग्रीवमिदमब्रवीत् । अङ्गदस्ते सुपुत्रो ऽयं मन्त्री चाप्यनिलात्मजः ।। 7.39.17 ।। Uttara Kanda,39,18,सुग्रीवमन्त्रिते युक्तौ मम चापि हिते रतौ । अर्हतो विविधां पूजां त्वत्कृते वै हरीश्वर ।। 7.39.18 ।। Uttara Kanda,39,19,इत्युक्त्वा व्यवमुच्याङ्गाद्भूषणानि महायशाः । स बबन्ध महार्हाणि तदाङ्गदहनूमतोः ।। 7.39.19 ।। Uttara Kanda,39,20,आभाष्य च महावीर्यान्राघवो यूथपर्षभान् । नीलं नलं केसरिणं कुमुदं गन्धमादनम् ।। 7.39.20 ।। Uttara Kanda,39,21,सुषेणं पनसं वीरं मैन्दं द्विविदमेव च । जाम्बवन्तं गवाक्षं च विनतं धूम्रमेव च ।। 7.39.21 ।। Uttara Kanda,39,22,वलीमुखं प्रजङ्घं च सन्नादं च महाबलम् । दरीमुखं दधिमुखमिन्द्रजानुं च यूथपम् ।। 7.39.22 ।। Uttara Kanda,39,23,मधुरं श्लक्ष्णया वाचा नेत्राभ्यामापिबन्निव । सुहृदो मे भवन्तश्च शरीरं भ्रातरस्तथा ।। 7.39.23 ।। Uttara Kanda,39,24,युष्माभिरुद्धृतश्चाहं व्यसनात्काननौकसः । धन्यो राजा च सुग्रीवो भवद्भिः सुहृदां वरैः ।। 7.39.24 ।। Uttara Kanda,39,25,एवमुक्त्वा ददौ तेभ्यो भूषणानि यथार्हतः । वज्राणि च महार्हाणि सस्वजे च नरर्षभः ।। 7.39.25 ।। Uttara Kanda,39,26,ते पिबन्तः सुगन्धीनि मधूनि मधुपिङ्गलाः । मांसानि च सुमृष्टानि मूलानि च फलानि च ।। 7.39.26 ।। Uttara Kanda,39,27,एवं तेषां निवसतां मासः साग्रो ययौ तदा । मुहूर्तमिव ते सर्वे रामभक्त्या च मेनिरे ।। 7.39.27 ।। Uttara Kanda,39,28,रामो ऽपि रेमे तैः सार्धं वानरैः कामरूपिभिः । राक्षसैश्च महावीर्यैर्ऋक्षैश्चैव महाबलैः ।। 7.39.28 ।। Uttara Kanda,39,29,एवं तेषां ययौ मासो द्वितीयः शिशिरः सुखम् । वानराणां प्रहृष्टानां राक्षसानां च सर्वशः ।। 7.39.29 ।। Uttara Kanda,39,30,इक्ष्वाकुनगरे रम्ये परां प्रीतिमुपासताम् । रामस्य प्रीतिकरणैः कालस्तेषां सुखं ययौ ।। 7.39.30 ।। Uttara Kanda,39,31,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनचत्वारिंशः सर्गः ।। 39 ।। Uttara Kanda,40,1,तथा स्म तेषां वसतामृक्षवानररक्षसाम् । राघवस्तु महातेजाः सुग्रीवमिदमब्रवीत् ।। 7.40.1 ।। Uttara Kanda,40,2,गम्यतां सौम्य किष्किन्धां दुराधर्षां सुरासुरैः । पालयस्व सहामात्यो राज्यं निहतकण्टकम् ।। 7.40.2 ।। Uttara Kanda,40,3,अङ्गदं च महाबाहो प्रीत्या परमया युतः । पश्य त्वं हनुमन्तं च नलं च सुमहाबलम् ।। 7.40.3 ।। Uttara Kanda,40,4,सुषेणं श्वशुरं वीरं तारं च बलिनां वरम् । कुमुदं चैव दुर्धर्षं नीलं चैव महाबलम् ।। 7.40.4 ।। Uttara Kanda,40,5,वीरं शतवलिं चैव मैन्दं द्विविदमेव च । गजं गवाक्षं गवयं शरभं च महाबलम् । पश्य प्रीतिसमायुक्तो गन्धमादनमेव च ।। 7.40.5 ।। Uttara Kanda,40,6,ऋषभं च सुविक्रान्तं जाम्बवन्तं महाबलम् । ये चेमे सुमहात्मानो मदर्थे त्यक्तजीविताः ।। 7.40.6 ।। Uttara Kanda,40,7,पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः ।। 7.40.7 ।। Uttara Kanda,40,8,एवमुक्त्वा तु सुग्रीवमाश्लिष्य च पुनः पुनः । विभीषणमुवाचाथ रामो मधुरया गिरा ।। 7.40.8 ।। Uttara Kanda,40,9,लङ्कां प्रशाधि धर्मेण धर्मज्ञस्त्वं मतो मम । पुरस्य राक्षसानां च स्वभ्रातुस्सम्मतो ह्यसि ।। 7.40.9 ।। Uttara Kanda,40,10,मा च बुद्धिमधर्मे त्वं कुर्या राजन्कथञ्चन । बुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम् ।। 7.40.10 ।। Uttara Kanda,40,11,अहं च नित्यशो राजन्सुग्रीवसहितस्त्वया । स्मर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः ।। 7.40.11 ।। Uttara Kanda,40,12,रामस्य भाषितं श्रुत्वा ऋक्षवानरराक्षसाः । साधुसाध्विति काकुत्स्थं प्रशशंसुः पुनः पुनः ।। 7.40.12 ।। Uttara Kanda,40,13,तव बुद्धिर्महाबाहो वीर्यमद्भुतमेव च । माधुर्यं परमं राम स्वयम्भोरिव नित्यदा ।। 7.40.13 ।। Uttara Kanda,40,14,तेषामेवं ब्रुवाणानां वानराणां च राक्षसाम् । हनूमान्प्रवणः भूत्वा राघवं वाक्यमब्रवीत् ।। 7.40.14 ।। Uttara Kanda,40,15,स्नेहो मे परमो राजंस्त्वयि तिष्ठतु नित्यदा । भक्तिश्च नियता वीर भावो नान्यत्र गच्छतु ।। 7.40.15 ।। Uttara Kanda,40,16,वायद्रामकथा वीर चरिष्यति महीतले । तावच्छरीरे वत्स्यन्ति प्राणा मम न संशयः ।। 7.40.16 ।। Uttara Kanda,40,17,यच्चैतच्चरितं दिव्यं कथा ते रघुनन्दन । तन्मयाप्सरसो नाम श्रावयेयुर्नरर्षभ ।। 7.40.17 ।। Uttara Kanda,40,18,तच्छ्रुत्वाहं ततो वीर तव चर्यामृतं प्रभो । उत्कण्ठां तां हरिष्यामि मेघलेखामिवानिलः ।। 7.40.18 ।। Uttara Kanda,40,19,एवं ब्रुवाणं रामस्तु हनूमन्तं वरासनात् । उत्थाय सस्वजे स्नेहाद्वाक्यमेतदुवाच ह ।। 7.40.19 ।। Uttara Kanda,40,20,एवमेतत्कपिश्रेष्ठ भविता नात्र संशयः । चरिष्यति कथा यावदेषा लोके च मामिका । तावत्ते भविता कीर्तिः शरीरे ऽप्यसवस्तथा ।। 7.40.20 ।। Uttara Kanda,40,21,लोका हि यावत्स्थास्यन्ति तावत्स्थास्यति मे कथा ।। 7.40.21 ।। Uttara Kanda,40,22,लोके च मामिका । एकैकस्योपकारस्य प्राणान्दास्यामि ते कपे । नरः प्रत्युपकाराणामापस्त्वायाति पात्रताम् ।। 7.40.22 ।। Uttara Kanda,40,23,ततो ऽस्य हारं चन्द्राभं मुच्य कण्ठात्स राघवः । वैडूर्यतरलं कण्ठे बबन्ध च हनूमतः ।। 7.40.23 ।। Uttara Kanda,40,24,तेनोरसि निबद्धेन हारेण महता कपिः । रराज हेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकः ।। 7.40.24 ।। Uttara Kanda,40,25,श्रुत्वा तु राघवस्यैतदुत्थायोत्थाय वानराः । प्रणम्य शिरसा पादौ निर्जग्मुस्ते महाबलाः ।। 7.40.25 ।। Uttara Kanda,40,26,सुग्रीवः स च रामेण निरन्तरमुरोगतः । विभीषणश्च धर्मात्मा सर्वे ते बाष्पविक्लवाः ।। 7.40.26 ।। Uttara Kanda,40,27,सर्वे च ते बाष्पकलाः साश्रुनेत्रा विचेतसः । सम्मूढा इव दुःखेन त्यजन्तो राघवं तदा ।। 7.40.27 ।। Uttara Kanda,40,28,कृतप्रसादास्तेनैवं राघवेण महात्मना । जग्मुः स्वं स्वं गृहं सर्वे देही देहमिव त्यजन् ।। 7.40.28 ।। Uttara Kanda,40,29,ततस्तु ते राक्षसऋक्षवानराः प्रणम्य रामं रघुवंशवर्धनम् । वियोगजाश्रुप्रतिपूर्णलोचनाः प्रतिप्रयातास्तु यथा निवासिनः ।। 7.40.29 ।। Uttara Kanda,40,30,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चत्वारिंशः सर्गः ।। 40 ।। Uttara Kanda,41,1,विसृज्य च महाबाहुर्ऋक्षवानरराक्षसान् । भ्रातृभिः सहितो रामः प्रमुमोद सुखं सुखी ।। 7.41.1 ।। Uttara Kanda,41,2,अथापराह्णसमये भ्रातृभिः सह राघवः । शुश्राव मधुरां वाणीमन्तरिक्षात् प्रभाषिताम् ।। 7.41.2 ।। Uttara Kanda,41,3,सौम्य राम निरीक्षस्व सौम्येन वदनेन माम् । कुबेरभवनात्प्राप्तं विद्धि मां पुष्पकं प्रभो ।। 7.41.3 ।। Uttara Kanda,41,4,तव शासनमाज्ञाय गतो ऽस्मि भवनं प्रति । उपस्थातुं नरश्रेष्ठ स च मां प्रत्यभाषत ।। 7.41.4 ।। Uttara Kanda,41,5,निर्जितस्त्वं नरेन्द्रेण राघवेण महात्मना । निहत्य युधि दुर्धर्षं रावणं राक्षसेश्वरम् ।। 7.41.5 ।। Uttara Kanda,41,6,ममापि परमा प्रीतर्हते तस्मिन्दुरात्मनि । रावणे सगणे चैव सपुत्रे सहबान्धवे ।। 7.41.6 ।। Uttara Kanda,41,7,स त्वं रामेण लङ्कायां निर्जितः परमात्मना । वह सौम्य तमेव त्वमहमाज्ञापयामि ते ।। 7.41.7 ।। Uttara Kanda,41,8,परमो ह्येष मे कामो यत्त्वं राघवनन्दनम् । वहेर्लोकस्य संयानं गच्छस्व विगतज्वरः ।। 7.41.8 ।। Uttara Kanda,41,9,सो ऽहं शासनमाज्ञाय धनदस्य महात्मनः । त्वत्सकाशमनुप्राप्तो निर्विशङ्कः प्रतीक्ष माम् ।। 7.41.9 ।। Uttara Kanda,41,10,अदृष्यः सर्वभूतानां सर्वेषां धनदाज्ञया । चराम्यहं प्रभावेण तवाज्ञां परिपालयन् ।। 7.41.10 ।। Uttara Kanda,41,11,एवमुक्तस्तदा रामः पुष्पकेण महाबलः । उवाच पुष्पकं दृष्ट्वा विमानं पुनरागतम् ।। 7.41.11 ।। Uttara Kanda,41,12,यद्येवं स्वागतं ते ऽस्तु विमानवर पुष्पक । आनुकूल्याद्धनेशस्य वृत्तदोषो न नो भवेत् ।। 7.41.12 ।। Uttara Kanda,41,13,लाजैश्चैव तथा पुष्पैर्धूपैश्चैव सुगन्धिभिः । पूजयित्वा महाबाहू राघवः पुष्पकं तदा ।। 7.41.13 ।। Uttara Kanda,41,14,गम्यतामिति चोवाच आगच्छ त्वं स्मरे यदा । सिद्धानां च गतौ सौम्य मा विषादेन योजय । प्रतिघातश्च ते मा भूद्यथेष्टं गच्छतो दिशः ।। 7.41.14 ।। Uttara Kanda,41,15,एवमस्त्विति रामेण पूजयित्वा विसर्जितम् । अभिप्रेतां दिशं तस्मात्प्रायात्तत्पुष्पकं तदा ।। 7.41.15 ।। Uttara Kanda,41,16,एवमन्तर्हिते तस्मिन्पुष्पके सुकृतात्मनि । भरतः प्राञ्जलिर्वाक्यमुवाच रघुनन्दनम् ।। 7.41.16 ।। Uttara Kanda,41,17,विविधात्मनि दृश्यन्ते त्वयि वीर प्रशासति । अमानुषाणां सत्त्वानां व्याहृतानि मुहुर्मुहुः ।। 7.41.17 ।। Uttara Kanda,41,18,अनामयश्च सत्वानां साग्रो मासो गतो ह्ययम् । जीर्णानामपि सत्त्वानां मृत्युर्नायाति राघव ।। 7.41.18 ।। Uttara Kanda,41,19,अरोगप्रसवा नार्यो वपुष्मन्तो हि मानवाः । हर्षश्चाभ्यधिको राजञ्जनस्य पुरवासिनः ।। 7.41.19 ।। Uttara Kanda,41,20,काले वर्षति पर्जन्यः पातयन्नमृतं पयः । वाताश्चापि प्रवान्त्येते स्पर्शयुक्ताः सुखाः शिवाः ।। 7.41.20 ।। Uttara Kanda,41,21,ईदृशो ऽनश्वरो राजा भवेदिति नरेश्वरः । कथयन्ति पुरे राजन्पौरजानपदास्तथा ।। 7.41.21 ।। Uttara Kanda,41,22,एता वाचः सुमधुरा भरतेन समीरिताः । श्रुत्वा रामो मुदा युक्तो बभूव नृपसत्तमः ।। 7.41.22 ।। Uttara Kanda,41,23,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकचत्वारिंशः सर्गः ।। 41 ।। Uttara Kanda,42,1,स विसृज्य ततो रामः पुष्पकं हेमभूषितम् । प्रविवेश महाबाहुरशोकवनिकां तदा ।। 7.42.1 ।। Uttara Kanda,42,2,चन्दनागुरुचूतैश्च तुङ्गकालेयकैरपि । देवदारुवनैश्चापि समन्तादुपशोभिताम् ।। 7.42.2 ।। Uttara Kanda,42,3,चम्पकाशोकपुन्नागमधूकपनसासनैः । शोभितां पारिजातैश्च विधूमज्वलनप्रभैः ।। 7.42.3 ।। Uttara Kanda,42,4,लोध्रनीपार्जुनैर्नागैः सप्तपर्णातिमुक्तकैः । मन्दारकदलीगुल्मलताजालसमावृताम् ।। 7.42.4 ।। Uttara Kanda,42,5,प्रियङ्गुभिः कदम्बैश्च तथा च वकुलैरपि । जम्बूभिर्दाडिमैश्चैव कोविदारैश्च शोभिताम् ।। 7.42.5 ।। Uttara Kanda,42,6,सर्वदा कुसुमै रम्यैः फलवद्भिर्मनोरमैः । दिव्यगन्धरसोपेतैस्तरुणाङ्कुरपल्लवैः ।। 7.42.6 ।। Uttara Kanda,42,7,तथैव तरुभिर्दिव्यैः शिल्पिभिः परिकल्पितैः । चारुपल्लवपुष्पाढ्यैर्मत्तभ्रमरसङ्कुलैः ।। 7.42.7 ।। Uttara Kanda,42,8,कोकिलैर्भृङ्गराजैश्च नानावर्णैश्च पक्षिभिः । शोभितां शतशश्चित्रां चूतवृक्षावतंसकैः ।। 7.42.8 ।। Uttara Kanda,42,9,शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः । नीलाञ्जननिभाश्चान्ये भान्ति तत्रत्यपादपाः ।। 7.42.9 ।। Uttara Kanda,42,10,सुरभीणि च पुष्पाणि माल्यानि विविधानि च । दीर्घिका विविधाकाराः पूर्णाः परमवारिणा ।। 7.42.10 ।। Uttara Kanda,42,11,माणिक्यकृतसोपानाः स्फाटिकान्तरकुट्टिमाः । फुल्लपद्मोत्पलवनाश्चक्रवाकोपशोभिताः ।। 7.42.11 ।। Uttara Kanda,42,12,दात्यूहशुकसङ्घुष्टा हंससारसनादिताः । तरुभिः पुष्पवद्भिश्च तीरजैरुपशोभिताः ।। 7.42.12 ।। Uttara Kanda,42,13,प्राकारैर्विविधाकारैः शोभिताश्च शिलातलैः । तत्रैव च वनोद्देशे वैडूर्यमणिसन्निभैः ।। 7.42.13 ।। Uttara Kanda,42,14,शाद्वलैः परमोपेतां पुष्पितद्रुमकाननाम् । तत्र सङ्घर्षजातानां वृक्षाणां पुष्पशालिनाम् ।। 7.42.14 ।। Uttara Kanda,42,15,प्रस्तराः पुष्पशबला नभस्तारागणैरिव । नन्दनं हि यथेन्द्रस्य ब्राह्मं चैत्ररथं यथा ।। 7.42.15 ।। Uttara Kanda,42,16,तथाभूतं हि रामस्य काननं सन्निवेशनम् । बह्वासनगृहोपेतां लतागृहसमावृताम् ।। 7.42.16 ।। Uttara Kanda,42,17,अशोकवनिकां स्फीतां प्रविश्य रघुनन्दनः । आसने च शुभाकारे पुष्पप्रकरभूषिते ।। 7.42.17 ।। Uttara Kanda,42,18,कुशास्तरणसंस्तीर्णे रामः सन्निषसाद ह । सीतामादायं हस्तेन मधुमैरेयकं शुचि ।। 7.42.18 ।। Uttara Kanda,42,19,पाययामास काकुत्स्थः शचीमिव पुरन्दरः । मांसानि च समृष्टानि फलानि विविधानि च ।। 7.42.19 ।। Uttara Kanda,42,20,रामस्याभ्यवहारार्थं किङ्करास्तूर्णमाहरन्उ । उपानृत्यंश्च राजानं नृत्यगीतविशारदाः ।। 7.42.20 ।। Uttara Kanda,42,21,बालाश्च रूपवत्यश्च स्त्रियः पानवशानुगाः । मनोभिरामा रामास्ता रामो रमयतां वरः ।। 7.42.21 ।। Uttara Kanda,42,22,उपानृत्यन्त काकुत्स्थं नृत्यगीतविशारदाः । मनोभिरामा रामास्ता रामो रमयतां वरः ।। 7.42.22 ।। Uttara Kanda,42,23,रमयामास धर्मात्मा नित्यं परमभूषितः । स तया सीतया सार्धमासीनो विरराज ह ।। 7.42.23 ।। Uttara Kanda,42,24,अरुन्धत्या सहासीनो वसिष्ठ इव तेजसा । एवं रामो मुदा युक्तः सीतां सुरसुतोपमाम् ।। 7.42.24 ।। Uttara Kanda,42,25,रमयामास वैदेहीमहन्यहनि देववत्त । था तयोर्विहरतोः सीताराघवयोश्चिरम् ।। 7.42.25 ।। Uttara Kanda,42,26,अत्यक्रामच्छुभः कालः शैशिरो भोगदः सदा । प्राप्तयोर्विविधान्भोगानतीतः शिशिरागमः ।। 7.42.26 ।। Uttara Kanda,42,27,पूर्वाह्णे धर्मकार्याणि कृत्वा धर्मेण धर्मवित् । शेषं दिवसभागार्धमन्तःपुरगतो ऽभवत् ।। 7.42.27 ।। Uttara Kanda,42,28,सीतापि देवकार्याणि कृत्वा पौर्वाह्णिकानि वै । श्वश्रूणामकरोत्पूजां सर्वासामविशेषतः ।। 7.42.28 ।। Uttara Kanda,42,29,अभ्यगच्छत्ततो रामं विचित्राभरणाम्बरा । त्रिविष्टपे सहस्राक्षमुपविष्टं यथा शची ।। 7.42.29 ।। Uttara Kanda,42,30,दृष्ट्वा तु राघवः पत्नीं कल्याणेन समन्विताम् । प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ।। 7.42.30 ।। Uttara Kanda,42,31,अब्रवीच्च वरारोहां सीतां सुरसुतोपमाम् । अपत्यलाभो वैदेहि त्वयि मे समुपस्थितः ।। 7.42.31 ।। Uttara Kanda,42,32,किमिच्छसि वरारोहे कामः किं क्रियतां तव । स्मितं कृत्वा तु वैदेही रामं वाक्यमथाब्रवीत् ।। 7.42.32 ।। Uttara Kanda,42,33,तपोवनानि पुण्यानि द्रष्टुमिच्छामि राघव । गङ्गातीरोपविष्टानामृषीणामुग्रतेजसाम् ।। 7.42.33 ।। Uttara Kanda,42,34,फलमूलाशिनां देव पादमूलेषु वर्तितुम् । एष मे परमः कामो यन्मूलफलभोजिनाम् ।। 7.42.34 ।। Uttara Kanda,42,35,अप्येकरात्रं काकुत्स्थ निवसेयं तपोवने । तथेति च प्रतिज्ञातं रामेणाक्लिष्टकर्मणा । विस्रब्धा भव वैदेहि श्वो गमिष्यस्यसंशयम् ।। 7.42.35 ।। Uttara Kanda,42,36,एवमुक्त्वा तु काकुत्स्थो मैथिलीं जनकात्मजाम् । मध्यकक्षान्तरं रामो निर्जगाम सुहृद्वृतः ।। 7.42.36 ।। Uttara Kanda,42,37,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्विचत्वारिंशः सर्गः ।। 42 ।। Uttara Kanda,43,1,तत्रोपविष्टं राजानमुपासन्ते विचक्षणाः । कथानां बहुरूपाणां हास्यकाराः समन्ततः ।। 7.43.1 ।। Uttara Kanda,43,2,विजयो मधुमत्तश्च काश्यपो मङ्गलः कुटः । सुराजः कालियो भद्रो दन्तवक्रः सुमागधः ।। 7.43.2 ।। Uttara Kanda,43,3,एते कथा बहुविधाः परिहाससमन्विताः । कथयन्ति स्म संहृष्टा राघवस्य महात्मनः ।। 7.43.3 ।। Uttara Kanda,43,4,ततः कथायां कस्याञ्चिद्राघवः समभाषत । काः कथा नगरे भद्र वर्तन्ते विषयेषु च ।। 7.43.4 ।। Uttara Kanda,43,5,मामाश्रितानि कान्याहुः पौरजानपदा जनाः । किं च सीतां समाश्रित्य भरतं किं च लक्ष्मणम् ।। 7.43.5 ।। Uttara Kanda,43,6,किं नु शत्रुघ्नमुद्दिश्य कैकयीं किं नु मातरम् । वक्तव्यतां च राजानो वरे राज्ये व्रजन्ति च ।। 7.43.6 ।। Uttara Kanda,43,7,एवमुक्ते तु रामेण भद्रः प्राञ्जलिरब्रवीत् । स्थिताः कथा शुभाः राजन्वर्तन्ते पुरवासिनाम् ।। 7.43.7 ।। Uttara Kanda,43,8,अमुं तु विजयं सौम्य दशग्रीववधार्जितम् । भूयिष्ठं स्वपुरे पौरैः कथ्यन्ते पुरुषर्षभ ।। 7.43.8 ।। Uttara Kanda,43,9,एवमुक्तस्तु भद्रेण राघवो वाक्यमब्रवीत् । कथयस्व यथातत्त्वं सर्वं निरवशेषतः ।। 7.43.9 ।। Uttara Kanda,43,10,शुभाशुभानि वाक्यानि यान्याहुः पुरवासिनः । श्रुत्वेदानीं शुभं कुर्यां नकुर्यामशुभानि च ।। 7.43.10 ।। Uttara Kanda,43,11,कथयस्व च विस्रब्धो निर्भयं विगतज्वरः । कथयन्ति यथा पौराः पापा जनपदेषु च ।। 7.43.11 ।। Uttara Kanda,43,12,राघवेणैवमुक्तस्तु भद्रः सुरुचिरं वचः । प्रत्युवाच महाबाहुं प्राञ्जलिः सुसमाहितः ।। 7.43.12 ।। Uttara Kanda,43,13,शृणु राजन्यथा पौराः कथयन्ति शुभाशुभम् । चत्वरापणरथ्यासु वनेषूपवनेषु च ।। 7.43.13 ।। Uttara Kanda,43,14,दुष्करं कृतवान्रामः समुद्रे सेतुबन्धनम् । अश्रुतं पूर्वकैः कैश्चिद्देवैरपि सदानवैः ।। 7.43.14 ।। Uttara Kanda,43,15,रावणश्च दुराधर्षो हतः सबलवाहनः । वानराश्च वशं नीता ऋक्षाश्च सह राक्षसैः ।। 7.43.15 ।। Uttara Kanda,43,16,हत्वा च रावणं सङ्ख्ये सीतामाहृत्य राघवः । अमर्षं पृष्ठतः कृत्वा स्ववेश्म पुनरानयत् ।। 7.43.16 ।। Uttara Kanda,43,17,कीदृशं हृदये तस्य सीतासम्भोगजं सुखम् । अङ्कमारोप्य तु पुरा रावणेन बलाद्धृताम् ।। 7.43.17 ।। Uttara Kanda,43,18,लङ्कामपि पुरा नीतामशोकवनिकां गताम् । रक्षसां वशमापन्नां कथं रामो न कुत्सते ।। 7.43.18 ।। Uttara Kanda,43,19,अस्माकमपि दारेषु सहनीयं भविष्यति । यथा हि कुरुते राजा प्रजा तमनुवर्तते ।। 7.43.19 ।। Uttara Kanda,43,20,एवं बहुविधा वाचो वदन्ति पुरवासिनः । नगरेषु च सर्वेषु राजञ्जनपदेषु च ।। 7.43.20 ।। Uttara Kanda,43,21,तस्यैवं भाषितं श्रुत्वा राघवः परमार्तवत् । उवाच सुहृदः सर्वान्कथमेतद्ब्रवीथ माम् ।। 7.43.21 ।। Uttara Kanda,43,22,सर्वे तु शिरसा भूमावभिवाद्य प्रणम्य च । प्रत्यूचू राघवं दीनमेवमेतन्न संशयः ।। 7.43.22 ।। Uttara Kanda,43,23,श्रुत्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम् । विसर्जयामास तदा वयस्याञ्छत्रुसूदनः ।। 7.43.23 ।। Uttara Kanda,43,24,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिचत्वारिंशः सर्गः ।। 43 ।। Uttara Kanda,44,1,विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः । समीपे द्वाःस्थमासीनमिदं वचनमब्रवीत् ।। 7.44.1 ।। Uttara Kanda,44,2,शीघ्रमानय सौमित्रिं लक्ष्मणं शुभलक्षणम् । भरतं च महाभागं शत्रुघ्नमपराजितम् ।। 7.44.2 ।। Uttara Kanda,44,3,रामस्य वचनं श्रुत्वा द्वाःस्थो मूर्ध्नि कृताञ्जलिः । लक्ष्मणस्य गृहं गत्वा प्रविवेशानिवारितः ।। 7.44.3 ।। Uttara Kanda,44,4,उवाच सुमहात्मानं वर्धयित्वा कृताञ्जलिः । द्रष्टुमिच्छति राजा त्वां गम्यतां तत्र मा चिरम् ।। 7.44.4 ।। Uttara Kanda,44,5,बाढमित्येव सौमित्रिः श्रुत्वा राघवशासनम् । प्राद्रवद्रथमारुह्य राघवस्य निवेशनम् ।। 7.44.5 ।। Uttara Kanda,44,6,प्रयान्तं लक्ष्मणं दृष्ट्वा द्वाःस्थो भरतमन्तिकात् । उवाच भरतं तत्र वर्धयित्वा कृताञ्जलिः ।। 7.44.6 ।। Uttara Kanda,44,7,विनयावनतो भूत्वा राजा त्वां द्रष्टुमिच्छति । भरतस्तु वचःश्रुत्वा द्वाःस्थाद्रामसमीरितम् ।। 7.44.7 ।। Uttara Kanda,44,8,उत्पपातासनात्तूर्णं पद्भ्यामेव ययौ बली । दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः ।। 7.44.8 ।। Uttara Kanda,44,9,शत्रुघ्नभवनं गत्वा ततो वाक्यमुवाच ह । एह्यागच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुमिच्छति ।। 7.44.9 ।। Uttara Kanda,44,10,गतो हि लक्ष्मणः पूर्वं भरतश्च महायशाः । श्रुत्वा तु वचनं तस्य शत्रुघ्नः परमासनात् ।। 7.44.10 ।। Uttara Kanda,44,11,शिरसा धरणीं प्राप्य प्रययौ यत्र राघवः । द्वाःस्थस्त्वागम्य रामाय सर्वानेव कृताञ्जलिः । निवेदयामास तदा भ्रातऽन्स्वान्समुपस्थितान् ।। 7.44.11 ।। Uttara Kanda,44,12,कुमारानागताञ्छ्रुत्वा चिन्ताव्याकुलितेन्द्रियः । अवाङ्मुखो दीनमना द्वाःस्थं वचनमब्रवीत् ।। 7.44.12 ।। Uttara Kanda,44,13,प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितः । एतेषु जीवितं मह्यमेते प्राणाः प्रिया मम ।। 7.44.13 ।। Uttara Kanda,44,14,आज्ञप्तास्तु नरेन्द्रेण कुमाराः शक्रतेजसः । प्रह्वाः प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः ।। 7.44.14 ।। Uttara Kanda,44,15,ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा । सन्ध्यागतमिवादित्यं प्रभया परिवर्जितम् ।। 7.44.15 ।। Uttara Kanda,44,16,बाष्पपूर्णे च नयने दृष्ट्वा रामस्य धीमतः । हतशोभं यथा पद्मं मुखं वीक्ष्य च तस्य ते ।। 7.44.16 ।। Uttara Kanda,44,17,ततो ऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः । तस्थुः समाहिताः सर्वे रामस्त्वश्रूण्यवर्तयत् ।। 7.44.17 ।। Uttara Kanda,44,18,तान्परिष्वज्य बाहुभ्यामुत्थाप्य च महाबलः । आसनेष्वासतेत्युक्त्वा ततो वाक्यं जगाद ह ।। 7.44.18 ।। Uttara Kanda,44,19,भवन्तो मम सर्वस्वं भवन्तो जीवितं मम । भवद्भिश्च कृतं राज्यं पालयामि नरेश्वराः ।। 7.44.19 ।। Uttara Kanda,44,20,भवन्तः कृतशास्त्रार्था बुद्ध्या च परिनिष्ठिताः । सम्भूय च मदर्थो ऽयमन्वेष्टव्यो नरेश्वराः ।। 7.44.20 ।। Uttara Kanda,44,21,तथा वदति काकुत्स्थे अवधानपरायणाः । उद्विग्नमनसः सर्वे किं नु राजाभिधास्यति ।। 7.44.21 ।। Uttara Kanda,44,22,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुश्चत्वारिंशः सर्गः ।। 44 ।। Uttara Kanda,45,1,तेषां समुपविष्टानां सर्वेषां दीनचेतसाम् । उवाच वाक्यं काकुत्स्थो मुखेन परिशुष्यता ।। 7.45.1 ।। Uttara Kanda,45,2,सर्वे शृणुत भद्रं वो मा कुरुध्वं मनो ऽन्यथा । पौराणां मम सीतायां यादृशी वर्तते कथा ।। 7.45.2 ।। Uttara Kanda,45,3,पौरापवादः सुमहांस्तथा जनपदस्य च । वर्तते मयि बीभत्सा सा मे मर्माणि कृन्तति ।। 7.45.3 ।। Uttara Kanda,45,4,अहं किल कुले जात इक्ष्वाकूणां महात्मनाम् । सीता ऽपि सत्कुले जाता जनकानां महात्मनाम् ।। 7.45.4 ।। Uttara Kanda,45,5,जानासि त्वं यथा सौम्य दण्डके विजने वने । रावणेन हृता सीता स च विध्वंसितो मया ।। 7.45.5 ।। Uttara Kanda,45,6,तत्र मे बुद्धिरुत्पन्ना जनकस्य सुतां प्रति । अत्रोषितामिमां सीतामानयेयं कथं पुरीम् ।। 7.45.6 ।। Uttara Kanda,45,7,प्रत्ययार्थं ततः सीता विवेश ज्वलनं तदा । प्रत्यक्षं तव सौमित्रे देवानां हव्यवाहनः । अपापां मैथिलीमाह वायुश्चाकाशगोचरः ।। 7.45.7 ।। Uttara Kanda,45,8,चन्द्रादित्यौ च शंसेते सुराणां सन्निधौ पुरा । ऋषीणां चैव सर्वेषामपापां जनकात्मजाम् ।। 7.45.8 ।। Uttara Kanda,45,9,एवं शुद्धसमाचारा देवगन्धर्वसन्निधौ । लङ्काद्वीपे महेन्द्रेण मम हस्ते निवेशिता ।। 7.45.9 ।। Uttara Kanda,45,10,अन्तरात्मा च मे वेत्ति सीतां शुद्धां यशस्विनीम् । ततो गृहीत्वा वैदेहीमयोध्यामहमागतः ।। 7.45.10 ।। Uttara Kanda,45,11,अयं तु मे महान्वादः शोकश्च हृदि वर्तते । पौरापवादः सुमहांस्तथा जनपदस्य च ।। 7.45.11 ।। Uttara Kanda,45,12,अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित् । पतत्येवाधमाँल्लोकान्यावच्छब्दः प्रकीर्त्यते ।। 7.45.12 ।। Uttara Kanda,45,13,अकीर्तिर्निन्द्यते देवैः कीर्तिर्लोकेषु पूज्यते । कीर्त्यर्थं तु समारम्भः सर्वेषां सुमहात्मनाम् ।। 7.45.13 ।। Uttara Kanda,45,14,अप्यहं जीवितं जह्यां युष्मान्वा पुरुषर्षभाः । अपवादभयाद्भीतः किं पुनर्जनकात्मजाम् ।। 7.45.14 ।। Uttara Kanda,45,15,तस्माद्भवन्तः पश्यन्तु पतितं शोकसागरे । नहि पश्याम्यहं भूतं किञ्चिद्दुःखमतो ऽधिकम् ।। 7.45.15 ।। Uttara Kanda,45,16,श्वस्त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम् । आरुह्य सीतामारोप्य विषयान्ते समुत्सृज ।। 7.45.16 ।। Uttara Kanda,45,17,गङ्गायास्तु परे पारे वाल्मीकेस्तु महात्मनः । आश्रमो दिव्यसङ्काशस्तमसातीरमाश्रितः ।। 7.45.17 ।। Uttara Kanda,45,18,तत्रैनां विजने देशे विसृज्य रघुनन्दन । शीघ्रमागच्छ भद्रं ते कुरुष्व वचनं मम ।। 7.45.18 ।। Uttara Kanda,45,19,न चास्मिन् प्रतिवक्तव्यः सीतां प्रति कथञ्चन । तस्मात्त्वं गच्छ सौमित्रे नात्र कार्या विचारणा ।। 7.45.19 ।। Uttara Kanda,45,20,अप्रीतिर्हि परा मह्यं त्वयेतत्प्रतिवारिते । शापिता हि मया यूयं भुजाभ्यां जीवितेन च ।। 7.45.20 ।। Uttara Kanda,45,21,ये मां वाक्यान्तरे ब्रूयुरनुनेतुं कथञ्चन । अहिता नाम ते नित्यं मदभीष्टविघातनात् ।। 7.45.21 ।। Uttara Kanda,45,22,मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः । इतो ऽद्य नीयतां सीता कुरुष्व वचनं मम ।। 7.45.22 ।। Uttara Kanda,45,23,पूर्वमुक्तो ऽहमनया गङ्गातीरे ऽहमाश्रमान् । पश्येयमिति तस्याश्च कामः संवर्त्यतामयम् ।। 7.45.23 ।। Uttara Kanda,45,24,एवमुक्त्वा तु काकुत्स्थो बाष्पेण पिहिताननः । प्रविवेश स धर्मात्मा भ्रातृभिः परिवारितः ।। 7.45.24 ।। Uttara Kanda,45,25,शोकसंलग्नहृदयो निशश्वास यथा द्विपः ।। 7.45.25 ।। Uttara Kanda,45,26,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चचत्वारिंशः सर्गः ।। 45 ।। Uttara Kanda,46,1,ततो रजन्यां व्युष्टायां लक्ष्मणो दीनचेतनः । सुमन्त्रमब्रवीद्वाक्यं मुखेन परिशुष्यता ।। 7.46.1 ।। Uttara Kanda,46,2,सारथे तुरगाञ्छीघ्रं योजयस्व रथोत्तमे । स्वास्तीर्णं राजभवनात्सीतायाश्चासनं कुरु ।। 7.46.2 ।। Uttara Kanda,46,3,सीता हि राजवचनादाश्रमं पुण्यकर्मणाम् । मया नेया महर्षीणां श्रीघ्रमानीयतां रथः ।। 7.46.3 ।। Uttara Kanda,46,4,सुमन्त्रस्तु तथेत्युक्त्वा युक्तं परमवाजिभिः । रथं सुरुचिरप्रख्यं स्वास्तीर्णं सुखशय्यया ।। 7.46.4 ।। Uttara Kanda,46,5,आनीयोवाच सौमित्रिं मित्राणां मानवर्धनम् । रथो ऽयं समनुप्राप्तो यत्कार्यं क्रियतां प्रभो ।। 7.46.5 ।। Uttara Kanda,46,6,एवमुक्तः सुमन्त्रेण राजवेश्मनि लक्ष्मणः । प्रविश्य सीतामासाद्य व्याजहार नरर्षभः ।। 7.46.6 ।। Uttara Kanda,46,7,त्वया किलैष नृपतिर्वरं वै याचितः प्रभुः । नृपेण च प्रतिज्ञातमाज्ञप्तश्चाश्रमं प्रति ।। 7.46.7 ।। Uttara Kanda,46,8,गङ्गीतीरे मया देवि ऋषीणामाश्रमाञ्छुभान् । शीघ्रं गत्वा तु वैदेहि शासनात्पार्थिवस्य नः । अरण्ये मुनिभिर्जुष्टे अपनेया भविष्यसि ।। 7.46.8 ।। Uttara Kanda,46,9,एवमुक्ता तु वैदेही लक्ष्मणेन महात्मना । प्रहर्षमतुलं लेभे गमनं चाप्यरोचयत् ।। 7.46.9 ।। Uttara Kanda,46,10,वासांसि च महार्हाणि रत्नानि विविधानि च । गृहीत्वा तानि वैदेही गमनायोपचक्रमे ।। 7.46.10 ।। Uttara Kanda,46,11,इमानि मुनिपत्नीनां दास्याम्याभरणान्हम् । वस्त्राणि च महार्हाणि धनानि विविधानि च ।। 7.46.11 ।। Uttara Kanda,46,12,सौमित्रिस्तु तथेत्युक्त्वा रथमारोप्य मैथिलीम् । प्रययौ शीघ्रतुरगै रामस्याज्ञामनुस्मरन् ।। 7.46.12 ।। Uttara Kanda,46,13,अब्रवीच्च तदा सीता लक्ष्मणं लक्ष्मिवर्धनम् । अशुभानि बहून्येव पश्यामि रघुनन्दन ।। 7.46.13 ।। Uttara Kanda,46,14,नयनं मे स्फुरत्यद्य गात्रोत्कम्पश्च जायते । हृदयं चैव सौमित्रे अस्वस्थमिव लक्षये ।। 7.46.14 ।। Uttara Kanda,46,15,औत्सुक्यं परमं चापि अधृतिश्च परा मम । शून्यामेव च पश्यामि पृथिवीं पृथुलोचन ।। 7.46.15 ।। Uttara Kanda,46,16,अपि स्वस्ति भवेत्तस्य भ्रातुस्ते भ्रातृवत्सल । श्वश्रूणां चैव मे वीर सर्वासामविशेषतः ।। 7.46.16 ।। Uttara Kanda,46,17,पुरे जनपदे चैव कुशलं प्राणिनामपि । इत्यञ्जलिकृता सीता देवता अभ्ययाचत ।। 7.46.17 ।। Uttara Kanda,46,18,लक्ष्मणो ऽर्थं ततः श्रुत्वा शिरसा वन्द्य मैथिलीम् । शिवमित्यब्रवीद्धृष्टो हृदयेन विशुष्यता ।। 7.46.18 ।। Uttara Kanda,46,19,ततो वासमुपागम्य गोमतीतीर आश्रमे । प्रभाते पुनरुत्थाय सौमित्रिः सूतमब्रवीत् ।। 7.46.19 ।। Uttara Kanda,46,20,योजयस्व रथं शीघ्रमद्य भागीरथीजलम् । शिरसा धारयिष्यामि त्र्यम्बकः पर्वते यथा ।। 7.46.20 ।। Uttara Kanda,46,21,सो ऽश्वान् रज्वाथ चतुरो रथे युङ्क्त्वा मनोजवान् । आरोहस्वेति वैदेहीं सूतः प्राञ्जलिरब्रवीत् ।। 7.46.21 ।। Uttara Kanda,46,22,सा तु सूतस्य वचनादारुरोह रथोत्तमम् । सीता सौमित्रिणा सार्धं सुमन्त्रेण च धीमता ।। 7.46.22 ।। Uttara Kanda,46,23,आससाद विशालाक्षी गङ्गां पापविनाशिनीम् । अथार्धदिवसं गत्वा भागीरथ्या जलाशयम् ।। 7.46.23 ।। Uttara Kanda,46,24,निरीक्ष्य लक्ष्मणो दीनः प्ररुरोद महास्वनः ।। 7.46.24 ।। Uttara Kanda,46,25,सीता तु परमायत्ता दृष्ट्वा लक्ष्मणमातुरम् । उवाच वाक्यं धर्मज्ञा किमिदं रुद्यते त्वया ।। 7.46.25 ।। Uttara Kanda,46,26,जाह्नवीतीरमासाद्य चिराभिलषितं मम । हर्षकाले किमर्थं मां विषादयसि लक्ष्मण ।। 7.46.26 ।। Uttara Kanda,46,27,नित्यं त्वं रामपार्श्वेषु वर्तसे पुरुषर्षभ । कच्चिद्विनाकृतस्तेन द्विरात्रं शोकमागतः ।। 7.46.27 ।। Uttara Kanda,46,28,ममापि दयितो रामो जीवितादपि लक्ष्मण । न चाहमेवं शोचामि मैवं त्वं बालिशो भव ।। 7.46.28 ।। Uttara Kanda,46,29,तारयस्व च मां गङ्गां दर्शयस्व च तापसान् । ततो मुनिभ्यो दास्यामि वांसास्याभरणानि च ।। 7.46.29 ।। Uttara Kanda,46,30,ततः कृत्वा महर्षीणां यथार्हमभिवादनम् । तत्र चैकां निशामुष्य यास्यामस्तां पुरीं पुनः ।। 7.46.30 ।। Uttara Kanda,46,31,ममापि पद्मपत्राक्षं सिंहोरस्कं कृशोदरम् । त्वरते हि मनो द्रष्टुं रामं रमयतां वरम् ।। 7.46.31 ।। Uttara Kanda,46,32,तस्यास्तद्वचनं श्रुत्वा प्रमृज्य नयने शुभे । नाविकानाह्वयामास लक्ष्मणः परवीरहा ।। 7.46.32 ।। Uttara Kanda,46,33,इयं च सज्जा नौश्चेति दाशाः प्राञ्जलयो ऽब्रुवन् ।। 7.46.33 ।। Uttara Kanda,46,34,तितीर्षुर्लक्ष्मणो गङ्गां शुभां नावमुपारुहत् । गङ्गां सन्तारयामास लक्ष्मणस्तां समाहितः ।। 7.46.34 ।। Uttara Kanda,46,35,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षट्चत्वारिंशः सर्गः ।। 46 ।। Uttara Kanda,47,1,अथ नावं सुविस्तीर्णां नैषादीं राघवानुजः । आरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम् ।। 7.47.1 ।। Uttara Kanda,47,2,सुमन्त्रं चैव सरथं स्थीयतामिति लक्ष्मणः । उवाच शोकसन्तप्तः प्रयाहीति च नाविकम् ।। 7.47.2 ।। Uttara Kanda,47,3,ततस्तीरमुपागम्य भागीरथ्याः स लक्ष्मणः । उवाच मैथिलीं वाक्यं प्राञ्जलिर्बाष्पसम्प्लुतः ।। 7.47.3 ।। Uttara Kanda,47,4,हृद्गतं मे महच्छल्यं यस्मादार्येण धीमता । अस्मिन्निमित्ते वैदेहि लोकस्य वचनीकृतः ।। 7.47.4 ।। Uttara Kanda,47,5,श्रेयो हि मरणं मे ऽद्य मृत्युर्वा यत्परं भवेत् । न चास्मिन्नीदृशे कार्ये नियोज्यो लोकनिन्दिते ।। 7.47.5 ।। Uttara Kanda,47,6,प्रसीद च न मे पापं कर्तुमर्हसि शोभने । इत्यञ्जलिकृतो भूमौ निपपात स लक्ष्मणः ।। 7.47.6 ।। Uttara Kanda,47,7,रुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युमात्मनः । मैथिली भृशसंविग्ना लक्ष्मणं वाक्यमब्रवीत् ।। 7.47.7 ।। Uttara Kanda,47,8,किमिदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण । पश्यामि त्वां न च स्वस्थमपि क्षेमं महीपतेः ।। 7.47.8 ।। Uttara Kanda,47,9,शापितो ऽसि नरेन्द्रेण यत्त्वं सन्तापमागतः । तद्ब्रूयाः सन्निधौ मह्यमहमाज्ञापयामि ते ।। 7.47.9 ।। Uttara Kanda,47,10,वैदेह्या चोद्यमानस्तु लक्ष्मणो दीनचेतनः । अवाङ्मुखो बाष्पकलं वाक्यमेतदुवाच ह ।। 7.47.10 ।। Uttara Kanda,47,11,श्रुत्वा परिषदो मध्ये ह्यपवादं सुदारुणम् । पुरे जनपदे चैव त्वत्कृते जनकात्मजे । रामः सन्तप्तहृदयो मा निवेद्य गृहं गतः ।। 7.47.11 ।। Uttara Kanda,47,12,न तानि वचनीयानि मया देवि तवाग्रतः । यानि राज्ञा हृदि न्यस्तान्यमर्षात्पृष्ठतः कृतः ।। 7.47.12 ।। Uttara Kanda,47,13,सा त्वं त्यक्ता नृपतिना निर्दोषा मम सन्निधौ । पौरापवादभीतेन ग्राह्यं देवि न ते ऽन्यथा ।। 7.47.13 ।। Uttara Kanda,47,14,आश्रमान्तेषु च मया त्यक्तव्या त्वं भविष्यसि । राज्ञः शासनमाज्ञाय तवेदं किल दौर्हृदम् ।। 7.47.14 ।। Uttara Kanda,47,15,तदेतज्जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम् । पुण्यं च रमणीयं च मा विषादं कृथाः शुभे ।। 7.47.15 ।। Uttara Kanda,47,16,राज्ञो दशरथस्येष्टः पितुर्मे मुनिपुङ्गवः । सखा परमको विप्रो वाल्मीकिः सुमहायशाः ।। 7.47.16 ।। Uttara Kanda,47,17,पादच्छायामुपागम्य सुखमस्य महात्मनः । उपवासपरैकाग्रा वस त्वं जनकात्मजे ।। 7.47.17 ।। Uttara Kanda,47,18,पतिव्रतात्वमास्थाय रामं कृत्वा सदा हृदि । श्रेयस्ते परमं देवि तथा कृत्वा भविष्यति ।। 7.47.18 ।। Uttara Kanda,47,19,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तचत्वारिंशः सर्गः ।। 47 ।। Uttara Kanda,48,1,लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजा । परं विषादमागम्य वैदेही निपपात ह ।। 7.48.1 ।। Uttara Kanda,48,2,सा मुहूर्तमिवासञ्ज्ञा बाष्पपर्याकुलेक्षणा । लक्ष्मणं दीनया वाचा उवाच जनकात्मजा ।। 7.48.2 ।। Uttara Kanda,48,3,मामिकेयं तनुर्नूनं सृष्टा दुःखाय लक्ष्मण । धात्रा यस्यास्तथा मे ऽद्य दुःखमूर्तिः प्रदृश्यते ।। 7.48.3 ।। Uttara Kanda,48,4,किं नु पापं कृतं पूर्वं को वा दारैर्वियोजितः । या ऽहं शुद्धसमाचारा त्यक्ता नृपतिना सती ।। 7.48.4 ।। Uttara Kanda,48,5,पुरा ऽहमाश्रमे वासं रामपादानुवर्तिनी । अनुरुध्यापि सौमित्रे दुःखे च परिवर्तिनी ।। 7.48.5 ।। Uttara Kanda,48,6,सा कथं ह्याश्रमे सौम्य वत्स्यामि विजनीकृता । आख्यास्यामि च कस्याहं दुःखं दुःखपरायणा ।। 7.48.6 ।। Uttara Kanda,48,7,किं नु वक्ष्यामि मुनिषु कर्म वा सत्कृतं च किम् । कस्मिंश्चित् कारणे त्यक्ता राघवेण महात्मना ।। 7.48.7 ।। Uttara Kanda,48,8,न खल्वद्यैव सौमित्रे जीवितं जाह्नवीजले । त्यजेयं राजवंशस्तु भर्तुर्मे परिहास्यते ।। 7.48.8 ।। Uttara Kanda,48,9,यथाज्ञं कुरु सोमित्रे त्यज मां दुःखभागिनीम् । निदेशे स्थीयतां राज्ञः शृणु चेदं वचो मम ।। 7.48.9 ।। Uttara Kanda,48,10,श्वश्रूणामविशेषेण प्राञ्जलिप्रग्रहेण च । शिरसा ऽ ऽवन्द्य चरणौ कुशलं ब्रूहि पार्थिवम् ।। 7.48.10 ।। Uttara Kanda,48,11,शिरसा ऽभिनतो ब्रूयाः सर्वासामेव लक्ष्मण । वक्तव्यश्चापि नृपतिर्धर्मेषु सुसमाहितः ।। 7.48.11 ।। Uttara Kanda,48,12,जानासि च यथा शुद्धा सीता तत्त्वेन राघव । भक्त्या च परया युक्ता हिता च तव नित्यशः ।। 7.48.12 ।। Uttara Kanda,48,13,अहं त्यक्ता त्वया वीर अयशोभीरुणा जने । यच्च ते वचनीयं स्यादपवादसमुत्थितम् । मया च परिहर्तव्यं त्वं हि मे परमा गतिः ।। 7.48.13 ।। Uttara Kanda,48,14,वक्तव्यश्चेति नृपतिर्धमेण सुसमाहितः । यथा भ्रातृषु वर्तेथास्तथा पौरेषु नित्यदा ।। 7.48.14 ।। Uttara Kanda,48,15,परमो ह्येष धर्मस्ते तस्मात्कीर्तिरनुत्तमा ।। 7.48.15 ।। Uttara Kanda,48,16,यत्तु पौरजनो राजन्धर्मेण समवाप्नुयात् । अहं तु नानुशोचामि स्वशरीरं नरर्षभ ।। 7.48.16 ।। Uttara Kanda,48,17,यथापवादं पौराणां तथैव रघुनन्दन । पतिर्हि देवता नार्याः पतिर्बन्धुः पतिर्गुरुः ।। 7.48.17 ।। Uttara Kanda,48,18,प्राणैरपि प्रियं तस्माद्भर्तुः कार्यं विशेषतः । इति मद्वचनाद्रामो वक्तव्यो मम सङ्ग्रहः । निरीक्ष्य मा ऽद्य गच्छ त्वमृतुकालातिवर्तिनीम् ।। 7.48.18 ।। Uttara Kanda,48,19,एवं ब्रुवन्त्यां सीतायां लक्ष्मणो दीनचेतनः । शिरसा ऽ ऽवन्द्य धरणीं व्याहर्तुं न शशाक ह ।। 7.48.19 ।। Uttara Kanda,48,20,प्रदक्षिणं च तां कृत्वा रुदन्नेव महास्वनः । ध्यात्वा मुहूर्तं तामाह किं मां वक्ष्यसि शोभने ।। 7.48.20 ।। Uttara Kanda,48,21,दृष्टपूर्वं न ते रूपं पादौ दृष्टौ तवानघे । कथमत्र हि पश्यामि रामेण रहितां वने ।। 7.48.21 ।। Uttara Kanda,48,22,इत्युक्त्वा तां नमस्कृत्य पुनर्नावमुपारुहत् । आरुह्य च पुनर्नावं नाविकं चाभ्यचोदयत् ।। 7.48.22 ।। Uttara Kanda,48,23,स गत्वा चोत्तरं तीरं शोकभारसमन्वितः । सम्मूढ इव दुःखेन रथमध्यारुहद्द्रुतम् ।। 7.48.23 ।। Uttara Kanda,48,24,मुहुर्मुहुः परावृत्य दृष्ट्वा सीतामनाथवत् । चेष्टन्तीं परतीरस्थां लक्ष्मणः प्रययावथ ।। 7.48.24 ।। Uttara Kanda,48,25,दूरस्थं रथमालोक्य लक्ष्मणं च मुहूर्मुहुः । निरीक्षमाणां तूद्विग्नां सीतां शोकः समाविशत् ।। 7.48.25 ।। Uttara Kanda,48,26,सा दुःखभारावनता यशस्विनी यशोधना नाथमपश्यती सती । रुरोद सा बर्हिणनादिते वने महास्वनं दुःखपरायणा सती ।। 7.48.26 ।। Uttara Kanda,48,27,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टचत्वारिंशः सर्गः ।। 48 ।। Uttara Kanda,49,1,सीतां तु रुदतीं दृष्ट्वा ते तत्र मुनिदारकाः । प्राद्रवन्यत्र भगवानास्ते वाल्मीकिरुग्रधीः ।। 7.49.1 ।। Uttara Kanda,49,2,अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये । सर्वं निवेदयामासुस्तस्यास्तु रुदितस्वनम् ।। 7.49.2 ।। Uttara Kanda,49,3,अदृष्टपूर्वा भगवन्कस्याप्येषा महात्मनः । पत्नी श्रीरिव सम्मोहाद्विरौति विकृतानना ।। 7.49.3 ।। Uttara Kanda,49,4,भगवन्साधु पश्य त्वं देवतामिव खाच्च्युताम् । नद्यास्तु तीरे भगवन्वरस्त्री कापि दुःखिता ।। 7.49.4 ।। Uttara Kanda,49,5,दृष्टास्माभिः प्ररुदिता दृढं शोकपरायणा । अनर्हा दुःखशोकाभ्यामेकां दीनां ह्यनाथवत् ।। 7.49.5 ।। Uttara Kanda,49,6,न ह्येनां मानुषीं विद्मः सत्क्रिया ऽस्याः प्रयुज्यताम् । आश्रमस्याविदूरे च त्वामियं शरणं गता ।। 7.49.6 ।। Uttara Kanda,49,7,त्रातारमिच्छते साध्वी भगवंस्त्रातुमर्हसि । तेषां तु वचनं श्रुत्वा बुद्ध्या निश्चित्य धर्मवित् । तपसा लब्धचक्षुष्मान् प्राद्रवद्यत्र मैथिली ।। 7.49.7 ।। Uttara Kanda,49,8,तं प्रयान्तमभिप्रेत्य शिष्या ह्येनं महामतिम् । तं तु देशमभि प्रेत्य किञ्चित्पद्भ्यां महामतिः ।। 7.49.8 ।। Uttara Kanda,49,9,अर्घ्यमादाय रुचिरं जाह्नवीतीरमागमत् । ददर्श राघवस्येष्टां सीतां पत्नीमनाथवत् ।। 7.49.9 ।। Uttara Kanda,49,10,तां सीतां शोकभारार्तां वाल्मीकिर्मुनिपुङ्गवः । उवाच मधुरां वाणीं ह्लादयन्निव तेजसा ।। 7.49.10 ।। Uttara Kanda,49,11,स्नुषा दशरथस्य त्वं रामस्य महिषी प्रिया । जनकस्य सुता राज्ञः स्वागतं ते पतिव्रते ।। 7.49.11 ।। Uttara Kanda,49,12,आयान्ती चासि विज्ञाता मया धर्मसमाधिना । कारणं चैव सर्वं मे हृदयेनोपलक्षितम् ।। 7.49.12 ।। Uttara Kanda,49,13,तव चैव महाभागे विदितं मम तत्त्वतः । सर्वं च विदितं मह्यं त्रैलोक्ये यद्धि वर्तते ।। 7.49.13 ।। Uttara Kanda,49,14,अपापां वेद्मि सीते त्वां तपोलब्धेन चक्षुषा । विस्रब्धा भव वैदेहि साम्प्रतं मयि वर्तसे ।। 7.49.14 ।। Uttara Kanda,49,15,आश्रमस्याविदूरे मे तापस्यस्तपसि स्थिताः । तास्त्वां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः ।। 7.49.15 ।। Uttara Kanda,49,16,इदमर्ध्यं प्रतीच्छ त्वं विस्रब्धा विगतज्वरा । यथा स्वगृहमभ्येत्य विषादं चैव मा कृथाः ।। 7.49.16 ।। Uttara Kanda,49,17,श्रुत्वा तु भाषितं सीता मुनेः परममद्भुतम् । शिरसा ऽ ऽवन्द्य चरणौ तथेत्याह कृताञ्जलिः ।। 7.49.17 ।। Uttara Kanda,49,18,तं प्रयान्तं मुनिं सीता प्राञ्जलिः पृष्ठतो ऽन्वगात् ।। 7.49.18 ।। Uttara Kanda,49,19,तं दृष्ट्वा मुनिमायान्तं वैदेह्या मुनिपत्नयः । उपाजग्मुर्मुदा युक्ता वचनं चेदमब्रुवन् ।। 7.49.19 ।। Uttara Kanda,49,20,स्वागतं ते मुनिश्रेष्ठ चिरस्यागमनं च ते । अभिवादयामस्त्वां सर्वा उच्यतां कि च कुर्महे ।। 7.49.20 ।। Uttara Kanda,49,21,तासां तद्वचनं श्रुत्वा वाल्मीकिरिदमब्रवीत् । सीतेयं समनुप्राप्ता पत्नी रामस्य धीमतः ।। 7.49.21 ।। Uttara Kanda,49,22,स्नुषा दशरथस्यैषा जनकस्य सुता सती । अपापा पतिना त्यक्ता परिपाल्या मया सदा ।। 7.49.22 ।। Uttara Kanda,49,23,इमां भवन्त्यः(?) पश्यन्तु स्नेहेन परमेण हि । गौरवान्मम वाक्याच्च पूज्या वो ऽस्तु विशेषतः ।। 7.49.23 ।। Uttara Kanda,49,24,मुहुर्मुहुश्च वैदेहीं प्रणिधाय महायशाः । स्वमाश्रमं शिष्यवृतः पुनरायान्महातपाः ।। 7.49.24 ।। Uttara Kanda,49,25,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनपञ्चाशः सर्गः ।। 49 ।। Uttara Kanda,50,1,दृष्ट्वा तु मैथिलीं सीतामाश्रमे सम्प्रवेशिताम् । सन्तापमगमद्घोरं लक्ष्मणो दीनचेतनः ।। 7.50.1 ।। Uttara Kanda,50,2,अब्रवीच्च महातेजाः सुमन्त्रं मन्त्रसारथिम् । सीतासन्तापजं दुःखं पश्य रामस्य सारथे ।। 7.50.2 ।। Uttara Kanda,50,3,ततो दुःखतरं किं नु राघवस्य भविष्यति । पत्नीं शुद्धसमाचारां विसृज्य जनकात्मजाम् ।। 7.50.3 ।। Uttara Kanda,50,4,व्यक्तं दैवादहं मन्ये राघवस्य विना भवम् । वैदेह्या सारथे नित्यं दैवं हि दुरतिक्रमम् ।। 7.50.4 ।। Uttara Kanda,50,5,यो हि देवान्सगन्धर्वानसुरान्सह राक्षसैः । निहन्याद्राघवः क्रुद्धः स दैवमनुवर्तते ।। 7.50.5 ।। Uttara Kanda,50,6,पुरा रामः पितुर्वाक्याद्दण्डके विजने वने । उषित्वा नव वर्षाणि पञ्च चैव महावने ।। 7.50.6 ।। Uttara Kanda,50,7,ततो दुःखतरं भूयः सीताया विप्रवासनम् । पौराणां वचनं श्रुत्वा नृशंसं प्रतिभाति मे ।। 7.50.7 ।। Uttara Kanda,50,8,को नु धर्माश्रयः सूत कर्मण्यस्मिन्यशोहरे । मैथिलीं प्रतिसम्प्राप्तः पौरैर्हीनार्थवादिभिः ।। 7.50.8 ।। Uttara Kanda,50,9,एता वाचो बहुविधाः श्रुत्वा लक्ष्मणभाषिताः । सुमन्त्रः श्रद्धया प्राज्ञो वाक्यमेतदुवाच ह ।। 7.50.9 ।। Uttara Kanda,50,10,न सन्तापस्त्वया कार्यः सौमित्रे मैथिलीं प्रति । दृष्टमेतत्पुरा विप्रैः पितुस्ते लक्ष्मणाग्रतः ।। 7.50.10 ।। Uttara Kanda,50,11,भविष्यति दृढं रामो दुःखप्रायो ऽपि सौख्यभाक् । प्राप्स्यते च महाबाहुर्विप्रयोगं प्रियैर्ध्रुवम् ।। 7.50.11 ।। Uttara Kanda,50,12,त्वां चैव मैथिलीं चैव शत्रुघ्नभरतावुभौ । सन्त्यजिष्यति धर्मात्मा कालेन महता महान् ।। 7.50.12 ।। Uttara Kanda,50,13,इदं त्वयि न वक्तव्यं सौमित्रे भरते ऽपि वा । राज्ञा वो व्याहृतं वाक्यं दुर्वासा यदुवाच ह ।। 7.50.13 ।। Uttara Kanda,50,14,महाजनसमीपे च मम चैव नरर्षभ । ऋषिणा व्याहृतं वाक्यं वसिष्ठस्य च सन्निधौ ।। 7.50.14 ।। Uttara Kanda,50,15,ऋषेस्तु वचनं श्रुत्वा मामाह पुरुषर्षभः । सूत न क्वचिदेवं ते वक्तव्यं जनसन्निधौ ।। 7.50.15 ।। Uttara Kanda,50,16,तस्याहं लोकपालस्य वाक्यं तत्सुसमाहितः । नैव जात्वनृतं कार्यमिति मे सौम्य दर्शनम् ।। 7.50.16 ।। Uttara Kanda,50,17,सर्वथैव न वक्तव्यं मया सौम्य तवाग्रतः । यदि ते श्रवणे श्रद्धा श्रूयतां रघुनन्दन ।। 7.50.17 ।। Uttara Kanda,50,18,यद्यप्यहं नरेन्द्रेण रहस्यं श्रावितः पुरा । तथाप्युदाहरिष्यामि दैवं हि दुरतिक्रमम् ।। 7.50.18 ।। Uttara Kanda,50,19,येनेदमीदृशं प्राप्तं दुःखं शोकसमन्वितम् । न त्वया भरते वाच्यं शत्रुघ्नस्यापि सन्निधौ ।। 7.50.19 ।। Uttara Kanda,50,20,तच्छ्रुत्वा भाषितं तस्य गम्भीरार्थपदं महत् । तथ्यं ब्रूहीति सौमित्रिः सूतं वाक्यमथाब्रवीत् ।। 7.50.20 ।। Uttara Kanda,50,21,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चाशः सर्गः ।। 50 ।। Uttara Kanda,51,1,तथा सञ्चोदितः सूतो लक्ष्मणेन महात्मना । तद्वाक्यमृषिणा प्रोक्तं व्याहर्तुमुपचक्रमे ।। 7.51.1 ।। Uttara Kanda,51,2,पुरा नाम्ना हि दुर्वासा अत्रेः पुत्रो महामुनिः । वसिष्ठस्याश्रमे पुण्ये वार्षिक्यं समुवास ह ।। 7.51.2 ।। Uttara Kanda,51,3,तमाश्रमं महातेजाः पिता ते सुमहायशाः । पुरोहितं महात्मानं दिदृक्षुरगमस्त्वयम् ।। 7.51.3 ।। Uttara Kanda,51,4,स दृष्ट्वा सूर्यसङ्काशं ज्वलन्तमिव तेजसा । उपविष्टं वसिष्ठस्य सव्यपार्श्वे महामुनिम् ।। 7.51.4 ।। Uttara Kanda,51,5,तौ मुनी तापसश्रेष्ठौ विनीतो ह्यभिवादयत् । स ताभ्यां पूजितो राजा स्वागतेनासनेन च ।। Uttara Kanda,51,6,पाद्येन फलमूलैश्च उवास मुनिभिः सह ।। 7.51.5 ।। Uttara Kanda,51,7,तेषां तत्रोपविष्टानां तास्ताः सुमधुराः कथाः । बभूवुः परमर्षीणां मध्यादित्यगते ऽहनि ।। 7.51.6 ।। Uttara Kanda,51,8,ततः कथायां कस्याञ्चित्प्राञ्जलिः प्रग्रहो नृपः । उवाच तं महात्मानमत्रेः पुत्रं तपोधनम् ।। 7.51.7 ।। Uttara Kanda,51,9,भगवन्किं प्रमाणेन मम वंशो भविष्यति । किमायुश्च हि मे रामः पुत्राश्चान्ये किमायुषः ।। 7.51.8 ।। Uttara Kanda,51,10,रामस्य च सुता ये स्युस्तेषामायुः कियद्भवेत् । काम्यया भगवन्बूहि वंशस्यास्य गतिं मम ।। 7.51.9 ।। Uttara Kanda,51,11,तच्छ्रुत्वा व्याहृतं वाक्यं राज्ञो दशरथस्य च । दुर्वासाः सुमहातेजा व्याहर्तुमुपचक्रमे ।। 7.51.10 ।। Uttara Kanda,51,12,शृणु राजन्पुरावृत्तं तदा देवासुरे युधि । दैत्याः सुरैर्भर्त्स्यमाना भृगुपत्नीं समाश्रिताः ।। 7.51.11 ।। Uttara Kanda,51,13,तया परिगृहीतांस्तान्दृष्ट्वा क्रुद्धः सुरेश्वरः । चक्रेण शितधारेण भृगुपत्न्याः शिरो ऽहरत् ।। 7.51.13 ।। Uttara Kanda,51,14,ततस्तां निहतां दृष्ट्वा पत्नीं भृगुकुलोद्वहः । शशाप सहसा क्रुद्धो विष्णुं रिपुकुलार्दनम् ।। 7.51.14 ।। Uttara Kanda,51,15,यस्मादवध्यां मे पत्नीमवधीः क्रोधमूर्च्छितः । तस्मात्त्वं मानुषे लोके जनिष्यसि जनार्दन ।। 7.51.15 ।। Uttara Kanda,51,16,तत्र पत्नीवियोगं त्वं प्राप्स्यसे बहुवार्षिकम् ।। 7.51.16 ।। Uttara Kanda,51,17,शापाभिहतचेतास्स स्वात्मना भावितो ऽभवत् ।। 7.51.17 ।। Uttara Kanda,51,18,अर्चयामास तं देवं भृगुः शापेन पीडितः । तपसाराधितो देवो ह्यब्रवीद्भक्तवत्सलः । लोकानां संहितार्थं तु तं शापं ग्राह्यमुक्तवान् ।। 7.51.19 ।। Uttara Kanda,51,19,इति शप्तो महातेजा भृगुणा पूर्वजन्मनि । इहागतो हि पुत्रत्वं तव पार्थिवसत्तम ।। 7.51.20 ।। Uttara Kanda,51,20,राम इत्यभिविख्यातस्त्रिषु लोकेषु मानद । तत्फलं प्राप्स्यते चापि भृगुशापकृतं महत् ।। 7.51.21 ।। Uttara Kanda,51,21,अयोध्यायाः पती रामो दीर्घकालं भविष्यति । सुखिनश्च समृद्धाश्च भविष्यन्त्यस्य ये ऽनुगाः ।। 7.51.22 ।। Uttara Kanda,51,22,दश वर्षसहस्राणि दश वर्षशतानि च । रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ।। 7.51.23 ।। Uttara Kanda,51,23,समृद्धैश्चाश्वमेधैश्च इष्ट्वा परमदुर्जयः । राजवंशांश्च बहुशो बहून्संस्थापयिष्यति ।। 7.51.24 ।। Uttara Kanda,51,24,द्वौ पुत्रौ तु भविष्येते सीतायां राघवस्य तु । अन्यत्र न त्वयोध्यायां सत्यमेतन्नसंशयः ।। 7.51.25 ।। Uttara Kanda,51,25,सीतायाश्च ततः पुत्रावभिषेक्ष्यति राघवः ।। 7.51.26 ।। Uttara Kanda,51,26,स सर्वमखिलं राज्ञो वंशस्याह गतागतम् । आख्याय सुमहातेजास्तूष्णीमासीन्महामुनिः ।। 7.51.27 ।। Uttara Kanda,51,27,तूष्णीम्भूते तदा तस्मिन्राजा दशरथो मुनौ । अभिवाद्य महात्मानौ पुनरायात्पुरोत्तमम् ।। 7.51.28 ।। Uttara Kanda,51,28,एतद्वचो मया तत्र मुनिना व्याहृतं पुरा । श्रुतं हृदि च निक्षिप्तं नान्यथा तद्भविष्यति ।। 7.51.29 ।। Uttara Kanda,51,29,एवं गते न सन्तापं कर्तुमर्हसि राघव । सीतार्थे राघवार्थे वा दृढो भव नरोत्तम ।। 7.51.30 ।। Uttara Kanda,51,30,श्रुत्वा तु व्याहृतं वाक्यं सूतस्य परमाद्भुतम् । प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ।। 7.51.31 ।। Uttara Kanda,51,31,ततः संवदतोरेवं सूतलक्ष्मणयोः पथि । अस्तमर्के गते वासं केशिन्यां तावथोषतुः ।। 7.51.32 ।। Uttara Kanda,51,32,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकपञ्चाशः सर्गः ।। 51 ।। Uttara Kanda,52,1,तत्र तां रजनीमुष्य केशिन्यां रघुनन्दनः । प्रभाते पुनरुत्थाय लक्ष्मणः प्रययौ तदा ।। 7.52.1 ।। Uttara Kanda,52,2,ततो ऽर्धदिवसे प्राप्ते प्रविवेश महारथः । अयोध्यां रत्नसम्पूर्णां हृष्टपुष्टजनावृताम् ।। 7.52.2 ।। Uttara Kanda,52,3,सौमित्रिस्तु परं दैन्यं जगाम सुमहामतिः । रामपादौ समासाद्य वक्ष्यामि किमहं गतः ।। 7.52.3 ।। Uttara Kanda,52,4,तस्यैवं चिन्तयानस्य भवनं शशिसन्निभम् । रामस्य परमोदारं पुरस्तान्समदृश्यत ।। 7.52.4 ।। Uttara Kanda,52,5,राज्ञस्तु भवनद्वारि सो ऽवतीर्य रथोत्तमात् । अवाङ्मुखो दीनमनाः प्रविवेशानिवारितः ।। 7.52.5 ।। Uttara Kanda,52,6,स दृष्ट्वा राघवं दीनमासीनं परमासने । नेत्राभ्यामश्रुपूर्णाभ्यां ददर्शाग्रजमग्रतः ।। 7.52.6 ।। Uttara Kanda,52,7,जग्राह चरणौ तस्य लक्ष्मणो दीनचेतनः । उवाच दीनया वाचा प्राञ्जलिः सुसमाहितः ।। 7.52.7 ।। Uttara Kanda,52,8,आर्यस्याज्ञां पुरस्कृत्य विसृज्य जनकात्मजाम् । गङ्गातीरे यथोद्दिष्टे वाल्मीकेराश्रमे शुचौ ।। 7.52.8 ।। Uttara Kanda,52,9,तत्र तां च शुभाचारामाश्रमान्ते यशस्विनीम् । पुनरप्यागतो वीर पादमूलमुपासितुम् ।। 7.52.9 ।। Uttara Kanda,52,10,मा शुचः पुरुषव्याघ्र कालस्य गतिरीदृशी । त्वद्विधा न हि शोचन्ति बुद्धिमन्तो मनस्विनः ।। 7.52.10 ।। Uttara Kanda,52,11,सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ।। 7.52.11 ।। Uttara Kanda,52,12,तस्मात्पुत्रेषु दारेषु मित्रेषु च धनेषु च । नातिप्रसङ्गः कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् ।। 7.52.12 ।। Uttara Kanda,52,13,शक्तस्त्वमात्मना ऽ ऽत्मानं विनेतुं मनसैव हि । लोकान्सर्वांश्च काकुत्स्थ किं पुनः शोकमात्मनः ।। 7.52.13 ।। Uttara Kanda,52,14,नेदृशेषु विमुह्यन्ति त्वद्विधाः पुरुषर्षभाः । अपवादः स किल ते पुनरेष्यति राघव ।। 7.52.14 ।। Uttara Kanda,52,15,यदर्थं मैथिली त्यक्ता अपवादभयान्नृप । सो ऽपवादः पुरे राजन्भविष्यति न संशयः ।। 7.52.15 ।। Uttara Kanda,52,16,स त्वं पुरुषशार्दूल धैर्येण सुसमाहितः । त्यजैनां दुर्बलां बुद्धिं सन्तापं मा कुरुष्व ह ।। 7.52.16 ।। Uttara Kanda,52,17,एवमुक्तः स काकुत्स्थो लक्ष्मणेन महात्मना । उवाच परया प्रीत्या सौमित्रिं मित्रवत्सलः ।। 7.52.17 ।। Uttara Kanda,52,18,एवमेतन्नरश्रेष्ठ यथा वदसि लक्ष्मण । परितोषश्च मे वीर मम कार्यानुशासने ।। 7.52.18 ।। Uttara Kanda,52,19,निवृत्तिश्चागता सौम्य सन्तापश्च निराकृतः । भवद्वाक्यैः सुरुचिरैरनुनीतो ऽस्मि लक्ष्मण ।। 7.52.19 ।। Uttara Kanda,52,20,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्विपञ्चाशः सर्गः ।। 52 ।। Uttara Kanda,53,1,लक्ष्मणस्य तु तद्वाक्यं निशम्य परमाद्भुतम् । सुप्रीतश्चाभवद्रामो वाक्यमेतदुवाच ह ।। 7.53.1 ।। Uttara Kanda,53,2,दुर्लभस्त्वीदृशो बन्धुरस्मिन्काले विशेषतः । यादृशस्त्वं महाबुद्धेर्मम सौम्य मनो ऽनुगः ।। 7.53.2 ।। Uttara Kanda,53,3,यच्च मे हृदये किञ्चिद्वर्तते शुभलक्षण । तन्निशामय च श्रुत्वा कुरुष्व वचनं मम ।। 7.53.3 ।। Uttara Kanda,53,4,चत्वारो दिवसाः सौम्य कार्यं पौरजनस्य वै । अकुर्वाणस्य सौमित्रे तन्मे मर्माणि कृन्तति ।। 7.53.4 ।। Uttara Kanda,53,5,आहूयन्तां प्रकृतयः पुरोधा मन्त्रिणस्तथा । कार्यार्थिनश्च पुरुषाः स्त्रियश्च पुरुषर्षभ ।। 7.53.5 ।। Uttara Kanda,53,6,पौरकार्याणि यो राजा न करोति दिने दिने । संवृते नरके घोरे पतितो नात्र संशयः ।। 7.53.6 ।। Uttara Kanda,53,7,श्रूयते हि पुरा राजा नृगो नाम महायशाः । बभूव पृथिवीपालो ब्रह्मण्यः सत्यवाक् शुचिः ।। 7.53.7 ।। Uttara Kanda,53,8,स कदाचिद्गवां कोटीः सवत्साः स्वर्णभूषिताः । नृदेवो भूमिदेवेभ्यः पुष्करेषु ददौ नृपः ।। 7.53.8 ।। Uttara Kanda,53,9,ततः सङ्गाद्गता धेनुः सवत्सा स्पर्शिता ऽनघ । ब्राह्मणस्याहिताग्नेश्च दरिद्रस्योञ्छवर्तिनः ।। 7.53.9 ।। Uttara Kanda,53,10,स नष्टां गां क्षुधार्तो वै अन्विषंस्तत्र तत्र च । नापश्यत्सर्वराज्येषु संवत्सरगणान्बहून् ।। 7.53.10 ।। Uttara Kanda,53,11,ततः कनखलं गत्वा जीर्णवत्सां निरामयाम् । ददर्श गां स्वकां धेनुं ब्राह्मणस्य निवेशने ।। 7.53.11 ।। Uttara Kanda,53,12,अथ तां नामधेयेन स्वकेनोवाच स द्विजः । आगच्छ शबलेत्येवं सा तु शुश्राव गौः स्वरम् ।। 7.53.12 ।। Uttara Kanda,53,13,तस्य तं स्वरमाज्ञाय क्षुधार्तस्य द्विजस्य वै । अन्वगात्पृष्ठतः सा गौर्गच्छन्तं पावकोपमम् ।। 7.53.13 ।। Uttara Kanda,53,14,यो ऽपि पालयते विप्रः सो ऽपि गामन्वगाद्द्रुतम् । गत्वा तमृषिमाचष्ट मम गौरिति सत्वरम् ।। 7.53.14 ।। Uttara Kanda,53,15,स्पर्शिता राजसिंहेन मम दत्ता नृगेण ह । तयोर्ब्राह्मणयोर्वादो महानासीद्विपश्चितोः ।। 7.53.15 ।। Uttara Kanda,53,16,विवदन्तौ ततो ऽन्योन्यं दातारमभिजग्मतुः । तौ राजभवनद्वारि न प्राप्तौ नृगशासनम् ।। 7.53.16 ।। Uttara Kanda,53,17,अहोरात्राण्यनेकानि वसन्तौ क्रोधमीयतुः । ऊचतुश्च महात्मानौ तावुभौ द्विजसत्तमौ ।। क्रुद्धौ परमसम्प्राप्तौ वाक्यं घोराभिसंहितम् ।। 7.53.17 ।। Uttara Kanda,53,18,अर्थिनां कार्यसिद्ध्यर्थं यस्मात्त्वं नैषि दर्शनम् । अदृश्यः सर्वभूतानां कृकलासो भविष्यसि ।। 7.53.18 ।। Uttara Kanda,53,19,बहुवर्षसहस्राणि बहुवर्षशतानि च । श्वभ्रे ऽस्मिन् कृकलासो वै दीर्घकालं वसिष्यसि ।। 7.53.19 ।। Uttara Kanda,53,20,उत्पत्स्यते हि लोके ऽस्मिन्यदूनां कीर्तिवर्धनः । वासुदेव इति ख्यातो विष्णुः पुरुषविग्रहः ।। 7.53.20 ।। Uttara Kanda,53,21,स ते मोक्षयिता राजंस्तस्माच्छापाद्भविष्यसि । कृता च तेन कालेन निष्कृतिस्ते भविष्यति ।। 7.53.21 ।। Uttara Kanda,53,22,भारावतरणार्थं हि नरनारायणावुभौ । उत्पत्स्येते महावीर्यौ कलौ युग उपस्थिते ।। 7.53.22 ।। Uttara Kanda,53,23,एवं तौ शापमुत्सृज्य ब्राह्मणौ विगतज्वरौ । तां गां हि दुर्बलां वृद्धां ददतुर्ब्राह्मणाय वै ।। 7.53.23 ।। Uttara Kanda,53,24,एवं स राजा तं शापमुपभुङ्क्ते सुदारुणम् ।। 7.53.24 ।। Uttara Kanda,53,25,कार्यार्थिनां विमर्दो हि राज्ञां दोषाय कल्पते । तच्छीघ्रं दर्शनं मह्यमभिवर्तन्तु कार्यिणः ।। 7.53.25 ।। Uttara Kanda,53,26,सुकृतस्य हि कार्यस्य फलं नापैति पार्थिवः । तस्माद्गच्छ प्रतीक्षस्व सौमित्रे कार्यवाञ्जनः ।। 7.53.26 ।। Uttara Kanda,53,27,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिपञ्चाशः सर्गः ।। 53 ।। Uttara Kanda,54,1,रामस्य भाषितं श्रुत्वा लक्ष्मणः परमार्थवित् । उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम् ।। 7.54.1 ।। Uttara Kanda,54,2,अल्पापराधे काकुत्स्थ द्विजाभ्यां शाप ईदृशः । महान्नृगस्य राजर्षेर्यमदण्ड इवापरः ।। 7.54.2 ।। Uttara Kanda,54,3,श्रुत्वा तु पापसंयुक्तमात्मानं पुरषर्षभ । किमुवाच नृगो राजा द्विजौ क्रोधसमन्वितौ ।। 7.54.3 ।। Uttara Kanda,54,4,लक्ष्मणेनैवमुक्तस्तु राघवः पुनरब्रवीत् । शृणु सौम्य यथा पूर्वं स राजा शापविक्षतः ।। 7.54.4 ।। Uttara Kanda,54,5,अथाध्वनि गतौ विप्रौ विज्ञाय स नृगस्तदा । आहूय मन्त्रिणः सर्वान्नैगमान्सपुरोधसः ।। 7.54.5 ।। Uttara Kanda,54,6,तानुवाच नृगो राजा सर्वाश्च प्रकृतीस्तथा । दुःखेन सुसमाविष्टः श्रूयतां मे समाहितैः ।। 7.54.6 ।। Uttara Kanda,54,7,नारदः पर्वतश्चैव मम दत्त्वा महद्भयम् । गतौ त्रिभुवनं भद्रौ वायुभूतावनिन्दितौ ।। 7.54.7 ।। Uttara Kanda,54,8,कुमारो ऽयं वसुर्नाम स देवो ऽद्याभिषिच्यताम् । श्वभ्रं च यत्सुखस्पर्शं क्रियतां शिल्पिभिर्मम । यत्राहं सङ्क्षयिष्यामि शापं ब्राह्मणनिःसृतम् ।। 7.54.8 ।। Uttara Kanda,54,9,वर्षघ्नमेकं श्वभ्रं तु हिमघ्नमपरं तथा । ग्रीष्मघ्नं तु सुखस्पर्शमेकं कुर्वन्तु शिल्पिनः ।। 7.54.9 ।। Uttara Kanda,54,10,फलवन्तश्च ये वृक्षाः पुष्पवत्यश्च या लताः । विरोप्यन्तां बहुविधाश्छायावन्तश्च गुल्मिनः ।। 7.54.10 ।। Uttara Kanda,54,11,क्रियतां रमणीयं च श्वभ्राणां सर्वतोदिशम् । सुखमत्र वसिष्यामि यावत्कालस्य पर्ययः ।। 7.54.11 ।। Uttara Kanda,54,12,पुष्पाणि च सुगन्धीनि क्रियतां तेषु नित्यशः । परिवार्य यथा मे स्युरध्यर्धं योजनं तथा ।। 7.54.12 ।। Uttara Kanda,54,13,एवं कृत्वा विधानं स सन्दिदेश वसं तदा । धर्मनित्यः प्रजाः पुत्र क्षत्रधर्मेण पालय ।। 7.54.13 ।। Uttara Kanda,54,14,प्रत्यक्षं ते यथा शापो द्विजाभ्यां मयि पातितः । नरश्रेष्ठ सरोषाभ्यामपराधे ऽपि तादृशे ।। 7.54.14 ।। Uttara Kanda,54,15,मा कृथास्तनुसन्तापं मत्कृते ऽपि नरर्षभ । कृतान्तः कुशलः पुत्र येनास्मि व्यसनीकृतः ।। 7.54.15 ।। Uttara Kanda,54,16,प्राप्तव्यान्येव प्राप्नोति गन्तव्यान्येव गच्छति । लब्धव्यान्येव लभते दुःखानि च सुखानि च ।। 7.54.16 ।। Uttara Kanda,54,17,पूर्वे जात्यन्तरे वत्स मा विषादं कुरुष्व ह ।। 7.54.17 ।। Uttara Kanda,54,18,एवमुक्त्वा नृपस्तत्र सुतं राजा महायशाः । श्वभ्रं जगाम सुकृतं वासाय पुरुषर्षभ ।। 7.54.18 ।। Uttara Kanda,54,19,एवं प्रविश्यैव नृपस्तदानीं श्वभ्रं महारत्नविभूषितं तत् । सम्पादयामास तदा महात्मा शापं द्विजाभ्यां हि रुषा विमुक्तम् ।। 7.54.19 ।। Uttara Kanda,54,20,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुःपञ्चाशः सर्गः ।। 54 ।। Uttara Kanda,55,1,एष ते नृगशापस्य विस्तरो ऽभिहितो मया । यद्यस्ति श्रवणे श्रद्धा शृणुष्वेहापरां कथाम् ।। 7.55.1 ।। Uttara Kanda,55,2,एवमुक्तस्तु रामेण सौमित्रिः पुनरब्रवीत् । तृप्तिराश्चर्यभूतानां कथानां नास्ति मे नृप ।। 7.55.2 ।। Uttara Kanda,55,3,लक्ष्मणेनैवमुक्तस्तु राम इक्ष्वाकुनन्दनः । कथां परमधर्मिष्ठां व्याहर्तुमुपचक्रमे ।। 7.55.3 ।। Uttara Kanda,55,4,आसीद्राजा निमिर्नाम इक्ष्वाकूणां महात्मनाम् । पुत्रो द्वादशमो वीर्ये धर्मे च परिनिष्ठितः ।। 7.55.4 ।। Uttara Kanda,55,5,स राजा वीर्यसम्पन्नः पुरं देवपुरोपमम् । निवेशयामास तदा अभ्याशे गौतमस्य तु ।। 7.55.5 ।। Uttara Kanda,55,6,पुरस्य सुकृतं नाम वैजयन्तमिति श्रुतम् । निवेशं यत्र राजर्षिर्निमिश्चक्रे महायशाः ।। 7.55.6 ।। Uttara Kanda,55,7,तस्य बुद्धिः समुत्पन्ना निवेश्य सुमहापुरम् । यजेयं दीर्घसत्रेण पितुः प्रह्लादयन्मनः ।। 7.55.7 ।। Uttara Kanda,55,8,ततः पितरमामन्त्र्य इक्ष्वाकुं हि मनोः सुतम् । वसिष्ठं वरयामास पूर्वं ब्रह्मर्षिसत्तमम् ।। 7.55.8 ।। Uttara Kanda,55,9,अनन्तरं स राजर्षिर्निमिरिक्ष्वाकुनन्दनः । अत्रिमङ्गिरसं चैव भृगुं चैव तपोधनम् ।। 7.55.9 ।। Uttara Kanda,55,10,तमुवाच वसिष्ठस्तु निमिं राजर्षिसत्तमम् । वृतो ऽहं पूर्वमिन्द्रेण अन्तरं प्रतिपालय ।। 7.55.10 ।। Uttara Kanda,55,11,अनन्तरं महाविप्रो गौतमः प्रत्यपूरयत् । वसिष्ठो ऽपि महातेजा इन्द्रयज्ञमथाकरोत् ।। 7.55.11 ।। Uttara Kanda,55,12,निमिस्तु राजा विप्रांस्तान्समानीय नराधिपः । अयजद्धिमवत्पार्श्वे स्वपुरस्य समीपतः । पञ्चवर्षसहस्राणि राजा दीक्षामुपागमत् ।। 7.55.12 ।। Uttara Kanda,55,13,इन्द्रयज्ञावसाने तु वसिष्ठो भगवनृषिः । सकाशमागतो राज्ञो हौत्रं कर्तुमनिन्दितः ।। 7.55.13 ।। Uttara Kanda,55,14,तदन्तरमथापश्यद्गौतमेनाभिपूरितम् । कोपेन महताविष्टो वसिष्ठो ब्रह्मणः सुतः ।। 7.55.14 ।। Uttara Kanda,55,15,स राज्ञो दर्शनाकाङ्क्षी मुहूर्तं समुपाविशत् । तस्मिन्नहनि राजर्षिर्निद्रया ऽपहृतो भृशम् ।। 7.55.15 ।। Uttara Kanda,55,16,ततो मन्युर्वसिष्ठस्य प्रादुरासीन्महात्मनः । अदर्शनेन राजर्षेर्व्याहर्तुमुपचक्रमे ।। 7.55.16 ।। Uttara Kanda,55,17,यस्मात्त्वमन्यं वृतवान्मामवज्ञाय पार्थिव । चेतनेन विनाभूतो देहस्तव भविष्यति ।। 7.55.17 ।। Uttara Kanda,55,18,ततः प्रबुद्धो राजर्षिः श्रुत्वा शापमुदाहृतम् । ब्रह्मयोनिमथोवाच संरम्भात् क्रोधमूर्च्छितः ।। 7.55.18 ।। Uttara Kanda,55,19,अजानतः शयानस्य क्रोधेन कलुषीकृतः । मुक्तवान्मयि शापाग्निं यमदण्डमिवापरम् ।। 7.55.19 ।। Uttara Kanda,55,20,तस्मात्तवापि ब्रह्मर्षे चेतनेन विना कृतः । देहः सुरुचिरप्रख्यो भविष्यति न संशयः ।। 7.55.20 ।। Uttara Kanda,55,21,इति रोषवशादुभौ तदानीमन्योन्यं शपितौ नृपद्विजेन्द्रौ । सहसैव बभूवतुर्विदेहौ तत्तुल्याधिगतप्रभाववन्तौ ।। 7.55.21 ।। Uttara Kanda,55,22,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चपञ्चाशः सर्गः ।। 55 ।। Uttara Kanda,56,1,रामस्य भाषितं श्रुत्वा लक्ष्मणः परवीरहा । उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम् ।। 7.56.1 ।। Uttara Kanda,56,2,निक्षिप्तदेहौ काकुत्स्य कथं तौ द्विजपार्थिवौ । पुनर्देहेन संयोगं जग्मतुर्देवसम्मतौ ।। 7.56.2 ।। Uttara Kanda,56,3,लक्ष्मणेनैवमुक्तस्तु रामश्चेक्ष्वाकुनन्दनः । प्रत्युवाच महातेजा लक्ष्मणं पुरुषर्षभः ।। 7.56.3 ।। Uttara Kanda,56,4,तौ परस्परशापेन देहावुत्सृज्य धार्मिकौ । अभूतां नृपविप्रर्षी वायुभूतौ तपोधनौ ।। 7.56.4 ।। Uttara Kanda,56,5,अशरीरः शरीरस्य कृते ऽन्यस्य महामुनिः । वसिष्ठः सुमहातेजा जगाम पितुरन्तिकम् ।। 7.56.5 ।। Uttara Kanda,56,6,सो ऽभिवाद्य ततः पादौ देवदेवस्य धर्मवित् । पितामहमथोवाच वायुभूत इदं वचः ।। 7.56.6 ।। Uttara Kanda,56,7,भगवन्निमिशापेन विदेहत्वमुपागमम् । लोकनाथ महादेव अण्डजो ऽपि त्वमब्जजः ।। 7.56.7 ।। Uttara Kanda,56,8,सर्वेषां देहहीनानां महद्दुःखं भविष्यति । लुप्यन्ते सर्वकार्यणि हीनदेहस्य वै प्रभो । देहस्यान्यस्य सद्भावे प्रसादं कर्तुमर्हसि ।। 7.56.8 ।। Uttara Kanda,56,9,तमुवाच ततो ब्रह्मा स्वयम्भूरमितप्रभः । मित्रावरुणजं तेज प्रविश त्वं महायशः ।। 7.56.9 ।। Uttara Kanda,56,10,अयोनिजस्त्वं भविता तत्रापि द्विजसत्तम । धर्मेण महता युक्तः पुनरेष्यसि मे वशम् ।। 7.56.10 ।। Uttara Kanda,56,11,एवमुक्तस्तु देवेन चाभिवाद्य प्रदक्षिणम् । कृत्वा पितामहं तूर्णं प्रययौ वरुणालयम् ।। 7.56.11 ।। Uttara Kanda,56,12,तमेव कालं मित्रो ऽपि वरुणत्वमकारयत् । क्षीरोदेन सहोपेतः पूज्यमानः सुरोत्तमैः ।। 7.56.12 ।। Uttara Kanda,56,13,एतस्मिन्नेव काले तु उर्वशी परमाप्सराः । यदृच्छया तमुद्देशमाययौ सखिभिर्वृता ।। 7.56.13 ।। Uttara Kanda,56,14,तां दृष्ट्वा रूपसम्पन्नां क्रीडन्तीं वरुणालये । आविशत्परमो हर्षो वरुणं चोर्वशीकृते ।। 7.56.14 ।। Uttara Kanda,56,15,स तां पद्मपलाशाक्षीं पूर्णचन्द्रनिभाननाम् । वरुणो वरयामास मैथुनायाप्सरोवराम् ।। 7.56.15 ।। Uttara Kanda,56,16,प्रत्युवाच ततः सा तु वरुणं प्राञ्जलिः स्थिता । मित्रेणाहं वृता साक्षात्पूर्वमेव सुरेश्वर ।। 7.56.16 ।। Uttara Kanda,56,17,वरुणस्त्वब्रवीद्वाक्यं कन्दर्पशरपीडितः । इदं तेजः समुत्स्रक्ष्ये कुम्भे ऽस्मिन्देवनिर्मिते ।। 7.56.17 ।। Uttara Kanda,56,18,एवमुत्सृज्य सुश्रोणि त्वय्यहं वरवर्णिनि । कृतकामो भविष्यामि यदि नेच्छसि सङ्गमम् ।। 7.56.18 ।। Uttara Kanda,56,19,तस्य तल्लोकपालस्य वरुणस्य सुभाषितम् । उर्वशी परमप्रीता श्रुत्वा वाक्यमुवाच ह ।। 7.56.19 ।। Uttara Kanda,56,20,काममेतद्भवत्वेवं हृदयं मे त्वयि स्थितम् । भावश्चाप्यधिकस्तुभ्यं देहो मित्रस्य तु प्रभो ।। 7.56.20 ।। Uttara Kanda,56,21,उर्वश्या एवमुक्तस्तु रेतस्तन्महदद्भुतम् । ज्वलदग्निशिखाप्रख्यं तस्मिन्कुम्भे ह्यपासृजत् ।। 7.56.21 ।। Uttara Kanda,56,22,उर्वशी त्वगमत्तत्र मित्रो वै यत्र देवता । तां तु मित्रः सुसङ्क्रम्य उर्वशीमिदमब्रवीत् ।। 7.56.22 ।। Uttara Kanda,56,23,मया निमन्त्रिता पूर्वं कस्मात्त्वमवसर्जिता । पतिमन्यं वृतवती तस्मात्त्वं दुष्टचारिणी ।। 7.56.23 ।। Uttara Kanda,56,24,अनेन दुष्कृतेन त्वं मत्क्रोधकलुषीकृता । मनुष्यलोकमास्थाय कञ्चित्कालं निवत्स्यसि ।। 7.56.24 ।। Uttara Kanda,56,25,बुधस्य पुत्रो राजर्षिः काशीराजः पुरूरवाः । तमद्य गच्छ दुर्बुद्धे स ते भर्ता भविष्यति ।। 7.56.25 ।। Uttara Kanda,56,26,ततः सा शापदोषेण पुरूरवसमभ्यगात् । प्रतियाते पुरूरवं बुधस्यात्मजमौरसम् ।। 7.56.26 ।। Uttara Kanda,56,27,तस्य जज्ञे ततः श्रीमानायुः पुत्रो महाबलः । नहुषो यस्य पुत्रस्तु बभूवेन्द्रसमद्युतिः ।। 7.56.27 ।। Uttara Kanda,56,28,वज्रमुत्सृज्य वृत्राय भ्रान्ते ऽथ त्रिदिवेश्वरे । शतं वर्षसहस्राणि येनेन्द्रत्वं प्रशासितम् ।। 7.56.28 ।। Uttara Kanda,56,29,सा तेन शापेन जगाम भूमिं तदोर्वशी चारुदती सुनेत्रा । बहूनि वर्षाण्यवसच्च सुभ्रूः शापक्षयादिन्द्रसदो ययौ च ।। 7.56.29 ।। Uttara Kanda,56,30,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षट्पञ्चाशः सर्गः ।। 56 ।। Uttara Kanda,57,1,तां श्रुत्वा दिव्यसङ्काशां कथामद्भुतदर्शनाम् । लक्ष्मणः परमप्रीतो राघवं वाक्यमब्रवीत् ।। 7.57.1 ।। Uttara Kanda,57,2,निक्षिप्तदेहौ काकुत्स्थ कथं तौ द्विजपार्थिवौ । पुनर्देहेन संयोगं जग्मुर्देवसम्मतौ ।। 7.57.2 ।। Uttara Kanda,57,3,तस्य तद्भाषितं श्रुत्वा रामः सत्यपराक्रमः । तां कथां कथयामास वसिष्ठस्य महात्मनः ।। 7.57.3 ।। Uttara Kanda,57,4,यस्तु कुम्भो रघुश्रेष्ठ तेजःपूर्णो महात्मनोः । तस्मिंस्तेजोमयौ विप्रौ सम्भूतावृषिसत्तमौ ।। 7.57.4 ।। Uttara Kanda,57,5,पूर्वं समभवत्तत्र ह्यगस्त्यो भगवानृषिः । नाहं सुतस्तवेत्युक्त्वा मित्रं तस्मादपाक्रमत् ।। 7.57.5 ।। Uttara Kanda,57,6,तद्धि तेजस्तु मित्रस्य उर्वस्याः पूर्वमाहितम् । तस्मिन्समभवत्कुम्भे तत्तेजो यत्र वारुणम् ।। 7.57.6 ।। Uttara Kanda,57,7,कस्यचित्त्वथ कालस्य मित्रावरुणसम्भवः । वसिष्ठस्तेजसा युक्तो जज्ञे इक्ष्वाकुदैवतम् ।। 7.57.7 ।। Uttara Kanda,57,8,तमिक्ष्वाकुर्महातेजा जातमात्रमनिन्दितम् । वव्रे पुरोधसं सौम्य वंशस्यास्य भवाय नः ।। 7.57.8 ।। Uttara Kanda,57,9,एवं त्वपूर्वदेहस्य वसिष्ठस्य महात्मनः । कथितो निर्गमः सौम्य निमेः शृणु यथा ऽभवत् ।। 7.57.9 ।। Uttara Kanda,57,10,दृष्ट्वा विदेहं राजानमृषयः सर्व एव ते । तं च ते योजयामासुर्यागदीक्षां मनीषिणः ।। 7.57.10 ।। Uttara Kanda,57,11,तं च देहं नरेन्द्रस्य रक्षन्ति स्म द्विजोत्तमाः । गन्धैर्माल्यैश्च वस्त्रैश्च पौरभृत्यसमन्विताः ।। 7.57.11 ।। Uttara Kanda,57,12,ततो यज्ञे समाप्ते तु भृगुस्तत्रेदमब्रवीत् । आनयिष्यामि ते चेतस्तुष्टो ऽस्मि तव पार्थिव ।। 7.57.12 ।। Uttara Kanda,57,13,सुप्रीताश्च सुराः सर्वे निमेश्चेतस्तथाब्रुवन् । वरं वरय राजर्षे क्व ते चेतो निरूप्यताम् ।। 7.57.13 ।। Uttara Kanda,57,14,एवमुक्तः सुरैः सर्वैर्निमेश्चेतस्तदाब्रवीत् । नेत्रेषु सर्वभूतानां वसेयं सुरसत्तमाः ।। 7.57.14 ।। Uttara Kanda,57,15,बाढमित्येव विबुधा निमेश्चेतस्तदा ऽब्रुवन् । नेत्रेषु सर्वभूतानां वायुभूतश्चरिष्यसि ।। 7.57.15 ।। Uttara Kanda,57,16,त्वत्कृते च निमिष्यन्ति चक्षूंषि पृथिवीपते । वायुभूतेन चरता विश्रमार्थं मुहुर्मुहुः ।। 7.57.16 ।। Uttara Kanda,57,17,एवमुक्त्वा तु विबुधाः सर्वे जग्मुर्यथागतम् । ऋषयो ऽपि महात्मानो निमेर्देहं समाहरन् ।। 7.57.17 ।। Uttara Kanda,57,18,अरणिं तत्र निक्षिप्य मथनं चक्रुरोजसा । मन्त्रहोमैर्महात्मानः पुत्रहेतोर्निमेस्तदा ।। 7.57.18 ।। Uttara Kanda,57,19,अरण्यां मथ्यामानायां प्रादुर्भूतो महातपाः । मथनान्मिथिरित्याहुर्जननाज्जनको ऽभवत् । यस्माद्विदेहात्सम्भूतो वैदेहस्तु ततः स्मृतः ।। 7.57.19 ।। Uttara Kanda,57,20,एवं विदेहराजश्च जनकः पूर्वको ऽभवत् । मिथिर्नाम महातेजास्तेनायं मैथिलो ऽभवत् ।। 7.57.20 ।। Uttara Kanda,57,21,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तपञ्चाशः सर्गः ।। 57 ।। Uttara Kanda,58,1,एवं ब्रुवति रामे तु लक्ष्मणः परवीरहा । प्रत्युवाच महात्मानं ज्वलन्तमिव तेजसा ।। 7.58.1 ।। Uttara Kanda,58,2,महदद्भुतमाश्चर्यं विदेहस्य पुरातनम् । निर्वृत्तं राजशार्दूल वसिष्ठस्य निमेस्सह ।। 7.58.2 ।। Uttara Kanda,58,3,निमिस्तु क्षत्रियः शूरो विशेषेण च दीक्षितः । न क्षमां कृतवान्राजा वसिष्ठस्य महात्मनः ।। 7.58.3 ।। Uttara Kanda,58,4,एवमुक्तस्तु तेनायं श्रीमान् क्षत्रियपुङ्गवः । उवाच लक्ष्मणं वाक्यं सर्वशास्त्रविशारदम् ।। 7.58.4 ।। Uttara Kanda,58,5,रामो रमयतां श्रेष्ठो भ्रातरं दीप्ततेजसम् । न सर्वत्र क्षमा वीर पुरुषेषु प्रदृश्यते ।। 7.58.5 ।। Uttara Kanda,58,6,सौमित्रे दुःसहो रोषो यथा क्षान्तो ययातिना । सत्त्वानुगं पुरस्कृत्य तन्निबोध समाहितः ।। 7.58.6 ।। Uttara Kanda,58,7,नहुषस्य सुतो राजा ययातिः पौरवर्धनः । तस्य भार्याद्वयं सौम्य रूपेणाप्रतिमं भुवि ।। 7.58.7 ।। Uttara Kanda,58,8,एका तु तस्य राजर्षेर्नाहुषस्य पुरस्कृता । शर्मिष्ठा नाम दैतेयी दुहिता वृषपर्वणः ।। 7.58.8 ।। Uttara Kanda,58,9,अन्या तूशनसः पत्नी ययातेः पुरुषर्षभ । न तु सा दयिता राज्ञो देवयानी सुमध्यमा ।। 7.58.9 ।। Uttara Kanda,58,10,तयोः पुत्रौ तु सम्भूतौ रूपवन्तौ समाहितौ । शर्मिष्ठा ऽजनयत्पूरुं देवयानी यदुं तदा ।। 7.58.10 ।। Uttara Kanda,58,11,पूरुस्तु दयितो राज्ञो गुणैर्मातृकृतेन च । ततो दुःखसमाविष्टो यदुर्मातरमब्रवीत् ।। 7.58.11 ।। Uttara Kanda,58,12,भार्गवस्य कुले जाता देवस्याक्लिष्टकर्मणः । सहसे हृद्गतं दुःखमवमानं च दुःसहम् ।। 7.58.12 ।। Uttara Kanda,58,13,आवां च सहितौ देवि प्रविशाव हुताशनम् । राजा तु रमतां सार्धं दैत्यपुत्र्या बहुक्षपाः ।। 7.58.13 ।। Uttara Kanda,58,14,यदि वा सहनीयं ते मामनुज्ञातुमर्हसि । क्षम त्वं न क्षमिष्ये ऽहं मरिष्यामि न संशयः ।। 7.58.14 ।। Uttara Kanda,58,15,पुत्रस्य भाषितं श्रुत्वा परमार्तस्य रोदतः । देवयानी तु सङ्क्रुद्धा सस्मार पितरं तदा ।। 7.58.15 ।। Uttara Kanda,58,16,इङ्गितं तदभिज्ञाय दुहितुर्भार्गवस्तदा । आगतस्त्वरितं तत्र देवयानी तु यत्र सा ।। 7.58.16 ।। Uttara Kanda,58,17,दृष्ट्वा चाप्रकृतिस्थां तामप्रहृष्टामचेतनाम् । पिता दुहितरं वाक्यं किमेतदिति चाब्रवीत् ।। 7.58.17 ।। Uttara Kanda,58,18,पृच्छन्तमसकृत्तं वै भार्गवं दीप्ततेजसम् । देवयानी तु सङ्क्रुद्धा पितरं वाक्यमब्रवीत् ।। 7.58.18 ।। Uttara Kanda,58,19,अहमग्निं विषं तीक्ष्णमपो वा मुनिसत्तम । भक्षयिष्ये प्रवेक्ष्यामि न तु शक्ष्यामि जीवितुम् ।। 7.58.19 ।। Uttara Kanda,58,20,न मां त्वमवजानीषे दुःखितामवमानिताम् । वृक्षस्यावज्ञया ब्रह्मंश्छिद्यन्ते वृक्षजीविनः ।। 7.58.20 ।। Uttara Kanda,58,21,अवज्ञया च राजर्षिः परिभूय च भार्गव । मय्यवज्ञां प्रयुङ्क्ते हि न च मां बहु मन्यते ।। 7.58.21 ।। Uttara Kanda,58,22,तस्यास्तद्वचनं श्रुत्वा कोपेनाभिपरिप्लुतः । व्याहर्तुमुपचक्राम भार्गवो नहुषात्मजम् ।। 7.58.22 ।। Uttara Kanda,58,23,यस्मान्मामवजानीषे नाहुष त्वं दुरात्मवान् । जरया परया जीर्णः शैथिल्यमुपयास्यसि ।। 7.58.23 ।। Uttara Kanda,58,24,एवमुक्त्वा दुहितरं समाश्वास्य च भार्गवः । पुनर्जगाम ब्रह्मर्षिर्भवनं स्वं महायशाः ।। 7.58.24 ।। Uttara Kanda,58,25,स एवमुक्त्वा द्विजपुङ्गवाग्र्यः सुतां समाश्वास्य च देवयानीम् । पुनर्ययौ सूर्यसमानतेजा दत्त्वा च शापं नहुषात्मजाय ।। 7.58.25 ।। Uttara Kanda,58,26,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टपञ्चाशः सर्गः ।। 58 ।। Uttara Kanda,59,1,श्रुत्वा तूशनसं क्रुद्धं तदा ऽ ऽर्तो नहुषात्मजः । जरां परमिकां प्राप्य यदुं वचनमब्रवीत् ।। 7.59.1 ।। Uttara Kanda,59,2,यदो त्वमसि धर्मज्ञो मदर्थं प्रतिगृह्यताम् । जरां परमिकां पुत्र भोगै रंस्ये महायशः ।। 7.59.2 ।। Uttara Kanda,59,3,न तावत्कृतकृत्यो ऽस्मि विषयेषु नरर्षभ । अनुभूय तदा कामं ततः प्राप्स्याम्यहं जराम् ।। 7.59.3 ।। Uttara Kanda,59,4,यदुस्तद्वचनं श्रुत्वा प्रत्युवाच नरर्षभम् । पुत्रस्ते दयितः पूरुः प्रतिगृह्णातु वै जराम् ।। 7.59.4 ।। Uttara Kanda,59,5,बहिष्कृतो ऽहमर्थेषु सन्निकर्षाच्च पार्थिव । प्रतिगृह्णातु वै राजन्क सहाश्नाति भोजनम् ।। 7.59.5 ।। Uttara Kanda,59,6,तस्य तद्वचनं श्रुत्वा राजा पूरुमथाब्रवीत् । इयं जरा महाबाहो मदर्थं प्रतिगृह्यताम् ।। 7.59.6 ।। Uttara Kanda,59,7,नाहुषेणैवमुक्तस्तु पूरुः प्राञ्जलिरब्रवीत् । धन्यो ऽस्म्यनुगृहीतो ऽस्मि शासने ऽस्मि तव स्थितः ।। 7.59.7 ।। Uttara Kanda,59,8,पूरोर्वचनमाज्ञाय नाहुषः परया मुदा । प्रहर्षमतुलं लेभे जरां सङ्क्रामयच्च ताम् ।। 7.59.8 ।। Uttara Kanda,59,9,ततः स राजा तरुणः प्राप्य यज्ञान्सहस्रशः । बहुवर्षसहस्राणि पालयामास मेदिनीम् ।। 7.59.9 ।। Uttara Kanda,59,10,अथ दीर्घस्य कालस्य राजा पूरुमथाब्रवीत् । आनयस्व जरां पुत्र न्यासं निर्यातयस्व मे ।। 7.59.10 ।। Uttara Kanda,59,11,न्यासभूता मया पुत्र त्वयि सङ्क्रामिता जरा । तस्मात्प्रतिग्रहीष्यामि तां जरां मा व्यथां कृथाः ।। 7.59.11 ।। Uttara Kanda,59,12,प्रीतश्चास्मि महाबाहो शासनस्य प्रतिग्रहात् । त्वां चाहमभिषेक्ष्यामि प्रीतियुक्तो नराधिपम् ।। 7.59.12 ।। Uttara Kanda,59,13,एवमुक्त्वा सुतं पूरुं ययातिर्नहुषात्मजः । देवयानीसुतं क्रुद्धो राजा वाक्यमुवाच ह ।। 7.59.13 ।। Uttara Kanda,59,14,राक्षसस्त्वं मया जातः पुत्ररूपो दुरासदः । प्रतिहंसि ममाज्ञां यत् प्रजार्थे विफलो भव ।। 7.59.14 ।। Uttara Kanda,59,15,पितरं गुरुभूतं मां यस्मात्त्वमवमन्यसे । राक्षसान्यातुधानांस्त्वं जनयिष्यसि दारुणान् ।। 7.59.15 ।। Uttara Kanda,59,16,न तु सोमकुलोत्पन्ने वंशे स्थास्यति दुर्मतेः । वंशो ऽपि भवतस्तुल्यो दुर्विनीतो भविष्यति ।। 7.59.16 ।। Uttara Kanda,59,17,तमेवमुक्त्वा राजर्षिः पूरुं राज्यविवर्धनम् । अभिषेकेण सम्पूज्य आश्रमं प्रविवेश ह ।। 7.59.17 ।। Uttara Kanda,59,18,ततः कालेन महता दिष्टान्तमुपजग्मिवान् । त्रिदिवं सङ्गतो राजा ययातिर्नहुषात्मजः ।। 7.59.18 ।। Uttara Kanda,59,19,पूरुश्चकार तद्राज्यं धर्मेण महता वृतः । प्रतिष्ठाने पुरवरे काशिराज्ये महायशाः ।। 7.59.19 ।। Uttara Kanda,59,20,यदुस्तु जनयामास यातुधानान्सहस्रशः । पुरे क्रौञ्चवने दुर्गे राजवंशबहिष्कृतः ।। 7.59.20 ।। Uttara Kanda,59,21,एष तूशनसा मुक्तः शापोत्सर्गो ययातिना । धारितः क्षत्रधर्मेण यन्निमिश्च न चक्षमे ।। 7.59.21 ।। Uttara Kanda,59,22,एतत्ते सर्वमाख्यातं दर्शनं सर्वकारिणाम् । अनुवर्तामहे सौम्य दोषो न स्याद्यथा नृगे ।। 7.59.22 ।। Uttara Kanda,59,23,इति कथयति रामे चन्द्रतुल्यानने च प्रविरलतरतारं व्योम जज्ञे तदानीम् । अरुणकिरणरक्ता दिग्बभौ चैव पूर्वा कुसुमरसविमुक्तं वस्त्रमाकुण्ठितेव ।। 7.59.23 ।। Uttara Kanda,59,24,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनषष्टितमः सर्गः ।। 59 ।। Uttara Kanda,60,1,तयोः संवदतोरेवं रामलक्ष्मणयोस्तदा । वासन्तिकी निशा प्राप्ता न शीता न च घर्मदा ।। 7.60.1 ।। Uttara Kanda,60,2,ततः प्रभाते विमले कृतपौर्वाह्णिकक्रियः । अभिचक्राम काकुत्स्थो दर्शनं पौरकार्यवित् ।। 7.60.2 ।। Uttara Kanda,60,3,ततः सुमन्त्रस्त्वागम्य राघवं वाक्यमब्रवीत् । एते प्रतिहता राजन्द्वारि तिष्ठन्ति तापसाः ।। 7.60.3 ।। Uttara Kanda,60,4,भार्गवच्यवनं चैव पुरस्कृत्य महर्षयः । दर्शनं ते महाराज्ञश्चोदयन्ति कृतत्वराः । प्रीयमाणा नरव्याघ्र यमुनातीरवासिनः ।। 7.60.4 ।। Uttara Kanda,60,5,तस्य तद्वचनं श्रुत्वा रामः प्रोवाच धर्मवित् । प्रवेश्यन्तां महाभागा भार्गवप्रमुखा द्विजाः ।। 7.60.5 ।। Uttara Kanda,60,6,राज्ञस्त्वाज्ञां पुरस्कृत्य द्वाःस्थो मूर्ध्नि कृताञ्जलिः । प्रवेशयामास तदा तापसान्सुदुरासदान् ।। 7.60.6 ।। Uttara Kanda,60,7,शतं समधिकं तत्र दीप्यमानं स्वतेजसा । प्रविष्टं राजभवनं तापसानां महात्मनाम् ।। 7.60.7 ।। Uttara Kanda,60,8,ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बुसत्कृतैः । गृहीत्वा फलमूलं च रामस्याभ्याहरन्बहु ।। 7.60.8 ।। Uttara Kanda,60,9,प्रतिगृह्य तु तत्सर्वं रामः प्रीतिपुरस्कृतः । तीर्थोदकानि सर्वाणि फलानि विविधानि च ।। 7.60.9 ।। Uttara Kanda,60,10,उवाच च महाबाहुः सर्वानेव महामुनीन् । इमान्यासनमुख्यानि यथार्हमुपविश्यताम् ।। 7.60.10 ।। Uttara Kanda,60,11,रामस्य भाषितं श्रुत्वा सर्व एव महर्षयः । बृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते ।। 7.60.11 ।। Uttara Kanda,60,12,उपविष्टानृषींस्तत्र दृष्ट्वा परपुरञ्जयः । प्रयतः प्राञ्जलिर्भूत्वा राघवो वाक्यमब्रवीत् ।। 7.60.12 ।। Uttara Kanda,60,13,किमागमनकार्यं वः किं करोमि समाहितः । आज्ञाप्यो ऽहं महर्षीणां सर्वकामकरः सुखम् ।। 7.60.13 ।। Uttara Kanda,60,14,इदं राज्यं च सकलं जीवितं च हृदि स्थितम् । सर्वमेतद्द्विदार्थं मे सत्यमेतद्ब्रवीमि वः ।। 7.60.14 ।। Uttara Kanda,60,15,तस्य तद्वचनं श्रुत्वा साधुकारो महानभूत् । ऋषीणामुग्रतपसां यमुनातीरवासिनाम् ।। 7.60.15 ।। Uttara Kanda,60,16,ऊचुश्च ते महात्मानो हर्षेण महता वृताः । उपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः ।। 7.60.16 ।। Uttara Kanda,60,17,बहवः पार्थिवा राजन्नतिक्रान्ता महाबलाः । कार्यस्य गौरवं मत्वा प्रतिज्ञां नाभ्यरोचयन् ।। 7.60.17 ।। Uttara Kanda,60,18,त्वया पुनर्ब्राह्मणगौरवादियं कृता प्रतिज्ञा ह्यनवेक्ष्य कारणम् । ततश्च कर्ता ह्यसि नात्र संशयो महाभयात्ऺत्रातुमृषींस्त्वमर्हसि ।। 7.60.18 ।। Uttara Kanda,60,19,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षष्टितमः सर्गः ।। 60 ।। Uttara Kanda,61,1,एवं ब्रुवद्भिर्ऋषिभिः काकुत्स्थो वाक्यमब्रवीत् । किं कार्यं ब्रूत मुनयो भयं तावदपैतु वः ।। 7.61.1 ।। Uttara Kanda,61,2,तथा ब्रुवति काकुत्स्थे भार्गवो वाक्यमब्रवीत् । भयानां शृणु यन्मूलं देशस्य च नरेश्वर ।। 7.61.2 ।। Uttara Kanda,61,3,पूर्वं कृतयुगे राजन्दैतेयः सुमहाबलः । लोलापुत्रो ऽभवज्ज्येष्ठो मधुर्नाम महासुरः ।। 7.61.3 ।। Uttara Kanda,61,4,ब्रह्मण्यश्च शरण्यश्च बुद्ध्या च परिनिष्ठितः । सुरैश्च परमोदारैः प्रीतिस्तस्यातुला ऽभवत् ।। 7.61.4 ।। Uttara Kanda,61,5,स मधुर्वीर्यसम्पन्नो धर्मे च सुसमाहितः । बहुवर्षसहस्राणि रुद्रप्रीत्या ऽकरोत्तपः ।। 7.61.5 ।। Uttara Kanda,61,6,रुद्रः प्रीतो ऽभवत्तस्मै वरं दातुं ययौ च सः । बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतो वरः ।। 7.61.6 ।। Uttara Kanda,61,7,शूलं शूलाद्विनिष्कृष्य महावीर्यं महाप्रभम् । ददौ महात्मा सुप्रीतो वाक्यं चैतदुवाच ह ।। 7.61.7 ।। Uttara Kanda,61,8,त्वयायमतुलो धर्मो मत्प्रसादकरः कृतः । प्रीत्या परमया युक्तो ददाम्यायुधमुत्तमम् ।। 7.61.8 ।। Uttara Kanda,61,9,यावत्सुरैश्च विप्रैश्च न विरुध्येर्महासुर । तावच्छूलं तवेदं स्यादन्यथा नाशमेप्यति ।। 7.61.9 ।। Uttara Kanda,61,10,यश्च त्वामभियुञ्जीत युद्धाय विगतज्वरः । तं शूलो भस्मसात्कृत्वा पुनरेष्यति ते करम् ।। 7.61.10 ।। Uttara Kanda,61,11,एवं रुद्राद्वरं लब्ध्वा भूय एव महासुरः । प्रणिपत्य महादेवं वाक्यमेतदुवाच ह ।। 7.61.11 ।। Uttara Kanda,61,12,भगवन्मम वंशस्य शूलमेतदनुत्तमम् । भवेत्तु सततं देव सुराणामीश्वरो ह्यसि ।। 7.61.12 ।। Uttara Kanda,61,13,तं ब्रुवाणं मधुं देवः सर्वभूतपतिः शिवः । प्रत्युवाच महातेजा नैतदेवं भविष्यति ।। 7.61.13 ।। Uttara Kanda,61,14,मा भूत्ते विफला वाणी मत्प्रसादकृता शुभा । भवतः पुत्रमेकं तु शूलमेतद्भजिष्यते ।। 7.61.14 ।। Uttara Kanda,61,15,यावत्करस्थः शूलो ऽयं भविष्यति सुतस्य ते । अवध्यः सर्वभूतानां शूलहस्तो भविष्यति ।। 7.61.15 ।। Uttara Kanda,61,16,एवं मधुर्वरं लब्ध्वा देवात्सुमहदद्भुतम् । भवनं सो ऽसुरश्रेष्ठः कारयामास सुप्रभम् ।। 7.61.16 ।। Uttara Kanda,61,17,तस्य पत्नी महाभागा प्रिया कुम्भीनसीति या । विश्वावसोरपत्यं सा ह्यनलायां महाप्रभा ।। 7.61.17 ।। Uttara Kanda,61,18,तस्याः पुत्रो महावीर्यो लवणो नाम दारुणः । बाल्यात्प्रभृति दुष्टात्मा पापान्येव समाचरत् ।। 7.61.18 ।। Uttara Kanda,61,19,तं पुत्रं दुर्विनीतं तु दृष्ट्वा क्रोधसमन्वितः । मधुः स शोकमापेदे न चैनं किञ्चिदब्रवीत् ।। 7.61.19 ।। Uttara Kanda,61,20,स विहाय त्विमं लोकं प्रविष्टो वरुणालयम् । शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् ।। 7.61.20 ।। Uttara Kanda,61,21,स प्रभावेण शूलस्य दौरात्म्येनात्मनस्तथा । सन्तापयति लोकांस्त्रीन्विशेषेण च तापसान् ।। 7.61.21 ।। Uttara Kanda,61,22,एवंप्रभावो लवणः शूलं चैव तथाविधम् । श्रुत्वा प्रमाणं काकुत्स्थ त्वं हि नः परमा गतिः ।। 7.61.22 ।। Uttara Kanda,61,23,बहवः पार्थिवा राम भयार्तैर्ऋषिभिः पुरा । अभयं याचिता वीर त्रातारं न च विद्महे ।। 7.61.23 ।। Uttara Kanda,61,24,ते वयं रावणं श्रुत्वा हतं सबलवाहनम् । त्रातारं विद्महे तात नान्यं भुवि नराधिपम् । तत्परित्रातुमिच्छामो लवणाद्भयपीडितान् ।। 7.61.24 ।। Uttara Kanda,61,25,इति राम निवेदितं तु ते भयजं कारणमुत्थितं च यत् । विनिवारयितुं भवान्क्षमः कुरु तं काममहीनविक्रम ।। 7.61.25 ।। Uttara Kanda,61,26,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकषष्टितमः सर्गः ।। 61 ।। Uttara Kanda,62,1,तथोक्ते तानृषीन्रामः प्रत्युवाच कृताञ्जलिः । किमाहारः किमाचारो लवणः क्व च वर्तते ।। 7.62.1 ।। Uttara Kanda,62,2,राघवस्य वचः श्रुत्वा ऋषयः सर्व एव ते । ततो निवेदयामासुर्लवणो ववृधे यथा ।। 7.62.2 ।। Uttara Kanda,62,3,आहारः सर्वसत्त्वानि विशेषेण च तापसाः । आचारो रौद्रता नित्यं वासो मधुवने तथा ।। 7.62.3 ।। Uttara Kanda,62,4,हत्वा बहुसहस्राणि सिंहव्याघ्रमृगद्विपान् । मानुषांश्चैव कुरुते नित्यमाहारमाह्निकम् ।। 7.62.4 ।। Uttara Kanda,62,5,ततो ऽन्तराणि सत्त्वानि खादते स महाबलः । संहारे समनुप्राप्ते व्यादितास्य इवान्तकः ।। 7.62.5 ।। Uttara Kanda,62,6,तच्छ्रुत्वा राघवो वाक्यमुवाच स महामुनीन् । घातयिष्यामि तद्रक्षो ह्यपगच्छतु वो भयम् ।। 7.62.6 ।। Uttara Kanda,62,7,प्रतिज्ञाय तथा तेषां मुनीनामुग्रतेजसाम् । स भ्रातऽन्सहितान्सर्वानुवाच रघुनन्दनः ।। 7.62.7 ।। Uttara Kanda,62,8,को हन्ता लवणं वीरः कस्यांशः स विधीयताम् । भरतस्य महाबाहोः शत्रुघ्नस्य च धीमतः ।। 7.62.8 ।। Uttara Kanda,62,9,राघवेणैवमुक्तस्तु भरतो वाक्यमब्रवीत् । अहमेनं वधिष्यामि ममांशः स विधीयताम् ।। 7.62.9 ।। Uttara Kanda,62,10,भरतस्य वचः श्रुत्वा धैर्यशौर्यसमन्वितम् । लक्ष्मणावरजस्तस्थौ हित्वा सौवर्णमासनम् ।। 7.62.10 ।। Uttara Kanda,62,11,शत्रुघ्नस्त्वब्रवीद्वाक्यं प्रणिपत्य नराधिपम् । कृतकर्मा महाबाहुर्मध्यमो रघुनन्दनः ।। 7.62.11 ।। Uttara Kanda,62,12,आर्येण हि पुरा शून्या त्वयोध्या परिपालिता । सन्तापं हृदये कृत्वा आर्यस्यागमनं प्रति ।। 7.62.12 ।। Uttara Kanda,62,13,दुःखानि च बहूनीह ह्यनुभूतानि पार्थिव । शयानो दुःखशय्यासु नन्दिग्रामे ऽवसत्पुरा ।। 7.62.13 ।। Uttara Kanda,62,14,फलमूलाशनो भूत्वा जटी चीरधरस्तथा । अनुभूयेदृशं दुःखमेष राघवनन्दनः । प्रेष्ये मयि स्थिते राजन्न भूयः क्लेशमाप्नुयात् ।। 7.62.14 ।। Uttara Kanda,62,15,तथा ब्रुवति शत्रुघ्ने राघवः पुनरब्रवीत् । एवं भवतु काकुत्स्थ क्रियतां मम शासनम् ।। 7.62.15 ।। Uttara Kanda,62,16,राज्ये त्वामभिषेक्ष्यामि मधोस्तु नगरे शुभे । निवेशय महाबाहो भरतं यद्यवेक्षसे ।। 7.62.16 ।। Uttara Kanda,62,17,शूरस्त्वं कृतविद्यश्च समर्थश्च निवेशने ।। 7.62.17 ।। Uttara Kanda,62,18,यो हि शत्रुं समुत्पाट्य पार्थिवस्य पुनः क्षये । न विधत्ते नृपं तत्र नरकं स हि गच्छति ।। 7.62.18 ।। Uttara Kanda,62,19,स त्वं हत्वा मधुसुतं लवणं पापनिश्चयम् । राज्यं प्रशाधि धर्मेण वाक्यं मे यद्यवेक्षसे ।। 7.62.19 ।। Uttara Kanda,62,20,उत्तरं च न वक्तव्यं शूर वाक्यान्तरे मम । बालेन पूर्वजस्याज्ञा कर्तव्या नात्र संशयः ।। 7.62.20 ।। Uttara Kanda,62,21,अभिषेकं च काकुत्स्थ प्रतीच्छस्व मयोद्यतम् । वसिष्ठप्रमुखैर्विप्रैर्विधिमन्त्रपुरस्कृतम् ।। 7.62.21 ।। Uttara Kanda,62,22,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्विषष्टितमः सर्गः ।। 62।। Uttara Kanda,63,1,एवमुक्तस्तु रामेण परां व्रीडामुपागमत् । शत्रुघ्नो वीर्यसम्पन्नो मन्दं मन्दमुवाच ह ।। 7.63.1 ।। Uttara Kanda,63,2,अधर्मं विद्म काकुत्स्थ ह्यस्मिन्नर्थे नरेश्वर । कथं तिष्ठत्सु ज्येष्ठेषु कनीयानभिषिच्यते ।। 7.63.2 ।। Uttara Kanda,63,3,अवश्यं करणीयं च शासनं पुरुषर्षभ । तव चैव महाभाग शासनं दुरतिक्रमम् ।। 7.63.3 ।। Uttara Kanda,63,4,त्वत्तो मया श्रुतं वीर श्रुतिभ्यश्च मया श्रुतम् । नोत्तरं हि मया वाच्यं मध्यमे प्रतिजानति ।। 7.63.4 ।। Uttara Kanda,63,5,व्याहृतं दुर्वचो घोरं हन्तास्मि लवणं मृधे । तस्यैवं मे दुरुक्तस्य दुर्गतिः पुरुषर्षभ ।। 7.63.5 ।। Uttara Kanda,63,6,उत्तरं नहि वक्तव्यं ज्येष्ठेनाभिहिते पुनः । अधर्मसहितं चैव परलोकविवर्जितम् ।। 7.63.6 ।। Uttara Kanda,63,7,सो ऽहं द्वितीयं काकुत्स्थ न वक्ष्यामि तवोत्तरम् । मा द्वितीयेन दण्डो वै निपतेन्मयि मानद ।। 7.63.7 ।। Uttara Kanda,63,8,कामकारो ह्यहं राजंस्तवास्मि पुरुषर्षभ । अधर्मं जहि काकुत्स्थ मत्कृते रघुनन्दन ।। 7.63.8 ।। Uttara Kanda,63,9,एवमुक्ते तु शूरेण शत्रुघ्नेन महात्मना । उवाच रामः संहृष्टो भरतं लक्ष्मणं तथा ।। 7.63.9 ।। Uttara Kanda,63,10,सम्भारानभिषेकस्य आनयध्वं समाहिताः । अद्यैव पुरुषव्याघ्रमभिषेक्ष्यामि राघवम् ।। 7.63.10 ।। Uttara Kanda,63,11,पुरोहितं च काकुत्स्थं नैगमानृत्विजस्तथा । मन्त्रिणश्चैव तान्सर्वानानयध्वं ममाज्ञया ।। 7.63.11 ।। Uttara Kanda,63,12,राज्ञः शासनमाज्ञाय तथा ऽकुर्वन्महारथाः । अभिषेकसमारम्भं पुरस्कृत्य पुरोधसम् । प्रविष्टा राजभवनं राजानो ब्राह्मणास्तथा ।। 7.63.12 ।। Uttara Kanda,63,13,तथो ऽभिषेको ववृधे शत्रुघ्नस्य महात्मनः । सम्प्रहर्षकरः श्रीमान्राघवस्य पुरस्य च ।। 7.63.13 ।। Uttara Kanda,63,14,अभिषिक्तस्तु शत्रुघ्नो बभौ चादित्यसन्निभः । अभिषिक्तः पुरा स्कन्दः सेन्द्रैरिव मरुद्गणैः ।। 7.63.14 ।। Uttara Kanda,63,15,अभिषिक्ते तु शत्रुघ्ने रामेणाक्लिष्टकर्मणा । पौराः प्रमुदिताश्चासन्ब्राह्मणाश्च बहुश्रुताः ।। 7.63.15 ।। Uttara Kanda,63,16,कौसल्या च सुमित्रा च मङ्गलं केकयी तथा । चक्रुस्ता राजभवने याश्चान्या राजयोषितः ।। 7.63.16 ।। Uttara Kanda,63,17,ऋषयश्च महात्मानो यमुनातीरवासिनः । हतं लवणमाशंसुः शत्रुघ्नस्याभिषेचनात् ।। 7.63.17 ।। Uttara Kanda,63,18,ततो ऽभिषिक्तं शत्रुघ्नमङ्कमारोप्य राघवः । उवाच मधुरां वाणीं तेजस्तस्याभिपूरयन् ।। 7.63.18 ।। Uttara Kanda,63,19,अयं शरस्त्वमोघस्ते दिव्यः परपुरञ्जयः । अनेन लवणं सौम्य हन्ता ऽसि रघुनन्दन ।। 7.63.19 ।। Uttara Kanda,63,20,सृष्टः शरो ऽयं काकुत्स्थ यदा शेते महार्णवे ।। 7.63.20 ।। Uttara Kanda,63,21,स्वयम्भूरजितो देवो यन्नापश्यन्सुरासुराः । अदृश्यः सर्वभूतानां तेनायं तु शरोत्तमः ।। 7.63.21 ।। Uttara Kanda,63,22,सृष्टः क्रोधाभिभूतेन विनाशार्थं दुरात्मनोः । मधुकैटभयोर्वीर विघाते वर्तमानयोः । स्रष्टुकामेन लोकांस्त्रींस्तौ चानेन हतौ युधि ।। 7.63.22 ।। Uttara Kanda,63,23,तौ हत्वा जनभोगार्थं कैटभं तु मधुं तथा । अनेन शरमुख्येन ततो लोकांश्चकार सः ।। 7.63.23 ।। Uttara Kanda,63,24,नायं मया शरः पूर्वं रावणस्य वधार्थिना । मुक्तः शत्रुघ्न भूतानां महांस्त्रासो भवेदिति ।। 7.63.24 ।। Uttara Kanda,63,25,यच्च तस्य महच्छूलं त्र्यम्बकेण महात्मना । दत्तं शत्रुविनाशाय मधोरायुधमुत्तमम् ।। 7.63.25 ।। Uttara Kanda,63,26,स तं निक्षिप्य भवने पूज्यमान पुनः पुनः । दिशः सर्वाः समासाद्य प्राप्नोत्याहारमुत्तमम् ।। 7.63.26 ।। Uttara Kanda,63,27,यदा तु युद्धमाकाङ्क्षन् कश्चिदेनं समाह्वयेत् । तदा शूलं गहीत्वा तं भस्म रक्षः करोति हि ।। 7.63.27 ।। Uttara Kanda,63,28,स त्वं पुरुषशार्दूल तमायुधविनाकृतम् । अप्रविष्टं पुरं पूर्वं द्वारि तिष्ठ धृतायुधः ।। 7.63.28 ।। Uttara Kanda,63,29,अप्रविष्टं च भवनं युद्धाय पुरुषर्षभ । आह्वयेथा महाबाहो ततो हन्तासि राक्षसम् ।। 7.63.29 ।। Uttara Kanda,63,30,अन्यथा क्रियमाणे तु अवध्यः स भविष्यति । यदि त्वेवं कृते वीर विनाशमुपयास्यति ।। 7.63.30 ।। Uttara Kanda,63,31,एतत्ते सर्वमाख्यातं शूलस्य च विपर्ययः । श्रीमतः शितिकण्ठस्य कृत्यं हि दुरतिक्रमम् ।। 7.63.31 ।। Uttara Kanda,63,32,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिषष्टितमः सर्गः ।। 63 ।। Uttara Kanda,64,1,एवमुक्त्वा च काकुत्स्थं प्रशस्य च पुनः पुनः । पुनरेवापरं वाक्यमुवाच रघुनन्दनः ।। 7.64.1 ।। Uttara Kanda,64,2,इमान्यश्वसहस्राणि चत्वारि पुरुषर्षभ । रथानां द्वे सहस्रे च गजानां शतमुत्तमम् ।। 7.64.2 ।। Uttara Kanda,64,3,अन्तरा पणवीथ्यश्च नानापण्योपशोभिताः । अनुगच्छन्तु काकुत्स्थं तथैव नटनर्तकाः ।। 7.64.3 ।। Uttara Kanda,64,4,हिरण्यस्य सुवर्णस्य नियुतं पुरुषर्षभ । आदाय गच्छ शत्रुघ्न पर्याप्तधनवाहनः ।। 7.64.4 ।। Uttara Kanda,64,5,बलं च सुभृतं वीर हृष्टपुष्टमनुद्धतम् । सम्भाषासम्प्रदानेन रञ्जयस्व नगेत्तम ।। 7.64.5 ।। Uttara Kanda,64,6,न ह्यर्थास्तत्र तिष्ठन्ति न दारा न च बान्धवाः । सुप्रीतो भृत्यवर्गश्च यत्र तिष्ठसि राघव ।। 7.64.6 ।। Uttara Kanda,64,7,ततो हृष्टजनाकीर्णां प्रस्थाप्य महतीं चमूम् । एक एव धनुष्पाणिर्गच्छ त्वं मधुनो वनम् ।। 7.64.7 ।। Uttara Kanda,64,8,यथा त्वां न प्रजानाति गच्छन्तं युद्धकाङ्क्षिणम् । लवणस्तु मधोः पुत्रस्तथा गच्छेरशङ्कितम् ।। 7.64.8 ।। Uttara Kanda,64,9,न तस्य मूत्युरन्यो ऽस्ति कश्चिद्धि पुरुषर्षभ । दर्शनं यो ऽभिगच्छेत स वध्यो लवणेन हि ।। 7.64.9 ।। Uttara Kanda,64,10,स हि ग्रीष्मो ऽपयाते तु वर्षारात्र उपागते । हन्यास्त्वं लवणं सौम्य सहि कालो ऽस्य दुर्मतेः ।। 7.64.10 ।। Uttara Kanda,64,11,महर्षींस्तु पुरत्कृत्य प्रयान्तु तव सौनिकाः । यथा ग्रीष्मावशेषेण तरेयुर्जाह्नवीजलम् ।। 7.64.11 ।। Uttara Kanda,64,12,तत्र स्थाप्य बलं सर्वं नदीतीरे समाहितः । अग्रतो धनुषा सार्धं गच्छ त्वं लघुविक्रमः ।। 7.64.12 ।। Uttara Kanda,64,13,एवमुक्तस्तु रामेण शत्रुघ्नस्तान्महाबलान् । सेनामुख्यान्समानीय ततो वाक्यमुवाच ह ।। 7.64.13 ।। Uttara Kanda,64,14,एते वो गणिता वासा यत्र तत्र निवत्स्यथ । स्थातव्यं चाविरोधेन यथा बाधा न कस्यचित् ।। 7.64.14 ।। Uttara Kanda,64,15,तथा तांस्तु समाज्ञाप्य प्रस्थाप्य च महद्बलम् । कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत् ।। 7.64.15 ।। Uttara Kanda,64,16,रामं प्रदक्षिणीकृत्य शिरसा ऽभिप्रणम्य च । रामेण चाभ्यनुज्ञातः शत्रुघ्नः शत्रुतापनः ।। 7.64.16 ।। Uttara Kanda,64,17,लक्ष्मणं भरतं चैव प्रणिपत्य कृताञ्जलिः । पुरोहितं वसिष्ठं च शत्रुघ्नः प्रयतात्मवान् । प्रदक्षिणमथो कृत्वा निर्जगाम महाबलः ।। 7.64.17 ।। Uttara Kanda,64,18,प्रस्थाप्य सेनामथ सो ऽग्रतस्तदा गजेन्द्रवाजिप्रवरौघसङ्कुलाम् । उपास मासं तु नरेन्द्रपार्श्वतस्त्वथ प्रयातो रघुवंशवर्धनः ।। 7.64.18 ।। Uttara Kanda,64,19,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुष्षष्टितमः सर्गः ।। 64 ।। Uttara Kanda,65,1,प्रस्थाप्य च बलं सर्वं मासमात्रोषितः पथि । एक एवाशु शत्रुघ्नो जगाम त्वरितं तदा ।। 7.65.1 ।। Uttara Kanda,65,2,द्विरात्रमन्तरे शूर उष्य राघवनन्दनः । वाल्मीकेराश्रमं पुण्यमगच्छद्वासमुत्तमम् ।। 7.65.2 ।। Uttara Kanda,65,3,सो ऽभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम् । कृताञ्जलिरथो भूत्वा वाक्यमेतदुवाच ह ।। 7.65.3 ।। Uttara Kanda,65,4,भगवन्वस्तुमिच्छामि गुरोः कृत्यादिहागतः । श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम् ।। 7.65.4 ।। Uttara Kanda,65,5,शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः । प्रत्युवाच महात्मानं स्वागतं ते महायशः ।। 7.65.5 ।। Uttara Kanda,65,6,स्वमाश्रममिदं सौम्य राघवाणां कुलस्य हि । आसनं पाद्यमर्ध्यं च निर्विशङ्कः प्रतीच्छ मे ।। 7.65.6 ।। Uttara Kanda,65,7,प्रतिगृह्य तदा पूजां फलमूलं च भोजनम् । भक्षयामास काकुत्स्थस्तृप्तिं च परमां गतः ।। 7.65.7 ।। Uttara Kanda,65,8,स भुक्त्वा फलमूलं च महर्षिं तमुवाच ह । इयं यज्ञविभूतिस्ते कस्याश्रमसमीपतः ।। 7.65.8 ।। Uttara Kanda,65,9,तत्तस्य भाषितं श्रुत्वा वाल्मीकिर्वाक्यमब्रवीत् । शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा ।। 7.65.9 ।। Uttara Kanda,65,10,युष्माकं पूर्वको राजा सौदासस्तस्य भूपतेः । पुत्रो वीरसहो नाम वीर्यवानतिधार्मिकः ।। 7.65.10 ।। Uttara Kanda,65,11,स बाल एव सौदासो मृगयामुपचक्रमे । चञ्चूर्यमाणं ददृशे स शूरो राक्षसद्वयम् ।। 7.65.11 ।। Uttara Kanda,65,12,शार्दूलरूपिणौ घोरौ मृगान्बहुसहस्रशः । भक्षमाणावसन्तुष्टौ पर्याप्तिं नैव जग्मतुः ।। 7.65.12 ।। Uttara Kanda,65,13,स तु तौ राक्षसौ दृष्ट्वा निर्मृगं च वनं कृतम् । क्रोधेन महता ऽ ऽविष्टो जघानैकं महेषुणा ।। 7.65.13 ।। Uttara Kanda,65,14,विनिपात्य तमेकं तु सौदासः पुरुषर्षभः । विज्वरो विगतामार्षो हतं रक्षो ह्युदैक्षत ।। 7.65.14 ।। Uttara Kanda,65,15,निरीक्षमाणं तं दृष्ट्वा सहायं तस्य रक्षसः । सन्तापमकरोद्घोरं सौदासं चेदमब्रवीत् ।। 7.65.15 ।। Uttara Kanda,65,16,यस्मादनपराधं त्वं सहायं मम जघ्निवान् । तस्मात्तवापि पापिष्ठ प्रदास्यामि प्रतिक्रियाम् ।। 7.65.16 ।। Uttara Kanda,65,17,एवमुक्त्वा तु तद्राक्षस्तत्रैवान्तरधीयत । कालपर्याययोगेन राजा मित्रसहो ऽभवत् ।। 7.65.17 ।। Uttara Kanda,65,18,राजापि यजते यज्ञमस्याश्रमसमीपतः । अश्वमेधं महायज्ञं तं वसिष्ठो ऽभ्यपालयत् ।। 7.65.18 ।। Uttara Kanda,65,19,तत्र यज्ञो महानासीद्बहुवर्षगणायुतः । समृद्धः परया लक्ष्म्या देवयज्ञसमो ऽभवत् ।। 7.65.19 ।। Uttara Kanda,65,20,अथावसाने यज्ञस्य पूर्ववैरमनुस्मरन् । वसिष्ठरूपी राजानमिति होवाच राक्षसः ।। 7.65.20 ।। Uttara Kanda,65,21,अस्य यज्ञस्य जातो ऽन्तः सामिषं भोजनं मम । दीयतामिह शीघ्रं वै नात्र कार्या विचारणा ।। 7.65.21 ।। Uttara Kanda,65,22,तच्छ्रुत्वा व्याहृतं वाक्यं रक्षसा ब्रह्मरूपिणा । भक्ष्यसंस्कारकुशलमुवाच पृथिवीपतिः ।। 7.65.22 ।। Uttara Kanda,65,23,हविष्यं सामिषं स्वादु यथा भवति भोजनम् । तथा कुरुष्व शीघ्रं वै परितुष्येद्यथा गुरुः ।। 7.65.23 ।। Uttara Kanda,65,24,शासनात्पार्थिवेन्द्रस्य सूदः सम्भ्रान्तमानसः । स राक्षसः पुनस्तत्र सूदवेषमथाकरोत् ।। 7.65.24 ।। Uttara Kanda,65,25,स मानुषमथो मांसं पार्थिवाय न्यवेदयत् । इदं स्वादु हविष्यं च सामिषं चान्नमाहृतम् ।। 7.65.25 ।। Uttara Kanda,65,26,स भोजनं वसिष्ठाय पत्न्या सार्धमुपाहरत् । मदयन्त्या नरव्याघ्र सामिषं रक्षसा हृतम् ।। 7.65.26 ।। Uttara Kanda,65,27,ज्ञात्वा तदामिषं विप्रो मानुषं भाजनं गतम् । क्रोधेन महता ऽ ऽविष्टो व्याहर्तुमुपचक्रमे ।। 7.65.27 ।। Uttara Kanda,65,28,यस्मात्त्वं भोजनं राजन्ममैतद्दातुमिच्छसि । तस्माद्भोजनमेतत्ते भविष्यति न संशयः ।। 7.65.28 ।। Uttara Kanda,65,29,ततः क्रुद्धस्तु सौदासस्तोयं जग्राह पाणिना । वसिष्ठं शप्तुमारेभे भार्या चैनमवारयत् ।। 7.65.29 ।। Uttara Kanda,65,30,राजन्प्रभुर्यतो ऽस्माकं वसिष्ठो भगवानृषिः । प्रतिशप्तुं न शक्तस्त्वं देवतुल्यं पुरोधसम् ।। 7.65.30 ।। Uttara Kanda,65,31,ततः क्रोधमयं तोयं तेजोबलसमन्वितम् । व्यसर्जयत धर्मात्मा ततः पादौ सिषेच च ।। 7.65.31 ।। Uttara Kanda,65,32,तेनास्य राज्ञस्तौ पादौ तदा कल्माषतां गतौ । तदाप्रभृति राजा ऽसौ सौदासः सुमहायशाः । कल्माषपादः संवृत्तः ख्यातश्चैव तथा नृपः ।। 7.65.32 ।। Uttara Kanda,65,33,स राजा सह पत्न्या वै प्रणिपत्य मुहुर्मुहुः । पुनर्वसिष्ठं प्रोवाच यदुक्तं ब्रह्मरूपिणा ।। 7.65.33 ।। Uttara Kanda,65,34,तच्छ्रुत्वा पार्थिवेन्द्रस्य रक्षसा विकृतं च तत् । पुनः प्रोवाच राजानं वसिष्ठः पुरुषर्षभम् ।। 7.65.34 ।। Uttara Kanda,65,35,मया रोषपरीतेन यदिदं व्याहृतं वचः । नैतच्छक्यं वृथा कर्तुं प्रदास्यामि च ते वरम् ।। 7.65.35 ।। Uttara Kanda,65,36,कालो द्वादश वर्षाणि शापस्यान्तो भविष्यति । मत्प्रासादाच्च राजेन्द्र व्यतीतं न स्मरिष्यसि ।। 7.65.36 ।। Uttara Kanda,65,37,एवं स राजा तं शापमुपभुज्यारिसूदनः । प्रतिलेभे पुना राज्यं प्रजाश्चैवान्वपालयत् ।। 7.65.37 ।। Uttara Kanda,65,38,तस्य कल्माषपादस्य यज्ञस्यायतनं शुभम् । आश्रमस्य समीपे ऽस्य यन्मां पृच्छसि राघव ।। 7.65.38 ।। Uttara Kanda,65,39,तस्य तां पार्थिवेन्द्रस्य कथां श्रुत्वा सुदारुणाम् । विवेश पर्णशालायां महर्षिमभिवाद्य च ।। 7.65.39 ।। Uttara Kanda,65,40,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चषष्टितमः सर्गः ।। 65 ।। Uttara Kanda,66,1,यामेव रात्रिं शत्रुघ्नः पर्णशालामुपाविशत् । तामेव रात्रिं सीतापि प्रसूता दारकद्वयम् ।। 7.66.1 ।। Uttara Kanda,66,2,ततो ऽर्धरात्रसमये बालका मुनिदारकाः । वाल्मीकेः प्रियमाचख्युः सीतायाः प्रसवं शुभम् ।। 7.66.2 ।। Uttara Kanda,66,3,भगवन्रामपत्नी सा प्रसूता दारकद्वयम् । ततो रक्षां महातेजः कुरु भूतविनाशिनीम् ।। 7.66.3 ।। Uttara Kanda,66,4,तेषां तद्वचनं श्रुत्वा महर्षिः समुपागमत् । बालचन्द्रप्रतीकाशौ देवपुत्रौ महौजसौ ।। 7.66.4 ।। Uttara Kanda,66,5,जगाम तत्र हृष्टात्मा ददर्श च कुमारकौ । भूतघ्नीं चाकरोत्ताभ्यां रक्षां रक्षोविनाशिनीम् ।। 7.66.5 ।। Uttara Kanda,66,6,कुशमुष्टिमुपादाय लवं चैव तु स द्विजः । वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम् ।। 7.66.6 ।। Uttara Kanda,66,7,यस्तयोः पूर्वजो जातः स कुशैर्मन्त्रसत्कृतैः । निर्मार्जनीयस्तु तदा कुश इत्यस्य नाम तत् ।। 7.66.7 ।। Uttara Kanda,66,8,यश्चावरो भवेत्ताभ्यां लवेन स समाहितः । निर्मार्जनीयो वृद्धाभिर्लव इत्येव नामतः ।। 7.66.8 ।। Uttara Kanda,66,9,एवं कुशलवौ नाम्ना तावुभौ यमजातकौ । मत्कृताभ्यां च नामभ्यां ख्यातियुक्तौ भविष्यतः ।। 7.66.9 ।। Uttara Kanda,66,10,तां रक्षां जगृहुस्ताश्च मुनिहस्तात्समाहिताः । अकुर्वंश्च ततो रक्षां तयोर्विगतकल्मषाः ।। 7.66.10 ।। Uttara Kanda,66,11,तथा तां क्रियमाणां च वृद्धाभिर्जन्म नाम च । सङ्कीर्तनं च रामस्य सीतायाः प्रसवौ शुभौ ।। 7.66.11 ।। Uttara Kanda,66,12,अर्धरात्रे तु शत्रुघ्नः शुश्राव सुमहत्प्रियम् । पर्णशालां ततो गत्वा मातर्दिष्ट्येति चाब्रवीत् ।। 7.66.12 ।। Uttara Kanda,66,13,तथा तस्य प्रहृष्टस्य शत्रुघ्नस्य महात्मनः । व्यतीता वार्षिकी रात्रिः श्रावणी लघुविक्रमः ।। 7.66.13 ।। Uttara Kanda,66,14,प्रभाते सुमहावीर्यः कृत्वा पौर्वाह्णिकीं क्रियाम् । मुनिं प्राञ्जलिरामन्त्र्य ययौ पश्चान्मुखः पुनः ।। 7.66.14 ।। Uttara Kanda,66,15,स गत्वा यमुनातीरं सप्तरात्रोषितः पथि । ऋषीणां पुण्यकीर्तीनामाश्रमे वासमभ्ययात् ।। 7.66.15 ।। Uttara Kanda,66,16,स तत्र मुनिभिः सार्धं भार्गवप्रमुखैर्नृपः । कथाभिरभिरूपाभिर्वासं चक्रे महायशाः ।। 7.66.16 ।। Uttara Kanda,66,17,स काञ्चनाद्यैर्मुनिभिः समेतो रघुप्रवीरो रजनीं तदानीम् । कथाप्रकारैर्बहुभिर्महात्मा विरामयामास नरेन्द्रसूनुः ।। 7.66.17 ।। Uttara Kanda,66,18,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षट्षष्टितमः सर्गः ।। 66 ।। Uttara Kanda,67,1,अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम् । पप्रच्छ च्यवनं विप्रं लवणस्य यथा बलम् ।। 7.67.1 ।। Uttara Kanda,67,2,शूलस्य च बलं ब्रह्मन्के च पूर्वं विनाशिताः । अनेन शूलमुख्येन द्वन्द्वयुद्धमुपागताः ।। 7.67.2 ।। Uttara Kanda,67,3,तस्य तद्वचनं श्रुत्वा शत्रुघ्नस्य महात्मनः । प्रत्युवाच महातेजाश्च्यवनो रघुनन्दनम् ।। 7.67.3 ।। Uttara Kanda,67,4,असङ्ख्येयानि कर्माणि यान्यस्य रघुनन्दन । इक्ष्वाकुवंशप्रभवे यद्वृत्तं तच्छृणष्व मे ।। 7.67.4 ।। Uttara Kanda,67,5,अयोध्यायां पुरा राजा युवनाश्वसुतो बली । मान्धातेति स विख्यातस्त्रिषु लोकेषु वीर्यवान् ।। 7.67.5 ।। Uttara Kanda,67,6,स कृत्वा पृथिवीं कृत्स्नां शासने पृथिवीपतिः । सुरलोकमितो जेतुमुद्योगमकरोन्नृपः ।। 7.67.6 ।। Uttara Kanda,67,7,इन्द्रस्य च भयं तीव्रं सुराणां च महात्मनाम् । मान्धातरि कृतोद्योगे देवलोकजिगीषया ।। 7.67.7 ।। Uttara Kanda,67,8,अर्धासनेन शक्रस्य राज्यार्धेन च पार्थिवः । वन्द्यमानः सुरगणैः प्रतिज्ञामध्यरोहत ।। 7.67.8 ।। Uttara Kanda,67,9,तस्य पापमभिप्रायं विदित्वा पाकशासनः । सान्त्वपूर्वमिदं वाक्यमुवाच युवनाश्वजम् ।। 7.67.9 ।। Uttara Kanda,67,10,राजा त्वं मानुषे लोके न तावत्पुरुषर्षभ । अकृत्वा पृथिवीं वश्यां देवराज्यमिहेच्छसि ।। 7.67.10 ।। Uttara Kanda,67,11,यदि वीर समग्रा ते मेदिनी निखिला वशे । देवराज्यं कुरुष्वेह सभृत्यबलवाहनः ।। 7.67.11 ।। Uttara Kanda,67,12,इन्द्रमेवं ब्रुवाणं तं मान्धाता वाक्यमब्रवीत् । क्व मे शक्र प्रतिहतं शासनं पृथिवीतले ।। 7.67.12 ।। Uttara Kanda,67,13,तमुवाच सहस्राक्षो लवणो नाम राक्षसः । मधुपुत्रो मधुवने न ते ऽ ऽज्ञां कुरुते ऽनघ ।। 7.67.13 ।। Uttara Kanda,67,14,तच्छ्रुत्वा विप्रियं घोरं सहस्राक्षेण भाषितम् । व्रीडितो ऽवाङ्मुखो राजा व्याहर्तुं न शशाक ह ।। 7.67.14 ।। Uttara Kanda,67,15,आमन्त्र्य तु सहस्राक्षं ह्रिया किञ्चिदवाङ्मुखः । पुनरेवागमच्छ्रीमानिमं लोकं नरेश्वरः ।। 7.67.15 ।। Uttara Kanda,67,16,स कृत्वा हृदये ऽमर्षं सभृत्यबलवाहनः । आजगाम मधोः पुत्रं वशे कर्तुमरिन्दमः ।। 7.67.16 ।। Uttara Kanda,67,17,स काङ्क्षमाणो लवणं युद्धाय पुरुषर्षभः । दूतं सम्प्रेषयामास सकाशं लवणस्य हि ।। 7.67.17 ।। Uttara Kanda,67,18,स गत्वा विप्रियाण्याह बहूनि मधुनः सुतम् । वदन्तमेवं तं दूतं भक्षयामास राक्षसः ।। 7.67.18 ।। Uttara Kanda,67,19,चिरायमाणे दूते तु राजा क्रोधसमन्वितः । अर्दयामास तद्रक्षः शरवृष्ट्या समन्ततः ।। 7.67.19 ।। Uttara Kanda,67,20,ततः प्रहस्य तद्रक्षः शूलं जग्राह पाणिना । वधाय सानुबन्धस्य मुमोचायुधमुत्तमम् ।। 7.67.20 ।। Uttara Kanda,67,21,तच्छूलं दीप्यमानं तु सभृत्यबलवाहनम् । भस्मीकृत्वा नृपं भूयो लवणस्यागमत्करम् ।। 7.67.21 ।। Uttara Kanda,67,22,एवं स राजा सुमहान्हतः सबलवाहनः । शूलस्य तु बलं सौम्य अप्रमेयमनुत्तमम् ।। 7.67.22 ।। Uttara Kanda,67,23,श्वः प्रभाते तु लवणं वधिष्यसि न संशयः । अगृहीतायुधं क्षिप्रं ध्रुवो हि विजयस्तव ।। 7.67.23 ।। Uttara Kanda,67,24,लोकानां स्वस्ति चैव स्यात्कृते कर्मणि च त्वया । एतत्ते सर्वमाख्यातं लवणस्य दुरात्मनः ।। 7.67.24 ।। Uttara Kanda,67,25,शूलस्य च बलं घोरमप्रमेयं नरर्षभ । विनाशश्चैव मान्धातुर्यत्तेनाभूच्च पार्थिव ।। 7.67.25 ।। Uttara Kanda,67,26,त्वं श्वः प्रभाते लवणं महात्मन्वधिष्यसे नात्र तु संशयो मे । शूलं विना निर्गतमामिषार्थे ध्रुवो जयस्ते भविता नरेन्द्र ।। 7.67.26 ।। Uttara Kanda,67,27,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तषष्टितमः सर्गः ।। 67 ।। Uttara Kanda,68,1,कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम् । व्यतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः ।। 7.68.1 ।। Uttara Kanda,68,2,ततः प्रभाते विमले तस्मिन्काले स राक्षसः । निर्गतस्तु पुराद्धीरो भक्ष्याहारप्रचोदितः ।। 7.68.2 ।। Uttara Kanda,68,3,एतस्मिन्नन्तरे वीरः शत्रुघ्नो यमुनां नदीम् । तीर्त्वा मधुपुरद्वारि धनुष्पाणिरतिष्ठत ।। 7.68.3 ।। Uttara Kanda,68,4,ततो ऽर्धदिवसे प्राप्ते क्रूरकर्मा स राक्षसः । आगच्छद्बहुसाहस्रं प्राणिनां भारमुद्वहन् ।। 7.68.4 ।। Uttara Kanda,68,5,ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम् । तमुवाच ततो रक्षः किमनेन करिष्यसि ।। 7.68.5 ।। Uttara Kanda,68,6,ईदृशानां सहस्राणि सायुधानां नराधम । भक्षितानि मया रोषात्कालमाकाङ्क्षसे नु किम् ।। 7.68.6 ।। Uttara Kanda,68,7,आहारश्चास्य सम्पूर्णो ममायं पुरुषाधम । स्वयं प्रविष्टो ऽद्य मुखं कथमासाद्य दुर्मते ।। 7.68.7 ।। Uttara Kanda,68,8,तस्यैवं भाषमाणस्य हसतश्च मुहुर्मुहुः । शत्रुघ्नो वीर्यसम्पन्नो रोषादश्रूण्यवासृजत् ।। 7.68.8 ।। Uttara Kanda,68,9,तस्य रोषाभिभूतस्य शत्रुघ्नस्य महात्मनः । तेजोमया मरीच्यस्तु सर्वगात्रैर्विनिष्पतन् ।। 7.68.9 ।। Uttara Kanda,68,10,उवाच च सुसङ्क्रुद्धः शत्रुघ्नस्तं निशाचरम् । योद्धुमिच्छामि दुर्बुद्धे द्वन्द्वयुद्धं त्वया सह ।। 7.68.10 ।। Uttara Kanda,68,11,पुत्रो दशरथस्याहं भ्राता रामस्य धीमतः । शत्रुघ्नो नित्यशत्रुघ्नो वधाकाङ्क्षी तवागतः ।। 7.68.11 ।। Uttara Kanda,68,12,तस्य मे युद्धकामस्य द्वन्द्वयुद्धं प्रदीयताम् । शत्रुस्त्वं सर्वभूतानां न मे जीवन्गमिष्यसि ।। 7.68.12 ।। Uttara Kanda,68,13,तस्मिंस्तथा ब्रुवाणे तु राक्षसः प्रहसन्निव । प्रत्युवाच नरश्रेष्ठं दिष्ट्या प्राप्तो ऽसि दुर्मते ।। 7.68.13 ।। Uttara Kanda,68,14,मम मातृष्वसुर्भ्राता रावणो राक्षसाधिपः । हतो रामेण दुर्बुद्धे स्त्रीहेतोः पुरुषाधम ।। 7.68.14 ।। Uttara Kanda,68,15,तच्च सर्वं मया क्षान्तं रावणस्य कुलक्षयम् । अवज्ञां पुरतः कृत्वा मया यूयं विशेषतः ।। 7.68.15 ।। Uttara Kanda,68,16,निहताश्च हि मे सर्वे परिभूतास्तृणं यथा । भूताश्चैव भविष्याश्च यूयं च पुरुषाधमाः ।। 7.68.16 ।। Uttara Kanda,68,17,तस्य ते युद्धकामस्य युद्धं दास्यामि दुर्मते । तिष्ठं त्वं च मुहूर्तं तु यावदायुधमानये । ईप्सितं यादृशं तुभ्यं सज्जये यावदायुधम् ।। 7.68.17 ।। Uttara Kanda,68,18,तमुवाचाशु शत्रुघ्नः क्व मे जीवन्गमिष्यसि । शत्रुर्यदृच्छया दृष्टो न मोक्तव्यः कृतात्मना ।। 7.68.18 ।। Uttara Kanda,68,19,यो हि विक्लवया बुद्ध्या प्रसरं शत्रवे ददौ । स हतो मन्दबुद्धित्वाद्यथा कापुरुषस्तथा ।। 7.68.19 ।। Uttara Kanda,68,20,तस्मात्सुदृष्टं कुरु जीवलोकं शरैः शितैस्त्वां विविधैर्नयामि । यमस्य गेहाभिमुखं हि पापं रिपुं त्रिलोकस्य च राघवस्य ।। 7.68.20 ।। Uttara Kanda,68,21,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टषष्टितमः सर्गः ।। 68 ।। Uttara Kanda,69,1,तच्छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः । क्रोधामाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ।। 7.69.1 ।। Uttara Kanda,69,2,पाणौ पाणिं विनिष्पिष्य दन्तान्कटकटाय्य च । लवणो रघुशार्दूलमाह्वयामास चासकृत् ।। 7.69.2 ।। Uttara Kanda,69,3,तं ब्रुवाणं तथा वाक्यं लवणं घोरदर्शनम् । शत्रुघ्नो देवशत्रुघ्न इदं वचनमब्रवीत् ।। 7.69.3 ।। Uttara Kanda,69,4,न शत्रुघ्नस्तथा जातो यथा ऽन्ये निर्जितास्त्वया । तदद्य बाणाभिहतो व्रज त्वं यमसादनम् ।। 7.69.4 ।। Uttara Kanda,69,5,ऋषयो ऽप्यद्य पापात्मन्मया त्वां निहतं रणे । पश्यन्तु विप्रा विद्वांसस्त्रिदशा इव रावणम् ।। 7.69.5 ।। Uttara Kanda,69,6,त्वयि मद्बाणनिर्दग्धे पतिते ऽद्य निशाचर । पुरे जनपदे चापि क्षेममेव भविष्यति ।। 7.69.6 ।। Uttara Kanda,69,7,अद्य मद्बाहुनिष्क्रान्तः शरो वज्रनिभाननः । प्रवेक्ष्यते ते हृदयं पद्ममंशुरिवार्कजः ।। 7.69.7 ।। Uttara Kanda,69,8,एवमुक्तो महावृक्षं लवणः क्रोधमूर्च्छितः । शत्रुघ्नोरसि चिक्षेप स च तं शतधाच्छिनत् ।। 7.69.8 ।। Uttara Kanda,69,9,तद्दृष्ट्वा विफलं कर्म राक्षसः पुनरेव तु । पादपान्सुबहून्गृह्य शत्रुघ्नायासृजद्बली ।। 7.69.9 ।। Uttara Kanda,69,10,शत्रुघ्नश्चापि तेजस्वी वृक्षानापततो बहून् । त्रिभिश्चतुर्भिरेकैकं चिच्छेद नतपर्वभिः ।। 7.69.10 ।। Uttara Kanda,69,11,ततो बाणमयं वर्षं व्यसृजद्राक्षसोरसि । शत्रुघ्नो वीर्यसम्पन्नो विव्यथे न स राक्षसः ।। 7.69.11 ।। Uttara Kanda,69,12,ततः प्रहस्य लवणो वृक्षमुद्यम्य वीर्यवान् । शिरस्यभ्यहनच्छूरं स्रस्ताङ्गः स मुमोह वै ।। 7.69.12 ।। Uttara Kanda,69,13,तस्मिन्निपतिते वीरे हाहाकारो महानभूत् । ऋषीणां देवसङ्घानां गन्धर्वाप्सरसां तथा ।। 7.69.13 ।। Uttara Kanda,69,14,तमवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम् । रक्षो लब्धान्तरमपि न विवेश स्वमालयम् ।। 7.69.14 ।। Uttara Kanda,69,15,नापि शूलं प्रजग्राह तं दृष्ट्वा भुवि पातितम् । ततो हत इति ज्ञात्वा तान्भक्षान्समुदावहत् ।। 7.69.15 ।। Uttara Kanda,69,16,मुहूर्ताल्लब्धसञ्ज्ञस्तु पुनस्तस्थौ धृतायुधः । शत्रुघ्नो वै पुरद्वारि ऋषिभिः सम्प्रपूजितः ।। 7.69.16 ।। Uttara Kanda,69,17,ततो दिव्यममोघं तं जग्राह शरमुत्तमम् । ज्वलन्तं तेजसा घोरं पूरयन्तं दिशो दश ।। 7.69.17 ।। Uttara Kanda,69,18,वज्राननं वज्रवेगं मेरुमन्दरसन्निभम् । नतं पर्वसु सर्वेषु संयुगेष्वपराजितम् ।। 7.69.18 ।। Uttara Kanda,69,19,असृक्चन्दनदिग्धाङ्गं चारुपत्रं पतत्रिणम् । दानवेन्द्राचलेन्द्राणामसुराणां च दारणम् ।। 7.69.19 ।। Uttara Kanda,69,20,तं दीप्तमिव कालाग्निं युगान्ते समुपस्थिते । दृष्ट्वा सर्वाणि भूतानि परित्रासमुपागमन् ।। 7.69.20 ।। Uttara Kanda,69,21,सदेवासुरगन्धर्वं मुनिभिः साप्सरोगणम् । जगद्धि सर्वमस्वस्थं पितामहमुपस्थितम् ।। 7.69.21 ।। Uttara Kanda,69,22,उवाच देवदेवेशं वरदं प्रपितामहम् । देवानां भयसंमोहो लोकानां सङ्क्षयं प्रति ।। 7.69.22 ।। Uttara Kanda,69,23,नेदृशं दृष्टपूर्वं च न श्रुतं प्रपितामह । देवानां भयसम्मोहो लोकानां सङ्क्षयं प्रति ।। 7.69.23 ।। Uttara Kanda,69,24,तेषां तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः । भयकारणमाचष्ट लोकानामभयङ्करः । उवाच मधुरां वाणीं शृणुध्वं सर्वदेवताः ।। 7.69.24 ।। Uttara Kanda,69,25,वधाय लवणस्याजौ शरः शत्रुघ्नधारितः । तेजसा तस्य सम्मूढाः सर्वे स्मः सुरसत्तमाः ।। 7.69.25 ।। Uttara Kanda,69,26,एष पूर्वस्य देवस्य लोककर्तुः सनातनः । शरस्तेजोमयो वत्सा येन वै भयमागतम् ।। 7.69.26 ।। Uttara Kanda,69,27,एष वै कैटभस्यार्थे मधुनश्च महाशरः । सृष्टो महात्मना तेन वधार्थे दैत्ययोस्तयोः ।। 7.69.27 ।। Uttara Kanda,69,28,एक एव प्रजानाति विष्णुस्तेजोमयं शरम् । एषा एव तनुः पूर्वा विष्णोस्तस्य महात्मनः ।। 7.69.28 ।। Uttara Kanda,69,29,इतो गच्छत पश्यध्वं वध्यमानं महात्मना । रामानुजेन वीरेण लवणं राक्षसोत्तमम् ।। 7.69.29 ।। Uttara Kanda,69,30,तस्य ते देवदेवस्य निशम्य वचनं सुराः । आजग्मुर्यत्र युध्येते शत्रुघ्नलवणावुभौ ।। 7.69.30 ।। Uttara Kanda,69,31,तं शरं दिव्यसङ्काशं शत्रुघ्नकरधारितम् । ददृशुः सर्वभूतानि युगान्ताग्निमिवोत्थितम् ।। 7.69.31 ।। Uttara Kanda,69,32,अकाशमावृतं दृष्ट्वा देवैर्हि रघुनन्दनः । सिंहनादं भृशं कृत्वा ददर्श लक्षणं पुनः ।। 7.69.32 ।। Uttara Kanda,69,33,आहूतश्च पुनस्तेन शत्रुघ्नेन महात्मना । लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः ।। 7.69.33 ।। Uttara Kanda,69,34,आकर्णात्स विकृष्याथ तद्धनुर्धन्विनां वरः । तं मुमोच महाबाणं लवणस्य महोरसि ।। 7.69.34 ।। Uttara Kanda,69,35,उरस्तस्य विदार्याशु प्रविवेश रसातलम् ।। 7.69.35 ।। Uttara Kanda,69,36,गत्वा रसातलं दिव्यः शरो विबुधपूजितः । पुनरेवागमत्तूर्णमिक्ष्वाकुकुलनन्दनम् ।। 7.69.36 ।। Uttara Kanda,69,37,शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः । पपात सहसा भूमौ वज्राहत इवाचलः ।। 7.69.37 ।। Uttara Kanda,69,38,तच्च शूलं महत्तेन हते लवणराक्षसे । पश्यतां सर्वदेवानां रुद्रस्य वशमन्वगात् ।। 7.69.38 ।। Uttara Kanda,69,39,एकेषुपातेन भृशं निपात्य लोकत्रयस्यापि रघुप्रवीरः । विनिर्बभावुत्तमचापबाणस्तमः प्रणुद्येव सहस्ररश्मिः ।। 7.69.39 ।। Uttara Kanda,69,40,ततो हि देवा ऋषिपन्नगाश्च प्रपूजिरे ह्यप्सरसश्च सर्वाः । दिष्ट्या जयो दाशरथेरवाप्तस्त्यक्त्वा भयं सर्प इव प्रशान्तः ।। 7.69.40 ।। Uttara Kanda,69,41,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनसप्ततितमः सर्गः ।। 69 ।। Uttara Kanda,70,1,हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः । ऊचुः सुमधुरां वाणीं शत्रुघ्नं शत्रुतापनम् ।। 7.70.1 ।। Uttara Kanda,70,2,दिष्ट्या ते विजयो वत्स दिष्ट्या लवणराक्षसः । हतः पुरुषशार्दूल वरं वरय सुव्रत ।। 7.70.2 ।। Uttara Kanda,70,3,वरदास्तु महाबाहो सर्व एव समागताः । विजयाकाङ्क्षिणस्तुभ्यममोघं दर्शनं हि नः ।। 7.70.3 ।। Uttara Kanda,70,4,देवानां भाषितं श्रुत्वा शूरो मूर्ध्नि कृताञ्जलिः । प्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान् ।। 7.70.4 ।। Uttara Kanda,70,5,इयं मधुपुरी रस्या मधुरा देवनिर्मिता । निवेशं प्राप्नुयाच्छीघ्रमेष मे ऽस्तु वरः परः ।। 7.70.5 ।। Uttara Kanda,70,6,तं देवाः प्रीतमनसो बाढमित्येव राघवम् । भविष्यति पुरी रम्या शूरसेना न संशयः ।। 7.70.6 ।। Uttara Kanda,70,7,ते तथोक्त्वा महात्मानो दिवमारुरुहुस्तदा । शत्रुघ्नो ऽपि महातेजास्तां सेनां समुपानयत् ।। 7.70.7 ।। Uttara Kanda,70,8,सा सेना शीघ्रमागच्छच्छ्रुत्वा शत्रुघ्नशासनम् । निवेशनं च शत्रुघ्नः श्रावणेन समारभत् ।। 7.70.8 ।। Uttara Kanda,70,9,सा पुरा दिव्यसङ्काशा वर्षे द्वादशमे शुभे । निविष्टा शूरसेनानां विषयश्चाकुतोभयः ।। 7.70.9 ।। Uttara Kanda,70,10,क्षेत्राणि सस्ययुक्तानि काले वर्षति वासवः । अरोगवीरपुरुषा शत्रुघ्नभुजपालिता ।। 7.70.10 ।। Uttara Kanda,70,11,अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता । शोभिता गृहमुख्यैश्च चत्वरापणवीथिकैः । चातुर्वर्ण्यसमायुक्ता नानावाणिज्यशोभिता ।। 7.70.11 ।। Uttara Kanda,70,12,यच्च तेन पुरा शुभ्रं लवणेन कृतं महत् । तच्छोभयति शत्रुघ्नो नानावर्णोपशोभिताम् ।। 7.70.12 ।। Uttara Kanda,70,13,आरामैश्च विहारैश्च शोभमानं समन्ततः । शोभितां शोभनीयैश्च तथा ऽन्यैर्दैवमानुषैः ।। 7.70.13 ।। Uttara Kanda,70,14,तां पुरीं दिव्यसङ्काशां नानापण्योपशोभिताम् । नानादेशागतैश्चापि वणिग्भिरुपशोभिताम् ।। 7.70.14 ।। Uttara Kanda,70,15,तां समृद्धां समृद्धार्थः शत्रुघ्नो भरतानुजः । निरीक्ष्य परमप्रीतः परं हर्षमुपागमत् ।। 7.70.15 ।। Uttara Kanda,70,16,तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम् । रामपादौ निरीक्षे ऽहं वर्षे द्वादश आगते ।। 7.70.16 ।। Uttara Kanda,70,17,ततः स ताममरपुरोपमां पुरीं निवेश्य वै विविधजनाभिसंवृताम् । नराधिपो रघुपतिपाददर्शने दधे मतिं रघुकुलवंशवर्धनः ।। 7.70.17 ।। Uttara Kanda,70,18,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्ततितमः सर्गः ।। 70 ।। Uttara Kanda,71,1,ततो द्वादशमे वर्षे शत्रघ्नो रामपालिताम् । अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः ।। 7.71.1 ।। Uttara Kanda,71,2,ततो मन्त्रिपुरोगांश्च बलमुख्यान्निवर्त्य च । जगाम हयमुख्यैश्च रथानां च शतेन सः ।। 7.71.2 ।। Uttara Kanda,71,3,स गत्वा गणितान्वासान्सप्ताष्टौ रघुनन्दनः । वाल्मीक्याश्रममागत्य वासं चक्रे महायशाः ।। 7.71.3 ।। Uttara Kanda,71,4,सो ऽभिवाद्य ततः पादौ वाल्मीकेः पुरुषर्षभः । पाद्यमर्ध्यं तथातिथ्यं जग्राह मुनिहस्ततः ।। 7.71.4 ।। Uttara Kanda,71,5,बहुरूपाः सुमधुराः कथास्तत्र सहस्रशः । कथयामास स मुनिः शत्रुघ्नाय महात्मने ।। 7.71.5 ।। Uttara Kanda,71,6,उवाच च मुनिर्वाक्यं लवणस्य वधाश्रितम् । सुदुष्करं कृतं कर्म लवणं निघ्नता त्वया ।। 7.71.6 ।। Uttara Kanda,71,7,बहवः पार्थिवाः सौम्य हताः सबलवाहनाः । लवणेन महाबाहो युध्यमाना महाबलाः ।। 7.71.7 ।। Uttara Kanda,71,8,स त्वया निहतः पापो लीलया पुरुषर्षभ । जगतश्च भयं तत्र प्रशान्तं तव तेजसा ।। 7.71.8 ।। Uttara Kanda,71,9,रावणस्य वधो घोरो यत्नेन महता कृतः । इदं तु सुमहत्कर्म त्वया कृतमयत्नतः ।। 7.71.9 ।। Uttara Kanda,71,10,प्रीतिश्चास्मिन्परा जाता देवानां लवणे हते । भूतानां चैव सर्वेषां जगतश्च प्रियं कृतम् ।। 7.71.10 ।। Uttara Kanda,71,11,तच्च युद्धं मया दृष्टं यथावत्पुरुषर्षभ । सभायां वासवस्याथ उपविष्टेन राघव ।। 7.71.11 ।। Uttara Kanda,71,12,ममापि परमा प्रीतिर्हृदि शत्रुघ्न वर्तते । उपाघ्रास्यामि ते मूर्ध्नि स्नेहस्यैषा परा गतिः ।। 7.71.12 ।। Uttara Kanda,71,13,इत्युक्त्वा मूर्ध्नि शत्रुघ्नमुपाघ्राय महामुनिः । आतिथ्यमकरोत्तस्य ये च तस्य पदानुगाः ।। 7.71.13 ।। Uttara Kanda,71,14,स भुक्तवान्नरश्रेष्ठो गीतमाधुर्यमुत्तमम् । शुश्राव रामचरितं तस्मिन्काले यथाकृमम् ।। 7.71.14 ।। Uttara Kanda,71,15,तन्त्रीलयसमायुक्तं त्रिस्थानकरणान्वितम् । संस्कृतं लक्षणोपेतं समतालसमन्वितम् । शुश्राव रामचरितं तस्मिन्काले पुरा कृतम् ।। 7.71.15 ।। Uttara Kanda,71,16,तान्यक्षराणि सत्यानि यथावृत्तानि पूर्वशः । श्रुत्वा पुरुषशार्दूलो विसञ्ज्ञो बाष्पलोचनः ।। 7.71.16 ।। Uttara Kanda,71,17,स मुहूर्तमिवासञ्ज्ञो विनिःश्वस्य मुहुर्मुहुः । तस्मिन् गीते यथावृत्तं वर्तमानमिवाशृणोत् ।। 7.71.17 ।। Uttara Kanda,71,18,पदानुगाश्च ये राज्ञस्तां श्रुत्वा गीतिसम्पदम् । अवाङ्मुखाश्च दीनाश्च ह्याश्चर्यमिति चाब्रुवन् ।। 7.71.18 ।। Uttara Kanda,71,19,परस्परं च ये तत्र सैनिकाः सम्बभाषिरे । किमिदं क्व च वर्तामः किमेतत्स्वप्नदर्शनम् ।। 7.71.19 ।। Uttara Kanda,71,20,अर्थो यो नः पुरा दृष्टस्तमाश्रमपदे पुनः । शृणुमः किमिदं स्वप्नो गीतबन्धं श्रियो भवेत् ।। 7.71.20 ।। Uttara Kanda,71,21,विस्मयं ते परं गत्वा शत्रुघ्नमिदमब्रुवन् । साधु पृच्छ नरश्रेष्ठ वाल्मीकिं मुनिपुङ्गवम् ।। 7.71.21 ।। Uttara Kanda,71,22,शत्रुघ्नस्त्वब्रवीत्सर्वान्कौतूहलसमन्वितान् । सैनिका न क्षमो ऽस्माकं परिप्रष्टुमिहेदृशः ।। 7.71.22 ।। Uttara Kanda,71,23,आश्चर्याणि बहूनीह भवन्त्यस्याश्रमे मुनेः । न तु कौतूहलाद्युक्तमन्वेष्टुं तं महामुनिम् ।। 7.71.23 ।। Uttara Kanda,71,24,एवं तद्वाक्यमुक्त्वा च सैनिकान्रघुनन्दनः । अभिवाद्य महर्षिं तं स्वं निवेशं ययौ तदा ।। 7.71.24 ।। Uttara Kanda,71,25,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकसप्ततिमः सर्गः ।। 71 ।। Uttara Kanda,72,1,तं शयानं नरव्याघ्रं निद्रा नाभ्यागमत्तदा । चिन्तयन्तमनेकार्थं रामगीतमनुत्तमम् ।। 7.72.1 ।। Uttara Kanda,72,2,तस्य शब्दं सुमधुरं तन्त्रीलयसमन्वितम् । श्रुत्वा रात्रिर्जगामाशु शत्रुघ्नस्य महात्मनः ।। 7.72.2 ।। Uttara Kanda,72,3,तस्यां निशायां व्युष्टायां कृत्वा पौर्वाह्णिकं क्रमम् । उवाच प्राञ्जलिर्वाक्यं शत्रुघ्नो मुनिपुङ्गवम् ।। 7.72.3 ।। Uttara Kanda,72,4,भगवन्द्रष्टुमिच्छामि राघवं रघुनन्दनम् । त्वया ऽनुज्ञातुमिच्छामि सहैभिः संशितव्रतैः ।। 7.72.4 ।। Uttara Kanda,72,5,इत्येवंवादिनं तं तु शत्रुघ्नं शत्रुतापनम् । वाल्मीकिः सम्परिष्वज्य विससर्ज च राघवम् ।। 7.72.5 ।। Uttara Kanda,72,6,सो ऽभिवाद्य मुनिश्रेष्ठं रथमारुह्य सुप्रभम् । अयोध्यामगमत्तूर्णं राघवोत्सुकदर्शनः ।। 7.72.6 ।। Uttara Kanda,72,7,स प्रविष्टः पुरीं रम्यां श्रीमानिक्ष्वाकुनन्दनः । प्रविवेश महाबाहुर्यत्र रामो महाद्युतिः ।। 7.72.7 ।। Uttara Kanda,72,8,स रामं मन्त्रिमध्यस्थं पूर्णचन्द्रनिभाननम् । पश्यन्नमरमध्यस्थं सहस्रनयनं यथा ।। 7.72.8 ।। Uttara Kanda,72,9,सो ऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा । उवाच प्राञ्जलिर्वाक्यं रामं सत्यपराक्रमम् ।। 7.72.9 ।। Uttara Kanda,72,10,यदाज्ञप्तं महाराज सर्वं तत्कृतवानहम् । हतः स लवणः पापः पुरी चास्य निवेशिता ।। 7.72.10 ।। Uttara Kanda,72,11,द्वादशैते गता वर्षास्त्वां विना रघुनन्दन । नोत्सहेयमहं वस्तुं त्वया विरहितो नृप ।। 7.72.11 ।। Uttara Kanda,72,12,स मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रम । मातृहीनो यथा वत्सो न चिरं प्रवसाम्यहम् ।। 7.72.12 ।। Uttara Kanda,72,13,एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदमब्रवीत् । मा विषादं कृथाः शूर नैतत्क्षत्रियचेष्टितम् ।। 7.72.13 ।। Uttara Kanda,72,14,नावसीदन्ति राजानो विप्रवासेषु राघव । प्रजा नः परिपाल्या हि क्षत्रधर्मेण राघव ।। 7.72.14 ।। Uttara Kanda,72,15,काले काले तु मां वीर अयोध्यामवलोकितुम् । आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव ।। 7.72.15 ।। Uttara Kanda,72,16,ममापि त्वं सुदयितः प्राणैरपि न संशयः । अवश्यं करणीयं च राज्यस्य परिपालनम् ।। 7.72.16 ।। Uttara Kanda,72,17,तस्मात्त्वं वस काकुत्स्थ सप्तरात्रमिहावस । ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः ।। 7.72.17 ।। Uttara Kanda,72,18,रामस्यैतद्वचः श्रुत्वा धर्मयुक्तं मनोगतम् । शत्रुघ्नो दीनया वाचा बाढमित्येव चाब्रवीत् ।। 7.72.18 ।। Uttara Kanda,72,19,सप्तरात्रं च काकुत्स्थो राघवस्य यथाज्ञया । उष्य तत्र महेष्वासो गमनायोपचक्रमे ।। 7.72.19 ।। Uttara Kanda,72,20,आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम् । भरतं लक्ष्मणं चैव महारथमुपारुहत् ।। 7.72.20 ।। Uttara Kanda,72,21,दूरमाभ्यामनुगतो लक्ष्मणेन महात्मना । भरतेन च शत्रुघ्नो जगामाशु पुरं ततः ।। 7.72.21 ।। Uttara Kanda,72,22,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्विसप्ततितमः सर्गः ।। 72 ।। Uttara Kanda,73,1,प्रस्थाप्य तु स शत्रुघ्नं भ्रातृभ्यां सह राघवः । प्रमुमोद सुखी राज्यं धर्मेण परिपालयन् ।। 7.73.1 ।। Uttara Kanda,73,2,ततः कतिपयाहःसु वृद्धो जानपदो द्विजः । मृतं बालमुपादाय राजद्वारमुपागमत् ।। 7.73.2 ।। Uttara Kanda,73,3,रुदन्बहुविधा वाचः स्नेहदुःखसमन्विताः । असकृत्पुत्र पुत्रेति वाक्यमेतदुवाच ह ।। 7.73.3 ।। Uttara Kanda,73,4,किं नु मे दुष्कृतं कर्म पुरा देहान्तरे कृतम् । यदहं पुत्रमेकं त्वां पश्यामि निधनं गतम् ।। 7.73.4 ।। Uttara Kanda,73,5,अप्राप्तयौवनं बालं पञ्चवर्षसहस्रकम् । अकाले कालमापन्नं मम दुःखाय पुत्रक ।। 7.73.5 ।। Uttara Kanda,73,6,अल्पैरहोभिर्निधनं गमिष्यामि न संशयः । अहं च जननी चैव तव शोकेन पुत्रक ।। 7.73.6 ।। Uttara Kanda,73,7,न स्मराम्यनृतं ह्युक्तं न च हिंसां स्मराम्यहम् । सर्वेषां प्राणिनां पापं कृतं नैव स्मराम्यहम् ।। 7.73.7 ।। Uttara Kanda,73,8,केनाद्य दुष्कृतेनायं बाल एव ममात्मजः । अकृत्वा पितृकार्याणि गतो वैवस्वतक्षयम् ।। 7.73.8 ।। Uttara Kanda,73,9,नेदृशं दृष्टपूर्वं मे श्रुतं वा घोरदर्शनम् । मृत्युरप्राप्तकालानां रामस्य विषये यथा ।। 7.73.9 ।। Uttara Kanda,73,10,रामस्य दुष्कृतं किञ्चिन्महदस्ति न संशयः । यथा हि विषयस्थानां बालानां मृत्युरागतः ।। 7.73.10 ।। Uttara Kanda,73,11,नह्यन्यविषयस्थानां बालानां मृत्युतो भयम् । त्वं राजञ्जीवयस्वैनं बालं मृत्युवशं गतम् ।। 7.73.11 ।। Uttara Kanda,73,12,राजद्वारि मरिष्यामि पत्न्या सार्धमनाथवत् । ब्रह्महत्यां ततो राम समुपेत्य सुखी भव ।। 7.73.12 ।। Uttara Kanda,73,13,भ्रातृभिः सहितो राजन्दीर्घमायुरवाप्स्यसि । उषिताः स्म सुखं राज्ये तवास्मिन्सुमहाबल ।। 7.73.13 ।। Uttara Kanda,73,14,इदं तु पतितं तस्मात्तव राम वशे स्थिताः । कालस्य वशमापन्नाः स्वल्पं हि नहि नः सुखम् ।। 7.73.14 ।। Uttara Kanda,73,15,सम्प्रत्यनाथो विषय इक्ष्वाकूणां महात्मनाम् । रामं नाथमिहासाद्य बालान्तकरणं ध्रुवम् ।। 7.73.15 ।। Uttara Kanda,73,16,राजदोषैर्विपद्यन्ते प्रजा ह्यविधिपालिताः । असद्वृत्ते तु नृपतावकाले म्रियते जनः ।। 7.73.16 ।। Uttara Kanda,73,17,यद्वा पुरेष्वयुक्तानि जना जनपदेषु च । कुर्वते न च रक्षा ऽस्ति तदा कालकृतं भयम् ।। 7.73.17 ।। Uttara Kanda,73,18,सुव्यक्तं राजदोषो हि भविष्यति न संशयः । पुरे जनपदे चापि ततो बालवधो ह्ययम् ।। 7.73.18 ।। Uttara Kanda,73,19,एवं बहुविधैर्वाक्यैरुपरुध्य मुहुर्मुहुः । राजानं दुःखसन्तप्तः सुतं तमुपगूहते ।। 7.73.19 ।। Uttara Kanda,73,20,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिसप्ततितमः सर्गः ।। 73 ।। Uttara Kanda,74,1,तथा तु करुणं तस्य द्विजस्य परिदेवनम् । शुश्राव राघवः सर्वं दुःखशोकसमन्वितम् ।। 7.74.1 ।। Uttara Kanda,74,2,स दुःखेन च सन्तप्तो मन्त्रिणस्तानुपाह्वयत् । वसिष्ठं वामदेवं च भ्रातरौ सह नैगमान् ।। 7.74.2 ।। Uttara Kanda,74,3,ततो द्विजा वसिष्ठेन सार्धमष्टौ प्रवेशिताः । राजानं देवसङ्काशं वर्धस्वेति ततो ऽब्रुवन् ।। 7.74.3 ।। Uttara Kanda,74,4,मार्कण्डेयो ऽथ मौद्गल्यो वामदेवश्च काश्यपः । कात्यायनो ऽथ जाबालिर्गौतमो नारदस्तथा । एते द्विजर्षभाः सर्वे आसनेषूपवेशिताः ।। 7.74.4 ।। Uttara Kanda,74,5,महर्षीन्समनुप्राप्तानभिवाद्य कृताञ्जलिः । मन्त्रिणो नैगमांश्चैव यथार्हमनुकूलतः ।। 7.74.5 ।। Uttara Kanda,74,6,तेषां समुपविष्टानां सर्वेषां दीप्ततेजसाम् । राघवः सर्वमाचष्टे द्विजो ऽयमुपरोधते ।। 7.74.6 ।। Uttara Kanda,74,7,तस्य तद्वचनं श्रुत्वा राज्ञो दीनस्य नारदः । प्रत्युवाच शुभं वाक्यमृषीणां सन्निधौ नृपम् ।। 7.74.7 ।। Uttara Kanda,74,8,शृणु राजन्यथाकाले प्राप्तो बालस्य सङ्क्षयः । श्रुत्वा कर्तव्यतां राजन्कुरुष्वरघुनन्दन ।। 7.74.8 ।। Uttara Kanda,74,9,पुरा कृतयुगे राजन्ब्राह्मणा वै तपस्विनः । अब्राह्मणस्तदा राजन्न तपस्वी कथञ्चन ।। 7.74.9 ।। Uttara Kanda,74,10,तस्मिन्युगे प्रज्वलिते ब्रह्मभूते त्वनावृते । अमृत्यवस्तदा सर्वे जज्ञिरे दीर्घदर्शिनः ।। 7.74.10 ।। Uttara Kanda,74,11,ततस्त्रेतायुगं नाम मानवानां वपुष्मताम् । क्षत्रियास्तत्र जायन्ते पूर्णेन तपसा ऽन्विताः ।। 7.74.11 ।। Uttara Kanda,74,12,वीर्येण तपसा चैव ते ऽधिकाः पूर्वजन्मनि । मानवा ये महात्मानस्त्वत्र त्रेतायुगे युगे ।। 7.74.12 ।। Uttara Kanda,74,13,ब्रह्मक्षत्रं च तत्सर्वं यत्पूर्वमपरं च यत् । युगयोरुभयोरासीत्समवीर्यसमन्वितम् ।। 7.74.13 ।। Uttara Kanda,74,14,अपश्यंस्तु न ते सर्वे विशेषमधिकं ततः । स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य सम्मतम् ।। 7.74.14 ।। Uttara Kanda,74,15,तस्मिन्युगे प्रज्वलिते धर्मभूते ह्यनावृते । अधर्मः पादमेकं तु पातयत्पृथिवीतले ।। 7.74.15 ।। Uttara Kanda,74,16,अधर्मेण हि संयुक्तस्तेजो मन्दं भविष्यति ।। 7.74.16 ।। Uttara Kanda,74,17,आमिषं यच्च पूर्वेषां राजसं च मलं भृशम् । अनृतं नाम तद्भूतं पादेन पृथिवीतले ।। 7.74.17 ।। Uttara Kanda,74,18,अनृतं पातयित्वा तु पादमेकमधर्मतः । ततः प्रादुष्कृतं पूर्वमायुषः परिनिष्ठितम् ।। 7.74.18 ।। Uttara Kanda,74,19,पतिते त्वनृते तस्मिन्नधर्मे च महीतले । शुभान्येवाचरँल्लोकः सत्यधर्मपरायणः ।। 7.74.19 ।। Uttara Kanda,74,20,त्रेतायुगे च वर्तन्ते ब्राह्मणाः क्षत्रियाश्च ये । तपो ऽतप्यन्त ते सर्वे शुश्रूषामपरे जनाः ।। 7.74.20 ।। Uttara Kanda,74,21,स धर्मः परमस्तेषां वैश्यशूद्रं समागमत् । पूजां च सर्ववर्णानां शूद्राश्चक्रुर्विशेषतः ।। 7.74.21 ।। Uttara Kanda,74,22,एतस्मिन्नन्तरे तेषामधर्मे चानृते च ह । ततः पूर्वे भृशं ह्रासमगमन्नृपसत्तम ।। 7.74.22 ।। Uttara Kanda,74,23,ततः पादमधर्मस्स द्वितीयमवतारयत् । ततो द्वापरसञ्ज्ञा ऽस्य युगस्य समजायत ।। 7.74.23 ।। Uttara Kanda,74,24,तस्मिन्द्वापरसञ्ज्ञे तु वर्तमाने युगक्षये । अधर्मश्चानृतं चैव ववृधे पुरुषर्षभ ।। 7.74.24 ।। Uttara Kanda,74,25,तस्मिन्द्वापरसङ्ख्याते तपो वैश्यान्समाविशत् । त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्क्रमाद्वै तप आविशत् ।। 7.74.25 ।। Uttara Kanda,74,26,त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्धर्मश्च परिनिष्ठितः । न शुद्धो लभते धर्मं युगतस्तु नरर्षभ । हीनवर्णो नृपश्रेष्ठ तप्यते सुमहत्तपः ।। 7.74.26 ।। Uttara Kanda,74,27,भविष्यच्छूद्रयोन्यां वै तपश्चर्या कलौ युगे । अधर्मः परमो राजन्द्वापरे शूद्रजन्मनः ।। 7.74.27 ।। Uttara Kanda,74,28,स वै विषयपर्यन्ते तव राजन्महातपाः । अद्य तप्यति दुर्बुद्धिस्तेन बालवधो ह्ययम् ।। 7.74.28 ।। Uttara Kanda,74,29,यो ह्यधर्ममकार्यं वा विषये पार्थिवस्य तु । करोति चाश्रीमूलं तत्पुरे वा दुर्मतिर्नरः । क्षिप्रं च नरकं याति स च राजा न संशयः ।। 7.74.29 ।। Uttara Kanda,74,30,अधीतस्य च तप्तस्य कर्मणः सुकृतस्य च । षष्ठं भजति भागं तु प्रजा धर्मेण पालयन् ।। 7.74.30 ।। Uttara Kanda,74,31,षङ्भागस्य न भोक्ता ऽसौ रक्षते न प्रजाः कथम् ।। 7.74.31 ।। Uttara Kanda,74,32,स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम् । दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर ।। 7.74.32 ।। Uttara Kanda,74,33,एवं चेद्धर्मवृद्धिश्च नृणां चायुर्विवर्धनम् । भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम् ।। 7.74.33 ।। Uttara Kanda,74,34,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुःसप्ततितमः सर्गः ।। 74 ।। Uttara Kanda,75,1,नारदस्य तु तद्वाक्यं श्रुत्वा ऽमृतमयं तदा । प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत् ।। 7.75.1 ।। Uttara Kanda,75,2,गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय सुव्रतम् । बालस्य तु शरीरं तत्तैलद्रोण्यां निधापय ।। 7.75.2 ।। Uttara Kanda,75,3,गन्धैश्च परमोदारैस्तैलैश्चापि सुगन्धिभिः । यथा न क्षीयते बालस्तथा सौम्य विधीयताम् ।। 7.75.3 ।। Uttara Kanda,75,4,यथा शरीरो बालस्य गुप्तः सन् शिष्टकर्मणः । विपत्तिः परिभेदो वा न भवेच्च तथा कुरु ।। 7.75.4 ।। Uttara Kanda,75,5,एवमादिश्य काकुत्स्थो लक्ष्मणं शुभलक्षणम् । मनसा पुष्पकं दध्यावागच्छेति महायशाः ।। 7.75.5 ।। Uttara Kanda,75,6,इङ्गितं स तु विज्ञाय पुष्पको हेमभूषितः । आजगाम मुहूर्तेन समीपे राघवस्य वै ।। 7.75.6 ।। Uttara Kanda,75,7,सो ऽब्रवीत्प्रणतो भूत्वा अयमस्मि नराधिप । वश्यस्तव महाबाहो किङ्करः समुपस्थितः ।। 7.75.7 ।। Uttara Kanda,75,8,भाषितं रुचिरं श्रुत्वा पुष्पकस्य नराधिपः । अभिवाद्य महर्षींस्तान् विमानं सो ऽध्यरोहत ।। 7.75.8 ।। Uttara Kanda,75,9,धनुर्गृहीत्वा तूणी च खड्गं च रुचिरप्रभम् । निक्षिप्य नगरे वीरौ सौमित्रिभरतावुभौ ।। 7.75.9 ।। Uttara Kanda,75,10,प्रायात्प्रतीचीं हरितं विचिन्वंश्च ततस्ततः । उत्तरामगमच्छ्रीमान्दिशं हिमवता वृताम् ।। 7.75.10 ।। Uttara Kanda,75,11,अपश्यमानस्तत्रापि स्वल्पमप्यथ दुष्कृतम् । पूर्वामपि दिशं सर्वामथो ऽपश्यन्नराधिपः ।। 7.75.11 ।। Uttara Kanda,75,12,प्रविशुद्धसमाचारामादर्शतलनिर्मलाम् । पुष्पकस्थो महाबाहुस्तदापश्यन्नराधिपः ।। 7.75.12 ।। Uttara Kanda,75,13,दक्षिणां दिशमाक्रामत्ततो राजर्षिनन्दनः । शैवलस्योत्तरे पार्श्वे ददर्श सुमहत्सरः ।। 7.75.13 ।। Uttara Kanda,75,14,तस्मिन्सरसि तप्यन्तं तापसं सुमहत्तपः । ददर्श राघवः श्रीमाँल्लम्बमानमधोमुखम् ।। 7.75.14 ।। Uttara Kanda,75,15,राघवस्तमुपागम्य तप्यन्तं तप उत्तमम् । उवाच स तदा वाक्यं धन्यस्त्वमसि सुव्रत ।। 7.75.15 ।। Uttara Kanda,75,16,कस्यां योन्यां तपोवृद्ध वर्तसे दृढविक्रम । कौतूहलात्त्वां पृच्छामि रामो दाशरथिर्ह्यहम् ।। 7.75.16 ।। Uttara Kanda,75,17,को ऽर्थो मनीषितस्तुभ्यं स्वर्गलाभः परो ऽथवा । वराश्रयो यदर्थं त्वं तपस्यसि सुदुष्करम् । यमाश्रित्य तपस्तप्तं श्रोतुमिच्छामि तापस ।। 7.75.17 ।। Uttara Kanda,75,18,ब्राह्मणो वा ऽसि भद्रं ते क्षत्रियो वा ऽसि दुर्जयः । वैश्यस्तृतीयवर्णो वा शूद्रो वा सत्यवाग्भव ।। 7.75.18 ।। Uttara Kanda,75,19,इत्येवमुक्तः स नराधिपेन ह्यवाक्छिरा दाशरथाय तस्मै । उवाच जातिं नृपपुङ्गवाय यत्कारणे चैव तपःप्रयत्नः ।। 7.75.19 ।। Uttara Kanda,75,20,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चसप्ततितमः सर्गः ।। 75 ।। Uttara Kanda,76,1,तस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः । अवाक्छिरास्तथाभूत्वा वाक्यमेतदुवाच ह ।। 7.76.1 ।। Uttara Kanda,76,2,शूद्रयोन्यां प्रसूतो ऽस्मि शम्बूको नाम नामतः । देवत्वं पार्थये राम सशरीरो महायशः ।। 7.76.2 ।। Uttara Kanda,76,3,न मिथ्या ऽहं वदे राम देवलोकजिगीषया । शूद्रं मां विद्धि काकुत्स्थ तप उग्रं समास्थितम् ।। 7.76.3 ।। Uttara Kanda,76,4,भाषतस्तस्य शूद्रस्य खड्गं सुरुचिरप्रभम् । निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः ।। 7.76.4 ।। Uttara Kanda,76,5,तस्मिञ्छूद्रे हते देवाः सेन्द्राः साग्निपुरोगमाः । साधु साध्विति काकुत्स्थं प्रशशंसुर्मुहुर्मुहुः ।। 7.76.5 ।। Uttara Kanda,76,6,पुष्पवृष्टिर्महत्यासीद्दिव्यानां सुसुगन्धिनाम् । पुष्पाणां वायुमुक्तानां सर्वतः प्रपपात ह ।। 7.76.6 ।। Uttara Kanda,76,7,सुप्रीताश्चाब्रुवन्रामं देवाः सत्यपराक्रमम् । सुरकार्यमिदं सौम्य सुकृतं ते महामते ।। 7.76.7 ।। Uttara Kanda,76,8,गृहाण च वरं सौम्य यत्त्वमिच्छस्यरिन्दम । स्वर्गभाङ्नहि शूद्रो ऽयं त्वत्कृते रघुनन्दन ।। 7.76.8 ।। Uttara Kanda,76,9,देवानां भाषितं श्रुत्वा राघवः सुसमाहितः । उवाच प्राञ्जलिर्वाक्यं सहस्राक्षं पुरन्दरम् ।। 7.76.9 ।। Uttara Kanda,76,10,यदि देवाः प्रसन्ना मे द्विजपुत्रः स जीवतु । दिशन्तु वरमेतं मे इप्सितं परमं मम ।। 7.76.10 ।। Uttara Kanda,76,11,ममापचाराद्यातो ऽसौ ब्राह्मणस्यैकपुत्रकः । अप्राप्तकालः कालेन नीतो वैवस्वतक्षयम् ।। 7.76.11 ।। Uttara Kanda,76,12,तं जीवयथ भद्रं वो नानृतं कर्तुमर्हथ । द्विजस्य संश्रुतो ऽर्थो मे जीवयिष्यामि ते सुतम् ।। 7.76.12 ।। Uttara Kanda,76,13,राघवस्य तु तद्वाक्यं श्रुत्वा विबुधसत्तमाः । प्रत्युचू राघवं प्रीता देवाः प्रीतिसमन्वितम् ।। 7.76.13 ।। Uttara Kanda,76,14,निर्वृतो भव काकुत्स्थ सो ऽस्मिन्नहनि बालकः । जीवितं प्राप्तवान्भूयः समेतश्चापि बन्धुभिः ।। 7.76.14 ।। Uttara Kanda,76,15,यस्मिन्मुहूर्ते काकुत्स्थ शूद्रो ऽयं विनिपातितः । तस्मिन्मुहूर्ते बालो ऽसौ जीवेन समयुज्यत ।। 7.76.15 ।। Uttara Kanda,76,16,स्वस्ति प्राप्नुहि भद्रं ते साधु याम नरर्षभ । अगस्त्यस्याश्रमपदं द्रष्टुमिच्छाम राघव ।। 7.76.16 ।। Uttara Kanda,76,17,तस्य दीक्षा समाप्ता हि ब्रह्मर्षेः सुमहाद्युतेः । द्वादशं हि गतं वर्षं जलशय्यां समासतः ।। 7.76.17 ।। Uttara Kanda,76,18,काकुत्स्थ तद्गमिष्यामो मुनिं समभिनन्दितुम् । त्वं चाप्यागच्छ भद्रं ते द्रष्टुं तमृषिसत्तमम् ।। 7.76.18 ।। Uttara Kanda,76,19,स तथेति प्रतिज्ञाय देवानां रघुनन्दनः । आरुरोह विमानं तं पुष्पकं हेमभूषितम् ।। 7.76.19 ।। Uttara Kanda,76,20,ततो देवाः प्रयातास्ते विमानैर्बहुविस्तरैः । रामो ऽप्यनुजगामाशु कुम्भयोनेस्तपोवनम् ।। 7.76.20 ।। Uttara Kanda,76,21,दृष्ट्वा तु देवान्सम्प्राप्तानगस्त्यस्तपसां निधिः । अर्चयामास धर्मात्मा सर्वांस्तानविशेषतः ।। 7.76.21 ।। Uttara Kanda,76,22,प्रतिगृह्य ततः पूजां सम्पूज्य च महामुनिम् । जग्मुस्ते त्रिदशा हृष्टा नाकपृष्ठं सहानुगैः ।। 7.76.22 ।। Uttara Kanda,76,23,गतेषु तेषु काकुत्स्थः पुष्पकादवरुह्य च । ततो ऽभिवादयामास ह्यगस्त्यमृषिसत्तमम् ।। 7.76.23 ।। Uttara Kanda,76,24,सो ऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा । आतिथ्यं परमं प्राप्य निषसाद नराधिपः ।। 7.76.24 ।। Uttara Kanda,76,25,तमुवाच महातेजाः कुम्भयोनिर्महातपाः । स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तो ऽसि राघव ।। 7.76.25 ।। Uttara Kanda,76,26,त्वं मे बहुमतो राम गुणैर्बहुभिरुत्तमैः । अतिथिः पूजनीयश्च मम नित्यं हृदि स्थितः ।। 7.76.26 ।। Uttara Kanda,76,27,सुरा हि कथयन्ति त्वामागतं शूद्रघातिनम् । ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः ।। 7.76.27 ।। Uttara Kanda,76,28,उष्यतां चेह रजनी सकाशे मम राघव । प्रभाते पुष्पकेण त्वं गन्ता ऽसि पुरमेव हि ।। 7.76.28 ।। Uttara Kanda,76,29,त्वं हि नारायणः श्रीमांस्त्वयि सर्वं प्रतिष्ठितम् । त्वं प्रभुः सर्वदेवानां पुरुषस्त्वं सनातनः ।। 7.76.29 ।। Uttara Kanda,76,30,इदं चाभरणं सौम्य निर्मितं विश्वकर्मणा । दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा । प्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव ।। 7.76.30 ।। Uttara Kanda,76,31,दत्तस्य हि पुनर्दाने सुमहत्फलमुच्यते । भरणे हि भवान् शक्तः सेन्द्राणां मरुतामपि ।। 7.76.31 ।। Uttara Kanda,76,32,त्वं हि शक्तस्तारयितुं सेन्द्रानपि दिवौकसः । तस्मात्प्रदास्ये विधिवत्तत्प्रतीच्छ नराधिप ।। 7.76.32 ।। Uttara Kanda,76,33,दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करम् ।। 7.76.33 ।। Uttara Kanda,76,34,अथोवाच महात्मानमिक्ष्वाकूणां महारथः । रामो मतिमतां श्रेष्ठः क्षत्रधर्ममनुस्मरन् ।। 7.76.34 ।। Uttara Kanda,76,35,प्रतिग्रहो ऽयं भगवन्ब्राह्मणस्याविगर्हितः । गृह्णीयां क्षत्रियो ऽहं वै कथं ब्राह्मणपुङ्गव ।। 7.76.35 ।। Uttara Kanda,76,36,ब्राह्मणेन विशेषेण दत्तं तद्वक्तुमर्हसि । एवमुक्तस्तु रामेण प्रत्युवाच महानृषिः ।। 7.76.36 ।। Uttara Kanda,76,37,आसन्कृतयुगे राम ब्रह्मभूते पुरायुगे । अपार्थिवाः प्रजाः सर्वाः सुराणां तु शतक्रतुः ।। 7.76.37 ।। Uttara Kanda,76,38,ताः प्रजा देवदेवेशं राजार्थं समुपाद्रवन् । सुराणां स्थापितो राजा त्वया देव शतक्रतुः ।। 7.76.38 ।। Uttara Kanda,76,39,प्रयच्छ नो हि लोकेश पार्थिवं नरपुङ्गवम् । यस्मै पूजां प्रयुञ्जाना धूतपापाश्चरेमहि । न वसामो विना राज्ञा एष नो निश्चयः परः ।। 7.76.39 ।। Uttara Kanda,76,40,प्रजानां वचनं श्रुत्वा निश्चयित्वा ऽर्थमुत्तमम् ।। 7.76.40 ।। Uttara Kanda,76,41,ततो ब्रह्मा सुरश्रेष्ठो लोकपालान्सवासवान् । समाहूयाब्रवीत्सर्वांस्तेजोभागान्प्रयच्छत ।। 7.76.41 ।। Uttara Kanda,76,42,ततो ददुर्लोकपालाः सर्वे भागान्स्वतेजसः । अक्षुपच्च ततो ब्रह्मा यतो जातः क्षुपो नृपः ।। 7.76.42 ।। Uttara Kanda,76,43,तं ब्रह्मा लोकपालानां सहांशैः समयोजयत् । ततो ददौ नृपं तासां प्रजानामीश्वरं क्षुपम् ।। 7.76.43 ।। Uttara Kanda,76,44,तत्रैन्द्रेण च भागेन महीमाज्ञापयन्नृपः । वारुणेन तु भागेन वपुः पुष्यति पार्थिवः ।। 7.76.44 ।। Uttara Kanda,76,45,कौबेरेण तु भागेन वित्तमासां ददौ तदा । यस्तु याम्यो ऽभवद्भागस्तेन शास्ति स्म स प्रजाः ।। 7.76.45 ।। Uttara Kanda,76,46,तत्रैन्द्रेण नरश्रेष्ठ भागेन रघुनन्दन । प्रतिगृह्णीष्व भद्रं ते तारणार्थं मम प्रभो ।। 7.76.46 ।। Uttara Kanda,76,47,तस्य तद्वचनं श्रुत्वा ऋषेः परमधार्मिकम् । तद्रामः प्रतिजग्राह मुनेराभरणं वरम् ।। 7.76.47 ।। Uttara Kanda,76,48,प्रतिगृह्य ततो रामस्तदाभरणमुत्तमम् । आगमं तस्य दीप्तस्य प्रष्टुमेवोपचक्रमे ।। 7.76.48 ।। Uttara Kanda,76,49,अत्यद्भुतमिदं दिव्यं वपुषा युक्तमुत्तमम् । कथं वा भगवता प्राप्तं कुतो वा केन वा हृतम् ।। 7.76.49 ।। Uttara Kanda,76,50,कुतूहलितया ब्रह्मन्पृच्छामि त्वां महायशः । आश्चर्याणां बहूनां हि निधिः परमको भवान् ।। 7.76.50 ।। Uttara Kanda,76,51,एवं ब्रुवति काकुत्स्थे मुनिर्वाक्यमथाब्रवीत् । शृणु राम यथावृत्तं पुरा त्रेतायुगे युगे ।। 7.76.51 ।। Uttara Kanda,76,52,रमणीयप्रदेशे ऽस्मिन् वने यद्दृष्टवानहम् । आश्चर्यं मे महाबाहो दानमाश्रित्य केवलम् ।। 7.76.52 ।। Uttara Kanda,76,53,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षट्सप्ततितमः सर्गः ।। 76 ।। Uttara Kanda,77,1,पुरा त्रेतायुगे राम बभूव बहुविस्तरम् । समन्ताद्योजनशतं विमृगं पक्षिवर्जितम् ।। 7.77.1 ।। Uttara Kanda,77,2,तस्मिन्निर्मानुषे ऽरण्ये कुर्वाणस्तप उत्तमम् । अहमाक्रमितुं सौम्य तदरण्यमुपागमम् ।। 7.77.2 ।। Uttara Kanda,77,3,तस्य रूपमरण्यस्य निर्देष्टुं न शशाक ह । फलमूलैः सुखास्वादैर्बहुरूपैश्च पादपैः ।। 7.77.3 ।। Uttara Kanda,77,4,तस्यारण्यस्य मध्ये तु सरो योजनमायतम् । हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ।। 7.77.4 ।। Uttara Kanda,77,5,पद्मोत्पलसमाकीर्णं समतिक्रान्तशैवलम् । तदाश्चर्यमिवात्यर्थं सुखास्वादमनुत्तमम् ।। 7.77.5 ।। Uttara Kanda,77,6,अरजस्कं तथा ऽक्षोभ्यं श्रीमत्पक्षिगणायुतम् । समीपे तस्य सरसो महदद्भुतमाश्रमम् ।। 7.77.6 ।। Uttara Kanda,77,7,पुराणं पुण्यमत्यर्थं तपस्विजनवर्जितम् । तत्राहमवसं रात्रिं नैदाघीं पुरुषर्षभ ।। 7.77.7 ।। Uttara Kanda,77,8,प्रभाते काल्यमुत्थाय सरस्तदुपचक्रमे । अथापश्यं शवं तत्र सुपुष्टमजरं क्वचित् ।। 7.77.8 ।। Uttara Kanda,77,9,पङ्किभेदेन पुष्टाङ्गं समाश्रितसरोवरम् । तिष्ठन्तं परया लक्ष्म्या तस्मिंस्तोयाशये नृप ।। 7.77.9 ।। Uttara Kanda,77,10,तमर्थं चिन्तयानो ऽहं मुहूर्तं तत्र राघव । उषितो ऽस्मि सरस्तीरे किन्न्विदं स्यादिति प्रभो ।। 7.77.10 ।। Uttara Kanda,77,11,अथापश्यं मुहूर्तेन दिव्यमद्भुतदर्शनम् । विमानं परमोदारं हंसयुक्तं मनोजवम् ।। 7.77.11 ।। Uttara Kanda,77,12,अत्यर्थं स्वर्गिणं त विमाने रघुनन्दन । उपास्ते ऽप्सरसां वीर सहस्रं दिव्यभूषणम् ।। 7.77.12 ।। Uttara Kanda,77,13,गायन्ति दिव्यगेयानि वादयन्ति तथा ऽपराः । क्ष्वेलयन्ति तथा चान्या नृत्यन्ति च तथा ऽपराः ।। 7.77.13 ।। Uttara Kanda,77,14,अपराश्चन्द्ररश्म्याभैर्हेमदण्डैश्च चामरैः । दोधूयुर्वदनं तस्य पुण्डरीकनिभेक्षणम् ।। 7.77.14 ।। Uttara Kanda,77,15,ततः सिंहासनं त्यक्त्वा मेरुकूटमिवांशुमान् । पश्यतो मे तदा राम विमानादवरुह्य च । तं शवं भक्षयामास स स्वर्गी रघुनन्दन ।। 7.77.15 ।। Uttara Kanda,77,16,तथा भुक्त्वा यथाकामं मांसं बहु सुपीवरम् । अवतीर्य सरः स्वर्गी संस्प्रष्टुमुपचक्रमे ।। 7.77.16 ।। Uttara Kanda,77,17,उपस्पृश्य यथान्यायं स स्वर्गी रघुपुङ्गव । आरोढुमुपचक्राम विमानवरमुत्तमम् ।। 7.77.17 ।। Uttara Kanda,77,18,तमहं देवसङ्काशमारोहन्तमुदीक्ष्य वै । अथाहमब्रुवं वाक्यं स्वर्गिणं पुरुषर्षभ ।। 7.77.18 ।। Uttara Kanda,77,19,को भवान्देवसङ्काश आहारश्च विगर्हितः । त्वयेदं भुज्यते सौम्य किमर्थं वक्तुमर्हसि ।। 7.77.19 ।। Uttara Kanda,77,20,कस्य स्यादीदृशो भाव आहारो देवसम्मतः । आश्चर्यं वर्तते सौम्य श्रोतुमिच्छामि तत्त्वतः ।। 7.77.20 ।। Uttara Kanda,77,21,नाहमौपयिकं मन्ये तव भक्ष्यमिदं शवम् ।। 7.77.21 ।। Uttara Kanda,77,22,इत्येवमुक्तः स नरेन्द्र नाकी कौतूहलात्सूनृतया गिरा च । श्रुत्वा च वाक्यं मम सर्वमेतत्सर्वं तथा चाकथयन्ममेति ।। 7.77.22 ।। Uttara Kanda,77,23,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तसप्ततितमः सर्गः ।। 77 ।। Uttara Kanda,78,1,श्रुत्वा तु भाषितं वाक्यं मम राम शुभाक्षरम् । प्राञ्जलिः प्रत्युवाचेदं स स्वर्गी रघुनन्दन ।। 7.78.1 ।। Uttara Kanda,78,2,शृणु ब्रह्मन्पुरा वृत्तं ममैतत्सुखदुःखयोः । अनतिक्रमणीयं हि यथा पृच्छसि मां द्विज ।। 7.78.2 ।। Uttara Kanda,78,3,पुरा वैदर्भको राजा पिता मम महायशाः । सुदेव इति विख्यातस्त्रिषु लोकेषु वीर्यवान् ।। 7.78.3 ।। Uttara Kanda,78,4,तस्य पुत्रद्वयं ब्रह्मन्द्वाभ्यां स्त्रीभ्यामजायत । अहं श्वेत इति ख्यातो यवीयान्सुरथो ऽभवत् ।। 7.78.4 ।। Uttara Kanda,78,5,ततः पितरि स्वर्याते पौरा मामभ्यषेचयन् । तत्राहं कृतवान्राज्यं धर्म्यं च सुसमाहितः ।। 7.78.5 ।। Uttara Kanda,78,6,एवं वर्षसहस्राणि समतीतानि सुव्रत । राज्यं कारयतो ब्रह्मन्प्रजा धर्मेण रक्षतः ।। 7.78.6 ।। Uttara Kanda,78,7,सो ऽहं निमित्ते कस्मिंश्चिद्विज्ञातायुर्द्विजोत्तम । कालधर्मं हृदि न्यस्य ततो वनमुपागमम् ।। 7.78.7 ।। Uttara Kanda,78,8,सो ऽहं वनमिदं दुर्गं मृगपक्षिविवर्जितम् । तपश्चर्तुं प्रविष्टो ऽस्मि समीपे सरसः शुभे ।। 7.78.8 ।। Uttara Kanda,78,9,भ्रातरं सुरथं राज्ये ह्यभिषिच्य महीपतिम् । इदं सरः समासाद्य तपस्तप्तं मया चिरम् ।। 7.78.9 ।। Uttara Kanda,78,10,सो ऽहं वर्षसहस्राणि तपस्त्रीणि महावने । तप्त्वा सुदुष्करं प्राप्तो ब्रह्मलोकमनुत्तमम् ।। 7.78.10 ।। Uttara Kanda,78,11,तस्य मे स्वर्गभूतस्य क्षुत्पिपासे द्विजोत्तम । बाधेते परमोदार ततो ऽहं व्यथितेन्द्रियः । गत्वा त्रिभुवनश्रेष्ठं पितामहमुवाच ह ।। 7.78.11 ।। Uttara Kanda,78,12,भगवन्ब्रह्मलोको ऽयं क्षुत्पिपासाविवर्जितः । कस्यायं कर्मणः पाकः क्षुत्पिपासानुगो ह्यहम् ।। 7.78.12 ।। Uttara Kanda,78,13,आहारः कश्च मे देव तन्मे ब्रूहि पितामह ।। 7.78.13 ।। Uttara Kanda,78,14,पितामहस्तु मामाह तवाहारः सुदेवज । स्वादूनि स्वानि मांसानि तानि भक्षय नित्यशः ।। 7.78.14 ।। Uttara Kanda,78,15,स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम् । अनुप्तं रोहते श्वेत न कदाचिन्महामते ।। 7.78.15 ।। Uttara Kanda,78,16,तृप्तिर्न ते ऽस्ति सूक्ष्मा ऽपि वने सत्वनिषेविते । पुरा तु भिक्षमाणाय भिक्षा वै यतये नृप । न हि दत्ता त्वयेन्द्राभ यस्मादतिथये ऽपि वै ।। 7.78.16 ।। Uttara Kanda,78,17,दत्तं न ते ऽस्ति सूक्ष्मो ऽपि तप एव निषेवसे । तेन स्वर्गगतो वत्स बाध्यसे क्षुत्पिपासया ।। 7.78.17 ।। Uttara Kanda,78,18,स त्वं सुपुष्टमाहारैः स्वशरीरमनुत्तमम् । भक्षयित्वामृतरसं तेन तृप्तिर्भविष्यति ।। 7.78.18 ।। Uttara Kanda,78,19,यदा तु तद्वनं श्वेत अगस्त्यः सुमहानृषिः । आगमिष्यति दुर्धर्षस्तदा कृच्छ्राद्विमोक्ष्यते ।। 7.78.19 ।। Uttara Kanda,78,20,स हि तारयितुं सौम्य शक्तः सुरगणानपि । किं पुनस्त्वां महाबाहो क्षुत्पिपासावशं गतम् ।। 7.78.20 ।। Uttara Kanda,78,21,सो ऽहं भगवतः श्रुत्वा देवदेवस्य निश्चयम् । आहारं गर्हितं स्वशरीरं द्विजोत्तम ।। 7.78.21 ।। Uttara Kanda,78,22,बहून्वर्षगणान्ब्रह्मन्भुज्यमानमिदं मया । क्षयं नाभ्येति ब्रह्मर्षे तृप्तिश्चापि ममोत्तमा ।। 7.78.22 ।। Uttara Kanda,78,23,तस्य मे कृच्छ्रभूतस्य कृच्छ्रादस्माद्विमोचय । अन्येषां न गतिर्ह्यत्र कुम्भयोनिमृते द्विजम् ।। 7.78.23 ।। Uttara Kanda,78,24,इदमाभरणं सौम्य तारणार्थं द्विजोत्तम । प्रतिगृह्णीष्व भद्रं ते प्रसादं कर्तुमर्हसि ।। 7.78.24 ।। Uttara Kanda,78,25,इदं तावत्सुवर्णं च धनं वस्त्राणि च द्विज । भक्ष्यं भोज्यं च ब्रह्मर्षे ददात्याभरणानि च ।। 7.78.25 ।। Uttara Kanda,78,26,सर्वान्कामान्प्रयच्छामि भोगांश्च मुनिपुङ्गव । तारणे भगवन्मह्यं प्रसादं कर्तुमर्हसि ।। 7.78.26 ।। Uttara Kanda,78,27,तस्याहं स्वर्गिणो वाक्यं श्रुत्वा दुःखसमन्वितम् । तारणायोपजग्राह तदाभरणमुत्तमम् ।। 7.78.27 ।। Uttara Kanda,78,28,मया प्रतिगृहीते तु तस्मिन्नाभरणे शुभे । मानुषः पूर्वको देहो राजर्षेर्विननाश ह ।। 7.78.28 ।। Uttara Kanda,78,29,प्रनष्टे तु शरीरे ऽसौ राजर्षिः परया मुदा । तृप्तः प्रमुदितो राजा जगाम त्रिदिवं सुखम् ।। 7.78.29 ।। Uttara Kanda,78,30,तेनेदं शक्रतुल्येन दिव्यमाभरणं मम । तस्मिन्निमित्ते काकुत्स्थ दत्तमद्भुतदर्शनम् ।। 7.78.30 ।। Uttara Kanda,78,31,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टसप्ततितमः सर्गः ।। 78 ।। Uttara Kanda,79,1,तदद्भुततमं वाक्यं श्रुत्वागस्त्यस्य राघवः । गौरवाद्विस्मयाच्चैव पुनः प्रष्टुं प्रचक्रमे ।। 7.79.1 ।। Uttara Kanda,79,2,भगवंस्तद्वनं घोरं तपस्तप्यति यत्र सः । श्वेतो वैदर्भको राजा कथं स्यादमृगद्विजम् ।। 7.79.2 ।। Uttara Kanda,79,3,तद्वनं स कथ राजा शून्यं मनुजवर्जितम् । तपश्चर्तुं प्रविष्टः स श्रोतुमिच्छामि तत्त्वतः ।। 7.79.3 ।। Uttara Kanda,79,4,रामस्य वचनं श्रुत्वा कौतूहलसमन्वितम् । वाक्यं परमतेजस्वी वक्तुमेवोपचक्रमे ।। 7.79.4 ।। Uttara Kanda,79,5,पुरा कृतयुगे राम मनुर्दण्डधरः प्रभुः । तस्य पुत्रो महानासीदिक्ष्वाकुः कुलनन्दनः ।। 7.79.5 ।। Uttara Kanda,79,6,तं पुत्रं पूर्वंकं राज्ये निक्षिप्य भुवि दुर्जयम् । पृथिव्यां राजवंशानां भव कर्तेत्युवाच ह ।। 7.79.6 ।। Uttara Kanda,79,7,तथैवेति प्रतिज्ञातं पितुः पुत्रेण राघव । ततः परमसन्तुष्टो मनुः पुत्रमुवाच ह ।। 7.79.7 ।। Uttara Kanda,79,8,प्रीतो ऽस्मि परमोदार त्वं कर्ता ऽसि न संशयः । दण्डेन च प्रजा रक्ष मा च दण्डमकारणे ।। 7.79.8 ।। Uttara Kanda,79,9,अपराधिषु यो दण्डः पात्यते मानवेषु वै । स दण्डो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम् ।। 7.79.9 ।। Uttara Kanda,79,10,तस्माद्दण्डे महाबाहो यत्नवान्भव पुत्रक । धर्मो हि परमो लोके कुर्वतस्ते भविष्यति ।। 7.79.10 ।। Uttara Kanda,79,11,इति तं बहु सन्दिश्य मनुः पुत्रं समाधिना । जगाम त्रिदिवं हृष्टो ब्रह्मलोकं सनातनम् ।। 7.79.11 ।। Uttara Kanda,79,12,प्रयाते त्रिदिवं तस्मिन्निक्ष्वाकुरमितप्रभः । जनयिष्ये कथं पुत्रानिति चिन्तापरो ऽभवत् ।। 7.79.12 ।। Uttara Kanda,79,13,कर्मभिर्बहुरूपैश्च तैस्तैर्मनुसुतस्सुतान् । जनयामास धर्मात्मा शतं देवसुतोपमान् ।। 7.79.13 ।। Uttara Kanda,79,14,तेषामवरजस्तात सर्वेषां रघुनन्दन । मूढश्चाकृतविद्यश्च न शुश्रूषति पूर्वजान् ।। 7.79.14 ।। Uttara Kanda,79,15,नाम तस्य च दण्डेति पिता चक्रे ऽल्पमेधसः । अवश्यं दण्डपतनं शरीरे ऽस्य भविष्यति ।। 7.79.15 ।। Uttara Kanda,79,16,अपश्यमानस्तं देशं घोरं पुत्रस्य राघव । विन्ध्यशैवलयोर्मध्ये राज्यं प्रादादरिन्दम ।। 7.79.16 ।। Uttara Kanda,79,17,स दण्डस्तत्र राजाभूद्रम्ये पर्वतरोधसि । पुरं चाप्रतिमं राम न्यवेशयदनुत्तमम् ।। 7.79.17 ।। Uttara Kanda,79,18,पुरस्य चाकरोन्नाम मधुमन्तमिति प्रभो । पुरोहितं तूशनसं वरयामास सुव्रतम् ।। 7.79.18 ।। Uttara Kanda,79,19,एवं स राजा तद्राज्यमकरोत्सपुरोहितः । प्रहृष्टमनुजाकीर्णं देवराजं यथा वृषा ।। 7.79.19 ।। Uttara Kanda,79,20,ततः स राजा मनुजेन्द्रपुत्रः सार्धं च तेनोशनसा तदानीम् । चकार राज्यं सुमहान्महात्मा शक्रो दिवीवोशनसा समेतः ।। 7.79.20 ।। Uttara Kanda,79,21,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनशीतितमः सर्गः ।। 79 ।। Uttara Kanda,80,1,एतदाख्याय रामाय महर्षिः कुम्भसम्भवः । अस्यामेवापरं वाक्यं कथायामुपचक्रमे ।। 7.80.1 ।। Uttara Kanda,80,2,ततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम् । अकरोत्तत्र दान्तात्मा राज्यं निहतकण्टकम् ।। 7.80.2 ।। Uttara Kanda,80,3,अथ काले तु कस्मिंश्चिद्राजा भार्गवमाश्रमम् । रमणीयमुपाक्रामच्चैत्रे मासि मनोरमे ।। 7.80.3 ।। Uttara Kanda,80,4,तत्र भार्गवकन्यां स रूपेणाप्रतिमां भुवि । विचरन्तीं वनोद्देशे दण्डो ऽपश्यदनुत्तमाम् ।। 7.80.4 ।। Uttara Kanda,80,5,स दृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः । अभिगम्य सुसंविग्नां कन्यां वचनमब्रवीत् ।। 7.80.5 ।। Uttara Kanda,80,6,कुतस्त्वमसि सुश्रोणि कस्य वा ऽसि सुता शुभे । पीडितो ऽहमनङ्गेन गच्छामि त्वां शुभानने ।। 7.80.6 ।। Uttara Kanda,80,7,तस्य त्वेवं ब्रुवाणस्य मोहोन्मत्तस्य कामिनः । भार्गवी प्रत्युवाचेदं वचः सानुनयं नृपम् ।। 7.80.7 ।। Uttara Kanda,80,8,भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः । अरजां नाम राजेन्द्र ज्येष्ठामाश्रमवासिनीम् ।। 7.80.8 ।। Uttara Kanda,80,9,मा मां स्पृश बलाद्राजन्कन्या पितृवशा ह्यहम् । गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः । व्यसनं सुमहत्क्रुद्धः स ते दद्यान्महातपाः ।। 7.80.9 ।। Uttara Kanda,80,10,यदि वान्यन्मया कार्यं धर्मदृष्टेन सत्पथा । वरयस्व नरश्रेष्ठ पितरं मे महाद्युतिम् ।। 7.80.10 ।। Uttara Kanda,80,11,अन्यथा तु फलं तुभ्यं भवेद्घोराभिसंहितम् । क्रोधेन हि पिता मे ऽसौ त्रैलोक्यमपि निर्दहेत् ।। 7.80.11 ।। Uttara Kanda,80,12,दास्यते चानवद्याङ्ग तव मा याचितः पिता ।। 7.80.12 ।। Uttara Kanda,80,13,एवं ब्रुवाणामरजां दण्डः कामवशं गतः । प्रत्युवाच मदोन्मत्तः शिरस्याधाय चाञ्जलिम् ।। 7.80.13 ।। Uttara Kanda,80,14,प्रसादं कुरु सुश्रोणि न कालं क्षेप्तुमर्हसि । त्वत्कृते हि मम प्राणा विदीर्यन्ते वरानने ।। 7.80.14 ।। Uttara Kanda,80,15,त्वां प्राप्य मे वधो वा स्याच्छापो वा यदि दारुणः । भक्तं भजस्व मां भीरु भजमानं सुविह्वलम् ।। 7.80.15 ।। Uttara Kanda,80,16,एवमुक्त्वा तु तां कन्यां दोर्भ्यां गृह्य बलाद्बली । विस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे ।। 7.80.16 ।। Uttara Kanda,80,17,एतमर्थं महाघोरं दण्डः कृत्वा सुदारुणम् । नगरं प्रययावाशु मधुमन्तमनुत्तमम् ।। 7.80.17 ।। Uttara Kanda,80,18,अरजा ऽपि रुदन्ती सा आश्रमस्याविदूरतः । प्रतीक्षन्ति सुसंत्रस्ता पितरं देवसन्निभम् ।। 7.80.18 ।। Uttara Kanda,80,19,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽशीतितमः सर्गः ।। 80 ।। Uttara Kanda,81,1,स मुहूर्तादुपश्रुत्य देवर्षिरमितप्रभः । स्वमाश्रमं शिष्यवृतः क्षुधार्तः सन्न्यवर्तत ।। 7.81.1 ।। Uttara Kanda,81,2,सो ऽपश्यदरजां दीनां रजसा समभिप्लुताम् । ज्योत्स्नामिव ग्रहग्रस्तां प्रत्यूषे न विराजतीम् ।। 7.81.2 ।। Uttara Kanda,81,3,तस्य रोषः समभवत्क्षुधार्तस्य विशेषतः । निर्दहन्निव लोकांस्त्रीञ्छिष्यांश्चैतदुवाच ह ।। 7.81.3 ।। Uttara Kanda,81,4,पश्यध्वं विपरीतस्य दण्डस्याविजितात्मनः । विपत्तिं घोरसङ्काशां क्रुद्धामग्निशिखामिव ।। 7.81.4 ।। Uttara Kanda,81,5,क्षयो ऽस्य दुर्मतेः प्राप्तः सानुगस्य दुरात्मनः । यः प्रदीप्तां हुताशस्य शिखां वै स्प्रष्टुमिच्छति ।। 7.81.5 ।। Uttara Kanda,81,6,यस्मात्स कृतवान्पापमीदृशं घोरसंहितम् । तस्मात्प्राप्स्यति दुर्मेधाः फलं पापस्य कर्मणः ।। 7.81.6 ।। Uttara Kanda,81,7,सप्तरात्रेण राजासौ सभृत्यबलवाहनः । पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः ।। 7.81.7 ।। Uttara Kanda,81,8,समन्ताद्योजनशतं विषयं चास्य दुर्मतेः । धक्ष्यते पांसुवर्षेण महता पाकशासनः ।। 7.81.8 ।। Uttara Kanda,81,9,सर्वसत्वानि यानीह स्थावराणि चराणि च । महता पांसुवर्षेण विलयं सर्वतो ऽगमन् ।। 7.81.9 ।। Uttara Kanda,81,10,दण्डस्य विषयो यावत्तावत्सर्वसमुच्छ्रयम् । पांसुवर्षमिवालक्ष्यं सप्तरात्रं भविष्यति ।। 7.81.10 ।। Uttara Kanda,81,11,इत्युक्त्वा क्रोधताम्राक्षस्तदाश्रमनिवासिनम् । जनं जनपदान्तेषु स्थीयतामिति चाब्रवीत् ।। 7.81.11 ।। Uttara Kanda,81,12,श्रुत्वा तूशनसो वाक्यं सो ऽ ऽश्रमावसथो जनः । निष्क्रान्तो विषयात्तस्मात्स्थानं चक्रे ऽथ बाह्यतः ।। 7.81.12 ।। Uttara Kanda,81,13,स तथोक्त्वा मुनिजनमरजामिदमब्रवीत् । इहैव वस दुर्मेधे आश्रमे सुसमाहिता ।। 7.81.13 ।। Uttara Kanda,81,14,इदं योजनपर्यन्तं सरः सुरुचिरप्रभम् । अरजे विज्वरा भुङ्क्ष्व कालश्चात्र प्रतीक्ष्यताम् ।। 7.81.14 ।। Uttara Kanda,81,15,त्वत्समीपे च ये सत्त्वा वासमेष्यन्ति तां निशाम् । अवध्याः पांसुवर्षेण ते भविष्यन्ति नित्यदा ।। 7.81.15 ।। Uttara Kanda,81,16,श्रुत्वा नियोगं ब्रह्मर्षेः सा ऽरजा भार्गवी तदा । तथेति पितरं प्राह भार्गवं भृशदुःखिता । इत्युक्त्वा भार्गवो वासमन्यत्र समकारयत् ।। 7.81.16 ।। Uttara Kanda,81,17,तच्च राज्यं नरेन्द्रस्य सभृत्यबलवाहनम् । सप्ताहाद्भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना ।। 7.81.17 ।। Uttara Kanda,81,18,तस्यासौ दण्डविषयो विन्ध्यशैवलयोर्नृप । शप्तो ब्रह्मर्षिणा तेन वैधर्म्ये सहिते कृते ।। 7.81.18 ।। Uttara Kanda,81,19,ततः प्रभृति काकुत्स्थ दण्डकारण्यमुच्यते । तपस्विनः स्थिता ह्यत्र जनस्थानमतो ऽभवत् ।। 7.81.19 ।। Uttara Kanda,81,20,एतत्ते सर्वमाख्यातं यन्मां पृच्छसि राघव । सन्ध्यामुपासितुं वीर समयो ह्यतिवर्तते ।। 7.81.20 ।। Uttara Kanda,81,21,एते महर्षयः सर्वे पूर्णकुम्भाः समन्ततः । कृतोदका नरव्याघ्र आदित्यं पर्युपासते ।। 7.81.21 ।। Uttara Kanda,81,22,स तैर्ब्राह्मणमभ्यस्तं सहितैर्ब्रह्मवित्तमैः । रविरस्तं गतो राम गच्छोदकमुपस्पृश ।। 7.81.22 ।। Uttara Kanda,81,23,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकाशीतितमः सर्गः ।। 81 ।। Uttara Kanda,82,1,ऋषेर्वचनमाज्ञाय रामः सन्ध्यामुपासितुम् । उपाक्रमत्सरः पुण्यमप्सरोगणसेवितम् ।। 7.82.1 ।। Uttara Kanda,82,2,तत्रोदकमुपस्पृश्य सन्ध्यामन्वास्य पश्चिमाम् । आश्रमं प्राविशद्रामः कुम्भयोनेर्महात्मनः ।। 7.82.2 ।। Uttara Kanda,82,3,तस्यागस्त्यो बहुगुणं कन्दमूलं तथौषधिम् । शाल्यादीनि पवित्राणि भोजनार्थमकल्पयत् ।। 7.82.3 ।। Uttara Kanda,82,4,स भुक्तवान्नरश्रेष्ठस्तदन्नममृतोपमम् । प्रीतश्च परितुष्टश्च तां रात्रिं समुपाविशत् ।। 7.82.4 ।। Uttara Kanda,82,5,प्रभाते काल्यमुत्थाय कृत्वा ऽ ऽह्निकमरिन्दमः । ऋषिं समुपचक्राम गमनाय रघूत्तमः ।। 7.82.5 ।। Uttara Kanda,82,6,अभिवाद्याब्रवीद्रामो महर्षिं कुम्भसम्भवम् । आपृच्छे स्वां पुरीं गन्तुं मामनुज्ञातुमर्हसि ।। 7.82.6 ।। Uttara Kanda,82,7,धन्यो ऽस्म्यनुगृहीतो ऽस्मि दर्शनेन महात्मनः । द्रष्टुं चैवागमिष्यामि पावनार्थमिहात्मनः ।। 7.82.7 ।। Uttara Kanda,82,8,तथा वदति काकुत्स्थे वाक्यमद्भुतदर्शनम् । उवाच परमप्रीतो धर्मनेत्रस्तपोधनः ।। 7.82.8 ।। Uttara Kanda,82,9,अत्यद्भुतमिदं वाक्यं तव राम शुभाक्षरम् । पावनः सर्वभूतानां त्वमेव रघुनन्दन ।। 7.82.9 ।। Uttara Kanda,82,10,मुहूर्तमपि राम त्वां ये च पश्यन्ति केचन । पाविताः स्वर्गभूताश्च पूज्यास्ते सर्वदैवतैः ।। 7.82.10 ।। Uttara Kanda,82,11,ये च त्वां घोरचक्षुर्भिः पश्यन्ति प्राणिनो भुवि । हतास्ते यमदण्डेन सद्यो निरयगामिनः ।। 7.82.11 ।। Uttara Kanda,82,12,ईदृशस्त्वं रघुश्रेष्ठ पावनः सर्वदेहिनाम् । भुवि त्वां कथयन्तो ऽपि सिद्धिमेष्यन्ति राघव ।। 7.82.12 ।। Uttara Kanda,82,13,गच्छ चारिष्टमव्याग्रः पन्थानमकुतोभयम् । प्रशाधि राज्यं धर्मेण गतिर्हि जगतो भवान् ।। 7.82.13 ।। Uttara Kanda,82,14,एवमुक्तस्तु मुनिना प्राञ्जलिः प्रग्रहो नृपः । अभ्यवादयत प्राज्ञस्तमृषिं पुण्यशालिनम् ।। 7.82.14 ।। Uttara Kanda,82,15,अभिवाद्य मुनिश्रेष्ठं तांश्च सर्वांस्तपोधनान् । अध्यारोहत्तदव्यग्रः पुष्पकं हेमभूषितम् ।। 7.82.15 ।। Uttara Kanda,82,16,तं प्रयान्तं मुनिगणा ह्याशीर्वादैः समन्ततः । अपूजयन्महेन्द्राभं सहस्राक्षमिवामराः ।। 7.82.16 ।। Uttara Kanda,82,17,स्वस्थः स ददृशे रामः पुष्पके हेमभूषिते । शशी मेघसमीपस्थो यथा जलधरागमे ।। 7.82.17 ।। Uttara Kanda,82,18,ततो ऽर्धदिवसे प्राप्ते पूज्यमानस्ततस्ततः । अयोध्यां प्राप्य काकुत्स्थो मध्यकक्ष्यामवारुहत् ।। 7.82.18 ।। Uttara Kanda,82,19,ततो विसृज्य रुचिरं पुष्पकं कामगामि तत् । विसर्जयित्वा गच्छेति स्वस्ति ते ऽस्त्विति च प्रभुः ।। 7.82.19 ।। Uttara Kanda,82,20,कक्षान्तरविनिक्षिप्तं द्वास्स्थं रामो ऽब्रवीद्वचः । लक्ष्मणं भरतं चैव गत्वा तौ लघुविक्रमौ ।। ममागमनमाख्याय शब्दापयत मा चिरम् ।। 7.82.20 ।। Uttara Kanda,82,21,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे व्द्यशीतितमः सर्गः ।। 82 ।। Uttara Kanda,83,1,तच्छ्रुत्वा भाषितं तस्य रामस्याक्लिष्ट कर्मणः । द्वास्स्थः कुमारावाहूय राघवाय न्यवेदयत् ।। 7.83.1 ।। Uttara Kanda,83,2,दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ । परिष्वज्य तदा रामो वाक्यमेतदुवाच ह ।। 7.83.2 ।। Uttara Kanda,83,3,कृतं मया यथा तथ्यं द्विजकार्यमनुत्तमम् । धर्मसेतुमथो भूयः कर्तुमिच्छामि राघवौ ।। 7.83.3 ।। Uttara Kanda,83,4,अक्षय्यश्चाव्ययश्चैव धर्मसेतुर्मतो मम । धर्मप्रसाधकं ह्येतत् सर्वपापप्रणाशनम् ।। 7.83.4 ।। Uttara Kanda,83,5,युवाभ्यामात्मभूताभ्यां राजसूयमनुत्तमम् । सहितो यष्टुमिच्छामि तत्र धर्मो हि शाश्वतः ।। 7.83.5 ।। Uttara Kanda,83,6,इष्ट्वा तु राजसूयेन मित्रः शत्रुनिबर्हणः । सुहुतेन सुयज्ञेन वरुणत्वमुपागमत् ।। 7.83.6 ।। Uttara Kanda,83,7,सोमश्च राजसूयेन इष्ट्वा धर्मेण धर्मवित् । प्राप्तश्च सर्वलोकेषु कीर्तिस्थानं च शाश्वतम् ।। 7.83.7 ।। Uttara Kanda,83,8,अस्मिन्नहनि यच्छ्रेयश्चिन्त्यतां तन्मया सह । हितं चायतियुक्तं च प्रयतौ कर्तुमर्हथः ।। 7.83.8 ।। Uttara Kanda,83,9,श्रुत्वा तु राघवस्यैतद्वाक्यं वाक्यविशारदः । भरतः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ।। 7.83.9 ।। Uttara Kanda,83,10,त्वयि धर्मः परः साधो त्वयि सर्वा वसुन्धरा । प्रतिष्ठिता महाबाहो यशश्चामितविक्रम ।। 7.83.10 ।। Uttara Kanda,83,11,महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः । निरीक्षन्ते महात्मानं लोकानाथं यथा वयम् ।। 7.83.11 ।। Uttara Kanda,83,12,पुत्राश्च पितृवद्राजन्पश्यन्ति त्वां महाबल । पृथिव्या गतिभूतो ऽसि प्राणिनामपि राघव ।। 7.83.12 ।। Uttara Kanda,83,13,स त्वमेवंविधं यज्ञमाहर्तासि कथं नृप । पृथिव्यां राजवंशानां विनाशो यत्र दृश्यते ।। 7.83.13 ।। Uttara Kanda,83,14,पृथिव्यां ये च पुरुषा राजन्पौरुषमागताः । सर्वेषां भविता तत्र सङ्क्षयः सर्वकोपजः ।। 7.83.14 ।। Uttara Kanda,83,15,स त्वं पुरुषशार्दूल गुणैरतुलविक्रम । पृथिवीं नार्हसे हन्तुं वशे हि तव वर्तते ।। 7.83.15 ।। Uttara Kanda,83,16,भरतस्य तु तद्वाक्यं श्रुत्वा ऽमृतमयं तदा । प्रहर्षमतुलं लेभे रामः सत्यपराक्रमः ।। 7.83.16 ।। Uttara Kanda,83,17,उवाच च शुभं वाक्यं कैकेय्यानन्दवर्धनम् । प्रीतो ऽस्मि परितुष्टो ऽस्मि तवाद्य वचने ऽनघ ।। 7.83.17 ।। Uttara Kanda,83,18,इदं वचनमक्लीबं त्वया धर्मसमाहितम् । व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम् ।। 7.83.18 ।। Uttara Kanda,83,19,एष्यदस्मदभिप्रायाद्राजसूयात्क्रतूत्तमात् । निवर्तयामि धर्मज्ञ तव सुव्याहृतेन च ।। 7.83.19 ।। Uttara Kanda,83,20,लोकपीडाकरं कर्म न कर्तव्यं विचक्षणैः । बालानां तु शुभं वाक्यं ग्राह्य लक्ष्मणपूर्वज । तस्माच्छृणोमि ते वाक्यं साधु युक्तं महामते ।। 7.83.20 ।। Uttara Kanda,83,21,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्र्यशीतितमः सर्गः ।। 83 ।। Uttara Kanda,84,1,तथोक्तवति रामे तु भरते च महात्मनि । लक्ष्मणो ऽथ शुभं वाक्यमुवाच रघुनन्दनम् ।। 7.84.1 ।। Uttara Kanda,84,2,अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम् । पावनस्तव दुर्धर्षो रोचतां रघुनन्दन ।। 7.84.2 ।। Uttara Kanda,84,3,श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि । ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः ।। 7.84.3 ।। Uttara Kanda,84,4,पुरा किल महाबाहो देवासुरसमागमे । वृत्रो नाम महानासीद्दैतेयो लोकसम्मतः ।। 7.84.4 ।। Uttara Kanda,84,5,विस्तीर्णो योजनशतमुच्छ्रितस्त्रिगुणं ततः । अनुरागेण लोकांस्त्रीन्स्नेहात्पश्यति सर्वतः ।। 7.84.5 ।। Uttara Kanda,84,6,धर्मज्ञश्च कृतज्ञश्च बुद्ध्या च परिनिष्ठितः । शशास पृथिवीं स्फीतां धर्मेण सुसमाहितः ।। 7.84.6 ।। Uttara Kanda,84,7,तस्मिन्प्रशासति तदा सर्वकामदुघा मही । रसवन्ति प्रभूनानि मूलानि च फलानि च ।। 7.84.7 ।। Uttara Kanda,84,8,अकृष्टपच्या पृथिवी सुसम्पन्ना महात्मनः । स राज्यं तादृशं भुङ्क्ते स्फीतमद्भुतदर्शनम् ।। 7.84.8 ।। Uttara Kanda,84,9,तस्य बुद्धिः समुप्तन्ना तपः कुर्यामनुत्तमम् । तपो हि परमं श्रेयः सम्मोहमितरत्सुखम् ।। 7.84.9 ।। Uttara Kanda,84,10,स निक्षिप्य सुतं ज्येष्ठं पौरेषु मधुरेश्वरम् । तप उग्रं समातिष्ठत्तापयन्सर्वदेवताः ।। 7.84.10 ।। Uttara Kanda,84,11,तपस्तप्यति वृत्रे तु वासवः परमार्तवत् । विष्णुं समुपसङ्क्रम्य वाक्यमेतदुवाच ह ।। 7.84.11 ।। Uttara Kanda,84,12,तपस्यता महाबाहो लोकाः वृत्रेण निर्जिताः । बलवान्स हि धर्मात्मा नैनं शक्ष्यामि शासितुम् ।। 7.84.12 ।। Uttara Kanda,84,13,यद्यसौ तप आतिष्ठेद्भूय एवासुरेश्वर । यावल्लोका धरिष्यन्ति तावदस्य वशानुगाः ।। 7.84.13 ।। Uttara Kanda,84,14,तं चैनं परमोदारमुपेक्षसि महाबलम् । क्षणं हि न भवेद्वृत्रः क्रुद्धे त्वयि सुरेश्वर ।। 7.84.14 ।। Uttara Kanda,84,15,यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः । तदाप्रभृति लोकानां नाथत्वमुपलब्धवान् ।। 7.84.15 ।। Uttara Kanda,84,16,स त्वं प्रसादं लोकानां कुरुष्व सुसमाहितः । त्वत्कृतेन हि सर्वं स्याप्रशान्तमरुजं जगत् ।। 7.84.16 ।। Uttara Kanda,84,17,इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसः । वृत्रघातेन महता तेषां साह्यं कुरुष्व ह ।। 7.84.17 ।। Uttara Kanda,84,18,त्वया हि नित्यशः साह्यं कृतमेषां महात्मनाम् । असह्यमिदमन्येषामगतीनां गतिर्भवान् ।। 7.84.18 ।। Uttara Kanda,84,19,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुरशीतितमः सर्गः ।। 84 ।। Uttara Kanda,85,1,लक्ष्मणस्य तु तद्वाक्यं श्रुत्वा शत्रुनिबर्हणः । वृत्रघातमशेषेण कथयेत्याह सुव्रत ।। 7.85.1 ।। Uttara Kanda,85,2,राघवेणैवमुक्तस्तु सुमित्रानन्दवर्धनः । भूय एव कथां दिव्यां कथयामास सुव्रतः ।। 7.85.2 ।। Uttara Kanda,85,3,सहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम् । विष्णुर्देवानुवाचेदं सर्वानिन्द्रपुरोगमान् ।। 7.85.3 ।। Uttara Kanda,85,4,पूर्वं सौहृदबद्धो ऽस्मि वृत्रस्य ह महात्मनः । तेन युष्मत्प्रियार्थं हि नाहं हन्मि महासुरम् ।। 7.85.4 ।। Uttara Kanda,85,5,अवश्यं करणीयं च भवतां सुखमुत्तमम् । तस्मादुपायमाख्यास्ये येन वृत्रो निहन्यते ।। 7.85.5 ।। Uttara Kanda,85,6,त्रिधाभूतं करिष्यामि ह्यात्मानं सुरसत्तमाः । तेन वृत्रं सहस्राक्षो वधिष्यति न संशयः ।। 7.85.6 ।। Uttara Kanda,85,7,एकांशो वासवं यातु द्वितीयो वज्रमेव तु । तृतीयो भूतलं शक्रस्तदा वृत्रं वधिष्यति ।। 7.85.7 ।। Uttara Kanda,85,8,तथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन् । एवमेतन्न सन्देहो यथा वदसि दैत्यहन् ।। 7.85.8 ।। Uttara Kanda,85,9,भद्रं ते ऽस्तु गमिष्यामो वृत्रासुरवधैषिणः । भजस्व परमोदार वासवं स्वेन तेजसा ।। 7.85.9 ।। Uttara Kanda,85,10,ततः सर्वे महात्मानः सहस्राक्षपुरोगमाः । तदारण्यमुपाक्रामन्यत्र वृत्रो महासुरः ।। 7.85.10 ।। Uttara Kanda,85,11,ते पश्यंस्तेजसा भूतं तप्यन्तमसुरोत्तमम् । पिबन्तमिव लोकांस्त्रीन्निर्दहन्तमिवाम्बरम् ।। 7.85.11 ।। Uttara Kanda,85,12,दृष्ट्वैव चासुरश्रेष्ठं देवास्त्रासमुपागमन् । कथमेनं वधिष्यामः कथं न स्यात्पराजयः ।। 7.85.12 ।। Uttara Kanda,85,13,तेषां चिन्तयतां तत्र सहस्राक्षः पुरन्दरः । वज्रं प्रगृह्य पाणिभ्यां प्राहिणोद्वृत्रमूर्धनि ।। 7.85.13 ।। Uttara Kanda,85,14,कालाग्निनेव घोरेण तप्तेनैव महार्चिषा । पतता वृत्रशिरसा जगत्ऺत्रासमुपागमत् ।। 7.85.14 ।। Uttara Kanda,85,15,असम्भाव्यं वधं तस्य वृत्रस्य विबुधाधिपः । चिन्तयानो जगामाशु लोकस्यान्तं महायशाः ।। 7.85.15 ।। Uttara Kanda,85,16,तमिन्द्रं ब्रह्महत्या ऽ ऽशु गच्छन्तमनुगच्छति । अपतच्चास्य गात्रेषु तमिन्द्रं दुःखमाविशत् ।। 7.85.16 ।। Uttara Kanda,85,17,हतारयः प्रनष्टेन्द्रा देवाः साग्निपुरोगमाः । विष्णुं त्रिभुवनेशानं मुहुर्मुहुरपूजयन् ।। 7.85.17 ।। Uttara Kanda,85,18,त्वं गतिः परमेशान पूर्वजो जगतः पिता । रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ।। 7.85.18 ।। Uttara Kanda,85,19,हतश्चायं त्वया वृत्रो ब्रह्महत्या च वासवम् । बाधते सुरशार्दूल मोक्षं तस्या विनिर्दिश ।। 7.85.19 ।। Uttara Kanda,85,20,तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् । मामेव यजतां शक्रः पावयिष्यामि वज्रिणम् ।। 7.85.20 ।। Uttara Kanda,85,21,पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः । पुनरेष्यति देवानामिन्द्रत्वमकुतोभयम् ।। 7.85.21 ।। Uttara Kanda,85,22,एवं सन्दिश्य तां वाणीं देवानाममृतोपमाम् । जगाम विष्णुर्देवेशः स्तूयमानस्त्रिविष्टपम् ।। 7.85.22 ।। Uttara Kanda,85,23,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चाशीतितमः सर्गः ।। 85 ।। Uttara Kanda,86,1,तदा वृत्रवधं सर्वमखिलेन स लक्ष्मणः । कथयित्वा नरश्रेष्ठः कथाशेषं प्रचक्रमे ।। 7.86.1 ।। Uttara Kanda,86,2,ततो हते महावीर्ये वृत्रे देवभयङ्करे । ब्रह्महत्यावृतः शक्रः सञ्ज्ञां लेभे न वृत्रहा ।। 7.86.2 ।। Uttara Kanda,86,3,सो ऽन्तमाश्रित्य लोकानां नष्टसञ्ज्ञो विचेतनः । कालं तत्रावसत्कञ्चिद्वेष्टमान इवोरगः ।। 7.86.3 ।। Uttara Kanda,86,4,अथ नष्टे सहस्राक्षे उद्विग्नमभवज्जगत् । भूमिश्च ध्वस्तसङ्काशा निःस्नेहा शुष्ककानना ।। 7.86.4 ।। Uttara Kanda,86,5,निःस्रोतसश्च ते सर्वे तु ह्रदाश्च सरितस्तथा । सङ्क्षोभश्चैव सत्त्वानामनावृष्टिकृतो ऽभवत् ।। 7.86.5 ।। Uttara Kanda,86,6,क्षीयमाणे तु लोके ऽस्मिन्सम्भ्रान्तमनसः सुराः । यदुक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन् ।। 7.86.6 ।। Uttara Kanda,86,7,ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः । तं देशं समुपाजग्मुर्यत्रेन्द्रो भयमोहितः ।। 7.86.7 ।। Uttara Kanda,86,8,ते तु दृष्ट्वा सहस्राक्षमावृतं ब्रह्महत्यया । तं पुरस्कृत्य देवेशमश्वमेधमुपाक्रमन् ।। 7.86.8 ।। Uttara Kanda,86,9,ततो ऽश्वमेधः सुमहान्महेन्द्रस्य महात्मनः । ववृधे ब्रह्महत्ययाः पावनार्थं नरेश्वर ।। 7.86.9 ।। Uttara Kanda,86,10,ततो यज्ञे समाप्ते तु ब्रह्महत्या महात्मनः । अभिगम्याब्रवीद्वाक्यं क्व मे स्थानं विधास्यथ ।। 7.86.10 ।। Uttara Kanda,86,11,ते तामूचुस्तदा देवास्तुष्टाः प्रीतिसमन्विताः । चतुर्धा विभजात्मानमात्मनैव दुरासदे ।। 7.86.11 ।। Uttara Kanda,86,12,देवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम् । सन्निधौ स्थानमन्यत्र वरयामास दुर्वसा ।। 7.86.12 ।। Uttara Kanda,86,13,एकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै । चतुरो वार्षिकान्मासान्दर्पघ्नी कामवारिणी ।। 7.86.13 ।। Uttara Kanda,86,14,भूम्यामहं सर्वकालमेकेनांशेन सर्वदा । वसिष्यामि न सन्देहः सत्येनैतद्ब्रवीमि वः ।। 7.86.14 ।। Uttara Kanda,86,15,यो ऽयमंशस्तृतीयो मे स्त्रीषु यौवनशालिषु । त्रिरात्रं दर्पपूर्णासु वशिष्ये दर्पघातिनी ।। 7.86.15 ।। Uttara Kanda,86,16,हन्तारो ब्राह्मणान्ये तु मृषापूर्वमदूषकान् । तांश्चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः ।। 7.86.16 ।। Uttara Kanda,86,17,प्रत्यूचुस्तां ततो देवा यथा वदसि दुर्वसे । तथा भवतु तत्सर्वं साधयस्व यदीप्सितम् ।। 7.86.17 ।। Uttara Kanda,86,18,ततः प्रीत्या ऽन्विता देवाः सहस्राक्षं ववन्दिरे । विज्वरः स च पूतात्मा वासवः समपद्यत ।। 7.86.18 ।। Uttara Kanda,86,19,प्रशान्तं च जगत्सर्वं सहस्राक्षे प्रतिष्ठिते । यज्ञं चाद्भुतसङ्काशं तदा शक्रो ऽभ्यपूजयत् ।। 7.86.19 ।। Uttara Kanda,86,20,ईदृशो ह्यश्वमेधस्य प्रसादो रघुनन्दन । यजस्व सुमहाभाग हयमेधेन पार्थिव ।। 7.86.20 ।। Uttara Kanda,86,21,इति लक्ष्मणवाक्यमुत्तमं नृपतिरतीव मनोहरं महात्मा । परितोषमवाप हृष्टचेता निशमय्येन्द्रसमानविक्रमौजाः ।। 7.86.21 ।। Uttara Kanda,86,22,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षडशीतितमः सर्गः ।। 86 ।। Uttara Kanda,87,1,तच्छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदः । प्रत्युवाच महातेजाः प्रहसन्राघवो वचः ।। 7.87.1 ।। Uttara Kanda,87,2,एवमेव नरश्रेष्ठ यथा वदसि लक्ष्मण । वृत्रघातमशेषेण वाजिमेधफलं च यत् ।। 7.87.2 ।। Uttara Kanda,87,3,श्रूयते हि पुरा सौम्य कर्दमस्य प्रजापतेः । पुत्रो बाह्लीश्वरः श्रीमानिलो नाम महाशयाः ।। 7.87.3 ।। Uttara Kanda,87,4,स राजा पृथिवीं सर्वां वशे कृत्वा सुधार्मिकः । राज्यं चैव नरव्याघ्र पुत्रवत्पर्यपालयत् ।। 7.87.4 ।। Uttara Kanda,87,5,सुरैश्च परमोदारैर्दैतेयैश्च महाधनैः । नागराक्षसगन्धर्वैर्यक्षैश्च सुमहात्मभिः ।। 7.87.5 ।। Uttara Kanda,87,6,पूज्यते नित्यशः सौम्य भयार्तै रघुनन्दन । अबिभ्यंश्च त्रयो लोकाः सरोषस्य महात्मनः ।। 7.87.6 ।। Uttara Kanda,87,7,स राजा तादृशो ह्यासीद्धर्मे वीर्ये च निष्ठितः । बुद्ध्या च परमोदारो बाह्लीकेशो महायशाः ।। 7.87.7 ।। Uttara Kanda,87,8,स प्रचक्रे महाबाहुर्मृगयां रुचिरे वने । चैत्रे मनोरमे मासि सभृत्यबलवाहनः ।। 7.87.8 ।। Uttara Kanda,87,9,प्रजघ्ने च नृपो ऽरण्ये मृगाञ्छतसहस्रशः । हत्वैव तृप्तिर्नाभूच्च राज्ञस्तस्य महात्मनः ।। 7.87.9 ।। Uttara Kanda,87,10,नानामृगाणामयुतं वध्यमानं महात्मना । यत्र जातो माहासेनस्तं देशमुपचक्रमे ।। 7.87.10 ।। Uttara Kanda,87,11,तस्मिन्प्रदेशे देवेश शैलराजसुतां हरः । रमयामास दुर्धर्षः सर्वैरनुचरैः सह ।। 7.87.11 ।। Uttara Kanda,87,12,कृत्वा स्त्रीरूपमात्मानमुमेशो गोपतिध्वजः । देव्याः प्रियचिकीर्षुः संस्तस्मिन्पर्वतनिर्झरे ।। 7.87.12 ।। Uttara Kanda,87,13,ये तु तत्र वनोद्देशे सत्त्वाः पुरुषवादिनः । वृक्षाः पुरुषनामानस्ते ऽभवन् स्त्रीजनास्तदा ।। 7.87.13 ।। Uttara Kanda,87,14,यच्च किञ्चन तत्सर्वं नारीसञ्ज्ञं बभूव ह । एतस्मिन्नन्तरे राजा स इलः कर्दमात्मजः । निघ्नन्मृगसहस्राणि तं देशमुपचक्रमे ।। 7.87.14 ।। Uttara Kanda,87,15,स दृष्ट्वा स्त्रीकृतं सर्वं सव्यालमृगपक्षकम् । आत्मनं स्त्रीकृतं चैव सानुगं रघुनन्दन ।। 7.87.15 ।। Uttara Kanda,87,16,तस्य दुःखं महच्चासीद्दृष्ट्वा ऽ ऽत्मानं तथागतम् । उमापतेश्च तत्कर्म ज्ञात्वा त्रासमुपागमत् ।। 7.87.16 ।। Uttara Kanda,87,17,ततो देवं महात्मानं शितिकण्ठं कपर्दिनम् । जगाम शरणं राजा सभृत्यबलवाहनः ।। 7.87.17 ।। Uttara Kanda,87,18,ततः प्रहस्य वरदः सह देव्या महेश्वरः । प्रजापतिसुतं वाक्यमुवाच वरदः स्वयम् ।। 7.87.18 ।। Uttara Kanda,87,19,उत्तिष्ठोत्तिष्ठ राजर्षे कार्दमेय महाबल । पुरुषत्वमृते सौम्य वरं वरय सुव्रत ।। 7.87.19 ।। Uttara Kanda,87,20,ततः स राजा दुःखार्तः प्रत्याख्यातो महात्मना । न च जग्राह स्त्रीभूतो वरमन्यं सुरोत्तमात् ।। 7.87.20 ।। Uttara Kanda,87,21,ततः शोकेन महता शैलराजसुतां नृपः । प्रणिपत्य ह्युमां देवीं सर्वेणैवान्तरात्मना ।। 7.87.21 ।। Uttara Kanda,87,22,ईशे वराणां वरदे लोकानामसि भामिनी । अमोघदर्शने देवी भज सौम्येन चक्षुषा ।। 7.87.22 ।। Uttara Kanda,87,23,हृद्गतं तस्य राजर्षेर्विज्ञाय हरसन्निधौ । प्रत्युवाच शुभं वाक्यं देवी रुद्रस्य संमता ।। 7.87.23 ।। Uttara Kanda,87,24,अर्धस्य देवो वरदो वरार्धस्य तव ह्यहम् । तस्मादर्धं गृहाण त्वं स्त्रीपुंसोर्यावदिच्छसि ।। 7.87.24 ।। Uttara Kanda,87,25,तदद्भुततरं श्रुत्वा देव्या वरमनुत्तमम् । सम्प्रहृष्टमना भूत्वा राजा वाक्यमथाब्रवीत् ।। 7.87.25 ।। Uttara Kanda,87,26,यदि देवि प्रसन्ना मे रूपेणाप्रतिमा भुवि । मासं स्त्रीत्वमुपासित्वा मासं स्यां पुरुषः पुनः ।। 7.87.26 ।। Uttara Kanda,87,27,ईप्सितं तस्य विज्ञाय देवी सुरुचिरानना । प्रत्युवाच शुभं वाक्यमेवमेव भविष्यति ।। 7.87.27 ।। Uttara Kanda,87,28,राजन्पुरुषभूतस्त्वं स्त्रीभावं न स्मरिष्यसि । स्त्रीभूतश्च परं मासं न स्मरिष्यसि पौरुषम् ।। 7.87.28 ।। Uttara Kanda,87,29,एवं स राजा पुरुषो मासं भूत्वाथ कार्दमिः । त्रैलोक्यसुन्दरी नारी मासमेकमिला ऽभवत् ।। 7.87.29 ।। Uttara Kanda,87,30,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्ताशीतितमः सर्गः ।। 87 ।। Uttara Kanda,88,1,तां कथामिलसम्बद्धां रामेण समुदीरिताम् । लक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ ।। 7.88.1 ।। Uttara Kanda,88,2,तौ रामं प्राञ्जली भूत्वा तस्य राज्ञो महात्मनः । विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः ।। 7.88.2 ।। Uttara Kanda,88,3,कथं स राजा स्त्रीभूतो वर्तयामास दुर्गतिः । पुरुषः स यदा भूतः कां वृत्तिं वर्तयत्यसौ ।। 7.88.3 ।। Uttara Kanda,88,4,तयोस्तद्भाषितं श्रुत्वा कौतूहलसमन्वितम् । कथयामास काकुत्स्थस्तस्य राज्ञो यथागतम् ।। 7.88.4 ।। Uttara Kanda,88,5,तमेव प्रथमं मासं स्त्रीभूता लोकसुन्दरी । ताभिः परिवृता स्त्रीभिर्ये च पूर्वपदानुगाः ।। 7.88.5 ।। Uttara Kanda,88,6,तत्काननं विगाह्वाशु विजह्रे लोकसुन्दरी । द्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा ।। 7.88.6 ।। Uttara Kanda,88,7,वाहनानि च सर्वाणि सा त्यक्त्वा वै समन्ततः । पर्वताभोगविवरे तस्मिन्रेमे इला तदा ।। 7.88.7 ।। Uttara Kanda,88,8,अथ तस्मिन्वनोद्देशे पर्वतस्याविदूरतः । सरः सुरुचिरप्रख्यं नानापक्षिगणैर्युतम् ।। 7.88.8 ।। Uttara Kanda,88,9,ददर्श सा त्विला तस्मिन्बुधं सोमसुतं तदा । ज्वलन्तं स्वेन वपुषा पूर्णसोममिवोदितम् ।। 7.88.9 ।। Uttara Kanda,88,10,तपन्तं च तपस्तीव्रमम्भोमध्ये दुरासदम् । यशस्करं कामकरं कारुण्ये पर्यवस्थितम् ।। 7.88.10 ।। Uttara Kanda,88,11,सा तं जलाशयं सर्वं क्षोभयामास विस्मिता । सहगैः पूर्वपुरुषैः स्त्रीभूतै रघुनन्दन ।। 7.88.11 ।। Uttara Kanda,88,12,बुधस्तु तां समीक्ष्यैव कामबाणवशं गतः । नोपलेभे तदा ऽ ऽत्मानं सञ्चचाल तदा ऽ ऽम्भसि ।। 7.88.12 ।। Uttara Kanda,88,13,इलां निरीक्षमाणस्तु त्रैलोक्याभ्यधिकां शुभाम् । चिन्तां समभ्यतिक्रामत् का न्वियं देवताधिका ।। 7.88.13 ।। Uttara Kanda,88,14,न देवीषु न नागीषु नासुरीष्वप्सरःसु च । दृष्टपूर्वा मया काचिद्रूपेणानेन शोभिता ।। 7.88.14 ।। Uttara Kanda,88,15,सदृशीयं मम भवेद्यदि नान्यपरिग्रहः । इति बुद्धिं समास्थाय जलात्कूलमुपागमत् ।। 7.88.15 ।। Uttara Kanda,88,16,आश्रमं समुपागम्य ततस्ताः प्रमदोत्तमाः । शब्दापयत धर्मात्मा ताश्चैनं च ववन्दिरे ।। 7.88.16 ।। Uttara Kanda,88,17,स ताः पप्रच्छ धर्मात्मा कस्यैषा लोकसुन्दरी । किमर्थमागता चैव सर्वमाख्यात मा चिरम् ।। 7.88.17 ।। Uttara Kanda,88,18,शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम् । श्रुत्वा स्त्रियश्च ताः सर्वा ऊचुर्मधुरया गिरा ।। 7.88.18 ।। Uttara Kanda,88,19,अस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा । अपतिः काननान्तेषु सहास्माभिश्चरत्यसौ ।। 7.88.19 ।। Uttara Kanda,88,20,तद्वाक्यमव्यक्तपदं तासां स्त्रीणां निशम्य च । विद्यामावर्तनीं पुण्यामावर्तयत स द्विजः ।। 7.88.20 ।। Uttara Kanda,88,21,सो ऽर्थं विदित्वा सकलं तस्य राज्ञो यथागतम् । सर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुङ्गवः ।। 7.88.21 ।। Uttara Kanda,88,22,अत्र किम्पुरुषीर्भूत्वा शैलरोधसि वत्स्यथ । आवासस्तु गिरावस्मिञ्छीघ्रमेव विधीयताम् ।। 7.88.22 ।। Uttara Kanda,88,23,मूलपत्रफलैः सर्वा वर्तयिष्यथ नित्यदा । स्त्रियः किम्पुरुषान्नाम भर्तऽन्समुपलप्स्यथ ।। 7.88.23 ।। Uttara Kanda,88,24,ताः श्रुत्वा सोमपुत्रस्य वाचं किम्पुरुषीकृताः । उपासाञ्चक्रिरे शैलं वध्वस्ता बहुलास्तदा ।। 7.88.24 ।। Uttara Kanda,88,25,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टाशीतितमः सर्गः ।। 88 ।। Uttara Kanda,89,1,श्रुत्वा किम्पुरुषोत्पत्तिं लक्ष्मणो भरतस्तदा । आश्चर्यमिति चाब्रूतामुभौ रामं जनेश्वरम् ।। 7.89.1 ।। Uttara Kanda,89,2,अथ रामः कथामेतां भूय एव महायशाः । कथयामास धर्मात्मा प्रजापतिसुतस्य वै ।। 7.89.2 ।। Uttara Kanda,89,3,सर्वास्ता विद्रुता दृष्ट्वा किन्नरीर्ऋषिसत्तमः । उवाच रूपसम्पन्नां तां स्त्रियं प्रहसन्निव ।। 7.89.3 ।। Uttara Kanda,89,4,सोमस्याहं सुदयितः सुतः सुरुचिरानने । भजस्व मां वरारोहे भक्त्या स्निग्धेन चक्षुषा ।। 7.89.4 ।। Uttara Kanda,89,5,तस्य तद्वचनं श्रुत्वा शून्ये स्वजनवर्जिते । इला सुरुचिरप्रख्यं प्रत्युवाच महाग्रहम् ।। 7.89.5 ।। Uttara Kanda,89,6,अहं कामचरी सौम्य तवास्मि वशवर्तिनी । प्रशाधि मां सोमसुत यथेच्छसि तथा कुरु ।। 7.89.6 ।। Uttara Kanda,89,7,तस्यास्तदद्भुतप्रख्यं श्रुत्वा हर्षमुपागतः । स वै कामी सह तया रेमे चन्द्रमसः सुतः ।। 7.89.7 ।। Uttara Kanda,89,8,बुधस्य माधवो मासस्तामिलां रुचिराननाम् । गतो रमयतो ऽत्यर्थं क्षणवत्तस्य कामिनः ।। 7.89.8 ।। Uttara Kanda,89,9,अथ मासे तु सम्पूर्णे पूर्णेन्दुसदृशाननः । प्रजापतिसुतः श्रीमाञ्छयने प्रत्यबुध्यत ।। 7.89.9 ।। Uttara Kanda,89,10,सो ऽपश्यत्सोमजं तत्र तपन्तं सलिलाशये । ऊर्ध्वबाहुं निरालम्बं तं राजा प्रत्यभाषत ।। 7.89.10 ।। Uttara Kanda,89,11,भगवन्पर्वतं दुर्गं प्रविष्टो ऽस्मि सहानुगः । न च पश्यामि तत्सैन्यं क्व नु ते मामका गताः ।। 7.89.11 ।। Uttara Kanda,89,12,तच्छ्रुत्वा तस्य राजर्षेर्नष्टसञ्ज्ञस्य भाषितम् । प्रत्युवाच शुभं वाक्यं सान्त्वयन्परया गिरा ।। 7.89.12 ।। Uttara Kanda,89,13,अश्मवर्षेण महता भृत्यास्ते विनिपातिताः । त्वं चाश्रमपदे सुप्तो वातवर्षभयार्दितः ।। 7.89.13 ।। Uttara Kanda,89,14,समाश्वसिहि भद्रं ते निर्भयो विगतज्वरः । फलमूलाशनो वीर निवसेह यथासुखम् ।। 7.89.14 ।। Uttara Kanda,89,15,स राजा तेन वाक्येन प्रत्याश्वस्तो महामतिः । प्रत्युवाच ततो वाक्यं दीनो भृत्यक्षयाद् भृशम् ।। 7.89.15 ।। Uttara Kanda,89,16,त्यक्ष्याम्यहं स्वकं राज्यं नाहं भृत्यैर्विनाकृतः । वर्तयेयं क्षणं ब्रह्मन्समनुज्ञातुमर्हसि ।। 7.89.16 ।। Uttara Kanda,89,17,सुतो धर्मपरो ब्रह्मञ्ज्येष्ठो मम महायशाः । शशबिन्दुरिति ख्यातः स मे राज्यं प्रपत्स्यते ।। 7.89.17 ।। Uttara Kanda,89,18,न हि शक्ष्याम्यहं हित्वा भृत्यदारान्सुखान्वितान् । प्रतिवक्तुं महातेजः किञ्चिदप्यशुभं वचः ।। 7.89.18 ।। Uttara Kanda,89,19,तथा ब्रुवति राजेन्द्रे बुधः परममद्भुतम् । सान्त्वपूर्वमथोवाच वासस्त इह रोचताम् ।। 7.89.19 ।। Uttara Kanda,89,20,न सन्तापस्त्वया कार्यः कार्दमेय महाबल । संवत्सरोषितस्येह कारयिष्यामि ते हितम् ।। 7.89.20 ।। Uttara Kanda,89,21,तस्य तद्वचनं श्रुत्वा बुधस्याक्लिष्टकर्मणः । वासाय विदधे बुद्धिं यदुक्तं ब्रह्मवादिना ।। 7.89.21 ।। Uttara Kanda,89,22,मासं स स्त्री तदा भूत्वा रमयत्यनिशं शुदा । मासं पुरुषभावेन धर्मबुद्धिं चकार सः ।। 7.89.22 ।। Uttara Kanda,89,23,ततः सा नवमे मासि इला सोमसुतात्सुतम् । जनयामास सुश्रोणी पुरूरवसमूर्जितम् ।। 7.89.23 ।। Uttara Kanda,89,24,जातमात्रं तु सुश्रोणी पितुर्हस्ते न्यवेशयत् । बुधस्य समवर्णभमिला पुत्रं महाबलम् ।। 7.89.24 ।। Uttara Kanda,89,25,बुधस्तु पुरुषीभूतं स वै संवत्सरान्तरम् । कथाभी रमयामास धर्मयुक्ताभिरात्मवान् ।। 7.89.25 ।। Uttara Kanda,89,26,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोननवतितमः सर्गः ।। 89 ।। Uttara Kanda,90,1,तथोक्तवति रामे तु तस्य जन्म तदद्भुतम् । उवाच लक्ष्मणो भूयो भरतश्च महायशाः ।। 7.90.1 ।। Uttara Kanda,90,2,इला सा सोमपुत्रस्य संवत्सरमथोषिता । अकरोत्किं नरश्रेष्ठ तत्त्वं शंसितुमर्हसि ।। 7.90.2 ।। Uttara Kanda,90,3,तयोस्तद्वाक्यमाधुर्यं निशम्य परिपृच्छतोः । रामः पुनरुवाचेमां प्रजापतिसुते कथाम् ।। 7.90.3 ।। Uttara Kanda,90,4,पुरुषत्वं गते शूरे बुधः परमबुद्धिमान् । संवर्तं परमोदारमाजुहाव महायशाः ।। 7.90.4 ।। Uttara Kanda,90,5,च्यवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम् । प्रमोदनं मोदकरं ततो दुर्वाससं मुनिम् ।। 7.90.5 ।। Uttara Kanda,90,6,एतान्सर्वान्समानीय वाक्यज्ञस्तत्त्वदर्शनः । उवाच सर्वान्सुहृदो धैर्येण सुसमाहितान् ।। 7.90.6 ।। Uttara Kanda,90,7,अयं राजा महाबाहुः कर्दमस्य इलः सुतः । जानीतैनं यथाभूतं श्रेयो ह्यत्र विधीयताम् ।। 7.90.7 ।। Uttara Kanda,90,8,तेषां संवदतामेव तमाश्रममुपागमत् । कर्दमस्तु महातेजा द्विजैः सह महात्मभिः ।। 7.90.8 ।। Uttara Kanda,90,9,पुलस्त्यश्च क्रतुश्चैव वषट्कारस्तथैव च । ओङ्कारश्च महातेजास्तमाश्रममुपागमत् ।। 7.90.9 ।। Uttara Kanda,90,10,ते सर्वे हृष्टमनसः परस्परसमागमे । हितैषिणो बाल्हिपतेः पृथग्वाक्यान्यथाब्रुवन् ।। 7.90.10 ।। Uttara Kanda,90,11,कर्दमस्त्वब्रवीद्वाक्यं सुतार्थं परमं हितम् । द्विजाः शृणुत मद्वाक्यं यच्छ्रेयः पार्थिवस्य हि ।। 7.90.11 ।। Uttara Kanda,90,12,नान्यं पश्यामि भैषज्यमन्तरा वृषभध्वजम् । नाश्वमेधात्परो यज्ञः प्रियश्चैव महात्मनः । तस्माद्यजामहे सर्वे पार्थिवार्थे दुरासदम् ।। 7.90.12 ।। Uttara Kanda,90,13,कर्दमेनैवमुक्तास्तु सर्व एव द्विजर्षभाः । रोचयन्ति स्म तं यज्ञं रुद्रस्याराधनं प्रति ।। 7.90.13 ।। Uttara Kanda,90,14,संवर्तस्य तु राजर्षेः शिष्यः पुरपुरञ्जयः । मरुत्त इति विख्यातस्तं यज्ञं समुपाहरत् ।। 7.90.14 ।। Uttara Kanda,90,15,ततो यज्ञो महानासीद्बुधाश्रमसमीपतः । रुद्रश्च परमं तोषमाजगाम महायशाः ।। 7.90.15 ।। Uttara Kanda,90,16,अथ यज्ञे समाप्ते तु प्रीतः परमया मुदा । उमापतिर्द्विजान्सर्वानुवाच इलसन्निधौ ।। 7.90.16 ।। Uttara Kanda,90,17,प्रीतो ऽस्मि हयमेधेन भक्त्या च द्विजसत्तमाः । अस्य बाह्लिपतेश्चैव किं करोमि प्रियं शुभम् ।। 7.90.17 ।। Uttara Kanda,90,18,तथा वदति देवेशे द्विजास्ते सुसमाहिताः । प्रसादयन्ति देवेशं यथा स्यात्पुरुषस्त्विला ।। 7.90.18 ।। Uttara Kanda,90,19,ततः प्रीतो महादेवः पुरुषत्वं ददौ पुनः । इलायै सुमहातेजा दत्त्वा चान्तरधीयत ।। 7.90.19 ।। Uttara Kanda,90,20,निवृत्ते हयमेधे च गतश्चादर्शनं हरः । यथागतं द्विजाः सर्वे ह्यगच्छन्दीर्घदर्शिनः ।। 7.90.20 ।। Uttara Kanda,90,21,राजा तु बाह्लिमुत्सृज्य मध्यदेशे ह्यनुत्तमम् । निवेशयामास पुरं प्रतिष्ठानं यशस्करम् ।। 7.90.21 ।। Uttara Kanda,90,22,शशबिन्दुश्च राजर्षिर्बाह्लिं पुरपुरञ्जयः । प्रतिष्ठाने इलो राजा प्रजापतिसुतो बली ।। 7.90.22 ।। Uttara Kanda,90,23,स काले प्राप्तवाँल्लोकमिलो ब्राह्ममनुत्तमम् । ऐलः पुरूरवा राजा प्रतिष्ठानमवाप्तवान् ।। 7.90.23 ।। Uttara Kanda,90,24,ईदृशो ह्यश्वमेधस्य प्रभावः पुरुषर्षभौ । स्त्रीभूतः पौरुषं लेभे यच्चान्यदपि दुर्लभम् ।। 7.90.24 ।। Uttara Kanda,90,25,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे नवतितमः सर्गः ।। 90 ।। Uttara Kanda,91,1,एतदाख्याय काकुत्स्थो भ्रातृभ्याममितप्रभः । लक्ष्मणं पुनरेवाह धर्मयुक्तमिदं वचः ।। 7.91.1 ।। Uttara Kanda,91,2,वसिष्ठं वामदेवं च जाबालिमथ कश्यपम् । द्विजांश्च सर्वप्रवरानश्वमेधपुरस्कृतान् ।। 7.91.2 ।। Uttara Kanda,91,3,एतान्सर्वान्समानीय मन्त्रयित्वा च लक्ष्मण । हयं लक्षणसम्पन्नं विमोक्ष्यामि समाधिना ।। 7.91.3 ।। Uttara Kanda,91,4,तद्वाक्यं राघवेणोक्तं श्रुत्वा त्वरितविक्रमः । द्विजान्सर्वान्समाहूय दर्शयामास राघवम् ।। 7.91.4 ।। Uttara Kanda,91,5,ते दृष्ट्वा देवसङ्काशं कृतपादाभिवन्दनम् । राघवं सुदुराधर्षमाशीर्भिः समपूजयन् ।। 7.91.5 ।। Uttara Kanda,91,6,प्राञ्जलिः स तदा भूत्वा राघवो द्विजसत्तमान् । आचचक्षे ऽश्वमेधस्य ह्यभिप्रायं महायशाः ।। 7.91.6 ।। Uttara Kanda,91,7,ते तु रामस्य तच्छ्रुत्वा नमस्कृत्वा वृषध्वजम् । अश्वमेधं द्विजाः सर्वे पूजयन्ति स्म सर्वशः ।। 7.91.7 ।। Uttara Kanda,91,8,स तेषां द्विजमुख्यानां वाक्यमद्भुतदर्शनम् । अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतो ऽभवत्तदा ।। 7.91.8 ।। Uttara Kanda,91,9,विज्ञाय कर्म तत्तेषां रामो लक्ष्मणमब्रवीत् । प्रेषयस्व द्रुतं दूतान् सुग्रीवाय महात्मने ।। 7.91.9 ।। Uttara Kanda,91,10,यथा महद्भिर्हरिभिर्बहुभिश्च वनौकसाम् । सार्धमागच्छ भद्रं ते ह्यनुभोक्तुं महोत्सवम् ।। 7.91.10 ।। Uttara Kanda,91,11,बिभीषणश्च रक्षोभिः कामगैर्बहुभिर्वृतः । अश्वमेधं महायज्ञमायात्वतुलविक्रमः ।। 7.91.11 ।। Uttara Kanda,91,12,राजानश्च महाभागा ये मे प्रियचिकीर्षवः । सानुगाः क्षिप्रमायान्तु यज्ञं द्रष्टुमनुत्तमम् ।। 7.91.12 ।। Uttara Kanda,91,13,देशान्तरगता ये च द्विजा धर्मसमाहिताः । आमन्त्रयस्व तान्सर्वानश्वमेधाय लक्ष्मण ।। 7.91.13 ।। Uttara Kanda,91,14,ऋषयश्च महाबाहो आहूयन्तां तपोधनाः । देशान्तरगताः सर्वे सदाराश्च द्विजातयः । तथैव तालावचरास्तथैव नटनर्तकाः ।। 7.91.14 ।। Uttara Kanda,91,15,यज्ञवाटश्च सुमहान्गोमत्या नैमिशे वने । आज्ञाप्यतां महाबाहो तद्धि पुण्यमनुत्तमम् ।। 7.91.15 ।। Uttara Kanda,91,16,शान्तयश्च महाबाहो प्रवर्त्यन्तां समन्ततः ।। 7.91.16 ।। Uttara Kanda,91,17,शतशश्चापि धर्मज्ञाः क्रतुमुख्यमनुत्तमम् । अनुभूय महायज्ञं नैमिशे रघुनन्दन ।। 7.91.17 ।। Uttara Kanda,91,18,तुष्टः पुष्टश्च सर्वो ऽसौ मानितश्च यथाविधि । प्रीतिं यास्यति धर्मज्ञ शीघ्रमामन्त्र्यतां जनः ।। 7.91.18 ।। Uttara Kanda,91,19,शतं वाहसहस्राणां तण्डुलानां वपुष्मताम् । अयुतं तिलमुद्गानां प्रयात्वग्रे महाबल ।। 7.91.19 ।। Uttara Kanda,91,20,चणकानां कुलित्थानां माषाणां लवणस्य च । अतो ऽनुरूपं स्नेहं च गन्धं सङ्क्षिप्तमेव च ।। 7.91.20 ।। Uttara Kanda,91,21,सुवर्णकोट्यो बहुला हिरण्यस्य शतोत्तराः । अग्रतो भरतः कृत्वा गच्छत्वग्रे समाधिना ।। 7.91.21 ।। Uttara Kanda,91,22,अन्तरा पण्यवीथ्यश्च सर्वे च नटनर्तकाः । सूदा नार्यश्च बहवो नित्यं यौवनशालिनः ।। 7.91.22 ।। Uttara Kanda,91,23,भरतेन तु सार्धं ते यान्तु सैन्यानि चाग्रतः । नैगमा बलवृद्धाश्च द्विजाश्च सुसमाहिताः ।। 7.91.23 ।। Uttara Kanda,91,24,कर्मान्तिकान्वर्धकिनः कोशाध्यक्षांश्च नैगमान् । मम मातऽस्तथा सर्वाः कुमारान्तःपुराणि च ।। 7.91.24 ।। Uttara Kanda,91,25,काञ्चनीं मम पत्नीं च दीक्षायां ज्ञांश्च कर्मणि । अग्रतो भरतः कृत्वा गच्छत्वग्रे महायशाः ।। 7.91.25 ।। Uttara Kanda,91,26,उपकार्या महार्हाश्च पार्थिवानां महौजसाम् । सानुगानां नरश्रेष्ठो व्यादिदेश महाबलः ।। 7.91.26 ।। Uttara Kanda,91,27,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकनवतितमः सर्गः ।। 91 ।। Uttara Kanda,92,1,तत्सर्वमखिलेनाशु प्रस्थाप्य भरताग्रजः । हयं लक्षणसम्पन्नं कृष्णसारं मुमोच ह ।। 7.92.1 ।। Uttara Kanda,92,2,ऋत्विग्भिर्लक्ष्मणं सार्धमश्वतन्त्रे नियोज्य च । ततो ऽभ्यगच्छत्काकुत्स्थः सह सैन्येन नैमिशम् ।। 7.92.2 ।। Uttara Kanda,92,3,यज्ञवाटं महाबाहुर्दृष्ट्वा परममद्भुतम् । प्रबर्षमतुलं लेभे श्रीमानिति वचो ऽब्रवीत् ।। 7.92.3 ।। Uttara Kanda,92,4,नैमिषे वसतस्तस्य सर्व एव नराधिपाः । आनिन्युरुपहारांश्च तान्रामः प्रत्यपूजयत् ।। 7.92.4 ।। Uttara Kanda,92,5,उपकार्या महार्हाश्च पार्थिवानां महात्मनाम् । सानुगानां नरश्रेष्ठो व्यादिदेश महामतिः ।। 7.92.5 ।। Uttara Kanda,92,6,अन्नपानानि वस्त्राणि सानुगानां महात्मनाम् । भरतः सन्ददावाशु शत्रुघ्नसहितस्तदा ।। 7.92.6 ।। Uttara Kanda,92,7,वानराश्च महात्मानः सुग्रीवसहितास्तदा । विप्राणां प्रणताः सर्वे चक्रिरे परिवेषणम् ।। 7.92.7 ।। Uttara Kanda,92,8,बिभीषणश्च रक्षोभिर्बहुभिः स्रग्विभिर्वृतः । ऋषीणामुग्रतपसां पूजां चक्रे महात्मनाम् ।। 7.92.8 ।। Uttara Kanda,92,9,एवं सुविहितो यज्ञो हयमेधो ऽभ्यवर्तत । लक्ष्मणेनागुप्ता च हयचर्या प्रवर्तत । ईदृशं राजसिंहस्य यज्ञप्रवरमुत्तमम् ।। 7.92.9 ।। Uttara Kanda,92,10,नान्यः शब्दो ऽभवत्तत्र हयमेधे महात्मनः । छन्दतो देहि विस्रब्धो यावत्तुष्यन्ति याचकाः ।। 7.92.10 ।। Uttara Kanda,92,11,तावत्सर्वाणि दत्तानि क्रतुमध्ये महात्मनः । विविधानि च गौडानि खाण्डवानि तथैव च ।। 7.92.11 ।। Uttara Kanda,92,12,न निस्सृतं भतत्योष्ठाद्वचनं यावदर्थिनाम् । तावद्वानररक्षोभिर्दत्तमेवाभ्यदृश्यत ।। 7.92.12 ।। Uttara Kanda,92,13,न कश्चिन्मलिनस्तत्र दीनो वा ऽप्यथ कृर्शतः । तस्मिन्यज्ञवरे राज्ञो हृष्टपुष्टजनावृते ।। 7.92.13 ।। Uttara Kanda,92,14,ये च तत्र महात्मानो मुनयश्चिरजीविनः । नास्मरंस्तादृशं यज्ञं नाप्यासीत् स कदाचन ।। 7.92.14 ।। Uttara Kanda,92,15,यः कृत्यवान्सुवर्णेन सुवर्णं लभते स्म सः । वित्तार्थी लभते वित्तं रत्नार्थी रत्नमेव च ।। 7.92.15 ।। Uttara Kanda,92,16,रजतानां सुवर्णानामश्मनामथ वाससाम् । अनिशं दीयमानानां राशिः समुपदृश्यते ।। 7.92.16 ।। Uttara Kanda,92,17,न शक्रस्य धनेशस्य यमस्य वरुणस्य वा । ईदृशो दृष्टपूर्वो न एवमूचुस्तपोधनाः ।। 7.92.17 ।। Uttara Kanda,92,18,सर्वत्र वानरास्तस्थुः सर्वत्रैव च राक्षसाः । वासोधनान्नमर्थिभ्यः पूर्णहस्ता ददुर्भृशम् ।। 7.92.18 ।। Uttara Kanda,92,19,ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः । संवत्सरमथो साग्रं वर्तते न च हीयते ।। 7.92.19 ।। Uttara Kanda,92,20,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्विनवतितमः सर्गः ।। 92 ।। Uttara Kanda,93,1,वर्तमाने तथाभूते यज्ञे च परमाद्भुते । सशिष्य आजगामाशु वाल्मीकिर्मुनिपुङ्गवः ।। 7.93.1 ।। Uttara Kanda,93,2,स दृष्ट्वा दिव्यसङ्काशं यज्ञमद्भुतदर्शनम् । एकान्ते ऋषिवाटानां चकार उटजाञ्छुभान् ।। 7.93.2 ।। Uttara Kanda,93,3,शकटांश्च बहून्पूर्णान्फलमूलैश्च शोभनान् । वाल्मीकिवाटे रुचिरे स्थापयन्नविदूरतः ।। 7.93.3 ।। Uttara Kanda,93,4,आसीत्सुपूजितो राज्ञा मुनिभिश्च महात्मभिः । वाल्मीकिः सुमहातेजा न्यवसत्परमात्मवान् ।। 7.93.4 ।। Uttara Kanda,93,5,स शिष्यावब्रवीद्धृष्टौ युवां गत्वा समाहितौ । कृत्स्नं रामायणं काव्यं गायेथां परया मुदा ।। 7.93.5 ।। Uttara Kanda,93,6,ऋषिवाटेषु पुण्येषु ब्राह्मणावसथेषु च । रथ्यासु राजमार्गेषु पार्थिवानां गृहेषु च ।। 7.93.6 ।। Uttara Kanda,93,7,रामस्य भवनद्वारि यत्र कर्म च कुर्वते । ऋत्विजामग्रतश्चैव तत्र गेयं विशेषतः ।। 7.93.7 ।। Uttara Kanda,93,8,इमानि च फलान्यत्र स्वादूनि विविधानि च । जातानि पर्वताग्रेषु चास्वाद्यास्वाद्य गायताम् ।। 7.93.8 ।। Uttara Kanda,93,9,न यास्यथः श्रमं वत्सौ भक्षयित्वा फलानि वै । मूलानि च सुमृष्टानि नगराद्बहिरास्यथः ।। 7.93.9 ।। Uttara Kanda,93,10,यदि शब्दापयेद्रामः श्रवणाय महीपतिः । ऋषीणामुपविष्टानां ततो गेयं प्रवर्तताम् ।। 7.93.10 ।। Uttara Kanda,93,11,दिवसे विंशतिः सर्गा गेया मधुरया गिरा । प्रमाणैर्बहुभिस्तत्र यथोद्दिष्टा मया पुरा ।। 7.93.11 ।। Uttara Kanda,93,12,लोभश्चापि न कर्तव्यः स्वल्पो ऽपि धनकाङ्क्षया । किं धनेनाश्रमस्थानां फलमूलोपजीविना ।। 7.93.12 ।। Uttara Kanda,93,13,यदि पृच्छेत्स काकुत्स्थो युवां कस्येति दारकौ । आवां वाल्मीकिशिष्यौ स्वो ब्रूतमेवं नराधिपम् ।। 7.93.13 ।। Uttara Kanda,93,14,इमास्तन्त्रीः सुमधुराः स्थानं वा ऽपूर्वदर्शनम् । मूर्च्छयित्वा सुमधुरं गायतां विगतज्वरौ ।। 7.93.14 ।। Uttara Kanda,93,15,आदिप्रभृति गेयं स्यान्न चावज्ञाय पार्थिवम् । पिता हि सर्वभूतानां राजा भविति धर्मतः ।। 7.93.15 ।। Uttara Kanda,93,16,तद्युवां हृष्टमनसौ श्वः प्रभाते समास्थितौ । गायेथां मधुरं गेयं तन्त्रीलयसमन्वितम् ।। 7.93.16 ।। Uttara Kanda,93,17,इति सन्दिश्य बहुशो मुनिः प्राचेतसस्तदा । वाल्मीकिः परमोदारस्तूष्णीमासीन्महायशाः ।। 7.93.17 ।। Uttara Kanda,93,18,सन्दिष्टौ मुनिना तेन तावुभौ मैथिलीसुतौ । तथैव करवावेति निर्जग्मतुररिन्दमौ ।। 7.93.18 ।। Uttara Kanda,93,19,तामद्भुतां तौ हृदये कुमारौ निवेश्य वाणीमृषिभाषितां तदा । समुत्सुकौ तौ सममूषतुर्निशां यथा ऽश्विनौ भार्गवनीतिसंहिताम् ।। 7.93.19 ।। Uttara Kanda,93,20,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिनवतितमः सर्गः ।। 93 ।। Uttara Kanda,94,1,तौ रजन्यां प्रभातायां स्नातौ हुतहुताशनौ । यथोक्तमृषिणा पूर्वं सर्वं तत्रोपगायताम् ।। 7.94.1 ।। Uttara Kanda,94,2,तां स शुश्राव काकुत्स्थः पूर्वाचार्यविजिर्मिताम् । अपूर्वां पाठ्यजातिं च गेयेन समलङ्कृताम् ।। 7.94.2 ।। Uttara Kanda,94,3,प्रमाणैर्बहुभिर्बद्धां तन्त्रीलयसमन्विताम् । बालाभ्यां राघवः श्रुत्वा कौतूहलपरो ऽभवत् ।। 7.94.3 ।। Uttara Kanda,94,4,अथ कर्मान्तरे राजा समाहूय महामुनीन् । पार्थिवांश्च नरव्याघ्रः पण्डितान्नैगमांस्तथा ।। 7.94.4 ।। Uttara Kanda,94,5,पौराणिकाञ्छब्दविदो ये च वृद्धा द्विजातयः । स्वराणां लक्षणज्ञांश्च उत्सुकान्द्विजसत्तमान् ।। 7.94.5 ।। Uttara Kanda,94,6,लक्षणज्ञांश्च गान्धर्वान्नैगमांश्च विशेषतः । पादाक्षरसमासज्ञांश्छन्दःसु परिनिष्ठितान् ।। 7.94.6 ।। Uttara Kanda,94,7,कलामात्राविशेषज्ञाञ्ज्योतिषे च परं गतान् । क्रियाकल्पविदश्चैव तथा कार्यविदो जनान् ।। 7.94.7 ।। Uttara Kanda,94,8,भाषाज्ञानिङ्गितज्ञांश्च नैगमांश्चाप्यशेषतः । हेतूपचारकुशलान् वचने चापि हैतुकान् ।। 7.94.8 ।। Uttara Kanda,94,9,छन्दोविदः पुराणज्ञान्वैदिकान्द्विजसत्तमान् । चित्रज्ञान्वृत्तसूत्रज्ञान्गीतनृत्यविशारदान् ।। 7.94.9 ।। Uttara Kanda,94,10,शास्त्रज्ञान्नीतिनिपुणान्वेदान्तार्थप्रबोधकान् । एतान्सर्वान्समानीय गातारौ समवेशयत् ।। 7.94.10 ।। Uttara Kanda,94,11,दृष्ट्वा मुनिगणाः सर्वे पार्थिवाश्च महौजसः । पिबन्त इव चक्षुर्भ्यां राजानं गायकौ च तौ ।। 7.94.11 ।। Uttara Kanda,94,12,ऊचुः परस्परं चेदं सर्व एव समन्ततः । उभौ रामस्य सदृशौ बिम्बाद्बिम्बमिवोत्थितौ ।। 7.94.12 ।। Uttara Kanda,94,13,जटिलौ यदि न स्यातां न वल्कलधरौ यदि । विशेषं नाधिगच्छामो गायतो राघवस्य च ।। 7.94.13 ।। Uttara Kanda,94,14,तेषां संवदतामेवं श्रोतऽणां हर्षवर्धनम् । गेयं प्रचक्रतुस्तत्र तावुभौ मुनिदारकौ ।। 7.94.14 ।। Uttara Kanda,94,15,ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम् । न च तृप्तिं ययुः सर्वे श्रोतारो गानसम्पदा ।। 7.94.15 ।। Uttara Kanda,94,16,प्रवृत्तमादितः पूर्वसर्गं नारददर्शितम् । ततः प्रभृति सर्गांश्च यावद्विंशत्यगायताम् ।। 7.94.16 ।। Uttara Kanda,94,17,ततो ऽपराह्णसमये राघवः समभाषत । श्रुत्वा विंशतिसर्गांस्तान्भ्रातरं भ्रातृवत्सलः ।। 7.94.17 ।। Uttara Kanda,94,18,अष्टादशसहस्राणि सुवर्णस्य महात्मनोः । प्रयच्छ शीघ्रं काकुत्स्थ यदन्यदभिकाङ्क्षितम् । ददौ शीघ्रं स काकुत्स्थो बालयोर्वै पृथक्पृथक् ।। 7.94.18 ।। Uttara Kanda,94,19,दीयमानं सुवर्णं तु नागृह्णीतां कुशीलवौ । ऊचतुश्च महात्मानौ किमनेनेति विस्मितौ ।। 7.94.19 ।। Uttara Kanda,94,20,वन्येन फलमूलेन निरतौ वनवासिनौ । सुवर्णेन हिरण्येन किं करिष्यावहे वने ।। 7.94.20 ।। Uttara Kanda,94,21,तथा तयोः प्रब्रुवतोः कौतूहलसमन्विताः । श्रोतारश्चैव रामश्च सर्व एव सुविस्मिताः ।। 7.94.21 ।। Uttara Kanda,94,22,तस्य चैवागमं रामः काव्यस्य श्रोतुमुत्सुकः । पप्रच्छ तौ महातेजास्तावुभौ मुनिदारकौ ।। 7.94.22 ।। Uttara Kanda,94,23,किम्प्रमाणमिदं काव्यं का प्रतिष्ठा महात्मनः । कर्ता काव्यस्य महतः क्व चासौ मुनिपुङ्गवः ।। 7.94.23 ।। Uttara Kanda,94,24,पृच्छन्तं राघवं वाक्यमूचतुर्मुनिदारकौ ।। 7.94.24 ।। Uttara Kanda,94,25,वाल्मीकिर्भगवान्कर्ता सम्प्राप्तो यज्ञसंविधम् । येनेदं चरितं तुभ्यमशेषं सम्प्रदर्शितम् ।। 7.94.25 ।। Uttara Kanda,94,26,सन्निबद्धं हि श्लोकानां चतुर्विशत्सहस्रकम् । उपाख्यानशतं चैव भार्गवेण तपस्विना ।। 7.94.26 ।। Uttara Kanda,94,27,आदिप्रभृति वै राजन्पञ्चसर्गशतानि च । काण्डानि षट् कृतानीह सोत्तराणि महात्मना । कृतानि गुरुणास्माकमृषिणा चरितं तव ।। 7.94.27 ।। Uttara Kanda,94,28,प्रतिष्ठा ऽ ऽजीवितं यावत्तावत्सर्वस्य वर्तते ।। 7.94.28 ।। Uttara Kanda,94,29,सोत्तराणि महात्मना । यदि बुद्धिः कृता राजञ्छ्रवणाय महारथ । कर्मान्तरे क्षणीभूतस्तच्छृणुष्व सहानुजः ।। 7.94.29 ।। Uttara Kanda,94,30,बाढमित्यब्रवीद्रामस्तौ चानुज्ञाप्य राघवम् । प्रहृष्टौ जग्मतुः स्थानं यत्रास्ते मुनिपुङ्गवः ।। 7.94.30 ।। Uttara Kanda,94,31,रामो ऽपि मुनिभिः सार्धं पार्थिवैश्च महात्मभिः । श्रुत्वा तद्गीतिमाधुर्यं कर्मशालामुपागमत् ।। 7.94.31 ।। Uttara Kanda,94,32,शुश्राव तत्ताललयोपपन्नं सर्गान्वितं स स्वरशब्दयुक्तम् । तन्त्रीलयव्यञ्जनयोगयुक्तं कुशीलवाभ्यां परिगीयमानम् ।। 7.94.32 ।। Uttara Kanda,94,33,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुर्नवतितमः सर्गः ।। 94 ।। Uttara Kanda,95,1,रामो बहून्यहान्येवं तद्गीतं परमं शुभम् । शुश्राव मुनिभिः सार्धं पार्थिवैः सह वानरैः ।। 7.95.1 ।। Uttara Kanda,95,2,तस्मिन्गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ । तस्याः परिषदो मध्ये रामो वचनमब्रवीत् । दूताञ्छुद्धसमाचारानाहूयात्ममनीषया ।। 7.95.2 ।। Uttara Kanda,95,3,मद्वचो ब्रूत गच्छध्वमितो भगवतो ऽन्तिकम् ।। 7.95.3 ।। Uttara Kanda,95,4,परिषदो मध्ये रामो वचनमब्रवीत् । यदि शुद्धसमाचारा यदि वा वीतकल्मषा । करोत्विहात्मनः शुद्धिमनुमान्य महामुनिम् ।। 7.95.4 ।। Uttara Kanda,95,5,छन्दं मुनेश्च विज्ञाय सीतायाश्च मनोगतम् । प्रत्ययं दातुकामायास्ततः शंसत मे लघु ।। 7.95.5 ।। Uttara Kanda,95,6,श्वः प्रभाते तु शपथं मैथिली जनकात्मजा । करोतु परिषन्मध्ये शोधनार्थं ममैव च ।। 7.95.6 ।। Uttara Kanda,95,7,श्रुत्वा तु ऱागवस्यैतद्वचः परममद्भुतम् । दूताः सम्प्रययुर्बाटं यत्रास्ते मुनिपुङ्गवः ।। 7.95.7 ।। Uttara Kanda,95,8,ते प्रणम्य महात्मानं ज्वलन्तममितप्रभम् । ऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च ।। 7.95.8 ।। Uttara Kanda,95,9,तेषां तद्व्याहृतं श्रुत्वा रामस्य च मनोगतम् । विज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत् ।। 7.95.9 ।। Uttara Kanda,95,10,एवं भवतु भद्रं वो यथा वदति राघवः । तथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः ।। 7.95.10 ।। Uttara Kanda,95,11,तथोक्ता मुनिना सर्वे राजदूता महौजसम् । प्रत्येत्य राघवं क्षिप्रं मुनिवाक्यं बभाषिरे ।। 7.95.11 ।। Uttara Kanda,95,12,ततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः । ऋषींस्तत्र समेतांश्च राज्ञश्चैवाभ्यभाषत ।। 7.95.12 ।। Uttara Kanda,95,13,भगवन्तः सशिष्या वै सानुगाश्च नराधिपाः । पश्यन्तु सीताशपथं यश्चैवान्यो ऽपि काङ्क्षते ।। 7.95.13 ।। Uttara Kanda,95,14,तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः । सर्वेषामृषिमुख्यानां साधुवादो महानभूत् ।। 7.95.14 ।। Uttara Kanda,95,15,राजानश्च महात्मानः प्रशंसन्ति स्म राघवम् । उपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः ।। 7.95.15 ।। Uttara Kanda,95,16,एवं विनिश्चयं कृत्वा श्वोभूत इति राघवः । विसर्जयामास तदा सर्वांस्ताञ्छत्रुसूदनः ।। 7.95.16 ।। Uttara Kanda,95,17,इति सम्प्रविचार्य राजसिंहः श्वोभूते शपथस्य निश्चयं वै । विससर्ज मुनीन्नृपांश्च सर्वान्स महात्मा महतो महानुभावः ।। 7.95.17 ।। Uttara Kanda,95,18,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चनवतितमः सर्ग ।। 95 ।। Uttara Kanda,96,1,तस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः । ऋषीन्सर्वान्महातेजाः शब्दापयति राघवः ।। 7.96.1 ।। Uttara Kanda,96,2,वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः । विश्वामित्रो दीर्घतपा दुर्वासाश्च महातपाः ।। 7.96.2 ।। Uttara Kanda,96,3,पुलस्त्यो ऽपि तथा शक्तिर्भार्गवश्चैव वामनः । मार्कण्डेयश्च दीर्घायुर्मौद्गल्यश्च महायशाः ।। 7.96.3 ।। Uttara Kanda,96,4,गर्गश्च च्यवनश्चैव शतानन्दश्च धर्मवित् । भरद्वाजश्च तेजस्वी ह्यग्निपुत्रश्च सुप्रभः ।। 7.96.4 ।। Uttara Kanda,96,5,नारदः पर्वतश्चैव गौतमश्च महायशाः । कात्यायनः सुयज्ञश्च ह्यगस्त्यस्तपसां निधिः ।। 7.96.5 ।। Uttara Kanda,96,6,एते चान्ये च बहवो मुनयः संशितव्रताः । कौतूहलसमाविष्टाः सर्व एव समागताः ।। 7.96.6 ।। Uttara Kanda,96,7,राक्षसाश्च महावीर्या वानराश्च महाबलाः । सर्व एव समाजग्मुर्महात्मानः कुतूहलात् ।। 7.96.7 ।। Uttara Kanda,96,8,क्षत्रिया ये च शूद्राश्च वैश्याश्चैव सहस्रशः । नानादेशगताश्चैव ब्राह्मणाः संशितव्रताः ।। 7.96.8 ।। Uttara Kanda,96,9,ज्ञाननिष्ठाः कर्मनिष्ठाः योगनिष्ठास्तथापरे । सीताशपथवीक्षार्थं सर्व एव समागताः ।। 7.96.9 ।। Uttara Kanda,96,10,तदा समागतं सर्वमश्मभूतमिवाचलम् । श्रुत्वा मुनिवरस्तूर्णं ससीतः समुपागमत् ।। 7.96.10 ।। Uttara Kanda,96,11,तमृषिं पृष्ठतः सीता त्वन्वगच्छदवाङ्मुखी । कृताञ्जलिर्बाष्पगला कृत्वा रामं मनोगतम् ।। 7.96.11 ।। Uttara Kanda,96,12,दृष्ट्वा श्रुतिमिवायान्तीं ब्रह्माणमनुगामिनीम् । वाल्मीकेः पृष्ठतः सीतां साधुवादो महानभूत् ।। 7.96.12 ।। Uttara Kanda,96,13,ततो हलहलाशब्दः सर्वेषामेवमाबभौ । दुःखजन्मविशालेन शोकेनाकुलितात्मनाम् ।। 7.96.13 ।। Uttara Kanda,96,14,साधु रामेति केचित्तु साधु सीतेति चापरे । उभावेव च तत्रान्ये प्रेक्षकाः सम्प्रचुक्रुशुः ।। 7.96.14 ।। Uttara Kanda,96,15,ततो मध्ये जनौघस्य प्रविश्य मुनिपुङ्गवः । सीतासहायो वाल्मीकिरिति होवाच राघवम् ।। 7.96.15 ।। Uttara Kanda,96,16,इयं दाशरथे सीता सुव्रता धर्मचारिणी । अपवादैः परित्यक्ता ममाश्रमसमीपतः ।। 7.96.16 ।। Uttara Kanda,96,17,लोकापवादभीतस्य तव राम महाव्रत । प्रत्ययं दास्यते सीता तदनुज्ञातुमर्हसि ।। 7.96.17 ।। Uttara Kanda,96,18,इमौ तु जानकीपुत्रावुभौ च यमजातकौ । सुतौ तवैव दुर्धर्षौ सत्यमेतद्ब्रवीमि ते ।। 7.96.18 ।। Uttara Kanda,96,19,प्रचेतसो ऽहं दशमः पुत्रो राघवनन्दन । न स्मराम्यनृतं वाक्यमिमौ तु तव पुत्रकौ ।। 7.96.19 ।। Uttara Kanda,96,20,बहुवर्षसहस्राणि तपश्चर्या मया कृता । नोपाश्नीयां फलं तस्या दुष्टेयं यदि मैथिली ।। 7.96.20 ।। Uttara Kanda,96,21,मनसा कर्मणा वाचा भूतपूर्वं न किल्बिषम् । तस्याः फलमुपाश्नीयामपापा मैथिली यदि ।। 7.96.21 ।। Uttara Kanda,96,22,अहं पञ्चसु भूतेषु मनष्षष्ठेषु राघव । विचिन्त्य सीतां शुद्धेति जग्राह वननिर्झरे ।। 7.96.22 ।। Uttara Kanda,96,23,इयं शुद्धसमाचारा अपापा पतिदेवता । लोकापवादभीतस्य प्रत्ययं तव दास्यति ।। 7.96.23 ।। Uttara Kanda,96,24,तस्मादियं नरवरात्मज शुद्धभावा दिव्येन दृष्टिविषयेण तदा प्रविष्टा । लोकापवादकलुषीकृतचेतसा या त्यक्ता त्वया प्रियतमा विदिता ऽपि शुद्धा ।। 7.96.24 ।। Uttara Kanda,96,25,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षण्णवतितमः सर्गः ।। 96 ।। Uttara Kanda,97,1,वाल्मीकिनैवमुक्तस्तु राघवः प्रत्यभाषत । प्राञ्जलिर्जगतो मध्ये दृष्ट्वा तां वरवर्णिनीम् ।। 7.97.1 ।। Uttara Kanda,97,2,एवमेतन्महाभाग यथा वदसि धर्मवित् । प्रत्ययस्तु मम ब्रह्मंस्तव वाक्यैरकल्मषैः ।। 7.97.2 ।। Uttara Kanda,97,3,प्रत्ययस्तु पुरा वृत्तो वैदेह्याः सुरसन्निधौ । शपथस्तु कृतस्तत्र तेन वेश्म प्रवेशिता । लोकापवादो बलवान्येन त्यक्ता हि मैथिली ।। 7.97.3 ।। Uttara Kanda,97,4,सेयं लोकभयाद्ब्रह्मन्नपापेत्यभिजानता । परित्यक्ता मया सीता तद्भावन्क्षन्तुमर्हति ।। 7.97.4 ।। Uttara Kanda,97,5,जानामि चेमौ पुत्रौ मे यमजातौ कुशीलवौ । शुद्धायां जगतो मध्ये मैथिल्यां प्रीतिरस्तु मे ।। 7.97.5 ।। Uttara Kanda,97,6,अभिप्रायं तु विज्ञाय रामस्य सुरसत्तमाः । सीतायाः शपथे तस्मिन् महेन्द्राद्या महौजसः ।। 7.97.6 ।। Uttara Kanda,97,7,पितामहं पुरस्कृत्य सर्व एव समागताः ।। 7.97.7 ।। Uttara Kanda,97,8,आदित्या वसवो रुद्रा ह्यश्विनौ समरुद्गणाः । गन्धर्वाप्सरसश्चैव सर्व एव समागताः ।। 7.97.8 ।। Uttara Kanda,97,9,साध्याश्च विश्वेदेवाश्च सर्वे च परमर्षयः । नागाः सुपर्णाः सिद्धाश्च ते सर्वे हृष्टमानसाः । सीताशपथसम्भ्रान्ताः सर्व एव समागताः ।। 7.97.9 ।। Uttara Kanda,97,10,दृष्ट्वा देवानृषींश्चैव राघवः पुनरब्रवीत् । प्रत्ययो मे नरश्रेष्ठा ऋषिवाक्यैरकल्मषैः ।। 7.97.10 ।। Uttara Kanda,97,11,शुद्धायां जगतो मध्ये वैदेह्यां प्रीतिरस्तु मे ।। 7.97.11 ।। Uttara Kanda,97,12,ततो वायुः शुभः पुण्यो दिव्यगन्धो मनोरमः । तज्जनौघं सुरश्रेष्ठो ह्लादयामास सर्वतः ।। 7.97.12 ।। Uttara Kanda,97,13,तदद्भुतमिवाचिन्त्यं निरैक्षन्त समागताः । मानवाः सर्वराष्ट्रेभ्यः पूर्वं कृतयुगे यथा ।। 7.97.13 ।। Uttara Kanda,97,14,सर्वान्समागतान्दृष्ट्वा सीता काषायवासिनी । अब्रवीत्प्राञ्जलिर्वाक्यमधोदृष्टिरवाङ्मुखी ।। 7.97.14 ।। Uttara Kanda,97,15,यथा ऽहं राघवादन्यं मनसापि न चिन्तये । तथा मे माधवी देवी विवरं दातुमर्हति ।। 7.97.15 ।। Uttara Kanda,97,16,मनसा कर्मणा वाचा यथा रामं समर्चये । तथा मे माधवी देवी विवरं दातुमर्हति ।। 7.97.16 ।। Uttara Kanda,97,17,यथैतत्सत्यमुक्तं मे वेद्मि रामात्परं न च । तथा मे माधवी देवी विवरं दातुमर्हति ।। 7.97.17 ।। Uttara Kanda,97,18,तथा शपन्त्यां वैदेह्यां प्रादुरासीत्तदद्भुतम् । भूतलादुत्थितं दिव्यं सिंहासनमनुत्तमम् ।। 7.97.18 ।। Uttara Kanda,97,19,ध्रियमाणं शिरोभिस्तु नागैरमितविक्रमैः । दिव्यं दिव्येन वपुषा दिव्यरत्नविभूषितैः ।। 7.97.19 ।। Uttara Kanda,97,20,तस्मिंस्तु धरणी देवी बाहुभ्यां गृह्य मैथिलीम् । स्वागतेनाभिनन्द्यैनामासने चोपवेशयत् ।। 7.97.20 ।। Uttara Kanda,97,21,तामासनगतां दृष्ट्वा प्रविशन्तीं रसातलम् । पुष्पवृष्टिरविच्छिन्ना दिव्या सीतामवाकिरत् ।। 7.97.21 ।। Uttara Kanda,97,22,साधुकारश्च सुमहान्देवानां सहसोत्थितः । साधु साध्विति वै सीते यस्यास्ते शीलमीदृशम् ।। 7.97.22 ।। Uttara Kanda,97,23,एवं बहुविधा वाचो ह्यन्तरिक्षगताः सुराः । व्याजह्रुर्हृष्टमनसो दृष्ट्वा सीताप्रवेशनम् ।। 7.97.23 ।। Uttara Kanda,97,24,यज्ञवाटगताश्चापि मुनयः सर्व एव ते । राजानश्च नरव्याघ्रा विस्मयान्नोपरेमिरे ।। 7.97.24 ।। Uttara Kanda,97,25,अन्तरिक्षे च भूमौ च सर्वे स्थावरजङ्गमाः । दानवाश्च महाकायाः पाताले पन्नगाधिपाः ।। 7.97.25 ।। Uttara Kanda,97,26,केचिद्विनेदुः संहृष्टाः केचिद्ध्यानपरायणाः । केचिद्रामं निरीक्षन्ते केचित्सीतामचेतनाः ।। 7.97.26 ।। Uttara Kanda,97,27,सीताप्रवेशनं दृष्ट्वा तेषामासीत्समागमः । तन्मुहूर्तमिवात्यर्थं समं सम्मोहितं जगत् ।। 7.97.27 ।। Uttara Kanda,97,28,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तनवतितमः सर्गः ।। 97 ।। Uttara Kanda,98,1,रसातलं प्रविष्टायां वैदेह्यां सर्ववानराः । चुक्रुशुः साधु साध्वीति मुनयो रामसन्निधौ ।। 7.98.1 ।। Uttara Kanda,98,2,दण्डकाष्ठमवष्टभ्य बाष्पव्याकुलितेक्षणः । अवाक्छिरा दीनमना रामो ह्यासीत्सुदुःखितः ।। 7.98.2 ।। Uttara Kanda,98,3,स रुदित्वा चिरं कालं बहुशो बाष्पमुत्सृजन् । क्रोधशोकसमाविष्टो रामो वचनमब्रवीत् ।। 7.98.3 ।। Uttara Kanda,98,4,अभूतपूर्वं शोकं मे मनः स्प्रष्टुमिवेच्छति । पश्यतो मे यथा नष्टा सीता श्रीरिव रूपिणी ।। 7.98.4 ।। Uttara Kanda,98,5,सा ऽदर्शनं पुरा सीता लङ्कापारे महोदधेः । ततश्चापि मयानीता किं पुनर्वसुधातलात् ।। 7.98.5 ।। Uttara Kanda,98,6,वसुधे देवि भवति सीता निर्यात्यतां मम । दर्शयिष्यामि वा रोषं यथा मामवगच्छसि ।। 7.98.6 ।। Uttara Kanda,98,7,कामं श्वश्रूर्ममैव त्वं त्वत्सकाशाद्धि मैथिली । कर्षता हलहस्तेन जनकेनोद्धृता पुरा ।। 7.98.7 ।। Uttara Kanda,98,8,तस्मान्निर्यात्यतां सीता विवरं वा प्रयच्छ मे । पाताले नाकपृष्ठे वा वसेयं सहितस्तया ।। 7.98.8 ।। Uttara Kanda,98,9,आनय त्वं हि तां सीतां मत्तो ऽहं मैथिलीकृते । न मे दास्यसि चेत्सीतां यथारूपां महीतले ।। 7.98.9 ।। Uttara Kanda,98,10,सपर्वतवनां कृत्स्नां विधमिष्यामि ते स्थितम् । नाशयिष्याम्यहं भूमिं सर्वमापो भवत्विह ।। 7.98.10 ।। Uttara Kanda,98,11,एवं ब्रुवाणे काकुत्स्थे क्रोधशोकसमन्विते । ब्रह्मा सुरगणैः सार्धमुवाच रघुनन्दनम् ।। 7.98.11 ।। Uttara Kanda,98,12,राम राम न सन्तापं कर्तुमर्हसि सुव्रत । स्मर त्वं पूर्वकं भावं मन्त्रं चामित्रकर्शन ।। 7.98.12 ।। Uttara Kanda,98,13,न खलु त्वां महाबाहो स्मारयेयमनुत्तमम् । इमं मुहूर्तं दुर्धर्ष स्मर त्वं जन्म वैष्णवम् ।। 7.98.13 ।। Uttara Kanda,98,14,सीता हि विमला साध्वी तव पूर्वपरायणा । नागलोकं सुखं प्रायात्त्वदाश्रयतपोबलात् ।। 7.98.14 ।। Uttara Kanda,98,15,स्वर्गे ते सङ्गमो भूयो भविष्यति न संशयः । अस्यास्तु परिषन्मध्ये यद्ब्रवीमि निबोध तत् ।। 7.98.15 ।। Uttara Kanda,98,16,एतदेव हि काव्यं ते काव्यानामुत्तमं श्रुतम् । सर्वं विस्तरतो राम व्याख्यास्यति न संशयः ।। 7.98.16 ।। Uttara Kanda,98,17,जन्मप्रभृति ते वीर सुखदुःखोपसेवनम् । भविष्यदुत्तरं चेह सर्वं वाल्मीकिना कृतम् ।। 7.98.17 ।। Uttara Kanda,98,18,आदिकाव्यमिदं राम त्वयि सर्वं प्रतिष्ठितम् । नह्यन्यो ऽर्हति काव्यानां यशोभाग्राघवादृते ।। 7.98.18 ।। Uttara Kanda,98,19,श्रुतं ते पूर्वमेतद्धि मया सर्वं सुरैः सह । दिव्यमद्भुतरूपं च सत्यवाक्यमनावृतम् ।। 7.98.19 ।। Uttara Kanda,98,20,स त्वं पुरुषशार्दूल धर्मेण सुसमाहितः । शेषं भविष्यं काकुत्स्थ काव्यं रामायणं शृणु ।। 7.98.20 ।। Uttara Kanda,98,21,उत्तरं नाम काव्यस्य शेषमत्र महायशः । तच्छृणुष्व महातेज ऋषिभिः सार्धमुत्तमम् ।। 7.98.21 ।। Uttara Kanda,98,22,न खल्वन्येन काकुत्स्थ श्रोतव्यमिदमुत्तमम् । परमम् ऋषिणा वीर त्वयैव रघुनन्दन ।। 7.98.22 ।। Uttara Kanda,98,23,एतावदुक्त्वा वचनं ब्रह्मा त्रिभुवनेश्वरः । जगाम त्रिदिवं देवो देवैः सह सबान्धवैः ।। 7.98.23 ।। Uttara Kanda,98,24,ये च तत्र महात्मान ऋषयो ब्राह्मलौकिकाः । ब्रह्मणा समनुज्ञाता न्यवर्तन्त महौजसः । उत्तरं श्रोतुमनसो भविष्यं यच्च राघवे ।। 7.98.24 ।। Uttara Kanda,98,25,ततो रामः शुभां वाणीं देवदेवस्य भाषिताम् । श्रुत्वा परमतेजस्वी वाल्मीकिमिदमब्रवीत् ।। 7.98.25 ।। Uttara Kanda,98,26,भगवन् श्रोतुमनस ऋषयो ब्राह्मलौकिकाः । भविष्यदुत्तरं यन्मे श्वोभूते सम्प्रवर्तताम् ।। 7.98.26 ।। Uttara Kanda,98,27,एवं विनिश्चयं कृत्वा सम्प्रगृह्य कुशीलवौ । तं जनौघं विसृज्याथ पर्णशालामुपागमत् । तामेव शोचतः सीतां सा व्यतीयाय शर्वरी ।। 7.98.27 ।। Uttara Kanda,98,28,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टनवतितमः सर्गः ।। 98 ।। Uttara Kanda,99,1,रजन्यां तु प्रभातायां समानीय महामुनीन् । गीयतामविशङ्काभ्यां रामः पुत्रावुवाच ह ।। 7.99.1 ।। Uttara Kanda,99,2,ततः समुपविष्टेषु ब्रह्मर्षिषु महात्मसु । भविष्यदुत्तरं काव्यं जगतुस्तौ कुशीलवौ ।। 7.99.2 ।। Uttara Kanda,99,3,प्रविष्टायां तु सीतायां भूतलं सत्यसम्पदा । तस्यावसाने यज्ञस्य रामः परमदुर्मनाः ।। 7.99.3 ।। Uttara Kanda,99,4,अपश्यमानो वैदेहीं मेने शून्यमिदं जगत् । शोकेन परमायस्तो न शान्तिं मनसा ऽगमत् ।। 7.99.4 ।। Uttara Kanda,99,5,विसृज्य पार्थिवान्सर्वानृक्षवानरराक्षसान् । जनौघं विप्रमुख्यानां वित्तपूर्वं विसृज्य च ।। 7.99.5 ।। Uttara Kanda,99,6,एवं समाप्य यज्ञं तु विधिवत्स तु राघवः । ततो विसृज्य तान्सर्वान्रामो राजीवलोचनः ।। 7.99.6 ।। Uttara Kanda,99,7,हृदि कृत्वा तदा सीतामयोध्यां प्रविवेश ह । इष्टयज्ञो नरपतिः पुत्रद्वयसमन्वितः ।। 7.99.7 ।। Uttara Kanda,99,8,न सीतायाः परां भार्यां वव्रे स रघुनन्दनः । यज्ञे यज्ञे च पत्न्यर्थं जानकी काञ्चनी भवत् ।। 7.99.8 ।। Uttara Kanda,99,9,दशवर्षसहस्राणि वाजिमेघानथाकरोत् । वाजपेयान्दशगुणांस्तथा बहुसुवर्णकान् ।। 7.99.9 ।। Uttara Kanda,99,10,अग्निष्टोमातिरात्राभ्यां गोसवैश्च महाधनैः । ईजे क्रतुभिरन्यैश्च स श्रीमानाप्तदक्षिणैः ।। 7.99.10 ।। Uttara Kanda,99,11,एवं स कालः सुमहान्राज्यस्थस्य महात्मनः । धर्मे प्रयतमानस्य व्यतीयाद्राघवस्य तु ।। 7.99.11 ।। Uttara Kanda,99,12,अनुरञ्जन्ति राजानमहन्यहनि राघवम् । ऋक्षवानररक्षांसि स्थिता रामस्य शासने ।। 7.99.12 ।। Uttara Kanda,99,13,काले वर्षति पर्जन्यः सुभिक्षं विमला दिशः । हृष्टपुष्टजनाकीर्णं पुरं जनपदास्तथा ।। 7.99.13 ।। Uttara Kanda,99,14,नाकाले म्रियते कश्चिन्न व्याधिः प्राणिनां तथा । नानर्थो विद्यते कश्चिद्रामे राज्यं प्रशासति ।। 7.99.14 ।। Uttara Kanda,99,15,अथ दीर्घस्य कालस्य राममाता यशस्विनी । पुत्रपौत्रैः परिवृता कालधर्ममुपागमत् ।। 7.99.15 ।। Uttara Kanda,99,16,अन्वियाय सुमित्रा च कैकेयी च यशस्विनी । धर्मं कृत्वा बहुविधं त्रिदिवे पर्यवस्थिता ।। 7.99.16 ।। Uttara Kanda,99,17,सर्वाः प्रमुदिताः स्वर्गे राज्ञा दशरथेन च । समागता महाभागाः सर्वधर्मं च लेभिरे ।। 7.99.17 ।। Uttara Kanda,99,18,तासां रामो महादानं काले काले प्रयच्छति । मातऽणामविशेषेण ब्राह्मणेषु तपस्विषु ।। 7.99.18 ।। Uttara Kanda,99,19,पित्र्याणि ब्रह्मरत्नानि यज्ञान्परमदुस्तरान् । चकार रामो धर्मात्मा पितऽन्देवान्विवर्धयन् ।। 7.99.19 ।। Uttara Kanda,99,20,एवं वर्षसहस्राणि बहून्यथ ययुः सुखम् । यज्ञैर्बहुविधं धर्मं वर्धयानस्य सर्वदा ।। 7.99.20 ।। Uttara Kanda,99,21,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनशततमः सर्गः ।। 99 ।। Uttara Kanda,100,1,कस्यचित्त्वथ कालस्य युधाजित्केकयो नृपः । स्वगुरुं प्रेषयामास राघवाय महात्मने । गार्ग्यमङ्गिरसः पुत्रं ब्रह्मर्षिममितप्रभम् ।। 7.100.1 ।। Uttara Kanda,100,2,दश चाश्वसहस्राणि प्रीतिदानमनुत्तमम् ।। 7.100.2 ।। Uttara Kanda,100,3,कम्बलानि च रत्नानि चित्रवस्त्रमथोत्तमम् । रामाय प्रददौ राजा शुभान्याभरणानि च ।। 7.100.3 ।। Uttara Kanda,100,4,श्रुत्वा तु राघवो धीमान्महर्षिं गार्ग्यमागतम् । मातुलस्याश्वपतिनः प्रहितं तन्महाधनम् ।। 7.100.4 ।। Uttara Kanda,100,5,प्रत्युद्गम्य च काकुत्स्थः क्रोशमात्रं सहानुजः । गार्ग्यं सम्पूजयामास यथा शक्रो बृहस्पतिम् ।। 7.100.5 ।। Uttara Kanda,100,6,तथा सम्पूज्य तमृषिं तद्धनं प्रतिगृह्य च । पृष्ट्वा प्रतिपदं सर्वं कुशलं मातुलस्य च । उपविष्टं महाभागं रामः प्रष्टुं प्रचक्रमे ।। 7.100.6 ।। Uttara Kanda,100,7,किमाह मातुलो वाक्यं यदर्थं भगवानिह । प्राप्तो वाक्यविदां श्रेष्ठः साक्षादिव बृहस्पतिः ।। 7.100.7 ।। Uttara Kanda,100,8,रामस्य भाषितं श्रुत्वा महर्षिः कार्यविस्तरम् । वक्तुमद्भुतसङ्काशं राघवायोपचक्रमे ।। 7.100.8 ।। Uttara Kanda,100,9,मातुलस्ते महाबाहो वाक्यमाह नरर्षभः । युधाजित्प्रीतिसंयुक्तं श्रूयतां यदि रोचते ।। 7.100.9 ।। Uttara Kanda,100,10,अयं गन्धर्वविषयः फलमूलोपशोभितः । सिन्धोरुभयतः पार्श्वे देशः परमशोभनः ।। 7.100.10 ।। Uttara Kanda,100,11,तं च रक्षन्ति गन्धर्वाः सायुधा युद्धकोविदाः । शैलूषस्य सुता वीर त्रिकोट्यो वै महाबलाः ।। 7.100.11 ।। Uttara Kanda,100,12,तान्विनिर्जित्य काकुत्स्थ गन्धर्वनगरं शुभम् । निवेशय महाबोहो स्वे पुरे सुसमाहिते ।। 7.100.12 ।। Uttara Kanda,100,13,अन्यस्य न गतिस्तत्र देशः परमशोभनः । रोचतां ते महाबाहो नाहं त्वामहितं वदे ।। 7.100.13 ।। Uttara Kanda,100,14,तच्छ्रुत्वा राघवः प्रीतो महर्षेर्मातुलस्य च । उवाच बाढमित्येव भरतं चान्ववैक्षत ।। 7.100.14 ।। Uttara Kanda,100,15,सो ऽब्रवीद्राघवः प्रीतः साञ्जलिप्रग्रहो द्विजम् । इमौ कुमारौ तं देशं ब्रह्मर्षे विचरिष्यतः ।। 7.100.15 ।। Uttara Kanda,100,16,भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव च । मातुलेन सुगुप्तौ तु धर्मेण सुसमाहितौ ।। 7.100.16 ।। Uttara Kanda,100,17,भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौ । निहत्य गन्धर्वसुतान्द्वे पुरे विभजिष्यतः ।। 7.100.17 ।। Uttara Kanda,100,18,निवेश्य ते पुरवरे आत्मजौ सन्निवेश्य च । आगमिष्यति मे भूयः सकाशमतिधार्मिकः ।। 7.100.18 ।। Uttara Kanda,100,19,ब्रह्मर्षिमेवमुक्त्वा तु भरतं सबलानुगम् । आज्ञापयामास तदा कुमारौ चाभ्यषेचयत् ।। 7.100.19 ।। Uttara Kanda,100,20,नक्षत्रेण च सौम्येन पुरस्कृत्याङ्गिरस्सुतम् । भरतः सह सैन्येन कुमाराभ्यां विनिर्ययौ ।। 7.100.20 ।। Uttara Kanda,100,21,सा सेना शक्रयुक्तेव नगरान्निर्ययावथ । राघवानुगता दूरं दुराधर्षा सुरैरपि ।। 7.100.21 ।। Uttara Kanda,100,22,मांसादानि च सत्त्वानि रक्षांसि सुमहान्ति च । अनुजग्मुर्हि भरतं रुधिरस्य पिपासया ।। 7.100.22 ।। Uttara Kanda,100,23,भूतग्रामाश्च बहवो मांसभक्षाः सुदारुणाः । गन्धर्वपुत्रमांसानि भोक्तुकामाः सहस्रशः ।। 7.100.23 ।। Uttara Kanda,100,24,सिंहव्याघ्रवराहाणां खेचराणां च पक्षिणाम् । बहूनि वै सहस्राणि सेनाया ययुरग्रतः ।। 7.100.24 ।। Uttara Kanda,100,25,अध्यर्धमासमुषिता पथि सेना निरामया । हृष्टपुष्टजनाकीर्णा केकयं समुपागमत् ।। 7.100.25 ।। Uttara Kanda,100,26,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे शततमः सर्गः ।। 100 ।। Uttara Kanda,101,1,श्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः । युधाजिद्गार्ग्यसहितं परां प्रीतिमुपागमत् ।। 7.101.1 ।। Uttara Kanda,101,2,स निर्ययौ जनौघेन महता केकयाधिपः । त्वरमाणो ऽभिचक्राम गन्धर्वान्कामरूपिणः ।। 7.101.2 ।। Uttara Kanda,101,3,भरतश्च युधाजिच्च समेतौ लघुविक्रमैः । गन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ ।। 7.101.3 ।। Uttara Kanda,101,4,श्रुत्वा तु भरतं प्राप्तं गन्धर्वास्ते समागताः । योद्धुकामा महावीर्या व्यनदन् वै समन्ततः ।। 7.101.4 ।। Uttara Kanda,101,5,ततः समभवद्युद्धं तुमुलं रोमहर्षणम् । सप्तरात्रं महाभीमं न चान्यतरयोर्जयः ।। 7.101.5 ।। Uttara Kanda,101,6,खड्गशक्तिधनुर्ग्राहा नद्यः शोणितसंस्रवाः । नृकलेवरवाहिन्यः प्रवृत्ताः सर्वतोदिशम् ।। 7.101.6 ।। Uttara Kanda,101,7,ततो रामानुजः क्रुद्धः कालस्यास्त्रं सुदारुणम् । संवर्तं नाम भरतो गन्धर्वेष्वभ्यचोदयत् ।। 7.101.7 ।। Uttara Kanda,101,8,ते बद्धाः कालपाशेन संवर्तेन विदारिताः । क्षणेनाभिहतास्तेन तिस्रः कोट्यो महात्मनाम् ।। 7.101.8 ।। Uttara Kanda,101,9,तं घातं घोरसङ्काशं न स्मरन्ति दिवौकसः । निमेषान्तरमात्रेण तादृशानां महात्मनाम् ।। 7.101.9 ।। Uttara Kanda,101,10,हतेषु तेषु सर्वेषु भरतः केकयीसुतः । निवेशयामास तदा समृद्धे द्वे पुरोत्तमे ।। 7.101.10 ।। Uttara Kanda,101,11,तक्षं तक्षशिलायां तु पुष्कलं पुष्कलावते । गन्धर्वदेशे रुचिरे गान्धारविषये च सः ।। 7.101.11 ।। Uttara Kanda,101,12,धनरत्नौघसङ्कीर्णे काननैरुपशोभिते । अन्योन्यसङ्घर्षकृते स्पर्धया गुणविस्तरैः ।। 7.101.12 ।। Uttara Kanda,101,13,उभे सुरुचिरप्रख्ये व्यवहारैरकिल्बिषैः । उद्यानयानसम्पूर्णे सुविभक्तान्तरापणे ।। 7.101.13 ।। Uttara Kanda,101,14,उभे पुरवरे रम्ये विस्तरैरुपशोभिते । गृहमुख्यैः सुरुचिरैर्विमानसमवर्णिभिः ।। 7.101.14 ।। Uttara Kanda,101,15,शोभिते शोभनीयैश्च देवायतनविस्तरैः । तालैस्तमालैस्तिलकैर्वकुलैरुपशोभिते ।। 7.101.15 ।। Uttara Kanda,101,16,निवेश्य पञ्चभिर्वर्षैर्भरतो राघवानुजः । पुनरायान्महाबाहुरयोध्यां केकयीसुतः ।। 7.101.16 ।। Uttara Kanda,101,17,सो ऽभिवाद्य महात्मानं साक्षाद्धर्ममिवापरम् । राघवं भरतः श्रीमान्ब्रह्माणमिव वासवः ।। 7.101.17 ।। Uttara Kanda,101,18,शशंस च यथावृत्तं गन्धर्ववधमुत्तमम् । निवेशनं च देशस्य श्रुत्वा प्रीतो ऽस्य राघवः ।। 7.101.18 ।। Uttara Kanda,101,19,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोत्तरशततमः सर्गः ।। 101 ।। Uttara Kanda,102,1,तच्छ्रुत्वा हर्षमापेदे राघवो भ्रातृभिः सह । वाक्यं चाद्भुतसङ्काशं तदा प्रोवाच लक्ष्मणम् ।। 7.102.1 ।। Uttara Kanda,102,2,इमौ कुमारौ सौमित्रे तव धर्मविशारदौ । अङ्गदश्चन्द्रकेतुश्च राज्यार्थे दृढविक्रमौ ।। 7.102.2 ।। Uttara Kanda,102,3,इमौ राज्ये ऽभिषेक्ष्यामि देशः साधु विधीयताम् । रमणीयो ह्यसम्बाधो रमेतां यत्र धन्विनौ ।। 7.102.3 ।। Uttara Kanda,102,4,न राज्ञो यत्र पीडा स्यान्नाश्रमाणां विनाशनम् । स देशो दृश्यतां सौम्य नापराध्यामहे यथा ।। 7.102.4 ।। Uttara Kanda,102,5,तथोक्तवति रामे तु भरतः प्रत्युवाच ह । अयं कारुपथो देशो रमणीयो निरामयः ।। 7.102.5 ।। Uttara Kanda,102,6,निवेश्यतां तत्र पुरमङ्गदस्य महात्मनः । चन्द्रकेतोः सुरुचिरं चन्द्रकान्तं निरामयम् ।। 7.102.6 ।। Uttara Kanda,102,7,तद्वाक्यं भरतेनोक्तं प्रतिजग्राह राघवः । तं च कृत्वा वशे देशमङ्गदस्य न्यवेशयत् ।। 7.102.7 ।। Uttara Kanda,102,8,अङ्गदीया पुरी रम्याप्यङ्गदस्य निवेशिता । रमणीया सुगुप्ता च रामेणाक्लिष्टकर्मणा ।। 7.102.8 ।। Uttara Kanda,102,9,चन्द्रकेतोश्च मल्लस्य मल्लभूम्यां निवेशिता । चन्द्रकान्तेति विख्याता दिव्या स्वर्गपुरी यथा ।। 7.102.9 ।। Uttara Kanda,102,10,ततो रामः परां प्रीतिं लक्ष्मणो भरतस्तथा । ययुर्युद्धे दुराधर्षा अभिषेकं च चक्रिरे ।। 7.102.10 ।। Uttara Kanda,102,11,अभिषिच्य कुमारौ स प्रस्थापयति राघवः । अङ्गदं पश्चिमां भूमिं चन्द्रकेतुमुदङ्मुखम् ।। 7.102.11 ।। Uttara Kanda,102,12,अङ्गदं चापि सौमित्रिर्लक्ष्मणो ऽनुजगाम ह । चन्द्रकेतोस्तु भरतः पार्ष्णिग्राहो बभूव ह ।। 7.102.12 ।। Uttara Kanda,102,13,लक्ष्मणस्त्वङ्गदीयायां संवत्सरमथोषितः । पुत्रे स्थिते दुराधर्षे अयोध्यां पुनरागमत् ।। 7.102.13 ।। Uttara Kanda,102,14,भरतो ऽपि तथैवोष्य संवत्सरमतो ऽधिकम् । अयोध्यां पुनरागम्य रामपादावुपास्त सः ।। 7.102.14 ।। Uttara Kanda,102,15,उभौ सौमित्रिभरतौ रामपादावनुव्रतौ । कालं गतमपि स्नेहान्न जज्ञाते ऽतिधार्मिकौ ।। 7.102.15 ।। Uttara Kanda,102,16,एवं वर्षसहस्राणि दश तेषां ययुस्तदा । धर्मे प्रयतमानानां पौरकार्येषु नित्यदा ।। 7.102.16 ।। Uttara Kanda,102,17,विहृत्य कालं परिपूर्णमानसाः श्रिया वृता धर्मपुरे सुसंस्थिताः । त्रयः समिद्धा इव दीप्ततेजसो महाध्वरे साधु हुतास्त्रयो ऽग्नयः ।। 7.102.17 ।। Uttara Kanda,102,18,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे व्द्युत्तरशततमः सर्गः ।। 102 ।। Uttara Kanda,103,1,कस्यचित्त्वथ कालस्य रामे धर्मपरे स्थिते । कालस्तापसरूपेण राजद्वारमुपागमत् ।। 7.103.1 ।। Uttara Kanda,103,2,सो ऽब्रवील्लक्ष्मणं वाक्यं धृतिमन्तं यशश्विनम् । मां निवेदय रामाय सम्प्राप्तं कार्यगौरवात् ।। 7.103.2 ।। Uttara Kanda,103,3,दूतो ऽस्म्यतिबलस्याहं महर्षेरमितौजसः । रामं दिदृक्षुरायातः कार्येण हि महाबल ।। 7.103.3 ।। Uttara Kanda,103,4,तस्य तद्वचनं श्रुत्वा सौमित्रिस्त्वरया ऽन्वितः । न्यवेदयत रामाय तापसं तं समागतम् ।। 7.103.4 ।। Uttara Kanda,103,5,जयस्व राम धर्मेण उभौ लोकौ महाद्युते । दूतस्त्वां द्रष्टुमायातस्तपसा भास्करप्रभः ।। 7.103.5 ।। Uttara Kanda,103,6,तद्वाक्यं लक्ष्मणेनोक्तं श्रुत्वा राम उवाच ह । प्रवेश्यतां मुनिस्तात महौजास्तस्य वाक्यधृत् ।। 7.103.6 ।। Uttara Kanda,103,7,सौमित्रिस्तु तथेत्युक्त्वा प्रावेशयत तं मुनिम् । ज्वलन्तमेव तेजोभिः प्रदहन्तमिवांशुभिः ।। 7.103.7 ।। Uttara Kanda,103,8,सो ऽभिगम्य रघुश्रेष्ठं दीप्यपानं स्वतेजसा । ऋषिर्मधुरया वाचा वर्धस्वेत्याह राघवम् ।। 7.103.8 ।। Uttara Kanda,103,9,तस्मै रामो महातेजाः पूजामर्घ्यपुरोगमाम् । ददौ कुशलमव्यग्रं प्रष्टुमेवोपचक्रमे ।। 7.103.9 ।। Uttara Kanda,103,10,पृष्टश्च कुशलं तेन रामेण वदतां वरः । आसने काञ्चने दिव्ये निषसाद महायशाः ।। 7.103.10 ।। Uttara Kanda,103,11,तमुवाच ततो रामः स्वागतं ते महामुने । प्रापयास्य च वाक्यानि यतो दूतस्त्वमागतः ।। 7.103.11 ।। Uttara Kanda,103,12,चोदितो राजसिंहेन मुनिर्वाक्यमभाषत । द्वन्द्वमेतत्प्रवक्तव्यं हितं वै यद्यपेक्षसे ।। 7.103.12 ।। Uttara Kanda,103,13,यः शृणोति निरीक्षेद्वा स वध्यो भविता तव । भवेद्वै मुनिमुख्यस्य वचनं यद्यपेक्षसे ।। 7.103.13 ।। Uttara Kanda,103,14,स तथेति प्रतिज्ञाय रामो लक्ष्मणमब्रवीत् । द्वारि तिष्ठ महाबाहो प्रतिहारं विसर्जय ।। 7.103.14 ।। Uttara Kanda,103,15,स मे वध्यः खलु भवेत् कथाद्वन्द्वं समीरितम् । ऋषेर्मम च सौमित्रे पश्येद्वा शृणुयाच्च यः ।। 7.103.15 ।। Uttara Kanda,103,16,ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारि सङ्ग्रहम् । तमुवाच मुने वाक्यं कथयस्वेति राघवः ।। 7.103.16 ।। Uttara Kanda,103,17,यत्ते मनीषितं वाक्यं येन वा ऽसि समाहितः । कथयस्वाविशङ्कस्त्वं ममापि हृदि वर्तते ।। 7.103.17 ।। Uttara Kanda,103,18,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्र्युत्तरशततमः सर्गः ।। 103 ।। Uttara Kanda,104,1,शृणु राजन्महासत्व यदर्थमहमागतः । पितामहेन देवेन प्रेषितो ऽस्मि महाबल ।। 7.104.1 ।। Uttara Kanda,104,2,तवाहं पूर्वसद्भावे पुत्रः परपुरञ्जय । मायासम्भावितो वीर कालः सर्वसमाहरः ।। 7.104.2 ।। Uttara Kanda,104,3,पितामहश्च भगवानाह लोकपतिः प्रभुः । समयस्ते कृतः सौम्य लोकान्सम्परिरक्षितुम् ।। 7.104.3 ।। Uttara Kanda,104,4,सङ्क्षिप्य हि पुरा लोकान्मायया स्वयमेव हि । महार्णवे शयानो ऽप्सु मां त्वं पूर्वमजीजनः ।। 7.104.4 ।। Uttara Kanda,104,5,भोगवन्तं ततो नागमनन्तमुदकेशयम् । मायया जनयित्वा त्वं द्वौ च सत्त्वौ महाबलौ ।। 7.104.5 ।। Uttara Kanda,104,6,मधुं च कैटभं चैव ययोरस्थिचयैर्वृता । इयं पर्वतसम्बाधा मेदिनी चाभवन्मही ।। 7.104.6 ।। Uttara Kanda,104,7,पद्मे दिव्ये ऽर्कसङ्काशे नाभ्यामुत्पाद्य मामपि । प्राजापत्यं त्वया कर्म मयि सर्वं निवेशितम् ।। 7.104.7 ।। Uttara Kanda,104,8,सो ऽहं सन्न्यस्तभारो हि त्वामुपासे जगत्पतिम् । रक्षां विधत्स्व भूतेषु मम तेजस्करो भवान् ।। 7.104.8 ।। Uttara Kanda,104,9,ततस्त्वमपि दुर्धर्षात्तस्माद्भावात्सनातनात् । रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ।। 7.104.9 ।। Uttara Kanda,104,10,अदित्यां वीर्यवान्पुत्रो भ्रातऽणां वीर्यवर्धनः । समुत्पन्नेषु कृत्येषु तेषां साह्याय कल्पसे ।। 7.104.10 ।। Uttara Kanda,104,11,स त्वं वित्रास्यमानासु प्रजासु जगतां वर । रावणस्य वधाकाङ्क्षी मानुषेषु मनो ऽदधाः ।। 7.104.11 ।। Uttara Kanda,104,12,दश वर्षसहस्राणि दश वर्षशतानि च । कृत्वा वासस्य नियतिं स्वयमेवात्मना पुरा ।। 7.104.12 ।। Uttara Kanda,104,13,स त्वं मनोमयः पुत्रः पूर्णायुर्मानुषेष्विह । कालो ऽयं ते नरश्रेष्ठ समीपमुपवर्तितुम् ।। 7.104.13 ।। Uttara Kanda,104,14,यदि भूयो महाराज प्रजा इच्छस्युपासितुम् । वस वा वीर भद्रं त एवमाह पितामहः ।। 7.104.14 ।। Uttara Kanda,104,15,अथ वा विजिगीषा ते सुरलोकाय राघव । सनाथा विष्णुना देवा भवन्तु विगतज्वराः ।। 7.104.15 ।। Uttara Kanda,104,16,श्रुत्वा पितामहेनोक्तं वाक्यं कालसमीरितम् । राघवः प्रहसन्वाक्यं सर्वसंहारमब्रवीत् ।। 7.104.16 ।। Uttara Kanda,104,17,श्रुत्वा मे देवदेवस्य वाक्यं परममद्भुतम् । प्रीतिर्हि महती जाता तवागमनसम्भवा ।। 7.104.17 ।। Uttara Kanda,104,18,त्रयाणामपि लोकानां कार्यार्थं मम सम्भवः । भद्रं ते ऽस्तु गमिष्यामि यत एवाहमागतः ।। 7.104.18 ।। Uttara Kanda,104,19,हद्गतो ह्यसि सम्प्राप्तो न मे तत्र विचारणा । मया हि सर्वकृत्येषु देवानां वशवर्तिनाम् । स्थातव्यं सर्वसंहार यथा ह्याह पितामहः ।। 7.104.19 ।। Uttara Kanda,104,20,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुरधिकशततमः सर्गः ।। 104 ।। Uttara Kanda,105,1,तथा तयोः संवदतोर्दुर्वासा भगवानृषिः । रामस्य दर्शनाकाङ्क्षी राजद्वारमुपागमत् ।। 7.105.1 ।। Uttara Kanda,105,2,सो ऽभिगम्य तु सौमित्रिमुवाच ऋषिसत्तमः । रामं दर्शय मे शीघ्रं पुरा मे ऽर्थो ऽतिवर्तते ।। 7.105.2 ।। Uttara Kanda,105,3,मुनेस्तु भाषितं श्रुत्वा लक्ष्मणः परवीरहा । अभिवाद्य महात्मानं वाक्यमेतदुवाच ह ।। 7.105.3 ।। Uttara Kanda,105,4,किं कार्यं ब्रूहि भगवन्को वा ऽर्थः किं करोम्यहम् । व्यग्रो हि राघवो ब्रह्मन्मुहूर्तं प्रतिपाल्यताम् ।। 7.105.4 ।। Uttara Kanda,105,5,तच्छ्रुत्वा ऋषिशार्दूलः क्रोधेन कलुषीकृतः । उवाच लक्ष्मणं वाक्यं निर्दहन्निव चक्षुषा ।। 7.105.5 ।। Uttara Kanda,105,6,अस्मिन्क्षणे मां सौमित्रे रामाय प्रतिवेदय । अस्मिन्क्षणे मां सौमित्रे न निवेदयसे यदि ।। 7.105.6 ।। Uttara Kanda,105,7,विषयं त्वां पुरं चैव शपिष्ये राघवं तथा । भरतं चैव सौमित्रे युष्माकं या च सन्ततिः ।। 7.105.7 ।। Uttara Kanda,105,8,न हि शक्ष्याम्यहं भूयो मन्युं धारयितुं हृदि । तच्छ्रुत्वा घोरसङ्काशं वाक्यं तस्य महात्मनः । चिन्तयामास मनसा तस्य वाक्यस्य निश्चयम् ।। 7.105.8 ।। Uttara Kanda,105,9,एकस्य मरणं मे ऽस्तु मा भूत्सर्वविनाशनम् । इति बुद्ध्या विनिश्चित्य राघवाय न्यवेदयत् ।। 7.105.9 ।। Uttara Kanda,105,10,लक्ष्मणस्य वचः श्रुत्वा रामः कालं विसृज्य च । निस्सृत्य त्वरितं राजा अत्रेः पुत्रं ददर्श ह ।। 7.105.10 ।। Uttara Kanda,105,11,सो ऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा । किं कार्यमिति काकुत्स्थः कृताञ्जलिरभाषत ।। 7.105.11 ।। Uttara Kanda,105,12,तद्वाक्यं राघवेणोक्तं श्रुत्वा मुनिवरः प्रभुम् । प्रत्याह रामं दुर्वासाः श्रूयतां धर्मवत्सल ।। 7.105.12 ।। Uttara Kanda,105,13,अद्य वर्षसहस्रस्य समाप्तिस्तपसो मम । सो ऽहं भोजनमिच्छामि यथासिद्धं तवानघ ।। 7.105.13 ।। Uttara Kanda,105,14,तच्छ्रुत्वा वचनं राजा राघवः प्रीतमानसः । भोजनं मुनिमुख्याय यथासिद्धमुपाहरत् ।। 7.105.14 ।। Uttara Kanda,105,15,स तु भुक्त्वा मुनिश्रेष्ठस्तदन्नममृतोपमम् । साधु रामेति सम्भाष्य स्वमाश्रममुपागमत् ।। 7.105.15 ।। Uttara Kanda,105,16,तस्मिन् गते मुनिवरे स्वाश्रमं लक्ष्मणाग्रजः । संस्मृत्य कालवाक्यानि ततो दुःखमुपागमत् ।। 7.105.16 ।। Uttara Kanda,105,17,दुःखेन च सुसन्तप्तः स्मृत्वा तद्घोरदर्शनम् । अवाङ्मुखो दीनमना व्याहर्तुं न शशाक ह ।। 7.105.17 ।। Uttara Kanda,105,18,ततो बुद्ध्या विनिश्चित्य कालवाक्यानि राघवः । नैतदस्तीति निश्चित्य तूष्णीमासीन्महायशाः ।। 7.105.18 ।। Uttara Kanda,105,19,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चोत्तरशततमः सर्गः ।। 105 ।। Uttara Kanda,106,1,अवाङ्मुखमथो दीनं दृष्ट्वा सोममिवाप्लुतम् । राघवं लक्ष्मणो वाक्यं हृष्टो मधुरमब्रवीत् ।। 7.106.1 ।। Uttara Kanda,106,2,न संतापं महाबाहो मदर्थं कर्तुमर्हसि । पूर्वनिर्माणबद्धा हि कालस्य गतिरीदृशी ।। 7.106.2 ।। Uttara Kanda,106,3,जहि मां सौम्य विस्रब्धं प्रतिज्ञां परिपालय । हीनप्रतिज्ञाः काकुत्स्थ प्रयान्ति नरकं नराः ।। 7.106.3 ।। Uttara Kanda,106,4,यदि प्रीतिर्महाराज यद्यनुग्राह्यता मयि । जहि मां निर्विशङ्कस्त्वं धर्मं वर्धय राघव ।। 7.106.4 ।। Uttara Kanda,106,5,लक्ष्मणेन तथोक्तस्तु रामः प्रचलितेन्द्रियः । मन्त्रिणः समुपानीय तथैव च पुरोधसम् ।। 7.106.5 ।। Uttara Kanda,106,6,अब्रवीच्च तदा वृत्तं तेषां मध्ये स राघवः । दुर्वासोभिगमं चैव प्रतिज्ञां तापसस्य च ।। 7.106.6 ।। Uttara Kanda,106,7,तच्छ्रुत्वा मन्त्रिणः सर्वे सोपाध्यायाः समासत । वसिष्ठस्तु महातेजा वाक्यमेतदुवाच ह ।। 7.106.7 ।। Uttara Kanda,106,8,दृष्टमेतन्महाबाहो क्षयं ते रोमहर्षणम् । लक्ष्मणेन वियोगश्च तव राम महायशः ।। 7.106.8 ।। Uttara Kanda,106,9,त्यजैनं बलवान्कालो मा प्रतिज्ञां वृथा कृताः । विनष्टायां प्रतिज्ञायां धर्मो ऽपि च लयं व्रजेत् ।। 7.106.9 ।। Uttara Kanda,106,10,ततो धर्मे विनष्टे तु त्रैलोक्यं सचराचरम् । सदेवर्षिगणं सर्वं विनश्येत्तु न संशयः ।। 7.106.10 ।। Uttara Kanda,106,11,स त्वं पुरुषशार्दूल त्रैलोक्यस्याभिपालनात् । लक्ष्मणेन विना चाद्य जगत्स्वस्थं कुरुष्व ह ।। 7.106.11 ।। Uttara Kanda,106,12,तेषां तत्समवेतानां वाक्यं धर्मार्थसंहितम् । श्रुत्वा परिषदो मध्ये रामो लक्ष्मणमब्रवीत् ।। 7.106.12 ।। Uttara Kanda,106,13,विसर्जये त्वां सौमित्रे मा भूद्धर्मविपर्ययः । त्यागो वधो वा विहितः साधूनां तूभयं समम् ।। 7.106.13 ।। Uttara Kanda,106,14,रामेण भाषिते वाक्ये बाष्पव्याकुलितेन्द्रियः । लक्ष्मणस्त्वरितं प्रायात्स्वगृहं न विवेश ह ।। 7.106.14 ।। Uttara Kanda,106,15,स गत्वा सरयूतीरमुपस्पृश्य कृताञ्जलिः । निगृह्य सर्वस्रोतांसि निःश्वासं न मुमोच ह ।। 7.106.15 ।। Uttara Kanda,106,16,अनिःश्वसन्तं युक्तं तं सशक्राः साप्सरोगणाः । देवाः सर्षिगणाः सर्वे पुष्पैरभ्यकिरंस्तदा ।। 7.106.16 ।। Uttara Kanda,106,17,अदृश्यं सर्वमनुजैः सशरीरं महाबलम् । प्रगृह्य लक्ष्मणं शक्रस्त्रिदिवं संविवेश ह ।। 7.106.17 ।। Uttara Kanda,106,18,ततो विष्णोश्चतुर्भागमागतं सुरसत्तमाः । दृष्ट्वा प्रमुदिताः सर्वे ऽपूजयन् समहर्षयः ।। 7.106.18 ।। Uttara Kanda,106,19,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षडुत्तरशततमः सर्गः ।। 106 ।। Uttara Kanda,107,1,विसृज्य लक्ष्मणं रामो दुःखशोकसमन्वितः । पुरोधसं मन्त्रिणश्च नैगमांश्चेदमब्रवीत् ।। 7.107.1 ।। Uttara Kanda,107,2,अद्य राज्ये ऽभिषेक्ष्यामि भरतं धर्मवत्सलम् । अयोध्यायाः पतिं वीरं ततो यास्याम्यहं वनम् ।। 7.107.2 ।। Uttara Kanda,107,3,प्रवेशयत सम्भारान्माभूत्कालस्य पर्ययः । अद्यैवाहं गमिष्यामि लक्ष्मणेन गतां गतिम् ।। 7.107.3 ।। Uttara Kanda,107,4,तच्छ्रुत्वा राघवेणोक्तं सर्वाः प्रकृतयो भृशम् । मूर्धभिः प्रणता भूमौ गतसत्त्वा इवाभवन् ।। 7.107.4 ।। Uttara Kanda,107,5,भरतश्च विसञ्ज्ञो ऽभूच्छ्रुत्वा रामस्य भाषितम् । राज्यं विगर्हयामास राघवं चेदमब्रवीत् ।। 7.107.5 ।। Uttara Kanda,107,6,सत्येनाहं शपे राजन्स्वर्गलोके न चैव हि । न कामये यथा राज्यं त्वां विना रघुनन्दन ।। 7.107.6 ।। Uttara Kanda,107,7,इमौ कुशलवौ राजन्नभिषिञ्च नराधिप । कोसलेषु कुशं वीरमुत्तरेषु तथा लवम् ।। 7.107.7 ।। Uttara Kanda,107,8,शत्रुघ्नस्य तु गच्छन्तु दूतास्त्वरितविक्रमाः । इदं गमनमस्माकं स्वर्गायाख्यातु मा चिरम् ।। 7.107.8 ।। Uttara Kanda,107,9,तच्छ्रुत्वा भरतेनोक्तं दृष्ट्वा चापि ह्यधोमुखान् । पौरान्दुःखेन सन्तप्तान्वसिष्ठो वाक्यमब्रवीत् ।। 7.107.9 ।। Uttara Kanda,107,10,वत्स राम इमाः पश्य धरणीं प्रकृतीर्गताः । ज्ञात्वैषामीप्सितं कार्यं मा चैषां विप्रियं कृथाः ।। 7.107.10 ।। Uttara Kanda,107,11,वसिष्ठस्य तु वाक्येन उत्थाप्य प्रकृतीजनम् । किं करोमीति काकुत्स्थः सर्वा वचनमब्रवीत् ।। 7.107.11 ।। Uttara Kanda,107,12,ततः सर्वाः प्रकृतयो रामं वचनमब्रुवन् । गच्छन्तमनुगच्छामो यत्र राम गमिष्यसि ।। 7.107.12 ।। Uttara Kanda,107,13,पौरेषु यदि ते प्रीतिर्यदि स्नेहो ह्यनुत्तमः । सपुत्रदाराः काकुत्स्थ समागच्छाम सत्पथम् ।। 7.107.13 ।। Uttara Kanda,107,14,तपोवनं वा दुर्गं वा नदीमम्भोनिधिं तथा । वयं ते यदि न त्याज्याः सर्वान्नो नय ईश्वर ।। 7.107.14 ।। Uttara Kanda,107,15,एषा नः परमा प्रीतिरेष नः परमो वरः । हृद्गता नः सदा प्रीतिस्तवानुगमने नृप ।। 7.107.15 ।। Uttara Kanda,107,16,पौराणां दृढभक्तिं च बाढमित्येव सो ऽब्रवीत् । स्वकृतान्तं चान्ववेक्ष्य तस्मिन्नहनि राघवः ।। 7.107.16 ।। Uttara Kanda,107,17,कोसलेषु कुशं वीरमुत्तरेषु तथा लवम् । अभिषिच्य महात्मानावुभौ रामः कुशीलवौ ।। 7.107.17 ।। Uttara Kanda,107,18,अभिषिक्तौ सुतावङ्के प्रतिष्ठाप्य पुरे ततः । परिष्वज्य महाबाहुर्मूर्ध्न्युपाघ्राय चासकृत् ।। 7.107.18 ।। Uttara Kanda,107,19,रथानां तु सहस्राणि नागानामयुतानि च । दशायुतानि चाश्वानामेकैकस्य धनं ददौ ।। 7.107.19 ।। Uttara Kanda,107,20,बहुरत्नौ बहुधनौ हृष्टपुष्टजनावृतौ । स्वे पुरे प्रेषयामास भ्रातरौ तु कुशीलवौ ।। 7.107.20 ।। Uttara Kanda,107,21,अभिषिच्य सुतौ वीरौ प्रतिष्ठाप्य पुरे तदा । दूतान्सम्प्रेषयामास शत्रुघ्नाय महात्मने ।। 7.107.21 ।। Uttara Kanda,107,22,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तोत्तरशततमः सर्गः ।। 107 ।। Uttara Kanda,108,1,ते दूता रामवाक्येन चोदिता लघुविक्रमाः । प्रजग्मुर्मधुरां शीघ्रं चक्रुर्वासं न चाध्वनि ।। 7.108.1 ।। Uttara Kanda,108,2,ते तु त्रिभिरहोरात्रैः सम्प्राप्य मधुरामथ । शत्रुघ्नाय यथातत्त्वमाचख्युः सर्वमेव तत् ।। 7.108.2 ।। Uttara Kanda,108,3,लक्ष्मणस्य परित्यागं प्रतिज्ञां राघवस्य च । पुत्रयोरभिषेकं च पौरानुगमनं तथा ।। 7.108.3 ।। Uttara Kanda,108,4,कुशस्य नगरी रम्या विन्ध्यपर्वतरोधसि । कुशावतीति नाम्ना सा कृता रामेण धीमता । श्रावस्तीति पुरी रम्या श्राविता च लवस्य ह ।। 7.108.4 ।। Uttara Kanda,108,5,अयोध्यां विजनां कृत्वा राघवो भरतस्तथा । स्वर्गस्य गमनोद्योगं कृतवन्तौ महारथौ ।। 7.108.5 ।। Uttara Kanda,108,6,एवं सर्वं निवेद्याशु शत्रुघ्नाय महात्मने । विरेमुस्ते ततो दूतास्त्वर राजेति चाब्रुवन् ।। 7.108.6 ।। Uttara Kanda,108,7,तच्छ्रुत्वा घोरसङ्काशं कुलक्षयमुपस्थितम् । प्रकृतीस्तु समानीय काञ्चनं च पुरोधसम् ।। 7.108.7 ।। Uttara Kanda,108,8,तेषां सर्वं यथावृत्तमब्रवीद्रघनन्दनः । आत्मनश्च विपर्यासं भविष्यं भ्रातृभिः सह ।। 7.108.8 ।। Uttara Kanda,108,9,ततः पुत्रद्वयं वीरः सो ऽभ्यषिञ्चन्नराधिपः । सुबाहुर्मधुरां लेभे शत्रुघाती च वैदिशम् ।। 7.108.9 ।। Uttara Kanda,108,10,द्विधा कृत्वा तु तां सेनां माधुरीं पुत्रयोर्द्वयोः । धनं च युक्तं कृत्वा वै स्थापयामास पार्थिवः ।। 7.108.10 ।। Uttara Kanda,108,11,सुबाहुं मधुरायां च वैदेशे शत्रुघातिनम् । ययौ स्थाप्य तदा ऽयोध्यां रथेनैकेन राघवः ।। 7.108.11 ।। Uttara Kanda,108,12,स ददर्श महात्मानं ज्वलन्तमिव पावकम् । सूक्ष्मक्षौमाम्बरधरं मुनिभिः सार्धमक्षयैः ।। 7.108.12 ।। Uttara Kanda,108,13,सो ऽभिवाद्य ततो रामं प्राञ्जलिः प्रयतेन्द्रियः । उवाच वाक्यं धर्मज्ञं धर्ममेवानुचिन्तयन् ।। 7.108.13 ।। Uttara Kanda,108,14,कृत्वाभिषेकं सुतयोर्द्वयो राघवनन्दन । तवानुगमने राजन्विद्धि मां कृतनिश्चयम् ।। 7.108.14 ।। Uttara Kanda,108,15,न चान्यदपि वक्तव्यमतो वीर न शासनम् । विलोक्यमानमिच्छामि मद्विधेन विशेषतः ।। 7.108.15 ।। Uttara Kanda,108,16,तस्य तां बुद्धिमक्लीबां विज्ञाय रघुनन्दनः । बाढमित्येव शत्रुघ्नं रामो वाक्यमुवाच ह ।। 7.108.16 ।। Uttara Kanda,108,17,तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणः । ऋक्षराक्षससङ्घाश्च समापेतुरनेकशः ।। 7.108.17 ।। Uttara Kanda,108,18,सुग्रीवं ते पुरस्कृत्य सर्व एव समागताः । तं रामं द्रष्टुमनसः स्वर्गायाभिमुखं स्थितम् ।। 7.108.18 ।। Uttara Kanda,108,19,देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास्तथा । रामक्षयं विदित्वा ते सर्व एव समागताः ।। 7.108.19 ।। Uttara Kanda,108,20,ते राममभिवाद्योचुः सर्वे वानरराक्षसाः । तवानुगमने राजन्सम्प्राप्ताः कृतनिश्चयाः ।। 7.108.20 ।। Uttara Kanda,108,21,यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषोत्तम । यमदण्डमिवोद्यम्य त्वया स्म विनिपातिताः ।। 7.108.21 ।। Uttara Kanda,108,22,तैरेवमुक्तः काकुत्स्थो बाढमित्यब्रवीत् स्मयन् ।। 7.108.22 ।। Uttara Kanda,108,23,एतस्मिन्नन्तरे रामं सुग्रीवो ऽपि महाबलः । प्रणम्य विधिवद्वीरं विज्ञापयितुमुद्यतः ।। 7.108.23 ।। Uttara Kanda,108,24,अभिषिच्याङ्गदं वीरमागतो ऽस्मि नरेश्वर । तवानुगमने राजन्विद्धि मां कृतनिश्चयम् ।। 7.108.24 ।। Uttara Kanda,108,25,तस्य तद्वचनं श्रुत्वा रामो रमयतां वरः । वानरेन्द्रमथोवाचं मैत्रं तस्यानुचिन्तयन् ।। 7.108.25 ।। Uttara Kanda,108,26,सखे शृणुष्व सुग्रीव न त्वया ऽहं विनाकृतः । गच्छेयं देवलोकं वा परमं वा पदं महत् ।। 7.108.26 ।। Uttara Kanda,108,27,बिभीषणमथोवाच राक्षसेन्द्रं महायशाः । यावत्प्रजा धरिष्यन्ति तावत्त्वं वै बिभीषण । राक्षसेन्द्र महावीर्य लङ्कास्थस्त्वं धरिष्यसि ।। 7.108.27 ।। Uttara Kanda,108,28,यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी । यावच्च मत्कथा लोके तावद्राज्यं तवास्त्विह ।। 7.108.28 ।। Uttara Kanda,108,29,शासितस्त्वं सखित्वेन कार्यं ते मम शासनम् । प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुमर्हसि ।। 7.108.29 ।। Uttara Kanda,108,30,किञ्चान्यद्वक्तुमिच्छामि राक्षसेन्द्र महामते ।। 7.108.30 ।। Uttara Kanda,108,31,आराधय जगन्नाथमिक्ष्वाकुकुलदैवतम् । आराधनीयमनिशं सर्वैर्दैवैः सवासवैः ।। 7.108.31 ।। Uttara Kanda,108,32,तथेति प्रतिजग्राह रामवाक्यं विभीषणः । राजा राक्षसमुख्यानां राघवाज्ञामनुस्मरन् ।। 7.108.32 ।। Uttara Kanda,108,33,तमेवमुक्त्वा काकुत्स्थो हनूमन्तमथाब्रवीत् । जीविते कृतबुद्धिस्त्वं मा प्रतिज्ञां विलोपय ।। 7.108.33 ।। Uttara Kanda,108,34,मत्कथाः प्रचरिष्यन्ति यावल्लोके हरीश्वर । तावद्रमस्व सुप्रीतो मद्वाक्यमनुपालयन् ।। 7.108.34 ।। Uttara Kanda,108,35,एवमुक्तस्तु हनुमान्राघवेण महात्मना । वाक्यं विज्ञापयामास परं हर्षमवाप्य च ।। 7.108.35 ।। Uttara Kanda,108,36,यावत्तव कथा लोके विचरिष्यति पावनी । तावत्स्थास्यामि मेदिन्यां तवाज्ञामनुपालयन् ।। 7.108.36 ।। Uttara Kanda,108,37,जाम्बवन्तं तथोक्त्वा तु वृद्धं ब्रह्मसुतं तथा । मैन्दं च द्विविदं चैव पञ्च जाम्बवता सह । Uttara Kanda,108,38,तानेवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान् । उवाच बाढं गच्छध्वं मया सार्धं यथेप्सितम् ।। 7.108.38 ।। Uttara Kanda,108,39,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टोतरशततमः सर्गः ।। 108 ।। Uttara Kanda,109,1,प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः । रामः कमलपत्राक्षः पुरोधसमथाब्रवीत् ।। 7.109.1 ।। Uttara Kanda,109,2,अग्निहोत्रं व्रजत्वग्रे दीप्यमानं सह द्विजैः । वाजपेयातपत्रं च शोभमानं महापथे ।। 7.109.2 ।। Uttara Kanda,109,3,ततो वसिष्ठस्तेजस्वी सर्वं निरवशेषतः । चकार विधिवद्धर्मं महाप्रास्थानिकं विधिम् ।। 7.109.3 ।। Uttara Kanda,109,4,ततः सूक्ष्माम्बरधरो ब्रह्ममावर्तयन्परम् । कुशान्गृहीत्वा पाणिभ्यां प्रसज्य प्रययावथ ।। 7.109.4 ।। Uttara Kanda,109,5,अव्याहरन्क्वचित्किञ्चिन्निश्चेष्टो निःसुखः पथि । निर्जगाम गृहात्तस्माद्दीप्यमान इवांशुमान् ।। 7.109.5 ।। Uttara Kanda,109,6,रामस्य दक्षिणे पार्श्वे सपद्मा श्रीरपाश्रिता । सव्ये तु ह्रीर्महादेवी व्यवसायस्तथाग्रतः ।। 7.109.6 ।। Uttara Kanda,109,7,शरा नानाविधाश्चापि धनुरायतमुत्तमम् । तथा ऽ ऽयुधानि ते सर्वे ययुः पुरुषविग्रहाः ।। 7.109.7 ।। Uttara Kanda,109,8,वेदा ब्राह्मणरूपेण गायत्री सर्वरक्षिणी । ओङ्कारो ऽथ वषट्कारः सर्वे राममनुव्रताः ।। 7.109.8 ।। Uttara Kanda,109,9,ऋषयश्च महात्मानः सर्व एव महीसुराः । अन्वगच्छन्महात्मानं स्वर्गद्वारमपावृतम् ।। 7.109.9 ।। Uttara Kanda,109,10,तं यान्तमनुगच्छन्ति ह्यन्तःपुरचराः स्त्रियः । सवृद्धबालदासीकाः सवर्षवरकिङ्कराः ।। 7.109.10 ।। Uttara Kanda,109,11,सान्तःपुरश्च भरतः शत्रुघ्नसहितो ययौ । रामं गतिमुपागम्य साग्निहोत्रमनुव्रतः ।। 7.109.11 ।। Uttara Kanda,109,12,ते च सर्वे महात्मानः साग्निहोत्राः समागताः । सपुत्रदाराः काकुत्स्थमनुजग्मुर्महामतिम् ।। 7.109.12 ।। Uttara Kanda,109,13,मन्त्रिणो भृत्यवर्गाश्च सपुत्रपशुबान्धवाः । सर्वे सहानुगा राममन्वगच्छन्प्रहृष्टवत् ।। 7.109.13 ।। Uttara Kanda,109,14,ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः । गच्छन्तमन्वगछंस्तं राघवं गुणरञ्जिताः ।। 7.109.14 ।। Uttara Kanda,109,15,ततः सस्त्रीपुमांसस्ते सपक्षिपशुवाहनाः । राघवस्यानुगाः सर्वे हृष्टा विगतकल्मषाः ।। 7.109.15 ।। Uttara Kanda,109,16,स्नाताः प्रमुदिताः सर्वे हृष्टाः पुष्टाश्च वानराः । दृढं किलकिलाशब्दैः सर्वं राममनुव्रतम् ।। 7.109.16 ।। Uttara Kanda,109,17,न तत्र कश्चिद्दीनो वा व्रीडितो वा ऽपि दुःखितः । हृष्टं समुदितं सर्वं बभूव परमाद्भुतम् ।। 7.109.17 ।। Uttara Kanda,109,18,द्रष्टुकामो ऽथ निर्यान्तं रामं जानपदो जनः । यः प्राप्तः सो ऽपि दृष्ट्वैव स्वर्गायानुगतो मुदा ।। 7.109.18 ।। Uttara Kanda,109,19,ऋक्षवानररक्षांसि जनाश्च पुरवासिनः । आगच्छन्परया भक्त्या पृष्ठतः सुसमाहिताः ।। 7.109.19 ।। Uttara Kanda,109,20,यानि भूतानि नगरे ऽप्यन्तर्धानगतानि च । राघवं तान्यनुययुः स्वर्गाय समुपस्थितम् ।। 7.109.20 ।। Uttara Kanda,109,21,यानि पश्यन्ति काकुत्स्थं स्थावराणि चराणि च । सर्वाणि रामगमने ह्यनुजग्मुर्हि तान्यपि ।। 7.109.21 ।। Uttara Kanda,109,22,नोच्छ्वसत्तदयोध्यायां सुसूक्ष्ममपि दृश्यते । तिर्यग्योनिगताश्चापि सर्वे राममनुव्रताः ।। 7.109.22 ।। Uttara Kanda,109,23,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे नवाधिकशततमः सर्गः ।। 109 ।। Uttara Kanda,110,1,अध्यर्धयोजनं गत्वा नदीं पश्चान्मुखाश्रिताम् । सरयूं पुण्यसलिलां ददर्श रघुनन्दनः ।। 7.110.1 ।। Uttara Kanda,110,2,तां नदीमाकुलावर्तां सर्वत्रानुसरन्नृपः । आगतः सप्रजो रामस्तं देशं रघुनन्दनः ।। 7.110.2 ।। Uttara Kanda,110,3,अथ तस्मिन्मुहूर्ते तु ब्रह्मा लोकपितामहः । सर्वैः परिवृतो देवैर्ऋषिभिश्च महात्मभिः ।। 7.110.3 ।। Uttara Kanda,110,4,आययौ यत्र काकुत्स्थः स्वर्गाय समुपस्थितः । विमानशतकोटीभिर्दिव्याभिरभिसंवृतः ।। 7.110.4 ।। Uttara Kanda,110,5,दिव्यतेजोवृतं व्योम ज्योतिर्भूतमनुत्तमम् । स्वयम्प्रभैः स्वतेजोभिः स्वर्गिभिः पुण्यकर्मभिः ।। 7.110.5 ।। Uttara Kanda,110,6,पुण्या वाता ववुश्चैव गन्धवन्तः सुखप्रदाः । पपात पुष्पवृष्टिश्च देवैर्मुक्ता महौघवत् ।। 7.110.6 ।। Uttara Kanda,110,7,तस्मिंस्तूर्यशतैः कीर्णे गन्धर्वाप्सरसङ्कुले । सरयूसलिलं रामः पद्भ्यां समुपचक्रमे ।। 7.110.7 ।। Uttara Kanda,110,8,ततः पितामहो वाणीमन्तरिक्षादभाषत । आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तो ऽसि राघव ।। 7.110.8 ।। Uttara Kanda,110,9,भ्रातृभिः सह देवाभैः प्रविशस्व स्विकां तनुम् । यामिच्छसि महाबाहो तां तनुं प्रविश स्विकाम् । वैष्णवीं तां महातेजस्तद्वाकाशं सनातनम् ।। 7.110.9 ।। Uttara Kanda,110,10,त्वं हि लोकगतिर्देव न त्वां केचित्प्रजानते । ऋते मायां विशालाक्षीं तव पूर्वपरिग्रहाम् । त्वामचिन्त्यं महद्भूतमक्षयं सर्वसङ्ग्रहम् ।। 7.110.10 ।। Uttara Kanda,110,11,यामिच्छसि महातेजस्तां तनुं प्रविश स्वयम् ।। 7.110.11 ।। ां Uttara Kanda,110,12,विशालाक्षीं तव पूर्वपरिग्रहाम् । पितामहवचः श्रुत्वा विनिश्चित्य महामतिः । विवेश वैष्णवं तेजः सशरीरः सहानुजः ।। 7.110.12 ।। Uttara Kanda,110,13,ततो विष्णुमयं देवं पूजयन्ति स्म देवताः । साध्या मरुद्गणाश्चैव सेन्द्राः साग्निपुरोगमाः ।। 7.110.13 ।। Uttara Kanda,110,14,ये च दिव्या ऋषिगणा गन्धर्वाप्सरसश्च याः । सुपर्णनागयक्षाश्च दैत्यदानवराक्षसाः ।। 7.110.14 ।। Uttara Kanda,110,15,सर्वं पुष्टं प्रमुदितं सुसम्पूर्णमनोरथम् । साधु साध्विति तैर्देवैस्त्रिदिवं गतकल्मषम् ।। 7.110.15 ।। Uttara Kanda,110,16,अथ विष्णुर्महातेजाः पितामहमुवाच ह । एषां लोकं जनौघानां दातुमर्हसि सुव्रत ।। 7.110.16 ।। Uttara Kanda,110,17,इमे हि सर्वे स्नेहान्मामनुयाता यशस्विनः । भक्ता हि भजितव्याश्च त्यक्तात्मानश्च मत्कृते ।। 7.110.17 ।। Uttara Kanda,110,18,तच्छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुः । लोकान्सान्तानिकान्नाम यास्यन्तीमे समागताः ।। 7.110.18 ।। Uttara Kanda,110,19,यच्च तिर्यग्गतं किञ्चित्त्वामेवमनुचिन्तयत् । प्राणांस्त्यक्ष्यति भक्त्या वै तत्सन्ताने निवत्स्यति ।। 7.110.19 ।। Uttara Kanda,110,20,सर्वैर्ब्रह्मगुणैर्युक्ते ब्रह्मलोकादनन्तरे ।। 7.110.20 ।। Uttara Kanda,110,21,वानराश्च स्विकां योनिमृक्षाश्चैव तथा ययुः । येभ्यो विनिस्सृताः सर्वे सुरेभ्यः सुरसम्भवाः ।। 7.110.21 ।। Uttara Kanda,110,22,तेषु प्रविविशे चैव सुग्रीवः सूर्यमण्डलम् । पश्यतां सर्वदेवानां स्वान्पितऽन्प्रतिपेदिरे ।। 7.110.22 ।। Uttara Kanda,110,23,तथोक्तवति देवेशे गोप्रतारमुपागताः । भेजिरे सरयूं सर्वे हर्षपूर्णाश्रुविक्लवाः ।। 7.110.23 ।। Uttara Kanda,110,24,अवगाह्य जलं यो यः प्राणी ह्यासीत् प्रहृष्टवत् । मानुषं देहमुत्सृज्य विमानं सो ऽध्यरोहत ।। 7.110.24 ।। Uttara Kanda,110,25,तिर्यग्योनिगतानां च शतानि सरयूजलम् । सम्प्राप्य त्रिदिवं जग्मुः प्रभासुरवपूंषि च । दिव्या दिव्येन वपुषा देवा दीप्ता इवाभवन् ।। 7.110.25 ।। Uttara Kanda,110,26,गत्वा तु सरयूतोयं स्थावराणि चराणि च । प्राप्य तत्तोयविक्लेदं देवलोकमुपागमन् ।। 7.110.26 ।। Uttara Kanda,110,27,तस्मिन्नपि समापन्ना ऋक्षवानरराक्षसाः । ते ऽपि स्वर्गं प्रविविशुर्देहान्निक्षिप्य चाम्भसि ।। 7.110.27 ।। Uttara Kanda,110,28,ततः समागतान्सर्वान्स्थाप्य लोकगुरुर्दिवि । जगाम त्रिदशैः सार्धं सदा हृष्टैर्दिवं महत् ।। 7.110.28 ।। Uttara Kanda,110,29,इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे दशाधिकशततमः सर्गः ।। 110 ।। Uttara Kanda,111,1,एतावदेतदाख्यानं सोत्तरं ब्रह्मपूजितम् । रामायणमिति ख्यातं मुख्यं वाल्मीकीना कृतम् ।। 7.111.1 ।। Uttara Kanda,111,2,ततः प्रतिष्ठितो विष्णुः स्वर्गलोके यथा पुरम् । येन व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम् ।। 7.111.2 ।। Uttara Kanda,111,3,ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । नित्यं शृण्वन्ति सन्तुष्टाः दिव्यं रामायणं दिवि ।। 7.111.3 ।। Uttara Kanda,111,4,इदमाख्यानमायुष्यं सौभाग्यं पापनाशनम् । रामायणं वेदसमं श्राद्धेषु श्रावयेद्बुधः ।। 7.111.4 ।। Uttara Kanda,111,5,अपुत्रो लभते पुत्रमधनो लभते धनम् । सर्वपापैः प्रमुच्येत पदमप्यस्य यः पठेत् ।। 7.111.5 ।। Uttara Kanda,111,6,पापान्यपि च यः कुर्यादहन्यहनि मानवः । पठत्येकमपि श्लोकं पापात्स परिमुच्यते ।। 7.111.6 ।। Uttara Kanda,111,7,वाचकाय च दातव्यं वस्त्रं धेनुं हिरण्यकम् । वाचके परितुष्टे तु तुष्टाः स्युः सर्वदेवताः ।। 7.111.7 ।। Uttara Kanda,111,8,एतदाख्यानमायुष्यं पठन्रामायणं नरः । सपुत्रपौत्रो लोके ऽस्मिन्प्रेत्य चेह महीयते ।। 7.111.8 ।। Uttara Kanda,111,9,अयोध्या ऽपि पुरी रम्या शून्या वर्षगणान्बहून् । ऋषभं प्राप्य राजानं निवासमुपयास्यति ।। 7.111.9 ।। Uttara Kanda,111,10,एतदाख्यानमायुष्यं सभविष्यं सहोत्तरम् । कृतवान्प्रचेतसः पुत्रस्तद्ब्रह्माप्यन्वमन्यत ।। 7.111.10 ।। Uttara Kanda,111,11,अश्वमेधसहस्रस्य वाजपेयायुतस्य च । लभते श्रावणादेव सर्गस्यैकस्य मानवः ।। 7.111.11 ।। Uttara Kanda,111,12,प्रयागादीनि तीर्थानि गङ्गाद्याः सरितस्तथा । नैमिशादीन्यरण्यानि कुरुक्षेत्रादिकान्यपि । गतानि तेन लोके ऽस्मिन्येन रामायणं श्रुतम् ।। 7.111.12 ।। Uttara Kanda,111,13,हेमभारं कुरुक्षेत्रे ग्रस्ते भानौ प्रयच्छति । यश्च रामायणं लोके शृणोति सदृशावुभौ ।। 7.111.13 ।। Uttara Kanda,111,14,सम्यक्छ्रद्धासमायुक्तः शृणुते राघवीं कथाम् । सर्वपापात्प्रमुच्येत विष्णुलोकं स गच्छति ।। 7.111.14 ।। Uttara Kanda,111,15,आदिकाव्यमिदं त्वार्षं पुरा वाल्मीकिना कृतम् । यः शृणोति सदा भक्त्या स गच्छेद्वैष्णवीं तनुम् ।। 7.111.15 ।। Uttara Kanda,111,16,पुत्रदाराश्च वर्धन्ते सम्पदः सन्ततिस्तथा । सत्यमेतद्विदित्वा तु श्रोतव्यं नियतात्मभिः ।। 7.111.16 ।। Uttara Kanda,111,17,गायत्र्याश्च स्वरूपं तद्रामायणमनुत्तमम् ।। 7.111.17 ।। Uttara Kanda,111,18,अपुत्रो लभते पुत्रमधनो लभते धनम् । सर्वपापैः प्रमुच्येत पदमप्यस्य यः पठेत् ।। 7.111.18 ।। Uttara Kanda,111,19,यः पठेच्छृणुयान्नित्यं चरितं राघवस्य ह । भक्त्या निष्कल्मषो भूत्वा दीर्घमायुरवाप्नुयात् ।। 7.111.19 ।। Uttara Kanda,111,20,चिन्तयेद्राघवं नित्यं श्रेयः प्राप्तुं य इच्छति । श्रावयेदिदमाख्यानं ब्राह्मणेभ्यो दिने दिने ।। 7.111.20 ।। Uttara Kanda,111,21,यस्त्विदं रघुनाथस्य चरितं सकलं पठेत् । सो ऽसुक्षये विष्णुलोकं गच्छत्येव न संशयः ।। 7.111.21 ।। Uttara Kanda,111,22,पिता पितामहस्तस्य तथैव प्रपितामहः । तत्पिता तत्पिता चैव विष्णुं यान्ति न संशयः ।। 7.111.22 ।। Uttara Kanda,111,23,चतुर्वर्गप्रदं नित्यं चरितं राघवस्य तु । तस्माद्यत्नवता नित्यं श्रोतव्यं परमं सदा ।। 7.111.23 ।। Uttara Kanda,111,24,शृण्वन्रामायणं भक्त्या यः पादं पदमेव वा । स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा ।। 7.111.24 ।। Uttara Kanda,111,25,एवमेतत्पुरावृत्तमाख्यानं भद्रमस्तु वः । प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् ।। 7.111.25 ।। Uttara Kanda,111,26,इत्यार्षे श्रीमद्रामायणे श्रीमद्वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमदुत्तरकाण्डे एकादशोत्तरशततमः सर्गः ।। 111 ।। Uttara Kanda,111,27,।। इत्युत्तरकाण्डः समाप्तः ।। Uttara Kanda,111,28,।। इत्यार्षे श्रीमद्वाल्मीकीये आदिकाव्ये श्रीमद्रामायणं सम्पूर्णम् ।। Uttara Kanda,111,29,।। श्रीसीतारामचन्द्रार्पणमस्तु ।।