Kanda
stringclasses
7 values
Sarga
int64
1
131
shlok_no
int64
1
8.28k
shlok
stringlengths
29
818
translation
stringlengths
7
1.33k
Uttara Kanda
91
3
एतान्सर्वान्समानीय मन्त्रयित्वा च लक्ष्मण । हयं लक्षणसम्पन्नं विमोक्ष्यामि समाधिना ।। 7.91.3 ।।
null
Uttara Kanda
91
4
तद्वाक्यं राघवेणोक्तं श्रुत्वा त्वरितविक्रमः । द्विजान्सर्वान्समाहूय दर्शयामास राघवम् ।। 7.91.4 ।।
null
Uttara Kanda
91
5
ते दृष्ट्वा देवसङ्काशं कृतपादाभिवन्दनम् । राघवं सुदुराधर्षमाशीर्भिः समपूजयन् ।। 7.91.5 ।।
null
Uttara Kanda
91
6
प्राञ्जलिः स तदा भूत्वा राघवो द्विजसत्तमान् । आचचक्षे ऽश्वमेधस्य ह्यभिप्रायं महायशाः ।। 7.91.6 ।।
null
Uttara Kanda
91
7
ते तु रामस्य तच्छ्रुत्वा नमस्कृत्वा वृषध्वजम् । अश्वमेधं द्विजाः सर्वे पूजयन्ति स्म सर्वशः ।। 7.91.7 ।।
null
Uttara Kanda
91
8
स तेषां द्विजमुख्यानां वाक्यमद्भुतदर्शनम् । अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतो ऽभवत्तदा ।। 7.91.8 ।।
null
Uttara Kanda
91
9
विज्ञाय कर्म तत्तेषां रामो लक्ष्मणमब्रवीत् । प्रेषयस्व द्रुतं दूतान् सुग्रीवाय महात्मने ।। 7.91.9 ।।
null
Uttara Kanda
91
10
यथा महद्भिर्हरिभिर्बहुभिश्च वनौकसाम् । सार्धमागच्छ भद्रं ते ह्यनुभोक्तुं महोत्सवम् ।। 7.91.10 ।।
null
Uttara Kanda
91
11
बिभीषणश्च रक्षोभिः कामगैर्बहुभिर्वृतः । अश्वमेधं महायज्ञमायात्वतुलविक्रमः ।। 7.91.11 ।।
null
Uttara Kanda
91
12
राजानश्च महाभागा ये मे प्रियचिकीर्षवः । सानुगाः क्षिप्रमायान्तु यज्ञं द्रष्टुमनुत्तमम् ।। 7.91.12 ।।
null
Uttara Kanda
91
13
देशान्तरगता ये च द्विजा धर्मसमाहिताः । आमन्त्रयस्व तान्सर्वानश्वमेधाय लक्ष्मण ।। 7.91.13 ।।
null
Uttara Kanda
91
14
ऋषयश्च महाबाहो आहूयन्तां तपोधनाः । देशान्तरगताः सर्वे सदाराश्च द्विजातयः । तथैव तालावचरास्तथैव नटनर्तकाः ।। 7.91.14 ।।
null
Uttara Kanda
91
15
यज्ञवाटश्च सुमहान्गोमत्या नैमिशे वने । आज्ञाप्यतां महाबाहो तद्धि पुण्यमनुत्तमम् ।। 7.91.15 ।।
null
Uttara Kanda
91
16
शान्तयश्च महाबाहो प्रवर्त्यन्तां समन्ततः ।। 7.91.16 ।।
null
Uttara Kanda
91
17
शतशश्चापि धर्मज्ञाः क्रतुमुख्यमनुत्तमम् । अनुभूय महायज्ञं नैमिशे रघुनन्दन ।। 7.91.17 ।।
null
Uttara Kanda
91
18
तुष्टः पुष्टश्च सर्वो ऽसौ मानितश्च यथाविधि । प्रीतिं यास्यति धर्मज्ञ शीघ्रमामन्त्र्यतां जनः ।। 7.91.18 ।।
null
Uttara Kanda
91
19
शतं वाहसहस्राणां तण्डुलानां वपुष्मताम् । अयुतं तिलमुद्गानां प्रयात्वग्रे महाबल ।। 7.91.19 ।।
null
Uttara Kanda
91
20
चणकानां कुलित्थानां माषाणां लवणस्य च । अतो ऽनुरूपं स्नेहं च गन्धं सङ्क्षिप्तमेव च ।। 7.91.20 ।।
null
Uttara Kanda
91
21
सुवर्णकोट्यो बहुला हिरण्यस्य शतोत्तराः । अग्रतो भरतः कृत्वा गच्छत्वग्रे समाधिना ।। 7.91.21 ।।
null
Uttara Kanda
91
22
अन्तरा पण्यवीथ्यश्च सर्वे च नटनर्तकाः । सूदा नार्यश्च बहवो नित्यं यौवनशालिनः ।। 7.91.22 ।।
null
Uttara Kanda
91
23
भरतेन तु सार्धं ते यान्तु सैन्यानि चाग्रतः । नैगमा बलवृद्धाश्च द्विजाश्च सुसमाहिताः ।। 7.91.23 ।।
null
Uttara Kanda
91
24
कर्मान्तिकान्वर्धकिनः कोशाध्यक्षांश्च नैगमान् । मम मातऽस्तथा सर्वाः कुमारान्तःपुराणि च ।। 7.91.24 ।।
null
Uttara Kanda
91
25
काञ्चनीं मम पत्नीं च दीक्षायां ज्ञांश्च कर्मणि । अग्रतो भरतः कृत्वा गच्छत्वग्रे महायशाः ।। 7.91.25 ।।
null
Uttara Kanda
91
26
उपकार्या महार्हाश्च पार्थिवानां महौजसाम् । सानुगानां नरश्रेष्ठो व्यादिदेश महाबलः ।। 7.91.26 ।।
null
Uttara Kanda
91
27
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकनवतितमः सर्गः ।। 91 ।।
null
Uttara Kanda
92
1
तत्सर्वमखिलेनाशु प्रस्थाप्य भरताग्रजः । हयं लक्षणसम्पन्नं कृष्णसारं मुमोच ह ।। 7.92.1 ।।
null
Uttara Kanda
92
2
ऋत्विग्भिर्लक्ष्मणं सार्धमश्वतन्त्रे नियोज्य च । ततो ऽभ्यगच्छत्काकुत्स्थः सह सैन्येन नैमिशम् ।। 7.92.2 ।।
null
Uttara Kanda
92
3
यज्ञवाटं महाबाहुर्दृष्ट्वा परममद्भुतम् । प्रबर्षमतुलं लेभे श्रीमानिति वचो ऽब्रवीत् ।। 7.92.3 ।।
null
Uttara Kanda
92
4
नैमिषे वसतस्तस्य सर्व एव नराधिपाः । आनिन्युरुपहारांश्च तान्रामः प्रत्यपूजयत् ।। 7.92.4 ।।
null
Uttara Kanda
92
5
उपकार्या महार्हाश्च पार्थिवानां महात्मनाम् । सानुगानां नरश्रेष्ठो व्यादिदेश महामतिः ।। 7.92.5 ।।
null
Uttara Kanda
92
6
अन्नपानानि वस्त्राणि सानुगानां महात्मनाम् । भरतः सन्ददावाशु शत्रुघ्नसहितस्तदा ।। 7.92.6 ।।
null
Uttara Kanda
92
7
वानराश्च महात्मानः सुग्रीवसहितास्तदा । विप्राणां प्रणताः सर्वे चक्रिरे परिवेषणम् ।। 7.92.7 ।।
null
Uttara Kanda
92
8
बिभीषणश्च रक्षोभिर्बहुभिः स्रग्विभिर्वृतः । ऋषीणामुग्रतपसां पूजां चक्रे महात्मनाम् ।। 7.92.8 ।।
null
Uttara Kanda
92
9
एवं सुविहितो यज्ञो हयमेधो ऽभ्यवर्तत । लक्ष्मणेनागुप्ता च हयचर्या प्रवर्तत । ईदृशं राजसिंहस्य यज्ञप्रवरमुत्तमम् ।। 7.92.9 ।।
null
Uttara Kanda
92
10
नान्यः शब्दो ऽभवत्तत्र हयमेधे महात्मनः । छन्दतो देहि विस्रब्धो यावत्तुष्यन्ति याचकाः ।। 7.92.10 ।।
null
Uttara Kanda
92
11
तावत्सर्वाणि दत्तानि क्रतुमध्ये महात्मनः । विविधानि च गौडानि खाण्डवानि तथैव च ।। 7.92.11 ।।
null
Uttara Kanda
92
12
न निस्सृतं भतत्योष्ठाद्वचनं यावदर्थिनाम् । तावद्वानररक्षोभिर्दत्तमेवाभ्यदृश्यत ।। 7.92.12 ।।
null
Uttara Kanda
92
13
न कश्चिन्मलिनस्तत्र दीनो वा ऽप्यथ कृर्शतः । तस्मिन्यज्ञवरे राज्ञो हृष्टपुष्टजनावृते ।। 7.92.13 ।।
null
Uttara Kanda
92
14
ये च तत्र महात्मानो मुनयश्चिरजीविनः । नास्मरंस्तादृशं यज्ञं नाप्यासीत् स कदाचन ।। 7.92.14 ।।
null
Uttara Kanda
92
15
यः कृत्यवान्सुवर्णेन सुवर्णं लभते स्म सः । वित्तार्थी लभते वित्तं रत्नार्थी रत्नमेव च ।। 7.92.15 ।।
null
Uttara Kanda
92
16
रजतानां सुवर्णानामश्मनामथ वाससाम् । अनिशं दीयमानानां राशिः समुपदृश्यते ।। 7.92.16 ।।
null
Uttara Kanda
92
17
न शक्रस्य धनेशस्य यमस्य वरुणस्य वा । ईदृशो दृष्टपूर्वो न एवमूचुस्तपोधनाः ।। 7.92.17 ।।
null
Uttara Kanda
92
18
सर्वत्र वानरास्तस्थुः सर्वत्रैव च राक्षसाः । वासोधनान्नमर्थिभ्यः पूर्णहस्ता ददुर्भृशम् ।। 7.92.18 ।।
null
Uttara Kanda
92
19
ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः । संवत्सरमथो साग्रं वर्तते न च हीयते ।। 7.92.19 ।।
null
Uttara Kanda
92
20
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्विनवतितमः सर्गः ।। 92 ।।
null
Uttara Kanda
93
1
वर्तमाने तथाभूते यज्ञे च परमाद्भुते । सशिष्य आजगामाशु वाल्मीकिर्मुनिपुङ्गवः ।। 7.93.1 ।।
null
Uttara Kanda
93
2
स दृष्ट्वा दिव्यसङ्काशं यज्ञमद्भुतदर्शनम् । एकान्ते ऋषिवाटानां चकार उटजाञ्छुभान् ।। 7.93.2 ।।
null
Uttara Kanda
93
3
शकटांश्च बहून्पूर्णान्फलमूलैश्च शोभनान् । वाल्मीकिवाटे रुचिरे स्थापयन्नविदूरतः ।। 7.93.3 ।।
null
Uttara Kanda
93
4
आसीत्सुपूजितो राज्ञा मुनिभिश्च महात्मभिः । वाल्मीकिः सुमहातेजा न्यवसत्परमात्मवान् ।। 7.93.4 ।।
null
Uttara Kanda
93
5
स शिष्यावब्रवीद्धृष्टौ युवां गत्वा समाहितौ । कृत्स्नं रामायणं काव्यं गायेथां परया मुदा ।। 7.93.5 ।।
null
Uttara Kanda
93
6
ऋषिवाटेषु पुण्येषु ब्राह्मणावसथेषु च । रथ्यासु राजमार्गेषु पार्थिवानां गृहेषु च ।। 7.93.6 ।।
null
Uttara Kanda
93
7
रामस्य भवनद्वारि यत्र कर्म च कुर्वते । ऋत्विजामग्रतश्चैव तत्र गेयं विशेषतः ।। 7.93.7 ।।
null
Uttara Kanda
93
8
इमानि च फलान्यत्र स्वादूनि विविधानि च । जातानि पर्वताग्रेषु चास्वाद्यास्वाद्य गायताम् ।। 7.93.8 ।।
null
Uttara Kanda
93
9
न यास्यथः श्रमं वत्सौ भक्षयित्वा फलानि वै । मूलानि च सुमृष्टानि नगराद्बहिरास्यथः ।। 7.93.9 ।।
null
Uttara Kanda
93
10
यदि शब्दापयेद्रामः श्रवणाय महीपतिः । ऋषीणामुपविष्टानां ततो गेयं प्रवर्तताम् ।। 7.93.10 ।।
null
Uttara Kanda
93
11
दिवसे विंशतिः सर्गा गेया मधुरया गिरा । प्रमाणैर्बहुभिस्तत्र यथोद्दिष्टा मया पुरा ।। 7.93.11 ।।
null
Uttara Kanda
93
12
लोभश्चापि न कर्तव्यः स्वल्पो ऽपि धनकाङ्क्षया । किं धनेनाश्रमस्थानां फलमूलोपजीविना ।। 7.93.12 ।।
null
Uttara Kanda
93
13
यदि पृच्छेत्स काकुत्स्थो युवां कस्येति दारकौ । आवां वाल्मीकिशिष्यौ स्वो ब्रूतमेवं नराधिपम् ।। 7.93.13 ।।
null
Uttara Kanda
93
14
इमास्तन्त्रीः सुमधुराः स्थानं वा ऽपूर्वदर्शनम् । मूर्च्छयित्वा सुमधुरं गायतां विगतज्वरौ ।। 7.93.14 ।।
null
Uttara Kanda
93
15
आदिप्रभृति गेयं स्यान्न चावज्ञाय पार्थिवम् । पिता हि सर्वभूतानां राजा भविति धर्मतः ।। 7.93.15 ।।
null
Uttara Kanda
93
16
तद्युवां हृष्टमनसौ श्वः प्रभाते समास्थितौ । गायेथां मधुरं गेयं तन्त्रीलयसमन्वितम् ।। 7.93.16 ।।
null
Uttara Kanda
93
17
इति सन्दिश्य बहुशो मुनिः प्राचेतसस्तदा । वाल्मीकिः परमोदारस्तूष्णीमासीन्महायशाः ।। 7.93.17 ।।
null
Uttara Kanda
93
18
सन्दिष्टौ मुनिना तेन तावुभौ मैथिलीसुतौ । तथैव करवावेति निर्जग्मतुररिन्दमौ ।। 7.93.18 ।।
null
Uttara Kanda
93
19
तामद्भुतां तौ हृदये कुमारौ निवेश्य वाणीमृषिभाषितां तदा । समुत्सुकौ तौ सममूषतुर्निशां यथा ऽश्विनौ भार्गवनीतिसंहिताम् ।। 7.93.19 ।।
null
Uttara Kanda
93
20
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिनवतितमः सर्गः ।। 93 ।।
null
Uttara Kanda
94
1
तौ रजन्यां प्रभातायां स्नातौ हुतहुताशनौ । यथोक्तमृषिणा पूर्वं सर्वं तत्रोपगायताम् ।। 7.94.1 ।।
null
Uttara Kanda
94
2
तां स शुश्राव काकुत्स्थः पूर्वाचार्यविजिर्मिताम् । अपूर्वां पाठ्यजातिं च गेयेन समलङ्कृताम् ।। 7.94.2 ।।
null
Uttara Kanda
94
3
प्रमाणैर्बहुभिर्बद्धां तन्त्रीलयसमन्विताम् । बालाभ्यां राघवः श्रुत्वा कौतूहलपरो ऽभवत् ।। 7.94.3 ।।
null
Uttara Kanda
94
4
अथ कर्मान्तरे राजा समाहूय महामुनीन् । पार्थिवांश्च नरव्याघ्रः पण्डितान्नैगमांस्तथा ।। 7.94.4 ।।
null
Uttara Kanda
94
5
पौराणिकाञ्छब्दविदो ये च वृद्धा द्विजातयः । स्वराणां लक्षणज्ञांश्च उत्सुकान्द्विजसत्तमान् ।। 7.94.5 ।।
null
Uttara Kanda
94
6
लक्षणज्ञांश्च गान्धर्वान्नैगमांश्च विशेषतः । पादाक्षरसमासज्ञांश्छन्दःसु परिनिष्ठितान् ।। 7.94.6 ।।
null
Uttara Kanda
94
7
कलामात्राविशेषज्ञाञ्ज्योतिषे च परं गतान् । क्रियाकल्पविदश्चैव तथा कार्यविदो जनान् ।। 7.94.7 ।।
null
Uttara Kanda
94
8
भाषाज्ञानिङ्गितज्ञांश्च नैगमांश्चाप्यशेषतः । हेतूपचारकुशलान् वचने चापि हैतुकान् ।। 7.94.8 ।।
null
Uttara Kanda
94
9
छन्दोविदः पुराणज्ञान्वैदिकान्द्विजसत्तमान् । चित्रज्ञान्वृत्तसूत्रज्ञान्गीतनृत्यविशारदान् ।। 7.94.9 ।।
null
Uttara Kanda
94
10
शास्त्रज्ञान्नीतिनिपुणान्वेदान्तार्थप्रबोधकान् । एतान्सर्वान्समानीय गातारौ समवेशयत् ।। 7.94.10 ।।
null
Uttara Kanda
94
11
दृष्ट्वा मुनिगणाः सर्वे पार्थिवाश्च महौजसः । पिबन्त इव चक्षुर्भ्यां राजानं गायकौ च तौ ।। 7.94.11 ।।
null
Uttara Kanda
94
12
ऊचुः परस्परं चेदं सर्व एव समन्ततः । उभौ रामस्य सदृशौ बिम्बाद्बिम्बमिवोत्थितौ ।। 7.94.12 ।।
null
Uttara Kanda
94
13
जटिलौ यदि न स्यातां न वल्कलधरौ यदि । विशेषं नाधिगच्छामो गायतो राघवस्य च ।। 7.94.13 ।।
null
Uttara Kanda
94
14
तेषां संवदतामेवं श्रोतऽणां हर्षवर्धनम् । गेयं प्रचक्रतुस्तत्र तावुभौ मुनिदारकौ ।। 7.94.14 ।।
null
Uttara Kanda
94
15
ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम् । न च तृप्तिं ययुः सर्वे श्रोतारो गानसम्पदा ।। 7.94.15 ।।
null
Uttara Kanda
94
16
प्रवृत्तमादितः पूर्वसर्गं नारददर्शितम् । ततः प्रभृति सर्गांश्च यावद्विंशत्यगायताम् ।। 7.94.16 ।।
null
Uttara Kanda
94
17
ततो ऽपराह्णसमये राघवः समभाषत । श्रुत्वा विंशतिसर्गांस्तान्भ्रातरं भ्रातृवत्सलः ।। 7.94.17 ।।
null
Uttara Kanda
94
18
अष्टादशसहस्राणि सुवर्णस्य महात्मनोः । प्रयच्छ शीघ्रं काकुत्स्थ यदन्यदभिकाङ्क्षितम् । ददौ शीघ्रं स काकुत्स्थो बालयोर्वै पृथक्पृथक् ।। 7.94.18 ।।
null
Uttara Kanda
94
19
दीयमानं सुवर्णं तु नागृह्णीतां कुशीलवौ । ऊचतुश्च महात्मानौ किमनेनेति विस्मितौ ।। 7.94.19 ।।
null
Uttara Kanda
94
20
वन्येन फलमूलेन निरतौ वनवासिनौ । सुवर्णेन हिरण्येन किं करिष्यावहे वने ।। 7.94.20 ।।
null
Uttara Kanda
94
21
तथा तयोः प्रब्रुवतोः कौतूहलसमन्विताः । श्रोतारश्चैव रामश्च सर्व एव सुविस्मिताः ।। 7.94.21 ।।
null
Uttara Kanda
94
22
तस्य चैवागमं रामः काव्यस्य श्रोतुमुत्सुकः । पप्रच्छ तौ महातेजास्तावुभौ मुनिदारकौ ।। 7.94.22 ।।
null
Uttara Kanda
94
23
किम्प्रमाणमिदं काव्यं का प्रतिष्ठा महात्मनः । कर्ता काव्यस्य महतः क्व चासौ मुनिपुङ्गवः ।। 7.94.23 ।।
null
Uttara Kanda
94
24
पृच्छन्तं राघवं वाक्यमूचतुर्मुनिदारकौ ।। 7.94.24 ।।
null
Uttara Kanda
94
25
वाल्मीकिर्भगवान्कर्ता सम्प्राप्तो यज्ञसंविधम् । येनेदं चरितं तुभ्यमशेषं सम्प्रदर्शितम् ।। 7.94.25 ।।
null
Uttara Kanda
94
26
सन्निबद्धं हि श्लोकानां चतुर्विशत्सहस्रकम् । उपाख्यानशतं चैव भार्गवेण तपस्विना ।। 7.94.26 ।।
null
Uttara Kanda
94
27
आदिप्रभृति वै राजन्पञ्चसर्गशतानि च । काण्डानि षट् कृतानीह सोत्तराणि महात्मना । कृतानि गुरुणास्माकमृषिणा चरितं तव ।। 7.94.27 ।।
null
Uttara Kanda
94
28
प्रतिष्ठा ऽ ऽजीवितं यावत्तावत्सर्वस्य वर्तते ।। 7.94.28 ।।
null
Uttara Kanda
94
29
सोत्तराणि महात्मना । यदि बुद्धिः कृता राजञ्छ्रवणाय महारथ । कर्मान्तरे क्षणीभूतस्तच्छृणुष्व सहानुजः ।। 7.94.29 ।।
null
Uttara Kanda
94
30
बाढमित्यब्रवीद्रामस्तौ चानुज्ञाप्य राघवम् । प्रहृष्टौ जग्मतुः स्थानं यत्रास्ते मुनिपुङ्गवः ।। 7.94.30 ।।
null
Uttara Kanda
94
31
रामो ऽपि मुनिभिः सार्धं पार्थिवैश्च महात्मभिः । श्रुत्वा तद्गीतिमाधुर्यं कर्मशालामुपागमत् ।। 7.94.31 ।।
null
Uttara Kanda
94
32
शुश्राव तत्ताललयोपपन्नं सर्गान्वितं स स्वरशब्दयुक्तम् । तन्त्रीलयव्यञ्जनयोगयुक्तं कुशीलवाभ्यां परिगीयमानम् ।। 7.94.32 ।।
null
Uttara Kanda
94
33
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुर्नवतितमः सर्गः ।। 94 ।।
null
Uttara Kanda
95
1
रामो बहून्यहान्येवं तद्गीतं परमं शुभम् । शुश्राव मुनिभिः सार्धं पार्थिवैः सह वानरैः ।। 7.95.1 ।।
null
Uttara Kanda
95
2
तस्मिन्गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ । तस्याः परिषदो मध्ये रामो वचनमब्रवीत् । दूताञ्छुद्धसमाचारानाहूयात्ममनीषया ।। 7.95.2 ।।
null