Kanda
stringclasses
7 values
Sarga
int64
1
131
shlok_no
int64
1
8.28k
shlok
stringlengths
29
818
translation
stringlengths
7
1.33k
Uttara Kanda
67
13
तमुवाच सहस्राक्षो लवणो नाम राक्षसः । मधुपुत्रो मधुवने न ते ऽ ऽज्ञां कुरुते ऽनघ ।। 7.67.13 ।।
null
Uttara Kanda
67
14
तच्छ्रुत्वा विप्रियं घोरं सहस्राक्षेण भाषितम् । व्रीडितो ऽवाङ्मुखो राजा व्याहर्तुं न शशाक ह ।। 7.67.14 ।।
null
Uttara Kanda
67
15
आमन्त्र्य तु सहस्राक्षं ह्रिया किञ्चिदवाङ्मुखः । पुनरेवागमच्छ्रीमानिमं लोकं नरेश्वरः ।। 7.67.15 ।।
null
Uttara Kanda
67
16
स कृत्वा हृदये ऽमर्षं सभृत्यबलवाहनः । आजगाम मधोः पुत्रं वशे कर्तुमरिन्दमः ।। 7.67.16 ।।
null
Uttara Kanda
67
17
स काङ्क्षमाणो लवणं युद्धाय पुरुषर्षभः । दूतं सम्प्रेषयामास सकाशं लवणस्य हि ।। 7.67.17 ।।
null
Uttara Kanda
67
18
स गत्वा विप्रियाण्याह बहूनि मधुनः सुतम् । वदन्तमेवं तं दूतं भक्षयामास राक्षसः ।। 7.67.18 ।।
null
Uttara Kanda
67
19
चिरायमाणे दूते तु राजा क्रोधसमन्वितः । अर्दयामास तद्रक्षः शरवृष्ट्या समन्ततः ।। 7.67.19 ।।
null
Uttara Kanda
67
20
ततः प्रहस्य तद्रक्षः शूलं जग्राह पाणिना । वधाय सानुबन्धस्य मुमोचायुधमुत्तमम् ।। 7.67.20 ।।
null
Uttara Kanda
67
21
तच्छूलं दीप्यमानं तु सभृत्यबलवाहनम् । भस्मीकृत्वा नृपं भूयो लवणस्यागमत्करम् ।। 7.67.21 ।।
null
Uttara Kanda
67
22
एवं स राजा सुमहान्हतः सबलवाहनः । शूलस्य तु बलं सौम्य अप्रमेयमनुत्तमम् ।। 7.67.22 ।।
null
Uttara Kanda
67
23
श्वः प्रभाते तु लवणं वधिष्यसि न संशयः । अगृहीतायुधं क्षिप्रं ध्रुवो हि विजयस्तव ।। 7.67.23 ।।
null
Uttara Kanda
67
24
लोकानां स्वस्ति चैव स्यात्कृते कर्मणि च त्वया । एतत्ते सर्वमाख्यातं लवणस्य दुरात्मनः ।। 7.67.24 ।।
null
Uttara Kanda
67
25
शूलस्य च बलं घोरमप्रमेयं नरर्षभ । विनाशश्चैव मान्धातुर्यत्तेनाभूच्च पार्थिव ।। 7.67.25 ।।
null
Uttara Kanda
67
26
त्वं श्वः प्रभाते लवणं महात्मन्वधिष्यसे नात्र तु संशयो मे । शूलं विना निर्गतमामिषार्थे ध्रुवो जयस्ते भविता नरेन्द्र ।। 7.67.26 ।।
null
Uttara Kanda
67
27
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तषष्टितमः सर्गः ।। 67 ।।
null
Uttara Kanda
68
1
कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम् । व्यतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः ।। 7.68.1 ।।
null
Uttara Kanda
68
2
ततः प्रभाते विमले तस्मिन्काले स राक्षसः । निर्गतस्तु पुराद्धीरो भक्ष्याहारप्रचोदितः ।। 7.68.2 ।।
null
Uttara Kanda
68
3
एतस्मिन्नन्तरे वीरः शत्रुघ्नो यमुनां नदीम् । तीर्त्वा मधुपुरद्वारि धनुष्पाणिरतिष्ठत ।। 7.68.3 ।।
null
Uttara Kanda
68
4
ततो ऽर्धदिवसे प्राप्ते क्रूरकर्मा स राक्षसः । आगच्छद्बहुसाहस्रं प्राणिनां भारमुद्वहन् ।। 7.68.4 ।।
null
Uttara Kanda
68
5
ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम् । तमुवाच ततो रक्षः किमनेन करिष्यसि ।। 7.68.5 ।।
null
Uttara Kanda
68
6
ईदृशानां सहस्राणि सायुधानां नराधम । भक्षितानि मया रोषात्कालमाकाङ्क्षसे नु किम् ।। 7.68.6 ।।
null
Uttara Kanda
68
7
आहारश्चास्य सम्पूर्णो ममायं पुरुषाधम । स्वयं प्रविष्टो ऽद्य मुखं कथमासाद्य दुर्मते ।। 7.68.7 ।।
null
Uttara Kanda
68
8
तस्यैवं भाषमाणस्य हसतश्च मुहुर्मुहुः । शत्रुघ्नो वीर्यसम्पन्नो रोषादश्रूण्यवासृजत् ।। 7.68.8 ।।
null
Uttara Kanda
68
9
तस्य रोषाभिभूतस्य शत्रुघ्नस्य महात्मनः । तेजोमया मरीच्यस्तु सर्वगात्रैर्विनिष्पतन् ।। 7.68.9 ।।
null
Uttara Kanda
68
10
उवाच च सुसङ्क्रुद्धः शत्रुघ्नस्तं निशाचरम् । योद्धुमिच्छामि दुर्बुद्धे द्वन्द्वयुद्धं त्वया सह ।। 7.68.10 ।।
null
Uttara Kanda
68
11
पुत्रो दशरथस्याहं भ्राता रामस्य धीमतः । शत्रुघ्नो नित्यशत्रुघ्नो वधाकाङ्क्षी तवागतः ।। 7.68.11 ।।
null
Uttara Kanda
68
12
तस्य मे युद्धकामस्य द्वन्द्वयुद्धं प्रदीयताम् । शत्रुस्त्वं सर्वभूतानां न मे जीवन्गमिष्यसि ।। 7.68.12 ।।
null
Uttara Kanda
68
13
तस्मिंस्तथा ब्रुवाणे तु राक्षसः प्रहसन्निव । प्रत्युवाच नरश्रेष्ठं दिष्ट्या प्राप्तो ऽसि दुर्मते ।। 7.68.13 ।।
null
Uttara Kanda
68
14
मम मातृष्वसुर्भ्राता रावणो राक्षसाधिपः । हतो रामेण दुर्बुद्धे स्त्रीहेतोः पुरुषाधम ।। 7.68.14 ।।
null
Uttara Kanda
68
15
तच्च सर्वं मया क्षान्तं रावणस्य कुलक्षयम् । अवज्ञां पुरतः कृत्वा मया यूयं विशेषतः ।। 7.68.15 ।।
null
Uttara Kanda
68
16
निहताश्च हि मे सर्वे परिभूतास्तृणं यथा । भूताश्चैव भविष्याश्च यूयं च पुरुषाधमाः ।। 7.68.16 ।।
null
Uttara Kanda
68
17
तस्य ते युद्धकामस्य युद्धं दास्यामि दुर्मते । तिष्ठं त्वं च मुहूर्तं तु यावदायुधमानये । ईप्सितं यादृशं तुभ्यं सज्जये यावदायुधम् ।। 7.68.17 ।।
null
Uttara Kanda
68
18
तमुवाचाशु शत्रुघ्नः क्व मे जीवन्गमिष्यसि । शत्रुर्यदृच्छया दृष्टो न मोक्तव्यः कृतात्मना ।। 7.68.18 ।।
null
Uttara Kanda
68
19
यो हि विक्लवया बुद्ध्या प्रसरं शत्रवे ददौ । स हतो मन्दबुद्धित्वाद्यथा कापुरुषस्तथा ।। 7.68.19 ।।
null
Uttara Kanda
68
20
तस्मात्सुदृष्टं कुरु जीवलोकं शरैः शितैस्त्वां विविधैर्नयामि । यमस्य गेहाभिमुखं हि पापं रिपुं त्रिलोकस्य च राघवस्य ।। 7.68.20 ।।
null
Uttara Kanda
68
21
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टषष्टितमः सर्गः ।। 68 ।।
null
Uttara Kanda
69
1
तच्छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः । क्रोधामाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ।। 7.69.1 ।।
null
Uttara Kanda
69
2
पाणौ पाणिं विनिष्पिष्य दन्तान्कटकटाय्य च । लवणो रघुशार्दूलमाह्वयामास चासकृत् ।। 7.69.2 ।।
null
Uttara Kanda
69
3
तं ब्रुवाणं तथा वाक्यं लवणं घोरदर्शनम् । शत्रुघ्नो देवशत्रुघ्न इदं वचनमब्रवीत् ।। 7.69.3 ।।
null
Uttara Kanda
69
4
न शत्रुघ्नस्तथा जातो यथा ऽन्ये निर्जितास्त्वया । तदद्य बाणाभिहतो व्रज त्वं यमसादनम् ।। 7.69.4 ।।
null
Uttara Kanda
69
5
ऋषयो ऽप्यद्य पापात्मन्मया त्वां निहतं रणे । पश्यन्तु विप्रा विद्वांसस्त्रिदशा इव रावणम् ।। 7.69.5 ।।
null
Uttara Kanda
69
6
त्वयि मद्बाणनिर्दग्धे पतिते ऽद्य निशाचर । पुरे जनपदे चापि क्षेममेव भविष्यति ।। 7.69.6 ।।
null
Uttara Kanda
69
7
अद्य मद्बाहुनिष्क्रान्तः शरो वज्रनिभाननः । प्रवेक्ष्यते ते हृदयं पद्ममंशुरिवार्कजः ।। 7.69.7 ।।
null
Uttara Kanda
69
8
एवमुक्तो महावृक्षं लवणः क्रोधमूर्च्छितः । शत्रुघ्नोरसि चिक्षेप स च तं शतधाच्छिनत् ।। 7.69.8 ।।
null
Uttara Kanda
69
9
तद्दृष्ट्वा विफलं कर्म राक्षसः पुनरेव तु । पादपान्सुबहून्गृह्य शत्रुघ्नायासृजद्बली ।। 7.69.9 ।।
null
Uttara Kanda
69
10
शत्रुघ्नश्चापि तेजस्वी वृक्षानापततो बहून् । त्रिभिश्चतुर्भिरेकैकं चिच्छेद नतपर्वभिः ।। 7.69.10 ।।
null
Uttara Kanda
69
11
ततो बाणमयं वर्षं व्यसृजद्राक्षसोरसि । शत्रुघ्नो वीर्यसम्पन्नो विव्यथे न स राक्षसः ।। 7.69.11 ।।
null
Uttara Kanda
69
12
ततः प्रहस्य लवणो वृक्षमुद्यम्य वीर्यवान् । शिरस्यभ्यहनच्छूरं स्रस्ताङ्गः स मुमोह वै ।। 7.69.12 ।।
null
Uttara Kanda
69
13
तस्मिन्निपतिते वीरे हाहाकारो महानभूत् । ऋषीणां देवसङ्घानां गन्धर्वाप्सरसां तथा ।। 7.69.13 ।।
null
Uttara Kanda
69
14
तमवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम् । रक्षो लब्धान्तरमपि न विवेश स्वमालयम् ।। 7.69.14 ।।
null
Uttara Kanda
69
15
नापि शूलं प्रजग्राह तं दृष्ट्वा भुवि पातितम् । ततो हत इति ज्ञात्वा तान्भक्षान्समुदावहत् ।। 7.69.15 ।।
null
Uttara Kanda
69
16
मुहूर्ताल्लब्धसञ्ज्ञस्तु पुनस्तस्थौ धृतायुधः । शत्रुघ्नो वै पुरद्वारि ऋषिभिः सम्प्रपूजितः ।। 7.69.16 ।।
null
Uttara Kanda
69
17
ततो दिव्यममोघं तं जग्राह शरमुत्तमम् । ज्वलन्तं तेजसा घोरं पूरयन्तं दिशो दश ।। 7.69.17 ।।
null
Uttara Kanda
69
18
वज्राननं वज्रवेगं मेरुमन्दरसन्निभम् । नतं पर्वसु सर्वेषु संयुगेष्वपराजितम् ।। 7.69.18 ।।
null
Uttara Kanda
69
19
असृक्चन्दनदिग्धाङ्गं चारुपत्रं पतत्रिणम् । दानवेन्द्राचलेन्द्राणामसुराणां च दारणम् ।। 7.69.19 ।।
null
Uttara Kanda
69
20
तं दीप्तमिव कालाग्निं युगान्ते समुपस्थिते । दृष्ट्वा सर्वाणि भूतानि परित्रासमुपागमन् ।। 7.69.20 ।।
null
Uttara Kanda
69
21
सदेवासुरगन्धर्वं मुनिभिः साप्सरोगणम् । जगद्धि सर्वमस्वस्थं पितामहमुपस्थितम् ।। 7.69.21 ।।
null
Uttara Kanda
69
22
उवाच देवदेवेशं वरदं प्रपितामहम् । देवानां भयसंमोहो लोकानां सङ्क्षयं प्रति ।। 7.69.22 ।।
null
Uttara Kanda
69
23
नेदृशं दृष्टपूर्वं च न श्रुतं प्रपितामह । देवानां भयसम्मोहो लोकानां सङ्क्षयं प्रति ।। 7.69.23 ।।
null
Uttara Kanda
69
24
तेषां तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः । भयकारणमाचष्ट लोकानामभयङ्करः । उवाच मधुरां वाणीं शृणुध्वं सर्वदेवताः ।। 7.69.24 ।।
null
Uttara Kanda
69
25
वधाय लवणस्याजौ शरः शत्रुघ्नधारितः । तेजसा तस्य सम्मूढाः सर्वे स्मः सुरसत्तमाः ।। 7.69.25 ।।
null
Uttara Kanda
69
26
एष पूर्वस्य देवस्य लोककर्तुः सनातनः । शरस्तेजोमयो वत्सा येन वै भयमागतम् ।। 7.69.26 ।।
null
Uttara Kanda
69
27
एष वै कैटभस्यार्थे मधुनश्च महाशरः । सृष्टो महात्मना तेन वधार्थे दैत्ययोस्तयोः ।। 7.69.27 ।।
null
Uttara Kanda
69
28
एक एव प्रजानाति विष्णुस्तेजोमयं शरम् । एषा एव तनुः पूर्वा विष्णोस्तस्य महात्मनः ।। 7.69.28 ।।
null
Uttara Kanda
69
29
इतो गच्छत पश्यध्वं वध्यमानं महात्मना । रामानुजेन वीरेण लवणं राक्षसोत्तमम् ।। 7.69.29 ।।
null
Uttara Kanda
69
30
तस्य ते देवदेवस्य निशम्य वचनं सुराः । आजग्मुर्यत्र युध्येते शत्रुघ्नलवणावुभौ ।। 7.69.30 ।।
null
Uttara Kanda
69
31
तं शरं दिव्यसङ्काशं शत्रुघ्नकरधारितम् । ददृशुः सर्वभूतानि युगान्ताग्निमिवोत्थितम् ।। 7.69.31 ।।
null
Uttara Kanda
69
32
अकाशमावृतं दृष्ट्वा देवैर्हि रघुनन्दनः । सिंहनादं भृशं कृत्वा ददर्श लक्षणं पुनः ।। 7.69.32 ।।
null
Uttara Kanda
69
33
आहूतश्च पुनस्तेन शत्रुघ्नेन महात्मना । लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः ।। 7.69.33 ।।
null
Uttara Kanda
69
34
आकर्णात्स विकृष्याथ तद्धनुर्धन्विनां वरः । तं मुमोच महाबाणं लवणस्य महोरसि ।। 7.69.34 ।।
null
Uttara Kanda
69
35
उरस्तस्य विदार्याशु प्रविवेश रसातलम् ।। 7.69.35 ।।
null
Uttara Kanda
69
36
गत्वा रसातलं दिव्यः शरो विबुधपूजितः । पुनरेवागमत्तूर्णमिक्ष्वाकुकुलनन्दनम् ।। 7.69.36 ।।
null
Uttara Kanda
69
37
शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः । पपात सहसा भूमौ वज्राहत इवाचलः ।। 7.69.37 ।।
null
Uttara Kanda
69
38
तच्च शूलं महत्तेन हते लवणराक्षसे । पश्यतां सर्वदेवानां रुद्रस्य वशमन्वगात् ।। 7.69.38 ।।
null
Uttara Kanda
69
39
एकेषुपातेन भृशं निपात्य लोकत्रयस्यापि रघुप्रवीरः । विनिर्बभावुत्तमचापबाणस्तमः प्रणुद्येव सहस्ररश्मिः ।। 7.69.39 ।।
null
Uttara Kanda
69
40
ततो हि देवा ऋषिपन्नगाश्च प्रपूजिरे ह्यप्सरसश्च सर्वाः । दिष्ट्या जयो दाशरथेरवाप्तस्त्यक्त्वा भयं सर्प इव प्रशान्तः ।। 7.69.40 ।।
null
Uttara Kanda
69
41
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनसप्ततितमः सर्गः ।। 69 ।।
null
Uttara Kanda
70
1
हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः । ऊचुः सुमधुरां वाणीं शत्रुघ्नं शत्रुतापनम् ।। 7.70.1 ।।
null
Uttara Kanda
70
2
दिष्ट्या ते विजयो वत्स दिष्ट्या लवणराक्षसः । हतः पुरुषशार्दूल वरं वरय सुव्रत ।। 7.70.2 ।।
null
Uttara Kanda
70
3
वरदास्तु महाबाहो सर्व एव समागताः । विजयाकाङ्क्षिणस्तुभ्यममोघं दर्शनं हि नः ।। 7.70.3 ।।
null
Uttara Kanda
70
4
देवानां भाषितं श्रुत्वा शूरो मूर्ध्नि कृताञ्जलिः । प्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान् ।। 7.70.4 ।।
null
Uttara Kanda
70
5
इयं मधुपुरी रस्या मधुरा देवनिर्मिता । निवेशं प्राप्नुयाच्छीघ्रमेष मे ऽस्तु वरः परः ।। 7.70.5 ।।
null
Uttara Kanda
70
6
तं देवाः प्रीतमनसो बाढमित्येव राघवम् । भविष्यति पुरी रम्या शूरसेना न संशयः ।। 7.70.6 ।।
null
Uttara Kanda
70
7
ते तथोक्त्वा महात्मानो दिवमारुरुहुस्तदा । शत्रुघ्नो ऽपि महातेजास्तां सेनां समुपानयत् ।। 7.70.7 ।।
null
Uttara Kanda
70
8
सा सेना शीघ्रमागच्छच्छ्रुत्वा शत्रुघ्नशासनम् । निवेशनं च शत्रुघ्नः श्रावणेन समारभत् ।। 7.70.8 ।।
null
Uttara Kanda
70
9
सा पुरा दिव्यसङ्काशा वर्षे द्वादशमे शुभे । निविष्टा शूरसेनानां विषयश्चाकुतोभयः ।। 7.70.9 ।।
null
Uttara Kanda
70
10
क्षेत्राणि सस्ययुक्तानि काले वर्षति वासवः । अरोगवीरपुरुषा शत्रुघ्नभुजपालिता ।। 7.70.10 ।।
null
Uttara Kanda
70
11
अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता । शोभिता गृहमुख्यैश्च चत्वरापणवीथिकैः । चातुर्वर्ण्यसमायुक्ता नानावाणिज्यशोभिता ।। 7.70.11 ।।
null
Uttara Kanda
70
12
यच्च तेन पुरा शुभ्रं लवणेन कृतं महत् । तच्छोभयति शत्रुघ्नो नानावर्णोपशोभिताम् ।। 7.70.12 ।।
null
Uttara Kanda
70
13
आरामैश्च विहारैश्च शोभमानं समन्ततः । शोभितां शोभनीयैश्च तथा ऽन्यैर्दैवमानुषैः ।। 7.70.13 ।।
null
Uttara Kanda
70
14
तां पुरीं दिव्यसङ्काशां नानापण्योपशोभिताम् । नानादेशागतैश्चापि वणिग्भिरुपशोभिताम् ।। 7.70.14 ।।
null
Uttara Kanda
70
15
तां समृद्धां समृद्धार्थः शत्रुघ्नो भरतानुजः । निरीक्ष्य परमप्रीतः परं हर्षमुपागमत् ।। 7.70.15 ।।
null
Uttara Kanda
70
16
तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम् । रामपादौ निरीक्षे ऽहं वर्षे द्वादश आगते ।। 7.70.16 ।।
null
Uttara Kanda
70
17
ततः स ताममरपुरोपमां पुरीं निवेश्य वै विविधजनाभिसंवृताम् । नराधिपो रघुपतिपाददर्शने दधे मतिं रघुकुलवंशवर्धनः ।। 7.70.17 ।।
null
Uttara Kanda
70
18
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्ततितमः सर्गः ।। 70 ।।
null
Uttara Kanda
71
1
ततो द्वादशमे वर्षे शत्रघ्नो रामपालिताम् । अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः ।। 7.71.1 ।।
null
Uttara Kanda
71
2
ततो मन्त्रिपुरोगांश्च बलमुख्यान्निवर्त्य च । जगाम हयमुख्यैश्च रथानां च शतेन सः ।। 7.71.2 ।।
null
Uttara Kanda
71
3
स गत्वा गणितान्वासान्सप्ताष्टौ रघुनन्दनः । वाल्मीक्याश्रममागत्य वासं चक्रे महायशाः ।। 7.71.3 ।।
null
Uttara Kanda
71
4
सो ऽभिवाद्य ततः पादौ वाल्मीकेः पुरुषर्षभः । पाद्यमर्ध्यं तथातिथ्यं जग्राह मुनिहस्ततः ।। 7.71.4 ।।
null
Uttara Kanda
71
5
बहुरूपाः सुमधुराः कथास्तत्र सहस्रशः । कथयामास स मुनिः शत्रुघ्नाय महात्मने ।। 7.71.5 ।।
null