text
stringlengths
0
31.6M
metadata
dict
तमिळनाडुराज्यम् भारतस्‍य दक्षिणभागे विद्यमानं राज्यम् अस्‍ति । भारतदेशे सुप्रसिद्धं तमिळुनाडुराज्यं विस्तारदृष्ट्या जनसङ्ख्यादृष्ट्या च एकादशे स्थाने अस्ति । सहस्रकिलोमीटरविस्तृतः सागरतीरप्रदेशः अस्ति । बङ्गालोपसागरतीरे, दक्षिणभागे हिन्दुमहासागरतीरे च अनेकानि देवस्थानानि तीर्थक्षेत्राणि च सन्ति । पश्चिमे अरब्बीसमुद्रः ...
{ "source": "wikipedia" }
उत्तराखण्डराज्ये किञ्चनमण्डलम् अस्ति चमोलीमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति गोपेश्वरनगरम् ।
{ "source": "wikipedia" }
द्वादश ज्योतिर्लिङ्गानाम् आवल्याम् विश्वेश्वरः सप्तमं ज्योतिर्लिङ्गम् अस्ति । विश्वेश्वरः अस्ति जगत्प्रसिद्धे काशीक्षेत्रे । एतत् भारतस्य अत्यन्तं प्राचीनं तीर्थक्षेत्रम् अस्ति । “काश्यां मरणान्मुक्तिः” इति उक्तिरेव अस्ति । परमपवित्रायाः गङ्गायाः तटे स्थितम् एतत् दिव्यक्षेत्रं भारतीयानां तत्रापि शिवभक्तानां परमं श्रद्ध...
{ "source": "wikipedia" }
सान्तेराय् खलेम्जनकःएस्.एस्. थाङ्ग खियेव्ग्रामः मौखेयाव् जोवाय्मण्डलम्- जैण्टियामण्डलम्राज्यम्-मेघालयःप्रपञ्चे अधिका वृष्टिः कुत्र भवति इति प्रश्नः भवति चेत् सर्वे वदन्ति चिरापुञ्जी इति । एतन्नगरं मेघालयराज्ये अस्ति ।मेघालयराज्यस्य पूर्वोत्तरभागयोः असमराज्यमस्ति । पश्चिमदक्षिणभागौ बांग्लादेशेन परिवृतौ । ग्यारो-खासि-जयन...
{ "source": "wikipedia" }
26-01-1894 जीवन्यायतीर्थस्य उत जीवस्य जनकः स्वकीयसमयस्य सुप्रसिद्ध संस्कृतलेखकः कविपञ्चाननतर्करत्नः आसीत् । जीवो बङ्गप्रदेशे चौबीस-परगनान्तर्गत-भट्टपल्लीनगर्यां 26 जनवरी 1894 ख्रीष्टाब्दे प्रादुरभूत् । भट्टपल्ली विदुषां खनिरिति प्रसिद्धिः । तेन कलकत्ताविश्वविद्यालये 26 वर्षपर्यन्तं संस्कृतमध्यापितम् । एतदनन्तरं स भट्टप...
{ "source": "wikipedia" }
गुजरातराज्यं /ˈɡʊʒəɑːəɑːʒə/) भारतस्य पश्चिमे स्थितं किञ्चन राज्यम् । गान्धीनगरम् अस्य राज्यस्य केन्दम् । कर्णावती-सुरत-वडोदरा-राजकोट-महानगराणि राज्यस्मिन् प्रमुखनगराणि सन्ति । अस्य राज्यस्य बृहत्तमं नगरं कर्णावती-महानगरम् अस्ति । श्रीकृष्णस्य द्वारका, द्वादशज्योतिर्लिङ्गेषु अन्यतमः सोमनाथश्च अत्र राराजते । भारतस्य शिल्...
{ "source": "wikipedia" }
बडवानीमण्डलम् /ˈəəɑːːəəə/) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य इन्दौरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति बडवानी इति नगरम् । बडवानीमण्डलस्य विस्तारः 5,427 चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे खरगौनमण्डलं, प...
{ "source": "wikipedia" }
प्युठानमण्डलम् नेपालदेशस्य राप्ती अञ्चले अवस्थितं एकं मण्डलं वर्तते ।
{ "source": "wikipedia" }
भारतस्य उत्तरभागे स्थितं राज्यम् अस्ति जम्मूकाश्मीरराज्यम् । अत्रत्यं मण्डलम् अस्ति शुपियामण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति शुपियानगरम्।
{ "source": "wikipedia" }
एतत् मिष्टालुकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् मिष्टालुकम् आङ्ग्लभाषायां इति उच्यते । एतत् मिष्टालुकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, रोटिका, भर्ज्यं, दाधिकम् इत्यादिकं निर्मीयते । एतत् तथैव पक्वं कृत्वा सेवनम् अपि शक्यते । ‎
{ "source": "wikipedia" }
189 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • ...
{ "source": "wikipedia" }
अव्ययपदानां उदाहरणानि अधस्तात् तूष्णीम् तिष्ठ।
{ "source": "wikipedia" }
एरण्डबीजैः निर्मितं तैलम् एव एरण्डतैलम् । एरण्डबीजैः तैलं निर्मीयते । एषः एरण्डः आङ्ग्लभाषायां इति उच्यते । अस्य तैलं इति उच्यते । एतत् एरण्डतैलम् अधिकतया औषधत्वेन एव उपयुज्यते । कदाचित् सौन्दर्यवर्धकत्वेन अपि उपयुज्यते । आहारत्वेन अस्य एरण्डतैलस्य उपयोगः अतीव न्यूनः एव । एतत् एरण्डतैलम् अत्यन्तं लेखनम् । तत्रापि एर...
{ "source": "wikipedia" }
286 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • ...
{ "source": "wikipedia" }
कला इति शब्दः अतिव्यापः अस्ति । विद्वासः अपि अस्य परिभाषां केवलं कस्मिंश्चित् एकस्मिन् दृष्टिकोणेन एव कुर्वन्ति । कलयति इति काला । कल् धातुः सङ्ख्याने+णिच् । इति अस्य पदस्य व्याकरणस्य परिभाषा । मनुष्यशरीरस्य सप्तकलाः, चन्द्रस्य षोडषकलाः, सूर्यस्य द्वादशकलाः, अग्निमण्डलस्य दश कलाः, चतुष्षष्ठि कुशलकलाः इति कलाभेदाः अस्य ...
{ "source": "wikipedia" }
शिलाजः
{ "source": "wikipedia" }
नागपुरमण्डलं महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं नागपुर इत्येतन्नगरम् | नारङ्गफलानाम् उत्पादने मण्डलमिदम् अग्रस्थाने वर्तते । भारतदेशस्य मध्यबिन्दुः अस्मिन्नेव मण्डले अस्ति । महाराष्ट्रराज्यस्य द्वितीया राजधानी अस्ति नागपुर इत्येतन्नगरम् । भारतदेशस्य स्वच्छेषु हरितेषु च मण्डलेषु द्वितीये स्थाने विर...
{ "source": "wikipedia" }
भारतस्य क्रान्तिकारिण्यः /ˈɑːəəə ɑːɪɑːɪə/) स्वतन्त्रभारताय स्वस्य सर्वस्वं समार्पयन् । भारतीयस्वतन्त्रतासङ्ग्रमे केचन वीरपुरुषाः स्वदेशाय प्राणाहुतिम् अयच्छन् इति वयं जानीमः । परन्तु स्वतन्त्रसङ्ग्रामे वीरमहिलाः अपि प्राणाहुतिम् अयच्छन् इति तु विरलातिविरलजनाः एव जानन्ति । तेषु विरलेषु अपि मान्यता अस्ति यत्, “भारतीयस्वत...
{ "source": "wikipedia" }
विश्वस्य बृहत्तमं सङ्घटनम् अस्ति राष्ट्रियस्वयंसेवकसङ्घः । सङ्घस्य कार्यम् आभारते मण्डलस्तर पर्यन्तं अस्ति । सङ्घे राष्ट्रकार्यं कुर्वन्तः बहवः प्रचारकाः, विस्तारकाः स्थानिककार्यकर्तारस्सन्ति । राष्ट्रस्य उपरि यदा-यदा कष्टम् आगतं तदा-तदा तत्र सङ्घेन सेवाकार्याणि कृतानि । सङ्घः नाम किञ्चन व्यक्तिवादिसङ्घटनं न, ध्येयवादि...
{ "source": "wikipedia" }
इह खलु जगति अर्थानां प्रमित्यै प्रत्यक्षम्, अनुमानम्, उपमानम्, शब्द इत्यादीनि बहूनि प्रमाणानि अङ्गीकृतानि सन्ति शास्त्रकारै: । तत्र शब्द इति प्रमाणं यदि न स्यात् तर्हि सर्वं जगदिदम् अन्धे तमसि निमज्जेत्, तदाह दण्डी एतादृश: शब्द: यदा श्रूयते तदा नियमेन कश्चिदर्थ: प्रतीयते । यदा च कश्चिदर्थ: प्रतीयते तदा नियमेन तद्वाचक:...
{ "source": "wikipedia" }
ओडिशाराज्यं भारतस्य आग्नेयतीरे विद्यमानं राज्यम् । इदम् ओडिश्शा इत्यपि निर्दिश्यते । प्राचीनकाले कळिङ्गम् इति यत् प्रसिद्धम् आसीत् तस्य एव आधुनिकं नाम अस्ति ओरिस्सा इति । ब्रिटिश्-इण्डियाशासनस्य आधीन्ये इदं 1936 तमस्य वर्षस्य एप्रिल्मासस्य 1 दिनाङ्के राज्यत्वम् आप्नोत् । ओरियाभाषाभाषिभिः युक्तं राज्यमिदम् । अतः एप्रिल...
{ "source": "wikipedia" }
दक्षिणसिक्किममण्डलं सिक्किमराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं नाम्ची/नामत्से वा नगरम् । दक्षिणसिक्किममण्डलस्य विस्तारः 75000 हेक्टर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि पूर्वसिक्किममण्डलं, पश्चिमदिशि पश्चिमसिक्किममण्डलम्, उत्तरदिशि उत्तरसिक्किममण्डलं, दक्षिणदिशि पश्चिमबङ्गालराज्यम् अस्ति । मण्डलेऽस्मिन् 162...
{ "source": "wikipedia" }
करम्भः कश्चन धान्यविशेषः अस्ति । करम्भः तृणविभेदात् लभते । मनुष्याः अश्वान् कुक्कुटान् च करम्भं भोजयन्ति । मनुष्याः अपि करम्भपायसं भक्षयन्ति। शुष्ककरम्भतृणं पशूणां शयनार्थं प्रसार्यते । ‎
{ "source": "wikipedia" }
क्रैस्तधर्मावलम्बी दानियेलप्प-सुभद्रव्वयोः पुत्रः चन्नप्पः । 1881 तमे वर्षे अक्टोबर्-मासस्य 28 तमे दिनाङ्के एतस्य जन्म धारवाडनगरे अभवत् । वीरशैवजातीयाः अस्य पूर्वजाः उत्तङ्गिवंशजाः । अतः उत्तङ्गि चन्नप्पः इत्येव अयं प्रसिद्धः जातः । अयम् अग्रे क्रैस्तधर्मम् अङ्गीकृतवान् । निष्ठावान् क्रैस्तधर्मोपदेशकः सतः अपि अस्य हिन्...
{ "source": "wikipedia" }
एषा कारवी भारते अपि वर्धमानः कश्चन हरितकविशेषः । इयं कारवी तृणकुलीया । इदम् अपि किञ्चन सस्यम् । अतः कारवी अपि सस्यजन्यः आहारपदार्थः । इयं कारवी आङ्ग्लभाषायां इति उच्यते । अनया कारव्या क्वथितं, सारः, व्यञ्जनं, दोसा, रोटिका, दाधिकम् इत्यादिकं निर्मीयते । एषा कारवी अल्पकालिका बहुवार्षिका च । तन्नाम एतत् कारवीसस्यम् अल्पे...
{ "source": "wikipedia" }
वायुः /ˈɑːʊʊ/) अस्माकं जीवनस्य अत्यावश्यकं तत्त्वं वर्तते । वायुं विना जीवनम् असम्भवम् अस्ति । प्रतिदिनं वयं द्विवारं त्रिवारं वा भोजनं कुर्मः । एकस्मिन् दिवसे अपि अनेकवारं वयं जलं पिबामः । किन्तु श्वसनं वयं प्रतिक्षणं कुर्मः । जीवनाय वायुः सर्वेभ्यः जीवेभ्यः आवश्यकः वर्तते । पृथिव्याः परितः वायूनाम् आवरणम् अस्ति । तत्...
{ "source": "wikipedia" }
बुरहानपुरम् इत्येतन्नगरं मध्यप्रदेशराज्यस्य इन्दौरविभागे अन्तर्गतस्य बुरहानपुरमण्डलस्य केन्द्रम् अस्ति ।
{ "source": "wikipedia" }
नूर्जहान् उर्दूहिन्दीभाषयोः चलच्चित्रसङ्गीतस्य प्रसिद्धा गायिका अभिनेत्री च । स्वस्य अतिमधुरकण्ठेन सुन्दराभिनयेन च चत्वरदककालं दर्शकानानं श्रोतॄणां मनस्सु स्थिरा आसीत् । नूरजहान् इत्यस्याः गायिकायाः जन्म क्रि.श. 1926तमे वर्षे पञ्जाबरज्यस्य कस्मिंश्चित् लघुनगरे मध्यमवर्गस्य कुटुम्बे अभवत् । अस्याः बाल्यस्य नाम अल्लाहवा...
{ "source": "wikipedia" }
अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य विंशतितमः श्लोकः । न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य च अप्रियम् स्थिरबुद्धिः असम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥ 20 ॥ ब्रह्मवित् ब्रह्मणि स्थितः स्थिरबुद्धिः असम्मूढः प्रियं प्राप्य न प्रहृष्येत् । अप्रियं प्राप्य च न उद्विजेत् । यः ब्रह्मवित् सर्वदा ब्...
{ "source": "wikipedia" }
एलिनोर् रूजवेल्ट् /ˈɛᵻɔː ˈʊəɛ/) “संयुक्तराज्य अमेरिका”-देशस्य प्रथमा महिला आसीत् । “अन्ना एलिनोर् रूजवेल्ट्” इतीदमस्याः पूर्णं नाम अस्ति । सा अमेरिका-देशस्य द्वात्रिंशत्तमस्य राष्ट्रपतेः फ्रैङ्कलिन् रूजवेल्ट् इत्याख्यस्य पत्नी आसीत् । संयुक्तराष्ट्रसङ्घस्य राष्ट्रपतेः पत्नी प्रथमा महिला कथ्यते । सा एका सफला प्रशासिका,...
{ "source": "wikipedia" }
गुरूनहत्वा हि महानुभावन् ) इत्यनेन श्लोकेन अर्जुनः श्रीकृष्णस्य कथनेन सह स्वतर्कस्य तादात्म्यं स्थापयति । पूर्वस्मिन् श्लोके युद्धोपरामस्य स्वतर्कं दत्त्वा अत्रार्जुनः श्रीकृष्णस्य धर्मादिकथनस्य उदाहरणं ददाति । स कथयति यत्, महानुभावान् गुरून् अमारयित्वा अहं भिक्षान्नं भोक्तुं सज्जः । तदपि मह्यं कल्याणकरं मन्ये । गुरुजन...
{ "source": "wikipedia" }
रानी रामपाल भारतस्य काचित् हॉकी-क्रिडालुः । सा भारतीय-हॉकी-क्रीडायाः 'राज्ञी' मन्यते । 2010 तमस्य वर्षस्य विश्वचषके भागं गृहीतेषु भारतीय-हॉकी-क्रीडापटुषु सा कनिष्ठतमा आसीत् । तस्मिन् समये तस्याः आयुः 15 वर्षाणि आसीत् । सा हरियाणाराज्यस्य शाहबाद मारकण्डा-नगरे निवासति । रान्याः पिता आजीविकायै रथं चालयति । परिवारस्य भ्रात...
{ "source": "wikipedia" }
21 अक्तूबर-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य द्विशताधिकचतुर्नवतितमं दिनम् । लिप्-वर्षानुगुणम् द्विशताधिकपञ्चनवतितमं दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय 71 दिनानि अवशिष्टानि ।
{ "source": "wikipedia" }
पश्चिमाञ्चलविकासक्षेत्रम् इदं पञ्चविकासक्षेत्रेषु अन्यतमं नेपालदेशस्य मध्ये अवस्थितं विकासक्षेत्रम् वर्तते । इदं पूर्वतः तृतीयं विकासक्षेत्रं पश्चिमाञ्चलविकासक्षेत्रम् केवलं पश्चिमाञ्चलञ्च उच्यते अस्य पूर्वदिशि मध्यमाञ्चलम् एवं पश्चिमे च मध्यपश्चिमञ्चलम् एव उत्तरे च चीनस्य तिब्बतः एवं दक्षिणे भारतदेशस्य उत्तरप्रदेशम् च...
{ "source": "wikipedia" }
19 1827नगवा, बालीया, बलियामण्डलम्, 8 1857 ब्याराकपुर, कोलकाता, सिपाही ; 19 जुलै 1827 – 8 एप्रिल् 1857) भारतस्य प्रथम स्वातन्त्र्यसङ्ग्रामस्य हुतात्मा इत्येव प्रथितः। अयं ईस्ट इण्डिया समवायस्य ब्रिटिश सैन्ये सेनानी आसीत । क्रि.श.1857 तमे वर्षे ब्रिटिश अधिकारिणः विरुध्य कृतम् आक्रमणं प्रथमस्वातन्त्र्यसङ्ग्रामः इति रूपम...
{ "source": "wikipedia" }
1216 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः अधिवर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 ...
{ "source": "wikipedia" }
12 जुलाई-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य एकशताधिकत्रयोनवतितमं दिनम् । लिप्-वर्षानुगुणम् एकशताधिकचतुर्नवतितमं दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय 172 दिनानि अवशिष्टानि ।
{ "source": "wikipedia" }
सिन्धुदुर्गमण्डलं महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं सिन्धुदुर्ग इत्येतन्नगरम् | महाराष्ट्रराज्यस्य कोकणविभागे स्थितेषु मण्डलेषु अन्यतमम् इदं मण्डलम् ।निसर्गरम्यसागरतटानां, दुर्गाणां च प्राचुर्यात् प्रसिद्धमिदं मण्डलम् । छत्रपतिशिवाजीमहाराजेन निर्मापितः सिन्धुदुर्ग सागरकोटः आभरतं प्रसिद्धः । सिन्ध...
{ "source": "wikipedia" }
इदम् एरण्डसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । अस्य एरण्डस्य तैले “ग्लिसरैड्स्”, “रिसिनोल्लिक् आसिड्”, ओलिक् लिनोलिक्”, “स्टियारिक्” तथा “हैड्रोक्सि स्टियारिक्” इत्यादयः अंशाः भवन्ति । तथैव तस्मिन् तैले “रेसिन्” इत्यख्यः विषांशः अपि भवति । इदम् एरण्डसस्यम् आङ्ग्लभाषया अथवा इति उच्यते । हिन्दीभाषया“रेण्डी”, “एरण्...
{ "source": "wikipedia" }
एतत् काफीपेयम् अपि भारते वर्धमानस्य कस्यचित् सस्यविशेषस्य वैशिष्ट्यम् अस्ति । एतत् काफीपेयम् अपि सस्यजन्यः आहारपदार्थः । एतत् काफीपेयम् आङ्ग्लभाषायां इति उच्यते । काफीसस्यस्य फलनाम् अन्तः विद्यमानैः बीजैः एव काफीचूर्णं निर्मीयते । ततः तेन काफीचूर्णेन इदं काफीपेयं निर्मीयते । तत् पेयं सर्वदा उष्णं कदाचित् शीतलं चापि पी...
{ "source": "wikipedia" }
बोअ क्वोन् .
{ "source": "wikipedia" }
मकरसङ्क्रमणं भारतीयानां प्रमुखपर्वसु अन्यतमम् । अस्मात् दिनात् परमपवित्रस्य उत्तरायणकालस्य आरम्भः । इदं पर्व तिलपर्व इत्यपि निर्दिश्यते । तमिळुनाडुराज्ये पोङ्ग्ल इति वदन्ति । एतत् सूर्यस्य चलनसम्बद्धं पर्व । सूर्यस्य एकराशित: अन्यराशिं प्रतिप्रवेशदिनं सङ्क्रमणम् इति उच्यते । सौरमानानुसारं सूर्यस्य मेषादिद्वादशराशिं प्र...
{ "source": "wikipedia" }
महाकाव्यम् इति किञ्चन काव्यस्य लक्षणम्। किं काव्यं महाकाव्यम् उच्यते इत्यस्य परिमाणाय एतस्य लक्षणस्य उपयोगो भवति। साहित्यदर्पणादयेषु अनेकेषु ग्रन्थेषु महाकाव्यस्य लक्षणानि वर्णितानि सन्ति। महाकाव्येन अष्टाधिकसर्गेषु विभक्तेन भाव्यम् । अत्र हि एको नायकः सुरो वा क्षत्रियः, बहवो वा सद्वंशक्षत्रियाः भूपा नायकाः । नायकेन हि...
{ "source": "wikipedia" }
यलगूरु कर्णाटकराज्ये बिजापुरमण्डले कृष्णानदीतीरे विद्यमानं किञ्चन क्षेत्रम् । अत्र स्थितः सप्तग्रामाधिपतिः श्रीवायुपुत्रः हनुमान् यलगुरे एळूरेश यलगुरप्प इत्यपि प्रसिद्धः अस्ति । श्रीरामस्य आज्ञया हनुमान् अत्र स्थितवान् । हनुमतः मूर्तिः अष्टपादपरिमितोन्नता भव्या स्वयंव्यक्ता च अस्ति । अलङ्काररहितसमये स्वर्णालङ्कारभूषितस...
{ "source": "wikipedia" }
. , . . , . . . . {{ }} . - . : . 8 इत्येषु वर्गेऽस्मिन् अधो लिखिताः 8 उपवर्गाः सन्ति
{ "source": "wikipedia" }
जिम्नास्टिक्स् एका प्रसिद्धा दैहिकक्रीडा वर्तते । जिम्नास्टिक्स्-क्रीडा विभिन्नव्यायामशैली समूहः वर्तते । अस्मिन् व्यायामे निरुपकरणाः सोपकरणाः वा क्रियाः भवन्ति । प्राचीनकालात् एव नटाः कार्मणिकाः च ईदृशं व्यायामं प्रदर्शयन्ति । इमे व्यायामाः 1-समूहशः 2-व्यक्तिशः च क्रियन्ते किञ्च भूतले तथा साधन-विशेषसाहचर्येण भूतलात् ऊ...
{ "source": "wikipedia" }
भारतस्य बिहारराज्ये स्थितं किञ्चन मण्डलम् अस्ति भागलपुरमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति भागलपुरनगरम्।
{ "source": "wikipedia" }
पञ्जाबी आर्यभाषापरिवारस्य एका भाषा अस्ति। उत्तरभारते, पाकिस्ताने च जनाः अनया भाषया वदन्ति।
{ "source": "wikipedia" }
उज्जैनमण्डलम् /ˈʊʒʒɛɪəəəə/) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य उज्जैनविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति उज्जैन इति नगरम् । उज्जैनमण्डलस्य विस्तारः 6,091 चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे देवासमण्डलं, ...
{ "source": "wikipedia" }
इदं नारिकेलम् अपि भारते वर्धमानः सस्यजन्यः आहारपदार्थः । आङ्ग्लभाषायाम् एतत् नारिकेलं इति उच्यते । अस्य वैज्ञानिकं नाम इति । नारिकेलस्य फलं, तैलं, पुष्पं च उपयोगाय योग्यं भवति । नारिकेलस्य उपयोगः दक्षिणभारते अधिकतया क्रियते । तत्रापि कर्णाटकसदृशेषु राज्येषु नारिकेलं विना दिनं न चलति एव । सामान्यतया अत्र प्रतिदिनम् स...
{ "source": "wikipedia" }
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य त्रयोदशः श्लोकः । ततः, शङ्खाः, च, भेर्यः, च, पणवानकगोमुखाः । सहसा, एव, अभ्यहन्यन्त, सः, शब्दः, तुमुलः, अभवत् ॥ ततः शङ्खाः भेर्यः पणवानकगोमुखाः च सहसा एव अभ्यहन्यन्त । सः शब्दः तुमुलः अभवत् । तस्मिन् एव काले शङ्खानां धमनम्, भेरीणां ताडनम्, पणवानाम् आनकानां गोमुखानां च वा...
{ "source": "wikipedia" }
समुद्रगुप्त: भारतस्य सम्राट् आसीत्‌। सः चन्द्रगुप्तस्य पुत्रः आसीत्। तस्य अन्ये अग्रजाः अपि आसन् । परन्तु स एव पित्रा राज्यस्य रक्षणार्थं नियुक्त:। सः महान् राजा आसीत्। सः प्रथमम् अहिच्छत्रस्य राजानम् अच्युतम् अजयत्। ततः सः दक्षिणभारतस्य नृपान् जितवान्। ते नृपा: गुप्तनृपाणाम् अधिपत्यम् अङ्गीकृत्य उपायनानि समर्पितवन्त: ...
{ "source": "wikipedia" }
राजनाथसिंहः 2005तमवर्षस्य डिसेम्बरमासस्य 24 दिनाङ्कतः 2009तमवर्षस्य डिसेम्बरमासस्य 24दिनाङ्कपर्यन्तं तन्नाम चत्वारि वर्षाणि यावत् भारतीयजनतापक्षस्य अध्यक्षः आसीत् । एषः पुनश्च जनवरीमासस्य 23दिनाङ्के अध्यक्षरूपेण चितः अस्ति ।
{ "source": "wikipedia" }
वाग्भटः संस्कृतस्य एकः महान् अलङ्कारिकः आसीत् । एषः द्वितीयः वाग्भटः । एतस्य कालांशः 14 शताब्दः ।वाग्भटेन इति ग्रन्थाः लिखिताः ।
{ "source": "wikipedia" }
1087 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 •...
{ "source": "wikipedia" }
कर्णाटकस्य अष्टाविंशतिलोकसभाक्षेत्रेषु अन्यतमम् अस्ति बीदरलोकसभाक्षेत्रम्। अत्र अष्टविधानसभाक्षेत्राणि अन्तर्भवन्ति । तेषु अन्यतमम् अस्ति औरादविधानसभाक्षेत्रम्। औरादविधानसभाक्षेत्रं कर्णाटकस्य विधानसभाक्षेत्रेषु 52तमम् एतत् । औरादविधानसभाक्षेत्रं मण्डलदृष्ट्या अपि बीदरमण्डले अन्तर्भवति । निर्वाचनक्षेत्रदृष्ट्या अपि बीद...
{ "source": "wikipedia" }
लॉनसेसटन आस्ट्रेलिया देश्स्य एकः नगरं अस्ति । आस्ट्रेलिया एक: महाद्वीप: किञ्चन राष्‍ट्रं च अस्ति |
{ "source": "wikipedia" }
अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य अष्टमः श्लोकः । असत्यम् अप्रतिष्ठं ते जगदाहुः अनीश्वरम् अपरस्परसम्भूतं किम् अन्यत् कामहैतुकम् ॥ 8 ॥ ते जगत् असत्यम् अप्रतिम् अनीश्वरम् आहुः । अपरस्परसम्भूतं कामहैतुकम् अन्यत् किम् इति आहुः । ते जनाः वदन्ति - अस्मिन् लोके सत्यार्थप्रतिपादकाः वेदपुराणादयः न प्रमाणान...
{ "source": "wikipedia" }
कर्णाटकराज्यं निसर्गरमणीयः प्रकृतिसमृद्धं च अस्ति । अत्र पर्वताः नद्यः शद्वलाः वनानि च अधिकानि सन्ति । अतः सस्यसङ्कुलस्य सङ्ख्या अपि अधिका अस्ति । नास्ति मूलमनौषधम् इति वचनानुगुणम् ओषधयः वनस्पतयः चापि अधिकाः सन्ति । तेषु केषाञ्चन सस्यानां आवली दत्ता याः अनुबन्धान्विताः । अभिगम्यताम् । सुन्दरं सस्यम् वृक्षवाटिकाः नारिके...
{ "source": "wikipedia" }
डाङ्गमण्डलम् इत्येतत् गुजरातराज्ये विद्यमानं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति आहवा इति नगरम् । डाङ्गमण्डलस्य विस्तारः 1,764 चतुरस्रकिलोमीटर्मितः अस्ति । इदं मण्डलं गुजरातराज्यस्य दक्षिणभागे अस्ति । अस्य मण्डलस्य पूर्वे महाराष्ट्रराज्यं, पश्चिमे नवसारीमण्डलम्, उत्तरे तापीमण्डलं, दक्षिणे महाराष्ट्रराज...
{ "source": "wikipedia" }
सः विख्यातः वैज्ञानिकः।
{ "source": "wikipedia" }
23 जुलाई-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य द्विशताधिकचतुर्थं दिनम् । लिप्-वर्षानुगुणम् द्विशताधिकपञ्चमं दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय 161 दिनानि अवशिष्टानि ।
{ "source": "wikipedia" }
भरतदेश: ग्रामाणां दश:।अत्र कृषिकर्म एव प्रधान:।सः सकलस्य देशस्य अन्नदाता भवति।सः वृष्टयतपन् अविगणय्य क्षेत्रे आदिनं कर्य करोति। सः प्रतःकाले सुर्योदयात्पुर्वमेव शयनादुत्तिष्ठति।क्षेत्रं गच्छति।हलात् क्षेत्रं कर्षति।समये बिजानि वपति।क्षेत्रं पुत्रवत अहॊरात्रं रक्षति ।बीजाअनडकुरितानि सस्यनि जलेन सिञ्चति।सस्यसंवर्धने बधाक...
{ "source": "wikipedia" }
13 फरवरी-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य चतुश्चत्वारिंशत्तमं44) दिनम् । एतस्मात् दिनात् वर्षान्ताय 321 दिनानि अवशिष्टानि ।
{ "source": "wikipedia" }
चतुर्वेदसम्बन्धिताः उपनिषदः भवन्ति। एतासाम् अध्ययनेन समग्रस्य उपनिषत्प्रपञ्चस्य अध्ययनं भवति। एतासां भाष्यम् आदौ शङ्कराचार्येण रचितवान् आसीत्। समनन्तरं मध्वाचार्यः एव भाष्यं रचितवान् आसित्। एतासु दशोपनिषत्सु ऐतरेयोपनिषत् ऋग्वेदस्य भवति। बृहदारण्यकोपनिषत्, ईशावास्योपनिषत्, काठकोपनिषत्, तैत्तिरीयोपनिषदादयाः यजुर्वेदस्य।...
{ "source": "wikipedia" }
विहाय कामान्यः सर्वान् ) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः कामनादीनां त्यागस्य फलं शान्तिप्राप्तिः इति कथयति । पूर्वस्मिन् श्लोके कामनात्यागिनः शान्तिं प्राप्नुवन्ति, न तु कामिनः इत्युक्त्वा अत्र कामनायाः, ममतायाः, अहङ्कारस्य च त्यागिनः एव शान्तिं प्राप्नुवन्ति इति कथयति । भगवान् कथयति यत्, यः मनुष्यः सर्वासां कामनानां...
{ "source": "wikipedia" }
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य नवत्रिंशत्तमः श्लोकः । यत् च अपि सर्वभूतानां बीजं तत् अहम् अर्जुन न तत् अस्ति विना यत् स्यात् मया भूतं चराचरम् ॥ 39 ॥ अर्जुन ! सर्वभूतानां यत् बीजं तत् अपि अहम् । मया विना चराचरं भूतं यत् स्यात् तत् नास्ति । अर्जुन ! सर्वभूतानां यत् प्ररोहकारणम् अस्ति तत् अपि अहम् । मया विरहि...
{ "source": "wikipedia" }
पर्सामण्डलम् नेपालदेशस्यनारायणी अञ्चले अवस्थितं एकं मण्डलं वर्तते ।
{ "source": "wikipedia" }
पृष्ठ्म् इदं पाण्डीचेरीकेन्द्रशासितप्रदेशस्य विषये अस्ति । पाण्डीचेरीनगरस्य विषये ज्ञातुं पाण्डीचेरी भारतस्य कश्चन केन्द्रशासित: प्रदेशः अस्ति । 2006 तमस्य वर्षस्य सप्टम्बर000मासे अस्य नाम पुदुचेरी इति परिवर्तितम् । तमिळुभाषायां पुदुचेरी इत्यस्य अर्थः नूतनः ग्रामः इति ।पाण्डिचेरी सागरतीरे स्थितं किञ्चन सुन्दरनगर अस्ति ...
{ "source": "wikipedia" }
कोलासिबमण्डलं मिजोरामराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं कोलासिब इत्येतन्नगरम् । मिजोरामराज्ये उत्तरविभागे विद्यमानमिदं मण्डलम् । अतः यातायातदृष्ट्या अस्य स्थानं महत्त्वपूर्णम् । कोलासिबमण्डलस्य विस्तारः 1,372 चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य उत्तर-वायव्यदिशोः अस्सामराज्यम् अस्ति । पूर्वदिशि चम्पाय...
{ "source": "wikipedia" }
एतत् कदलीकाण्डम् अपि कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् कदलीकाण्डम् आङ्ग्लभाषायां इति उच्यते । एतत् कदलीकाण्डं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । ‎
{ "source": "wikipedia" }
चित्तौडगढमण्डलं राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रमस्ति चित्तौडगढनामकं नगरम् । चित्तौडगढमण्डलस्य विस्तारः 10,856 चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे उदयपुरमण्डलं, राजसमन्दमण्डलं च, पश्चिमे मध्यप्रदेशराज्यम्, उत्तरे भीलवाडामण्डलं, दक्षिणे प्रतापगढमण्डलम् अस्ति । 2011 जनगणनान...
{ "source": "wikipedia" }
तमिळनाडुराज्यम् भारतस्‍य दक्षिणभागे विद्यमानं राज्यम् अस्‍ति । भारतदेशे सुप्रसिद्धं तमिळुनाडुराज्यं विस्तारदृष्ट्या जनसङ्ख्यादृष्ट्या च एकादशे स्थाने अस्ति । सहस्रकिलोमीटरविस्तृतः सागरतीरप्रदेशः अस्ति । बङ्गालोपसागरतीरे, दक्षिणभागे हिन्दुमहासागरतीरे च अनेकानि देवस्थानानि तीर्थक्षेत्राणि च सन्ति । पश्चिमे अरब्बीसमुद्रः ...
{ "source": "wikipedia" }
इह खलु जगति अर्थानां प्रमित्यै प्रत्यक्षम्, अनुमानम्, उपमानम्, शब्द इत्यादीनि बहूनि प्रमाणानि अङ्गीकृतानि सन्ति शास्त्रकारै: । तत्र शब्द इति प्रमाणं यदि न स्यात् तर्हि सर्वं जगदिदम् अन्धे तमसि निमज्जेत्, तदाह दण्डी एतादृश: शब्द: यदा श्रूयते तदा नियमेन कश्चिदर्थ: प्रतीयते । यदा च कश्चिदर्थ: प्रतीयते तदा नियमेन तद्वाचक:...
{ "source": "wikipedia" }
{ "source": "wikipedia" }
1762 तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् । अस्मिन् वर्षे विलियं हड्सन् नामकः सस्यविज्ञानी सस्यानां विषये "फ्लोरा आङ्ग्लिका" इत्येतां कृतिम् अरचयत् । • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33...
{ "source": "wikipedia" }
बाङ्ग्लादेशः तु आधिकारिकरूपेण "जनानां बाङ्ग्लादेश-गणतन्त्रम्" इति अभिहितः। स तु दक्षिणैशियायां स्थितम् एकं सम्प्रभु राज्यम्। एतस्य सीमायां भारतं, बर्मादेशः च। दक्षिणे च बङ्गालखातः। राजधानी एतस्य ढाका इति मध्य-बाङ्ग्लादेशस्थं नगरम्। बाङ्ग्लादेशस्य आधिकारिकी राज्यभाषाऽस्ति बङ्गाली। बाङ्गलादेशस्य संस्कृतनाम वङ्गदेश अस्ति ...
{ "source": "wikipedia" }
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य एकचतुरिंशत्तमः श्लोकः । अधर्माभिभवात्, कृष्ण, प्रदुष्यन्ति, कुलस्त्रियः । स्त्रीषु, दुष्टासु, वार्ष्णेय, जायते, वर्णसङ्करः ॥ कृष्ण ! अधर्माभिभवात् कुलस्त्रियः प्रदुष्यन्ति । वार्ष्णेय ! स्त्रीषु दुष्टासु वर्णसङ्करः जायते । अधर्मः यदि कुलानि आवृणोति तर्हि कुलस्त्रियः प...
{ "source": "wikipedia" }
735 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • ...
{ "source": "wikipedia" }
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य सप्तदशः श्लोकः । काश्यः, च, परमेष्वासः, शिखण्डी, च, महारथः । धृष्टद्युम्नः, विराटः, च, सात्यकिः, च, अपराजितः ॥ अस्य श्लोकस्य अन्वयः अग्रिमे श्लोके मिलित्वा दत्तं वर्तते । अस्य श्लोकस्य तात्पर्यमपि अग्रिमे श्लोके एव वर्तते । ://....
{ "source": "wikipedia" }
26 दिसम्बर-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य त्रिशताधिकषष्टितमं दिनम् । लिप्-वर्षानुगुणम् त्रिशताधिकैकषष्टितमं दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय 5 दिनानि अवशिष्टानि ।
{ "source": "wikipedia" }
கடலூர் மாவட்டம் 11°45′0″ उत्तरदिक् 79°45′0″ पूर्वदिक् / 11.75000°उत्तरदिक् 79.75000°पूर्वदिक् / 11.75000; 79.75000 • सान्द्रता • 702 /किमी2 7 • • • 86.84%%• 71.20%% तापमानम्• ग्रीष्मकालः• शीतकालः • 41 °से • 20 °से कडलूरुमण्डलम् दक्षिणभारतस्य तमिळ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । कडलूरुनगरम् अस्य मण्डलस्य केन्द...
{ "source": "wikipedia" }
1012 ग्रेगोरी कैलंडर स्य एकम् अधिवर्षम् अस्ति । अस्मिन् वर्षे तण्डुलाः प्रथमवारं चीनादेशं प्रविष्टवन्तः । अनन्तरं तण्डुलाः एव तत्रत्यः प्रमुखः आहारात्मकः फलोदयः अभवत् । • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • ...
{ "source": "wikipedia" }
प्रतिवर्षं श्रावणपूर्णिमायां संस्कृतदिनं परिपाल्यते। एतत् विश्वसंस्कृतदिनम् अथवा विश्वसंस्कृतदिवसः भारतसर्वकारः यूनेस्को संस्था च मिलित्वा आयोजयन्ति।
{ "source": "wikipedia" }
{ "source": "wikipedia" }
एकः विख्यात राजनीतिज्ञः अस्ति।
{ "source": "wikipedia" }
वेदान्तसूत्रतद्भाष्यतद्व्याख्याश्च मुमुक्षून् सम्यग्विचारसरण्यां नीत्वा तत्फलभूताम् अपरोक्षावगतिं च प्रापयन्तीत्यत्र नास्ति संशयलेशोऽपि । आद्याधिकरणगतैकसूत्रम् अथातो ब्रह्मजिज्ञासा इति यत्तावत्तद्भाष्यद्वारा अनुबन्धचतुष्टयप्रकाशकत्वेन तत्सम्बन्धिविचारबाहुल्येन द्योतते । भाष्यरत्नप्रभानामकतद्भाष्यटीकायां यद्विचारः प्रवृ...
{ "source": "wikipedia" }
কলকাতা কলকাতা কলকাতা 22°34′11″उत्तरदिक् 88°22′11″पूर्वदिक् / 22.5697°उत्तरदिक् 88.3697°पूर्वदिक् / 22.5697; 88.3697 • सान्द्रता• महानगरम् • 24,252 /किमी2 • 1,41,12,536 कोलकाता /ʊˈɑːɑː/ भारतस्य पूर्वाञ्चलीयस्य पश्चिमवङ्गराज्यस्य राजधानी, प्रधानवानिज्यकेन्द्रं तथा वृहत्तमनगरम् । हुगलीनद्याः पूर्वतीरे अवस्थिते नगरेऽस्मिन्...
{ "source": "wikipedia" }
यदृच्छया चोपपन्नम् ) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः स्वधर्मणः सौभाग्यं बोधयति । पूर्वस्मिन् श्लोके भगवान् उपस्थितस्य युद्धरूपिणः धर्मस्य पालनं कर्तुम् उक्तवान्, अत्र सः स्वधर्मं भाग्यशालिनः क्षत्रियाः प्राप्नुवन्ति इति कथयति । सः वदति यद्, यदृच्छया प्राप्तं युद्धं स्वर्गस्य अपिहितं द्वारम् अस्ति । हे पृथानन्दन ! ते ...
{ "source": "wikipedia" }
नीतिशतकम् इत्येषः भर्तृहरिणा रचितः ग्रन्थः । अस्मिन् 100 श्लोकाः विद्यन्ते । अयं कविः गृहस्थानां प्रापञ्चिकजनानां च प्रायोगिकमार्गदर्शकः वर्तते । अस्मिन् विवेकः, हितचिन्तनम्, ज्ञानसाधनम्, शौर्यधैर्यविवरणम्, शान्तत्वम्, सौशील्यम् इत्यादिषु विषयेषु बोधनं दृश्यते । अत्र बलवतः धनिकाञ्च उद्दिश्य विनयः दानशीलता च अभ्यसनीया इ...
{ "source": "wikipedia" }
मत्स्यः कूर्मो वराहश्च नारसिंहोऽथ वामनः ।रामो रामश्च रामश्च कृष्णः कल्किश्च ते दशः ॥ दशावताराः के के- प्रथम पञ्चावताराः देहविकासपरिचायकाः अग्रे पञ्चवताराः संस्कृतिविकासपरिचायकाः | वैज्ञानिकरुपेण चिन्तयामः तर्हि एषा व्याख्या सत्यं दृश्यते |
{ "source": "wikipedia" }
भावनगरमण्डलम् इत्येतत् गुजरातराज्ये स्थितं किञ्चन प्रमुखं मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति भावनगरम् इति नगरम् । भावनगरमण्डलस्य विस्तारः 9,900 चतुरस्रकिलोमीटर्मितः अस्ति । इदं मण्डलं गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रे वर्तते । अरब्बीसमुद्रे विद्यमानस्य 'गल्फ् आफ् खम्भात्' इत्यस्य समीपे इदं मण्डलम्...
{ "source": "wikipedia" }
16 सितम्बर-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य द्विशताधिकनवपञ्चाशत्तमं दिनम् । लिप्-वर्षानुगुणम् द्विशताधिकषष्टितमं दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय 106 दिनानि अवशिष्टानि ।
{ "source": "wikipedia" }
एतत् शक्तिपीठं भारतस्य राजास्थानराज्ये अजमेरमण्डले विद्यमानस्य पुष्करस्य समीपे गायत्रीगिरौ अस्ति। अजमेरतः वायव्यदिशि 11 की.मी. दूरे अस्ति । एतत् क्षेत्रं प्रति बहुविधवाहनानां व्यवस्था अस्ति । समीपस्थं विमाननिस्थानकं जयपुरम् । पुष्करक्षेत्रम् उष्ट्राणां धावनस्पर्धानिमित्तं प्रसिद्धम् । एषः कार्यक्रमः वार्षिकोत्सवरूपेण आ...
{ "source": "wikipedia" }
हिन्दुधर्मः • इतिहासः त्रिमूर्तयःब्रह्मा • विष्णुः • महेश्वरः अन्यदेवताःसरस्वती · लक्ष्मीः · पार्वतीशक्तिः · दुर्गा · कालीगणेशः · सुब्रह्मण्यः · अय्यप्पःरामः · कृष्णःहनूमान्प्रजापतिः · रुद्रःइन्द्रः · अग्निः · वायुः · निॠतिःभूमिः · वरुणः · कुबेरः · ईशानः ब्रह्म · ॐ · ईश्वरःआत्मा · मायाकर्म · संस्काराःपु्रुार्थाःधर्मः ·...
{ "source": "wikipedia" }
820 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः अधिवर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 •...
{ "source": "wikipedia" }
फलकम्: कर्कटराशिः द्वादशराशिषु अन्यतमः । द्वादश राशयः मेषराशिः, वृषभराशिः, मिथुनराशिः, कर्कटराशिः, सिंहराशिः, कन्यारशिः, तुलाराशिः, वृश्चिकराशिः, धनूराशिः, मकरराशिः, कुम्भराशिः, मीनराशिः च सन्ति । कर्कटः जले सञ्चरति । सर्वदा जलतले निवसन् अयं कर्कटः जलं प्रशान्तं यदा भवति तदा दृश्यते । लघुः शब्दः श्रुतः चेदपि अधः पलायत...
{ "source": "wikipedia" }
तम्लुक पूर्व मेदिनिपुरमण्डलस्य केन्द्रम् अस्ति।
{ "source": "wikipedia" }
पश्चिमत्रिपुरामण्डलं त्रिपुराराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रम् आगरतला इत्येतन्नगरम् । आगरतला इत्येतन्नगरं त्रिपुराराज्यस्य अपि केन्द्रं विद्यते । पश्चिमत्रिपुरामण्डलस्य विस्तारः 10,486 चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पश्चिमोत्तरदिशि बाङ्गलादेशः, पूर्वदिशि उत्तरत्रिपुरामण्डलं, दक्षिणदिशि दक्षिणत...
{ "source": "wikipedia" }
मम माता देवता मम माता देवता ॥ अतिसरला, मयि मृदुला गृह कुशला, सा अतुला ॥1॥ पाययति दुग्धं, भोजयति भक्तं लालयति नित्यं, तोषयति चित्तम् ॥2॥ सायङ्काले नीराजयति पाठयति च मां शुभङ्करोति शुभं कुरु त्वं कल्याणम् आरोग्यं धनसम्पद: । दुष्टबुद्धिविनाशाय दीपज्योतिर्नमोऽस्तु ते ॥ पाठयति च मां शुभङ्ककरोति ॥3॥ रात्रौ अङ्के मां स्वापयत...
{ "source": "wikipedia" }