Chapter int64 1 383 | Verse int64 0 320 | Sanskrit stringlengths 36 2.31k | Transliteration stringlengths 30 2.3k ⌀ |
|---|---|---|---|
382 | 29 | दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः । यच्छेद्वाङ्मनसी प्राज्ञः तद्यच्छेज्ज्ञानमात्मनि ॥ २९ ॥ | null |
382 | 30 | ज्ञानमात्मनि महति नियच्छेच्छान्त आत्मनि । ज्ञात्वा ब्रह्मात्मनोर्योगं यमाद्यैर्ब्रह्म सद्भवेत् ॥ ३० ॥ | null |
382 | 31 | अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रही । यमाश्च नियमाः पञ्च शौचं सन्तोषसत्तपः ॥ ३१ ॥ | null |
382 | 32 | स्वाध्यायेश्वरपूजा च आसनं पद्मकादिकं । प्राणायामो वायुजयः प्रत्याहारः स्वनिग्रहः ॥ ३२ ॥ | null |
382 | 33 | शुभे ह्येकत्र विषये चेतसो यत् प्रधारणं । निश्चलत्वात्तु धीमद्भिर्धारणा द्विज कथ्यते ॥ ३३ ॥ | null |
382 | 34 | पौनःपुन्येन तत्रैव विषयेष्वेव धारणा । ध्यानं स्मृतं समाधिस्तु अहं ब्रह्मात्मसंस्थितिः ॥ ३४ ॥ | null |
382 | 35 | घटध्वंसाद्यथाकाशमभिन्नं नभसा भवेत् । मुक्तो जीवो ब्रह्मणैवं सद्ब्रह्म ब्रह्म वै भवेत् ॥ ३५ ॥ | null |
382 | 36 | आत्मानं मन्यते ब्रह्म जीवो ज्ञानेन नान्यथा । जीवो ह्यज्ञानतत्कार्य्यमुक्तः स्यादजरामरः ॥ ३६ ॥ | null |
382 | 37 | अग्निरुवाच । वशिष्ठ यमगीतोक्ता पठतां भुक्तिमुक्तिदा । आत्यन्तिको लयः प्रोक्तो वेदान्तब्रह्मधीमयः ॥ ३७ ॥ | null |
383 | 1 | अग्निरुवाच । आग्नेयं ब्रह्मरूपन्ते पुराणं कथितं मया । सप्रपञ्चं निष्प्रपञ्चं विद्याद्वयमयं महत् ॥ १ ॥ | null |
383 | 2 | ऋग्यजुःसामाश्चर्वाख्या विद्या विष्णुर्जगज्जनिः । छन्दः शिक्षा व्याकरणं निधण्टुज्योतिराख्यकाः ॥ २ ॥ | null |
383 | 3 | निरुक्तधर्मशास्त्रादि मीमांसान्यायविस्तराः । आयुर्वेदपुराणाख्या धनुर्गन्धर्वविस्तराः ॥ ३ ॥ | null |
383 | 4 | विद्या सैवार्थसास्त्राख्या वेदान्ताऽन्या हरिर्महान् । इत्येषा चापरा विद्या परविद्याऽक्षरं ॥ ४ ॥ | null |
383 | 5 | यस्य भावोऽखिलं विष्णुस्तस्य नो बाधते कलिः । अनिष्ट्वा तु महायज्ञानकृत्वापि पितृस्वधां ॥ ५ ॥ | null |
383 | 6 | कृष्णमभ्यर्च्चयन्भक्त्या नैनसो भाजनं भवेत् । सर्वकारणमत्यन्तं विष्णुं ध्यायन्न सीदति ॥ ६ ॥ | null |
383 | 7 | अन्यतन्त्रादिदोषोत्थो विषयाकृष्टमानसः । कृत्वापि पापं गोविन्दं ध्यायन्पापैः प्रमुच्यते ॥ ७ ॥ | null |
383 | 8 | तद्ध्यानं यत्र गोविन्दः सा कथा यत्र केशवः । तत् कर्म यत्तदर्थीयं किमन्यैर्बहुभाषितैः ॥ ८ ॥ | null |
383 | 9 | न तत् पिता पु पुत्राय न शिष्याय गुरुर्द्विज । परमार्थं परं ब्रूयाद्यदेतत्ते मयोदितं ॥ ९ ॥ | null |
383 | 10 | संसारे भ्रमता लभ्यं पुत्रदारधनं वसु । सुहृदश्च तथैवान्ये नोपदेशो द्विजेदृशः ॥ १० ॥ | null |
383 | 11 | किं पुत्रदारैमित्रैर्वा किं मित्रक्षेत्रवान्धवैः । उपदेशः परो वन्धुरीदृशो यो विमुक्तये ॥ ११ ॥ | null |
383 | 12 | द्विविधो भूतमार्गोयं दैव आसुर एव च । विष्णुभक्तिपरो दैवो विपरीतस्तथासुरः ॥ १२ ॥ | null |
383 | 13 | एतत् पवित्रमारोग्यं धन्यं दुःस्वप्ननाशनं । सुखप्रीतिकरं नॄणां मोक्षकृद् यत्तवेरितं ॥ १३ ॥ | null |
383 | 14 | येषां गृहेषु लिखितमाग्नेयं हि पुराणकं । पुस्तकं स्थास्यति सदा तत्र नेशुरुपद्रवाः ॥ १४ ॥ | null |
383 | 15 | किं तीर्यैर्गोप्रदानैर्वा किं यज्ञैः किमुपोषितैः । आग्नेयं ये हि श्रृण्वन्ति अहन्यहनि मानवाः ॥ १५ ॥ | null |
383 | 16 | यो ददाति तिलप्रस्थं सुवर्णस्य च माषकं । श्रृणेति श्लोकमेकञ्च आग्नेयस्य तदाप्नुयात् ॥ १६ ॥ | null |
383 | 17 | अध्यायपठनञ्चास्य गोप्रदानाद् विशिष्यते । अहोरात्रकृतं पापं श्रोतुमिच्छोः प्रणश्यति ॥ १७ ॥ | null |
383 | 18 | कपिलानां शते दत्ते यद् भवेज्ज्येष्ठपुष्करे । तदाग्नेयं पुराणं हि पठित्वा फलमाप्नुयात् ॥ १८ ॥ | null |
383 | 19 | प्रवृत्तञ्च निवृत्तञ्च धर्मं विद्याद्वयात्मकं । आग्नेयस्य पुराणस्य शास्त्रस्यास्य समं न हि ॥ १९ ॥ | null |
383 | 20 | पठन्नाग्नेयकं नित्यं श्रृण्वन् वापि पुराणकं । भक्तो वशिष्ठ मनुजः सर्वपापैः प्रमुच्यते ॥ २० ॥ | null |
383 | 21 | नोपसर्गा न चानर्था न चौरारिभयं गृहे । तस्मिन् स्याद् यत्र चाग्नेयपुराणस्य हि पुस्तकं ॥ २१ ॥ | null |
383 | 22 | न गर्भहारिणी भीतिर्न च बालग्रहा गृहे । यत्राग्नेयं पुराणं स्यान्न पिशाचादिकं भयं ॥ २२ ॥ | null |
383 | 23 | श्रृण्वन् विप्रो वेदवित् स्यात् क्षत्रियः पृथिवीपतिः । ऋद्धिं प्राप्नोति वैश्यश्च शूद्रश्चारोग्यमृच्छति ॥ २३ ॥ | null |
383 | 24 | यः पठेत् श्रृणुयान्नित्यं समदृग्विष्णुमानसः । ब्रह्माग्नेयं पुराणं सत्तत्र नश्यन्त्युपद्रवाः ॥ २४ ॥ | null |
383 | 25 | दिव्यान्तरीक्षभौमाद्या दुःस्वप्नाद्यभिचारकाः । यच्चान्यद्दुरितं किञ्चित्तत्सर्व्वं हन्ति केशवः ॥ २५ ॥ | null |
383 | 26 | पठतः श्रृण्वतः पुंसः पुस्तकं यजतो महत् । आग्नेयं श्रीपुराणं हि हेमन्ते यः श्रृणोति वै ॥ २६ ॥ | null |
383 | 27 | प्रपूज्य गन्धपुष्पाद्यैरग्निष्टोमफलं लभेत् । शिशिरे पुण्डरीकस्य बसन्ते चाश्वमेधजम् ॥ २७ ॥ | null |
383 | 28 | ग्रीष्मे तु वाजपेयस्य राजसूयस्य वर्षति । गोसहस्रस्य शरदि फलं तत्पठतो ह्यृतौ ॥ २८ ॥ | null |
383 | 29 | आग्नेयं हि पुराणं यो भक्ताग्रे पठते हरेः । सोऽर्च्चयेच्च वसिष्ठेह ज्ञानयज्ञेन केशवम् ॥ २९ ॥ | null |
383 | 30 | यस्याग्नेयपुराणस्य पुस्तकं तस्य वै जयः । लिखितं पूजितं गेहे भुक्तिर्मुक्तिः करेऽस्ति हि ॥ ३० ॥ | null |
383 | 31 | इति कालाग्निरूपेण गीतं मे हरिणा पुरा । आग्नेयं हि पुराणं वै ब्रह्मविद्याद्वयास्पदम् । विद्याद्वयं वसिष्ठेदं भक्तेभ्यः कथयिष्यसि ॥ ३१ ॥ | null |
383 | 32 | वसिष्ठ उवाच । व्यासाग्नेयपुराणं ते रूपं विद्याद्वयात्मकं । कथितं ब्रह्मणो विष्णोरग्निना कथितं यथा ॥ ३२ ॥ | null |
383 | 33 | सार्द्धं देवैश्च भुनिभिर्मह्यं सर्व्वार्थदर्शकं । पुराणमग्निना गीतमाग्नेयं ब्रह्मसमिमतं ॥ ३३ ॥ | null |
383 | 34 | यः पठेच्छृणुयाद्व्यास लिखेद्वा लेखयेदपि । श्रावयेत्पाठयेद्वापि पूजयेद्धारयेदपि ॥ ३४ ॥ | null |
383 | 35 | सर्व्वपापविनिर्मुक्तः प्राप्तकामो दिवं व्रजेत् । लेखयित्वा पुराणं यो दद्याद्विप्रेभ्य उत्तमं ॥ ३५ ॥ | null |
383 | 36 | स ब्रह्मलोकमाप्नोति कुलानां शतमुद्धरेत् । एकं श्लोकं पठेद्यस्तु पापपङ्काद्विमुच्यते ॥ ३६ ॥ | null |
383 | 37 | तस्माद्व्यास सदा श्राव्यं शिष्यभ्यः सर्वदर्शनं । शुकाद्यैर्मुनिभिः सार्द्धं श्रोतुकामैः पुराणकं ॥ ३७ ॥ | null |
383 | 38 | आग्नेयं पठितं ध्यातं शुभं स्याद् भुक्तिमुक्तिदं । अग्नये तु नमस्तस्मै येन गीतं पुराणकं ॥ ३८ ॥ | null |
383 | 39 | व्यास उवाच । वसिष्ठेन पुरा गीतं सूतैतत्ते मयोदितं । पराविद्याऽपराविद्यास्वरूपं परमं पदम् ॥ ३९ ॥ | null |
383 | 40 | आग्नयं दुर्लभं रूपं प्राप्यते भाग्यसंयुतैः । ध्यायन्तो ब्रह्म चाग्नेयं पुराणं हरिमागताः ॥ ४० ॥ | null |
383 | 41 | विद्यार्थिनस्तथा विद्यां राज्यं राज्यार्थिनो गताः । अपुत्राः पुत्रिणः सन्ति नाश्रया आश्रयं गताः ॥ ४१ ॥ | null |
383 | 42 | सौभाग्यार्थी च सौभाग्यं मोक्षं मोक्षार्थिनो गताः । लिखन्तो लेखयन्तश्च निष्पापाश्च श्रियं गताः ॥ ४२ ॥ | null |
383 | 43 | शुकपैलमुखैः सूत आग्नेयन्तु पुराणकं । रूपं चिन्तय यातासि भुक्तिं मुक्तिं न संशयः । श्रावय त्वञ्च शिष्येभ्यो भक्तेभ्यश्च पुराणकम् ॥ ४३ ॥ | null |
383 | 44 | सूत उवाच । व्यासप्रसादादाग्नेयं पुराणं श्रुतमादरात् ॥ ४४ ॥ | null |
383 | 45 | आग्नेयं ब्रह्मरूपं हि मुनयः शौनकादयः । भवन्तो नैमिषारण्ये यजन्तो हरिमीश्वरं ॥ ४५ ॥ | null |
383 | 46 | तिष्ठन्तः श्रद्धया युक्तास्तस्माद्वः समुदीरितम् । अग्निना प्रोक्तमाग्नेयं पुराणं वेदसम्मितं ॥ ४६ ॥ | null |
383 | 47 | ब्रह्मविद्याद्वयोपेतं भुक्तिदं मुक्तिदं महत् । नास्मात्परतरः सारो नास्मात्परतरः सुहृत् ॥ ४७ ॥ | null |
383 | 48 | नास्मात्परतरो ग्रन्थो नास्मात्परतरा गतिः । नास्मात्परतरं शास्त्रं नास्मात्परतरा श्रुतिः ॥ ४८ ॥ | null |
383 | 49 | नास्मात्परतरं ज्ञानं नास्मात्परतरा स्मृतिः । नास्मात्परो ह्यागमोऽस्ति नास्माद्विद्या पराऽस्ति हि ॥ ४९ ॥ | null |
383 | 50 | नास्मात्परः स्यात्सिद्धान्तो नास्मात्परममङ्गलम् । नास्मात्परोऽस्ति वेदान्तः पुराणं परमन्त्विदं ॥ ५० ॥ | null |
383 | 51 | नास्मात्परतरं भूमौ विद्यते वस्तु दुर्लभम् । आग्नेये हि पुराणेऽस्मिन् सर्वविद्याः प्रदर्शिताः ॥ ५१ ॥ | null |
383 | 52 | सर्वे मत्स्यावताराद्या गीता रामायणन्त्विह । हरिवंशो भारतञ्च नव सर्गाः प्रदर्शिताः ॥ ५२ ॥ | null |
383 | 53 | आगमो वैष्णवो गीतः पूजादीक्षाप्रतिष्ठया । पवित्रारोहणादीनि प्रतिमालक्षणादिकं ॥ ५३ ॥ | null |
383 | 54 | प्रासादलक्षणाद्यञ्च मन्त्रा वै भुक्तिभुक्तिदाः । शैवागमस्तदर्थश्च शाक्तेयः सौर एव च ॥ ५४ ॥ | null |
383 | 55 | मण्डलानि च बास्तुश्च मन्त्राणि विविधानि च । प्रतिसर्गश्चानुगीतो ब्रह्माण्डपरिमण्डलं ॥ ५५ ॥ | null |
383 | 56 | गीतो भुवनकोषश्च द्वीपवर्षादिनिम्नगाः । गयागङ्गाप्रयागादितीर्थमाहात्म्यमीरितं ॥ ५६ ॥ | null |
383 | 57 | ज्योतिश्चक्रं ज्योतिषादि गीतो युद्धजयार्णवः । मन्वन्तरादयो गीताः धर्मा वर्णादिकस्य च ॥ ५७ ॥ | null |
383 | 58 | अशौचं द्रव्यशुद्धिश्च प्रायश्चित्तं प्रदर्शितं । राजधर्म्मा दानधर्मा व्रतानि विविधानि च ॥ ५८ ॥ | null |
383 | 59 | व्यवहाराः शान्तयश्च ऋग्वेदादिविधानकं । सूर्यवंशः सोमवंशो धनुर्वेदश्च वैद्यकं ॥ ५९ ॥ | null |
383 | 60 | गान्धर्व्ववेदोऽर्थशास्त्रं मीमांसा न्यायविस्तरः । पुराणसंख्यामाहात्म्यं छन्दो व्याकरणं स्मृतं ॥ ६० ॥ | null |
383 | 61 | अहङ्कारो निघण्टुश्च शिक्षा कल्प इहोदितः । स्मृतः नैमित्तिकः प्राकृतिको लय आत्यन्तिकः ॥ ६१ ॥ | null |
383 | 62 | वेदान्तं ब्रह्मविज्ञानं योगी ह्यष्टाङ्ग ईरितः । स्तोत्रं पुराणमाहात्म्यं विद्या ह्यष्टादश स्मृताः ॥ ६२ ॥ | null |
383 | 63 | ऋग्वेदाद्याः परा ह्यत्र पराविद्याक्षरं परं । सप्रपञ्चं निष्प्रपञ्चं ब्रह्मणो रूपमीरितं ॥ ६३ ॥ | null |
383 | 64 | इदं पञ्चदशसाहस्रं शतकोटिप्रविस्तरं । देवलोके दैवतैश्च पुरणं पठ्यते सदा ॥ ६४ ॥ | null |
383 | 65 | लोकानां हितकामेन संक्षिप्योद्गीतमग्निना । सर्वं ब्रह्मेति जानीध्वं मुनयः शोनकादयः ॥ ६५ ॥ | null |
383 | 66 | श्रृणुयाच्छ्रावयेद्वापि यः पठेत्पाठयेदपि । लिखेल्लेखापयेद्वापि पूजयेत्कीर्त्तयेदपि ॥ ६६ ॥ | null |
383 | 67 | पुराणपाठकञ्चैव पूजयेत् प्रयतो नृपः । गोभूहिरण्यदानाद्यैर्वस्त्रालङ्कारतर्पणैः ॥ ६७ ॥ | null |
383 | 68 | तं संपूज्य लभेच्चैव पुराणश्रवणात् फलं । पुराणान्ते च वै कुर्य्यादवश्यं द्विजभोजनं ॥ ६८ ॥ | null |
383 | 69 | निर्म्मलः प्राप्तसर्व्वार्थः सकुलः स्वर्गमाप्नुयात् । शरयन्त्रं पुस्तकाय सूत्रं वै पत्रसञ्चयं ॥ ६९ ॥ | null |
383 | 70 | पट्टिकाबन्धवस्त्रादि दद्याद् यः स्वर्गमाप्नुयात् । यो दद्याद्ब्रह्म्लोकी स्यात् पुस्तकं यस्य वै गृहे ॥ ७० ॥ | null |
383 | 71 | तस्योत्पातभयं नास्ति भुक्तिमुक्तिमवाप्नुयात् । यूयं स्मरत चाग्नेयं पुराणं रूपमैश्वरं । सूतो गतः पूजितस्तैः शौनकाद्या हरिं ययुः ॥ ७१ ॥ | null |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.