Kanda
stringclasses
7 values
Sarga
int64
1
131
shlok_no
int64
1
8.28k
shlok
stringlengths
29
818
translation
stringlengths
7
1.33k
Uttara Kanda
63
22
सृष्टः क्रोधाभिभूतेन विनाशार्थं दुरात्मनोः । मधुकैटभयोर्वीर विघाते वर्तमानयोः । स्रष्टुकामेन लोकांस्त्रींस्तौ चानेन हतौ युधि ।। 7.63.22 ।।
null
Uttara Kanda
63
23
तौ हत्वा जनभोगार्थं कैटभं तु मधुं तथा । अनेन शरमुख्येन ततो लोकांश्चकार सः ।। 7.63.23 ।।
null
Uttara Kanda
63
24
नायं मया शरः पूर्वं रावणस्य वधार्थिना । मुक्तः शत्रुघ्न भूतानां महांस्त्रासो भवेदिति ।। 7.63.24 ।।
null
Uttara Kanda
63
25
यच्च तस्य महच्छूलं त्र्यम्बकेण महात्मना । दत्तं शत्रुविनाशाय मधोरायुधमुत्तमम् ।। 7.63.25 ।।
null
Uttara Kanda
63
26
स तं निक्षिप्य भवने पूज्यमान पुनः पुनः । दिशः सर्वाः समासाद्य प्राप्नोत्याहारमुत्तमम् ।। 7.63.26 ।।
null
Uttara Kanda
63
27
यदा तु युद्धमाकाङ्क्षन् कश्चिदेनं समाह्वयेत् । तदा शूलं गहीत्वा तं भस्म रक्षः करोति हि ।। 7.63.27 ।।
null
Uttara Kanda
63
28
स त्वं पुरुषशार्दूल तमायुधविनाकृतम् । अप्रविष्टं पुरं पूर्वं द्वारि तिष्ठ धृतायुधः ।। 7.63.28 ।।
null
Uttara Kanda
63
29
अप्रविष्टं च भवनं युद्धाय पुरुषर्षभ । आह्वयेथा महाबाहो ततो हन्तासि राक्षसम् ।। 7.63.29 ।।
null
Uttara Kanda
63
30
अन्यथा क्रियमाणे तु अवध्यः स भविष्यति । यदि त्वेवं कृते वीर विनाशमुपयास्यति ।। 7.63.30 ।।
null
Uttara Kanda
63
31
एतत्ते सर्वमाख्यातं शूलस्य च विपर्ययः । श्रीमतः शितिकण्ठस्य कृत्यं हि दुरतिक्रमम् ।। 7.63.31 ।।
null
Uttara Kanda
63
32
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिषष्टितमः सर्गः ।। 63 ।।
null
Uttara Kanda
64
1
एवमुक्त्वा च काकुत्स्थं प्रशस्य च पुनः पुनः । पुनरेवापरं वाक्यमुवाच रघुनन्दनः ।। 7.64.1 ।।
null
Uttara Kanda
64
2
इमान्यश्वसहस्राणि चत्वारि पुरुषर्षभ । रथानां द्वे सहस्रे च गजानां शतमुत्तमम् ।। 7.64.2 ।।
null
Uttara Kanda
64
3
अन्तरा पणवीथ्यश्च नानापण्योपशोभिताः । अनुगच्छन्तु काकुत्स्थं तथैव नटनर्तकाः ।। 7.64.3 ।।
null
Uttara Kanda
64
4
हिरण्यस्य सुवर्णस्य नियुतं पुरुषर्षभ । आदाय गच्छ शत्रुघ्न पर्याप्तधनवाहनः ।। 7.64.4 ।।
null
Uttara Kanda
64
5
बलं च सुभृतं वीर हृष्टपुष्टमनुद्धतम् । सम्भाषासम्प्रदानेन रञ्जयस्व नगेत्तम ।। 7.64.5 ।।
null
Uttara Kanda
64
6
न ह्यर्थास्तत्र तिष्ठन्ति न दारा न च बान्धवाः । सुप्रीतो भृत्यवर्गश्च यत्र तिष्ठसि राघव ।। 7.64.6 ।।
null
Uttara Kanda
64
7
ततो हृष्टजनाकीर्णां प्रस्थाप्य महतीं चमूम् । एक एव धनुष्पाणिर्गच्छ त्वं मधुनो वनम् ।। 7.64.7 ।।
null
Uttara Kanda
64
8
यथा त्वां न प्रजानाति गच्छन्तं युद्धकाङ्क्षिणम् । लवणस्तु मधोः पुत्रस्तथा गच्छेरशङ्कितम् ।। 7.64.8 ।।
null
Uttara Kanda
64
9
न तस्य मूत्युरन्यो ऽस्ति कश्चिद्धि पुरुषर्षभ । दर्शनं यो ऽभिगच्छेत स वध्यो लवणेन हि ।। 7.64.9 ।।
null
Uttara Kanda
64
10
स हि ग्रीष्मो ऽपयाते तु वर्षारात्र उपागते । हन्यास्त्वं लवणं सौम्य सहि कालो ऽस्य दुर्मतेः ।। 7.64.10 ।।
null
Uttara Kanda
64
11
महर्षींस्तु पुरत्कृत्य प्रयान्तु तव सौनिकाः । यथा ग्रीष्मावशेषेण तरेयुर्जाह्नवीजलम् ।। 7.64.11 ।।
null
Uttara Kanda
64
12
तत्र स्थाप्य बलं सर्वं नदीतीरे समाहितः । अग्रतो धनुषा सार्धं गच्छ त्वं लघुविक्रमः ।। 7.64.12 ।।
null
Uttara Kanda
64
13
एवमुक्तस्तु रामेण शत्रुघ्नस्तान्महाबलान् । सेनामुख्यान्समानीय ततो वाक्यमुवाच ह ।। 7.64.13 ।।
null
Uttara Kanda
64
14
एते वो गणिता वासा यत्र तत्र निवत्स्यथ । स्थातव्यं चाविरोधेन यथा बाधा न कस्यचित् ।। 7.64.14 ।।
null
Uttara Kanda
64
15
तथा तांस्तु समाज्ञाप्य प्रस्थाप्य च महद्बलम् । कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत् ।। 7.64.15 ।।
null
Uttara Kanda
64
16
रामं प्रदक्षिणीकृत्य शिरसा ऽभिप्रणम्य च । रामेण चाभ्यनुज्ञातः शत्रुघ्नः शत्रुतापनः ।। 7.64.16 ।।
null
Uttara Kanda
64
17
लक्ष्मणं भरतं चैव प्रणिपत्य कृताञ्जलिः । पुरोहितं वसिष्ठं च शत्रुघ्नः प्रयतात्मवान् । प्रदक्षिणमथो कृत्वा निर्जगाम महाबलः ।। 7.64.17 ।।
null
Uttara Kanda
64
18
प्रस्थाप्य सेनामथ सो ऽग्रतस्तदा गजेन्द्रवाजिप्रवरौघसङ्कुलाम् । उपास मासं तु नरेन्द्रपार्श्वतस्त्वथ प्रयातो रघुवंशवर्धनः ।। 7.64.18 ।।
null
Uttara Kanda
64
19
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुष्षष्टितमः सर्गः ।। 64 ।।
null
Uttara Kanda
65
1
प्रस्थाप्य च बलं सर्वं मासमात्रोषितः पथि । एक एवाशु शत्रुघ्नो जगाम त्वरितं तदा ।। 7.65.1 ।।
null
Uttara Kanda
65
2
द्विरात्रमन्तरे शूर उष्य राघवनन्दनः । वाल्मीकेराश्रमं पुण्यमगच्छद्वासमुत्तमम् ।। 7.65.2 ।।
null
Uttara Kanda
65
3
सो ऽभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम् । कृताञ्जलिरथो भूत्वा वाक्यमेतदुवाच ह ।। 7.65.3 ।।
null
Uttara Kanda
65
4
भगवन्वस्तुमिच्छामि गुरोः कृत्यादिहागतः । श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम् ।। 7.65.4 ।।
null
Uttara Kanda
65
5
शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः । प्रत्युवाच महात्मानं स्वागतं ते महायशः ।। 7.65.5 ।।
null
Uttara Kanda
65
6
स्वमाश्रममिदं सौम्य राघवाणां कुलस्य हि । आसनं पाद्यमर्ध्यं च निर्विशङ्कः प्रतीच्छ मे ।। 7.65.6 ।।
null
Uttara Kanda
65
7
प्रतिगृह्य तदा पूजां फलमूलं च भोजनम् । भक्षयामास काकुत्स्थस्तृप्तिं च परमां गतः ।। 7.65.7 ।।
null
Uttara Kanda
65
8
स भुक्त्वा फलमूलं च महर्षिं तमुवाच ह । इयं यज्ञविभूतिस्ते कस्याश्रमसमीपतः ।। 7.65.8 ।।
null
Uttara Kanda
65
9
तत्तस्य भाषितं श्रुत्वा वाल्मीकिर्वाक्यमब्रवीत् । शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा ।। 7.65.9 ।।
null
Uttara Kanda
65
10
युष्माकं पूर्वको राजा सौदासस्तस्य भूपतेः । पुत्रो वीरसहो नाम वीर्यवानतिधार्मिकः ।। 7.65.10 ।।
null
Uttara Kanda
65
11
स बाल एव सौदासो मृगयामुपचक्रमे । चञ्चूर्यमाणं ददृशे स शूरो राक्षसद्वयम् ।। 7.65.11 ।।
null
Uttara Kanda
65
12
शार्दूलरूपिणौ घोरौ मृगान्बहुसहस्रशः । भक्षमाणावसन्तुष्टौ पर्याप्तिं नैव जग्मतुः ।। 7.65.12 ।।
null
Uttara Kanda
65
13
स तु तौ राक्षसौ दृष्ट्वा निर्मृगं च वनं कृतम् । क्रोधेन महता ऽ ऽविष्टो जघानैकं महेषुणा ।। 7.65.13 ।।
null
Uttara Kanda
65
14
विनिपात्य तमेकं तु सौदासः पुरुषर्षभः । विज्वरो विगतामार्षो हतं रक्षो ह्युदैक्षत ।। 7.65.14 ।।
null
Uttara Kanda
65
15
निरीक्षमाणं तं दृष्ट्वा सहायं तस्य रक्षसः । सन्तापमकरोद्घोरं सौदासं चेदमब्रवीत् ।। 7.65.15 ।।
null
Uttara Kanda
65
16
यस्मादनपराधं त्वं सहायं मम जघ्निवान् । तस्मात्तवापि पापिष्ठ प्रदास्यामि प्रतिक्रियाम् ।। 7.65.16 ।।
null
Uttara Kanda
65
17
एवमुक्त्वा तु तद्राक्षस्तत्रैवान्तरधीयत । कालपर्याययोगेन राजा मित्रसहो ऽभवत् ।। 7.65.17 ।।
null
Uttara Kanda
65
18
राजापि यजते यज्ञमस्याश्रमसमीपतः । अश्वमेधं महायज्ञं तं वसिष्ठो ऽभ्यपालयत् ।। 7.65.18 ।।
null
Uttara Kanda
65
19
तत्र यज्ञो महानासीद्बहुवर्षगणायुतः । समृद्धः परया लक्ष्म्या देवयज्ञसमो ऽभवत् ।। 7.65.19 ।।
null
Uttara Kanda
65
20
अथावसाने यज्ञस्य पूर्ववैरमनुस्मरन् । वसिष्ठरूपी राजानमिति होवाच राक्षसः ।। 7.65.20 ।।
null
Uttara Kanda
65
21
अस्य यज्ञस्य जातो ऽन्तः सामिषं भोजनं मम । दीयतामिह शीघ्रं वै नात्र कार्या विचारणा ।। 7.65.21 ।।
null
Uttara Kanda
65
22
तच्छ्रुत्वा व्याहृतं वाक्यं रक्षसा ब्रह्मरूपिणा । भक्ष्यसंस्कारकुशलमुवाच पृथिवीपतिः ।। 7.65.22 ।।
null
Uttara Kanda
65
23
हविष्यं सामिषं स्वादु यथा भवति भोजनम् । तथा कुरुष्व शीघ्रं वै परितुष्येद्यथा गुरुः ।। 7.65.23 ।।
null
Uttara Kanda
65
24
शासनात्पार्थिवेन्द्रस्य सूदः सम्भ्रान्तमानसः । स राक्षसः पुनस्तत्र सूदवेषमथाकरोत् ।। 7.65.24 ।।
null
Uttara Kanda
65
25
स मानुषमथो मांसं पार्थिवाय न्यवेदयत् । इदं स्वादु हविष्यं च सामिषं चान्नमाहृतम् ।। 7.65.25 ।।
null
Uttara Kanda
65
26
स भोजनं वसिष्ठाय पत्न्या सार्धमुपाहरत् । मदयन्त्या नरव्याघ्र सामिषं रक्षसा हृतम् ।। 7.65.26 ।।
null
Uttara Kanda
65
27
ज्ञात्वा तदामिषं विप्रो मानुषं भाजनं गतम् । क्रोधेन महता ऽ ऽविष्टो व्याहर्तुमुपचक्रमे ।। 7.65.27 ।।
null
Uttara Kanda
65
28
यस्मात्त्वं भोजनं राजन्ममैतद्दातुमिच्छसि । तस्माद्भोजनमेतत्ते भविष्यति न संशयः ।। 7.65.28 ।।
null
Uttara Kanda
65
29
ततः क्रुद्धस्तु सौदासस्तोयं जग्राह पाणिना । वसिष्ठं शप्तुमारेभे भार्या चैनमवारयत् ।। 7.65.29 ।।
null
Uttara Kanda
65
30
राजन्प्रभुर्यतो ऽस्माकं वसिष्ठो भगवानृषिः । प्रतिशप्तुं न शक्तस्त्वं देवतुल्यं पुरोधसम् ।। 7.65.30 ।।
null
Uttara Kanda
65
31
ततः क्रोधमयं तोयं तेजोबलसमन्वितम् । व्यसर्जयत धर्मात्मा ततः पादौ सिषेच च ।। 7.65.31 ।।
null
Uttara Kanda
65
32
तेनास्य राज्ञस्तौ पादौ तदा कल्माषतां गतौ । तदाप्रभृति राजा ऽसौ सौदासः सुमहायशाः । कल्माषपादः संवृत्तः ख्यातश्चैव तथा नृपः ।। 7.65.32 ।।
null
Uttara Kanda
65
33
स राजा सह पत्न्या वै प्रणिपत्य मुहुर्मुहुः । पुनर्वसिष्ठं प्रोवाच यदुक्तं ब्रह्मरूपिणा ।। 7.65.33 ।।
null
Uttara Kanda
65
34
तच्छ्रुत्वा पार्थिवेन्द्रस्य रक्षसा विकृतं च तत् । पुनः प्रोवाच राजानं वसिष्ठः पुरुषर्षभम् ।। 7.65.34 ।।
null
Uttara Kanda
65
35
मया रोषपरीतेन यदिदं व्याहृतं वचः । नैतच्छक्यं वृथा कर्तुं प्रदास्यामि च ते वरम् ।। 7.65.35 ।।
null
Uttara Kanda
65
36
कालो द्वादश वर्षाणि शापस्यान्तो भविष्यति । मत्प्रासादाच्च राजेन्द्र व्यतीतं न स्मरिष्यसि ।। 7.65.36 ।।
null
Uttara Kanda
65
37
एवं स राजा तं शापमुपभुज्यारिसूदनः । प्रतिलेभे पुना राज्यं प्रजाश्चैवान्वपालयत् ।। 7.65.37 ।।
null
Uttara Kanda
65
38
तस्य कल्माषपादस्य यज्ञस्यायतनं शुभम् । आश्रमस्य समीपे ऽस्य यन्मां पृच्छसि राघव ।। 7.65.38 ।।
null
Uttara Kanda
65
39
तस्य तां पार्थिवेन्द्रस्य कथां श्रुत्वा सुदारुणाम् । विवेश पर्णशालायां महर्षिमभिवाद्य च ।। 7.65.39 ।।
null
Uttara Kanda
65
40
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चषष्टितमः सर्गः ।। 65 ।।
null
Uttara Kanda
66
1
यामेव रात्रिं शत्रुघ्नः पर्णशालामुपाविशत् । तामेव रात्रिं सीतापि प्रसूता दारकद्वयम् ।। 7.66.1 ।।
null
Uttara Kanda
66
2
ततो ऽर्धरात्रसमये बालका मुनिदारकाः । वाल्मीकेः प्रियमाचख्युः सीतायाः प्रसवं शुभम् ।। 7.66.2 ।।
null
Uttara Kanda
66
3
भगवन्रामपत्नी सा प्रसूता दारकद्वयम् । ततो रक्षां महातेजः कुरु भूतविनाशिनीम् ।। 7.66.3 ।।
null
Uttara Kanda
66
4
तेषां तद्वचनं श्रुत्वा महर्षिः समुपागमत् । बालचन्द्रप्रतीकाशौ देवपुत्रौ महौजसौ ।। 7.66.4 ।।
null
Uttara Kanda
66
5
जगाम तत्र हृष्टात्मा ददर्श च कुमारकौ । भूतघ्नीं चाकरोत्ताभ्यां रक्षां रक्षोविनाशिनीम् ।। 7.66.5 ।।
null
Uttara Kanda
66
6
कुशमुष्टिमुपादाय लवं चैव तु स द्विजः । वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम् ।। 7.66.6 ।।
null
Uttara Kanda
66
7
यस्तयोः पूर्वजो जातः स कुशैर्मन्त्रसत्कृतैः । निर्मार्जनीयस्तु तदा कुश इत्यस्य नाम तत् ।। 7.66.7 ।।
null
Uttara Kanda
66
8
यश्चावरो भवेत्ताभ्यां लवेन स समाहितः । निर्मार्जनीयो वृद्धाभिर्लव इत्येव नामतः ।। 7.66.8 ।।
null
Uttara Kanda
66
9
एवं कुशलवौ नाम्ना तावुभौ यमजातकौ । मत्कृताभ्यां च नामभ्यां ख्यातियुक्तौ भविष्यतः ।। 7.66.9 ।।
null
Uttara Kanda
66
10
तां रक्षां जगृहुस्ताश्च मुनिहस्तात्समाहिताः । अकुर्वंश्च ततो रक्षां तयोर्विगतकल्मषाः ।। 7.66.10 ।।
null
Uttara Kanda
66
11
तथा तां क्रियमाणां च वृद्धाभिर्जन्म नाम च । सङ्कीर्तनं च रामस्य सीतायाः प्रसवौ शुभौ ।। 7.66.11 ।।
null
Uttara Kanda
66
12
अर्धरात्रे तु शत्रुघ्नः शुश्राव सुमहत्प्रियम् । पर्णशालां ततो गत्वा मातर्दिष्ट्येति चाब्रवीत् ।। 7.66.12 ।।
null
Uttara Kanda
66
13
तथा तस्य प्रहृष्टस्य शत्रुघ्नस्य महात्मनः । व्यतीता वार्षिकी रात्रिः श्रावणी लघुविक्रमः ।। 7.66.13 ।।
null
Uttara Kanda
66
14
प्रभाते सुमहावीर्यः कृत्वा पौर्वाह्णिकीं क्रियाम् । मुनिं प्राञ्जलिरामन्त्र्य ययौ पश्चान्मुखः पुनः ।। 7.66.14 ।।
null
Uttara Kanda
66
15
स गत्वा यमुनातीरं सप्तरात्रोषितः पथि । ऋषीणां पुण्यकीर्तीनामाश्रमे वासमभ्ययात् ।। 7.66.15 ।।
null
Uttara Kanda
66
16
स तत्र मुनिभिः सार्धं भार्गवप्रमुखैर्नृपः । कथाभिरभिरूपाभिर्वासं चक्रे महायशाः ।। 7.66.16 ।।
null
Uttara Kanda
66
17
स काञ्चनाद्यैर्मुनिभिः समेतो रघुप्रवीरो रजनीं तदानीम् । कथाप्रकारैर्बहुभिर्महात्मा विरामयामास नरेन्द्रसूनुः ।। 7.66.17 ।।
null
Uttara Kanda
66
18
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षट्षष्टितमः सर्गः ।। 66 ।।
null
Uttara Kanda
67
1
अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम् । पप्रच्छ च्यवनं विप्रं लवणस्य यथा बलम् ।। 7.67.1 ।।
null
Uttara Kanda
67
2
शूलस्य च बलं ब्रह्मन्के च पूर्वं विनाशिताः । अनेन शूलमुख्येन द्वन्द्वयुद्धमुपागताः ।। 7.67.2 ।।
null
Uttara Kanda
67
3
तस्य तद्वचनं श्रुत्वा शत्रुघ्नस्य महात्मनः । प्रत्युवाच महातेजाश्च्यवनो रघुनन्दनम् ।। 7.67.3 ।।
null
Uttara Kanda
67
4
असङ्ख्येयानि कर्माणि यान्यस्य रघुनन्दन । इक्ष्वाकुवंशप्रभवे यद्वृत्तं तच्छृणष्व मे ।। 7.67.4 ।।
null
Uttara Kanda
67
5
अयोध्यायां पुरा राजा युवनाश्वसुतो बली । मान्धातेति स विख्यातस्त्रिषु लोकेषु वीर्यवान् ।। 7.67.5 ।।
null
Uttara Kanda
67
6
स कृत्वा पृथिवीं कृत्स्नां शासने पृथिवीपतिः । सुरलोकमितो जेतुमुद्योगमकरोन्नृपः ।। 7.67.6 ।।
null
Uttara Kanda
67
7
इन्द्रस्य च भयं तीव्रं सुराणां च महात्मनाम् । मान्धातरि कृतोद्योगे देवलोकजिगीषया ।। 7.67.7 ।।
null
Uttara Kanda
67
8
अर्धासनेन शक्रस्य राज्यार्धेन च पार्थिवः । वन्द्यमानः सुरगणैः प्रतिज्ञामध्यरोहत ।। 7.67.8 ।।
null
Uttara Kanda
67
9
तस्य पापमभिप्रायं विदित्वा पाकशासनः । सान्त्वपूर्वमिदं वाक्यमुवाच युवनाश्वजम् ।। 7.67.9 ।।
null
Uttara Kanda
67
10
राजा त्वं मानुषे लोके न तावत्पुरुषर्षभ । अकृत्वा पृथिवीं वश्यां देवराज्यमिहेच्छसि ।। 7.67.10 ।।
null
Uttara Kanda
67
11
यदि वीर समग्रा ते मेदिनी निखिला वशे । देवराज्यं कुरुष्वेह सभृत्यबलवाहनः ।। 7.67.11 ।।
null
Uttara Kanda
67
12
इन्द्रमेवं ब्रुवाणं तं मान्धाता वाक्यमब्रवीत् । क्व मे शक्र प्रतिहतं शासनं पृथिवीतले ।। 7.67.12 ।।
null