Chapter
int64
1
30
Verse
int64
1
134
Sanskrit
stringlengths
43
336
Transliteration
stringlengths
49
377
30
12
प्रशंसन्ति जनाश्चैनं चोरयेयुर्न दस्यवः । अनुपद्रवमैश्वर्यं चिरं तिष्ठत्ययन्त्रितम् ॥ 12 ॥
null
30
13
धर्माद्यभिमुखी धीः स्यादधर्मादिपराङ्मुखी । सुखेनैवापरान्तश्च पुण्यकाले भविष्यति ॥ 13 ॥
null
30
14
जन्मोत्कृष्टकुले भूयो भक्तिश्च पुनरच्युते । उत्कृष्टतम एव स्यात् तथा जन्मनि जन्मनि ॥ 14 ॥
null
30
15
अक्लिष्टमष्टधैश्वर्यं तत्प्रसादाद् भविष्यति । विहरेदिच्छया दीर्घं निर्वाणं वा तथाऽप्नुयात् ॥ 15 ॥
null
30
16
भक्तेष्वस्य प्रसादेन भवितव्यं तु सर्वथा । भ्रष्टोऽपि विविधान् कामानाप्नुयान्न विमुच्यते ॥ 16 ॥
null
30
17
किन्तु कर्मानुबन्धेन संसारे क्लेशसम्भवः । तस्मात् तद्भक्तिरेवास्य संपदां कारणं भवेत् ॥ 17 ॥
null
30
18
तज्ज्ञानेन नृणां भक्तिर्वर्धनीया प्रयत्नतः । वर्धिता तु विशेषेण सैनं नयति सत्पथम् ॥ 18 ॥
null
30
19
तस्मात् कार्यो विवेकोऽत्र गुणदोषा यथा स्थिताः । चिन्तयेदखिलान् दोषानेकान्ते शुद्धमानसः ॥ 19 ॥
null
30
20
कामकोपादिभिर्मुक्तं मनः शुद्धं भविष्यति । अभ्यासेन भवेच्छुद्धिर्मनसो योगवर्त्मनि ॥ 20 ॥
null
30
21
शुद्धे मनसि तद्भक्तिर्जायते तस्य निश्चला । तस्यां समुपजातायां तत्त्वे चेतोऽवतिष्ठते ॥ 21 ॥
null
30
22
रागद्वेषपरीतस्य विफलं तत्त्वदर्शनम् । तस्मात् तौ पूर्वमुत्सार्यौ तत्त्वं सम्यग् दिदृक्षुणा ॥ 22 ॥
null
30
23
पुण्यदेशेषु दृष्टेषु भयेषु मरणेषु च । तथा रोगावमानेषु वैराग्यमुपजायते ॥ 23 ॥
null
30
24
मरणादिषु दृष्टेषु स्वयमेव समाहितः । बुद्ध्या विवेकमातिष्ठेन्नित्यं वैराग्यकारणम् ॥ 24 ॥
null
30
25
विवेकाज्जायते भक्तिर्वैराग्यं चास्य सर्वदा । ततस्तत्त्वगता बुद्धिर्भविष्यत्यनपायिनी ॥ 25 ॥
null
30
26
न भोगेषु प्रसक्तः स्यान्न कुर्याद् दुर्लभे मतिम् । अल्पेन परितुष्टः स्यान्नित्यं भागवतो बुधः ॥ 26 ॥
null
30
27
विपाकं कर्मणामेव पश्येत् पश्यन् प्रियाप्रिये । इदं युक्तमिदं नेति नानुशोचेत् कदाचन ॥ 27 ॥
null
30
28
प्रभुत्वं नात्मनः किञ्चिदिति पश्येद् विवेकवान् । घोषयेन्नैव कृत्यानि न कुर्यात् संभ्रमं क्वचित् ॥ 28 ॥
null
30
29
न चाकाङ्क्षेद् यशः किञ्चिद् देवदेवस्य पूजनात् । यथा मनः प्रियेष्वेवं सक्तं देवे च भावयेत् ॥ 29 ॥
null
30
30
नित्यं भक्तौ तु जातायां जायते तत्त्वदर्शनम् । तत्त्वविद् यत्र तत्रस्थो मुक्तसङ्गः परिव्रजेत् ॥ 30 ॥
null
30
31
एक एव पुनस्तीर्थं क्षेत्रं चानुव्रजेत् सदा । भक्त्या देवमनुध्यायेत् तन्निष्ठस्तत्परायणः ॥ 31 ॥
null
30
32
अन्तकाले च तं स्मृत्वा तत्सायुज्यमवाप्नुयात् । विरक्तोऽखिलतत्त्वानि विलाप्य परमात्मनि ॥ 32 ॥
null
30
33
कृत्वा निर्विषयं चित्तमुदासीनो विमुच्यते । ऐश्वर्येऽपि स्थितो योगी न देवं जातु विस्मरेत् ॥ 33 ॥
null
30
34
यतः कालक्रमेण स्यादुपघातोऽन्यथा ध्रुवम् । सायुज्यं प्रतिपन्नास्तु ये भक्ताः शुद्धचेतसः ॥ 34 ॥
null
30
35
तेविष्णोः किङ्करा नित्यं भवन्ति निरुपद्रवाः । तेषां भक्त्पराधेन संसारः संभवेत् पुनः ॥ 35 ॥
null
30
36
अन्यथा स्थितिरेव स्याद् वैराग्यान्मुक्तिरेव वा । निवृत्तास्तु विशिष्यन्ते सर्वेभ्यस्तत्त्वदर्शिनः ॥ 36 ॥
null
30
37
नैव तेषां भवो भूयः प्रमादो वेह कश्चन । मुक्तिरेव तु विज्ञेया गतीनामुत्तमा गतिः ॥ 37 ॥
null
30
38
अन्यास्तु गतयः सर्वाः सप्रमादाः स्युरध्रुवाः । तथाऽपि मतिवैचित्र्यादुभयं संमतं नृणाम् ॥ 38 ॥
null
30
39
ऐश्वर्यमपवर्गो वा कस्यचित् किञ्चिदेव तु । तद्गता भक्तिरेवैषामुभयस्यापि साधनी ॥ 39 ॥
null
30
40
समाधेर्वर्धमानस्य विभागाद् भेदकारिणः । सत्त्वस्थे यत्नतश्चित्ते योगाङ्गानि निषेवते ॥ 40 ॥
null
30
41
तेषु स्थित्वा स्मरेद् विष्णुमेकाग्रेण तु चेतसा । तमः क्षरति तेनास्य रजश्च वशिनः क्रमात् ॥ 41 ॥
null
30
42
ततो जन्मभिरुकृष्टैः सिद्धिमेवाधिगच्छति । यदा तु सत्त्वमातिष्ठेदस्पृष्टो रजसा क्वचित् ॥ 42 ॥
null
30
43
ततोऽस्य मुक्तिरेव स्यात् सायुज्यं वा महात्मनः । तस्माद् भक्तिं सदाऽन्विच्छेद् याऽस्य सर्वस्य कारणम् ॥ 43 ॥
null
30
44
भक्तावच्यमानायां भवेच्छ्रेयोऽस्य नान्यथा । अन्तरायास्तु ये नित्यं योगाभ्यासस्य दूषकाः ॥ 44 ॥
null
30
45
तेषु प्रसज्यमानेषु तत्त्वदर्शनमाश्रयेत् । नातिवेलं सदाभ्यस्येन्न शरीरं च पीडयेत् ॥ 45 ॥
null
30
46
विषयेभ्योऽपि यत्नेन निवर्तेत शनैः शनैः । अपूर्वदर्शने चैव लोकवादाश्रये तथा ॥ 46 ॥
null
30
47
मोघचिन्ताप्रसङ्गे च योगमिच्छेन्नरो बुधः । निवृत्तेष्वेषु सर्वेषु भक्तिः पुंसो विवर्धने ॥ 47 ॥
null
30
48
विषया दुस्त्यजाः सेव्या धर्मशास्त्राविरोधिनः । बह्वपायत्वयोगेन यत्नाद् वेच्छां निवर्तयेत् ॥ 48 ॥
null
30
49
येभ्यो निवर्तमानस्य मनः शुद्धं भवेत् सदा । निवृत्तेरभ्युपायश्च शुद्धिरेव परात्मनः ॥ 49 ॥
null
30
50
शुद्धावाद्रियमाणायां बीभत्सुर्विषयेष्वयम् । जायते नाशुचिष्वेव संसर्गोऽस्य भविष्यति ॥ 50 ॥
null
30
51
अशुचीनामसंसर्गाच्चित्तमस्य प्रसीदति । प्रसादे निःस्पृहस्यास्य भक्तिर्मुक्तिस्ततो ध्रुवा ॥ 51 ॥
null
30
52
शब्दादिविषयाञ् जित्वा रुद्धा द्वाराणि सर्वशः । प्रविलाप्येन्द्रियाण्यन्तश्चिन्तयेत् परमं पदम् ॥ 52 ॥
null
30
53
संयम्य मारुतान् पञ्च योगाभ्यासेन योगवित् । स्थिरीकृतमना नित्यं ध्यायेत् तत् परमं पदम् ॥ 53 ॥
null
30
54
वर्णाश्च पञ्चवायूनामन्तस्थानां विचिन्तयेत् । मध्ये मध्ये तु पुर्वेषां क्रमाद् ध्येयाः परे परे ॥ 54 ॥
null
30
55
काशवर्णो भवेत् प्राणो रक्तोऽपानोऽस्य मध्यगः । विद्युत्स्फुरितभा व्यान उदानः कुन्दसन्निभः ॥ 55 ॥
null
30
56
समानस्तु ततो ध्येयः शुद्धस्फटिकसन्निभः । एवं ध्यात्वा निरुध्यान्तः क्रमशः पञ्च मारुतान् ॥ 56 ॥
null
30
57
षडङ्गानि च विज्ञाय प्रयुञ्जीत यथाविधि । प्राणायामोऽत्र पूर्वं तु प्रत्याहारोऽथ धारणा ॥ 57 ॥
null
30
58
ततस्तर्कः समाधिश्च ध्यानं चाङ्गानि षट् क्रमात् । ये प्रोक्ता योगिभिः पूर्वं पूररेचककुम्भकाः ॥ 58 ॥
null
30
59
प्राणायामास्तु विज्ञेया मात्राभिस्ते पृथक् क्रमात् । जानुं प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् ॥ 59 ॥
null
30
60
क्रियते योऽङ्गुलिस्फोटः सा मात्रेह प्रकीर्तिता । यदा द्वादशमात्राभिः पूरकः क्रियते तदा ॥ 60 ॥
null
30
61
रेचको द्विगुणाभिः स्यात् त्रिगुणाभिश्च कुम्भकः । प्राणानां यस्त्विहायामः क्रमादेवं प्रकीर्तितः ॥ 61 ॥
null
30
62
सर्वशास्त्रेषु शास्त्रज्ञैः प्राणायामः स उच्यते । धारणा तु भवेद् या सा प्राणायामैस्त्रिभिः स्मृता ॥ 62 ॥
null
30
63
श्यामा पीताऽरुणा शुक्ला क्रमाज्ज्ञेया च धारणा । नाभिमध्यगतेनादौ बीजेन पुरुषात्मना ॥ 63 ॥
null
30
64
वायव्या धारणा कार्या सा श्यामा पूरकात्मिका । ततो विश्वात्मबीजेन रक्तेन हृदि या कृता ॥ 64 ॥
null
30
65
आग्नेयी सा समुद्दिष्टा द्वितीया रेचका मता । कण्ठे निवृत्तिबीजेन पीतेन क्रियते तु या ॥ 65 ॥
null
30
66
माहेन्द्री सा समुद्दिष्टा धारणा कुम्भकात्मिका । मूर्ध्नि सर्वात्मबीजेन शुक्लेनैतैस्त्रिभिस्त्रिभिः ॥ 66 ॥
null
30
67
क्रियते धारणा यान्त्या वारुणी सा प्रकीर्तिता । स्थितेषु तेषु बीजेषु चैतन्यं धार्यते यदा ॥ 67 ॥
null
30
68
तद्गुणान्वितमित्येव जगत् सर्वं तदा स्मरेत् । नाभ्यादिषु यथोद्दिष्टं बीजं भूतगुणात्मकम् ॥ 68 ॥
null
30
69
क्रियाभिर्धार्यते याभिस्तत्क्रिया धारणा मता । अन्वयव्यतिरेकाभ्यां यस्माद् यदुपलभ्यते ॥ 69 ॥
null
30
70
धारणादिषु कालेषु स तर्कः सम्प्रकीर्तितः । आवप्रयासरूपेण यथाकर्म गुणात्मकम् ॥ 70 ॥
null
30
71
समाधिश्चेह विज्ञेयो धारणाभिस्त्रिभिस्त्रिभिः । ध्यातृध्येयस्वरूपं यत् तत्र रुन्ध्यात् प्रदर्शनम् ॥ 71 ॥
null
30
72
समाधित्रिगुणं यावदेवं ध्यानस्य लक्षणम् । एवं सर्वात्मना यस्य ज्ञेयैस्तुल्यः कथञ्चन ॥ 72 ॥
null
30
73
योगोऽसौ योगिभिः प्रोक्तो विज्ञानक्रमयोगतः । गुणानां यः समाहारः सहायस्य च चेतसः ॥ 73 ॥
null
30
74
सद्भावभावतो बुद्ध्या स योगश्चेह कीर्तितः । स च ज्ञानक्रियाभेदाद् ज्ञेयो योगो द्विधा बुधैः ॥ 74 ॥
null
30
75
अन्तः करणवृत्त्या या तेषामात्मैकता मता । ज्ञानयोगः स उद्दिष्टः कर्मयोगः क्रियात्मकः ॥ 75 ॥
null
30
76
इष्ट्वाऽदौ कर्मयोगेन ज्ञानयोगेन तं यजेत् । कायिकैर्वाचिकैश्चैव मानसैश्च पुनः क्रमात् ॥ 76 ॥
null
30
77
स्थूले निवेशितं चित्तं पुनः सूक्ष्मे निवेशयेत् । पररूपे यदा युक्तस्तदाऽसौ मुक्त उच्यते ॥ 77 ॥
null
30
78
परात्परतरं ज्योतिश्चिद्रूपमचलं ध्रुवम् । यः प्रपश्यति बुद्ध्याऽसौ न पुनर्भुवि जायते ॥ 78 ॥
null
30
79
तस्मात् सर्वप्रयत्नेन भक्तो योगी भवेत् सदा । युक्तो देवमुपासीत सिद्धिरेवं भविष्यति ॥ 79 ॥
null
30
80
एवं ते सकलाऽख्याता मयाऽल्पा विष्णुसंहिता । साक्षाद्विष्णुमुखादेषा मया प्राप्ता युगान्तरे ॥ 80 ॥
null
30
81
ज्ञानानां परमं ज्ञानं गुह्यानां गुह्यमुत्तमम् । हितानां च हितं नान्यदतो रक्ष्यमिदं त्वया ॥ 81 ॥
null
30
82
यथाऽहं श्रुतवान् पूर्वं साक्षाद् भगवतो मुखात् । तथेदमखिलं तन्त्रं मया तुभ्यं निवेदितम् ॥ 82 ॥
null
30
83
नादीक्षिताय दातव्यं नासंवत्सरवासिने । नाभक्तायाविनीताय नान्यभक्ताय वा क्वचित् ॥ 83 ॥
null
30
84
कृतज्ञाय विनीताय शुचये ब्रह्मचारिणे । वक्तव्यं सर्वथाऽचार्यैरित्येवं विष्णुशासनम् ॥ 84 ॥
null
30
85
गुप्तं हि स्थापयेत् सर्वमगुप्तं नाशयेन्नरः । तस्मात् सर्वप्रयत्नेन गोप्यमेतत् सदा बुधैः ॥ 85 ॥
null
30
86
यः पठेच्छृणुयान्नित्यं श्रावयेद् वा समाहितः । सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ 86 ॥
null
30
87
तस्माद् भक्तैरिदं नित्यमध्येयं श्राव्यमेव च । पुस्तके लिखितं नित्यं पूजनीयं प्रयत्नतः ॥ 87 ॥
null
30
88
यत्रेदं प्रयतैर्नित्यं पूज्यते पुस्तकस्थितम् । न तत्र व्याधिचोरादिभयं किञ्चित् प्रजायते ॥ 88 ॥
null
30
89
तस्मात् सर्वप्रयत्नेन गृहे सततमर्चयेत् । स्थापयेद् गोपयेच्चात्र वर्धते श्रीरचञ्चला ॥ 89 ॥
null