text
stringlengths
0
31.6M
metadata
dict
नेमिनाथः /ˈɛɪɑːθəə/) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु द्वाविंशतितमः तीर्थङ्करः अस्ति । भगवतः नेमिनाथस्य वर्णः श्यामः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं शङ्खः अस्ति । कौमारावस्थायां नेमिनाथस्य शरीरस्य औन्नत्यं दशः धनुर्मात्रात्मकम् आसीत् । भगवतः धार्मिकपरिवारे “गोमेध” इत्याख्यः यक्षः, “अम्बिका” इत्याख्या यक्षिणी च आसीत् । भगवान् नेमिनाथः हरिवंशवंशीयः, गौतमगोत्रीयश्चासीत् । देवायुष्यं पूर्णं कृत्वा भरतखण्डस्य शौरीपुर-नगरे भगवान् नेमिनाथः अवातरत् । श्रावण-मासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ चित्रा-नक्षत्रे मध्यरात्रौ शौरीपुर-नगरस्य समुद्रविजय-नामकस्य राज्ञः गृहे भगवतः नेमिनाथस्य जन्म अभवत् । नेमिनाथस्य पिता समुद्रविजयः, माता च शिवादेवी आसीत् । समुद्रविजयः शौरीपुर-नगरस्य श्रेष्ठः राजा आसीत् । कार्त्तिक-मासस्य कृष्णपक्षस्य द्वादश्यां तिथौ चित्रा-नक्षत्रे रात्रौ शिवादेवी तीर्थङ्करत्वसूचकान् चतुर्दश स्वप्नान् दृष्टवती । रात्रौ एव शिवादेवी राज्ञे समुद्रविजयाय चतुर्दशस्वप्नान् श्रावितवती । तस्यां रात्रौ एव भगवतः नेमिनाथस्य जीवः शिवादेव्याः गर्भं प्राविशत् । आगामि-दिने राज्ञा स्वप्नशास्त्रिणः आहूताः । स्वप्नानां फलादेशाय स्वप्नशास्त्रमावश्यकं वर्तते । स्वप्नशास्त्रिणां पूजनं कृत्वा शिवादेवी चतुर्दशः स्वप्नान् श्रावितवती । स्वप्नशास्त्रिणः स्वप्नानां फलादेशम् अकुर्वन् यत् – “शिवादेव्याः गर्भे कश्चन श्रेष्ठः बालको विद्यते । सः बालकः तीर्थङ्करत्वं प्राप्स्यति । गर्भकालस्य समाप्त्यनन्तरं भगवतः नेमिनाथस्य पीडारहितं जन्म अभवत् । भगवतः जन्मनः सन्देशं प्राप्य राजा समुद्रविजयः प्रसन्नः जातः । राजा समुद्रविजयः तत्कालमेव सम्पूर्णे राज्ये पुत्रोत्सवस्य घोषणां चकार । ये बन्धिनः आसन्, तेभ्यः राजा मुक्तिम् अददात् । राज्ञा पुत्रप्राप्त्याः प्रसन्नतायां सर्वेभ्यः दानमपि अक्रियत । नगरजनाः अपि प्रसन्नाः आसन् । एकादशदिनानि यावत् भगवतः नेमिनाथस्य जन्मोत्सवः आचरितः । चतुर्विंशतितीर्थङ्करेषु एकविंशतिः तीर्थङ्कराः प्रागैतिहासिककाले अभवन् । त्रयोविंशतितमः, चतुर्विंशतितमः च तीर्थङ्करः ऐतिहासिककाले अभवताम् । द्वाविंशतितमः तीथङ्करः नेमिनाथात् पूर्वं प्रागैतिहासिकं मन्यते स्म । किन्तु साम्प्रते काले बहूनां विदुषां मतानुसारेण नेमिनाथः ऐतिहासिकः तीर्थङ्करः आसीत् । नेमिनाथस्य पूर्वजन्मनः विवरणमपि प्राप्यते । जम्बूद्वीपस्य भरतक्षेत्रे अचलपुरनामकं किञ्चन नगरम् आसीत् । तस्य नगरस्य राजा विक्रमधनः आसीत् । तस्य पत्नी धारिणी आसीत् । धारिणी एकं पुत्रम् अजीजनत् । तस्य नाम धनकुमारः इति । धनकुमारस्य विवाहः कुसुमपुरस्य राज्ञः सिंहस्य पुत्र्या धनवत्या सह अभवत् । एकदा धनकुमारः, धनवती च इत्येतौ जलक्रिडायै गतवन्तौ आस्ताम् । तत्र ताभ्यां कश्चन रोगी मुनिः दृष्टः । तत्र ताभ्यां तस्य मुनेः सेवा कृता । यदा सः मुनिः अचलपुर-नगरम् प्राप्तवान्, तदा ताभ्यां मुनेः भक्तिः कृता आसीत् । मुनेः उपदेशात् तौ दम्पती श्रावकत्वं स्वीकृतवन्तौ । विक्रमधनः दीक्षाम् अङ्गीकर्तुम् ऐच्छत् । अतः तेन धनकुमारस्य राज्याभिषेकं कृत्वा तस्मै राज्यस्य दायित्वं प्रदत्तम् आसीत् । अनन्तरं धनकुमारेण अपि स्वस्य पुत्रस्य जयन्तस्य राज्याभिषेकं कृत्वा तस्मै राज्यं प्रदत्तम् । धनकुमारः, धवनती च एतौ द्वौ दीक्षाम् अङ्गीकृतवन्तौ । अन्ते सौधर्मनामकं प्रथमं देवलोकं प्राप्तवन्तौ । तत्र महर्धिकदेवौ अभवताम् । भरतक्षेत्रस्य वैताढ्यपर्वतश्रेण्यां सूरतेज-नामकं नगरं स्थितमासीत् । विद्याधरसूरः नामकः तस्य नगरस्य राजा आसीत् । विद्युन्मती-नामिका तस्य पत्नी आसीत् । धनकुमारस्य जीवः तृतीये भवे विद्युन्मत्याः गर्भं प्रविष्टः । गर्भकालस्य समाप्त्यनन्तरं पुत्रस्य जन्म अभवत् । तस्य नाम चित्रगतिः इति कृतम् । वैताढ्यपर्वतस्य दक्षिणश्रेण्यां शिवमन्दिर-नगरम् आसीत् । तस्य नगरस्य राजा अनन्तसिंहः आसीत् । शशीप्रभा-नामिका तस्य पत्नी आसीत् । धनवत्याः जीवः तृतीये भवे अनन्तसिंहस्य रत्नवती-नामिकायाः पुत्रीस्वरूपेण अवतीर्णः । समयान्तरे तस्याः विवाहः चित्रगतिना सह अभवत् । चित्रगतिः स्वस्य पुरन्दर-नामकस्य पुत्रस्य राज्याभिषेकं कृतवान् । तेन पुरन्दराय राज्यस्य दायित्वम् अपि प्रदत्तम् आसीत् । अन्ते चित्रगतिना स्वस्य पत्नीभिः, अनुजभातृभ्यां च सह दमधरमुनेः दीक्षा प्राप्ता । बहुवर्षाणि यावत् चित्रगतिः तपस्यां चकार । सः माहेन्द्र-नामके चतुर्थे देवलोके महर्धिकदेवः अभवत् । तस्य पत्नी, भ्रातरौ चापि तस्मिन्नेव लोके देवाः अभवन् । पूर्वमहाविदेहस्य पद्मविजये सिंहपुर-नगरम् आसीत् । हरिनन्दी-नामकः सिंहपुरस्य राजा आसीत् । प्रियदर्शना-नामिका तस्याः पत्नी आसीत् । चित्रगतेः जीवः देवायुष्यं समाप्य प्रियदर्शनायाः पुत्रस्वरूपेण अजायत । तस्य नाम अपराजितः इति कृतम् । जनानन्दपुरस्य राजा जितशत्रुः आसीत् । तस्याः पत्नी धारिणी आसीत् । रत्नवत्याः जीवः धारिण्याः पुत्रीस्वरूपेण अवतीर्णः । प्रीतिमतिः इति तस्याः नामकरणं कृतम् । स्वस्य पुत्र्यां यौवने प्राप्ते सति जितशत्रुणा तस्याः विवाहः स्वयंवरपद्धत्या कारितः । अपराजितः राजा अपि स्वयंवरविवाहाय गतवान् आसीत् । प्रीतिमत्या स्वयंवरे अपराजितस्य वरणं कृतम् । मनोगतेः, चपलगतेः च जीवः अपि माहेन्द्रदेवलोकस्य आयुष्यं समाप्य अस्मिन् जन्मनि सूर, सोम च स्वरूपेण अभवत् । अपराजितेन श्रेष्ठतया राज्यस्य सञ्चालनं कृतम् आसीत् । प्रजाजनाः सुखिनः आसन् । तस्य पुत्रः पद्मनाभः आसीत् । समयान्तरे अपराजितेन पद्मनाभस्य राज्याभिषेकं कृत्वा तस्मै राज्यस्य दायित्वं प्रदत्तं च । तेन पत्न्या, अनुजाभ्यां च सह दीक्षा अङ्गीकृता । दीक्षानन्तरं तैः महत्साधना कृता । अन्ते सर्वे मोक्षं सम्प्राप्य आरण-नामके एकादशे देवलोके देवाः अभवन् । भरतक्षेत्रस्य हस्तिनापुर-नगर्यां श्रीषेणनामकः राजा आसीत् । तस्य पत्न्याः नाम श्रीमती इति । अपराजितस्य जीवः देवलोकस्य सम्पूर्णायुष्यं समाप्य श्रीमत्याः गर्भं प्राविशत् । नवमासानन्तरं सा एकं पुत्रम् अजीजनत् । तस्य नाम शङ्खः इति कृतम् । प्रीतिमत्याः जीवः अङ्गदेशास्य चम्पानगर्याः राज्ञः जितारिणः गृहे पुत्रीस्वरूपेण अवतीर्णः । तस्याः नाम यशोमती इति कृतम् आसीत् । पूर्वजन्मनः अपराजितस्य अनुजौ अस्मिन् जन्मनि यशोधरः, गुणधरः इत्येतौ श्रीषेणस्य पुत्रौ अभवताम् । एकदा समीपस्थस्य सीमाडा-नगरस्य जनाः साहाय्यं याचितुं हस्तिनापुर-नगरं समागताः । पल्लिनगरस्य समरकेतु-नामकः कश्चन राजा आसीत् । समरकेतुः सीमाडा-नगरस्य, नगरजनानां च धनं, सम्पत्तिं च अपहृतवान् । नगरजनानां याचनां श्रुत्वा श्रीषेणेन युद्धाय सेना प्रेषिता । श्रीषेणः स्वयमपि गन्तुं सज्जः अभवत् । किन्तु यदा शङ्खः युद्धस्य समाचारं प्राप्तवान्, तदा श्रीषेणस्य स्थाने शङ्खः स्वयमेव युद्धं कर्तुं गतः । तदनन्तरं भयङ्करं युद्धम् अभवत् । अन्ते समरकेतोः सैन्यं नष्टं जातम् । समरकेतुना शङ्खाय समर्पणं कृतम् । समरकेतुना लुण्ठिता सम्पत्तिः जनेभ्यः प्रतिदत्ता । समरकेतुं बद्ध्वा शङ्खः हस्तिनापुर-नगरं प्रत्यागच्छन् आसीत्, तदा मार्गे राजा मणिशेखरः अमिलत् । मणिशेखरः शङ्खं दृष्ट्वा पलायितुम् ऐच्छत् । मणिशेखरः बलात् एव यशोमत्या सह विवाहं कर्तुम् इच्छति स्म । अतः यशोमती अवसरं प्राप्य स्वस्य व्यथां शङ्खाय उक्तवती । शङ्खेन मणिशेखरः अवबोधितः । किन्तु तथापि मणिशेखरः न अवगतः । अन्ते शङ्खेन मणिशेखरेण सह युद्धं कृतम् । मणिशेखरः युद्धे पराजितो जातः । मृत्युभयात् मणिशेखरः पलायितवान् । शङ्खस्य शौर्यं दृष्ट्वा यशोमती शङ्खात् आकृष्टा अभवत् । यशोमत्याः पिता चम्पानरेशः जितारिः अपि युद्धस्थलं प्राप्तवान् आसीत् । यशोमती शङ्खेन सह विवाहं कर्तुम् ऐच्छत् । अतः पुत्र्याः मनसः इच्छां ज्ञात्वा जितारिणा वने एव यशोमत्याः शङ्खेन सह विवाहः कारितः । राजा श्रीषेणः पुत्रस्य विजयस्य, प्रत्यागमनस्य च सन्देशं प्राप्तवान् । श्रीषेणेन शङ्खस्य उत्साहपूर्वकं स्वागतं कृतम् । शङ्खस्य शौर्यगाथां श्रुत्वा श्रीषेणः प्रसन्नः जातः । श्रीषेणेन राज्ये उत्सवस्य घोषणा कृता । तस्मिन् उत्सवे एव श्रीषेणेन शङ्खस्य राज्याभिषेकः कृतः । अनन्तरं शङ्खाय राज्यस्य दायित्वं प्रदत्तम् । श्रीषेणः स्वयं वैराग्यं प्रापत् । सः साधनां कर्तुं राज्यं त्यक्तवान् । बहुवर्षानन्तरं तेन कैवल्यज्ञानं प्राप्तम् । राजा शङ्खः नीतिपूर्वकं राज्यस्य सञ्चालनं कुर्वन् आसीत् । एकदा राजा शङ्खः पत्न्या सह अटितुमुपवनं गतवान् । तस्य मित्राणि, अनुचराः अपि सहैव गतवन्तः आसन् । उद्याने एव भोजनस्य व्यवस्था आसीत् । सर्वे तत्र वार्तालापं कुर्वन्तः आसन् । तदैव एकः मुनिः तत्र आगतः । मुनिं दृष्ट्वा शङ्खः नमस्कृतवान् । यशोमती अपि मुनिं दृष्ट्वा चकिता अभवत् । मुनिः जलार्थं हस्तसङ्केतं कृतवान् । शङ्खः मुनेः सङ्केतम् अवगतवान् आसीत् किन्तु तत्क्षणमेव जलं कुतः आनेयिष्यामि ? इति व्यचारयत् । तदा यशोमती भोजनालयं गत्वा जलम् आनीतवती । शुद्धजलं प्राप्य मुनिः जलम् अपिबत् । अस्मिन् प्रसङ्गे राज्ञा शङ्खेन तीर्थङ्करगोत्रस्य बन्धनं कृतम् । राज्ञी यशोमती अपि एकभवतारी अभवत् । अग्रिमे जन्मनि सा महासत्याः राजीमत्याः स्वरूपेण जन्म प्राप्तवती । एकदा मुनिः श्रीषेणः हस्तिनापुर-नगरीं प्राप्तवान् आसीत् । राजा शङ्खः द्वाभ्यां भ्रातृभ्यां, यशोमत्या, सकलपरिवारेण च सह श्रीषेणमुनेः दर्शनं कर्तुं गतवान् । सर्वे श्रीषेणमुनेः प्रवचनं श्रुतवन्तः । प्रवचनानन्तरं शङ्खेन श्रीषेणमुनिं प्रति प्रश्नः पृष्टः यत् – “यशोमत्याः मयि एतावान् स्नेहः प्रेम वा कथम् अस्ति ? अस्य किं कारणम् अस्ति ? मह्यं कथयतु” इति । तदा श्रीषेणेन शङ्खः उक्तः यत् – “यदा भवान् पूर्वजन्मनि प्रथमे भवे धनकुमारः आसीत्, तदा सः धनवतीस्वरूपेण भवतः पत्नी आसीत् । अनन्तरं द्वितीये भवे सौधर्मनामके देवलोके सा भवतः सखी आसीत् । पुनः तृतीये भवे मृत्युलोके भवतोः जन्म अभवत् । तस्मिन् जन्मनि भवान् चित्रगतिः आसीत् । सा रत्नवतीस्वरूपेण तव पत्नी आसीत् । पुनः चतुर्थे भवे भवन्तौ माहेन्द्रनामकं देवलोकं गतवन्तौ आस्ताम् । तत्रापि सा भवतः सखी आसीत् । अनन्तरं पञ्चमे भवे पुनः भवन्तौ मृत्युलोकम् आगतौ । तदा तस्मिन् जन्मनि भवान् अपराजितः आसीत् । सा प्रीतिमतीस्वरूपेण भवतः धर्मपत्नी आसीत् । अनन्तरं पुनः षष्ठे भवे भवन्तौ आरणनामकं देवलोकं प्राप्तवन्तौ । तस्मिन् देवलोके अपि सा भवतः सखी एव आसीत् । इत्थं यशोमत्या सह भवतः सप्तजन्मनां सम्बन्धः वर्तते । इदं भवतोः सप्तमभवः वर्तते । अग्रिमे अष्टमे भवे भवन्तौ अनुत्तरविमाने देवौ भविष्यतः । देवलोकस्य आयुष्यं समाप्य भवान् नवमे भवे भरतक्षेत्रस्य “अरिष्टनेमी” “नेमिनाथः” वा इति नामकः द्वाविंशतितमः तीर्थङ्करः भविष्यति । तदा यशोमत्याः नाम राजीमती इति भविष्यति । भवतोः विवाहः निश्चितः भविष्यति, किन्तु अविवाहितावस्थायाम् एव राजीमती दीक्षाम् अङ्गीकरिष्यति मोक्षं प्राप्स्यति च” । स्वस्य पूर्वभवानां वर्णनं श्रुत्वा शङ्खस्य मनसि वैराग्यः समुद्भूतः । राज्ञा शङ्खेन अनुजाभ्यां, यशोमत्या, बहुभिः मित्रैश्च सह दीक्षा स्वीकृता । अन्ते सः साधनां कृत्वा मोक्षं प्रापत् । अनन्तरम् अनुत्तर-अपराजित-नामके देवलोके देवः अभवत् । भगवतः नेमिनाथस्य जन्मनः एकादशदिनानाम् अनन्तरं नामकरणसंस्कारस्य विधिः अभवत् । तस्मिन् दिने जनाः उत्सवम् अपि आचरितवन्तः । स्वर्गलोकात् बहवः देवाः भगवतः नेमिनाथस्य दर्शनार्थं समागताः । चतुष्षष्टिः इन्द्राः, लोकान्तिकाः देवाः च अपि उत्सवम् आचरितवन्तः । उत्सवे तेषां देवानाम् उपस्थितिः आवश्यकी वर्तते । राज्यस्य जनाः अपि प्रसन्नाः आसन् । नामकरणोत्सवे बालकस्य नामकरणं भवति । नामकरणदिवसे शिवादेवी श्यामकान्तियुतं शिशुं नीत्वा आयोजितं स्थलं प्राप्तवती । अतः राजा नामकरणाय देवतानां, जनानां च परामर्शं पृष्टवान् । अन्ते राज्ञा स्वस्य विचारः कथितः यत् – “यदा शिवादेवी गर्भवती आसीत्, तदा अस्माकं राज्यम् अनिष्टयुक्तम् आसीत् । अपरं च शिवादेवी गर्भकाले स्वप्ने एकम् अरिष्टरत्नमयं चक्रम् अपि दृष्टवती आसीत् । अतः अस्य बालकस्य नाम अरिष्टनेमी इति करणीयम् । सर्वैः जनैः, देवैः च समर्थनं प्रदत्तम् । ततः आरभ्य एव अरिष्टनेमिनाथः नेमिनाथः इति वा नाम प्रसिद्धम् अस्ति । अरिष्टनेमिनाथस्य पिता समुद्रविजयः हरिवंशीयः प्रतापी राजा आसीत् । विचित्रसंयोगेन हरिवंशस्योत्पत्तिः जाता । शीतलनाथः दशमः तीर्थङ्करः आसीत् । तस्य शासनकाले वत्सदेशस्य राजधानी कौशाम्बी-नगरी आसीत् । तस्यां नगर्यां सुमुह-नामकः कश्चन राजा आसीत् । कौशाम्बी-नगर्यां वीरक-नामकः कश्चन जनः आसीत् । सुमुहः राजा वीरकस्य पत्न्याः वनमालायाः आकृष्टः जातः । सुमुहः वनमालां बलात् राजप्रासादे आनीतवान् । समयान्तरे वनमाला सुमुहस्य परमप्रिया राज्ञी अभवत् । वीरकः पत्न्याः विरहेण अर्धविक्षिप्तावस्थायां जीवितः आसीत् । किञ्चित् समयान्तरे सः बालतपस्वी अभवत् । एकदा राजा सुमुहः वनमालया सह विहारार्थं वनं गतः । तत्र सः वीरकं दृष्टवान् । वीरकस्य स्थितिं दृष्ट्वा राजा सुमुहः मनसि पश्चात्तापं कुर्वन् आसीत् यत् – “मया अनुचितं कार्यं कृतम् आसीत् । मे दोषात् एव वीरकस्य एतादृशी स्थितिः जाता” । वनमाला अपि पश्चात्तापं कुर्वती आसीत् । अनेन कारणेन द्वयोः मनुष्यस्य आयुर्बन्धः अभवत् । तस्मिन् एव क्षणे तयोः उपरि विद्यत् आपतितः । तेन तयोः प्राणाः निर्गताः । तौ यौगलिकभूमौ हरिवासे युगलस्वरूपेण अजायताम् । वीरकेन आजीवनम् अज्ञानतपः कृतम् । अन्ते सः प्रथमे सौधर्मदेवलोके किल्विषी-नामकः देवः अभवत् । सः कालज्ञानी आसीत् । वीरकः राज्ञा सुमुहेन सह वनमालां भोगभूमौ अपश्यत् । तौ दृष्ट्वा वीरकः अत्यन्तः क्रुद्धः जातः । सः व्यचारयत् – अधुना एव सुमुहस्य हननं करोमि । किन्तु अस्य हननेन प्रयोजनस्य सिद्धिर्न भविष्यति । यत्र कर्मबन्धः भवेत् तत्रैव मया अयं सुमुहः प्रेषणीयः । अतः सः कस्यचित् राज्यस्य राजा भवितव्यः । यदि सः मांसमदिरयोः भोगं करिष्यति चेत् तस्य नरकगमनं भविष्यति । नरके तस्मै दुःखस्य प्राप्तिर्भविष्यति । चम्पा-नगर्याः राज्ञः तस्मिन् समये अवसानम् अभवत् । अतः तस्याः नगर्याः राजा कोऽपि नासीत् । यतः सः नरेशः सन्तानहीनः आसीत् । अतः देवेन चम्पानगर्याम् आकाशवाणी कृता यत् – "भवतां राजाविषयिकी या समस्या वर्तते, तस्याः समस्यायाः उपायः अहं ददामि । अहम् एकं युग्मं प्रेषयामि । तत् युग्मं भवतः राज्यस्य सञ्चालनं करिष्यति । भवद्भिः तस्मै युग्माय मद्यमांसाः, भोगसामग्र्यः च दात्तव्याः । अनन्तरं भवतां राज्यस्य समृद्धिः वर्धिष्यते” । देवेन द्वयोः औन्नत्यं न्यूनीकृतम् । तयोः आयुष्यम् अपि न्यूनं कृतम् । नगरजनैः तयोः राज्याभिषेकः कृतः । अनन्तरं तौ भोगासक्तौ अभवताम् । तेन तौ नरकं गतवन्तौ । इयमेका आश्चर्यमयी घटना आसीत् । यतः यौगलिकानां नरकगमनं न भवति स्म । अतः तयोः हरिवासयुग्मयोः एव हरिवंशस्य उत्पत्तिर्जाता । सः शीतलनाथश्रेयांसनाथयोः मध्यकालीनः समयः आसीत् । हरिवंशे बहवः प्रतापिनः, शक्तिशालिनः, धर्मात्मानः च राजानः अभवन् । तेषु राजसु पृथ्वीपतिः, महागिरिः, हिमगिरिः, वसुगिरिः, दक्षः, महेन्द्रदत्तः, शङ्खः, वसुश्चेत्यादयः राजानः आसन् । वसुः नामकः राजा आकाशे उच्चसिंहासने उपविशति इति शास्त्रेषु वर्णनं प्राप्यते । सः वसुः हरिवंशीयः एव आसीत् । ततः परं दीर्घबाहुः, वज्रबाहुः, सुभानुः च अभवत् । सुभानोः पुत्रः यदुः हरिवंशस्य पराक्रमी प्रभावशाली च राजा अभवत् । यदोः वंशे सौरीवीरनामानौ शक्तिशालिनौ राजानौ अभवताम् । राज्ञा सौरिणा सौरिपुरं, राज्ञा वीरेण सौवीर-नगरं च स्थापितम् । हरिवंशे यः सौरी-नामकः राजा आसीत्, तस्य अन्धकवृष्णिः, भोगवृष्णिः इत्येतौ द्वौ पुत्रौ अभवताम् । अन्धकवृष्णेः दशपुत्राः आसन् । ते – समुद्रविजयः, अक्षोभः, स्तिमितः, सागरः, हिमवान्, अचलः, धरणः, पूरणः, अभिचन्दः, वसुदेवः च । ते पुत्राः दशार्हः इति नाम्ना ख्याताः आसन् । तेष् पुत्रेषु समुद्रविजयः ज्येष्ठः, वसुदेवः कनिष्ठश्च आसन् । समुद्रविजयः अत्यन्तः न्यायशीलः, प्रजावत्सलः, उदारश्च आसीत् । वसुदेवः स्वस्य पराक्रमेण सर्वत्र कीर्तिः स्थापिता । समुद्रविजयस्य चत्वारः पुत्राः आसन् । ते – अरिष्टनेमी, रथनेमी, सत्यनेमी, दृढनेमी च । शिवादेवी तेषां माता आसीत् । वसुदेवस्य द्वौ पुत्रौ आस्ताम् । तौ - कृष्णः, बलरामश्च । तयोः मातारौ देवकी रोहिणी च । कृष्णः अरिष्टनेमिनाथस्य पितृव्यस्य पुत्रः आसीत् । यदा अरिष्टनेमी प्रायः चत्वारः वर्षदेशीयः आसीत् । तदा कृष्णेन कंसस्य हननं कृतम् आसीत् । कंसस्य पत्नी जीवयशा कृष्णात् खिन्ना अभवत् । अतः तया सम्पूर्णः वृत्तान्तः स्वस्य पित्रे प्रतिवासुदेवाय जरासन्धाय श्रावितः । जरासन्धेन यदुवंशस्य समूलं नाशं कर्तुं निश्चयः कृतः आसीत् । यतः जीवयशया प्रतिज्ञा कृता आसीत् यत् – “यदा अहं कृष्णबलरामाभ्यां सहित समग्रयदुवंशस्य विनाशं द्रक्ष्यामि तदैव शान्तिम् अनुभविष्यामि । अन्यथा अग्निं प्रवेक्ष्यामि” इति । कालकुमारः जरासन्धस्य पुत्रः, सेनापतिः च आसीत् । जरासन्धः युद्धाय कालकुमारं सेनया सह प्रेषितवान् । कुलदेव्याः कृपया सर्वे यादवाः समुद्रतटं प्राप्तवन्तः । तत्र देवसाहाय्येन जनाः समुद्रतटे सर्वसौकर्ययुतायाः द्वारिका-नगर्याः निर्माणम् अकुर्वन् । तस्यां नगर्यां सर्वे यादवाः सुखेन जीवन्ति स्म । कुलदेव्याः मायया कालकुमारः हतः । द्वारिका-नगर्यां कृष्णबलरामौ अपि निवसन्तौ आस्ताम् । तत्रैव ताभ्यां राज्यं विस्तारितम् । यादवानां समृद्धिविषयिकी, ऐश्वर्यविषयिकी च चर्चा विस्तृता जाता । यदा जरासन्धः इमं सन्देशं प्राप्तवान्, तदा सः क्रुद्धः जातः । जरासन्धेन पुत्रस्य कालकुमारस्य मृत्योः वैरोद्धाराय, पुत्र्याः जीवयशायाः प्रतिज्ञायै च स्वयं युद्धं कर्तुं निर्णयः कृतः । सर्वा सेना युद्धस्थलं प्राप्तवती । बहवः राजानः युद्धस्थलं प्राप्य समुद्रविजयम् अवबोधितवन्तः यत् – “अस्माकमुपरि वसुदेवस्य बहवः उपकाराः सन्ति । अतः अस्माभिः अपि वसुदेवस्य साहाय्यं कर्त्तव्यम् । जरासन्धस्य, यादवानां च मध्ये भयङ्कर्ं युद्धम् आरब्धम् । तस्मिन् युद्धे बहवः योद्धारः हताः । यादवैः जरासन्धस्य बहवः पुत्राः हताः । अतः जरासन्धः अपि यादवान् हन्तुं शराणां वर्षां कुर्वन् आसीत् । तेन यादवसेना बलहीना जाता । अरिष्टनेमी अपि युद्धे समुपस्थितः आसीत् । इन्द्रेण अरिष्टनेमिने युद्धं कर्तुम् एकः सुसज्जः रथः मातलि-नामकेन सारथिना सह प्रेषितः । अवसरं प्राप्य नेमिकुमारः युद्धस्य दायित्वम् अवहत् । नेमिकुमारः पुरन्दरशङ्खं ननाद । शङ्खनादेन शत्रवः कम्पमानाः जाताः । यादवेषु उत्साहवर्धनम् अभवत् । अन्ते श्रीकृष्णेन सुदर्शनचक्रेण हतः जरासन्धः । सः ऐतिहासिकः विजयः आसीत् । तावदेव कृष्णः नवमः वासुदेवः, बलरामः च नवमः बलदेवः अभवत् । एकदा नेमिकुमारः विचरन् कृष्णस्य शस्त्रागारं प्राप्तवान् । शस्त्रागारे नेमिकुमारेण पाञ्चजन्यः शङ्खः दृष्टः । नेमिकुमारः तच्छङ्खं ननाद । पाञ्चजन्यशङ्खस्य नादं श्रुत्वा बहवः जनाः मूर्च्छिताः अभवन् । कृष्णबलभद्रौ शस्त्रागारं प्रति धावितवन्तौ । तौ विचारितवन्तौ यत् – “अपरः कः वासुदेवः जातः, यः पाञ्चजन्यशङ्खम् अवादयत्" । यतः वासुदेवं विहाय कोऽपि पाञ्चजन्यशङ्खं वादयितुम् असमर्थः । यदा तौ शस्त्रागारं प्राप्तवन्तौ, तदा शस्त्रसंरक्षकेन ज्ञातं यत् – “नेमिकुमारः तच्छङ्खं ननाद" । कृष्णेन विचारितं यत् – “अस्य शङ्खस्य वादनम् अपि अद्भुतः पराक्रमः अस्ति । यतः केवलं वासुदेवः एव इमं शङ्खं वादयितुं शक्नोति । अग्रजः बलरामः अपि असमर्थः अस्ति” इति । कृष्णः चिन्ताग्रस्तः आसीत् यत् – “आवयोः को बलवान्? अहं वा अरिष्टनेमी” ? इति । अनया चिन्तया कृष्णेन कतिद्दिवसानन्तरं स्वस्य नेमिनः च बाहुबलस्पर्धा आयोजिता । मल्लशालायां सर्वे मिलितवन्तः । तत्र स्पर्धा आरब्धा । बाहुबलस्पर्धायां नेमिकुमारेण कृष्णः पराजितः । कृष्णेन द्वाभ्यां हस्ताभ्यां प्रयासः कृतः । तथापि कृष्णः किमपि कर्तुम् असमर्थः आसीत् । स्वल्पे समये एव नेमिकुमारः विजयं प्राप्तवान् । सर्वे जनाः अपि चकिताः अभवन् । सर्वत्र नेमिकुमारस्य बलस्य प्रशंसा जाता । अन्ते कृष्णः नेमिकुमारम् आलिङ्ग्य उक्तवान् यत् – “एतादृशः बलवान् मे अनुजः । इदानीम् कस्मात् अपि भयम् एव नास्ति । कोऽपि राजा अस्माकं राज्यं जेतुं न शक्ष्यति । अहं मे भ्रातरि गर्वम् अनुभवामि । अनेन ज्ञायते यत् – “नेमिकुमारस्य बलस्य काऽपि सीमा नासीत् । तस्य बलम् असीमितम् आसीत् । एकदा कृष्णस्य मनसि नेमिकुमारस्य विवाहस्य विचारः आगतः । “नेमिकुमारः निर्विकारः अस्ति । सः भोगमार्गे आकृष्टः भवेत् इति आवश्यकता अस्ति” इति विचिन्त्य कृष्णेन रुक्मिण्यै, सत्यभामायै च अस्य कार्यस्य दायित्वं प्रदत्तम् । रुक्मिणी, सत्यभामा च अस्मिन् कार्ये संलग्ना जाता । एकदा ताभ्यां नेमिकुमारः उक्तः यत् – “आवां त्वया सह जलक्रीडां कर्तुम् इच्छावः । नेमिकुमारः भ्रातृजाययोः आग्रहं निराकर्तुम् अक्षमः आसीत् । अतः सः तयोः सह सरोवरे बहुसमयं यावत् जलक्रीडां कुर्वन् आसीत् । तस्मिन्नैव समये रुक्मिणी, सत्यभामा च विवाहाय आग्रहं कृतवती यत् – “भवता विवाहः करणीयः । यादववंशीयः अस्ति तथापि अविवाहितः भवान् । एतन्नोचितम् । सर्वे यदुवंशीयाः लज्जाम् अनुभवन्ति । किं भवान् इमं प्रस्तावं स्वीकरोति खलु" ? नेमिकुमारेण अवधिज्ञानेन भविष्यत्कालं ज्ञातं यत् – “विवाहस्य सज्जता एव मे दीक्षायाः निमित्तं भविष्यति” इति । अतः नेमिकुमारेण स्मितेन सह भ्रातृजाययोः आग्रहः स्वीकृतः । नेमिकुमारस्य स्वीकृतिं प्राप्य सर्वे विवाहस्य सज्जतां कुर्वन्तः आसन् । सर्वे प्रसन्नाः अभवन् । सर्वे राजकन्यानां विषये विचारं कुर्वन्तः आसन् । तदैव सत्यभामा उक्तवती यत् - “मम अनुजा नेमिकुमाराय योग्या वर्तते” । श्रीकृष्णः अपि सत्यभामायाः विचारं स्वीकृतवान् । तत्कालमेव कृष्णेन उग्रसेनेन साकं तत्पुत्र्याः विषये चर्चा कृता । तदा उग्रसेनेन उक्तं यत् – “इदं मम महत्सौभाग्यम् अस्ति । मम एका पुत्री पूर्वतः एव यदुवंशे निवसति । इदानीम् अपरा कन्या नेमिकुमारस्य पत्नी भविष्यति । अतः अहम् इमं प्रस्तावं स्वीकरोमि । किन्तु मम एका इच्छा अस्ति यत् – “भवद्भिः मम राज्यम् आगत्य एव विवाहं कृत्वा कन्या नेतव्या भविष्यति” । श्रीकृष्णेन उग्रसेनस्य प्रस्तावः स्वीकृतः । कृष्णः त्वरितमेव विवाहस्य व्यवस्थां कुर्वन् तत्परः अभवत् । कृष्णः चातुर्मासस्य श्रावण-मासस्य शुक्लपक्षस्य षष्ठीं तिथिं विवाहाय निश्चितवान् । तस्यां तिथौ सर्वैः बान्धवैः सह नेमिकुमारः सुसज्जितरथे उपविश्य विवाहाय गतवान् आसीत् । यदा ते उग्रसेनस्य राज्यं प्राप्तवन्तः, तदा नेमिकुमारेण मार्गे एकस्मिन् स्थले भयग्रस्ताः बहवः पशवः दृष्टाः । नेमिकुमारेण सारथिः पृष्टः यत् – “किमर्थम् एतावन्तः पशवः सन्ति” ? तदा सारथिना उक्तं यत् – “एते सर्वे पशवः भवतः विवाहप्रसङ्गाय आनीताः सन्ति । भोजनप्रसङ्गे एतेषां पशूनां मांसस्य परिवेषणं भविष्यति । तच्छ्रुत्वा नेमिकुमारस्य हृदयः परिवर्तनम् अभवत् । तेन नेमिकुमारेण तस्मिन्नैव समये विवाहं निरस्य सारथिने प्रतिगमनस्य आदेशः प्रदत्तः । कृष्णबलरामाभ्यां नेमिकुमारः आशंसितः यत् – “इत्थं मा कुरु” । किन्तु नेमिकुमारेण दृढतापूर्वकं तयोः विचाराः अस्वीकृताः । यतः तस्य मनसि वैराग्यस्य भावना उद्भूत । अतः सः विरक्तः जातः । सः पुनः द्वारका-नगरीं प्राप्तवान् आसीत् । सर्वे बान्धवाः अपि पुनः द्वारकानगरीं प्राप्तवन्तः । सः संसारसागरात् मुक्तिं प्राप्तुम् इच्छति स्म । अतः नेमिकुमारेण अविवाहितः भूत्वा एव दीक्षां स्वीकर्तुं निर्णयः कृतः आसीत् । ततः परं नेमिकुमारः वार्षिकीदानं कर्तुं सज्जः अभवत् । स्वर्गलोकात् लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च तत्र समागताः । ततः परं भगवता नेमिनाथेन वार्षिकीदानं कृतम् । एकवर्षं यावत् तेन वार्षिकीदानं कृतमासीत् । वार्षिकीदाने सुवर्णमुद्रिकाः दीयन्ते स्म । नगरजनाः वा अन्ये केचन अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म । राज्ञः दीक्षाप्रसङ्गेन जनाः विरक्ताः अभवन् । जनाः अपि दीक्षामङ्गीकर्तुं विचारितवन्तः । यतः राज्ञः स्वभावः शान्तः, प्रभावी च आसीत् । यदा वार्षिकीदानं पूर्णमभवत्, तदा श्रावण-मासस्य शुक्लपक्षस्य षष्ठ्यां तिथौ चित्रा-नक्षत्रे भगवान् नेमिनाथः सहस्रजनैः सह सौरिपुर-नगरस्य सहस्राम्रोद्यानं प्राप्तवान् । उद्याने देवाः, इन्द्राः चापि समुपस्थिताः आसन् । सर्वेषां समक्षं भगवता नेमिनाथेन दीक्षा अङ्गीकृता । दीक्षायाः दिवसे भगवान् अठ्ठमतपः कृतवान् । अपरे दिने भगवता नेमिनाथेन वरदत्त-नामकस्य ब्राह्मणस्य गृहे परमान्नं क्षीराहारः वा गृहीतः । दीक्षानन्तरं चतुर्पञ्चाशद्रात्रीः यावत् भगवान् नेमिनाथः रहसि आसीत् । भगवता नेमिनाथेन चतुर्पञ्चाशद्रात्रीः यावत् विविधाः तपस्याः, साधनाः च कृताः । सः पुनः सौरिपुरस्य सहस्राम्रोद्यानं प्राप्तवान् । सौरिपुरे आश्विन-मासस्य कृष्णपक्षस्य अमावास्यायां तिथौ चित्रा-नक्षत्रे तस्मै कैवल्यज्ञानम् अभवत् । तस्मिन् दिवसे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः, नगरजनाः च समुपस्थिताः आसन् । सर्वैः मिलित्वा कैवल्यमहोत्सवस्य आयोजनं कृतम् । देवाः, इन्द्राः, नगरजनाः च कैवल्यमहोत्सवम् आचरितवन्तः । ततः परं भगवता नेमिनाथेन प्रथमं प्रवचनं कृतम् । तस्मिन् प्रवचने बहवः श्रोतारः आसन् । भगवतः प्रवचनं श्रुत्वा बहवः जनाः विरक्ताः अभवन् । जनाः दीक्षां स्वीकर्तुन् ऐच्छन् । भगवतः नेमिनाथस्य प्रवचनस्य प्रभावः तादृशः आसीत्, येन जनाः मुग्धाः, लीनाः च अभवन् । बहवः जनाः धर्मस्य उपासनायाः नियमान् अङ्गीकृतवन्तः । यदा भगवान् नेमिनाथः चतुर्विधसङ्घस्य स्थापनां चकार, तदा नेमिनाथेन धार्मिकपरिवारस्य अपि रचना कृता। अयं भगवतः धार्मिकः परिवारः वर्तते । तेषु परिवारजनेषु त्रिचत्वारिंशत् गणधरेषु “वरदत्तस्वामी” इत्याख्यः प्रथमः गणधरः आसीत् । राजीमती राज्ञः उग्रसेनस्य पुत्री, सत्यभामायाः अनुजा च आसीत् । राजीमती रूपवती, बुद्धिमती, लावण्यमयी, सुशीला, सर्वगुणयुता च आसीत् । अरिष्टनेमिना सह विवाहेन सा अतीव प्रसन्ना आसीत् । यदा अरिष्टनेमिना अन्तिमसमये विवाहः निराकृतः, तदा राजीमत्याः हृदये दुःखम् अभवत् । अशुभवार्त्तां श्रुत्वा राजीमती मूर्च्छिता जाता । यदा तया चैतन्यं प्राप्तं तदा अरिष्टनेमिनः अनुकरणं कर्तुं निर्णयः कृतः । अरिष्टनेमिनः अनुजः रथनेमी राजीमत्याः रूपलावण्यात् आकृष्टः अभवत् । सः राजीमत्या सह विवाहं कर्तुम् ऐच्छत् । अतः सः राजीमतीं मेलितुं वारं वारम् उग्रसेनस्य राजप्रासादं गच्छति स्म । एकस्मिन् दिवसे अवसरं प्राप्य रथनेमिना राजीमत्या सह विवाहस्य प्रस्तावः प्रस्थापितः । तदा राजीमत्या ज्ञातं यत् – “रथनेमी विवाहं कर्तुं मया मेलितुम् आगच्छति स्म" । राजीमत्या रथनेमिनः प्रस्तावः अस्वीकृतः । तथापि रथनेमी बहून् प्रयासान् कृतवान् । तेन त्रस्ता राजीमती एकां युक्तिं विचारितवती । राजीमती क्षीरं भुक्त्वा रथनेमिने एकं पात्रम् आनेतुम् उक्तवती । यदा रथनेमी पात्रम् आनीतवान्, तदा राजीमत्या तस्मिन् पात्रे वमनं कृतम् । अनन्तरं तद्वमनं तया रथनेमिने भोक्तुम् उक्तम् । रथनेमी क्रुद्धः जातः । रथनेमिना उक्तं यत् – “किमर्थं भवती विडम्बयति ? किं भवती न जानाति यत् – “वमितपदार्थः अभक्ष्यः” इति । किम् अहं श्वा दृश्ये” ? तदा राजीमती उक्तवती यत् – “यदि भवान् जानाति यत् – “वमितपदार्थः अभक्ष्यः” वर्तते, तर्हि किमर्थं भवतः मनसि मया सह विवाहस्य इच्छा वर्तते । अहं भवतः ज्येष्ठस्य अरिष्टनेमिनः वमिता त्यक्ता वा अस्मि” । अतः पुनः अस्य विषयस्य चर्चा मास्तु” । रथनेमी किमपि वक्तुम् असर्मथः आसीत् अतः लज्जाम् अन्वभवत् । सः पुनः स्वराज्यं प्राप्तवान् । किञ्चित्समयान्तरे रथनेमी विरक्तः जातः । अनन्तरं तेन दीक्षा अङ्गीकृता । समयान्तरे राजीमत्या अपि शताधिकाभिः स्त्रीभिः सह दीक्षा अङ्गीकृता । दीक्षानन्तरं सा साधनां कर्तुं तत्परा अभवन् । श्रीकृष्णेन अपि राजीमत्यै आशीर्वादाः प्रदत्ताः । राजीमती अरिष्टनेमिनः दर्शनार्थम् अनेकाभिः साध्वीभिः सह रेवतगिरिपर्वताय प्रस्थितवती । यात्रायां प्राकृतिकिभिः आपद्भिः अवरोधः जातः । वातप्रकोपेण, वृष्टिप्रकोपेण च सर्वाः साध्व्यः विभक्ताः जाताः । वृष्ट्या राजीमत्याः वस्त्राणि आर्द्राणि जातानि आसन् । समीपे एकां गुहाम् अलभत । तत्र अन्धकारः आसीत्, अतः तया सर्वाणि वस्त्राणि शुष्कीकर्तुं निष्कासितानि । गुहायाम् अरिष्टनेमी उपविष्टः आसीत् । अशन्याः स्फुरणेन अनावृत्तां राजीमतीं दृष्ट्वा अरिष्टनेमिनः मनसि आसक्ति उद्भूता । सः राजीमत्यै सम्भोगाय उक्तवान् । किन्तु राजीमत्या पुनः वस्त्राणि धृत्वा अरिष्टनेमी अवबोधितः । अरिष्टनेमी पुनः विरक्तिम् अलभत । अनन्तरम् अरिष्टनेमिना प्रायश्चित्तं कृत्वा सिद्धत्वं प्राप्तम् । राजीमत्या अपि साधना आरब्धा । अन्ते सा मुक्तिं प्रापत् । भगवता नेमिनाथेन सर्वज्ञकाले बहूनां जनपदां यात्रा कृता । किन्तु तेन तेषु जनपदेषु द्वारिका-नगर्याः सर्वाधिकं भ्रमणं कृतम् आसीत् । एकदा नेमिनाथः द्वारिका-नगरीम् आगतः । तदा कृष्णस्य पारिवारिकजनाः, नागरिकाः च रेवतगिरिपर्वतं भगवतः नेमिनाथस्य प्रवचनं श्रोतुं गतवन्तः । प्रवचनं श्रुत्वा कृष्णेन पृष्टं यत् – “सर्वेषां वस्तूनां विनाशः निश्चितः एव । अतः द्वारिका-नगर्याः नाशः कदा भविष्यति” ? नेमिनाथेन उक्तं यत् – “द्वादशवर्षाणाम् अनन्तरं दीपायनर्षेः क्रोधेन द्वारिका-नगर्याः दहनं भविष्यति” । द्वारिकादहनस्य वार्तां श्रुत्वा जनाः चिन्ताग्रस्ताः जाताः । कृष्णेन पुनः पृष्टं यत् – “द्वारिकादहनस्य प्रयोजनं किं भविष्यति” ? भगवता उक्तं यत् – “मद्यपानेन उन्मत्ताः यादवकुमाराः दीपायनर्षिं त्रस्यन्ति । तेन खिन्नः ऋषिः द्वारिकादहनस्य निदानं करिष्यति । तस्य मृत्योः अनन्तरं देवः भविष्यति । पश्चात् सः द्वारिका-नगर्याः दहनं करिष्यति । अनन्तरं कृष्णेन पुनः एकः प्रश्नः पृष्टः यत् – “मम मृत्युः कदा भविष्यति” इति ? नेमिनाथः उक्तवान् यत् – “जराकुमारस्य बाणेन भवतः मृत्युः भविष्यति” । कृष्णनेमिनाथयोः सम्भाषणं श्रुत्वा जनाः स्तब्धाः अभवन् । बहवः जनाः विरक्ताः अभवन् । तैः सर्वैः दीक्षा अङ्गीकृता । दीपायनर्षिः, जराकुमारः च द्वारिकां त्यक्त्वा वनं गतवन्तौ । द्वारिका-नगर्यां सर्वत्र इयं चर्चा एव जायमाना आसीत् । अतः सर्वैः निर्णितं यत् – “द्वारिकादहनस्य कारणं यदि मदिरा एव अस्ति, तर्हि मदिरायाम् एव प्रतिबन्धनं कर्तव्यम्” इति । निर्णयं कृत्वा जनाः मदिरायाः प्रतिबन्धाय प्रयासान् कुर्वन्तः आसन् । द्वारिका-नगर्यां यावत् मद्यसङ्ग्रहः आसीत्, तत्सर्वः सङ्ग्रहः सुदूरेषु वनेषु क्षेपितः । द्वारिका-नगर्यां मदिरायाः निर्माणम् अपि अवरुद्धम् । इतः परं द्वारिका-नगर्यां मदिरायाः आनयनम् अपि प्रतिषिद्धम् आसीत् । कृष्णेन द्वारिका-नगर्याम् उद्घोषितं यत् – “यदि कोऽपि जनः दीक्षां स्वीकर्तुम् इच्छति, तर्हि शीघ्रं कुरु” । यस्य कस्यापि गृहविषयिकी काऽपि समस्या स्यात्, चेत् मां कथयतु । अहं सर्वेषां समस्याः निवारयिष्यामि । कस्यचित् पितरौ वृद्धौ स्याताम् चेत् अहं तेषां सेवां करिष्यामि । यदि कस्यचित् लघुबालकाः स्युः, तर्हि तेषां पालनम् अपि अहं करिष्यामि । अतः ये दीक्षां स्वीकर्तुम् इच्छन्ति तैः सर्वैः चिन्तया विना दीक्षा स्वीकर्त्तव्या । इदानीमहं गृहस्थोऽस्मि । सर्वेषां जनानां व्यावहारिकं दायित्त्वं वक्ष्यामि” । कृष्णस्य उद्घोषणां श्रुत्वा बहवः जनाः साधुपदं स्वीकृतवन्तः । किन्तु विधेः विधानं कोऽपि परिवर्तयितुं न शक्नोति । मदिरायाः सङ्ग्रहाः नाशिताः । वर्षर्तौ वर्षा जाता । तया वर्षया समीपस्थाः तडागाः सरोवराः आपूरिताः जाताः । शाम्बादयः यादवकुमाराः भ्रमणार्थं वनं गतवन्तः । ते तृषिताः आसन् । अतः तैः तडागस्य जलपानं कृतम् । तस्य तडागस्य जले मदिरायाः मिश्रणम् आसीत् । अतः मदिरया यावदकुमाराः उन्मत्ताः अभवन् । वने दीपायनर्षिः तपस्यां कुर्वन् आसीत् । उन्मत्तैः यादवकुमारैः दीपायनर्षिः त्रस्तो जातः । दीपायनर्षिः किञ्चित्समयं यावत् शान्तः आसीत् । किन्तु यातनाभिः त्रस्तः दीपायनर्षिः क्रुद्धः जातः । क्रोधे सति तेन उक्तं यत् – “निश्चितसमयावसरे अहं द्वारिका-नगरीं दाहयिष्यामि । मुनेः वचनं श्रुत्वा यादवकुमाराः स्तब्धाः अभवन् । सर्वे पश्चात्तापं कुर्वन्तः आसन् । कृष्णेन यादवकुमाराणाम् उद्दण्डता ज्ञाता । कृष्णबलरामाभ्यां दीपायनर्षेः प्रार्थना कृता । कृष्णबलरामयोः अत्यन्तविनयेन अपि दीपायनर्षेः क्रोधः शान्तः न जातः । एतावत् विनयेन मुनिः केवलं कृष्णबलरामाभ्याम् एव वैरोद्धारात् मुक्तिम् अददात् । नेमिनाथः पुनः द्वारिका-नगरीमागतः । खिन्नं कृष्णं दृष्ट्वा नेमिनाथः पृष्टवान् यत् – “कृष्ण ! का समस्या अस्ति” ? तदा कृष्णः उक्तवान् यत् – “बहवः जनाः साधुत्वं स्वीकुर्वन्तः सन्ति । मया अपि किं करणीयम् ? भगवता उक्तं यत् – “भवान् चिन्तां मा कुरु । अग्रिमायाम् उत्सर्पिण्यां भवान् ‘अमम’-नामकः द्वादशः तीर्थङ्करः भविष्यति” । सर्वे जनाः प्रसन्नाः अभवन् । नेमिनाथः विचरणं कृत्वा अन्यत्र गतवान् । जनाः धर्मोपासनायां लीनाः अभवन् । दीपायनर्षिः स्वस्य आयुष्यं पूर्णीकृत्य अग्निकुमार-नाम्ना देवस्वरूपेण देवलोके उद्भूतः । तेन अवधिज्ञानेन पूर्वजन्मनः वैरोद्धारः ज्ञातः । पुनः तस्य मनसि वैरोद्धारस्य भावना जागृता । तस्मिन् समये एव अग्निकुमारः द्वारिकां दग्धुं भूलोकम् आगतः । किन्तु प्रतिगृहम् उपासनां दृष्ट्वा सः द्वारिकां दग्धुम् असमर्थः । बहुवर्षाणि यावत् सः अवसरस्य प्रतीक्षां कुर्वन् आसीत् । एकादशवर्षाणि व्यतीतानि । अतः जनाः विचारितवन्तः यत् – “सङ्कटसमयः गतः” । इदानीं तपस्यायाः आवश्यकता नास्ति । सर्वैः जनैः तत्कालमेव तपस्या त्यक्ता । दीपायनर्षिः अवसरं प्राप्य अग्निवर्षां चकार । अग्निवर्षया द्वारिकानगरी भस्मीभूता । कृष्णबलरामाभ्यां सर्वान् रक्षितुं प्रयासाः कृताः । किन्तु तौ किमपि कर्तुम् असमर्थौ आस्ताम् । कृष्णस्य पिता वसुदेवः, माता रोहिणी, देवकी इत्येताः अपि दिवङ्गताः । अनेन प्रकारेण नेमिनाथतीर्थङ्करस्य भविष्यवाणी पूर्णा जाता । तीर्थङ्कराः त्रिकालज्ञानिनः भवन्ति । अतः पूर्वमेव तेभ्यः निर्वाणसमयस्य ज्ञानं भवति । यदा भगवता नेमिनाथः अपि स्वस्य निर्वाणकालं ज्ञातवान्, तदा सः षड्त्रिंशताधिकपञ्चशतेन साधुभिः सह सम्मेदशिखरं प्राप्तवान् । तत्र नेमिनाथेन एकमासं यावत् अनशनं कृतम् । सः एकमासं यावत् पुनः तपस्यां, साधनां च कृतवान् । अनन्तरं तेन सिद्धत्वं प्राप्तम् आसीत् । एकमासस्य अनशनान्ते आषाढ-मासस्य शुक्लपक्षस्य अष्टम्यां तिथौ चित्रा-नक्षत्रे रेवतगिरिनामके पर्वते भगवतः नेमिनाथस्य निर्वाणम् अभवत् । भगवता सह बहुभिः मुनिभिः अपि मोक्षः प्राप्तः आसीत् । नेमिनाथेन कौमारावस्थायां त्रिशतस्य वर्षाणां, दीक्षायां सप्तशतस्य वर्षाणां च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने एकसहस्रं वर्षाणि भुक्तानि आसन् । भगवतः अरिष्टनेमिनः शासनकाले ब्रह्मदत्त-नामकः अन्तिमः चक्रवर्ती राजा अभवत् । सः कम्पिलपुर-नगरस्य राज्ञः ब्रह्मपितुः पुत्रः आसीत् । तस्य मातुः नाम ’चूलनी’ इति आसीत् । ब्रह्मदत्तस्य बाल्यकाले बहवः समस्याः समुद्भूताः आसन् । तथापि अन्ते सः षड्खण्डानां चक्रवर्ती राजा अभवत् । नमिनाथस्य निर्वाणानन्तरं पञ्चलक्षवर्षानन्तरं नेमिनाथस्य मोक्षः अभवत् ।
{ "source": "wikipedia" }
गुरुवायुपुरम् केरळराज्ये स्थितम् पुण्यक्षेत्रं गुरुवायूर् अवश्यं दर्शनीयम्, चित्रकलावैभवपूर्णं च क्षेत्रमस्ति । अत्र श्रीकृष्णं गुरुवायुरप्प इति कथयन्ति । श्रीकृष्णमूर्तिं देवशिल्पी विश्वकर्मा निर्मितवान् इति विश्वासः । देवालये उन्नतं गोपुरम् आकर्षकमस्ति । भित्तिषु पौराणिककथाचित्राणि सुन्दराणि सन्ति । अत्र मार्गशिरमासे एकादश्यां गीताजयन्तीमहोत्सवः वैभवेण प्रचलति । तथैव कृष्णाष्टमी पर्व विशिष्टम् अस्ति । शङ्खचक्रगदाधारी श्रीकृष्णः अत्र विशिष्टमूर्तिरुपेणास्ति । भारतदेशे सर्वतः, विदेशतः च जनाः अत्र आगच्छन्ति ।
{ "source": "wikipedia" }
हिन्दुधर्मः • इतिहासः त्रिमूर्तयःब्रह्मा • विष्णुः • महेश्वरः अन्यदेवताःसरस्वती · लक्ष्मीः · पार्वतीशक्तिः · दुर्गा · कालीगणेशः · सुब्रह्मण्यः · अय्यप्पःरामः · कृष्णःहनूमान्प्रजापतिः · रुद्रःइन्द्रः · अग्निः · वायुः · निॠतिःभूमिः · वरुणः · कुबेरः · ईशानः ब्रह्म · ॐ · ईश्वरःआत्मा · मायाकर्म · संस्काराःपु्रुार्थाःधर्मः · अर्थः · कामः · मोक्षः आस्तिकवादाः साङ्ख्यम् · योगः न्यायः · वैशेषिकम् पूर्वमीमांसाउत्तरमीमांसा /वेदान्तः नास्तिकवादाःचार्वाकवादः बौद्धवादः जैनवादः ऋग्वेदः • यजुर्वेदः सामवेदः • अथर्ववेदः विभागाःसंहिता, ब्राह्मणः,आरण्यकः, उपनिषत् आयुर्वेदः • धनुर्वेदः गान्धर्वेदः • स्थापत्यवेदः शिक्षा · छ्न्दः · व्याकरणम्निरुक्तः · कल्पः · जौतिषम् ऋग्वेदीयःऐतरेयायुजुर्वेदीयाःबृहदारण्यकः · ईशवास्यःतैत्तरीयः · कठः · श्वेताश्वतरः सामवेदीयाः छान्दोग्यः · केनःअथर्ववेदीयाःमुण्डकः · माण्डूक्यः · प्रश्नः ब्रह्मसम्बद्धानिब्रह्मपुराणम् · ब्रह्माण्डपुराणानिब्रह्मवैवर्तपुराणम्मारकाण्डेयपुराणम् · भविष्यपुराणम्विष्णुसम्बद्धानिविष्णुपुराणम् · भागवतपुराणम्नारदपुराणम् · गरुडपुराणम् · पद्मपुराणम्शिवसम्बद्धानिशिवपुराणम् · लिङ्गपुराणम्स्कन्दपुराणम् · अग्निपुराणम् · वायुपुराणम् रामायणम् · महाभारतम् भगवद्गीताधर्मशास्त्रम् · मनुस्मृतिःअर्थशास्त्रम् · योगवासिष्ठःसूत्राणि · स्तोत्राणि · तन्त्राणियोगसूत्राणि हिन्दूसाहित्यम् पूजाः · जपः · भजनम्तपः · ध्यानम्यज्ञम् · होमःतीर्थस्थानानि · नैवेद्यम्हैन्दवमन्दिराणि · विग्रहः · भक्तिः · गर्भाधानसंस्कारः · पुंसवनसंस्कारः · सीमन्तोन्नयनसंस्कारः · जातकर्मसंस्कारः · नामकरणसंस्कारः · कर्णवेधसंस्कारः · निष्क्रमणसंस्कारः · अन्नप्राशनसंस्कारः · चूडाकर्मसंस्कारः · उपनयनसंस्कारः · वेदारम्भसंस्कारः · केशान्तसंस्कारः · समावर्तनसंस्कारः · विवाहसंस्कारः · विवाहाग्निपरिग्रहसंस्कारः · अन्त्येष्टिसंस्कारः वर्ण्यव्यवस्थाब्राह्मणः · क्षत्रियःवैश्यः · शूद्रःआश्रमव्यवस्थाब्रह्मचर्याश्रमः · गृहस्थाश्रमःवानप्रस्थाश्रमः · सन्यासाश्रमः नवरात्रोत्सवः विजयदशमी दीपावली · शिवरात्रिः · होलीविशु · बिहु · · गणेशचतुर्थी · ओणम्रामनवमी · कृष्णजन्माष्टमीरक्षाबन्धनम् प्राचीनाःगौतमः · जैमिनिः · कणादः · कपिलः · मार्काण्डेयः · पतञ्जलिः · वाल्मीकिः · व्यासः मध्यकालीनाःशङ्कराचार्यः · बसवेश्वरः · चैतन्यमहाप्रभुः · जयन्तभट्टः · कबीरदासः · कुमारिलभट्टः · मधुसूदनसरस्वती स्वामिनः · विद्यारण्यः · नामदेवः · निम्बार्कः · प्रभाकरः · रामानुजाचार्यः · वेदान्तदेशिकः · सन्त तुकारामः · तुलिसीदासः · वाचस्पतिमिश्रः · वल्लभाचार्यः आधुनिकाःश्री अरविन्दः · दयनन्दसरस्वती · महात्मागान्धी · कृश्णानन्दः · नारायणगुरुः · प्रभुपादः · श्रीरामकृष्णपरमहंसः · रमणमहर्षिः · सर्वपल्ली राधाकृष्णन् · स्वामी शिवानन्दसरस्वती · विवेकानन्दः · योगानन्दः राष्ट्रानुगुणं सनातनधर्मःसनातनधार्मिकता • सनातनपञ्चाङ्गम्हैन्दवनियमाः • सनातनमूर्तिशिल्पः • हिन्दुत्वम्सनातनतीर्थस्थानानि सनातनधर्मस्य समस्याः • सनातनटीकासनातनः निघण्टुः प्रवेशद्वारम्:सनातनधर्मःप्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः शिक्षा नाम तच्छास्त्रं येन वेदमन्त्राणामुच्चारणं शुद्धं सम्पाद्येत । वेदे स्वरस्य प्राधान्यं वर्तते, स्वरज्ञानं च शिक्षाऽऽयत्तम्, अत एवेदं शिक्षाशास्त्रं वेदाङ्गम् । शिक्षाशास्त्रप्रयोजनं तैत्तिरीयोपनिषदारम्भे उक्तं, यथा — 'अथ शिक्षा व्याख्यास्यामः - वर्णः, स्वरः, मात्रा, बलम्, साम, सन्तान इत्युक्तः शिक्षाध्यायः॥' तत्र वर्णोऽकारादिः, स्वरोदात्तादिः, मात्रा ह्रस्वादिः, बलं स्थानप्रयत्नौ, साम निषादादिः, सन्तानो विकर्षणादिः । एतदवबोधनमेव शिक्षायाः प्रयोजनम् । यथा वैदिकविधीनां सम्पादनार्थं ब्राह्मणग्रन्थाः उपयुज्यन्ते, तथैवोच्चारणप्रयोजनेन शिक्षायाः उपयोगो वाञ्छच्यते । वेदानां वैदिकसाहित्यस्य वा अध्ययनाध्यापनविषयकविधीनां निर्देशः शिक्षाशास्त्रे कृतः । शिक्षा स्वरवर्णाद्युच्चारणानि केन प्रकारेण कर्त्तव्यानीत्येतस्मिन् विषये उपदिशति । सायणस्य ऋग्वेदभाष्यभूमिकायामुक्तम् - 'स्वरवर्णायुच्चारणप्रकारो यत्र शिक्ष्यते उपदिश्यते सा शिक्षेति' वेदपाठावसरे शुद्धमुच्चारणं स्वरक्रिया च युक्ता काम्येते। अशुद्धोच्चारणयुक्तो भ्रष्टस्वरश्च वेदपाठो महद् दुष्फलं जनयति । यज्ञयागोपासनादिकं यत्कार्यमिष्टलाभाय क्रियते, तस्माद्विशिष्टलाभो न कदापि अशुद्धेनोच्चारणेन समवाप्तः सञ्जायते । तद्विधमशुद्धोच्चारणयुतं कार्यं तु विपदां महतीम् उत्पादयति। श्रूयते यत् पुरा 'इन्द्रशत्रुर्वधस्व' इत्यस्य मन्त्रस्य अशुद्धोच्चारणं कृतमभूत्, तेन यजमानम्प्रति तदनिष्टकारकमसिद्धयत् । पाणिनीयशिक्षायामुक्तम् -- 'मन्त्रो हीनः स्वरतो वर्णतो वा, मिथ्याप्रयुक्तो न तमर्थमाह। स वाग्वज्रो यजमानं हिनस्ति, यथेन्द्रशत्रुः स्वरतोऽपराधात्॥' वेदोच्चारणस्य युक्ततायै स्वरक्षाज्ञानमपेक्ष्यते समीचीनम् । स्वर उदात्तानुदात्तस्वरितभेदेन त्रिविधः । ‘उच्चैरुदात्तः', ‘नीचैरनुदात्तः', ‘समाहारः स्वरितः' इत्येतानि पाणिनिना तेषां त्रयाणां लक्षणानि प्रोक्तानि । 'अनुदात्तपदमेकवर्ज्यम्' इत्येतस्मिन् पाणिनीये सूत्रे अभिहितं यद्,, वेदस्य प्रतिपदमवश्यमेव केनापि उदात्तेन स्वरेण संश्लिष्टं भवति, अवशिष्टाश्च स्वराः भवन्त्यनुदात्ताः । तेष्वेवानुदात्तेषु स्वरेषु अन्यतमः स्वरो हि परिस्थितिविशेषे स्वरितो जायते । स्वरप्रधानतायाः कारणं वेदेष्वस्ति, तेषां स्वराणामर्थनियन्त्रणत्वम् । वेदेषु शुद्धोच्चारणं सर्वप्रथमं वाञ्छितं भवति, तच्च शुद्धोच्चारणं शिक्षा समुपदिशति । एतस्मादेव हेतोः षट्सु वेदाङ्गेषु शिक्षाऽङ्गस्य मूर्धन्यत्वमाम्नातम् । शिक्षाया अभिमतो विषयः प्रातिशाख्येषु दृश्यते । प्रातिशाख्यग्रन्थाः शिक्षाशास्त्रस्य प्राचीनतमाः प्रतिनिधय इव सन्ति । संहितापाठसम्बन्धिनः सर्वेऽपि विषयास्तत्र साङ्गोपाङ्गतया प्रतिपादिताः । शिक्षाशास्त्रेतिहासः पुरातनतरः । परं न तद्विषयकाः प्राचीनतराः ग्रन्थाः उपलभ्यन्ते। श्रीवाचस्पतिगैरोला स्वकीये इतिहासे लिखति यत्, सत्यकेतुविद्यालङ्कारस्य मतमिदं यत् ‘जैगीषव्यस्य शिष्यो बाभ्रव्यः शिक्षाशास्त्रं प्रणिनाय। महाभारते शान्तिपर्वणि आचार्यगालवकृतस्य शिक्षाग्रन्थस्योल्लेखो लभ्यते । भण्डारकरशोधसंस्थान-पूना-तः भारद्वाजशिक्षायाः प्रकाशनं जातमस्ति । तत्र नागेश्वरभट्टस्य टीका च वर्तते । नागेश्वरमतेन स ग्रन्थो भारद्वाजेन प्रणीतः । शिक्षासङ्ग्रहनामके ग्रन्थे द्वात्रिंशच्छिक्षापुस्तकानां सङ्ग्रहोऽवाप्यते । शिक्षा इमाश्चतुर्णामपि वेदानां भिन्नभिन्नशाखास्वात्मानं सम्बध्नन्ति । श्रीबलदेव-उपाध्यायः स्वकीये ‘वैदिक साहित्य और संस्कृति' इत्येतदभिधेये ग्रन्थे याज्ञवल्क्यशिक्षा-वासिष्ठीशिक्षादिसंज्ञकानां विंशतिग्रन्थानामुल्लेखं विदधानो दृश्यते । साम्प्रतं समवाप्ता पाणिनीयशिक्षा प्राचीनशिक्षासूत्राणां साहाय्येन प्रणीता अभूदिति बुधानां विचारः । अद्यतने युगे पाणिनीयशिक्षां स्वामी-दयानन्द उद्दधार। इदानीं शुक्लयजुर्वेदे याज्ञवल्क्यशिक्षा, सामवेदे नारदशिक्षा, अथर्ववेदे माण्डूकीशिक्षा, किञ्च ऋग्वेदे पाणिनीयशिक्षा च प्राप्यन्ते न च अन्या काऽपि। वैदिककाले एव वेदाङ्गं प्रति वैदिकानाम् ऋषीणां ध्यानाकर्षणमभवत् । ब्राह्मणग्रन्थेषु शिक्षासम्बद्धनियमानाम् उल्लेखो यत्र तत्र प्राप्यते। उपनिषत्सु अद्वैत-विशिष्टाद्वैतश्रुतीनां सद्भावः। अस्मिन्नेव काले मूलरूपेण शिक्षा-सिद्धान्तोऽपि प्रतिपादितोऽस्ति । अाचार्यैः शिक्षासिद्धान्तप्रतिष्ठापिकाः श्रुतयः प्रधानत्वेन स्वीकृताः, अन्यासां श्रुतीनां गौणत्वञ्च तैरुपपादितम् । वस्तुत उपनिषत्सु सर्वेषामपि दर्शनानां बीजानि निहितानि सन्ति। न केवलं शिक्षादर्शनस्य अपि तु विभिन्नदर्शनानामपि मूलसिद्धान्ताः समुपलभ्यन्ते । उपनिषदां प्रधानत्वेन प्रतिपाद्यो विषयोऽस्त्यात्मा । संहिता-तः अारण्यकं यावत् तद् ब्रह्म अात्मनो भिन्नमित्येतेन रूपेण प्रतिपादितमस्ति, तदुपनिषत्सु ततो भिन्नमित्येतेन प्रकारेण व्याख्यातमस्ति । द्वयोरप्यभिन्नत्वाद् दैवाध्यात्मिकतत्त्वयोः एकत्वाच्च आत्मैवैकः सर्वत्र न च तं विहाय कोऽप्यन्यः पदार्थ इति हि उपनिषद्भिः उक्तम्। तच्चात्माख्यं तत्त्वं पूर्णमस्ति । तदेव तत्त्वं द्रष्टृ तदेव च दृश्यम् । न द्रष्टृदृश्ये भिन्नतां वस्तुतः श्रयतः । आत्मैव सर्वव्यापी वर्त्तते । विश्वस्य सर्वेष्वपि पदार्थेषु स एव व्याप्तोऽस्ति । तस्मिन्नेव समग्रस्यापि प्रपञ्चस्य लयो भवति। ततो व्यतिरिक्तं न किमपि । अत एव बृहदारण्यकोपनिषदाह - ‘स वाऽयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्रमाणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमयः अापोमयो वायुमय अाकाशमयस्तेजोमयः काममयोऽकाममयः क्रोघमयोऽत्रकोघमयो घर्ममयोऽधर्ममयः सर्वमयः ************ ' अतः संसारस्य यावन्तोऽपि सन्ति स्थूला वा सूक्ष्माः पदार्थाः, सर्वेऽपि नात्मनो भिन्नाः । ते सर्वे अात्मत्वेनैव वेदितव्याः, नात्मनः परं किमपि प्रियतरम् । ऋषिभिः बहुधा स अात्मा वर्णितः । कथयन्ति ते यत्, अात्मैव प्राणापानव्यानोदानवायुरूपेण अस्मच्छरीरे भवति । आत्मैव क्षुत्पिपासामोहशोकजरामरणेभ्यः अस्मान्नुद्धरति । अात्मनो ज्ञानानन्तरमेव मानवः सुतसम्पत्सुन्दरीस्वर्गादिसमवाप्तेः इच्छातो विरतो भूत्वा परिव्राजो जीवनं वहति । पूर्णत्वाद् अखण्डत्वाच्चात्मा सदसल्लघुगुरुद्रादूरान्तर्बहिरादि-सकलविरुद्धधर्माणाम् एकाधारः । सर्वेऽपि दर्शनकारा अत एवेदं परमतत्त्वमात्मा अभिधेयं विभिन्नरूपेण स्वस्वमूलतत्त्वं मत्वा भिन्नभिन्नया दृष्टिसरण्या भिन्नभिन्नानि दर्शनानि व्यरचयन् । ब्रह्मतत्त्वं यः कोऽपि जिज्ञासति, ज्ञातुं शक्नुते, यः कोऽपि मानवस्तल्लिप्सति लब्धुं प्रभवति। नायमात्मा वेदाध्ययनेन लब्धुं शक्यो न च सद्धारणाशक्त्यैव । साधको हि यमात्मानं वृणुते, तेनैव स तमवाप्तुमीष्टे । सम्प्रति हि स्वयमेवात्मा स्वकीयं रूपमभिव्यनक्ति। कठोपनिषदाह- ‘नायमात्मा प्रवचनेन लभ्यो न मेघया न बहुधा भ्रुतेन ॥ यमेवैष वृणुते तेन लभ्यस्तस्यैष अात्मा विवृणुते तनू' स्वाम् ॥' तैत्तिरीयोपनिषदः प्रथमवल्ल्यामस्याः शिक्षायाः समस्तमूलसिद्धान्तस्य विवेचनमुपलब्धं भवति । यथा- शिक्षां व्याख्यास्यामः ॥ वर्णः, मात्रा, बलं, साम, सन्तानः, इत्युक्तः शिक्षाध्याये'॥ उपनिषदानुसारेण इत्येतानि षडङ्गानि भवन्ति शिक्षाविषयस्येति वर्णस्य अभिप्रायः अक्षराणि भवन्ति । वेदतत्त्वस्य ज्ञानार्थं संस्कृतवर्णमालायाः ज्ञानं नितान्तम् आवश्यकमस्ति । पाणिनीयशिक्षातः ज्ञानं भवति यत्, संस्कृतवर्णमालायां 63 अथवा 64 वर्णाः निर्धारिताः भवन्ति । न केवलमियं संख्या संस्कृतभाषार्थमेव, प्रत्युत वैदिककाले प्रयुक्तं प्राकृतभाषार्थमपि नियता आसीत्। स्वरस्याभिप्रायः - उदात्तानुदात्तस्वरितै: सहास्ति । मात्राशब्देन उच्चारणसापेक्षसमय एवास्ति । मात्रा त्रिधा भवति - ह्रस्व-दीर्घ-प्लुताश्चेति । एकमात्रो भवेद् ह्रस्वः, द्विमात्रो दीर्घं उच्यते, तथा त्रिमात्रो प्लुतसंज्ञको भवति । बलेन स्थानप्रयत्नयोः बाधो भवति । स्वर-व्यञ्जनयोः उच्चारणकाले ताल्वादि यत्स्थानस्य वायुना स्पर्शो भवति, तदैव स्थानमिति । स्थानानि च इमानि अष्टसंख्यकानि भवन्ति । प्रयत्नोऽपि द्विधा भवति- अाभ्यन्तरो बाह्यश्चेति । अभ्यन्तरप्रयत्नः चतुर्धा विभक्तोऽस्ति - स्पृष्ट-ईषत्स्पृष्ट-विवृत-संवृतभेदात् । बाह्यप्रयत्नोऽपि एकादशधा - विवार-संवार-श्वास-नाद-घोष-अघोष-अल्पप्राण-महाप्राण-उदात्तस्वरिताश्चेति । सामशब्दस्यार्यो भवति — ‘साम्यम्' अर्थात् दोषरहितम् अनुदात्त-माधुर्यादिगुणयुक्तमुच्चारणम् । तद्यथा - ‘माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः। धैर्यं लयसमर्थञ्च षडेते पाठका गुणाः।।' विपरीतमस्य अधमपाठकेषु परिगणितप्रकाराणां निर्देशोऽपि तत्रैव । यथा - ‘गीती शीघ्री शिरः कम्पी यथा लिखितपाठकः॥ अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाऽधमाः॥' शकृितभीतादिपाठोऽपि अनर्थको भवति। यथा - 'शङ्कितं भीतमुत्कृष्टमव्यक्तमनुनासिकम्। काकस्वरं शिरसिंगं तथा स्थानविवर्जितम्।। उपांशुदष्टं त्वरितं निरस्तं विलम्बितं गद्गदितं प्रगीतम्। निष्पीडितं ग्रस्तपदाक्षरश्च वदेन्न दीनं न तु सानुनास्यम्।।' सन्तानः - सन्तानशब्दस्यार्थो भवति संहिता, अर्थात् पदानामतिशयसनिधिः । सत्यपि पदानां स्वतन्त्रास्तित्वे यदा कदा पदद्वयस्य आवश्यकतानुसारेण शीघ्रतयैकस्य अनन्तरमेकस्य उच्चारणं भवति, तदेवोच्चारणं संहितापदेन व्यपदिश्यते । पदेषु प्रथमं संहिता भवति, तत्पश्चादेव सन्धिर्भवितुमर्हति । यथा -'वायो आयाहि' अत्र स्वतन्त्रे द्वे वैदिकपदे स्तः । यदैकस्मिन्नेव वाक्ये पदद्वयस्य सहैवोच्चारणं भवति तदा सन्धिकारणेन अत्र किमपि परिवर्त्तनं भवति। तदा पूर्वोदाहरणस्य रूपं 'वायवायाहि' भविष्यति। अनेनैव प्रकारेण 'इन्द्राग्नो आगतम्' अत्र प्रकृतिभावो भविष्यति । प्रत्येकस्मिन् वेदे वर्णानामुच्चारणं समानरूपेण भवितुं नार्हति । तेषामुच्चारणे पार्थक्यं भवत्येवेति । उदाहरणाय - मूर्धन्यः 'ष' इत्येतस्य शुक्लयजुर्वेदे रेफेण सह उष्मवर्णेन सह संयुक्ते सति च अस्योच्चारणं ‘ख’ इव भवति । किञ्च अन्यवेदेषु अस्य उच्चारणं विशुद्धमूर्धन्यः ‘ष' इव भवति । यथा पुरुषसूक्तस्य प्रधानमन्त्रगत-‘सहस्रशीर्षा पुरुषाः' अत्र ऋग्वेदिनामुच्चारणे यत्र 'शीर्षा' इत्येतस्य 'ष' इति मूर्धन्यः स्पष्टत एव भवति, तत्र माध्यन्दिनशाखीयानामुच्चारणे 'शीरेखा पुरुखः' इत्युच्चारणं भवति । अस्य विशिष्टपरिचयः तत्तद्वेदस्य एव शिक्षायां विस्तरेण सह प्रदत्तमस्ति । इदमेव कारणमस्ति यत्, प्रत्येकस्य वेदस्य स्वकीया शिक्षाऽस्ति । तस्यामेव शिक्षायां तत्तद्वेदविशेषस्य उच्चारणस्य अपि विधानं वर्त्तते । प्रातिशाख्यानि शिक्षाणां पूर्वरूपाणि । किन्तु तानि वेदाङ्गसंज्ञया न व्यवह्नियन्ते । शौनकेन विरचितम् ऋग्वेदप्रातिशाख्यं प्रातिशाख्येषु विशिष्यते । एतत् जर्मनीयैः पण्डितैः मुद्रयित्वा प्रकाशितम् अस्ति । पदप्रकृतानिप्रातिशाख्यानि, एतदतिरिक्तं प्रातिशाख्यग्रन्थेषु, शिक्षा-व्याकरण-छन्दसां नियमाः विवेचिताः सन्ति । कस्याः शाखायाः नियमविशेषः कः, इति प्रदर्शनम् एव प्रातिशाख्यग्रन्थानां प्रयोजनमस्ति । अर्थात् शिक्षा-व्याकरण-छन्दसां समाहारः एव प्रातिशाख्यग्रन्थः । इमे प्रातिशाख्याः संहिताभेदेन शाखाभेदेन वा विभिन्नाः वर्तन्ते । यथा ऋग्वेदस्य ऋक्प्रातिशाख्यम्, यजुर्वेदस्य वाजसनेयिप्रातिशाख्यम्, तैत्तिरीयप्रातिशाख्यम्, सामवेदस्य ऋक्तन्त्रम्, पुष्यसूत्रप्रातिशाख्यं तथा अथर्ववेदस्य शौनकीयाप्रातिशाख्यम्, अथर्ववेदप्रातिशाख्यञ्च सुप्रसिद्धाः प्रातिशाख्यग्रन्थाः सन्ति । ‘शिक्षा'-शब्दस्य अत्रार्थो भवति वैदिकमन्त्राणामुच्चारणविधेः शिक्षको ग्रन्थः । शिक्षा-प्रातिशाख्ययोः परस्परसम्बन्धविषये मतैक्यं नास्ति । शिक्षायाः साहित्यं पर्यातरूपेण विशालमस्ति । प्रधानशिक्षायाः संक्षिप्तपरिचयेन शिक्षासाहित्यस्य विशालतायाः कल्पना भवेत्। अस्य ग्रन्थस्योपरि महामहोपाध्यायपण्डितवैङ्कटरामशर्मणा रचितो वेदतैजसनाम्ना व्याख्याग्रन्थः समुपलब्धोऽस्ति । अस्य ग्रन्थस्य सम्बन्धः तैत्तिरीयसंहितया सहास्ति । ग्रन्थोऽयं ‘संहिताशिक्षा' नाम्ना व्यवहृतोऽस्ति । यतोऽस्य प्रधानलक्ष्यं संहिता-पदानां शुद्धतैवाऽस्ति । तदर्थं विशिष्टनियमानाम् अस्मिन् ग्रन्थे विवरणमस्ति। क्वचिद्विशिष्टशब्दानां सङ्कलनमप्यस्ति । तैत्तिरीयसंहितायां ‘वृजिन्'-शब्दस्य उपलब्धिर्भवति । किञ्च जकारस्य उदात्तस्वरयुक्तत्वे सति अकारयुक्तः ‘वृजन' इत्येवं भवति । अनेन प्रकारेण 'पर्शु'-शब्दः अन्तोदात्तश्चेत्, 'परशु' इत्यस्मिन् रूपे परिणतो भवति । अनेनैव प्रकारेणात्र नियमाः प्रदर्शिताः । अक्षरक्रमेण ग्रन्थस्य सङ्कलनमस्ति । शिक्षायाः अन्येषां विषयाणाम् अत्राभावो विद्यते । श्रीनिवासदीक्षितेन रचिता ‘सिद्धान्तशिक्षा' अपि अस्याः शिक्षाया विषयप्रतिपादने अनुगमनं करोति । शिक्षेयं प्रसिद्धा लोकप्रिया चास्ति । लौकिकानां वैदिकानाञ्च शास्त्राणां कृते शिक्षेयं नितान्तमुपयोगित्वेन अधिकमहत्त्वपूर्णाऽस्ति । ग्रन्थेऽस्मिन् षष्टिः श्लोकाः सन्ति । एतेषु श्लोकेषु उच्चारणविधिसम्बद्धविषयाणां संक्षिप्तं किञ्चोपादेयं विवरणं प्रदत्तमस्ति । ग्रन्थान्ते पाणिनेरुल्लेखः दाक्षीपुत्रनाम्ना कृतोऽस्ति । 'शङ्करः शाङ्करीं प्रादात् दाक्षीपुत्राय धीमते। वाङ्मयेभ्यः समाहृत्य देवीं वाचमिति स्थितिः।।' अनेन पाणिनिमतानुयायी कोऽपि वैयाकरणः अस्य उपयोगिनो ग्रन्थस्य निर्माणमकरोत् । अस्य ग्रन्थस्य उपरि बहुविधाः टीकाः अप्युपलब्धाः भवन्ति । परिमाणे न्यूनत्वेन अप्यस्य सारगर्भितग्रन्थस्य अनुशीलनेन संस्कृतभाषायाः अस्योपयोगिनो विषयस्य सुष्ठु ज्ञानं प्राप्येत। परिमाणेयं बृहदाकाराऽस्ति । अस्याः श्लोकानां संख्या 232 अस्ति। अस्याः सम्बन्धः शुक्लयजुर्वेदीयवाजसनेयीशाखया सहास्ति । अस्यां शिक्षायां वैदिकस्वराणामुदाहरणेन सह विशिष्टं विस्तृतञ्च वर्णनमस्ति । लोपागमविकारप्रकृतिभावाख्यानां चतुर्विधसन्धीनां विवेचनोऽप्यत्र वर्तते । वर्णानां विभेदस्वरूप-साम्य-वैषम्यादीनामपि वर्णनमस्ति । अस्या अपि सम्बन्धो वाजसनेयीसंहितया सहैवास्ति । अस्यां संहितायां ऋग्-मन्त्र-यजुर्मन्त्रयोः पार्थक्यम् अतिविस्तारेण वर्णितमस्ति । अनया शिक्षया अनुसारेण शुक्लयजुर्वेदीयसमग्रसंहितायाम् ऋग्वेदीयाः 1467 मन्त्राः सन्ति । अत्र यजुषां संख्या 2823 अस्ति । संख्याविभागोऽयमस्य वेदस्य अध्ययनकर्तृभ्यः अतीवोपादेयः अस्ति । अस्यां शिक्षायां केवलं त्रयोदशश्लोकाः वर्त्तन्ते । जयन्तस्वामिनाम्ना कोऽपि विद्वानस्य टीकां लिलेख । अस्यां शिक्षायामपि 160 शलोकाः सन्ति । अस्मिन्नपि ग्रन्थे सन्धि-स्वर-वर्णादीनां विषयाणां विवेचनमस्ति। शिक्षेयं शुक्लयजुर्वेदेन सह सम्बद्धाऽस्ति । ग्रन्थेऽस्मिन् वाजसनेयीसंहितायां प्रयुक्तानां नामौष्ठ्यवर्णानां सङ्ग्रहो विद्यते। अतीवपरिश्रमेण समस्तसंहितायाः अध्ययनं कृत्वा उपादेयोऽयं ग्रन्थो लिखितोऽस्ति । सामान्यशिक्षाग्रन्थेभ्यः अस्य ग्रन्थस्य विशिष्टता अधिका अस्ति। स्वरस्य वर्णस्य च विचारम् अकृत्वैव केवलम् ओष्ठेन उच्चारितवर्णानाम् एवात्र सङ्ग्रहः कृतोऽस्ति । अस्मिन् ग्रन्थे 130 श्लोकाः सन्ति । अत्र स्वरस्य वर्णस्य च सूक्ष्मविचारः कृतोऽस्ति । अस्य ग्रन्थस्य संक्षिप्तसंस्करणमप्यस्ति । अस्मिन् संस्करणे केवलं सप्तदशश्लोका एव सन्ति । ग्रन्थेऽस्मिन् केवलं द्वित्वनियमानां विवेचनमस्ति । द्विविधोऽयं ग्रन्थः । एकः बृहदाकारः, द्वितीयस्तु लघ्वाकार एवेति । प्रथमो गद्यात्मकः, द्वितीयः पद्यात्मकश्चेति । अस्य ग्रन्थस्य रचयिता भारद्वाजवंशीयः कोऽपि अमरेशनामको विद्वानस्ति । अस्यापि समयः अज्ञात एव । अस्य ग्रन्थस्य श्लोकानां संख्या 227 अस्ति। नामानुरूपेण एव अस्मिन् ग्रन्थे वर्ण-स्वर-सन्धीनां साङ्गोपाङ्गं विवेचनमस्ति । अस्याः रचयिता आस्तिकमुनेर्वंशजो गोकुलदैवज्ञस्य पुत्रः केशवदैवज्ञोऽस्ति । द्विविधेयं शिक्षा समुपलब्धा भवति । प्राथमिकीशिक्षायां माध्यन्दिनशाखातः सम्बद्धपरिभाषाणां विस्तृतं विवेचनमस्ति। प्रतिज्ञा - समस्तानां नवसूत्राणां विस्तृतव्याख्योदाहरणेन सहात्र प्रदत्ताऽस्ति। द्वितीया शिक्षा पद्यात्मिका अस्ति। एकविंशतिपद्येषु अत्र स्वरस्य विस्तृततया विचारोऽस्ति। अस्य ग्रन्थस्य रचयिता उपमन्युगोत्रीयः अग्निहोत्री खगपतिमहोदयस्य पुत्रो मल्लशर्मा नामतः कोऽपि कान्यकुब्जब्राह्मणः आसीत्। अस्याः शिक्षायाः पद्यानां संख्या 65 अस्ति। लेखकस्य कथनानुसारेण अस्याः रचना 1781 विक्रमाब्देऽभवत् । अस्याः शिक्षायाः रचयिता जयन्तस्वामीनामकः कोऽपि विद्वानासीत् । श्रीरामकृष्णनामकेन विदुषा षोडशश्लोकीशिक्षा नामकं लघ्वेकं पुस्तकं प्रणीतं, यत्र स्वरस्य व्यञ्जनस्य च विचारः कृतः अस्ति । वैदिकव्याकरणसम्बन्धिपदप्रयोगनियमानां ज्ञानाय स्वरवर्णादिज्ञानसौलभ्याय च शिक्षेयं प्रणीता अनन्तदेवेन विदुषा । स्वरभक्तिप्रयोगनियमानां ज्ञानाय महर्षिणा कात्यायनेन विविधोदाहरणैः संयुतो लक्षणग्रन्थोऽयं रचितः। इदं पाण्डित्यपूर्णं शिक्षाशास्त्रं सदाशिवपुत्रेण बालकृष्णनाम्ना केनाऽपि विदुषा कृतमस्ति। शिक्षेयं परिमाणे गरिष्ठेति। शिक्षाशास्त्रमिदं किमपि प्राचीनम् ईदृशं शास्त्रम् आलोक्यैव प्रणीतम् । ग्रन्थेऽस्मिन् कतिपयानि व्याकरणप्रयोगपराणि ग्रन्थान्तरात्पद्यानि समुद्धृतानि सन्ति । स्वरवर्णादिशिक्षायाः समग्रविषयाणां सरसं सरलं साङ्गोपाङ्गञ्च विवेचनमत्रास्ति । सामवेदेन सम्बद्धोऽयं शिक्षाग्रन्थोऽस्ति । अतिविस्तृता, उपादेया च शिक्षाऽस्ति। अस्य ग्रन्थस्य शोभाकरभट्टेन विस्तृता व्याख्याऽपि लिखिता। व्याख्येयं नितान्तप्रौढा प्रसिद्धा चास्ति । सामवेदीयस्वराणां रहस्यं विज्ञातुं ग्रन्थोऽयम् अतीवोपयोगी वर्त्तते । सामवेदेन सह सम्बद्धा शिक्षा इयम्। सामवेदेन सह सम्बद्धा शिक्षा इयम्। अथर्ववेदेन सम्बद्धेयं शिक्षाऽस्ति । अस्याः श्लोकानां संख्या 179 अस्ति। अथर्ववेदस्य स्वराणां वर्णानाञ्च सुष्ठुज्ञानाय शिक्षेयं महनीया श्लाघनीया चास्ति । उक्तानां त्रयाणां ग्रन्थानां रचयिता याज्ञवल्क्यमुनिरस्ति । उपरिलिखिताः शिक्षाग्रन्थाः प्रकाशिताः सन्ति । किञ्च एतदतिरिक्तान्यपि शिक्षाशास्त्राणि सन्ति, येषां प्रकाशनमद्यावधिः नाभवत् । एते ग्रन्थाः हस्तलिखितरूपेण एव अवतिष्ठन्ते। एतेषु शिक्षाग्रन्थेषु प्राचीनशिक्षासूत्रमपि विद्यमानमासीत् । आपिशलि-पाणिनि-चन्द्रनोमीत्यादीनि शिक्षासूत्राणि च सन्ति प्रकाशितानि। आपिशलिशिक्षासूत्रे स्थान-करण-अन्तः-प्रयत्न-बाह्यप्रयत्न-स्थानपीडन-वृत्तिकारप्रकरण-प्रकम-नाभितल-प्रकरणादयश्चाष्टप्रकरणानि सन्ति । एतेषु प्रकरणेषु अक्षराणामुत्पत्तिः, स्थानप्रयत्नानाच्च विशदं विवेचनञ्च अस्ति । एभ्यः शिक्षासूत्रेभ्यः कतिपयानि शिक्षासूत्राणि वृषभदेवेन वाक्यपदीयटीकायां, हेमचन्द्रेण व्याकरणस्य बृहद्वृत्त्यां, न्यासकारेण च स्वन्यासे समुद्धृतानि सन्ति । पाणिनि-शिक्षासूत्रेष्वपि आपिशलि-शिक्षासूत्रमिव क्रम-प्रकरणयोः उल्लेखो विद्यते । उभयोरपि सूत्रेषु समता लभते। उपरिलिखितेभ्यः शिक्षाग्रन्थेभ्यः एतानि शिक्षासूत्राणि असन्दिग्धरूपेण प्राचीनतराणि सन्ति । यथा अष्टाध्यायीम् आधारीकृत्य चन्द्रगोमीपण्डितेन स्वं व्याकरणं विरचितं स्यात्तथैव पाणिनिशिक्षासूत्राणि अाधारीकृत्यैव स्वकीयवर्णसूत्राणां रचना कृताऽस्ति । प्राचीना ऋषयः भाषाशास्त्रस्य आवश्यकाङ्गस्य वैज्ञानिकाध्ययनमकुर्वन्। अद्यतनीयाः प्रतीच्यप्रधयोऽपि उच्चारणविद्यान्तर्गते अस्य विषयस्याध्ययनं कुर्वन्ति । सम्प्रति वैज्ञानिकैः उच्चारणस्वरूपावबोधनाय उच्चारणयन्त्रमपि निर्मितम् । प्राचीनभारते एवंविधस्य यन्त्रस्य अप्यभाव आसीत् । तथाऽप्यस्य विषयस्य एवंविधं वर्णनमनुशीलनञ्च प्राचीनभारतीयानाम् उच्चारणसम्बन्धिवैज्ञानिकगवेषणस्य द्योतकम् अस्ति। अद्यापि तत्तद्वैदिकमन्त्राणां तथैवोच्चारणं भवति, यथा प्राचीनकाले तेषामुच्चारणमभूत् । वैदिकोच्चारणस्य परम्परा एवंविधा विशुद्धाऽस्ति यत्, प्रान्तेतराणामप्यध्येतारः समानरूपेणैव समानशाखाया उच्चारणं कुर्वन्ति । तेषां विभिन्नप्रान्तीयानां वैदिकानामुच्चारणे स्तोकमपि पार्थक्यं वैभिन्न्यञ्च परिलक्षितं न भवति । शिक्षाशास्त्रीयमहत्त्वस्य सूचकोऽयमस्ति । शास्त्रमिदं यद्यपि वैदिकव्याकरणलक्षणप्रयोगज्ञानाय निर्मितमिति प्रतिभाति, तथाऽप्यस्य शास्त्रस्य साहित्यिकं किमपि वैशिष्ट्यं विद्वज्जनमनोरञ्जकाय विद्यते ।
{ "source": "wikipedia" }
झालावाड राजस्थानराज्ये स्थितस्य झालावाडमण्डलस्य केन्द्रम् अस्ति ।
{ "source": "wikipedia" }
कर्णाटकस्य अष्टाविंशतिलोकसभाक्षेत्रेषु अन्यतमम् अस्ति तुमकूरुलोकसभाक्षेत्रम्। अत्र अष्टविधानसभाक्षेत्राणि अन्तर्भवन्ति । तेषु अन्यतमम् अस्ति तुमकूरुग्रामान्तरविधानसभाक्षेत्रम्। कर्णाटके विधानसभाक्षेत्रेषु अस्य सङ्ख्या 133। तुमकूरुग्रामान्तरविधानसभाक्षेत्रं मण्डलदृष्ट्या तुमकूरुमण्डले अन्तर्भवति । निर्वाचनक्षेत्रदृष्ट्या तुमकूरुलोकसभाक्षेत्रे अन्तर्भवति ।
{ "source": "wikipedia" }
वर्णमालायां षष्ठः वर्णः अस्ति ।एषः दीर्घः स्वरः अस्ति । अस्य उच्चारणस्थानम् ओष्ठौ स्तः ।उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् ।पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति । “ऊकारः पुरुषे चन्द्रे राजपुत्रे गले सुरे। प्राङ्गणोपमयोः पूर्णकुम्भे वणिजि रक्षणे”- नानार्थरत्नमाला “रक्षणे चापि ऊकारः ऊकारो ब्रह्मणि स्मृतः” – एकाक्षरकोशः “ऊ रक्षणे रक्षके च सूच्यां स्यूतावनव्ययम्” - हेमकोशः “ऊ वाक्यारम्भेऽनुकम्पारक्षाहूतिष्वनव्ययम्” - विश्वप्रकाशः
{ "source": "wikipedia" }
भारतदेशस्य पश्चिमबङ्गाल् राज्ये विद्यमानेषु शक्तिपीठेषु अन्यतमम् । पश्चिमबङ्गाल् राज्ये अन्त्ये बर्दवान्मण्डले अस्ति एतत्क्षेत्रम् । खीरग्रामः इति अस्य अन्यत् नाम । बर्दवान् रेलनिस्थानकतः प्रस्थाय निगमनामकः ग्रामः प्राप्तः चेत् द्विकिलोमीटर् दूरे अस्ति खीरग्रामः । बस् यानस्य सौकर्यम् अपि अस्ति । यात्रिकाणां कृते अत्र वासव्यवस्था अस्ति । दाक्षायिण्याः शरीरं विष्णुः यदा कर्तितवान् तदा देव्याः दक्षिण-अङ्गुष्ठः अस्मिन् स्थाने पतितः इति ऐतिह्यम् अस्ति । अत्रत्या देवी युगाद्या,योगाद्या, जुगाद्या, जोगदाया इत्यादिभिः नामभिः पूज्यते । अत्रत्यः शिवः "क्षीरखण्डकः" इति पूज्यते । ऐतिह्यानुसारं देवी पार्श्वस्थे सरोवरे वसति । वैशाखमासे सङ्क्रान्तिदिने च बहिः आगत्य पूजां स्वीकृत्य पुनः सरोवरं प्रविशति । पूर्वं अत्र नरबलिः भवति स्म इति श्रूयते । इदानीं प्राणिबलिः प्रचलिता अस्ति । राजा कीर्तिचन्द्रः 1770तमे वर्षे मन्दिरस्य नवीकरणं कृतवान् । देव्याः दर्शनेन मङ्गलं भवति इति विश्वासः अस्ति । वैशाखे सङ्क्रान्तिदिने च अत्र यात्रामहोत्सवः प्रचलति ।केषाञ्चन मतानुसारं भ्रामर्याः देवालयः बाङ्ग्लादेशस्य राजधान्याः ढाकायाः समीपे पाञ्चघरतः 344 की.मी. दूरे अस्ति । अन्ये केचन जल्पाय्गुडी नगरस्य जल्वेशदेवालयस्य समीपे अस्ति ।
{ "source": "wikipedia" }
यक्षगानं कश्चित् स्वतन्त्रः कलाप्रकारः यस्मिन् भरतस्य नाट्यशास्त्रे उक्ताः गीतं, सङ्गीतम्, वाद्यं, नर्तनम्, अभिनयः, वाचिकम् इति सर्वे अपि अंशाः अन्तर्गताः । अस्य मूलं कर्णाटकराज्यम् एव । नृत्यगानस्म्भाषणवेशभूषणदिभिः युक्ता स्वतन्त्रा शास्त्रीयकला नाम यक्षगानम् । कर्णाटकशास्त्रीयकलाविद्यासु प्रमुखा कला इयम् । यथा पञ्जाबस्य भाङ्ग्रा, अस्सामस्य बिहु, जार्खण्डस्य तथा ओरिस्सायाः छौ, राजस्थानस्य घूमर्, गुजरातस्य दाण्डिया, गर्बा च, महाराष्ट्रस्य लावणी, गोवायाः देखनी तथा कर्णाटकस्य यक्षगानम् । कर्णाटकस्य उत्तरकन्नड-दक्षिणकन्नड-उडुपि-शिवमोग्ग-चिक्कमगळूरु-कासरगोडु-उपमण्डलेषु यक्षगानं जनप्रियं वर्तते । यक्षगानस्य प्रथम उल्लेखः सार्णदेवस्य सङ्गीतरत्नाकरे क्रि श जक्क इति नाम्ना अभवत् । आनन्तरं यक्कलगान इत्युक्तम् इत्येकः अभिप्रायः । गन्धर्वग्राम इति कस्याश्चित् विनष्टगानशैल्याः द्वारा गानं स्वतन्त्रशैलीयुक्तं नृत्यम् अभवत् इति शिवरामकारन्तस्य यक्षगानबयलाट इति संशोधनप्रबन्धनसङ्कलने वर्तते । 1500 शके व्यवस्थितरूपेण यक्षगानं रूढौ आगतम् इति बहूनां विदुषाम् अभिप्रायः । यक्षगाने अनेकविधप्रभेदाः वर्तन्ते तेषां यक्षगान बयलाट अत्यन्तं जनप्रियं वर्तते । बयलाट नाम वेशभूषणानि धारयित्वा रङ्गे क्रीयमाणः यक्षगानप्रभेदः । पूर्वम् उत्सवदिवसे ग्रामस्य क्रीडाङ्गणे अहोरात्रं यक्षगानम् भवति स्म । अतः बयलाट इति नाम । परन्तु इदानीम् अहोरात्रं क्रीयमाणेन बयलाटेन साकं 2-3 होरापर्यन्तं क्रीयमाणं बयलाटमपि वर्तते । वेषभूषणम्, रङ्गस्थलम्, नृत्यम्, अभिनयः, सम्भाषणम्, गानम् इत्यादीनि साम्प्रदायिकयक्षगानस्य सर्वाङ्गानि बयलाटे दर्शयितुं शक्यन्ते । यक्षगाने मूडलपाय पडुवलपाय इति प्रमुखं भेदद्वयम् वर्तते । पश्चिमपर्वतस्य पूर्वभागे प्रचलितस्य यक्षगानप्रभेदस्य नाम 'मूडलपाय' इति । उत्तरकर्णाटकस्य बहुप्रसिद्धं कृष्णपारिजातम् पडुवलपाये वर्तते । मलेनाडु एवं करावलीप्रदेशे वर्तमाना शैली पडुवलपायम् । पडुवलपाये त्रयः प्रभेदाः वर्तन्ते तेङ्गुतिट्टु, बडगुतिट्टु, उत्तरतिट्टु इति । उत्तरकन्नड एवं शिवमोग्ग प्रान्ते बडगुतिट्टुशैली दृश्यते दक्षिणकन्नड एवं कासरगोडुप्रान्तेषु तेङ्गुतिट्टुशैली दृश्यन्ते । वेषभूषणानां विन्यासः, नृत्यशैली, हिम्मेळ - एतेषु विद्यमानाः भेदाः एव यक्षगानप्रभेदस्य कारणानि । यक्षगानस्य मूलतत्वं तु त्रिषु प्रभेदेषु अपि समानमेव भवति । यक्षगानस्य अन्यैक प्रभेदः ताळमद्दळे । बयलाटस्य तुलनया एतद् भिन्नं वर्तते । अत्र वेषभूषणम्, नृत्यम्, भावाभिनयाः च न दृश्यन्ते । हिम्मेळे गानं सम्भाषणम् एव दृश्यते । बयलाटे इव अत्रापि एकः प्रसङ्गः स्वीक्रियते । भागवताः गानरूपेण कथां कथयन्ति । अत्र पात्रधारिणां स्थाने अर्थधारिणः वर्तन्ते । अर्थधारिणः गानस्य कथाभागं सम्भाषणरूपेण परिचर्चां कुर्वन्ति । बयलाट एवं तालमद्दळे उभयोर्मध्ये सम्भाषणे एव भेदः । बयलाटे नृत्यस्य एव प्राधान्यम् । सम्भाषणं वर्तते चेदपि तद् गीते विद्यमानः कथासारांशः एव भवति । अधिकसम्भाषणाय अत्र कालावकशो नास्ति । तथापि बयलाटे सम्भाषणस्य सिद्धता पूर्वमेव भवति । परन्तु ताळमद्दळे मद्ये सम्भषणस्य परिचर्चायाः एव प्रामुख्यता भवति । गानस्य कथाभागविषये एवमेव सम्भाषणं कर्तव्यम् इति निर्बन्धो नास्ति । गायकः गीतरूपेण पीठिकां ददाति । तदनन्तरं कथविषयमधिकृत्य अर्थधारिणः परिचर्चां कुर्वन्ति । परिचर्चा सन्दर्भानुसारेण प्रसङ्गात् प्रसङ्गेषु भिन्ना अपि भवितुं शक्यते । अत्र परिचर्चा एव जीवः । राघवेन्द्र मय्य नेब्बूरु नारायण, दि. उप्पूरु नारणप्प, कडतोक मंजुनाथ भागवत, कोळगि केशव हेगडॆ, दि. गुंड्मि काळिंग नावड, सुब्रह्मण्य धारेश्वर, कॆ.पि. हेगडॆ, उमेश भट्ट बाडा, नारायण शबराय, बलिप नारायण भागवतरु, होस्तोट मंजुनाथ भागवत, दामोदर मंडेच्च, पोळ्य लक्ष्मीनारायण शेट्टि, कोळगि केशव हेगडॆ, लीलावति बैपाडित्ताय, पद्याण गणपति भट्, दिनेश अम्मण्णाय, पुत्तिगॆ रघुराम होळ्ळ, मरवंतॆ नरसिंह दास् भागवतरु, मरवंतॆ श्रीनिवास दास् भागवतरु, मरवंतॆ कृष्ण दास्, मरवंतॆ देवराज् दास्, हेरंजालु गोपाल गाणिग, बलिप प्रसाद भागवतरु, बलिप गोपालकृष्ण भागवतरु, कुबणूरु श्रीधर राव्, अंडाल देविप्रसाद शेट्टि, बोट्टिकेरॆ पुरुषोत्तम पूंज, कुरिय विठल शास्त्रि। दि.चिप्पारु कृष्णय्य बल्लाळरु, दि. नेड्लॆ नरसिंह भट्, कॆ.हरिनारायण बैपाडित्ताय, कुद्रेकूड्लु रां भट्, केशव बैपाडित्ताय, मोहन बैपाडित्ताय, पद्याण शंकरनारायण भट्, अडूरु गणेश् राव्. हिरियड्क गोपाल राव्, मरवंतॆ रामचंद्र दास्, दि. हुंचदकट्टॆ श्रीनिवास आचार्, दि. दुर्गप्प गुडिगार्, शंकर भागवत् यल्लापुर, कव्वाळॆ गणपति भट्, रामकृष्ण मंदार्ति। दि. केरेमनॆ शिवराम हेगडॆ, दि.केरेमनॆ महाबल हेगडॆ, दि.केरेमनॆ शंभु हेगडॆ, चिट्टाणि रामचन्द्र हेगडॆ, कॊंडदकुळि रामचन्द्र हेगडॆ, ऐरोडि राम गाणिग, मंटप प्रभाकर उपाध्याय, गोडॆ नारायण हेगडॆ, बळ्कूरु कृष्णयाजि, केरेमनॆ शिवानन्द हेगडॆ, हडिनबाळ श्रीपाद हेगडॆ, जलवळ्ळि, कण्णिमनॆ गणपति हेगडॆ, सुब्रह्मण्य हेगडॆ चिट्टाणि, ,तीर्थहळ्ळि गोपालचारि, मंकि ईश्वर नायक्, नील्कोड् शंकर हेगडॆ, सुब्रमण्य यलगुप्प, विश्वनाथ आचार्य तॊंबत्तु भास्कर जोशि इत्यादयः । तॆंकुतिट्टु प्रमुखाः - दि.कुरिय विठल शास्त्रि, दि. कटीलु पुरुषोत्तम भट्, दि.शेणि गोपालकृष्ण भट्, दि.कद्रि विष्णु, दि.गुड्दप्प गौड, दि.किशान् बाबु, दि.अळकॆ रामय्य रै, दि.ऐंपेकट्टॆ रामय्य रै, दि.गुब्बॆ रामय्य रै, दि.गुंपॆ रामय्य शेट्टि, दि.पुत्तूरु कृष्ण भट्, दि. पुत्तूरुनारायण हेग्डे, दि.बोळार नारायण शेट्टि, दि.दोड्ड अंबु, दि.चिक्क अंबु, शिवराम जोगि, पुष्पराज जोगि, पुत्तूरु शीनप्प भंडारि, पुत्तूरु श्रीधर भंडारि, दि.पड्रॆ चंद्रु, पड्रॆ कुमार, कुंब्ळॆ सुंदर राव्, वासुदेव सामग, सिद्धकट्टॆ चेन्नप्प शेट्टि, कॆ. गोविंद भट्, पाताळ वॆंकटरमण भट्, कोळ्यूरु रामचंद्र राव्, पुंडरीक्षा उपाद्याय, भीम भट्, ऎक्कारु उमेश शेट्टि, तोडिकान विश्वनाथ गौड, बायारु रमेश भट्, ऐं.कॆ.रमेश आचार्य, रॆंजाळ रामकृष्ण राव्, सुण्णंबळ विश्वेश्वर भट्, पेरुवायि नारायण शेट्टि, बेळ्ळारॆ विश्वनाथ रै, बेळ्ळारॆ मंजुनाथ भट्, पेरार लक्ष्मण कोट्यान्, कावळकट्टॆ दिनेश शेट्टि, कैरंगळ कृष्ण मूल्य, विट्ल विष्णु शर्म, दि.बण्णद कुट्यप्पु, दि.बण्णद अर्बि अण्णप्प चौट, दि.बण्णद चंद्रगिरि अंबु, दि.बण्णद महालिंग, दि.संजीव चौट, अल्लदॆ बण्णद गेरुकट्टॆ गंगय्य शेट्टि, बण्णद डि. गोपाल भट्, बण्हद कुप्पेपदवु सुरेश शेट्टि, बण्णद कोयिकुडॆ मूडुमनॆ शशिधर शेट्टि, बण्णद सुब्राय पाटाळि, बण्णद ऎडनीरु हरिनारायण भट्, बण्णद शिवप्रसाद् भट्, बण्णद राम कुलाल्, बण्णद ऐतप्प गौड, बण्णद नग्रि महाबल रै, चंद्रशेखर शेट्टि धर्मस्थळ, उबरड्क उमेश शेट्टि, संजयकुमर गोणिबीडु, निड्लॆ गोविंद भट्, कुंब्ळॆ श्रीधर् राव्, कार्यतड्क वसंत गौड, दि.नयन कुमार्, महेश मणियाणि इत्यादय: कीरिक्काडु मास्तर् विष्णु भट्, शेणि गोपालकृष्ण भट्, मल्पे लक्ष्मीनारायण सामग, वासुदेव सामग, डा.प्रभाकर जोशि, कुम्ब्ळे सुन्दर राव्, सिद्धकट्टॆ चेन्नप्प शेट्टि, कोळ्यूरु रामचंद्र राव्, देराजॆ सीतारामय्य, डा. रमानंद बनारि, यु. बि. गोविंद भट्, जब्बर् समो संपाजॆ, सुण्णंबळ विश्वेश्वर भट्, अशोक् भट् उजिरॆ, पेर्मुदॆ जयप्रकाश शेट्टि इत्यादयः श्री दुर्गापरमेश्वरी दशावतार यक्षगान मण्डली, श्री इडगुञ्जि महागणपति यक्षगानमण्डलि केरेमने, सालिग्राम मेळ, पेर्डुरु मेळ, कोडदकुळि मेळ, धर्मस्थळ मेळ ।
{ "source": "wikipedia" }
बीदरलोकसभाक्षेत्रं कर्णाटकस्य 28 लोकसभाक्षेत्रेषु अन्यतमम् । एतत् क्षेत्रं 1962तमे वर्षे अस्तित्वे आगतम् । 2008 तमवर्षं यावत् एतत् क्षेत्रम् अनुसूचितजनजातीयानां कृते आरक्षितम् आसीत् । अस्मिन् क्षेत्री समग्रं बीदरमण्डलं तथा गुल्बर्गामण्डलस्य कश्चन भागः च अन्तर्भवति । बीदरलोकसभाक्षेत्रे प्रकृतं कर्णाटकस्य विधानसभायाः अष्टविधानसभाक्षेत्राणि अन्तर्भवन्ति ।
{ "source": "wikipedia" }
हिन्दुधर्मः • इतिहासः त्रिमूर्तयःब्रह्मा • विष्णुः • महेश्वरः अन्यदेवताःसरस्वती · लक्ष्मीः · पार्वतीशक्तिः · दुर्गा · कालीगणेशः · सुब्रह्मण्यः · अय्यप्पःरामः · कृष्णःहनूमान्प्रजापतिः · रुद्रःइन्द्रः · अग्निः · वायुः · निॠतिःभूमिः · वरुणः · कुबेरः · ईशानः ब्रह्म · ॐ · ईश्वरःआत्मा · मायाकर्म · संस्काराःपु्रुार्थाःधर्मः · अर्थः · कामः · मोक्षः आस्तिकवादाः साङ्ख्यम् · योगः न्यायः · वैशेषिकम् पूर्वमीमांसाउत्तरमीमांसा /वेदान्तः नास्तिकवादाःचार्वाकवादः बौद्धवादः जैनवादः ऋग्वेदः • यजुर्वेदः सामवेदः • अथर्ववेदः विभागाःसंहिता, ब्राह्मणः,आरण्यकः, उपनिषत् आयुर्वेदः • धनुर्वेदः गान्धर्वेदः • स्थापत्यवेदः शिक्षा · छ्न्दः · व्याकरणम्निरुक्तः · कल्पः · जौतिषम् ऋग्वेदीयःऐतरेयायुजुर्वेदीयाःबृहदारण्यकः · ईशवास्यःतैत्तरीयः · कठः · श्वेताश्वतरः सामवेदीयाः छान्दोग्यः · केनःअथर्ववेदीयाःमुण्डकः · माण्डूक्यः · प्रश्नः ब्रह्मसम्बद्धानिब्रह्मपुराणम् · ब्रह्माण्डपुराणानिब्रह्मवैवर्तपुराणम्मारकाण्डेयपुराणम् · भविष्यपुराणम्विष्णुसम्बद्धानिविष्णुपुराणम् · भागवतपुराणम्नारदपुराणम् · गरुडपुराणम् · पद्मपुराणम्शिवसम्बद्धानिशिवपुराणम् · लिङ्गपुराणम्स्कन्दपुराणम् · अग्निपुराणम् · वायुपुराणम् रामायणम् · महाभारतम् भगवद्गीताधर्मशास्त्रम् · मनुस्मृतिःअर्थशास्त्रम् · योगवासिष्ठःसूत्राणि · स्तोत्राणि · तन्त्राणियोगसूत्राणि हिन्दूसाहित्यम् पूजाः · जपः · भजनम्तपः · ध्यानम्यज्ञम् · होमःतीर्थस्थानानि · नैवेद्यम्हैन्दवमन्दिराणि · विग्रहः · भक्तिः · गर्भाधानसंस्कारः · पुंसवनसंस्कारः · सीमन्तोन्नयनसंस्कारः · जातकर्मसंस्कारः · नामकरणसंस्कारः · कर्णवेधसंस्कारः · निष्क्रमणसंस्कारः · अन्नप्राशनसंस्कारः · चूडाकर्मसंस्कारः · उपनयनसंस्कारः · वेदारम्भसंस्कारः · केशान्तसंस्कारः · समावर्तनसंस्कारः · विवाहसंस्कारः · विवाहाग्निपरिग्रहसंस्कारः · अन्त्येष्टिसंस्कारः वर्ण्यव्यवस्थाब्राह्मणः · क्षत्रियःवैश्यः · शूद्रःआश्रमव्यवस्थाब्रह्मचर्याश्रमः · गृहस्थाश्रमःवानप्रस्थाश्रमः · सन्यासाश्रमः नवरात्रोत्सवः विजयदशमी दीपावली · शिवरात्रिः · होलीविशु · बिहु · · गणेशचतुर्थी · ओणम्रामनवमी · कृष्णजन्माष्टमीरक्षाबन्धनम् प्राचीनाःगौतमः · जैमिनिः · कणादः · कपिलः · मार्काण्डेयः · पतञ्जलिः · वाल्मीकिः · व्यासः मध्यकालीनाःशङ्कराचार्यः · बसवेश्वरः · चैतन्यमहाप्रभुः · जयन्तभट्टः · कबीरदासः · कुमारिलभट्टः · मधुसूदनसरस्वती स्वामिनः · विद्यारण्यः · नामदेवः · निम्बार्कः · प्रभाकरः · रामानुजाचार्यः · वेदान्तदेशिकः · सन्त तुकारामः · तुलिसीदासः · वाचस्पतिमिश्रः · वल्लभाचार्यः आधुनिकाःश्री अरविन्दः · दयनन्दसरस्वती · महात्मागान्धी · कृश्णानन्दः · नारायणगुरुः · प्रभुपादः · श्रीरामकृष्णपरमहंसः · रमणमहर्षिः · सर्वपल्ली राधाकृष्णन् · स्वामी शिवानन्दसरस्वती · विवेकानन्दः · योगानन्दः राष्ट्रानुगुणं सनातनधर्मःसनातनधार्मिकता • सनातनपञ्चाङ्गम्हैन्दवनियमाः • सनातनमूर्तिशिल्पः • हिन्दुत्वम्सनातनतीर्थस्थानानि सनातनधर्मस्य समस्याः • सनातनटीकासनातनः निघण्टुः प्रवेशद्वारम्:सनातनधर्मःप्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः ब्रह्माण्ड पुराणम् अष्टादशमहापुराणेषु अन्यतमः । महापुराणस्य दशलक्षणयुक्तमिदं महापुराणमित्येव प्रसिद्धम्। ब्रह्माण्डस्य वर्णनम् वायुना व्यासम् उद्दिश्य प्रोक्तम् इदं पुराणम् । अस्मिन् पुराणे द्वादश सहस्रं श्लोकाः सन्ति। विश्वस्य पौराणिकभूगोलं, विश्वखगोलं, अध्यात्मरामायणम् इत्यादयः विषयाः अस्मिन् पुराणे सन्ति ।श्राद्धविषयम् परशुरामचरित्रं च अतिविस्तृततया निरूपितमस्ति। एवं प्रक्रियापादः,अनुषङ्गपादः,उपोद्घातपादः,उपसंहारपादः इति चतुर्धा। हिन्दूसंस्कृत्याः स्पष्टरूपरेखा पुराणेभ्यः एव प्राप्यन्ते।
{ "source": "wikipedia" }
शिखरिणी। रसै रुद्रैश्छिन्ना यमनसभला ग: शिखरिणी।केदारभट्टकृत- त्तरत्नाकर:3. 90 ।ऽऽ ऽऽऽ ।।। ।।ऽ ऽ।। । ऽ य म न स भ ल ग। यति: षड्भि: एकादशभि:च। अस्मिन् छन्दसि सप्तदशाक्षराणि भवन्ति तथा च यत्र प्रत्येकम् अपि पादे क्रमेण एकः यगणः¸ एकः मगणः, एकः नगणः, एकः सगणः एकः भगणः एकः लघुः एकः गुरुश्च भवति तदेव शिखरिणीति वृत्तं कथ्यते । यतिस्तु षष्ठे द्वादशे च भविष्यति । "तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः।। यदा अहम् अत्यल्पज्ञः आसम्, तदा मदेन उन्मत्तः गजः इव अहङ्कारेण अहमेव सर्वज्ञः इत्यविचारयम् । किन्तु विद्वत्सङ्गमात् यदा किञ्चित् किञ्चित् अवगतम्, तदा ज्ञातं यद् अहं तु मूर्खः अस्मीति । तथा च मम अहङ्कारः ज्वरः इव विनष्टः ।
{ "source": "wikipedia" }
विश्वभारती विद्यापीठं रवीन्द्रनाथ ठाकुर: 1901तमे शान्तिनिकेतने विश्वभारती विद्यापीठं स्थापितं.
{ "source": "wikipedia" }
वायु –जल- नैर्मल्यरक्षणमाद्यकर्तव्यम् । वायु- जलदूषणं शिक्षार्हापराधः । नगरग्रामनैर्मल्यदूषकशिक्षार्थं पृथगेव न्यायालयः स्थाप्यते इति एफ्. एम्. सल्दाना नामधेयस्य उच्चन्यायलयन्यायाधिशस्य उद्धोषणां के प्राज्ञा न जानन्ति । वयमिदानीं नगरवासिनः परिशुध्दजल-वायुविहीनाः धोरापरिहार्यरोगरुग्णा अहर्निशं दुः खतप्ताः । सर्वत्रापीदानीं त्रिविधमालिन्यं दरीदृश्यते – शब्दमालिन्यम् जलमालिन्यम् वायुमालिन्यम् चेति ।रोगनिदानभूतानामनिलजनकानामुद्यमानां स्थापनम्, नगरे तत्र तत्राव्यवस्थया विष- रोगनिदानभूतानि वस्तूनि सरसि नद्यां वा परित्यज्य वायुजलदूषणं सर्वेषामानुभविकम् । एतन्निवारणार्थं निसर्गदूषकाणां शिक्षा च देया नैर्मल्यं च सम्पादनीयम् । नात्रास्ति विप्रतिपत्तिलेशः । पञ्चसहस्रवर्षेभ्यः प्राक् भगवान् श्रीकृष्णोऽस्यां भूम्यामवततारेति निश्चप्रचम् । तेन जलदूषण- वृक्षनाशनप्रक्रिया खण्डिताऽसीत् इति हरिवंशे श्रीमद्भागवते च श्रूयते । अनेनेदं विज्ञायते निसर्गशोधनार्थं कश्चन प्रयत्नः प्रागपि महद्भिः कृतः, क्रियमाणश्च वर्तते । भागवतमहापुराणे चैवं कथा श्रूयते कालन्दीनद्याः नातिदूरे कश्चन सरः आसीत् । तत्र कालीयनागप्रभृतयो सर्पान्यवसन् । अहिदूषितसरसः जलमतीव विषापूर्णं विषानिलप्रसरणा- दिना सर्वप्राणिजीवननाशकं चान्वभूयत । विषपूरितजलपानेन कृष्णानुबन्धिनः पशवश्च मृतिमापुः । सरस उपरि उड्डयितुमसमर्था विषानिलसेवनेन विनष्टदेहबलाः पक्षिणः सरस्येव निपत्य प्राणान् परितत्यजुः । अत एव भगवान् श्रीकृष्णः कालियसर्पसर्पणेन जलशोधनाय मनश्चक्रे । भगवदाग्रहपात्रश्च कालियनागराट् सरस्तत्याज । ततः परं सरस्सर्वेषामवगाहन- स्नानपानयोग्यमभवदिति भागवते श्रूयते- तदा कालीयनागराजेन नदीजलं विषपूर्णमासीदनिलं च । इदानीं पुनर्देशे विद्यमाना रोगनिदानभूतदुर्गन्धयुतवस्तुप्रक्षेपकाः दुर्गन्धविषानिलोत्पादकाश्च उद्यमाः सर्वत्र दृश्यमाना ‘कालियसर्पं स्मारयन्ति । एतन्निवारणार्थं पुनरपि श्रीकृष्ण एवावतरेदिति मन्यामहे । अनया च कथयेदं विज्ञायते । पुराणेषु तत्काले सम्भाव्यमाननिसर्गदूषकप्रक्रिया महात्मभिर्वारिता । दोषोन्मुक्ताश्च नागरा सुखेन न्यवसन्तेति । वृक्षारोपणं सर्वदा कार्यम् । वृक्षच्छॆदिनां महती शिक्षा कार्या । वृक्षाः परोपकारायैव जीवमानाः । पशुपक्षिणां मनुष्याणां च शुध्दमेव वायुं प्रसरन्तः फल-पुष्पाद्यन्नदानेन पोषकाश्च । नगरे सर्वत्र वृक्षच्छॆदनं नभः स्पर्शिगृहादिनिर्माणं तेन च परिशुध्दानिलाभावेन नानारोगवृध्दया समेषां सन्तापश्चानुभविकः ।इयमवस्था खण्डिता श्रीकृष्णेन । ‘घोषोऽयं नगरायते’ इति – स्थावरेषु वृक्षेषु वनस्पतिषु चैतन्यमस्तिं । ‘गीतात् पुष्पफलावाप्तिः स्पर्शात् कार्श्यं रसात् स्थितिः ’ इत्यादिना वनस्पत्यादीनां प्राणसञ्चारः प्रतिपादितः भगवता मध्वाचार्येण । स्थावरेषु प्राधान्येन षटजातयः, तेभ्यः प्रयोजनं च निरुपितं महाभारते – निराकृतः खण्डितश्च सर्वोपजीव्यवृक्षछेदः भागवते । प्राचेतसां प्राचीनबर्हिषां वृक्षनाशनं दृष्ट्वा राजा सोमस्तेषां प्रक्रियां विदूष्य द्रुमाभिवृध्दयर्थं यत्नः कार्य इत्युपदिदेश चेति भागवते षष्ठस्कन्धे श्रूयते – तस्मात् वायु-जलादि प्राणिप्राणननिदानवस्तूनां वायुजलादीनां, नैर्मल्यसम्पादनं, वृक्षारोपणादि च पुराणेषु श्रुतं सार्वकालिकं सर्वोपयोगि चेति निश्चप्रचम् ।
{ "source": "wikipedia" }
कपोतः
{ "source": "wikipedia" }
केरळ-राज्यं भारतस्य दक्षिण-पश्चिमदिशि स्थितम् अस्ति । अस्य मूलनाम “केरालयम्” इति आसीत् । मलयाळ-भाषायां “नारिकेलस्य देशः” इति तस्य अर्थः भवति । पुरा “मलनाडु”, “भार्गवक्षेत्रं”, “चेरल” च अस्य राज्यस्य नामानि आसन् । मौर्यशासकस्य अशोकस्य कस्मिंश्चित् शिखालेखे अस्य राज्यविषये “केरळस्य पुत्रः” इति उल्लेखितम् अस्ति । केरळराज्ये कैरळी अथवा मलयाळम् इत्येषा भाषा उपयुज्यते‌। केरळराज्यस्य सीमा पश्चिमे अरबीयसमुद्रः, पूर्वे दक्षिणे च तमिऴ्‌नाडु, उत्तरे कर्णाटकं च। गोकर्णम् आरभ्य कन्याकुमारीक्षेत्रं यावत् भूभागः कदाचित् केरळभूमिरासीत् । परन्तु, उत्तरतः दक्षिणं यावत् केचन भागाः अन्यत्र योजिताः । अतः अवशिष्टः मध्यभागः एव सम्प्रति केरळराज्यं वर्तते । भारतस्य दक्षिणभागे पश्चिमकोणे उत्तराक्षांशः 8°18'-12°48'–मध्ये, पूर्वरेखांशः 74°52'-77°22'-मध्ये एव केरळराज्यम् वर्तते । केरळराज्ये वत्सरस्य अर्धाधिकं कालं मेघो वर्षति । प्रवहन्ति प्रभूतजलाः नद्यो भूयस्यः । भूप्रकृतिमनुसृत्य केरळं मलनाड्, इडनाड्, तीरसमतलम् इति त्रिधा विभक्तं वर्तते । पूर्वसीमि सह्याचलप्रदेशः एव मलनाट् । पश्चिमे भागे समुद्रतीरसमीपस्थितस्य समतलस्य तथा मलनाड् इत्यस्य च मध्ये वर्तमानः निम्नोन्नतप्रदेशः एव इडनाड् । मलनाड् भागस्य विस्तृतिः 21850 च.कि.मी इदं केरळविस्तृते 56% भवति । औनत्ये प्रथमं स्थानं हिमालयस्थानां शृङ्गाणामेव । द्वितीयं स्थानं केरळस्य पश्चिमघट्टे स्थितस्य आनमुडि शॄङ्गस्यैव । केरळ-राज्यस्य जलवायुः उष्णकटिबन्धीयः अस्ति । इदं राज्यं भूमध्यरेखायाः समीपे स्थितम् अस्ति । अतः अस्मिन् राज्ये उष्णतायाः आधिक्यं भवति । किन्तु अरब-महासागरस्य जलवायुः आर्द्रः भवति । तेन कारणेन उष्णतायां न्यूनता भवति । फरवरी-मासतः मई-मासपर्यन्तं ग्रीष्मर्तुः भवति । जून-मासतः सितम्बर-मासपर्यन्तं वर्षर्तुः भवति । शीतर्तौ अस्य नगरस्य तापमानं 22 डिग्री से. तः 32 डिग्री से. पर्यन्तं भवति । पेरियार, भारतपूजहा, पाम्बा, चालाकुडी च इत्यादयः केरळ-राज्यस्य प्रमुखाः नद्यः सन्ति । अस्य राज्यस्य दक्षिणभागे अल्पमात्रायां वर्षा भवति । किन्तु औत्तराहभागेषु वर्षायाः आधिक्यं भवति । आवर्षं 40 तः 200 इन्च् मात्रात्मिकाः वर्षाः भवन्ति । अनेन कारणेन अस्य राज्यस्य नद्यः जलेन परिपूर्णाः भवन्ति । एवं च परिवहनाय नदीमार्गाः अपि प्रयुज्यन्ते । केरळे 44 नद्यः सन्ति । तासु 41 नद्यः पूर्वभागात् पश्चिमदिशि अरबसागरेण ततलयं प्राप्नुवाद्भिः कासारैश्च मिलन्ति । दीर्घा नदी- निळा ह्रस्वे नद्यौ- पूरप्परम्पनदी, कलनाटनदी च । आनमला एव निळायाः उद्भवस्थानम् । गायत्री, कण्णगी, कल्पाली, नूता च निळायाः पोषकनद्यः । पेरियार देविकुलसमीपस्थात् शिवगिरेः उद्भूय पीरुमेट देविकुलं तोटुपुळा, मूवाट्टुपुळा कुन्नलुनाट परवूरु उपमण्डलैः आलुवां प्राप्य द्विधा भवति । ततः नद्याः एका शाखा चालक्कुटीनद्या मिलति । अपरा तु वेम्पनाटकासरेण च मिलति । चालियार् नदी एलम्परलिगिरेः उदभवति । बेप्पूरागत्य सागरेण मिलति । पम्पा शबरिगिरेः समीपस्थात् पीरुमेडुतः उद्भवति । कतलटयार् नदी कुललूजुषागिरेः उद् भूय अष्टमुडिकासारेण मिलति । पूर्वगामिनिषु नदीषु पाम्पार, भवानी च तामिळ्नाड् राज्यं प्रति, कबनी कर्णाटकं प्रति च गच्छति । पाश्चिमवाहिन्यः 1.पारपार 2.भवानी 3.कबनी 260 च.कि.मी दैर्घ्ययुतः वेम्पानाटकासारः एव कासारेषु प्रथमस्थानम् आप्नोति । अष्टमुडिकासारस्य दैर्घ्यं 55 च कि.मी । अन्ये कासारास्तु वेली, कटिनंकुलं अञ्चुतेड्डु इटवा, नटयरा, परवूरु, कायङ्कुलं कोटिङ्गुल्लूरु इत्येत् । प्रकृतिदत्तशुद्धजलकासारो भवति शास्ताङ्कोट्टा। विस्तृतिः 4-च.कि.मी अगधता 47 पादमिता । रामायण-महाभारत-आदिकाव्ययोः अस्य राज्यस्य उल्लेखः प्राप्यते । प्रथमपञ्चशताब्द्यां केरळ-राज्यं तमिऴकाम-क्षेत्रस्य कश्चन भागः आसीत् । तस्मिन् क्षेत्रे पाण्ड्य-शासकानां, चौल-शासकानां, चेर-शासकानां च शासनम् आसीत् । ये अरबव्यापारिणः आसन्, तैः षष्ठशताब्दीतः अष्टमशताब्दीपर्यन्तम् अस्मिन् क्षेत्रे इस्लाम-धर्मस्य प्रभावः स्थापितः आसीत् । अष्टमशताब्दीतः द्वादशशताब्दीपर्यन्तं कुलशेखर-राजवंशस्य शासनम् आसीत् । तस्मिन् काले अस्य क्षेत्रस्य प्रमुखा भाषा “मलयाळम्” अभवत् । ई. स. 1498 तमे वर्षे पुर्तगालदेशीयः वास्कोडिगामा इत्याख्यः व्यापारी कालीकट-तटं प्राप्तवान् । सः प्रथमः व्यापारी आसीत्, यः समुद्रमार्गेण भारतम् आगतवान् आसीत् । तदनन्तरं हॉलेण्ड्, फ्रान्स्, इङ्ग्लैण्ड् इत्यादिभ्यः देशेभ्यः व्यापारिणः समागतवन्तः । यूरोपदेशीयाः समूहाः अत्र आगत्य यन्त्रागारान् स्थापितवन्तः । भारतस्य स्वातन्त्र्यप्राप्त्यनन्तरम् ई. स. 1949 तमस्य वर्षस्य जुलाई-मासस्य 1 दिनाङ्के त्रावणकोरराज्यं, कॊच्चीनराज्यं च स्थापितम् । ई. स. 1956 तमे वर्षे द्वयोः राज्ययोः सम्मेलनेन केरळ-राज्यस्य निर्माणं कृतम् । केरळराज्ये 14 मण्डलानि सन्ति । केरळ-राज्यं भारतस्य राजनैतिकप्रयोगशाला कथ्यते । भारतदेशे यान्त्रिकीमतदानस्य प्रयोगः केरळ-राज्ये एव सर्वप्रथम् अभवत् । केरळ-राज्ये एकसदनात्मकं विधानमण्डलम् अस्ति । अस्मिन् राज्ये विधानसभायाः 140 स्थानानि सन्ति । केरळराज्ये लोकसभायाः 20 स्थानानि, राज्यसभायाः च 9 स्थानानि च सन्ति । विधानसभायाम् एङ्ग्लो-इण्डियन्-समूहस्य एकः प्रतिनिधिः नियोज्यते । केरळ-राज्ये बहूनि राजनैतिकसमूहाः, सङ्घटनानि च सन्ति । यथा - “भारतीय कम्युनिस्ट पार्टी”, “भारतीय राष्ट्रीय कॉङ्ग्रेस्”, “भारतीय जनता पार्टी”, “मुस्लिम लीग केरळ स्टेट् कमेटी”, “केरळ कॉङ्ग्रेस्”, “जनता दल ”, “रिवोल्यूशनरी सोशलिस्ट् पार्टी” च इत्यादयः केरळ-राज्यस्य राजनैतिकसमूहाः सन्ति । “ई. एम्. एस्. नम्बूदरीपाद” इत्याख्यः केरळ-राज्यस्य प्रथमः मुख्यमन्त्री आसीत् । सः भारतस्य “कम्युनिस्ट पार्टी इत्यस्य समूहस्य नेता आसीत् । ई. स. 1961 तमे वर्षे केरळ-राज्यस्य स्थापना अभवत् । ई. स. 1881 तमे वर्षे केरळ-राज्यस्य जनगणना कृता । सप्तदशशताब्द्याः प्रारम्भे केरळ-राज्यस्य जनसङ्ख्या प्रायः त्रिंशल्लक्षम् आसीत् । ई. स. 1850 तमे वर्षे पञ्चचत्वारिंशल्लक्षम् अभवत् । 1901 तमे वर्षे चतुष्षष्टीलक्षम् आसीत् । 1991 तमस्य वर्षस्य जनसङ्ख्या 291 लक्षम् आसीत् । 2001 वर्षस्य जनगणनायां केरळ-राज्यस्य जनसङ्ख्या 3,18,41,374 अभवत् । 2011 तमस्य वर्षस्य जनगणनायाम् अस्य राज्यस्य जनसङ्ख्या 3,33,87,677 अस्ति । तेषु 1,60,21,290 पुरुषाः, 1,73,66,387 महिलाः च सन्ति । । “मलयाळम्” केरळ-राज्यस्य प्रमुखा भाषा अस्ति । इयं द्रविडपरिवारस्य भाषासु अन्यतमा वर्तते । अस्याः भाषायाः उत्पत्तिविषयकानि विभिन्नमतानि सन्ति । उच्यते यत् – “भौगोलिककारणैः द्रविडभाषायाः स्वतन्त्ररूपेण समुद्भूता एषा मलयाळ-भाषा । अपरं मतम् अस्ति यत् – “तमिऴ-भाषायाः मलयाळ-भाषायाः उत्पत्तिः जाता । तमिऴ-संस्कृत-भाषाभ्यां सह मलयाळ-भाषायाः सम्बन्धः घनिष्ठः अस्ति । मलयाळ-भाषायाः साहित्यानि अपि अतीव पुरातनानि सन्ति । किन्तु त्रयोदशशताब्दीतः साहित्यिकभाषारूपेण अस्याः भाषायाः विकासः जातः । तस्मिन् काले लिखितं “रामचरितम्” मलयाळम्-भाषायाः आदिकाव्यं मन्यते । मलयाळ-भाषायाः साहित्यम् अष्टशताद्या प्राचीनम् अस्ति । किन्तु मलयाळ-साहित्यस्य प्राचीनतायाः प्रमाणं कस्यापि ग्रन्थे न प्राप्यते । “प्रारम्भिककाले लोकसाहित्यस्य प्रभावः आसीत्” इति मन्यते । मलयाळ-साहित्यकाराणां तमिऴ-भाषायै, संस्कृत-भाषायै महत्त्वपूर्णं योगदानम् अस्ति । केरळ-राज्यस्य बहुभिः विद्वद्भिः कन्नड-भाषायां, तुळु-भाषायां, कोङ्कणी-भाषायां, हिन्दी-भाषायां च अपि साहित्यानि रचितानि । एकोनविंशतिशताब्द्यां काव्यानि एव रचितानि आसन् । “रामचरितम्” इत्येतत् काव्यं मलयाळम्-साहित्यस्य प्रारम्भिकदशाम् अवबोधयति । “रामचरितम्” मलयाळ-भाषायाः प्रारम्भिककाव्यं मन्यते । तथापि केरळ-राज्यस्य साहित्यिकपरम्परा तस्मादपि प्राचीना अस्ति । पुरा केरळ-राज्यस्य साहित्यं तमिळ-भाषया सह सम्बद्धम् आसीत् । तमिऴ-भाषायाः प्रारम्भिकाणि साहित्यानि “सङ्गमकृतयः” इति नाम्ना ज्ञायन्ते । सङ्गमकालीनरचनानां प्राचीनकालस्य चेर-साम्राज्येन सह सम्बन्धः आसीत् । “पतिट्टिप्पत्तु” नामिका सङ्गमकालीना रचना अस्ति । तस्यां रचनायां चेर-राज्ञां प्रशस्तिगीतानि सन्ति । “सिलप्पदिकारं” इति नामकं महाकाव्यं “इलङ्गो अडिगल” इत्याख्येन कविना कृतम् आसीत् । तस्य जन्म अपि चेर-देशे अभवत् । “सिलप्पदिकारं” महाकाव्यस्य खण्डत्रयम् अस्ति । तेषु खण्डेषु “वञ्चिक्काण्डम्” नामके खण्डे चेर-देशस्य घटनानाम् उल्लेखः अस्ति । “नाबूदीरी”, “राम पणिक्कर” इत्याख्यौ तमिऴ-भाषायाः साहित्यकारौ आस्ताम् । अपरं च “एषुत्तच्छन” इत्याख्यः साहित्यकारः तमिऴ-भाषायाः जनकः मन्यते । ई. स. 1965 तमे वर्षे “जी. शङ्कर कुरुप” इत्याख्येन “ज्ञानपीठपुरस्कारः” प्राप्तः । “सरदार पणिक्कर”, “शिवशङ्कर पिल्लै”, “वैकम” च इत्यादयः मलयाळम्-भाषायाः गद्यकाराः सन्ति । 2011 वर्षस्य जनगणनानुसारं केरळ-राज्यस्य साक्षरतामानं 94 प्रतिशतम् अस्ति । अतः भारतस्य सर्वाधिकं साक्षरतामानम् अपि केरळ-राज्यस्य एव अस्ति । तेषु पुरुषाणां साक्षरतामानं 96.03 प्रतिशतं, महिलानां च साक्षरतामानं 91.98 प्रतिशतम् अस्ति । भारतस्य प्रथमं पूर्णसाक्षरनगरं केरळ-राज्यस्य कोट्टयम्-नगरम् अस्ति । एवं च भारतस्य प्रथमं पूर्णसाक्षरमण्डलम् अपि केरळ-राज्यस्य एर्णाकुल-मण्डलम् अस्ति । केरळ-राज्ये बहूनि शैक्षणिकसंस्थानानि सन्ति । “भारतीय प्रबन्धन संस्थानम्, कोझीकोड”, “केरळविश्वविद्यालयः, तिरुवनन्तपुरम्”, “कालीकटविश्वविद्यालयः,कोझीकोड”, “महात्मा गान्धी विश्वविद्यालयः, कोट्टयम्”, “कन्नौरविश्वविद्यालय, कन्नौर”, “सेण्ट्रल् मरीन् फिशरीज् रिसर्च् संस्थानम्, कॊच्ची”, “केन्द्रीय मत्स्य संस्थानम्”, “नॉटिकल् एण्ड् इञ्जीनियरिङ्ग् ट्रेनिङ्ग्, कॊच्ची”, “केरळ कृषि विश्वविद्यालयः, तृश्शूर्”, “केरळ इन्स्टीट्यूट् ऑफ् टूरिज्म् स्टडीज्, तिरुवनन्तपुरम्” च इत्यादीनि केरळ-राज्यस्य प्रमुखाणि शैक्षणिकसंस्थानानि सन्ति । केरळ-नगरस्य अर्थव्यवस्था कृष्याधारिता अस्ति । अस्य राज्यस्य 50 प्रतिशतं जनाः कृष्याधारिताः सन्ति । अस्मिन् राज्ये निर्यासस्य 92 प्रतिशतं, एलायाः 70 प्रतिशतं, श्यामवल्याः 98 प्रतिशतम् उत्पादनं भवति । राज्येऽस्मिन् अन्ये उपस्कराः अपि उत्पाद्यन्ते । तेषु श्यामवल्ली महत्त्वपूर्णा वर्तते । केरळ-राज्यम् “उपस्कराणां प्रदेशः” कथ्यते । अस्य राज्यस्य कृषिपद्धतिः अन्येषां राज्यानाम् अपेक्षया भिन्ना वर्तते । भारतस्य अन्येषां राज्यानाम् अपेक्षया अल्पजन्मवृद्धिमानं, अल्पशिशुमृत्युमानं, उच्चसाक्षरता, उच्चशिक्षणं च इत्यादिषु क्षेत्रेषु प्रगतिशीलम् अस्ति । एतानि सर्वाणि आर्थिकप्रगतेः कारणानि सन्ति । वाणिज्यिकः वित्तकोषः, सर्वकारीयः वित्तकोषः, मुद्रा विनिमय व्यवस्था, यातायातस्य विकासः, शिक्षास्वास्थ्यादिषु क्षेत्रेषु प्रगतिः इत्यादयः केरळ-राज्यस्य अर्थव्यवस्थायाः आधारः अस्ति । केरळ-राज्यस्य उद्योगाः प्राकृतिकसंसाधनाधारिताः सन्ति । हस्तशिल्पः, हस्तकला, मृत्पात्राणि, नारिकेलं, मत्स्यतैलं च इत्यादयः प्रमुखाः उद्योगाः सन्ति । केरळ-राज्ये तिरुवनन्तपुरम-नगरे “सॉफ्टवेर् टेक्नोलॉजी पार्क् ऑफ् इण्डिया” इत्यस्यां संस्थायाः परिसरे सप्त घटकाः सन्ति । केरळ-राज्ये “नेशनल टेक्सटाइल् कॉर्पोरेश्न्” इत्यस्याः संस्थायाः पञ्च वस्त्रागाराः सन्ति । “कॊच्ची ऑयल् रिफाइनरी”, “कॊच्ची शिप् यार्ड्”, “फर्टीलाइजर् एण्ड् केमिकल्स् ट्रावणकोर लिमिटेड्”, “हिन्दुस्तान लैटेक्स् लिमिटेड्”, “इण्डियन् रेयर् एर्थ्स् लिमिटेड्, एर्णाकुलम्”, “इण्डियन् टेलिफोन् इण्डस्ट्रिज्, पालक्काट्”, “इन्स्टुमेंशन् लिमिटेड, पालक्काट्”, “हिन्दुस्तान इन्सेक्टिसाइड्स् लिमिटेड् एर्णाकुलम”, “बामर लॉरी कम्पनी लिमिटेड्, एर्णाकुलम”, “हिन्दुस्तान ऑर्गेनिक् केमिकल्स् लिमिटेड्, एर्णाकुलम”, “कण्णूर स्पिन्निङ्ग् एण्ड् वीविङ्ग् मिल्स्”, “विजयमोहिनी मिल्स्, तिरुवनन्तपुरम”, “पार्वती मिल्स्, कोल्ल्म”, “केरळ लक्ष्मी मिल्स्, तृश्शूर्”, “अलगप्पा टेक्स्टाइल् मिल्स्, तृश्शूर्” च इत्यादीनि केन्द्रियव्यावसायिकसंस्थानानि सन्ति । इल्मनैट रुट्टल्, मोणोसैट्ट, सिर्कोण्, गार्नैट्ट, सिलिमनैट्ट, माग्नट्टैट्ट इत्येते धातवः केरळस्य् तीरप्रदेशेवु सन्ति । ग्रफैट्टः तिरुवनन्तपुरं ननपदस्य वेतलनाट चाङ्डभाषेषु कोतलं जनपदस्य पिरालिमट्टे पेरिङ्डालायां चिडूरे मणवकलाटे च ग्राफैट्ट निक्षेपोऽस्ति ग्लाससिकताः –आलप्पुषायां चेर्तला, पालिप्पुर पाणावतली, कोलकोतमङ्गलं प्रदेशेषु दृश्यते । बोळसैट- वटक्कुम्मरी, चिट्टवट्टं शूरनाट, आदिच्चनतनूरु ग्रामेषु । अस्य राज्यस्य जनाः मलयाळम्-भाषया व्यवहरन्ति । इयं द्रविड-परिवास्य प्रमुखा भाषा अस्ति । अस्मिन् राज्ये विभिन्न धर्माणां, जातीनां च जनाः निवसन्ति । अत्र आदिवासिनः अपि अधिकाः सन्ति । हिन्दुधर्मः, ईसाई-धर्मः, इस्लाम-धर्मः च केरळ-राज्यस्य प्रमुखाः धर्माः सन्ति । तत्र बौद्ध-धर्मस्य, जैन-धर्मस्य, पारसी-धर्मस्य, सिक्ख-धर्मस्य, बहाई-धर्मस्य च अनुयायिनः अपि निवसन्ति । अष्टमशताब्द्याः केरळ-राज्ये जातिव्यवस्था प्रचलन्ती अस्ति । अनुसूचितजातिः, अनुसूचितजनजातिः च अपि जातिव्यस्थायां सम्मिलिता सन्ति । जातिव्यवस्थायाः कारणादेव राज्ये उच्चनीचभावः उद्भूतः । किन्तु वर्तमानकेरळीयसमाजे उच्चनीचभावः नास्ति । किन्तु जातिव्यवस्था तु अस्ति एव । केरळ-राज्ये विभिन्नधर्माणां मन्दिराणि स्थितानि सन्ति । तेषां धर्माणाम् अनुष्ठानैः केरळ-राज्यस्य संस्कृतिः परिपुष्टा जाता । साहित्यस्य, कलायाः च विकासे तैः धर्मैः महत्त्वपूर्णाणि कार्याणि कृतानि सन्ति । तेन केरळ-राज्यस्य संस्कृतेः विकासः अपि भवति । केरळ-राज्ये पञ्चाशताधिकानि लोकनृत्यानि प्रचलितानि सन्ति । तेषु नृत्येषु कलीपट्टम, कोलम, कोलकली, वेलाकलील, थाप्पुकली, कुरावरकली च इत्यादयः प्रमुखाणि लोकनृत्यानि सन्ति । भारतीयशास्त्रीयेषु षण्नृत्येषु कथाकली-नृत्यं केरळ-राज्येन सह सम्बद्धम् अस्ति । केरळ-राज्ये चण्डा, मदालम, चेङ्गाला इत्यादीनि प्रमुखाणि वाद्ययन्त्राणि सन्ति । अस्य प्रदेशस्य स्त्रियः अन्यप्रदेशानां स्त्रीणाम् अपेक्षया अधिकाः स्वतन्त्राः, शिक्षिताः च सन्ति । केरळ-राज्ये विभिन्नसंस्कृतीनां, धर्माणां जनाः निवसन्ति । केरळ-राज्ये बहूनि पर्वाणि, उत्सवाः च आचर्यन्ते । एतेषु उत्सवेषु बहवः उत्सवाः धार्मिकाः सन्ति । ते उत्सवाः हिन्दुपरम्पराधारिताः सन्ति । अस्य राज्यस्य प्रत्येकं राज्यानां भिन्न-भिन्नोत्सवाः भवन्ति । “ओणम” केरळ-राज्यस्य प्रसिद्धः उत्सवः वर्तते । अयम् उत्सवः सम्पूर्णे भारते प्रसिद्धः अस्ति । सस्यानां कर्तनकाले अयम् उत्सवः आचर्यते । केरळ-राज्ये नवरात्रिपर्व सरस्वतीपूजनरूपेण आचर्यते । अपरं च महाशिवरात्रिपर्व अपि पेरियारनद्याः तटे उत्साहपूर्वकम् आचर्यते । ये मुस्लिम-जनाः भवन्ति ते बकरीद, मुहरम, मिलाद-ए-शरीफ, रमजान इत्यादयः उत्सवान् आचरन्ति । अस्मिन् राज्ये हिन्दु-धर्मस्य, मुस्लिम-धर्मस्य, ईसाई-धर्मस्य च देवालयाः सन्ति । सर्वे जनाः स्वदेवालयेषु उत्सवान् आचरन्ति । केरळ-राज्ये मुख्यतः त्रीणि बृहन्नगराणि सन्ति । तानि - कॊच्ची-नगरं, कोऴिक्कोट्-नगरं, पालक्कड-नगरं च । कॊच्ची-महानगरं केरळ-राज्यस्य ऎरणाकुळम्-मण्डलस्य कश्चन भागः अस्ति । इदं नगरं “कॊच्चीन” इति गोश्री इत्यपि नाम्ना ज्ञायते । कॊच्ची-महानगरं समुद्रतटे स्थितम् अस्ति । नगरमिदं केरळ-राज्यस्य पोताश्रयः वर्तते । “कोचु अजहि” इति शब्दयोः कॊच्ची इति नामकरणम् अभवत् । अस्य नगरस्य उल्लेखः प्राचीनयात्रिकाणां लिखितेषु लेखेषु प्राप्यते । विश्वस्य विभिन्नदेशेभ्यः जनाः तत्र भ्रमणार्थं गच्छन्ति । अस्मिन् नगरे पुर्तगाली-जनाः अधिकमात्रायां निवसन्ति । अस्य नगरस्य इतिहासः अतीवपुरातनः अस्ति । चतुर्दशशताब्द्याम् इदं नगरम् आविर्भूतम् । बहुभिः यात्रिकैः ऐतिहासिकलेखेषु अस्य वर्णनं कृतम् अस्ति । खाद्यपदार्थानां व्यापारस्य केन्द्रम् आसीत् इदं नगरम् । उपस्कराणाम्, औषधीनां च विशेषरूपेण व्यापारः क्रियते स्म । पुरा यहुदी-जनाः, चीनी-जनाः, पुर्तगाली-जनाः, यूनानी-जनाः, अरबदेशीयाः, रोमनदेशीयाः च अत्र आगत्य व्यापारं कुर्वन्ति स्म । अतः अस्य नगरस्य संस्कृतिः नैकधा वर्तते । अस्य नगरस्य स्थानीयजनेषु वैदेशिकसंस्कृतीनाम् अत्यधिकः प्रभावः जातः । अनेन कारणेन अस्य नगरस्य संस्कृतिः मिश्रिता अस्ति । कॊच्ची-महानगरे नैकाः भोजनालयाः सन्ति । ये जनाः भारतस्य विभिन्नराज्येभ्यः कॊच्ची-महानगरं गच्छन्ति, ते अस्य नगरस्य विभिन्नप्रकारकाणि व्यञ्जनानि खादितुं भोजनालयं गच्छन्ति । कॊच्ची-महानगरे पर्यटनाय अपि बहूनि ऐतिहासिकस्थलानि, मन्दिराणि, उद्यानानि च सन्ति । ये जनाः प्रकृतिप्रेमिणः सन्ति, तेभ्यः तु भ्रमणार्थम् उत्तमं नगरम् अस्ति । नगरस्य समीपे अथिरापल्ली-जलप्रपातः वर्तते । अस्य जलप्रपातस्य प्राकृतिकं सौन्दर्यम् अपि दर्शनीयं भवति । बैकवॉटर्स्-स्थलं कॊच्ची-नगरस्य रमणीयं स्थलं वर्तते । तत्स्थलं वेम्बनाद-तडागस्य कश्चन भागः एव अस्ति । वेम्बनाद-तडागः केरळ-राज्यस्य बृहत्तमः तडागः वर्तते । अरबसागरस्य तटे “मरीन ड्राइव” इत्येतत् स्थलं युगलेभ्यः महत्त्वपूर्णम् अस्ति । कॊच्ची-नगरे एकः दुर्गः अपि अस्ति । सः दुर्गः मतञ्चेर्री-प्रायद्वीपे स्थितः अस्ति । अस्मिन् स्थले “मतंचेर्री महल”, “सान्ता क्रूज् बेसीलिका” च इत्येते स्थले आकर्षणस्य केन्द्रे स्तः । अस्य नगरस्य वातावरणं सर्वदा अनूकूलं भवति । अतः कस्मिँश्चिदपि काले यात्रां कर्तुं शक्यते । मई-मासे तत्र उष्णतायाः आधिक्यं भवति । वर्षर्तौ अपि कॊच्ची-नगरे वृष्टिः अधिका भवति । कॊच्ची-महानगरं राष्ट्रियराजमार्गेण भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । कॊच्ची-नगरे द्वे रेलस्थानके स्तः । ऎरणाकुळम्-जङ्क्शन, ऎरणाकुळम् टाउन् च । ऎरणाकुळम्-जङ्क्शन दक्षिणभागस्य रेलस्थानकम् अस्ति । ऎरणाकुळम्-टाउन् उत्तरभागस्य रेलस्थानकम् अस्ति । ते रेलस्थानके भारतस्य विभिन्ननगरैः सह सम्बद्धे स्तः । नेदुम्बस्सेरी-स्थले कॊच्चीन-नगरस्य विमानस्थानकं स्थितम् अस्ति । तद्विमानस्थानकं कॊच्ची-नगरात् 25 किलोमीटर्मिते दूरे स्थितम् अस्ति । एतद्विमानस्थानकम् अन्ताराष्ट्रियविमानस्थानकम् अपि अस्ति । विमानस्थानकात् कॊच्ची-नगरं गन्तुं भाटकयानानि प्राप्यन्ते । कोऴिक्कोट्-नगरं केरळ-राज्यस्य कोऴिक्कोट्-मण्डलस्य मुख्यालयम् अस्ति । नगरमिदं “कालीकट” इति नाम्ना अपि ख्यातम् अस्ति । इदं केरळ-राज्यस्य दक्षिण-पश्चिमतटे स्थितमस्ति । पुरा नगरमिदं व्यापारकेन्द्रम् आसीत् । इतिहासकाराः कथयन्ति यत् – इदं नगरम् उपस्करेभ्यः, कौशेयोत्पादनाय च प्रसिद्धम् आसीत् । अतः एव हिन्दमहासागरस्य बहुभिः देशैः सह अस्य नगरस्य व्यापारिकसम्बन्धः आसीत् । अस्मिन् नगरे प्राचीनैतिहासिककालस्य पाषाणगुहाः प्राप्ताः । त्रयोदशशताब्द्याः अस्य नगरस्य अस्तित्त्वं प्राप्यते । इरनाड-राज्यस्य राज्ञा उदयावर-इत्याख्येन कोऴिक्कोट्-नगरं, पोन्नियङ्कर-नगरं च जितम् । तत्र तेन एकः दुर्गः अपि निर्मापितः । सः दुर्गः वेलापुरम् इति नाम्ना ज्ञायते । ई. स 1498 तमे वर्षे “वास्कोडिगामा” इत्याख्यः पुर्गगालदेशीयः नाविकः तत्र सर्वप्रथमं समागतः । सः यूरोप-देशीयः आसीत् । अनन्तरम् अन्येभ्यः देशेभ्यः यात्रिकाः समागताः । समयान्तरे इदं नगरं जमोरिन-साम्राज्यस्य राजधानी अभवत् । अस्मिन् नगरे बहूनि साहित्यिकान्दोलनानि अपि जातानि । तेन बहवः क्षेत्रियलेखकाः समुद्भूताः । अस्मिन् नगरे नैकानि मन्दिराणि, चर्च्, उद्यानानि च सन्ति । “थिक्कोटी लाईट् हाउस्”, “मनाचिरा स्क्वेयर्”, “पजस्सीराजा-सङ्ग्रहालयः”, “कलिपोयिका लॉयन्स् पार्क्”, “तलीमन्दिरं”, “कक्कयम”, “कृष्णा मेनन सङ्ग्रहालयः”, “ताराघर”, “बीपोर”, “वाडाकर”, “तुषारगिरी”, “सायन्स् प्लेनेटोरियम्”, “पूकोट-तडागः” च इत्यादीनि अस्य नगरस्य वीक्षणीयस्थलानि सन्ति । कोऴिक्कोट्-नगरं केरळ-राज्यस्य प्रमुखनगरैः सह राष्ट्रियराजमार्गेण सम्बद्धम् अस्ति । मोफुस्सिल्-नामकं कोऴिक्कोट्-नगरे बसस्थानकम् अस्ति । कन्नूर, थलस्सेरी, पालक्काट्, ऎरणाकुळम् च इत्यादिभ्यः नगरेभ्यः ततः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । चेन्नै, कोयम्बटूर, बेङ्गळूरु, देहली, हैदराबाद, तिरूवनन्तपुरम, कॊच्ची, पालक्काट्, कन्नूर इत्यादिभ्यः नगरेभ्यः नियमितरूपेण तस्मात् रेलस्थानकात् रेलयानानि प्राप्यन्ते । अस्य नगरस्य विमानस्थानकं करीपुर-इति नाम्ना प्रसिद्धम् अस्ति । एतद्विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । कोझीकोड-नगरात् विमानस्थानकं 25 किलोमीटर्मिते दूरे स्थितम् अस्ति । ततः भाटकयानानि, बसयानानि च प्राप्यन्ते । पालक्काट्-नगरं पुरा पालघाट इति नाम्ना ज्ञायते स्म । इदं नगरं केरळ-राज्यस्य पालक्काट्-मण्डलस्य मुख्यालयः अस्ति । इदं नगरं केरळ-राज्यस्य पश्चिमभागे पर्वतीयक्षेत्रेषु स्थितम् अस्ति । पालक्काट्-नगरे व्रीहेः कृषिः क्रियते । अतः पलक्क्ड-नगरं “केरळ का धान का कटोरा”, “केरळ का अन्न भण्डार” वा इति कथ्यते । अस्मिन् मण्डले तमिऴ-जनाः अपि निवसन्ति । अतः अस्य मण्डलस्य संस्कृतिः, भोजनपद्धतिः च अपि भिन्ना वर्तते । कर्णाटकसङ्गीतक्षेत्रे “चेम्बई वैद्यनाथ भागावतार”, “पालक्कड मणि अय्यर” च इत्येतौ द्वौ प्रसिद्धौ सङ्गीतकारौ अभवताम् । इदं नगरम् तयोः जन्मस्थलं वर्तते । अतः पालक्काट्-नगरम् भारते प्रसिद्धम् अस्ति । पालक्काट्-मण्डले दुर्गाः, मन्दिराणि, जलबन्धाः, वन्यजीवाभयारण्यानि, जलप्रपाताः, उद्यानानि च सन्ति । अतः आवर्षं जनाः पर्यटनाय तत्र गच्छन्ति । मालमपुझा-जलबन्धः अपि आकर्षणस्य प्रमुखकेन्द्रम् अस्ति । “नेलियमपत्थी हिल स्टेशन”, “साइलेण्ट् वैली नेशनल् पार्क्”, “परम्बिकुलम वन्यजीव अभयारण्य”, “कञ्जिरापुझा-जलप्रपातः”, “धोनी-जलप्रपातः”, च अस्य स्थलस्य प्राकृतिकानि, वीक्षणीयानि स्थलानि सन्ति । पालक्काट्-नगरं केरळ-राज्यस्य प्रमुखनगरैः सह भूमार्गेण सम्बद्धम् अस्ति । कोयम्बटूर, कॊच्ची, कोऴिक्कोट्, तृश्शूर् इत्यादिभ्यः नगरेभ्यः अपि बसयानानि प्राप्यन्ते । केरळसर्वकारेण बसयानानि प्रचालितानि सन्ति । पालक्काट्-नगरे एकं रेलस्थानकम् अस्ति । तत् “ओलवक्कोड जङ्क्शन्” इत्यपि कथ्यते । बेङ्गळूरु, चेन्नै, देहली, मुम्बई, हैदराबाद इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः ततः रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकं नास्ति । कोयम्बटूर-नगरे अस्य नगरस्य निकटतमं विमानस्थानकम् अस्ति । पालक्काट्-नगरात् 50 किलोमीटर्मिते दूरे स्थितम् अस्ति कोयम्बटूर-नगरम् । कोयम्बटूर-नगरात् पालक्काट्-नगराय बसयानानि, भाटकयानानि च प्राप्यन्ते । कॊच्ची-विमानस्थानकम् अपि 160 किलोमीटर्मिते दूरे स्थितम् अस्ति । एवं च कोऴिक्कोट्-विमानस्थानकं 110 किलोमीटर्मिते दूरे स्थितम् अस्ति । केरळ-राज्यं “दक्षिण का कश्मीर” इति कथ्यते । स्वस्य प्राकृतिकसौन्दर्येण इदं राज्यं देवतानां देशः अपि कथ्यते । केरळ-राज्यस्य कोवलमसमुद्रतटं विश्वस्मिन् प्रसिद्धम् अस्ति । तिरुवनन्तपुरम-नगरस्य पद्मनाभस्वामीमन्दिरं दक्षिणभारतीयवास्तुकलायाः प्रतिकृतिः अस्ति । केरळ-राज्यस्य कॊच्ची-महानगरं “अरबसागर की रानी” इति कथ्यते । केरळ-राज्यं पर्यटनस्थलानां केन्द्रं मन्यते । जगद्गुरुशङ्कराचार्यस्य कालटी-नामकं जन्मस्थलं केरळ-राज्ये स्थितम् अस्ति । अस्य राज्यस्य जलवायुः ऊष्णकटिबन्धीयः भवति । अतः अधिकमात्रायां पर्यटकाः तत्र गच्छन्ति । केरळ-राज्यं समुद्रतटे स्थितम् अस्ति अतः अधिकाधिकानि वीक्षणीयस्थलानि समुद्रतटे स्थितानि सन्ति । जनाः समुद्रतटस्य मनोहरं दृश्यं दृष्टुं गच्छन्ति । केरळ-राज्ये बहूनि पर्यटनस्थलानि सन्ति । कास्रगोड, कन्नूर, वयनाट्, कोझीकोड, मालाप्पुरम्, पालक्काट्, त्रिशुर, ऎरणाकुळम्, इडुकी, कोट्टयम्, अलप्पुझा, पथानमथीट्टा, कोल्ल्म, तिरूवनन्तपुरम् च इत्यादीनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । अस्मिन् राज्ये अधिकानि पर्यटनस्थलानि सन्ति । अतः इदं राज्यं भारते प्रसिद्धम् अस्ति । अस्य राज्यस्य मण्डलानि अपि सुन्दराणि सन्ति । राज्येऽस्मिन् मनोहराणि प्राकृतिकदृश्यानि सन्ति । तानि दृश्यानि दृष्ट्वा जनाः मुग्धाः भवन्ति । केरळ-राज्यस्य मलाप्पुरम्-मण्डले स्थितः अयं पॊन्नानी-ग्रामः । अयं ग्रामः अत्यन्तं सुन्दरः वर्तते । भरतपुजा-नद्याः तटे स्थितः अस्ति पुनानी-ग्रामः । भरतपुजा-नदी केरळ-राज्यस्य दीर्घतमासु नदीषु द्वितीया अस्ति । अस्य ग्रामस्य पश्चिमदिशि अरब-सागरः स्थितः अस्ति । अतः मत्स्योद्योगस्य प्रमुखकेन्द्रम् अपि विद्यते । अरबसमुद्रस्य तटे स्थितस्य मालाबार-पोताश्रयस्य मुख्यक्षेत्रम् अपि अस्ति अयं ग्रामः । इदं समुद्रतटं विस्तृतं वर्तते । अस्मिन् तटे इस्लाम-उपसनागृहाणि अपि स्थितानि सन्ति । अयं ग्रामः मालाबार-तटीयक्षेत्रेण सह विशिष्टतया सम्बद्धः अस्ति । मालाबार-पोताश्रयः दक्षिणभारतस्य प्राचीनतमेषु पोताश्रयेषु अन्यतमः वर्तते । मालाबार-पोताश्रयस्य व्यापारे, अर्थव्यवस्थायां च अस्य ग्रामस्य महद्योगदानम् अस्ति । पॊन्नानी-ग्रामः “दक्षिणभारतस्य मक्का” इति नाम्ना अपि ज्ञायते । यतः पुरातनकालादेव अयं ग्रामः इस्लामधर्मस्य शिक्षायाः केन्द्रम् आसीत् । अस्मिन् ग्रामे हिन्दु-जनाः, मुस्लिमजनाः च निवसन्ति । अतः अस्य ग्रामस्य संस्कृतिः, धर्मश्च मिश्रितः वर्तते । पॊन्नानी-ग्रामस्य इतिहासः अतीव प्राचीनः वर्तते । “विलियम लोगान” इत्याख्यस्य इतिहासकारस्य लेखे पॊन्नानी-ग्रामे स्थितस्य “जुमा मुस्लिम उपासनागृहस्य” उल्लेखः प्राप्यते । पुरा अयं ग्रामः मालाबार-क्षेत्रस्य राजधानी आसीत् । समूथिरि-शासकानां राजक्षेत्रम् अपि आसीत् । भारतीयस्वातन्त्र्यान्दोलनस्य इतिहासे अपि अस्य ग्रामस्य नामोल्लेखः प्राप्यते । स्वातन्त्र्यान्दोलनस्य बहवः क्रान्तिकारिणः अनेन ग्रामेण सह सम्बद्धाः सन्ति । पॊन्नानी-ग्रामे नैकानि वीक्षणीयस्थलानि सन्ति । “पॊन्नानी जुमा मस्जिद्”, “पॊन्नानी प्रकाशस्तम्भः”, “सरस्वतीमन्दिरं” च इत्येतानि आकर्षणस्य केन्द्राणि सन्ति । भरतपुजा-तिरुर-नद्योः सङ्गमः अस्ति अस्मिन् ग्रामे । अनन्तरं ते नद्यौ अरबसागरे मिलतः । “बियम कयल की झील” इत्येतत् स्थलम् अपि पॊन्नानी-ग्रामस्य प्रमुखं पर्यटनस्थलं वर्तते । पॊन्नानी-ग्रामस्य जलवायुः उष्णकटिबन्धीयः वर्तते । जनाः तत्र गत्वा आनन्दं प्राप्नुवन्ति । सः ग्रामः ऐतिहासिकः, सांस्कृतिकः च वर्तते । ग्रामः अयं लघुः अस्ति, तथापि अस्य ग्रामस्य सौन्दर्यं मनोहरम् अस्ति । पॊन्नानी-ग्रामः कॊच्ची-कोझीकोड-भूमार्गे स्थितः अस्ति । कोझीकोड-नगरं पॊन्नानी-ग्रामात् 80 किलोमीटर्मिते दूरे स्थितम् अस्ति । अस्मिन् ग्रामे यातायाताय नियमितरूपेण बसयानानि प्राप्यन्ते । ग्रामे भाटकयानानि अपि भवन्ति । तैः यानैः यात्रायां सौकर्यं भवति । कुट्टीपुरम्-नगरे पॊन्नानी-ग्रामस्य निकटतमं रेलस्थानकम् अस्ति । कुट्टीपुरम्-नगरं पॊन्नानी-ग्रामात् 20 किलोमीटर्मिते दूरे अस्ति । यद्यपि कुट्टीपुरम्-नगरे अल्पसङ्ख्यकानि रेलयानानि भवन्ति । अतः तिरुर-नगरे, कोझीकोड-नगरे च अपि रेलस्थानकानि सन्ति । ताभ्यां नगराभ्याम् अपि पॊन्नानी-ग्रामाय बसयानानि प्राप्यन्ते । पॊन्नानी-ग्रामात् 60 किलोमीटर्मिते दूरे कालीकट-विमानस्थानकम् अस्ति । तदन्ताराष्ट्रियविमानस्थानकम् अस्ति । कालीकट-विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । कालीकट-नगरात् पॊन्नानी-ग्रामाय भाटकवाहनि, बसयानानि च प्राप्यन्ते । कासरकोट्-नगरं केरळ-राज्यस्य कासरकोट्-मण्डलस्य मुख्यालयः अस्ति । इदं नगरं केरळ-राज्यस्य उत्तरभागे स्थितम् अस्ति । नगरमिदम् ऐतिहासिकं, पुरातात्त्विकं च विद्यते । अतः जनाः भ्रमणार्थं तत्र गच्छन्ति । बेकल-दुर्गः अस्य नगरस्य ऐतिहासिकं स्थलं वर्तते । सः दुर्गः स्मारकत्वेन स्थितः अस्ति । “कासरकोट्” इतीदं नाम शब्दद्वयेन निर्मितम् अस्ति । “कासरा”, “क्रोडा” च । “कासरा” इत्यस्य अर्थः तडागः, “क्रोडा” इत्यस्य अर्थः संरक्षणस्थलं च भवति । एवं च “अस्मिन् नगरे कासरका-नामकाः वृक्षाः अपि सन्ति । तेन कारणेन अपि अस्य नाम “कारसगोड” अभवत्” इति कथ्यते । तत्र नारिकेलस्य वृक्षाः सन्ति । अस्य नगरस्य संस्कृतिः विशिष्टा अस्ति । अतः तस्यै संस्कृतये इदं नगरं प्रसिद्धम् अस्ति । तत्र कम्बाला, कुक्कुतयुद्धं च प्रचलितम् अस्ति । “थेय्यम” इत्याख्यस्य देवस्य प्रसन्नतायै एते उत्सवाः आयोज्यन्ते । अस्मिन् नगरे हिन्दुधर्मस्य, मुस्लिम-धर्मस्य, ईसाई-धर्मस्य च जनाः निवसन्ति । तथापि इदं मण्डलं धार्मिकप्रवृत्तिभ्यः ज्ञायते । तत्र मलयाळ-भाषायां, टुलू-भाषायां, कोङ्कणी-भाषायां, तमिऴ-भाषायां च व्यवहरन्ति जनाः । तत्र “गोविन्द पाई मेमोरियल्”, “मदियाँ कुलम मन्दिर”, “मालिक दीनार मस्जिद” च इत्यादीनि अस्य नगरस्य मुख्यपर्यटनस्थलानि सन्ति । बेकल, कन्नूर, थालास्सेरी, पय्योली च इत्यादीनि अस्य नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । कासरकोट्-नगरे सर्वकारप्रचालितानि बसयानानि प्रचलन्ति । तैः यानैः भ्रमणं कर्तुं शक्यते । कासरकोट्-नगरे एकं रेलस्थानकं विद्यते । तद्रेलस्थानकं दक्षिणोत्तरभारतयोः विभिन्ननगरैः सह सम्बद्धम् अस्ति । अतः रेलमार्गेण अपि कासरकोट्-नगरं प्राप्तुं शक्यते । कासरकोट्-नगरात् कर्णाटकराज्यस्य मेङ्गलौर-नगरस्य विमानस्थानकं समीपे स्थितम् अस्ति । कासरकोट्-नगरात् मेङ्गलौर-विमानस्थानकं 50 किलोमीटर्मिते दूरे स्थितम् अस्ति । दक्षिणदिशि कॊच्ची-नगरे अपि अन्ताराष्ट्रियविमानस्थानकं विद्यते । तद्विमानस्थानकं कासरकोट्-नगरात् 420 किलोमीटर्मिते दूरे स्थितम् अस्ति । कासरकोट्-नगराय भाटकवाहनानि अपि नियमितरूपेण प्राप्यन्ते । कासरकोट्-नगरं गन्तुं जनाः कदापि कष्टम् नानुभवन्ति । अतिरप्पिळ्ळी-ग्रामः केरळराज्यस्य तृश्शूर्मण्डलस्य मुकुन्दपुरम्-उपमण्डले स्थितः अस्ति । ग्रामः अयं तृश्शूर्-नगरात् 60 किलोमीटर्मिते, कॊच्ची-नगरात् 70 किलोमीटर्मिते च दूरे स्थितः अस्ति । अस्य ग्रामस्य समीपे जलप्रपाताः, वर्षावनानि च सन्ति । ग्रामेऽस्मिन् जैववैविध्यम् अपि प्राप्यते । केरळ-राज्यस्य पर्यावरण-मन्त्री “जयराम रमेश” इत्याख्यः अस्ति । सः इमं ग्रामं “साइलेण्ट् वैली” इति कथयति । अतिरप्पिळ्ळी इत्यत्र वाजहाचल, चारपा च इत्याख्यौ जलप्रपातौ स्तः । इदं क्षेत्रं पश्चिमघट्टे स्थितम् अस्ति । तस्मिन् क्षेत्रे बहूनि वनानि सन्ति । अतः इदं क्षेत्रम् “अतिरप्पिळ्ळी-वाजहाचलक्षेत्रत्वेन ज्ञायते । तेषु वनेषु विविधाः दुर्लभाः वन्यजीवाः, विहगाः च प्राप्यन्ते । एतेषु वनेषु गजानां संरक्षणाय प्रयासाः जायमानाः सन्ति । तेषु वनेषु विभिन्नप्रकारकाः वनस्पतयः, औषधयः च अपि प्राप्यन्ते । अतः “एशियाई प्रकृति संरक्षण फाउण्डेशन्” इत्यनया संस्थया प्रस्तावः प्रस्थापितः यत् – “इदं क्षेत्रं राष्ट्रियोद्यानं, राष्ट्रियाभयारण्यं वा भावितव्यम्” इति । इदं वनं पञ्चविभागेषु विभक्तम् अस्ति । ते – 1 अतिरप्पिळ्ळी, 2 वाजहाचल, 3 चारपा, 4 कोल्लाथिरुमेदु, 5 शोलायार च । वनेषु बह्व्यः नद्यः सन्ति । वनेषु आदिवासिनः निवसन्ति । ते वनात् औषधयः, वनस्पतयः च एकीकुर्वन्ति । ते औषधीनां विशेषज्ञाः भवन्ति । वर्षर्तौ, शीतर्तौ च जनाः तत्र भ्रमणार्थं गच्छन्ति । अतिरप्पिळ्ळी-ग्रामात् कॊच्ची-नगरं 55 किलोमीटर्मिते दूरे स्थितम् अस्ति । भूमार्गात् कॊच्ची-नगरं सरलतया प्राप्तुं शक्यते । तत्र राज्यसर्वकारप्रचालितानि बसयानानि अपि प्रचलन्ति । कर्णाटकराज्यस्य बेङ्गळूरु-महानगरात् अपि बसयानानि प्राप्यन्ते । तृश्शूर्-नगरे कॊच्ची-नगरे च रेलस्थानकम् अस्ति । अतिरप्पिळ्ळी-ग्रामात् तृश्शूर्-नगरं 78 किलोमीटर्मिते, कॊच्ची-नगरं 66 किलोमीटर्मिते च दूरे स्थितम् अस्ति । चलाकुद्द्य-रेलस्थानकं निकटतमं रेलस्थानकम् अस्ति । तत् 31 किलोमीटर्मिते दूरे स्थितम् अस्ति । ततः बसयानैः अतिरप्पिळ्ळी-ग्रामं प्राप्तुं शक्यते । अतिरप्पिळ्ळी-ग्रामात् 55 किलोमीटर्मिते दूरे कॊच्चीन-विमानस्थानकं विद्यते । तद्विमानस्थानकम् अन्ताराष्ट्रियं वर्तते । भाटकयानैः अतिरप्पिळ्ळी-ग्रामः गम्यते । मारारिक्कुळम् एकः सुन्दरग्रामः अस्ति । तत्र पीतवर्णीयं सिकतामयं समुद्रतटं वर्तते । अतः एव अयं ग्रामः ख्यातः वर्तते । अस्य ग्रामस्य जनाः पारम्परिकाः सन्ति । शतवर्षाणि पुरातनायाः परम्परायाः पालनं कुर्वन्ति ते । अस्य ग्रामस्य वातावरणं शान्तं भवति । ग्रामेऽस्मिन् मत्स्यपालकाः निवसन्ति । ते मत्स्योद्योगं कुर्वन्ति । अस्य ग्रामस्य तापमानं सन्तुलितं भवति । तत्र “कोक्कामंगलम चर्च” अस्ति । तदुपासनागृहं “सेण्ट् थॉमस्” इत्याख्येन स्थापितम् आसीत् । तत् प्रमुखतीर्थस्थलेषु अन्यतमम् अस्ति । शिवमन्दिरं, कोक्कामंगलम सेण्ट् एपोस्ले चर्च्, अरूर, अरुतंकल, पुच्छाक्कल, पानावली, वेलोरवट्टम, अर्थुंकल च अस्य ग्रामस्य पर्यटनस्थलानि सन्ति । एतेषु शिवमन्दिरस्य वास्तुकला विशिष्टा वर्तते । तत्र “चेरथला कार्तियेनी मन्दिरम्” अपि अस्ति । अस्मिन् मन्दिरे कार्तियेनीदेवी विद्यमाना अस्ति । एवं च काञ्चिकुङ्गलारा-मन्दिरं प्रसिद्धम् अस्ति । तस्मिन् मन्दिरे भगवतीदेव्याः प्रतिमा स्थिता अस्ति । अपि च पुच्छाक्कल-क्षेत्रस्य समीपे अपि बहूनि मन्दिराणि विद्यमानानि सन्ति । शीतर्तौ जनाः तत्र भ्रमणार्थं गच्छन्ति । मारारिक्कुळम् राष्ट्रियराजमार्गे स्थितः अस्ति । सः राजमार्गः मरारीकुलम-ग्रामात् 5 किलोमीटर्मिते पूर्वदिशि स्थितः अस्ति । मरारीकुलम-ग्रामात् कॊच्ची-नगरं 30 किलोमीटर्मिते दूरे स्थितम् अस्ति । केरळसर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । मरारीकुलम-ग्रामे एकं रेलस्थानकम् अस्ति । तद्रेलस्थानकं केरळ-राज्यस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । कॊच्चीन-नगरे अन्ताराष्ट्रियविमानस्थानकं विद्यते । तद्विमानस्थानकम् मारारिक्कुळम्-ग्रामस्य निकटतमं विमानस्थानकम् अस्ति । इदं विमानस्थानकं भारत-देशस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । कॊच्चीन-नगरात् मरारीकुलम-ग्रामाय बसयानानि, भाटकयानानि च प्राप्यन्ते । ऎरणाकुळम्-नगरं केरळ-राज्यस्य ऎरणाकुळम्-मण्डलस्य केन्द्रं विद्यते । तस्मिन् नगरे “एर्नाकुलाथाप्पन-शिवमन्दिरं विद्यते । अतः एव अस्य नाम ऎरणाकुळम् इत्यभवत् । इदं नगरं केरळ-राज्यस्य “व्यावसायिकराजधानी” अस्ति । केरळ-राज्यस्य इतिहासे अस्य नगरस्य महत्त्वपूर्णं स्थानं वर्तते । अस्य नगरस्य संस्कृतिः, परम्परा, उत्सवाः च जनान् आकर्षन्ति । ऎरणाकुळम्-नगरं केरळराज्यस्य पर्यटनकेन्द्रं विद्यते । राजकुमारी स्ट्रीट्, बोल्घटी पैलेस्, कॊच्ची समुद्रतटं, चोट्टानिक्करा-मन्दिरं च इत्येतानि ऎरणाकुळम्-नगरस्य पर्यटनस्थलानि सन्ति । “इदं स्थलं धूम्रपानमुक्तस्थलम् वर्तते” इति आश्चर्यम् । ऎरणाकुळम्-नगरं भूमार्गैः सम्पूर्णतया सम्बद्धम् अस्ति । राज्यसर्वकारेण प्रचालितैः बसयानैः अपि ऎरणाकुळम्-नगरं प्राप्तुं शक्यते । वैयक्तिकयानैः, भाटकयानैः च ऎरणाकुळम्-नगरं प्राप्यते । ऎरणाकुळम्-नगरे रेलस्थानकद्वयं विद्यते । ऎरणाकुळम्-जङ्क्शन्, ऎरणाकुळम्-टाउन् च । ऎरणाकुळम्-जङ्क्शन् दक्षिणरेलस्थानकम् अस्ति । ऎरणाकुळम्-टाउन् उत्तररेलस्थानकम् अस्ति । ऎरणाकुळम्-नगरात् कॊच्चीन-विमानस्थानकं 23 किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं विमानस्थानकम् अन्ताराष्ट्रियविमानस्थानकम् अपि विद्यते । अतः भारतस्य विभिन्ननगरैः सह इदं सम्बद्धम् अस्ति । ततः ऎरणाकुळम्-नगराय यानानि प्राप्यन्ते । केरळ-राज्यस्य पत्तनंतिट्टामण्डले तिरुवल्ला-नगरं स्थितम् अस्ति । नगरमिदं मणिमला-नद्याः तटे स्थितम् अस्ति । अस्मिन् नगरे बहूनि मन्दिराणि सन्ति । अतः इदं नगरं “मन्दिराणां नगरम्” इति नाम्ना ज्ञायते । नगरमिदम् ऐतिहासिकं, सांस्कृतिकं च वर्तते । अस्मिन् नगरे हिन्दु-धर्मस्य, मुस्लिम-धर्मस्य, ईसाई-धर्मस्य च जनाः निवसन्ति । तिरुवल्ला-नगरे त्रयाणां धर्माणाम् उपासनागृहाणि सन्ति । अस्य नगरस्य समीपे बहूनि वीक्षणीयस्थलानि अपि सन्ति । अस्मिन् नगरे “श्रीवल्लभमन्दिरं” स्थितम् अस्ति । एतद् मन्दिरं “दक्षिणतिरुपतिः” इति नाम्ना ख्यातम् अस्ति । अतः भारतदेशस्य विभिन्ननगरेभ्यः जनाः दर्शनार्थं तत्र गच्छन्ति । तत्र “पलियक्करा चर्च्” अस्ति । तदुपासनागृहं पुरातनम् अस्ति । यदा केरळ-राज्ये ईसाईधर्मस्य उद्भवः जातः, तत्कालस्य तद् ईसाई-उपासनागृहं विद्यते । मन्यते यत् – यदा तिरुवतम्कूर-राज्ञः शासनकालः आसीत्, तदा अस्य नगरस्य नाम वल्लभपुरम् इति आसीत् । अनन्तरं तिरुवल्लभपुरम् इति नाम परिवर्तितम् । समयान्तरे अपभ्रंशत्वात् तिरुवल्ला इति नाम अभवत् । अस्य नगरविषयिण्यः बहव्यः मान्यताः सन्ति । कथ्यते यत् – “तिरुवल्ला इति नाम भगवतः विष्णोः नाम्ना कृतम् आसीत् । अनेन प्रकारेण इदं नगरं “विष्णोः नगरम्” इति नाम्ना ज्ञायते । अस्य नगरस्य वातावरणं मनोहरं, रमणीयं च भवति । अतः जनाः आनन्दं प्राप्तुं भ्रमणार्थं तत्र गच्छन्ति । तिरुवल्ला-नगरस्य जलवायुः सामान्यतः उष्णः भवति । वर्षर्तौ अस्य नगरस्य भ्रमणं श्रेष्ठं भवति । तिरुवल्ला-नगरे राज्यसर्वकारप्रचालितानि बसयानानि नियमितरूपेण कार्यरतानि सन्ति । बसयानेन सरलतया तिरुवल्ला-नगरं प्राप्तुं शक्यते । कोझीकोड, तिरूवनन्तपुरम्, कॊल्लम्् कन्नूर, कॊच्ची, कोयम्बतूर, चेन्नै, मदुरै, बेङ्गळूरु, मेङ्गलोर च इत्येतैः नगरैः सह तिरुवल्ला-नगरं भूमार्गेण सम्बद्धम् अस्ति । तिरुवल्ला-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्नमहानगरैः, नगरैः च सह सम्बद्धम् अस्ति । तिरुवल्ला-नगरात् पालक्काट्-नगराय, तिरुवनन्तपुरम्-नगराय, कॊच्ची-नगराय च नियमितरूपेण रेलयानानि प्राप्यन्ते । तिरुवल्ला-नगरे विमानस्थानकं नास्ति । किन्तु कॊच्ची-नगरे स्थितं विमानस्थानकं तिरुवल्ला-नगरस्य निकटतमं विमानस्थानकम् अस्ति । तिरुवल्ला-नगरात् कॊच्ची-नगरं 90 किलोमीटर्मिते दूरे स्थितम् अस्ति । तिरुवनन्तपुरम्-नगरे अपि विमानस्थानकं विद्यते । तद्विमानस्थानकं तिरुवल्ला-नगरात् 140 किलोमीटर्मिते दूरे स्थितम् अस्ति । केरळराज्यस्य मलप्पुऱम्-मण्डलस्य केन्द्रम् अस्ति मलप्पुऱम्-नगरम् । नगरमिदं लघुपर्वतीयक्षेत्रम् अस्ति । मलप्पुऱम्-मण्डलस्य आर्थिकदृष्ट्या, धार्मिकदृष्ट्या, सामाजिकदृष्ट्या, सांस्कृतिकदृष्ट्या च विशिष्टं स्थानम् अस्ति । अत्र चलियार-नदी, भारथापुज्हा-नदी, कदलुंदी-नदी एताः तिस्रः नद्यः प्रवहन्ति । केरळ-राज्यस्य सांस्कृतिकराजनैतिकसाहित्यिकपरम्परासु मलप्पुऱम्-मण्डलस्य लघुनगराणां महद्योगदानम् आसीत् । मलप्पुऱम्-मण्डले स्थितं थिरुनावाया-नगरं मध्यकाले वैदिकशिक्षणस्य केन्द्रम् आसीत् । एवं च कोत्ताक्कल-नगरात् आयुर्वेदस्य पारम्परिकचिकित्साप्रणाल्याः उत्पत्तिः जाता । “कदलुंदी पक्षी अभयारण्य”, “केरालादेश्पुरम्-मन्दिरं”, “थिरुनावाया-मन्दिरं” च इत्येतानि मलप्पुऱम्-नगरस्य पर्यटनस्थलानि सन्ति । अस्मिन् क्षेत्रे बहूनि मन्दिराणि, मुस्लिम-उपासनागृहाणि च सन्ति । यथा – “मलप्पुऱम् जुमा मस्जिद्”, “मन्नूर शिवमन्दिरं”, “थिरुप्पुरन्थाका-मन्दिरं”, “वेत्ताकोरुमाकन-मन्दिरं” च इत्येतानि तीर्थस्थलानि सन्ति । मलप्पुऱम्-नगरस्य वातावरणं सामान्यतः सन्तुलितं भवति । अतः एव जनाः भ्रमणार्थं गच्छन्ति । मलप्पुऱम्-नगरस्य प्राकृतिकं सौन्दर्यं, इतिहासः, वैदिशिकानि व्यञ्जनानि च जनान् आकर्षन्ति । केरळ-राज्यस्य सर्वकारेण मार्गपरिवहनाय बसयानानि प्रचालितानि सन्ति । अतः एव मलप्पुऱम्-नगरम् अन्यनगरैः सह सम्बद्धम् अस्ति । मलप्पुऱम्-नगरात् बेङ्गळूरु-महानगराय, कॊच्ची-नगराय, तिरुवनन्तपुरम्-नगराय च नियमितरूपेण बसयानानि प्राप्यन्ते । मलप्पुऱम्-नगरे रेलस्थानकं नास्ति । किन्तु मलप्पुऱम्-मण्डलस्य अन्गादिपुरम्, तिरुर, तनूर, कुत्तिप्पुरम्, परप्पनान्गादी च इत्यादिषु नगरेषु रेलस्थानकानि सन्ति । अतः तेभ्यः नगरेभ्यः मलप्पुऱम्-नगरं सम्बद्धम् अस्ति । मलप्पुऱम्-नगरात् कालीकट-रेलस्थानकं 50 किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं निकटतमं रेलस्थानकम् अस्ति । कालीकट-नगरे विमानस्थानकम् अस्ति । तद्विमानस्थानकं “करिपुर-अन्ताराष्ट्रियविमानस्थानकम्” इति नाम्ना ख्यातम् अस्ति । इदं निकटतमं विमानस्थानकं वर्तते । तत् 25 किलोमीटर्मिते दूरे स्थितम् अस्ति । कालीकट-विमानस्थानकात् भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । काञ्ञिरप्पळ्ळी-नगरं केरळ-राज्यस्य कोट्टयम्-मण्डले स्थितम् अस्ति । इदं नगरम् उपमण्डलत्वेन विद्यते । अस्मिन् नगरे हिन्दु-धर्मस्य, मुस्लिम-धर्मस्य जनाः निवसन्ति । अस्य नगरस्य संस्कृतिः अपि विशिष्टा वर्तते । अस्मिन् नगरे कञ्जिम-नामकाः वृक्षाः भवन्ति । अतः एव अस्य नाम “काञ्ञिरप्पळ्ळी” इति नाम अभवत् । नगरेऽस्मिन् कोय्यिन इति आदिवासिनः निवसन्ति । ते प्रारम्भादेव अस्मिन् नगरे निवसन्तः सन्ति । अनन्तरं तमिऴ-अधिवासिनः तत्र समागतवन्तः । पुरा अस्मिन् क्षेत्रे पाण्ड्य-शासकानां शासनम् आसीत् । तैः शासकैः प्रवासकार्यं स्थगितम् । प्रवासे तमिऴव्यापारिणः अधिकाः आसन् । अतः तत्र गत्वा तैः कृषिकार्यम् आरब्धम् । ते तमिऴ-अधिवासिनः “कन्नान्नुर चेट्टीस्” इति नाम्ना ज्ञायन्ते स्म । गणपतियर कोविल, सेण्ट् मेरिज् चर्च्, मदुरै मीनाक्षी मन्दिरं, नैनारू मस्जिद्, सेण्ट् डोमिनिक्स्, “सिरो मालाबार कैथोलिक् कैथेड्रल्” च इत्यादीनि अस्य नगरस्य वीक्षणीयस्थलानि सन्ति । गणपरियर-मन्दिरम् अस्य क्षेत्रस्य प्राचीनं मन्दिरं विद्यते । अत्र ईसाई-धर्मानुयायीनाम् अपि महती सङ्ख्या अस्ति । एतेषाम् ईसाई-जनानां पूर्वजाः निलाक्कल-नामके क्षेत्रे निवसन्ति स्म । तच्छेत्रं पुरा व्यापारकेन्द्रम् आसीत् । तत्र पजहायापल्ली-नामकम् ईसाई-उपासनागृहं विद्यते । तदुपासनागृहमपि प्राचीनम् अस्ति । तस्य निर्माणम् ई. स. 1449 तमे वर्षे अभवत् । “नैनारू चर्च्” अस्य नगरस्य आकर्षणस्य केन्द्रम् अस्ति । काञ्ञिरप्पळ्ळी-नगरात् कॊच्ची-नगरं 101 किलोमीटर्मिते दूरे स्थितम् अस्ति । भूमार्गेण कॊच्ची-नगरात् काञ्ञिरप्पळ्ळी-नगरं प्राप्यते । तत्र भाटकयानानि, बसयानानि च प्राप्यन्ते । कोट्टयम्-नगरे काञ्ञिरप्पळ्ळी-नगरस्य निकटतमं रेलस्थानकं विद्यते । चेन्नै-महानगराय, त्रिवेन्द्रम-नगराय, बेङ्गळूरु-महानगराय, मेङ्गलौर-नगराय, कॊच्चीन-नगराय, देहली-महानगराय च इत्यादिभ्यः नगरेभ्यः ततः रेलयानानि प्राप्यन्ते । कॊच्चीन-नगरे अन्ताराष्ट्रियविमानस्थानकम् अपि अस्ति । काञ्ञिरप्पळ्ळी-नगरात् कॊच्चीन-नगरं 72 किलोमीटर्मिते दूरे स्थितम् अस्ति । कॊच्चीन-नगरात् बसयानैः, भाटकयानैः वा काञ्ञिरप्पळ्ळी-नगरं प्राप्यत् । इदं नगरं केरळ-राज्यस्य पत्तनंतिट्टा-मण्डले स्थितम् अस्ति । अस्य नगरस्य संस्कृतिः, मन्दिराणि, उत्सवाः, तीर्थस्थलानि च केरळ-राज्ये प्रसिद्धानि सन्ति । अटूर्-नगरं तिरुवनन्तपुरम्-नगरात् 100 किलोमीटर्मितं, ऎरणाकुळम्-नगरात् 140 किलोमीटर्मितं च दूरे स्थितम् अस्ति । अस्य नगरस्य मन्दिराणि अतीव पुरातनानि सन्ति । तेषु मन्दिरेषु विभिन्नाः उत्सवाः अपि आचर्यन्ते । नगरेऽस्मिन् पार्थसारथि-मन्दिरं स्थितम् अस्ति । अस्मिन् मन्दिरे भगवतः कृष्णस्य प्रतिमा स्थिता अस्ति । मन्दिरमिदम् अस्य नगरस्य आकर्षणकेन्द्रम् अस्ति । पन्तळम्-महादेवमन्दिरं, पट्टूपुराक्कल-देवीमन्दिरं, पुतेनकविलभगवती-मन्दिरं, श्रीनारायणपुरम्-महाविष्णुमन्दिरं च अटूर्-नगरस्य प्रमुखाणि तीर्थस्थलानि सन्ति । बहवः श्रद्धालवाः दर्शनार्थं तत्र गच्छन्ति । तत्र “सेण्ट् जॉर्ज् ऑर्थोडॉक्स् चर्च्”, “सेण्ट् मेरिज् ऑर्थोडॉक्स् सीरियन् कैथेड्रल्” च इत्येते द्वे प्रमुखे ईसाई-धर्मस्य उपासनागृहे स्तः । अस्य नगरस्य जलवायुः उष्णकटिबन्धीयः भवति । अतः शीतर्तौ एव जनाः तत्र पर्यटनाय गच्छन्ति । अटूर्-नगरं केरळ-राज्यस्य प्रमुखनगरैः सह भूमार्गेण सम्बद्धम् अस्ति । अटूर्-नगरात् ऎरणाकुळम्-नगराय, तिरुवनन्तपुरम्-नगराय, कॊच्ची-नगराय च बसयानानि प्राप्यन्ते । कायमकुलम, पुनलूर, पत्तनंतिट्टा, कोट्टारक्करा, गुरुवायूर, चवर, कॊल्लम्, करुनागपल्ली च इत्यादीनि नगराणि अपि अटूर्-नगरेण सह सम्बद्धानि सन्ति । अटूर्-नगरात् 125 किलोमीटर्मिते दूरे ऎरणाकुळम्-नगरस्य रेलस्थानकं विद्यते । एनार्कुल-नगरे रेलयानस्य प्रमुखमुख्यालयः वर्तते । भारतदेशस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । ऎरणाकुळम्-नगरात् भाटकयानैः, बसयानैः च अटूर््-नगरं प्राप्यते । अटूर््-नगरात् कॊच्ची-नगरं 140 किलोमीटर्मिते दूरे स्थितम् अस्ति । कॊच्ची-नगरे अन्ताराष्ट्रियविमानस्थानकम् अस्ति । तद्विमानस्थानकं चेन्नै, बेङ्गळूरु, देहली, हैदराबाद च इत्यादिभिः भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । अनेन प्रकारेण अटूर्-नगरं गन्तुं बसयानानि, रेलयानानि, वायुयानानि च सरलतया प्राप्तुं शक्यन्ते । पत्तनंतिट्टा-मण्डलं केरळ-राज्यस्य दक्षिणभागे स्थितम् अस्ति । इदं केरळराज्यस्य लघुत्तमं मण्डलं विद्यते । ई. स. 1982 तमस्य वर्षस्य नवम्बर-मासस्य 1 दिनाङ्के इदं मण्डलं निर्मापितम् । यतः इदं क्षेत्रं प्रगतिशीलं वर्तते । पत्तनंतिट्टा-नगरं व्यावसायिकं नगरम् अपि अस्ति । नौकास्पर्धायै इदं मण्डलं प्रसिद्धम् अस्ति । अस्मिन् मण्डले बहूनि वीक्षणीयस्थलानि सन्ति । तत्र बहूनि धार्मिकस्थलानि सन्ति । अतः इदं “केरळ-राज्यस्य धार्मिकराजधानी” अपि कथ्यते । दक्षिणभारते जनाः अयप्पा-देवं पूजयन्ति । सबरीमाला-मन्दिरम् अयप्पा-देवस्य गृहं मन्यते । तत्स्थलम् अपि तत्रैव स्थितम् अस्ति । अतः लक्षाधिकाः जनाः तत्र प्रतिवर्षं दर्शनार्थं गच्छन्ति । अस्य मण्डलस्य कला, संस्कृतिः, परम्परा च विशिष्टा वर्तते । तत्र “कदमानित्ता-देवीमन्दिरं” स्थितम् अस्ति । अस्मिन् मन्दिरे दशदिनात्मकः नृत्योत्सवः आयोज्यते । पत्तनंतिट्टा-नगरे वास्तुविद्यागुरुकुलम् अपि विद्यते । एतद् गुरुकुलम् भारते प्रसिद्धम् अस्ति । वास्तुविद्यायाः, भित्तिचित्राणां च संरक्षणाय इदं गुरुकुलं प्रचलति । श्रीवल्लभमन्दिरं, मलङ्करा चर्च, कोडूमॉन् चिलन्थियम्बलम्, पलियक्कारा चर्च्, कवियूर-महादेवमन्दिरं च पत्तनंतिट्टा-नगरस्य वीक्षणीयस्थलानि सन्ति । अस्य नगरस्य जलवायुः उष्णकटिबन्धीयः वर्तते । अतः शीर्ततुः अस्य नगरस्य यात्रायै उत्तमा वर्तते । पत्तनंतिट्टा-नगरं राजकीयराजमार्गे स्थितम् अस्ति । अतः केरळ-राज्यस्य नगराणि पत्तनंतिट्टा-नगरेण सह सरलतया सम्बद्धानि सन्ति । केरळसर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । चेङ्गन्नूर-नगरे, थिरुवल्ला-नगरे च रेलस्थानकम् अस्ति । पत्तनंतिट्टा-नगरात् चेङ्गन्नूर-नगरं 26 किलिमीटर्मिते, थिरुवल्ला-नगरं 30 किलोमीटर्मिते च दूरे स्थितम् अस्ति । ते रेलस्थानके भारतस्य प्रमुखनगरैः सह सम्बद्धे स्तः । तिरूवनन्तपुरम्-नगरे अन्ताराष्ट्रियविमानस्थानकं विद्यते । पत्तनंतिट्टा-नगरात् तिरूवनन्तपुरम्-नगरं 113 किलोमीटर्मिते दूरे स्थितम् अस्ति । ततः भाटकवाहनैः, बसयानैः वा पत्तनंतिट्टा-नगरं गन्तुं शक्यते । कॊच्चीन-नगरस्य अन्ताराष्ट्रियविमानस्थानकम् अपि पत्तनंतिट्टा-नगरात् 142 किलोमीटर्मिते दूरे स्थितम् अस्ति । तृश्शूर्-नगरं केरळ-राज्यस्य सांस्कृतिकराजधानी कथ्यते । अस्य नगरस्य प्राकृतिकं सौन्दर्यं मनोहरम् अस्ति । अतः एव जनाः तत्र भ्रमणार्थं गच्छन्ति । “वडक्कुम्नाथन” अस्य नगरस्य इष्टदेवः अस्ति । “त्रिशिवापेरुर” इति अस्य पूर्णनाम अस्ति । त्रिशिवापेरुर- इत्यस्य अर्थः भवति यत् – “भगवच्छिवनामकं नगरं” इति । तत्र “द बाईबल् टॉवर्”, “केरळकलामण्डलम्”, “चावक्कड-समुद्रतटं” च इत्येतानि अस्य नगरस्य पर्यटनस्थलानि सन्ति । अस्मिन् नगरे पुर्तगाली-जनानां, डच्-जनानां, आङ्ग्लजनानां शासनम् आसीत् । अतः नगरमिदम् ऐतिहासिकम् अपि अस्ति । प्राकृतिकदृष्ट्या, सांस्कृतिकदृष्ट्या च इदं नगरं प्रसिद्धम् अस्ति । अक्टूबर-मासतः फरवरी-मासपर्यन्तम् अस्य नगरस्य भ्रमणाय उत्तमकालः भवति । शीतर्तौ जनाः तत्र भ्रमणार्थं गच्छन्ति । तृश्शूर्-नगरं राष्ट्रियराजमार्गे स्थितम् अस्ति । अतः कॊच्ची, कोझीकोड, चेन्नै, बेङ्गळूरु, कोयम्बटूर, मदुरै, पोल्लची च इत्यादिभिः नगरैः सह सम्बद्धम् अस्ति । केरळ-राज्यस्य प्रमुखनगरेभ्यः तृश्शूर्-नगराय बसयानानि प्राप्यन्ते । तृश्शूर्-नगरे रेलस्थानकम् अस्ति । अतः मुम्बई, देहली, कोलकाता, मेङ्गलौर, चेन्नै, हैदराबाद च इत्यादिभिः प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । नगरेऽस्मिन् विमानस्थानकं नास्ति । किन्तु कॊच्ची-नगरे निकटतमं विमानस्थानकम् अस्ति । कॊच्ची-नगरं तृश्शूर्-नगरात् 58 किलोमीटर्मिते दूरे स्थितमस्ति । कॊच्ची-नगरात् भारतस्य विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । कोडुङ्गल्लुर-नगरं केरळराज्यस्य तृश्शूर्-मण्डलस्य लघुनगरं वर्तते । नगरमिदं मालाबार-समुद्रतटे स्थितम् अस्ति । अस्मिन् नगरे भगवतीदेवीमन्दिरम् अस्ति । नगरमिदम् ऐतिहासिकम् अपि अस्ति । सप्तमशताब्द्यां चेरमन-राज्ञां राजधानी आसीत् इदं नगरम् । इदं नगरं समुद्रस्य समीपम् अस्ति । अतः हिन्दमहासागरस्य व्यापारिकं केन्द्रम् अपि अस्ति । “पुरा अस्य नगरस्य सीरिया-देशेन, मिस्र-देशेन च सह व्यापारिकसम्बन्धः आसीत्” इति इतिहासकाराः कथयन्ति । प्राचीनकालादेव इदं नगरम् उपस्कराणां निर्यातकत्वेन विराजते । अस्मात् नगरात् मुख्यतः श्यामवल्ल्यः निर्यातं भवति स्म । श्यामवल्ली “यवनप्रिया” इति नाम्ना ज्ञायते स्म । तत्र एकः प्राचीनः पोताश्रयः अपि स्थितः अस्ति । तत्र “चेरमन जुमा मस्जिद्” अस्ति । तदुपासनागृहम् ई. स. 629 तमे वर्षे निर्मापितम् आसीत् । तत् उपासनागृहं भारतस्य प्रथमं मुस्लिम-पूजास्थलं मन्यते । अस्मिन् नगरे समुद्रतटम् अस्ति । अतः यात्रिकाः समुद्रक्रीडां कर्तुं तत्र गच्छन्ति । अस्य नगरस्य प्राकृतिकं सौन्दयम् अपि मनोहरं भवति । नगरेऽस्मिन् कुरुम्बादेवीमन्दिरम् अस्ति । अस्मिन् मन्दिरे भद्रकालीदेव्याः प्रतिमा स्थापिता अस्ति । इदं मन्दिरम् अस्य नगरस्य प्रमुखतीर्थस्थलम् अस्ति । कीज्हथालीमहादेवमन्दिरं, कूदाल्मानिक्यममन्दिरं, मार् थोमा, तिरुवञ्चिक्कुलममहादेवमन्दिरं, त्रिपायरश्रीराममन्दिरं च अस्य नगरस्य वीक्षणीयस्थलानि सन्ति । कोडुङ्गल्लुर-नगरस्य जलवायुः उष्णकटिबन्धीयः भवति । अतः वातावरणं प्रायः उष्णं भवति । किन्तु नगरमिदं समुद्रतटे स्थितम् अस्ति अतः जलवायुः अनुकूलः भवति । कोडुङ्गुल्लुर-नगरात् कॊच्ची-नगरं 35 किलोमीटर्मिते, तृश्शूर्-नगरं 38 किलोमीटर्मिते, गुरुवायूर-नगरं 45 किल्ल्लोमीटर्मिते च दूरे स्थितम् अस्ति । अतः तेभ्यः नगरेभ्यः कोडुङ्गुल्लुर-नगराय बसयानानि प्राप्यन्ते । कोडुङ्गुल्लुर-नगरात् इरिगालाकुदा-नगरं 16 किलोमीटर्मिते दूरे अस्ति । अस्मिन् नगरे निकटतमं रेलस्थानकम् अस्ति । ततः केरळ-राज्यस्य विभिन्ननगरेभ्यः नियमितत्वेन रेलयानानि प्राप्यन्ते । कॊच्ची-नगरे कोडुङ्गुल्लुर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । कॊच्ची-नगरं कोडुङ्गुल्लुर-नगरात् 35 किलोमीटर्मिते दूरे स्थितम् अस्ति । कॊच्ची-विमानस्थानकात् चेन्नै, मुम्बई, बेङ्गळूरु, देहली, हैदराबाद इत्यादिभ्यः नगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । सुल्तानबत्तेरी-नगरं केरळराज्यस्य वयनाट्-मण्डले स्थितम् अस्ति । इदम् ऐतिहासिकं स्थलम् अस्ति । केरळ-कर्णाटकराज्ययोः सीमायां स्थितम् अस्ति इदं नगरम् । मैसूर-राज्यस्य राज्ञा टीपू सुल्तान् इत्याख्येन तत्र आक्रमणं कृतम् आसीत् । अतः एव अस्य नाम “सुल्तान बत्तेरी” इति अभवत् । तेन अस्मिन् नगरे एकः भव्यः दुर्गः निर्मापितः आसीत् । किन्तु साम्प्रतं सः दुर्गः न उपलभ्यते । अस्मिन् नगरे पर्वतीयक्षेत्रम् अपि अस्ति । तत् पर्वतीयक्षेत्रं पर्यटनाय उत्तमम् अस्ति । वयनाट्-मण्डलस्य वाणिज्यकेन्द्रत्वेन इदं नगरं प्रसिद्धम् अस्ति । तत्र जनाः पर्यतनमाध्यमेन, कृषिमाध्यमाध्मेन च जीवनं यापयन्ति । एडक्कल-गुहाः, वयनाट्वन्यजीवाभयारण्यं च सुल्तानबत्तेरी-नगरस्य समीपस्थे वीक्षणीयस्थले स्तः । मैसूर, बेङ्गळूरु, कालीकट इत्यादिभ्यः नगरेभ्यः “सुल्तान बत्तेरि” नगराय बसयानानि प्राप्यन्ते । नगरमिदं राज्यसीमायां स्थितम् अस्ति । अतः कर्णाटकराज्यस्य, केरळराज्यस्य च बसयानानि प्राप्यन्ते । अस्मात् नगरात् कोझीकोड-नगरं 110 किलोमीटर्मिते दूरे स्थितम् अस्ति । तस्मिन् नगरे एकं रेलस्थानकम् अस्ति । कोझीकोड-नगरात् बसयानैः, भाटकयानैः च सुल्तानबत्तेरि-नगरं गन्तुं शक्यते । कालीकट-नगरस्य अन्ताराष्ट्रियविमानस्थानकम् अस्य नगरस्य समीपस्थं विमानस्थानकम् अस्ति । अस्मात् नगरात् कालीकट-नगरम् 100 किलोमीटर्मिते दूरे अस्ति । कालीकट-विमानस्थानकात् भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । केरळतमिळनाडुराज्ययोः सीमायां स्थितम् अस्ति पुनलूर्-नगरम् । नगरे प्राकृतिकं सौन्दर्यं प्राप्यते । कल्लादा-नद्याः तटे स्थितम् अस्ति इदं नगरम् । पुनलूर्-नगरे कर्गजयन्त्रागारम् अपि अस्ति । पुनलूर् इति नाम शब्दद्वयेन निर्मितम् अस्ति । पुनल, ऊरु च । पुनलूर् अर्थात् “जलनगरम्” इति । नगरमिदं दक्षिणभारतस्य बृहत्तमेषु नगरेषु पञ्चमम् अस्ति । पुनलूर्-नगरे कृष्णवल्याः, काष्ठस्य च व्यापारः भवति । एकोनविंशतिशताब्द्याम् आङ्ग्लैः एकः सेतुः निर्मापितः आसीत् । सः सेतुः साम्प्रतं राष्ट्रियस्मारकत्वेन उद्घोषितः अस्ति । वर्तमाने अस्य सेतोः उपयोगः न क्रियते । कल्लादा-नद्याः समीपे बहूनि पर्यटनस्थलानि सन्ति । जनाः आनन्दं प्राप्तुं तत्र गच्छन्ति । शेन्थुनी-वनम् अस्य नगरस्य आकषणकेन्द्रम् अस्ति । पलरुवी-जलप्रपातः, कुट्रालम-जलप्रपातः, पट्टजीदेवीमन्दिरं च अस्य नगरस्य समीपस्थानि स्थलानि सन्ति । पुनलूर्-नगरं केरळ-राज्यस्य राजकीयराजमार्गे स्थितम् अस्ति । अयं राजमार्गः पुनलूर्-नगरं केरळ-राज्यस्य अन्यनगरैः सह सञ्योजयति । पुनलूर्-नगरे एकं रेलस्थानकम् अस्ति । किन्तु अस्मिन् रेलस्थानके अल्पमात्रायां रेलयानानि प्राप्यन्ते । पुनलूर्-नगरात् तिरुवनन्तपुरम्-नगरं 75 किलोमीटर्मिते दूरे स्थितम् अस्ति । तिरुवनन्तपुरम्-नगरे अन्ताराष्ट्रियविमानस्थानकम् अस्ति । तद्विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । ततः देहली, मुम्बई, कोलकाता, चेन्नै इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । पीरुमेट्-स्थलं केरळ-राज्यस्य श्रेष्ठतमेषु पर्वतीयक्षेत्रेषु अन्यतमम् अस्ति । कोट्टयम्-नगरात् 85 किलोमीटर्मितं पूर्वदिशि स्थितम् अस्ति इदं स्थलम् । पर्वतारोहणाय इदं स्थलम् अत्यधिकं प्रसिद्धम् अस्ति । अस्मिन् नगरे बहूनि उद्यनानि सन्ति । तत्र पुरा “पीर मोहम्मद” इत्याख्यः मुस्लिमसन्तः अभवत् । तस्यैव नाम्ना अस्य नगर नामकरणम् अभवत् । ट्रावनकोर-क्षेत्रस्य राजकुलेन सह तस्य घनिष्ठसम्बन्धः आसीत् । इदं स्थलं समुद्रतलात् 915 मीटर्मितम् उन्नतम् अस्ति । “पेरियार टाईगर् रिजर्व”, जलप्रपाताः च अस्य नगरस्य समीपस्थानि आकर्षणस्य केन्द्राणि सन्ति । अस्य नगरस्य वातावरणम् सदैव शीतलं भवति । यतः स्थलमिदम् औन्नत्ये स्थितम् अस्ति । तत्र उद्यानेषु चायस्य, काफीपेयस्य, एलायाः च कृषिः भवति । सर्वत्र हरितवर्णीयानि क्षेत्राणि दृश्यते । तद्दृश्यम् अपि मनोहरं भवति । पीरुमेट्-नगरात् समीपस्थेभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । कॊच्ची, थेक्कडी, कुमिली इत्यादिभिः नगरैः सह इदं नगरं सम्बद्धम् अस्ति । कोट्टयम्-नगरस्य रेलस्थानकं पीरुमेट्-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । कोट्टयम्-रेलस्थानकात् चेन्नै, बेङ्गळूरु, हैदराबाद, देहली, मुम्बई च इत्यादिभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । पीरुमेट्-नगरस्य समीपे कॊच्ची-नगरे विमानस्थानकम् अस्ति । तद्विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । कॊच्ची-नगरात् पीरुमेट्-नगराय नियमितरूपेण बसयानानि प्राप्यन्ते । जनाः सरलतया पीरुमेट्-नगरं प्राप्तुं शक्नुवन्ति । केरळ-राज्यस्य मार्गाः 1,45,704 किलोमीटर्मिताः दीर्घाः सन्ति । राष्ट्रियराजमार्गाः 1,524 किलोमीटर्मितं दीर्घाः सन्ति । राजकीजराजामार्गाः 4341 किलोमीटर्मिताः दीर्घाः सन्ति । केरळ-सर्वकारेण जनसेवायै बसयानानि प्रचालितानि सन्ति । सम्पूर्णे केरळ-प्रदेशे बसयानानि प्रचलन्ति । तेन जनाः सरलतया एकस्मात् स्थानात् अन्यत्र गन्तुं शक्नुवन्ति । केरळ-राज्ये बहूनि महानगराणि सन्ति । तिरुवनन्तरपुरं, पालक्काट्, ऎरणाकुळम्, कन्नूर, तृश्शूर्, अलप्पुझा, पुनलूर्, कोट्टयम् एतेषु नगरेषु प्रमुखाणि रेलस्थानकानि सन्ति । तेभ्यः नगरेभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । रेलस्थानकेभ्यः केरळ-राज्यस्य पर्यटनस्थलानि गन्तुं भाटकयानानि, बसयानानि च प्राप्यन्ते । केरळ-राज्यस्य बहुषु लघुनगरेषु ग्रामेषु अपि रेलस्थानकानि सन्ति । केरळ-राज्ये चत्वारि अन्ताराष्ट्रियविमानस्थानकानि सन्ति । त्रिवेन्द्रम-नगरे, कॊच्ची-महानगरे, कालीकट-नगरे च पुरातनानि अन्ताराष्ट्रियविमानस्थानकानि सन्ति । कन्नूर-नगरे अपि अपरम् अन्ताराष्ट्रियविमानस्थानकं निर्मापितम् अस्ति । एतद्विमानस्थानकं केरळ-राज्यस्य बृहत्तमं विमानस्थानकम् अस्ति । इतः परं राजकीयविमानस्थानकानि अपि सन्ति । एतानि विमानस्थानकानि भारतस्य प्रमुखनगरैः, विभिन्नदेशैः च सह सम्बद्धानि सन्ति । तेभ्यः विमानस्थानकेभ्यः केरळ-राज्यस्य प्रमुखनगरेभ्यः बसयानानि, भाटकयानानि च प्राप्यन्ते ।
{ "source": "wikipedia" }
एतत् काफीसस्यं भारते अपि वर्धमानः कश्चन सस्यविशेषः । इदं काफीसस्यम् आङ्ग्लभाषायां इति उच्यते । एतत् काफीसस्यं द्विविधं भवति । अराबिकं तथा रोबस्टं चेति । अराबिकवंशस्य काफीसस्यस्य वर्धनं प्रथमम् इतियोपिया मध्ये कृतम् । तथैव रोबस्टवंशस्य वर्धनम् अद्यतन-उगाण्डदेशे कृतम् । रोबस्टवंशस्य काफीबीजानि अत्यधिकप्रमाणेन "केफीन्"-अंशयुक्तानि भवन्ति । एतेषां रोबस्टवंशस्य काफीबीजानां भर्जनावसरे कश्चन विभिन्नः गन्धः अपि उत्पद्यते । अराबिकवंशस्य काफीबीजानि एव प्रसिद्धानि जनप्रियाणि च । एतत् काफीसस्यं गुल्मरूपेण वर्धते । अस्य काफीसस्यस्य फलनाम् अन्तः विद्यमानैः बीजैः एव काफीचूर्णं निर्मीयते । ततः तेन काफीचूर्णेन काफीपेयं निर्मीयते । तत् पेयं सर्वदा उष्णं कदाचित् शीतलं चापि पीयते । अनेन काफीचूर्णेन निर्मीयमाणं काफीपेयं जगति एव अत्यन्तं जनप्रियं पेयम् अस्ति । अनेन काफीचूर्णेन 2003 तमे वर्षे निर्यातवस्तुषू विश्वे एव षष्ठं स्थानं प्राप्तम् अस्ति । आरम्भस्य पञ्चस्थानानि क्रमशः गोधूमेन, रागीधान्येन, सोयाधान्येन, तालतैलेन, शर्करया च प्राप्तम् अस्ति । बह्वीषु संस्कृतिषु अनेन काफीपेयेन प्रमुखं स्थानं प्राप्तम् अस्ति । दक्षिणभारते तु गृहम् आगतेभ्यः अतिथिभ्यः काफीदानम् अतिथिसंस्कारस्य अङ्गभूतम् । कुत्रचित् काफीपेयं निषिद्धम् अपि आसीत् । 16 शतके मेक्का सदृशेषु देशेषु एतत् काफीपेयम् उत्तेजनकारकम् इति निषिद्धम् आसीत् । 17 शतके इङ्ग्लेण्ड्देशे काफीपेयं राजकीयविद्रोहिभिः केवलम् उपयुज्यते इति निषिद्धम् आसीत् ।
{ "source": "wikipedia" }
प्रायशः प्रत्येकं दर्शने जीवस्य ईश्वरस्य जगतः चिन्तनं विद्यते।तथापि सर्वेषां दर्शनानाम् एतेषु विषयेषु ऐकमत्यं नास्ति। 1 ईश्वरः अस्ति न वा?2 यदि अस्ति तर्हि तस्य स्वरूपं किम्?3 तस्य गुणकर्माणि कानि?4 तस्य जीवेन सह सम्बन्धः कीदृशः?इति एतान् चतुरः प्रश्नान् उद्दिश्य दर्शनानां मतानि भिद्यन्ते। ते ईश्वरविषयकाः मतभेदाः इमे - नास्तिकमिदं दर्शनम्।अत्र कश्चिद् विश्वस्य निर्माता, पालकः, सर्वज्ञः, सर्वशक्तिमान्, कर्मफलदाता ईश्वरः नाङ्गीक्रियते।यतो हि तादृशः ईश्वरः प्रत्यक्षप्रमाणेन न सिद्ध्यति।प्रत्यक्षातिरिक्तं प्रमाणं चार्वाकाः न मन्यन्ते। लोकसिद्धः राजा एव ईश्वरः इति अस्मिन् मते मन्यते।स एव दण्ड्यान् दण्डयति, गुणिनः सत्करोति।एवं फलदातृत्वम् अस्योपपद्यते।न स सर्वज्ञो न च नित्यः।एवं लोकसिद्धादीश्वराद् भिन्नः न कोऽपीश्वरोऽस्मिन् मते स्वीक्रीयते।यतः प्रत्येकं देशे राजा भिन्नः अतः तस्य गुणकर्मणां निश्चयः नास्ति।राजा मनुष्यविशेषः एव। अतः तस्य स्वरूपं मनुष्याद् न भिद्यते।अन्येषां जीवानां राजा नियामकः।अतः तैः सह नियम्यनियामकभावसमबन्धः अस्य अस्ति। जैनाः अपि नास्तिकाः।तीर्थङ्करेभ्योऽन्यं कञ्चिदीश्वरं ते न मन्यन्ते।यस्मात्तीर्थङ्कर एव जैनानामीश्वरः, तस्य गुणकर्माणि एव ईश्वरस्य गुणकर्माणि।एतेषां मते जगन्निर्माणं नेश्वरकार्यम्।जगत् स्वभावत एव जायते। तीर्थङ्कराः केवलज्ञानिनः।मिथ्याज्ञानस्य तेषु अभावः।तीर्थङ्करः उपदेष्टा अन्येषां जीवानाम्।अतः अन्यजीवैः सह तस्य उपदेश्योपदेशकभावसम्बन्धः।तीर्थङ्करः रोगमुक्तो, भयमुकतः शान्तियुतश्च। बौद्धाः अपि नास्तिकाः।बुद्धः एवास्मिन्मते ईश्वरः।सः तु एक एव आजन्म शान्तियुतः।सः उपदेष्टा जीवानाम्।अतः जीवबुद्धयोः उपदेश्योपदेशकभावसम्बन्धः। जीवानां नियन्ता, जीवान्तर्यामी, जीवातिरिक्तः ईश्वरः अस्ति।जीववर्गः जडवर्गः च तस्य शरीरम्।अयं जीवकर्मफलदाता ईश्वरः ज्ञानस्वरूपःच ज्ञानगुणस्य आश्रयः च।जीवः स्वशरीरस्य नियन्त्रणे परतन्त्रः,परम् ईश्वरः जीवनियन्त्रणे स्वतन्त्रः, परिपूर्णशक्तिकत्वात्। यथा शरीरान्तर्गतः जीवः यथाकथञ्चित् शरीरं नियमयति, तथा जीवान्तर्गतः ईश्वरः जीवान् नियमयति, स्वातन्त्र्येण।यदृच्छया जीवान् नियमयितुं शक्तः ईश्वरः, तथापि सः जीवकृतकर्मानुसारम् एव तान् नियमयति। ’ बहु स्याम् ’ इति सङ्कल्परूपेण ईश्वरः जगतः निमित्तकारणम्।चिदचिद्विशिष्टः ईश्वरः जगतः उपादानकारणम्।ज्ञानशक्त्यादि-विशिष्टः ईश्वरः जगतः सहकारिकारणम्।अनन्तकल्याणगुणाश्रयः ईश्वरः चिदचिद्विशिष्टः।स तु जीवान्तर्यामी।जीवः परतन्त्रः ईशः स्वतन्त्रः।ईशः स्वशरीरं चिद्रूपं स्वदेहं नियमयति तथा अचिद्रूपं देहमपि नियमयति।मुक्तौ अपि जीवस्य विशिष्टमद्वैतं विद्यते ईश्वरेण सह, न तु केवलाद्वैतम्। सर्वकल्याणगुणानां निधानं विष्णुरेवेश्वरः।स तु जीवात् सदैव भिन्नः, जगतोऽपि भिन्नः।मुक्तौ अपि जीवेशयोः भेदः विद्यते एव।मुक्तौ अपि जीवो दासः, ईश्वरः स्वामी।ईश्वरः स्वशक्त्या जगन्निर्माति, संहरति च।जीवानां कर्मसापेक्षमेव सः फलं ददाति।ये जीवाः ईश्वरेण सह साम्यम् ऐक्यं वा काङ्क्षन्ते, तान् सः दण्डयते।ये तु सदा तस्य सेवायां रताः, तान् सोऽनुगृह्णाति।अपरोक्षज्ञानेन ईश्वरभक्तेः लाभः।ईश्वरभक्त्या तस्यानुग्रहो जायते।अनुग्रहान्मोक्षप्राप्तिः।मोक्षे सति जीवः सदा ईश्वरसन्निधौ तस्य सेवायां मग्नः सन् दुःखामिश्रितं निरतिशयमानन्दम् अनुभवति। एतदपि निरीश्वरमतम्।अत्र तु पुरुषः चेतनः साक्षी च।स अभोक्ता अकर्ता च।न स स्वातन्त्र्येण जगन्निर्माति, न वा फलं ददाति, न वा जीवान्नियमयति। पुरुषः न जगतः उपादानकारणं भवितुमर्हति, त्रिगुणराहित्यात्।पुरुषः न जगतः निमित्तकारणं भवितुं योग्यः, प्रयोजनाभावात्। अतः जगन्निर्माणं प्रकृतेरेव कार्यम्। परं सा जडा।अतो न पुरुषो न वा प्रकृतिः ईश्वरसंज्ञाम् अर्हति।साङ्ख्यानामेकदेशीयाः सेश्वराः।तेषां मते यद्यपि ईश्वरः जगन्निर्माणार्थं नावश्यकः तथापि जगन्निर्मातुं प्रकृतेः प्रवर्तकरूपेण आवश्यकः। अस्मिन् मते ईश्वरस्य अङ्गीकारः अस्ति। ईश्वरलक्षणं योगसूत्रे एवं कृतम् –क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः।सः सर्वज्ञः।प्रलये अपि सर्वज्ञत्वस्य बीजं तस्मिन् विद्यते।सः कालेन अवच्छिन्नः नास्ति अतः भूते, वर्तमाने, भविष्यति अपि सः सर्वेषां गुरुः।प्रणवः इति तस्य वाचकः।प्रणवस्य अर्थस्य निरन्तरं भावनां यः करोति सः प्रत्यक्चेतनारूपं मोक्षम् अधिगच्छति। अस्मिन् मते कर्म स्वतः एव फलदाने समर्थम्।तदर्थं कश्चिदीश्वरो नावश्यकः। वेदाः अपि नेश्वरोक्ताः, अपि तु स्वयंसिद्धाः एव।ईश्वरकल्पना मीमांसकैः प्रत्युक्ता । अत्र ईश्वरोऽङ्गीकृतः।स तु एकः एव, नित्यो विभुश्च।स जीवाद्भिन्नः।मुक्तावपि तयोरभेदो न सम्भवति।वेदाः ईश्वरस्य भाषितम्, अतः प्रमाणम्।स एव कर्मफलदाता।‘सृष्य्गङ्कुरादिकं कर्तृजन्यं, कार्यत्वात् ‘ इति अनेन अनुमानेन नैयायिकाः ईश्वरं साधयन्ति।ईश्वरेच्छा जगन्निर्माणे निमित्तकारणम्।तस्य इच्छया एव परमाणुषु संयोगः भवति।ततः द्य्ःणुकादिक्रमेण जगदुत्पद्यते।तस्य इच्छया एव पुनः द्य्कणुकादीनां नाशात् जगतो विनाशः भवति। यतो ह वेमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्र्ेयन्य्िभिसंविशन्ति तद्विजिज्ञासस्व, तद् ब्रह्म इति। एषा श्रुतिः ईश्वरस्य सत्तां प्रतिपादयति। व्यवहारदशायां कर्मफलदाता ईश्वरः।तदा मायोपाधिकं चैतन्यम् इति तस्य स्वरूपम्।माया शुद्धसत्व्शगुणस्वरूपा।तां वशीकृत्य सः जगन्निर्माति।स जगतोऽभिन्ननिमित्तोपादानकारणम्।जीवेशभेदस्तु उपाधिकृतः।तत्व्नतस्तु तयोरभेद एव।ईश्वरः कर्मापेक्षमेव फलं ददाति अतः वैषम्यनैर्घृण्यदोषाभ्यां स मुक्तः।
{ "source": "wikipedia" }
पेज़रो इटली देशस्य एकः नगरं अस्ति । इटली यूरोप दक्षिणे एक: प्राचीन क्षेत्र अस्‍ति ।
{ "source": "wikipedia" }
भारतीयकाफीमण्डली एषा मण्डली स्वायत्ता संस्था अस्ति । वाणिज्यमन्त्रालयस्य तथा उद्योगमन्त्रालयस्य अधीने कार्यं करोति । एषा मण्डली मित्रं, मार्गदर्शकः, उपदेशकः इव कार्यं निर्वहति । संसदः अधिनियमानुगुणम् एषा 1942 तमे वर्षे स्थापिता । एतस्याः मुख्यं कार्यम् अभिवृद्धिः, संशोधनं, गुणवत्तावर्धनं, विपणिवार्ता, देशे विदेशेष्वपि भारतीयकाफीपेयस्य प्रचारः, प्रसारः च । 1995 पूर्वं पूर्णतया अस्य अधीने एव सर्वं कार्यं प्रचलति स्म। काफीमण्डली मूलभूतसंशोधनकार्यं सद्यः काले किम् आवश्यकम् इति मत्वा तदनुगुणं कार्यं करोति । एतस्याः मुख्यालयः कर्णाटकस्य चिक्कमगळूरुमण्डले अस्ति । एषा विश्वे एव उत्तमा संस्था इति ख्याता अस्ति ।एषा संस्था अनेकाः संस्थापत्रिकाः, संशोधनपत्रिकाः च प्रकटयति । काफीबीजोत्पादकाः ये कृषकाः सन्ति तेभ्यः विदेशे ये विक्रयणं कुर्वन्ति तेभ्यः च अनेकविधसाहाय्यमाचरति ।
{ "source": "wikipedia" }
वारेसे इटली देशस्य एकः नगरं अस्ति । इटली यूरोप दक्षिणे एक: प्राचीन क्षेत्र अस्‍ति ।
{ "source": "wikipedia" }
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य द्विषष्टितमः श्लोकः । तम् एव शरणं गच्छ सर्वभावेन भारत तत् प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ भारत ! सर्वभावेन तम् एव शरणं गच्छ । तत्प्रसादात् परां शान्तिं शाश्वतं स्थानं प्राप्स्यसि । अर्जुन ! तस्मात् त्वं सर्वात्मना तमेव ईश्वरं शरणं गच्छ, यस्यानुग्रहात् परमां शान्तिं प्राप्नुवन् शाश्वतं स्थानम् अवाप्स्यसि ।
{ "source": "wikipedia" }
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य सप्तमः श्लोकः । इह एकस्थं जगत् कृत्स्नं पश्य अद्य सचराचरम् मम देहे गुडाकेश यत् च अन्यत् द्रष्टुम् इच्छसि ॥ 7 ॥ गुडाकेश ! अद्य एकस्थं सचराचरं कृत्स्नं जगत् अन्यत् च यत् द्रष्टुम् इच्छसि इह मम देहे पश्य । गुडाकेश ! इदानीम् एकत्रैव वर्तमानं स्थावरजमात्मकं समग्रमपि भुवनं पश्य । अन्यदपि यत् यत् द्रष्टुमिच्छसि तत्सर्वं ममास्मिन् शरीरे पश्य ।
{ "source": "wikipedia" }
एवरेस्ट् शिखरम् इत्येतत् विश्वस्य सर्वोन्नतः पर्वतः अस्ति । अयं नेपाल-देशे स्थितः अस्ति ।
{ "source": "wikipedia" }
मौक्तिकदाम। प्रतिचरणम् अक्षरसङ्ख्या 12 जजाविह मौक्तिकदाम जजौ च। केदारभट्टकृत- वृत्तरत्नाकर:3. 60 ।ऽ। ।ऽ। ।ऽ। ।ऽ। ज ज ज ज। यति: पादान्ते। उदाहरणम् - सशक्तमधर्ममतं विकलं च, यदार्जुन धर्ममतं स्वयमेव। सृजामि तदाहमसाधुवधाय, सतामवनाय युगानुयुगं च॥
{ "source": "wikipedia" }
बौद्धधर्मः भगवता बुद्धेन बौद्धदर्शनं प्रवर्तितम्। भारतीयशास्त्राधारेषु बौद्धदर्शनस्य प्रभावः विशेषतः दृश्यते। बौद्धमूलग्रन्थाः भारते लुप्तप्रायाः सन्ति। विदेशीयपण्डितानां संशोधनस्य फलतः इदानीं केचन् ग्रन्थाः दृश्यन्ते। भगवतः बुद्धस्य अनन्तरं बौद्धेषु बह्व्य: शाखाः उत्पन्नाः। ताश्च चतस्रः प्राधान्येन - वैभाषिकाः, सौत्रान्तिका:, योगाचाराः, माध्यमिकाः चेति। वैभाषिकाणां हीनयानसम्प्रदायः। अन्येषां त्रयाणां महायानसम्प्रदायः। बौध्दानां 'शून्यवादः' प्रसिध्दः।'यत्र किमपि नास्ति तत्' इति अत्र शून्यपदस्य अर्थः न। बौध्ददर्शने शून्यपदस्य दार्शनिकः विशालः अर्थः अस्ति। बौध्दमतस्य धार्मिकाः बहवः अंशाः 'त्रिपिटके निरूपिताः सन्ति। अस्य दर्शनस्य आद्यप्रवर्तकः श्रीबुद्धः अस्ति । शुद्धोदनस्य मायादेव्याः च सुतः गौतमगोत्रजः क्षत्रियः सिद्धार्थः एव पश्चात् बोधोदयात् बुद्धः इति प्रथितः अभवत् । बौद्धदर्शनस्य परमसिद्धान्तः ‘दु:ख्स्य मूलम् आशा’ इत्यस्ति । माध्यमिक-योगाचार -सौत्रान्तिक-वैभाषिकभेदात् चतुर्धा विभज्यते । प्रपञ्चम् अधिकृत्य तेषां दृष्टिः एवं श्रूयते- बौद्धदर्शनप्रचारणं पालिभाषायाम् आसीत् । संस्कृतावगणना एव बुद्धमतनाशकारणेषु अन्यतमा इति विवेकानन्दादयः कथितवन्तः इति अत्र स्मर्तव्यम् । प्रत्यक्षम् अनुमानम् इति द्वे प्रमाणे बौद्धाः अङ्गीकुर्वन्ति ॥बौद्धदर्शनम् ऐतिहासिककालक्रमेण जैनदर्शनस्य परवर्त्ती अस्ति । अस्येदं कारणं वक्तुं शक्यते,यत् महावीरपर्यन्तं जैनतीर्थङ्कराणाम् अन्येषां दार्शनिकानां च साहित्ये कुत्रापि बौद्धदर्शनस्य उल्लेखो नास्ति,किन्तु महावीरस्य सिद्धान्ता बौद्धनिकायेषु उपलभ्यन्ते । अनेन सिद्ध्यति यत् बौद्धधर्मो जैनधर्मापेक्षया परवर्त्ती अस्ति । इदम् ऐतिहासिकं सत्यम् अस्ति ।बौद्धदर्शनस्य प्रवर्तको भगवान् बुद्ध आसीत् । इयमपि ऐतिहासिकी घटनाऽस्ति । बुद्धस्य पूर्वनाम् सिद्धार्थ इत्यासीत् । अस्य जन्म ई.पू.226 इत्यवर्तत । अस्य पिता शक्यवंशीयो नृपः शुद्धोदन आसीत् । अस्य माता मायादेवी अस्य जन्मनः एकसप्ताहनन्तरमेव दिवङ्गताऽभवत् । अस्य जन्मसमये कपिलवस्तुनो राजज्योतिर्विद्भिः भविष्यवाणी कृता,यदमुष्य महाभिनिष्क्रमणं भविता,धर्मप्रवर्तकश्चायं भवेत् इति ।तदनुसारमेव सिद्धार्थः एकोनविंशतिवर्षीयायां वयसि स्वपत्नीपुत्रौ परित्यज्य सांसारिकदुःखानाम् आत्यन्तिकविनाशाय उपायान्वेषणप्रयोजनात् राजभवनमपि त्यक्तवान् । सः चिरशान्तिलाभाय ज्ञानार्जनाय च गहनं वनं प्रविष्टवान् । ज्ञानान्वेषणप्रयत्ने सर्वप्रथमं सः सांख्यतत्त्वविदः अराडकलामस्य शिष्यत्वे सत्यानुसन्धानं कृतवान्,किन्तु असन्तुष्टे सति विविधस्थानेषु ज्ञानोपदेशानां श्रवणानन्तरम् उरुवेलायां कठोरं तपः कृत्वा आर्यसत्य- चतुष्टयं विज्ञातवान् । तस्मात्तस्य निखिलं कल्मषं विनष्टं बुद्धत्वञ्च सम्प्राप्तम् ।तदनन्तरं सर्वप्रथमं सः सारनाथे कौण्डिन्यादीन् पञ्चशिष्यान् उपदिश्य धर्मचक्रं प्रवर्तितवान् । जनकल्याणाय तस्योपदेशानां भाषा मागधी आसीत् । धर्मोपदेशं कुर्वाणस्य तस्य अशीतिवर्षीयं दीर्घजीवनं वैशाखमासस्य पूर्णिमायाः पर्याप्तं महत्वं स्वीक्रियते यतो हि एषा तिथिः बुद्धस्य जन्मनिर्वाणयोः तिथिरस्ति । वेदानां श्रुतपरम्परेव बौद्धधर्मस्यापि ज्ञानोपदेशाय श्रुतपरम्परा प्रचलिता आसीत् । अन्ततः अस्य ज्ञानस्य संरक्षणाय राजगृहे महाकाश्यपस्य अध्यक्षतायामेका बौद्धसंगीतिरायोजिता । तत्र बुद्धशिष्येण आनन्देन सुत्तपिटक-विनयपिटकयोः संग्रहो विहितः । सुत्तपिटकस्यैव कतिपयांशानां विस्तरेण कालान्तरे अभिधम्मपिटकस्य रचना संजाता ।सुत्तपिटके पञ्च निकायाः सन्ति-दीर्घनिकायः, मज्झिमनिकायः, संयुक्तनिकायः, अङ्गुत्तरनिकायः, खुद्दकनिकायश्चेति । एषां धम्मपदानि जातकाश्च सुप्रसिद्धा वर्तन्ते । धम्मपदेषु बुद्धस्योपदेशानां संग्रहो विद्यते । बुद्धस्य पूर्वजन्मानां कथा जातकेषु गृहीताः सन्ति । ग्रन्थान्तरेषु खुद्दकपाठ-उदान-इतिवृत्तक-सुत्तानिपात-विमानवत्थु-पेतवेत्थु-थेरगाथा-थेरीगाथा-निद्देस,परिसम्मिदा-मग्ग-अवदान-बु0द्धवंश-चरियापिटकादयः प्रमुखाः सन्ति ।विनयपिटकस्य त्रयो भागाः सन्ति-सुत्तविभङ्गोऽथवा पातिमोक्खः,भिक्खुपातिमोक्खः,महावग्ग-चूलवग्गादयश्चेति । अभिधम्मपिटके सप्त ग्रन्थाः सन्ति-पुग्गलपज्झतिः धातुकथाः,धम्मसंगतिः,विभंगः,पट्ठान-प्रकर-णम्,कथावस्तु,यमकश्चेति । त्रिपिटकवत् ‘मिलिन्दपन्हो’ अपि बौद्धधर्मे सुप्रसिद्धोऽस्ति ।एषा रचना नागसेनस्यास्ति। सांसारिकदुःखेभ्यो मुक्तये भगवता बुद्धेन जटिलदार्शनिकताम् अनपेक्ष्य सरलतया आचारपद्धतिः प्रतिपादिता । बुद्धो गहनामाध्यात्मिकतां प्रश्रयं न प्रददाति स्म । अतः श्रावस्तीविहारस्य अवसरे मालुंम्यपुत्तेन अध्यात्मविषये बुद्धः पृष्टः । तदा बुद्ध आचारमार्गमेव उपदिदेश । बुद्धमतेन आर्यसत्यचतुष्टयं एवं प्रकारेण निर्दिष्टम्- दुःखं दुःखसमुदयः दुःखनिरोधः दुःखनिरोधगामिनी प्रतिपत्तिश्च । अर्थात् संसारः दुःखमयोऽस्ति, दुःखानां निदानमपि विद्यते,दुःखभ्यो मुक्तिरपि लब्धुं शक्यते,मुक्तिमार्गोऽपि निर्धारितोऽस्ति । केवलम् आर्यजना एव एतान् प्राप्तुं शक्नुवन्ति,अनार्यास्तु यावज्जीवनं दुःखेष्वेव जीवन्ति ।बुद्धमतानुसरेण आर्यसत्यमार्गस्य द्वादशकारणानि सन्ति – जरामरणम्, जातिः, भवः, उपादानम्, तृष्णा, वेदना स्पर्शः, षडायतनम् नामरूपम् विनयम् संस्कारः अविद्या च । एषु प्रत्येकं पूर्वं प्रति परं कारणमविद्यत । उदाहरणार्थं जरामरणयोः कारणं जातिरस्ति, जातेः कारणं भवो,भवस्य कारणम् उपादानं भवति । एतानि द्वादशकारणानि आश्रित्य कार्यकारणभावस्य यः सिद्धान्तः प्रतिपादितोऽस्ति,सः बौद्धमते प्रतीत्यसमुत्पाद इत्युच्यते । प्रतीत्यसमुत्पादस्य तात्पर्यार्थो वर्तते – कस्यचिद्र् वस्तुनः प्राप्तौ अन्य्स्य वस्तुनः उत्पत्तिरिति । एवञ्चेत् अयं वस्तुतः सापेक्षः कारणतावाद इत्यपि वक्तुं शक्यते ।प्रतीत्यसमुत्पाद एव बौद्धप्रतिपादितः कारणवादोऽस्ति । अयमेव मानवोत्पत्तिसन्दर्भे श्रृंखलाबद्धतां निर्दिशति । मानवोत्पत्तेः श्रृंखलायां द्वादश अङ्गनि त्रयः काण्डाश्चासन् । प्रथमकाण्डे अतीतेन जन्मना सम्बद्धं निदानं विद्यते,फलतः अविद्याजन्यसंस्कारा जायन्ते । द्वितीयकाण्डे वर्तमानजीवनेन सम्बन्धं निदानमस्ति यस्यान्तर्गतं विज्ञानतो भवपर्यन्तम् अष्टौ कारणानि जायन्ते । तृतीयकाण्डे भविष्यता सम्बद्धं निदानं भवति । तत्र जातिः जरामरणञ्चेति कारणद्वयं गृहीतमस्ति ।तृतीयम् आर्यसत्यम् दुःखनिरोधात्मकमस्ति । तस्य तात्पर्यमस्ति यत् कार्यं कारणम् आश्रित्य तिष्ठति । चेत् कारणध्वंसः स्यात् तदा कार्यमपि स्वतो ध्वस्तं भवेत् । एवं चेत् मूलकारणरूपम् अविद्यां विद्यया उन्मूलितां कुर्यात् तदा तज्जन्यं किमपि कार्यं न भवितुं शक्नोति ।चतुर्थम् आर्यसत्यं निर्वाण इत्यस्ति । अस्य प्राप्तै बुद्धेन मध्यममार्गस्य उपदेशः प्रदत्तः । अर्थात् निर्वाणप्राप्तये कठोरव्रतोपवासादीनामावश्यकता नापेक्षते,न च सर्वथा श्रमरहितम् आचरणं वा प्रशस्यते । उभयोर्मध्ये किमपेक्षणीयमिति विचार्य भगवता बुद्धेन यः मार्गः प्रतिष्ठापितः स एव मध्यममार्गोऽस्ति । अस्य मध्यममार्गस्य अष्टौ अङ्गनि सन्ति,अतएवायं अष्टाङ्गिकोमार्ग इत्यपि कथ्यते । बुद्धप्रतिपादितस्यास्य मध्यममार्गस्य अष्टौ अङ्गानि एवं प्रकारेण सन्ति-सम्यक् व्यायामः,सम्यक् स्मृतिः,सम्यक् समाधिश्चेति । अस्य अष्टाङ्गिकमार्गस्य सम्यक् पालनेन निर्वाणः प्राप्यते,एतादृशी बौद्धानां मान्यताऽस्ति ।एवं प्रकारेण भगवान् बुद्धः अविद्याया मूलकारणं मत्वा ज्ञानेन तत्परिमार्जनस्य महत्वं प्रतिपादितवान् । शुद्धं ज्ञानं शुद्धां मनोवृत्तिं विना नैव प्राप्यते । शरीरशुद्धये भगवता बुद्धेन शीलसमाधिप्रज्ञादीनां महत्त्वं प्रतिपादितम् । शीलस्य अन्तर्गतं अहिंसा-सत्य-अस्तेय-ब्रह्मचर्य-अपरिग्रहाणां समावेशो भवति । अत्र नैतिकसुखसाधनानां परित्यागोऽपि गृहीतः । समाधिः द्वितीयं साधनमस्ति । समाधेः पूर्व जन्म-स्मृति-उत्पत्ति-विनाशादीनां ज्ञानं बाधकनियमानां बोधश्चापेक्षते । प्रज्ञा तृतीयं साधनमुच्यते । प्रज्ञाऽपि त्रिधा प्रतिपादिता-श्रुतमयी प्रज्ञा,चिन्तामयी प्रज्ञा,भावनामयी प्रज्ञा चेति । बौद्धदर्शनस्य यच्चिन्तनसमग्रं वर्तते तस्य आधारः अध्यात्मवादो नास्ति । बौद्धचिन्तनस्तु संघात-वादसत्तावादयोरेव विस्तारोऽस्ति । आत्मचिन्तनं दुःखनिवृत्तेर्मुख्यं साधनमस्ति,तथापि बुद्धेन आत्मनोऽस्तित्वमेव निराकृतम् । तन्मतानुसारेण आत्मा केवलं मनोवृत्तीनां पुञ्जमात्रमस्ति । यतोहि मानसप्रवृत्तिभ्योऽतिरिक्तं तस्यात्मतत्वस्य किमपि अस्तित्वं नास्ति । तत् आत्मतत्त्वन्तु रूप-वेदना-संज्ञा-संस्कार-विज्ञानादीनां पञ्चस्कन्धानां समुच्चयोऽस्ति । रूपं भौतिकः पदार्थोऽस्ति । कस्यपि वस्तुनः साक्षात्करः संज्ञा भवति । तया संज्ञया उत्पन्नयोः सुखदुःखयोरथवा औदासीनस्य भावो वेदना कथ्यते । भूतकालिकेन अनुभवेन उत्पद्यमानः,स्मृतिकारणभूतानां मानसिकप्रवृत्तीनां स्वभावः संस्कारोऽस्ति । अयमेव चैतन्यविज्ञानमिति नाम्ना ज्ञायते ।आत्मनः स्वरूपं स्पष्टीकर्तुं नृपो नागसेनो मिलिन्दे रथस्य प्रत्येकम् अवयवस्य सम्बन्धे प्रश्नं करोति,मिलिन्दश्च प्रत्येकस्य प्रश्नस्य नकारात्मकम् उत्तरं प्रददाति । वस्तुतः स्वतन्त्ररूपेण अश्वाः रथं न सन्ति,न च वल्गा एव रथमस्ति,काष्ठमयं शकटमपि रथं नास्ति । एतादृश्यां स्थितौ रथस्य प्रत्येकम् अवयवाः रथं सन्तीति स्वीक्रियते। तथैव स्वतन्त्ररूपेण कश्चिदपि आत्मा नास्ति । अपितु व्यवहारे दृश्यमाणानां भौतिकाना मानसिकानाञ्च व्यापाराणां समूह एव आत्मा उच्यते ।सन्तानवादः- बौद्धदर्शनानुसारं जीवो जगच्चेत्युभयमेव अनित्यमस्ति । इदं स्कन्धपञ्चकं स्थिरं नास्ति । क्षणे क्षणे चैतत् परिवर्तितं भवति । यथा दीपस्य ज्वाला सततमेकैव दृश्यते,किन्तु सा प्रतिक्षणं परिवर्तते । तदानीम् इदमनुभवोऽपि नैव जायते यत् तैलवर्तिकयोः संयोगाद् दृश्यमाणा दीपशिखा प्रतिक्षणं नूतनं तैलं वर्तिकांशञ्च ज्वालयितुं तस्मित्रेव प्रविष्टा भवति । एवं प्रकाशशिखारूपेण पूर्वतो विद्यमाना ज्वाला विनश्यत्येव । बौद्धदर्शने मुख्यतः परिणामस्य सिद्धान्तोऽभिमतोऽस्ति । अतो जगतःसत्यत्वमेकशोऽस्वीकृतम् अकुर्वाणैः तस्य परिणामात्मकता स्वीकृता । परिणाम एव सत्यमस्ति किन्तु अस्य परिणामस्य मूले किमप्यन्यत् सत्यतत्वं नास्ति । बुद्धस्य वैचारिक-सूक्ष्मताया एषाऽद्वितीया कल्पना वर्तते । बौद्धधर्मे महायानसम्प्रदायः थेरावादं स्वीकृतवान्,अतएव तस्य अपरा हीनयानसंज्ञाऽपि सञ्जाता। बौद्धधर्मस्य विविधेषु यानेषु बोधविषये अर्थात् जीवनमुक्तिनिरूपणविषये एकरूपता नास्ति । एषां त्रयाणां यानानां तिस्रो जीवनमुक्तयः सन्ति-श्रावकबोधिः, प्रत्येकबुद्धबोधिः,सम्यक् सम्बोधिश्चेति । एषां सर्वेषां साधनापद्धतिः भिन्नाऽस्ति । बौद्धदर्शनस्य विकासो बौद्धधर्मेण सह नैव जातः । यदा बौद्धधर्मस्य प्रचण्डः प्रचार आसीत् तदा बौद्धदर्शनस्य सिद्धान्ताः अस्तंप्राया आसन् । किन्तु यदा कदा बौद्धविदुषां बुद्धोपदेशानां गाम्भीर्ये प्रवेशो जातः,तदारभ्य बौद्धधर्मः स्वत एव शिथिलो जातः । प्रारम्भे बौद्धदर्शनं चतुर्षु सम्प्रदायेषु विभक्तमासीत् । एषां सम्प्रदायानां नामान्यासन्-वैभाषिक-सम्प्रदायः,सौत्रान्तिकसम्प्रदायः,योगाचारसम्प्रदायः,माध्यमिक सम्प्रदायश्च । वैभाषिकमतानुसारेण इन्द्रियजन्यज्ञानमयस्य बाह्मजगतो मिथ्यात्वं नैव भविंतु शक्नोति ।आन्तरतत्त्वस्य मनसोऽपि स्वतन्त्रा सत्ताऽस्ति । बाह्मपदार्थानां ज्ञानाय इन्द्रियाणाम् आन्तरतत्त्वेन सहयोगस्य आवश्यकता नास्ति । आन्तरतत्त्वान्यपि बाह्मपदार्थनिरपेक्षं ज्ञानं प्रति कारणभूतानि वर्तन्ते । एवमुभयोः पदार्थयोः स्वतन्त्रसत्ता सिद्ध्यति । सौत्रान्तिकमते बाह्मार्थानुमेयवादः स्वीक्रियते । एतदनुसारेण बाह्मपदार्था इन्द्रियज्ञानगम्या न सन्ति । यतो हि पदार्थाः क्षणिकाः सन्ति,परिणामस्वरूपं इन्द्रियार्थसन्निकर्षकाले ज्ञानानुभवकाले च पदार्थाः परिवर्तिता एव जायन्ते । अतएव तस्मिन् क्षणे पदार्थान्तरमेव अभिमुखं भवति । एवं बाह्मपदार्थानां सत्ता प्रत्यक्षगम्या नास्ति,अनुमानेनैव तद् विज्ञायते । अयं सिद्धान्त एव बाह्मार्थानुमायेववादो भवति । योगाचारस्य सिद्धान्तः विज्ञानवादोऽस्ति । विज्ञानवादस्य विचारधारानुसारेण बाह्म-सत्ताया अस्तित्व एव स्वीकर्तुं नैव शक्यते,यतो हि बाह्मजगतः प्रयोजनकाले मनसि निपतितस्य प्रतिबिम्बस्य आधारेणैव तद् विज्ञायते । अत्र प्रतीतेराधारः ज्ञानमस्ति,अतएव ज्ञानम् अथवा विज्ञानमेव सत्यतत्त्वमस्ति । चितं मनस् इत्याद्या विज्ञानस्यैव संज्ञाऽस्ति । विज्ञानमेव चेतनक्रियासम्बन्धवशादेव चित्तमित्युच्यते,मनःक्रिया सम्बन्धवशादेव मन इति कथ्यते । विषयग्रहणस्य साधनतया एव विज्ञानं सिद्ध्यति । माध्यमिकानां सिद्धान्तः शून्यवादोऽस्ति । शून्यवादमतानुसारेण बाह्मपदार्थोऽपि सत्यं नास्ति,आन्तरपदार्थोऽपि सत्यं नास्ति,विज्ञानमपि सत्यं नास्ति । शून्यमेव सत्यं वर्तते । अथ शून्यम् किं अस्तीति विचार्यते ।शून्यं किं अभावोऽस्ति? अत्र माध्यमिकानां मतं वर्तते यत् शून्यं न तु भावरूपमस्ति,न चाभावरूपमेवास्ति । इदन्तु अनिर्वचनीयं विद्यते । सर्वेभ्यो भिन्नतया एवास्य शूनसंज्ञाऽस्ति । इदमेव बौद्धदर्शनस्यान्तिमं सत्यमस्ति । तथाहि सर्वप्रथमं वैभाषिकसम्प्रदायेन बाह्यार्थस्य प्रत्यक्षसत्ता स्वीकृता । तत्पश्चात् सौत्रान्तिकेन बाह्यार्थानुमेयवादस्य सिद्धान्तः प्रतिपादितः । तदनन्तरं योगाचारेण विज्ञानमात्रस्य सत्ता अङ्गीकृता । अन्ते च माध्यमिकेन शून्यमेव परमतत्त्वमिति संसाधितम् । एषु सम्प्रदायेषु वैभाषिकः हीनयानं स्वीकरोति,अवशिष्टाश्च त्रयः सम्प्रदायाः महायानं स्वीकुर्वन्ति । शून्यवादिनां बौद्धानां मतानुसारेण सत्यं द्विविधमस्ति-व्यवहारिकं पारमार्थिकं च । लोकव्यवहारे प्रचलितं सत्यं व्यावहारिकं स्वीक्रियते । अस्यैव अपरं नाम सांवृतिकम् इत्यपि वर्तते । पारमार्थिकं सत्यं तु अनुपन्नम् अनिरुद्धम् अनुच्छेद्यम्,अशाश्वतं चास्ति । पारमार्थिकं सत्यं बुद्धिगम्यं नास्ति ।संवृत्तिर्नाम आच्छादनक्रियाया अस्ति। एवं सांवृत्तिकं तद्भवति यद् हि आच्छादकं भवति । आच्छादकं तत्त्वन्तु अविद्या वर्तते । तयैव अविद्यया यदा अन्यत् तत्त्वम् आच्छाद्यते,तदा व्यावहारिकस्य सत्यस्य उदयो भवति ।बौद्धेरपि अविद्यास्वरूपिण्या मायायाः कार्यद्वयं स्वीकृतम्- स्वभावदर्शनस्यावरणं तत्र चासत्पदार्थस्वरूपस्यारोपणम् । शून्यवादिभिः सेवृत्तिरपि द्विधा विभक्ता- तथ्यसंवृत्तिः मिथ्यासंवृत्तिश्चेति । पदार्थस्य यथार्थं परिज्ञाने तथ्यसंवृत्तिर्भवति किन्तु अयथार्थज्ञाने मिथ्यासंवृत्तिरस्ति । उभयोः संवृत्योर्माध्यमेन गृहीतं ज्ञानं सांवृत्तिकं भवति । तदेव व्यावहारिकं सत्यमपि उच्यते । सांवृत्तिकं सत्यमेव पारमार्थिकसत्यस्य साधनमप्यस्ति ।व्यावहारिकेण सत्येनेव पारमार्थिकस्य सत्यस्य बोधो जायते । जन्मतः कश्चिदपि पारमार्थिकसत्यस्य दर्शनं न करोति । अत्र पारमार्थिकं सत्यं निर्वाणरूपं भवति । निर्वाणस्तु एताद्रृशं तत्त्वं वर्तते यो हि अज्ञातो भवति,यस्य प्राप्तिरपि नूतना न भवति,यस्य विनाशोऽपि नैव जायते,यो हि न तु विराध्यति न चोत्पद्यते । अतएवासौ अनिर्वचनीयः कथ्यते । अस्यानिर्वचनीयतत्त्वस्य ज्ञातैव बौद्धमते तथागत इति नाम्ना विज्ञायते । बौद्धधर्मे व्यावहारिकपारमार्थिकसत्ययोराधारेणैव व्यावहारिक आदेशो दीयते ।यदा साधकः पारमार्थिकसत्यस्यानुसन्धानेन एव तथागतस्य स्वरूपं शून्यतां च प्राप्नोति तदा स्वयं वर्णनातीतो भवति,यतो हि सः तदा अविद्या अस्पष्टे सति सर्वेभ्यो मतेभ्यो रहितोऽपि जायते । सः सर्वविधक्लेशेभ्यो ज्ञेयावरणेभ्यश्च मुक्तो भवति । किन्तु इदं सर्वं निर्वाणरूपं सम्यक् सम्बोधिं विना असम्भवमेवास्ति ।सम्यक् सम्बोधिस्तु षट्पारमितानामुपलब्धेरनन्तरं प्राप्यते । षत् पारमिता एवं प्रकारेण प्रतिपादिताः- ज्ञानं शीलं क्षान्तिः वीर्यम् समाधिः प्रजा च । आसु षट्सु पारमितासु ज्ञान-शीलं-क्षान्तीनां सततम् अभ्यासेन पुण्यसंभारस्य प्राप्तिर्भवति । वीर्यसमाध्योरभ्यासेन ज्ञानसम्भारस्य प्राप्तिर्भवति ।उभयविधसम्भारेण प्रज्ञाया उदयोभवति । प्रज्ञापि उभयविधाऽस्ति-साधकरूपा फलरूपा च ।यदा साधकः साधनभूतां प्रजां प्राप्य अभिमुक्तचरित संज्ञको भवति तदा उक्तज्ञानस्य आविर्भावे सति फलरूपा प्रज्ञा उत्पद्यते । प्रज्ञायाश्चरमोत्कर्षः एव बुद्धत्वप्राप्तिरस्ति । अस्यामेव अवस्थायां सर्वशून्यताया दर्शनं जायते । दुःखानाम् आत्यन्तिकी निवृत्तिरप्यत्रैव सम्भवति । शून्यतायाः प्रतीतौ सर्वविधधर्माणां स्वभावहीनता दृश्यते ।माध्यमिककारिकायां गति-इन्द्रिय-स्कन्ध-धातु-दुःख-संसर्ग-कर्म-बन्ध-मोक्ष-काल-आत्मादीनां तत्त्वानां व्यावहारिकस्थितेः विश्लेषणं कृतमस्ति । तत्र शून्यवादिनाम् आचार्याणां तर्कपद्धतेः सूक्ष्मता स्पष्टरूपेण परि-लक्षिता भवति । इदम् अखिलं व्याख्यानं निषेधात्मकमेवास्ति । अनया पद्धत्या जगतः सर्वा अवधारणाः निःस्वभावाः सन्ति । अस्यैव सम्प्रदायस्य बुद्धपालितादिभिः शून्यतायाः सिद्धये तर्कस्य पूर्णतया तिरस्कारो विहितः । अतएव बौद्धदर्शनस्येतिहासे माध्यमिक इति प्रासङ्गिकनाम्ना अभिहितो वर्तते ।वैदिकदर्शनानां मुक्तेरथवा मोक्षस्य स्थाने बौद्धा निर्वाणं प्रतिष्ठितवन्तः । बौद्धदर्शनस्य विविधैः सम्प्रदायैः निर्वाणस्य निरूपणं स्व-स्व-मान्यताया आधारेण कृतवन्तः । तथापि बौद्धानां चत्वारः सम्प्रदाया हीनयान–महायानयोः रूपेण विभक्ताः सन्ति । यतो हि हीनयाने निर्वाणस्य यत् स्वरूपं प्रतिष्ठापितमस्ति महायाने तद्भिन्नरूपेण प्रतिपादितमस्ति ।हीनयाने निर्वाणस्य स्वरूपम्- हीनयानमतानुसारेण संसारः दुःखमयोऽस्ति । दुःखस्य त्रयः प्रकाराः सन्ति-दुःखदुःखता,संस्कारादुःखता एवं विपरिणादुःखता च । शारिरिकैः मानसिकैश्च कारणैः उत्पाद्यमान दुःखं दुःखतासंज्ञकमस्ति । उत्पत्तिशीलस्य विनाशशीलस्य च जगतः वस्तुभिः उत्पाद्यमानं दुःखं संस्कारदुःखता कथ्यते । यैः कारणैः सुखमपि दुःखरूपे परिणतं भवति तैः कारणैः उत्पद्यमानं दुःखं विपरिणदुःखता भवति । प्राणी विविध-दुःखेभ्यः कथं मुक्तोभवेत् इति विचार्य बुद्धेन चतुर्ण्णाम् आर्यसत्यानामुपदेशः प्रदत्तः । एषामार्यसत्यानाम् आचारण-मेव सांस्कारिकपदार्थानां नश्वरतायाः अनात्मतायाश्च ज्ञानं दुःखनिवृत्तेः सदुपायो वर्तते । एवम् अष्टाङ्गिकमार्गस्य अनुसरणं प्रथम उपायोऽस्ति,सांसारिकपदार्थान् प्रति ह्येताभावो द्वितीय उपायोऽस्ति,आत्मनोऽस्तित्वस्य अस्वीकृतिः तृतीय उपायोऽस्ति । एषाम् त्रयाणाम् उपायानाम् अनुपालनेन त्रिविधदुःखनाम् उन्मूलनं भवति । एतादृश्याम् अवस्थायां पुष्टजीवस्य पुनः बन्धरूपता न जायते । इयमेव अवस्था निर्वाणस्यास्ति ।महायाने निर्वाणस्य स्वरूपम्- महायानमतानुसारेण निर्वाणस्य कृते उभयविधानाम् आवरणानां क्षयः आवश्यको भवति । क्लेशावरण-ज्ञेयावरणयोः क्षतिः क्रार्मकाऽस्ति । पूर्वं क्लेशावरणं नश्यति,तदनन्तरं ज्ञेयाव-रणस्य विनाशो भवति । हीनयाने स्वीकृतं निर्वाणस्य स्वरूपं महायानस्य दृष्टिकोणेन अपूर्णमस्ति,यतो हि क्लेशाव-रणस्य विनाशानन्तरमपि ज्ञेयावरणम् अवशिष्टं भवति ।यद्यपि हीनयानमतेन क्लेशावरणविनाशेन आत्मनो निषेधो विहितः । यतो हि आत्मनः सुखादीनां कृते एव मानवस्य प्रवृत्तिर्जायते । अतएव दुःखादयो भवन्ति । आत्मदृष्ट्यैव इमे विषमपरिणामा भवन्ति । अतः आत्मनो निषेधे सत्येव दुःखानां स्वत एव नाशो भविष्यति । अयमेव हीनयानस्य नैरात्म्यवादो वर्तते । तस्य द्वौ भेदो कथितौ-पुद्गलनैरात्म्यवादो धर्मनैरात्म्यवादश्च । एवं पुद्गलनैरात्म्येन प्राणी स्वतः क्लेशमुक्तो भवति ।एतद्विपरीतं जगतोऽभावात् सांसारिकपदार्थानां शून्यताया ज्ञानेन पारमार्थिक सत्यरूपिणो ज्ञानस्योपरितः आवरणं नश्यति । साधकोऽपि सर्वज्ञतां लभते । क्लेशेन मुक्तेरावरणं भवति,ज्ञेयावरणं च ज्ञेयपदार्थम् आ-वृणोति । उभयोरावरणयोर्विनाशेनैव सर्वज्ञता प्राप्तुं शक्यते । महायानसम्प्रदाये ज्ञेयावरणस्य निवारणोपायरूपेण सर्वशून्यतायाः प्रतीतिरभिमताऽस्ति । एवमेव हीनयाने अर्हत्प्राप्तीः परमोद्देश्यमस्ति,किन्तु महायाने बुद्धत्वप्राप्तिर्लक्ष्यभूता भवति । उभयोः सम्प्रदाययोरयमेव निर्वाणभेदः । धर्मचक्रः महाबोद्धिमन्दिरम्
{ "source": "wikipedia" }
अर्जुन उवाच - अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य प्रथमः श्लोकः । सन्न्यासं कर्मणां कृष्ण पुनः योगं च शंससि यत् श्रेयः एतयोः एकं तत् मे ब्रूहि सुनिश्चितम् ॥ 1 ॥ कृष्ण ! कर्मणां सन्न्यासं पुनः योगं च शंससि । एतयोः यत् श्रेयः तत् सुनिश्चितम् एकं मे ब्रूहि । हे कृष्ण ! भवान् कर्मसन्न्यासं वदति, कर्मयोगमपि वदति । कर्मणां त्यागः, तेषां परिग्रहश्च विरुद्धत्वात् युगपत् सर्वथा न सम्भवति । तस्मात् श्रेत्वेन यत् भवता निश्चितं तत् मे कथयतु । 'कर्मण्यकर्म यः पश्येत्' इत्यारभ्य 'स युक्तः कृत्स्नकर्मकृत्', 'ज्ञानाग्निदग्धकर्माणं', 'शारीरं केवलं कर्म कुर्वन्', 'यदृच्छालाभसंतुष्टो', 'ब्रह्मार्पणंहब्रह्म हविः', 'कर्मजान्विद्धि तान्सर्वान्', 'सर्वं कर्माखिलं पार्थ', 'ज्ञानाग्निः सर्वकर्माणि', 'योगसंन्यस्तकर्माणम्' इत्यन्तैर्वचनैः सर्वकर्मसंन्यासमवोचद्भगवान्'छित्तवैनं संशयं योगमातिष्ठ' इत्यनेन वचनेन योगं च कर्मानुष्ठानलक्षणमनुतिष्ठेत्युक्तवान्। तयोरुभयोश्च कर्मानुष्ठानकर्मसंन्यासयोः स्थितिगतिवत्परस्परविरोधादेकेनसह कर्तुमशक्यत्वात्कालभेदेन चानुष्ठानविधानाभावादर्थादेतयोरन्यतरकर्तव्यताप्राप्तौ सत्यां यत्प्रशस्यतरमेतयोः कर्मानुष्ठानकर्मसंन्यासयोस्तत्कर्तव्यं नेतरदित्येवं मन्यमानः प्रशस्यतरबुभुत्सयार्जुन उवाच-संन्यासं कर्मणां कृष्णेत्यादिना। ननु चात्मविदो ज्ञानयोगेन निष्ठां प्रतिपादयिष्यन्पूर्वोदाहृतैर्वचनैर्भगवान्सर्वकर्मसंन्यासमवोचन्नत्वनात्मज्ञस्य। अतश्च कर्मानुष्ठानकर्मसंन्यासयोर्भिन्नपुरुषविषयत्वादन्यतरस्य प्रशस्यतरत्वबुभुत्सया प्रश्नोऽनुपपन्नः। सत्यमेव त्वदभिप्रायेण प्रश्नोनोपपद्यते प्रष्टुः स्वाभिप्रायेण पुनः प्रश्नो युज्यत एवेति वदामः। कथं, पूर्वोदाहृतैर्वचनैर्भगवता कर्मसंन्यासस्य कर्तव्यतया विवक्षितत्वात्प्राधान्यमन्तरेणच कर्तारं तस्य कर्तव्यत्वासंभवादनात्मविदपि कर्ता पक्षे प्राप्तोऽनूद्यत इति न पुनरात्मवित्कर्तृकत्वमेव संन्यासय विवक्षितमित्येवं मन्वानस्यार्जुनस्य कर्मानुष्ठानकर्मसंन्यासयोरविद्वत्पुरुषकर्तृकत्वमप्यस्तीतिपूर्वोक्तेन प्रकारेण तयोः परस्परविरोधादन्यतरस्य कर्तव्यत्वे प्राप्ते प्रशस्यतरं च कर्तव्यं नेतरदिति प्रशस्यतरविविदिषया प्रश्नो नानुपपन्नः। प्रतिवचनवाक्यार्थनिरूपणेनापिप्रष्टुरभिप्राय एवमेवेति गम्यते। कथं संन्यासकर्मयोगौ निःश्रेयसकरौ, 'तयोस्तु-कर्मयोगो विशिष्यते' इति प्रतिवचनमेतन्निरूप्यं, किमानेनात्मावित्कर्तृकयोः संन्यासकर्मयोगयोर्निःश्रेयसकरत्वंुप्रयोजनमुक्त्वा तयोरेव कुतश्चिद्विशेषात्कर्मसंन्यासात्कर्मयोगस्य विशिष्टत्वमुच्यत आहोस्विदनात्मवित्कर्तृकयोः संन्यासकर्मयोगयोस्तदुभमुयच्यत इति। किंचातोयद्यात्मवित्कर्तृकयोः कर्मसंन्यासकर्मयोगयोर्निःश्रेयसकरत्वं तयोस्तु कर्मसंन्यासात्कर्मयोगस्य विशिष्टत्वमुच्यते यदि वानात्मवित्कर्तृकयोः संन्यासकर्मयोगयोस्तदिभयमुच्यतइति। अत्रोच्यते-आत्मवित्कर्तृकयोः संन्यासकर्मयोगयोरसंभवात्तयोर्निःश्रेयसकरत्ववचनं तदीयाच्च कर्मसंन्यासात्कर्मयोगस्य विशिष्टत्वाभिधानमित्येतदुभयमनुपपन्नम्।यद्यनात्मविदः कर्मसंन्यासस्तत्प्रतिकूलश्च कर्मानुष्ठानलक्षणः कर्मयोगः संभवेतां तदा तयोर्निःश्रेयसकरत्वोक्तिः कर्मयोगस्य च कर्मसंन्यासाद्विशिष्टत्वाभिधानमित्येतदुभयमुपपद्येत,आत्मविदस्तु संन्यासकर्मयोगयोरसंभवात्तयोर्निःश्रेयसकरत्वाभिधानं कर्मसंन्यासाच्च कर्मयोगो विशिष्यत इति चानुपपन्नम्। अत्राह, किमात्मविदः संन्यासकर्मयोगयोरप्यसंभवआहोस्विदन्यतरस्यासंभवः, यदा चान्यतरस्यासंभवस्तदा किं कर्मसंन्यासस्योत कर्मयोगस्येत्यसंभवे कारणं च वक्तव्यमिति। अत्रोच्यते, आत्माविदो निवृत्तमिथ्याज्ञानत्वाद्विपर्ययज्ञानमूलस्यकर्मयोगस्यासंभवः स्याज्जन्मादिसर्वविक्रियारहितत्वेन निष्क्रियमात्मानमात्मत्वेन यो वेत्ति तस्यात्मविदः सम्यग्दर्शनेनापास्तमिथ्याज्ञानस्य निष्क्रियात्मरूपावस्थानलक्षणं । 1) संन्यासं कर्मणां कृष्ण...2) संन्यासः कर्मयोगश्च...3) ज्ञेयः स नित्यसंन्यासी...4) साङ्ख्ययोगौ पृथग्बालाः...5) यत्साङ्ख्यैः प्राप्यते स्थानं...6) संन्यासस्तु महाबाहो...7) योगयुक्तो विशुद्धात्मा...8) नैव किञ्चित्करोमीति...9) प्रलपन्विसृजन्गृह्णन्...10) ब्रह्मण्याधाय कर्माणि...11) कायेन मनसा बुद्ध्या...12) युक्तः कर्मफलं त्यक्त्वा...13) सर्वकर्माणि मनसा...14) न कर्तृत्वं न कर्माणि...15) नादत्ते कस्यचित्पापं...16) ज्ञानेन तु तदज्ञानं... 17) तद्बुद्धयस्तदात्मानः18) विद्याविनयसम्पन्ने...19) इहैव तैर्जितः सर्गो...20) न प्रहृष्येत्प्रियं प्राप्य...21) बाह्यस्पर्शेष्वसक्तात्मा...22) ये हि संस्पर्शजा भोगाः...23) शक्नोतीहैव यः सोढुं...24) योऽन्तःसुखोऽन्तरारामः...25) लभन्ते ब्रह्मनिर्वाणम्...26) कामक्रोधवियुक्तानां...27) स्पर्शान्कृत्वा बहिर्बाह्यान्...28) यतेन्द्रियमनोबुद्धिः...29) भोक्तारं यज्ञतपसां...
{ "source": "wikipedia" }
इत्यत्र पुनर्निदिष्यताम्
{ "source": "wikipedia" }
न जायते म्रियते वा कदाचिद् ) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अविकारिणः आत्मनः स्वरूपं वर्णयति । पूर्वस्मिन् श्लोके अज्ञानिनः परिभाषाम् उक्त्वा अत्र भगवान् आत्मनः निर्विकारित्वम् उपस्थापयति । सः कथयति यत्, एतच्छरीरी न कदापि जायते, न च म्रियते । सः उत्पन्नः सन् पुनः जातः इत्यपि नास्ति । सः जन्मरहितः, नित्यः, शाश्वतः, पुराणः च । शरीरे हतेऽपि सः न हन्यते इति । न, जायते, म्रियते, वा, कदाचित्, नायम्, भूत्वा, भविता, वा, न, भूयः । अजः, नित्यः, शाश्वतः, अयम्, पुराणः, न, हन्यते, हन्यमाने, शरीरे ॥ अयं कदाचित् न जायते न वा म्रियते । अयं भूत्वा भूयः भविता वा न । अयम् अजः नित्यः शाश्वतः पुराणः शरीरे हन्यमाने अपि न च हन्यते । अयम् आत्मा कदापि न जायते न म्रियते वा, उत्पद्य पुनरपि उत्पत्स्यते इत्यपि वक्तुं न शक्यते, यतः अयम् आत्मा जन्मरहितः, सनातनः, पुरातनश्च । शरीरे नष्टेऽपि सः न नश्यति । 'न जायते म्रियते वा कदाचिन्न' – यथा शरीरम् उत्पद्यते, तथैव शरीरी कदापि नोत्पद्यते । सः तु सर्वदा अस्ति । भगवान् शरीरिणं स्वांशत्वेन उपस्थाप्य 'सः सनातनः' इति अवदत् । सः शरीरी न कदापि जायते, न च म्रियते । 'म्रियते' इत्यस्य प्रयोगः तदा भवति, यदा पिण्डप्राणवियोगः भवति । पिण्डप्राणवियोगः तु शरीरे भवति, न तु शरीरिणि । शरीरिणि न संयोगः भवति, न वा वियोगः । जन्मादयः ये सर्वे विकाराः सन्ति, तेषु जन्ममृत्यू एव मुख्यौ । अतः भगवान् तयोः वारद्वयं निषेधम् अवदत् । 'न जायते', 'अजः' इत्येताभ्यां जन्मरहितत्वं, 'न म्रियते', 'न हन्यते हन्यमाने शरीरे' इत्येताभ्यां मृत्युरहितत्वं च बोधयति । शरीरे षड् विकाराः भवन्ति । जननं, दर्शनं, परिवर्तनं, वर्धनं, न्यूनीभवनं, नाशश्च । शरीरी तेभ्यः विकारेभ्यः रहितः । 'अयं भूत्वा भविता वा न भूयः' – एतद् अविनाशि नित्यतत्त्वम् उत्पन्नं सत् पुनः भवति इति नास्ति । अर्थात् तत् तत्त्वं स्वतस्सिद्धं, निर्विकारञ्च अस्ति । शिशोः जन्म भवति, ततः तस्य अस्तित्वं भवति । यावद् सः शिशुः गर्भस्थः भवति, तावत् तस्य 'अस्तित्वम् अस्ति' इति न कोऽपि कथयति । अर्थात् शिशोः जन्मोत्तरं तस्य अस्तित्वं भवति । यतो हि विकारिणः अस्तित्वस्य आद्यन्तौ भवतः । परन्तु नित्यतत्त्वस्य अस्तित्वं तु स्वतस्सिद्धं, निर्विकारं च अस्ति, यतो हि एतस्याः अविनाशिसत्तायाः आद्यन्तौ न भवतः । 'अजः' – एषः कदापि न जायते । अतः सः 'अजः' इति । एवं सः जन्मरहितः उच्यते । 'नित्यः' – सः सार्वकालिकः भवति । अतः तस्य विनाशः कदापि न भवति । विनाशः तु तस्य भवति, यद् अनित्यम् अस्ति । यथा कालान्तरे शरीरस्य जर्जरत्वं प्रत्यक्षं भवति । बलं न भवति, इन्द्रियाणि अशक्तानि भवन्ति इत्यादि । एवं शरीरेन्द्रियान्तःकरणादीनां विनाशः भवति, परन्तु शरीरिणः विनाशः न भवति । तस्मिन् अनित्यतत्वे न कदापि जर्जरत्वं भवति । 'शाश्वतः' – एतत् नित्यतत्त्वम् एकरूपं भवति । तस्मिन् अवस्थायाः परिवर्तनं न भवति । अर्थात् तस्मिन् परिवर्तनं न भवति । 'पुराणः' – एतद् अविनाशितत्त्वं पुराणम् अस्ति । अर्थात् अनादि अस्ति । तन्न कदापि उत्पन्नं तावत् प्राचीनम् अस्ति । उत्पन्नवस्तुषु विकारः दृश्यते यत्, एकवारं यत् पुरातनं भवति, तत् कदापि न वर्धते, प्रत्युत नष्टं भवति । तर्हि एतत् तु अनुत्पन्नं तत्त्वम् एतस्मिन् वृद्धिरूपिविकारः असम्भवः । 'न हन्यते हन्यमाने शरीरे' – शरीरस्य नाशे सत्यपि अविनाशिनः शरीरिणः नाशः न भवति । अत्र 'शरीरे' इत्यस्य पदस्य उपयोगः अस्ति । तस्य तात्पर्यम् अस्ति यत्, एतद् शरीरं नश्यमानम् अस्ति । एतस्मिन् नश्यमाने शरीरे एव षड् विकाराः उत्पद्यन्ते, न तु शरीरिणि । एतेषु पदेषु भगवता शरीरस्य, शरीरिणश्च यावद् स्पष्टं वर्णनं कृतम् अस्ति, तावद् स्पष्टं वर्णनम् अखिले गीताशास्त्रे कुत्रापि न प्राप्यते । अर्जुनः युद्धे कुटुम्बकानां हननशङ्कया शोकमग्नः आसीत् । तं शोकं दूरीकर्तुं भगवान् तं शरीरे मृते सत्यपि शरीरिणः नाशः न भवति इति कथयति । अर्थात् शरीरिणः अभावः न भवति, अतः शोकः अनुचितः इति । कथमविक्रय आत्मेति द्वितीयो मन्त्रः - न जायते न उत्पद्यते जनिलक्षणा वस्तुविक्रिया न आत्मनो विद्यते इत्यर्थः। तथा न म्रियते वा । वाशब्दः चार्थे। न म्रियते च इति अन्त्या विनाशलक्षणा विक्रिया प्रतिषिध्यते। कदाचिच्छ ब्दः सर्वविक्रियाप्रतिषेधैः संबध्यते न कदाचित् जायते न कदाचित् म्रियते इत्येवम्। यस्मात् अयम् आत्मा भूत्वा भवनक्रियामनुभूय पश्चात् अभविता अभावं गन्ता न भूयः पुनः तस्मात् न म्रियते। यो हि भूत्वा न भविता स म्रियत इत्युच्यते लोके। वाशब्दात् न शब्दाच्च अयमात्मा अभूत्वा वा भविता देहवत् न भूयः। तस्मात् न जायते। यो हि अभूत्वा भविता स जायत इत्युच्यते। नैवमात्मा। अतो न जायते। यस्मादेवं तस्मात् अजः यस्मात् न म्रियते तस्मात् नित्य श्च। यद्यपि आद्यन्तयोर्विक्रिययोः प्रतिषेधे सर्वा विक्रियाः प्रतिषिद्धा भवन्ति तथापि मध्यभाविनीनां विक्रियाणां स्वशब्दैरेव प्रतिषेधः कर्तव्यः अनुक्तानामपि यौवनादिसमस्तविक्रियाणां प्रतिषेधो यथा स्यात् इत्याह शाश्वत इत्यादिना। शाश्वत इति अपक्षयलक्षणा विक्रिया प्रतिषिध्यते। शश्वद्भवः शाश्वतः। न अपक्षीयते स्वरूपेण निरवयवत्वात्। नापि गुणक्षयेण अपक्षयः निर्गुणत्वात्। अपक्षयविपरीतापि वृद्धिलक्षणा विक्रिया प्रतिषिध्यते पुराण इति। यो हि अवयवागमेन उपचीयते स वर्धते अभिनव इति च उच्यते। अयं तु आत्मा निरवयवत्वात् पुरापि नव एवेति पुराणः न वर्धते इत्यर्थः। तथा न हन्यते । हन्तिः अत्र विपरिणामार्थे द्रष्टव्यः अपुनरुक्ततायै। न विपरिणम्यते इत्यर्थः। हन्यमाने विपरिणम्यमानेऽपि शरीरे । अस्मिन् मन्त्रे षड् भावविकारा लौकिकवस्तुविक्रिया आत्मनि प्रतिषिध्यन्ते। सर्वप्रकारविक्रियारहित आत्मा इति वाक्यार्थः। यस्मादेवं तस्मात् उभौ तौ न विजानीतः इति पूर्वेण मन्त्रेण अस्य संबन्धः।। आत्मा निर्विकारी कथम् ? इत्यस्य द्वितीयः प्रकारः अस्ति – एषः आत्मा न कदापि उत्पद्यते । अर्थात् उत्पत्तिरूपी वस्तुविकारः आत्मनि न भवति । एवं सः न म्रियते । अस्मिन् श्लोके उपयुक्तं 'वा' इति पदं 'च' इत्यार्थबोधकम् । 'न म्रियते च' इत्यनेन कथनेन विनाशरूपस्य अन्तिमविकारस्य प्रतिषेधः कृतः । 'कदाचित्' इत्यस्य शब्दस्य सम्बन्धः सर्वेषां विकाराणां प्रतिषेधेन सह अस्ति । यथा एषः आत्मा न कदापि जायते, तथैव न कदापि म्रियते इत्यादि अन्यविकारेषु अपि ज्ञातव्यम् । एषः आत्मा उत्पन्नः सन् अर्थात् उत्पत्तिरूपविकारस्य अनुभवं कृत्वा पुनः अभावं प्राप्नोति इति नास्ति । अतः सः न म्रियते । यतो हि यः उत्पद्य पुनः न भवति, सः 'म्रियते' इति लोके प्रसिद्धिः ।'वा', 'न' इत्येतयोः पदयोः उपयोगेन अर्थोक्तिः भवति यत्, आत्मा शरीरवद् उत्पद्य पुनः न भवति । अतः सः न जायते । यतो हि अभूत्वा पुनः भवति स एव 'जायते' इति उच्यते । आत्मा तथा नास्ति, अतः सः न जायते । एवम् आत्मा अजः, नित्यश्च । यद्यपि आद्यन्तयोः विकारयोः प्रतिषेधे सति सर्वेषां मध्यस्थानां विकाराणां प्रतिषेधः जायते, तथापि मध्यस्थानां विकाराणाम् अपि प्रतिषेधार्थकैः मुख्यशब्दैः प्रतिषेधः उचितः मन्यते । अतः उपरि अनुक्तानां यौवनादिविकाराणाम् अपि प्रतिषेधं कर्तुं 'शाश्वतः' इत्यादीनां शब्दानाम् उपयोगः अभवत् । सर्वदा यः विद्यमानः सः शाश्वतः । 'शाश्वत' इत्यनेन शब्देन अपक्षयरूपस्य विकारस्य प्रतिषेधः कृतः । यतो हि आत्मा अवयवरहितः अस्ति । अतः तस्मिन् स्वरूपगतं भयं न भवितुम् अर्हति । तथा च निर्गुणत्वाद् गुणानां क्षयेऽपि तस्य क्षयः न भवति । 'पुराणः' इत्यनेन शब्देन अपक्षयस्य विपरीतस्य वृद्धिरूपविकारस्यापि प्रतिषेधः कृतः । यः पदार्थः कस्यापि अवयवस्य उत्पत्त्या पुष्टः भवति, सः 'वर्धते', 'नवीभवति' इत्यादि उच्यते । परन्तु एषः आत्मा तु अवयवरहितः अस्ति । अतः एषः सर्वदा नवीनः अस्ति । अतः पुराणः इति कथनं युक्तिसङ्गतम् । अर्थात् सः न कदापि वृद्धिं गच्छति । तथा च शरीरस्य नाशे सति अर्थात् विपरीतपरिणामे प्राप्ते सत्यपि आत्मा न नश्यति । अर्थात् दुर्बलतादयः अवस्थाः आत्मनः न भवन्ति । अत्र 'हन्ति' इत्यस्य क्रियापदस्य अर्थः पुनरुक्तिदोषाद् रक्षयितुं विपरीतपरिणामः इति स्वीकर्तव्यः । एवम् आत्मा स्वरूपं न परिवर्तयति इत्यर्थः भवति । एतस्मिन् प्रकारे लौकिकवस्तुषु जायमानानां षड् भावविकाराणाम् आत्मनि अभावः प्रदर्शितः । आत्मा सर्वेभ्यः विकारेभ्यः रहितः इति एतस्य मन्त्रस्य वाक्यार्थः । अतः तौ उभौ आत्मस्वरूपं न जानीतः इति पूर्वश्लोकेन सह एतस्य सम्बन्धः भवति । उक्तैः एव हेतुभिः नित्यत्वाद् अपरिणामित्वाद् आत्मनो जन्ममरणादयः सर्व एव अचेतनदेहधर्मा न सन्ति इति उच्यते। तत्र न जायते म्रियत इति वर्तमानतया सर्वेषु देहेषु सर्वैः अनुभूयमाने जन्ममरणे कदाचिद् अपि आत्मानं न स्पृशतः। नायं भूत्वा भवति वा न भूयः अयं कल्पादौ भूत्वा भूयः कल्पान्ते च न भविता इति न। केषुचित् प्रजापतिप्रभृतिदेहेषु आगमेन उपलभ्यमानं कल्पादौ जननं कल्पान्ते च मरणम् आत्मानं न स्पृशति इत्यर्थः। अतः सर्व देहगत आत्मा अजः अत एव नित्यः शाश्वतः प्रकृतिवदविशदसततपरिणामैः अपि न अन्वीयते। अतः पुराणः पुरातनः अपि नवः सर्वदा अपूर्ववद् अनुभाव्य इत्यर्थः। अतः शरीरे हन्यमाने अपि न हन्यते अयम् आत्मा । उपर्युक्तकारणैः एव आत्मा नित्यः, परिणामरहितश्च । अतः तस्मिन् अचेतनस्य देहस्य जन्ममृत्य्वादयः धर्माः न भवन्ति इति उच्यते – 'आत्मा न जायते, न म्रियते' इत्यस्य अभिप्रायः अस्ति यत्, वर्तमाने साधारणदृष्ट्या सर्वेषां शरीराणाम् अनुभवे आगम्यमानाः जन्ममृत्य्वादिविकाराः आत्मनः स्पर्शं कर्तुं न प्रभवन्ति । 'एषः आत्मा भूत्वा पुनः न भवति' अतः आत्मा कल्पारम्भे भूत्वा कल्पान्ते नंक्ष्यति इति नास्ति । अभिप्रायः अस्ति यत्, यस्य कस्यापि प्रजापतेः शरीरे कल्पारम्भे जननविकारः, कल्पान्ते च मरणविकारश्च ये शास्त्रेषु उक्ताः, ते आत्मनः स्पर्शं कर्तुं न शक्नुवन्ति इति । अत एव पीपिलाकातः प्रजापतिपर्यन्तं सर्वेषु देहेषु स्थितः आत्मा अजन्मा अस्ति । अतः नित्यः, शाश्वतश्च अस्ति । प्रकृतौ निरन्तरं जायमानानि अविशदपरिवर्तनानि अपि तस्मिन् न भवन्ति । अत एव सः पुराणः सन्नपि नवीनः । सर्वदा अपूर्ववद् अनुभाव्यः । अत एव शरीरे मारितेऽपि सः आत्मा न हन्यते । 1) तं तथा कृपयाविष्टम्... 2) कुतस्त्वा कश्मलमिदं... 3) क्लैब्यं मा स्म गमः पार्थ... 4) कथं भीष्ममहं सङ्ख्ये... 5) गुरूनहत्वा हि महानुभावान्... 6) न चैतद्विद्मः कतरन्नो गरीयो... 7) कार्पण्यदोषोपहतस्वभावः... 8) नहि प्रपश्यामि ममापनुद्याद्... 9) एवमुक्त्वा हृषीकेशं... 10) तमुवाच हृषीकेशः... 11) अशोच्यानन्वशोचस्त्वं... 12) न त्वेवाहं जातु नासं... 13) देहिनोऽस्मिन्यथा देहे... 14) मात्रास्पर्शास्तु कौन्तेय... 15) यं हि न व्यथयन्त्येते... 16) नासतो विद्यते भावो... 17) अविनाशि तु तद्विद्धि... 18) अन्तवन्त इमे देहा... 19) य एनं वेत्ति हन्तारं... 20) न जायते म्रियते वा कदाचिन्... 21) वेदाविनाशिनं नित्यं... 22) वासांसि जीर्णानि यथा विहाय... 23) नैनं छिन्दन्ति शस्त्राणि... 24) अच्छेद्योऽयमदाह्योऽयम्... 25) अव्यक्तोऽयमचिन्त्योऽयम्... 26) अथ चैनं नित्यजातं... 27) जातस्य हि ध्रुवो मृत्युः... 28) अव्यक्तादीनि भूतानि... 29) आश्चर्यवत्पश्यति कश्चिदेनम्... 30) देही नित्यमवध्योऽयं... 31) स्वधर्ममपि चावेक्ष्य... 32) यदृच्छया चोपपन्नं... 33) अथ चेत्त्वमिमं धर्म्यं... 34) अकीर्तिं चापि भूतानि... 35) भयाद्रणादुपरतं... 36) अवाच्यवादांश्च बहून्... 37) हतो वा प्राप्स्यसि स्वर्गं... 38) सुखदुःखे समे कृत्वा... 39) एषा तेऽभिहिता साङ्ख्ये... 40) नेहाभिक्रमनाशोऽस्ति... 41) व्यवसायात्मिका बुद्धिः... 42) यामिमां पुष्पितां वाचं… 43) कामात्मानः स्वर्गपरा… 44) भोगैश्वर्यप्रसक्तानां... 45) त्रैगुण्यविषया वेदा... 46) यावानर्थ उदपाने... 47) कर्मण्येवाधिकारस्ते... 48) योगस्थः कुरु कर्माणि... 49) दूरेण ह्यवरं कर्म... 50) बुद्धियुक्तो जहातीह... 51) कर्मजं बुद्धियुक्ता हि... 52) यदा ते मोहकलिलं... 53) श्रुतिविप्रतिपन्ना ते... 54) स्थितप्रज्ञस्य का भाषा... 55) प्रजहाति यदा कामान्... 56) दुःखेष्वनुद्विग्नमनाः... 57) यः सर्वत्रानभिस्नेहः... 58) यदा संहरते चायं... 59) विषया विनिवर्तन्ते... 60) यततो ह्यपि कौन्तेय... 61) तानि सर्वाणि संयम्य... 62) ध्यायतो विषयान्पुंसः... 63) क्रोधाद्भवति सम्मोहः... 64) रागद्वेषवियुक्तैस्तु... 65) प्रसादे सर्वदुःखानां... 66) नास्ति बुद्धिरयुक्तस्य... 67) इन्द्रियाणां हि चरतां... 68) तस्माद्यस्य महाबाहो... 69) या निशा सर्वभूतानां... 70) आपूर्यमाणमचल... 71) विहाय कामान्यः सर्वान्... 72) एषा ब्राह्मी स्थितिः पार्थ...
{ "source": "wikipedia" }
दीपकभाई महेता /ˈːəəɑːː əɛɑː/) प्रसिद्धः शिक्षणविद्, प्रकृतिविद्, लेखकः, कविः, वक्ता चासीत् । शिक्षकत्वेन स्वस्य कार्यकालस्य बहुदीर्घकालः तेन श्रीदक्षिणामूर्ति-संस्थायां यापितः । बालशिक्षणविदः गिजुभाई बधेका इत्यस्य विचारैः प्रभावितः दीपकः बाल्यशिक्षणस्य विषये गूढचिन्तनं करोति स्म । परन्तु सः केवलं गिजुभाई इत्यस्यैव अनुसरणम् अकरोत् इति दोषपूर्णमेव । कारणं गिजुभाई इत्यनेन तु बाल्यशिक्षणस्य गूढतया अध्ययनं कृतमासीत् । परन्तु दीपकेन बाल्यावस्थायाः चिन्तनेन सह कुमारावस्थायाः शिक्षणरीत्याः अपि प्रयोगात्मकम् अध्ययनं कृतम् । बाल्यशिक्षणं समाप्य यदा बालकः कुमारावस्थां प्रविशति, तदा तस्मिन् यानि परिवर्तनानि भवन्ति, तेषां परिवर्तनानाम् अनुगुणं शिक्षणस्य रीतिः अपि आवश्यकी इति विचिन्त्य तेन किशोरशिक्षणस्योपरि ध्यानं केन्द्रितम् । किशोरावस्थां प्रविश्य बालकः साक्षात् युवावस्थां प्रति धावति । तत्र शारीरिकपरिवर्तनेन सह मानसिकपरिवर्तनमपि अत्यावश्यकम् । युवा यदि आत्मनियन्त्रितः नास्ति, तर्हि तस्य शक्तेः अपव्ययः, दुरुपयोगश्च निश्चितः । अतः तस्य चिन्तनमासीत् यत्, "किशोरावस्थायामेव बालकेषु आत्मनियन्त्रणशक्तिं विकासयितुं प्रयासः करणीयः" इति । "किशोरावस्था तु बहुमुखिप्रतिभायाः विकासस्य अवसरस्य कालः" इति विचारस्यापि सः समर्थकः आसीत् । किशोरावस्थायामेव बालकः स्वस्मिन् विद्यमानप्रतिभायाः विकासार्थं प्रयासं प्रारभते चेत्, जीवनस्य बहव्यः समस्याः अपाभवन्ति इत्यपि सः मन्यते स्म । 1936 तमस्य वर्षस्य 'सितम्बर'-मासस्य त्रिंशत्-तमे दिनाङ्के महाराष्ट्रराज्यस्य मुम्बई-महानगरे दीपकस्य जन्म अभवत् । तस्य बाल्यजीवनं गुजरातराज्यस्य तळाजा-ग्रामे व्यतीतम् । तस्य पत्न्याः नाम हेमलता आसीत् । तयोः चत्वारः शिशवः आसन् । तेषु एकः बालकः, तिस्रः बालिकाश्च । बालिकानां नाम क्रमेण जयाबेन, कृष्णाबेन, हीनाबेन च आसीत् । पुत्रस्य नाम प्रणवः आसीत् । दीपकस्य प्राथमिकशिक्षणं गुजरातराज्यस्य भावनगरमण्डलस्य तळाजा-ग्रामे प्रारब्धम् । ततः माध्यमिकशिक्षणं प्राप्तुं सः महुवा-नगरम् अगच्छत् । तत्र 'एम.एन. हाईस्कूल' मध्ये तेन माध्यमिकशिक्षणं प्राप्तम् । ततः अग्रे अभ्यासार्थं सः भावनगरम् अगच्छत् । भावनगरस्य भावनगरविश्वविद्यालये आङ्ग्ल-साहित्यविषयं स्वीकृत्य अध्ययनं प्रारभत । पञ्चवर्षं यावत् कठोरपरिश्रमेण 'बी.ए., एम.ए.' इत्यनयोः अभ्यासं समापितवान् सः । ज्ञानपिपासुः दीपकः भावनगरविश्वविद्यालये स्थित्वैव शिक्षाशास्त्रिणः, शिक्षाचार्यस्य च पदवीं प्राप्तत् । ततः सः 'एल.एल.बी' पदवीम् अपि प्रापत् । शिक्षणविषये स्वस्य रुचित्वात् तेन शिक्षाशास्त्रि-शिक्षाचार्यपदव्यौ प्राप्ते । परन्तु तस्य प्रकृति-विषये अपि बहुरुचिः आसीत् । अतः स्वस्य जीवनस्य उत्तरार्धे तेन 'मरीन सायंस' इत्यस्मिन् विषये शिक्षाविशारदस्य पदवी प्राप्ता । दीपकेन प्राथमिकशिक्षकत्वेन स्वस्य योगदानं भावनगरस्य शिशुविहारसंस्थायै, 'घरशाळा' इत्याख्यै संस्थायै च प्रदत्तम् । ततः 1973 तमे वर्षे दक्षिणामूर्तिसंस्थाद्वारा सञ्चालिते 'प्रि.पी.टी.सी.'-महाविद्यालये आचार्यत्वेन तस्य नियुक्तिः अभवत् । 1996 तमे वर्षे दक्षिणामूर्तिसंस्थाद्वारा सञ्चालिते दक्षिणामूर्तिविनयमन्दिरम् इत्यस्मिन् विद्यालये आचार्यत्वेन तस्य नियुक्तिः अभवत् । 1989 तमे वर्षे तेन आचार्यपदस्य त्यागपत्रं दत्त्वा स्वस्य जीवनस्य लक्ष्यं परिवर्तितम् । ततः सः स्वस्य प्रतिभानुसारं विभिन्नेभ्यः क्षेत्रेभ्यः स्वयोगदानम् अददत् । सः गुजरातपाठ्यपुस्तकमण्डलस्य कृते गुजराती-गणित-पर्यावरणविषयाणां पुस्तकानि अलिखत् । पीरमद्वीपस्य पर्यावरणसंरक्षणार्थं तेन दीर्घकालं यावत् कार्यं कृतम् । तेन जलसङ्ग्रहादिविषये अनेकानि शिबिराणि आयोजितानि अपि । जलचरकच्छपस्य संरक्षणार्थं तेन केन्द्राणि स्थापितानि । तस्य अविरतप्रयासेन जलचरकच्छपस्य 'ओलिव रिडली'-प्रजातेः, हरितजलचरकच्छपजातेः च संरक्षणम् अभूत् । सः शिक्षकः आसीत् । परन्तु तस्य रुचिः लेखनकार्ये अपि अधिका आसीत् । अतः तेन पुस्तकानि अपि लिखितानि । यथा – 1. धरतीने छेडे दीवादाण्डी – 1976 – जुलेस वेर्न इत्यस्य पुस्तकस्य अनुवादं कृतम् । 2. शिक्षण – भितरनो खजानो – 'युनेस्को' इत्यस्य 'वर्ल्ड एज्युकेशन रिपोर्ट' इत्यस्य भावनगरविश्वविद्यालयाय अनुवादं कृतम् । 3. रोज सवारे – स्वनिर्मितः काव्यसङ्ग्रहः 4. पीरम बेट एक झलक – 1994 भावनगरस्य 'कृष्णकुमारसिंहजी एवन्यु' इत्यस्य गीताचोक-नामके स्थाने 'अहिच्छत्र'-संस्कारकेन्द्रे सः उपस्थितः आसीत् । 2004 तमस्य वर्षस्य ‘मई’-मासस्य अष्टाविंशतितमे दिनाङ्के तत्र आजीविकामार्गदर्शनशिबिरस्य आयोजनम् आसीत् । तस्मिन् शिबिरे दीपकः भाषणे रतः आसीत् । भाषणे रतः सः सहसा भूमौ पतितः । ततः तं रुग्णालयं प्रति सर्वे अनयन् । परन्तु तस्य प्राणस्य रक्षणं नाभूत् । एवं हृदयाघातेन तस्य मृत्युः अभवत् । जीवनस्य अन्तिमे श्वासे अपि सः अन्यस्य मार्गदर्शनं कुर्वन् आसीत् । कर्मयोगी दीपकः सर्वदा व्यक्तित्वनिर्माणकार्ये व्यस्तः भवति स्म । तदेव तस्य सुखस्रोतः आसीत् । स्वस्य जीवनं प्रति तस्य कथनमासीत् – "दीपकना जीवननी मेळवणी – कविता, कुदरत, केळवणी " । अस्यार्थः दीपकस्य जीवनस्य सारः – कविता, प्रकृतिः, शिक्षणम् इति । दक्षिणामूर्तिः पीरमद्वीपः भावनगरविश्वविद्यालयः भावनगरम्
{ "source": "wikipedia" }
आचार्यः प्रफुल्लचन्द्ररायः एकः भारतीयः रसतन्त्रज्ञः, शिक्षकः समाचारपत्रस्य सम्पादकश्च आसीत्। 'बेङ्गल् केमिकल्स् एन्ड् फार्मास्यूटिकल्स्' इति नाम्न्याः भारतस्य प्रथमायाः भेषजरसायनसंस्थायाः सः संस्थापकः। सः 'ए हिस्ट्री आफ् हिन्दु केमिस्ट्री फ्रम् द अर्लियस्ट् टैम्स् टु द मिडिल् आफ् सिक्सटीन् सेञ्चुरी' इति नाम्नः विख्यातग्रन्थस्य लेखकः । रायमहोदयः अद्यतनस्य बाङ्लादेशस्य खुलनामण्डले रारुलि-कटापरग्रामे जनिमलभत। तस्य पिता भूस्वामी हरिश्चन्द्ररायः । नववर्षपर्यन्तं सः ग्रामे एवापठत्। 1870 तमे वर्षे सपरिवारेण सह सः कोलकत्तानगरमुदावसत्। रायः तस्य अग्रजः च हरे शालां प्रवेशितौ। 1874 मध्ये यदा रायः चतुर्थ्यां कक्ष्यायां पठन्नासीत् तदा सः तीक्ष्णेन पाकातिसारघातेन ग्रस्तः येन सः आजीवनं पीडितः। वर्षद्वयं सः शालां गन्तुमशक्नोत्। सः पुनः स्वग्रामं गतवान्। तत्र सः शालायाः अभ्यासक्रमस्य अपेक्षया अधिकम् अध्ययनम् अकरोत्। सः लेत्ब्रिज् इत्यस्य 'सेलेक्शन्स् फ्रम् माडर्न् इङ्ग्लिश् लिटरेचर्' गोल्डस्मित् इत्यस्य 'विकार् आफ् वेक्फील्ड्' च पठितवान्। समुत्थानानन्तरं सः कोलकत्तां प्रत्यागत्य अल्बर्ट शालां प्रविष्टवान् च। 1879 मध्ये सः प्रवेशपरीक्षामुत्तीर्य मेट्रोपालिटन् संस्थायां प्रवेशं प्राप्तवान्। मेट्रोपालिटन् संस्था पण्डितेन ईश्वरचन्द्रविद्यासागरेण स्थापिता। तदा मेट्रोपालिटन् संस्थायां विज्ञानविषये पाठनं प्रयोगशाला वा न आसन्। अतः रायः बाह्यशिष्यरूपेण प्रेसिडेन्सी महाविद्यालयं गच्छन्नासीत् भौतिकशास्त्रस्य रसतन्त्रशास्त्रस्य च वर्गाणां कृते। तत्र एलेक्सान्डर् पेड्लर् इत्यस्य रसतन्त्रव्याख्यानानि अतीव अरोचन्त तस्मै। 1882 मध्ये अखिलभारतीयपरीक्षानन्तरं द्वयोः गिल्क्रिस्ट्-पुरस्कारयोः तेन एकः प्राप्तः। भारते पदवीशिक्षाम् असमाप्य एव सः आङ्ग्लदेशं गतवान्। तत्र एडिन्बराह महाविद्यालये सः वैज्ञानिकपदवीशिक्षां प्राप्तवान्। तदा सः तत्र अन्यविषयैः सह भौतिकशास्त्रं, रसायनशास्त्रं जीवशास्त्रं च अधीतवान्। तस्य रुचिः इतिहासे अपि आसीत्। सः बहूनि ऐतिहासिकपुस्तकानि पठितवान्। नयार्थशास्त्रविषये अपि तेन पुस्तकानि पठितानि। पदवीशिक्षोपाधिं प्राप्य सः विद्यावारिधिमपि प्राप्तवान् 1887 मध्ये। सः होप् पुरस्कारच्छात्रवृत्त्या सम्मानितः येन सः वर्षाधिकावधिं स्वीयसंशोधनविषये यापनाय अवसरं प्राप्नोत्। "काॅन्जुगेटड् सल्फेट्स् आॅफ दि काॅपर्-मॅग्निसियम् ग्रूप्ः ए स्टडी आॅफ ऐसोमोर्फस् मिक्स्शर्स् एन्ड् मोलेक्युलर् कोम्बिनेशन्स्" इति आसीत् तस्य विद्यावारिधिप्रबन्धस्य शीर्षकम्। 1888 तमे वर्षे अध्ययनावसरे एव सः एडिन्बराह-महाविद्यालय-रसायनशास्त्र-संस्थायाः उपाध्यक्षः आसीत् । अगस्त 1889 मध्ये सः भारतदेशं प्रत्यागतवान्। प्रेसिडेन्सी महाविद्यालये तस्य नियुक्तिः अभवत् रसायनशास्त्रस्य उपप्राध्यापकपदे। एषा नियुक्तिः अचिरस्थायी। अतः सः दुःखितः यत् उत्कृष्टोपाख्यानानि आसन्नपि सः चिरस्थायिपदं प्राप्तुमशक्नोत्। सः राष्ट्रशासनाय स्वदुःखं न्यवेदयत् परन्तु उत्तरं न प्राप्तवान्। 1896 मध्ये सः 'मेर्क्युरस् नैट्रैट्' इत्यस्य स्थिररसायनिकसंयोगस्य विषये संशोधनपत्रं प्रस्तुतवान्। अनेन बहवः प्रेरिताः अस्मिन् विषये संशोधनं च प्रारब्धम्। 1924 मध्ये सः भारतीय-रसायनशास्त्र-शालां स्थापितवान्। सः प्रेसिडेन्सी महाविद्यालयात् 1916 मध्ये निवृत्तिं प्राप्य कोलकत्ता विज्ञानविश्वविद्यालयं 'पालिट्-रसायनशास्त्र-प्राध्यापकत्वेन' प्रविष्टः। तत्रापि विविधानां रसायनिकसंयोगानां संशोधनं कृतं तेन श्रद्धापूर्वकस्य सुशिष्याणां साहायेन। बहूनि संशोधनपत्राणि प्रकाशितानि तेन भारतीय-रसायन-सभायाः पत्रिकायाम्। तस्य षष्टितमे वर्षें सः सम्पूर्णं वेतनं कोलकत्ता विश्वविद्यालयाय दानं कृतवान् येन तत्र रसायनशास्त्रसंशोधनं वर्धेत विज्ञानविश्वविद्यालये रसायनशास्त्रविभागः अपि विस्तारं प्राप्नुयात् इति धिया। तस्य पञ्चसप्ततितमे वर्षे सः कार्यनिवृत्तिं प्राप्य 'प्रोफेसर् एमिरेटस्' अभवत्। 1920 पर्यन्तं यावत् तेन रसायनशास्त्रस्य सर्वासु शाखासु 107 संशोधनपत्राणि प्रकाशितानि। रायमहोदयः बहुषु बाङ्लभाषायाः मासिकपत्रिकासु लिखन्नासीत् प्रायशः विज्ञानविषयोपरि। 'वङ्गीयस्य रसज्ञस्य जीवनम् अनुभवाः च' इति तस्य आत्मकथायाः प्रथमखण्डं सः प्रकाशितवान् 1932 तमे संवत्सरे। द्वितीयः खण्डः 1935 संवत्सरे प्रकाशितः। 1902 संवत्सरे सः 'ए हिस्ट्री आफ् हिन्दु केमिस्ट्री फ्रम् द अर्लियस्ट् टैम्स् टु द मिडिल् आफ सिक्सटीन् सेञ्चुरी' इत्यस्य ग्रन्थस्य प्रथमखण्डं प्रकाशितवान्। 1908 मध्ये च द्वितीयं खण्डम्। संस्कृतस्य ताडग्रन्थानां सुदीर्घम् अध्ययनं कृत्वा पौरस्त्यानां संशोधनपठनानन्तरमेव सः एतं ग्रन्थं विरचितवान्। 1923 तमे संवत्सरे उत्तरवङ्गीयप्रदेशः जलप्रवाहेण पूर्णतया ग्रस्तः येन बहवः जनाः अदेशिकाः क्षुधाविष्टाः च अभवन्। रायः वङ्गीयोपशमसमितिं स्थापयित्वा 2.5 दशलक्षमूल्यकानि रूप्यकाणि आवश्कवस्तूनि च सङ्गृहीतवान्। पीडितेभ्यः व्यतरत् च।सः नियतरूपेण सद्धारणब्रह्मोसमाजाय, ब्रह्मोसमाज बालिकानां शालायै, भारतीय-रसायनशास्त्र-संस्थायै च दानं कुर्वनन्नासीत् । 1922 तमे वर्षे रसायनशास्त्रे अत्युत्तमकार्याय नागार्जुनपुरस्कारः, 1937 तमे वर्षे प्राणिविज्ञानविषये उत्तमसंशोधनार्थम् आशुतोष मुखर्जी पुरस्कारः च तेनैव संस्थापितः । एडिन्बराहविश्वविद्यालयतः 1887 तमे वर्षे तेन डि एस्सि उपाधिः प्राप्ता । 1908 तमे वर्षे कलकत्ता विश्वविद्यालयतः गौरवडाक्टरेट् उपाधिः तेन प्राप्ता । डर्हम् विश्वविद्यालयतः 1912 तमे वर्षे गौरव डि एस्सि पदवी प्राप्ता, ढाका विश्वविद्यालयतः 1936 तमे वर्षे प्राप्ता । 1911 तमे वर्षे सः 'कम्पेनियन् आफ् दि इण्डियन् एम्पैर्' जातः । जर्मनीदेशस्य मुनिच्-नगरे विद्यमानस्य केमिकल् सोसैटि अण्ड् डिस्के अकाडेमि संस्थायाः गौरवसदस्यः वर्तते अयम् । 1917 तमे वर्षे अनेन नैट् हुड् सम्माननं प्राप्तम् । भारतीयविज्ञानकाङ्ग्रेस्-संस्थायाः 1920 तमस्य आयोजनस्य अध्यक्षः आसीत् । रायल् सोसैटि आफ् केमिस्ट्रि संस्थया सम्मानितः प्रथमः अनिवासी-युरोपीयः अस्ति अयम् । सः आजीवनं ब्रह्मचारी आसीत् । सः राजनीतिक्षेत्रे सक्रियं पात्रम् अवहत् । तस्य पिता हरीशचन्द्ररायः ब्रह्मोत्सव समाजे निष्ठावान् कार्यकर्ता आसीत् । अतः तस्य ब्रह्मोसमाजेन सह सम्बन्धः बाल्यात् एव आरब्धः। सः प्रति रविवासरे केशब्चन्द्रसेनस्य प्रवचनानि श्रोतुं तत्र गच्छन्नासीत्। केशब्चन्द्रसेनस्य 'सुलभसमाचारेण' सः अतिप्रेरितः। तस्य सप्ततितमजन्मोत्सवे रवीन्द्रनाथटागोरः अवदत् - "उपनिषत्सु उक्तं यत् भगवान् उवाच एकोऽहं बहु स्यामिति। सृष्टेः आरम्भः नाम आत्मार्पणमार्गे गमनमिति । प्रफुल्लचन्द्रः तस्य शिष्याणां द्वारा बहुरूपः जातः अस्ति । स्वीयं हृदयं बहुषु हृदयेषु सचेतनं कृतवान् अस्ति। एतत् सर्वमशक्यं भवेत् यदि सः अपराङ्गमुखं भूत्वा स्वमेव उपहारं न कृतवान् चेत्। तस्य ख्यातिः कदापि न अपकर्षति सदैव वर्धेत एव वर्धमानायां प्रज्ञायां यूनाम् हृदयेषु । नित्यधैर्यतया ते नूतनानि ज्ञानरत्नानि जयिष्यन्ति।" एतैः वाक्यैः प्रफुल्ल्चन्द्ररायस्य प्रभावः स्पष्टरया ज्ञायते। कोलकत्तायाम् आचार्य प्रफुल्लचन्द्ररायविश्वविद्यालयः, प्रफुल्लचन्द्ररायविश्वविद्यालयः, आचार्य प्रफुल्लचन्द्रराय बालकविद्यालयः, आचार्य प्रफुल्लचन्द्रराय पोलिटेक्निक् इत्येताः शैक्षणिकसंस्थाः तस्य नाम्ना सन्ति । अपि च बाङ्लादेशस्य बागेरहट्टे होरिन्खानायां बागेरहट्ट पी. सी. विश्वविद्यालयः तस्य नाम्ना अस्ति। एतेभ्यः सः अद्यापि सम्मानितः।
{ "source": "wikipedia" }
केरळ-राज्यं भारतस्य दक्षिण-पश्चिमदिशि स्थितम् अस्ति । अस्य मूलनाम “केरालयम्” इति आसीत् । मलयाळ-भाषायां “नारिकेलस्य देशः” इति तस्य अर्थः भवति । पुरा “मलनाडु”, “भार्गवक्षेत्रं”, “चेरल” च अस्य राज्यस्य नामानि आसन् । मौर्यशासकस्य अशोकस्य कस्मिंश्चित् शिखालेखे अस्य राज्यविषये “केरळस्य पुत्रः” इति उल्लेखितम् अस्ति । केरळराज्ये कैरळी अथवा मलयाळम् इत्येषा भाषा उपयुज्यते‌। केरळराज्यस्य सीमा पश्चिमे अरबीयसमुद्रः, पूर्वे दक्षिणे च तमिऴ्‌नाडु, उत्तरे कर्णाटकं च। गोकर्णम् आरभ्य कन्याकुमारीक्षेत्रं यावत् भूभागः कदाचित् केरळभूमिरासीत् । परन्तु, उत्तरतः दक्षिणं यावत् केचन भागाः अन्यत्र योजिताः । अतः अवशिष्टः मध्यभागः एव सम्प्रति केरळराज्यं वर्तते । भारतस्य दक्षिणभागे पश्चिमकोणे उत्तराक्षांशः 8°18'-12°48'–मध्ये, पूर्वरेखांशः 74°52'-77°22'-मध्ये एव केरळराज्यम् वर्तते । केरळराज्ये वत्सरस्य अर्धाधिकं कालं मेघो वर्षति । प्रवहन्ति प्रभूतजलाः नद्यो भूयस्यः । भूप्रकृतिमनुसृत्य केरळं मलनाड्, इडनाड्, तीरसमतलम् इति त्रिधा विभक्तं वर्तते । पूर्वसीमि सह्याचलप्रदेशः एव मलनाट् । पश्चिमे भागे समुद्रतीरसमीपस्थितस्य समतलस्य तथा मलनाड् इत्यस्य च मध्ये वर्तमानः निम्नोन्नतप्रदेशः एव इडनाड् । मलनाड् भागस्य विस्तृतिः 21850 च.कि.मी इदं केरळविस्तृते 56% भवति । औनत्ये प्रथमं स्थानं हिमालयस्थानां शृङ्गाणामेव । द्वितीयं स्थानं केरळस्य पश्चिमघट्टे स्थितस्य आनमुडि शॄङ्गस्यैव । केरळ-राज्यस्य जलवायुः उष्णकटिबन्धीयः अस्ति । इदं राज्यं भूमध्यरेखायाः समीपे स्थितम् अस्ति । अतः अस्मिन् राज्ये उष्णतायाः आधिक्यं भवति । किन्तु अरब-महासागरस्य जलवायुः आर्द्रः भवति । तेन कारणेन उष्णतायां न्यूनता भवति । फरवरी-मासतः मई-मासपर्यन्तं ग्रीष्मर्तुः भवति । जून-मासतः सितम्बर-मासपर्यन्तं वर्षर्तुः भवति । शीतर्तौ अस्य नगरस्य तापमानं 22 डिग्री से. तः 32 डिग्री से. पर्यन्तं भवति । पेरियार, भारतपूजहा, पाम्बा, चालाकुडी च इत्यादयः केरळ-राज्यस्य प्रमुखाः नद्यः सन्ति । अस्य राज्यस्य दक्षिणभागे अल्पमात्रायां वर्षा भवति । किन्तु औत्तराहभागेषु वर्षायाः आधिक्यं भवति । आवर्षं 40 तः 200 इन्च् मात्रात्मिकाः वर्षाः भवन्ति । अनेन कारणेन अस्य राज्यस्य नद्यः जलेन परिपूर्णाः भवन्ति । एवं च परिवहनाय नदीमार्गाः अपि प्रयुज्यन्ते । केरळे 44 नद्यः सन्ति । तासु 41 नद्यः पूर्वभागात् पश्चिमदिशि अरबसागरेण ततलयं प्राप्नुवाद्भिः कासारैश्च मिलन्ति । दीर्घा नदी- निळा ह्रस्वे नद्यौ- पूरप्परम्पनदी, कलनाटनदी च । आनमला एव निळायाः उद्भवस्थानम् । गायत्री, कण्णगी, कल्पाली, नूता च निळायाः पोषकनद्यः । पेरियार देविकुलसमीपस्थात् शिवगिरेः उद्भूय पीरुमेट देविकुलं तोटुपुळा, मूवाट्टुपुळा कुन्नलुनाट परवूरु उपमण्डलैः आलुवां प्राप्य द्विधा भवति । ततः नद्याः एका शाखा चालक्कुटीनद्या मिलति । अपरा तु वेम्पनाटकासरेण च मिलति । चालियार् नदी एलम्परलिगिरेः उदभवति । बेप्पूरागत्य सागरेण मिलति । पम्पा शबरिगिरेः समीपस्थात् पीरुमेडुतः उद्भवति । कतलटयार् नदी कुललूजुषागिरेः उद् भूय अष्टमुडिकासारेण मिलति । पूर्वगामिनिषु नदीषु पाम्पार, भवानी च तामिळ्नाड् राज्यं प्रति, कबनी कर्णाटकं प्रति च गच्छति । पाश्चिमवाहिन्यः 1.पारपार 2.भवानी 3.कबनी 260 च.कि.मी दैर्घ्ययुतः वेम्पानाटकासारः एव कासारेषु प्रथमस्थानम् आप्नोति । अष्टमुडिकासारस्य दैर्घ्यं 55 च कि.मी । अन्ये कासारास्तु वेली, कटिनंकुलं अञ्चुतेड्डु इटवा, नटयरा, परवूरु, कायङ्कुलं कोटिङ्गुल्लूरु इत्येत् । प्रकृतिदत्तशुद्धजलकासारो भवति शास्ताङ्कोट्टा। विस्तृतिः 4-च.कि.मी अगधता 47 पादमिता । रामायण-महाभारत-आदिकाव्ययोः अस्य राज्यस्य उल्लेखः प्राप्यते । प्रथमपञ्चशताब्द्यां केरळ-राज्यं तमिऴकाम-क्षेत्रस्य कश्चन भागः आसीत् । तस्मिन् क्षेत्रे पाण्ड्य-शासकानां, चौल-शासकानां, चेर-शासकानां च शासनम् आसीत् । ये अरबव्यापारिणः आसन्, तैः षष्ठशताब्दीतः अष्टमशताब्दीपर्यन्तम् अस्मिन् क्षेत्रे इस्लाम-धर्मस्य प्रभावः स्थापितः आसीत् । अष्टमशताब्दीतः द्वादशशताब्दीपर्यन्तं कुलशेखर-राजवंशस्य शासनम् आसीत् । तस्मिन् काले अस्य क्षेत्रस्य प्रमुखा भाषा “मलयाळम्” अभवत् । ई. स. 1498 तमे वर्षे पुर्तगालदेशीयः वास्कोडिगामा इत्याख्यः व्यापारी कालीकट-तटं प्राप्तवान् । सः प्रथमः व्यापारी आसीत्, यः समुद्रमार्गेण भारतम् आगतवान् आसीत् । तदनन्तरं हॉलेण्ड्, फ्रान्स्, इङ्ग्लैण्ड् इत्यादिभ्यः देशेभ्यः व्यापारिणः समागतवन्तः । यूरोपदेशीयाः समूहाः अत्र आगत्य यन्त्रागारान् स्थापितवन्तः । भारतस्य स्वातन्त्र्यप्राप्त्यनन्तरम् ई. स. 1949 तमस्य वर्षस्य जुलाई-मासस्य 1 दिनाङ्के त्रावणकोरराज्यं, कॊच्चीनराज्यं च स्थापितम् । ई. स. 1956 तमे वर्षे द्वयोः राज्ययोः सम्मेलनेन केरळ-राज्यस्य निर्माणं कृतम् । केरळराज्ये 14 मण्डलानि सन्ति । केरळ-राज्यं भारतस्य राजनैतिकप्रयोगशाला कथ्यते । भारतदेशे यान्त्रिकीमतदानस्य प्रयोगः केरळ-राज्ये एव सर्वप्रथम् अभवत् । केरळ-राज्ये एकसदनात्मकं विधानमण्डलम् अस्ति । अस्मिन् राज्ये विधानसभायाः 140 स्थानानि सन्ति । केरळराज्ये लोकसभायाः 20 स्थानानि, राज्यसभायाः च 9 स्थानानि च सन्ति । विधानसभायाम् एङ्ग्लो-इण्डियन्-समूहस्य एकः प्रतिनिधिः नियोज्यते । केरळ-राज्ये बहूनि राजनैतिकसमूहाः, सङ्घटनानि च सन्ति । यथा - “भारतीय कम्युनिस्ट पार्टी”, “भारतीय राष्ट्रीय कॉङ्ग्रेस्”, “भारतीय जनता पार्टी”, “मुस्लिम लीग केरळ स्टेट् कमेटी”, “केरळ कॉङ्ग्रेस्”, “जनता दल ”, “रिवोल्यूशनरी सोशलिस्ट् पार्टी” च इत्यादयः केरळ-राज्यस्य राजनैतिकसमूहाः सन्ति । “ई. एम्. एस्. नम्बूदरीपाद” इत्याख्यः केरळ-राज्यस्य प्रथमः मुख्यमन्त्री आसीत् । सः भारतस्य “कम्युनिस्ट पार्टी इत्यस्य समूहस्य नेता आसीत् । ई. स. 1961 तमे वर्षे केरळ-राज्यस्य स्थापना अभवत् । ई. स. 1881 तमे वर्षे केरळ-राज्यस्य जनगणना कृता । सप्तदशशताब्द्याः प्रारम्भे केरळ-राज्यस्य जनसङ्ख्या प्रायः त्रिंशल्लक्षम् आसीत् । ई. स. 1850 तमे वर्षे पञ्चचत्वारिंशल्लक्षम् अभवत् । 1901 तमे वर्षे चतुष्षष्टीलक्षम् आसीत् । 1991 तमस्य वर्षस्य जनसङ्ख्या 291 लक्षम् आसीत् । 2001 वर्षस्य जनगणनायां केरळ-राज्यस्य जनसङ्ख्या 3,18,41,374 अभवत् । 2011 तमस्य वर्षस्य जनगणनायाम् अस्य राज्यस्य जनसङ्ख्या 3,33,87,677 अस्ति । तेषु 1,60,21,290 पुरुषाः, 1,73,66,387 महिलाः च सन्ति । । “मलयाळम्” केरळ-राज्यस्य प्रमुखा भाषा अस्ति । इयं द्रविडपरिवारस्य भाषासु अन्यतमा वर्तते । अस्याः भाषायाः उत्पत्तिविषयकानि विभिन्नमतानि सन्ति । उच्यते यत् – “भौगोलिककारणैः द्रविडभाषायाः स्वतन्त्ररूपेण समुद्भूता एषा मलयाळ-भाषा । अपरं मतम् अस्ति यत् – “तमिऴ-भाषायाः मलयाळ-भाषायाः उत्पत्तिः जाता । तमिऴ-संस्कृत-भाषाभ्यां सह मलयाळ-भाषायाः सम्बन्धः घनिष्ठः अस्ति । मलयाळ-भाषायाः साहित्यानि अपि अतीव पुरातनानि सन्ति । किन्तु त्रयोदशशताब्दीतः साहित्यिकभाषारूपेण अस्याः भाषायाः विकासः जातः । तस्मिन् काले लिखितं “रामचरितम्” मलयाळम्-भाषायाः आदिकाव्यं मन्यते । मलयाळ-भाषायाः साहित्यम् अष्टशताद्या प्राचीनम् अस्ति । किन्तु मलयाळ-साहित्यस्य प्राचीनतायाः प्रमाणं कस्यापि ग्रन्थे न प्राप्यते । “प्रारम्भिककाले लोकसाहित्यस्य प्रभावः आसीत्” इति मन्यते । मलयाळ-साहित्यकाराणां तमिऴ-भाषायै, संस्कृत-भाषायै महत्त्वपूर्णं योगदानम् अस्ति । केरळ-राज्यस्य बहुभिः विद्वद्भिः कन्नड-भाषायां, तुळु-भाषायां, कोङ्कणी-भाषायां, हिन्दी-भाषायां च अपि साहित्यानि रचितानि । एकोनविंशतिशताब्द्यां काव्यानि एव रचितानि आसन् । “रामचरितम्” इत्येतत् काव्यं मलयाळम्-साहित्यस्य प्रारम्भिकदशाम् अवबोधयति । “रामचरितम्” मलयाळ-भाषायाः प्रारम्भिककाव्यं मन्यते । तथापि केरळ-राज्यस्य साहित्यिकपरम्परा तस्मादपि प्राचीना अस्ति । पुरा केरळ-राज्यस्य साहित्यं तमिळ-भाषया सह सम्बद्धम् आसीत् । तमिऴ-भाषायाः प्रारम्भिकाणि साहित्यानि “सङ्गमकृतयः” इति नाम्ना ज्ञायन्ते । सङ्गमकालीनरचनानां प्राचीनकालस्य चेर-साम्राज्येन सह सम्बन्धः आसीत् । “पतिट्टिप्पत्तु” नामिका सङ्गमकालीना रचना अस्ति । तस्यां रचनायां चेर-राज्ञां प्रशस्तिगीतानि सन्ति । “सिलप्पदिकारं” इति नामकं महाकाव्यं “इलङ्गो अडिगल” इत्याख्येन कविना कृतम् आसीत् । तस्य जन्म अपि चेर-देशे अभवत् । “सिलप्पदिकारं” महाकाव्यस्य खण्डत्रयम् अस्ति । तेषु खण्डेषु “वञ्चिक्काण्डम्” नामके खण्डे चेर-देशस्य घटनानाम् उल्लेखः अस्ति । “नाबूदीरी”, “राम पणिक्कर” इत्याख्यौ तमिऴ-भाषायाः साहित्यकारौ आस्ताम् । अपरं च “एषुत्तच्छन” इत्याख्यः साहित्यकारः तमिऴ-भाषायाः जनकः मन्यते । ई. स. 1965 तमे वर्षे “जी. शङ्कर कुरुप” इत्याख्येन “ज्ञानपीठपुरस्कारः” प्राप्तः । “सरदार पणिक्कर”, “शिवशङ्कर पिल्लै”, “वैकम” च इत्यादयः मलयाळम्-भाषायाः गद्यकाराः सन्ति । 2011 वर्षस्य जनगणनानुसारं केरळ-राज्यस्य साक्षरतामानं 94 प्रतिशतम् अस्ति । अतः भारतस्य सर्वाधिकं साक्षरतामानम् अपि केरळ-राज्यस्य एव अस्ति । तेषु पुरुषाणां साक्षरतामानं 96.03 प्रतिशतं, महिलानां च साक्षरतामानं 91.98 प्रतिशतम् अस्ति । भारतस्य प्रथमं पूर्णसाक्षरनगरं केरळ-राज्यस्य कोट्टयम्-नगरम् अस्ति । एवं च भारतस्य प्रथमं पूर्णसाक्षरमण्डलम् अपि केरळ-राज्यस्य एर्णाकुल-मण्डलम् अस्ति । केरळ-राज्ये बहूनि शैक्षणिकसंस्थानानि सन्ति । “भारतीय प्रबन्धन संस्थानम्, कोझीकोड”, “केरळविश्वविद्यालयः, तिरुवनन्तपुरम्”, “कालीकटविश्वविद्यालयः,कोझीकोड”, “महात्मा गान्धी विश्वविद्यालयः, कोट्टयम्”, “कन्नौरविश्वविद्यालय, कन्नौर”, “सेण्ट्रल् मरीन् फिशरीज् रिसर्च् संस्थानम्, कॊच्ची”, “केन्द्रीय मत्स्य संस्थानम्”, “नॉटिकल् एण्ड् इञ्जीनियरिङ्ग् ट्रेनिङ्ग्, कॊच्ची”, “केरळ कृषि विश्वविद्यालयः, तृश्शूर्”, “केरळ इन्स्टीट्यूट् ऑफ् टूरिज्म् स्टडीज्, तिरुवनन्तपुरम्” च इत्यादीनि केरळ-राज्यस्य प्रमुखाणि शैक्षणिकसंस्थानानि सन्ति । केरळ-नगरस्य अर्थव्यवस्था कृष्याधारिता अस्ति । अस्य राज्यस्य 50 प्रतिशतं जनाः कृष्याधारिताः सन्ति । अस्मिन् राज्ये निर्यासस्य 92 प्रतिशतं, एलायाः 70 प्रतिशतं, श्यामवल्याः 98 प्रतिशतम् उत्पादनं भवति । राज्येऽस्मिन् अन्ये उपस्कराः अपि उत्पाद्यन्ते । तेषु श्यामवल्ली महत्त्वपूर्णा वर्तते । केरळ-राज्यम् “उपस्कराणां प्रदेशः” कथ्यते । अस्य राज्यस्य कृषिपद्धतिः अन्येषां राज्यानाम् अपेक्षया भिन्ना वर्तते । भारतस्य अन्येषां राज्यानाम् अपेक्षया अल्पजन्मवृद्धिमानं, अल्पशिशुमृत्युमानं, उच्चसाक्षरता, उच्चशिक्षणं च इत्यादिषु क्षेत्रेषु प्रगतिशीलम् अस्ति । एतानि सर्वाणि आर्थिकप्रगतेः कारणानि सन्ति । वाणिज्यिकः वित्तकोषः, सर्वकारीयः वित्तकोषः, मुद्रा विनिमय व्यवस्था, यातायातस्य विकासः, शिक्षास्वास्थ्यादिषु क्षेत्रेषु प्रगतिः इत्यादयः केरळ-राज्यस्य अर्थव्यवस्थायाः आधारः अस्ति । केरळ-राज्यस्य उद्योगाः प्राकृतिकसंसाधनाधारिताः सन्ति । हस्तशिल्पः, हस्तकला, मृत्पात्राणि, नारिकेलं, मत्स्यतैलं च इत्यादयः प्रमुखाः उद्योगाः सन्ति । केरळ-राज्ये तिरुवनन्तपुरम-नगरे “सॉफ्टवेर् टेक्नोलॉजी पार्क् ऑफ् इण्डिया” इत्यस्यां संस्थायाः परिसरे सप्त घटकाः सन्ति । केरळ-राज्ये “नेशनल टेक्सटाइल् कॉर्पोरेश्न्” इत्यस्याः संस्थायाः पञ्च वस्त्रागाराः सन्ति । “कॊच्ची ऑयल् रिफाइनरी”, “कॊच्ची शिप् यार्ड्”, “फर्टीलाइजर् एण्ड् केमिकल्स् ट्रावणकोर लिमिटेड्”, “हिन्दुस्तान लैटेक्स् लिमिटेड्”, “इण्डियन् रेयर् एर्थ्स् लिमिटेड्, एर्णाकुलम्”, “इण्डियन् टेलिफोन् इण्डस्ट्रिज्, पालक्काट्”, “इन्स्टुमेंशन् लिमिटेड, पालक्काट्”, “हिन्दुस्तान इन्सेक्टिसाइड्स् लिमिटेड् एर्णाकुलम”, “बामर लॉरी कम्पनी लिमिटेड्, एर्णाकुलम”, “हिन्दुस्तान ऑर्गेनिक् केमिकल्स् लिमिटेड्, एर्णाकुलम”, “कण्णूर स्पिन्निङ्ग् एण्ड् वीविङ्ग् मिल्स्”, “विजयमोहिनी मिल्स्, तिरुवनन्तपुरम”, “पार्वती मिल्स्, कोल्ल्म”, “केरळ लक्ष्मी मिल्स्, तृश्शूर्”, “अलगप्पा टेक्स्टाइल् मिल्स्, तृश्शूर्” च इत्यादीनि केन्द्रियव्यावसायिकसंस्थानानि सन्ति । इल्मनैट रुट्टल्, मोणोसैट्ट, सिर्कोण्, गार्नैट्ट, सिलिमनैट्ट, माग्नट्टैट्ट इत्येते धातवः केरळस्य् तीरप्रदेशेवु सन्ति । ग्रफैट्टः तिरुवनन्तपुरं ननपदस्य वेतलनाट चाङ्डभाषेषु कोतलं जनपदस्य पिरालिमट्टे पेरिङ्डालायां चिडूरे मणवकलाटे च ग्राफैट्ट निक्षेपोऽस्ति ग्लाससिकताः –आलप्पुषायां चेर्तला, पालिप्पुर पाणावतली, कोलकोतमङ्गलं प्रदेशेषु दृश्यते । बोळसैट- वटक्कुम्मरी, चिट्टवट्टं शूरनाट, आदिच्चनतनूरु ग्रामेषु । अस्य राज्यस्य जनाः मलयाळम्-भाषया व्यवहरन्ति । इयं द्रविड-परिवास्य प्रमुखा भाषा अस्ति । अस्मिन् राज्ये विभिन्न धर्माणां, जातीनां च जनाः निवसन्ति । अत्र आदिवासिनः अपि अधिकाः सन्ति । हिन्दुधर्मः, ईसाई-धर्मः, इस्लाम-धर्मः च केरळ-राज्यस्य प्रमुखाः धर्माः सन्ति । तत्र बौद्ध-धर्मस्य, जैन-धर्मस्य, पारसी-धर्मस्य, सिक्ख-धर्मस्य, बहाई-धर्मस्य च अनुयायिनः अपि निवसन्ति । अष्टमशताब्द्याः केरळ-राज्ये जातिव्यवस्था प्रचलन्ती अस्ति । अनुसूचितजातिः, अनुसूचितजनजातिः च अपि जातिव्यस्थायां सम्मिलिता सन्ति । जातिव्यवस्थायाः कारणादेव राज्ये उच्चनीचभावः उद्भूतः । किन्तु वर्तमानकेरळीयसमाजे उच्चनीचभावः नास्ति । किन्तु जातिव्यवस्था तु अस्ति एव । केरळ-राज्ये विभिन्नधर्माणां मन्दिराणि स्थितानि सन्ति । तेषां धर्माणाम् अनुष्ठानैः केरळ-राज्यस्य संस्कृतिः परिपुष्टा जाता । साहित्यस्य, कलायाः च विकासे तैः धर्मैः महत्त्वपूर्णाणि कार्याणि कृतानि सन्ति । तेन केरळ-राज्यस्य संस्कृतेः विकासः अपि भवति । केरळ-राज्ये पञ्चाशताधिकानि लोकनृत्यानि प्रचलितानि सन्ति । तेषु नृत्येषु कलीपट्टम, कोलम, कोलकली, वेलाकलील, थाप्पुकली, कुरावरकली च इत्यादयः प्रमुखाणि लोकनृत्यानि सन्ति । भारतीयशास्त्रीयेषु षण्नृत्येषु कथाकली-नृत्यं केरळ-राज्येन सह सम्बद्धम् अस्ति । केरळ-राज्ये चण्डा, मदालम, चेङ्गाला इत्यादीनि प्रमुखाणि वाद्ययन्त्राणि सन्ति । अस्य प्रदेशस्य स्त्रियः अन्यप्रदेशानां स्त्रीणाम् अपेक्षया अधिकाः स्वतन्त्राः, शिक्षिताः च सन्ति । केरळ-राज्ये विभिन्नसंस्कृतीनां, धर्माणां जनाः निवसन्ति । केरळ-राज्ये बहूनि पर्वाणि, उत्सवाः च आचर्यन्ते । एतेषु उत्सवेषु बहवः उत्सवाः धार्मिकाः सन्ति । ते उत्सवाः हिन्दुपरम्पराधारिताः सन्ति । अस्य राज्यस्य प्रत्येकं राज्यानां भिन्न-भिन्नोत्सवाः भवन्ति । “ओणम” केरळ-राज्यस्य प्रसिद्धः उत्सवः वर्तते । अयम् उत्सवः सम्पूर्णे भारते प्रसिद्धः अस्ति । सस्यानां कर्तनकाले अयम् उत्सवः आचर्यते । केरळ-राज्ये नवरात्रिपर्व सरस्वतीपूजनरूपेण आचर्यते । अपरं च महाशिवरात्रिपर्व अपि पेरियारनद्याः तटे उत्साहपूर्वकम् आचर्यते । ये मुस्लिम-जनाः भवन्ति ते बकरीद, मुहरम, मिलाद-ए-शरीफ, रमजान इत्यादयः उत्सवान् आचरन्ति । अस्मिन् राज्ये हिन्दु-धर्मस्य, मुस्लिम-धर्मस्य, ईसाई-धर्मस्य च देवालयाः सन्ति । सर्वे जनाः स्वदेवालयेषु उत्सवान् आचरन्ति । केरळ-राज्ये मुख्यतः त्रीणि बृहन्नगराणि सन्ति । तानि - कॊच्ची-नगरं, कोऴिक्कोट्-नगरं, पालक्कड-नगरं च । कॊच्ची-महानगरं केरळ-राज्यस्य ऎरणाकुळम्-मण्डलस्य कश्चन भागः अस्ति । इदं नगरं “कॊच्चीन” इति गोश्री इत्यपि नाम्ना ज्ञायते । कॊच्ची-महानगरं समुद्रतटे स्थितम् अस्ति । नगरमिदं केरळ-राज्यस्य पोताश्रयः वर्तते । “कोचु अजहि” इति शब्दयोः कॊच्ची इति नामकरणम् अभवत् । अस्य नगरस्य उल्लेखः प्राचीनयात्रिकाणां लिखितेषु लेखेषु प्राप्यते । विश्वस्य विभिन्नदेशेभ्यः जनाः तत्र भ्रमणार्थं गच्छन्ति । अस्मिन् नगरे पुर्तगाली-जनाः अधिकमात्रायां निवसन्ति । अस्य नगरस्य इतिहासः अतीवपुरातनः अस्ति । चतुर्दशशताब्द्याम् इदं नगरम् आविर्भूतम् । बहुभिः यात्रिकैः ऐतिहासिकलेखेषु अस्य वर्णनं कृतम् अस्ति । खाद्यपदार्थानां व्यापारस्य केन्द्रम् आसीत् इदं नगरम् । उपस्कराणाम्, औषधीनां च विशेषरूपेण व्यापारः क्रियते स्म । पुरा यहुदी-जनाः, चीनी-जनाः, पुर्तगाली-जनाः, यूनानी-जनाः, अरबदेशीयाः, रोमनदेशीयाः च अत्र आगत्य व्यापारं कुर्वन्ति स्म । अतः अस्य नगरस्य संस्कृतिः नैकधा वर्तते । अस्य नगरस्य स्थानीयजनेषु वैदेशिकसंस्कृतीनाम् अत्यधिकः प्रभावः जातः । अनेन कारणेन अस्य नगरस्य संस्कृतिः मिश्रिता अस्ति । कॊच्ची-महानगरे नैकाः भोजनालयाः सन्ति । ये जनाः भारतस्य विभिन्नराज्येभ्यः कॊच्ची-महानगरं गच्छन्ति, ते अस्य नगरस्य विभिन्नप्रकारकाणि व्यञ्जनानि खादितुं भोजनालयं गच्छन्ति । कॊच्ची-महानगरे पर्यटनाय अपि बहूनि ऐतिहासिकस्थलानि, मन्दिराणि, उद्यानानि च सन्ति । ये जनाः प्रकृतिप्रेमिणः सन्ति, तेभ्यः तु भ्रमणार्थम् उत्तमं नगरम् अस्ति । नगरस्य समीपे अथिरापल्ली-जलप्रपातः वर्तते । अस्य जलप्रपातस्य प्राकृतिकं सौन्दर्यम् अपि दर्शनीयं भवति । बैकवॉटर्स्-स्थलं कॊच्ची-नगरस्य रमणीयं स्थलं वर्तते । तत्स्थलं वेम्बनाद-तडागस्य कश्चन भागः एव अस्ति । वेम्बनाद-तडागः केरळ-राज्यस्य बृहत्तमः तडागः वर्तते । अरबसागरस्य तटे “मरीन ड्राइव” इत्येतत् स्थलं युगलेभ्यः महत्त्वपूर्णम् अस्ति । कॊच्ची-नगरे एकः दुर्गः अपि अस्ति । सः दुर्गः मतञ्चेर्री-प्रायद्वीपे स्थितः अस्ति । अस्मिन् स्थले “मतंचेर्री महल”, “सान्ता क्रूज् बेसीलिका” च इत्येते स्थले आकर्षणस्य केन्द्रे स्तः । अस्य नगरस्य वातावरणं सर्वदा अनूकूलं भवति । अतः कस्मिँश्चिदपि काले यात्रां कर्तुं शक्यते । मई-मासे तत्र उष्णतायाः आधिक्यं भवति । वर्षर्तौ अपि कॊच्ची-नगरे वृष्टिः अधिका भवति । कॊच्ची-महानगरं राष्ट्रियराजमार्गेण भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । कॊच्ची-नगरे द्वे रेलस्थानके स्तः । ऎरणाकुळम्-जङ्क्शन, ऎरणाकुळम् टाउन् च । ऎरणाकुळम्-जङ्क्शन दक्षिणभागस्य रेलस्थानकम् अस्ति । ऎरणाकुळम्-टाउन् उत्तरभागस्य रेलस्थानकम् अस्ति । ते रेलस्थानके भारतस्य विभिन्ननगरैः सह सम्बद्धे स्तः । नेदुम्बस्सेरी-स्थले कॊच्चीन-नगरस्य विमानस्थानकं स्थितम् अस्ति । तद्विमानस्थानकं कॊच्ची-नगरात् 25 किलोमीटर्मिते दूरे स्थितम् अस्ति । एतद्विमानस्थानकम् अन्ताराष्ट्रियविमानस्थानकम् अपि अस्ति । विमानस्थानकात् कॊच्ची-नगरं गन्तुं भाटकयानानि प्राप्यन्ते । कोऴिक्कोट्-नगरं केरळ-राज्यस्य कोऴिक्कोट्-मण्डलस्य मुख्यालयम् अस्ति । नगरमिदं “कालीकट” इति नाम्ना अपि ख्यातम् अस्ति । इदं केरळ-राज्यस्य दक्षिण-पश्चिमतटे स्थितमस्ति । पुरा नगरमिदं व्यापारकेन्द्रम् आसीत् । इतिहासकाराः कथयन्ति यत् – इदं नगरम् उपस्करेभ्यः, कौशेयोत्पादनाय च प्रसिद्धम् आसीत् । अतः एव हिन्दमहासागरस्य बहुभिः देशैः सह अस्य नगरस्य व्यापारिकसम्बन्धः आसीत् । अस्मिन् नगरे प्राचीनैतिहासिककालस्य पाषाणगुहाः प्राप्ताः । त्रयोदशशताब्द्याः अस्य नगरस्य अस्तित्त्वं प्राप्यते । इरनाड-राज्यस्य राज्ञा उदयावर-इत्याख्येन कोऴिक्कोट्-नगरं, पोन्नियङ्कर-नगरं च जितम् । तत्र तेन एकः दुर्गः अपि निर्मापितः । सः दुर्गः वेलापुरम् इति नाम्ना ज्ञायते । ई. स 1498 तमे वर्षे “वास्कोडिगामा” इत्याख्यः पुर्गगालदेशीयः नाविकः तत्र सर्वप्रथमं समागतः । सः यूरोप-देशीयः आसीत् । अनन्तरम् अन्येभ्यः देशेभ्यः यात्रिकाः समागताः । समयान्तरे इदं नगरं जमोरिन-साम्राज्यस्य राजधानी अभवत् । अस्मिन् नगरे बहूनि साहित्यिकान्दोलनानि अपि जातानि । तेन बहवः क्षेत्रियलेखकाः समुद्भूताः । अस्मिन् नगरे नैकानि मन्दिराणि, चर्च्, उद्यानानि च सन्ति । “थिक्कोटी लाईट् हाउस्”, “मनाचिरा स्क्वेयर्”, “पजस्सीराजा-सङ्ग्रहालयः”, “कलिपोयिका लॉयन्स् पार्क्”, “तलीमन्दिरं”, “कक्कयम”, “कृष्णा मेनन सङ्ग्रहालयः”, “ताराघर”, “बीपोर”, “वाडाकर”, “तुषारगिरी”, “सायन्स् प्लेनेटोरियम्”, “पूकोट-तडागः” च इत्यादीनि अस्य नगरस्य वीक्षणीयस्थलानि सन्ति । कोऴिक्कोट्-नगरं केरळ-राज्यस्य प्रमुखनगरैः सह राष्ट्रियराजमार्गेण सम्बद्धम् अस्ति । मोफुस्सिल्-नामकं कोऴिक्कोट्-नगरे बसस्थानकम् अस्ति । कन्नूर, थलस्सेरी, पालक्काट्, ऎरणाकुळम् च इत्यादिभ्यः नगरेभ्यः ततः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । चेन्नै, कोयम्बटूर, बेङ्गळूरु, देहली, हैदराबाद, तिरूवनन्तपुरम, कॊच्ची, पालक्काट्, कन्नूर इत्यादिभ्यः नगरेभ्यः नियमितरूपेण तस्मात् रेलस्थानकात् रेलयानानि प्राप्यन्ते । अस्य नगरस्य विमानस्थानकं करीपुर-इति नाम्ना प्रसिद्धम् अस्ति । एतद्विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । कोझीकोड-नगरात् विमानस्थानकं 25 किलोमीटर्मिते दूरे स्थितम् अस्ति । ततः भाटकयानानि, बसयानानि च प्राप्यन्ते । पालक्काट्-नगरं पुरा पालघाट इति नाम्ना ज्ञायते स्म । इदं नगरं केरळ-राज्यस्य पालक्काट्-मण्डलस्य मुख्यालयः अस्ति । इदं नगरं केरळ-राज्यस्य पश्चिमभागे पर्वतीयक्षेत्रेषु स्थितम् अस्ति । पालक्काट्-नगरे व्रीहेः कृषिः क्रियते । अतः पलक्क्ड-नगरं “केरळ का धान का कटोरा”, “केरळ का अन्न भण्डार” वा इति कथ्यते । अस्मिन् मण्डले तमिऴ-जनाः अपि निवसन्ति । अतः अस्य मण्डलस्य संस्कृतिः, भोजनपद्धतिः च अपि भिन्ना वर्तते । कर्णाटकसङ्गीतक्षेत्रे “चेम्बई वैद्यनाथ भागावतार”, “पालक्कड मणि अय्यर” च इत्येतौ द्वौ प्रसिद्धौ सङ्गीतकारौ अभवताम् । इदं नगरम् तयोः जन्मस्थलं वर्तते । अतः पालक्काट्-नगरम् भारते प्रसिद्धम् अस्ति । पालक्काट्-मण्डले दुर्गाः, मन्दिराणि, जलबन्धाः, वन्यजीवाभयारण्यानि, जलप्रपाताः, उद्यानानि च सन्ति । अतः आवर्षं जनाः पर्यटनाय तत्र गच्छन्ति । मालमपुझा-जलबन्धः अपि आकर्षणस्य प्रमुखकेन्द्रम् अस्ति । “नेलियमपत्थी हिल स्टेशन”, “साइलेण्ट् वैली नेशनल् पार्क्”, “परम्बिकुलम वन्यजीव अभयारण्य”, “कञ्जिरापुझा-जलप्रपातः”, “धोनी-जलप्रपातः”, च अस्य स्थलस्य प्राकृतिकानि, वीक्षणीयानि स्थलानि सन्ति । पालक्काट्-नगरं केरळ-राज्यस्य प्रमुखनगरैः सह भूमार्गेण सम्बद्धम् अस्ति । कोयम्बटूर, कॊच्ची, कोऴिक्कोट्, तृश्शूर् इत्यादिभ्यः नगरेभ्यः अपि बसयानानि प्राप्यन्ते । केरळसर्वकारेण बसयानानि प्रचालितानि सन्ति । पालक्काट्-नगरे एकं रेलस्थानकम् अस्ति । तत् “ओलवक्कोड जङ्क्शन्” इत्यपि कथ्यते । बेङ्गळूरु, चेन्नै, देहली, मुम्बई, हैदराबाद इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः ततः रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकं नास्ति । कोयम्बटूर-नगरे अस्य नगरस्य निकटतमं विमानस्थानकम् अस्ति । पालक्काट्-नगरात् 50 किलोमीटर्मिते दूरे स्थितम् अस्ति कोयम्बटूर-नगरम् । कोयम्बटूर-नगरात् पालक्काट्-नगराय बसयानानि, भाटकयानानि च प्राप्यन्ते । कॊच्ची-विमानस्थानकम् अपि 160 किलोमीटर्मिते दूरे स्थितम् अस्ति । एवं च कोऴिक्कोट्-विमानस्थानकं 110 किलोमीटर्मिते दूरे स्थितम् अस्ति । केरळ-राज्यं “दक्षिण का कश्मीर” इति कथ्यते । स्वस्य प्राकृतिकसौन्दर्येण इदं राज्यं देवतानां देशः अपि कथ्यते । केरळ-राज्यस्य कोवलमसमुद्रतटं विश्वस्मिन् प्रसिद्धम् अस्ति । तिरुवनन्तपुरम-नगरस्य पद्मनाभस्वामीमन्दिरं दक्षिणभारतीयवास्तुकलायाः प्रतिकृतिः अस्ति । केरळ-राज्यस्य कॊच्ची-महानगरं “अरबसागर की रानी” इति कथ्यते । केरळ-राज्यं पर्यटनस्थलानां केन्द्रं मन्यते । जगद्गुरुशङ्कराचार्यस्य कालटी-नामकं जन्मस्थलं केरळ-राज्ये स्थितम् अस्ति । अस्य राज्यस्य जलवायुः ऊष्णकटिबन्धीयः भवति । अतः अधिकमात्रायां पर्यटकाः तत्र गच्छन्ति । केरळ-राज्यं समुद्रतटे स्थितम् अस्ति अतः अधिकाधिकानि वीक्षणीयस्थलानि समुद्रतटे स्थितानि सन्ति । जनाः समुद्रतटस्य मनोहरं दृश्यं दृष्टुं गच्छन्ति । केरळ-राज्ये बहूनि पर्यटनस्थलानि सन्ति । कास्रगोड, कन्नूर, वयनाट्, कोझीकोड, मालाप्पुरम्, पालक्काट्, त्रिशुर, ऎरणाकुळम्, इडुकी, कोट्टयम्, अलप्पुझा, पथानमथीट्टा, कोल्ल्म, तिरूवनन्तपुरम् च इत्यादीनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । अस्मिन् राज्ये अधिकानि पर्यटनस्थलानि सन्ति । अतः इदं राज्यं भारते प्रसिद्धम् अस्ति । अस्य राज्यस्य मण्डलानि अपि सुन्दराणि सन्ति । राज्येऽस्मिन् मनोहराणि प्राकृतिकदृश्यानि सन्ति । तानि दृश्यानि दृष्ट्वा जनाः मुग्धाः भवन्ति । केरळ-राज्यस्य मलाप्पुरम्-मण्डले स्थितः अयं पॊन्नानी-ग्रामः । अयं ग्रामः अत्यन्तं सुन्दरः वर्तते । भरतपुजा-नद्याः तटे स्थितः अस्ति पुनानी-ग्रामः । भरतपुजा-नदी केरळ-राज्यस्य दीर्घतमासु नदीषु द्वितीया अस्ति । अस्य ग्रामस्य पश्चिमदिशि अरब-सागरः स्थितः अस्ति । अतः मत्स्योद्योगस्य प्रमुखकेन्द्रम् अपि विद्यते । अरबसमुद्रस्य तटे स्थितस्य मालाबार-पोताश्रयस्य मुख्यक्षेत्रम् अपि अस्ति अयं ग्रामः । इदं समुद्रतटं विस्तृतं वर्तते । अस्मिन् तटे इस्लाम-उपसनागृहाणि अपि स्थितानि सन्ति । अयं ग्रामः मालाबार-तटीयक्षेत्रेण सह विशिष्टतया सम्बद्धः अस्ति । मालाबार-पोताश्रयः दक्षिणभारतस्य प्राचीनतमेषु पोताश्रयेषु अन्यतमः वर्तते । मालाबार-पोताश्रयस्य व्यापारे, अर्थव्यवस्थायां च अस्य ग्रामस्य महद्योगदानम् अस्ति । पॊन्नानी-ग्रामः “दक्षिणभारतस्य मक्का” इति नाम्ना अपि ज्ञायते । यतः पुरातनकालादेव अयं ग्रामः इस्लामधर्मस्य शिक्षायाः केन्द्रम् आसीत् । अस्मिन् ग्रामे हिन्दु-जनाः, मुस्लिमजनाः च निवसन्ति । अतः अस्य ग्रामस्य संस्कृतिः, धर्मश्च मिश्रितः वर्तते । पॊन्नानी-ग्रामस्य इतिहासः अतीव प्राचीनः वर्तते । “विलियम लोगान” इत्याख्यस्य इतिहासकारस्य लेखे पॊन्नानी-ग्रामे स्थितस्य “जुमा मुस्लिम उपासनागृहस्य” उल्लेखः प्राप्यते । पुरा अयं ग्रामः मालाबार-क्षेत्रस्य राजधानी आसीत् । समूथिरि-शासकानां राजक्षेत्रम् अपि आसीत् । भारतीयस्वातन्त्र्यान्दोलनस्य इतिहासे अपि अस्य ग्रामस्य नामोल्लेखः प्राप्यते । स्वातन्त्र्यान्दोलनस्य बहवः क्रान्तिकारिणः अनेन ग्रामेण सह सम्बद्धाः सन्ति । पॊन्नानी-ग्रामे नैकानि वीक्षणीयस्थलानि सन्ति । “पॊन्नानी जुमा मस्जिद्”, “पॊन्नानी प्रकाशस्तम्भः”, “सरस्वतीमन्दिरं” च इत्येतानि आकर्षणस्य केन्द्राणि सन्ति । भरतपुजा-तिरुर-नद्योः सङ्गमः अस्ति अस्मिन् ग्रामे । अनन्तरं ते नद्यौ अरबसागरे मिलतः । “बियम कयल की झील” इत्येतत् स्थलम् अपि पॊन्नानी-ग्रामस्य प्रमुखं पर्यटनस्थलं वर्तते । पॊन्नानी-ग्रामस्य जलवायुः उष्णकटिबन्धीयः वर्तते । जनाः तत्र गत्वा आनन्दं प्राप्नुवन्ति । सः ग्रामः ऐतिहासिकः, सांस्कृतिकः च वर्तते । ग्रामः अयं लघुः अस्ति, तथापि अस्य ग्रामस्य सौन्दर्यं मनोहरम् अस्ति । पॊन्नानी-ग्रामः कॊच्ची-कोझीकोड-भूमार्गे स्थितः अस्ति । कोझीकोड-नगरं पॊन्नानी-ग्रामात् 80 किलोमीटर्मिते दूरे स्थितम् अस्ति । अस्मिन् ग्रामे यातायाताय नियमितरूपेण बसयानानि प्राप्यन्ते । ग्रामे भाटकयानानि अपि भवन्ति । तैः यानैः यात्रायां सौकर्यं भवति । कुट्टीपुरम्-नगरे पॊन्नानी-ग्रामस्य निकटतमं रेलस्थानकम् अस्ति । कुट्टीपुरम्-नगरं पॊन्नानी-ग्रामात् 20 किलोमीटर्मिते दूरे अस्ति । यद्यपि कुट्टीपुरम्-नगरे अल्पसङ्ख्यकानि रेलयानानि भवन्ति । अतः तिरुर-नगरे, कोझीकोड-नगरे च अपि रेलस्थानकानि सन्ति । ताभ्यां नगराभ्याम् अपि पॊन्नानी-ग्रामाय बसयानानि प्राप्यन्ते । पॊन्नानी-ग्रामात् 60 किलोमीटर्मिते दूरे कालीकट-विमानस्थानकम् अस्ति । तदन्ताराष्ट्रियविमानस्थानकम् अस्ति । कालीकट-विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । कालीकट-नगरात् पॊन्नानी-ग्रामाय भाटकवाहनि, बसयानानि च प्राप्यन्ते । कासरकोट्-नगरं केरळ-राज्यस्य कासरकोट्-मण्डलस्य मुख्यालयः अस्ति । इदं नगरं केरळ-राज्यस्य उत्तरभागे स्थितम् अस्ति । नगरमिदम् ऐतिहासिकं, पुरातात्त्विकं च विद्यते । अतः जनाः भ्रमणार्थं तत्र गच्छन्ति । बेकल-दुर्गः अस्य नगरस्य ऐतिहासिकं स्थलं वर्तते । सः दुर्गः स्मारकत्वेन स्थितः अस्ति । “कासरकोट्” इतीदं नाम शब्दद्वयेन निर्मितम् अस्ति । “कासरा”, “क्रोडा” च । “कासरा” इत्यस्य अर्थः तडागः, “क्रोडा” इत्यस्य अर्थः संरक्षणस्थलं च भवति । एवं च “अस्मिन् नगरे कासरका-नामकाः वृक्षाः अपि सन्ति । तेन कारणेन अपि अस्य नाम “कारसगोड” अभवत्” इति कथ्यते । तत्र नारिकेलस्य वृक्षाः सन्ति । अस्य नगरस्य संस्कृतिः विशिष्टा अस्ति । अतः तस्यै संस्कृतये इदं नगरं प्रसिद्धम् अस्ति । तत्र कम्बाला, कुक्कुतयुद्धं च प्रचलितम् अस्ति । “थेय्यम” इत्याख्यस्य देवस्य प्रसन्नतायै एते उत्सवाः आयोज्यन्ते । अस्मिन् नगरे हिन्दुधर्मस्य, मुस्लिम-धर्मस्य, ईसाई-धर्मस्य च जनाः निवसन्ति । तथापि इदं मण्डलं धार्मिकप्रवृत्तिभ्यः ज्ञायते । तत्र मलयाळ-भाषायां, टुलू-भाषायां, कोङ्कणी-भाषायां, तमिऴ-भाषायां च व्यवहरन्ति जनाः । तत्र “गोविन्द पाई मेमोरियल्”, “मदियाँ कुलम मन्दिर”, “मालिक दीनार मस्जिद” च इत्यादीनि अस्य नगरस्य मुख्यपर्यटनस्थलानि सन्ति । बेकल, कन्नूर, थालास्सेरी, पय्योली च इत्यादीनि अस्य नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । कासरकोट्-नगरे सर्वकारप्रचालितानि बसयानानि प्रचलन्ति । तैः यानैः भ्रमणं कर्तुं शक्यते । कासरकोट्-नगरे एकं रेलस्थानकं विद्यते । तद्रेलस्थानकं दक्षिणोत्तरभारतयोः विभिन्ननगरैः सह सम्बद्धम् अस्ति । अतः रेलमार्गेण अपि कासरकोट्-नगरं प्राप्तुं शक्यते । कासरकोट्-नगरात् कर्णाटकराज्यस्य मेङ्गलौर-नगरस्य विमानस्थानकं समीपे स्थितम् अस्ति । कासरकोट्-नगरात् मेङ्गलौर-विमानस्थानकं 50 किलोमीटर्मिते दूरे स्थितम् अस्ति । दक्षिणदिशि कॊच्ची-नगरे अपि अन्ताराष्ट्रियविमानस्थानकं विद्यते । तद्विमानस्थानकं कासरकोट्-नगरात् 420 किलोमीटर्मिते दूरे स्थितम् अस्ति । कासरकोट्-नगराय भाटकवाहनानि अपि नियमितरूपेण प्राप्यन्ते । कासरकोट्-नगरं गन्तुं जनाः कदापि कष्टम् नानुभवन्ति । अतिरप्पिळ्ळी-ग्रामः केरळराज्यस्य तृश्शूर्मण्डलस्य मुकुन्दपुरम्-उपमण्डले स्थितः अस्ति । ग्रामः अयं तृश्शूर्-नगरात् 60 किलोमीटर्मिते, कॊच्ची-नगरात् 70 किलोमीटर्मिते च दूरे स्थितः अस्ति । अस्य ग्रामस्य समीपे जलप्रपाताः, वर्षावनानि च सन्ति । ग्रामेऽस्मिन् जैववैविध्यम् अपि प्राप्यते । केरळ-राज्यस्य पर्यावरण-मन्त्री “जयराम रमेश” इत्याख्यः अस्ति । सः इमं ग्रामं “साइलेण्ट् वैली” इति कथयति । अतिरप्पिळ्ळी इत्यत्र वाजहाचल, चारपा च इत्याख्यौ जलप्रपातौ स्तः । इदं क्षेत्रं पश्चिमघट्टे स्थितम् अस्ति । तस्मिन् क्षेत्रे बहूनि वनानि सन्ति । अतः इदं क्षेत्रम् “अतिरप्पिळ्ळी-वाजहाचलक्षेत्रत्वेन ज्ञायते । तेषु वनेषु विविधाः दुर्लभाः वन्यजीवाः, विहगाः च प्राप्यन्ते । एतेषु वनेषु गजानां संरक्षणाय प्रयासाः जायमानाः सन्ति । तेषु वनेषु विभिन्नप्रकारकाः वनस्पतयः, औषधयः च अपि प्राप्यन्ते । अतः “एशियाई प्रकृति संरक्षण फाउण्डेशन्” इत्यनया संस्थया प्रस्तावः प्रस्थापितः यत् – “इदं क्षेत्रं राष्ट्रियोद्यानं, राष्ट्रियाभयारण्यं वा भावितव्यम्” इति । इदं वनं पञ्चविभागेषु विभक्तम् अस्ति । ते – 1 अतिरप्पिळ्ळी, 2 वाजहाचल, 3 चारपा, 4 कोल्लाथिरुमेदु, 5 शोलायार च । वनेषु बह्व्यः नद्यः सन्ति । वनेषु आदिवासिनः निवसन्ति । ते वनात् औषधयः, वनस्पतयः च एकीकुर्वन्ति । ते औषधीनां विशेषज्ञाः भवन्ति । वर्षर्तौ, शीतर्तौ च जनाः तत्र भ्रमणार्थं गच्छन्ति । अतिरप्पिळ्ळी-ग्रामात् कॊच्ची-नगरं 55 किलोमीटर्मिते दूरे स्थितम् अस्ति । भूमार्गात् कॊच्ची-नगरं सरलतया प्राप्तुं शक्यते । तत्र राज्यसर्वकारप्रचालितानि बसयानानि अपि प्रचलन्ति । कर्णाटकराज्यस्य बेङ्गळूरु-महानगरात् अपि बसयानानि प्राप्यन्ते । तृश्शूर्-नगरे कॊच्ची-नगरे च रेलस्थानकम् अस्ति । अतिरप्पिळ्ळी-ग्रामात् तृश्शूर्-नगरं 78 किलोमीटर्मिते, कॊच्ची-नगरं 66 किलोमीटर्मिते च दूरे स्थितम् अस्ति । चलाकुद्द्य-रेलस्थानकं निकटतमं रेलस्थानकम् अस्ति । तत् 31 किलोमीटर्मिते दूरे स्थितम् अस्ति । ततः बसयानैः अतिरप्पिळ्ळी-ग्रामं प्राप्तुं शक्यते । अतिरप्पिळ्ळी-ग्रामात् 55 किलोमीटर्मिते दूरे कॊच्चीन-विमानस्थानकं विद्यते । तद्विमानस्थानकम् अन्ताराष्ट्रियं वर्तते । भाटकयानैः अतिरप्पिळ्ळी-ग्रामः गम्यते । मारारिक्कुळम् एकः सुन्दरग्रामः अस्ति । तत्र पीतवर्णीयं सिकतामयं समुद्रतटं वर्तते । अतः एव अयं ग्रामः ख्यातः वर्तते । अस्य ग्रामस्य जनाः पारम्परिकाः सन्ति । शतवर्षाणि पुरातनायाः परम्परायाः पालनं कुर्वन्ति ते । अस्य ग्रामस्य वातावरणं शान्तं भवति । ग्रामेऽस्मिन् मत्स्यपालकाः निवसन्ति । ते मत्स्योद्योगं कुर्वन्ति । अस्य ग्रामस्य तापमानं सन्तुलितं भवति । तत्र “कोक्कामंगलम चर्च” अस्ति । तदुपासनागृहं “सेण्ट् थॉमस्” इत्याख्येन स्थापितम् आसीत् । तत् प्रमुखतीर्थस्थलेषु अन्यतमम् अस्ति । शिवमन्दिरं, कोक्कामंगलम सेण्ट् एपोस्ले चर्च्, अरूर, अरुतंकल, पुच्छाक्कल, पानावली, वेलोरवट्टम, अर्थुंकल च अस्य ग्रामस्य पर्यटनस्थलानि सन्ति । एतेषु शिवमन्दिरस्य वास्तुकला विशिष्टा वर्तते । तत्र “चेरथला कार्तियेनी मन्दिरम्” अपि अस्ति । अस्मिन् मन्दिरे कार्तियेनीदेवी विद्यमाना अस्ति । एवं च काञ्चिकुङ्गलारा-मन्दिरं प्रसिद्धम् अस्ति । तस्मिन् मन्दिरे भगवतीदेव्याः प्रतिमा स्थिता अस्ति । अपि च पुच्छाक्कल-क्षेत्रस्य समीपे अपि बहूनि मन्दिराणि विद्यमानानि सन्ति । शीतर्तौ जनाः तत्र भ्रमणार्थं गच्छन्ति । मारारिक्कुळम् राष्ट्रियराजमार्गे स्थितः अस्ति । सः राजमार्गः मरारीकुलम-ग्रामात् 5 किलोमीटर्मिते पूर्वदिशि स्थितः अस्ति । मरारीकुलम-ग्रामात् कॊच्ची-नगरं 30 किलोमीटर्मिते दूरे स्थितम् अस्ति । केरळसर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । मरारीकुलम-ग्रामे एकं रेलस्थानकम् अस्ति । तद्रेलस्थानकं केरळ-राज्यस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । कॊच्चीन-नगरे अन्ताराष्ट्रियविमानस्थानकं विद्यते । तद्विमानस्थानकम् मारारिक्कुळम्-ग्रामस्य निकटतमं विमानस्थानकम् अस्ति । इदं विमानस्थानकं भारत-देशस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । कॊच्चीन-नगरात् मरारीकुलम-ग्रामाय बसयानानि, भाटकयानानि च प्राप्यन्ते । ऎरणाकुळम्-नगरं केरळ-राज्यस्य ऎरणाकुळम्-मण्डलस्य केन्द्रं विद्यते । तस्मिन् नगरे “एर्नाकुलाथाप्पन-शिवमन्दिरं विद्यते । अतः एव अस्य नाम ऎरणाकुळम् इत्यभवत् । इदं नगरं केरळ-राज्यस्य “व्यावसायिकराजधानी” अस्ति । केरळ-राज्यस्य इतिहासे अस्य नगरस्य महत्त्वपूर्णं स्थानं वर्तते । अस्य नगरस्य संस्कृतिः, परम्परा, उत्सवाः च जनान् आकर्षन्ति । ऎरणाकुळम्-नगरं केरळराज्यस्य पर्यटनकेन्द्रं विद्यते । राजकुमारी स्ट्रीट्, बोल्घटी पैलेस्, कॊच्ची समुद्रतटं, चोट्टानिक्करा-मन्दिरं च इत्येतानि ऎरणाकुळम्-नगरस्य पर्यटनस्थलानि सन्ति । “इदं स्थलं धूम्रपानमुक्तस्थलम् वर्तते” इति आश्चर्यम् । ऎरणाकुळम्-नगरं भूमार्गैः सम्पूर्णतया सम्बद्धम् अस्ति । राज्यसर्वकारेण प्रचालितैः बसयानैः अपि ऎरणाकुळम्-नगरं प्राप्तुं शक्यते । वैयक्तिकयानैः, भाटकयानैः च ऎरणाकुळम्-नगरं प्राप्यते । ऎरणाकुळम्-नगरे रेलस्थानकद्वयं विद्यते । ऎरणाकुळम्-जङ्क्शन्, ऎरणाकुळम्-टाउन् च । ऎरणाकुळम्-जङ्क्शन् दक्षिणरेलस्थानकम् अस्ति । ऎरणाकुळम्-टाउन् उत्तररेलस्थानकम् अस्ति । ऎरणाकुळम्-नगरात् कॊच्चीन-विमानस्थानकं 23 किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं विमानस्थानकम् अन्ताराष्ट्रियविमानस्थानकम् अपि विद्यते । अतः भारतस्य विभिन्ननगरैः सह इदं सम्बद्धम् अस्ति । ततः ऎरणाकुळम्-नगराय यानानि प्राप्यन्ते । केरळ-राज्यस्य पत्तनंतिट्टामण्डले तिरुवल्ला-नगरं स्थितम् अस्ति । नगरमिदं मणिमला-नद्याः तटे स्थितम् अस्ति । अस्मिन् नगरे बहूनि मन्दिराणि सन्ति । अतः इदं नगरं “मन्दिराणां नगरम्” इति नाम्ना ज्ञायते । नगरमिदम् ऐतिहासिकं, सांस्कृतिकं च वर्तते । अस्मिन् नगरे हिन्दु-धर्मस्य, मुस्लिम-धर्मस्य, ईसाई-धर्मस्य च जनाः निवसन्ति । तिरुवल्ला-नगरे त्रयाणां धर्माणाम् उपासनागृहाणि सन्ति । अस्य नगरस्य समीपे बहूनि वीक्षणीयस्थलानि अपि सन्ति । अस्मिन् नगरे “श्रीवल्लभमन्दिरं” स्थितम् अस्ति । एतद् मन्दिरं “दक्षिणतिरुपतिः” इति नाम्ना ख्यातम् अस्ति । अतः भारतदेशस्य विभिन्ननगरेभ्यः जनाः दर्शनार्थं तत्र गच्छन्ति । तत्र “पलियक्करा चर्च्” अस्ति । तदुपासनागृहं पुरातनम् अस्ति । यदा केरळ-राज्ये ईसाईधर्मस्य उद्भवः जातः, तत्कालस्य तद् ईसाई-उपासनागृहं विद्यते । मन्यते यत् – यदा तिरुवतम्कूर-राज्ञः शासनकालः आसीत्, तदा अस्य नगरस्य नाम वल्लभपुरम् इति आसीत् । अनन्तरं तिरुवल्लभपुरम् इति नाम परिवर्तितम् । समयान्तरे अपभ्रंशत्वात् तिरुवल्ला इति नाम अभवत् । अस्य नगरविषयिण्यः बहव्यः मान्यताः सन्ति । कथ्यते यत् – “तिरुवल्ला इति नाम भगवतः विष्णोः नाम्ना कृतम् आसीत् । अनेन प्रकारेण इदं नगरं “विष्णोः नगरम्” इति नाम्ना ज्ञायते । अस्य नगरस्य वातावरणं मनोहरं, रमणीयं च भवति । अतः जनाः आनन्दं प्राप्तुं भ्रमणार्थं तत्र गच्छन्ति । तिरुवल्ला-नगरस्य जलवायुः सामान्यतः उष्णः भवति । वर्षर्तौ अस्य नगरस्य भ्रमणं श्रेष्ठं भवति । तिरुवल्ला-नगरे राज्यसर्वकारप्रचालितानि बसयानानि नियमितरूपेण कार्यरतानि सन्ति । बसयानेन सरलतया तिरुवल्ला-नगरं प्राप्तुं शक्यते । कोझीकोड, तिरूवनन्तपुरम्, कॊल्लम्् कन्नूर, कॊच्ची, कोयम्बतूर, चेन्नै, मदुरै, बेङ्गळूरु, मेङ्गलोर च इत्येतैः नगरैः सह तिरुवल्ला-नगरं भूमार्गेण सम्बद्धम् अस्ति । तिरुवल्ला-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्नमहानगरैः, नगरैः च सह सम्बद्धम् अस्ति । तिरुवल्ला-नगरात् पालक्काट्-नगराय, तिरुवनन्तपुरम्-नगराय, कॊच्ची-नगराय च नियमितरूपेण रेलयानानि प्राप्यन्ते । तिरुवल्ला-नगरे विमानस्थानकं नास्ति । किन्तु कॊच्ची-नगरे स्थितं विमानस्थानकं तिरुवल्ला-नगरस्य निकटतमं विमानस्थानकम् अस्ति । तिरुवल्ला-नगरात् कॊच्ची-नगरं 90 किलोमीटर्मिते दूरे स्थितम् अस्ति । तिरुवनन्तपुरम्-नगरे अपि विमानस्थानकं विद्यते । तद्विमानस्थानकं तिरुवल्ला-नगरात् 140 किलोमीटर्मिते दूरे स्थितम् अस्ति । केरळराज्यस्य मलप्पुऱम्-मण्डलस्य केन्द्रम् अस्ति मलप्पुऱम्-नगरम् । नगरमिदं लघुपर्वतीयक्षेत्रम् अस्ति । मलप्पुऱम्-मण्डलस्य आर्थिकदृष्ट्या, धार्मिकदृष्ट्या, सामाजिकदृष्ट्या, सांस्कृतिकदृष्ट्या च विशिष्टं स्थानम् अस्ति । अत्र चलियार-नदी, भारथापुज्हा-नदी, कदलुंदी-नदी एताः तिस्रः नद्यः प्रवहन्ति । केरळ-राज्यस्य सांस्कृतिकराजनैतिकसाहित्यिकपरम्परासु मलप्पुऱम्-मण्डलस्य लघुनगराणां महद्योगदानम् आसीत् । मलप्पुऱम्-मण्डले स्थितं थिरुनावाया-नगरं मध्यकाले वैदिकशिक्षणस्य केन्द्रम् आसीत् । एवं च कोत्ताक्कल-नगरात् आयुर्वेदस्य पारम्परिकचिकित्साप्रणाल्याः उत्पत्तिः जाता । “कदलुंदी पक्षी अभयारण्य”, “केरालादेश्पुरम्-मन्दिरं”, “थिरुनावाया-मन्दिरं” च इत्येतानि मलप्पुऱम्-नगरस्य पर्यटनस्थलानि सन्ति । अस्मिन् क्षेत्रे बहूनि मन्दिराणि, मुस्लिम-उपासनागृहाणि च सन्ति । यथा – “मलप्पुऱम् जुमा मस्जिद्”, “मन्नूर शिवमन्दिरं”, “थिरुप्पुरन्थाका-मन्दिरं”, “वेत्ताकोरुमाकन-मन्दिरं” च इत्येतानि तीर्थस्थलानि सन्ति । मलप्पुऱम्-नगरस्य वातावरणं सामान्यतः सन्तुलितं भवति । अतः एव जनाः भ्रमणार्थं गच्छन्ति । मलप्पुऱम्-नगरस्य प्राकृतिकं सौन्दर्यं, इतिहासः, वैदिशिकानि व्यञ्जनानि च जनान् आकर्षन्ति । केरळ-राज्यस्य सर्वकारेण मार्गपरिवहनाय बसयानानि प्रचालितानि सन्ति । अतः एव मलप्पुऱम्-नगरम् अन्यनगरैः सह सम्बद्धम् अस्ति । मलप्पुऱम्-नगरात् बेङ्गळूरु-महानगराय, कॊच्ची-नगराय, तिरुवनन्तपुरम्-नगराय च नियमितरूपेण बसयानानि प्राप्यन्ते । मलप्पुऱम्-नगरे रेलस्थानकं नास्ति । किन्तु मलप्पुऱम्-मण्डलस्य अन्गादिपुरम्, तिरुर, तनूर, कुत्तिप्पुरम्, परप्पनान्गादी च इत्यादिषु नगरेषु रेलस्थानकानि सन्ति । अतः तेभ्यः नगरेभ्यः मलप्पुऱम्-नगरं सम्बद्धम् अस्ति । मलप्पुऱम्-नगरात् कालीकट-रेलस्थानकं 50 किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं निकटतमं रेलस्थानकम् अस्ति । कालीकट-नगरे विमानस्थानकम् अस्ति । तद्विमानस्थानकं “करिपुर-अन्ताराष्ट्रियविमानस्थानकम्” इति नाम्ना ख्यातम् अस्ति । इदं निकटतमं विमानस्थानकं वर्तते । तत् 25 किलोमीटर्मिते दूरे स्थितम् अस्ति । कालीकट-विमानस्थानकात् भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । काञ्ञिरप्पळ्ळी-नगरं केरळ-राज्यस्य कोट्टयम्-मण्डले स्थितम् अस्ति । इदं नगरम् उपमण्डलत्वेन विद्यते । अस्मिन् नगरे हिन्दु-धर्मस्य, मुस्लिम-धर्मस्य जनाः निवसन्ति । अस्य नगरस्य संस्कृतिः अपि विशिष्टा वर्तते । अस्मिन् नगरे कञ्जिम-नामकाः वृक्षाः भवन्ति । अतः एव अस्य नाम “काञ्ञिरप्पळ्ळी” इति नाम अभवत् । नगरेऽस्मिन् कोय्यिन इति आदिवासिनः निवसन्ति । ते प्रारम्भादेव अस्मिन् नगरे निवसन्तः सन्ति । अनन्तरं तमिऴ-अधिवासिनः तत्र समागतवन्तः । पुरा अस्मिन् क्षेत्रे पाण्ड्य-शासकानां शासनम् आसीत् । तैः शासकैः प्रवासकार्यं स्थगितम् । प्रवासे तमिऴव्यापारिणः अधिकाः आसन् । अतः तत्र गत्वा तैः कृषिकार्यम् आरब्धम् । ते तमिऴ-अधिवासिनः “कन्नान्नुर चेट्टीस्” इति नाम्ना ज्ञायन्ते स्म । गणपतियर कोविल, सेण्ट् मेरिज् चर्च्, मदुरै मीनाक्षी मन्दिरं, नैनारू मस्जिद्, सेण्ट् डोमिनिक्स्, “सिरो मालाबार कैथोलिक् कैथेड्रल्” च इत्यादीनि अस्य नगरस्य वीक्षणीयस्थलानि सन्ति । गणपरियर-मन्दिरम् अस्य क्षेत्रस्य प्राचीनं मन्दिरं विद्यते । अत्र ईसाई-धर्मानुयायीनाम् अपि महती सङ्ख्या अस्ति । एतेषाम् ईसाई-जनानां पूर्वजाः निलाक्कल-नामके क्षेत्रे निवसन्ति स्म । तच्छेत्रं पुरा व्यापारकेन्द्रम् आसीत् । तत्र पजहायापल्ली-नामकम् ईसाई-उपासनागृहं विद्यते । तदुपासनागृहमपि प्राचीनम् अस्ति । तस्य निर्माणम् ई. स. 1449 तमे वर्षे अभवत् । “नैनारू चर्च्” अस्य नगरस्य आकर्षणस्य केन्द्रम् अस्ति । काञ्ञिरप्पळ्ळी-नगरात् कॊच्ची-नगरं 101 किलोमीटर्मिते दूरे स्थितम् अस्ति । भूमार्गेण कॊच्ची-नगरात् काञ्ञिरप्पळ्ळी-नगरं प्राप्यते । तत्र भाटकयानानि, बसयानानि च प्राप्यन्ते । कोट्टयम्-नगरे काञ्ञिरप्पळ्ळी-नगरस्य निकटतमं रेलस्थानकं विद्यते । चेन्नै-महानगराय, त्रिवेन्द्रम-नगराय, बेङ्गळूरु-महानगराय, मेङ्गलौर-नगराय, कॊच्चीन-नगराय, देहली-महानगराय च इत्यादिभ्यः नगरेभ्यः ततः रेलयानानि प्राप्यन्ते । कॊच्चीन-नगरे अन्ताराष्ट्रियविमानस्थानकम् अपि अस्ति । काञ्ञिरप्पळ्ळी-नगरात् कॊच्चीन-नगरं 72 किलोमीटर्मिते दूरे स्थितम् अस्ति । कॊच्चीन-नगरात् बसयानैः, भाटकयानैः वा काञ्ञिरप्पळ्ळी-नगरं प्राप्यत् । इदं नगरं केरळ-राज्यस्य पत्तनंतिट्टा-मण्डले स्थितम् अस्ति । अस्य नगरस्य संस्कृतिः, मन्दिराणि, उत्सवाः, तीर्थस्थलानि च केरळ-राज्ये प्रसिद्धानि सन्ति । अटूर्-नगरं तिरुवनन्तपुरम्-नगरात् 100 किलोमीटर्मितं, ऎरणाकुळम्-नगरात् 140 किलोमीटर्मितं च दूरे स्थितम् अस्ति । अस्य नगरस्य मन्दिराणि अतीव पुरातनानि सन्ति । तेषु मन्दिरेषु विभिन्नाः उत्सवाः अपि आचर्यन्ते । नगरेऽस्मिन् पार्थसारथि-मन्दिरं स्थितम् अस्ति । अस्मिन् मन्दिरे भगवतः कृष्णस्य प्रतिमा स्थिता अस्ति । मन्दिरमिदम् अस्य नगरस्य आकर्षणकेन्द्रम् अस्ति । पन्तळम्-महादेवमन्दिरं, पट्टूपुराक्कल-देवीमन्दिरं, पुतेनकविलभगवती-मन्दिरं, श्रीनारायणपुरम्-महाविष्णुमन्दिरं च अटूर्-नगरस्य प्रमुखाणि तीर्थस्थलानि सन्ति । बहवः श्रद्धालवाः दर्शनार्थं तत्र गच्छन्ति । तत्र “सेण्ट् जॉर्ज् ऑर्थोडॉक्स् चर्च्”, “सेण्ट् मेरिज् ऑर्थोडॉक्स् सीरियन् कैथेड्रल्” च इत्येते द्वे प्रमुखे ईसाई-धर्मस्य उपासनागृहे स्तः । अस्य नगरस्य जलवायुः उष्णकटिबन्धीयः भवति । अतः शीतर्तौ एव जनाः तत्र पर्यटनाय गच्छन्ति । अटूर्-नगरं केरळ-राज्यस्य प्रमुखनगरैः सह भूमार्गेण सम्बद्धम् अस्ति । अटूर्-नगरात् ऎरणाकुळम्-नगराय, तिरुवनन्तपुरम्-नगराय, कॊच्ची-नगराय च बसयानानि प्राप्यन्ते । कायमकुलम, पुनलूर, पत्तनंतिट्टा, कोट्टारक्करा, गुरुवायूर, चवर, कॊल्लम्, करुनागपल्ली च इत्यादीनि नगराणि अपि अटूर्-नगरेण सह सम्बद्धानि सन्ति । अटूर्-नगरात् 125 किलोमीटर्मिते दूरे ऎरणाकुळम्-नगरस्य रेलस्थानकं विद्यते । एनार्कुल-नगरे रेलयानस्य प्रमुखमुख्यालयः वर्तते । भारतदेशस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । ऎरणाकुळम्-नगरात् भाटकयानैः, बसयानैः च अटूर््-नगरं प्राप्यते । अटूर््-नगरात् कॊच्ची-नगरं 140 किलोमीटर्मिते दूरे स्थितम् अस्ति । कॊच्ची-नगरे अन्ताराष्ट्रियविमानस्थानकम् अस्ति । तद्विमानस्थानकं चेन्नै, बेङ्गळूरु, देहली, हैदराबाद च इत्यादिभिः भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । अनेन प्रकारेण अटूर्-नगरं गन्तुं बसयानानि, रेलयानानि, वायुयानानि च सरलतया प्राप्तुं शक्यन्ते । पत्तनंतिट्टा-मण्डलं केरळ-राज्यस्य दक्षिणभागे स्थितम् अस्ति । इदं केरळराज्यस्य लघुत्तमं मण्डलं विद्यते । ई. स. 1982 तमस्य वर्षस्य नवम्बर-मासस्य 1 दिनाङ्के इदं मण्डलं निर्मापितम् । यतः इदं क्षेत्रं प्रगतिशीलं वर्तते । पत्तनंतिट्टा-नगरं व्यावसायिकं नगरम् अपि अस्ति । नौकास्पर्धायै इदं मण्डलं प्रसिद्धम् अस्ति । अस्मिन् मण्डले बहूनि वीक्षणीयस्थलानि सन्ति । तत्र बहूनि धार्मिकस्थलानि सन्ति । अतः इदं “केरळ-राज्यस्य धार्मिकराजधानी” अपि कथ्यते । दक्षिणभारते जनाः अयप्पा-देवं पूजयन्ति । सबरीमाला-मन्दिरम् अयप्पा-देवस्य गृहं मन्यते । तत्स्थलम् अपि तत्रैव स्थितम् अस्ति । अतः लक्षाधिकाः जनाः तत्र प्रतिवर्षं दर्शनार्थं गच्छन्ति । अस्य मण्डलस्य कला, संस्कृतिः, परम्परा च विशिष्टा वर्तते । तत्र “कदमानित्ता-देवीमन्दिरं” स्थितम् अस्ति । अस्मिन् मन्दिरे दशदिनात्मकः नृत्योत्सवः आयोज्यते । पत्तनंतिट्टा-नगरे वास्तुविद्यागुरुकुलम् अपि विद्यते । एतद् गुरुकुलम् भारते प्रसिद्धम् अस्ति । वास्तुविद्यायाः, भित्तिचित्राणां च संरक्षणाय इदं गुरुकुलं प्रचलति । श्रीवल्लभमन्दिरं, मलङ्करा चर्च, कोडूमॉन् चिलन्थियम्बलम्, पलियक्कारा चर्च्, कवियूर-महादेवमन्दिरं च पत्तनंतिट्टा-नगरस्य वीक्षणीयस्थलानि सन्ति । अस्य नगरस्य जलवायुः उष्णकटिबन्धीयः वर्तते । अतः शीर्ततुः अस्य नगरस्य यात्रायै उत्तमा वर्तते । पत्तनंतिट्टा-नगरं राजकीयराजमार्गे स्थितम् अस्ति । अतः केरळ-राज्यस्य नगराणि पत्तनंतिट्टा-नगरेण सह सरलतया सम्बद्धानि सन्ति । केरळसर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । चेङ्गन्नूर-नगरे, थिरुवल्ला-नगरे च रेलस्थानकम् अस्ति । पत्तनंतिट्टा-नगरात् चेङ्गन्नूर-नगरं 26 किलिमीटर्मिते, थिरुवल्ला-नगरं 30 किलोमीटर्मिते च दूरे स्थितम् अस्ति । ते रेलस्थानके भारतस्य प्रमुखनगरैः सह सम्बद्धे स्तः । तिरूवनन्तपुरम्-नगरे अन्ताराष्ट्रियविमानस्थानकं विद्यते । पत्तनंतिट्टा-नगरात् तिरूवनन्तपुरम्-नगरं 113 किलोमीटर्मिते दूरे स्थितम् अस्ति । ततः भाटकवाहनैः, बसयानैः वा पत्तनंतिट्टा-नगरं गन्तुं शक्यते । कॊच्चीन-नगरस्य अन्ताराष्ट्रियविमानस्थानकम् अपि पत्तनंतिट्टा-नगरात् 142 किलोमीटर्मिते दूरे स्थितम् अस्ति । तृश्शूर्-नगरं केरळ-राज्यस्य सांस्कृतिकराजधानी कथ्यते । अस्य नगरस्य प्राकृतिकं सौन्दर्यं मनोहरम् अस्ति । अतः एव जनाः तत्र भ्रमणार्थं गच्छन्ति । “वडक्कुम्नाथन” अस्य नगरस्य इष्टदेवः अस्ति । “त्रिशिवापेरुर” इति अस्य पूर्णनाम अस्ति । त्रिशिवापेरुर- इत्यस्य अर्थः भवति यत् – “भगवच्छिवनामकं नगरं” इति । तत्र “द बाईबल् टॉवर्”, “केरळकलामण्डलम्”, “चावक्कड-समुद्रतटं” च इत्येतानि अस्य नगरस्य पर्यटनस्थलानि सन्ति । अस्मिन् नगरे पुर्तगाली-जनानां, डच्-जनानां, आङ्ग्लजनानां शासनम् आसीत् । अतः नगरमिदम् ऐतिहासिकम् अपि अस्ति । प्राकृतिकदृष्ट्या, सांस्कृतिकदृष्ट्या च इदं नगरं प्रसिद्धम् अस्ति । अक्टूबर-मासतः फरवरी-मासपर्यन्तम् अस्य नगरस्य भ्रमणाय उत्तमकालः भवति । शीतर्तौ जनाः तत्र भ्रमणार्थं गच्छन्ति । तृश्शूर्-नगरं राष्ट्रियराजमार्गे स्थितम् अस्ति । अतः कॊच्ची, कोझीकोड, चेन्नै, बेङ्गळूरु, कोयम्बटूर, मदुरै, पोल्लची च इत्यादिभिः नगरैः सह सम्बद्धम् अस्ति । केरळ-राज्यस्य प्रमुखनगरेभ्यः तृश्शूर्-नगराय बसयानानि प्राप्यन्ते । तृश्शूर्-नगरे रेलस्थानकम् अस्ति । अतः मुम्बई, देहली, कोलकाता, मेङ्गलौर, चेन्नै, हैदराबाद च इत्यादिभिः प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । नगरेऽस्मिन् विमानस्थानकं नास्ति । किन्तु कॊच्ची-नगरे निकटतमं विमानस्थानकम् अस्ति । कॊच्ची-नगरं तृश्शूर्-नगरात् 58 किलोमीटर्मिते दूरे स्थितमस्ति । कॊच्ची-नगरात् भारतस्य विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । कोडुङ्गल्लुर-नगरं केरळराज्यस्य तृश्शूर्-मण्डलस्य लघुनगरं वर्तते । नगरमिदं मालाबार-समुद्रतटे स्थितम् अस्ति । अस्मिन् नगरे भगवतीदेवीमन्दिरम् अस्ति । नगरमिदम् ऐतिहासिकम् अपि अस्ति । सप्तमशताब्द्यां चेरमन-राज्ञां राजधानी आसीत् इदं नगरम् । इदं नगरं समुद्रस्य समीपम् अस्ति । अतः हिन्दमहासागरस्य व्यापारिकं केन्द्रम् अपि अस्ति । “पुरा अस्य नगरस्य सीरिया-देशेन, मिस्र-देशेन च सह व्यापारिकसम्बन्धः आसीत्” इति इतिहासकाराः कथयन्ति । प्राचीनकालादेव इदं नगरम् उपस्कराणां निर्यातकत्वेन विराजते । अस्मात् नगरात् मुख्यतः श्यामवल्ल्यः निर्यातं भवति स्म । श्यामवल्ली “यवनप्रिया” इति नाम्ना ज्ञायते स्म । तत्र एकः प्राचीनः पोताश्रयः अपि स्थितः अस्ति । तत्र “चेरमन जुमा मस्जिद्” अस्ति । तदुपासनागृहम् ई. स. 629 तमे वर्षे निर्मापितम् आसीत् । तत् उपासनागृहं भारतस्य प्रथमं मुस्लिम-पूजास्थलं मन्यते । अस्मिन् नगरे समुद्रतटम् अस्ति । अतः यात्रिकाः समुद्रक्रीडां कर्तुं तत्र गच्छन्ति । अस्य नगरस्य प्राकृतिकं सौन्दयम् अपि मनोहरं भवति । नगरेऽस्मिन् कुरुम्बादेवीमन्दिरम् अस्ति । अस्मिन् मन्दिरे भद्रकालीदेव्याः प्रतिमा स्थापिता अस्ति । इदं मन्दिरम् अस्य नगरस्य प्रमुखतीर्थस्थलम् अस्ति । कीज्हथालीमहादेवमन्दिरं, कूदाल्मानिक्यममन्दिरं, मार् थोमा, तिरुवञ्चिक्कुलममहादेवमन्दिरं, त्रिपायरश्रीराममन्दिरं च अस्य नगरस्य वीक्षणीयस्थलानि सन्ति । कोडुङ्गल्लुर-नगरस्य जलवायुः उष्णकटिबन्धीयः भवति । अतः वातावरणं प्रायः उष्णं भवति । किन्तु नगरमिदं समुद्रतटे स्थितम् अस्ति अतः जलवायुः अनुकूलः भवति । कोडुङ्गुल्लुर-नगरात् कॊच्ची-नगरं 35 किलोमीटर्मिते, तृश्शूर्-नगरं 38 किलोमीटर्मिते, गुरुवायूर-नगरं 45 किल्ल्लोमीटर्मिते च दूरे स्थितम् अस्ति । अतः तेभ्यः नगरेभ्यः कोडुङ्गुल्लुर-नगराय बसयानानि प्राप्यन्ते । कोडुङ्गुल्लुर-नगरात् इरिगालाकुदा-नगरं 16 किलोमीटर्मिते दूरे अस्ति । अस्मिन् नगरे निकटतमं रेलस्थानकम् अस्ति । ततः केरळ-राज्यस्य विभिन्ननगरेभ्यः नियमितत्वेन रेलयानानि प्राप्यन्ते । कॊच्ची-नगरे कोडुङ्गुल्लुर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । कॊच्ची-नगरं कोडुङ्गुल्लुर-नगरात् 35 किलोमीटर्मिते दूरे स्थितम् अस्ति । कॊच्ची-विमानस्थानकात् चेन्नै, मुम्बई, बेङ्गळूरु, देहली, हैदराबाद इत्यादिभ्यः नगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । सुल्तानबत्तेरी-नगरं केरळराज्यस्य वयनाट्-मण्डले स्थितम् अस्ति । इदम् ऐतिहासिकं स्थलम् अस्ति । केरळ-कर्णाटकराज्ययोः सीमायां स्थितम् अस्ति इदं नगरम् । मैसूर-राज्यस्य राज्ञा टीपू सुल्तान् इत्याख्येन तत्र आक्रमणं कृतम् आसीत् । अतः एव अस्य नाम “सुल्तान बत्तेरी” इति अभवत् । तेन अस्मिन् नगरे एकः भव्यः दुर्गः निर्मापितः आसीत् । किन्तु साम्प्रतं सः दुर्गः न उपलभ्यते । अस्मिन् नगरे पर्वतीयक्षेत्रम् अपि अस्ति । तत् पर्वतीयक्षेत्रं पर्यटनाय उत्तमम् अस्ति । वयनाट्-मण्डलस्य वाणिज्यकेन्द्रत्वेन इदं नगरं प्रसिद्धम् अस्ति । तत्र जनाः पर्यतनमाध्यमेन, कृषिमाध्यमाध्मेन च जीवनं यापयन्ति । एडक्कल-गुहाः, वयनाट्वन्यजीवाभयारण्यं च सुल्तानबत्तेरी-नगरस्य समीपस्थे वीक्षणीयस्थले स्तः । मैसूर, बेङ्गळूरु, कालीकट इत्यादिभ्यः नगरेभ्यः “सुल्तान बत्तेरि” नगराय बसयानानि प्राप्यन्ते । नगरमिदं राज्यसीमायां स्थितम् अस्ति । अतः कर्णाटकराज्यस्य, केरळराज्यस्य च बसयानानि प्राप्यन्ते । अस्मात् नगरात् कोझीकोड-नगरं 110 किलोमीटर्मिते दूरे स्थितम् अस्ति । तस्मिन् नगरे एकं रेलस्थानकम् अस्ति । कोझीकोड-नगरात् बसयानैः, भाटकयानैः च सुल्तानबत्तेरि-नगरं गन्तुं शक्यते । कालीकट-नगरस्य अन्ताराष्ट्रियविमानस्थानकम् अस्य नगरस्य समीपस्थं विमानस्थानकम् अस्ति । अस्मात् नगरात् कालीकट-नगरम् 100 किलोमीटर्मिते दूरे अस्ति । कालीकट-विमानस्थानकात् भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । केरळतमिळनाडुराज्ययोः सीमायां स्थितम् अस्ति पुनलूर्-नगरम् । नगरे प्राकृतिकं सौन्दर्यं प्राप्यते । कल्लादा-नद्याः तटे स्थितम् अस्ति इदं नगरम् । पुनलूर्-नगरे कर्गजयन्त्रागारम् अपि अस्ति । पुनलूर् इति नाम शब्दद्वयेन निर्मितम् अस्ति । पुनल, ऊरु च । पुनलूर् अर्थात् “जलनगरम्” इति । नगरमिदं दक्षिणभारतस्य बृहत्तमेषु नगरेषु पञ्चमम् अस्ति । पुनलूर्-नगरे कृष्णवल्याः, काष्ठस्य च व्यापारः भवति । एकोनविंशतिशताब्द्याम् आङ्ग्लैः एकः सेतुः निर्मापितः आसीत् । सः सेतुः साम्प्रतं राष्ट्रियस्मारकत्वेन उद्घोषितः अस्ति । वर्तमाने अस्य सेतोः उपयोगः न क्रियते । कल्लादा-नद्याः समीपे बहूनि पर्यटनस्थलानि सन्ति । जनाः आनन्दं प्राप्तुं तत्र गच्छन्ति । शेन्थुनी-वनम् अस्य नगरस्य आकषणकेन्द्रम् अस्ति । पलरुवी-जलप्रपातः, कुट्रालम-जलप्रपातः, पट्टजीदेवीमन्दिरं च अस्य नगरस्य समीपस्थानि स्थलानि सन्ति । पुनलूर्-नगरं केरळ-राज्यस्य राजकीयराजमार्गे स्थितम् अस्ति । अयं राजमार्गः पुनलूर्-नगरं केरळ-राज्यस्य अन्यनगरैः सह सञ्योजयति । पुनलूर्-नगरे एकं रेलस्थानकम् अस्ति । किन्तु अस्मिन् रेलस्थानके अल्पमात्रायां रेलयानानि प्राप्यन्ते । पुनलूर्-नगरात् तिरुवनन्तपुरम्-नगरं 75 किलोमीटर्मिते दूरे स्थितम् अस्ति । तिरुवनन्तपुरम्-नगरे अन्ताराष्ट्रियविमानस्थानकम् अस्ति । तद्विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । ततः देहली, मुम्बई, कोलकाता, चेन्नै इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । पीरुमेट्-स्थलं केरळ-राज्यस्य श्रेष्ठतमेषु पर्वतीयक्षेत्रेषु अन्यतमम् अस्ति । कोट्टयम्-नगरात् 85 किलोमीटर्मितं पूर्वदिशि स्थितम् अस्ति इदं स्थलम् । पर्वतारोहणाय इदं स्थलम् अत्यधिकं प्रसिद्धम् अस्ति । अस्मिन् नगरे बहूनि उद्यनानि सन्ति । तत्र पुरा “पीर मोहम्मद” इत्याख्यः मुस्लिमसन्तः अभवत् । तस्यैव नाम्ना अस्य नगर नामकरणम् अभवत् । ट्रावनकोर-क्षेत्रस्य राजकुलेन सह तस्य घनिष्ठसम्बन्धः आसीत् । इदं स्थलं समुद्रतलात् 915 मीटर्मितम् उन्नतम् अस्ति । “पेरियार टाईगर् रिजर्व”, जलप्रपाताः च अस्य नगरस्य समीपस्थानि आकर्षणस्य केन्द्राणि सन्ति । अस्य नगरस्य वातावरणम् सदैव शीतलं भवति । यतः स्थलमिदम् औन्नत्ये स्थितम् अस्ति । तत्र उद्यानेषु चायस्य, काफीपेयस्य, एलायाः च कृषिः भवति । सर्वत्र हरितवर्णीयानि क्षेत्राणि दृश्यते । तद्दृश्यम् अपि मनोहरं भवति । पीरुमेट्-नगरात् समीपस्थेभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । कॊच्ची, थेक्कडी, कुमिली इत्यादिभिः नगरैः सह इदं नगरं सम्बद्धम् अस्ति । कोट्टयम्-नगरस्य रेलस्थानकं पीरुमेट्-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । कोट्टयम्-रेलस्थानकात् चेन्नै, बेङ्गळूरु, हैदराबाद, देहली, मुम्बई च इत्यादिभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । पीरुमेट्-नगरस्य समीपे कॊच्ची-नगरे विमानस्थानकम् अस्ति । तद्विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । कॊच्ची-नगरात् पीरुमेट्-नगराय नियमितरूपेण बसयानानि प्राप्यन्ते । जनाः सरलतया पीरुमेट्-नगरं प्राप्तुं शक्नुवन्ति । केरळ-राज्यस्य मार्गाः 1,45,704 किलोमीटर्मिताः दीर्घाः सन्ति । राष्ट्रियराजमार्गाः 1,524 किलोमीटर्मितं दीर्घाः सन्ति । राजकीजराजामार्गाः 4341 किलोमीटर्मिताः दीर्घाः सन्ति । केरळ-सर्वकारेण जनसेवायै बसयानानि प्रचालितानि सन्ति । सम्पूर्णे केरळ-प्रदेशे बसयानानि प्रचलन्ति । तेन जनाः सरलतया एकस्मात् स्थानात् अन्यत्र गन्तुं शक्नुवन्ति । केरळ-राज्ये बहूनि महानगराणि सन्ति । तिरुवनन्तरपुरं, पालक्काट्, ऎरणाकुळम्, कन्नूर, तृश्शूर्, अलप्पुझा, पुनलूर्, कोट्टयम् एतेषु नगरेषु प्रमुखाणि रेलस्थानकानि सन्ति । तेभ्यः नगरेभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । रेलस्थानकेभ्यः केरळ-राज्यस्य पर्यटनस्थलानि गन्तुं भाटकयानानि, बसयानानि च प्राप्यन्ते । केरळ-राज्यस्य बहुषु लघुनगरेषु ग्रामेषु अपि रेलस्थानकानि सन्ति । केरळ-राज्ये चत्वारि अन्ताराष्ट्रियविमानस्थानकानि सन्ति । त्रिवेन्द्रम-नगरे, कॊच्ची-महानगरे, कालीकट-नगरे च पुरातनानि अन्ताराष्ट्रियविमानस्थानकानि सन्ति । कन्नूर-नगरे अपि अपरम् अन्ताराष्ट्रियविमानस्थानकं निर्मापितम् अस्ति । एतद्विमानस्थानकं केरळ-राज्यस्य बृहत्तमं विमानस्थानकम् अस्ति । इतः परं राजकीयविमानस्थानकानि अपि सन्ति । एतानि विमानस्थानकानि भारतस्य प्रमुखनगरैः, विभिन्नदेशैः च सह सम्बद्धानि सन्ति । तेभ्यः विमानस्थानकेभ्यः केरळ-राज्यस्य प्रमुखनगरेभ्यः बसयानानि, भाटकयानानि च प्राप्यन्ते ।
{ "source": "wikipedia" }
7 जून-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य एकशताधिकाष्टापञ्चाशत्तमं दिनम् । लिप्-वर्षानुगुणम् एकशताधिकनवपञ्चाशत्तमं दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय 207 दिनानि अवशिष्टानि ।
{ "source": "wikipedia" }
भारतस्य बिहारराज्ये स्थितं किञ्चन मण्डलम् अस्ति सीवानमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति सीवान नगरम्।
{ "source": "wikipedia" }
703 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012
{ "source": "wikipedia" }
अयं प्रो. के. आर्. रामनाथन् कश्चन प्रख्यातः विज्ञानी । सः 1893 तमे वर्षे फेब्रवरिमासस्य 28 तमे दिनाङ्के भारतस्य केरलराज्यस्य पालघाटजनपदस्य कलपाति इति ग्रामे जन्म प्राप्नोत् । अस्य पूर्णं नाम कलपाति रामकृष्ण रामनाथन् इति ।
{ "source": "wikipedia" }
भारतस्य उत्तरभागे स्थितं राज्यम् अस्ति जम्मूकाश्मीरराज्यम् । अत्रत्यं मण्डलम् अस्ति कठुवामण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति कठुवानगरम्।
{ "source": "wikipedia" }
बळ्ळारीमण्डलं कर्णाटकराज्यस्य उत्तरभागे विद्यमानं प्रमुखं मण्डलम् । मण्डलकेन्द्रमपि बळ्ळारी एव । क्रिस्ताब्दे 1953 तमे वर्षे बळ्ळारीमण्डलं कर्णाटकराज्ये विलीनम् अभवत् । पूर्वं हैदराबाद्संस्थानस्य भागः आसीत् । विजयनगरसाम्रज्यस्य कारणेन बळ्ळारीमण्डलस्य प्राधान्यम् आगता । ततःपूर्वम् अस्मिन् मण्डले शातवाहनैः कल्याणीचालुक्यैः बनवासीकदम्बैः, सेवुणैः होय्सलैः च क्रमशः शासनम् कृतम् । एतन्मण्डलं ब्रिटिश् जनानां प्रशासनकाले मद्रास् प्रान्ते अन्तर्गतम् असीत् । स्वातन्त्र्योत्तरं क्रि.श. 1952 तमे वर्षे मैसूरुराज्ये योजितम् । कर्णाटकस्य पूर्वस्यां दिशि बळ्ळारीमण्डलं वर्तते । अस्य मण्डलस्य उत्तरदिशि रायचूरु-कोप्पलमण्डले, पश्चिमदिशि हावेरी-गदगमण्डले, दक्षिणदिशि दावणगेरे- चित्रदुर्गमण्डले, पूर्वदिशि आन्ध्रप्रदेशः च अस्ति । अत्र वर्षे 63.9 से.मी. वृष्टिः भवति । अयसः ताम्रस्य पुष्पञ्जनस्य च खनयः अत्र सन्ति । किन्तु, कृषिः एव तेषां प्रधाना वृत्तिः । कृष्यर्थं जलव्यवस्था तुङ्गभद्रा जलबन्धात् सम्भवति । अत्र प्रवर्धमानानि प्रधानसस्यानि कार्पासः, गोधूमः, व्रीहिः, कलायः, सूर्यकान्तिः च । बळ्ळारी, हूविनहडगली, हगरीबोम्मनळ्ळि, कूड्लगी, शिरगुप्प, होसपेटे, सन्डूरु इति सप्त उपमण्डलानि अस्मिन् मण्डले सन्ति । हम्पी, होसपेटे तुङ्गभद्राजलबन्धः, बोम्मनघट्टस्य श्रीहुलिकुण्टेरायमन्दिरं च प्रमुखानि भवन्ति । होसपेटे विजयनगरसाम्राज्यस्य राजधानी । ज्ञानस्य पीठं, सांस्कृतिकस्थानं धार्मिकं च क्षेत्रम् । पम्पाक्षेत्रम् आधुनिककाले हम्पी इति प्रसिद्धम् अस्ति । दक्षिणकाशी इति च गौरवेण जनाः कथयन्ति । श्रीकृष्णदेवरायादीनां विजयनगरराजानां प्रशासनं वैभवोपेतम् आसीत् । श्री विद्यारण्यः।विद्यारण्येन स्थापितं विजयनगरसाम्राज्यं कर्णाटके साहित्यिकधार्मिकप्रशासनिकदृष्टया च अत्यन्तम् उत्तमम् आसीत् । पापपरिहारकं तीर्थक्षेत्रमिति च यात्रिकानाम् आकर्षणीयम् एतत् स्थानं तुङ्गभद्रानदीतीरे अस्ति । श्रीविरूपाक्षदेवालयः अधुना प्रमुखम् आकर्षणकेन्द्रम् अस्ति । हम्पी क्षेत्रं चतुर्दशं कि.मीटर् विस्तीर्णे व्याप्तं प्राचीनमन्दिरैः स्मारकैः कलाकृतिभिः च विशिष्टम् अस्ति । श्रीविरूपाक्षम् पम्पापतिः इति च कथयन्ति । देवालयस्य मुख्यद्वारे गोपुरम् अस्ति । 170 पादपरिमितोन्नतं गोपुरम् कलायुक्तं वैशिष्ट्यपूर्णं च अस्ति । पूर्वं धार्मिकाध्यात्मिकविषये अत्र व्यासरायः।व्यासरायस्वामिनः व्यासकूटः, पुरन्दरकनकदासादिदासवरेण्यैः युक्तः दासकूटः च आस्ताम् । श्रीव्यासरायस्वामी धार्मिकक्षेत्रे अत्युत्तमं कार्यं कृतवान् । आधुनिककालेऽपि प्रतिदिनम् अत्र सहस्रशः जनाः देशीयाः विदेशीयाः च दर्शनार्थम् आगच्छन्ति ।देवालयस्य आवरणे पम्पाम्बिकामन्दिरम् अस्ति पार्श्वे सरः रमणीयम् अस्ति । विरूपाक्षमन्दिरे एकत्र प्राकारे गोपुरस्य छाया विपरीता दृश्यते एषः विषयः विस्मयजनकः अस्ति ।इदानीं हम्पीनगरे यात्रिकानां दर्शनप्रसङ्गे प्राचीनवैभवदर्शनं स्मरणं च भवति । अनेके स्मारकाः विविधानि मूर्तिरहितमन्दिराणि शिल्पकलावैभवं प्रदर्शयन्ति । प्रमुखतया विजयविट्टलमन्दिरम्।विजयविट्टलमन्दिरं हजारराममन्दिरं यन्त्रोध्दारकः, प्राणदेवः, उग्रनरसिंहः वीरभद्रः सर्षपगणपतिः च दर्शनीयानि सन्ति । कमलमहल्, चक्रतीर्थं, राज्ञीनां स्नानगृहं महानवमीदिब्ब, पुरन्दरमण्डपः, गजशाला, तुलाभारमण्डपम् इत्यादिषु सर्वेषु स्थलेषु कलाचातुर्थं पश्यामः । हम्पीक्षेत्रं सर्वत्र शिल्पकलावैभवं प्रदर्शयति । विजयविट्टलमन्दिरे मूर्तिः नास्ति । अनेकस्थम्भैः निर्मितं शिलामन्दिरम् एतत् । अत्र स्थम्भेषु स्थितासु शिलासु ताडनेन सङ्गीतस्वरः निर्गच्छति । एषः अतीव आकर्षकः विषयः अस्ति । उन्नते पीठाकारके स्थले मन्दिरम् अस्ति । विजयविट्टलमन्दिरस्य पुरतः विद्यमानः शिलारथः अतिप्रसिद्धः अस्ति । पार्श्वे इतरमण्डपानि सन्ति । विस्तरे प्रदेशे निर्मितम् एतत् तुङ्ग्भद्रानदीतीरे सुन्दरप्राङ्गणे अस्ति । तुङ्गभद्रानदीतीरे पुरन्दरमण्डपम् आकर्षकम् अस्ति । तुङ्गभद्रानदीस्नानं च अत्र सुलभम् अस्ति । बहुषु प्रदेशेषु भग्नशिलाकलाकृतयः दर्शनगोचराः भवन्ति इति यात्रिकानां दुःखकारणम् अस्ति । विजयपुरम् इति ख्याते हम्पीप्रदेशे तुङ्गभद्रानदीतीरे एतदस्ति । तुङ्गभद्रा पूर्वाभिमुखी सदा जलयुक्ता अस्ति । स्वल्पदूरे उत्तराभिमुखी भविष्यति । अत्र चक्रमिव जलं वृत्ताकारेण प्रवहति । अस्य तीर्थस्थानस्य ‘चक्रतीर्थमिति नाम । वामपार्श्वे गुहान्तर्गतं प्राणदेवमन्दिरम् अस्ति । अस्य यन्त्रोध्दारकप्राणदेवः इति नाम । प्राणदेवः पद्मासने उपविष्टः ध्यानमग्नः इवास्ति । परितः पद्मदलानि चित्रितानि सन्ति । श्रीव्यासरायः अत्रैव सिध्यर्थं त्रिकोटिजपानि समर्पितवान् । अतः अत्र आगमनेन दर्शनेन च भूतपिशाचबाधानिवारणं भवति इति श्री विजयदासः।विजयदासस्य वचनमस्ति । श्रीकृष्णदेवरायः कुहुरोगपरिहारानन्तरम् अत्र चक्रतीर्थस्य पुरतः मण्डपं निर्मितवान् । एष एव पुरन्दरमण्डपः इति ख्यातः अस्ति । चक्रतीर्थस्य समीपे नरहरितीर्थः।नरहरितीर्थस्य बृन्दावनम् अस्ति । उडुपीमण्डलम् • उत्तरकन्नडमण्डलम् • कोडगुमण्डलम् • कोप्पळमण्डलम् • कोलारमण्डलम् • गदगमण्डलम् • गुल्बर्गामण्डलम् • चामराजनगरमण्डलम् • चिक्कबळ्ळापुरमण्डलम् • चिक्कमगळूरुमण्डलम्‎ • चित्रदुर्गमण्डलम् • तुमकूरुमण्डलम् • दक्षिणकन्नडमण्डलम् • धारवाडमण्डलम् • दावणगेरेमण्डलम् • बळ्ळारीमण्डलम् • बागलकोटेमण्डलम् • बिजापुरमण्डलम् • बीदरमण्डलम् • बेङ्गळूरुग्रामान्तरमण्डलम् • बेंगळूरु नगरीय मण्डलः • बेळगावीमण्डलम् • मण्ड्यमण्डलम् • मैसूरुमण्डलम् • यादगिरिमण्डलम् • रामनगरमण्डलम् • रायचूरुमण्डलम् • शिवमोग्गामण्डलम् • हावेरीमण्डलम् • हासनमण्डलम् •
{ "source": "wikipedia" }
सः पौरवकुलस्य राजा आसीत्।
{ "source": "wikipedia" }
अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य पञ्चमः श्लोकः । यत् साङ्ख्यैः प्राप्यते स्थानं तत् योगैः अपि गम्यते एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥ 4 ॥ यत् स्थानं साङ्ख्यैः प्राप्यते तत् योगैः अपि गम्यते । यः साङ्ख्यं च योगं च एकं पश्यति सः पश्यति । ज्ञानिभिः सन्न्यासिभिः यत् स्थानं प्राप्यते तदेव स्थानं कर्मयोगिभिः अपि प्राप्यते । यः ज्ञानयोगं कर्मयोगं च समानप्रयोजनं पश्यति सः एव सम्यक् पश्यति, नान्यः । एकस्यापि सम्यगनुष्ठानात्कथमुभयोः फलं विन्दत इत्युच्यते-यदिति। यत्साथ्यैर्ज्ञाननिष्ठैः फलमनभिसंधायानुतिष्ठन्ति ये ते योगिनस्तैरपि परमार्थज्ञानसंन्यासप्राप्तिद्वारेणगम्यत इत्यभिप्रायोऽत एकं सांख्यं योगं च यः पश्यति फलैकत्वात्स सम्यक्पश्यतीत्यर्थः ।।5।। 1) संन्यासं कर्मणां कृष्ण...2) संन्यासः कर्मयोगश्च...3) ज्ञेयः स नित्यसंन्यासी...4) साङ्ख्ययोगौ पृथग्बालाः...5) यत्साङ्ख्यैः प्राप्यते स्थानं...6) संन्यासस्तु महाबाहो...7) योगयुक्तो विशुद्धात्मा...8) नैव किञ्चित्करोमीति...9) प्रलपन्विसृजन्गृह्णन्...10) ब्रह्मण्याधाय कर्माणि...11) कायेन मनसा बुद्ध्या...12) युक्तः कर्मफलं त्यक्त्वा...13) सर्वकर्माणि मनसा...14) न कर्तृत्वं न कर्माणि...15) नादत्ते कस्यचित्पापं...16) ज्ञानेन तु तदज्ञानं... 17) तद्बुद्धयस्तदात्मानः18) विद्याविनयसम्पन्ने...19) इहैव तैर्जितः सर्गो...20) न प्रहृष्येत्प्रियं प्राप्य...21) बाह्यस्पर्शेष्वसक्तात्मा...22) ये हि संस्पर्शजा भोगाः...23) शक्नोतीहैव यः सोढुं...24) योऽन्तःसुखोऽन्तरारामः...25) लभन्ते ब्रह्मनिर्वाणम्...26) कामक्रोधवियुक्तानां...27) स्पर्शान्कृत्वा बहिर्बाह्यान्...28) यतेन्द्रियमनोबुद्धिः...29) भोक्तारं यज्ञतपसां...
{ "source": "wikipedia" }
क्रिस्तीय विश्वस्य विस्तृतः धर्मः अस्ति । अस्य संस्थापकः प्रभु यीशु अस्ति | अमेरिकायाम् यूरोपे च इदं मतं प्रबलम् अस्ति। क्रैस्तमतस्य 1∙3 कोटिपरिमिताः अनुयायिनः सन्ति। तान् क्रैस्ताः इति निर्दिशन्ति ।क्रैस्तमते अनेके विभागाः सन्ति। परन्तु सर्वे एकस्मिन् प्रभौ परमेश्वरे येशुक्रिस्ते विश्वासं कुर्वन्ति । क्रैस्तमतस्य प्रधानग्रन्थः बैबल् अस्ति। अस्मिन् मते प्रधानविभागः क्याथोलिक् अस्ति। । क्रैस्त–उत्सवाः विविधाः भवन्ति‚क्रिस्मस्‚ ईस्टर्‚ इत्यादीनि । क्रैस्तमतम् एकैश्वरविश्वासवत् मतम् अस्ति। अधिकविवरणार्थं क्रैस्तमतम् इति पृष्ठं पश्यन्तु ।
{ "source": "wikipedia" }
उत्तरगोवामण्डलं /ˈʊəəɡʊɑːəəə/) गोवाराज्यस्य अन्यतरं मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति पणजी इति महानगरम् । पणजीमहानगरं राज्यस्यास्य राजधानी अपि अस्ति । अस्य मण्डलस्य रचना 1987 तमे वर्षे ‘मे’-मासस्य त्रिंशत्तमे दिनाङ्के अभूत् । उत्तरगोवामण्डलस्य विस्तारः 1736 च.कि.मी.-मितः अस्ति । गोवाराज्यस्य उत्तरभागे इदं मण्डलमस्ति । अस्योत्तरदिशि, पूर्वदिशि च महाराष्ट्रराज्यस्य द्वे मण्डले स्तः । ते क्रमेण सिन्धुदुर्ग-कोल्हापुरमण्डले स्तः । अस्य दक्षिणदिशि दक्षिणगोवामण्डलम्, पश्चिमदिशि अरबीसमुद्रश्चास्ति । अस्मिन् मण्डले 500 मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले पञ्च नद्यः प्रवहन्ति । ताः यथा - तेरेखोल, माण्डवी, जुवारी, चपोरा, साल । उत्तरगोवामण्डलस्य जनसङ्ख्या 8,17,761 अस्ति । अत्र 4,16,677 पुरुषाः, 40,133 स्त्रियः, 77,705 बालकाः सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते 471 जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 471 जनाः । 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 7.84% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-934 अस्ति । अत्र साक्षरता 89.57% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - 93.40% स्त्री - 85.60% अस्ति । अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- 1 पेरनेम 2 बारदेज 3 बिचोलिम 4 सतारी 5 तिस्वाडी 6 पोण्डा । रागी, तण्डुलः, नारिकेलं, काजूतकं, 'जवार्', ‘बाजरा’ च अस्य मण्डलस्य प्रमुखाणि कृष्युत्पादनानि सन्ति । गोवाराज्यस्य मण्डलयोः काजूतकस्य उत्पादने अस्य मण्डलस्य प्रथमं स्थानम् अस्ति । 'कोको'समुद्रतटः नेरुलनदी-अरबीसमुद्रयोः सङ्गमे स्थितः अस्ति । एषः समुद्रतटः अत्रस्थेषु सर्वेषु समुद्रतटेषु प्रख्याततमः । अस्मिन् मण्डले बहवः क्रैस्तप्रार्थनालयाः सन्ति । यथा - 'सेन्ट फ्रांसिस', 'ऑफ असीसी', 'होली स्पिरिट्', 'पिलर सेमिनरी', 'सालीगांव', 'रकोल सेमिनरी', 'सेन्ट् कारजन' इति । अन्यान्यपि बहूनि वीक्षणीयस्थलानि सन्ति । यथा - 'सेन्ट् आगस्टीन टावर', 'ननरी ऑफ सेन्ट मोनिका', 'सेन्ट एरक्स चर्च' च । अस्मिन् मण्डले प्रसिद्धाः देवालयाः अपि सन्ति, यत्र प्रवासिनः गच्छन्ति । तेषु देवालयेषु मुख्याः सन्ति - श्रीकामाक्षी, सप्तकोटेश्‍वरः, श्रीशान्तादुर्गः, महालसा-नारायणीमन्दिरं, परनेम भगवतीमन्दिरं, महालक्ष्मीमन्दिरं च । ://../. ..
{ "source": "wikipedia" }
अन्ताराष्ट्रियवाताटोत्सवः /ˈəɑːɑːʃɪəɑːθɑːʊəə/) मकरसङ्क्रमणदिने गुजरातराज्ये आचर्यमाणः विशिष्टः, सुप्रसिद्धश्च उत्सवः अस्ति । यस्मिन् दिने भगवान् सूर्यः मकरराशिं प्रविशति, तस्मिन् दिने भारते मकरसङ्क्रान्त्युत्सवः आचर्यते । सूर्यस्य मकरराशौ प्रवेशः मकरसङ्क्रमणम् इत्युच्यते । अतः मकरसङ्क्रान्तिः इति नाम । मकरसङ्क्रान्तिदिनादारभ्य षण्मासाः उत्तरायणपुण्यकालः भवति । अतः गुजरातराज्ये उत्सवस्यास्य उत्तरायणम् इति व्यवहारः । प्रतिवर्षं 'जनवरी'मासस्य चतुर्दशे दिनाङ्के मकरसङ्क्रान्तिः भवति । अस्मिन् उत्सवदिने तदङ्गत्वेन गुजरातराज्यस्य सर्वकारस्य प्रवासोद्यमनिगमेन काचन विशिष्टा अन्ताराष्ट्रिय-वाताट-उड्डयनस्पर्धा आयोज्यते इतीदं वैशिष्ट्यम् । अस्यां च स्पर्धायां न केवलं भारतस्य विभिन्नेभ्यः राज्येभ्यः, अपि तु नानादेशेभ्यः स्पर्धालवः समागत्य भागं गृह्णन्ति । स्पर्धां द्रष्टुम् अपि अत्यधिकसङ्ख्यायां द्रष्टारः भवन्ति । उत्सवदिने आकाशे सर्वत्र वाताटाः एव दृश्यन्ते । तस्मिन् दिने आबालवृद्धाः, महिलाः, युवतयश्च आदिनं स्वस्वप्रासादोपरि वाताटान् उड्डाययन्ति । प्रतिवर्षं गुजरातराज्ये द्विसहस्रोत्सवाः आचर्यन्ते जनैः । अन्ताराष्ट्रियवाताटोत्सवः प्रमुखोत्सवेषु अन्यतमः अस्ति । मासत्रयात् पूर्वमेव पतङ्गनिर्माणस्य, पतङ्गरज्जोः रङ्गलेपनस्य च आरम्भः भवति । गुजरातीजनानां गृहेषु वाताटोत्सवस्य सज्जता एकमासात् पूर्वमेव प्रारभते । हिन्दुपञ्चाङ्गानुसारं मकरसङ्क्रान्तिदिनं शीतकालस्य समाप्तेः, ग्रीष्मर्तोः आरम्भस्य च प्रतीकः अस्ति । एतत् दिनं कृषकेभ्यः सङ्केतः अस्ति यत्, सूर्यकालः पुनरागतोऽस्ति, कृषिकार्ये सल्लग्नाः भवन्तु इति । आभारतम् एतत् दिनं कृषिकार्याय मुख्यतमम् ।गुजरातराज्यस्य बहुषु नगरेषु वाताटस्पर्धायाः आयोजनं भवति । तस्यां स्पर्धायां नगरस्य वाताटप्रेमिणः भागं वहन्ति । स्पर्धाविजेतारः पुरस्कारान् प्राप्नुवन्ति । गुजरातराज्ये मकरसङ्क्रान्त्युत्सवस्य आचरणम् एतावत् प्रसिद्धम् अभूत् यत्, गुजरातसर्वकारेण प्रतिवर्षं 'जनवरी'-मासस्य 14-15 दिनाङ्कयोः अवकाशस्य घोषणा कृता । मकरसङ्क्रान्त्युत्सवदिनेषु प्रादेशिकभोजनेषु 'उन्धियु, जलेबी, फाफडा'-भोजनं बहुप्रख्यातमस्ति । मकरसङ्क्रान्त्युत्सवस्य पूर्वदिने वाताटप्रेमिणः स्वेप्सितवाताटान् क्रीणन्ति । नगरस्य सर्वास्वपि विपणिषु रात्रिकाले वाताटापणाः रम्यैः वर्णरञ्जितवाताटैः सुसज्जिताः सन्तः सर्वान् आकर्षयन्ति । तस्यां रात्रौ कोटिशः वाताटानां क्रयणं, विक्रयणं च भवति । 2012 तमे वर्षे गुजरातप्रवासोद्यमनिगमेन उद्घोषितं यत्, गुजरातराज्येण पुस्तके स्थानं प्राप्तमस्ति इति । कारणं तस्मिन् वर्षे मकरसङ्क्रान्तिदिने अन्ताराष्ट्रियवाताटोत्सवे द्विचत्वारिंशत्देशाः भागम् अवहन् । मुख्यतया गुजरातराज्यस्य अहमदाबाद, सुरत, वडोदरा, राजकोट, नडियाद-आदिषु नगर-महानगरेषु वाताटोत्सवस्य आयोजनं भवति । तेषु अहमदाबाद-महानगरे राष्ट्रिय-अन्ताराष्ट्रियपर्यटकेभ्यः अन्ताराष्ट्रियवाताटोत्सवस्य आयोजनं भवति । अन्ताराष्ट्रियवाताटोत्सवस्य आनन्दम् आस्वादयितुं प्रमुखं स्थलमस्ति ‘सरदार पटेल स्टेडियम्’ । तत्र 54,000 वीक्षकेभ्यः आसनव्यवस्था अस्ति । साबरमती रिवर्-फ्रण्ट् इत्यस्मिन् स्थले सहस्रशः वाताटाः आदिनम् गगने उड्डयन्तः दरीदृश्यन्ते । अन्ताराष्ट्रियवाताटोत्सवस्य आनन्दम् आस्वादयितुं तत्रापि अत्यधिकसङ्ख्यायां द्रष्टारः गच्छन्ति । तद्विहाय अहमदाबाद-महानगरस्य अन्यस्थलेष्वपि अन्ताराष्ट्रियवाताटोत्सवस्य आयोजनं भवति । अन्ताराष्ट्रियवाताटोत्सवस्य दिनेषु बहवः प्रख्याताः वाताटापणाः चतुर्विंशतिघण्टां यावत् वाताटविक्रयणार्थम् उद्घाटिताः भवन्ति । तेषु वाताटापणेषु अहमदाबाद-महानगरस्य हृद्प्रदेशे स्थिता ‘पतङ्ग बाजार’ इतीयं विपणिः प्रख्याता अस्ति । अस्यां विपण्यां क्रेतॄणां, विक्रेतॄणां च सम्मर्दः आदिनम्, आरात्रिः च भवति । अन्ताराष्ट्रियवाताटोत्सवस्य प्रभावः एतावान् वर्धितोऽस्ति यत्, अहमदाबाद-महानगरस्य केचन गृहस्थाः स्वगृहे एव नवीनानां पद्धितीनाम् उपयोगं कृत्वा वाताटानां रचनां कुर्वन्ति । तेषु केचन स्वनिर्मितानां वाताटानां विक्रयणमपि कुर्वन्ति । 1985 तमे वर्षे स्थापितः एशियाखण्डस्य बृह्त्तमः संस्कारकेन्द्र-नामकः वाताटसङ्ग्रहालयः अहमदाबाद-महानगरस्य पालडी-क्षेत्रे अस्ति । अस्मिन् सङ्ग्राहलये विविधप्रकारकाणां वाताटानाम् आकर्षकं, ज्ञानवर्धकं च प्रदर्शनी आवर्षं भवति । परन्तु उत्सवदिनेषु तत्र पुरातन-नव्यवाताटानां विशेषप्रदर्शनी भवति । अतः तस्मिन् सङ्ग्रहालयेऽपि जनानां सम्मर्दः अधिकः भवति अन्ताराष्ट्रियवाताटोत्सवदिनेषु । प्रतिवर्षं 'जनवरी'-मासस्य चतुर्दशे दिनाङ्के मकरसङ्क्रान्त्युत्सवः भवति । तस्मिन् दिने एव अन्ताराष्ट्रियवाताटोत्सवस्य आयोजनं भवति । परन्तु 'जनवरी'-मासस्य पञ्चदशे दिनाङ्केऽपि उत्सवः आचर्यते । कारणं तद्दिनमेव कृषकेभ्यः ग्रीष्मर्तोः आगमनस्य प्रतीकः अस्ति । अतः तस्मिन् दिने उत्सवप्रियाः गुजरातीजनाः ‘वासी उत्तरायण’म् आचरन्ति । ‘वासी’ इत्यस्य गुजरातीशब्दस्यार्थः पुरातनम् इति । पुरातनस्य उत्तरायणपर्वणः उत्सवः इत्यर्थः । अस्योत्सवस्य मुख्योद्देशः अस्ति यत्, प्रगाढनिद्राधीनाः देवताः अस्मिन् दिने जाग्रति । अतः तासां प्रार्थना कर्तव्या इति । भारतीयेतिहसविदां मतमस्ति यत्, वाताटोड्डयनस्य प्रप्रथमा प्रथा भारतदेशे एव प्रारब्धा । तां च प्रथां गुजरातराज्यस्य राजानः एव प्रारब्धवन्तः इति । तदानीन्तनकाले तु वाताटोड्डयनं केवलं धनिकानामेव उत्सवः आसीत् । कालान्तरेण गुजरातराज्यस्य जनसामान्याः अपि एनम् उत्सवं आचरितुं प्रारभन्त । अस्योत्सवस्य प्राधान्यम् एतावदभूत् यत्, कालान्तरे पर्वदिने अवकाशः अपि उद्घोषितः सर्वकारेण । ततः सामूहिकवाताटोत्सवस्य आयोजनं प्रारब्धम् । एवं 1989 तमे वर्षे गुजरातराज्यस्य प्रवासोद्यमनिगमेन अहमदाबाद-महानगरे प्रप्रथमः आन्तरराष्ट्रियवाताटोत्सवः आयोजितः । 2012 तमे वर्षे गुजरातराज्यस्य राज्यपालस्य डा. कमला इत्यस्याः आध्यक्षे मुख्यमन्त्री नरेन्द्र मोदी अन्ताराष्ट्रियवाताटोत्सवस्य उद्घाटनमकरोत् । तस्मिन्नेव वर्षे एव गुजरातराज्येण पुस्तके स्थानं प्राप्तमासीत् । 2014 तमे वर्षे 'जनवरी'-मासस्य 11 दिनाङ्कात् 13 दिनाङ्कपर्यन्तं ‘साबरमती रिवर्-फ्रण्ट्’ इत्यस्मिन् स्थले अन्ताराष्ट्रियवाताटोत्सवस्य आयोजनं भविष्यति । विश्वस्य 35 देशेभ्यः द्विशतमधिकाः स्पर्धालवः स्पर्धायां भागं वहिष्यन्ति । अन्ताराष्ट्रियवाताटोत्सवस्य कार्यक्रमेषु आदित्यहृदयपाठः, बालानां सूर्यनमस्कारः, ‘थीम पेविलियन, फुड कोर्ट, एडवेञ्चर पेविलियन’-आदीनां मुख्याकर्षणमस्ति । अस्य अन्ताराष्ट्रियवाताटोत्सवस्य उद्घाटनं गुजरातराज्यस्य मुख्यमन्त्री नरेन्द्र मोदी श्लोकोच्चारणेन करिष्यति । अन्ताराष्ट्रियवाताटोत्सवस्य भागरूपिणाम् अन्येषां कार्यक्रमाणाम् उद्घाटनं गुजरातराज्यस्य प्रवासोद्यममन्त्री करिष्यति । अन्ताराष्ट्रियवाताटोत्सवस्य त्रिषु दिनेषु दिवससमये वाताटोड्डयनस्पर्धा भविष्यति, रात्रिकाले तु ‘टुक्कल’ इत्यनेन सह वाताटोड्डयनं भविष्यति । देहली-महानगरस्य 'कनोट सर्कल'-क्षेत्रेऽपि राज्यप्रवासोद्यमनिगमेन अन्ताराष्ट्रियवाताटोत्सवस्य आयोजनं कृतमस्ति । 'जनवरी'-मासस्य 8 दिनाङ्के मुम्बई-महानगरेऽपि वाताटोत्सवस्य आयोजनं राज्यप्रवासोद्यमनिगमेन कृतमस्ति । 'जनवरी'-मासस्य 9-10 दिनाङ्कयोः क्रमेण गुजरातराज्यस्य सापुतारागिरिधाम्नि, कच्छमरुभूमौ वाताटोत्सवस्य आयोजनं राज्यप्रवासोद्यमनिगमेन कृतमस्ति । कर्णावती-महानगरम् नरेन्द्र मोदी मकरसङ्क्रान्तिः गुजरातराज्यस्य उत्सवाः ://../-/-. ://..///-/----/5570106. ://../----. ://..///. ://..//---------1949708
{ "source": "wikipedia" }
अयं पारसेल्सस् कश्चन रसायनशास्त्रस्य विज्ञानी । अस्य वास्तविकं नाम "थियोक्रस्टस् बोम्बास्टस् फन् होहेन्हैम्” इति । रसविद्यायाम् अहं प्रख्यातस्य वैद्यस्य "सेल्सस्” इत्यस्य अपेक्षया अपि बुद्धिमान् इति प्रदर्शनार्थं स्वस्य नाम एव "पारसेल्सस्” इति पर्यवर्तयत् अयं थियोक्रस्टस् । अयं पारसेल्सस् 1943 तमे वर्षे डिसेम्बर् मासस्य 17 दिनाङ्के स्वीडन् देशस्य 'ऐन्सिड्नेल्’ इति प्रदेशे जन्म प्राप्नोत् । अस्य पारसेल्ससस्य वैद्यविद्याभ्यासः तस्य पित्रा एव आरब्धः । अनन्तरं बहूनि नगराणि अटन् ज्ञानं सम्पादितवान् अयं पारसेल्सस् । तथैव दुरहङ्कारस्य कारणतः सर्वत्र शत्रून् अपि सम्पादितवान् । तथापि रसविद्यातः रसायनशास्त्रं प्रति समीचीनं मार्गं संशोधितवान् अयं पारसेल्सस् एव । अयं पारसेल्सस् रसविद्यायाः प्रमुखः उद्देशः स्वर्णस्य निर्माणं न । रोगाणाम् औषधस्य निर्माणम् इति उत्कृष्टं निर्णयम् अकरोत् । तदनीन्तने समाजे सस्यमूलेभ्यः केवलम् औषधानां निर्माणं शक्यते इति विश्वासः आसीत् । अयं पारसेल्सस् तं विश्वासम् एव परिवर्त्य खनिजमूलेभ्यः अपि औषधानां निर्माणं शक्यते इति प्रादर्शयत् । ग्रीक्-चिन्तकानां विश्वासपात्रेषु चतुर्षु वस्तुषु अयं पारसेल्सस् अपि विश्वसिति स्म । तथैव अरब्बानां विश्वासपात्रेषु त्रिषु वस्तुषु अपि तस्य तावानेव विश्वासः आसीत् । अयं पारसेल्सस् कश्चन अनुक्तग्राही आसीत् । 1527 तमे वर्षे यदा सः बेसेल्-नगरे प्रमुखः वैद्यः आसीत् तदा सार्वजनिकरूपेण गेलेन्, अविसेन् इत्यादीनां पुरातनानां विज्ञानिनां कृतीः अग्निसात् अकरोत् । अयं पारसेल्सस् यदा ल्याटिन्-भाषायाः स्थाने जर्मन्-भाषया एव वदामि इति अघोषयत् तदा जनाः तं बेसेल्-नगरात् एव बहिष्कृतवन्तः । 'मानसिकरोगिणः भूतैः पिशाचैः वा पीडिताः न, शारीरिकरोगाः इव ते अपि रोगाः एव । मस्तिष्के जायमानस्य व्रणस्य पार्श्ववायुरोगस्य च सम्बन्धः अस्ति ।’ इति स्पष्टतया निरूपितवान् आसीत् अयं पारसेल्सस् । यद्यपि तस्य पूर्वजाः मिश्रलोहाणां, कांस्यस्य च उपयोगं जानन्ति स्म तथापि जिङ्कलोहस्य संशोधनं कृतवान् अयं पारसेल्सस् एव । 1541 तम् वर्षे सप्टेम्बरमासस्य 24 तमे दिनाङ्के सः मरणम् अवाप्नोत् ।
{ "source": "wikipedia" }
कथं तदुपपद्यते ?सर्वस्यायं रागानुविद्धश्चेतनाचेतनसाधनाधीनः सुखानुभव इति तत्रास्ति रागजः कर्माशयः । तथा च द्वेष्टि दुःखसाधनानि मुह्यति चेति द्वेषमोहकृतोऽप्यस्ति कर्माशयः । तथा चोक्तम् । नानुपहत्य भूतान्युपभोगः सम्भवतीति हिंसाकृतोऽप्यस्ति शारीरः कर्माशय इति । विषयसुखं चाविद्येत्युक्तम् । या भोगेष्विन्द्रियाणां तृप्तेरुपशान्तिस्तत्सुखम् । या लौल्यादनुपशान्तिस्तद्दुःखम् । न चेन्द्रियाणां भोगाभ्यासेन वैतृष्ण्यं कर्तुं शक्यम् । कस्मात्? यतो भोगाभ्यासमनुविवर्धन्ते रागाः कौशलानि चेन्द्रियाणामिति तस्मादनुपायः । सुखस्य भोगाभ्यास इति । स खल्वयं वृश्चिकविषभीत इवाशीविशेण दष्टो यः सुखार्थी विषयानुवासितो महति दुःखपङ्के निमग्न इति । एषा परिणामदुःखता नाम प्रतिकूला सुखान्वस्थायामपि योगिनमेव क्लिश्नाति । अथ का तापदुःखता ? सर्वस्य द्वेषानुविद्धश्चेतनाचेतनसाधनाधीनस्तापानुभव इति । तत्रास्ति द्वेषजः कर्माशयः । सुखसाधनानि च प्रार्थयामानः कायेन वाचा मनसा च परिस्पन्दते । ततः परमनुगृह्णात्युपहन्ति चेति परानुग्रहपीडाभ्यां धर्माधर्मावुपचिनोति । स कर्माशयो लोभान्मोहाच्च भवतीत्येषा तापदुःखतोच्यते । का पुनः संस्कारदुःखता ? सुखानुभवात्सुखसंस्काराशयो दुःखानुभवादपि दुःखसंस्काराशय इति ? एवं कर्मभ्यो विपाकेऽनुभूयमाने सुखे दुःखे वा पुनः कर्माशयप्रचय इति । एवमिदमनादिदुःखस्रोतो विप्रसृतं योगिनमेव प्रतिकूलात्मकत्वादुद्वेजयति । कस्मात्? अक्षिपात्रकल्पो हि विद्वानिति । यथोर्णातन्तुरक्षिपात्रे न्यस्तः स्पर्शेन दुःखयति न चान्येषु गात्रावयवेषु । एवमेतानि दुःखान्यक्षिपात्रकल्पं योगिनमेव क्लिश्नन्ति नेतरं प्रतिपत्तारम् । इतरं तु स्वकर्मोपहृतं दुःखमुपात्तमुपात्तं त्यजन्तं त्यक्तं त्यक्तमुपाददानमनादिवासनाविचित्रया चित्तवृत्त्या समन्ततोऽनुविद्धमिवाविद्यया हातव्य एवाहङ्कारममकारानुपातिनं जातं जातं बाह्याध्यात्मिकोभयनिमित्तास्त्रिपर्वाणस्तापा अनुप्लवन्ते । तदेवमनादिदुःखस्रोतसा व्युह्यमानमात्मानं भूतग्रामं च दृष्ट्वा योगी सर्वदुःखक्षयकारणं सम्यग्दर्शनं शरणं प्रपद्यत इति । गुणवृत्त्यविरोधाच्च दुःखमेव सर्वं विवेकिनः । प्रख्याप्रवृत्तिस्थितिरूपा बुद्धिगुणाः परस्परानुग्रहतन्त्रीभूय शान्तं घोरं मूढं वा प्रत्ययं त्रिगुणमेवारम्भन्ते । चलं च गुणवृत्तमिति क्षिप्रपरिणामि चित्तमुक्तम् । रूपातिशया वृत्त्यतिशयाश्च परस्परेण विरुद्ध्यन्ते । सामान्यानि त्वतिशयैः सह प्रवर्तन्ते । एवमेते गुणा इतरेतराश्रयेणोपार्जितसुखदुःखमोहप्रत्यया इति सर्वे सर्वरूपा भवति । गुणप्रधानभावकृतस्त्वेषां विशेष इति । तस्माद्दुःखमेव सर्वविवेकिन इति । तदस्य महतो दुःखसमुदायस्य प्रभवबीजमविद्या । तस्याश्च सम्यग्दर्शनमभावहेतुः । यथा चिकित्साशास्त्रं चतुर्व्यूहं—रोगो रोगहेतुरारोग्यं भैषज्यमिति । एवमिदमपि शास्त्रं चतुर्व्यूहमेव । तद्यथा—संसारः संसारहेतुर्मोक्षो मोक्षोपाय इति । तत्र दुःखबहुलः संसारो हेयः । प्रधानपुरुषयोः संयोगो हेयहेतुः । संयोगस्यात्यन्तिकी निवृत्तिर्हानम् । हानोपायः सम्यग्दर्शनम् । तत्र हातुः स्वरूपमुपादेयं वा हेयं वा न भवितुमर्हति । हाने तस्योच्छेदवादप्रसङ्गः, उपादाने च हेतुवादः । उभयप्रत्याख्याने च शाश्वतवाद इत्येतत्सम्यग्दर्शनम् ॥15॥ योगदर्शनम् पतञ्जलिः अष्टाङ्गयोगः अन्ताराष्ट्रिययोगदिवसः पतञ्जलियोगसूत्रम् योगसूत्राणि शृण्वन्तु आङ्ग्लानुवादेन सह योगसूत्रम् स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः
{ "source": "wikipedia" }
वीणावासवदत्तं केन कदारचयदिति न सुनिश्चितम् । वल्लभदेवः पञ्चदश्यां शताब्द्यां स्वकृतौ सुभाषितावली वीणावासवदत्तस्य नान्दीमुदाहरति । ततः प्राचीनतामेवास्य सूचयति । द्वादश्यां शताब्द्यां रामचन्द्रेण रचितस्य नलविलासस्य नायकयोः समागममनुहरति। वीणावासवदत्तमिति ततः परस्तात् त्रयोदश्यां शताब्द्यामिदं रचितं भवेदित्यनुमीयते । स्यादेतत्-गर्भनाटकं व्यक्तिद्वैधमौत्सुक्यसातत्यमित्येवमादि वीणावासवदत्तं परां कोटिमाटीकयति । भासस्य रूपकेषु वा मुद्राराक्षसे वा न तथा वस्तुविन्याससामञ्जस्यं गाढनाट्यबन्धनैपुण्यं च दृश्यते। उज्जयिन्या राजा प्रद्योतश्चित्रमण्डपे मन्त्रिणं शालङ्कायनं सूर्यदत्तं वसुवर्माणं भरतरोहतकं च समेत्य स्वप्नमकथयत्शिवो मम दुहितुर्वासवदत्तायाः सर्वगुणगणालंकृतेन राज्ञा विवाहं भाविनमसूचयत् । वसुवर्मा वत्सराजमुदयनमेव तथा योग्यं निवेदयामास । अभिमानिने तस्मै न कन्या देयेति प्रद्योत उवाच । तस्य गर्वोऽपनेयः । तमत्र निगृह्यानीतं परीक्षेत भवान् – के वा गुणाः अवगुणाः वेति भरतरोहतकस्य मतमभूत् । हस्तिनो ग्रहीतुं वत्सराजो वनाय प्रस्थित इति विदितवृत्तः शालङ्कायन एव तत् सम्पादयितुं राज्ञा नियुक्तः। आखेटको वत्साधीशो यमुनातीरस्थं शिलीन्ध्रकवनं प्राविशत् । तन्मन्त्री यौगन्धरायणः कार्यतः कौशाम्ब्यामेव विलम्बितः । सैन्याध्यक्षो रुमण्वान् पुलिन्दान् शमयितुं व्याघ्रवनं गतोऽभूत् । यान्त्रिकं नीलगजराजमारूढे शालङ्कायने सचतुरङ्गसैन्ये तत्रायाते राज्ञः प्रद्योतस्य चरो वत्सराजं संगम्य सालवने योजनद्वये भ्रमन्तं नखदन्तर्वाजतं नीलं गजराजं प्रति सूचयामास । विष्णुव्रातं मन्त्रिणं तत्रैव विहाय नीलगजं ग्रहीतुमुदयनः प्रहरशेषेऽहनि सालवनं प्राप्तश्चरेण नीलगजो दर्शितः । पटहादिकं वाद्यमानं श्रुत्वा कृतकं च गजराजमाकलय्य प्रद्योतसैनिकान् पुरतो निभाल्य निग्रहीष्यमाणमात्मानं विचिन्त्य वीणामौपगायकाय समर्प्य युद्धाय समुद्यतः। ततो वत्सराज-शालङ्कायनौ कूट-वार्ताचर्यायां निष्फलायामयुध्यताम्। सर्वेषु वत्सराजसैनिकेषु पराहतेषु विक्षत उदयनो निगृहीत उज्जयिनीमानीयत। सांकृत्यायन्याः परिव्राजिकायाः पत्रेण हतशेषेण वत्सराजसैनिकेन हंसकेन च निवेदित-वृत्तान्तो यौगन्धरायण उदयनस्य मरणं प्रति डिण्डिमघोषमकारयत्, स्वयं च कुटाक्षरबद्धं पत्रं रुमण्वते प्रेष्य मन्त्रबद्धदृष्टीनां जनानां समक्षमात्मनोऽग्निपातं नाटयित्वा भृशं निगूढ उज्जयिनीं गतः। आपन्नविक्लवां कौशाम्बीं पाञ्चालाधीश्वरो हस्तगतविभवां चकार। युद्धात् पलायनमभिनीय रुमण्वान् आ कौशाम्ब्या आ चोज्जयिन्याः स्वसैनिकान् कृषिकर्मादिव्याजगूढान् सर्वत्र नियोजयामास । अन्तर्भेदकुशलो यौगन्धरायणो मायाच्छन्नस्वरूप उज्जयिन्यां चारेण सह वसन् विशाखेन सेनानायकेन प्रतिपालितानां सैनिकानां पञ्चशतीमाज्ञाप्रतीक्षापरायणान् स्थापयति स्म । प्रद्योतस्य प्रियं गजराजं नलगिरं च तथौषधेर्मत्तमकारयद्, यथा सोऽतिक्रान्तसकलश्वासितवती। पश्चात् राजानं तां गन्धर्वगृहीतामवेद्य ‘गन्धर्वाचार्य उदयनस्तुम्बरोः शापेन मनुष्यतां गतः, तत्समीपे गन्धर्वा न प्रभवन्ति' इत्युपायं च प्रशस्य सा वत्सराजं स्वतन्त्रं कारयामास। तत उपचितवात्सल्यस्य प्रद्योतस्य सद्मसु लब्धबहुमान उदयनो विदूषकमेकदा नाटकमेकं प्रयोजयितुं प्रोक्तवान् । तत्र यौगन्धरायणः सूत्रधारस्य, सांकृत्यायनी नट्याः, उदयनो नायकस्य, वासवदत्ता च नायिकायाः पात्रतामभिनेष्यन्तीति विदूषकस्तद् यौगन्धरायणस्यानुमतं विज्ञाप्य नायिकया सह नर्तनेच्छां प्रकटयामास । पाञ्चालराजेनारुणिनाधिकृतां च कौशाम्बीमसूचयत् । अथ भरतरोहतकोऽधिगम्य प्रद्योतो भवता गान्धर्वविद्यां शास्यमानां वासवदत्तामिच्छतीति निवेदितवान् । ततः कन्यान्तःपुरं प्रविष्टाः सर्वे । उदयनश्च वासवदत्ताया अन्तःपुरं भूषयन् गान्धर्वं शिक्षयति स्म । सांकृत्यायनीसमुपस्थितौ प्रथमं वीणां वादयन् राजा संगीतकमारभत - चतुरुदधि-जलाम्बरां परां फलभर-पिञ्जर-शालि-मालिनीम्। चिरमवतु नृपो हताहितां हिमगिरि-विन्ध्य-पयोधरां धराम्।। हविषा कृष्णवर्त्मेव वीणाशिक्षणेन प्रणयोन्मादः सानुबन्धमवर्धत । विदूषकः सुहृदमाचार्यं घोषयित्वा वासवदत्तां तस्य भाविनीमाचार्यां सम्भाव्यानृत्यत । वासवदत्तायाः पारितोषिकाङ्गलीयकात् प्रतिमोदकान् ग्रहीतुकामाय तस्मै मोदकान् प्रदाय नायिकाङ्गलीयकं स्वीचकार । तेन स्पृष्टेन प्रियास्पर्शसुखमनुभवन्नसौ चिन्तितवान् प्रणयव्यतिकरोऽयमनुमतो यदि नाम प्रद्योतस्य न स्यादिति स कामजनितमवसादं च गोपायितुं विदूषकेण नर्मदया नाम बन्धक्या सह स्वप्रेमव्यापारं प्रचारयामास, तस्यै चोपायनानि प्रेषितवान् । चेटीमुखात् तद् विदित्वा वासवदत्ता तत्प्रियस्यैव लेखमाहरन्तीं सांकृत्यायनीं पृष्ट्वा रहस्यमजानात् । उदयनो हि सांकृत्यायनीं यमुनाह्रदे निमज्जन्तीमरक्षदिति सा राज्ञ सदाशयास्ति । राजा तु प्रयोजनवशादेव नर्मदायां प्रेमाभिनयं दर्शयतीति सान्त्वयित्वा सा नायिकायै पत्रमर्पितवती । तत्र च लिखितं पद्यद्वयमभूत् - दृष्टा यदा त्वमुडुराज-समान-वक्त्रे नष्टा तदाप्रभृति मे क्षणदा सुनिद्रा। सर्वेष्वभूदरतिरेव मनोहरेषु जातं निदाधदिवसः श्वसितं समानम्।। दहति मदनवह्निः स्नेहहव्यो मनो मे प्रतिवचनजलैस्तं साधु निर्वापय त्वम्। वरतनु तव शय्या वेश्मदाहेत्युपेक्षा भवति हि सुदति त्वां तेन विज्ञापयामि।। इति प्रकाशितमष्टमाङ्कान्तं कथानकम् - उदयनवासवदत्तयोः कथा भासेन प्रतिज्ञायौगन्धरायणे स्वप्नवासवदत्ते चादायोत्कर्षं गमिता। कालिदासेनापि ‘उदयन कथाकोविदान् ग्रामवृद्धान्' इति तस्याः लोकख्यातिः उररीचक्रे । वीणावासवदत्तं तामेव परम्परामनुरुन्धदभिनयमयेन नाट्यविन्यासेन संवादांश्च कार्यव्यापार-समर्थितान् विधायोपनिबद्धमित्यनुत्तमं कौशलम् । अयमपरो विशेषो यदिदं कुटघटनाभिरौत्सुक्यं कौतूहलं च जागरयत् स्वान्तं तन्मयीभावं नयति।
{ "source": "wikipedia" }
आन्तरिकापत्कालः अर्थात् संविधानविरोधीनि कार्याणि राज्ये चलन्ती सन्ति, शासकः संविधानानुसारं राज्ये शासनं कर्तुम् असमर्थः अस्ति वा । राष्ट्रपतिः एतादृषं यदि राज्यपालस्य सूचनेन, अन्यरीत्या वा जानाति, तर्हि तस्मिन् राज्ये राष्ट्रपतिः आपत्कालस्य घोषणां कर्तुं शक्नोति । एषः प्रादेशिकापत्काल एव राष्ट्रपतिशासनम् इति प्रसिद्धः । भारतीयसंविधानस्य षड्पञ्चाशदधिकत्रिशत्तमानुच्छेदानुसारं संसदः स्वीकृत्या सह षण्मासावधेः वर्षत्रयं यावत् राष्ट्रपतिशासनं भवितुमर्हति । राष्ट्रपतिशासनकाले राज्यस्य राज्यपाल एव राष्ट्रपतेः आदेशानुगुणं शासनं करोति । अस्य षड्पञ्चाशदधिकत्रिशत्तमस्य अनुच्छेदस्य बहुवारं दूरुपयोगः जातः अस्ति । अतः भारते बहुषु राज्येषु प्रादेशिकापत्कालस्य घोषणाः अभवन् । यस्य पक्षस्य सर्वकारः केन्द्रे शासनं करोति, सः पक्षः विपक्षस्य यस्मिन् राज्ये शासनम् अस्ति, तस्मिन् राज्ये शासकात् सत्ताम् अपकर्ष्य राष्ट्रपतिशासनस्य घोषणां कारयति । राज्ये कोपि पक्षः बहुमतं सिद्धं कर्तुम् असमर्थः भवति चेदपि राष्ट्रपतिशासनं भवति । परन्तु तत् आपत्कालत्वेन न परिगण्यते ।
{ "source": "wikipedia" }
धुळेमण्डलं महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं धुळे इत्येतन्नगरम् । महाराष्ट्रराज्यस्य उत्तरदिशि मण्डलमिदं विद्यते । महाराष्ट्रराज्यस्य 'खान्देश'विभागे स्थितेषु मण्डलेषु अन्यतमम् इदं मण्डलम् । धुळेमण्डलस्य विस्तारः 8,063 चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य वायव्यदिशि नन्दुरबारमण्डलं, दक्षिणदिशि नाशिकमण्डलं, पूर्वदिशि जळगावमण्डलम्, उत्तरदिशि मध्यप्रदेशराज्यम् अस्ति । मण्डलेऽस्मिन् तापी, पाञ्झरा, अरुणावती, कान, आरु इत्येताः प्रमुखनद्यः प्रवहन्ति । मण्डलेऽस्मिन् सामान्यतः उष्ण-शुष्कवातावरणं भवति । मण्डलेऽस्मिन् 592 मिल्लिमीटर्मितः वार्षिकवृष्टिपातः भवति । धुळेमण्डलस्य जनसङ्ख्या 20,48,781 अस्ति । अत्र 10,55,669 पुरुषाः 9,92,112 महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते क्षेत्रे 210 जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 210 जनाः । 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 19।96% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-941 अस्ति । अत्र साक्षरता 74.61% अस्ति । जोर्वे, नेवासे, दायमाबाद्, बहाळ, प्रकाश इत्येतेषु स्थानेषु जातेभ्यः उत्खननेभ्यः ज्ञायते यत् अस्मिन् परिसरे 'ताम्र-पाषाण'कालतः मानवाः निवासं कुर्वन्तः सन्ति । मण्डलेऽस्मिन् सातवाहन-शुङ्ग-आभीर-वाकाटक-राष्ट्र्कूट-यादव-मराठाराजानाम् आधिपत्यमासीत् । 1857 तमे वर्षे जाते 'स्वातन्त्र्यसङ्रामे' अत्रस्थाः जनाः भागम् ऊढवन्तः । यवनालः, 'बाजरी', तण्डुलः, गोधूमः, किणः, 'तूर', चणकः, द्विदलसस्यानि, कलायः, तिलः, तैलबीजानि, कार्पासः, मरीचिका इत्येतानि मण्डलस्य अस्य प्रमुखसस्योत्पादनानि । कृषिसम्बद्धकार्याणि एव जनानां प्रमुखोपजीविकां कल्पयन्ति । तथापि पशुपालनव्यवसायः, दुग्धव्यवसायः, खाद्यतैलनिर्मितिव्यवसायः, वस्त्रोद्यमाः, कर्गजोद्यमः प्रचलन्ति अत्र । कृषिः अस्य मण्डलस्य अर्थव्यवस्थायाः प्रमुखाङ्गम् अस्ति । अस्मिन् मण्डले चत्वारि उपमण्डलानि सन्ति । तानि विभागद्वये विभक्तानि - 'खानदेश' इति महाराष्ट्रविभागस्य विशिष्टा संस्कृतिः अत्र वर्तते । 'मावची', 'पावरे', 'भिल्ल', 'धनका', 'कातकरी' इत्यादयः आदिवासिजनाः वनेषु पर्वतप्रदेशेषु च निवसन्ति । वृषभाणां व्यवसायिकाः 'वञ्झारी', अजपालकाः 'ठेलारी', मृगयवः 'पारधी' इत्यादयः विमुक्तजनजातिजनाः अपि मण्डलेऽस्मिन् निवसन्ति । 'भाकरी', मरीचिकायाः उपसेचनं, द्विदलसस्यानां सूपाः, मांसाहारः इत्येतान् आदिवासिजनाः भुञ्जन्ते । एतेषां विशिष्टा वेशभूषा वर्तते । आदिवासिपुरुषाः आजानु-वेष्टिं धरन्ति, महिलाः निचोलं, कञ्चुकं च धरन्ति । आदिवासिजनाः कृषिकार्यं कुर्वन्ति, तेन सह अरण्यात् कषायं, फलानि, मधु, चुल्लिका-इन्धनम् इत्येतान् एकत्रीकुर्वन्ति । मण्डलेऽस्मिन् 'अहिराणी' इति मराठीभाषाप्रकारं जनाः व्यवहारे उपयुञ्जन्ति । गोकुळाष्ट्मी, 'पोळा', गणेशोत्सवः, 'दसरा', दीपावलिः, मकर-सङ्क्रान्तिः, होलिकोत्सवः, गुढीपाडवा, रामनवमी इत्येताः ग्रामेषु निवसतां जनानां प्रमुखोत्सवाः सन्ति ।
{ "source": "wikipedia" }
तारणपंथ एक दिगंबर जैन धर्मस्य पंथः अस्ति।अस्मिन् पंथस्य संस्थापकः संत तारणं अस्ति। अस्मिन् पंथात् एव तीर्थंकरा: मोक्षं प्राप्तनोत्। अस्मिन् पंथस्य इष्टगुरो: आचार्य तारण तरण गुरुदेव एकं निर्ग्रंथम् आसीत्।तस्य संदेशं आसीत्-: "त्वं स्वयं एव भगवन्तं असि"।तारण पंथे भावपूजा मंदिर विधि भवति।मंदिर विधिंतर्गते एकं सूत्रमस्ति-: व्यवहारे परमेष्ठी जाप।,निश्चय शरण आपको आप।।अर्थं-: व्यवहार रूपे पंचपरमेष्ठी भगवंतस्य आराधनां कुरु परं निश्चय रूपेण निज शुद्धात्मायां साधनां एव मोक्षं नेष्यति। तारण समाजस्य चत्वारः तीर्थः संति। तारणपंथस्य षट् समुदायः संति। फलकम्:श्रेणी:जैनधर्म
{ "source": "wikipedia" }
विख्यात पुरुषः।
{ "source": "wikipedia" }
3 जून-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य एकशताधिकचतुःपञ्चाशत्तमं दिनम् । लिप्-वर्षानुगुणम् एकशताधिकपञ्चपञ्चाशत्तमं दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय 211 दिनानि अवशिष्टानि ।
{ "source": "wikipedia" }
टीकमगढमण्डलम् /ˈːəəɡəəəəə/) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य सागरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति टीकमगढ इति नगरम् । टीकमगढमण्डलस्य विस्तारः 5,048 चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य उत्तरभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे छतरपुरमण्डलं, पश्चिमे उत्तरप्रदेशराज्यम्, उत्तरे उत्तरप्रदेशराज्यं, दक्षिणे छतरपुरमण्डलम् अस्ति । अस्मिन् मण्डले बेटवानदी प्रवहति । 2011 जनगणनानुगुणं टीकमगढमण्डलस्य जनसङ्ख्या 14,45,166 अस्ति । अत्र 7,60,355 पुरुषाः, 6,84,811 महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते 286 जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 286 जनाः। 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 20.13% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-901 अस्ति । अत्र साक्षरता 61.43% अस्ति । अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- टीकमगढ, बलदेवगढ, खडगपुर, पालेडा, जतारा, मोहनगढ, पृथ्वीपुर, ओरछा, निवाडी । अचरू-मातामन्दिरं पृथ्वीपुर-उपमण्डले स्थितम् अस्ति । इदं मन्दिरम् एकस्मिन् उपशैले स्थितमस्ति । अस्मिन् अचरू-मातुः मूर्तिः अस्ति । अस्मिन् मन्दिरे एकः जलकुण्डः अस्ति । अस्य मन्दिरस्य चमत्कारः अस्ति यत् कुण्डे सदैव जलं भवति अपि च कुण्डः कदापि शुष्कः न भवति । जनाः प्रतिवर्षं ’मार्च-अप्रैल’ इत्येतयोः मासयोः नवरात्रिपर्व आमनन्ति । ओरछा-नगरं निवडी-उपमण्डलात् 13 कि. मी. दूरे अस्ति । इदं नगरं बेटवानदीनद्याः तटे स्थितम् अस्ति । इदं स्थलं ई. स. 1531 तमे वर्षे राज्ञा रुद्रप्रतापसिंहेन अन्वेषितम् । इदं हिन्दुजनानां धार्मिकं स्थलम् अस्ति । अत्र धार्मिकी सांस्कृतिकी च परम्परा अस्ति येन कारणेन इदं स्थलम् प्रसिद्धम् अस्ति । पपौरा जी टीकमगढ-नगरात् 5 कि. मी. दूरे अस्ति । अत्र बहूनि जैनमन्दिराणि सन्ति । इदं जैनानां एकं केन्द्रम् अस्ति । बहवः श्रद्धालवः जैनाः दर्शनार्थं तत्र गच्छन्ति । अस्मिन् मण्डले अहर जी, बलदेवगढ, जतारा, कुण्डेश्वर, मदखेडा, निवारी, पालेरा, पृथ्वीपुर, टीकमगढ, उमरी इत्येतानि प्रमुखानि वीक्षणीयस्थालानि अपि सन्ति । ://.../ ://.2011..///291-.
{ "source": "wikipedia" }
ट्रिचिमलैदुर्गम् एतत् दुर्गं 263 पादपरिमितोन्नतम् । आरोहणाय 417 सोपानानि निर्मितानि सन्ति । एषः पर्वतप्रदेशः एव किन्तु पर्वतः इव न दृश्यते । पर्वतः कुतश्चित् दृष्टः चेत् अपि धूसरवर्णः बृहन्नन्दी स्वशिरसि देवालयमेकं धृत्वा उपविष्टवान् अस्ति इव दृश्यते । भूगर्भशास्त्रज्ञानां मतानुसारम् अस्य पर्वतस्य निर्माणं हिमालयनिर्माणात्पूर्वं जातम् इति तु आश्चर्यजनकः विषयः अस्ति । दुर्गं गन्तुं साहसिकानाम् एव शक्यम् अस्ति । मार्गः आयासकरः अस्ति । चेन्नै- मधुरैमार्गे मुख्यं निस्थानम् अस्ति ट्रिचि ।मैसूरु-मैलाडुतुरैमार्गः अपि । मधुरैतः 135 कि.मी । चेन्नैतः 334 कि.मी । मैसूरुतः 620 कि.मी । बेङ्गळूरुतः 471 कि.मी
{ "source": "wikipedia" }
रूपकालङ्कारः अलङ्कारस्य तावत् बहुधा उपयोगः काव्येषु भवति । उपमायाः लक्षणं तावत् कुवलयानन्दे अप्पय्यदीक्षितः एवं प्रकथयति – चन्द्रालोके अस्य अलङ्कारस्य लक्षणमेवं विद्यते । विषय्युपमानभूतं पद्मादि, विषयस्तदुपमेयभूतं वर्णनीयं मुखादि। विषयिणो रूपेण विषयस्य रञ्जनं रूपकम्, अन्यरूपेण रूपवक्तरणात् । तच्च्च क्वचित्प्रसिद्धविषय्यभेदे पर्यवसितं, क्वचिद्भेदे प्रतीयमान एव तदीयधरारोपमात्रे पर्यवसितम् । ततश्च रूपकं तावद्विविधम् अभेदरूपकं ताद्रूप्यरूपकं चेति । द्विविधमपि प्रत्येकं त्रिविधम् । प्रसिद्धविषय्याधिक्यवर्णनेन तन्न्यूनत्ववर्णनेन अनुभयोक्त्या चैवं रूपकं षड्विधम् ।
{ "source": "wikipedia" }
कर्णाटकस्य चिक्कमगळूरुमण्डलस्य चन्द्रदोणपर्वतप्रदेशे एषः जलपातः अस्ति । वर्षाजलराशिः 10मी.प्रपातं कूर्दति ।
{ "source": "wikipedia" }
444 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः अधिवर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012
{ "source": "wikipedia" }
प्रत्येकस्मिन् राष्ट्रे/देशे बहूनि राज्यानि अथवा बहवः प्रान्ताः भवन्ति । तादृशस्य एकैकस्य राज्यस्य, प्रान्तस्य वा सर्वकारस्य प्रमुखः भवति मुख्यमन्त्री । सः सामान्यतया तु जनैः, जनप्रतिनिधिभिश्च चितः भवति । भिन्नेषु देशेषु चयनक्रमः भिन्नः वर्तते । भारते तावत् मुख्यमन्त्री प्रत्येकं राज्यस्य सर्वकारस्य प्रमुखः भवति । सः राज्यस्य मन्त्रिपरिषदः, विधानसभायाः च प्रमुखः । राज्यपालः तु नाममात्रेण प्रमुखः । सः सर्वमपि सर्वकारसम्बद्धं कार्यं मुख्यमन्त्रिणः निर्देशने करोति । भारतस्य संविधानम् अनुसृत्य राज्यपालः मुख्यमन्त्रिणं नियोजयति । भारते विद्यमाना संसद्व्यवस्था 'वेस्ट् मिन्स्टर्' व्यवस्थाम् अनुसरति । अतः विभिन्नानां राज्यानां मुख्यमन्त्रिणां नियोजनं तत्तद्राज्यस्य विधानसभायाः सदस्याः कुर्वन्ति । जनाः साक्षात् मुख्यमन्त्रिणं न नियोजयन्ति किन्तु जनप्रतिनिधीन् एव । एते जनप्रतिनिधयः तेषु एव कञ्चन प्रतिनिधिं सर्वकारस्य प्रमुखत्वेन चिन्वन्ति । स्वस्य नियुक्त्यनन्तरं मुख्यमन्त्री पूर्णं कार्याङ्गाधिकारम् अनुभवति । किन्तु राज्यपालः केवलं नाममात्रेण राज्यसर्वकारस्य प्रमुखः इति व्यतिरेकः । भारतस्य संविधाने मुख्यमन्त्रिणः योग्यताविषये लिखितनियमाः सन्ति । ते - राज्यस्य विधानसभायां बहुसङ्ख्यायाः प्राप्त्यनन्तरमेव मुख्यमन्त्रिणः नियोजनं भवति । राज्यपालस्य सूचनानुसारं विधानसभायां विश्वासमतयाचनाद्वारा इयं प्रक्रिया प्रचलति । संविधानस्य 164 अनुच्छेदसङ्ख्यायाः आधारेण मुख्यमन्त्रिणः, अन्येषां मन्त्रिणां च वेतनं विधानसभायाः सदस्याः निर्णयन्ति । अतः सर्वेष्वपि राज्येषु वेतनं समानं न भवति ।
{ "source": "wikipedia" }
कृष्णदेवरायः विजयनगर साम्राज्यस्य तुळुवा वंशस्य राजा आसीत्। भारतीयेतिहासे प्रख्यातं विजयनगरसाम्राज्यम् । तस्य पालकः कश्चित् सुसम्पन्नः राजा आसीत् । सः स्वपराक्रमेण बलयुक्तं शत्रुसैन्यं जित्वा अपि, पुनः शत्रौ दयागुणं दर्शयति स्म । अतः सः चक्रवर्ती उत्तमः, योग्यः परिपालकः प्रजारञ्जकश्च इति कीर्तितः आसीत् । तस्य काले हम्पिनगरस्य वीथीषु रत्नानि, वज्राणि च जूर्णानि, धान्यानि इव विक्रीण्ते स्म । धर्मस्य, ललितकलानां च उदारभावेन आश्रयं कल्पितवान् आसीत् सः रसिकः । स्वयं महाकविः सन् अपि परकवितानुरागी आसीत् सः ।नगरे आपणेषु यथा सामान्यवणिजः धान्यस्य विक्रयणं कुर्वन्ति तथा एतद्देशीयाः वणिजः रत्नानि वज्राणि राशीकृत्य तेषां विक्रयणं कुर्वन्ति स्म । तस्य राज्ये रात्रिसमयेऽपि युवतयः आभरणानि धृत्वा विना भयम् एकाकिन्यः एव सञ्चरन्ति स्म ।अन्यदेशेभ्यः आगताः यात्रिणः तस्य राज्यम् एवम् आसीदिति स्वग्रन्थेषु उल्लिखितवन्तः सन्ति । तेन ज्ञायते तत् राज्यं कियत् धनवत्, राजा च कियान् समर्थः आसीत् इति । सः प्रभुः एव श्रीकृष्णदेवरायः विजयनगरसाम्राज्यस्य चक्रवर्ती ।
{ "source": "wikipedia" }
ब्रिटेनस्य शासकः।जेम्स 6, जेम्स 1
{ "source": "wikipedia" }
अमेरिका-संयुक्त-संस्थानम् उत्तर अमेरिका खण्डे एकः देशः अस्ति। अस्मिन् देशे 50 राज्यानि सन्ति। देशस्य राजधानी वाषिंग्टन् डी सी नगरम्। अट्लाण्टिक् महासागरः, पेसिफ़िक् महासागरः च एतं देशं परितः स्त:। उत्तरदिशि केनडा देश: अस्ति। दक्षिणादिशि मेक्सिको देशः अस्ति ।
{ "source": "wikipedia" }
हिन्दुधर्मः • इतिहासः त्रिमूर्तयःब्रह्मा • विष्णुः • महेश्वरः अन्यदेवताःसरस्वती · लक्ष्मीः · पार्वतीशक्तिः · दुर्गा · कालीगणेशः · सुब्रह्मण्यः · अय्यप्पःरामः · कृष्णःहनूमान्प्रजापतिः · रुद्रःइन्द्रः · अग्निः · वायुः · निॠतिःभूमिः · वरुणः · कुबेरः · ईशानः ब्रह्म · ॐ · ईश्वरःआत्मा · मायाकर्म · संस्काराःपु्रुार्थाःधर्मः · अर्थः · कामः · मोक्षः आस्तिकवादाः साङ्ख्यम् · योगः न्यायः · वैशेषिकम् पूर्वमीमांसाउत्तरमीमांसा /वेदान्तः नास्तिकवादाःचार्वाकवादः बौद्धवादः जैनवादः ऋग्वेदः • यजुर्वेदः सामवेदः • अथर्ववेदः विभागाःसंहिता, ब्राह्मणः,आरण्यकः, उपनिषत् आयुर्वेदः • धनुर्वेदः गान्धर्वेदः • स्थापत्यवेदः शिक्षा · छ्न्दः · व्याकरणम्निरुक्तः · कल्पः · जौतिषम् ऋग्वेदीयःऐतरेयायुजुर्वेदीयाःबृहदारण्यकः · ईशवास्यःतैत्तरीयः · कठः · श्वेताश्वतरः सामवेदीयाः छान्दोग्यः · केनःअथर्ववेदीयाःमुण्डकः · माण्डूक्यः · प्रश्नः ब्रह्मसम्बद्धानिब्रह्मपुराणम् · ब्रह्माण्डपुराणानिब्रह्मवैवर्तपुराणम्मारकाण्डेयपुराणम् · भविष्यपुराणम्विष्णुसम्बद्धानिविष्णुपुराणम् · भागवतपुराणम्नारदपुराणम् · गरुडपुराणम् · पद्मपुराणम्शिवसम्बद्धानिशिवपुराणम् · लिङ्गपुराणम्स्कन्दपुराणम् · अग्निपुराणम् · वायुपुराणम् रामायणम् · महाभारतम् भगवद्गीताधर्मशास्त्रम् · मनुस्मृतिःअर्थशास्त्रम् · योगवासिष्ठःसूत्राणि · स्तोत्राणि · तन्त्राणियोगसूत्राणि हिन्दूसाहित्यम् पूजाः · जपः · भजनम्तपः · ध्यानम्यज्ञम् · होमःतीर्थस्थानानि · नैवेद्यम्हैन्दवमन्दिराणि · विग्रहः · भक्तिः · गर्भाधानसंस्कारः · पुंसवनसंस्कारः · सीमन्तोन्नयनसंस्कारः · जातकर्मसंस्कारः · नामकरणसंस्कारः · कर्णवेधसंस्कारः · निष्क्रमणसंस्कारः · अन्नप्राशनसंस्कारः · चूडाकर्मसंस्कारः · उपनयनसंस्कारः · वेदारम्भसंस्कारः · केशान्तसंस्कारः · समावर्तनसंस्कारः · विवाहसंस्कारः · विवाहाग्निपरिग्रहसंस्कारः · अन्त्येष्टिसंस्कारः वर्ण्यव्यवस्थाब्राह्मणः · क्षत्रियःवैश्यः · शूद्रःआश्रमव्यवस्थाब्रह्मचर्याश्रमः · गृहस्थाश्रमःवानप्रस्थाश्रमः · सन्यासाश्रमः नवरात्रोत्सवः विजयदशमी दीपावली · शिवरात्रिः · होलीविशु · बिहु · · गणेशचतुर्थी · ओणम्रामनवमी · कृष्णजन्माष्टमीरक्षाबन्धनम् प्राचीनाःगौतमः · जैमिनिः · कणादः · कपिलः · मार्काण्डेयः · पतञ्जलिः · वाल्मीकिः · व्यासः मध्यकालीनाःशङ्कराचार्यः · बसवेश्वरः · चैतन्यमहाप्रभुः · जयन्तभट्टः · कबीरदासः · कुमारिलभट्टः · मधुसूदनसरस्वती स्वामिनः · विद्यारण्यः · नामदेवः · निम्बार्कः · प्रभाकरः · रामानुजाचार्यः · वेदान्तदेशिकः · सन्त तुकारामः · तुलिसीदासः · वाचस्पतिमिश्रः · वल्लभाचार्यः आधुनिकाःश्री अरविन्दः · दयनन्दसरस्वती · महात्मागान्धी · कृश्णानन्दः · नारायणगुरुः · प्रभुपादः · श्रीरामकृष्णपरमहंसः · रमणमहर्षिः · सर्वपल्ली राधाकृष्णन् · स्वामी शिवानन्दसरस्वती · विवेकानन्दः · योगानन्दः राष्ट्रानुगुणं सनातनधर्मःसनातनधार्मिकता • सनातनपञ्चाङ्गम्हैन्दवनियमाः • सनातनमूर्तिशिल्पः • हिन्दुत्वम्सनातनतीर्थस्थानानि सनातनधर्मस्य समस्याः • सनातनटीकासनातनः निघण्टुः प्रवेशद्वारम्:सनातनधर्मःप्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः भाद्रपदमासे शुक्लपक्षे तृतीयायां तिथौ एतत् पर्व आचर्यते । व्यवहारे “गौरीपर्व” इति उच्यते चेदपि एतस्य पर्वणः शास्त्रीयं नाम “स्वर्णगौरीव्रतम्” इति । गौरीम् अधिकृत्य “मङ्गलगौरी”, “सम्पद्गौरी”, “सौभाग्यगौरी”, “लावण्यगौरी”, “त्रिलोचनगौरी”, “गजगौरी” इत्यादीनि व्रतानि सन्ति । एतदपि पर्व प्रायः सर्वत्र महिलाभिरेव आचर्यते । “गौरी” इत्येतत् पार्वत्याः एव पर्यायनाम । सा शिवस्य अर्धाङ्गिनी । संहारावसरे सा कृष्णवर्णीया काली, विद्याप्रदानावसरे श्यामलवर्णीया श्यमलाम्बिका । सौभाग्यप्रदानावसरे चम्पकपुष्पवर्णीया अथवा शुभ्रहिमवर्णीया । “गौरी” इत्यस्य पदस्य अर्थः एव “गौरवर्णीया” इति । गौरः वर्णः अस्ति अस्याः इति गौरी । ललिता, उमा, एकपर्णा, अपर्णा, शाकम्भरी, राजराजेश्वरी, त्रिपुरसुन्दरी इत्येतानि सर्वाणि अपि तस्याः एव नामानि । “विद्याकामस्तु गिरिशं दाम्पत्यर्थे उमां सतीम् ।“ इति । अनुरूपस्य पत्युः प्राप्त्यर्थं, शाश्वतं पतिप्रेमप्राप्त्यर्थं, सौमङ्गल्यसिध्यर्थं च गौर्याः पूजां कुर्वन्ति । रुक्मिण्या, गोपिकास्त्रीभिः च पतिरूपेण कृष्णस्य प्राप्त्यर्थं कृता गौरीपूजा पुराणप्रसिद्धा एव । इदानीम् अपि कुत्रचित् विवाहमङ्गलकार्यक्रमे सौभाग्यर्थं गौरीपूजां कारयन्ति । भाद्रपदमासे शुक्लपक्षे तृतीयायां तिथौ एतत् व्रतम् आचर्यते । गौरीं स्वर्णविग्रहे, हरिद्रालिप्तकलशे, नद्याः सरोवरतः वा सङ्गृहीतायां मृत्तिकायां वा आवाह्य व्रतम् आचरन्ति । रजतविग्रहः अत्र न अनुमन्यते । स्वर्णधरणेन शरीरे यः प्रभावः सञ्जायते सः एव प्रभावः हरिद्राधरणेनापि सञ्जायते । अतः स्वर्णाभावे हरिद्राविग्रहः योग्यः इति उच्यते । गौरी अपि स्वर्णवर्णा नतु रजतवर्णा । मृत्तिकायां ताम् आवाह्य पूजकाः प्रातः स्नात्वा शुचिर्भूत्वा नदीं सरोवरं वा गत्वा गङ्गापूजां कुर्वन्ति । अनन्तरं तत्रत्यां मृत्तिकां हरिद्रायुक्ते वस्त्रे बध्वा तामेव ग्रन्थिं गौरीं मत्वा षोडशोपचारपूजां कृत्वा मङ्गलवाद्यसहितं गृहम् आनयन्ति । मण्डपे संस्थाप्य प्राणप्रतिष्ठां कृत्वा विसर्जनपर्यन्तं त्रिकालेषु विधिपूर्वकं पूजयन्ति । घण्टानादेन पूजाम् आरभ्य आचमनं, सङ्कल्पं, कलशपूजां, महागणपतिपूजां, स्वर्णगौरीपूजां, देवताप्रतिष्ठापनं च कुर्वन्ति । पुष्पाक्षतैः ताम् आवाह्य रत्नसिंहासनं समर्पयन्ति । नूतनं सूत्रं पूजार्थं स्थापयन्ति । अर्घ्य-पाद्य-मधुपर्क-पञ्चामृतस्नान-शुद्धोदकस्नान-वस्त्राभरण-यज्ञोपवीत-गन्धाक्षताः-कुङ्क्मादीनि मङ्गलद्रव्याणि जगन्मात्रे समर्पयन्ति । देवीम् अङ्गपूजा-पुष्पपूजा-पत्रपूजा-नामपूजादिभिः सम्पूज्य सूत्रस्य 16 ग्रन्थीन् अपि स्वर्णगौरी, महागौरी, कात्यायनी, कौवरी, भद्रा, विष्णुसोदरी, मङ्गलदेवता, राकेन्दुवदना, चन्द्रशेखरप्रिया, विश्वेश्वरपत्नी, दाक्षायणी, कृष्णवेणी, भवानी, लोलेक्षणा, मेनकात्मजा, स्वर्णगौरी इति क्रमेण पूजयन्ति । नैवेद्यार्थं विशेषतया हरिद्रान्नं, मुद्गान्नं च समर्पयन्ति । पूजानन्तरं प्रसादरूपेण तत् सूत्रं धरन्ति । पूजानन्तरं व्रतकथाश्रवणम् अपि कुर्वन्ति । उद्यापनकर्तारः गृहस्य पूर्वभागं शुद्धीकृत्य अलङ्कृत्य तत्र मण्डपं निर्माय धान्यादिकं प्रसार्य कलशं स्थापयन्ति । कलशोपरि 16 दलयुक्तकमलचित्रयुक्तं ताम्रपात्रं संस्थाप्य तस्मिन् पार्वतीपरमेश्वरयोः स्वर्णविग्रहौ संस्थाप्य अभिषेकं कृत्वा षोडशोपचारपूजां कुर्वन्ति । रात्रिपूर्णं जागरणं कुर्वन्ति । अपरस्मिन् दिने प्रातः तिल-यव-आज्यैः सङ्कर्षणमन्त्र-गौरीमन्त्रैः हवनं कृत्वा गोदानादिकं कुर्वन्ति । 16 द्विजान्, सुमङ्गलीः च भोजयित्वा आशीर्वादं प्राप्नुवन्ति ।
{ "source": "wikipedia" }
अञ्जियो इटली देशस्य एकं नगरम् अस्ति । इटली यूरोप दक्षिणे एकं प्राचीनं क्षेत्रम् अस्‍ति ।
{ "source": "wikipedia" }
बाडमेरमण्डलं राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति बाडमेरनामकं नगरम् । बाडमेरमण्डलस्य विस्तारः 28387 चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे पालीमण्डलं, जोधपुरमण्डलं च, पश्चिमे पाकिस्थानदेशः, उत्तरे जैसलमेरमण्डलं, दक्षिणे जालौरमण्डलम् अस्ति । अस्मिन् मण्डले केवलं 29.99 मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । 2011 जनगणनानुगुणं बाडमेरमण्डलस्य जनसङ्ख्या 83517 अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते 92 जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 92 जनाः । अत्र साक्षरता 57.49 % अस्ति । अस्मिन् मण्डले द्वे उपमण्डले स्तः । ते- अस्मिन् मण्डले विद्यमानानि वीक्षणीयस्थलानि तु -
{ "source": "wikipedia" }
, , , , न्‍यू यार्क संयुक्त राज्‍य अमेरिका देशस्‍य प्रदेश: अस्‍ति. राजधानी - आल्‍बनी
{ "source": "wikipedia" }
आर्कटिक महासागरः एकः सागरं अस्ति |
{ "source": "wikipedia" }
झाबुआमण्डलम् /ˈɑːʊɑːəəə/) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य इन्दौरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति झाबुआ इति नगरम् । झाबुआमण्डलस्य विस्तारः 3,600 चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे धारमण्डलं, पश्चिमे रतलाममण्डलम्, उत्तरे गुजरातराज्यं, दक्षिणे अलीराजपुरमण्डलम् अस्ति । अस्मिन् मण्डले माहीनदी प्रवहति । 2011 जनगणनानुगुणं झाबुआमण्डलस्य जनसङ्ख्या 10,25,048 अस्ति । अत्र 5,15,023 पुरुषाः, 5,10,025 महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते 285 जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 285 जनाः। 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 30.70% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-990 अस्ति । अत्र साक्षरता 43.30% अस्ति । अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि- झाबुआ, राणापुर, थान्दला, पेटलावद, मेघनगर । रङ्गपुरा-ग्रामः झाबुआ-नगरस्य समीपे अस्ति । अस्मिन् ग्रामे रामपञ्चायत-मन्दिरं, जैन-मन्दिरं च अस्ति । अस्य नगरस्य समीपे एकं प्राचीनं शिवमन्दिरम् अपि अस्ति । इदं स्थलं झाबुआ-नगरात् 8 कि. मी. दूरे स्थितमस्ति । अस्य स्थलस्य समीपे सुनारनदी प्रवहति । अस्मिन् स्थले भगवतः शिवस्य अनेकानि प्राचीनानि मन्दिराणि सन्ति । देवझिरी इत्यत्र एकः कुण्डः अपि अस्ति । ://../ ://.2011..///331-. ://../////.
{ "source": "wikipedia" }
श्रीभगवानुवाच - अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य पञ्चमः श्लोकः । पश्य मे पार्थ रूपाणि शतशः अथ सहस्रशः नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ 5 ॥ पार्थ ! शतशः अथ सहस्रशः नानाविधानि दिव्यानि नानावर्णाकृतीनि च मे रूपाणि पश्य । अर्जुन ! बहुप्रकाराणि दिव्यानि नानावर्णाकाराणि च मम स्वरूपाणि च पश्य ।
{ "source": "wikipedia" }
लालकृष्णः अड्वानी तदानीन्तनस्य भारतस्य, सिन्धप्रान्तस्य कराचीनगरे जन्म प्राप्तवान् । तस्य माता ग्यानी देवी, पिता च कृष्णचन्द डि अड्वानी । सः प्याट्रिक् प्रौढशालायां शालीयविद्याभ्यासं कृतवान् । अनन्तरम् इदानीन्तनपाकिस्थानस्य हैदराबाद् नगरे, डि.जि.न्याष्नल् कालेज् मध्ये अध्ययनं कृतवान् ।अनन्तरं, मुम्बयी विश्वविद्यालयस्य सर्वकरीयविधिमहाविद्यालयात् पदवीं प्राप्तवान् । एल् .के. अड्वानी -अस्य राजकीयजीवनं 1947 मध्ये आरब्धम् । सः कराचीनगरे राष्ट्रियस्वयंसेवकसङ्घस्य कार्यदर्शित्वेन निर्वाचितः । अड्वानीं राजास्थानस्य मेवारप्रान्तं प्रति रा.स्व.से.सङ्घस्य कार्याणां पर्यवेक्षणार्थं प्रेषितवन्तः । तत्तत्र देशविभजनस्य कारणतः जातीयकलहः आरब्धः आसीत् । अड्वानी भारतीयजनसङ्घ्स्य सदस्यः अभवत् । एषः सङ्घः श्यामप्रसादमुखर्जिना 1951 तमे वर्षे आरब्धः। सः तस्मिन् पक्षे विविधपदेषु कार्यं कृत्वा 1975 तमे वर्षे पक्षस्य अध्यक्षः अभवत् ।यदा जयप्रकाशनारायणः 'विरोधपक्षाः यावत् एकीभूय कार्यं न कुर्वन्ति तावत् अपत्कालिकां स्थितिं विरुध्य कार्यं न करोमि इति उद्घुष्टवान् तदा जनसङ्घादयः विरोधपक्षाः एकीभूताः। जनसङ्घघपक्षस्य विसर्जनेन अड्वानी तथा सहोद्योगी अटलबिहारी वाजपेयी च जनतापक्षम् आगत्य 1977 तमे वर्षे निर्वाचने भागं स्वीकृतवन्तौ । जनतापक्षः अनेकपक्षाणां नेतृभिः कार्यकर्तृभिः च सम्भूय निर्मिता वेदिका । ते सर्वे एकीभूय 1975 तमे वर्षे तदानीन्तनप्रधानमन्त्रिणा इन्दिरा गान्न्धिःवर्यया प्रयुक्तायाः आपत्कालिक्याः स्थित्याः विरोधं कृतवन्तः। यदा 1977 तमे वर्षे निर्वाचनम् उद्घोषितम् अभवत् तदा ,कांग्रेस्, स्वतन्त्रपक्षाः, भारतीयसमाजवादीपक्षः, भारतीयजनसङ्घः, लोकदलं च मिलित्वा, जनतापक्षः इति नाम्ना नूतनं पक्षम् आरब्धवन्तः। जगज्जीवनरामः अपि कांग्रेसपक्षतः बहिरागत्य, कांग्रेस् फ़ार् डेमोक्रसि इति, पक्षं संस्थाप्य, जनतापक्षस्य आश्रयम् आगतवान् । आपत्कालिकीं स्थितिं विरुध्य जनाः निर्वाचने जनतापक्षं प्रति स्वमतदानेन अधिकारारूढं कृतवन्तः । मोरार्जी देसायी भारतस्य प्रधानमन्त्री अभवत् । अड्वानी तदा सूचना तथा प्रसारणविभागस्य सचिवः अभवत् । तस्य परममित्रं जनसङ्घस्य सहोद्योगी, अटलबिहारी वाजपेयी विदेशाङ्गसचिवः अभवत् । जनतापक्षस्य जन्म एव तदीयस्य विनाशे बिजाङ्कुरः इव अभवत् । मिथः अविश्वासः च सर्वकारस्य पतने हेतू अभवताम् । द्विसदस्यता एव कलहे प्रमुखं कारणं सञ्जातम्। जनसङ्घतः ये आगताः, ते राष्ट्रियस्वयंसेवकसङ्गस्य सदस्यत्वं त्यजेयुः इति वादः प्रादुरभवत्। जनसङ्घस्य पूर्वतनसदस्याः जनतापक्षात् बहिरागत्य, “भारतीयजनतापक्षः“इति नूतनं पक्षम् आरब्धवन्तः। अड्वानी तत्र प्रमुखः नायकः भूत्वा, राज्यसभायां तस्य पक्षस्य नायकः अभवत् । अड्वानी 1986 तमे वर्षे भारतीयजनतापक्षस्य अध्यक्षः अभवत् । मण्डल-आयोगस्य राजकीयतः उत्पन्ना तस्य उन्नतिः कांग्रेस् पक्षे अशान्तताम् उदपादयत् । मुस्लिम्जनेषु मूलभूतवादिता वृद्धिं गता।अड्वानी तावत् स्वदृढमनसा पक्षम् 1991 तमे वर्षे उन्नतस्थानं नीतवान् ।सः क्रमेण पक्षस्य सिद्धान्तेषु हिन्दुत्वपोषकांशान् संयोजितवान् । तेन फलमपि प्राप्तवान् । वित्तसचिवस्य विश्वनाथप्रतापसिंहस्य कांग्रेसपक्षतः बहिरागमनं लाभकारि अभवत्। 1989 तमे निर्वाचने वी.पी.सिंहस्य जनतादलस्य तथा भारतीयजनतापक्षस्य च स्थितिः उत्तमा अभवत् । यद्यपि कांग्रेस् पक्षः एकाकिना अधिकसदस्ययुतः अभवत् तथापि सः पक्षः विरोधपक्षत्वेन कार्यं कर्तुं सिद्धः अभवत्। वी.पी. सिंहः अनेकमित्रपक्षाणां सहयोगेन प्रधानी अभवत्। भारतीयजनतापक्षःसर्वकारतः बहिः स्थित्वा एव तस्य समर्थनम् अकरोत्। 1989 तमे वर्षे भारतीयजनतापक्षः अड्वानीनायकत्वे रामजन्मभूमिरिति नूतनं विषयं स्वीकृत्य देशे आन्दोलनम् आरभत। । भा.ज.पक्षः बाब्रीमस्जिद् यत्र अस्ति तत्रैव रामालयस्य स्थापनं भावेत् इति निर्धारम् अकरोत् । भारतीयपुरातत्त्वविभागस्य आशयः यत् तत्र एव राममन्दिरम् आसीत् यत्र इदानीं बाबरीमस्जिद् अस्ति इति। 1528 तमे वर्षे यदा बाबरः आक्रमणं कृतवान् तस्मात् पूर्वं तत्र देवालयः आसीत्। केन्द्रीय सुन्निमण्डली विभागस्य वादं निराकरोत्, 50 पादमिते तले खननं न अभवत् एव। राजकीयपरिहारस्य अभावे, कश्चन हिन्दुगणः तस्य विवादितस्य भवनस्य नाशम् अकरोत् । एतेन हिन्दूमुस्लिम् जनानां मध्ये वैषम्यं प्रादुरभवत् । अड्वानी रथयात्राप्रसङ्गेन करसेवकान् सर्वान् बाबरीमस्जिद् स्थाने प्रार्थनां कर्तुम् आहूतवान् । एषा रथयात्रा वातानुकूलितवाहनेन अभवत्, यच्च वाहनं रथसदृशं कल्पितम् आसीत् ।गुजरात्राज्यस्य सोमनाथदेवालयतः आरब्धा यात्रा उत्तरभारते बहून् प्रदेशान् अगच्छत् । परन्तु बिहारराज्ये मुख्यमन्त्रिणा लालूप्रसादेन एषा यात्रा स्थगिता । तदा अड्वानीबन्धनम् अभवत् । तदा मतीयवैषम्यस्य कारणात् बहवः मारिताः। भाजपक्षस्य स्थितिः विशेषतः उत्तरभारते उत्तमा अभवत् । एतेन ध्रुवीकरणेन उच्चजातीयजनानां मतानि भा.ज.पक्षं प्रति आगतानि । ये च उच्चजातीयाः आसन् ते मण्डल् आयोगस्य कारणतः कांग्रेस्पक्षः विमुखाः आसन् ।1991 तमे निर्वाचने भारतीयजनतापक्षः सदस्यसंख्यया द्वितीयं स्थानं प्राप्नोत् । कांग्रेस् पक्षः प्रथमं स्थानम् अलभत । रथयात्रायाः वर्षद्वयानन्तरं,1992 तमे वर्षे ,कल्य़ाणसिंहस्य नेतृत्वे वर्तमानः भा.ज.पक्षस्य सर्वकारः उच्चन्यायालये यद्यपि बाब्रीरक्षणार्थं कृतप्रमाणः, आसीत् तथापि बाबरी विनाशे कारणमभवत् । कल्याणसिंहस्य सर्वकारः एतदर्थं साहाय्यमकरोत् । बाबरीमस्जिद् विनाशे अड्वानी दोषिश्वन्यतमः इति। भा.ज.पक्षः, अड्वानीनायकत्वे 1991 तः आरभ्य 1996 पर्यन्तं विरोधपक्षत्वेन कार्यम् अकरोत्, यदा पी वी नरसिंहरावः प्रशास्ति स्म। रावस्य प्रशासनं उत्कोचयुतं, बहवः दोषाः सञ्जाताः प्रशासनेन इति भा.ज.पक्षः अवदत् । भा.ज.पक्षः एक एव पक्षः यः भ्रष्टरहितशासनं कर्तुं समर्थः इति । 1996 सार्वत्रिक निर्वाचने बाजप एकः एव पक्षः अधिकसंख्ययायुतः आसीत् ॥ राष्ट्रपतिना सर्वकारस्य घटनार्थं आहूतः। अटलबिहारी वाजपेयी देशस्य प्रधानी अभवत् । परन्तु बहुकालं शासनं कर्तुम् असमर्थः। 13 मासानन्तरं वाजपेयी त्यागपत्रं दत्तवान् वर्षद्वयानन्तरम्, राजकीयवनवासेन बहिरागतः भाजपः एन्.डि.ए नेतृत्वे पुनः अधिकारग्रहणम् अकरोत् ।1998 तमे वर्षे वाजपेयी पुनः प्रधानमन्त्रिपदे नियुक्तः ।हेच् डी देवेगौड तथा ऐ.के गुज्राल् नेतृत्वे अस्थिरसर्वकारः स्थापितः अनन्तरम् निर्वाचनम् अभवत् । अड्वानी देशस्य गृहसचिवः अभवत् । अनन्तरम् उपप्रधानमन्त्रीपदे नियुक्तः । तदा पाकिस्थानतः उग्रगामिनाम् आक्रमणं देशस्य विभिन्न भागेषु अभवत्। वाजपेयी प्रधानमन्त्री भूत्वा भाजपनेतृत्वे, एन्.डि.ए.सर्वकारः आपञ्चवर्षं प्रशासनम् अकरोत् । अस्य सर्वकारस्य वाजपेयी प्रधानमन्त्री आसीत् । एन्.डि.ए केवलम् एकः एव तादृशः काङ्ग्रेस्भिन्नसर्वकारः यः आपञ्चवर्षं शासनम् अकरोत्। आड्वानी हवालाद्वारा धनं स्वीकृतवान् इति आरोपः अभवत्। उच्चन्यायालयेन एषः आरोपः तिरस्कृतः। सि.बि.ऐ अपि एतदर्थं साक्ष्यं न प्राप्नोत् ।तथापि सः अपराधित्वेन न परिगणितः इति सि.बि.ऐ निन्दनम् अभवत् सर्वत्र । केचन उक्तवन्तः एतेन भा.ज.पक्षः उन्नतस्थितिम् एव प्राप्नोत् इति । अन्ये केचन उक्तवन्तः एतत् केवलराजकीयप्रेरितम् इति । 2004 निर्वाचनसभायां अड्वानी उद्घोषितवान् यत् 'कांग्रेस्पक्षः100 स्थानानि अपि न प्राप्स्यति’ इति । परन्तु मतदातारः अन्यथा एव कृतवन्तः । भा.ज.पक्षः निर्वाचने पराजयं प्राप्नोत्, विरोधपक्षस्य स्थाने उपाविशत् । तदा अन्य गणः युनैटेद् प्राग्रेस्सिव अलयन्स् इति नाम्ना कांग्रेस्पक्षः अधिकारं प्राप्नोत् । ए.डि ए विभजितम् अभवत् । तेलगुदेशं पक्षः ततः निर्गत्य, युनैटेद् प्राग्रेस्सिव अलयन्स् सर्वकारं बाह्यतः एव समर्थनं ददाति स्म । वाजपेयी 2004 निर्वाचनानतरं सक्रियराजकीयतः निवृत्तः । अड्वानी भा.ज.पक्षस्य नेता अभवत् । अड्वानी 2004 तः 2009 पर्यन्तं लोकसभायां विरोधपक्षस्य नायकः आसीत् । अस्मिन् समये पक्षे अपि केचन विरोधिनः उदभवन् । उमाभारती, मदनलाल् खुराना, दीर्घकालिकः विरोधी मुरलीमनोहरजोशी च साक्षात् तं विरुध्य आरोपाणि कृतवन्तः। 2005 तमे वर्षे यदा स पाकिस्थानदेशे जिन्ना स्मारकं प्रति गतवान् यत् च कराची मध्ये अस्ति । कराची अड्वाणीमहोदयस्य जन्मस्थानम् अस्ति । तत्र सः उक्तवान् ’मोहम्मद् आलि जिन्ना जात्यतीतः नायकः इति । भारते सर्वत्र जनाः एतं वादं तिरस्कृतवन्तः । तस्मिन् विश्वासः कुण्ठितः अभवत् । राष्ट्रियस्वयंसेवकसङ्घाय तु एतस्य वचनं न अरोचत। अतः सः पक्षाध्यक्षस्थानं त्यक्तवान् । परन्तु सः केषाञ्चन दिनानां अनन्तरं पुनः अध्यक्षपदवीं आरूढः। यदा राष्ट्रियस्वयंसेवकसङ्घस्य सरसङ्घचालकः के.एस् सुदर्शनः उक्तवान् "आड्वानीवाजपेयिभ्यां च नूतनजनानां कृते नायकपदवी दातव्या” इति तदा अड्वानी-रा.स्व.सङ्घ्योः परस्परं मैत्रीभावः दूरङ्गतः। मुम्बैनगरे प्रवृत्ते भाजपरजतमहोत्सवसन्दर्भे अड्वानी स्वपदवीं त्यक्तवान् । राजनाथसिंहः यश्च उत्तरप्रदेशराज्यीयः, राजकीये कश्चन कनिष्ठः अध्यक्षत्वेन निर्वाचितः । 2006 मार्च मासे, हिन्दूनां पवित्रतमे क्षेत्रे वाराणस्यां विस्फोटः अभवत्, तदा अड्वानी भारतसुरक्षायात्राम् आरब्धवान्, तेन प्रतिपादितं 'युनैटेद् प्राग्रेस्सिव अलयन्स् तावत् उग्रवादिनां निग्रहणे असमर्थम्’ इति । 2006 तमे वर्षे एकस्याम् वार्तागोष्ठ्यां, सः उक्तवान् "प्रजाप्रभुत्वे, विरोधपक्षस्य नायकः सन् प्रधानमन्त्रिपदस्य अभ्यर्थी अहम् । निर्वाचनम् 2009 वर्षस्य मेमासे 16 दिनाङ्के भविष्यति” इति । एतद् वाक्यं बहूनां सहोद्योगिनां कृते अपि अपथ्थ्यं सञ्जातम्, ये च तं प्रधानमन्त्रिस्थानस्य कृते नेच्छन्ति स्म । मुख्यः अंशः नाम भा.ज.पक्षे, वाजपेयी अनन्तरम् बलावान् नायकः एषः एव । वाजपेयी अपि एतमेव इच्छति स्म प्रधानमन्त्रि-अभ्यर्थित्वेन। 2007 तमवर्षस्य मे मासस्य द्वितीये दिनाङ्के कस्मिंश्चित् सन्दर्शने राजनाथसिंहः अवदत् 'एषः एव प्रधानमन्त्री भवितुं अर्हः अभ्यर्थी । अटल- अनन्तरम् एकः एव अड्वानी । स एव प्रधानी भवेत् ।2009 तमवर्षस्य निर्वाचने सः एव प्रधानमन्त्रिस्थानस्य अभ्यर्थी’ इति। भाजपसंसदीयमण्डल्या अपि उद्घोषितम्। परन्तु पक्षस्य अन्तः पक्षात् बहिः च तस्य विद्यार्हता, प्रशासनकौशलस्य च विषये विरोधः प्रकटितः अभवत् ।2009 तमे निर्वाचने भारतीय-राष्ट्रिय-कांग्रेसपक्षस्य गणः जितवान्। मनमोहनसिंहः एव प्रधानमन्त्रिपदे अन्ववर्तत । लोकसभानिर्वाचने पराजितः पक्षस्य एल् के अड्वानी विरोधपक्षस्य नेतृत्वं सुष्मास्वराज् कृते प्रदत्तवान् ।
{ "source": "wikipedia" }
भारतदेशस्य ईशान्यभागतः आगतः सर्वप्रथमः ख्यातः सङ्गीतकारः, गायकः निदेशकः, कविः, पत्रकर्ता, गीतरचनकारः, चलच्चित्रनिर्मापकः भुपेन अहज़ारिका । स्वस्य अनुपमकृतिं "गङ्गा बहती हैं क्यों " इति गीतं गीत्वा समग्रे देशे परिचितः अभवत् । अस्मामीभाषायां स्वनिर्मितस्य " इरा भारत् सुर् " इति चलच्चित्रस्य स्वरसंयोजनं स्वयं कृतवान् । तस्य 40वर्षाणां दाम्पत्यजीवनस्य सहधर्मिण्याः कल्पना लज्मी इत्यस्याः ' रुडली ', ' एक् पल् ', ' दर्मियान् ', 'दमन् ', इति चलच्चित्राणाम् अपि च सायि पराञ्जपे इत्यस्य ' पपिया ', 'साज़् ', ' मिल् गये मञ्झिल् मुझे ', एम्.एफ्.हुसेनस्य 'गजगामिनी ' इत्यादीनां हिन्दीभाषाचलच्चित्राणां गीतानि भुपेन हज़ारिकावर्यस्य स्वरमाधुरेण रञ्जितानि । भुपेन हज़ारिका क्रि.श.1962तमे वर्षे अस्सामराज्यस्य सादिया इति ग्रामे अजायत । अस्य पिता नीलकान्त हज़ारिका माता शान्तिप्रिया हज़ारिका च । गौहातिनगरे प्राथमिकीं शिक्षां सम्पूरितवान् । क्रि.श. 1942तमे वर्षे 'काटन् कालेज् ' महाविद्यालये इण्टर्मीडियेट् परीक्षाम् उत्तीर्णवान् । अग्रे बनारस हिन्दुविश्वविद्यालयतः क्रि.श. 1944तमे वर्षे स्नातकपदवीं प्राप्तवान् । क्रि.श. 1946तमे वर्षे रज्यशास्त्रे स्नातकोत्तरपदमीम् आप्तवान् । क्रि.श. 1952तमे वर्षे अमेरिकस्य न्यूयार्कनगस्य कोलम्बिया विश्वविद्यालयतः लिस्ले फेलोशिप् सहितं पि.एच्.डि.पदवीम् अलभत । अस्य शोधप्रबन्धस्य विषयः ' - " इति । उपसहस्रगीतानि रचयित्वा तानि सङ्गीतेन निबद्धवान् । अनेकानि अस्सामी चलच्चित्राणि निर्मीय निदेशितवान् । 'शकुन्तला','प्रतिध्वनि,''लोटि घोटि,' अस्मामीचलच्चित्रार्थं राष्ट्रपतिपदकपुरस्कारः प्राप्तः । इण्डियन् पीपल्स् थियेटर् मूव् मेण्ट् इति संस्थया सह कार्यं कर्तुं मुम्बैनगरम् आगतवान् । तत्र प्रसिद्धस्य रङ्गकर्तुः सलिलचौदर्याः, बलराज् सहान्याः च परिचयः अभावत् । ड.भुपेन हज़ारिका केनडा देशस्य प्रियंवदा पाटिल् इति कन्यां परिणीतवान् । दाम्पत्यफलरूपेण पुत्रजनम् अभवत् यस्य तेझ् हझारिका इति नाम । एषः न्यूयार्क नगरे वासं करोति । 13वर्षाणां पश्चात् भुपेन हज़ारिका प्रियंवदया सह सम्बन्धं परित्यज्य कल्पना लाज्मि इत्यनया सह विवाहं विना निवसति । बाल्ये एव सङ्गीतासक्तः भुपेन हज़ारिका हिन्दी, अस्सामी, बङ्गाली भाषानां चलच्चित्रस्य सङ्गीतसंयोजनं कृतवान् । अस्य माता एव सङ्गीतस्य प्राथमिकगुरुः । अस्स्मामस्य वनवासिनां गीतानि शृण्वन् गायन् सन्तोषेण बाल्यं यापितवान् । अतः अस्य भुपेनस्य सङ्गीते अस्मामस्य जानपदभाषायाः मूलसौन्दर्यं शोभते । भुपेनस्य वृत्त्यारम्भः क्रि.श. 1939तमे वर्षे लोकार्पितस्य " इन्द्रा मलति " इति अस्सामीभाषायाः चलच्चित्रस्य स्वरसंयोजनेन अभवत् । अस्य द्वीतचित्रस्य " बिस्व बिजोय् नो जवान् " इति चलच्चित्रस्य गानैः रसिकानां मनांसि तर्पितवान् । अस्य गीतानां गानाम् एव अस्य वृत्तिजीवने नवपरिवर्तनम् आनयत् । भुपेनः परिशुद्धः ग्रामीणप्रतिभायुतः । ग्रामपरिसरः जानपदीयसन्निवेशाः च अस्य सङ्गीतवृत्तौ प्रेरणादायकाः अभवन् । भोपालिरागः अस्य अतीवप्रियरागः । अरुणाचलप्रदेशे वर्णचित्राणाम् आरम्बस्य कारणिकः भूपेनः एव । क्रि.श. 1977तमे वर्षे प्रदर्शितस्य " मेरा धर्म मेरि मा " इति चलच्चित्रस्य सङ्गीतसंयोजनम् अति विशिष्टतया कृतवान् । एक पल इति चलच्चित्रस्य गानार्थम् अनेकाः प्रशस्तयः आगताः । " " रुडालि ' इति चलच्चित्रस्य गीतानां लोकप्रियतायाः कारणेण भुपेनं प्रतिगृहं वार्तासोतः अभवत् । अनेन चलच्चित्रेण विविधक्षेत्राणां बिभिन्नप्रशस्तयः सम्पादिताः । प्रायः 36अस्सामीभाषाचलच्चित्राणां गीतानि रचयित्वा स्वरसंयोजनं कृतवान् । "जिबन त्रिष्ण ", " जोसकिर् अलो ", " माहित् बन्धुरे ", " करि ओ कोमन् ", "ए खाने पिञ्चार् ", " दम्पती " इत्यादीनां बङ्गालीभाषाचलच्चित्राणां गीतानि अपि सङ्गीतस्वरेण निबद्धवान् । महात्मा गाधेः प्रियगीतस्य " वैष्णव जन तो.. " इत्यस्य स्वरसंयोजनं गानं च भुपेन हज़ारिकावर्यः कृतवान् । एतत् गीतं " गन्धि टु हिट्लर् " इति चलच्चित्रार्थं कृतम् । एतत् एव अस्य महागायकस्य अन्तिमं कार्यम् अभवत् । डा.भुपेन हज़ारिकावर्यस्य कण्ठश्रियः नित्यनूतन कानिचन गीतानि । प्रतिष्ठितदादासहेब फाल्केप्रशस्तिभाजनं ज्येष्ठः सङ्गीतनिदेशकः गायकः डा.भुपेन हज़ारिका मुम्बैनगरस्य कोकिलाबेहन धीरुभायी अम्बानी चिकित्सालये चिकित्सां प्राप्नोति स्म । शरीरस्य बह्वङ्गवैफल्येन बाधितः असीत् । 85वर्षीयः भुपेनः क्रि.श. 2011तमे वर्षे नवेम्बरमासस्य पञ्चमे दिने इहलोकयात्रां समापितवान् । ईशान्यभारतस्य सङ्गीतप्रतिनिधे भुपेनस्य आत्मनः श्रन्धाजलिं दातुं द्विलक्षाधिकाः तस्य सङ्गीतप्रियाः सम्मिलिताः । अमेरिकातः अगत्य अन्त्यक्रिया विध्युक्तरीत्या कृता । राज्यस्य अन्त्येष्ठ्यां भागं गृहित्वा गौरवार्थम् एकदिनस्य सर्वकारीयविरामम् उद्घुष्टवान् । सर्वकारीयसकलगौर्वेन अन्तिमयात्रा सम्पन्ना ।
{ "source": "wikipedia" }
447 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012
{ "source": "wikipedia" }
बालगङ्गाधर तिलकः कश्चन महान् राष्ट्रभक्तः । भारतस्य स्वातन्त्रसङ्ग्रामे प्रमुखः नेता आसीत् । स्वतन्त्रतायाः आन्दोलनस्य प्रसङ्गे सः अघोषयत्‌ स्वराज्यम्‌ अस्माकं जन्मसिद्धः अधिकारः, तस्य प्राप्तेः अनन्तरमेव मम विरामः इति । समाचारपत्राणां प्रकाशनं सम्पादनं च कृत्वा स: देशसेवां करोति स्म । बहुबारं कारागारवासम् अनुभूतवान् स: संस्कृते विद्वान्‌ आसीत्‌ । अयं भारतीयः, राष्ट्रयवादी, समाजोत्थापकः स्वातन्त्र्ययोद्धा च । भारतीयप्रज्ञायां सम्पूर्णस्वराज्यप्राप्तेः आशा एतेनैव अङ्कुरितः । अनेन एतं राष्ट्रियतावादस्य पितामहः इति कथयन्ति स्म । अतीव जनप्रियः नायकः सन् लोकमान्यः इत्येव ख्यातः जातः । अद्यापि तस्य नाम एव लोकमान्यः इति बहवः मन्यन्ते । तिलकमहोदयः इतिहासं, संस्कृतं, हिन्दूधर्मं, गणितं, खगोलशास्त्रं च गभीरतया अधीतवान् आसीत् । बालगङ्गाधरतिलकस्य जन्म क्रि.श.1856तमे वर्षे जुलै 23तमे दिने भारतस्य महाराष्ट्रराज्ये रत्नगिरिमण्डले मध्यमस्तरीये कुटुम्बे अभवत् । पिता गङ्गाधरपन्तः, माता पार्वतीबायी । बाल्ये एव बुद्धिमतः तिलकस्य गणिते अतीव आसक्तिः आसीत् । बालः दशवर्षीयः यदा आसीत् तदा पितुः पुणेनगरं प्रति स्थानपरिवर्तनं जातम् । बालः वेर्नाक्युलर् आङ्ग्लविद्यालयं प्राविशत् । पुणेगमनानन्तरं स्वल्पावधौ एव माता दिवङ्गता । ततः षड्वर्षाणाम् अनन्तरं पिता अपि दिवङ्गतः । दुर्बलशरीरः बालः देशसेवा समीचीनतया करणीया चेत् शरीरं दृढतमं स्यात् इति विचिन्त्य व्यायामादीनाम् अभ्यासद्वारा परिश्रमपूर्वकं दृढं शरीरं सम्पादितवान् । सत्यभामा अस्य पत्नी । महाविद्यालयात् आधुनिकविद्यां प्राप्तेषु युवसु बालगङ्गाधरः अपि अन्यतमः अभवत् । पदवीं प्राप्य पुणे नगरे स्वायत्तशालायां गणिताध्यापकत्वेन कार्यम् आरब्धवान् । कञ्चित्कालानन्तरं तम् उद्योगं त्यक्त्वा पत्रकारः अभवत् । पाश्चिमात्यशिक्षाक्रमः भारतीयसनातनपरम्परां दूषयति अपि च भारतस्य विद्यार्थिषु हीनभावं जागर्ति इति निश्चित्य अस्य आधुनिकशिक्षाप्रणाल्याः विरोधम् अकरोत् । छात्राणां कृते उत्तमा शिक्षा लभेत इति उद्देशेन पुणेनगरे डेक्कन् एजुकेषन् सोसैटि इति शालाम् उपाक्रमत् । तिलकमहोदयेन उपक्रान्तः केसरी इति मराठीभाषायाः वार्तापत्रिका अतिशीघ्रं प्रसिद्धा अभवत् । अस्यां पत्रिकायां जनाः स्वाभिप्रायान् प्रकटयितुम् अर्हन्ति स्म । क्रि.श. 1905तमे वर्षे बङ्गालस्य विभजनस्य विरोधं केसरीपत्रिका प्रबलतया अकरोत् । क्रि.श.1890तमे वर्षे तिलकमहोदयः काङ्ग्रेस् पक्षं प्रविष्टवान्, स्वातन्त्र्यान्दोलने तस्य पक्षस्य औदार्यं मृदुनीतिं च खण्डितवान् । गोपाकृष्ण गोखलेमहोदयस्य सौम्यवादं तीव्रतया निन्दितवान् । अस्मिन् विषये बङ्गालस्य बिपिन चन्द्रपालः पञ्जाबस्य लाला लजपत राय् च तिलकमहोदयस्य अनुमोदनं कृतवन्तौ । क्रि.श. 1907तमे वर्षे सम्भूते सूरत् अधिवेशने काङ्ग्रेस्-पक्षः तिलकस्य नेतृत्वे घर्मदलः इति गोखलेवर्यस्य नेतृत्ते मृदुदलः इति द्विधा विभक्तः । राजद्रोहस्य आक्षेपात् क्रि.श.1906तमे वर्षे तिलकस्य बन्धनम् अभवत् । तदा स्वपक्षे न्यायवादं करोतु इति युवानं न्यायवादिनं मोहम्मद् अलि जिन्ना इत्येतं प्रार्थितवान् । किन्तु ब्रिटिश् न्यायाधीशः एषः अपराधी इति उद्घुष्टवान् । अतः सः क्रि.श.1908तः1914तमवर्षपर्यन्तं बर्मादेशस्य मंडाले कारावासम् अनुभूतवान् । विमोचनानन्तरं स्वस्य सहचरराष्ट्रवादिभिः सह तिलकमहोदयः क्रि.श.1916तमे वर्षे काङ्ग्रेस्-पक्षस्य सङ्घाटनं संवर्ध्य अखिलभारतस्य हों रूल् लीग् इति सङ्घटनस्य रचानायाम् अनिबेसण्ट् मोहम्मद् अलि जिन्ना एतयोः सहाय्यं समाचरत् । बालगङ्गाधर तिलकमहोदयः मूलतः अद्वैतवेदान्तस्य प्रतिपादकः। अद्वैतसिद्धान्तस्य "ज्ञानादेव तु कैवल्यम्" इति वचने तस्य विश्वासः नासीत् । अतः तत्स्मानं पूरकं च कर्मयोगं तत्र योजितवान् । विवाहस्य वयसः कनिष्ठमानः इत्यादीनि सामाजिकपरिवर्तनानि आनीतवान् । मद्यपाननिषेधस्य विषये तस्य अतीव प्रमतिः आसीत् । शिक्षायाः राजकीयस्य च जीवनविषये अस्य चिन्तनानि प्रभावयुतानि आसन् । देवनागरीलिपिम् उपयुज्य लिख्यमाना हिन्दिभाषा राष्ट्रभाषा भवेत् इति प्रथमतया उक्तवान् तिलकः एव । अग्रे महात्मा गान्धी अपि एतं विषयं गाढम् अनुमोदितवान् । किन्तु यां भाषां तिलकमहोदयः भारतात् एव अपनेतुम् इष्टवान् सा आङ्ग्लभाषा अधुना अपि प्रधानसंवहनभाषात्वेन राजते । तथापि हिन्दी चान्यभाषाः ब्रिटिष् कालात् अद्यपर्यन्तमपि प्रादेशिकत्वेन भाष्यमाणाः सन्ति । अस्मिन् अपि तिलकमहोदयस्य योगदानम् अस्ति एव । तिलकमहोदयस्य अतिमहत् योगदानं नाम सार्वजनिकः गणेशोत्सवः । भाद्रपदमासस्य शुक्लपक्षस्य चतुर्दशीम् आरभ्य अनन्तचतुर्दशीपर्यन्तं द्वादशदिनानि अयं सार्वजनिकगणेशोत्सवः मिलित्वा आचर्यते । स्वायत्तं धार्मिकाचरणं सङ्घटनस्य व्याजेन सार्वजनिकोत्सवत्वेन परिवर्तितवान् । एतम् उत्सवम् अवलम्ब्य एव जननायकाः जनसम्पर्कम् अकुर्वन् । तिलकमहोदयेन आरब्धा इयम् उत्सवपरम्परा इदानीमपि विशेषतः महाराष्ट्रराज्ये अस्ति । तिलकमहोदयः परदेशीयवस्तूनि तिरस्कृत्य स्वदेशीयवस्तूनि उपयोक्तुं जनजागरणं कृतवान् । तदानीम् एतत् स्वदेशीयान्दोलनं विशेषरूपेण जनेषु देशभक्तिं समवर्धयत् । तिलकमहोदयः गान्धिमहात्मनः अहिंसात्मकं सत्याग्रहं दूषयति स्म । कदाचित् क्रान्तिकारीति परिगणितः कालान्तरेण प्रौढविचारशीलः इति प्रसिद्धः अभवत् । स्वातन्त्र्यान्दोलनं सामान्यजनानां समीपं नीतवान् अयं तिलकमहोदयः स्वातन्त्र्यसमरस्य जनकः इत्येव प्रथितः । भारतीयसंस्कृतेः इतिहासस्य धर्मस्य च विषये लेखनेन भारतीयानां देशभक्तिं जागरितवान् । तिलकमहोदयं राजकीयस्य आध्यात्मिकस्य च नायकः इति एतस्मिन् विषये महात्मा गान्धी अस्य उत्तराधिकारी इति च जनाः भावयन्ति स्म । यदा बालगङ्गाधरतिलकः क्रि.श1920तमे वर्षे दिवङ्गतः तदा सम्मिलितानां द्विलक्षजनानां मध्ये गान्धिमहात्मा उक्तवान् यत् 'अयं आधुनिकभारतस्य जनकः' इति । तिलकमहोदयः दृढहिन्दुत्वस्य प्रतिपादकस्य विनायक दामोदर सावर्कर्महोदयस्य आराध्यः देवः अभवत् । लक्ष्मी बाई · तात्या टोपे · बेगम हज़रत महल · बहादुरशाह ज़फ़र · मङ्गल पाण्डेयः · नाना साहेब
{ "source": "wikipedia" }
34°5′24″ उत्तरदिक् 74°47′24″ पूर्वदिक् / 34.09000°उत्तरदिक् 74.79000°पूर्वदिक् / 34.09000; 74.79000 • सान्द्रता• महानगरम् • 8,523 /किमी2 • 9,71,357 • औन्नत्यम् • 1,585 मीटर • तलस्पर्षीतापमानम्• ग्रीष्मकालः• शीतकालः • 710 मिमी • 24.1 °से • 2.5 °से श्रीनगरं भारतस्य जम्मूकाश्मीरराज्यस्य ग्रीष्मकालीना राजधानी अस्‍ति । इदम् एकं सुरम्‍यं नगरम् अस्‍ति । राज्ञा प्रवरसेनेन 2000 वर्षेभ्यः पूर्वं श्रीनगरं संस्थापितम्‌ । श्रीनगरं जम्मुकाश्मीरराज्यस्य राजधानी अस्ति । जम्मूतः बनिहाल् मार्गेण सुरङ्गद्वारा श्रीनगरं प्रति आगन्तव्यं भवति । सुरङ्गस्य जवाहरसुरङ्गम् इति नाम अस्ति । श्रीनगरं झेलम्नदीतीरे स्थितं सुन्दरं नगरम् । अस्मिन् नगरे अनेकानि सरोवराणि सन्ति । तेषु दालसरोवरं वूलार् सरोवरं च मधुरजलयुक्ते स्तः । अनयोः सरोवरयोः ‘शिकार’नामिकासु नौकासु विहारं कुर्वन्तः आदिनं स्थातुं शक्यते । जले प्लवमाना नौका वासगृहमिव सुव्यवस्थिता भवति । भोजनशयनव्यवस्थापि एतासु नौकासु भाटकेन लभ्यते ।काश्मीरं आगताः जनाः एतासु नौकासु वासं कृत्वा सन्तुष्टाः भवन्ति । वूलार् सरोवरतः सूर्यास्तदर्शनम् अतीवानन्दाय भवति । अत्रत्यासु नौकासु लघु उद्यानानि सन्ति । दालसरोवरे द्वीपाः सन्ति । तत्र विश्रान्तिः स्वीकर्तुं शक्या अस्ति । द्वीपे पादचारणम् अपि कर्तुं शक्यते । द्विचक्रिकायानेनापि सञ्चारः कर्तुं शक्यते ।श्रीनगरे अनेकानि वीक्षकस्थानानि सन्ति । अत्र दर्शनीयानि स्थलानि नाम काष्ठनिर्मितानि मुस्लिं प्रार्थनामन्दिराणि, शङ्कराचार्यपर्वतः, मोगल् उद्यानं, निशात बाग्, शालिमारबाग नसीमाबाग् हजरतबाल् प्रार्थनामन्दिरम् च । चण्डीगढ –देहलीतः श्रीनगराय विमानसम्पर्कः अस्ति । विमाननिस्थानं 13 कि.मी दूरे अस्ति । देहलीतः सुरङ्गमार्गतः जम्मूपर्यन्तम् आगन्तव्यम् । जम्मुतावीनिस्थानतः वाहनेन गन्तव्यं भवति । पठानकोटतः 250 कि.मी, देहलीतः 880 कि.मी, चण्डीगढअमृतसरनगरेभ्यः वाहन सम्पर्कः अस्ति । वसत्याः कृते प्लवमाननौकागृहाणि, उपाहारवसतिगृहाणि च सन्ति ।
{ "source": "wikipedia" }
मल्लाडिहळ्ळिराघवेन्दस्वामी कश्चित् महासाधकः, तपस्वी, महायोगाचार्यः, शतोत्तरायुष्मान्, विशिष्टसङ्घटकः, निष्कामकर्मयोगी, आयुर्वेदपरिणतः, च । राघवेन्द्रस्वामिनं निकटवर्तिनः अभिनवधन्वन्तरिः इत्येव सम्बोधयन्ति स्म । चित्रदुर्गमण्डलस्य होळल्केरे उपमण्डलस्य मल्लाडिहळ्ळि इति कुग्रामे अस्य आगमनं ग्रामवासिनां सौभाग्यम् इति भावयन्ति । स्वगुरोः शिवानन्दस्य अनुज्ञया ग्रामात् ग्रामं गत्वा दरिद्राणाम् असहयकानां, दीनानाम् उद्धारार्थं कार्याणि अकरोत् । अत्र योगशिबिराणि आरोग्यशिबिराणि सञ्चाल्य तत्र आरोग्यकेन्द्राणि अपि आरब्धवान् । ग्रामस्य नैर्मल्यार्थं योजनाः अकरोत् । शुद्धतायाः आरोग्यस्य उत्तमजीवनशैल्याः प्रयोजनम् उद्दिश्य जनान् प्रबोधितवान् । एवं ग्रामतायः सर्वाङ्गीणाभिवृद्धये कारणिकपुरुषः अभवत् । क्रि.श. 1943तमे वर्षे मल्लाडिअहळ्ळिप्रदेशस्य प्रजानाम् अभ्यर्थनम् अङ्गीकृत्य अत्रागतः राघवेन्द्रस्वामी स्वजीवितस्य 50अधिकानि वर्षाणि समाजस्य उत्थानार्थम् विनियोजितवान् । राघवेन्द्रस्वामिनः पिता अनन्तपद्मनाभ नम्बूदरी मूलतः केरलस्य ज्योतिर्विद्वान् । तत्र परिसरे विद्यमानजनान् जीवनमौल्यानि उपदिशति स्म । पद्माम्बळ् इति अस्य मातुः नाम । सा महासाध्वी जातपुत्रस्य कुमारस्वामी इति नाम अकरोत् । जातः शिशुः बालरोगबाधितः चतुर्दशवर्षाणि निर्भावः मांसपिण्डः इव आसीत् । अस्य शिशोः दोषपरिहारार्थं माता बहुदूरे विद्यमानं मूकाम्बिकास्थानं कोल्लूरुक्षेत्रं नेतुमिच्छति । तावति काले पद्माम्बळ् अनन्तपद्मनाभः च विविधरोगबाधितौ अतिदुर्बलौ अभवताम् । चतुर्दशवर्षस्य पुत्रम् उन्नीय एव गन्तव्यं चेत् अतीव कष्टकरम् आसीत् । तस्मिन् काले वाहनस्य मार्गस्य वा सौकर्यं नासीदेव । दुर्गमे अरण्यमार्गेन मासान् यावत् पादचलनेन कोल्लूरुक्षेत्रं प्राप्तव्यम् । तः तौ दम्पती प्रचलन्तौ दक्षिणकन्नडमण्डलस्य बार्कूरु इति प्रदेशम् आगत्य नरसिंहय्य इति सद्गृहस्थस्य गृहे आश्रयं प्राप्नुवतः । तस्मिन् एव समये मन्त्रालयस्य मठाधिपतिः बारकूरुग्रामे कृतशिबिरः आसीत् । एतं विकलाङ्गं बालम् आशीर्भिः अनुगृहीतवान् राघवेन्द्र इति नमकरणम् अपि अकरोत् । अतीव श्रान्ता पद्माम्बा बारकूरुग्रामे दिवङ्गता । पिता नम्बूदरी तु पुत्रं क्रि.श. 1906तमवर्षस्य युगादिपर्वदिने यक्षगानपण्डिताय रामायणस्य महाभारतस्य व्याख्यात्रे नरसिंहय्य इति विदुषे समर्प्य तमसिद्धये हिमालयम् अगच्छत् । नरसिंहस्य पत्नी पुथलीबायी तं बालं प्रीत्या समपोषयत् । पुथलीबायी कुमारस्वामिनः लालनपालयोः अनन्यमातृप्रेम्णा स्वस्य सर्वस्वमपि समर्पितवती । तस्याः सेवया प्रतिदिनं बालके परिवर्तनम् आगतम् । बालके मानवसहजप्रतिस्पन्दः आगतः । अनेन पितरौ नितरां मुदितौ । अनन्तपद्मनाभनम्बूदरीवर्यस्य मित्रम् उद्दामपण्डितः विद्वान् रामचन्द्रशास्त्री एतं बालं पुतलीबायी गृहिण्यै समर्पणे साहाय्यम् आचरितवान् । बाल्यस्य गुरुः श्रिवरामय्यः, तारकमन्त्रोपदेशेष्टा नित्यानन्दस्वामी, रङ्गनाथभट्टः, वरूड अनन्तस्वामी, बरोडा माणिक्यरायः, पळनिस्वामी, इत्यादयः बालकस्य राघवेन्द्रस्य जीवने परिवर्तनस्य कारणिकेषु प्रमुखाः सन्ति । तारकमन्त्रस्य उपदेशावसरे स्वामी नित्यानन्दः रागवेन्द्रस्य मस्तके करं संस्थाप्य भौतिकलोकस्य ज्ञानं विस्मार्य अहङ्कारं सर्वं लोपितवान् । केवलम् आनन्दस्य अनुभूतिः बालकस्य राघवेन्द्रस्य मनसः परिवर्तनम् अकरोत् । द्वन्द्वरहिता निर्लिप्ता शून्यस्थितिः जगतः सृष्टेः प्रथमाध्ययः इव राघवेन्द्रस्य अनुभवः आसीत् । एवम् अध्यत्ममार्गे संवर्धमानस्य तस्य मनसि दैवसाक्षात्कारस्य आशा संवृद्धा । तदर्थं अनेकेषां महात्मनां स्वामिनां यतीनां च दर्शनं कृत्वा तेषाम् अनुग्रहं प्राप्तवान् । दैहिकसामर्थ्यमपि संवर्ध्य अग्रिमं लक्ष्यं राष्ट्रसेवां कर्तुं सन्नद्धः अभवत् । दैवतस्य स्पष्टं परिकल्पनं तस्य मनसि उपवान् स्वामी शिवानन्दः । रोगिषु दीनेषु, आर्तेषु अपि देवदर्शनस्य भागं जागरितवान् । देवः कश्चित् भावः । समग्रं जगत् देवः इति विश्वस्तुं भावशुद्धिः आवश्यकी । इति विचिन्त्य अग्रिमं जीवनम् अस्मिन् एव पथि चालयितुं निश्चितवान् । राघवेन्द्रस्य प्रौढशिक्षा पदविपूर्वशिक्षा च कुन्दापुरे अभवत् । बरोडानगरे कलियुगभीष्मः इति ख्यातेन शतोत्तरायुष्मता, जुम्मादादस्य शिष्येन बालब्रह्मचारी प्रोफेसर् माणिक्यरायेन स्थापिते जुम्मादादव्यायमशालायां शब्दवेदी इति योगप्रकारमपि अधीतवान् । तत्र प्रथमश्रेण्या उत्तर्णाय तस्मै . ; इति पदवी लाहोरस्य वैद्यश्रेष्ठस्य आचार्यस्य बाबा लक्ष्मणदासस्य आध्यक्ष्ये प्रदत्ता । लहोरस्य बाबा लक्ष्मणदासस्य कैवल्यधाम आश्रमे आयुर्वेदं, सिद्धविद्याम्, अस्तिसन्धनकलां,युनानिवैद्यपद्धतिम् अधीतवान् । लाहोरगमनात् पूर्वमेव अस्य योगस्य 306आसनानां परिपूर्णज्ञानमासीत् । सूर्यनमस्कारः, योगासनानि,प्राणायामः, इत्याद्याः आत्मविद्याः बोधयन् योगविद्यायाः निष्णातः सन् स्वगुरोः शिवानन्दस्य प्रीतिपात्रम् अभवत् । स्वामी शिवानन्दः राघवेन्द्रस्य मुखे दिव्यतेजः, दीर्घयोगाचरणस्य वज्रकायत्वम् अङ्गसौष्ठवं च अनुलक्ष्य परमान्दितः अभवत् । राघवेन्द्रस्य काव्यरचनं, नाटकम्, उपन्यासाः, प्रहसनानि च उत्तमस्तरे आसन् । स्वामिनः शिवानन्दस्य आशीर्वादमार्गदर्शनपूर्वकं राघवेन्द्रःकार्णाटकराज्यस्य उत्तरकन्नडमण्डलस्य भट्कळ इति प्रदेशे मारुतिव्यावामशाला संस्थापनम् अकरोत् । राघवेन्द्रः प्रतिग्रामं गच्छन् योगशिबिराणि सञ्चालितवान् । कर्णाटकस्य अनेकान् प्रदेशान् पर्यटन् अन्ते मल्लाडिहळ्ळिप्रदेशम् आगच्छात् । तत्र तस्य स्वागतार्थं प्राथमिकशालायाः मुख्योपाध्यायः अत्रिवर्यः, ग्रामप्रमुखैः सह आगतः आसीत् । सप्ताहकालादनन्तरं यदा राघवेन्द्रः प्रस्थितवान् तदा ग्रामीणाः सर्वे क्रन्दितुम् आरब्धवन्तः । तत्रस्थस्य यतीश्वरस्य शङ्करलिङ्गभगवतः सूचनानुसारं जनहितरक्षणार्थं तत्रैव न्यवसत् । एवमेव पुनः पुनः प्रीत्याग्रहः सर्वदा आगत्य पञ्चाशत् वर्षाणि मल्लडिहळ्ळिग्रामे एव अवसत् । एवं पूर्वनिश्चयेन विना अत्रागत्य आजीवम् दीनदरिद्रानाम् उद्धारार्थं जीवनं यापितवान् । प्रायः विश्वनियामकस्य सङ्कल्पवशादेव अत्र स्थितवान् इति राघवेन्द्रस्वामिनः भावः । तेन स्थापितः अनाथसेवाश्रमः अनाथानां दीनबालानाम् आश्रयस्य सेवाकुटीरः अभवत् । स्वामिनः राघवेन्द्रस्य अपारशिष्यस्तोमेषु प्रधानः होळल्केरे सूर्यनारायणः अग्रे सूरदासजी इति प्रसिद्धः । स्वामिनः छायेव अनुसरतः एषः आश्रमस्य सर्वतोमुखाभिवृद्धये प्रायतत । प्रतिवर्षं अक्टोबर्मासस्य चतुर्थदिनाङ्कतः 24पर्यन्तं आयुर्वेदयोगशिबिराणि प्रचलन्ति । ध्यानम्==अनाथसेवाश्रमे सेवाकार्याणि== एवमेव यमः, नियमः,आसनम्, प्राणायामः प्रत्याहरः, धारणम्, ध्यानम्, समाधिः इति अष्टाङ्गयोगस्य विभागान् बोधयति स्म । विशेषदिनेषु सायं नाटकम्, नृत्यं, भाषणम्, यक्षगानम्, हरिकथाकालक्षेपः, गानं, गमकम्, इत्यदीन् कार्यक्रमान् योजयति स्म । अस्य सेवारतेषु राजनीतिज्ञाः, कवयः, सङ्गीतकारा, क्रीडापटवः, मठाधीशाः, उद्यमपतयः, पत्रकर्तारः, अभिनेतारः, च भवन्ति स्म । स्वामी राघवेन्द्रः प्रतिवर्षं श्रावणमासे आमासं मौनव्रतधारी भवति स्म । तस्मिन् काले सहस्राधिकपुटानां साहित्यकृषिं करोति स्म । तेन लिखतग्रन्थेषु केचन एवं सन्ति । वचनसाहित्यम्, कथासङ्कलनानि, आयुर्वेदलेखाः, योगग्रन्थाः, बृहद्योगदर्शनम्, योगसम्पुटम्, व्यायामः, आत्मनिवेदनम्, आत्मचरित्रं जोळिगेय पवाड । अस्य काव्यनाम तिरुक इति । कर्णाटकस्य सर्वकारः बहुवारं तस्मै भारतसर्वकारस्य पद्मप्रशस्तिं दापयितुं प्रस्तावम् अकरोत् । किन्तु सर्वदा तां प्रीत्या निराकरोत् । कुवेम्पुविश्वविद्यालयः तस्मै सादरं डाक्टरेट् दातुम् आह्वयत् किन्तु तदपि निराकृतवान् । आश्रमस्य समुत्थानाय धनस्य आवश्यकता अस्ति तद्ददातु इति सूचितवान् । आश्रमस्य सर्वव्यवहाराः दानधनेन एव चालनीयाः आसन् । तिरुक इति काव्यनाम्नि लिखितपुस्तकानां विक्रयणेन अल्पायः भवति स्म । स्कन्दस्यूतं धरन् धनसङ्ग्रार्थं सर्वदा सूर्दासेन सह अटति स्म । क्रि.श. 1991तमे वर्षे राघवेन्द्रस्वामिनः जन्मशतमानोत्सवं ग्रामजनाः हितैषिणः च मिलित्वा ससम्भ्रमं समाचरन् । तस्मिन् अवसरे तेन रचितः ग्रन्थः आत्मनिवेदने इति लोकार्पितः । अभिमानिनां, शिष्यानां च प्रीत्याग्रहेन जोळिगेय पवाड इति आत्मचरित्रग्रन्थम् अरचयत् । तत्र तस्य परिश्रमस्य उपलब्धीनां च विषयस्य निरूपणं हृदयस्पर्शि अस्ति । तदैव लघुहृदयाघातः अभवत् । पुनः क्रि.श. 1996तमे वर्षे पुनः हृदयाघातः सज्ञातः । तदा बेङ्गळूरुनगरस्य मल्य चिकित्सालये चिकित्सितः । सम्पूर्णमासं यावत् अर्धप्रज्ञास्थितौ स्थितः राघवेन्द्रस्वामी पुनः समानान्यस्थितिं नागतवान् । एवं महायोगाचार्यः कि.श. 1996तमवर्षस्य आगस्ट् मासस्य अन्तिमे दिने परमात्मनि लीनः अभवत् । तस्य अन्त्येष्टिं मल्लडिहळ्ळिआश्रमपरिसरे एव कृत्वा भव्यसमाधिमन्दिरं निर्मितवन्तः । सहस्राधिकजनानां जीवनानि प्रकाशितवान् स्वामी राघवेन्द्रः स्वजीवनं सार्थकम् अकरोत् । वर्षद्वयस्य पश्चात् राघवेन्द्रस्य स्मरणात् एव इहलोकं त्यक्तवान् । तस्य गौरवार्थं राघवेन्द्रस्य समाधिमन्दिरस्य पार्श्वे एव अस्य समाधिमन्दिरमपि ग्रामजनाः निर्मितवन्तः । अद्यापि विविधदिग्देशेभ्यः शिष्याः, अनुयायिनः, भक्ताः, साहित्यप्रियाः, समाजपरिवर्तकाः स्वश्रद्धाबाष्पं समर्पयितुम् अत्र आयान्ति । स्वामिना आरब्द्धाः सम्पोषिताः प्रौढशालाः, छात्रावासाः, बनशङ्करिमन्दिरम्, महाविद्यालयः, दैहिकप्रशिक्षाविद्यालयः, प्रशिक्षकमहाविद्यालयः, आयुर्वेदमहाविद्यालयः, इत्यादः इदाणि प्रवृद्धाः तस्य परिश्रमस्य यशसः साक्षिणः सन्ति । सद्यः काले श्री मुरुघराजेन्द्रस्वामी मल्लाडिहळ्ळि वर्तमानानां सर्वसङ्घटनानां दायित्वं स्वीकृत्य प्रचालयन् अस्ति । महाविद्यालयाः, प्रौढशाल, शिक्षकानां वसतिनिलयाः, सम्यक् प्रचलन्तः सन्ति । 1. पूजा 2. हण्णुकायि 3. भक्तिगीतानि 4.हनुमन्तनखड्ग 1. कोनेय गुटुकु 2. मूळेय हन्दर 3. चितेयो समाधियो 4. उदयास्त 5. सूत्रद बोम्बे 6. रसऋषि 7. गुड्डद सिङ्गरि 8. त्यागजीवि 9. एल्ल हसिवेय आट 1. रणचण्डी 2. महाकवि भारती 3. न्ययमन्त्री 4. उषा स्वयंवर 5. दारिय देवरु 6. वनमहोत्सव 7. तिरुनाम 8. देव्वद मने 9. सुखीराज्य 10.कर्मयोगी 11 उद्धार 12. मूरु नाटकानि 1. भक्तशबरी 2. महाशिल्पि 1. ध्यनभारती 2. ज्वालामुखी 3. मूरु एकपात्राभिनयगळु 4. प्रेमपषाणि मत्तु ममतेय मगळु 5.धनपिशाचि म्त्फ़्तु एकपात्राभिनयगळु 6. पञ्चाय्तिराज्य मत्तु इतर एकपात्राभिनयगळू 7. नन्न रामराज्य 1. अन्तर्वाणी 1. किरातार्जुनीय 2. गिरिजाकल्याण 3. तिरुनीलकण्ठः 4. हेळवनकट्टे सन्द गिरियम्म 1. देवर उपवास 2. कथेयो व्यथेयो 3. किरुनाटकगळु 1. स्वयं वैद्य 2. चौपदि आयुर्वेद चिकित्सा सङ्ग्रह 3. वनौषधिगळ गुणधर्मः हागू विविधभाषाकोशः 4.गृहवैद्यकैपिडि 1. सूर्यनमस्कारः 2.सूर्यनमस्कारस्य चित्रपटः 3. अङ्गमर्दनम् 4. सर्वाङ्गसुन्दर व्यायामः 5. गुरुनमस्कारः 1. प्राणायामः 2. देहस्वास्थ्यक्कागि योगासनगळु 2. कथारूपकयोगासन 4. षट्कर्मविधिः 1. आत्मनिवेदने 2. जोळिगे पवाड "
{ "source": "wikipedia" }
तमिऴ्-कन्नड़ तमिऴ्-कोडगू तमिऴ्-मलयाळम् तमिऴ्‌भाषा तमिऴ् तमिऴ् द्राविडभाषापरिवारस्‍य एका भाषा। तमिऴ्‌भाषा पृथिव्‍यां प्राचीनतमभाषासु अन्यतमा। द्रविडपरिवारस्य भाषासु इयम्‌ अन्याभ्यः अधिकं पुरातनी समृद्धा च। तमिऴ्‌नाडुराज्ये जनाः तमिऴ्‌भाषया वदन्ति। एषा भारते श्रीलङ्कायां सिङ्गापुरे च कार्यालयीयभाषा वर्तते। एषा भारते तमिऴ्‌नाडुराज्यस्य पुदुच्चेर्याः अपि कार्यालयीयभाषा वर्तते । अस्मिन् द्विसहस्रतमे शताब्दे इयं भाषा भारतशासनद्वारा शास्त्रीयभाषात्वेन उद्घोषिता । मॉरीशस्-मलेशियिदेशयोः अपि अनया भाषया महत्त्वपूर्णं स्थानं प्राप्तम् अस्ति। भारतीयपुराणानुसारेण तमिऴ्‌भाषायाः रचना भगवता शिवेन कृता। तेन च तमिऴ्-व्‍याकरणम्‌ अगस्त्यमुनये उपदिष्टम्‌। भाषाविज्ञानुसारेण मौलिकद्राविडा इति संज्ञिता एका लुप्तप्राक्तनभाषा भवितव्या आसीत् || तस्या: उद्भूतासु तिसृषु शाखासु अन्यतमा मौलिका दाक्षिणात्या द्राविडा इति संज्ञिता एका भवितव्या आसीत् || तस्यां शाखायां उद्भूता एषा तमिळभाषा। तत्प्रकारेण तमिळभाषाया: स्वस्रीया: भाषा: इति वक्तव्या: भाषा: तेलुगु, कन्नडम् इत्यादया: यत: ता: अपि सामान्याया: मौलिकभाषाया: उद्भूता:| भाषाविज्ञानुसारेण प्रमाणितम् यत् केवलं तमिळभाषा मौलिकद्राविडाया: अक्षराणि सर्वाणि क्षीणात् संरक्षितवती इति| इतरा: द्राविडभाषास्तु विना कतिपयानि अक्षराणि मौलिकद्राविडायां उपलब्धानि इतराणि सर्वाणि व्यापन्नरुपेण एव व्यवहरन्ति| तमिऴ्‌लिपौ ङ, ञ, ण, न, म इति अनुनासिक-वर्णाः देवनागरी-वर्णाः इव प्रयुज्यन्ते। तत्र क, च, ट, त, प इति पञ्चवर्गीयवर्णाः एव सन्ति। व्यञ्जनवर्णाः↓ व्यञ्जनवर्णाः↓
{ "source": "wikipedia" }
‘ƒċǍĉÂáÊĠĤēčēĕसऊदी अरब एशियामहाद्वीपे वि₭₴♥द्यमानः कश्चन देश: अस्‍ति।
{ "source": "wikipedia" }
धर्मसूत्रेषु धार्मिकनियमाः, प्रजानां राज्ञाश्च कर्त्तव्यचर्याः, चत्वारो वर्णाः, चत्वारः आश्रमाः, तेषां धर्माः पूर्णतया निरूपिताः । एतानि धर्मसूत्राण्येव स्मृतीनां जन्मनेऽकल्पन्त । धर्मसूत्रे चतुण्णां वर्णानाम् आश्रमाणाञ्च किञ्च राज्ञामपि कर्त्तव्यानि निर्दिष्टानि सन्ति । इमान्येव त्रीणि वस्तुतः प्रधानानि कल्पसूत्राणि मतानि । धर्मसूत्राणि कल्पस्य गौरवम् अयान्यङ्गानि सन्ति, परं न साम्प्रतं प्रत्येकं शाखायाः धर्मसूत्राणि लभ्यन्ते । यन्मानवधर्मसूत्रमाधृत्य मनुस्मृतेः निर्माणं सञ्जातं, तदपि नाद्यपर्यन्तमुपलब्धं भवति । सुतरां बौधायनापस्तम्ब-हिरण्यकेशिकल्पसूत्राणामुपलब्धिः पूर्णतया भवति । अत एव तदीयानि धर्मसूत्राण्यपि प्राप्यन्ते । धर्मसूत्रेषु चतुर्वर्णकर्त्तव्यानि कर्माणि, व्यवहाराः, राजधर्मः, अाश्रमधर्मः, विवाहः, दायभागः, प्रायश्चित्तम्, नित्यनैमित्तिकं कर्म इत्येते अन्ये चानेके विषयाः सन्ति वर्णिताः । धर्मसूत्रेषु प्राचीनतमं गौतमधर्मसूत्रं विद्यते । गौतमधर्मसूत्रं निर्दिशन्तो याज्ञवल्क्यकुमारिल-शङ्कराचार्य-मेधातिथयः प्राप्यन्ते । बोधायनोऽपि धर्मसूत्रस्य प्राचीनतमः अाचार्यो मतः । वसिष्ठश्च प्रतिष्ठितेषु धर्मसूत्रकारेषु गण्यते । तदीयं धर्मशास्त्रं यद्यपि लघुकायं परं गुणविपुलत्वेन महनीयमस्ति। वसिष्ठस्य जीवनदर्शनम् अत्यन्तमुदात्तमाध्यात्मिकमस्ति । सः सदाचारमयं जीवनं यापयितुमुपदिशति । उपदिशति च दुर्बुद्धिप्रियां तृष्णां परिहर्तुम् । वसिष्ठस्य श्लोकबद्धाः स्मृतिः प्रकाशङ्गताऽस्ति । बहवो मनुस्मृतिश्लोकास्तत्र गद्यात्मकेषु सूत्रेषु दृष्टिगोचराः भवन्ति । महाभारते भगवान् वेदव्यासः शङ्खलिखित-गौतमापस्तम्बादीनां धर्मसूत्रकाराणां नामानि सादरं संस्मरन् समवाप्यते । स कस्यचन धर्मकारस्य मतमुद्धरन् ब्रवीति ー 'अनृताः स्त्रिय इत्येवं सूत्रकारो व्यवस्यति॥ यदाऽनृताः स्त्रियस्तात सहधर्मः कृतः स्मृतः॥' धर्मसूत्रप्रतिपादिताः सर्वे धर्माः सूत्रकारैर्न स्वयं प्रकल्पिताः, अपि तु तैः प्राक्तनेभ्यः स्त्रोतोभ्यः सङ्गृह्य यथासमये व्याख्याताः । यथा चाह बौधायनः - 'उपदिष्टो धर्मः प्रतिवेदम, तस्यानुव्याख्यास्यामः ॥' एतदेव मतमनुसरन् आपस्तम्बो बूते - 'अथातः सामयाचारिकान् धर्मान् व्याख्यास्यामः ।' इत्थं धर्मसूत्राणि प्राक्तनानामेव धर्माणां व्याख्यानरूपाणि सन्ति । सर्वे सूत्रकाराः स्मृतिकाराश्च वेदमेव धर्मस्यादिमं मूलं मन्यन्ते । परं ये धर्माः प्रत्यक्षरूपेण वेदेषु प्राप्यन्ते, तेषां मूलं वेदविदां स्मृतौ शीले च प्राप्यन्ते। धर्मसूत्रकारैः मन्त्रब्राह्मणात्मको वेदः प्रमाणत्वेन स्वीकृतः । तस्मादेव कारणाद् बहुधा तैः मन्त्रैः सह ब्राह्मणवाक्यान्यपि श्रुतिवचनत्वेन उद्ध्रियन्ते । शतपथब्राह्मणे ब्रह्मचारिणो ये धर्माः प्रोक्ताः सन्ति, तान् धर्मान् उद्धरन्तः अनुसरन्ताश्च अनेके सूत्रकाराः आसाद्यन्ते। आपस्तम्बप्रणीतधर्मसूत्रे उद्धृतेभ्यो ब्राह्मणवाक्येभ्यो विदितं सञ्जायते यद्, ब्रह्मचारिधर्मा न केवलं शतपथब्राह्मणे निरूपिताः, परं तेषां निरूपणन्तु तद्भिन्नेष्वपि ब्राह्मणेषु समुपलब्धं भवति । वर्तमानानेहसि न तानि ब्राह्मणानि समवाप्तानि सञ्जायन्ते । यथा च आपस्तम्बोदधृते एते ब्राह्मणवचसी न सम्प्रति कस्मिन्नपि ब्राह्मणे समवाप्येते - ‘यदि स्मयेतापि गृह्य स्मयेतेति ब्राह्मणम्। रजस्वलो रक्तदन्सत्यवादी स्यादिति ब्राह्मणम्॥' शतपथब्राह्मणस्य ब्रह्मचारिधर्मविषयकं वाक्यं बौधायनधर्मसूत्रे उद्धृतं सद्वीक्ष्यते । आपस्तम्बे च उपनयनविधानविषयके ये द्वे वाक्ये समुपलभ्येते, तेऽपि वस्तुतः कस्यापि ब्राह्मणान्तरस्यैव स्तः, न तद् ब्राह्मणमधिगतं भवति । ते वाक्ये एते - ‘सर्वेभ्यो वेदेभ्यः सावित्र्यनूच्यत इति ह ब्राह्मणम्॥' ‘तमसो वा एषतमः प्रविशति यम विद्वानुपनयते यश्चाविद्वानिति हि ब्राह्मणम्।' इत्थं ब्रह्मचारिधर्माः बहुभिः सूत्रकारैः उद्धृताः, ते च ब्राह्मणेषु सम्यक् प्रतिपादिताः। स्नातकधर्मसम्बन्धीनि च श्रुतिवाक्यानि धर्मसूत्रेषु उद्धृतानि सन्ति । तथा हि शतपथब्राह्मणस्य समुपस्थापयन् वसिष्ठः प्राह - ‘भार्यया सह नाश्नीयादवीर्यवदपत्यं भवतीति वाजसनेयके विज्ञायते।' अपरञ्च स्नातकधर्ममधिकृत्य वसिष्ठः काठकश्रुतिं संस्मारयन् तं धर्मं विवृणोति। स्नातकः सत्रादन्यत्र शिखां न वापयेदिति धर्मं व्याख्यातुमापस्तम्बः श्रुतिमुद्धरति - ‘अथाऽपि ब्राह्मणम्॥ रिक्तो वा एषोऽनपिहितो यन्मुण्डस्तस्यैतदपि धानं यच्छिखेति । सत्रे तु वचनाद् वपनं शिखायाः॥' वर्णाश्चत्वारः इत्येतदधिकृत्य ऋग्वेदोऽभिदधाति - 'ब्राह्मणोऽस्य मुखमासीद् बाहूराजन्यः कृतः॥ ऊरु तदस्य यद् वैश्यः पद्भ्यां शूद्रो अजायत॥' अत्र वर्णशब्दो न जातिवाचकत्वेन गृहीतः। वर्णस्य उल्लेखो न केवलं श्रुतावन्यत्राऽपि दृश्यते। काठकसंहितायां 'वर्ण' इत्येतत्पदं जात्यर्थे च प्रयुक्तम्। 'आार्यवर्णमुज्जापयति' । ब्राह्मणेषु च वर्णशब्दो वणार्थे एव प्रयुक्तः प्राप्यते। शतपथब्राह्मणं हि वर्णान् एव वर्णयति - ‘चत्वारो वै वर्णाः ॥ ब्राह्मणो राजन्यो वैश्यः शूद्रः॥' ऐतरेयब्राह्मणेऽपि ‘शूद्रो वर्णः’ इति प्रयोगोऽधिगम्यते । तैत्तिरीयब्राह्मणमेतस्मिन् विषये निगदति — 'देव्यो वै वर्णो ब्राह्मणः॥' ‘अार्यवर्णमुज्जापयन्ति ॥' इत्येषः प्रयोगः पञ्चविंशब्राह्मणे विलोक्यते । एवंविधानि वेदवाक्यानि अालम्ब्य धर्मसूत्रकाराः वर्णधर्मान् व्याचक्षाणाः अासाद्यन्ते । वसिष्ठः साक्षादेव वर्णविषयकं मन्त्रमुद्धरन् दृश्यते - 'प्रकृतिविशिष्टं चातुर्वण्यं संस्कारविशेषाञ्च॥ ब्राह्मणोऽस्य मुखमासीद् बाहूराजन्यः कृतः ॥ ऊरु तदस्य यद् वैश्यः पद्भ्यां शूद्रोऽजायत' - इत्यपि निगमो भवति'। अन्ये सूत्रकारा: शतपथब्राह्मणमनुसृत्य वर्णान् परिगणयन्ति । यथा धर्मसूत्रेषु वर्णानां कर्मणां वर्णनं विधीयते, तथा श्रुतौ एषां कर्मणां स्पष्टं विधानं न दृश्यते। परं चतुर्णां वर्णानां कर्मणां पृथक्त्वं वेदे अनेकविधतया वीक्षितं भवति । केषुचित् कर्मसु वर्णविषयस्य एव अधिकारो दृश्यते । यथा च ब्राह्मणवर्णस्य याजनाधिकारं प्रतिपादयच्छतपथब्राह्मणं ब्रवीति - 'य उ वैकश्च यजते ब्राह्मणीभूयैव यजते।' ब्राह्मणानां याजनाधिकारो मैत्रायणीसंहितायामेवं वर्णितः - ‘द्वया वै देवा अहुतादो यद् ब्राह्मणाः॥' ब्राह्मणेष्वपि ईदृशं वचनं विलोक्यते - 'एता वै प्रजा हुतादो यद् ब्राह्मणाः' ॥ 'एते वै देवाः अहुतादो यद् ब्राह्मणाः' ॥ दानप्रतिग्रहे सोमपाने च ब्राह्मणानामधिकारं विदधानम् ऐतरेयब्राह्मणमाचष्टे - 'स यदि सोमं ब्राह्मणानां स भक्षो ब्राह्मणानांस्तेन भक्षेण जिन्विष्यसि ब्राह्मणकल्पस्ते प्रजाया मा जनिष्यत आदाय्यापाय्यावसायी यथा काम प्रयाप्यो यदा वै क्षत्रियाय पापं भवति ब्राह्मणकल्पोऽस्य प्रजायामजायत ईश्वरो ह्यस्माद् द्वितीयो वा तृतीयो वा ब्राह्मणतामभ्युपैतोः स ब्रह्मबन्धवेन जिज्यूषितः॥' ऋत्विक्त्वेन ब्राह्मणवर्ण एव श्रुतौ प्रतिपादितः । तं विहाय न वर्णान्तरं हि ऋत्विक्तां परिग्रहीतुं प्रभवति । ब्राह्मणस्य अधिकाराः कर्त्तव्यानि च शतपथेन विधीयन्त एवम् - 'प्रज्ञा वर्धमाना चतुरो धर्मान् ब्राह्मणमभिनिष्पादयति - ब्राह्मण्यं प्रतिरूपचर्यां यशो लोकपत्तिम्, लोकः पच्यमानः चतुर्भिर्धर्मैर्ब्राह्मणो भुनक्ति - सर्वथा च दानेन चाज्येयतया चावध्यतया च ॥' शतपथब्राह्मणस्यापरं वचनमपि बोधयति यत्, तस्मिन् काले अध्यापने ब्राह्मणस्यैवाधिकारः आसीत् - 'स होवाचाजातशत्रुः प्रतिलोमं वै तद्यद् ब्राह्मणः क्षत्रियमुपेयाद् ब्रह्ममेव वक्ष्यतीति।' ईदृशानि वेदवचनानि आलम्भ्य ब्रा्मधर्मान्नेवं व्याचक्षते - 'द्विजातीनामध्ययनमिज्यादानम्। ब्राह्मणस्याधिकाराः प्रवचन-याजन-प्रतिग्रहाः' 'ब्रह्म वै त्वं महिमानं ब्राह्मणेष्वदधादध्ययनाध्यापनयजनयाजनदानप्रतिग्रहांयुक्तं वेदानां गुप्त्यै' ‘स्वकर्मब्राह्मणस्याध्ययनमध्यापनं यज्ञो यजनं दानं प्रतिग्रहणं दायाद्यं शिलोञ्छ:'। 'षट्कर्माणि ब्राह्मणस्य स्वाध्यायाध्ययनमध्यापनं यज्ञो यजनं दानं प्रतिग्रहश्चेति।' श्रुतिविधानमनुसृत्यैव धर्मसूत्रकारैः ब्राह्मणस्यावध्यत्वमाम्नातम् - ‘अवध्यो वै ब्राह्मणः सर्वापराधेषु'॥ गौतमः प्राह — 'अवध्यश्चावन्ध्यश्चादण्ड्यश्चाबहिष्कार्यश्चापरिहार्यश्चेति।' मनुः प्राह - 'न जातु ब्राह्मणं हन्यात् सर्वपापेष्वपि स्थितम्॥' यद्यपि कतिपयेषु यज्ञेषु ब्राह्मणस्य विशेषाधिकारः श्रुतिभिः विधीयते परं प्रायेण सर्वेषां द्विजानां ब्राह्मणक्षत्रियवैश्यानाम् - अध्ययने यज्ञे च समानोऽधिकारः प्रतिपादितः । द्विजेषु 'आर्य' इति शब्दोऽपि श्रुतिषु प्रयुक्तः । सूत्रकारा अपि तत्कृते 'आर्य' इति शब्दं प्रयुञ्जाना दृश्यन्ते। ते इज्यायां दाने अध्ययने च तेषामधिकारं स्वीकुर्वन्ति। क्षत्रियस्य मुख्यो धर्मः प्रजानां पालनमेव प्रोच्यते धर्मविद्भिः । वसिष्ठः प्रब्रवीति— 'शस्त्रेण च प्रजापालनं स्वधर्मस्तेन जीवेत् ॥' गौतमश्चाभिदधाति - 'राज्ञोऽधिकं रक्षणं सर्वभूतानाम् ॥' क्षत्रियधर्ममधिकृत्य ऐतरेयब्राह्मणं यद् वदति तदिदम् – 'क्षत्रियोऽजनि विश्वस्य भूतस्याधिपतिरजनि विशामत्ताऽजन्यमित्राणां हन्ताऽजनि ब्राह्मणानां गोप्ताऽजनीति ॥' शतपथब्राह्मणमपि क्षत्रियस्य प्रमुखो धर्मः कः ? इत्यत्र निगदति— 'एष वै प्रजापतेः प्रत्यक्षतमां यद्राजन्यस्तस्मादेकः। सन् बहूनामीष्टे यद्वेदेव चतुरक्षरः प्रजापतिश्चतुरक्षरो राजन्यः।।' शतपथब्राह्मणोक्तमिदं मतं काठकश्रुतिमनुमन्यते - 'राजन्यो वै प्रजानामधिपतिः' राजसम्मानमुद्दिश्य गौतम आचष्टे - 'तमुपर्यासीनमधस्ताहुपासीन्नन्ये ब्राह्मणेभ्यः तेऽप्येनं मन्येरन्'। इदं हि सर्वं श्रुतिमाधृत्यैव प्रोक्तम् - 'तस्मादुपर्यासीनं क्षत्रियमधस्तादिमाः प्रजा उपासते'। पशवो वैश्यस्य धनत्वेन श्रुतौ मतम्। अस्मिन् विषये पञ्चविंशब्राह्मणं कथयति ‘एतद् वै वैश्यस्य समृद्धं यत् पशवः।' तस्मादु बहुपशुर्वैश्वदेवो हि जागतो वर्षा ह्यस्य वैश्यस्य ऋतुस्तस्माद् ब्राह्मणस्य च राजन्यस्य चाद्योघरो हि सृष्टः ॥' पशुशब्दोऽत्र कृषेरप्युपलक्षणमस्ति । अत एव सूत्रकाराः पशुपालनं कृषिश्च वैश्यस्य प्रधानो धर्म इति कथयन्ति । तस्मादेव सम्बन्धाद् वाणिज्यमपि वैश्यस्य धर्मत्वेन स्वीकृतम् । ऋग्वेदे शूद्र इति पदं सकृत्प्रयुक्तम् । न तत्र शूद्रस्य धर्ममुद्दिश्य किमपि प्रोक्तम् । तस्य जन्म पद्भयां जातमित्येव निगदितम् । ऋग्वेदाद् व्यतिरिच्य अन्येषु वेदेषु ब्राह्मणेषु च शूद्रशब्दस्य प्रयोगोऽसकृत्कृतः । तेषु तस्य कर्म किमित्येतदपि निरूपितम् । पञ्चविंशब्राह्मणे कथितं यत् पादप्रक्षालनं शूद्रस्य कर्म विद्यते, यज्ञे च तस्याधिकारो नास्ति - 'स यत्तस्य एष प्रतिष्ठाया एकविंशमसृज्यतं । तमनुष्टुप्छन्दोऽन्वसृज्यत न कश्चन देवता शूद्रो मनुष्यस्तमाच्छूद्रे उत बहु पशुरयज्ञियो विदेवो हि, न हि तं काचन देवताऽन्वसृज्यत, तस्मात्पादावनेजयन्नातिवर्द्धते पत्तो हि सृष्टः॥' यदुपरिष्टे पञ्चविंशब्राह्मणे प्रोक्तं तदनु मन्यमानम् ऐतरेयब्राह्मणमपि दृष्टं भवति - 'अथ यद्यपः शूद्राणां स भक्षः शूद्रांस्तेन भक्षेण जिन्विष्यसि शूद्रकल्पस्ते प्रजायमाजनिष्यतेऽन्यस्य प्रेष्यः कामोत्थाप्यो यथा कामवध्यः ॥' इमानि वचनान्यवलम्ब्य धर्मसूत्राणि च सेवामेव शूद्रस्य प्रधानं धर्म मन्यन्ते । तथाहि — 'शुद्रेषु पूर्वेषां परिचर्या'। 'परिचर्या चोत्तरेषाम्। ब्रह्मचारिणां धर्माणां विषये शतपथब्राह्मणे विशदतयाऽऽम्नातम् । उद्वाहविषये च तत्र प्रचुरं प्रोक्तम् । ऋग्वेदस्य दशममण्डलस्थं पञ्चाशीतितमं सूक्तम् - 'रैभ्यासीदनुदेयी नाराशंसी न्योचनी । सूर्याया भद्रभिद् चासोगाथयैति परिष्कृतम्....' अथर्ववेदे च विवाहविषयः प्रतिपादितः । गृह्यसूत्राणां विवाहवर्णने एतेषां मन्त्राणां विनियोगः क्रियते । उद्वाहसम्बन्धिनो वेदमन्त्रा एव अाचार्येर्गृहस्थाश्रमविषये प्रमाणत्वेन गृहीताः सन्ति । श्रुतिषु ऋणत्रयविधानं यत्कृतं तद्ब्रह्मचर्यं गार्हस्थ्यञ्च लक्ष्यीकृत्य कृतमिति सूत्रकाराणां स्मृतिकाराणाञ्च मतमस्ति । ब्रूते चात्र बौधायनः — 'जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवान् जायते ब्रह्मचर्योण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य इति॥' एवम् ऋणसंयोगादीन्यसंख्येयानि भवन्ति । श्रुतिवचांस्याश्रित्यैव धर्मसूत्रकारैर्गार्हस्थ्यं प्रतिपादितं, तद्धर्माश्र्च निरूपिताः। तैत्तिरीयसंहितायां हि ऋतुमतीधर्मा ये विहितास्ते च सूत्रकारैः स्वसूत्रग्रन्थेषु व्याख्यतः। वानप्रस्थस्य संन्यासस्य च वर्णनं धर्मसूत्रेषु प्राप्यते । परं केचन सूत्रकाराः तत्र विप्रतिपत्तिमुपस्थापयन्तोऽपि दृश्यन्ते। केचन आचार्या नैष्ठिकं ब्रह्मचर्यं, वानप्रस्थं संन्यासञ्च नानुमन्यन्ते। बौधायनोऽत आह - ‘ऐकाश्रम्यं त्वाचार्या अप्रजनत्वादितरेषाम्। प्राह्लादिर्ह वै कपिलो नामासुर आस । स एतान् भेदांश्चकार देवैस्सह स्पर्धमानस्तान् मनीषी माऽद्रियेत ॥' केचन आचार्या एतदपि अाश्रमद्वयमनुमन्यमानाः प्राप्यन्ते । तैत्तिरीयसंहितायामिह विषये ‘ये चत्वारः' इति वचोऽवाप्यते यत्तद्धर्मस्य चतुविधत्वं करोतीति तेषां मतम् । परं मतमिदं प्रतिवदन् बौधायन आाचष्टे यत् - ‘ये चत्वारः' इत्येष कर्मवाद एवास्ति — ऐष्टिकपाशुकसौमिकदार्वीहोमाणाम् । ज्ञानमेव मुक्तेः कारणमिति मत्वा केचन अाचार्याः संन्यासं परिपुष्णन्ति, किञ्च ज्ञानप्रशंसात्मिकानि श्रुतिवचनानि प्रमाणत्वेन प्रस्तुवन्ति । शतपथब्राह्मणस्य अधःस्थितं वचनं संन्यासपरिपोषकाणां मतं द्रढयति - 'तमेवं वेदानुवचनेन विविदिषन्ति। ब्रह्मचर्येण तपसा श्रद्धया यज्ञेनानाशकेन चैतमेव विदित्वा मुनिर्भवत्येतमेव प्रव्राजिनो लोकमीप्सन्तः प्रव्रजन्ति॥ एतद्ध स्म वै तत्पूर्वे ब्राह्मणा अनूचाना विद्वांसः प्रजान्न कामयन्ते किम्प्रजया करिष्यामो येषान्नोऽयमात्मा यल्लोक इति ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थापयाथ भिक्षाचर्यं चरन्ति या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतः॥' अापस्तम्बधर्मसूत्रन्तु पक्षद्वयमप्युपन्यस्यति । यद्यपि श्रुतिकाराः स्मृतिकाराश्च कालधर्ममवेक्षमाणाः संन्यासं न सर्वथा प्रत्याचक्षते संन्यासधर्माश्चापि प्रतिपादयन्ति तथापि ते वेदविरुद्धतां न कदाऽपि सहन्ते । तेषां वेदाज्ञा सर्वथा माननीयाऽस्ति । तेभ्यः परं न किमप्यस्ति तेषां दृष्टौ । अत एव आपस्तम्बधर्मसूत्रे प्रोक्तम् - 'त्रैविधवृद्धानां तु वेदाः प्रमाणमिति निष्ठा तत्र यानि श्रूयन्ते व्रीहियवपश्वान्यपयः कपालपत्नीसम्बन्धान्युच्चैर्नीचैः कार्यमिति ते विरुद्ध अाचारोऽप्रमाणमिति मन्यन्ते।' एवमेव वसिष्ठो ब्रवीति - 'संन्यसेत् सर्वकर्माणि वेदमेकं न संन्यसेत्॥ तेषां संन्यसनाच्छूद्रस्तस्माद् वेदं न संन्यसेत् ॥' तामेव प्रव्रज्यां, वस्तुतः धर्मसूत्राण्यनुमन्यन्ते या वैदिकधर्ममर्यादासंरक्षिणी भवति । तैत्तिरीयसंहितोक्तं - ‘मनुपुत्रेभ्यो दायं व्यभजत्' इति क्व उद्धरन्तो धर्मसूत्रकारा दायस्य वेदसमतत्त्वमुपपादयन्तीति। सूत्रव्याख्यातृृणां कथनमिदं यत्पिता पुत्रेभ्य एव दायं विभजेन्न तु दुहितृभ्यः। बौधायनधर्मसूत्रदर्शनात् पुत्रस्यैव दायभागाधिकारिता सिद्ध्यति । बौधायनः स्पष्टमेव आानमति यत्, पितरि जीवति पितुरनुज्ञयैव दाय-विभजनं भवेत् । केषाञ्चन आचार्याणामिदमपि मतं यज्ज्येष्ठः पुत्रोऽधिकस्य दायभागस्याधिकारी अस्ति । एते अाचार्याः स्वं मतं परिपोषयितुं बौधायनं प्रमाणत्वेनाऽपि उपन्यस्यन्ति । केषाञ्चन आचार्याणामिदमपि मतं यज्ज्येष्ठपुत्रः समस्तमपि दायभागं लभेत । परमापस्तम्बो मतमिदं प्रत्याचष्टे । स इह आह यदेतादृशो विभागो न शास्त्रानुकूलः। सर्वेऽपि पुत्राः समदायसंलब्ध्यधिकारिणः सन्ति । श्रुतिः समदायविभागपक्ष एव वर्त्तते । समदायविभागस्य वेदमूलत्वं प्रमाणयितुमापस्तम्बस्तदेव श्रुतिकथनमुद्धरति, यद्बौधायनेन प्रयोजनान्तरमुदाहृतम् । बौधायनोदाहृतस्य, श्रुतिवचनस्य विधित्वमस्वीकुर्वाणः आपस्तम्बो न्यायविदां मतमुपस्थापयति - 'अथापि नित्यानुवादमविधिमाहुन्यायविदः'॥ एतस्य हि व्याख्यानस्य उद्देश्यमिदं यदेवंविधानि वेदवाक्यानि दृष्टार्थमात्रमनुवदन्ति । एतेन विवेचनेनेदमपि स्फुटीभवति यद्धर्मसूत्रकाराः श्रुतिवाक्यानि व्याख्याय धर्म प्रतिपादयन्ति । धर्मसूत्राणां सर्वेषां चेत् सम्यगध्ययनं विधीयेत, तदेवं निश्चीयते यच्छ्रुतिव्याख्याभेदादेव दायविभागपरो भेदः सञ्जातः । ‘दुहिता वा' इत्येतद् आपस्तम्बीयं वचो निशम्य विदितं जायते यद्, दुहिताऽपि विकल्पेन दायं लभते। गौतममते पत्नी सपिण्डादिभिः सह रिक्थं भजते । केषाञ्चन धर्माणां मूलन्तु सूत्रकाराः स्मृतिकाराश्च वेदविदां स्मृतिं शीलञ्च मन्यन्ते । यदा कोऽप्येतादृशस्य शीलस्य एतादृश्याः स्मृतेर्या प्रमाणत्वम् आक्षिपति, तदा धर्मविदस्तत् समादधानं ब्रुवन्ति यद्, याभ्यः शाखाभ्यो वेदविदां स्मृतिः शीलं वा प्रावर्तत, ताः शाखास्तदा प्रावर्तन्त परं ता गच्छता कालेन व्यनश्यन् । गोविन्दस्वामी वक्ति च यद्, बौधायनेन प्रोक्त: शिष्टागमः सम्प्रति प्रलीनशाखामूलो वर्तते । धर्मसूत्रग्रन्थालोचनेन, विदितं सञ्जायते यद्, धर्मसूत्रकाराणाम् अभिमतमिदं यत्, कस्मिन्नपि विषये ‘धर्मोऽयम्' इत्येतत्कथनं न तावत् सम्भवं यावच्छ्रुतिः नानुसन्धीयते । धर्मसूत्रकारास्तत् सर्वमपि प्रतिवदन्ति यदस्ति श्रुतिविरुद्धम् । धर्मविदो धर्मं चतुर्षु भागेषु विभजन्ते — साधारणधर्मो दान-तपो-यज्ञ-भेदेन त्रिविधः स्मृतः। अर्थदान-ब्रह्मदानअभयदान-भेदेन दानमपि तत्र त्रिविधम्। तपोऽपि शरीरतपो, मानसतपो वाक्तपो भेदेन त्रिधाऽस्ति । यज्ञस्य सन्ति अष्टादश भेदाः। तत्र नित्य-नैमित्तिक-काम्य-आध्यात्म-आधिदैव-आधिभूतभेदैः कर्मयज्ञः षड्वधः प्रोक्तः । उपासनायज्ञश्च नवविध उक्तः निर्गुणोपासना, सगुणोपासना, अवतारोपासना, ऋषिपितृदेवतोपासना, भूतप्रेतासुराद्युपासना, मन्त्रयोगः, हठयोगः, लययोगः, राजयोगश्च। श्रवण-मनन-निदिध्यासनभेदेन ज्ञानयज्ञस्त्रिप्रकारकः प्रतिपादितः। इत्थं हि अष्टादशविधा यज्ञाः भवन्ति । दानतपोयज्ञानां संख्यायाः सङ्कलनेन चतुर्विंशतिभेदाः सञ्जायन्ते । एषां हि संख्या सात्त्विकत्वादिगुणत्रयत्वात् त्रिगुणीकरणेन द्विसप्ततित्वं याति । विशेषधर्मो भवति अधिकारिविशेषाणां कृते । तथा हि पुरुषस्य कृते पुरुषधर्मो नार्याः कृते नारीधर्मः । गार्हस्थस्य कृते प्रवृत्तिधर्मः । संन्यासिनां कृते निवृत्तिधर्मः । एवमेव ब्राह्मण-क्षत्रिय-वैश्यादीनां कृते पृथक् पृथग् धर्मो य उक्तः सो विशेषधर्म इत्युच्यते । असाधारणधर्मस्य विलक्षणताऽन्यैवास्ति । असाधारणधर्मार्थं विशेषयोगशक्तिरात्मबलश्चापेक्ष्यते । न साधारणा मनुष्यास्तदधिकारिणो भवितुमर्हन्ति । विश्वामित्र-द्रौपदी-प्रभृतयो हि विरला जनास्तदधिकारिणः पुरा अजनिषत । आपद्धर्मस्यापि चमत्कारोऽन्य एव । स धर्मो भावप्रधानः । विपदि निपत्य धर्मस्य लक्षणं मनुः एवञ्चचकार - 'धृतिक्षमादमोऽस्तेयं शौचमिन्द्रियनिग्रहः॥ धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्॥' यद्यपि धर्मजिज्ञास्यमानानां प्रमाणं परमं श्रुतिस्तथापि मनुः एवमप्याह - 'वेदः स्मृतिः सदाचारः स्वस्य च प्रियं आत्मनः। एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम्।।' श्रुतिमूलो हि धर्मो न कश्चिद्द्वेष्टि । अत एव धर्माचार्याः प्राहुः - 'श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्॥ अात्मनः प्रतिकूलानि परेषां न समाचरेत्॥' धर्मस्योपादेयत्वं महनीयत्वञ्चेत्थं गीतं धर्मज्ञैः - 'धर्मो विश्वस्य जगतः प्रतिष्ठा लोके धर्मिष्ठं प्रजा उपसर्पन्ति। धर्मेण पापमपनुदति धर्मे सर्वं प्रतिष्ठितं तस्माद्धर्मं परमं वदन्ति।।' व्यासो धर्मस्याहेयत्वे प्राह - 'न जातु कामान्न भयान्न लोभाद् धर्मं त्यजेज्जीवितस्यापि हेतोः। नित्यो धर्मः सुखदुःखे त्वनित्ये जीवो नित्यो हेतुरस्य त्वनित्यः॥' धर्मस्य निषेवणीयत्वं कियदुपकारकृदित्यत्र व्यास एवमभिदधाति — 'ऊर्ध्वबाहुविरौम्येष न कोऽपीहि शृणोति माम्। धर्मादर्थञ्च कामश्च तं धर्म किल सेवसे।' धर्मं संरक्ष्य न कोऽपि कदाऽप्यवसीदति, तस्मादेव कारणाद् वेदम् अनूच्य अाचार्योऽन्तेवासिनमनुशास्ति – ‘धर्म चर, धर्मान्न प्रमदितव्यम्।' धर्मसूत्रेषु प्राचीनतमोऽयं ग्रन्थोऽस्ति । अस्योल्लेखो गोभिलेन स्वकीये गृह्यसूत्रे कृतोऽस्ति । बौधायनधर्मसूत्रे अस्माद्धर्मसूत्रात् प्रायश्चित्तविषयकं विचारमपि सङ्कलितम् । ग्रन्थेऽस्मिन् 28 अध्यायाः सन्ति । अत्र वर्णधर्म-राजधर्म-नित्यकर्मप्रायश्चित्तादीनां विशिष्टं प्रतिपादनमस्ति । शङ्कराचार्य-कुमारिल-मेधातिथिप्रभृतयो विद्वांसः अस्य ग्रन्थस्य निर्देशं कृतवन्तः । अस्य आविर्भावकालः 600 वि0 पूर्वत: 400 वि0 पर्यन्तं मन्यते। हरदत्तेन स्वव्याख्यया सूत्रमिदं सरलं कृतम्। आचार्य-मस्करी-महोदयस्त्वस्य ग्रन्थस्य बोधगम्यं भाष्यं लिलेख। बौधायनकल्पसूत्रस्यांशमात्रम् एवायं ग्रन्थोऽस्ति । अस्य धर्मसूत्रस्य चत्वारः प्रश्नाः सन्ति । प्रथमप्रश्ने ब्रह्मचर्य-शुद्धाशुद्धविचार-राजकीयविधि-अष्टविधविवाहादीनां विषयाणां वर्णनमस्ति। द्वितीयप्रश्ने-प्रायश्चित्त-उत्तराधिकार-अाश्रमव्यवस्था-गार्हस्थ्यधर्म-श्राद्धादीनां विषयाणां विवरणमस्ति । तृतीयप्रश्ने संन्यासधर्म-चान्द्रायणप्रभृतीनां व्रतानां वर्णनं प्राप्यते। चतुर्थप्रश्ने काम्यसिद्ध्यादीनां वर्णनमस्ति ।तैत्तिरीयशाखायाः बौधायनकल्पसूत्रं कल्पसाहित्यस्य इतिहासेषु प्राचीनतममस्ति। तैतिरीयसंहितायाः टीकाकृता भास्करमिश्रेण स्वीयां टीकायामस्य बौधायनस्य नाम्नोल्लेखः कृतोऽस्ति। 'प्रणम्य शिरसाऽऽचार्यान् बौधायनपुरःसरान्। व्याख्यैषाऽध्वर्युवेदस्य यथाबुद्धि विधीयते।।' डॉ0 व्यूलर-मतेनायं विद्वान् दक्षिणभारतीयः आसीत्। किञ्च केचन तम् उत्तरभारतीयत्वेन अपि अङ्गीकुर्वन्ति। अस्य मतानुसारेण आर्यावर्त्तस्य सीमानिर्देशो द्रष्टव्यः - 'प्राग्दर्शनात् प्रत्यक्कालिकवनाद् दक्षिणेन हिमवन्तमुदक् पारियात्रमेतावद् अार्यावर्त्तम्। तस्मिन् य आाचारः प्रमाणम्॥' हिरण्यकेशीगृह्यसूत्रेऽपि सीमन्तोन्नयनप्रसङ्गे गङ्गायारुल्लेखः इति तर्कः - 'सोम एव नो राजेत्याहुः ब्राह्मणीः प्रजाः॥ विवृतचक्रा अासीनास्तीरे तुभ्यं गङ्गे॥' कल्पसूत्रमिदम् आपस्तम्बकल्पसूत्रनाम्ना अपि ख्यातमस्ति। डा0 ब्यूलर-महोदयमतानुसारेण आपस्तम्बोऽयं दाक्षिणात्य आसीत् । कथनमिदं प्रमाणयितुमनेन धर्मसूत्रस्य अन्तरङ्गप्रमाणम् उद्धृतम् – 'उदीच्यवृत्तिश्चेदासनगतेषूदपात्रानयनम्'। किञ्च अन्ये तस्य समर्थनं न कुर्वन्ति। अापस्तम्बगृह्यसूत्रे वीणावादनकाले मन्त्रद्वयस्य गानस्य विधानमस्ति - 'योगन्धरिरेवं नो राजेति साल्वीरवादिषुः। विवृतचक्रा आसीनास्तीरेण यमुने तव॥ सोम एव नो राजेत्याहुर्ब्राह्मणीः प्रजाः। विवृतचका आसीनास्तीरेणासौ तव॥' अस्य प्रथमे मन्त्रे यमुनातटवासिनां साल्वदेशीयप्रजानामुल्लेखः ऐतिहासिकमहत्त्वं रक्षति इथि तर्कः। आधुनिक-पञ्जाब-प्रदेशे एव तदा साल्वदेशः आसीत्। पाणिनिः साल्वदेशस्योल्लेखं राजशासितजनपदस्वरूपे एव कृतवानस्ति । 'साल्वावयव-प्रत्यग्रथकलकूटाश्मकादिञ्’। कतिपयानाम् एतादृशानाम् अवयवानामुल्लेखो नामोल्लेखपूर्वकं काशिकायां कृतवान् - 'उदुम्बरास्तिलखला भद्रकारा युगन्धराः। भूलिङ्गाः शरदण्डाश्च साल्वावयवसंज्ञिताः॥' एभिः प्रमाणैः आपस्तम्बस्य जन्मस्थानमुत्तरभारतम् अनुमीयते। अस्याः शाखायाः कल्पसूत्रस्य द्वावेव प्रश्नौ स्तः । ग्रन्थोऽयं स्वतन्त्र इत्यपि वक्तुं नोचितमस्ति । ग्रन्थोऽयम् आपस्तम्बधर्मसूत्रस्यैव संक्षिप्तं प्रवचनमस्ति । अयं हि विद्वान् आपस्तम्बधर्मसूत्रादेव शताधिकमन्त्राणामवतरणं स्वग्रन्थे कृतवान् । अस्य सूत्राणां पाठः पाणिनिकृते विशेषोऽनुकूलोऽस्ति । अस्य टीकाकारो महादेवः स्वभाष्ये अनेकावश्यकविषयाणां वर्णनमकरोत् । तेन हि भाष्यमिदमत्युपादेयं सङ्ग्राह्यश्चाभवदिति । धर्मसूत्रकारेषु महर्षिवसिष्ठस्य स्थानमत्युच्चं प्रतिष्ठितञ्चास्ति । आकारेण स्वल्पकायः सन्नपि गुणे विपुलकायोऽस्ति ग्रन्थोऽयम् । ग्रन्थेऽस्मिन् त्रिंशदध्यायाः सन्ति । ग्रन्थेऽस्मिन् स्त्रीधर्म-श्राद्ध-अशौच-विष्णुमूर्त्तिप्रतिष्ठा-विष्णुपूजनादीनां विषयाणां विशिष्टं वर्णनमस्ति । अस्मिन् धर्मसूत्रे वैखानसस्मृतिसूत्रस्य अष्टम-नवम-दशमप्रश्नाः सन्ति । त्रयः प्रश्नाः मिलित्वैवेमं ग्रन्थं निष्पन्नं कुर्वन्ति । अाश्रमाणां वर्णानाञ्च विशदं विवेचनमेवास्य ग्रन्थस्य महती विशिष्टताऽस्ति । वानप्रस्थ-संन्यास-गृहस्थाद्याश्रमाणाम् अवान्तरप्रकारकस्य एतादृशं विशदं वर्णनम् अत्रोपलब्धं भवति यद्, अन्यत्र धर्मशास्त्रान्तरे दुर्लभमस्ति । सङ्करजातीनामप्यत्र विशिष्टप्रकारकं वर्णनम् उपलब्धं भवति, किञ्च राज्ञः कर्त्तव्यं, न्यायस्य विधानं, श्राद्धस्यानुष्ठानञ्चादीनां धर्मशास्त्रेषु नियमतः प्राप्तविषयाणामत्र वर्णनस्य सर्वथाऽभावोऽस्ति । अस्याङ्ग्लानुवादः सम्पादनञ्च डाँ0 कैलेण्डेन कृतम् । इदमेवैकं धर्मसूत्रमस्ति यत् कस्यापि मानवग्रन्थकारस्य रचना न भूत्वा व्योत्पत्तौ श्रद्धां सन्दधाति । अस्मिन् गद्यात्मकसूत्राणां तथा पद्यानामेकत्र सन्निवेशोऽस्ति । अस्य स्वरूपस्य विषये पर्याप्तमतभेदोऽस्ति । मनुस्मृत्या सहास्य सूत्रस्य सम्बन्धः तथा पौर्वापर्यविप्रतिपत्तेविषयश्चास्ति । अस्य धर्मसूत्रस्य 160 श्लोकाः मनुस्मृतौ अक्षरशो लभन्ते। विष्णुधर्मसूत्रगताः श्लोकाः मनुस्मृतेः श्लोकानां छायामनुहरन्ति। एतादृश्या तुलनया धर्मसूत्रमिदं मनुपूर्ववर्तिनं मन्यन्ते । परमियतैव सादृश्येन परवर्त्तिता नियमस्यैव पूर्ववर्त्तिता नियमस्यापि कत्तुं शक्यत्वेन निश्चयस्य कस्यापि कर्त्तुमशक्यत्वात् । एतेषां धर्मसूत्राणामतिरिक्तं शङ्खलिखितस्य धर्मसूत्रमप्युपलब्धमस्ति । विष्णुधर्मसूत्रस्य आङ्ग्लानुवादेन सहास्य सम्पादनं प्रकाशनञ्च कोलकाता-नगरीतः 1880 ईश्वीये जाली-महोदयेन कृतम् ।
{ "source": "wikipedia" }
भारतीय प्रौद्यौगिकी संस्थानम् बाम्बे भारतस्य मुम्बै नगरे स्थितः एकः तान्त्रिक महाविद्यालयम् अस्ति। विद्यालयम् विश्व संस्थानस्य शैक्षणिक, वैज्ञानिक, सांस्कृतिक संस्थानम्, सोवियट् संघस्य च साहाय्यात् स्थापितः अस्ति।
{ "source": "wikipedia" }
ठाणेमण्डलं महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं ठाणे इत्येतन्नगरम् । महाराष्ट्रराज्ये उत्तरदिशि मण्डलमिदं विद्यते । ठाणेमण्डलस्य विस्तारः 9,558 चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि अहमदनगरमण्डलं, पुणेमण्डलं च, पश्चिमदिशि अरबी समुद्रः, उत्तरदिशि गुजरातराज्यं, दादरा नगर हवेलीकेन्द्रशासितप्रदेशश्च, दक्षिणदिशि मुम्बईनगरं, रायगडमण्डलं च अस्ति । अस्मिन् मण्डले 2576 मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अत्र द्वे प्रमुखनद्यौ स्तः । ते उल्हास, वैतरणा च । मण्डलेऽस्मिन् पूर्वदिशि सह्याद्रिपर्वतावलि: वर्तते । मण्डलस्य पश्चिमदिशि 112 कि.मी.मित: सागरतट: अस्ति । मण्डलेऽस्मिन् सामान्यत: उष्णं, आर्द्रं च वातावरणं भवति । ठाणेमण्डलस्य जनसङ्ख्या 1,10,60,148 अस्ति । अस्मिन् 58,65,078 पुरुषा:, 5195070 महिला: च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे 1157 जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 1157 जनाः । 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 36.01% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-886 अस्ति । अत्र साक्षरता 84.53 % अस्ति । मण्डलेऽस्मिन् 77% जना: नगरेषु निवसन्ति । मण्डलपरिसरोऽयं प्राचीने 'अपरान्त' प्रदेशे समाविष्ट: आसीत् । परशुराम:, पाण्डवा: अत्र निवासं कृतवन्त: इत्येवं कथ्यते । पाण्डवकाले यत् शूर्पारकम् आसीत् तदेव अद्यतनं सोपारानगरम् इति कथ्यते । मण्डलपरिसरे मौर्य-शिलाहार-बिम्ब-यादव-बहमनी-पोर्तुगाली-मुघल-मराठाशासकानाम् आधिपत्यमासीत् । मराठाशासकेभ्य: परिसरोऽयम् आङ्ग्लाधिपत्ये गत: । 1947 तमे वर्षे स्वतन्त्रभारते अस्य समावेश: जात: । 'कल्याणचा खजिना' कल्याण-कोशलुण्ठनं, 'वसईचा वेढा' वसईकोटव्यूह:, साष्टी इत्यत्र आधिपत्यं इत्यादय: शिवाजीमहाराजस्य जीवनकाले घटिता: ऐतिहासिकप्रसङ्गा: अत्रस्था: एव । तण्डुल:, हरितशाकानि, पुष्पाणि, नारिकेल:, कदलीफलं, 'चिकू', रागिका, 'वरई' इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति । 112 कि.मी.मितः सागरतट: वर्तते मण्डलेस्मिन् अत: मत्स्यव्यवसाय: अपि अत्रस्थजनानां प्रमुखोपजीविकासाधनम् । 2635 मत्स्य-शीतनिक्षेपणकेन्द्राणि सन्ति अत्र । मण्डलमिदं महाराष्ट्रराज्ये उद्योगक्षेत्रे तृतीयक्रमाङ्के तिष्ठति । मण्डलस्य दक्षिण-पश्चिमपार्श्वयो: उद्यमानां केन्द्रीकरणं दृश्यते । पालघर उपमण्डलस्य 'तारापुर' इत्यस्मिन् स्थाने महाराष्ट्रराज्यस्य प्रप्रथम अणु-ऊर्जाप्रकल्प: प्रचलति, आभारतं प्रसिद्धश्च । केन्द्रसर्वकारानुशासित-स्फोटकास्रनिर्माणोद्यम: अम्बरनाथ इत्यस्मिन् उपमण्डले वर्तते । अस्मिन् मण्डले पञ्चदश-उपमण्डलानि सन्ति । तानि- मण्डलस्य अस्य शहापुर, मुरबाड, वाडा, जव्हार, मोखाडा, डहाणू, विक्रमगड, तलासरी इत्येतानि उपमण्डलानि ग्रामीणानि सन्ति । ग्रामीणभागे आदिवासिजनजातीनां प्राचुर्यम् अस्ति । तेषां विशिष्टा संस्कृति: वर्तते । 'वारली' आदिवासिजना: ठाणे मण्डलस्य तलासरी, डहाणू, जव्हार, मोखाडा इत्येतेषु उपमण्डलेषु अधिका: निवसन्ति । कातकरी, ठाकूर, धोडिआ, दुबळा, ढोर, कोळी, महादेव कोळी इत्येता: जनजातय: मण्डलेऽस्मिन् विद्यन्ते । ठाणे, कल्याण, उल्हासनगर, अम्बरनाथ, भिवण्डी, वसई, पालघर इत्येतानि उपमण्डलानि नगरविभागे समाविष्टानि । एतेषां नगरविभागां मुम्बईनगरसामीप्यात् मुम्बईनगरस्य संस्कृत्या:, आधुनिकीकरणस्य च प्रभाव: अत्र दृश्यते । सर्वस्थानेषु विकासार्थं शिक्षण-जीविका-कृषिसुविधाविषये योजना: प्रचलन्ति । मण्डलमिदं बहूनां विभूतिनां कार्यस्थलं, जन्मस्थलं वा आसीत् । यथा आचार्य भिसे, आचार्य चित्रे एतयो: शिक्षणकार्यं बोर्डी इत्यस्मिन् स्थाने वर्तते । महाविद्यालयशिक्षणस्य अस्मिन् परिसरे आनयने एतयो: महत्त्वपूर्ण: सहभाग: अस्ति । अनुताई वाघ, ताराबाई मोडक एतयो: बालशिक्षणविषयकं कार्यं, प्रयोगा: च अत्र कोसबाड इत्यस्मिन् स्थाने आसन् । इदानीम् अपि एतयो: निवासस्थानं, पाठशाला च द्रष्टुं शक्नुम: । गोदावरीबाई परुळेकर इति 'मार्क्स्-वादी' आन्दोलनकर्त्री, आदिवासिजनान् एकत्रीकृत्य नेतृत्वम् ऊढवती । अन्धेर गुरुजी इत्यपि एक: आदिवासिनां शिक्षणार्थं यतितवान् । स: अपङ्ग: आसीत् परं शिक्षणार्थं आदिवासिक्षेत्रेषु बहु कार्यं कृतवान् । जयन्तराव पाटील, पद्मश्री हरिश्चन्द्र पाटील, चिन्तामणराव पाटील इत्येतै: राष्ट्रियस्तरे कृषिक्षेत्रे अस्मात् स्थानात् बहु कार्यं कृतम् । अस्मात् मण्डलात् 86 स्वातन्त्र्यसैनिका: स्वातन्त्र्यसङ्ग्रामे भागम् ऊढवन्त: । अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
{ "source": "wikipedia" }
लातूरमण्डलं महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति लातूर इत्येतन्नगरम् । भूकम्पग्रस्तप्रदेशः एवं कुप्रसिद्धिः जाता अस्य मण्डलस्य ।ऐतिहासिकदृष्ट्याऽपि इदं मण्डलं समृद्धम् । मराठावाडाविभागे अत्रैव शिक्षणसुविधानां प्राचुर्यं दृश्यते । सहकारिक्षेत्रस्य विकासः अपि अत्र जातः । व्यापारिकेन्द्रत्वेन अपि लातूरनगरस्य विस्तारः जातः । कर्णाटकराज्यम् अस्य मण्डलस्य पूर्वदिशि एव अस्ति अतः मण्डलेऽस्मिन् कन्नडभाषया सह तत्प्रदेशसंस्कृतेः अपि प्रभावः दृश्यते । महाराष्ट्रराज्यस्य प्रायः सम्पूर्णप्रदेशः पूर्वतनदण्डकारण्यम् आसीत् इति इतिहासकाराणाम् अभिप्रायः । अस्मिन् प्रदेशे सम्राट्-अशोकस्य आधिपत्यम् आसीत् । अनन्तरं सातवाहन-आधिपत्ये एषः प्रदेशः अतीव सम्पन्नः आसीत् इति कथ्यते । शक-चालुक्य-देवगिरिययादव-बहमनीवंशीयानां राज्ञाम् आधिपत्यम् अत्रासीत् । अनन्तरं निजाम-आधिपत्ये हैदराबाद-संस्थाने अयं प्रदेशः समाविष्टः । 1960 तमे वर्षे यदा महाराष्ट्रराज्यस्य स्थापना कृता तदा लातूरपरिसरः उस्मानाबादमण्डले समाविष्टः अभवत् । 1999 तमे वर्षे प्रशासनसौकर्यार्थं लातूर इति विभिन्नं मण्डलं कृतं सर्वकारेण । लातूरमण्डलस्य विस्तारः 7,157 चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि कर्णाटकराज्यं, पश्चिमदिशि बीडमण्डलम्, उत्तरदिशि नान्देडमण्डलं, परभणीमण्डलं च, दक्षिणदिशि उस्मानाबादमण्डलम् अस्ति । अस्मिन् मण्डले 802.4 मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । मण्डलेऽस्मिन् माञ्जरा, तेरणा, मन्याड, तावरजा, धरणी च प्रमुखनद्यः प्रवहन्ति । अस्मिन् मण्डले उपजीविकारूपेण प्रमुखत्वेन कृषिः जनैः क्रियते । आमहाराष्ट्रं यथा 'खरीप', 'रब्बी' इति द्विप्रकारका सस्योत्पादनपद्धतिः अस्ति, तथैव अत्रापि । यवनालः अस्य मण्डलस्य प्रमुखकृष्युत्पादनम् अस्ति । यवनालस्य उत्पादनम् आसंवत्सरं प्रचलति । तथा 'खरीप'-ऋतौ कार्पासः, मुद्गः, 'तूर', तण्डुलः, कलायः च सस्योत्पादनानि सन्ति । रब्बी-ऋतौ गोधूमः, चणकः, कुसुम्भं, शमा इत्यादीनि सस्योत्पादनानि उत्पाद्यन्ते । लातूरमण्डलस्य जनसङ्ख्या 24,55,543 अस्ति । अत्र 52% पुरुषाः 48% महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर् 343 जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 343 जनाः । 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 22.31% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-935 अस्ति । अत्र साक्षरता 79.03% अस्ति । अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- 30 सप्टेम्बर् 1993 दिनाङ्के लातूरमण्डले भूकम्पः अभवत् । 'रिक्टर् स्केल' अनुसारं 6.3 अस्य कम्पस्य प्रमाणमासीत् परम् अत्र प्रायः मृतानां सङ्ख्या 30,000 आसीत् । एवं कथ्यते यत् अत्र स्थापितानां गृहाणां स्थापत्यं सम्यक् नासीत्, यतो हि भूकम्पस्य कम्पनान् सोढुं तानि न अशक्नुवन् । अतः एतावती हानिः जाता । एतस्य परिणामाः लातूर, बीड, उस्मानाबाद इत्येतेषु मण्डलेषु अदृश्यन्त । सम्पूर्णे मराठवाडाविभागे अस्य भूकम्पस्य परिणामाः अनुभूताः । अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
{ "source": "wikipedia" }
बारा राजस्थानराज्ये स्थितस्य बारामण्डलस्य केन्द्रम् अस्ति ।
{ "source": "wikipedia" }
नाशिकमण्डलं महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं नाशिक इत्येतन्नगरम् | मण्डलमिदम् ऐतिहासिकदृष्ट्या महत्त्वपूर्णं यतो हि राम-सीता-लक्ष्मणानाम् 14 वर्षीयवनवासस्य मुख्यस्थानं नाशिक आसीत् इति मन्यते । नाशिकमण्डलस्य विस्तारः 15,530 च.कि.मी. अस्ति । अस्य मण्डलस्य पूर्वदिशि जळगावमण्डलं, पश्चिमदिशि गुजरातराज्यम्, उत्तरदिशि धुळेमण्डलं, दक्षिणदिशि अहमदनगरमण्डलम् अस्ति । अस्मिन् मण्डले 2,600 मि.मी. वार्षिकवृष्टिपातः भवति । अस्य मण्डलस्य प्रमुखा नदी गोदावरी नदी । नाशिकमण्डलं परितः नव-पर्वतानां आवलिः अस्ति । 'बाजरी', गोधूमः च उत्पाद्यते सर्वाधिकम् । हरितशाकानि, पलाण्डुः, इक्षुः, द्राक्षाफलम् अपि कृष्युत्पादनानि सन्ति अत्र । अत्रस्थाः कृषकाः पशुपालन-पुष्पनिर्मिति-कुक्कुटपालनव्यवसायेषु अपि रताः । नाशिकमण्डलस्य जनसङ्ख्या 61,07,187 अस्ति । अस्मिन् 31,57,186 पुरुषाः, 29,50,001 महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. 393 जनाः निवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. 393 जनाः । 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 22.30% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-934 अस्ति । अत्र साक्षरता 82.31% अस्ति । मण्डलविषये नैकाः पुराणकथाः सन्ति । अस्य मण्डलस्य नामविषयेऽपि तथैव । रामायणे लक्ष्मणः शूर्पणखायाः नासिकां यस्मिन् स्थाने अच्छिनत् तत् स्थानमिदम् । एनां कथाम् अनुसृत्य एव मण्डलस्य नाम 'नाशिक' अभवत् इति जनाः मन्यन्ते । संस्कृतसाहित्यकारेषु वाल्मीकिः, कालिदासः, भवभूतिः इत्यादयः नाशिकमण्डले स्थित्वा लेखनम् अकुर्वन् । मोघलाधिपत्यकाले स्थानस्य नाम 'गुल्शनाबाद्' इति कृतमासीत् । पेशवे-आधिपत्यकाले राघोबादादा इत्यनेन पुनः 'नाशिक' इति नामपरिवर्तनं कृतम् । पेशवे-आङ्ग्ल-आधिपत्यकाले मण्डलेऽस्मिन् बहुस्थापत्यनिर्मितिः कृता । 1869 तमे वर्षे एषः प्रभागः मण्डलत्वेन स्थापितः । तदानीमेव अस्य मण्डलस्य व्यापारकेन्द्रत्वेन अपि प्रतिष्ठापना जाता । रेलमार्गः निर्मितः । ततः नाशिकमण्डलस्य समृद्धिः वर्धमाना एव अस्ति । अस्मिन् मण्डले पञ्चदश उपमण्डलानि सन्ति । तानि- मण्डलेऽस्मिन् जनाः कृषि-उद्यमेषु रताः सन्ति । कृषिसम्बन्धिताः व्यवसायाः, शर्करा-निर्मिति-उद्यमाः च सन्ति अत्र । मण्डलेऽस्मिन् 174 मध्यम-बृहदुद्यमाः सन्ति । मण्डलेऽस्मिन् बहूनि धार्मिकस्थलानि सन्ति, जनाः धार्मिककार्येषु अपि रताः सन्ति । कस्मिंश्चित् ग्रामीण-स्थाने जनाः पटनिर्माणोद्योगेन उपजीविकां प्राप्नुवन्ति । इदानीं तु एतैः जनैः निर्मिताः पटाः आन्तर्राष्ट्रियव्यापारेऽपि विक्रीयन्ते । मण्डलेऽस्मिन् 'येवले' इति 'पैठणी'-शाटिकानिर्माणस्थानम् आमहाराष्ट्रं प्रसिद्धम् । बहूनां व्यक्तिविशेषाणां जन्मस्थलं, कार्यस्थलं च इदं मण्डलम् । यथा पं.विष्णु दिगम्बर पलुस्कर-येन सङ्गीतक्षेत्रे बहुकार्यं कृतम् ; दादासाहेब फाळके - भारतीय चित्रपट-व्यवसायस्य संस्थापकः अयम् । वि.वा. शिरवाडकर-मराठी-साहित्यक्षेत्रे ख्यातानाम लेखकः । अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति ।
{ "source": "wikipedia" }
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य चतुस्त्रिंशत्तमः श्लोकः । आचार्याः, पितरः, पुत्राः, तथा, एव, च, पितामहाः । मातुलाः, श्वशुराः, पौत्राः, श्यालाः, सम्बन्धिनः, तथा ॥ येषाम् अर्थे राज्यं भोगाः सुखानि च नः काङ्क्षितं ते इमे आचार्याः पितरः पुत्राः तथा एव पितामहाः मातुलाः श्वशुराः पौत्राः श्यालाः तथा सम्बन्धिनः प्राणान् धनानि च त्यक्त्वा युद्धे अवस्थिताः । आचार्याः = गुरवः येषां कृते राज्यं भोगाः सुखानि वा अपेक्षितानि आसन् ते एव बान्धवाः अधुना स्वप्राणान् धनानि च त्यक्तुम् उद्युक्ताः सन्तः युद्धे उपस्थिताः सन्ति । उपस्थिताश्च एते मम आचार्याः, पितरः, पुत्राः, पितामहाः, मातुलाः, श्वशुराः, पौत्राः, श्यालाः, बान्धवाश्च सन्ति । विषयस्य सुबोधाय मिलित्वा दत्तम् ।
{ "source": "wikipedia" }
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य त्रिंशतितमः श्लोकः । प्रह्लादः च अस्मि दैत्यानां कालः कलयताम् अहम् मृगाणां च मृगेन्द्रः अहं वैनतेयः च पक्षिणाम् ॥ 30 ॥ दैत्येषु प्रह्लादः च अस्मि । कलयत्सु अहं कालः । मृगेषु च अहं मृगेन्द्रः । पक्षिषु च वैनतेयः । दानवेषु अहं प्रह्लादः अस्मि । गणनं कुर्वत्सु अहं समयः, मृगेषु मृगराजः सिंहः, पक्षिषु पक्षिराजः गरुडश्च अस्मि ।
{ "source": "wikipedia" }
यद्यापीदं बहुधा प्रतिपादितमस्ति यत् करकन्दुकक्रीडाऽतीव प्राचीनकालात् प्रचलिता वर्तते इति । परं साम्प्रतिक्यां स्थितावेतां क्रीडां सन् 1865 तमे वत्सरे ‘विलियम् सीं मोरगनः’ अमेरिकायां मेसेसशुट’ नगरस्थे ‘होलीओक्’ नाम्नि स्थान आविरकरोत् । तदानीं बृहत्प्रकोष्ठेषु क्रीडन्-योग्या अन्तर्गृहक्रीडा अतिन्यूना आसन्,अत एव सर्वप्रथमेषा क्रीडाऽपि महत्सु प्रकोष्ठेषु क्रीडयते स्म ततः परं तत्रत्यया ‘यंगमेन क्रिश्चिन एसोसिएशन्’-नामिकया संस्थया क्रीडेयमात्मसात्कृता नियमाश्च विधिवद निर्मिताः । इयं संस्थाऽमेरिकायां बहुषु स्थानेषु लोकप्रीतिपात्री समभवदतस्तत्रेयं क्रीडाऽपि लोकप्रियतामार्जयत् । अमेरिकात् इयं क्रीडा, इंग्लेण्डमायाता ततश्च तदीयेषूपनिवेशेष्वस्याः पूर्णरुपेण प्रचारोऽभवत् । तत्रेयं क्रीडा क्रीडाङ्गणे क्रीडितुं प्रावर्तत । अस्यां केवलमेकस्या जालिकायास्तथा कन्दुकस्यावश्यकता भवति । कन्दुकस्याकृतिः सामान्यकन्दुकाद् मनाक् स्थूला भवति । अतोऽस्याः क्रीडनेऽधिकमात्रायां धनव्ययापेक्षाऽपि न भवति न च क्रीडाक्षेत्रमप्यतिविस्तृतं काम्यते । एतैः कारणैरेव भारतेऽपि क्रीहेयं लोकप्रिया जाता । अत्रत्येषु ग्रामेष्वपि क्रीडेयं सोत्साहं क्रीडयते । कर-कन्दुक-क्रीडेयं विशाले भवनेऽथवा निरावृतक्षेत्रे क्रीडितुं शक्यते । किञ्चप्राङ्गणे विविधा रेखा आकृष्य क्षेत्रस्य विभागा अपि क्रियन्ते येषामाधारेण क्रीडकानां दलद्वयं व्यवस्थाप्यते । मध्ये निबद्धया जालिकया परस्परं क्रीडकानां मध्ये कन्दुक-प्रक्षेपण प्रतिस्पर्धा भवति । अस्यां क्रीडायां पुरुषाः, महिलाः किंवा द्वावपि सम्मिश्ररुपेण, इत्यमेव बालक-बालिका अपि क्रिडन्ति । एतदनुसारं केचन क्षेत्रादिनिर्मितेर्नियमा अपि निर्घारिताः सन्ति, येषां परिचय इत्थं विद्यते- कन्दुक एवास्याः क्रीडाया मुख्यमुपक्रणम् । तत्र- यदि क्रीडकयाचनानुमत्यनन्तरमेकमिनटाभ्यन्तरमन्यः क्रीडार्थी नायाति किंवा परिवर्तनानुमतिं दलनेता ददाति तदा तददलमेकेनाङ्केन पराजितं भवत्याऽथवा विपक्षिदलं तत स्थाने क्रीडारम्भं कुरुते । क्रीडास्थल्यां गमनागमनाभ्यां पूर्वं मध्यस्थस्यानुमतिः सर्वथाऽऽवश्यकी। क्रीडारम्भे कन्दुकक्षेप्ता समारम्भ-स्थल्या बहिः स्थित्वैकेन ह्स्तेन कन्दुकमुत्प्लाव्य द्वितीयेन ह्स्तेन विपक्षस्य क्षेत्रे प्रक्षिपति । धावित्वाऽपीदं प्रक्षेपणं कर्तुं शक्यते परमन्त्यरेखाया निकटेऽवरोध आवश्यकोऽस्ति । ततः परं क्रीडाऽऽरभते । विपक्षक्षेत्र पतन्तं कन्दुकं कोऽपि स्प्रष्टुं न शक्नोति स च पतति तदा पुनरारम्भः पूर्ववदेव भवति । निरीक्षकस्येदं क्रर्तव्यं भवति यदेवं विधानेनाधिकः कालो न व्यतीयात् । जालिकाया उपरिभागाद् द्वितीयदलक्षेत्रे स्पर्शं विना विपक्षक्षेत्रे कन्दुको गच्छति तदा समारम्भक्षेपणं समुचितं मन्यते । एवं क्रीडाऽग्रे किमप्यङ्कनं यावत् प्रचलति । यदि समारम्भक्षेपादनन्तरं विपक्षिदलं कन्दुकं परावर्तयितुं न क्षमेत तदैकमङ्कनं भवति । कन्दुकस्य पार्श्वरेखातो बहिः पतनादेकं त्यक्त्वा तृतीयेऽवसरे क्रमेणोभयोरपि दलयोः क्रीडका समारम्भक्षेपणं कुर्वन्ति । तत्र द्वितीयवारं क्रमाङ्कद्वयशाली किं वा दक्षक्रीडकः समारम्भं करोति शेषाश्च क्रमेणा प्रवर्तन्ते । प्रक्षेपणकाले जालिकास्पर्शः मध्यरेखोल्लङ्घनम्, प्रक्षेपारम्भे निक्षेपाभावः, प्रक्षेपारम्भे तदीयरेखालङ्घनम्, युगपत कन्दुक्स्य द्विवारं स्पर्शः, कन्दुकस्य नीचैः प्रक्षेपणम्, पार्श्वरेखास्पर्शः क्रीडासमये शरीराङ्गस्य जालिकास्पर्शश्च त्रिटीनां कारणत्वेन परिगण्यन्ते । समारम्भक्षेपो यदि समुचितपद्धत्या भवति परं विपक्षिदलं तं यथारीत्या परिवर्तने समर्थं न भवति तदैकोङ्को दीयते तथा समारम्भकदलं तमङ्क जयति । 15 अङ्कविजयेन क्रीडा जीयते परं तत्रायं पणोऽस्ति यद विपक्षाद् न्यूनान्यूनौ द्वावङ्कावधिकं भवेताम् । यदि गणना 14-14 सञ्जायते तर्हि यावद् विजेतृदलं द्वावङ्कौ न प्राप्नुयात् तावत् क्रीडा प्रचलति । प्रतिचक्रानन्तरं मिनटद्वयस्य मध्यान्तरं तथा चतुर्थ -पञ्चमचक्रानन्तरं पञ्चमिनटात्मकं मध्यान्तरं क्रियते । अत्र क्रीडने सञ्चालको द्रष्टा च, तटस्थद्रष्टा निर्णायकश्च गणकः तथा द्वौ रेखा-पुरुषौ कार्यकर्तारौ भवन्ति । तत्र सञ्चालकः क्रीडां प्रवर्तयति तदीयो निर्णयश्चान्तिमो मन्यते । क्रीडका अन्ये कर्मचराश्चास्य निर्णयस्वीकरणे प्रतिबद्धा भवन्ति । अयं जालिकाया एकस्मिन् भागे स्थित्वा सर्वं पश्यति । द्वितीये भागे द्वितीयो द्र्ष्टाऽम्पायरः स्थित्वा सूक्ष्मेक्षिकया क्रीडाविधिं पश्यति निर्णयति च । गणकोऽङ्कगणनां लिखति तथेदमपि पश्यति यत्क्रीडितारो नियमान् पालयन्ति न वेति । रेखापुरुषौ द्वयोरपि कोणयोः पार्श्वे स्थित्वा कन्दुकप्रक्षेपारम्भे सहयोगं कुरुतः, सञ्चालकस्य समस्यां समादधतस्तथा कन्दुकपतनौचित्यं निरीक्षेते । करकन्दुक-क्रीडायां केचन विशिष्टाः शब्दा विद्यन्ते, येषां ज्ञानं विना क्रीडा-दर्शनेऽप्यानन्दोपलब्धिर्न भवति किं पुनः क्रीडने ? एते शब्दा आंगलभाषायाः सन्तोऽपि साम्प्रतं सर्वासु भाषासु रुढाः प्रतीयन्ते । यथा - इत्थमेव टाइम्-आउट, बाल-आउट टच्डबाल्, आल्टरनेशन, रोटेशन, सर्विस-फाल्ट डैड्बाल प्रभृतयः शब्दा अपि परिचेयाः सन्ति । इदं क्रीडनमति प्रसिद्धिबलाद् भूयो भूयो निरीक्षणपरीक्षणाभ्यां च बहुभिर्नियमैर्ग्रथितं विद्यते । क्रीडार्थिना क्रीडासु स्वयमुपस्थाय क्रीडित्वा च नियमानां वैविध्यं ज्ञातव्यं साफल्यं च प्राप्तव्यम् । अपातकन्दुकअभिनवक्रीडातरंगिणी
{ "source": "wikipedia" }
सर्दार वल्लभभाइपटेलअन्ताराष्ट्रिय-विमानपत्तनम्, भारतस्य गुजरातराज्यस्य आमेदावाद-गाम्धीमगरे च विमानपरिषेवा कुर्वन् आसन्, अन्तराष्ट्रियविमानपत्तनमरूपेन। एतद् विमानपत्तनं केन्दियआहमेदावादतः 9 कि.मि उत्तरदिशां हानसोले वर्तते। भारतदेशस्य प्रथमउपप्रधानमन्त्रीसर्दारवल्लभभाइपटेलमहोदयस्य नाम्नैव अभिधीयते। 2016-17 आर्थिकसम्वत्सरे,एतेन विमानवन्दरेन 7.4 मिलियन यात्रीनां 180 विमानेन परिषेवा प्रदत्तम्। येन आधारेन यात्रीपरिवहनाय एतद् भारतस्य अष्टमव्यास्ततमविमानपत्तनं आख्यां प्राप्तम्। एतद् विहाय ,एतद् विमानपत्तनम्, गोेएयार जेट एयारओयेज च इत्यनयो प्रतिविम्वनगरं भूत्त्वा कार्यं करोति। 2015 सम्वत्सरे ,भारतसर्वकारः एतद् विमानपत्तनस्य वेसरकारीकरणं कृतवान्। सम्प्रसारणं सीमावद्धता च इति कारणाय धोलाआन्तर्जातिकविमानपत्तनमेन प्रतिस्थापनं भवितुमर्हति। सर्दार वल्लभभाइपटेल अन्ताराष्ट्रिय-विमानपत्तनम् 1937 तमे वर्षे स्धापनं जातम्। तस्य शुभारम्भं जातं 26/01/1991 तमे दिनाङ्के। 2000 अव्दे, 23 मे एतद् अन्तराष्ट्रियविमानपत्तनमरूपेण श्रेणीवद्धं जातम्। 2010 तम वर्षे अन्तराष्ट्रियात्रीणां परिचालनाय नवनिर्मितटार्मिनाल इत्यस्य उद्वोधनं कृतम्।एतद्विहाय अस्मिन् विमानपत्तनमे सर्दारवल्लभभाइपटेलमहोदयस्य मूर्तिरुन्मोचनं जातम्।, यस्य उच्चता आसीत् 18 फुट इति। 2015 तमे वर्षे, एएआइ आहमेदावाद, चेन्नाइ, कोलकाता, जयजुर च इत्य्स्थाने वेसरकारीकरणप्रस्तावं आगतम्।2017 तमे वर्षे 21 मार्च इति दिनाङ्के, विमानपत्तनस्य पटले एकं 700 केडवुलउपिउत्पादनक्षमतायायाः सौरविद्युतकेन्द्रं शुभारम्भं जातम्। विमानपत्तनम् इदानीं चतुष्टार्मिनाल विशिष्चम्। यथा- गार्हस्थं, अन्ताराष्ट्रिकम्, द्वि टार्मिनाल च। एतद्एविहाय एकं पण्यसम्भारटार्मिनाल निमित्ताय अवशिष्ट टार्मिनाल इति। विमानपत्तनमे 45 पार्किं वे अस्ति। एतद्विहाय, अन्तारा्ष्ट्रियं, गार्हस्थं च अभयोः चत्वारि एरो-व्रिज अस्ति। अत्र नव टार्मिनाल 'चाङ्गि' इति विमानपत्तनस्य अनुकरणेन निर्मतम्।नवनिर्मितटार्मिनालमध्ये अर्धकिमि सुदिर्घं पादपथं अस्ति, यद् टार्मिनालद्वयोः संयुक्तं करोति इति।भारतस्य विमानपत्तनकतृपक्षः एकः नवप्रयुक्तिव्लकेव निर्माणं कृतवान, येन उड्डनस्य नियन्त्रणक्षमता उम्मतं करिष्यति एवञ्च सम्यगरुपेन उड्डयनं करिष्यति इति आशय। विमानउड्डयनपथम्- अस्य विमानपत्तनस्य एकम् उड्डयनपम् अस्ति, यस्य दैर्घं 3599 मिः। विमाननियन्त्रणनेटउयार्क- एतस्य विमानपत्तनस्य एकभागं आघुनिकरणं प्रचलन् अस्ति। अस्मिन् विषये -इति उद्घोषितम् ,एतद् नवनिर्मितं विमानपत्तनटाओयार-इति भविष्यति यस्या उच्चता भविष्यति 65 मिटार। टार्मिनल 1- एतद् 32 चेक- इन काउन्टार समन्वितं तथा 45000 मि़टार स्थानपरिमितम् अस्ति। टार्मिनाल 2- एतस्य उन्मोचनं जातं जुलाइमासस्य 4 दिनाङ्के। एवञ्च एतद् व्यवहार्थं 2010 तमे वर्षे सेप्टेम्वरमासस्य 15 दिनाङ्के उद्घाटितं जातम्। एतद् टर्मिनाल 2009 तमे वर्षे 'अन्तराष्ट्रिय स्ट्राकचाराल स्टिल डिजाइन अ्याओयार्ड' एवञ्च ''विशिष्टं स्टिल स्ट्राकचार' इति पुरष्कार द्वयं प्राप्तम्। अस्मिन् टार्मिनालमध्ये चत्वारि ए्यरोव्रिज एवञ्च 32 चेक-इन काउऩ्टार अस्ति। एतद् प्रायं 41000 वर्ग मिटारपरिमितम्। अस्मिन् टार्मिनालमध्ये एकस्मिन् समये प्रायशः 1600 जनाः धारयितुं शक्यते टार्मिनल 1 एतद् ''पोर्ट लाउञ्ज'' व्यावसायिकश्रेण्यां कृते अस्ति, एवञ्च प्रथमश्रेण्यां यात्रीणां कृते एकं 'प्रिमियाम लाउञ्च' अस्ति।इदानीं नुतनतया 51,975 वर्गमिटार अ्य़प्रनपरिमितं नव ए-321 एवञ्च चत्वारि एटिआर-72 वायुयानानि स्थातुं शक्यते। कार्गो टार्मिनाल- 2013-14 तमे छत्रे एतद् विमानवन्दरं स्वर्ण-रौप्यादि 51॰637 टन कार्गो हस्तान्तरं कृतम्। 60 प्रतिशतं कार्गों गार्हस्थ्य उतसतः आगच्छति। 2009 तमे वर्षे 3685 वर्गपरिमितं भूमिं गलितपण्यसम्भारस्य एकाय केन्द्रस्थापनाय एएआइतः ''गुजरात एग्रो इऩ्डस्ट्रिज कर्पोरेसन'' इत्यस्मिन् पार्श्वे सप्तवत्सरस्य कृते अस्थायीरूपेन दत्तवान्। तथापि सर्वोकारस्य योजनानुसारं ''एएआइ'' द्वारा परिचालितं अस्मिन् विमानपत्तनमे जुलाइ, 2014 तमवर्षपर्यन्तं तृतीयपक्षस्य ''सिपिसि''- व्यवहारयितुं न शक्यते इति। परन्तु 2014 तमवर्षानन्तरं असामरिकविमानपरिवहनप्रतिमन्त्रीनः एतद् शर्तं प्रत्याहारं भविष्यति इति, उद्धोषितम्।
{ "source": "wikipedia" }
विराटनगर महानगरमिदं नेपाल द्वितीय नगरम्। कोशी अञ्चल अवस्थितमिदं नगरं अतीव सुन्दरम्। अस्मात् नगरात् भारतस्य जोगवनी निकटतम नगरी।
{ "source": "wikipedia" }
नवद्वीप पश्चिमवङ्गराज्यस्य नदियामण्डले स्थितं एकं नगरम् । स्थानमिदं हिन्दुजनानां तीर्थस्थलरूपेण परिगण्यते । 1485 तमे वर्षे चैतन्य महाप्रभोः जन्म अत्रैव अभवत् । द्वादशशताब्द्यां सेनवंशस्य राज्यस्य राजधानी अपि नवद्वीप एव आसीत् । श्रीचैतन्य महाप्रभोः मातृभूमिः नवद्वीपः भगीरथी नद्याः पश्चिमे तटे स्थितः अस्ति । अयञ्च प्रदेशः पश्चिमबङ्गस्य नदियामण्डलस्य मुख्यनगरतः 20 कि.मी. दूरं स्थितः ।
{ "source": "wikipedia" }
हरदनहळ्ळि दोड्डेगौड देवेगौडः भारतस्य द्वादशः प्रधानमन्त्री आसीत् । देवे गौडः हासनमण्डलस्य होळेनरसीपुरोपमण्डलस्य हरदनहळ्ळि इति ग्रामे क्रि.श. 1933तमे वर्षे अजायत । अस्य मातुः नाम लक्ष्मीदेवम्मा, पिता दोड्डेगौडः। दोड्डे गौडस्य द्वे भार्ये आस्ताम् । प्रथमा भार्या ईरम्मा । अनया दोड्डेगौडः त्रीणि अपत्यानि प्राप्तवान् । अस्याः अकालमरणकारणेन द्वितीयां लक्ष्मीदेवम्माम् ऊढवान् । दोड्डेगौडः अनया द्वितीयया देवगौडः अक्कय्यम्म, बसवेगौड पुट्टम्मा इति अपत्यानि प्राप्तवान् । दोड्डेगौड: देवेगौडस्य जन्मनः अनन्तरं जातकं लेखितवान् । अयम् अग्रे राजनैतिकक्षेत्रे कीर्तिमान् भाविष्यति इति जातके आसीत् । देवेगौडस्य बाल्यकालः हरदनहळ्ळी इत्येतस्मिन् ग्रामे एव यापित: । देवेगौडस्य प्राथमिकविद्याभ्यास: हरदनहळ्ळि ग्रामस्य विद्यालये अभवत् । अनन्तरं माध्यमिकविद्याभ्यासं हळेकोटेविद्यालये कृतवान् । होळेनरसिपुरस्य पुरसभाविद्यालये प्रौढशाला शिक्षणं प्राप्तवान् । सः पठने अपि अग्रे आसीत् । क्रि.श. 1952तमे वर्षे हासने पालिटेक्निक् महाविद्यालयं प्रविश्य सिविल् इञ्जिनीरिङ्ग् डिप्लोमा कृतवान् । नायकत्वगुणः अनेन जन्मना एव प्राप्तः । अध्ययनस्य वर्षत्रयमपि विद्यार्थिसङ्घस्य अध्यक्षः आसीत् । तस्मिन् काले हरदनग्रामे डिप्लोमाशिक्षणं प्राप्तवान् जनः देवेगौड: एक: एव आसीत् । एतावद् अधीतवत: देवेगौडस्य कृते उन्नतकार्यमेव लभ्यते स्म किन्तु देवेगौड: पूर्वारभ्य अन्यस्य अधीन: भवितुं न इच्छति स्म । अत: स: सर्वकारीयकार्यालये इञ्जिनियरिङ्ग् कार्यं कर्तुं न इष्टवान् ।देवेगौड: डिप्लोमा इञ्जिनियर् भूत्वा उद्योगं कुर्वन् अपि कृषिकार्ये स्वस्य आसक्तिं रक्षितवान् आसीत् । एष: स्वस्य कुटुम्बस्य क्षेत्रम् उत्तमं कर्तुं बहु प्रयत्नं क्रतवान् । सर्वकारीयोद्योगतः प्राप्तं लाभं नारीकेलवाटिकायाः निर्माणाय व्ययितवान् । विद्यावान् एष: सर्वकाकारीयकार्यालये कार्यं कुर्वन् आनन्देन भवितुं शक्यते स्म किन्तु एष: क्षेत्रे, नारीकेलवाटिकायां च कार्यं कुर्वन् मण्णिन मग इति नाम प्राप्तवान् । उद्योगप्राप्तेः अग्रिमे वर्षे तन्नाम 1954तमे वर्षे मे मासे हासनस्य मुत्तिगे ग्रामस्य प्रमुखस्य पुत्र्या चेन्नम्मया सह विवाह: अभवत् । चेन्नम्मा दैवभक्ता सद्गृहिणी च । तयोः 6अपत्यानि - बालकृष्णः, रमेशः, रेवणणः, कुमारस्वामी च पुत्राः अनसूया, शैलजा च पुत्र्यौ । 962 तमे वर्षे राज्यस्य निर्वाचनम् आसीत् । तदा देवेगौडस्य राजनैतिकक्षेत्रीयगुरु: ए. जि. रामचन्द्रराय: होळेनरसीपुरक्षेत्रस्य अभ्यर्थी आसीत् । वय: अधिकः जात: इत्यतः स: स्वस्य आत्मीयः शिष्य: देवेगौड: अभ्यर्थी भवतु इति चिन्तितवान् । किन्तु काङ्ग्रेस्-वरिष्ठा: इदं न इष्टवन्त:। अत: देवेगौड: पक्षेतर-अभ्यर्थी भूत्वा विजयं प्राप्तवान् । 1962 तमे वर्षे देवेगौड: प्रथम वारं रज्यसभाया: कृते चितः अभवत् । तदा स्वस्य निर्भीतभाषणैः सवेर्षाम् अवधानम् आकृष्टवान् आसीत् । हारङ्गी-योजना, लघु-नीरावरीयोजना, हासन-मङ्गळूरुरैलमार्ग:, ग्रामीणगृहयोजना इत्यादीषु तस्य योगदानं महत्त्वयुतम् आसीत् । 1967 तमे वर्षे हेमावतीयोजनायाः कार्यान्वयने तस्य विशेषपरिश्रमः आसीत् । अग्रे 1983 तमे वर्षे हेमावतीयोजनां हासनं, मैसूर्, मण्ड्या, तुमकूर् जनपदेषु विस्तारितवान् ।देवेगौड: स्वस्य राजकीयगुरोः ए. जि. रामचन्द्ररायस्य नाम हेमावतीजलाशयस्य तीराय स्थापितवान् । तथैव हासनजनपदस्य जेष्ठस्वातन्त्र्ययोधस्य प्रसिद्धलेखकस्य गोरूरुरामस्वामी अय्यङ्गारस्य नाम दक्षिणतीराय स्थापयित्वा तयो: नामं शाश्वतं कृतवान् । जलसम्पदः विषये विशेषास्थावान् सः कृष्णानदीजलाशययोजना: समापयितुं 'कृष्णजलभाग्यनिधिं' स्थापितवान् । यदा देवेगौड: 1992 तमे वर्षे लोकसभासदस्य: आसीत् जलवितरणविवादविषये अध्ययनं कृत्वा केन्द्रसर्वकारस्य नायकान् चकितान् अकारयत् ।1991 तमे वर्षे लोकसभानिर्वाचनम् अभवत् । तदा देवेगौड: हासनलोकसभाक्षेत्रस्य परतया समाजवादीजनतादलस्य अभ्यर्थी सन् स्पर्धायां विजयं प्राप्तवान् । प्रथमवारं लोकसभां प्रविष्टवान् । 1993 तमे वर्षे जनतादल-समाजवादीजनतादलपक्षयो: विलीनं जातम् । नूतनस्य पक्षस्य अध्यक्षरूपेण एषः चितः जातः । 1994 तमे वर्षे राज्यविधानसभानिर्वाचनम् अभवत् । तस्मिन् समये जनतादलपक्ष: राज्यस्य सर्वस्थानेषु स्वस्य आभ्यर्थीन् न्ययोजयत् । अध्यक्ष: देवेगौड: पक्षस्य विजयप्राप्त्यै निरन्तरकार्यं कृतवान् । तस्य फलरूपेण जनतापक्ष: 116 स्थानेषु जयं प्राप्य सर्वकारस्य रचनाय अधिकारां प्राप्नोत् । 1994 तमे वर्षे डिसेम्बर् मासस्य 11 दिनाङ्के देवेगौड: कर्नाटकस्य चतुर्दशः मुख्यमन्त्रिरूपेण अधिकारं स्वीकृतवान् ।कर्णाटकराज्यस्य मुख्यमन्त्री सन् सः सर्वग्रामं प्रति पानजलस्य व्यवस्थां कृतवान् । 'आवारयोजना’ एतादृश: सेवा नियमान् रचयित्वा विकलाङ्गानां कृते स्वयम् उद्योगं कर्तुं व्यवस्थां कृतवान् । अपि च अशक्त महिलानां कृते 'स्वशक्ति’योजना, निर्धनानां कृते 'आरोग्यनिधि’योजना, प्रति जनपदे 'मोरार्जी वसतिशाला’, कृषिकाणां कृते ऋणस्य वृद्ध्या: विमोचनम्, इत्यादी: जनकल्याणयोजनानाम् अनुष्ठापनं कृतवान् ।साहित्यक्षेत्रे महिलालेखिकानां प्रोत्साहनाय प्राचीनकन्नडकवयित्र्याः नाम्ना 'अत्तिमब्बे' प्रशस्तिं स्थापितवान् । 'जनतादर्शनम्' इति कार्यक्रमत: सः जनानां समस्यां ज्ञात्वा ताः परिहर्तुं शक्त: अभवत् ।एकस्याः व्यक्ते: कृते एकमेव स्थानं भवेत् इति तत्वाधारेण देवेगौड: यदा मुख्यमन्त्री अभवत् तदा स्वस्य लोकसभासदस्यत्वं प्रति त्यागपत्रं दत्त्वा राज्यस्य जनतादलस्य अध्यक्षस्थानाय सि. एस्. इब्राहिमं चितवान् । भारते मुक्त-आर्थिकनीतेः स्थापनं मुख्यम् इति चिन्तयता तेन 1991 तमे वर्षे भारतसर्वकारस्य उदारीकरणनीते स्वीकरणाय सहकारी जातः । 1996 तमे वर्षे जून् प्रथमदिनाङ्के हरदनहळ्ळी दोड्डेगौड देवेगौड: भारतस्य द्वादश: प्रधानमन्त्री भूत्वा राष्ठ्रपत्यु: हस्तात् अधिकारं स्वीकृतवान् । कर्नाटकस्य मुख्यमन्त्रिपदं त्यक्तवान् देवेगौड: भारतस्य प्रधानमन्त्री सन् अनेकसमस्याः समर्थरीत्या परिहृतवान् । तत्रापि स्वस्य लक्ष्यं स्मरन् कृषिकानाम् अभिवृद्धिविषये चिन्तितवान् । भारतस्य प्रधानी सन् दश मासा: तेन यापिताः । तावता काङ्ग्रेस् पक्षस्य अध्यक्ष: सीतारां केसरी महोदय: संयुक्तरङ्गपक्षस्य कृते दत्तं सहकारं प्रतिस्वीकृतवान् । तस्मात् देवेगौडस्य सर्वकार: पतित: । अत: स: 1997 तमे वर्षे एप्रिल्-मासस्य 21 तमे दिनाङ्के भारतस्य प्रधानमन्त्रिस्थानाय त्यागपत्रं दत्तवान् । राष्ट्रस्य राजनैतिके क्षेत्रे उत्तमं कार्यं कृतम् इत्यतः तस्य कृते न्याषनल् प्रेस् इण्डिया 1995 तमे वर्षे जुलै 23 तमे दिनाङ्के भारत सूर्यप्रशस्तिं दत्त्वा सम्माननम् अकरोत् ।
{ "source": "wikipedia" }
योगतत्त्व-उपनिषत् कृष्णयजुर्वेदीया उपनिषत् ।
{ "source": "wikipedia" }
नागार्जुन एक: प्रमुख: कवि कथाकार च.
{ "source": "wikipedia" }
अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य षोडशः श्लोकः । आब्रह्मभुवनात् लोकाः पुनरावर्तिनः अर्जुन माम् उपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ 16 ॥ अर्जुन ! आब्रह्मभुवनात् लोकाः पुनरावर्तिनः । कौन्तेय ! माम् उपेत्य तु पुनर्जन्म न विद्यते । अर्जुन ! आब्रह्मलोकात् सर्वेऽपि लोकाः आवर्तनशीलाः इति हेतोः ते न शाश्वताः । कौन्तेय ! परन्तु मां प्राप्तवतः तु सर्वथा पुनर्जन्म नास्ति ।
{ "source": "wikipedia" }
जळगावमण्डलं महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं जळगाव इत्येतन्नगरम् । जळगावमण्डलं कदलीफल-उपस्कर -उत्पादनार्थं प्रसिद्धम् । 'खानदेश' इति अस्य मण्डलस्य पूर्वनाम । महाराष्ट्र्रराज्यस्य साहित्यक्षेत्रे श्रुतनामिकायाः कवयित्री बहिणाबाई इत्येतस्याः जन्मस्थानमिदम् । जळगावमण्डलस्य विस्तारः 11,700 चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि बुलढाणामण्डलं, पश्चिमदिशि धुळेमण्डलम्, उत्तरदिशि मध्यप्रदेशराज्यं, दक्षिणदिशि जालनामण्डलम् अस्ति । अस्मिन् मण्डले 690 मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले प्रवहन्ती मुख्यनदी तापी । पुरा मण्डलेऽस्मिन् मौर्य-सातवाहन-कुषाण-वाकाटक-चालुक्य-राष्ट्रकूट-यादवराजानाम् आधिपत्यमासीत् । मध्यकाले मोघल-मराठा-आङ्ग्लशासकानाम् आधिपत्यमासीत् । स्वातन्त्र्यान्दोलने चाळीसगाव, जळगाव, भुसावळ इत्येतेभ्यः उपमण्डलेभ्यः जनानां सहभागः महत्त्वपूर्णः आसीत् । धनाजी चौधरी इत्यनेन रक्षकाधिकारिपदं त्यक्त्वा 'कायदेभङ्ग' आन्दोलने भागः गृहीतः । 'फैजपुर काङ्ग्रेस' नामकम् ऐतिहासिकम् अधिवेशनम् धनाजी चौधरी इत्येतस्य प्रयत्नैः अत्रैव सञ्चालितम् । यवनालः, बाजरी, गोधूमः, कार्पासः, लशुनं, मरीचिका, द्विदलसस्यानि, सम्बारपदार्थाः, कदलीफलं, कलायः, चणकः इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति । कार्पासः तु अस्य मण्डलस्य अर्थव्यवस्थायाः महत्त्वपूर्णम् अङ्गम् अस्ति । पर्वतीयवनेषु शाकोटकवृक्षाः, हरिद्रा, 'शिसव' इति काष्ठप्रकारः, खदिर इत्यादयः वृक्षप्रकाराः सन्ति । वस्त्रोद्यमाः, खाद्यतैलनिर्माणोद्यमाः, मुद्रणोद्यमाः इत्यादयः प्रचलन्ति । जळगावमण्डलस्य जनसङ्ख्या 36,79,936 अस्ति । अस्मिन् 21,97,365 पुरुषाः, 20,35,552 महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर् 359 जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 359 जनाः । 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 14.71% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-922 अस्ति । अत्र साक्षरता 79.73% अस्ति । अस्मिन् मण्डले पञ्चदश उपमण्डलानि सन्ति । तानि- 1 चाळीसगाव2 भडगाव 3 पाचोरा 4 जामनेर 5 पारोळा 6 एरण्डोल 7 धरणगाव 8 जळगाव 9 भुसावळ10 मुक्ताईनगर11 अमळनेर12 चोपडा13 यावल14 रावेर15 बोदवड मण्डलेऽस्मिन् 'अहिराणी' इति मराठीभाषाप्रकारं जनाः वदन्ति । अस्यां भाषायां साहित्यनिर्मितिः अपि भवति ।मण्डलेऽस्मिन् निवसन्तः जनाः उत्सवप्रियाः । लेवा-पाटीदार-समाजः अस्मिन् मण्डले बहुसङ्ख्यः दृश्यते । मण्डलेऽस्मिन् गोण्ड, भिल, गावित, पारधी, लमाणी, जोगी, रामोशी-वडार, कोङ्गाडी इत्यादयः आदिवासिजनजातयः सन्ति । मण्डलेऽस्मिन् 'वाणी' इति वणिक्जातेः प्राचुर्यम् अस्ति । अक्षय्यतृतीयादिने 'आखाजी' उत्सवः, विवाहोत्सवे 'जागरण-गोन्धळ', मुञ्जाभोजनम् इत्यादिकान् उत्सवान् जनाः आचरन्ति । अत्रस्थानां महिलानां विशेषाणि गीतानि सन्ति । साहित्यविशेषेषु गीतेषु महिलाः आत्मनिवेदनं कुर्वन्ति । मण्डलेऽस्मिन् नैकाः विभूतयः अभवन् । साने गुरुजी, बालकवी ठोमरे, माधव ज्युलियन, बहिणाबाई चौधरी, स्वामी-कुवलयानन्द, पद्मश्री ना.धो. महानोर, पद्मश्री भालचन्द्र नेमाडे, भवरलाल जैन इत्यादीनां कार्यक्षेत्रं जन्मस्थलं वा आसीत् इदं मण्डलम् । जळगावमण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
{ "source": "wikipedia" }
कथं तदुपपद्यते ?सर्वस्यायं रागानुविद्धश्चेतनाचेतनसाधनाधीनः सुखानुभव इति तत्रास्ति रागजः कर्माशयः । तथा च द्वेष्टि दुःखसाधनानि मुह्यति चेति द्वेषमोहकृतोऽप्यस्ति कर्माशयः । तथा चोक्तम् । नानुपहत्य भूतान्युपभोगः सम्भवतीति हिंसाकृतोऽप्यस्ति शारीरः कर्माशय इति । विषयसुखं चाविद्येत्युक्तम् । या भोगेष्विन्द्रियाणां तृप्तेरुपशान्तिस्तत्सुखम् । या लौल्यादनुपशान्तिस्तद्दुःखम् । न चेन्द्रियाणां भोगाभ्यासेन वैतृष्ण्यं कर्तुं शक्यम् । कस्मात्? यतो भोगाभ्यासमनुविवर्धन्ते रागाः कौशलानि चेन्द्रियाणामिति तस्मादनुपायः । सुखस्य भोगाभ्यास इति । स खल्वयं वृश्चिकविषभीत इवाशीविशेण दष्टो यः सुखार्थी विषयानुवासितो महति दुःखपङ्के निमग्न इति । एषा परिणामदुःखता नाम प्रतिकूला सुखान्वस्थायामपि योगिनमेव क्लिश्नाति । अथ का तापदुःखता ? सर्वस्य द्वेषानुविद्धश्चेतनाचेतनसाधनाधीनस्तापानुभव इति । तत्रास्ति द्वेषजः कर्माशयः । सुखसाधनानि च प्रार्थयामानः कायेन वाचा मनसा च परिस्पन्दते । ततः परमनुगृह्णात्युपहन्ति चेति परानुग्रहपीडाभ्यां धर्माधर्मावुपचिनोति । स कर्माशयो लोभान्मोहाच्च भवतीत्येषा तापदुःखतोच्यते । का पुनः संस्कारदुःखता ? सुखानुभवात्सुखसंस्काराशयो दुःखानुभवादपि दुःखसंस्काराशय इति ? एवं कर्मभ्यो विपाकेऽनुभूयमाने सुखे दुःखे वा पुनः कर्माशयप्रचय इति । एवमिदमनादिदुःखस्रोतो विप्रसृतं योगिनमेव प्रतिकूलात्मकत्वादुद्वेजयति । कस्मात्? अक्षिपात्रकल्पो हि विद्वानिति । यथोर्णातन्तुरक्षिपात्रे न्यस्तः स्पर्शेन दुःखयति न चान्येषु गात्रावयवेषु । एवमेतानि दुःखान्यक्षिपात्रकल्पं योगिनमेव क्लिश्नन्ति नेतरं प्रतिपत्तारम् । इतरं तु स्वकर्मोपहृतं दुःखमुपात्तमुपात्तं त्यजन्तं त्यक्तं त्यक्तमुपाददानमनादिवासनाविचित्रया चित्तवृत्त्या समन्ततोऽनुविद्धमिवाविद्यया हातव्य एवाहङ्कारममकारानुपातिनं जातं जातं बाह्याध्यात्मिकोभयनिमित्तास्त्रिपर्वाणस्तापा अनुप्लवन्ते । तदेवमनादिदुःखस्रोतसा व्युह्यमानमात्मानं भूतग्रामं च दृष्ट्वा योगी सर्वदुःखक्षयकारणं सम्यग्दर्शनं शरणं प्रपद्यत इति । गुणवृत्त्यविरोधाच्च दुःखमेव सर्वं विवेकिनः । प्रख्याप्रवृत्तिस्थितिरूपा बुद्धिगुणाः परस्परानुग्रहतन्त्रीभूय शान्तं घोरं मूढं वा प्रत्ययं त्रिगुणमेवारम्भन्ते । चलं च गुणवृत्तमिति क्षिप्रपरिणामि चित्तमुक्तम् । रूपातिशया वृत्त्यतिशयाश्च परस्परेण विरुद्ध्यन्ते । सामान्यानि त्वतिशयैः सह प्रवर्तन्ते । एवमेते गुणा इतरेतराश्रयेणोपार्जितसुखदुःखमोहप्रत्यया इति सर्वे सर्वरूपा भवति । गुणप्रधानभावकृतस्त्वेषां विशेष इति । तस्माद्दुःखमेव सर्वविवेकिन इति । तदस्य महतो दुःखसमुदायस्य प्रभवबीजमविद्या । तस्याश्च सम्यग्दर्शनमभावहेतुः । यथा चिकित्साशास्त्रं चतुर्व्यूहं—रोगो रोगहेतुरारोग्यं भैषज्यमिति । एवमिदमपि शास्त्रं चतुर्व्यूहमेव । तद्यथा—संसारः संसारहेतुर्मोक्षो मोक्षोपाय इति । तत्र दुःखबहुलः संसारो हेयः । प्रधानपुरुषयोः संयोगो हेयहेतुः । संयोगस्यात्यन्तिकी निवृत्तिर्हानम् । हानोपायः सम्यग्दर्शनम् । तत्र हातुः स्वरूपमुपादेयं वा हेयं वा न भवितुमर्हति । हाने तस्योच्छेदवादप्रसङ्गः, उपादाने च हेतुवादः । उभयप्रत्याख्याने च शाश्वतवाद इत्येतत्सम्यग्दर्शनम् ॥15॥ योगदर्शनम् पतञ्जलिः अष्टाङ्गयोगः अन्ताराष्ट्रिययोगदिवसः पतञ्जलियोगसूत्रम् योगसूत्राणि शृण्वन्तु आङ्ग्लानुवादेन सह योगसूत्रम् स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः
{ "source": "wikipedia" }
बिहार भारतस्‍य पूर्वभागे विद्यमानं किञ्चन राज्यम् । एतस्य राजधानी पाटना अथवा पाटलीपुत्रम् अस्ति । अस्य राज्यस्य पूर्वभागे पश्चिमवङ्गराज्यं, दक्षिणभागे झारखण्डराज्यञ्च विद्यते । 'बिहार'इत्येतत् पदं प्रायशः 'बौद्धविहारम्' इत्यत्र विद्यमानस्य विहारशब्दस्य विकृतरूपम् इति भासते। इदं राज्यं गङ्गानद्याः तस्याः उपनदीनाञ्च समृद्धक्षेत्रे विद्यते । प्राचीनकाले विशालसाम्राज्यानां मूलस्थानम् आसीत् इदं राज्यम् अधुना देशस्य अर्थव्यवस्थायाः कृते योगदाने अन्तिमस्थाने विद्यते। बिहारस्य ऐतिहासिकं नाम मगधम्। बिहारस्य राजधान्याः ऐतिहासिकं नाम पाटलीपुत्रम् । प्राचीनकाले बलाढ्यसाम्राज्येषु अन्यतमम् आसीत् मगधसाम्राज्यम् । मौर्यवंशः, गुप्तवंशः इत्यादयः प्रसिद्धाः राजवंशाः इतः शासनम् अकुर्वन् । मौर्यवंशस्य सम्राजः अशोकस्य साम्राज्यं पश्चिमदिशि अफघानीस्थानपर्यन्तं विस्तृतम् आसीत् । मौर्यवंशस्य शासनं क्रि पू 325 तः क्रि पू 185 पर्यन्तम् आसीत् । पञ्चमे षष्ठे च शतके अत्र बौद्धजैनधर्मयोः उगमः जातः । अशोकः बौद्धधर्मस्य प्रचारे महत्त्वपूर्णां भूमिकां निरूढवान्। सः स्वस्य पुत्रं महेन्द्रं बौद्धधर्मस्य प्रचाराय श्रीलङ्काम् अप्रेषयत्। पाटलीपुत्रे यत्र सः पुत्रस्य आप्रच्छनम् अकरोत् सः प्रदेशः महेन्द्रघट्टः इत्येव निर्दिश्यते । इतः बौद्धधर्मः अग्रे चीनादेशं प्रति ततः जापानदेशं प्रति च प्रसृतं जातम् । द्वादशे शतके भख्तियारखिलजी बिहारस्य आधिपत्यं प्राप्तवान् । तदा मगधदेशस्य राजधानी न आसीत् । षोडशे शतके शेरषाहसूरी देहल्यां मुगलचक्रवर्तिनं हुमायूनं पराजित्य देहलीसिंहासनम् आरूढवान् इत्यतः बिहारस्य नाम पुनः प्रकाशितं जातम् । किन्तु अचिरात् अक्बरः बिहारराज्यं पश्चिमवङ्गे विलीनम् अकरोत्। ततः बिहारस्य अस्तित्वं वङ्गराजानाम् अधीनं जातम्। 1857 तमे वर्षे जाते भारतस्य प्रथमसङ्ग्रामे बिहारीयः बाबू कुंवरसिंहः प्रमुखभूमिकां निरवहत् । 1912 तमे वर्षे पश्चिमवङ्गस्य विभजनस्य कारणतः बिहारराज्यं पुनः अस्तित्वं प्राप्नोत् । 1935 तमे वर्षे ओरिस्साराज्यम् इतः पृथक् कृतम् । स्वातन्त्रसङ्ग्रामावसरे बिहारे जातः चम्पारणविद्रोहः ब्रिटीशजनानां बहिष्करणे विरोधे च प्रमुखं पात्रम् अवहत् । स्वातन्त्र्यानन्तरं बिहारराज्यं पुनः एकवारं विभक्तम् । 2000 तमे वर्षे झारखण्डराज्यं बिहारतः पृथक्जातम्। भारतं त्यज्यताम् इत्येतस्मिन् आन्दोलने बिहारस्य पात्रं मुख्यभूतम् आसीत्। इदं राज्यम् उत्तरे 21°58'10" ~ 27°31'15" अक्षांशे पूर्वदिशि 82°19'50" ~ 88°17'40" रेखांशे च विद्यते । राज्यस्य विस्तारः अस्ति 94, 163 चतरस्र कि मी मितः यस्मिन् ग्रामप्रदेशस्य विस्तारः अस्ति 92,257.51 च कि मी मितः । झारखण्डस्य पृथक्करणानन्तरं बिहारस्य भूमिः, नदीभिः युक्ता कृषियोग्या समतला विद्यते । गङ्गायाः पूर्वक्षेत्रे स्थितम् इदं राज्यं समुद्रतलात् 173 पादमिते औन्नत्ये विद्यते । भौगोलिकदृष्ट्या बिहारराज्यं त्रिधा विभक्तुं शक्यम् - उत्तरस्य शैलीय-निम्नश्च प्रदेशः, मध्ये विशालसमतलप्रदेशः, दक्षिणे पर्वतीयप्रदेशश्च । उत्तरीयपर्वतप्रदेशे सोमेश्वरश्रेणी विद्यते । अस्याः श्रेण्याः औन्नत्यं सामान्यतः 455 मीटर्मितम् । तत्र विद्यमानस्य सर्वोच्चशिखरस्य औन्नत्यं 874 मीटर्मितम् । सोमेश्वरश्रेण्याः दक्षिणभागे निम्नप्रदेशः विद्यते । अस्मिन् मृण्मयक्षेत्रे अर्जुनवृक्षाणां निबिडारण्यं विद्यते । व्याघ्राभयारण्यं वाल्मीकिनगरे स्थितमस्ति। गङ्गानदी राज्यस्य मध्यभागे प्रवहति । उत्तरबिहारे बागमती, कोशी, बूढी गण्डक, गण्डक, घाघरा इत्येताः नद्याः तासां सहायकनदीनां च समतलप्रदेशः वर्तते । सोन, पुनपुन, फल्गू, किऊल - नद्यः बिहारस्य दक्षिणतः गङ्गया मिलन्ति । हिमालयपर्वतात् प्रवहन्त्यः अन्याः नद्यः जलधाराश्च बिहारद्वारा गङ्गया मिलन्ति । वृष्टिकाले नदीनां प्रवाहः महत्यै समस्यायै भवति। ग्रीष्मर्तौ राज्यस्य उष्णांशः भवति 35°-45° सेल्शियस्मितम् । शैत्यकाले 5°-15° सेल्शियस्मितं भवति । शैत्यकालः नवम्बर्मासात् मध्यफेब्रवरिपर्यन्तं भवति । एप्रिल्मासतः मध्यजुलैपर्यन्तं भवति । ततः अक्टोबर्मासपर्यन्तं वृष्टिकालः भवति । प्रतिवर्षं सामान्यतः 1205 मि मीटर्मिता वृष्टिः भवति । उत्तरस्यां दिशि भूमिः कृषियोग्या भवति। बिहारराज्यम् 9 विभागेषु विभक्तम् अस्ति। एवं 38 मण्डलानि सन्ति। भगलपूर, दर्भाङ्ग, कोसि, मगध, मुन्गेर, पटना, पुर्णिया, सासाराम, तिर्हुत एते 9 विभागाः भवन्ति। मण्डलानि- अङ्गिका, भोजपुरी, मगधी, मैथिली, वज्जिका च अत्रत्याः प्रमुखभाषाः । बिहारस्य संस्कृतिः मगध-अङ्ग-मिथिला-वज्जी-संस्कृतीनां मिश्रणमस्ति। ग्रामनगरसंस्कृत्योः अधिकः भेदः न विद्यते। पारम्परिकरीतिनीतयः नगरजनैः अपि पाल्यन्ते सश्रद्धम् । समाजः अस्ति पुरुषप्रधानः। बालिकानां स्वातन्त्र्यम् अत्यल्पम् । छठ, होली, दीपावलिः, नवरात्रम्, महाशिवरात्रिः, नागपञ्चमी, श्री पञ्चमी, मोहरम्, ईद्, क्रिस्मस् च प्रमुखाः उत्सवाः । सिक्खानां दशमः गुरुः गोविन्दसिंहस्य जन्मस्थानम् इत्यतः पटनायां तस्य जयन्तीमहोत्सवः परमश्रद्धया आचर्यते। विवाहपद्धतिः प्रदेशस्य संस्कृतिद्योतिका भवति। जातिगताग्रहस्य कारणेन अधिकांशाः विवाहाः पित्रोः सम्बन्धिनां द्वारा परिवारेषु एव भवन्ति। विवाहस्य शोभायात्रा वैभवादीनि परिवारयोः आर्थिकस्थितिम् अवलम्ब्य भवति । लोकगीतानां गानं सर्वेषु समुदायेषु अपि प्रचलति । आधुनिक-पुरातनचलच्चित्राणां सङ्गीतं श्रावितं भवति। विवाहेषु शहनायीवादनं सामान्यतया श्रूयते । अस्य वाद्यस्य वादकेषु प्रसिद्धतमः बिस्मिल्लाखानः बिहारराज्ये एव जन्म प्राप्तवान् । जातिवादः बिहारस्य राजनीतेः सामाजिकजीवनसय अविभाज्यम् अङ्गं जातमस्ति । पूर्वम् अस्य विराट्स्वरूपः दृष्टिगोचरः जातः आसीत् । अद्यत्वे अयं भेदभावः न्यूनः जायमानः अस्ति। अस्य जातिवादस्य निर्मूलनाय जनैः अवलम्बितः मार्गः अस्ति - उपनाम्नः परिवर्तनम् । उपनान्मः श्रवणात् जातिबोधः न भवेत् इति कारणतः यादवः, शर्मा, मिश्रः, वर्मा, झा, सिंह, श्रीवास्तवः, रायः इत्यादीनि परिवर्त्य प्रकाशः, सुमनः, प्रभाकरः, रञ्जनः, भारती इत्यादीनि कृतवन्तः । बिहारस्य नगरेषु ग्रामेषु च चलच्चित्राणि लोकप्रियाणि जातानि सन्ति । हिन्दीचित्रसङ्गीतं सर्वेभ्यः रोचन्ते । मैथिली-भोजपुरीचलच्चित्राणि अपि प्रभुत्वं साधितवन्ति सन्ति । नगरेषु निवसद्भिः आङ्ग्लचित्राणि वीक्ष्यन्ते । नृत्य-नाटक-चित्रकलादिषु परिश्रमं कुर्वन्ति बहवः उच्चकुलीयाः । भारते अन्यत्र इव अत्रापि क्रिकेट्-क्रीडा अधिकलोकप्रिया वर्तते। पादकन्दुकः, हाकीक्रीडा, टेनिस्-क्रीडा, गोल्फ्-क्रीडा अपि अत्र प्रसिद्धाः । ग्रामप्रदेशः अधिकः इत्यतः पारम्परिकक्रीडा कबड्डी अपि अत्र प्रसिद्धा अस्ति । बिहारजनानां मुख्यम् आयमूलं वर्तते कृषिः। वाणिज्यं सर्वकारीयोद्योगः च आयमूलमस्ति । सर्वकारस्य प्रयत्नेन अधुना स्थितिः उत्तमा भवन्ती अस्ति । 75% जनाः कृषिकार्यं कुर्वन्ति । झारखण्डस्य पृथक्करणानन्तरम् इदं राज्यं खनिजसम्पदा वञ्चितं जातम् । जनसङ्ख्यायाः वृद्धेः कारणतः अर्थव्यवस्था दुर्बला एव वर्तते । बिहारराज्यं विश्वस्मिन् विश्वे प्रसिद्धं शिक्षणकेन्द्रम् आसीत्। जगत्प्रसिद्धाः विश्वविद्यालयाः अस्मिन् राज्ये राराजन्ते स्म। प्राचीनकाले नलन्दाविश्वविद्यालयः, विक्रमशिलाविश्वविद्यालयः,ओदन्तपुरीविश्वविद्यालयाः च बिहारस्य गौरववर्धकानि अध्ययनकेन्द्राणि आसन् । 1917 तमवर्षपर्यन्तं पट्नाविश्वविद्यालयस्य प्रतिष्ठायुतं स्थानम् आसीत् । नलन्दास्थाने क्रिस्ताब्दस्य पञ्चमशतकतः द्वादशशतकपर्यन्तं कश्चन सवसतिकः विश्वविद्यालयः आसीत् इति इतिहासद्वारा ज्ञायते । अस्य प्रथमः सवसतिकः विश्वविद्यालयः इति प्रख्यातिः आसीत् । द्विसहस्रप्राध्यापकाः दशसहस्राधिकाः विद्यार्थिनः अत्र आसन् । जनाः देशविदेशतः विद्याप्राप्तये अत्र आगच्छन्ति स्म इति विदेशीयानां यात्रिकाणाम् उल्लेखेन ज्ञातुं शक्यते । चीनीचात्रिकः ह्यु येन् त्साङ्गः अस्य स्थानस्य स्पष्टतया उल्लेखं कृतवान् अस्ति ।अस्मिन् विश्वविद्यालये बौद्धशास्त्रं, वेदाः, तर्कशास्त्रं, शब्दविद्या । मेडिसिन् इत्यादीनां शिक्षणं भवति स्म । सप्तमे शतके साम्राट् हर्षवर्धनः, पालवंशीयाः राजानः च एतं विश्वविद्यालयं सगौरवं पोषितवन्तः । कुमारगुप्तः एतस्य विश्वविद्यालयस्य आरम्भम् कृतवान् इति इतिहासद्वारा ज्ञायते ।नलन्दाविश्वविद्यालयः 50 चतुरस्रकि.मी प्रदेशे व्याप्तः आसीत् । प्रथमः महम्मदः भक्तियारखिल्जीद्वारा अत्र अग्निदाहं कारितवान् । तदा प्रज्ज्वालितः अग्निः षण्मासान् यावत् ज्वलन्नासीत् इति वदन्ति । रत्नोदधिः, रत्नसागरः, रत्नरञ्जकः इत्येते ग्रन्थालयाः भस्मीकृताः अभवन् । अनन्तरम् अत्र भूकम्पः अभवत् । तदा सर्व नष्टम् भवत् । बौद्धसंन्यासिनः टिबेट्देशं गतवन्तः केचन मारिताः च ।नलन्दाप्रदेशे पूर्वम् आम्रवाटिकाः आसन् । गौतमबुद्धः अत्र किञ्चित्कालं स्थितवान् । सारिपुत्रः तथा महामोग्गालयन् इत्येतयोः बुद्धस्य शिष्ययोः जन्मस्थानम् एतत् । तयोः गृहम् इदानीमपि अस्ति । किन्तु देवालयरुपेण परिवर्तितम् अस्ति । अशोकचक्रवर्ती अत्र चैत्यं निर्मितवान् ।अलेग्झाण्डर्र कन्निङ्गह्यां महोदयः क्रिस्ताब्दे 1861 तमे वर्षे उत्खननद्वारा संशोधनं कृतवान् । क्रिस्ताब्दे 1915 तमवर्षतः आर्कियालजीविभागेन 14 हेक्टरप्रदेशे उत्खननं कृत्वा स्मारकाणां भवनानां विषये ज्ञानसङ्ग्रहणं कृतम् अस्ति ।अत्र 108 विशालभवनानि आसन् । सुभद्रायाम् आधारभूमौ निर्मितानि एतानि भवनानि अपूर्वाणि आसन् इति पञ्चमशतके आगतः चीनी यात्रिकः ह्यु येन् त्साङ्गमहोदयः उल्लिखितवान् अस्ति । आरम्भे एषः छात्रः आसीत् अनन्तर प्राध्यापकः । हर्षवर्धनस्य काले एषः सर्वधर्मसम्मेलनाध्यक्षः आसीत् ।अत्र विश्वविद्यालये प्रवेशार्थं प्रवेशपरीक्षा आसीत् इति तु विशेषः अस्ति । इदानी चीना-जापान-दक्षिणैशियादेशेभ्यः जनाः दर्शनार्थम् अत्र आगच्छन्ति । एकः वस्तुसङ्ग्रहालयः अपि अत्र स्थापितः अस्ति । बर्मी-जापानी-जैनविश्रान्तिगृहाणि सन्ति । गयातः 65 कि.मी । राजगिरतः 19 कि.मी । पाटनातः 90 कि.मी । बिहारराज्यस्य महानगरमेतत् राज्यस्य राजधानी अस्ति । अस्य पाटलीपुत्रम् इति नाम आसीत् गङ्गानद्याः तीरे 8 कि.मी दीर्घप्रदेशे व्याप्तं नगरमेतत् । पूर्वदिशि प्राचीनपाटनानगरस्य भागः अस्ति । पश्चिमदिशि नवपटनानगरमस्ति । अत्रैव प्राशासनिकभवनानि सन्ति । मुख्यकार्यालयस्य पुरतः हुतात्मास्मारकं निर्मितम् अस्ति ।गोलघर् धान्यसङ्ग्रहालयः क्रिस्ताब्दे 1770 तमे वर्षे निर्मितः। लार्ड् हेस्टिङ्ग महोदयेन रुपितं विचित्राकारकं भवनम् एतत् । एतत् 25 मीटर् उन्नतमस्ति । अस्य शिखरप्रदेशतः पाटनानगरस्य म्यूसीयं, गुरुद्वारं, सिक्खानां हरमन्दिरं, पाटनादेवीमन्दिरं सरदार-आश्रमः च द्रष्टुं शक्यते । खुदाभक्षप्राचीनवाचनालयः कुम्राहारप्राचीनपाटलीपुत्रम् दूरे स्तः ।कुम्राहार अशेकचक्रवर्तेः राजधानी आसीत् । क्रिस्तपूर्वतॄतीयशतके चन्द्रगुप्तमौर्यस्य बिन्दुसारस्य च राजधानी अत्र आसीत् । अत्र एकं सभाभवनमासीत् । इदानीं केवलं स्तम्भाः सन्ति । आनन्दविहारनामकं बौद्धमठम् अत्र आसीत् । पाटनासमीपे दर्शनीयानि स्थानानि वैशाली राजगिर नळन्दा इत्यादीनि । पूर्वविभागे देहली-पाटना, कोलकाता-पाटना धूमशकटमार्गौ स्तः । पाटना बृहन्निस्थानमस्ति । देहलीवाराणसी- इत्यादिनगरेभ्यः विमानसम्पर्कः अस्ति । पाटना टूर्स् एण्ड् ट्रावल्स् प्रवासव्यवस्थां करोति । सासारामनगरं बिहारराज्ये भोजपुरमण्डलस्य लघुपत्तनम् अस्ति । अत्र देहलीं शास्तवताम् सूरवंशीयानां वंशजः चक्रवर्ती शेरषाहः स्वस्य निमित्तं समाधिमन्दिरमेकं निर्मितवान् आसीत् । एतत् स्थानं चारित्रिकं अभूतपूर्वं च अस्ति । एषः क्रिस्ताब्दस्य 1540 तः 1545 पर्यन्तं हुमायूनं जित्वा प्रशासनं कृतवान् । एतस्य वंशस्य नाम फरीद इति । एषः शूरः आसीत् । अस्य पिता हसन् । शेरषाहसूरी एकदा मृगयार्थं गत्वा व्याघ्रेण साक युद्धं कृतवान् । अतः एव अस्यनाम शेरषाह इत्यभवत् ।समाधिमन्दिर एतत् कृतकसरोवरे 1400 चतुरस्रपादमिते जले निर्मितमस्ति । षड्भुजाकृतियुक्तं 46 मीटरोन्नत्तवक्रभित्तियुतं जालन्ध्रयुतं गोलच्छदयुक्तं चैतत् रक्तवालुका शिलाभिः निर्मितम् अस्ति । अस्य प्रतिबिम्बं सरोवरजले सुन्दरतया प्रकाशते । जले प्लवते एव एषा रचना दृष्टिगोचरा भवति । अतः एव इति एतत् स्थानं कथयन्ति । पथानशैली रचना एषा भारते एव अत्युतमास्ति । ग्राण्ट् ट्रङ्क मार्गस्य पार्श्वेऽस्ति । गया-वाराणसी-पाटना- इत्यादिनगरेभ्यः वाहनानि सन्ति । गयानिस्थानतः 203 कि.मी । बौद्धपरिक्रम-एक्सप्रेस् एतत् विशेषधूमशकटयानं गौतमबुद्धस्य सम्बद्धानि स्थानानि सर्वाणि प्रदर्श्य आगच्छति । उत्तरप्रदेशबिहारपश्चिमबङ्गालराज्येषु सञ्चरति । कोलकातातः–गोरखपुरम्-कुशिनगरम् –वाराणसी– सारनाथः-राजगिर-नलन्दा-बुद्धगया स्थानानि दर्शयति । वैस् प्रेसिडेण्ट्, अशोकट्रावेल्स् अण्ड टूर्स् नवादेहली । बौद्धमतस्य मुख्यस्थानेषु एतदपि अन्यतमम् अस्ति । प्रथमा बौद्धमहासभा राजगिरप्रदेशे अभवत् । गौतमबुद्धः अत्र निर्वाणात्पूर्व 12 वर्षाणि यावत् वासं कृतवान् । नलन्दातः 19 कि.मी भगवतः महावीरस्य जन्मस्थलमेतत् । प्राचीनकाले राजधानी आसीत् । 2000 वर्षेभ्यः पूर्वम् अत्र प्रजाप्रभुत्वराज्यमासीत् । पाटनातः 44 कि.मी राज्यस्य राजधानी पटना ऐतिहासिकं स्थलं वर्तते । पूर्वम् इदं धर्मज्ञानयोः केन्द्रमासीत् । तत्रत्यानि दार्शनिकस्थलानि एतानि - षष्ठशतकात् पूर्वं वज्जिसङ्घद्वारा स्थापितः विश्वस्य प्रथमगणराज्यस्य अवशेषः, अशोकस्तम्भः, बसोकुण्डे भगवतः महावीरस्य जन्मस्थली, अभिषेकपुष्करणी, विश्वशान्तिस्तूपः, राजा विशाल का गढ, चौमुखीमहादेवमन्दिरम्, भगवतः महावीरस्य जन्मदिने आयोज्यमानः वैशालीमहोत्सवः च प्रसिद्धाः सन्ति । बिस्मिल्लाखान् महाबोधिमन्दिरम् उत्सवः विक्रमशिला वस्तुसङ्ग्रहालयः विक्रमशिला वस्तुसङ्ग्रहालयः विक्रमशिला वस्तुसङ्ग्रहालयः मधुबनिचित्रकला प्राणिसङ्ग्रहालयः
{ "source": "wikipedia" }
एषा महामरीचिका भारते अपि वर्धमानः कश्चन शाकविशेषः । इयम् अपि सस्यजन्यः आहारपादार्थः । एषा महामरीचिका आङ्ग्लभाषायां अथवा इति उच्यते । एषा महामरीचिका भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एषा बहुवर्णयुता भवति । एतया महामरीचिकया क्वथितं, व्यञ्जनं, भर्ज्यं, दाधिकम् इत्यादिकं निर्मीयते । चित्रान्न-पृथुक-उपमादीनाम् उपहाराणां निर्माणे अपि महामरीचिका उपयुज्यते । एषा महामरीचिका बहुवर्णीया भवति । एषा रक्तवर्णीया, हरितवर्णीया, काषायवर्णीया, पीतवर्णीया, नीललोहितवर्णीया च उपलभ्यते । महामरीचिका "सोलेनं" कुटुम्बे अन्तर्भवति । अस्यां सस्यजातौ सस्ये पुष्पाणि भवन्ति । सस्यं "सोलनासिय" इति वदन्ति । एतस्याः प्रभेदाः अमेरिकामूलतः आगताः सन्ति । शताधिकवर्षेभ्यः अमेरिकादेशस्य उष्णवलयस्य जनाः एतस्याः वर्धनं कुर्वन्तः सन्ति । इदानीं विश्वे सर्वत्र एतस्याः वर्धनं भवति । महामरीचिकायाः कतिपय प्रभेदाः शाकमिव, औषधमिव च उपयुज्यते । स्थानस्य तथा प्रभेदस्य भेदानाम् आधारेण अस्याः विभिन्नानि नामानि अपि सन्ति । सामान्यतया एषा महामरीचिका इति उच्यते । ब्रिटन्-देशे मधुरमरीचिका इति, आस्ट्रेलिया, इङ्ग्लेण्ड्, अमेरिकासंयुक्तसंस्ताने, केनडादेशे, भारतेषु च महामरीचिका इति वदन्ति । अन्यराष्टेषु रक्तमरीचिका इत्यपि उच्यते । एतस्याः जातेः नाम ग्रीक्-पदं इति पदतः उत्पन्नमस्ति । एतद् पदं "दशनम्" अथवा "गिलनम्" इत्यर्थे ग्रीक्-भाषायम् उपयुज्यते । महामरीचिकायाः अनेकवंशस्य फलेषु क्याप्सैसिन् भवति । स च अंशः “लिपोफिलिक्” नामकं रासायनिकम् इति कारणात् येषां शरीरस्य अभ्यासः नास्ति तेषां मुखे ज्वलनं भवति । अधिकतया सस्तनयः एतां महामरीचिकां न इच्छन्ति । किन्तु पक्षीषु एतस्याः कोऽपि परिणामः न भवति । अस्याः महामरीचिकायाः गाढः वर्णः पक्षीन् आकर्षति अपि । “क्याप्सैसिन्” इत्येषः अण्डधारकः अङ्गांशः । अयं अंशः आन्तरिकसूक्ष्मस्तरे महता प्रमाणेन भवति । फलानाम् अन्तर्भागे न्यूनप्रमाणेन भवति । महामरीचिकासु “क्याप्सैसिन्” अंशः विभिन्नप्रमाणेन भवति । वंशाधारेण तस्य प्रमाणं भवति । एतेन कारणेन अधिकांशाः महामरीचिकायाः प्रभेदाः आचूषितान् विभिन्नान् उष्णांशान् प्राप्नुवन्ति । ‘बेल् पेपर्’इत्येषः प्रभेदः “क्याप्सैसिन्” अंशरहितः महामरीचिकायाः प्रभेदः । अपसरणगुणाणोः कारणेन “बेल् पेपर्” प्रभेदे क्याप्सैसिनस्य न्यूनता अस्ति । अमेरिकन् मूलस्य औषधस्य निर्माणे ‘चिलिपेपर्’स्य महत्त्वयुतं स्थानम् अस्ति । आधुनिकेषु औषधेषु “क्याप्सैसिन्” अंशस्य उपयोगः क्रियते । प्रमुखतया एतस्य उपयोगः उष्णवलयस्य वैद्यकीयचिकित्सायां रक्तपरिचलनास्य उत्तेजकौषधम् इव उपयुज्यते । इदानीन्तनेषु दिनेषु सामान्यतया महामरीचिका अथवा पेपर् स्प्रे इत्येतस्य क्याप्सैसिनस्य वायुद्रवस्य सारम् आरक्षकगणः अधिकतया प्रयुञ्जते । आरक्षकाः कामपि व्यक्तिम् अशक्तां कर्तुम् अमृत्युकारकम् अस्त्रम् इव अस्य उपयोगं कुर्वन्ति । कोलाहलस्य नियन्त्रणार्थम् अपि अस्य प्रसरणं कुर्वन्ति । वैयक्तिकवैषम्यस्य निमित्तम् अपि एतस्य उपयोगः भवति कुत्रचित् । महामरीचिकां पक्वं कृत्वा अथवा अपक्वमपि खादितुं शक्यते । सामान्यतया “सि फिर्टेसिन्स्” प्रभेदः पक्वपाके, अपक्वपाके, भर्ज्यपाके, मिश्रपाके चापि उपयुज्यते । खण्डान् कृत्वा अपि भर्जयितुं शक्यते । पूर्णस्य अथवा किञ्चित्भागस्य दहनं कर्तुमपि शक्यते । अथवा कर्तयित्वा साल्सा, सास् च इत्येतेषु योजयितुम् अपि शक्यते । एतां महामरीचिकां लेह्यम् इव संरक्षितुम् अपि शक्यते । शुष्कीकृत्वा, अवलेहरूपेण अथवा घनरूपेण अपि रक्षितुं शक्यते । शुष्कमरीचिकाः सम्पूर्णतया पूर्वस्थिततिं प्रति आनेतुं शक्यते अथवा कुट्टनेन चूर्णीकृत्य रक्षितुम् अपि शक्यते । लवणद्रवे निमज्जिता महामरीचिका अधिकतया स्याण्ड्वविच्, सलाड् इत्यादिषु उपयुज्यते । शैत्यवातावरणे एषा महामरीचिका स्ट्यू सूप्, साल्सास् इत्येतेषु उपयुज्यते । इथियोपिया राष्ट्रियपाके अत्यन्ता प्रमुखा अस्ति इयं महामरीचिका । 19 शतकस्य पूर्वार्धे योग्यमृत्तिकायाः कवोष्णवातावरणस्य प्रदेशेषु महता प्रमाणेन वर्धिताः । सर्वेषु स्थानेषु वर्धिता चेदपि विशेषतया ‘येज्जु’ प्रान्ते महता प्रमाणेन दृश्यते । 2005 तमे वर्षे 2,000 जनानां जनाभिप्रायस्य सङ्ग्रहणं यत् कृतं तत्र महामरीचिका ब्रिटन्-देशस्य प्रियपाके उपयुज्यमानेषु शाकेषु चतुर्थे स्थाने आसीत् । बल्गेरिया, दक्षिणसैबीरिया, म्यासेडोनिया प्रदेशेषु अपि एषा महामरीचिका अत्यन्तजनप्रिया अस्ति । एतां महामरीचिकां भर्जयित्वा परितः वार्तकीं, पलाण्डुं, लशुनं, कुस्तुम्बरीं च योजयित्वा अपि खादितुं शक्यते । एषा महामरीचिका मांसखण्डे, अन्ने, बीन्स्, मृदुचीस्, अण्डम् इत्यादीनाम् उपस्कररूपेण अपि उपयुज्यते । तावदेव न मरीचिका, वार्तकी, मरीचे च निमज्य साम्प्रदायिकविधानेन ल्युट्ण्टिसा, अज्वर् प्रदेशेषु यः पाकः क्रियते तत्र रुचेः वर्धनार्थम् अपि महामरीचिका उपयुज्यते । शाकानाम् अवलेहस्य निर्माणे अपि उपयुज्यते । महामरीचिकाशलाटून् इट्यालियन् पाकेऽपि अधिकतया उपयुज्यते । एतस्याः कटुः इटलीदेशस्य दक्षिणभागेषु सामान्यसोपस्करः इव उपयुज्यते । कदाचित् जिततैलेन सह मेलयित्वा खाद्यते अपि । महामरीचिका पेपर् इत्येतत् अनेकेषु खाद्येषु उपयुज्यते। एतेन बहुविधपाकं कर्तुं शक्यते । एषा महामरीचिका श्रीलङ्कादेशेऽपि बृहत्प्रमाणेन उपखाद्यमिव उपयुज्यते । बहुभ्यः वर्षेभ्यः कृतैः संशोधनैः महामरीचिकायाः परिवर्तनम् अपि कृतम् अस्ति । सा अन्येभ्यः उद्देशेभ्यः अन्यखाद्येभ्यः चापि उपयुज्यते इदानीम् । मेदस्य निवारणार्थं यः आहारक्रमस्य कल्पितः तत्रापि एषा उपयुज्यते । किन्तु कुटुम्बवैद्येन सह समालोच्य एव उपयोक्तव्या महामरीचिका । यतः देहस्थितिमवलम्ब्य रक्तस्य, मेदस्य च प्रमाणनुगुणं कः सोपस्करपदार्थः, हाट् सास् च उत्तमं भवति इति ज्ञातव्यम् । महामरीचिकायां सामान्यतः 20 तः 27 प्रभेदाः सन्ति । एतासु पञ्चविधानि गृहेषु उपयुज्यन्ते । अस्याः महामरीचिकायाः प्रभेदानां तदन्तः च वर्णे, आकारे, गात्रे च भिन्नता भवति । एषा भिन्नता वर्गाणां सम्बन्धस्य विषये भ्रमं जनयति । रासायनिकसंयोजितानि अध्ययनानि प्रभेदानां भेदं ज्ञातुं साहाय्यं कुर्वन्ति । महामरीचिकायाः नामानि आङ्ग्लभाषाराष्ट्रेषु विभिन्नानि सन्ति । आस्ट्रेलिया, न्यूजिलेण्ड्, भारते च कटुरहितां ‘महामरीचिका’ इति, कटुसहितां ‘मरीचिका’ इति च वदन्ति । पेपरान्सिनिं ‘मधुरमहामरीचिका’ इत्यपि वदन्ति । ‘बेल् पेपर्’ सामान्यतया उपयोगे न सन्ति चेदपि बेल् आकारस्य कटुयुक्तं . अन्युम् तथा अन्यविधं च अधिकतया ‘बेल् चिलिस्’ इति वदन्ति । अमेरिकासंयुक्तसंस्थानेषु, ऐर्लेण्ड्देशेषु च कटुरहितां ‘बेल् पेपर्’, ‘मधुरमरीचिका’ अथवा ‘मरीचिका’ इति वदन्ति । कटुमरीचिकां ‘चिलि/चिलिस्’ अथवा ’चिलि पेपर्स्’ इति वदन्ति । अमेरिकासंयुक्तसंस्थाने केनडादेशे च कटुरहितां ‘बेल् पेपर्’ ‘मधुरमरीचिका’ ‘रक्त/हरित’ मरीचिकाः अथवा केवलं ‘मरीचिका’ इति वा वदन्ति । आहत्य कटयुक्तां ‘चिले/चिलिस्’, ‘चिलि/चिलिस्’, अथवा ‘चिलि/चिलिपेपर्’, ‘कटुमरीचिका’ इति अथवा निर्दिष्टविधं इति वदन्ति । महामरीचिकासस्यानि आहारस्य रुचिवर्धकस्य मरीचस्य कटुरुचिमेव यच्छन्ति इति कारणेन ‘पेपर्’ इति नाम आगतम् । किन्तु सस्यविज्ञाने एतस्य सस्यस्य, सिचुवन् पेपर् इत्यस्य च कोऽपि सम्बन्धः नास्ति । पोलिश्, हङ्गेरियादेशेषु च ‘प्याप्रीक’ प्याप्रीक’ च इत्येतत् पदं सर्वविधमहामरीचिकायाः कृते, मधुरशाकाणां कृते, कटुसोपस्कराणां कृते च उपयुज्यते । तावदेव न, शुष्कीकृत्य, चूर्णीकृत्य तैः एव निर्मितं सोपस्करपदार्थं सूचयितुमपि इत्येव वदन्ति । फलं तथा सोपस्करपदार्थमपि प्याप्रीक् ओस्ट्र अथवा ‘प्याप्रीका स्लोड्क’ ) इति वक्तुं वदन्ति । इटलिदेशे, इटालियन्-भाषायां जर्मन्-भाषायां, स्विजर्लेण्ड्भागेषु च मधुरमरीचिकायाः विधानि “पेपरोन्” इति, कटुमरीचिकायाः विधानि “पेपरोन्सिनो” इति च वदन्ति । फ्रेञ्च्देशे महामरीचिकां “पैरान्” इति वदन्ति । जर्मन्-देशे महामरीचिकां “प्याप्रीक” इति वदन्ति । डच्-देशे “बेल् पेपर्” इति, अत्र “चिलि” पदं केवलं मरीचिकाचूर्णम् इत्यर्थे उपयुज्यन्ते । हाट् पेपर् इत्यस्य भिन्नानि रूपाणि “स्प्यान्से पेपर् इति वदन्ति । स्विजर्लेण्ड्-देशे महामरीचिकया कृतं उपस्करचूर्णं “प्याप्रीक” इति वदन्ति । स्प्यानिष्-भाषाराष्ट्रेषु प्रत्येकं विधस्य अपि विभिन्नानि नामानि सन्ति । मेक्सिको देशे “चिले” पदं “हाट् पेपर्” इत्यर्थे उपयुज्यते । कटुरहितविधेभ्यः “पिमिण्टो” इति वदन्ति । पेरु, प्युरिटो, रिको, अर्जण्टैनादेशेषु नाम्नां परस्परसम्बन्धः नास्ति चेदपि एते “अजि” इति पदप्रयोगं कुर्वन्ति । स्प्येन्-देशे कटुरहितविधं “पिमिण्टो” इति, कटुसहितं “गिन्डिल्ला” इति च वदन्ति । अर्जण्टैना, स्प्येन्-देशेषु चाकोयेन्सिविधं “पुटप्यारियो” इति वदन्ति । एतस्य अतिकटुत्वकारणतः जनभाषायाम् एतस्य अर्थः “हे भगवन्, कटुः” इति । महामरीचिकायाः अन्यानि कटुविधानि “चिलि” पदेन सूच्यते । उत्तरभारते पाकिस्ताने च “क्याप्सिकम् अन्युं” इत्येतत् विधं स्थानीयभाषासु “शिम्लामिर्च्” इति वदन्ति । “शिम्ला” इत्येतत् भारतस्य प्रसिद्धं गिरिधाम अस्ति । जपानीभाषायां “टुगार्षि” इत्येतेन पदेन हाट् चिलि पेपर् इत्येतत् सूचयन्ति । तावदेव न, विशेषतया तेन निर्मितस्य खाद्यपदार्थस्य, आहारस्य रुचिवर्धकस्य उपस्करचूर्णस्य च तदेव पदम् उपयुज्यते । बेल् पेपर् इत्येतत् “पिम्यान्” इति वदन्ति ।‎
{ "source": "wikipedia" }
प्रयोगमञ्जरी प्रयोगमञ्जरी केरलदेशीयः कश्चन शैवतन्त्रगन्थः भवति। अस्य कर्ता रविः केरलेषु शिवपुरग्रामे काश्यपगोत्रे माठरकुले लब्धजन्मा कश्चन सोमयाजी । क्रिस्तोरनन्तरं द्वादशशतके अस्य ग्रन्थस्य विरचनमभवदिति पण्डतानाम् अभिप्रायः । शैवागमसिद्धान्तसारः इति अस्य अपरं नाम अपि अस्ति । अस्मात् नाम्नः एव ज्ञायते यत् अयं ग्रन्थः शैवागमप्रतिपादितानां विषयाणां सङ्ग्रहरूपः इति ।
{ "source": "wikipedia" }
नैनादेवी पाकिस्तानस्य कराचीमण्डले सुक्कूररेलस्थानकस्य समीपे नैना इत्यत्र विद्यमानः देवालयः एव शक्तिपीठम् अस्ति । महिषमर्दिन्याः आवासस्थानम् एतत् इति विश्वासः अस्ति ।अस्मिन् स्थाने देव्याः त्रीणि नेत्राणि पतितानि इति ऐतिह्यम् अस्ति । अतः एव अत्रत्या सतीदेवी नैनादेवी इति पूज्यते । अत्रत्यः शिवः क्रोधिशनाम्ना पूज्यते । शिवशङ्करीदेवालयः इत्यपि अस्य नाम वर्तते ।
{ "source": "wikipedia" }
429 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012
{ "source": "wikipedia" }
ग्वालियर /ˈɡɑːɪəə/) इत्येतन्नगरं मध्यप्रदेशराज्यस्य ग्वालियरविभागे अन्तर्गतस्य ग्वालियरमण्डलस्य केन्द्रम् अस्ति । ग्वालियर-महानगरं मध्यप्रदेशराज्यस्य प्रमुखमहानगरेषु अन्यतमं वर्तते । इदं नगरं प्राचीननगरेषु प्रमुखम् अस्ति । अस्य नगरस्य दुर्गाः अपि प्रसिद्धाः सन्ति । इदं नगरं गुर्जर, प्रतिहार, तोमर, कछवाडा इत्येतेषां राजवंशानां केन्द्रमासीत् । अस्मिन् नगरे विद्यमानाः स्मारकाः, दुर्गाः, भवनानि च प्रसिद्धानि सन्ति । अत्र सङ्ग्रहालये बहूनि स्मृतिचिह्नानि सङ्गृहीतानि सन्ति । एतानि स्मृतिचिह्नानि अस्य नगरस्य पर्यटनदृष्ट्या महत्वपूर्णानि मन्यन्ते । 2011 जनगणनानुगुणं ग्वालियर-महानगरस्य जनसङ्ख्या 11,01,981 अस्ति । अत्र 5,88,752 पुरुषाः, 5,13,229 महिलाः च सन्ति । भारतस्य प्रमुखनगरेषु ग्वालियर-महानगरस्य एकादशक्रमाङ्कः अस्ति । अत्र पुं-स्त्री अनुपातः 1000-872 अस्ति । अत्र साक्षरता 87.38% अस्ति । ग्वालियर-महानगरं भारतस्य मध्यभागे स्थितम् अस्ति । अस्य निर्देशाङ्कः 26 º 22 उ., 78 º 17 पू. अस्ति । समुद्रतलात् अस्य नगरस्य औन्नत्यं 196 मी. अस्ति । अस्मिन् नगरे नवम्बर-तः फरवरी-पर्यन्तं शीतर्तुः भवति । शीतर्तौ अस्य नगरस्य न्यूनतमं तापमानं 15 भवति । अस्मिन् नगरे अप्रैल-तः जून-पर्यन्तं ग्रीष्मर्तुः भवति । ग्रीष्मर्तौ अस्य नगरस्य अधिकतमं तापमानं 31 º भवति । अस्मिन् नगरे जुलाई-तः सितम्बर-पर्यन्तं वर्षर्तुः भवति । अष्टमशताब्द्याम् अत्रत्यः राजा सूरज सेन इत्याख्यः आसीत् । सः एकस्मात् अज्ञातरोगात् ग्रस्तः आसीत् । तदा ग्वालिप इत्याख्यः तपस्वी आगतः । तेन तपस्विना सूरज सेन इत्यस्मै जीवनदानं प्रदत्तम् । अतः राजा सूरज सेन इत्याख्यः तपस्विनः सम्माने अस्य नगरस्य ग्वालियर इति नामकरणं कृतवान् ।ततः परं इदं नगरं राजवंशानां राजधानी अभवत् । अस्मिन् प्रान्ते महान्तः योद्धारः, राजानः, कवयः, सङ्गीतज्ञाः अभवन् । एतैः सर्वैः अस्मै नगराय महत्वपूर्णं योगदानं प्रदत्तम् । इदानीं ग्वालियर किञ्चित् आधुनिकं महानगरम् अस्ति । इदं नगरं मृद्शिल्पकलाभ्यः प्रसिद्धमस्ति । अत्र बहवः कुम्भकाराः सन्ति । ते मृत्तिकाभिः पात्राणि, क्रीडनकानि निर्मान्ति । नगरेऽस्मिन् उत्सवदिनेषु कुम्भकाराः एतेषां अधिकमात्रायां व्यापारं कुर्वन्ति । इदानीं कुम्भकाराः मृत्तिकायाः क्रीडनकानि न निर्मान्ति । कर्गदैः क्रीडनकानि निर्मान्ति । तेषामुपरि चकास्तिकार्यं कुर्वन्ति । ग्वालियर-महानगरे जीवाजी विश्वविद्यालयः स्थितः अस्ति । एतेन विश्वविद्यालयेन सह अनेकाः महाविद्यालयाः संलग्नाः सन्ति । कला, विज्ञानं, वाणिज्यं, चिकित्साविज्ञानं, कृषिः इत्यादीनां विषयाणां महाविद्यालयाः नगरेऽस्मिन् सन्ति । अस्य नगरस्य साक्षरतास्तरम् उच्चतरम् अस्ति । नगरेऽस्मिन् सङ्गीतकलायाः विशिष्टा परम्परा अस्ति । ग्वालियर-महानगरस्य प्रमुखानि शिक्षणसंस्थानानि - ग्वालियर-दुर्गं ग्वालियर-महानगरस्य प्रमुखं पर्यटनं स्थलमस्ति । अस्य दुर्गस्य निर्माणं ’सेन्ड’ पाषाणैः कृतम् अस्ति । इदं दुर्गम् एकस्मिन् शैलप्रस्थे स्थितमस्ति । अस्य दुर्गस्य औन्नत्यं 35 फीट् अस्ति । अतः केनापि इदं दुर्गं जेतुं न शक्यते इति स्पष्टम् । अस्य दुर्गस्य निर्माणं राज्ञा मान सिंह इत्याख्येन कारितम् । अस्मिन् दुर्गे भव्यकलाकृतीनाम् अवशेषाः मिलन्ति । अस्मिन् दुर्गे कश्चित् सङ्गीतप्रकोष्ठः अस्ति । तस्य प्रकोष्ठस्य भित्तयः जालयुताः सन्ति । अस्मिन् प्रकोष्ठे राजपरिवारस्य स्त्रियः सङ्गीतस्य आनन्दं प्राप्नुवन्ति स्म । दुर्गेऽस्मिन् किञ्चित् कारागारम् अपि अस्ति । उच्यते औरङ्गजेब इत्याख्येन स्वस्य भ्राता मुराद इत्ययं कारागारे पूरितः । ततः परं तेन स्वस्य भ्रात्रे मृत्युदण्डः अपि प्रदत्तः आसीत् । अस्मिन् दुर्गे कश्चित् कुण्डः अपि अस्ति । अस्य कुण्डस्य नाम सूरज कुण्ड इति । नवमशताब्द्यां गुर्जर प्रतिहार वंशजैः अद्वितीयवास्तुकलायुतं विष्णुमन्दिरं निर्मापितम् । तस्य मन्दिरस्य उच्चता 100 फीट् अस्ति । अस्य मन्दिरस्य निर्माणं द्रविड-वास्तुकलायाम्, आर्य-वास्तुकलायां च कृतम् अस्ति । इदं भवनं सिन्धिया-वंशजानां निवासस्थलम् अस्ति । अत्र कश्चित् भव्यः सङ्ग्रहालयः अपि अस्ति । अस्मिन् भवने पञ्चत्रिंशत्प्रकोष्ठाः सन्ति । अस्य भवनस्य अधिकतरः भागः इटालियन् इत्यनया वास्तुकलया निर्मितम् अस्ति । अस्मिन् सङ्ग्रहालये रजतमयं रेलयानम् अस्ति । इदं रेलयानं भोजनपीठस्योपरि उपयुज्यते । कस्मिंश्चित् सम्भोजने इदं रेलयानं भोजनं परिवेषयति । अत्र इटली, फ्रान्स्, चीन इत्यादीनां देशानां दुर्लभाः कलाकृतयः सन्ति । तानसेन इत्याख्यः भारतस्य शास्त्रीयसङ्गीतस्य सङ्गीतज्ञः आसीत् । तानसेन इत्ययं अक्बर् इत्याख्यस्य राज्ञः आस्थाने विद्यमानेषु नवरत्नेषु अन्यतमः आसीत् । तस्य स्मारकः अत्र स्थितः अस्ति । अयं मुगल-वास्तुकलायाः प्रतिरूपम् अस्ति । तानसेन इत्याख्यस्य स्मृतौ ग्वालियर-महानगरे प्रतिवर्षं तानसेन-समारोहः आयोज्यते । अस्य मन्दिरस्य निर्माणं बिरला इत्यनेन कारितम् । अस्य निर्माणकार्यस्य प्रेरणा कोणार्कस्थात् सूर्यमन्दिरात् सम्प्राप्ता अस्ति । रानी लक्ष्मीबाई स्मारक अपि अस्मिन् नगरे स्थितमस्ति । उच्यते यदा रानी लक्ष्मीबाई इत्यस्याः ब्रिटिश इत्येतैः सह युद्धं प्रचलति स्म, तदा रानी लक्ष्मीबाई इत्यनया स्वस्याः सेनाभिः सह अत्र विश्रामः कृतः । तत्कालीनस्य ग्वालियर-प्रान्तस्य शासकात् रानी लक्ष्मीबाई इतीयं साहाय्यम् अयाचत किन्तु तत्रत्यः राजा सदैव मुगल-ब्रिटिश इत्येतयोः अधीनः आसीत् । अतः सः राजा किमपि साहाय्यं कर्तुम् असमर्थः आसीत् । तदा रानी लक्ष्मीबाई वीरगतिं प्राप्तवती । तेन अत्रत्यानां राजवंशजानां गौरवं सन्देहयुक्तं जातम् । अत्र तात्या टोपे इत्यस्य अपि स्मारकः अस्ति । ग्वालियर-नगरे राजमाता विजया राजे सिन्धिया-विमानस्थानकम् अस्ति । देहली, मुम्बई, भोपाल, इन्दौर, जबलपुर इत्यादिभ्यः नगरेभ्यः ग्वालियर-नगराय विमानयानानि सन्ति । मुम्बई, देहली, बेङ्गळूरु, चेन्नै, हैदराबाद्, झांसी, उज्जैन, कोलकाता इत्यादिभ्यः नगरेभ्यः ग्वालियर-नगरं प्रति रेलयानानि सन्ति । मध्यप्रदेशस्य सर्वेभ्यः नगरेभ्यः, ग्रामेभ्यः च ग्वालियर-नगराय बस्-यानानि सन्ति । ://.2011..///284-. ://.
{ "source": "wikipedia" }
सः विख्यातः वैज्ञानिकः।
{ "source": "wikipedia" }
अलीराजपुरमण्डलम् /ˈəɪɑːʒəʊəəəə/) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य इन्दौरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति अलीराजपुरम् इति नगरम् । अलीराजपुरमण्डलस्य विस्तारः 2,165.24 चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे धारमण्डलं, पश्चिमे गुजरातराज्यम्, उत्तरे झाबुआमण्डलं, दक्षिणे बडवानीमण्डलम् अस्ति । अस्मिन् मण्डले नर्मदानदी प्रवहति । 2011 जनगणनानुगुणम् अलीराजपुरमण्डलस्य जनसङ्ख्या 7,28,999 अस्ति । अत्र 3,62,542 पुरुषाः, 3,66,457 महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते 229 जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 229 जनाः। 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 19.45% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-1011 अस्ति । अत्र साक्षरता 36.10% अस्ति । अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि- 1 अलीराजपुरम् 2 जोबट 3 भाभरा । अस्मिन् मण्डले वन्यविस्तारः अधिकः । अस्य विस्तारस्य जठ्ठीवाडा इति नाम । अयं विस्तारः ‘मिनि काश्मीर’- इति विख्यतोऽस्ति । महुवानामकं पुष्पम् तत्र प्राप्यते । मदिरायाः निर्माणे महुवा-नामकस्य पुष्पस्य उपयोगः अस्मिन् मण्डले भवति इति विशेषः । अयम् अरण्यं गाढम् अस्ति । अयम् अरण्यं ’मिनि काश्मिर’ इति अपि प्रसिद्धमस्ति । अयं विस्तृतम् अरण्यमस्ति । अस्मिन् मण्डले स्थिते कठ्ठीवाडा-अरण्ये अयं जलप्रपातः अस्ति । इदम् अतिरमणीयस्थलम् अस्ति । वृष्टिकाले अधिकसङ्ख्यायां जनाः तत्र गच्छन्ति । वृष्टिकाले इदं स्थलम् हरितमयं भवति येन कारणेन भ्रमणे आनन्दः आयाति । तत्र गत्वा जनाः स्वकीयान् क्लेशान् विस्मृत्य प्रफुल्लिताः भवन्ति । अस्य मण्डलस्य दक्षिणभागे इदं स्थलम् स्थितमस्ति । इदं स्थलं परितः विन्ध्याचलपर्वतश्रृङ्खला अस्ति । इदं स्थलं उन्नतक्षेत्रे स्थितमस्ति । तत्र वन्यप्राणिनः बहवः सन्ति । अस्मिन् स्थले ’काजलरानी’ इत्यस्याः प्रसिद्धं मन्दिरमपि अस्ति । मथवाड-प्रदेशे अपि गाढम् अरण्यमस्ति यस्मिन् भल्लुकः, शशः, सिंहः, चित्रव्याघ्रः, व्याघ्रः इत्यादयः वन्यप्राणिनः सन्ति । इदं स्थलं मध्यप्रदेश-गुजरातराज्ययोः सीमायां स्थितम् अस्ति । तेन कारणेन अत्रस्थजनानां वेशभूषा, भाषा, संस्कृतिः च गुजरातराज्यजनसदृशी अस्ति । ://../ ://../////.
{ "source": "wikipedia" }