text
stringlengths
0
31.6M
metadata
dict
साहित्यकार: स: यो सुस्पष्ट भाषायां लोकहितकारी सृजनम करोति
{ "source": "wikipedia" }
भारतीयराष्ट्रियकाङ्ग्रेस् इति कश्चन राजकीयपक्षः भारते अस्ति । एषः भारतस्य प्राचीनतमः राजतन्त्रपक्षः अस्ति । क्रि.श.1885तमे वर्षे प्रतिष्ठापितः अयं पक्षः ब्रिटिष् प्रशासनं विरुध्य आन्दोलनकर्तृषु प्रथमः । स्वातन्त्र्योत्तरम् अधिककालं प्रशासन​सूत्रम् अस्य पक्षस्य एव आसीत् । चतुर्दशे लोकसभायां 145स्थानेषु अस्य पक्षस्य प्रत...
{ "source": "wikipedia" }
धननन्दः महापद्मनन्दस्य कनिष्ठः पुत्रः नन्दवंशस्य अन्तिमः राजा च आसीत्। सः सामान्ययुगात् पूर्वं चतुर्थे शतके राज्यम् अकरोत्। सः दौष्कुल्यात् स्वक्रौर्यात् च प्रजैः द्विष्टः आसीत्। सः चाणक्यचन्द्रगुप्तमौर्याभ्यां जितः।
{ "source": "wikipedia" }
भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति कौशाम्बीमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति मञ्झानपुरम्।
{ "source": "wikipedia" }
, , , एम एन श्रीनिवासः मैसूरु नरसिंहचार् श्रीनिवासः इति तस्य पूर्णनाम। सः भारतीय समाजशास्त्रज्ञः आसीत् । मत व्यवस्या वैदेशीकरणं इत्यदि विषये प्रतिषेधं प्रकटयन् सामूह्परिष्कर्ता / समाजह्परिष्कर्ता अभवत्। संस्कृतवत्करणे प्रतिज्ञाबद्दः सामह्ज प्रवर्तकः च आसीत्। जन्मना ब्रह्माण: स मुम्बई विश्वविद्य...
{ "source": "wikipedia" }
छत्तीसगडराज्यं भारते स्थितं किञ्चन राज्यम् अस्ति । इदं नूतनतया निर्मितम् अस्ति । मध्यप्रदेशराज्यस्य कानिचनमण्डलानि मेलयित्वा पृथक्राज्यं सा.श.2000 तमे वर्षे नवम्बरमासस्य प्रथमदिने कृतम् । अस्मिन् राज्ये 35 जातीयजनाः निवसन्ति । नाल्कार् बैरा, मुण्डमदिया, नाहर् इत्यादयः जनाः अत्र कृषिं मृगयां मत्स्योद्यमं सीवनं काष्ठकार्...
{ "source": "wikipedia" }
बैढन इत्येतन्नगरं मध्यप्रदेशराज्यस्य रीवाविभागे अन्तर्गतस्य सिङ्गरौलीमण्डलस्य केन्द्रम् अस्ति ।
{ "source": "wikipedia" }
देवान्भावयतानेन ) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः प्रजापतेः आज्ञाम् अग्रे कथयति । पूर्वस्मिन् श्लोके प्रजापतेः कल्पादौ प्राणिभ्यः या आज्ञा आसीत्, सा भगवान् अर्जुनम् अकथयत् । अत्र प्रजापतेः अग्रिमं कथनं भगवान् कथयति । श्रीकृष्णः प्रजापतेः वचनं वदति यद्, यूयम् अनेन यज्ञेन देवान् उन्नतं कुर्यास्त । ते देवाः युष्मान् उन्...
{ "source": "wikipedia" }
43 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 5...
{ "source": "wikipedia" }
उत्तरसियाङ्गमण्डलम् अरुणाचलप्रदेशराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं यिञ्गकियोञ्ग् नगरम् । स्क्रिप्ट त्रुटि: " " ऐसा कोई मॉड्यूल नहीं है। उत्तरसियाङ्गमण्डलस्य विस्तारः 6188 चतुरस्रकिलोमीटर्मितः अस्ति । 2001 जनगणनानुगुणं उत्तरसियाङ्गमण्डलस्य जनसङ्ख्या 35289 अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्...
{ "source": "wikipedia" }
यः सर्वत्रानभिस्नेहः ) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अर्जुनस्य द्वितीयप्रश्नस्य उत्तरं ददाति । पूर्वस्मिन् श्लोके स्थितप्रज्ञः कथं वदतीति उक्त्वा अस्मिन् श्लोकेऽपि स्थितप्रज्ञस्य लक्षणं वदति । यः, सर्वत्र, अनभिस्नेहः, तत्, तत्, प्राप्य, शुभाशुभम् । न, अभिनन्दति, न, द्वेष्टि, तस्य, प्रज्ञा, प्रतिष्ठिता ॥ यः सर्वत्र ...
{ "source": "wikipedia" }
इदानीं भारते अपि वर्धमानः कश्चन धान्यविशेषः कलायः । अयं कलायः अपि सस्यजन्यः आहारपदार्थः । अयं कलायः आङ्ग्लभाषायां इति उच्यते । प्रायः अस्य कलायस्य मातृभूमिः अन्यः एव कश्चन देशः स्यात् । विदेशीयैः सह नौकया भारतं प्रविष्टः स्यात् । यतः अद्यतने जगति बहुविधेन चिरपरिचितस्य अस्य कलायस्य प्राचीनेषु आयुर्वेदग्रन्थेषु कुत्रापि...
{ "source": "wikipedia" }
गुरु दत्त
{ "source": "wikipedia" }
झारखण्डराज्यं भारतस्‍य मध्‍यपूर्वभागे विद्यमानं किञ्चन राज्यम् । बिहारस्य दक्षिणभागतः इदं राज्यं 2000तम वर्षस्य नवेम्बर्मासस्य 15 दिनाङ्के निर्मितम् अस्ति । अस्य राज्यस्य उत्तरदिशि बिहारराज्यं, पश्चिमदिशि उत्तरप्रदेशः छत्तीसगढराज्यं, दक्षिणदिशि ओरिस्साराज्यं, पूर्वदिशि पश्चिमबङ्गालराज्यं च वर्तते । अस्य राज्यस्य विस्ता...
{ "source": "wikipedia" }
ब्रिटेनस्य शासकः।
{ "source": "wikipedia" }
भगिनी निवेदिता /ˈəɡɪː ɪɛɛɑː/) इति स्वामिविवेकानन्देन प्रदत्तं नाम । तस्याः वास्तविकं नाम तु मार्गरेट् एलिजबेथ् नोबल् आसीत् । भारतस्य स्वतन्त्रतासङ्ग्रामे तस्याः अपि अविस्मरणीयं योगदानं वर्तते । मेडलीन् स्लेड्, एनी बेसन्ट् सदृशम् एषा अपि भारतमातुः विदेशिपुत्री । एषा अपि सर्वस्वं त्यक्त्वा भारतस्वतन्त्रतायै योगदानम् अयच्...
{ "source": "wikipedia" }
25 फरवरी-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य षट्पञ्चाशत्तमं दिनम् । एतस्मात् दिनात् वर्षान्ताय 309 दिनानि अवशिष्टानि ।
{ "source": "wikipedia" }
डा.चन्दशेखर कम्बारस्य जननं क्रि.श.1937तमे वर्षे जनवरिमासस्य द्वितीये दिने बेळगाविमण्डलस्य घोडिगेरि ग्रामे अभवत् । अस्य पिता बसवेण्णप्प कम्बाराः माता चेन्नम्मा च । बेळगाविनगरस्य लिङ्गराजमहाविद्यालयतः स्नातकपदवीम्, क्रि.श. 1962तमे वर्षे कर्णाटकविश्वविद्यालयतः स्नातकोत्तरपदवीं, पि.एच्.डि.उपाधिं च अवाप्तवान् । बेङ्गळूरुविश...
{ "source": "wikipedia" }
16 अक्तूबर-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य द्विशताधिकनवाशीतितमं दिनम् । लिप्-वर्षानुगुणम् द्विशताधिकनवतितमं दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय 76 दिनानि अवशिष्टानि ।
{ "source": "wikipedia" }
सान्टा फ़े संयुक्त राज्‍य अमेरिका देशस्‍य नगरः अस्‍ति। अलाबामा | अलास्का | आरिज़ोना | अर्कान्स | कालिफ़ोर्निया | कोलोराडो | कनेक्टिकट् | डेलावेर् | फ्लोरिडा | जार्जिया | हवाई | ऐडहो | इलिनाई | इन्डियाना | अयोवा | केन्‍सास | केन्‍टकी | लूइसियाना | मेन | मेरील्यान्ड् | मासचुसेट्‍स | मिशिगन | मिनेसोटा | मिसिसिपी | मिसूरी ...
{ "source": "wikipedia" }
आर के नारायणन् अस्य पूर्णनाम रासिपुरम् कृष्णस्वामी अय्यर् नारायणस्वामी एषः एकः भारतीयः आङ्ग्लभाषालेखकः आसीत्। एतस्य बहवः रचनाः तदीयस्य काल्पनिकपुरस्य 'माल्गुडि' इत्येतस्य स्थलस्य पृष्ठभूमिकायुक्ताः सन्ति। तेषु 'स्वामि अन्ड् फ़्रेन्ड्स्', 'द इङ्ग्लिष् टीचर्', 'द ब्याचलर् आफ़् आर्ट्स्' इत्यादयः कृतयः प्रमुखाः सन्ति ।
{ "source": "wikipedia" }
आयुर्विपाकं कर्म द्विविधं सोपक्रमं निरुपक्रमं च । तत्र यथार्द्रवस्त्रं वितानितं लघीयसा कालेन शुष्येत्, तथा सोपक्रमम् । यथा च तदेव सम्पिण्डितं चिरेण संशुष्येदेवं निरुपक्रमम् । यथा चाग्निः शुष्के कक्षे मुक्तो वातेन समन्ततो युक्तं क्षेपीयसा कालेन दहेत्, तथा सोपक्रमम् । यथा वा स एवाग्निस्तृणराशौ क्रमतोऽवयवेषु न्यस्तश्चिरेण...
{ "source": "wikipedia" }
भारतस्य बिहारराज्ये स्थितं किञ्चन मण्डलम् अस्ति मुङ्गेरमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति मुङ्गेर नगरम्।
{ "source": "wikipedia" }
ராமநாதபுரம் மாவட்டம் 9°16′49.58″ उत्तरदिक् 77°26′1.03″ पूर्वदिक् / 9.2804389°उत्तरदिक् 77.4336194°पूर्वदिक् / 9.2804389; 77.4336194 रामनाथपुरमण्डलं भारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं रामनाथपुरपत्तनम् । रामनाथपुरमण्डलस्य विस्तारः 4123 चतुरश्रकिलोमीटर् । अस्य मण्डलस्य उत्तरे शिवगङ्गामण्डल...
{ "source": "wikipedia" }
684 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः अधिवर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 •...
{ "source": "wikipedia" }
1529 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 •...
{ "source": "wikipedia" }
विजय् अमृत् राज्वर्यः भारतस्य निवृत्तः टेनिस्-क्रीडा क्रीडालुः अस्ति । विजय् अमृत् राज् अन्ताराष्ट्रियः लानटेन्निस्क्रीडायाः क्षेत्रे उत्तमसाधनां कृतः प्रथमक्रीडालवः वर्तते । एषः तमिळुनाडु राज्यस्य चेन्नै नगरे 1953 तमे वर्षे डिसेम्बर् मासस्य 14 दिनाङ्के जन्मप्राप्तवान् । तस्य माता म्यागी धैर्यम्, पिता रोबर्ट् अमृत् राज...
{ "source": "wikipedia" }
रामनगरमण्डलं कर्णाटकराज्ये विद्यमानं किञ्चन मण्डलम् । कर्णाटकराज्ये रामनगरमण्डलं नूतनतया निर्मितं मण्डलम् अस्ति । इतः पूर्वम् एतत् बेङ्गलूरुग्रामान्तरमण्डलस्य एव भागः आसीत् । क्रि.श.2007 तमे वर्षे पृथक् मण्डलत्वम् आप्नोत् । रामनगरं तु चीनांशुकनगरम् इत्येव प्रसिद्धम् । अत्रत्यं बिडदि औद्यमिककेन्द्रम् अस्ति अत्र सर्वप्रक...
{ "source": "wikipedia" }
गुजराती साहित्यपरिषद् /ˈɡʊʒəɑːː ɑːɪəəɪʃə/) गुजरातराज्यस्य अहमदाबाद्-महानगरे आश्रममार्गे साबरमत्याः तीरे अस्ति । गुजराती साहित्यपरिषद् गुजरातीभाषायाः साहित्यस्य विस्ताराय, रक्षणाय च कार्यरता परिषदस्ति । एषा परिषद् गुजरातीसाहित्यस्य प्रचाराय कर्मकराणां, वाणिज्यिकानां, बालकानां, यूनां, स्त्रीणाञ्च कृते रोचकसाहित्यस्य निर्...
{ "source": "wikipedia" }
688 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः अधिवर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 •...
{ "source": "wikipedia" }
नारदपुराणं अष्टादशसु पुराणेषु अन्यतमं वर्तते । इदं किञ्चन प्राचीनं पुराणम् । पुराणस्य पञ्च अपि लक्षणानि अत्र दृश्यन्ते। नारदीयपुराणे 97 अध्याये नारदपुराणस्य लक्षणम् उक्तमस्ति। तद्यथा, शृणु विप्र ! प्रवक्ष्यामि पुराणं नारदीयकम्।पञ्चविंशतिसाहस्रं बृहत्कल्पकथाश्रयम्॥ इति। बृहन्नारादीयस्य पुराणस्य नारदपुरणस्य च अतीव सामिप्...
{ "source": "wikipedia" }
श्रीशिवमहिम्नस्तोत्रमिदं भगवान् शिवस्य मतिव प्रियं स्तोत्रम् । अस्य रचनाकारः गन्धर्वराज पुष्पदन्तः । स्तोत्रकाव्ये अस्य स्तोत्रस्य महत्वपूर्ण स्नानं विद्यते । स्तोत्रस्तोत्रे 43 श्लोक संख्याः वर्तते । शिखरिणी छन्द । पुष्पदन्त उवाच - महिम्नः पारं ते परमविदुषो यद्यसदृशी। स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः।। अथाऽ...
{ "source": "wikipedia" }
स्क्रिप्ट त्रुटि: " " ऐसा कोई मॉड्यूल नहीं है। अचार्यत्रयाः नाम एते त्रयः अपि मतत्रयस्थापकाः इत्यपि अभिधीयन्ते । ""
{ "source": "wikipedia" }
बारामति भारतस्य महाराष्ट्रराज्ये कानिचन नगरः अस्ति। एतत् कऱ्हा नदीतीरे अस्ति।
{ "source": "wikipedia" }
जगत्प्रसिद्धाः अजन्तागुहाः महाराष्ट्रस्य औरङ्गाबाद्नगरतः 100 कि.मी. परिमिते द्वरे सन्ति । गुहा शब्दस्य श्रवणमात्रेण आश्चर्यभावः कुतूहलं च उद्भवेत् विशेषतः बालेषु । अजन्तागुहानां दर्शनेन सः भावः न उद्भवेत् । यतः क्रि.पू.200 वर्षे निर्मिताः एताः गुहाः बौद्धभिक्षुणां निवासस्थानानि आसन् । ते साधनेतरावधौ चित्रशिल्पकलाभिः गु...
{ "source": "wikipedia" }
1870 तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।
{ "source": "wikipedia" }
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य नवत्रिंसत्तमः श्लोकः । यत् अग्रे च अनुबन्धे च सुखं मोहनम् आत्मनः निद्रालस्यप्रमादोत्थं तत् तामसम् उदाहृतम् ॥ यत् सुखम् अग्रे च अनुबन्धे च आत्मनः मोहनं निद्रालस्यप्रमादोत्थं तत् तामसम् उदाहृतम् । निद्रा आलस्यम् अनवधानं चेति एतैः कारणैः जातं यत् सुखं तत् आदौ अन्ते च आ...
{ "source": "wikipedia" }
ब्रिटेनस्य शासकः।
{ "source": "wikipedia" }
अनन्तभट्टः ‘चम्पूभारतम्’ इति ग्रन्थं रचितवान् । ग्रन्थस्य नाम एव कथयति यत् एषः ग्रन्थः महाभारतस्य कथायाः आधारेण रचितः इति । अत्र 12 स्तबकानि सन्ति । अनन्तभट्टस्य देशकालादिविषये अधिकं विवरणं न लभ्यते । षोड्शशतकस्य आदिभागो एषः आसीत् इति पण्डितैः ऊह्यते ।चम्पूभारतस्य शैली किञ्चित् प्रौढा । ये व्युत्पत्तिम् इच्छन्ति ते यथा...
{ "source": "wikipedia" }
अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य एकादशः श्लोकः । बलं बलवतां च अहं कामरागविवर्जितम् धर्माविरुद्धः भूतेषु कामः अस्मि भरतर्षभ ॥ 11 ॥ भरतर्षभ, अहं बलवतां कामरागविवर्जितं बलं भूतेषु धर्माविरुद्धः कामः च अस्मि । भरतश्रे ! अहम् ओजस्विनां तृष्णारागरहितं सामर्थ्यम् अस्मि । प्राणिषु धर्माविरुद्धा इच्छा अस्मि ।
{ "source": "wikipedia" }
सोमवासरः सप्ताहस्य एकं दिनं भवति । रविवासरात् अनन्तरं मङ्गलवासरात् पूर्वं सोमवासरः तिष्ठति । अस्य इन्दुवासरः अपि नामान्तरम् अस्ति । सोमः इन्दुः च चन्द्रस्य पर्यायपदे भवतः । अयं चन्द्रस्य नाम्नि विद्यमानः वासरः । सप्ताहः कस्मात् वासरात् आरप्स्यते इति वक्तुं सुकरं न भवति वीजवृक्षन्यायः इव । सामान्यतः लोकव्यवहारे कर्यारम्...
{ "source": "wikipedia" }
प्राविडेन्स् संयुक्त राज्‍य अमेरिका देशस्‍य नगरः अस्‍ति। अलाबामा | अलास्का | आरिज़ोना | अर्कान्स | कालिफ़ोर्निया | कोलोराडो | कनेक्टिकट् | डेलावेर् | फ्लोरिडा | जार्जिया | हवाई | ऐडहो | इलिनाई | इन्डियाना | अयोवा | केन्‍सास | केन्‍टकी | लूइसियाना | मेन | मेरील्यान्ड् | मासचुसेट्‍स | मिशिगन | मिनेसोटा | मिसिसिपी | मिसूर...
{ "source": "wikipedia" }
एतत् तृणबदरफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् तृणबदरफलम् अपि सस्यजन्यः आहारपदार्थः । इदं तृणबदरफलम् आङ्ग्लभाषायां इति उच्यते । एतत् तृणबदरफलम् अकृष्टपच्यम् अपि । एतत् तृणबदरफलम् अपि बहुविधं भवति ।
{ "source": "wikipedia" }
पर्यटनम् इदानीं राष्ट्रस्य विकासाय महत्वपूर्णं अस्ति.
{ "source": "wikipedia" }
दृश्यानां तु गुणानां स्वरूपभेदावधारणार्थमिदमारभ्यते—तत्राकाशवाय्वग्न्युदकभूमयो भूतानि शब्दस्पर्शरूपरसगन्धतन्मात्राणामविशेषाणां विशेषाः । तथा श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि बुद्धीन्द्रियाणि । वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाणि । एकादशं मनः सर्वार्थम् । इत्येतान्यस्मितालक्षणस्याविशेषस्य विशेषाः । गुणानामेष षोडशको ...
{ "source": "wikipedia" }
नदी भारतीयसंस्कृतौ अविनाभावेन अस्ति । प्रातरुत्थाय भूमौ पादन्यासात् पूर्वं धरणिदेव्याः क्षमां प्रार्थयति मानवः । तत्र तस्याः वर्णने पर्वताः एव स्थनौ यस्याः सा भूमिः इत्युक्ते पर्वतात् प्रादुर्भूतानां नदीनां जलं जनाः पिबन्ति । अतः भूमातुः स्तन्यं जदीजलम् । भारतस्य संस्कृतौ पर्वतानां नदीनां च तादृशं स्थानं कल्पितम् । नद्...
{ "source": "wikipedia" }
339 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • ...
{ "source": "wikipedia" }
हरदा इत्येतन्नगरं मध्यप्रदेशराज्यस्य नर्मदापुरविभागे अन्तर्गतस्य हरदामण्डलस्य केन्द्रम् अस्ति ।
{ "source": "wikipedia" }
वर्णमालायां अयं अष्टमः वर्णः अस्ति । । उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् । पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति अस्य उच्चारणस्थानंमूर्धा अस्ति । ऋटुरषाणां मूर्धा ।सि0 कौ0 “ॠ वाक्यारम्भे रक्षायां वक्षः स्मृत्योरनव्ययम्। देवाम्बायां दनौ चापि भैरवे दनुजे गतौ॥“ – मेदिनीकोशः “ॠ...
{ "source": "wikipedia" }
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य चतुर्थः श्लोकः । अत्र, शूराः, महेष्वासाः, भीम-अर्जुनसमाः, युधि । युयुधानः, विराटः, च, द्रुपदः, च, महारथः ॥4॥ अत्र महेष्वासाः युधि भीम-अर्जुनसमाः शूराः युयुधानाः च विराटः च महारथः दृपदः ॥4॥ श्लोकस्य अस्य तात्पर्यं मिलित्वा षष्ठे श्लोके वर्तते । क्रियापदस्य अभावात् एवम् ।...
{ "source": "wikipedia" }
रमोन् मैग्सेसे-पुरस्कारः फिलिपीन्सदेशस्य भूतपूर्वराष्ट्रपतिः-रमोन् मेग्सेसेवर्यस्य स्मरणे दीयमानः प्रमुखः पुरस्कारः । उत्तमशासकः, प्रजानुरागी रमोन्-वर्यः जनसामान्यानाम् आराध्यमूर्तिरित्येव प्रसिद्धः आसीत् । तदर्थं फिलिपीन्ससर्वकारः प्रतिवर्षं एतस्य नाम्नि विभिन्नक्षेत्राणां साधकानां कृते प्रशस्तिं ददाति । एषः पुरस्कारः...
{ "source": "wikipedia" }
उत्तरदिबाङ्गव्यालीमण्डलम् अरुणाचलप्रदेशराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं अनिनी नगरम् । स्क्रिप्ट त्रुटि: " " ऐसा कोई मॉड्यूल नहीं है। उत्तर दिबाङ्गव्यालीमण्डलस्य विस्तारः 9129 चतुरस्रकिलोमीटर्मितः अस्ति । अस्मिन् मण्डले दिबाङ्ग नदी प्रवहति । 2001 जनगणनानुगुणं उत्तर दिबाङ्गव्यालीमण्डलस्य जनसङ्ख्या 7...
{ "source": "wikipedia" }
नेमिनाथः /ˈɛɪɑːθəə/) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु द्वाविंशतितमः तीर्थङ्करः अस्ति । भगवतः नेमिनाथस्य वर्णः श्यामः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं शङ्खः अस्ति । कौमारावस्थायां नेमिनाथस्य शरीरस्य औन्नत्यं दशः धनुर्मात्रात्मकम् आसीत् । भगवतः धार्मिकपरिवारे “गोमेध” इत्याख्यः यक्षः, “अम्बिका” इत्याख्या यक्षिणी च आस...
{ "source": "wikipedia" }
कर्णाटकस्य अष्टाविंशतिलोकसभाक्षेत्रेषु अन्यतमम् अस्ति बेळगावीलोकसभाक्षेत्रम्। अत्र अष्टविधानसभाक्षेत्राणि अन्तर्भवन्ति । तेषु अन्यतमम् अस्ति गोकाकविधानसभाक्षेत्रम्। कर्णाटकस्य विधानसभाक्षेत्रेषु एतत् क्षेत्रं नवमम् ।गोकाकविधानसभाक्षेत्रं मण्डलदृष्ट्या अपि बेळगावीमण्डले अन्तर्भवति । निर्वाचनक्षेत्रदृष्ट्या अपि बेळगावीलो...
{ "source": "wikipedia" }
भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति कांशीरामनगरमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति कासगञ्जनगरम् । एतत् मण्डलम् अलिगढविभागे अन्तर्भवति । अस्य मण्डलस्य कासगञ्जमण्डलम् इत्यपि अपरं नाम अस्ति ।2008तमवर्षस्य एप्रिलमासस्य 15 दिनाङ्के अस्य मण्डलस्य स्थापना तदानीन्तनमुख्यमन्...
{ "source": "wikipedia" }
चम्पायमण्डलं मिजोरामराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं चम्पाय इत्येतन्नगरम् । बहुवर्णयुताः विशिष्टाः अत्रस्थाः परम्पराः, तदर्थं प्रसिद्धमिदं मण्डलम् । 1987 तमे वर्षे फेब्रुवरि मासे भारतदेशस्य मण्डलत्वेन अस्य स्थापना कृता । सीमावर्तिमण्डलत्वेनाऽपि महत्त्वपूर्णं स्थानं वर्तते अस्य । 722 कि.मी.मितः सीमाप्रदेशः...
{ "source": "wikipedia" }
536 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः अधिवर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 •...
{ "source": "wikipedia" }
211 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • ...
{ "source": "wikipedia" }
गोमुखम् उत्तरकाशिमण्डलस्य प्रमुखम् स्थलमस्ति। सागरतः 4255 मीटर् उन्नतप्रदेशे एतदस्ति। अत्र पञ्चदशहिमनदीभिः मिलित्वा एका गुहा निर्मितास्ति। गोमुख इव दृश्यते इति स्थलस्यनाम गोमुखम् इति अस्ति । भागीरथी नदी अत्रैव उगमं प्राप्तोस्ति। अत्र शान्तिः पवित्रता सौन्दर्यं च सहजतया भवन्ति। केवलम् साहस कार्यचतुराः अत्र गन्तुं शक्ताः...
{ "source": "wikipedia" }
जरामरणमोक्षाय माम् आश्रित्य यतन्ति ये ते ब्रह्म तत् विदुः कृत्स्नम् अध्यात्मं कर्म च आखिलम् ॥ 29 ॥ ये माम् आश्रित्य जरामरणमोक्षाय यतन्ति ते तत् ब्रह्म कृत्स्नम् अध्यात्मम् अखिलं च कर्म विदुः । ये मानवाः माम् अवलम्ब्य जरामरणविमोक्षाय प्रयतन्ते ते मानवाः तत् परब्रह्म जानन्ति तथा समग्रम् आत्मविषयं कर्तव्यं च जानन्ति ।
{ "source": "wikipedia" }
एतत् क्षेत्रं भारतदेशस्य पश्चिमबङ्गालराज्ये विद्यमानेषु शक्तिपीठेषु अन्यतमम् । पूर्वमेदिनीपुरमण्डलस्य तम्लुक्समीपे अस्ति । दाक्षायिण्याः शरीरं विष्णुः यदा कर्तितवान् तदा देव्याः शरीरस्य वाममीनखण्डः अस्मिन् स्थाने पतितः इति ऐतिह्यम् अस्ति । अत्रत्या देवी भीमरूपा अथवा कपालिनी इति नाम्ना पूज्यते । रुद्ररूपधारिण्या एतया ...
{ "source": "wikipedia" }
भारतदेशस्य ईशान्यभागतः आगतः सर्वप्रथमः ख्यातः सङ्गीतकारः, गायकः निदेशकः, कविः, पत्रकर्ता, गीतरचनकारः, चलच्चित्रनिर्मापकः भुपेन अहज़ारिका । स्वस्य अनुपमकृतिं "गङ्गा बहती हैं क्यों " इति गीतं गीत्वा समग्रे देशे परिचितः अभवत् । अस्मामीभाषायां स्वनिर्मितस्य " इरा भारत् सुर् " इति चलच्चित्रस्य स्वरसंयोजनं स्वयं कृतवान् । तस...
{ "source": "wikipedia" }
सीकरमण्डलं राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति सीकरनामकं नगरम् । सीकरमण्डलस्य विस्तारः 7742 चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे जयपुरमण्डलं, पश्चिमे चुरूमण्डलं, नागौरमण्डलं च, उत्तरे झुञ्झुनुमण्डलं, दक्षिणे जयपुरमण्डलम् अस्ति । अस्मिन् मण्डले 459.8 मिल्लीमीटर्मितः वार्षिकवृष्...
{ "source": "wikipedia" }
तलत् महमूदः कश्चित् ख्यातः भारतीयः गायकः अपि च अभिनेता । स्वस्य विविधविधैः कण्ठस्वरैः प्रसिद्धस्य अस्य गज़ल् प्रपञ्चस्य राजा इति सङ्गीतरसिकाः सम्बोधयन्ति स्म । तलत् महमूदस्य जन्म क्रि.श. 1924तमे वर्षे फेब्रुवरी मासस्य 24तमे दिनाङ्के भारतदेशस्य उत्तरप्रदेशराज्यस्य राजधान्यां लखनौ नगरे अभवत् । अस्य पिता स्वस्य कण्ठः अल...
{ "source": "wikipedia" }
14°41′उत्तरदिक् 77°36′पूर्वदिक् / 14.68°उत्तरदिक् 77.6°पूर्वदिक् / 14.68; 77.6 • सान्द्रता • 190 /किमी2 अनन्तपुरमण्डलम् आंध्रप्रदेशराज्ये स्थितम् एकं मण्डलम् । मौर्यैः, बाणैः, राष्ट्रकूटिभिः, चोलैः, चालुक्यैः, होयसल्-विजयनगरराजैः, असप्जाहीवंशजैः, आग्लेयैश्च परिपालितम् अनन्तपुरमण्डलम् । 1881 तमे वर्षे आविर्भूतमिदं मण्ड...
{ "source": "wikipedia" }
वर्ष 1887 मध्यॆ, निल्सेन् ऎवं पेट्टेर्सेन् इति नाम्नै परिशोधकौ क्षारातु उपयोज्य टैटानियं चतुर्नीरेयस्य निर्नीरेयनं कृत्वा टैटानियस्य उत्पादन-प्रक्रिया प्रकटितवन्तौ । एषया प्रक्रियया व्यापारार्थं 1910 वर्षॆ हण्टर् नाम परिशोधक: वाणिज्यक उत्पादन रीत्या: आविष्करणं कृतवान । अत: ' हण्टर् प्रक्रिया ' इति प्रसिद्धा अभवत् । एषा...
{ "source": "wikipedia" }
ज्योतिषं वेदस्य नैजं ज्यौतिषायत्तमतं ज्यौतिष् ज्योतिषशास्त्रस्य वेदाङ्गत्वं स्वीकृतम् । अयमर्थः उक्तः अार्चज्योतिषे, यथा — 'वेदा हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्वा विहिताश्च यज्ञाः॥ तस्मादिदं कालविधानशास्त्रं यो ज्यौतिषं वेद स वेद यज्ञान्॥' चतुर्णामपि वेदानां पृथक् पृथग् ज्यौतिषशास्त्रमासीत्, तेषु सामवेदस्य ज्यौतिषश...
{ "source": "wikipedia" }
अयं क्यावेण्डिष् हेन्रि प्रसिद्धः भौतविज्ञानी तथा रसायनविज्ञानी च ।
{ "source": "wikipedia" }
दशरूपके नाटकानां दश प्रकाराः निर्दिष्टाः सन्ति। दृश्यकाव्यस्य अपरं नाम रुपकम् ! साहित्यदर्पणग्रन्थे विश्वनाथः रुपकाणां दश प्रधानप्रभेदान् दर्शयति, ते च नाटकं, प्रकरणं, भाणः प्रहसनं, डिमः, व्यायोगः, समवकारः, वीथी, अङ्कः ईहामृगः च । तत्र व्यायोगप्रभेदस्य उत्तमोदाहरणत्वेन मध्यमव्यायोगः वर्तते ।व्यायोगः इत्येषः चतुर्थः प्र...
{ "source": "wikipedia" }
साक्रामेन्टो संयुक्त राज्‍य अमेरिका देशस्‍य नगरः अस्‍ति। अलाबामा | अलास्का | आरिज़ोना | अर्कान्स | कालिफ़ोर्निया | कोलोराडो | कनेक्टिकट् | डेलावेर् | फ्लोरिडा | जार्जिया | हवाई | ऐडहो | इलिनाई | इन्डियाना | अयोवा | केन्‍सास | केन्‍टकी | लूइसियाना | मेन | मेरील्यान्ड् | मासचुसेट्‍स | मिशिगन | मिनेसोटा | मिसिसिपी | मिसूर...
{ "source": "wikipedia" }
भारतस्य बिहारराज्ये स्थितं किञ्चन मण्डलम् अस्ति वैशालीमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति हाजीपुरम् नगरम्।
{ "source": "wikipedia" }
भारतीयकालगणनानुगुणं वर्षस्य 12मासेषु अयं सप्तमः मासः । भाद्रपदमासस्य अनन्तरं कार्तिकमासात् पूर्वम् अयं मासः तिष्ठति । भारतीयानाम् अयं मास विशेषः यतः अमिन् मासे अनेकानि पर्वाणि सम्भवन्ति । विजयदशमीसहितं दशदिनात्मकं पर्व नवरात्रम् अस्मिन् एव मासे आयाति । आश्वयुजशुक्लप्रतिपत् तः नवमीपर्यन्तम् नवरात्रोत्सवः । अनन्तरदिनं व...
{ "source": "wikipedia" }
कुपोषण एकः रोग अस्ति।
{ "source": "wikipedia" }
हरिदासाः नाम हरेः दासाः। हरिः नाम भगवान् भगवदः दास्य भावः येषु जागरितः भवति ते हरिदासाः भवन्ति । भारतस्य दक्षिणे विद्यमाने कर्णाटकराज्ये काचित् विशिष्टा परम्परा अस्ति हरिदासपरम्परा इति । दैवभक्तिं जागरयन्तः अनेन मार्गेण एव इहपरयोः आनन्दः प्रप्तुं साध्यः अनेन मार्गेणैव सायुज्यमपि प्राप्तुं शक्यते इति दर्शितवन्तः । एते भ...
{ "source": "wikipedia" }
टिहरीगढवालमण्डलम् /ˈɪəɪɡəəɑːəəəə/) उत्तराखण्डराज्यस्य गढवालविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति टिहरी इति नगरम् । टिहरीगढवालमण्डलं कृषि-जलपात-वन्यविविधता-शिक्षणादिभ्यः प्रख्यातमस्ति । टिहरीगढवालमण्डलस्य विस्तारः 4,080 च.कि.मी.-मितः अस्ति । उत्तराखण्डराज्यस्य उत्तरभागे इदं मण्डलमस्ति । अस्य...
{ "source": "wikipedia" }
मकरसङ्क्रमणं भारतीयानां प्रमुखपर्वसु अन्यतमम् । अस्मात् दिनात् परमपवित्रस्य उत्तरायणकालस्य आरम्भः । इदं पर्व तिलपर्व इत्यपि निर्दिश्यते । तमिळुनाडुराज्ये पोङ्ग्ल इति वदन्ति । एतत् सूर्यस्य चलनसम्बद्धं पर्व । सूर्यस्य एकराशित: अन्यराशिं प्रतिप्रवेशदिनं सङ्क्रमणम् इति उच्यते । सौरमानानुसारं सूर्यस्य मेषादिद्वादशराशिं प्र...
{ "source": "wikipedia" }
सः विख्यातः वैज्ञानिकः।
{ "source": "wikipedia" }
783 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • ...
{ "source": "wikipedia" }
283 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • ...
{ "source": "wikipedia" }
1335 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 •...
{ "source": "wikipedia" }
21 अप्रैल-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य एकशताधिकैकादशं दिनम् । लिप्-वर्षानुगुणम् एकशताधिकद्वादशं दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय 254 दिनानि अवशिष्टानि ।
{ "source": "wikipedia" }
दावणगेरेमण्डलम् तुङ्गा, भद्रा 6018 च.कि.मी 1997तमे क्रैस्ताब्दे तदानीन्तनः राज्यमुख्यमन्त्री जे.एच्.पटेल महोदयः एतस्य पृथक् मण्डलत्वं कल्पितवान् । मध्यकर्णाटकस्य प्रधानं मण्डलम् एतत् । एतत् चित्रदुर्ग-हावेरी-शिवमोग्गा-बल्लारीमण्डलैः परिवृत्तं वर्तते । कर्णाटकस्य हृदयस्थाने विद्यमानम् एतत् मण्डलं 14° 28’ रेखांशे 75°...
{ "source": "wikipedia" }
यामिनी कृष्णमूर्तिः भारतस्य काचित् सुप्रसिद्धा भरतनाट्यस्य कूचिपुडीनृत्यप्रकारस्य च नृत्याङ्गना । पौर्णिमातिथौ जातायाः अस्याः पितामहः प्रीत्या 'पूर्णतिलका' इति नाम अङ्कयतु इति सूचितवान् । क्रि.श.1957तमे वर्षे चेन्नैनगरे आरब्धा यामिन्याः नृत्यकलासेवा अनेकमुखयुत्का अस्ति । अनया तिरुमलदेवालयस्य अस्थाननृत्याङ्गनायाः गौरवं ...
{ "source": "wikipedia" }
सुवर्णम् एकं मरालं गुरुभारिकं पीतं प्रदीप्तं धातुः। अनेन आभरणानि नाणकानि विद्युतयन्त्राणि चित्रपलकानि इत्यादि वस्तूनि निर्माणन्ति। औषधानि च सिद्धं कुर्वन्ति । सुवर्णम् महार्घम् अस्ति। इत्युक्तत्वात् सुवर्णं जनानाम् अत्युत्तमं धनं भवति । अनेन कटकमकुटादिभूषणादिकं क्रियते । तद्धारणं परमं मङ्गलमिति मन्यन्ते आर्याः । तथा च ...
{ "source": "wikipedia" }
27 जनवरी-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य सप्तविंशतितमं दिनम् । एतस्मात् दिनात् वर्षान्ताय 338 दिनानि अवशिष्टानि ।
{ "source": "wikipedia" }
अयं लूथर् बर्ब्याङ्क् नूतनस्य सस्यवंशस्य निर्मापकः । अयं लूथर् बर्ब्याङ्क् 1849 तमे वर्षे मार्चमासस्य 7 दिनाङ्के अमेरिकादेशे जन्म प्राप्नोत् । तस्य पितुः 15 पुत्राः आसन् । तेषु अयं लूथर् बर्ब्याङ्क् 13 तमः पुत्रः आसीत् । अस्य विद्यालयशिक्षणं प्रौढशालापर्यन्तम् एव अभवत् । 19 वयसः अनन्तरम् अध्ययनार्थं न शक्तः । एषः लूथर्...
{ "source": "wikipedia" }
भारते 24 दिसम्बर राष्ट्रीय उपभोक्ता दिवसस्य रुपे अवलोकित अस्ति। सन् 1986 मध्ये एतद् तिथि उपभोक्ता संरक्षण अधिनियम विधेयक प्रयुक्त आसित्।
{ "source": "wikipedia" }
शिवपुरीमण्डलम् /ˈʃɪəʊːəəə/) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य ग्वालियरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति शिवपुरी इति नगरम् । शिवपुरीमण्डलस्य विस्तारः 10,066 चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य उत्तरभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे उत्तरप्रद...
{ "source": "wikipedia" }
1135 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 •...
{ "source": "wikipedia" }
महेश् बाबु इति प्रसिद्धः तेलुगु चलच्चित्रनायकनटः वर्तते ।
{ "source": "wikipedia" }
युरेनस् कश्चन ग्रहः। युरेनस् ग्रहः अरुण: इति, कुत्रचित् इन्द्रः इति च उल्लिखितः दृश्यते । युरेनस्-ग्रहस्य अन्यत् नाम हर्षलः इति । अस्माकं सौरमण्डले सूर्यात् सप्तमः बृहत्तमः ग्रहः अयम्। अस्य ग्रहस्य अन्वेषणं 1781 तमे वर्षे विलियं हर्षेल् कृतवान्। अस्य ग्रहस्य वातावरणे जलजनकम्, हीलियम्, मिथैन् इत्येतेषां संयोगः दृश्यते इ...
{ "source": "wikipedia" }
तञ्जावूरुपत्तने विद्यमानः परमेश्वरस्य अयं देवालयः चोळराजेन प्रथमराजराजेन निर्मितः । अयं देवालयः चोळानां शिल्पकलाशैल्याः अत्युत्तमम् उदाहरणम् । युनेस्कोद्वारा अयं देवालयः विश्वपरम्परास्मारकत्वेन अभिज्ञातः । अस्य देवालयस्य गोपुरं 64.8 मीटर् उन्नतम् अस्ति । गर्भगृहे 4 मीटर् उन्नतं महालिङ्गम् अस्ति । 5.94 मीटर् दीर्घा नन्द...
{ "source": "wikipedia" }
पश्चिमत्रिपुरामण्डलं त्रिपुराराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रम् आगरतला इत्येतन्नगरम् । आगरतला इत्येतन्नगरं त्रिपुराराज्यस्य अपि केन्द्रं विद्यते । पश्चिमत्रिपुरामण्डलस्य विस्तारः 10,486 चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पश्चिमोत्तरदिशि बाङ्गलादेशः, पूर्वदिशि उत्तरत्रिपुरामण्डलं, दक्षिणदिशि दक्षिणत...
{ "source": "wikipedia" }
स्क्रिप्ट त्रुटि: " " ऐसा कोई मॉड्यूल नहीं है। अपर्णादेवी एतत् शक्तिपीठं बाङ्ग्लादेशस्य बोग्रामण्डलस्य शेरपुर-उपमण्डलात् 20 की.मी दूरे भवानीपुरे अस्ति । ढाकातः प्रस्थाय चन्द्रेकोन् ब्रिड्ज् अतिक्रम्य आगन्तव्यम्। गोगा-बोट्-शोला इत्यत्र अवतीर्णं चेत् अनतिदूरे एव एतत् मन्दिरम् अस्ति । समीपे एव शाखापुकरीनामकं सरः अस्ति ।...
{ "source": "wikipedia" }
शबरी रामयणस्य प्रसिद्धं पात्रम् ।अस्य रचयिता महर्षिः वालमीकिः ।अस्मिन् काव्ये बालकाण्डम्, अयोध्याकाण्डम्, अरण्यकाण्डम् किष्किन्दाकाण्डं, सुन्दरकाण्डं, युद्धकाण्डम्, अन्तरकाण्डम् इति सप्तकाण्डानि सन्ति । रामायणम् आदिकाव्यमित्यापि प्रसिद्धम् अत्रैव शबरी इत्येकस्याः कथा अपि वर्तते । ऋष्यमूकपर्वतस्य मूले पम्पासरोवरस्य तीरे...
{ "source": "wikipedia" }
जयतीर्थः भरतवर्षस्य कर्णाटाकराज्यस्य गुल्बर्गामण्डलस्य वृष्टिखेटग्रामे जन्म प्राप्तवान् । अस्य पिता रघुनाथः माता साकुभायि। अस्य पूर्वाश्रमस्य नाम धोंडोपन्त देशपाण्डे इति । अयम् अक्षोभ्यतीर्थात् संन्यासदीक्षां प्राप्तवान् । स्वयं विद्वान् एषः मध्वाचार्यस्य सर्वेषां ग्रन्थानां टीकां विरचय्य 'टीकाचार्यः' इत्येव प्रसिद्धः।...
{ "source": "wikipedia" }
गुजरातविद्यापीठं /ˈɡʊʒəɑːəɪɑːːə/) गुजरातराज्यस्य अहमदाबाद्-महानगरस्य आश्रममार्गक्षेत्रे स्थितम् ऐतिहासिकं विद्यापीठमस्ति । भारतस्वतन्त्रतान्दोलनेऽस्य विद्यापीठस्य महत् योगदानमस्ति । गुजरातराज्यस्य पुरातनतमेषु विश्वविद्यालयेषु अस्य गणना भवति । आङ्ग्लानां शासनस्य प्रतिकाराय महात्मा अस्य विद्यापीठस्य स्थापनां चकार । अस्य ...
{ "source": "wikipedia" }
औशनसः शुक्रस्य पुत्रो भृगुवंशीय ऋषिरासीत् । औशनसस्मृतौ शिष्टाचारशिक्षाया महत्त्वं प्रमुखतां मजते । विशेषतो ब्रह्मचारिणां जीवने शिष्टाचारशिक्षायाः प्रयोजन मधिकतयाऽस्तीति तेन भणितम् क्स्मै कीदृशः शिष्टाचारो दर्शयितव्यः, तस्य वर्णना सुष्टु विहितास्ति । यथा-ब्राह्मणानां कुशलपृच्छा, शूद्राणां च शारीरिक-कुशलजज्ञासा इत्यादिरी...
{ "source": "wikipedia" }
राजगढ इत्येतन्नगरं मध्यप्रदेशराज्यस्य भोपालविभागे अन्तर्गतस्य राजगढमण्डलस्य केन्द्रम् अस्ति ।
{ "source": "wikipedia" }
एकं भौतिकतत्त्वम् अस्ति।
{ "source": "wikipedia" }