index int64 0 73.8k | text stringlengths 8 2.93k |
|---|---|
0 | आद्यन्तमंगलमजातसमानभावमार्यं तमीशमजरामरमात्मदेवम् ।
पंचाननं प्रबलपंचविनोदशीलं संभावये मनसिशंकरमम्बिकेशम् ।
व्यास उवाच ।
धर्मक्षेत्रे महाक्षेत्रे गंगाकालिन्दिसंगमे ।
प्रयागे परमे पुण्ये ब्रह्मलोकस्य वर्त्मनि ॥ १ ॥ |
1 | मुनयः शंसितात्मानस्सत्यव्रतपरायणाः ।
महौजसो महाभागा महासत्रं वितेनिरे ॥ २ ॥ |
2 | तत्र सत्रं समाकर्ण्य व्यासशिष्यो महामुनिः ।
आजगाम मुनीन्द्र ष्टुं सूतः पौराणिकोत्तमः ॥ ३ ॥ |
3 | तं दृष्ट्वा सूतमायांतं हर्षिता मुनयस्तदा ।
चेतसा सुप्रसन्नेन पूजां चक्रुर्यथाविधि ॥ ४ ॥ |
4 | ततो विनयसंयुक्ता प्रोचुः सांजलयश्च ते ।
सुप्रसन्ना महात्मानः स्तुतिं कृत्वायथाविधि ॥ ५ ॥ |
5 | रोमहर्षण सर्वज्ञ भवान्वै भाग्यगौरवात् ।
पुराणविद्यामखिलां व्यासात्प्रत्यर्थमीयिवान् ॥ ६ ॥ |
6 | तस्मादाश्चर्य्यभूतानां कथानां त्वं हि भाजनम् ।
रत्नानामुरुसाराणां रत्नाकर इवार्णवः ॥ ७ ॥ |
7 | यच्च भूतं च भव्यं च यच्चान्यद्वस्तु वर्तते ।
न त्वयाऽविदितं किंचित्त्रिषु लोकेषु विद्यते ॥ ८ ॥ |
8 | त्वं मद्दिष्टवशादस्य दर्शनार्थमिहागतः ।
कुर्वन्किमपि नः श्रेयो न वृथा गंतुमर्हसि ॥ ९ ॥ |
9 | तत्त्वं श्रुतं स्म नः सर्वं पूर्वमेव शुभाशुभम् ।
न तृप्तिमधिगच्छामः श्रवणेच्छा मुहुर्मुहुः ॥ १० ॥ |
10 | इदानीमेकमेवास्ति श्रोतव्यं सूत सन्मते ।
तद्र हस्यमपि ब्रूहि यदि तेऽनुग्रहो भवेत् ॥ ११ ॥ |
11 | प्राप्ते कलियुगे घोरे नराः पुण्यविवर्जिताः ।
दुराचाररताः सर्वे सत्यवार्तापराङ्मुखाः ॥ १२ ॥ |
12 | परापवादनिरताः परद्र व्याभिलाषिणः ।
परस्त्रीसक्तमनसः परहिंसापरायणाः ॥ १३ ॥ |
13 | देहात्मदृष्टया मूढा नास्तिकाः पशुबुद्धयः ।
मातृपितृकृतद्वेषाः स्त्रीदेवाः कामकिंकराः ॥ १४ ॥ |
14 | विप्रा लोभग्रहग्रस्ता वेदविक्रयजीविनः ।
धनार्जनार्थमभ्यस्तविद्या मदविमोहिताः ॥ १५ ॥ |
15 | त्यक्तस्वजातिकर्माणः प्रायशःपरवंचकाः ।
त्रिकालसंध्यया हीना ब्रह्मबोधविवर्जिताः ॥ १६ ॥ |
16 | अदयाः पंडितं मन्यास्स्वाचारव्रतलोपकाः ।
कृष्युद्यमरताः क्रूरस्वभावा मलिनाशयाः ॥ १७ ॥ |
17 | क्षत्रियाश्च तथा सर्वे स्वधर्मत्यागशीलिनः ।
असत्संगाः पापरता व्यभिचारपरायणाः ॥ १८ ॥ |
18 | अशूरा अरणप्रीताः पलायनपरायणाः ।
कुचौरवृत्तयः शूद्रा ः कामकिंकरचेतसः ॥ १९ ॥ |
19 | शस्त्रास्त्रविद्यया हीना धेनुविप्रावनोज्झिताः ।
शरण्यावनहीनाश्च कामिन्यूतिमृगास्सदा ॥ २० ॥ |
20 | प्रजापालनसद्धर्मविहीना भोगतत्पराः ।
प्रजासंहारका दुष्टा जीवहिंसाकरा मुदा ॥ २१ ॥ |
21 | वैश्याः संस्कारहीनास्ते स्वधर्मत्यागशीलिनः ।
कुपथाः स्वार्जनरतास्तुलाकर्मकुवृत्तयः ॥ २२ ॥ |
22 | गुरुदेवद्विजातीनां भक्तिहीनाः कुबुद्धयः ।
अभोजितद्विजाः प्रायः कृपणा बद्धमुष्टयः ॥ २३ ॥ |
23 | कामिनीजारभावेषु सुरता मलिनाशयाः ।
लोभमोहविचेतस्काः पूर्तादिसुवृषोज्झिताः ॥ २४ ॥ |
24 | तद्वच्छूद्रा श्च ये केचिद्ब्राह्मणाचारतत्पराः ।
उज्ज्वलाकृतयो मूढाः स्वधर्मत्यागशीलिनः ॥ २५ ॥ |
25 | कर्तारस्तपसां भूयो द्विजतेजोपहारकाः ।
शिश्वल्पमृत्युकाराश्च मंत्रोच्चारपरायणाः ॥ २६ ॥ |
26 | शालिग्रामशिलादीनां पूजकाहोमतत्पराः ।
प्रतिकूलविचाराश्च कुटिला द्विजदूषकाः ॥ २७ ॥ |
27 | धनवंतः कुकर्म्माणो विद्यावन्तो विवादिनः ।
आख्यायोपासना धर्मवक्तारो धर्मलोपकाः ॥ २८ ॥ |
28 | सुभूपाकृतयो दंभाः सुदातारो महामदाः ।
विप्रादीन्सेवकान्मत्वा मन्यमाना निजं प्रभुम् ॥ २९ ॥ |
29 | स्वधर्मरहिता मूढाः संकराः क्रूरबुद्धयः ।
महाभिमानिनो नित्यं चतुर्वर्णविलोपकाः ॥ ३० ॥ |
30 | सुकुलीनान्निजान्मत्वा चतुर्वर्णैर्विवर्तनाः ।
सर्ववर्णभ्रष्टकरा मूढास्सत्कर्मकारिणः ॥ ३१ ॥ |
31 | स्त्रियश्च प्रायशो भ्रष्टा भर्त्रवज्ञानकारिकाः ।
श्वशुरद्रो हकारिण्यो निर्भया मलिनाशनाः ॥ ३२ ॥ |
32 | कुहावभावनिरताः कुशीलास्स्मरविह्वलाः ।
जारसंगरता नित्यं स्वस्वामिविमुखास्तथा ॥ ३३ ॥ |
33 | तनया मातृपित्रोश्च भक्तिहीना दुराशयाः ।
अविद्यापाठका नित्यं रोगग्रसितदेहकाः ॥ ३४ ॥ |
34 | एतेषां नष्टबुद्धीनां स्वधर्मत्यागशीलिनाम् ।
परलोकेपीह लोके कथं सूत गतिर्भवेत् ॥ ३५ ॥ |
35 | इति चिंताकुलं चित्तं जायते सततं हि नः ।
परोपकारसदृशो नास्ति धर्मो परः खलु ॥ ३६ ॥ |
36 | लघूपायेन येनैषां भवेत्सद्योघनाशनम् ।
सर्व्वसिद्धान्तवित्त्वं हि कृपया तद्वदाधुना ॥ ३७ ॥ |
37 | व्यास उवाच ।
इत्याकर्ण्य वचस्तेषां मुनीनां भावितात्मनाम् ।
मनसा शंकरं स्मृत्वा सूतः प्रोवाच तान्मुनीन् ॥ ३८ ॥ |
38 | इति श्रीशैवेमहापुराणे विद्येश्वरसंहितायां मुनिप्रश्नवर्णनो नाम प्रथमोऽध्यायः ॥ १ ॥ |
39 | सूत उवाच ।
साधुपृष्टं साधवो वस्त्रैलोक्यहितकारकम् ।
गुरुं स्मृत्वा भवत्स्नेहाद्वक्ष्ये तच्छृणुतादरात् ॥ १ ॥ |
40 | वेदांतसारसर्वस्वं पुराणं शैवमुत्तमम् ।
सर्वाघौघोद्धारकरं परत्र परमार्थदम् ॥ २ ॥ |
41 | कलिकल्मषविध्वंसि यस्मिञ्छिवयशः परम् ।
विजृम्भते सदा विप्राश्चतुर्वर्गफलप्रदम् ॥ ३ ॥ |
42 | तस्याध्ययनमात्रेण पुराणस्य द्विजोत्तमाः ।
सर्वोत्तमस्य शैवस्य ते यास्यंति सुसद्गतिम् ॥ ४ ॥ |
43 | तावद्विजृंभते पापं ब्रह्महत्यापुरस्सरम् ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ५ ॥ |
44 | तावत्कलिमहोत्पाताः संचरिष्यंति निर्भयाः ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ६ ॥ |
45 | तावत्सर्वाणि शास्त्राणि विवदंति परस्परम् ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ७ ॥ |
46 | तावत्स्वरूपं दुर्बोधं शिवस्य महतामपि ।
यावच्छिवपुराणं हि नो देष्यति जगत्यहो ॥ ८ ॥ |
47 | तावद्यमभटाः क्रूराः संचरिष्यंति निर्भयाः ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ९ ॥ |
48 | तावत्सर्वपुराणानि प्रगर्जंति महीतले ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ १० ॥ |
49 | तावत्सर्वाणि तीर्थानि विवदंति महीतले ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ११ ॥ |
50 | तावत्सर्वाणि मंत्राणि विवदंति महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १२ ॥ |
51 | तावत्सर्वाणि क्षेत्राणि विवदंति महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १३ ॥ |
52 | तावत्सर्वाणि पीठानि विवदंति महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १४ ॥ |
53 | तावत्सर्वाणि दानानि विवदंति महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १५ ॥ |
54 | तावत्सर्वे च ते देवा विवदंति महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १६ ॥ |
55 | तावत्सर्वे च सिद्धान्ता विवदंति महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १७ ॥ |
56 | अस्य शैवपुराणस्य कीर्तनश्रवणाद्द्विजाः ।
फलं वक्तुं न शक्नोमि कार्त्स्न्येन मुनिसत्तमाः ॥ १८ ॥ |
57 | तथापि तस्य माहात्म्यं वक्ष्ये किंचित्तु वोनघाः ।
चित्तमाधाय शृणुत व्यासेनोक्तं पुरा मम ॥ १९ ॥ |
58 | एतच्छिवपुराणं हि श्लोकं श्लोकार्द्धमेव च ।
यः पठेद्भक्तिसंयुक्तस्स पापान्मुच्यते क्षणात् ॥ २० ॥ |
59 | एतच्छिवपुराणं हि यः प्रत्यहमतंद्रि तः ।
यथाशक्ति पठेद्भक्त्या स जीवन्मुक्त उच्यते ॥ २१ ॥ |
60 | एतच्छिवपुराणं हि यो भक्त्यार्चयते सदा ।
दिने दिनेऽश्वमेधस्य फलं प्राप्नोत्यसंशयम् ॥ २२ ॥ |
61 | एतच्छिवपुराणं यस्साधारणपदेच्छया ।
अन्यतः शृणुयात्सोऽपि मत्तो मुच्येत पातकात् ॥ २३ ॥ |
62 | एतच्छिवपुराणं यो नमस्कुर्याददूरतः ।
सर्वदेवार्चनफलं स प्राप्नोति न संशयः ॥ २४ ॥ |
63 | एतच्छिवपुराणं वै लिखित्वा पुस्तकं स्वयम् ।
यो दद्याच्छिवभक्तेभ्यस्तस्य पुण्यफलं शृणु ॥ २५ ॥ |
64 | अधीतेषु च शास्त्रेषु वेदेषु व्याकृतेषु च ।
यत्फलं दुर्लभं लोके तत्फलं तस्य संभवेत् ॥ २६ ॥ |
65 | एतच्छिवपुराणं हि चतुर्दश्यामुपोषितः ।
शिवभक्तसभायां यो व्याकरोति स उत्तमः ॥ २७ ॥ |
66 | प्रत्यक्षरं तु गायत्रीपुरश्चर्य्याफलं लभेत् ।
इह भुक्त्वाखिलान्कामानं ते निर्वाणतां व्रजेत् ॥ २८ ॥ |
67 | उपोषितश्चतुर्दश्यां रात्रौ जागरणान्वितः ।
यः पठेच्छृणुयाद्वापि तस्य पुण्यं वदाम्यहम् ॥ २९ ॥ |
68 | कुरुक्षेत्रादिनिखिलपुण्यतीर्थेष्वनेकशः ।
आत्मतुल्यधनं सूर्य्यग्रहणे सर्वतोमुखे ॥ ३० ॥ |
69 | विप्रेभ्यो व्यासमुख्येभ्यो दत्त्वायत्फलमश्नुते ।
तत्फलं संभवेत्तस्य सत्यं सत्यं न संशयः ॥ ३१ ॥ |
70 | एतच्छिवपुराणं हि गायते योप्यहर्निशम् ।
आज्ञां तस्य प्रतीक्षेरन्देवा इन्द्र पुरो गमाः ॥ ३२ ॥ |
71 | एतच्छिवपुराणं यः पठञ्छृण्वन्हि नित्यशः ।
यद्यत्करोति सत्कर्म तत्कोटिगुणितं भवेत् ॥ ३३ ॥ |
72 | समाहितः पठेद्यस्तु तत्र श्रीरुद्र संहिताम् ।
स ब्रह्मघ्नोऽपि पूतात्मा त्रिभिरेवादिनैर्भवेत् ॥ ३४ ॥ |
73 | तां रुद्र संहितां यस्तु भैरवप्रतिमांतिके ।
त्रिः पठेत्प्रत्यहं मौनी स कामानखिलाँ ल्लभेत् ॥ ३५ ॥ |
74 | तां रुद्र संहितां यस्तु सपठेद्वटबिल्वयोः ।
प्रदक्षिणां प्रकुर्वाणो ब्रह्महत्या निवर्तते ॥ ३६ ॥ |
75 | कैलाससंहिता तत्र ततोऽपि परमस्मृता ।
ब्रह्मस्वरूपिणी साक्षात्प्रणवार्थप्रकाशिका ॥ ३७ ॥ |
76 | कैलाससंहितायास्तु माहात्म्यं वेत्ति शंकरः ।
कृत्स्नं तदर्द्धं व्यासश्च तदर्द्धं वेद्म्यहं द्विजाः ॥ ३८ ॥ |
77 | तत्र किंचित्प्रवक्ष्यामि कृत्स्नं वक्तुं न शक्यते ।
यज्ज्ञात्वा तत्क्षणाल्लोकश्चित्तशुद्धिमवाप्नुयात् ॥ ३९ ॥ |
78 | न नाशयति यत्पापं सा रौद्री संहिता द्विजाः ।
तन्न पश्याम्यहं लोके मार्गमाणोऽपि सर्वदा ॥ ४० ॥ |
79 | शिवेनोपनिषत्सिंधुमन्थनोत्पादितां मुदा ।
कुमारायार्पितां तां वै सुधां पीत्वाऽमरो भवेत् ॥ ४१ ॥ |
80 | ब्रह्महत्यादिपापानां निष्कृतिं कर्तुमुद्यतः ।
मासमात्रं संहितां तां पठित्वा मुच्यते ततः ॥ ४२ ॥ |
81 | दुष्प्रतिग्रहदुर्भोज्यदुरालापादिसंभवम् ।
पापं सकृत्कीर्तनेन संहिता सा विनाशयेत् ॥ ४३ ॥ |
82 | शिवालये बिल्ववने संहितां तां पठेत्तु यः ।
स तत्फलमवाप्नोति यद्वाचोऽपि न गोचरे ॥ ४४ ॥ |
83 | संहितां तां पठन्भक्त्या यः श्राद्धे भोजयेद्द्विजान् ।
तस्य ये पितरः सर्वे यांति शंभोः परं पदम् ॥ ४५ ॥ |
84 | चतुर्दश्यां निराहारो यः पठेत्संहितां च ताम् ।
बिल्वमूले शिवः साक्षात्स देवैश्च प्रपूज्यते ॥ ४६ ॥ |
85 | अन्यापि संहिता तत्र सर्वकामफलप्रदा ।
उभे विशिष्टे विज्ञेये लीलाविज्ञानपूरिते ॥ ४७ ॥ |
86 | तदिदं शैवमाख्यातं पुराणं वेदसंमितम् ।
निर्मितं तच्छिवेनैव प्रथमं ब्रह्मसंमितम् ॥ ४८ ॥ |
87 | विद्येशंच तथारौद्रं वैनायकमथौमिकम् ।
मात्रं रुद्रै कादशकं कैलासं शतरुद्र कम् ॥ ४९ ॥ |
88 | कोटिरुद्र सहस्राद्यं कोटिरुद्रं तथैव च ।
वायवीयं धर्मसंज्ञं पुराणमिति भेदतः ॥ ५० ॥ |
89 | संहिता द्वादशमिता महापुण्यतरा मता ।
तासां संख्यां ब्रुवे विप्राः शृणुतादरतोखिलम् ॥ ५१ ॥ |
90 | विद्येशं दशसाहस्रं रुद्रं वैनायकं तथा ।
औमं मातृपुराणाख्यं प्रत्येकाष्टसहस्रकम् ॥ ५२ ॥ |
91 | त्रयोदशसहस्रं हि रुद्रै कादशकं द्विजाः ।
षट्सहस्रं च कैलासं शतरुद्रं तदर्द्धकम् ॥ ५३ ॥ |
92 | कोटिरुद्रं त्रिगुणितमेकादशसहस्रकम् ।
सहस्रकोटिरुद्रा ख्यमुदितं ग्रंथसंख्यया ॥ ५४ ॥ |
93 | वायवीयं खाब्धिशतं घर्मं रविसहस्रकम् ।
तदेवं लक्षसंख्याकं शैवसंख्याविभेदतः ॥ ५५ ॥ |
94 | व्यासेन तत्तु संक्षिप्तं चतुर्विंशत्सहस्रकम् ।
शैवं तत्र चतुर्थं वै पुराणं सप्तसंहितम् ॥ ५६ ॥ |
95 | शिवे संकल्पितं पूर्वं पुराणं ग्रन्थसंख्यया ।
शतकोटिप्रमाणं हि पुरा सृष्टौ सुविस्मृतम् ॥ ५७ ॥ |
96 | व्यस्तेष्टादशधा चैव पुराणे द्वापरादिषु ।
चतुर्लक्षेण संक्षिप्ते कृते द्वैपायनादिभिः ॥ ५८ ॥ |
97 | प्रोक्तं शिवपुराणं हि चतुर्विंशत्सहस्रकम् ।
श्लोकानां संख्यया सप्तसंहितं ब्रह्मसंमितम् ॥ ५९ ॥ |
98 | विद्येश्वराख्या तत्राद्या रौद्री ज्ञेया द्वितीयिका ।
तृतीया शतरुद्रा ख्या कोटिरुद्रा चतुर्थिका ॥ ६० ॥ |
99 | पंचमी चैव मौमाख्या षष्ठी कैलाससंज्ञिका ।
सप्तमी वायवीयाख्या सप्तैवं संहितामताः ॥ ६१ ॥ |
End of preview. Expand
in Data Studio
No dataset card yet
- Downloads last month
- 8