text stringlengths 0 31.6M | metadata dict |
|---|---|
मोहम्मद रफी चत्वरदशकवर्षाणि वृत्तिजीवने स्थितः ख्यातः भारतीयनेपथ्यगायकः । अनेन 5 राष्ट्रियपुरस्कारा: 6 फिल्मफेर-प्रशस्तयः च प्राप्ताः । अस्मै क्रि.श. 1967तमे वर्षे पद्मश्रीप्रशस्तिः भारतसर्वकारेण दत्ता । स्वस्य 40वर्षाणां चलच्चित्रसङ्गीतजीवने 26000चलच्चित्रगीतानि कण्ठदानं कृतवान् । अस्य गानेषु शास्त्रीयसङ्गीततः आरभ्य द... | {
"source": "wikipedia"
} |
मन्दसौरमण्डलम् /ˈəəɔːəəəə/) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य उज्जैनविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति मन्दसौर इति नगरम् ।
मन्दसौरमण्डलस्य विस्तारः 5,535 चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे राजस्थानराज... | {
"source": "wikipedia"
} |
होमी भाभा इत्ययं भारतस्य वैज्ञनिकः आसीत् । अमेरिका-देशेन जापान-देशस्य हिरोशिमा-नगरे नागासाकी-नगरे च अणुविस्फोटः कृतः । तदानीं सम्पूर्णं विश्वम् अणुविस्फोटकस्य दानवीयां शक्तिम् अजानात् । 1945 तमे वर्षे विश्वयुद्धे जापान-देशः भयभीतः सन् शरणागतिम् अयात् । तेन सह विश्वयुद्धं समाप्तम् । जापान-देशे अणुविस्फोटेन सम्पूर्णे वि... | {
"source": "wikipedia"
} |
प्रथमे ब्रह्मचर्याश्रमे गुरुगृहं गत्वा ब्रह्मचर्यव्रतं स्वीकृत्य सकलशास्त्राणां विद्यानां च अध्ययनं क्रियते । योग्यतासम्पादनस्य अयं कालः । तत्तद्वर्णेभ्यः आश्रमेभ्यश्च विहितानां कर्तव्यानां सम्यक् ज्ञानं वर्णाश्रमव्यवस्थायाः यशसे आवश्यकमेव आसीत् । तद् अत्रैव सम्पाद्यते स्म । शास्त्रकारैः तथाविधा संस्कारक्षमा शिक्षापद्ध... | {
"source": "wikipedia"
} |
आचार्यः विनोबा भावे भारतदेशस्य एष सुपुत्र: महान् जनसेवक: आसीत्। भूदानान्दोलने वैयक्तिकसत्याग्रहे च तेन प्रभूतं योगदानं कृतम् । एषः मँगसेसे पुरस्कारेण सम्मानित: प्रथम: भारतीय: पुरुषः च आसीत्। मरणोत्तरम् एषः भारतशासनेन भारतरत्न इति उच्चतमेन पुरस्कारेण सम्मानित:। अस्य जन्म नाम विनाय्क नरहरी भावे इत्यासीत् । ... | {
"source": "wikipedia"
} |
पटना बिहारराज्यस्य राजधानी अस्ति । पाटलीपुत्रं पुरातनभारतस्य किञ्चन नगरम् आसीत्। एतत् नगरम् अजातशत्रुणा स्थापितम्। तदनन्तरं पाटलीपुत्रं मगधमहाजनपदस्य राजधानी अभवत्। द्वौ बौद्धसङ्घौ अत्रैव अभवताम् । महाराजस्य अशोकस्य शासनकाले पाटलीपुत्रं भूमौ वरिष्ठं नगरम् आसीत्। यवनराजदूतः मेगास्तनीस् अस्य सौन्दर्यं वर्णितवान् अस्ति ।... | {
"source": "wikipedia"
} |
वर्णमालायां सप्तमः वर्णः अस्ति । उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् । पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति| अस्य उच्चारणस्थानंमूर्धा अस्ति ।
“ऋकारः कुञ्जरे शैले धीभेदे देवमातरि। भावे देवरिपौ नद्यां सुरायां देवरे दिवि “ – नानार्थरत्नमाला
“ऋ कुत्सायां च वाक्ये च देवमातर्यनव... | {
"source": "wikipedia"
} |
दक्षिणकन्नडमण्डलस्य मङगलूरुसमीपास्थे मञ्जेश्वरग्रामे कविः गोविन्द पै 1883 तमे वर्षे मार्च्-मासस्य 23 तमे दिनाङ्के जन्म प्राप्तवान् । पिता साहुकार् तिम्मप्पय्यः, माता देवकीयम्म च । एतस्य मातृभाषा कोङ्कणि । गोविन्द पै महोदयस्य पठनं मङगलूरुनगरे, मद्रास्-नगरे च सम्पन्नम् । बि. ए. पठनावसरे तस्य पिता दिवङ्गतः इति कारणतः विद्... | {
"source": "wikipedia"
} |
भारतस्य बिहारराज्ये स्थितं किञ्चन मण्डलम् अस्ति खगरियामण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति खगरियानगरम्। | {
"source": "wikipedia"
} |
हिडकल्जलबन्धः घटप्रभानदीम् अवरुध्य निर्मितः जलागारः। अस्य निर्माणं क्रि.श.1977तमे वर्शे अभवत् । विजापुरमण्डालस्य केचनभूभागाः अनेन कृषिसमृद्धाः अभवन् । | {
"source": "wikipedia"
} |
980 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः अधिवर्षः आसीत्।
• 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 •... | {
"source": "wikipedia"
} |
वैश्विकस्थितिसूचकपद्धतिः ) इत्येषा जागतिकस्थाननिर्णयोपेता दिक्सूचीव्यवस्था विद्यते । कृतकोपग्रहैः प्राप्यमाणां सूचनाम् उपयुज्य प्रतिग्राहियन्त्राणि स्वीयं स्थानं वेगं दिशां च निश्चिन्वन्ति । सर्वेषु अपि ऋतुषु भूमौ भूमेः समीपे वा यत्र चतुर्णां तदधिकानां वैश्विकस्थितिसूचकोपग्रहाणाम् अनवरुद्धपरिधौ विद्यते चेत् तत्रत्यं स्... | {
"source": "wikipedia"
} |
काजी नज़रुल् इस्लाम् ,, एकः अग्रणी बङ्गालिकविरासीत् । विंशशताब्द्याः अन्यतमः जनप्रियः संङ्गीतज्ञः दार्शनिकश्च आसीत् । अयञ्च बाङ्गलाभाषायाः साहित्यक- देशप्रेमिरूपेण बाङ्गलादेशस्य राष्ट्रियकविरूपेणापि ख्यातः । पश्चिमबङ्गः एवं बाङ्गलादेशः – उभयत्रापि तस्य कविता-गीतानि समादृतानि । तस्य कवितायाः 'विद्रोही'दृष्टिभङ्गीत्वात् ... | {
"source": "wikipedia"
} |
अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य त्रयोविंशतितमः श्लोकः ।
यः एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह सर्वथा वर्तमानः अपि न सः भूयः अभिजायते ॥ 23 ॥
यः एवं गुणैः सह पुरुषं प्रकृतिं च वेत्ति सः सर्वथा वर्तमानः अपि भूयः न अभिजायते ।
यः पुरुषः पूर्वोक्तप्रकारेण क्रमेण गुणान्, जीवम्, प्रकृतिं च ज... | {
"source": "wikipedia"
} |
सः पौरवकुलस्य राजा आसीत्। | {
"source": "wikipedia"
} |
मरिगांव-नगरम् मरिगाव् मण्डलस्य केन्द्रः अस्ति। | {
"source": "wikipedia"
} |
सः पौरवकुलस्य राजा आसीत्। | {
"source": "wikipedia"
} |
दमोह इत्येतन्नगरं मध्यप्रदेशराज्यस्य सागरविभागे अन्तर्गतस्य दमोहमण्डलस्य केन्द्रम् अस्ति । | {
"source": "wikipedia"
} |
वृक्षामलाफलस्य रसः एव वृक्षामलाफलरसः । एतत् वृक्षामलाफलम् आङ्ग्लभाषायां इति उच्यते । अस्य रसः इति उच्यते । वृक्षामलाफलरसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य फलरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः फलरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । ... | {
"source": "wikipedia"
} |
{{ = आत्म_ =_ = }}
आत्मनिरूपणम्ज्ञानाधिकरणमात्मा।स द्विविधः।जीवात्मा,परमात्मा चेति।तत्रेश्वरस्सर्वज्ञः परमात्मा एक एव।जीवस्तु,प्रतिशरीरं भिन्नो विभुर्नित्यश्च।आत्मनो लक्षणम्----ज्ञानस्य अधिकरणं ज्ञानाधिकरणम्।ज्ञानस्येत्यत्र षष्ठ्याः आधेयत्वमर्थः।अधिकरणस्यअधिकरणताश्रयत्वमर्थः।तथाच,ज्ञाननिष्ठ आधेयतानिरूपित अधिकरणताश्रय... | {
"source": "wikipedia"
} |
574 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्।
• 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • ... | {
"source": "wikipedia"
} |
{
"source": "wikipedia"
} | |
1748 तमे वर्षे अफघानिस्तानस्य नायकः अह्मद् शा दुरानी अस्य साम्राज्यस्य स्थापनम् अकरोत् भारते । तदवसरे सः हिन्दूनां विरुद्धं "जिहाद्"युद्धं घोषयित्वा सिन्धुनद्याः क्रमणम् अकरोत् । सः प्रथमं भारतस्य गुरिलाहोरस्य उपरि 1750 तमे वर्षे आक्रमणम् अकरोत् । अनन्तरं पञ्जाब्-प्रान्तं, काश्मीरं, देहलीं च वशीकृतवान् । भारततः तदा एव ... | {
"source": "wikipedia"
} |
जैनतीर्थङ्कराः /ˈʒɛɪəːθəŋəɑːɑː/) चतुविंशतिः सन्ति । जैनधर्मे सर्वप्रथमः चतुर्विंशतिः तीर्थङ्कराः अभवन् । ततः परं अन्ये सम्प्रदायाः जाताः । प्रत्येकेषां तीर्थङ्कराणां चिह्नानि सन्ति । तीर्थङ्कराः तेषां चिह्नानाम् आधारेण ज्ञातुं शक्यन्ते । | {
"source": "wikipedia"
} |
19 अप्रैल-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य एकशताधिकनवमं दिनम् । लिप्-वर्षानुगुणम् एकशताधिकदशम दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय 256 दिनानि अवशिष्टानि । | {
"source": "wikipedia"
} |
आधुनिकमनुः स्वतन्त्रभारतस्य संविधानशिल्पी इति सुप्रसिध्दः डा. भीमराव् रामजी अम्बेडकरः एप्रिलमासस्य 14 दिने जन्म लब्धवान् । अतः एप्रिल 14 दिने अम्बेडकरजयन्ती-आचरणम् प्रचलति । अस्मिन् दिने श्री.बी.आर् अम्बेड्कर महोदयस्य जीवनं साधनानि इत्यादिविषये चिन्तनं भवति ।भीमराव रामजी अम्बावाडेकर महोदयः महाराष्ट्रराज्यस्य रत्नगिरिमण... | {
"source": "wikipedia"
} |
एषः मध्वाचार्यस्य प्रथमशिष्यः । पलिमारुमठस्य आदिमः । उडुपीक्षेत्रे श्रिक्रिष्णस्य पूजार्थं मध्वाचार्येण नियुक्तः । मध्वाचार्येण स्वीकृतस्य सीता-लक्ष्मण-समेतश्रीरामस्य आराधकः । मध्वाचार्यस्य सर्वेषां ग्रन्थानां एतस्य व्याख्यानं लभ्यते । मध्वाचार्यस्य शिष्येषु 'अष्टोत्कृष्टः' इत्येव प्रसिद्धः । एषः अन्तिमकाले प्रयागादिती... | {
"source": "wikipedia"
} |
कार्कळ उपमण्डलस्य मूडुबिदरेसमीपे मार्पाडिग्रामे तम्मय्य पूवम्मदम्पत्योः पुण्यसन्तानरूपेण क्रि.श.1940तमे वर्षे जनवरिमासस्य 12दिने जातः वीरप्प मोयिलि । देवाडिग इति अधस्थवर्गे जातस्य अस्य नारायणः वासु देवाडिगः च अस्य अग्रजौ । दारिद्र्यात् दुःखेन परिशोचितस्य तस्य बाल्ये कदाचित् भोजनकाले गृहस्वामी आगत्य गृहात् बहिः प्रेषितव... | {
"source": "wikipedia"
} |
{
"source": "wikipedia"
} | |
गुरुवायुपुरम्
केरळराज्ये स्थितम् पुण्यक्षेत्रं गुरुवायूर् अवश्यं दर्शनीयम्, चित्रकलावैभवपूर्णं च क्षेत्रमस्ति । अत्र श्रीकृष्णं गुरुवायुरप्प इति कथयन्ति । श्रीकृष्णमूर्तिं देवशिल्पी विश्वकर्मा निर्मितवान् इति विश्वासः । देवालये उन्नतं गोपुरम् आकर्षकमस्ति । भित्तिषु पौराणिककथाचित्राणि सुन्दराणि सन्ति । अत्र मार्गशिरमास... | {
"source": "wikipedia"
} |
मान्टगोमेरी संयुक्त राज्य अमेरिका देशस्य नगरः अस्ति।
अलाबामा | अलास्का | आरिज़ोना | अर्कान्स | कालिफ़ोर्निया | कोलोराडो | कनेक्टिकट् | डेलावेर् | फ्लोरिडा | जार्जिया | हवाई | ऐडहो | इलिनाई | इन्डियाना | अयोवा | केन्सास | केन्टकी | लूइसियाना | मेन | मेरील्यान्ड् | मासचुसेट्स | मिशिगन | मिनेसोटा | मिसिसिपी | मिसूरी... | {
"source": "wikipedia"
} |
अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य विंशतितमः श्लोकः।
यत्र उपरमते चित्तं निरुद्धं योगसेवया यत्र च एव आत्मना आत्मानं पश्यन् आत्मनि तुष्यति ॥
यत्र योगसेवया निरुद्धं चित्तम् उपरमते, यत्र च एव आत्मना आत्मानं पश्यन् आत्मनि तुष्यति ।
यस्मिन् अवस्थाविशेषे योगाभ्यासेन निरुद्धं चेतः उपरतिं प्राप्नोति, यस्मिन् च अवस्था... | {
"source": "wikipedia"
} |
रीवामण्डलम् /ˈːɑːəəə/) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य रीवाविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति रीवा इति नगरम् ।
रीवामण्डलस्य विस्तारः 6,314 चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे उत्तरप्रदेशराज्यं, पश्चिम... | {
"source": "wikipedia"
} |
एस्.सि.नन्दीमठः । गोकाक-उपमण्डल्स्य नन्दीग्रामे 1900 तमे वर्षे डिसेम्बरमासस्य द्वादशे दिनाङ्के शिवलिङ्गय्य चन्नबसवय्य नन्दीमठवर्यस्य जन्म अभवत्।
नन्दीमठः 1924 तमे वर्षे बि.ए.पदवीं,1926 तमे वर्षे एम्.ए पदवीं प्राप्तवान् । वीरशैवधर्मस्य अपि च तत्त्वज्ञानविषये निबन्धं विरचय्य ,1930 तमे वर्षे डाक्टरेट् पदवीं प्राप्तवान् ।... | {
"source": "wikipedia"
} |
{
"source": "wikipedia"
} | |
चामराजनगरमण्डलम् कर्णाटकराज्यस्य दक्षिणभागे विद्यमानं लघुमण्डलम् अस्ति । पूर्वमेतत् मैसूरुमण्डलस्य एव भागः आसीत् । अस्य मण्डलस्य नाम एव केन्द्रस्य नाम । अत्र सर्वे प्रादेशिकभाषया भाषन्ते किन्तु सोलिगनुवि इति काचित् कन्नडस्य एव रूपान्तरम् अपि अत्र भाष्यते । केचन तमिलुभाषिकाः अपि अत्र वसन्ति ।
5685 च.कि.मी.मिता ।
कोळ्ळे... | {
"source": "wikipedia"
} |
सुबन्तं नाम नामपदम् । संस्कृतव्याकरणाध्ययने सुबन्तानां बहु प्रमुखं स्थानमस्ति । सुबन्तानां मूलरूपं तु प्रातिपदिकम् इत्युच्यते । सामान्यतः सुबन्तानां लिङ्गत्रये निर्देशः भवति - पुल्लिङ्गं-स्त्रीलिङ्गं- नपुंसकलिङ्गमिति । एक-द्वि-बहुवचनेषु त्रिषु वचनेषु सुबन्ताः रूपाणि प्राप्नुवन्ति । सप्तविभक्तीनां योजनेन आहत्य प्रातिपदि... | {
"source": "wikipedia"
} |
1609 तमे वर्षे गैलीलियो गैलिलीद्वारा खगोलीय-प्रेक्षणस्य आरम्भःकृतः आसीत्। तस्य 400 तमजयन्तीम् उपलक्ष्य 2009 तमवर्षम् अन्ताराष्ट्रिय-खगोलिकी- वर्षरूपेण घोषितम् । | {
"source": "wikipedia"
} |
भारतीयसर्वोच्चन्यायलयः /ˈəʊʃəɑːɑːəə/) भारतस्य मुख्यं न्यायमन्दिरम् अस्ति । भारतदेशे न्यायं प्राप्तुं भारतीयसर्वोच्चन्यायलयः सर्वोन्नतस्थानमस्ति । एषः राज्यानां, केन्द्रशासितप्रदेशानाम्, उच्चन्यायलयानां कृते न्यायं करोति । राज्ययोः मध्ये उद्भूतविवादानां, मानवीयमूलभूताधिकाराणाम्, अन्यमुख्यविषयाणाञ्च न्याययाचिका अत्र भवति... | {
"source": "wikipedia"
} |
गृहस्थाश्रमं प्रविविक्षता विवाहसंस्कारः अनुष्ठीयते । अयं संस्कारः स्त्रीणामपि भवति । गृहस्थाश्रमपरिपालनाय 'गृहिण्या' अपेक्षा भवति । अतः स्त्रीपुरुषयोः सौन्दर्यं पौरुषं-नारीत्वं-चरित्रं कुलं चेति बाह्याभ्यन्तरदृष्ट्या उद्वाहः परिणयनं विवाहः इति वा अभिधीयते ।
इहामुत्र च नारीणां परमा हि गति पतिःभर्तृमार्गानुसरणं स्त्रीणां... | {
"source": "wikipedia"
} |
अर्थशास्त्रम् इत्येषः प्राचीनकालस्य आर्थिकताविषये लिखितः उद्ग्रन्थः वर्तते । अस्य प्रणेता अस्ति कौटिल्यः । अस्य अपरं नाम चाणक्यः इति । अस्मिन् ग्रन्थे राज्यशासनविषयः, राज्यकोशविषयः, करस्वीकरणविषयादयः विस्तृतरूपेण उक्ताः सन्ति ।
अर्थशास्त्रग्रन्थस्य रचयिता कौटल्यः । केचन अस्य नाम "कौटिल्य" इति वदन्ति । तन्न साधु । यतः अ... | {
"source": "wikipedia"
} |
सरला ठकराल /ˈəəɑː əəɑːə/) इत्याख्या भारतस्य प्रथमा विमानचालिका आसीत् । ई. स. 1936 तमे वर्षे 21 वर्षस्य वयसि एव सरलया प्रथमवारं विमानं चालितम् आसीत् । तया “जिप्सी मॉथ्” नामकं विमानम् एकाकिन्या एव चालितुं साहसं कृतम् आसीत् ।
ई. स. 1914 तमे वर्षे देहली-महानगरे सरलायाः जन्म अभवत् । सा आर्यसमाजस्य अनुयायिनी आसीत् ।
सरलायाः ... | {
"source": "wikipedia"
} |
अयं हरगोविन्द खोरानः सुप्रसिद्धः विज्ञानी,नोबेल्–पुरस्कृतः चापि । भारतस्य मध्यप्रदेशराज्यस्य मुल्तान्–मण्डल्स्य रायपुरे 1922 वर्षे जनवरिमासस्य 9 दिनाङ्के जन्म प्राप्नोत् । सः यदा मुल्तानस्थायां डि. ए. बि. प्रौढशालायाम् अध्ययनं करोति स्म तदा तस्य शिक्षकाः सर्वे तं "कोमलस्वभाववान् बुद्धिमान् बालः” इति प्रशंसन्ति स्म । तस... | {
"source": "wikipedia"
} |
भारतीयः समाजसेवकः। अनेन महाभागेन गढवालप्रान्ते वृक्षरक्षणार्थम् महत्त्वपूर्णं योगदानं कृतम् । तदर्थं तेन बिश्नोई नामा जनजाति: प्रबोधिता । बिश्नोईजनै: तस्य नेतृत्वे चिपकोनामकम् आन्दोलनं कृतम् । एते दृढनिश्चयिन: वृक्षकाण्डमालिङ्ग्य वृक्षछेदनम् अशक्यम् अकुर्वन् ।
"" | {
"source": "wikipedia"
} |
सः अयोध्याकुलस्य राजा आसीत्।
| {
"source": "wikipedia"
} |
जम्मू भारतस्य जम्मूकाश्मीरस्य द्वितीय राजधानी अस्ति । जम्मूकाश्मीरराज्यस्य द्वितीयं महत् पत्तनमेतत् । पर्वतप्रदेशे स्थितम् अतीव सुन्दरं स्थानम् एतत् अस्ति । मार्गे पर्वताः, शिखराणि, प्रपाताः, नद्यः, नालाः च मनमोहकानि सन्ति । हिन्दुजनानां देवालयाः अत्र अधिकसङ्ख्यया सन्ति । श्रेष्ठं प्रवासिस्थानम् एतत् । जम्मूनगरस्य मध... | {
"source": "wikipedia"
} |
9 1866कोत्लुक्, रत्नगिरिमण्डलम्,
19 1915 बाम्बे, बाम्बे प्रेसिडेन्सि,
भारतीयराष्ट्रियकाङ्ग्रेस्,
गोपालकृष्णगोखले महाशयः ज्येष्ठो देशभक्तः । महात्मगान्धि-महाभागस्यापि राजनैतिकक्षेत्रे गुरुः । एषः नीति-संयम-सहनानां संगमभूमिः आसीत् ।अयं महाराष्ट्रे कोतलूकग्रामे षट्षष्ट्यधिकाष्टादशशततमे क्रिस्ताब्दे अजायत । तस्य पिता क... | {
"source": "wikipedia"
} |
गोल्गुम्बज् कर्णाटकस्य बिजापुरे विद्यमानं किञ्चन प्रसिद्धं स्मारकभवनम् । बिजापुरनगरस्थेषु भवनेषु गोलगुम्बज्भवनम् अन्ताराष्ट्रियां ख्यातिं प्राप्तवत् अस्ति । एतत् आदिलशाहस्य स्मारकम् अत्यन्तं विस्मयकरं प्रसिद्धं च अस्ति । 1656 तमे वर्षे एतस्य निर्माणं समाप्तिम् अगच्छत् । उत्तमयवनकलाकारैः विशिष्टेन करकौशल्येन अतीवसुन्दरत... | {
"source": "wikipedia"
} |
कानेरीगुहाः- बौद्धशिक्षणकेन्द्रम् क्रिस्ताब्दस्य द्वितीयशतकस्य मध्यभागे बौद्धभिक्षवः सन्यासिनः एताः गुहाः निर्मितवन्तः । तत्रैव ते तपः आचरितवन्तः, अध्ययनं योगं च कृतवन्तः । अत्र आहत्य 109 गुहाः सन्ति । तृतीया गुहा 8640 पादचतुरस्रमिता विशिष्टा च अस्ति । विशिष्टं बौद्धशिक्षणकेन्द्रमेतत् आसीत् ।एकादशशतकं यावत् अत्र गुहासु... | {
"source": "wikipedia"
} |
अकोलामण्डलं महाराष्ट्रराज्ये विद्यमानं मण्डलम् । अस्य मण्डलस्य केन्द्रम् अकोला इत्येतन्नगरम् । 'विदर्भ' इति महाराष्ट्रराज्यस्य विभागे वर्तमानेषु मण्डलेषु अन्यतमं मण्डलमिदम् ।
अकोलामण्डलस्य विस्तारः 5,431 चतुरस्रकिलोमीटर्मितः अस्ति । अमरावती विभागस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वदिशि अमरावतीमण्डलं, व... | {
"source": "wikipedia"
} |
हिन्दुधर्मः • इतिहासः
त्रिमूर्तयःब्रह्मा • विष्णुः • महेश्वरः अन्यदेवताःसरस्वती · लक्ष्मीः · पार्वतीशक्तिः · दुर्गा · कालीगणेशः · सुब्रह्मण्यः · अय्यप्पःरामः · कृष्णःहनूमान्प्रजापतिः · रुद्रःइन्द्रः · अग्निः · वायुः · निॠतिःभूमिः · वरुणः · कुबेरः · ईशानः
ब्रह्म · ॐ · ईश्वरःआत्मा · मायाकर्म · संस्काराःपु्रुार्थाःधर्मः ·... | {
"source": "wikipedia"
} |
पिलानी भारतस्य राजास्थान् राज्यस्य झुंझुनू मण्डले स्थितः एकः नगरः अस्ति। नगरः गणश्याम् दास् बिर्ला महोदयस्य जन्मस्थानम् अस्ति। पिलानी नगरे महान् विध्यालय बिर्ला तान्त्रिक, वैज्ञानिक महाविध्यालयम् स्थितः अस्ति। | {
"source": "wikipedia"
} |
भारते किञ्चनराज्यम् अस्ति पञ्जाब् । अस्मिन् राज्ये किञ्चन मण्डलम् अस्ति कपूर्थलामण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति कपूरथलानगरम्। | {
"source": "wikipedia"
} |
दौसामण्डलं राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति दौसा इतीदं नगरम् ।
दौसामण्डलस्य विस्तारः 2950 चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे करौलीमण्डलं, भरतपुरमण्डलं च, पश्चिमे जयपुरमण्डलम्, उत्तरे अलवरमण्डलं, दक्षिणे सवाई माधोपुरमण्डलम् अस्ति । अस्मिन् मण्डले सवा, बाणगङ्गा इत्येते द्वे... | {
"source": "wikipedia"
} |
वाल्मीकिमहर्षिः श्रीमद्रामायणस्य कर्ता । अयम् आदिकविरित्युच्यते ।अस्य पिता प्रचेताः। रत्नाकरः इति वाल्मीकेः मूलं नाम । प्रचेतसः पुत्रः इति कारणेन प्राचेतसः इति अस्य अपरं नाम । जन्मना अयं व्याधः आसीत् ।
रत्नाकरः अरण्यमार्गे गच्छतः जनान् भाययित्वा चौर्यं कृत्वा जीवति स्म । एकदा तस्मिन् मार्गे नारदमहर्षिःसमागतः । नारदमहर्... | {
"source": "wikipedia"
} |
लक्सम्बर्ग यूरोपमहाद्वीपे पश्चिमदिशि विद्यमानः कश्चन देश: । | {
"source": "wikipedia"
} |
प्रभासराजु उप्पलापाटिः तेलुगुचलच्चित्रक्षेत्रे विद्यमानः एकः प्रमुखः अभिनेता वर्तते । | {
"source": "wikipedia"
} |
सः यादवकुलस्य राजा आसीत्। | {
"source": "wikipedia"
} |
1210 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्।
• 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 •... | {
"source": "wikipedia"
} |
बिस्मार्क् संयुक्त राज्य अमेरिका देशस्य नगरः अस्ति।
अलाबामा | अलास्का | आरिज़ोना | अर्कान्स | कालिफ़ोर्निया | कोलोराडो | कनेक्टिकट् | डेलावेर् | फ्लोरिडा | जार्जिया | हवाई | ऐडहो | इलिनाई | इन्डियाना | अयोवा | केन्सास | केन्टकी | लूइसियाना | मेन | मेरील्यान्ड् | मासचुसेट्स | मिशिगन | मिनेसोटा | मिसिसिपी | मिसूरी ... | {
"source": "wikipedia"
} |
विरलतया शास्त्रकृतोऽपि कवयः वर्तन्ते । तादृशेषु शास्त्रकृत्कविषु पाणिनिरपि अन्यतमः । येन अष्टाध्यायीति व्याकरणशास्त्रस्य सूत्रग्रन्थः व्यरचि तेनेदम् जाम्बुवतीजयम् अथवा जाम्बुवतीविजयम् इति काव्यम् अतन्यत इति विद्वदुदन्तः । एवम् शास्त्रकारः पाणिनिः कविरपि आसीत् इति प्राचीनैः साहित्यविमर्शकैः अभिहितम् । यथा-
इति राजशेखरः ... | {
"source": "wikipedia"
} |
नीरज चोपडा /ˈːəə ʊəɑː/) इत्येषः अंजू बॉबी जॉर्ज इत्यस्माद् अनन्तरं विश्व-चैम्पियनशिप-स्तरे द्वितीयः भारतीयव्यायामिकोऽस्ति, येन वैश्विकस्पर्धायां सुवर्णपदकं प्राप्तम्। पोलैण्ड-देशस्य बाईगॉश-महानगरे जायमानायां विंशत्यून-वैश्विकस्पर्धायाम् एकोनविंशवर्षीयः कनिष्ठव्यायामिकः सः ज्येष्ठानाम् अपि अभिलेखम् अत्यक्राम्यत्। एवं सः... | {
"source": "wikipedia"
} |
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य नवत्रिंशत्तमः श्लोकः ।
यत् च अपि सर्वभूतानां बीजं तत् अहम् अर्जुन न तत् अस्ति विना यत् स्यात् मया भूतं चराचरम् ॥ 39 ॥
अर्जुन ! सर्वभूतानां यत् बीजं तत् अपि अहम् । मया विना चराचरं भूतं यत् स्यात् तत् नास्ति ।
अर्जुन ! सर्वभूतानां यत् प्ररोहकारणम् अस्ति तत् अपि अहम् । मया विरहि... | {
"source": "wikipedia"
} |
राजगढ इत्येतन्नगरं मध्यप्रदेशराज्यस्य भोपालविभागे अन्तर्गतस्य राजगढमण्डलस्य केन्द्रम् अस्ति । | {
"source": "wikipedia"
} |
एकं भौतिकतत्त्वम् अस्ति। | {
"source": "wikipedia"
} |
सिन्धुदुर्गम् महाराष्ट्रराज्यस्य सिन्धुदुर्गमण्डले स्थितम् एकं दुर्गम् । छत्रपतिना शिवाजी महाराजेन स्थापितम् एकं अद्वितीयं सागरदुर्गमिदम् । | {
"source": "wikipedia"
} |
चतुरङ्गक्रीडा एका बहुप्रसिद्धा साम्प्रदायिकक्रीडा वर्तते ।
चतुरङ्गक्रीडा द्वन्द्वक्रीडा वर्तते । एषा क्रीडा शारिपट्टे क्रीडन्ति । अस्मिन् शारिपट्टे 64 समचतुरस्राः वर्तन्ते । एतादृशाः समचतुरस्राः एकस्मिन् पङ्क्तौ अष्ट योजितं वर्तते । आहत्य अष्टपङ्क्तयः वर्तन्ते । अत्र प्रत्येकस्य क्रीडकस्य सविधे 16 पदातयः भवन्ति । तेषा... | {
"source": "wikipedia"
} |
1270 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्।
• 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 •... | {
"source": "wikipedia"
} |
भारतस्य बिहारराज्ये स्थितं किञ्चन मण्डलम् अस्ति नलन्दामण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति नलन्दानगरम्।
अररिया मण्डलः •अरवल मण्डलः • औरंगाबाद् मण्डलः •कटिहार मण्डलः •किशनगंज मण्डलः •कैमूर मण्डलः •खगडिया मण्डलः •गया मण्डलः • गोपालगंज मण्डलः • जमुई मण्डलः • जहानाबाद मण्डलः • दरभंगा मण्डलः • नवादा मण्डलः •नालंदा मण्डलः... | {
"source": "wikipedia"
} |
पक्षः अस्य अस्ति इति पक्षी। साधारणतया खगार्थे रूढः अयम् शब्द:अस्थिमत्सु पक्षिणां काचित् श्रेणि: वर्तते। ते उष्णरक्तजीविन: सन्ति। ते अण्डजाः। तेषां शरीरं पक्षैः संवृद्धं भवति। तेषाम् अस्थीनि जर्जराणि सन्ति। ते द्विपदाः सन्ति। अद्य नवसहस्रपक्षिजातयः पृथिव्यां जीवन्ति। केचन पक्षिणः मांसं खादन्ति अन्ये फलानि शलाटून् झषान् ... | {
"source": "wikipedia"
} |
तामाङ भाषा नेपालस्य भाषा अस्ति । | {
"source": "wikipedia"
} |
210 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्।
• 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • ... | {
"source": "wikipedia"
} |
कर्णाटकस्य अष्टाविंशतिलोकसभाक्षेत्रेषु अन्यतमम् अस्ति तुमकूरुलोकसभाक्षेत्रम्। अत्र अष्टविधानसभाक्षेत्राणि अन्तर्भवन्ति । तेषु अन्यतमम् अस्ति चिक्कनायकनहळ्ळीविधानसभाक्षेत्रम्। कर्णाटके विधानसभाक्षेत्रेषु अस्य सङ्ख्या 128। चिक्कनायकनहळ्ळीविधानसभाक्षेत्रं मण्डलदृष्ट्या तुमकूरुमण्डले अन्तर्भवति । निर्वाचनक्षेत्रदृष्ट्या तु... | {
"source": "wikipedia"
} |
भगिनी निवेदिता /ˈəɡɪː ɪɛɛɑː/) इति स्वामिविवेकानन्देन प्रदत्तं नाम । तस्याः वास्तविकं नाम तु मार्गरेट् एलिजबेथ् नोबल् आसीत् । भारतस्य स्वतन्त्रतासङ्ग्रामे तस्याः अपि अविस्मरणीयं योगदानं वर्तते । मेडलीन् स्लेड्, एनी बेसन्ट् सदृशम् एषा अपि भारतमातुः विदेशिपुत्री । एषा अपि सर्वस्वं त्यक्त्वा भारतस्वतन्त्रतायै योगदानम् अयच्... | {
"source": "wikipedia"
} |
ब्रह्मपुत्र दक्षिण-एशियामहाद्वीपे विद्यमाने भारतदेशे प्रवहन्ती काचित् नदी अस्ति । चीन-टिबेट्देशयोः अपि एषा प्रवहति । पुल्लिङ्गे नदशब्देन निर्दिश्यमानेषु अन्यतमः अस्ति अयं ब्रह्मपुत्रनदः । अन्याः बहव्यः भारतीयाः नद्यः स्त्रीलिङ्गे एव निर्दिश्यन्ते । अयं नदः टिबेट्-देशतः यार्लुङ्ग् सङ्ग्पोनदी - नाम्ना प्रवहति । ततः हिमा... | {
"source": "wikipedia"
} |
सिखमतम्विषयेऽस्मिन् एकस्याः श्रेण्याः भागः
भारतीयधर्मगुरुः। | {
"source": "wikipedia"
} |
विख्यात व्यक्तिः
श्रेणीःजीवनी | {
"source": "wikipedia"
} |
164 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः अधिवर्षः आसीत्।
• 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 •... | {
"source": "wikipedia"
} |
विदिशा इत्येतन्नगरं मध्यप्रदेशराज्यस्य भोपालविभागे अन्तर्गतस्य विदिशामण्डलस्य केन्द्रम् अस्ति । | {
"source": "wikipedia"
} |
{
"source": "wikipedia"
} | |
अत्र भारतगणराज्यस्य उपराष्ट्रपतीनाम् आवलिः अस्ति । | {
"source": "wikipedia"
} |
एतत् सीताफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् सीताफलम् अपि सस्यजन्यः आहारपदार्थः । इदं सीताफलम् आङ्ग्लभाषायां इति उच्यते । एतत् सीताफलम् अकृष्टपच्यम् अपि । सीताफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् सीताफलम् अपि बहुविधं भवति ।
| {
"source": "wikipedia"
} |
1,135 वाट्स्उद्धरणे दोषः : दोषपूर्णा शृङ्खला;
मार्स् एटमोस्फेयर् एण्ड वोलेटैल् एवोल्युसन् ), इति मङ्गलग्रहस्य कक्षपथि अन्तरिक्षयानप्रेषणनिमित्तम् रचिता एका योजना । वैज्ञानिकाः अभियानमिदं सञ्चाल्य मङ्गलग्रहस्य वायुमण्डलस्य अध्ययनं करिष्यन्ति । मावेन् इति परिकल्पनायाः प्रमुखान्वेषणसंस्थाषु कोलोरेडो विश्वविद्यालयः तथा अ... | {
"source": "wikipedia"
} |
अयोध्याकुले जातः ध्रुवसन्धिः हिरण्याभस्य पौत्रः । पुष्यः एतस्य पिता । अतः एतस्य अपरं नाम पौष्यः इति । तस्य पत्नीद्वयम्। लीलावती मनोरमा चेति । मनोरमा निषधदेशाधिपतेः वीरसेनस्य पुत्री । लीलावत्याः पुत्रं शत्रुजितं उत्तराधिकारिरूपेण नियोक्तुम् इच्छति ध्रुवसन्धिः । तदा मनोरमा पुत्रस्य सुदर्शनस्य यौवराज्याभिषेकं कर्तुम् इच्छ... | {
"source": "wikipedia"
} |
त्रिताल: मात्रा: 16 करताला: - 1,5,13 खण्डा:- 4 अक्षराणि –धा धिं धिं धा। धा धिं धिं धा। धा तिं तिं ता। ता धिं धिं धा | {
"source": "wikipedia"
} |
कृष्णयजुर्वेदः यजुर्वेदस्य एव उपविभागः।
कृष्णयजुर्वेदस्य चतस्रः शाखाः प्राप्यन्ते –
तैत्तिरीयसंहितायाः प्रसारः दक्षिणभारते अस्ति । अांशिकरूपेण महाराष्ट्रप्रदेशः समग्ररूपेण च आन्घ्रद्रविडदेशीयाः अस्याः शाखायाः अनुयायिनः सन्ति। अस्याः संहितायाः स्वकीयाः ब्राह्मण-आारण्यक-उपनिषद्-श्रौतसूत्र-गृह्यसूत्रप्रभृतयः अक्षुण्णाः स... | {
"source": "wikipedia"
} |
वेनेज्वेला दक्षिणामेरिकामहाद्वीपे उत्तरदिशायां विद्यमानः देश: । अस्य राजधानी - कराकस ।
संबद्घाः विषया: | {
"source": "wikipedia"
} |
अव्यक्तादीनि भूतानि ) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः आत्मनित्यसिद्धान्तस्य, आत्मानित्यसिद्धान्तस्य च मध्यस्थितिं वर्णयति । पूर्वयोः श्लोकयोः भगवता शरीरिशरीरयोः एकत्वे स्वीकृतेऽपि शोकः न करणीयः इति उक्तम् । तयोः श्लोकयोः पूर्वम् आत्मनः नित्यत्वं प्रतिपादितम् । अधुना तयोः उभयोः स्थित्योः मध्ये या अप्रत्यक्षा स्थितिः अ... | {
"source": "wikipedia"
} |
1523 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्।
• 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 •... | {
"source": "wikipedia"
} |
बीरभूम) इति भारतवर्षस्य पश्चिमबङ्गराज्यस्य एकं प्रशासनिकमण्डलम् । अस्य मण्डलस्य केन्द्रनगरं सिउरि ।
बीरभूम-मण्डलस्य विस्तारः 4545 चतुरस्रकिलोमीटर्मितः अस्ति । अस्य जनपदम् परितः मुर्शिदाबादजनपदम्, बर्धमानजनपदम्, झारखण्डराज्यम् च अस्ति। अस्मिन् मण्डले 1300 मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले अजया, मयू... | {
"source": "wikipedia"
} |
रवीन्द्रनाथ ठाकुर /ˈəːəɑːθə ɑːʊə/) वङ्गभाषायाः कविः, कथालेखकः, सङ्गीतज्ञः, नाटकरचयिता च सन् सः 19 शतकस्य अन्ते विंशतितमशतकस्य आरम्भे च वङ्गसाहित्यस्य वङ्गसङ्गीतस्य च विनूतनं रूपं प्राददात् । तेन रचितस्य सूक्ष्मसंवेदनयुक्तस्य नवीनस्य उत्कृष्टस्य च गीताञ्जलीकाव्यस्य कृते 1913 तमेवर्षे नोबेल्-साहित्यप्रशस्तिः प्राप्ता । ... | {
"source": "wikipedia"
} |
सः विख्यातः पुरुषः। | {
"source": "wikipedia"
} |
भारतीय उद्योगपति। | {
"source": "wikipedia"
} |
सरदार वल्लभभाई पटेल /ˈəəɑːə əəəɑːɪ əɛə/) भारतस्य एकतायाः सूत्रधारः । लोहपुरुष इति समग्रे विश्वे प्रसिद्धः सः । लोहपुरुषस्य जन्म गुजरातराज्यस्य नडियाद-नगरे अभूत् । तस्य दृढस्वभावेन, निर्णयशक्त्या च अद्यापि सः जनमानसे चकास्ति । न केवलं भारतस्वतन्त्रताप्राप्त्यै, समग्रस्य भारतस्य एकीकरणे अपि तु भारतस्वतन्त्रताप्राप्त्यनन्... | {
"source": "wikipedia"
} |
गुजरातराज्ये प्रवहन्ती काचित् नदी। | {
"source": "wikipedia"
} |
चिन्तामणि नागेश रामचन्द्ररावः कश्चन प्रसिद्धः भारतीयविज्ञानी । रसायनशास्त्रे सः बहुकृतपरिश्रमः । अद्यत्वे सः भारतस्य प्रधानमन्त्रिणः वैज्ञानिकमार्गदर्शनसमित्याः प्रमुखः । डा राववर्येण 60 विश्वविद्यालयेभ्यः गौरवडाक्टर्रेट्-उपाधिः प्राप्ता अस्ति । तेन 1500 शोधपत्राणि, 45 वैज्ञानिकपुस्तकानि च लिखितानि विद्यन्ते । नवेम्बर... | {
"source": "wikipedia"
} |
भारतस्य राष्ट्रपतिः /ˈɑːəəə ɑːʃəəɪɪ/) भारतस्य प्रप्रथमः नागरिकः । राष्ट्रपतिपदं भारतगणराज्यस्य सर्वोत्कृष्टं, सम्मानितं च पदमस्ति । भारतीयशस्त्रसेनानां प्रमुखः सेनापतिरपि राष्ट्रपतिः एव । देहल्यां स्थिते राष्ट्रपतिभवने राष्ट्रपतिपदारूढस्य निवासः भवति । तस्य राष्ट्रपतिभवनस्य अपरे नामनी 'वायस् रीगल हाऊस्', 'रायसीना हिल' ... | {
"source": "wikipedia"
} |
चिन्तामण् द्वारकानाथ देशमुखवर्यः भारतस्य प्रमुखः अर्थशास्त्रज्ञः आसीत् । सः सी. डि. देशमुख् इत्येव प्रसिद्धः आसीत् । अयं 'भारतीयरिसर्व् बेङ्क्' नामकस्य वित्तकोशस्य प्रथमप्रशासकः अपि आसीत् । 1943 तमे वर्षे आङ्ग्लसर्वकारपरतया रिसर्ववित्तकोशे अध्यक्षपदवीं अलङ्कृतवान् । स्वातन्त्र्यानन्तरं सः केन्द्रसर्वकारस्य सचिवमण्डले 6... | {
"source": "wikipedia"
} |
भैरवरागः हिन्दुस्तानीशास्त्रीयसङ्गीतस्य आदिमः रागः भवति । अयं भैरवथाटस्य जनकरागः भवति । उत्तराङ्गप्रधानः रागः तथा सम्पूर्णजात्यासहितः रागः भवति । एनं रागं गम्भीरतया यदि गानं क्रियते तर्हि वीररसः उत्पद्यते । ध्रुपद् शैल्यां एनं रागं अधिकतया उपयोगं कुर्वन्ति । कर्णाटकसङ्गीते अस्यैव रागस्य "मायामाळवगौळ" इति नामान्तरम्। सङ... | {
"source": "wikipedia"
} |
तैत्तिरीयोपनिषत् प्रसिद्धासु दशसु उपनिषत्सु अन्यतमा । इयं कृष्णयजुर्वेदीयतैत्तिरीयशाखान्तर्गता । इयम् उपनिषत् वल्लीत्रयेण विभक्ता विद्यते । प्रथमा वल्ली वर्णोच्चारविषयकः इत्यतः शिक्षावल्ली इति निर्दिश्यते । द्वितीयायां वल्ल्याम् आनन्दस्य मीमांसा विद्यते इत्यतः ब्रह्मानन्दवल्ली इति निर्दिश्यते । तृतीयायां वल्ल्यां वरुणस... | {
"source": "wikipedia"
} |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.