text
stringlengths
0
31.6M
metadata
dict
- नूर्-उद्-दिन् सलीम् जहाँगीर् एकःसहस्र एवः पञ्चात् तस्य मृत्यौ मुग़ल साम्राज्यस्य सम्राडासीत। सः अकबरस्य तृतीयः अग्रिमः जीवितपुत्रः च आसीत्। अकबरस्य यमलपुत्रौ, हसन् हुसैन् च, शैशवे अम्रियताम्। जहाँगीरस्य माता हर्काबाई, एका अम्बेरस्य राजपूत् नृपाङ्गना आसीत् । जहाँगीरः बहुरार्थनाभ्यः लब्धः पुत्रः आसीत्। एतद उक्त तत् अक...
{ "source": "wikipedia" }
सागरमण्डलम् /ˈɑːɡəəəəə/) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य सागरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति सागर इति नगरम् । सागरमण्डलस्य विस्तारः 10,252 चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे दमोहमण्डलं, पश्चिमे विद...
{ "source": "wikipedia" }
मल्हारताल: मात्रा: 8 1/2 करताला: - 1,3,7,9 खण्डा:- 5 अक्षराणि –धिंऽ तिरकिट ।धिं ना । तू ना।कत् ता। धिं धिं ना ।
{ "source": "wikipedia" }
स्वामी दयानन्दसरस्वती महान् वेदवेत्ता, समाजपरिवर्तकः, आर्यसमाजस्य स्थापकः च । वैदेशिकैः आक्रान्ते भारतवर्षे सः सर्वप्रथमतः स्वतन्त्रतायाः आवश्यकताम् अवगतवान् । स्वातन्त्र्यस्य प्राप्त्यर्थं सः प्रयासम् आरब्धवान् । यदा भारते वेदानां विषये महत् अज्ञानम्, उपेक्षा, अन्यथा अर्थग्रहणं च आसीत्, तदा सः चतुर्णाम् अपि वेदानाम् ब...
{ "source": "wikipedia" }
कर्णाटकस्य अष्टाविंशतिलोकसभाक्षेत्रेषु अन्यतमम् अस्ति हासनलोकसभाक्षेत्रम्। अत्र अष्टविधानसभाक्षेत्राणि अन्तर्भवन्ति । तेषु अन्यतमम् अस्ति श्रवणबेळगोळविधानसभाक्षेत्रम्। कर्णाटके विधानसभाक्षेत्रेषु अस्य सङ्ख्या 193। श्रवणबेळगोळविधानसभाक्षेत्रं मण्डलदृष्ट्या हासनमण्डले अन्तर्भवति । निर्वाचनक्षेत्रदृष्ट्या हासनलोकसभाक्षेत्...
{ "source": "wikipedia" }
विशिष्टाद्वैतवेदान्तः त्रिषु वेदान्तेषु अन्यतमः । रामानुजाचार्यः अस्य प्रवर्तकः विद्यते । अस्य सिद्धान्तस्य आधाराभूतानि प्रस्थानत्रयाणि । अतीवप्राचीनानाम् उपनिषद्विचारधाराणाम् अनुगुण्येन अयं सिद्धान्तः ’चिदचिद्विशिष्टम् एकं ब्रह्मतत्वम्’ अस्ति इति प्रतिपादितः । अस्मिन् सिद्धान्ते जीवात्मानां प्रकृतेः च सतत्वं स्वीकृतम...
{ "source": "wikipedia" }
इन्दौर /ˈɪɔːə/) इत्येतत् महानगरं मध्यप्रदेशराज्यस्य इन्दौरविभागे अन्तर्गतस्य इन्दौरमण्डलस्य केन्द्रम् अस्ति । इन्दौर-महानगरं मध्यप्रदेशराज्यस्य प्रमुखमहानगरेषु अन्यतमं वर्तते । इदं नगरं मध्यप्रदेशस्य व्यावसायिकं केन्द्रमपि विद्यते । वास्तविकतया अस्य नगरस्य मुख्यसंस्थापकवंशजाः इदानीमपि इन्दौर-महानगरे निवसन्ति । इदं नगरम...
{ "source": "wikipedia" }
स्ट्यान्फोर्डविश्वविद्यालयः ) भारतस्य कश्चन प्रसिद्धः उद्यमपतिः । सः वाणिज्योद्यमी मानवतावादी च । विप्रो इति तन्त्रांशोद्यमसंस्थायाः वर्तमानः अध्यक्षः । गतेभ्यः चत्वारिंशद्ववर्षेभ्यः विप्रोसंस्थायां विविधस्तरेषु अभिवृद्धिदृष्ट्या मार्गदर्शनं कुर्वाणः अयं भारतस्य प्रसिद्धः उद्यमी । फोरस् इति पत्रिकायाः लेखानुसारेण भारत...
{ "source": "wikipedia" }
अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य चतुर्दशः श्लोकः । सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् असक्तं सर्वभृत् च एव निर्गुणं गुणभोक्तृ च ॥ 14 ॥ श्लोकसङ्ख्या 17 द्रष्टव्यः । श्लोकसङ्ख्या 17 द्रष्टव्यः । श्लोकसङ्ख्या 17 द्रष्टव्यः । ब्रह्मणः लक्षणम् श्लोकचतुष्टेन मिलित्वा उच्यते । परस्परश्ल...
{ "source": "wikipedia" }
343 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • ...
{ "source": "wikipedia" }
मैसूरुनगरं कर्णाटकप्रान्ते स्थितं किञ्चन प्रमुखं नगरम् अस्ति । कर्णाटकस्य सांस्कृतिकराजधानी इति प्रसिद्धम् अस्ति ।मैसूरुनगरम् सागतस्तरतः 2525 पादपरिमितोन्नते स्थले अस्ति । उत्तमं वातावरणयुक्तं वासयोग्यं च अस्ति । पूर्वम् एतत् लघु नगरम् ऐतिहासिकं प्रशासनिककेन्द्रं च आसीत् । इदानीं महानगरम् इति ख्यातमस्ति । मैसूरु ओडेयरव...
{ "source": "wikipedia" }
बालावस्था मनुष्यस्य जीवितकाले प्रमुखा इति उच्यते । सः कालः मनुष्यस्य भविष्यस्य बीजरूपम् । बहूनां महनुभावानां बाल्यजीवनं क्लेशमयं दृश्यते । परन्तु ते सर्वान् क्लेशान् अनुभूय परिहृत्य वा जीवनसङ्ग्रामे यशः प्राप्नुवन्ति । तेषु डा ॥ अम्बेडकरमहोदयः अपि अन्यतमः ।तस्य बाल्यं दुःखमयम् आसीत् । तथापि सः मानवसमुदाये एव उच्चस्थानं...
{ "source": "wikipedia" }
पुणे भारतदेशस्य महाराष्ट्रराज्ये किञ्चन बृहत् नगरम् अस्ति । पुणे नगरस्य पुरातनं नाम पुण्यपत्तनम् इति अस्ति।पुणे पुण्यपट्टनम् इति प्रसिद्धं पुणेनगरं शिवाजीमहाराजस्य पितामहाय पारितोषिकरुपेणागतम् आसीत् । ख्रिस्ताब्दे 1599 तमे वर्षे एव एतस्य महत्वपूर्णं स्थानम् आसीत् । क्रिस्ताब्दे 1750 तः 1817 पर्यन्त पेश्वेराज्ञां राजधान...
{ "source": "wikipedia" }
ललितपुरमण्डलम् नेपालदेशस्य बागमती अञ्चले अवस्थितं एकं मण्डलं वर्तते ।
{ "source": "wikipedia" }
379 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • ...
{ "source": "wikipedia" }
ओडिशाराज्यं भारतस्य आग्नेयतीरे विद्यमानं राज्यम् । इदम् ओडिश्शा इत्यपि निर्दिश्यते । प्राचीनकाले कळिङ्गम् इति यत् प्रसिद्धम् आसीत् तस्य एव आधुनिकं नाम अस्ति ओरिस्सा इति । ब्रिटिश्-इण्डियाशासनस्य आधीन्ये इदं 1936 तमस्य वर्षस्य एप्रिल्मासस्य 1 दिनाङ्के राज्यत्वम् आप्नोत् । ओरियाभाषाभाषिभिः युक्तं राज्यमिदम् । अतः एप्रिल...
{ "source": "wikipedia" }
राजेन्द्रकुमारः पचौरिवर्यः क्रि.श.2002तमवर्षात् इण्टर्गवर्नमेण्टल् प्यानल् आन् क्लैमेट् चेञ्ज् इति संस्थायाः अध्यक्षः सन् सेवाम् अकरोत् । अस्य अधिकारावधौ नैके विवादाः सञ्जातः । इति प्रसिद्धसंस्थायाः भारते संशोधनस्य कार्यनीतेः च महानिदेशकः अभवत् । अपि च विश्वविद्यालयस्य कुलपतिः सन् सेवाम् अकरोत् । न्याषनल् अग्रो फौण्ड...
{ "source": "wikipedia" }
दादर नागर हवेली च भारतस्य कश्चन केन्द्रशासितप्रदेशः अस्ति। एषः पश्चिमतटे गुजरातराज्यस्य समीपे भवति।क्रिस्ताब्दस्य 1954 पर्यन्तम् एषः प्रदेशः पोर्तुगालदेशीयानां प्रशासने आसीत् । इदानीं भारतसर्वकाराधीनः अस्ति । अस्य विस्तारः 491 चतुरस्र कि.मी । सम्पूर्णप्रदेशः एव सुन्दरम् उद्यानमिवास्ति । उत्तमवाहनमार्गः अस्ति । मार्गपाश...
{ "source": "wikipedia" }
तानसेः अथवा मियां तानसेनः वा रामतनु पाण्डेयः हिन्दुस्तानीशास्त्रीयसङ्गीतस्य महान् ज्ञानी । अकबरस्य आस्थानस्य नवरत्नेषु अन्यतमः इत्यपि प्रथितः । सङ्गीतविदुषः तानसेनस्य ग्वालियर् नगरस्य विषये वचनमेकम् अस्ति । अत्र बाला क्रन्दन्ति चेत् रागः श्रूयते, शिलाखण्डः लुण्ठति चेत् तालः श्रूयते इति । अनेन नगरेण प्राचीनकालात् अद्यपर...
{ "source": "wikipedia" }
अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य द्वाविंशतितमः श्लोकः । एतैः विमुक्तः कौन्तेय तमोद्वारैः त्रिभिः नरः आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥ कौन्तेय ! तमोद्वारैः एतैः त्रिभिः विमुक्तः नरः आत्मनः श्रेयः आचरति । ततः परां गतिं याति । अर्जुन ! नरकद्वारैः एतैः कामादिभिः त्रिभिः विवर्जितः मानवः स्वस...
{ "source": "wikipedia" }
नागौरमण्डलं राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति नागौरनामकं नगरम् । नागौरमण्डलस्य विस्तारः 17718 चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे जयपुरमण्डलं, पश्चिमे जोधपुरमण्डलम्, उत्तरे बीकानेरमण्डलं, चुरूमण्डलं, सीकरमण्डलं च, दक्षिणे अजमेरमण्डलं, पालीमण्डलं, जोधपुरमण्डलं च अस्ति । अस्म...
{ "source": "wikipedia" }
{ "source": "wikipedia" }
बाली द्वीपं इन्दोनेशिया देशस्य प्रान्तम् अस्ति। अस्य आगमं हिन्दु धर्मः। अस्य राजधानी देनपसार अस्ति। यत्र देशदेशान्तरेभ्यः पर्यटनयात्रिणः तीर्थयात्रिणः च आगत्य दर्शनं कृत्वा आत्मनः कृतार्थान् मन्यते।
{ "source": "wikipedia" }
1651 तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् । अस्मिन् वर्षे फ्रान्स्-देशीयः जान् पेकेट् नामकः अङ्गरचनाविज्ञानी "लाक्टियाल्"नादीनां, "कैल्"रसस्य च अध्ययनं कृत्वा "एक्सपरिमेण्ट् नोवा अनटामिक्" इत्याख्यां कृतिम् अरचयत् । • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 2...
{ "source": "wikipedia" }
एल-साल्वाडोर उत्तर-अमेरिका-महाद्वीपे मध्यक्षेत्रे ‍देश: अस्‍ति.
{ "source": "wikipedia" }
अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य नवत्रिंशत्तमः श्लोकः । श्रद्धावान् लभते ज्ञानं तत्परः संयतेन्द्रियः ज्ञानं लब्ध्वा परां शान्तिम् अचिरेण अधिगच्छति ॥ 39 ॥ संयतेन्द्रियः तत्परः श्रद्धावान् ज्ञानं लभते । ज्ञानं लब्ध्वा अचिरेण परां शान्तिम् अधिगच्छति । ज्ञानमार्गे आसक्तः श्रद्धावान् च जितेन्द्रियः आत...
{ "source": "wikipedia" }
1859 तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।
{ "source": "wikipedia" }
सः विख्यातः वैज्ञानिकः।
{ "source": "wikipedia" }
कर्णाटकराज्ये किञ्चन प्रमुखं मण्डलम् अस्ति बेळगावीमण्डलम् अस्य मण्डलस्य केन्द्रम् अस्ति बेळगावी नगरम् । अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तेषु अन्यतमम् अस्ति चिक्कोडी-उपमण्डलम् । एतत् उपमण्डलं परितः पर्वताः सन्ति । कर्णाटक-महाराष्ट्रयोः सीमाभागे अस्ति । मण्डलस्तरीयाः सर्वविधकार्यालयाः अत्र सन्ति । तथापि मण्डलत्वेन ए...
{ "source": "wikipedia" }
शल्यचिकित्सा क्षेत्र अस्ति।
{ "source": "wikipedia" }
बौद्धधर्मः भगवता बुद्धेन बौद्धदर्शनं प्रवर्तितम्। भारतीयशास्त्राधारेषु बौद्धदर्शनस्य प्रभावः विशेषतः दृश्यते। बौद्धमूलग्रन्थाः भारते लुप्तप्रायाः सन्ति। विदेशीयपण्डितानां संशोधनस्य फलतः इदानीं केचन् ग्रन्थाः दृश्यन्ते। भगवतः बुद्धस्य अनन्तरं बौद्धेषु बह्व्य: शाखाः उत्पन्नाः। ताश्च चतस्रः प्राधान्येन - वैभाषिकाः, सौत्...
{ "source": "wikipedia" }
वक्रासनं योगासनस्य एकम् आसनमस्ति ।
{ "source": "wikipedia" }
भारतस्य राजधानी अस्ति नवदेहली । एषः भागः केन्द्रशासिते देहलीप्रदेशे अन्तर्भवति स्म । किन्तु इदानीं देहल्याः भूभागः राज्यत्वेन परिग्ण्यते । एतत् राज्यं नवमण्डलैः विभक्तम् अस्ति । एतेषु नवसु मण्डलेषु अन्यतमम् अस्ति नवदेहलीमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति कन्नाट् प्लेस् ।
{ "source": "wikipedia" }
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य पञ्चदशः श्लोकः । स्वयम् एव आत्मना आत्मानं वेत्थ त्वं पुरुषोत्तम भूतभावन भूतेश देवदेव जगत्पते ॥ 15 ॥ पुरुषोत्तम भूतभावन भूतेश देवदेव जगत्पते ! त्वं स्वयम् एव आत्मना आत्मानं वेत्थ । पुरुषश्रे भूतोत्पादक भूतप्रभो देवाधिदेव जगदीश ! भवान् स्वयम् एव आत्मानं जानाति, नान्ये ।
{ "source": "wikipedia" }
यमकभारतं महाभारताधारितः ग्रन्थः भवति। अस्य ग्रन्थस्य रचयिता श्रीमध्वाचार्यः भवति। श्लोकरूपात्मकः ग्रन्थः भवति। 81 श्लोकाः सन्ति। अत्र कश्चन विशेषः अस्ति। महाभारतम् अष्टादशसु पर्वसु विभक्तमस्ति। अस्मिन् ग्रन्थे 81 श्लोकाः सन्ति। यमकालङ्कारे श्लोकाः रचिताः इत्यतः यमकभारतम् इत्येव अस्य नाम। अस्मिन् ग्रन्थे कृष्णकथां सम्यक...
{ "source": "wikipedia" }
रेस 2008 तमे वर्षे अब्बास-मस्तानदिगदर्शीत हिन्दीभाषाचलच्चित्रम्। अस्य चित्रस्य नायकः सैफ अली खान, नायिका बिपाशा बसु चास्ति। अक्षय खन्ना, कैटरीना कैफ, अनिल कपूर, समीरा रेड्डी, दिलीप ताहिल, जॉनी लीवर च अन्य प्रमुख कलाकाराः सन्ति।
{ "source": "wikipedia" }
शृङ्गारप्रकाशः भोजराजेन लिखितः । अलङ्कारग्रन्थेषु अतीवबृहत्तमः ग्रन्थः शृङ्गारप्रकाशः । अस्मिन् शृङ्गारप्रकाशे अलङ्काराः, नाट्यांशाः सन्ति । शृङ्गारः एकः एव रसः इति ग्रन्थोऽयम् प्रतिपादयति । बहवो व्याकरणविषयाः सोदाहरणैः विशदीकृताः।
{ "source": "wikipedia" }
15°56′30″ उत्तरदिक् 77°25′41″ पूर्वदिक् / 15.94167°उत्तरदिक् 77.42806°पूर्वदिक् / 15.94167; 77.42806 मन्त्रालयं तुङ्गभद्रानदीतीरे श्री राघवेन्द्रस्वामिनः समाधिस्थलम् अतीव प्रसिद्धम् अस्ति । कर्नूलुमण्डले स्थितम् एतत् क्षेत्रम् आगत्य जनाः श्री राघवेन्द्रस्वामिनः वृन्दावनदर्शनं कुर्वन्ति । तुङ्गभद्रानदीस्नानं च कुर्वन्ति...
{ "source": "wikipedia" }
एम्. जी. आर्., , , ,, , मारुदुर् गोपालन् रामचन्द्रन् अथवा एम्.जि.आर्. तमिळ्-चलच्चित्रस्य प्रसिद्धः नटः, निर्माता, निर्देशकश्च आसीत् । एषः अनन्तरं राजनीतिक्षेत्रे प्रविष्टवान् आसीत् तथा तमिऴनाडुराज्यस्य मुख्यमन्त्री अपि अभूत् । एम्.जि.रामचन्द्रन् 1977 तमवर्षतः 1987 वर्षपर्यन्तं तमिऴनाडुराज्यस्य मुख्यमन्त्री आसीत् । राम...
{ "source": "wikipedia" }
सः अयोध्याकुलस्य राजा आसीत्।
{ "source": "wikipedia" }
मैसूरुनगरं कर्णाटकप्रान्ते स्थितं किञ्चन प्रमुखं नगरम् अस्ति । कर्णाटकस्य सांस्कृतिकराजधानी इति प्रसिद्धम् अस्ति ।मैसूरुनगरम् सागतस्तरतः 2525 पादपरिमितोन्नते स्थले अस्ति । उत्तमं वातावरणयुक्तं वासयोग्यं च अस्ति । पूर्वम् एतत् लघु नगरम् ऐतिहासिकं प्रशासनिककेन्द्रं च आसीत् । इदानीं महानगरम् इति ख्यातमस्ति । मैसूरु ओडेयरव...
{ "source": "wikipedia" }
931 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • ...
{ "source": "wikipedia" }
फेल्गुनदी प्रवहति मल्लिजनस्य 320 किलोमिटारः लीलानः एवं महनायां द्वे वृहत् पर्वतः स्तः, अत्र जलप्रवाहति 270 मिटारः प्रसस्तरुपे प्रसारितः भवति | फाल्गुः नाम उल्लेखः अस्ति| यत्र उभौ उत्तरगोयानगरस्य उत्तरे प्रवाहितः भवति, तत्र 420मीटारोऽधिकः प्रसरति| अत्र फाल्गुनदी सौन्दर्यपूर्णवक्ररुपेनण प्रवहति| तस्याः वामपश्वे तीरे नेत्...
{ "source": "wikipedia" }
राजीव श्रीनिवासन् भारतस्य प्रमुख पत्रकारः अस्ति। सः केरल प्रदेशे जातः। ""
{ "source": "wikipedia" }
कोल्हापुरमण्डलं महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं कोल्हापुर इत्येतन्नगरम् । कोल्हापुरनगरस्य रचना छत्रपतिना शाहु-महाराजेन कृता । नैसर्गिकस्रोतोभिः एषा भूमिः प्रफुल्लिता । इदानीं सहकारिक्षेत्रप्रगतिवशात् अपि कोल्हपुरमण्डलं सुप्रसिद्धम् । सांस्कृतिकपरम्परायाः द्योतकम् अस्ति कोल्हापुरमण्डलम् । क...
{ "source": "wikipedia" }
जेफर्सन्-नगरम् संयुक्त राज्‍य अमेरिका देशस्‍य नगरः अस्‍ति। अलाबामा | अलास्का | आरिज़ोना | अर्कान्स | कालिफ़ोर्निया | कोलोराडो | कनेक्टिकट् | डेलावेर् | फ्लोरिडा | जार्जिया | हवाई | ऐडहो | इलिनाई | इन्डियाना | अयोवा | केन्‍सास | केन्‍टकी | लूइसियाना | मेन | मेरील्यान्ड् | मासचुसेट्‍स | मिशिगन | मिनेसोटा | मिसिसिपी | मिस...
{ "source": "wikipedia" }
अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य द्वितीयः श्लोकः । ज्ञानं ते अहं सविज्ञानम् इदं वक्ष्यामि अशेषतः यत् ज्ञात्वा न इह भूयः अन्यत् ज्ञातव्यम् अवशिष्यते ॥ 2 ॥ अहम् इदं सविज्ञानं ज्ञानं ते अशेषतः वक्ष्यामि यत् ज्ञात्वा अन्यत् ज्ञातव्यं भूयः इह न अवशिष्यते । अहम् एतत् अनुभवसहित परमात्मज्ञानं ते अशेषतः वक्ष्य...
{ "source": "wikipedia" }
भारतदेशे नेपालदेशे च शरदे नवरात्रे देव्याः पूजनं लोके प्रचलितमस्ति । केचन देवीं स्वगृहे एव पूजयन्ति । केचन देवीं पूजयितुं मन्दिरं गच्छन्ति । नवरात्रे पूजितायाः देव्याः निर्माल्यस्य वितरणं दशम्यां भवति । दशम्याम् अवरे जनाः मान्येभ्यो जनेभ्यो देव्याः निर्माल्यं स्वीकुर्वन्ति । तत्र मान्यजना देव्याः घटस्य जलेन अवरान् जनान...
{ "source": "wikipedia" }
दमोहमण्डलम् /ˈəʊəəəə/) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य सागरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति दमोह इति नगरम् । दमोहमण्डलस्य विस्तारः 7,306 चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे कटनीमण्डलं, पश्चिमे सागरम...
{ "source": "wikipedia" }
भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति बस्तिमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति बस्ति
{ "source": "wikipedia" }
नवसारीमण्डलम् इत्येतत् गुजरातराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति नवसारी इति नगरम् । नवसारीमण्डलस्य विस्तारः 2,196 चतुरस्रकिलोमीटर्मितः अस्ति । गुजरातराज्यस्य दक्षिणभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे डाङ्गमण्डलं, पश्चिमे 'गल्फ् आफ् खम्भात', उत्तरे सुरतमण्डलं, दक्षिणे वलसाडमण्डलम...
{ "source": "wikipedia" }
अभिराज राजेन्द्र मिश्र: 1943 वर्षे जन्म प्राप्तवान् | एष: संस्कृतलेखक:, कवि:, नाटककार: एवं वाराणसिस्थ संपूर्णानन्द संस्कृतविश्वविद्यालयस्य भूतपूर्वकुलपतिश्च वर्तते | सिम्ला प्रदेशस्थ हिमाचलप्रदेश विश्वविद्यालये संस्कृतविभागस्य विभागाध्यक्षरूपेण कार्यमकरोत् | इन्डोनेषिया विश्वविद्यालयस्य विसिटिङ् प्राचार्यरूपेण कार्यमकर...
{ "source": "wikipedia" }
चौहानवंशः /ˈɔːɑːəəʃə/) राजपूतानां प्रसिद्धेषु वंशेषु अन्यतमः । 'चौहान' इति उत्तरभारतस्य आर्याणां कश्चन वंशः । चौहान-आख्यं गोत्रं राजपूतेषु अन्तर्भवति । इतिहासविदां मतम् अस्ति यत्, चौहानवंश्याः जयपुरस्य साम्भरतडागसमीपे, पुष्कर-प्रदेशे, आमेर-नगरे निवसन्ति स्म । सद्यः ते उत्तरभारते विस्तृताः सन्ति । उत्तरप्रदेशराज्यस्य मै...
{ "source": "wikipedia" }
भारते किञ्चनराज्यम् अस्ति पञ्जाब् । अस्मिन् राज्ये किञ्चन मण्डलम् अस्ति शहीदभगतसिङ्गनगरमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति नवान् शहर
{ "source": "wikipedia" }
आशुतोष मुखोपाध्याय शिक्षविद्, कोलकाता उच्चन्यायालयस्य विचारपतिः तथा कोलकाता विश्वविद्यालयस्य उपकुलपतिः च आसीत् । सः 1864 तमवर्षस्य जून् मासस्य 29 तमे दिनाङ्के जनिमलभत । तस्य पिता गङ्गाप्रसाद मुखोपाध्याय, माता च जगत्तारीणी देवी आसीत् ।
{ "source": "wikipedia" }
गोल्फ्-क्रीडा कन्दुकक्रीडायां एका विशिष्टा क्रीडा । अस्त्येतत् प्रसिद्धं यद् 'गोल्फ' -क्रीडायाः प्रारम्भः स्काट्लैण्डतोऽभवदिति । परं केचनेतिहासज्ञा एवमपि मन्यन्ते यदस्याः क्रीडायाः प्रादुर्भाव ईसातः पूर्वमेव समजायत । तेषां कथनमस्ति यत् तदानीं गोपाला वनेषु गाश्चारयन्तः कांश्चन प्रस्तरखण्डकान् स्वस्वयष्टिकाभिस्ताडयित्वा ...
{ "source": "wikipedia" }
हिन्दुधर्मः • इतिहासः त्रिमूर्तयःब्रह्मा • विष्णुः • महेश्वरः अन्यदेवताःसरस्वती · लक्ष्मीः · पार्वतीशक्तिः · दुर्गा · कालीगणेशः · सुब्रह्मण्यः · अय्यप्पःरामः · कृष्णःहनूमान्प्रजापतिः · रुद्रःइन्द्रः · अग्निः · वायुः · निॠतिःभूमिः · वरुणः · कुबेरः · ईशानः ब्रह्म · ॐ · ईश्वरःआत्मा · मायाकर्म · संस्काराःपु्रुार्थाःधर्मः ·...
{ "source": "wikipedia" }
श्रीधराचार्यः भारतीय प्रसिद्धगणीतशास्त्रज्ञेषु अन्यतमः। स्वर्णयुगे आविष्कृतानां नूतनगणीतशास्त्रस्य प्रक्रियादीनाम् उत्तमागतिः न प्राप्तासीत्। अमुं कार्यं श्रीधरः स्वकृतिषु अत्यन्तं स्पष्टतया निरूपितवान् अस्ति। श्रीधरस्य जन्म, स्थानादीनां विषये ऐतिहासिकानम् ऐक्यमत्यं नास्ति इति। "8 शतमाने" अस्य अस्तित्वम् आसीत् इति। श्र...
{ "source": "wikipedia" }
सन्ति बहवो भारतस्य वरपुत्राः येषु अविस्मरणीयः स्वामी विवेकानन्दः। सः विश्वधर्मसम्मेलने भारतीय-संस्कृतेः उपादेयतां श्रेष्ठतां च प्रादर्शयत्। बङ्गप्रान्तस्य कोलकातानगरे त्रिषष्ट्यधिकशततमे वर्षे जनवरी मासस्य द्वादशे दिने एतस्य जन्म अभवत्। तस्य पिता श्री विश्वनाथदत्तमहोदय:। पूर्वं तस्य नाम नरेन्द्रनाथदत्तः इति आसीत्। एषः उ...
{ "source": "wikipedia" }
] विदन्ति एव विद्वज्जना: यद् विश्वे अस्मिन् कवितावाङ्मये भारतदेशस्य महद्वैशिष्ट्यमस्तीति। ताद्रुशदेशे आधुनिकान्ध्रसाहित्यसाम्राज्यचक्रवर्तिन: वर्तन्ते आचार्या: सिनारे महाशया:। एते अविश्रान्तपरिश्रमिण: वर्तन्ते आन्ध्रसाहित्ये। एते महभागा: 1988 तमे वत्सरे स्वविरचितविश्वम्भरकाव्यस्य प्रतिष्ठात्मकं ज्ञानपीठपुरस्कारमलभन्त। ...
{ "source": "wikipedia" }
अक्षीणि इन्द्रियाणि सन्ति यैः वयं प्रकाशस्य दर्शनं कुर्मः। मनुष्याणां द्वौ अक्षिणी स्तः। ते वक्त्रे शोभेते । ये ताभ्यां स्पष्टं द्रष्टुं न शक्नुवन्ति ते उपनेत्राणि धारयन्ति । इदं नेत्रम् आङ्ग्लभाषायां इति उच्यते । इदं नेत्रं दर्शनेन्द्रियम् अस्ति । नयनेन्द्रियं मानवस्य प्रधानं ज्ञानकारणम्‌ । दृष्टवा वयं जगज्जानीमः ।...
{ "source": "wikipedia" }
पल्लीकमलं नवदृश्यात्मकं नाटकं विद्यते। अस्मिन् नायकस्य रूपकुमारस्य नायिकाया कमलकलिकायाश्च प्रेम्णः परिणतिः परिणये भवति। मधुमालतीपल्ल्याः कन्या कमलकलिका प्रकृतिसुषुमायामात्मविस्मृतेव सुप्रसन्ना विद्यते । सोषसं आनन्दमालिकेति अमृतकलिकेति वर्णयति । नदी तस्याः कृते मायाविनी विद्यते । तस्या मात्रे तरङ्गिण्यै तस्या इदं काव्यम...
{ "source": "wikipedia" }
कार्पण्यदोषोपहतस्वभावः ) इत्यनेन श्लोकेन अर्जुनः कर्तव्याकर्तव्ययोः निर्णये स्वम् असमर्थं ज्ञात्वा व्याकुलमनसा भगवन्तं प्रार्थयते । पूर्वस्मिन् श्लोके युद्धोपरामनिर्णयं प्रति सन्देहं प्रदर्श्य अत्र भगवन्तं मार्गदर्शनाय अर्जुनः निवेदयति । सः प्रार्थयति यत्, कापुरुषतारूपिदोषयुक्तः, धर्मविषये मोहितान्तःकरणयुक्तः चाहं भवन्...
{ "source": "wikipedia" }
खोटाङमण्डलम्नेपालदेशस्य पुर्वाञ्चलविकासक्षेत्रस्य सगरमाथा अञ्चले अवस्थितं एकं पर्वतीय मण्डलं अस्ति ।
{ "source": "wikipedia" }
अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य विंशतितमः श्लोकः । कामैः तैः तैः हृतज्ञानाः प्रपद्यन्ते अन्यदेवताः तं तं नियमम् आस्थाय प्रकृत्या नियताः स्वया ॥ 20 ॥ तैः तैः कामैः हृतज्ञानाः स्वया प्रकृत्या नियताः तं तं नियमम् आस्थाय अन्यदेवताः प्रपद्यन्ते । अनेकविधैः अभिलाषैः अपगतविवेकाः केचन जनाः स्वस्य स्वभावेन नि...
{ "source": "wikipedia" }
न मे पार्थास्ति कर्तव्यम् ) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः लोकसङ्ग्रहपुष्टिं करोति । पूर्वस्मिन् श्लोके श्रेष्ठपुरुषाणाम् उदाहरणं दत्त्वा तेषाम् अनुसारं जनसामान्यः आचरणं करोति इति उक्त्वा अत्र भगवान् स्वस्य उदाहरणं दत्त्वा लोकसङ्ग्रस्य अत्यावश्यकत्वं बोधयति । सः कथयति यद्, हे पार्थ ! मम कृते त्रिषु लोकेषु अपि न किमप...
{ "source": "wikipedia" }
हिन्दुधर्मः • इतिहासः त्रिमूर्तयःब्रह्मा • विष्णुः • महेश्वरः अन्यदेवताःसरस्वती · लक्ष्मीः · पार्वतीशक्तिः · दुर्गा · कालीगणेशः · सुब्रह्मण्यः · अय्यप्पःरामः · कृष्णःहनूमान्प्रजापतिः · रुद्रःइन्द्रः · अग्निः · वायुः · निॠतिःभूमिः · वरुणः · कुबेरः · ईशानः ब्रह्म · ॐ · ईश्वरःआत्मा · मायाकर्म · संस्काराःपु्रुार्थाःधर्मः ·...
{ "source": "wikipedia" }
सः पञ्चदशतम शतकस्य समयः । कर्णाटकस्य उत्तरार्धभागे पण्डरपुरसमीपस्य प्रख्याता राजधानी मङ्गलपीडा । एतत्स्थानं तदानीन्तनस्य वाणिज्यशासनसांस्कृतिकानां केन्द्रं आसीत् । तस्मिन् नगरॆ वेश्यावाटिकायां किञ्चित् सुन्दरगृहम् । तस्मिन् तदानीन्तनस्य प्रख्यातवेश्या श्यामा निवसति स्म । स्वस्य यौव्वनकाले धनिकान्, वणिजः, रसिकान् अङ्गुल...
{ "source": "wikipedia" }
एस्.सि.नन्दीमठः । गोकाक-उपमण्डल्स्य नन्दीग्रामे 1900 तमे वर्षे डिसेम्बरमासस्य द्वादशे दिनाङ्के शिवलिङ्गय्य चन्नबसवय्य नन्दीमठवर्यस्य जन्म अभवत्। नन्दीमठः 1924 तमे वर्षे बि.ए.पदवीं,1926 तमे वर्षे एम्.ए पदवीं प्राप्तवान् । वीरशैवधर्मस्य अपि च तत्त्वज्ञानविषये निबन्धं विरचय्य ,1930 तमे वर्षे डाक्टरेट् पदवीं प्राप्तवान् ।...
{ "source": "wikipedia" }
हिन्दीभाषा सांविधानिकरूपेण भारतस्य प्रथमा राजभाषा विद्यते । भारते अत्यधिकैः जनैः भाष्यमाणा अवगम्यमाना च भाषा विद्यते । विश्वे अधिकं भाषमाणायाः चीनीभाषायाः अनन्तरं स्थानं हिन्दीभाषायाः । उत्तरभारते अस्याः उपयोगः अधिकः । भारते अन्येषु देशेषु च विद्यमानाः हिन्दीभाषाभाषिणः 60 कोट्यधिकाः सन्ति । एते हिन्दीभाषया सम्भाषन्ते, ...
{ "source": "wikipedia" }
श्रीगङ्गानगरं राजस्थानराज्ये स्थितस्य श्रीगङ्गानगरमण्डलस्य केन्द्रम् अस्ति ।
{ "source": "wikipedia" }
एकं भौतिकतत्त्वम् अस्ति।
{ "source": "wikipedia" }
बिसकेगली इटली देशस्य एकः नगरं अस्ति । इटली यूरोप दक्षिणे एक: प्राचीन क्षेत्र अस्‍ति ।
{ "source": "wikipedia" }
उपसर्गाणाम् उदाहरणानिः
{ "source": "wikipedia" }
अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य द्विचत्वारिंशत्तमः श्लोकः । तस्मात् अज्ञानसम्भूतं हृत्स्थं ज्ञानासिना अत्मनः छित्त्वा एनं संशयं योगम् आतिष्ठः उत्तिष्ठ भारत ॥ 42 ॥ भारत ! तस्मात् अज्ञानसम्भूतम् आत्मनः हृत्स्थम् एनं संशयं ज्ञानासिना छित्त्वा उत्तिष्ठ । योगम् आतिष्ठ । हे भारत ! अतः अज्ञानेन समुत्...
{ "source": "wikipedia" }
अव्ययपदानाम् उदाहरणानि अधस्तात् ।
{ "source": "wikipedia" }
शरीराद्बहिर्मनसो वृत्तिलाभो विदेहा नाम धारणा । सा यदि शरीरप्रतिष्ठस्य मनसो बहिर्वृत्तिमात्रेण भवति, सा कल्पितेत्युच्यते । या तु शरीरनिरपेक्षा बहिर्भूतस्यैव मनसो बहिर्वृत्तिः, सा खल्वकल्पिता । तत्र कल्पितया साधयत्यकल्पितां महाविदेहामिति, यया परशरीराण्याविशन्ति योगिनः । ततश्च धारणातः प्रकाशात्मनो बुद्धिसत्त्वस्य यदावरणं ...
{ "source": "wikipedia" }
394 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • ...
{ "source": "wikipedia" }
इस्लाम् एकं एकेश्वरवादि यहूदीक्रैस्तमताभ्यां सदृशं आब्राहामीयमतम् च अस्ति। कुरान्-शास्त्रं, मुहम्मद्-भगवद्दूतस्य जीवनशैल्या आचरणप्रवचनद्वारा च दर्शिता तस्य व्याख्या च इस्लाम्-मतस्य आधाराः सन्ति। इस्लाम्-मतस्य अनुयायी मुस्लिम् इति उच्यते। मुस्लिम्-जनाः मन्यन्ते यत् भगवान् मात्र एकः अनुपमः च अस्ति। मुस्लिम्-जनानां अयमपि...
{ "source": "wikipedia" }
कर्णाटकस्य प्राचीनसंस्कृतिं ”’हस्तपरशुसंस्कृतिः”’ इति, उत्तरभारतस्य संस्कृतिं सोहन् संस्कृतिः इति कथयन्ति । पूर्वशिलायुगस्य नखाकारकः लघुपरशुः, तडगत्ति, इत्यादीनि नित्यजीवनोपयोगीनि आयुधानि चिक्कमगळूरुमण्डलस्य लिङ्गदहळ्ळी गुल्बर्गामण्डलस्य हुणसगीप्रदेशेषु प्राप्तानि ।तुमकूरुमण्डलस्य किब्बनहळ्ळी ग्रामे दारुखड्गः प्राप्तः,...
{ "source": "wikipedia" }
आफ़्रिका-महाद्वीप: यूरोपभूभागस्य दक्षिणे स्थित: कश्चन महाद्वीप:। तत्र विद्यमानाः देशा: - पश्चिमा अफ्रीका बेनीन •बुर्कीना फासो •केप वेर्दे •कोटे डी आईवोर •जाम्बिया • घाना •गिनी •गिनिया-बिसाउ •लाइबेरिया •माली •मौरिशियाना •नाइजर •नाइजीरिया • सेनेगल •सियरा लियोन् •टोगो उत्तरीया अफ्रीका अल्जीरिया •मिस्रफलकम्: •लीबिया •म...
{ "source": "wikipedia" }
शुनकः गार्ह्यपशुः अस्ति। प्रायः 4 कोटिवर्षेभ्यः पूर्वं भूमौ मयासिस् इति क्रूरजन्तुः आसीत्। मयासिस् एव शुनकस्य पूर्वजाः इति उहयन्ति। 12 सहस्रवर्षेभ्यः पूर्वं मानवस्य सन्निहिताः आसन् इत्यस्मिन् विषये अधाराः लभ्यन्ते। भारतीय पुराणादिषु शुनकस्य उल्लेखाः सन्ति। मृगयार्थं श्वानस्य उपयोगं सर्वदा पूर्विकाः कुर्वन्तिस्म। युद्धे...
{ "source": "wikipedia" }
हिन्दुधर्मः • इतिहासः त्रिमूर्तयःब्रह्मा • विष्णुः • महेश्वरः अन्यदेवताःसरस्वती · लक्ष्मीः · पार्वतीशक्तिः · दुर्गा · कालीगणेशः · सुब्रह्मण्यः · अय्यप्पःरामः · कृष्णःहनूमान्प्रजापतिः · रुद्रःइन्द्रः · अग्निः · वायुः · निॠतिःभूमिः · वरुणः · कुबेरः · ईशानः ब्रह्म · ॐ · ईश्वरःआत्मा · मायाकर्म · संस्काराःपु्रुार्थाःधर्मः ·...
{ "source": "wikipedia" }
अत्र भारतगणराज्यस्य उपराष्ट्रपतीनाम् आवलिः अस्ति ।
{ "source": "wikipedia" }
उपसर्गाणाम् उदाहरणानिः:
{ "source": "wikipedia" }
भारते 24 दिसम्बर राष्ट्रीय उपभोक्ता दिवसस्य रुपे अवलोकित अस्ति। सन् 1986 मध्ये एतद् तिथि उपभोक्ता संरक्षण अधिनियम विधेयक प्रयुक्त आसित्।
{ "source": "wikipedia" }
बागेश्वरमण्डलम् /ˈɑːɡɛɪʃəəəəə/) उत्तराखण्डराज्यस्य कुमाऊंविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति बागेश्वर इति नगरम् । बागेश्वरमण्डलम् ऐतिहासिकसंस्कृतेः, पौराणिकसंस्कृतेः च प्रतीकः अस्ति । अस्य मण्डलस्य उल्लेखः पुराणेषु प्राप्यते । अस्य मण्डलस्य रचना 15/9/1997 दिनाङ्के अभूत् । बागेश्वरमण्डलस्य...
{ "source": "wikipedia" }
करौली राजस्थानराज्ये स्थितस्य करौलीमण्डलस्य केन्द्रम् अस्ति ।
{ "source": "wikipedia" }
151 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • ...
{ "source": "wikipedia" }
एकः विख्यात राजनीतिज्ञः अस्ति।
{ "source": "wikipedia" }
द्वादश ज्योतिर्लिङ्गानाम् आवल्याम् वैद्यनाथः नवमं ज्योतिर्लिङ्गम् अस्ति । शिवपुराणे द्वादश ज्योतिर्लिङ्गस्तोत्रे यत् “परल्यां वैद्यनाथम्” इति उक्तं तत् क्षेत्रम् अस्ति इदानीन्तनमहाराष्ट्रस्य “बीड”मण्डले । परलिपर्वते वनस्पतयः महता प्रमाणेन उपलभ्यन्ते । तस्मात् कारणात् अत्र वैद्याः एव अधिकतया आगच्छन्ति स्म । अतः अत्रत्यः...
{ "source": "wikipedia" }
सरदार पटेल-स्मारकभवनं /ˈəəɑːə əɛə ɑːəəəəə/) कश्चन सङ्ग्रहालयः, प्रदर्शनकेन्द्रं च । भारतस्वतन्त्रसेनानिनः, राजनेतुः लोहपुरुषस्य स्मारकत्वेन समर्पितम् । तत् स्मारकं गुजरातराज्यस्य कर्णावती-महानगरस्य शाहिबाग-विस्तारे विद्यमानम् अस्ति । तस्य स्मारकभवनस्य नाम 'मोती शाही महेल' इति । तं प्रासादं परितः बृहत् उद्यानम् अस्ति । ...
{ "source": "wikipedia" }
उडुपीमण्डलम् कर्णाटकराज्यस्य प्रमुखं मण्डलम्। अस्य मण्डलस्य केन्द्रम् उडुपीनगरम् अस्ति। अस्मिन् मण्डले बहूनि प्रेक्षणीयस्थलानि सन्ति। तेषु उडुपी,मल्पे, कापु, पाजकक्षेत्रम्,सैंट् मेरीस् ऐल्यान्ड् प्रमुखाणि।अनेकानि ऐतिहासिकस्थानानि च सन्ति । उडुपी इति नाम तुळुभाषायाः ’ओडिपु’ इति शब्देन आगतम् अस्ति । संस्कृते रजतपीठपुरम् ...
{ "source": "wikipedia" }
श्रीगङ्गानगरं राजस्थानराज्ये स्थितस्य श्रीगङ्गानगरमण्डलस्य केन्द्रम् अस्ति ।
{ "source": "wikipedia" }
उपसर्प मातरं भूमिमेताम् ॥ अस्याः मातृभूमेः समीपं गच्छ । -ऋग्वेदः 10-18-10 रविवासरः, 10 मार्च, 2019; समयः - 03:03 अद्वैतवेदान्तः दर्शनेषु अन्यतमः। न द्वैतम् अद्वैतम्। ज्ञानस्य चरमस्थितिरेव अद्वैतमित्युच्यते। शङ्कराचार्याणाम् आगमनात् प्रागपि अद्वैतसिद्धान्तः आसीत्। परन्तु शङ्कराचार्याणाम् आगमनानन्तरं प्रसिद्धिं गतम् एत...
{ "source": "wikipedia" }
झालावाड राजस्थानराज्ये स्थितस्य झालावाडमण्डलस्य केन्द्रम् अस्ति ।
{ "source": "wikipedia" }
शिलाङ्ग मेघालयप्रदेशस्‍य राजधानीनागरम् अस्ति ।
{ "source": "wikipedia" }
'दण्डिनः सुप्रसिद्धं गद्यकाव्यं विद्यते दशकुमारचरितम् । काव्येस्मिन् शोभनाशोभनयोः द्वयोरपि वर्णनं दृश्यते। दशकुमाराणां चरितम् अस्य काव्यस्य मूलविषय: अस्ति । अनेन पद्येन कवेः जीवनचरितं प्रकाशितं भवति । दण्डिनः कवेः प्रपितामहस्य श्रीदामोदरस्य मैत्री विष्णुवर्धनेन सहाभवत् । दण्डिनः जन्म काञ्चीवरमिति नाम्नाधुना प्रसिद्धनगर...
{ "source": "wikipedia" }
आन्तरिक चिकित्सा क्षेत्र अस्ति।
{ "source": "wikipedia" }
वोख मण्डलः नागालैंड राज्ये स्थित एकः मण्डलः। अस्य मण्डलस्य केन्द्रः वोख नगरः। किफिरॆ मण्डलः कॊहिमा मण्डलः ज़ुन्हेबोटो मण्डलः तुऎन्सङ् मण्डलः दीमापुर मण्डलः पॆरॆन् मण्डलः फॆक् मण्डलः मॊकॊचङ् मण्डलः मोन मण्डलः लॊङ्लॆङ् मण्डलः वॊख मण्डलः
{ "source": "wikipedia" }